। । श्रीः ॥
॥ श्रीरामचन्द्रपरब्रह्मणे नमः ॥
श्रीमद्वाल्मीकिरामायणम्
श्रीमन्माधवयोगिविरचितया
अमृतकतकाख्यव्याख्ययायुतम्
x
बालकाण्डः
प्रथमः सर्गः
॥ १।१।१ ॥ तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ १ ॥
अमृतकतकव्याख्या
कालहस्तीशमेकाम्रनाथं वेदगिरीश्वरम् ।
स्वमनःप्राणदेहान्तस्स्थितांस्त्रीन्ब्रह्मणो भजे ॥
हैरण्यगर्भं यत्तेजः श्रीप्रजेशावतारितम् ।
चतुर्मुखचतुर्व्यूहं त्रिपदार्थं सदा भजे ॥
अम्बात्र्यष्टाक्षरोल्लासत्र्यष्टश्लोकसहस्रकम् ।
महाषोढात्मकाण्डं यत् तद्रामायणमाद्रिये ॥
असङ्गतव्याकृतिपांसुपङ्किलं
रामायणं तीर्थसमुद्धृतामृतम् ।
योगीन्द्रवाणीकतकाद्विपङ्किलं
सर्वोपकारक्षममस्तु सर्वदा ॥
भो भोः किमिदं रामायणं व्याख्येयं? उत न? यदि प्रयोजनं व्याख्येयं यदि नो, न व्याख्येयम् । प्रयोजनमप्यैहिकमामुष्मिकं वा स्यात् । न तु कृषिवाणिज्यसेवादिना धनधान्यादिवदैहिकं किञ्चित्प्रयोजनं रामायणपाठात्पश्यामः । नाप्यामुष्मिकं निरयं निस्तितीर्षुः स्वरारुक्षुर्मुमुक्षुर्वा रामायणमाम्नेयात् इति श्रुतिस्स्मृतिर्वा न ह्यस्ति, पारलौकिके चार्थे त एव प्रमाणम् ॥
अपि च विशिष्यामुष्मिकश्रेयो ऽर्थिभिरिदमनादर्तव्यं काव्यत्वात् । “काव्यालापांश्च वर्जयेत्” इति स्मृतिघण्टाघोषः । काव्यता चास्याविवादा सर्वलोकस्य ॥
अत्रोच्यते– यत्तावदवादि– निष्प्रयोजनत्वतो न व्याख्येयमिति– तदपेशलम् । एकभुक्तनियमेन गृहोचितब्रह्मचर्येण श्रवणकाले(षु) वीटीचर्वणासत्संभाषणसांसारिकव्यापारान्तरपरित्यागपूर्वं गन्धपुष्पादि पूजितरामायणार्थतत्त्वविन्निजाचार्यात्समग्रश्रद्धाभक्त्युपबृह्मिततया यथाविधि रामायणश्रवणतो मन्त्रायुर्वेदवदपरोक्षमेव सुपुत्रादिप्राप्तिमहारोगविमोचनादीष्टप्राप्त्यनिष्टपरिहारयोरतिप्रसिद्धत्वात् ॥
अपि च गृहक्षेत्रादिबलारोग्यादिबाह्यान्तरार्थसिद्धिद्वादशकोचितपल्लवैः तथा द्वेषभेदादिक्रियासिद्धिद्वाशकोचितपल्लवैश्च शास्त्रसिद्धैरुपेततया अम्बाया उपासने उक्तसिद्धीनां शास्त्रसिद्धत्वात् । अपरोक्षानुभवसिद्धत्वाच्च । अम्बाविलासभूतरामायणध्यानेनापि यथोक्तार्थसिद्धेर्न्यायप्राप्तत्वाच्च । कार्यभूतप्रकृतिरपि यथाकारणं यथाबलं तमोनिवृत्त्यादिप्रयोजनकरणम् ॥
यच्चावादि रामायणस्यामुष्मिकार्थसाधकत्वे प्रमाणाभाव इति– तदप्यसुष्ठु । “इदं पवित्रं पापघ्नं” इत्यादि “जनश्च शूद्रो ऽपि महत्वमीयात्” इत्यन्तैः श्लोकैरामुष्मिकानिष्टपरिहारेष्टप्राप्तिप्रकाशनस्य यथोचितैहिकार्थसाधकत्वस्य च सुस्पष्टमत्रैव श्रूयमाणत्वात् । तथा “शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा” इति शतकोटिप्रविस्तरब्राह्मालौकिकमूलरामायणवचनतो ब्रह्मलोकावाप्तेरतिप्रकाशत्वात् । तथा ग्रन्थान्तरे च सकलैहिकामुष्मिकफलसाधकत्वस्मरणाच्च ॥
न च स्वस्मिन् स्वयमेव प्रमाणमिति न युज्यत इति– परमाप्तपरमर्षिप्रणीतत्वेन रामायणमात्रस्य प्रामाणिकत्वे सिद्धे स्वविषयकत्वे ऽन्यविषयकत्वे च तत्प्रतिपाद्यार्थस्य प्रमाणत्वात् । यथा सिद्धप्रामाण्यया श्रुत्या “वाचा विरूपनित्यया” “अनन्ता वै वेदाः” इत्यादिवाक्यैः प्रतिपाद्यमाने वेदनित्यत्वे भगवदहर्भेदवशात्तदुचितसन्निवेशविशेषं जानात्येव, सैव प्रमाणम् ॥
अपि चाम्बया ब्रह्मानुसन्धानवशाद्ब्रह्मलोकावाप्तिवदम्बाविलासरामायणेन ब्रह्मलीलाविलासावतारवैभावानुसन्धानेन च विभूतिसंपत्तिरपि न्यायसिद्धा । “देवो भूत्वा देवानप्येति” तथा “देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि” इत्यादेश्च । ब्रह्मावतारो भगवान्राम इति च सुस्पष्टम् । प्रक्रमे पुत्रकामेष्टिना यज्ञेन सुप्रीतेन ब्रह्मणा स्वस्यैव तेजसः स्वीयपुरुषद्वारा प्रदापितस्याविर्भावितलीलाविग्रहत्वात् । अन्ते च “रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति” इति ब्रह्मलोकप्राप्तेश्च सुस्पष्टत्वात् । भगवतों ऽशावतारत्वस्य च स्वशक्त्यं शातिघोरांशस्य शक्तित्वाविशेषप्राप्तस्य शोधनेन दिव्यशक्तितासंपादनं प्रयोजनम् । देवीघोरांशं तच्छोधनं च संप्रदायविदो विदुः ॥
ननु किमस्ति यथाधीतमन्त्रस्य शोधनमपि? किं न शृणोषि? “अभि नो वीरो अर्वति क्षमेत । प्रजायेमहि रुद्र प्रजाभिः” इति यथाधीतमन्त्रस्य ब्राह्मणेन शोधनं क्रियते । “त्वं नो वीरो अर्वति क्षमेथा इति ब्रूयान्नाभि न इति । अनभिमानुको हैष देवः प्रजा भवति । प्रजायेमहि रुद्रिय प्रजाभिः इति ब्रूयान्न रुद्रेत्येतस्यैव नाम्नः परिहृत्यै” इत्याद्यम् । एवमेव श्रीमद्रहस्योपनिषदादौ शोधनादि । प्रयोजनाय शोधनाद्युपायोप्युदेति । ततो ऽस्ति । तत्र
दशरथपुत्रप्रतिबन्धादिः प्रथमपादघोरांशकृतः । राज्यापहारवनवासादिः द्वितीयपादघोरांशकृतः । सीतापहारादिस्तृतीयपादघोरांशकृतः । किं बहुना सर्वमेव रामचरितं अस्मदादीनामम्बाक्षरार्थविद्योगिनामम्बाक्षरार्थसुप्रोतसुदर्शनं" आप्ततमशिष्याणां च । तत् स्थितं सार्थकत्वं व्याख्येयबीजम् ॥
यच्चावादि– काव्यकृतेरनुपादेयतेति– अत्र ब्रूमः– उभयथा ऽस्ति काव्यशब्दः “कबृवर्णनस्तुत्योः” इत्यस्मादौणादिककिप्रत्ययजनितकविशब्दादुत्पन्नः चित्तविकृतिजनिद्वारा ऽगम्यगमनान्तमहानर्थहेतुयोषिदासवाद्यसद्विषयवर्णनासन्मनुष्यस्तुत्यादिप्रतिपादकग्रन्थसन्दर्भविशेषार्थक एकः काव्यशब्दः । अपरस्तु वारि वहतीति वलाहक इतिवत् “क्रान्तं वेत्तीति कविः” इत्यतीन्द्रियतत्त्वार्थविदः अनुग्रहाय तत्प्रवक्तारो व्यासादयः पृषोदरादिवत्साधुनानेन कविशब्देनोच्यन्ते । तस्येयं कृतिः कर्म काव्यमिति ब्राह्मणादेराकृतिगणत्वात् कर्मणि ष्यञन्तः । तस्यास्य काव्यस्य चतुर्विधपुरुषार्थसाक्षात्साधनत्वेन सर्वप्रयत्नोपसङ्ग्राह्यत्वात् रामायणस्य तथात्वस्य प्रागेव प्रतिपादितत्वात् इतरकाव्यकोट्यनभिनिवेशः ॥
एवं विशिष्टविषयप्रयोजनवदिदं किमधिकारम्? त्रैवर्णिकाधिकारम् । त्रिपदाविलासत्वात् ॥
ननु त्रैवर्णिकस्य स्वकुलदैवतब्रह्मानुसन्धानस्य स्वकुलविद्ययैव सिद्धत्वात् किमेतेन? उच्यते– पञ्चाङ्गसन्ध्यावन्दनाद्यनुष्ठानरहितेन त्रैवर्णिकेन अम्बया ब्रह्मशक्त्यनुसन्धानं प्रातर्मध्याह्नसन्ध्ययोश्चैव तयानुसन्धानं समस्तवैश्वदेवप्राणाग्निहोत्राद्यनन्तरं पुनस्सायंसन्ध्यावन्दनपर्यन्तमम्बया ब्रह्मानुसन्धान(योगात्)म् । तत्र च काले तेषां भगवदनुसन्धानप्रयोजनं च भवति । अतिमानुषभगवद्रामचन्द्रचरितश्रवणेन प्रत्यक्षसन्तोषभक्त्यतिशयपापक्षयादिश्च भवति । अपि चाम्बानधिकृतब्राह्मणीब्रह्मकुलदाससच्छूद्राणामपि पुण्यलोकादिप्राप्तिहेतुभगवच्छ्रवणं सप्रयोजनं भवति । तदपीहाङ्गीकृतमेव “जनश्च शूद्रो ऽपि महत्त्वमीयात्” इति । एवं चतुर्णामाश्रममात्राधिकारम्, न सङ्कराधिकारम् अम्बासम्बन्धिसम्बन्धस्याप्यभावात् ॥
अथ काव्यविषयस्य रामचरितस्य काव्यस्य च प्रतिपाद्यप्रतिपादकभावस्सम्बन्धः । उक्तप्रयोजनस्य काव्यस्य च साध्यसाधनभावस्सन्बन्धः । एवं समग्रप्रवृत्त्यंशोपेतं रामायणं व्याख्येयं प्रतिष्ठितम् ॥
अथादिकविर्वाल्मीकिर्दिव्यकाव्यकृतिशक्तये कृतकाष्ठसमाधिसाधितपरमादृष्टसुप्रीतभगवन्नियोगसमुपागतं देवर्षिं नारदं दिव्यं काव्यनायकं पृच्छति स्म । पृष्टस्स यथावद्भगवन्मुखश्रुतं तद्दिव्यकाव्यविषयं प्रपञ्चश्रुतं तदीयचरितञ्चानुस्मृत्य संक्षिप्योपदिश्य अथ सरहस्यो ऽशेषो ऽस्य विस्तरः स्वतः प्रतिभात्वित्यनुगृह्य यथागतं जगाम । ततस्तदनुग्रहस्मृतित्रिपदावलम्बनेन भगवत्प्रपञ्चितं रामचरितं सरहस्यं निरवशेषमनुस्मृत्य स्वयमपि त्रिपदावलम्बनेनैव चतुर्विंशतिसाहस्र्या समग्रहीत् ॥
तस्यास्य दिव्यकाव्यस्याद्यसर्गो वाल्मीकेर्नारदस्योपदेशः । तत्र च “नापृष्टः कस्य चिद्ब्रूयात्” इति न्यायेनापेक्षितप्रश्नाक्षेपः “तपस्स्वाध्यायेत्यादि “श्रुत्वा चैतत्” इत्यन्तो ग्रन्थः । अत्र– तपस्त्वेन श्रुतः स्वाध्यायः तपस्स्वाध्यायः । श्रूयते च तथा– “तप एव तत्तप्यते । तपो हि स्वाध्यायः” इति । उक्तश्रुत्यर्थसिद्धस्वाध्यायस्य तपस्त्वमापस्तम्बश्च स्मरति– “तपस्स्वाध्याय इति ब्राह्मणम् । तत्र श्रूयते “तपो हि स्वाध्यायः” इति । स्वाध्यायश्चाप्रायत्यानध्ययनकालदेशादिपरिहारादिनियमोपेततया स्वशाखाध्ययनम् । तस्मिन्निरतः तदभ्यासनिरत इति यावत् । अत्र तपश्च स्वाध्यायश्च तपस्स्वाध्यायौ तयोर्निरत इति द्वन्द्वस्तूपेक्ष्यः । गौणतपोविशिष्टैकपरपुंविशेषप्रसिद्धमुनिपुङ्गवशब्देनैव तपस्सम्पत्तिमत्तायास्सिद्धत्वात् । अन्वयेन मृदुमतिसौकर्याय व्याकुर्मः । वाग्विदां स्वरूपतो ऽर्थतश्च शब्दब्रह्मतत्त्वविदां पाणिनिपतञ्जल्यादीनाम् । निर्धारणे षष्ठी । वरं– तदन्यूनतया तत्त्वविदमिति यावत् । मुनिशब्दो व्याकृतार्थः । मुनिपुङ्गवमिति । “सप्तमी” इति योगविभागात्समासः । “न निर्धारणे” इति निषेधात् षष्ठीसमासो ऽशक्याश्रयः । पुमांश्चासौ गौश्च पुङ्गव इति, “गोरतद्धितलुकि” इति टप् समासान्तः । व्युत्पत्तिमात्रमिदं । श्रैष्ठ्ये रूढस्तु पुङ्गवशब्दः । एवंविशिष्टं नारदं । तपस्वी गौणमुख्यतपोयुक्तः । तत्र तप इति “तपो ना ऽनशनात्परम्” इति श्रूतेः कृच्छ्रचान्द्रायणैकादश्युपवासादिलक्षणं मुख्यतपः । “मनसश्चेन्द्रियाणाञ्च ह्यैकाग्र्यं परमं तपः” इत्यादिश्रुतं गौणम् । एवंभूतो वाल्मीकिः पप्रच्छेत्यन्वयः । अत्र प्रष्टुरुक्तविशेषणेन दिव्यकाव्यविषयादिश्रवणाधिकारसम्पत्तिर्द्योतिता । वक्तुरप्युक्तविशेषणैः क्रमात्प्रतिपादनापेक्षितं सर्वज्ञत्वं वाग्मित्वं च प्रतिपादितम् । ग्रहणधारणसिद्धिहेतुशिष्यानुग्रहशक्तिमत्वं च प्रतिपादितम् ॥ १।१।१ ॥
॥ १।१।२ ॥ को न्वस्मिन् सांप्रतं लोके गुणवान् कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ २ ॥
किं पप्रच्छेत्यतः प्रश्नाभिनयः– को न्वस्मिन्नित्यादि । नुशब्दो वितर्के । सांप्रतं संप्रतिपर्यायं स्वरादित्वादव्ययं । वर्तमानकाले ऽस्मिन् लोके भूलक्षणे को नु गुणवान्? भूमप्रशंसादौ मतुप् । सहजनित्यानन्द(नित्य)कल्याणगुणवान् को नु दिव्यः पुरुषः? अस्यैव प्रपञ्चः कश्च वीर्यवानित्यादि । दिव्यास्त्रबलादिजः शक्तिविशेषो वीर्यम् । वीर्यवदिदमौषधमित्यादौ शक्तिविशेषे सुप्रसिद्धो वीर्यशब्दः । सकृद्व्याकृतश्शब्दः पुनर्न व्याख्यायते ग्रन्थगौरवात् । अतस्तत्र सा व्याकृतिर्हृदि धार्या । धर्मज्ञश्च श्रौतस्मार्तसकलधर्मरहस्यज्ञश्च । बह्वीमप्यपकृतिमुपेक्ष्य एकामप्युपकृतिं बह्वीयसीं मन्यत इति कृतज्ञः । सत्यवाक्यः यथाश्रुतदृष्टार्थवक्ता । दृढव्रतः आपद्यपि धर्माय परिगृहीतव्रतविशेषशैथिल्यरहितः ॥ १।१।२ ॥
॥ १।१।३ ॥ चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कः समर्थश्च कश्चैकप्रियदर्शनः ॥ ३ ॥
“अर्तिलू” इत्यादिना इत्रप्रत्ययान्तो वृत्तसंपत्तिवाची चरित्रशब्दः । तस्माद्वायसादिवत्स्वार्थिको ऽण् । तेन को युक्तः? सर्वभूतेषु सर्वप्राणिषु । “यतश्च निर्धारणम्” इति सप्तमी । कः प्राणी पुमान् हितः– सर्वस्मै हितः । ऐहिकामुष्मिकहितावहः । तथात्वं च भगवत एव समस्ति यतो रावणस्यापि परलोकहितमवाक्षीत् । कश्चिदिह सर्वप्राणिष्वपि हितकरणशील इति हितशब्दयोगमावृत्तसर्वभूतशब्दस्याह– तदसत्– हितयोगे चतुर्थ्या भाव्यत्वात् । को विद्वान् आत्मानात्मसकलपदार्थतत्त्वज्ञः । “विदेश्शतुर्वसुः” । सामर्थ्यं– लौकिकव्यवहारे प्रजारञ्जनादौ चातुर्यं, तद्वान् । अतिकामसौन्दर्यतो नित्यसौमुख्यतश्च एकरूपतया प्रियं दर्शनं यस्य स तथा । एकं प्रति प्रियं दर्शनं यस्यासौ एकप्रियदर्शन इति कश्चित् । तेनानेन किं प्राशस्त्यं प्रतिपादितं स्वदासादिकमेकं मुक्त्वा सर्वाप्रियत्वस्य प्रतिपादनात् ॥ १।१।३ ॥
॥ १।१।४ ॥ आत्मवान् को जितक्रोधो द्युतिमान् को ऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥ ४ ॥
आत्मवान् वशी जितान्तःकरणः । क्रोधः त्रिविधजिघांसा । जितक्रोधः त्रिविधजिघांसा विहितापि व्यर्थहिंसाप्रसङ्गरहित इति यावत् । द्युतिः सर्वलोकदिदृक्षाजननी देहसौन्दर्यकान्तिविशेषलहरी तद्वान् । अनसूयकः विद्यौन्नत्यादिपरौन्नत्यासहनमसूया, तद्रहित इति यावत् । असु उपतापे इत्यस्मात्कण्वादियगन्तात् ण्वुलि अनसूयक इति । संयुगे यथाप्राप्तयुद्धकाले जातरोषस्य कस्य रोषद्दोवा अपि इन्द्रादयो ऽपि बिभ्यति । अभ्यस्तत्वाददादेशः । अविषयानस्मानपि भगवत्क्रोधस्संहरिष्यतीति भयं प्राप्नुवन्तीत्यर्थः । एवं पाङ्क्ते मार्गे स्थिते– कस्येति षष्ठी ऋषिवचनत्वादित्याह कश्चित् ॥ १।१।४ ॥
॥ १।१।५ ॥ एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थो ऽसि ज्ञातुमेवंविधं नरम् ॥ ५ ॥
उक्तगुणजातसामान्यनिर्देशापेक्षया एतदिति नपुंसकम् । यदेतदुपन्यस्तं तदेतद्दिव्यपुरुषगुणजातं त्वेतादृशस्यास्तीति श्रोतुमहमिच्छामि । उक्तगुणसामग्र्या एकत्रातिदुर्लभत्वात्तादृशविशेषजिज्ञासायां मे परं– सर्वस्मादपि कौतूहलान्तरादुत्कटं कौतूहलं वर्तते एवं पाङ्क्ते एवमितिपाठः सम्यगिति कश्चित् । ननु कथं त्वत्पृष्टस्सर्वो मया शक्यप्रत्युत्तर इत्यतो महर्ष इत्यादि । हे महर्षे अपरोक्षातीन्द्रियाशेषार्थ इदं हेतुगर्भविशेषणम् । हि यस्मात् त्वमेवंविधं यथोक्तकल्याणगुणाकरं नरं दिव्यपुरुषं ज्ञातुं समर्थो ऽसि सर्वलोकप्रसिद्धसामर्थ्यो ऽसि तस्मात्त्वत्त एव श्रोतुमिच्छामीति पूर्वेणान्वयः ॥ १।१।५ ॥
॥ १।१।६ ॥ श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥ ६ ॥
श्रुत्वेति ॥ त्रिलोकज्ञः भूर्भुवः स्वर्लोकलक्षणांस्त्रीन् लोकान् तत्रत्यवृत्तान्तांश्च जानातीति तथा । एवमत्र समाहारद्विगुत्वाभावान्न ङीप् । नारदो वाल्मीकेः एतत् यथोक्तरूपं वचः श्रुत्वा श्रूयतामिति चामन्त्र्य सम्बोध्य स्वरहस्यस्य चिरप्रतिपिपादयिषितस्य प्रतिपादनलाभेन प्रहृष्टो भूत्वा वक्ष्यमाणलक्षणं वाक्यमब्रवीत् । अत्र कूजन्तमित्यादिपुराणपाठीयान् श्लोकानपि व्याकुर्वन् तत्र वाल्मीकिशब्दो ऽपत्यार्थे ऽपि साधुः, गहादिपाठादित्याह । तदेतद्गहादिपाठस्य वाल्मीकिशब्दो ऽपि छप्रत्ययप्रकृतिरित्येतावन्मात्रसमर्थत्वेन तदीयव्युत्पत्तिविशेषे औदासीन्यात् । कथं तर्हि तस्य साधुता? बाह्वादीञन्तत्वादेव । कथं बाह्वादिपाठस्य न? कारान्तता उपपद्यते? इञन्तत्वात् । क्वचित् “अत इञ्” अपवादापवादार्थत्वात् । सुमित्रादौ प्रत्ययान्तरबाधनार्थत्वात् । गणत्वेन क्वचिदनपत्यार्थे ऽपीञन्तत्वाच्च । यद्वा ऽयमप्यपत्यार्थेञन्तः । कथं? वल्मीकगर्भान्निर्गतत्वोपाधिना वल्मीकापत्यत्वस्य गोणीपुत्रः कलशीसुत इत्यादिवत्सुवचत्वात् । यद्वा वल्मीको नाम कश्चिदृषिः तस्यापत्यमिति वा । यद्वा दाडिमादिवदव्युत्पन्नः केवलसञ्ज्ञाशब्दः । यद्वा दैवगत्या किञ्चिदवयवव्युत्पत्तेश्च सत्वात्पङ्कजादिवद्योगरूढो वा ॥ १।१।६ ॥
॥ १।१।७ ॥ बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुध्वा तैर्युक्तः श्रूयतां नरः ॥ ७ ॥
त्वया ये बहवो गुणाः कीर्तिताः, त एते प्राकृतपुरुषमात्रे दुर्लभा एव । अथ च अथापि हे मुने यस्तैर्युक्तः तं बुध्वा स्मृत्वा ऽहं वक्ष्यामि । तादृशो नरः श्रूयताम् । प्राप्तकाले लोट् । तस्य श्रवणं ते प्राप्तकालमित्यर्थः ॥ १।१।७ ॥
॥ १।१।८ ॥ इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥ ८ ॥
इक्ष्वाकुवंशात्प्रभवः आविर्भावो यस्य स तथा । रामो नाम राम इति प्रसिद्धः जनैश्च तथा श्रुतो ऽस्ति कश्चित् । तस्मिन्नेवैकत्र सर्वे त्वत्पृष्टा गुणा इति शेषः । त एते गुणाः त्वदपृष्टानेकगुणाश्च, अनन्तकल्याणालयत्वं रामस्य द्योतयितुं प्रतिपाद्यन्ते– नियतेत्यादि । नियतात्मा निगृहीतान्तःकरणः । वीर्यादिकं व्याकृतम् । आपत्सम्पदोरविकृतिश्चित्तस्य धृतिः तद्वान् । वशी जिताशेषबहिःकरणः ॥ १।१।८ ॥
॥ १।१।९ ॥ बुद्धिमान् नीतिमान् वाग्मी श्रीमान् शत्रुनिबर्हणः ।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥ ९ ॥
बुद्धिः तत्त्वज्ञानसाधनं सत्त्वप्रधानमन्तःकरणम् । सर्वत्रात्र प्रशंसादौ यथायोगं मतुप् । बुद्धेः प्राशस्त्यं सकृद्गृहीताविस्मरणावापोद्वापादिशक्तिमत्त्वम् । नीतिः कामन्दकादिप्रसिद्धराजनीतिः । वाग्मी “वाचो ग्मिनिः” प्रशस्तवाक् । त्रिलोकशेखरीभूतनिजशासन इति यावत् । श्रीमान् शोभैश्वर्योभयप्रकारनिस्तुलाधिकश्रीयुक्तः । शत्रुनिबर्हणः शत्रूणां बाह्यान्तराणां यथाकालं यथोचितं निबर्हणः । “कृत्यलुटो बहुलम्” इति कर्तरि ल्युट् । धातूनामनेकार्थत्वान्निपूर्वो ब्रूहिर्हिंसार्थः । विपुलांस इत्यादिना सामुद्रिकं लक्षणं कथ्यते । इदमपृष्टगुणकथनम् । विपुलः विशालः उत्कृष्टः उन्नतः असः भुजशिरो यस्य स तथा । “स्कन्धो भुजशिरों ऽसौ ऽस्त्री” इति निघण्टुः । तदुन्नतत्वं सुलक्षणम् । तथा ऽ ऽह वररुचिः–
“कक्षः कुक्षिश्च वक्षश्च घ्राणः स्कन्धो ललाटिका ।
सर्वभूतेषु निर्दिष्टा उन्नतास्तु सुखप्रदाः ॥ "
इति । महाबाहुः । “आन्महत” इत्यात्वम् । तत् ब्रह्मत्वलक्षणम् । तथा हि–
“शिरो ललाटश्रवणे ग्रीवा वक्षश्च हृत्तथा ।
उदरं पाणिपादौ च पृष्ठं दश बृहत्सुखम् ॥ "
इति ब्राह्मे । कम्बुवद्रेखात्रयविशिष्टा ग्रीवा यस्य स तथा । कम्बुः शङ्खः । हनुः कपोलोपरिभागः । तस्य महत्त्वं मांसलत्वम् । तच्च लक्षणम्– “पूर्णमांसलहनुस्तु भूमिपः” इति संहितायाम् ॥ १।१।९ ॥
॥ १।१।१० ॥ महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।
आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः ॥ १० ॥
महत् विशालं उरः यस्य स तथा । “उरः प्रभृतीनि” इति नित्यः कप् । “उरश्शिरो ललाटश्च” इत्यारभ्य “विशालास्ते सुखप्रदाः” इति शास्त्रम् । महेष्वासः महान् इष्वासः घनुरस्य । अस्यतेः करणे घञ् । गूढे मांसलत्वान्मग्ने जत्रुणी वक्षांससन्धिगतास्थिनी यस्य स तथा । अरीन् पापान्तरायादिलक्षणान्निजभक्तानां दमयतीति अरिन्दमः । “सञ्ज्ञायां भृतृ৷৷।” इत्यादिना दमेः खच् । अरिन्दम इति राज्ञो ऽन्वर्थसञ्ज्ञा । शत्रुञ्जयो हस्तीत्यादिवत् । आजानुबाहुः जानुपर्यन्तदीर्घबाहुः । “दीर्घभ्रूबाहुमुष्कश्च चिरञ्जीवी धनी नरः” इति ब्राह्मे । शिरसस्सुष्ठुत्वं समवृत्तत्वम् । तच्च लक्षणम् ।
“समवृत्तशिराश्चैव छत्राकारशिरास्तथा ।
एकछत्रां महीं भुङ्क्ते दीर्घमायुश्च विन्दति ॥ "
इति नारदः । सुललाटः ललाटस्य रेखाविशेषवत्वं सौष्ठवम् । तच्च लक्षणम्–
“ललाटे यस्य दृश्यन्ते चतुस्त्रिद्व्येकरेखकाः ।
शतद्वयं शत षष्टिस्तस्यायुर्विंशतिस्तथा” । ।
इति कात्यायनः । विक्रमः पदविक्षेपः तस्य सौष्ठवं गम्भीरत्वम् । तच्च लक्षणं–
“स्वरो गतिश्च नाभिश्च गम्भीरः स प्रशस्यते” इति ब्राह्मे ॥ १।१।१० ॥
॥ १।१।११ ॥ समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥ ११ ॥
समः नातिदीर्घो नातिह्रस्वः । “षण्णवत्यङ्गुलोत्सेधो यः पुमान् स दिवौकसाम्” इति ब्राह्मे । अंश इति शेषः । समानि अन्यूनानधिकपरिमाणानि विभक्तानि पृथक्कृतानि अंगानि यस्य स तथा । कानि पुनस्तानि?
“भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ च चूचुकौ ।
कूर्परौ मणिबन्धौ च जानुनी वृषणे कटी ।
करौ पादौ स्फिजौ यस्य समौ ज्ञेयस्स भूपतिः”
इत्युक्तानि । स्निग्धवर्णः स्निग्धश्यामलवर्ण इति यावत् । तत्फलं “स्निग्धेन्द्रनीलवर्णस्तु भोगं विन्दति फुष्कलम्” इति । प्रतापः स्मृतिमात्रतः अरिहृदयविदारणक्षमं पौरुषम् । “प्रतापौ पौरुषातपौ” इति निघण्टुः । पीनवक्षाः मांसलसमोन्नतवक्षाः । तादृशवक्षस्त्वस्य सुलक्षणत्वं प्रागेवोक्तम् । “प्यायः पी” “ओदितश्च” इति निष्ठानत्वम् । विशालाक्षः विस्तृतायताक्षः । “बहुव्रीहौ सक्थ्यक्ष्णोः” इति वच् । “नासिका चक्षुषी कर्णौ प्रजानू यस्य चायताः” इति लक्षणशास्त्रम् । लक्ष्मीवान् सीतारूपलक्ष्मीशक्तिमान् । मोपघत्वाद्वत्वम् । एवमुक्तनित्यशुभानि सामुद्रिकशास्त्रोक्तानि लक्षणानि यस्य स तथा ॥ १।१।११ ॥
॥ १।१।१२ ॥ धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसंपन्नः शुचिर्वश्यस्समाधिमान् ॥ १२ ॥
धर्मज्ञकृतज्ञौ व्याकृतौ । सत्याः अमोघाः सन्धाः– “सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम” इत्येवामादिरूपिण्यः प्रतिज्ञाः यस्य स तथा । प्रजानामित्यादि गतार्थम् । यशस्वी रावणवधादाचन्द्रतारकानस्तमितदिव्ययशस्सम्पन्नः । असन्ततत्वादिनिः । ज्ञानसंपन्नः विशिष्य ब्रह्मानन्यताज्ञानपरिपूर्णः । तथा हि विशिष्य ब्रह्मदर्शनमूलं वचनं जटायुषं प्रति “मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्” इति । येभ्य उत्तमा न विद्यन्ते ते अनुत्तमाः ब्रह्मलोका इति यावत् । तथा च श्रुतिः “अथ यदतः परो दिवो ज्योतिर्दीप्यते सर्वतः पृष्ठेष्वनुत्तमेषु” इति । ननु कथं “आत्मानं मानुषं मन्ये रामं दशरथात्मजम्” इति रामवचनम्? ब्रह्मज्ञानवत्वे का द्रुष्टिः । मानुषदेहोपाधिवशात् यदा रजस्तमस उद्रेकस्तदा ऽसमाधिदशायां निजतत्वविस्मरणं स्यात् स्वप्ननिद्रयोरिव । तथा हि गीयते– " न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः” इति । एवं सति उक्तकादाचित्कमानुषभावस्य अभावप्रतिपादनवृथाक्लेशः कस्यचित्केवलं श्राद्धः । तच्चासत्– सीताविरहजप्रलापादीनां सर्वथैवामानुषभावे ऽतिदुर्घटत्वात् । यथोक्तब्रह्मज्ञानसंभवाय त्रीणि विशेषणानि– शुचिरित्यादीनि । प्रातस्स्नानादिपूर्वकगायत्रीजपादिना रेचकपूरकाभ्यासादिना प्रत्याहारजनितरागद्वेषहानेन च नित्यशुद्धस्थूलसूक्ष्मान्तरपरिकरत्रयः । वश्यः– वशंगत इति यावत् । अकृतकानन्यतायोगेन ब्रह्मतावशं गतः । समाधिमान्– यथेच्छं साकारनिराकारनिजब्रह्मतत्त्वसमाधिमान् । समा एकीभूता या परेण ब्रह्मणा चित्तस्य आधिः धारणं समाधिः । निवातनिश्चलदीपवच्चित्तस्य लक्ष्याचलस्थितिरिति यावत् । अत्र वश्य इति आश्रितपरतन्त्र इति समाधिमान् प्रतिज्ञावान् इति चाह कश्चित् । तदसत् । सत्यसन्ध इति प्रतिज्ञावत्वस्य गतत्वाच्च । आश्रितपारतन्त्रस्यानुग्राहकत्वमात्रतात्पर्यतः पारतन्त्र्यस्य मिथ्यात्वाच्च ॥ १।१।१२ ॥
॥ १।१।१३ ॥ प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता । ।
प्रजापतिसमः । यद्यपि प्रजापतिसमविष्णुभूमिविराट्प्रधानब्रह्मावतारो रामो भगवान् प्रजापतिर्ब्रह्मैव– अथापि मानुषवैराजलोकदेहावतारोपाधितस्तदुपाधिसंसर्गजानां धर्माणां सीतामूलमोहशोकादीनां “इमौ तौ मुनिशार्दूल किङ्करौ समुपस्थितौ” इत्यादिपारतन्त्र्यादीनां आदेहपातमुपाधिप्रयुक्ताशेषनिजनित्यकर्मणां च क्रियतां अब्रह्मधर्माणामसमाधिकालेष्वनुवर्तनादस्त्येव चोभयोर्भेदः । अथापि भार्गवलोकप्रतिबन्धजटायुलोकप्रदानविभीषणशाश्वतराज्यप्रदानहनूमदाकल्पनित्यत्वभाविकार्यब्रह्मत्वदानसमुद्रसेतुबन्धनस्वावतारानुयायिस्वभूमविग्रहसर्वदेवावतार (पूर्व) सर्वसेव्यत्वसशरीरसपरिकरब्रह्मलोकनिर्याणान्तानां वयमस्मद्देहानामिव स्वकभूमाविग्रहब्रह्माण्डयात्रादिस्वतन्त्रब्रह्मैकसाध्यानां भूयसां ब्रह्मधर्माणां रामोपाधावपि लोकस्य ब्रह्मावतारताप्रत्यायनायाविर्भावितत्वाद्वा ब्रह्मसमत्वम् । नैवं धर्माः कृष्णाद्यवतारे ऽपि । स तु प्रजापतिविष्णुप्रधानः । तथैव तेनैव भगवतोपदिष्टम्– “महर्षयस्सप्त पूर्वे चत्वारः” इत्यादिना गीतायाम् । श्रीमान् एवमादीनां भगवत्कल्याणगुणानामादरातिशयजपौनःपुन्यकीर्तनमभ्युदयहेतुतो ऽलङ्काराय न दोषगन्धाय । अतः परं व्याकृतपदमतिस्पष्टं पाङ्क्तान्वयश्च न दोषगन्धाय । अतः परं व्याकृतपदमतिस्पष्टं पाङ्क्तान्वयश्च त्यज्यते । धाता योगरूढ्या । तथा हि– “रामाय रामभद्राय रामचन्द्राय वेधसेऽ इति (च) ब्रह्मत्वादिदानीमौपाधिरामविग्रहेणापि पितेव सर्वप्रजाधारणाच्च । रिपुनिषूदन इति । “नन्द्यादिभ्यो ण्यन्तेभ्यस्सञ्ज्ञायाम्” इति वचनात् एवमादौ वा सञ्ज्ञायाम् । तथा हि रिपुं निषूदयतीति रिपुनिषूदन इत्यण्यन्तात्कर्तरि नन्द्यादिल्योरयोगात् “कृत्यलुटो बहुलम्” इत्येव सर्वतो ल्युट् द्रष्टव्यम् । सुषामादित्वात् इह षत्वम् । जीवा ऊर्ध्वस्रोतोलक्षणाः– तेषां लोकः समूहः– तस्य अन्नपानादिदानचोराद्युपद्रवत्राणादितः स्थूलदेहरक्षिता । धर्मः श्रौतस्मार्तरूपः । तस्य जीवलोकस्य यो नित्यप्राप्तो वर्णाश्रमधर्मः तस्य तत्तन्मर्यादापालनद्वारा रक्षिता ॥ १।१।१३ ॥
॥ १।१।१४ ॥ रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥ १४ ॥
न केवलं तस्य अपि तु स्वस्य– स्वीयस्य “अध्ययनमध्यापनं यज्ञो याजनं दानं प्रतिग्रहणं दायाद्यं सिलोञ्छः । (आप। धर्मसू।२।२०।४) अन्यच्चापरिगृहीतम् (५) । एतान्येवं क्षत्रियस्याध्यापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धादिकानि (६)” इत्युपदिष्टस्वधर्मस्य च रक्षिता सादरं सदानुष्ठाता । अपि च स्वजनस्य बन्धुजनस्य स्वभक्तजनस्य च विशिष्य रक्षिता । तथा हि “राजवंशान् शतगुणान् स्थापयिष्यति राघवः” इति, तथा “सकृदेव प्रपन्नाय” इत्यादिकं च । वेदानां चतुर्णां छन्दःकल्पव्याकरणज्योतिषनिरुक्तशीक्षालक्षणवेदाङ्गानां च पाठतो ऽर्थतश्च तत्त्वज्ञः परमार्थस्वरूपज्ञः । धनुर्वेदः धनुषो हस्तमुष्टिस्थितिविशेषाकर्षणविमोकादिदिव्यास्त्रादिप्रतिपादकं शास्त्रं तस्य च वेदत्वमुक्तार्थशासनोपचारात् । अत एवान्यत्रापि आयुर्वेदादीनि सव्याख्यानि शास्त्राणि स्मृतयश्च सूत्राण्यपि तत्त्वार्थशास्त्रेणोपचाराच्छास्त्राणि ॥ १।१।१४ ॥
॥ १।१।१५ ॥ सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।
सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः ॥ १५ ॥
सर्वमूलशब्दशासनाद्व्याकरणं च महाशास्त्रं, तथैव कामन्दकादीन्यपि शास्त्रशब्दकानि, सर्वेषामेषामर्थतत्त्वज्ञः । पाठस्य नातिप्रयोजनत्वादर्थविशेषणम् । स्मृतिमान् उक्ताधीतवेदशास्त्रविस्मरणरहितः । प्रतिभानवान् व्यवहारकाले श्रुतस्याश्रुतस्य चोचितार्थस्य द्राक्प्रतिभासः प्रतिभा प्रतिभानं तद्वान् । सर्वलोकप्रियः स्वद्रष्टृस्मर्तृसर्वलोकानामिहामुत्र हितावहः । सर्वलोकानां प्रियं यस्मादित्यन्यपदार्थो बहुव्रीहिर्वा । साधुः मृदुमधुरशुभस्वभावः । इदं पूर्वोक्तविशेषणसाधकं विशेषणम् । यद्येवं साधुद्विजवद्दीनस्वभावस्यादित्यत्रोक्तम् अदीनात्मेति ।
“शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ " (गी। १८४३)
इति सहजासाधारणक्षात्रभावेनातिधीरमहाप्रभुस्वभाव एव भवति । अत्र अपकारिष्वपि साधुत्वात्साधुरित्यादिकमसंगतमेवमादौ कश्चिज्जल्पति । तदसंगतमिति सन्तस्समवेदिषीरन् । तदतःपरमतिविरलं तादृशकश्मलप्रजल्पः प्रकाश्यते । विचक्षणः यथोचितं लौकिकालौकिकसर्वार्थकृतिकुशलः ॥ १।१।१५ ॥
॥ १।१।१६ ॥ सर्वदा ऽभिगतस्सद्भिस्समुद्र इव सिन्धुभिः ।
आर्यस्सर्वसमश्चैव सदैव प्रियदर्शनः ॥ १६ ॥
होमदेवपूजासभाधिष्ठानादिकालेषु, कामन्दकादिना, (राज्ञा) विमुक्तेषु सर्वेष्वपि तत्तत्कालोचितैस्सद्भिः पुरोहितविद्वन्मन्त्रिप्रधानादिभिश्च “यथा राजा तथा प्रजाः” इति न्यायेन सात्विकस्वभावैः, समुद्रस्तत्तत्प्रदेशे तत्तत्सिन्धुभिरिवाभिगतः सेवितः । आर्यः सार्वभौमत्वादेव सर्वपूज्यः । सर्वसमः सर्वेष्वपि कर्मायत्तद्वन्द्वमात्रेषु सुखदुःखादिषु हर्षविषादरहितः । शत्रुमित्रोदासीनेषु वैषम्यरहित इत्यन्यः । किमयं रामः परिव्राट्? येन तथा स्यात् ॥ १।१।१६ ॥
॥ १।१।१७ ॥ स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥ १७ ॥
स रामः एवं क्षत्रियमात्रसामान्यप्राप्तैः सर्वैर्गुणैरुपेतः । चकाराद्वक्ष्यमाणराज्याभिषेकार्हक्षत्रियगुणैश्चोपेतः । कोसलस्यापत्यं स्त्री कौसल्या । “वृद्धेत् कोसल৷৷।” इति ञ्यङ् । “यङश्चाप्” । तस्या आनन्दं सुतत्वाद्वर्धयतीति कौसल्यानन्दवर्धनः । एतेन महाकुलप्रसूतप्रधानमहिषीसुतत्वरूपस्य साक्षादभिषेकापेक्षितधर्मस्य सत्त्वं भगवति दर्शितम् । वक्ष्यमाणास्तु सर्वे ऽभिषिषिक्षिते सर्वथा ऽपेक्षितधर्मत्वे स्पष्टाः । गाम्भीर्यं– अगाधाशयत्वं तत्र समुद्रतुल्यः । संयुगे सर्वसेनापलायने ऽपि स्वयमचलतयावस्थानं धैर्यम् । राजप्रधानं इष्टवियोगादावनतिक्षुभितचित्तत्वं सर्वासाधारणं धैर्यम् । तत्रोभयत्र हिमवत्तुल्यः । अत्र रामस्य सीतावियोगे शोकात् प्रलापदोषमाशंक्य तदभावं समर्थयति कश्चित् । एवमादिरसङ्गतः प्रत्यक्षवचनविरुद्धो भाक्तः प्रलापः पृष्ठीकार्य इति प्रोगेवोक्तम् । उपाधिगतधर्माणां तु संसर्गस्य यावद्देहपातमवर्ज्यत्वात् । अपि तु परमात्मकुलपरमकल्याणगुणपरमपतिव्रताया मातुः सीताया वियोगे यदि शोकं प्रलापं च न कुर्यात् तदा शुभाशुभोचितव्यवहाररहितपिशाचतुल्य एव रामः स्यात् । अतस्तत्कालशोकादिकमुक्तं पुरुषोचितमेवेति नायं दोषः ॥ १।१।१७ ॥
॥ १।१।१८ ॥ विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ १८ ॥
वीर्यं व्याकृतम् तत्र विष्णुना तुल्यः । अनुग्रहप्रधानो विराड्विष्णुः, स्वप्रधानो विराट् प्रजापतिः । प्रजापतिरेव विष्णुः विष्णुरेव प्रजापतिः भेदव्यवहारस्तूपाधिमात्रात् । अयमर्थः श्रीमद्ब्रह्मसिद्धान्तप्रकरणे बहुग्रन्थविस्तृत इति नेह शक्यप्रपञ्चनः । यद्यप्ययमेव रामो विष्णुः प्रजापतिः । तथापि मानुषोपाधिभेदात् सादृश्यम् । एवं सर्वत्र द्रष्टव्यम् । सोमवत् प्रियदर्शनः– सभायां प्रजाव्यवहारनिरीक्षणकाले । कालाग्निसदृशः क्रोधे युद्धादिकाले । शक्यप्रतिक्रियापकारसहिष्णुता क्षमा, तया अन्वितत्वे पृथिवीतुल्यः । पृथिवी हि माता सर्वस्रोतसामनन्यगतिकत्वात् तत्प्राप्ताघं क्षमते ॥ १।१।१८ ॥
॥ १।१।१९ ॥ धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
धनत्यागे यज्ञदानादिरूपधर्मार्थवित्तव्ययविषये अपेक्षितधनसंपत्तौ धनदेन नवनिधीशेन समः । अस्मिन्नेवांशे अयं दृष्टान्तः न तु त्यागांशे । स तु यक्षगणैः सर्वतः सर्वेषामपि निधीनपहृत्य नित्यं निजनिधीनेव केवलं पूरयति । धनदव्यवहारस्तु भगवदाज्ञया भगवदवयववस्वदितिदशगणेभ्यो यावद्भगवदाज्ञं ददाति । नान्येभ्यः काचमात्रमपि । सत्यं व्याकृतम्, तत्रापरो धर्म इव । धर्मस्य मूर्त्यन्तरमिवेति यावत् ॥ १।१।१९ ॥
॥ १।१।२० ॥ तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् ॥ १९ ॥
ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् ।
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥ २० ॥
यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ।
“तमेवंगुणसंपन्नम्” इत्यारभ्यायोध्याकाण्डीयः सङ्क्षेपः । अतः प्रागुक्तश्लोकैरेव यथाकथञ्चित् बालकाण्डीयो ऽर्थः भगवदवतारादिः सूचितो वेदितव्यः । तत्र इक्ष्वाकुवंशप्रभव इत्यनेन विश्वामित्रानुग्रहजदिव्यास्त्रसंपत्त्यादिः ताटकावधयज्ञशत्रुनिबर्हणान्तो व्यापारः सूचितः । अथ “विपुलांसः” इत्यादि “लक्ष्मीवान्” इत्यन्ते यौवनदशावर्तिसीतापरिणयादिसङ्क्षेपः । सत्यपराक्रम इत्यनेन सत्यलोकवर्तिसत्याख्यलोकेशश्रीहिरण्यगर्भभावेन स्वीयेन भार्गवलोकप्रतिबन्धान्तव्यापारः सङ्क्षिप्तो वेदितव्यः । अथ एवंगुणसंपन्नम् प्रागुक्तनित्यासाधारणकल्याणगुणसंपन्नम् पश्चादुक्तरीत्या श्रेष्ठगुणैः यौवराज्यसार्वभौमपदाभिषेकार्हविशिष्टगुणैश्च युक्तम् सत्यपराक्रमं सत्यपरिपालनबलात् प्रवर्तमानः सत्यः अमोघः पराक्रमः परेषां शत्रूणां आक्रमः अभिभवः यस्य स तथा । प्रकृतीनां मन्त्रिपुरोहिताद्यष्टादशप्रकृतीनां, हितैः इहामुत्रहितावहैः कर्मभिर्युक्तं श्रेष्ठं सुतं तं रामं प्रकृतिप्रियकाम्यया प्रागुक्तप्रकृतीनां मन्त्रिपुरोहिताद्यष्टादशानां प्रियं कर्तुमिच्छया । यद्यपि आत्मन इच्छायां काम्यजपि क्कचित्, अथापि “छन्दसि परेच्छायामपि काम्यज्वक्तव्यः” इति वचनात् आर्षस्यापि छन्दोवद्भावात् काम्यच् । ततः “अ प्रत्ययात्” इत्यकारे स्त्रीप्रत्यये टेर्लोपे टाप् । युवा चासौ राजा च युवराजः, तस्य भावः कर्म वा, ब्राह्मणादित्वात् ष्यञ्, यौवराज्यं तेन संयोक्तुं महीपतिः दशरथः, प्रीत्या यौवराज्यपदार्हपुत्रानुभवजनितानन्देन ऐच्छत् । सश्वेतच्छत्रे भद्रासने पितरि स्थिते तदतिरिक्तसर्वव्यापारे अभिषेकपूर्वकमधिकृतो युवराजः ॥ १।१।२० ॥
॥ १।१।२१ ॥ तस्याभिषेकसंभारान् दृष्ट्वा भार्या ऽथ कैकयी ॥ २१ ॥
पूर्वं दत्तवरा देवी वरमेनमयाचत ।
अथ तस्य रामस्य, यौवराज्याभिषेकापेक्षितान् संभारान्– “औदुम्बरी आसन्दी, तस्यैव प्रादेशमात्राः पादाः स्युः” इत्यादितः तथा “दधिमधुसर्पिरातपवर्ष्या आपः” इत्यन्ततः बह्वृचब्राह्मणेनोपदिश्यमानान् संभृतान्, दृष्ट्वा मन्थरावाक्यात् अवगत्य राज्ञः कनीयसी भार्या, पूर्वं विभक्तिप्रतिरूपकमव्ययम् । “कालाध्वनोः” इति तृतीयेति कश्चित् । न हि इह अत्यन्तसंयोगं मासमधीत इतिवत् पश्यामः । पूर्वं– पूर्वस्मिन् इन्द्रसहायार्थप्रवृत्तदशरथयुद्धकाले दशरथोपरि प्रयुक्तां आसुरीं मायां धवलाङ्गमुनिदत्तविद्यया निवारयन्त्यै कैकेय्यै तुष्टेन दशरथेन, दत्तवरा– दत्तौ वरौ यस्यै सा तथा, देवी कृताभिषेका कैकयी– केकयस्य अपत्यं स्त्री, “क्षत्रियसमानशब्दात् जनपदात् तस्य राजन्यपत्यवत्ऽ इत्यञि जनपदे लुप् । “केकयमित्रयुऽ इत्यादिना यादेरियादेशे गुणे चादिवृद्धौ “टिढ्ढाणञ्৷৷।” इत्यादिना ङीपि “यस्य–” इति लोपे कैकेयीति भवति । अत्र “अपि माषं मषं कुर्यात् छन्दोभङ्गं न कारयेत्” इति न्यायेन कैकयी इति प्रयोगः । एनं वक्ष्यमाणलक्षणं वरं– पूर्वदत्तं प्राप्तकालत्वादयाचत दशरथं, द्विकर्मकत्वात् याचेः ॥ १।१।२१ ॥
॥ १।१।२२ ॥ विवासनं च रामस्य भरतस्याभिषेचनम् ॥ २२ ॥
किं तत् वरद्वयमित्यतः– विवासनमित्यादि । निजराज्यात् रामस्य उद्वासनं तत्र भरतस्य अभिषेचनं च अयाचत ॥ १।१।२२ ॥
॥ १।१।२३ ॥ स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ॥ २३ ॥
सत्यवचनात् सत्यप्रतिज्ञत्वादेव हेतोः सत्यमयेन धर्मपाशेन संयतः– बद्धस्सन् दशरथः प्रियं सुतमपि विवासयामास ॥ १।१।२३ ॥
॥ १।१।२४ ॥ स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥ २४ ॥
वीरत्वं– एकेन अनेकैरपराङ्मुखतया धैर्यममुक्त्वा शोभामुखतया योद्धृत्वं वीरत्वम् । स रामः पितुः प्रतिज्ञां स्वविवासनेन सत्यतयानुपालयन् । “लक्षणहेत्वोः” इति हेतौ शतृपत्ययः । तत एव हेतोर्वनं जगाम । न केवलं स्वेच्छया, अपि तु पितृवचनकृतनिर्देशात्– आज्ञातः । अपि च कैकेय्या मातुश्च प्रियकारणात्– प्रियसिद्धिनिमित्तमपीत्यर्थः । एतेन मातापितृसन्तोषणमेव सर्वात्मना पुत्रस्य परमो धर्म इति सर्वजगतां भगवता रामेणोपदिष्टं भवति ॥ १।१।२४ ॥
॥ १।१।२५ ॥ तं व्रजन्तं प्रियो भ्राता लक्ष्मणो ऽनुजगाम ह ।
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥ २५ ॥
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शनयन् ।
व्रजन्तं भ्रातरं प्रियः– अर्श आद्यच् । रामे सुहृत्प्रीतिमान् भ्राता रामस्य स्वयं दयितः विनयसंपन्नः सुमित्रानन्दवर्धनो लक्ष्मणो भ्राता च, सौभ्रात्रं– “हायनान्तयुवादिभ्यो ऽण्” इत्यण् । सुभ्रातृभावं अनुदर्शयन्, स्नेहात् भ्रातृस्नेहादेव जगाम न पित्रादिनिर्देशात् ॥ १।१।२५ ॥
॥ १।१।२६,२७ ॥ रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥ २६ ॥
जनकस्य कुले जाता देवमायेव निर्मिता ।
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥ २७ ॥
सीताप्यनुगता रामं शशिनं रोहिणी यथा ।
अथ रामस्य दयिता इष्टा, भार्या, न केवलमिष्टामात्रं– अपि तु प्राणसमा । निरतिशयप्रेमास्पदा नित्यं हितकारिणी च । जनकस्य निमिपुत्रस्य कुले अन्वये जाता । यद्यप्ययोनिजा सीता, अथापि जनककुलजस्य सीरध्वजस्य देवयजनलांगलपद्धतावाविर्भूतत्वादेवंवादः । कथमेवं प्रादुर्भाव इत्यतो देवमायेव अचिन्त्योदयस्थितितया देवैरेव स्वकार्यसिद्धिकाङ्क्षिभिराविर्भाविता । यथा देव्या उदयस्तथा तल्लयोप्यचिन्त्यः । तथा भर्तृवियुक्तया बहुकालं स्थितिश्चाचिन्त्यहेतुका । यद्वा इवशब्द एवार्थः । सा देवेन भगवता स्रष्ट्रा देवकार्याय निर्मिता देवमायैव । “दैवी ह्येषा गुणमयी मम माया” (गी।७१४) इति गीता । भगवतो ऽनाद्यनन्ता सहजा शक्तिरेव, न केवलं या काचित् द्वौपद्यादिवदयोनिजा स्त्रीति मातुस्त्वात्यन्तिकस्वकुलकथनम् । तिलोत्तमादिवद्देवमायेव स्थितेत्यन्यः । एवमर्थे निर्मितापदं व्यर्थम् । पुंलक्षणै रामवत् सर्वस्त्रीलक्षणसम्पन्ना । पुरुषेषु रामवन्नारीणामुत्तमा वधूः स्त्री सीता– “सीता लाङ्गलपद्धतिः” तदुत्थत्वात्सीता । शशिनं रोहिणी यथा राममनुगता ॥ १।१।२६,२७ ॥
॥ १।१।२८,२९ ॥ पौरैरनुगतो दूरं पित्रा दशरथेन च ॥ २८ ॥
शृङ्गबेरपुरे सूतं गङ्गाकूले व्यसर्जयत् ।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥ २९ ॥
गुहेन सहितो रामो लक्ष्मणेन च सीतया ।
अथ रामः पौरैः पित्रा दशरथेन च दूरमनुगतः गङ्गाकूले वर्तमानं निषादाधिपतिं प्रियं– इष्टं गुहमासाद्य– गृहादिभिः सहितो रामः आगङ्गं रथेनागतरामविसर्जनार्थमागतं सूतं गङ्गाकूले व्यसर्जयत् ॥ १।१।२८,२९ ॥
॥ १।१।३०,३१ ॥ ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ॥ ३० ॥
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥ ३१ ॥
देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम् ।
अथ ते सीतारामलक्ष्मणा वनेन पुरोवर्तिवनप्राप्तिद्वारेण वनं– अपरं वनं गत्वा वनमिति जात्या बहूदका नदीश्च तीर्त्वा “श्र्युकः किति” इतीण्निषेधः । अनु पश्चात् चित्रकूटं प्राप्य भरद्वाजस्य शासनात् तत्र रम्यमावसथं पर्णशालां कृत्वा तत्र रममाणाः देवगन्धर्वसङ्काशाः ते त्रय वने सुखं न्यवसन् ॥ १।१।३०,३१ ॥
॥ १।१।३२ ॥ चित्रकूटं गते रामे पुत्रशोकातुरस्तदा ॥ ३२ ॥
राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ।
चित्रेत्यादि ॥ रामे चित्रकूटं गते सति तदा पुत्रशोकातुरो दशरथो राजा सुतं स्मृत्वा विलपन् परिदेवनं कुर्वन्नेव तद्दुःखवशात्स्वर्गं जगाम ॥ १।१।३२ ॥
॥ १।१।३३ ॥ गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥ ३३ ॥
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।
तस्मिन् दशरथे गते मृते भरतस्तु वसिष्ठप्रमुखैर्द्विजैस्त्रैवर्णिकैस्सह मन्त्रिवृद्धैः राज्याय नियुज्यमानो महाबलः– राज्यं कर्तुं समर्थो ऽपि सौभ्रात्राद्राज्यं नैच्छत् । राज्यायेति “तुमर्थाच्च” इत्यादिना चतुर्थी ॥ १।१।३३ ॥
॥ १।१।३४ ॥ स जगाम वनं वीरो रामपादप्रसादकः ॥ ३४ ॥
वीरो व्याकृतः । स भरतो रामपादप्रसादकः “तुमुण्वुलौ क्रियायां क्रियार्थायाम्” इति ण्वुल् । पादशब्दः पूज्यवाची । पूज्यं रामं प्रसादयितुं जगाम ॥ १।१।३४ ॥
॥ १।१।३५ ॥ गत्वा तु स महात्मानं रामं सत्यपराक्रमम् ।
अयाचत् भ्रातरं राममार्यभावपुरस्कृतः ॥ ३५ ॥
स भरतो महात्मानं– सत्यप्रतिज्ञत्वाद्यनेकधर्मैर्महान् वैभववान् आत्मा यस्य तं सत्यपराक्रमं भ्रातरं रामं गत्वा– आर्यभावपुरस्कृतः– विनीतवेषपुरस्कृतस्सन् “आर्यो हृद्यो विनीतश्च” इति निघण्टुः । तं रामं राज्याय प्रतिनिवर्तितुमयाचत् । याचिर्द्विकर्मकः ॥ १।१।३५ ॥
॥ १।१।३६ ॥ त्वमेव राजा धर्मज्ञ इति रामं वचो ऽब्रवीत् ।
ननु कथं मे प्रतिनिवृत्तिः । पितृमातृदत्तराज्यं त्वमेव किलार्हसीत्यत्राह– त्वमेव राजेति ॥ ननु कथमेवमवधारणमित्यत्राह– धर्मज्ञ इति । ज्येष्ठे श्रेष्ठगुणैर्युक्ते कनीयान् राज्यं नार्हतीत्यनादिप्रवाहसिद्धिं धर्मं त्वमेव जानासि । अतः प्रतिनिवर्तितव्यमेव इति न्यायमार्गोपेतं वचो रामं प्रत्यब्रवीत् ॥
रामो ऽपि परमोदारः सुमुखस्सुमहायशाः ॥ ३६ ॥
न चैच्छत्पितुरादेशाद्रामो राज्यं महाबलः ।
न च राज्यमैच्छत्तदा ॥ वनवासक्षोदक्षममहत्तरसहजकायबलवान्रामो ऽपि राज्यं नैच्छत् । कुत इत्यतो हेतुचतुष्टयं– परमोदार इत्यादि । स्वसुखानादरेणाविगीतस्वसुखसाधनस्य परस्मै त्यागस्त्वौदार्यम् । एवं परमोदारत्वाद्राज्यसुखं बालो भरत एव भुङ्क्तामित्युपैक्षिष्ट । सुमुखः । भगवतो रामस्य राज्ये वने वा पादसंवाहनादिसकलबाह्यशुश्रूषायै लक्ष्मण एव । ऐहिकसकलसुखभोगाय राज्ये वने वा ऽविशेषेण लोकमाता सीतैव । राज्ये तु प्रजाकार्यनिरीक्षणदुःखमभ्यधिकम् । वने तु तदभावः योगजसन्तोषश्चाधिकः । अतो राज्याद्वनमेव नः परमं सुखं दैवगत्या लब्धमिति धिया राज्यादपि वने ऽम्लानाभ्यधिकमुखप्रसादयुक्तः । अत उपेक्षिष्ट । सुमहायशाः– मुहुः प्राप्तमपि राज्यं पितुः परलोकहेतुसत्यपरिपालनाय रामो न स्वीकरोतीति सुमहति यशस्यपेक्षा यस्य स तथा । अत उदासि । अथ परमो हेतुः– पितुरादेशादिति । पितुः– चतुर्दशसमा वनवासनियोगस्य परिपालनाद्धेतोः नैच्छत् ॥ १।१।३६ ॥
॥ १।१।३७ ॥ पादुके चास्य राज्याय न्यासं दत्त्वा पुनःपुनः ॥ ३७ ॥
निवर्तयामास ततो भरतं भरताग्रजः ॥
यद्येवं राज्यनाशप्रसङ्गः तत्रोच्यते पादुक इत्यादि । चो हेतौ । दत्त्वेति । दाञ् धातोरनेकार्थत्वात् कृतौ । एवं प्रतिनिवृत्तिं याचमानस्यास्य भरतस्य राज्याय राज्यरक्षणसिद्धये इमे अहल्यादौ दृष्टशक्तिकाचिन्त्यवैभवभगवत्पादस्पृष्टे पादुके एवालं, अतस्तयोर्न्यासं समर्पणं राज्यरक्षार्थं कृत्वा तत एव हेतोर्भरताग्रजो रामश्चतुर्दशसमानन्तरमेव वा सर्वथा प्रतिनिवर्तितव्यमिति तामेव च प्रतिनिवृत्तिं पुनः पुनर्याचमानं भरतं तदभ्युगमेन च निवर्तयामास । कश्चित्तु राज्याय राज्यं कर्तुं पादुके न्यासं दत्त्वेत्ययूयुजत् । अनेन न्यासो निक्षेपो यथा तथा दत्त्वेति वक्तव्यत्वतो न्यासस्य क्रियाविशेषत्वेन क्रियान्तर्भावात् पादुकयोरेव ददाति कर्मत्वात् तेनेदमर्थाभिप्रायस्य स्पष्टत्वात् सर्वथा चतुर्थ्या भाव्यत्वेन षष्ठ्योगः । न च न्यासमिति पदेन स्वत्वनिवृत्त्यभावात् संप्रदानाभाव इति ऋणं यज्ञदत्ताय दत्त्वेत्यादौ चतुर्थ्यभावप्रसङ्गात् । अपि च राज्याय पादुके दत्त्वेत्येतावतैव तदपेक्षितार्थसिद्धेर्न्यास इति पदं सर्वथा व्यर्थम् । न्यासतया स्वत्वनिवृत्तिमकृत्वैव दानं च पादुकयो रामस्यावश्यकं किल । यतः प्रत्यावृत्त्यनन्तरं सार्वभौमस्य ते दुर्लभे एवमादिदुर्योजनकठिनस्थले इदमेवास्य व्याख्यानं, त्यागो वा । तथा ऽग्रे ऽपि द्रष्टव्यम् ॥ १।१।३७ ॥
॥ १।१।३८ ॥ स काममनवाप्यैव रामपादावुपस्पृशन् ॥ ३८ ॥
नन्दिग्रामे ऽकरोद्राज्यं रामागमनकाङ्क्षया ।
स भरत इदानीं रामप्रतिनिवृत्तिरूपं काममनवाप्यैव रामपादावुपस्पृशन् नमस्कुर्वन् पश्चान्नमस्कृत्य प्रतिनिवृत्तो नन्दिग्रामे स्थित्वा रामः प्रतिज्ञातसमयानन्तरं राज्यायागमिष्यतीति रामागमनगतया ऽ ऽकाङ्क्षया पादुकां पुरस्कृत्य राज्यमकरोत् राज्यरक्षां कृतवान् ॥ १।१।३८ ॥
॥ १।१।३९,४० ॥ गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥ ३९ ॥
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥ ४० ॥
गत इत्यादि । श्रीमत्त्वादिविशिष्टो रामस्तु अत्यासत्त्या नागरस्य मन्त्रिवृद्धादिपौरजनस्य सौभ्रात्रादिदिदृक्षया पुनर्भरतस्य च तत्र चित्रकूटे आगमनं तत्संभावनां आलक्ष्य पर्यालोच्य तेषां प्रतिनिवर्तनप्रयासाद्वरमितो ऽपि किञ्चिद्दूरदेशगमनमिति सञ्चिन्त्य दण्डकारण्यानां रक्षश्चोरादिभूयिष्ठत्वात् एकाग्रः– सज्जो भूत्वा दण्डकान् दण्डो नाम राजा तस्य निवासो जनपदः । “तस्य निवासः” इत्यणो “जनपदे लुप्” इति प्राग्दीव्यतीयाणो लुपि दण्डः । जनपदस्तु शुक्रशापेन वनतां प्राप्तः, अतः कुत्सायां कन् । अवान्तरबहुवचनत्वाद्दण्डकानिति । प्रविवेश ह । हेत्यैतिह्ये प्रसिद्धौ ॥ १।१।३९,४० ॥
॥ १।१।४१ ॥ प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥ ४१ ॥
प्रविश्येति ॥ महच्च तदरण्यं च महारण्यम् । राजीवं पद्मम् । शरभङ्गाद्या ऋषयः । चापीत्यादि निपातमुच्चयः पद्यपूरकः क्वचित्क्वचित् । इहापि पद्यपूरकः ॥ १।१।४१ ॥
॥ १।१।४२ ॥ सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥ ४२ ॥
खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ।
इध्मवाहननामा ऽगस्त्यभ्राता । दिव्यं धनुरादिकं कार्याय प्रतिगृहाणेत्येवंरूपादगस्त्यवचनात् । ऐन्द्रं– इन्द्रादगस्त्य आगतं शरासनम् । इदमिहानुसन्धेयम्– पूर्वं भार्गवं जित्वा ततः प्राप्तं यद्वैष्णवं धनुर्भगवता वरुणे न्यस्तम्, तदिन्द्रेण वरुणादाहृत्यागस्त्ये स्थापितं रामाय दातुम् । तथा खड्गादिकं च द्रष्टव्यम् । किमर्थमेवं कल्पना? उच्यते– आरण्ये अगस्त्येनोच्यते–
“इदं दिव्यं महच्चापं हेमरत्नविभूषितम् ।
वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ॥
अमोघः सूर्यसङ्काशो ब्रह्मदत्तश्शरोत्तमः ।
दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ ॥
तद्धनुस्तौ च तूणीरौ शरं खड्गं च मानद ।
जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥ "
इति स्वेन दीयमानधनुषो ऽगस्त्येन वैष्णवत्वप्रतिपादनात् । तूणी चेति चकारेण धनुषो ऽपि महेन्द्रदत्तत्वप्रतिपादनं तत्र । यद्वा इन्द्रः परमेश्वरो विष्णुः तस्येदमैन्द्रम् । अनुरूपायुधलाभात्परमप्रीतः । अक्षयाः सायका ययोस्तौ तथा ॥ १।१।४२ ॥
॥ १।१।४३ ॥ वसतस्तस्य रामस्य वने वनचरैस्सह ॥ ४३ ॥
ऋषयो ऽभ्यागमन् सर्वे वधायासुररक्षसाम् ।
वनचरैः वानप्रस्थमुनिभिस्सह तस्मिन् वने वसतस्तस्य रामस्यान्तिकं असुररक्षसां असुराः कबन्धादयः, रक्षांसि खरादयः तेषां वधाय वधं प्रार्थयितुं “क्रियार्थोपपदस्य–” इत्यादिना चतुर्थी । सर्वे ऋषयो वनान्तरवर्तिनश्चाभ्यागमन् ॥ ।१।१।४३ ॥
॥ १।१।४४ ॥ स तेषां प्रतिशुश्राव राक्षसानां तदा वने ॥ ४४ ॥
स रामस्तदा तस्मिन् वने तेषां राक्षसानां वधं तेभ्यः सर्वेभ्य ऋषिभ्यः प्रतिशुश्राव प्राप्तकालं असुररक्षांसि सर्वथा संहरिष्ये, नोपेक्षे इति प्रतिज्ञातवानित्यर्थः ॥ १।१।४४ ॥
॥ १।१।४५ ॥ प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् ।
ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ॥ ४५ ॥
एवं ऋषीणामुच्यमानविशेषणानामपेक्षितः रक्षसां वधश्च संयति यथाप्राप्तकाले करिष्यामीति अचिन्त्यामितनिजशक्तिवैभवाद्रामेण प्रतिज्ञातः ॥ १।१।४५ ॥
॥ १।१।४६ ॥ तेन तत्रैव वसता जनस्थाननिवासिनी ।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ ४६ ॥
तेन तत्रैव दण्डकारण्यदक्षिणप्रदेशवर्तिपञ्चवट्याश्रम इत्यर्थः । जनस्थानं नाम रावणसामाजिकबलनिवासदेशः । विरूपिता तत्करोतीति ण्यन्तान्निष्ठा । यद्वा तारकादेशकृतिगणत्वादितच् । नासिकाछेदनेनेति शेषः । शूर्पणखा “नखमुखात्सञ्ज्ञायाम्” इति ङीब्निषेधः । “पूर्वपदात्सञ्ज्ञायां–” इति णत्वम् । कामः– इच्छा । स्वाभीष्टरूपग्रहशक्तिमती ॥ १।१।४६ ॥
॥ १।१।४७ ॥ ततश्शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।
खरं त्रिशिरसं चैव दूषणं नाम राक्षसम् ॥ ४७ ॥
निजघान रणे रामस्तेषां चैव पदानुगान् ।
सर्वराक्षसानिति ॥ जनस्थाननिवासिन इति शेषः । पदमनुगच्छन्तीति पदानुगाः । “अन्यत्रापि–” इति वचनाड्डुः टिलोपः ॥ १।१।४७ ॥
॥ १।१।४८ ॥ वने तस्मिन्निवसता जनस्थाननिवासिनाम् ॥ ४८ ॥
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।
निवसतेति । रामेणेति शेषः । चतुर्दशसहस्रसङ्ख्याकानि रक्षसां सैन्यानीति शेषः ॥ १।१।४८ ॥
॥ १।१।४९,५० ॥ ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥ ४९ ॥
सहायं वरयामास मारीचं नाम राक्षसम् ।
वार्यमाणस्सुबहुशो मारीचेन स रावणः ॥ ५० ॥
न विरोधो बलवता क्षमो रावण तेन ते ।
ज्ञातिवधमिति ॥ रावणादयः खरादयश्च द्वैमातुरः विश्रवसः पुत्राः । अतो ज्ञातयो रावणस्य खरादयः । रावणशब्दश्च विश्रवः प्रकृतिकः । कथम्? विश्रवसः अपत्यमित्यर्थे “विश्रवणरवण” इत्यसन्नियोगे विश्रवणरवणयोरादेशयोर्विधानात् । मूर्छितः व्याक्षिप्तचित्तस्सन् । हे रावण ते बलवता तेन रामेण विरोधो न क्षमः न युक्तः, न हितः च परदारहरणस्य परमानर्थत्वात्, बलवद्विरोधस्य खरादेरिव निजनाशान्तत्वाच्चेत्येवं सुबहुशो मारीचेन द्वित्रिःपञ्चसप्तवारं वार्यमाणो ऽपि स ज्ञातिवधक्रोधमूर्छितो रावणो मारीचं नाम प्रसिद्धं राक्षसं सीतापहारे सहायं वरयामास । वृञ् श्नौ, श्नायां वृङ्, णौ वृञ् वरण इति स्वार्थेण्यन्तो ऽपि धातुरस्ति । तथापि नास्माण्णिच् । अपि तु वरशब्दात् “तत्करोति” इति णिच् ॥ १।१।४९,५० ॥
॥ १।१।५१ ॥ अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥ ५१ ॥
जगाम सहमारीचस्तस्याश्रमपदं तदा ।
अथोक्तप्रकारं तद्वाक्यं मारीचवाक्यं तु कालचोदितः हेतुगर्भं विशेषणम् विधिचोदितत्वाद्रावणो ऽनादृत्य सहमारीचः “वोपसर्जनस्य” इति विकल्पात् सहशब्दस्य सत्वाभावः । तदा तस्य रामस्य आश्रमपदं जगाम ॥ १।१।५१ ॥
॥ १।१।५२ ॥ तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥ ५२ ॥
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।
मायाविना तेन मारीचेन । “अस्माया–” इत्यादिना विनिः । नृपात्मजौ दूरमपवाह्य– वहेर्ण्यन्तात् ल्यप्– अपसरणं कारयित्वा । गृध्रं हत्वेति । पक्षापहारेण कण्ठगतप्राणं कृत्वेति यावत् ॥ १।१।५२ ॥
॥ १।१।५३ ॥ गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥ ५३ ॥
राघवश्शोकसन्तप्तो विललापाकुलेन्द्रियः ।
निहतं निहतप्रायम् । श्रुत्वेति । गृध्रमुखादिति शेषः । विललाप पर्यदेवयत् । आकुलानि उत्कटरजस्तमोविजृम्भितशोकपरवशानि इन्द्रियाणि यस्य स तथा ॥ १।१।५३ ॥
॥ १।१।५४,५५ ॥ ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥ ५४ ॥
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ।
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥ ५५ ॥
तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।
तेनैव शोकेनेति । निवृत्तिहेतुमप्राप्तेनाभिभूयमान एव सन् । मार्गमाण इति । मार्गयमाणः । (संस्कारे वा) णौ मार्ग अन्वेषण इति । “णेर्विकल्पितत्वान्मार्गमाण इति । रूपेण विकृतमिति । “प्रकृत्यादिभ्य उपसङ्ख्यानम्” इति तृतीया । निहत्य ददाह च । ततस्स कबन्धः स्वर्गं गतः ॥ १।१।५५ ॥
॥ १।१।५६ ॥ स चास्य कथयामास शबरीं धर्मचारिणीम् ॥ ५६ ॥
श्रमणीं धर्मनिपुणामभिगच्छेति राघवम् ।
गच्छन् स कबन्धः अस्य रामस्योपचिकीर्षया शबरीं उच्यमानविशेषणां अभिगच्छेति राघवं कथयामासेति योजना । श्रमणीं तापसीं “श्रमु तपसि खेदे च” । अस्मात्कर्तरि ल्युट् । टित्वात् ङीप् । सर्वतो ऽस्माभिरुचित एक एव पाठो निश्चयाय लिख्यते ॥ १।१।५६ ॥
॥ १।१।५७,५८,५९ ॥ सो ऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥ ५७ ॥
शबर्या पूजितस्सम्यग्रामो दशरथात्मजः ।
पंपातीरे हनुमता सङ्गतो वानरेण ह ॥ ५८ ॥
हनुमद्वनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥ ५९ ॥
आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः ।
हनुमद्वचनादिति । ह्रस्वान्तश्शब्दः क्वचित् । छन्दोवत् दीर्घश्च द्रष्टव्यः । सुग्रीवो युष्मत्सङ्गतिमभिकाङ्क्षत इत्यादिरूपं हनूमद्वचनं । सुग्रीवाय चेति । सङ्गतायेति शेषः । शंसदिति । “बहुलं छन्दस्यमाङ्योगे ऽपि” इत्यडभावः । महाबल इति । सुग्रीवेण स्वपुरुषार्थसाधकमहाबलत्वेनावगत इत्यर्थः । किमशंसदित्यतः आदित इत्यादि । तत् प्रसिद्धं वृत्तं स्वीयं यथा येन प्रकारेण प्रसिद्धं तथैव तदादितः निजजन्मारभ्याशंसत् । सीताया वृत्तमपि विशिष्य रावणापहारान्तमशंसत् ॥ १।१।५७,५८,५९ ॥
॥ १।१।६० ॥ सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥ ६० ॥
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।
वानरः सुग्रीवो ऽपि तत्सर्वं च श्रुत्वा स्वसमानदुःखमहाबलसम्बन्धलाभात् सुप्रीतस्सन् रामेणाग्निसाक्षिकमेव अग्निस्साक्षी साक्षादनुभविता यस्य तत्तथा । ततः “शेषाद्विभाषा” इति कप् । पृषोदरादित्वात्साक्षिशब्दस्साधुः । सख्यं चकार ॥ १।१।६० ॥
॥ १।१।६१ ॥ ततो वानरराजेन वैरानुकथनं प्रति ॥ ६१ ॥
रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ॥ ६२ ॥
ततो वैरानुकथनं वालिनस्तव च वैरे किं कारणमिति रामकृतमनुकथनं अनुप्रश्नं प्रति यत् प्रत्युत्तरमावेदितव्यं तत्सर्वं दुःखितेन रामवद्दारापहारान्तकष्टैस्सञ्जातदुःखेन सुग्रीवेण प्रणयाद्रामायावेदितं तदा । एवं तद्वृत्तान्तश्रवणानन्तरकाले रामेण वालिवधं च प्रति उद्दिश्य प्रतिज्ञातं अवश्यं हनिष्ये वालिनमिति ॥ १।१।६२ ॥
॥ १।१।६३ ॥ वालिनश्च बलं तत्र कथयामास वानरः ।
सुग्रीवश्शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥ ६३ ॥
तत्र ऋश्यमूकपर्वते वालिनो बलं च कक्षीकृतरावणतया पुरा सूर्योदयादरुणोदयानन्तरं चतुस्समुद्रलङ्घनादिरूपं कथयामास । अपि च सुग्रीवो नित्यं वीर्येण वालिना तुल्यो न वेति शंकितश्चासीत् । मतिबुद्धिसूत्रे चकारेण शंकिताद्याः कर्तरि क्तान्ताः सङ्गृहीताः ॥ १।१।६३ ॥
॥ १।१।६४ ॥ राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।
दर्शयामास सुग्रीवो महापर्वतसन्निभम् ॥ ६४ ॥
अपि च राघवप्रत्ययार्थं राघवस्य वालिमहाबलज्ञापनार्थं उत्तमं बलप्रत्यायनोत्तमसाधनं महापर्वतसन्निभं दुन्दुभेः कायं दर्शयामास । यस्य काय इदानीमेतादृशस्तादृशो दुन्दुभिश्च वालिना हत इति वालिबलप्रख्यापनं भवति ॥ १।१।६४ ॥
॥ १।१।६५ ॥ उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।
पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥ ६५ ॥
कुत्स्मिदुत्स्मिरपि स्वार्थे णिः । महाबाहुः महाबलो रामः अस्थि प्रेक्ष्योत्स्मयित्वा उत्स्मितं ईषत्स्मयं कृत्वा तत् पादाङ्गुष्ठेन चिक्षेप । क्षिप्तं च तत् दशयोजनपरिमितदूरं संपूर्णं अनुपचारेण दशयोजनादन्यूनतया क्षिप्तमभूत् ॥ १।१।६५ ॥
॥ १।१।६६ ॥ बिभेद च पुनस्सालान् सप्तैकेन महेषुणा ।
गिरिं रसातलं चैव जनयन् प्रत्ययं तदा ॥ ६६ ॥
पुनश्च प्रत्ययं जनयन् । हेतौ शता । तदा तदर्थं एकेनैव महेषुणा सकृत्प्रयोगेणैव च सप्तसालान् सालवृक्षान् ततः पुरोवृत्तिगिरिं रसातलं षष्ठमधोलोकञ्च बिभेद । पाताले रसातलो नामाधोलोकभेदः । अतलवितलसुतलतलातलमहातलरसातलपाताला इति सप्ताधोलोकाः ॥ १।१।६६ ॥
॥ १।१।६७ ॥ ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः ।
किष्किन्धां रामसहितो जगाम च गुहां तदा ॥ ६७ ॥
ततः अनन्तरं भगवदतिरिक्तेन येन केन चिदपि दुष्करेण तेन कर्मणा विश्वस्तः प्राप्तविस्रंभः । इडभावश्छान्दसः । प्रीतमनाश्च महाकपिः किष्किन्धाख्यां गुहां रामसहितो जगाम । पारस्करप्रभृतिषु “किष्किन्धा गुहा” इति वचनात् षत्वम् ॥ १।१।६७ ॥
॥ १।१।६८ ॥ ततो ऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।
तेन नादेन महता निर्जगाम हरीश्वरः ॥ ६८ ॥
ततः अगर्जत् इति पदम् । हरीश्वरो वाली ॥ १।१।६८ ॥
॥ १।१।६९ ॥ अनुमान्य तदा तारां सुग्रीवेण समागतः ।
निजघान च तत्रैनं शरेणैकेन राघवः ॥ ६९ ॥
तदा ऽङ्गदमुखादवगतसुग्रीवरामसहायं, अत एव संयुगनिर्गमनं वारयन्तीं तारां स्वस्त्रियं “मया ऽकृतापकारो रामो मह्यं नापकरिष्यति” इति वचनेनानुमान्य अनुमतिं करोति, तामनुमानयति । मानयतेः क्त्वाया ल्यप् । “गतिबुद्धि” इत्यादिना तारायाः कर्मत्वम् । कृतानुमतिकां कृत्वेत्यर्थः । सुग्रीवेण वाली युद्धाय समागतो ऽभवत् । तत्र संयुगे एनं “वालिनं जहि काकुत्स्थ मया बद्धो ऽयमञ्जलिः” इत्येवंरूपात्सुग्रीववचनात् राघव एकेनैव शरेण निजघान । अत्र सुग्रीववचनस्य हननप्रयोजकत्वकथनमनपकारिवालिवधस्यायुक्तत्वे ऽपि मित्रापकारित्वेन हननमिति द्योतनायानुवादरूपम् ॥ १।१।६९ ॥
॥ १।१।७० ॥ ततस्सुग्रीववचनात् हत्वा वालिनमाहवे ।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ ७० ॥
तत इत्यादि । एवं सुग्रीववचनादाहवे वालिनं हत्वा राघवः सुग्रीवमेव तस्य वालिनो राज्ये प्रत्यपादयत् प्रतिष्ठापितवान् ॥ १।१।७० ॥
॥ १।१।७१ ॥ स च सर्वान् समानीय वानरान् वानरर्षभः ।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ ७१ ॥
स च दिशः सर्वा दिशः प्रति, दिदृक्षुः अन्वेषिषुरिति यावत् ॥ १।१।७१ ॥
॥ १।१।७२ ॥ ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥ ७२ ॥
संपातेः गृध्रस्येति योजना । पुप्लुवे । प्लुगतौ लिट् । प्लुतवान् उल्लङ्घितवानिति यावत् ॥ १।१।७२ ॥
॥ १।१।७३ ॥ तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥ ७३ ॥
रावणपालितां लङ्कापुरीमासाद्य, “आङः षदेः गतौ णौ च” इति स्वार्थणिच्चास्ति सदिः । तत्र लङ्कायां । अशोकवनिकां अशोकवनं प्रमदावनं, तस्मादज्ञाते सञ्ज्ञायां वा कन् । “प्रत्ययस्थात्” इतीत्वम्, तां ध्यायन्तीं रामविषयकध्यानारूढां सीतां ददर्श ॥ १।१।७३ ॥
॥ १।१।७४ ॥ निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ ७४ ॥
अभिज्ञानं अङ्गुलीयकरूपं । प्रवृत्तिं स्ववियोगानन्तरजरामसुग्रीवसख्यादिसर्ववृत्तान्तम् । त्रैकालिकसर्वव्यापाराः राघवस्य त्वत्प्रत्यापत्त्येकप्रवृत्तय इति तत्वकथनेन वैदेहीं समाश्वास्य । तोरणं अशोकवनिकागतप्रासादबहिर्द्वारसन्निवेशं अशोकवनं च मर्दयामास ॥ १।१।७४ ॥
॥ १।१।७५ ॥ पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ ७५ ॥
सेनाग्रगाः सेनापतयः पिङ्गलनेत्रप्रमुखाः । मन्त्रिसुताः जम्बुमाल्यादयः । अक्षो रावणकुमारः । ग्रहणं इन्द्रजित्प्रयुक्तब्रह्मास्त्रकृतबन्धनम् ॥ १।१।७५ ॥
॥ १।१।७६ ॥ अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् ।
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥ ७६ ॥
“मदस्त्रस्यामोघतस्तेन बन्धनमात्रं, चतुःपञ्चघटिकानन्तरं विमोक्षश्च भवतु” इति भगवतो ब्रह्मणो वरदानानुग्रहात् चतुःपञ्चघटिकानन्तरं ब्रह्मास्त्रेणोन्मुक्तमात्मानं स्वं ज्ञात्वा यदृच्छया कार्यान्तरप्रसङ्गेन रावणदर्शनापेक्षया यन्त्रिणः बध्वा नेतृ़न् तान् राक्षसान् प्रति वीरः हन्तुं समर्थो ऽपि मर्षयन् क्षमां कुर्वन् ॥ १।१।७६ ॥
॥ १।१।७७ ॥ ततो दग्ध्वा पुरीं लङ्कां ऋते सीतां तु मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान् महाकपिः ॥ ७७ ॥
ततः रावणदर्शनादिव्यापारानन्तरं मैथिलीं सीतामृतेः तदवस्थानप्रदेशं विना “अन्यारात्” इति पञ्चम्यभाव आर्षः । रामाय प्रियं सीतादर्शनरूपं आख्यातुं पुनः रामान्तिकं महाकपिरायात् ॥ १।१।७७ ॥
॥ १।१।७८ ॥ सो ऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥ ७८ ॥
सो ऽभिगम्य । “वा ल्यपि” इत्यनुनासिकलोपाभावः । महात्मानं रामं प्रति प्रदक्षिणं प्रगतो दक्षिणं प्रदक्षिणाख्योपचारं कृत्वा अमेयात्मा अपरिच्छेद्यबलबुध्यादिवैभवः सः, दृष्टा सीतेति तत्त्वतः सार्वविभक्तिकस्तसिः । तत्त्वं न्यवेदयदित्यर्थः । अत्र दर्शनपदप्रथमप्रयोगः हनुमदुक्तिचातुरी । प्रथमतो दिदृक्षितार्थपदग्रहेणादर्शनविषयकसन्देहोदयो मा भूदिति ॥ १।१।७८ ॥
॥ १।१।७९ ॥ ततस्सुग्रीवसहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥ ७९ ॥
क्षोभयामासेति । लङ्कागमनमार्गप्रदानौदासीन्यादिति शेषः ॥ १।१।७९ ॥
॥ १।१।८० ॥ दर्शयामास चात्मानं समुद्रस्सरितां पतिः ।
समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥ ८० ॥
दर्शयामासेति । शरक्षोभित इति शेषः । समुद्रेति । नलं सेतुमकारयदिति । नलेन सेतुं कृतवानित्यर्थः । “हृक्रोरन्यतरस्याम्” इत्यणौ कर्तुः प्रयोज्यस्य कर्मत्वम् ॥ १।१।८० ॥
॥ १।१।८१ ॥ तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।
रामः सीतामनुप्राप्य परां व्रीलामुपागमत् ॥ ८१ ॥
तेनेति । सेतुनेति यावत् । अनुप्राप्य प्रत्यापद्य । परां व्रीलां रक्षोगृहे वत्सरोषितां पुनर्गृहीतवानिति लोकापवादशङ्काजनितां । तथा कथमप्युषितामहमुभयकुलशुद्धो लोकविख्यातकीर्तिवैभवो गृह्णामीति स्वत एव परां व्रीलाम् ॥ १।१।८१ ॥
॥ १।१।८२ ॥ तामुवाच ततो रामः परुषं जनसंसदि ।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥ ८२ ॥
ततः अनन्तरं रामः जनसंसदि तां सीतां प्रति परुषं रूक्षविगर्हितं मर्मस्पृग्वचनान्युवाच । लोकस्य नास्यां रामस्य कामादिदोषतः पुनर्जिघृक्षास्तीति प्रत्यायनार्थम् । अथ उक्तरूपवचनान्यमृष्यमाणा सती सा सीता ज्वलनं विवेश । सतीति पातिव्रत्यबलान्निजेच्छयाग्निप्रादुर्भावनशक्तिमत्वद्योतनाय । वस्तुतो लक्ष्मणप्रादुर्भावितो ज्वलनः ॥ १।१।८२ ॥
॥ १।१।८३ ॥ ततो ऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् ।
बभौ रामः संप्रहृष्टः पूजितस्सर्वदैवतैः ॥ ८३ ॥
ततो जनसंसद्येव “विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव” इत्येवंरूपादग्निवचनात्स्वयं च विगतकल्मषां ज्ञात्वा लोकस्य च तथात्वं प्रत्याय्य संप्रहृष्टः सर्वदैवतैश्च पूजितो बभौ । एवमेव पाङ्क्तः क्रमपाठः । एवं स्थिते “सदेवर्षि” इत्यर्धानन्तरं “बभौ रामः” इत्यर्धं लेखकदोषादुपरि लिखितमिति कश्चित् ॥ १।१।८३ ॥
॥ १।१।८४ ॥ कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥ ८४ ॥
महता तेन रावणवधान्तेन कर्मणा सचराचरं चराचरप्रजासहितं चरप्रजाः तिर्यगूर्ध्वस्रोतसः । अचरप्रजाः अर्वाक्स्रोतसः । सदेवर्षिगणं देवगणाः इन्द्रादयः । ऋषिगणाः विश्वामित्रादयः । त्रय एव लोकास्त्रैलोक्यम् । चतुवर्णादित्वात् स्वार्थे ष्यञ् । अत ऊर्ध्वं तिर्यगर्वाक्स्रोतसोरपि वाद ऊर्ध्वस्रोतश्शेषत्वात् । सचराचरं स्वस्वशेषतिर्यगर्वाक्स्रोतोयुक्तं त्रैलोक्यं त्रिलोकवर्त्यशेषमूर्ध्वस्रोतोमात्रं विशिष्य सदेवर्षिगणं तन्महात्मनो राघवस्य तेन कर्मणा निजैहिकामुष्मिकार्थहेतुतपोयज्ञादिप्रवृत्तिप्रत्यूहनिवर्तकेन तुष्टमभवदिति । अत्र सदेवर्षिगणमिति विशिष्य वचनं रावणस्य मर्त्योपेक्षकत्वात् देवर्षिगणयोरेव साक्षादरातिबुध्या नित्योपद्रवकरणात् रावणवधाद्विशिष्य हर्षः । एवं लक्षणाश्रयेण व्याख्या रावणपीडातन्निवृत्तिपरज्ञानप्रसक्तिरहितार्वाक्तिर्यक्स्रोतसो रावणवधमूलसन्तोषासम्भवात्, रावणवधाद्यज्ञादिप्रवृत्त्या ऽस्माकं वृष्ट्यादिर्भाविष्यतीति स्मरणजसन्तोषो दूरापास्तः । “अथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानं न विज्ञातं वदन्ति न विदुः श्वस्तनं न लोकालोकौ त एतावन्तो भवन्ति यथाप्रज्ञं हि संभवाः” इति श्रुतेः ॥ १।१।८४ ॥
॥ १।१।८५ ॥ अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥ ८५ ॥
लङ्कायामिति । लङ्काराज्यपद इत्यर्थः । तदा विभीषणाभिषेकानन्तरकाले । रावणवधसीताबन्दीविमोकानन्तरमपि प्राक्प्रतिज्ञातविभीषणाभिषेकलक्षणकिञ्चित्कृत्यस्यानिर्वर्तितत्वात्तस्य च निर्वृत्तौ सर्वात्मना कृतकृत्यत्वम् । अत एव विगतचिकीर्षितकृतिविषयकचिन्तातापः प्रमुमोद मुदहर्षे व्यत्ययात्परस्मैपदम् ॥ १।१।८५ ॥
॥ १।१।८६ ॥ देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥ ८६ ॥
“सुप्तोन्मिषितवदुत्तिष्ठन्तु वानराः” इत्येवं रूपं वरं देवताभ्यः प्राप्य । सुहृदः ।सुग्रीवविभीषणादयः ॥ १।१।८६ ॥
॥ १।१।८७ ॥ भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ।
भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत् ॥ ८७ ॥
भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयदिति । –“चतुर्दशे हि संपूर्णे वर्षे ऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम्” इति भरतेन प्रतिज्ञातत्वात्, भरद्वाजाश्रमे चतुर्दशसमासमाप्त्यनन्तरं एकद्विदिनविलम्बस्य प्राप्तत्वात् स्वागमनप्रबोधनाय हनुमद्विसर्जनम् ॥ १।१।८७ ॥
॥ १।१।८८ ॥ पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।
पुष्पकं तत्समारूह्य नन्दिग्रामं ययौ तदा ॥ ८८ ॥
पुनरित्यादि । भरद्वाजाश्रमे पुष्पकादवतीर्णत्वात् पुनश्च तत्पुष्पकं समारुह्य पुनश्चाख्यायिकाः– उपलब्धार्थविषयिणी कथा आख्यायिका । भरद्वाजाश्रमावरोहात्पूर्वमिव सीतायै जल्पन्– “जल्पव्यक्तायां वाचि” व्यक्तमालपन् । सुग्रीवसहित इति विभीषणादेरुपलक्षणम् ॥ १।१।८८ ॥
॥ १।१।८९ ॥ नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितो ऽनघः ।
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ ८९ ॥
नन्दिग्रामे भरतेन सह स्वस्यापि व्रतप्रयुक्तां जटां हित्वा– “जहातेश्च क्त्वि” इति हिभावः त्यक्त्वा सर्वैर्भातृभिस्सह प्राप्तविसृष्टं राज्यं पुनरवाप्तवान् । अत्रेदमनुसन्धेयम्– रामस्य राज्यप्राप्त्यनन्तरकाले वाल्मीकेः “को नु” इत्यादिकस्य जिज्ञासितदिव्यकाव्यनायकस्य, अर्थात् काव्यविषयस्य तच्चरितस्य च प्रश्नः । अन्यथा नारदेन तच्चरितोक्तेरपृष्टोत्तरत्वप्रसङ्गात् । तथापृष्टश्च नारदः तादृशं काव्यनायकं “इक्ष्वाकुवंशप्रभवः” इत्यादिनोपदिश्य “तेमवं गुणसंपन्नम्” इत्यादिना “राज्यं पुनरवाप्तवान्” इत्यन्तेन वृत्तं तदीयचरितं चोपदिदेश ॥ १।१।८९ ॥
॥ १।१।९० ॥ प्रहृष्टमुदितो लोकस्तुष्टः पुष्टस्सुधार्मिकः ।
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥ ९० ॥
अतःपरमुत्तरकाव्यविषयं भविष्यत्त्वेनोपदिशति– प्रहृष्टेत्यादि । प्रहृष्टः प्रातिस्विकपुत्रपश्वादिसम्पत्त्या मुदितः साधारणेन क्षामक्षोभराहित्यजेन मोदेन । लोकः सर्वाः प्रजाः । बहुप्रदाद्भगवतो यावदपेक्षितसांसारिकार्थलाभात्तुष्टः, अत एव पुष्टः दारिद्र्यकार्श्यरहितः । आमयः मनःपीडा, रोगः देहीयो व्याधिः । दुर्भिक्षेण चोरादिजेन
च भयेन विवर्जितः । भिक्षाया व्यृद्धिः दुर्भिक्षं, व्यृद्ध्यर्थे ऽव्ययीभावः भविष्यतीति शेषः ॥ १।१।९० ॥
॥ १।१।९१ ॥ न पुत्रमरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ ९१ ॥
पुत्रमरणं न द्रक्ष्यन्तीति । पितृषु स्वेषु जीवत्स्विति शेषः । अविधवा इति । अतितीव्रवैराग्येण भर्त्रनुगमनेन, धवाङ्गभूतसत्पुत्रवत्वेन वेति शेषः ॥ १।१।९१ ॥
॥ १।१।९२,९३ ॥ न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः ।
न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा ॥ ९२ ॥
न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।
नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥ ९३ ॥
क्षुद्भयमिति । क्षुदुपशमोपायाभावजमित्यर्थः ॥ १।१।९३ ॥
नित्यं प्रमुदितास्सर्वे यथा कृतयुगे तथा ।
कृतयुगे अधर्मासम्बन्धः स्वाभाविक इति तत्र नित्यं प्रजाप्रमोदः । त्रेतायामधर्मस्य पादांशतस्सम्बन्धप्रसङ्गे रामलक्ष्मणवैभवात् तदनाक्रमात् नित्यप्रमोदत्वम् ॥
॥ १।१।९४ ॥ अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥ ९४ ॥
एवं रामस्य राज्यपरिपालनवैभवचरितमुपदिश्य भविष्यद्रामस्य वृत्तान्त उपदिश्यते– अश्वमेधेत्यादि । अश्वमेधशतैरिष्ट्वेति । तेषां निष्कामतया ऽनुष्ठानात् ब्रह्मलोकहेतुत्वम् । क्त्वाप्रत्ययात्कार्यकारणभावश्चावसितः । यद्यपि ब्रह्मैव भगवान् रामः स्वस्वलोकप्राप्तौ न किञ्चित्साधनमपेक्षते अथापि मानुषोपाधिप्रयुक्तावर्ज्यसप्ताघशमनद्वारा ब्रह्मलोकोपयोगः । यथा ब्राह्मणस्यानुपचरितब्रह्ममुक्तेः स्वनित्यब्रह्मलोके ब्रह्मविद्यानुष्ठानोपयोगः৷৷৷৷ ॥ १।१।९४ ॥
॥ १।१।९५ ॥ गावां कोट्ययुतं दत्वा ब्रह्मलोकं प्रयास्यति ।
असङ्ख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशाः ॥ ९५ ॥
असङ्ख्येयं धनं दत्वा ब्रह्मलोकं प्रयास्यतीति पूर्वेण सम्बन्धः ॥ १।१।९५ ॥
॥ १।१।९६ ॥ राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।
चातुर्वर्ण्यं च लोके ऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥ ९६ ॥
कामरूपकन्याकुब्जादि तत्तद्राज्यपदस्थान् राजवंशान् शतगुणान् अनेकगुणवृद्धिमतः स्थापयिष्यति । शाश्वततत्तद्राज्यप्रदानेनेति शेषः । चत्वारो वर्णाश्चातुर्वर्ण्यं, स्वार्थे ष्यञ् । नियोक्ष्यतीति । शङ्कितस्वधर्मभ्रंशमपीति शेषः ॥ १।१।९६ ॥
॥ १।१।९७ ॥ दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ ९७ ॥
ब्रह्मलोकं प्रयास्यतीत्युक्तं तत्कियत्कालानन्तरमित्यपेक्षायां दशवर्षेत्यादि । उपासित्वेति । राज्यपरिपालनमेव नित्यप्राप्तं योगबुध्या ऽनुष्ठायेत्यर्थः । तथा हि गीयते– “स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः” इति, “स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः” । इति च । ब्रह्मलोकं गमिष्यतीति । एवं भगवतो रामस्य ब्रह्मत्वं रामतुल्ययज्ञदानादिनिजनित्यकर्मोपेतयोगिमात्रप्राप्यत्वं ब्रह्मलोकस्यैव सर्वलोकोत्तमत्वं श्रुतिसिद्धं चोपदिष्टं वेदितव्यम् । इह केचिदतिशब्दब्राह्मणाः अविदितकुलदेवताः अनाकुलितकुललोकाः अनुपासितकुलविद्याः अनाश्रितकुलदेशिकाः अखिलवेदशास्त्रनिरतिशयश्रुतब्रह्मतल्लोकप्राशस्त्याः धृष्टधूपपिशाचवत् श्रुततदुत्कर्षामर्षोत्थिता ब्रह्मलोकशब्दयोरन्यथानयने अतिमहत्प्रयतन्ते । कथम्? ब्रह्मेति विष्णुश्शिवो वा तस्य लोको ब्रह्मलोकः । स च भूर्भुवःस्वरादिसर्वलोकोपरिवर्तिसत्यब्रह्मलोकादपि परः इति तथा ब्रह्मैव लोको ब्रह्मलोक इत्यादि । भगवानेव तेभ्यः प्रतिवक्ति– “तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ " इत्यीदि “ततो यान्त्यधमां गतिम्” –इत्यन्तेन । अस्माभिस्तु तेषामस्मदन्तेवास्यनुग्रहाय यद्वक्तव्यं तदाकरे प्रपञ्चितमिति नेह बहुग्रन्थसाध्यतस्सुप्रतिपादनम् । बत नारद एषामदुःखाय विष्णुपदं न प्रायुङ्क्त, नावेदीद्वा? लोकपदं प्रयाणपदं च द्वितीयार्धे व्यक्तं प्रायुङ्क्त ॥ १।१।९७ ॥
॥ १।१।९८ ॥ इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ ९८ ॥
अथ नारदः स्वोपदिष्टसङ्क्षेपपाठफलं प्रवृत्यङ्गमुपदिशति– इदमित्यादि ॥ पूयते ऽनेनेति पवित्रम् । “कर्तरि चर्षिदेवतयोः” इति यथासङ्ख्यं करणे कर्तरि इत्रः । ऋषिः वेदः । वेदतुल्यञ्चेदम् । तथोक्तं वेदैश्च सम्मितमिति । तुल्यमिति यावत् ॥ १।१।९८ ॥
॥ १।१।९९ ॥ एतदाख्यानमायुष्यं पठन् रामायणं नरः ।
सपुत्रपौत्रस्सगणः प्रेत्य स्वर्गे महीयते ॥ ९९ ॥
अनर्थनिवृत्तिवदर्थावाप्तिरप्युपदिश्यते– एतदित्यादि । आयुः प्रयोजनमस्य आयुष्यं, स्वर्गादिभ्यो यद्वक्तव्यम् । यद्वा निमित्ताधिकोर? “गोद्व्यचो ऽसङ्ख्या”– इत्यादिना यत् । आयुष्यं वर्चस्यं इत्यादि स्वरितत्वदर्शनात् कश्चन यत् प्रत्यय एवेह मृग्यः । तत्र संयोगरूपे निमित्ते उत्पातरूपे वा निमित्ते अयं यत्प्रत्ययः । अत्र चायुरादिफलमेव कर्त्रा संयुज्यत इति समस्ति । इह च संयोगरूपनिमित्तम् । आख्यानं आख्यायिका, उपलब्धार्थम् । रामायणमिति । अयगतौ भावे ल्युट्, अयनं चरितम् । रामस्यायनं रामायणं, “पूर्वपदात्सञ्ज्ञायां” इति णत्वम् । पठन्निति हेतौ शता । अत एव हेतोः सपुत्रेत्यादिफलम् । गणः दासीदासादिगणः । सपुत्रपौत्रस्सगणः इह ऐहिकान् भोगान् भुक्त्वा प्रेत्य मृत्वा स्वर्गे पुण्यलोके महीयते । महधातुः पूजार्थः । स्वर्गिभिस्सत्कृतो मोदत इत्यर्थः ॥ अथात्र रामायणमित्यनेन विस्तृतसङ्क्षेपाविशेषेणोपदेशे तु सर्वपापेति सर्वशब्दासङ्कोचेन प्रेत्य सपुत्रपौत्रः स्वर्गे महीयत इति विना ऽध्याहारं यथावस्थितपदान्वयेन ब्रह्मलोकावाप्तिफलकत्वमेव रामायणस्योपदिश्यत इति युज्यते । ब्रह्मावतारश्च राम इत्यवादिष्ट च न्यायेन । अतस्तच्चरितानुसन्धातुः स्वर्गलोकावाप्तिर्न्यायसिद्धा । असङ्कोचोपचारेण सर्वपापविमोकश्च ब्रह्मलोकासाधारणधर्मः । तथाविमोकस्य “तत्सुकृतदुष्कृते धूनुते” इति श्रुतेः ब्राह्मालौकिकविरजावगाहैकसाध्यत्वात् । अन्यत्र कुत्रापि कालकृतिमूलपुण्यातिवाहाविलयात् । प्रेत्य सपुत्रादिकतया महीयमानत्वस्य ब्रह्मलोकातिरिक्तलोके ऽसम्भवाच्च । तत्र तु “यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति । तेन पितृलोकेन सम्पन्नो महीयते” इत्यादिना छान्दोग्येन प्राप्तब्रह्मलोकमुक्तस्य सत्यसङ्कल्पत्वस्तदिच्छया तत्तत्पितृपुत्रादिसमुत्थानस्य घण्टाघोषत्वात् । ब्रह्मलोकश्च परनाकपरस्वर्गादितः सर्वोपनिषत्प्रसिद्धः । उक्तविशेषणबलात् परस्वर्गग्रहश्च । अयमेवास्मदभिप्रेतो ऽर्थः ॥ १।१।९९ ॥
॥ १।१।१०० ॥ पठन् द्विजो वागृषभत्वमीयात्
स्यात्क्षत्रियो भूमिपतित्वमीयात् ।
वणिग्जनः पण्यफलत्वमीयात्
जनश्च शूद्रो ऽपि महत्वमीयात् ॥ १०० ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे प्रथमः सर्गः ॥
एवं चतुर्वर्णसाधारणं फलमुपदिश्य तत्तत्प्रातिस्विकफलोपदेशः पठन्नित्यादि ॥ हेतौ शता । रामायणमिति शेषः । द्विजः मुख्यो द्विजः । वागृषभत्वमीयादिति । शब्दब्रह्मपारगो भवतीति यावत् । यदि रामायणं पठन् क्षत्रियः स्यात् तदा ऽसौ भूमिपतित्वमीयात् । “इण्” आशिषि लिङ् । “अकृत्सार्वधातुके” इति दीर्घः । ईङ् गतावित्यस्मादिति कश्चित् । स त्वात्मनेपदी । पण्यैः क्रयद्रव्यैः साध्यं मूलात् द्विगुणत्रिगुणवृद्ध्यादिरूपं फलं यस्य, तस्य भावस्तत्वम् । शूद्रजनः द्विजदासो ऽपि तदितरसर्वप्रजाभ्यो महत्वं श्रैष्ठ्यं ईयात् देहान्तरे स्वोपरिवर्णप्राप्तिलक्षणं महत्वमीयात् ॥ १।१।१०० ॥