लिङ्ग-पूजा-पक्षः
रामेण रामेश्वर-सेतु-स्थले लिङ्ग-पूजा कृतेति,
तत्-कारणं रावण-वध-रूप-ब्रह्म-हत्या-निवृत्तिर्
अथवा सेतुनिर्माण-विघ्न-व्यपोहनं तत
इति च केचित्।
सेतुनिर्माणात् पश्चात्
कूर्मपुराणे
सपत्नीकं च ससुतं
सभ्रातृकम् अरिन्दमः ।
आनयाम् आस तां सीतां
वायु-पुत्र-सहायवान् ॥ ४६ ॥सेतु-मध्ये महादेवम्
ईशानं कृत्तिवाससम् ।
स्थापयाम् आस लिङ्गस्थं
पूजयाम् आस राघवः ॥ ४७ ॥यत् त्वया स्थापितं लिङ्गं
द्रक्ष्यन्तीह द्विजातयः ।
महापातक-संयुक्तास्
तेषां पापं विनश्यतु ॥ ४९ ॥
तिलक-कारः
अत्र पूर्वमिति ।
अत्र सेतु-मूले। पूर्व सेतुबन्धनात् पूर्वं
विभुर् महादेवो
मम रामस्य प्रसादम् अकरोन् मत्स्थापितः तत्त्वेनात्र स्थितोऽभूत् ।
सेतोर्निर्विघ्नतासिद्ध्यै समुद्र-प्रसादानन्तरं शिवस्थापनं रामेण कृतमिति गम्यते ।
अत्र स्थले महात्मनः सागरस्य तीर्थे
सेतुनिर्माणमूल-प्रदेशत्वात् सेतुबन्ध इति ख्यातं भविष्यतीति शेषः ।
तथा त्रैलोक्येन पूजितं च भविष्यति ॥ २० ॥
एतत्पवित्रं दर्शनात्सर्वपापविशोधनं विशिष्य महापातकस्यापि नाशनम् ।‘सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति’ इति स्मृतेः ।
कूर्मपुराणे रामचरिते त्वत्र स्थाने स्पष्टमेव तु लिङ्गस्थापनमुक्तम् ।
त्वत्-स्थापित-लिङ्गदर्शनेन ब्रह्महत्यादिपापक्षयो भविष्यतीति
महादेववरदानं च स्पष्टम् एवोक्तम् ।
तत एवाचवायें?? पूर्वं महादेवः प्रसादमकरोत्
ततः सेतुबन्धनं जातम् इत्यक्षरार्थः ॥ २१ ॥
पाद्म-पुराणे
कोत्र मे नियमो देव
किन्नु कार्यं मया विभो
श्रुत्वैतद्राघवो वाक्यं
राक्षसोत्तम-भाषितम्१३०
कार्मुकं गृह्य हस्तेन
रामः सेतुं द्विधाच्छिनत्
त्रिर्विभज्य च वेगेन
मध्ये वै दशयोजनम्१३१
छित्वा तु योजनं चैकम्
एकं खण्डत्रयं कृतम्
वेलावनं समासाद्य
रामः पूजां रमापतेः१३२
कृत्वा रामेश्वरं नाम्ना
देवदेवं जनार्दनं
अभिषिच्याथ सङ्गृह्य
वामनं रघुनन्दनः१३३
रुद्र उवाच
भो भो रामास्तु भद्रं ते
स्थितोऽहमिह साम्प्रतम्
यावज्जगदिदं राम
यावदेषा धरा स्थिता१३५
अत्र केचिद् (arch) “रमापतेः” इत्य् अस्य स्थाने “उमापतेर्” इति पठन्ति।
सन्देहास्पदम् इदम् - जनार्दनः, वामनः इति वर्तते खलु।
रुद्रस्याविर्भावः सेतुक्षेत्रान् निर्गमात् परम् एव।
स्कान्द-पुराणे
स्कन्दपुराणम् - 3.1.47.40:
अतो दशग्रीववधात्
कुम्भकर्णवधाद् अपि ।
ब्रह्महत्या समभवद्
रामस्याक्लिष्टकर्मणः ॥ ४० ॥
अतस् तच्-छान्तये रामो
लिङ्गं रामेश्वराभिधम् ।
स्थापयामास विधिना
वैदिकेन द्विजोत्तमाः ॥ ४१ ॥
सेतु-निर्माणात् प्राक्
रामेश्वरस्य प्रतिष्ठा सेतुबन्धात् पूर्वमेव भवितव्या ।
रामेण रावण-हननान्तरं झटिति लङ्कया निर्गमनात् ।
भरतेन रामस्य १४ वर्षानन्तरमनागमने वह्निप्रवेशशपथः कृतः।
अन्तिमदिने मध्याह्ने रावणवधः।
ततः सीतया आत्मनः शुद्धता-प्रकटनम् ।
सायं सूर्यास्तात् पूर्वं अयोध्यां प्रति आगन्तव्यमिति ततः प्रस्थानम् ।
एवं कथा ।
अत्रान्तरे प्रतिष्ठायाः समयः नास्ति ।लङ्का-विजयानन्तरं प्रतिष्ठा +इति पौराणिकवचनस्य योजना त्व् इत्थम् ।
पुराणेषु पूर्वकथाः परं वर्ण्यन्ते । पराः पूर्वं च ।
इयं पुराणानां इतिहासस्य च रीतिः।
एवं महाभारतेप्य् अस्तीति सप्रमाणं भागवत-दशम-स्कन्ध-व्याख्याने द्वैताचार्यैः श्रीमध्वाचार्यैरुक्तम् ।
तथाहि तद्वचनम्-‘पूर्वाः कथाः परं ब्रूयुः
पराः पूर्वं तथैैव च ॥
मोहनार्थाय दुष्टानां
सर्वं व्यत्यासयिष्यते ।
विस्तारे तु यदुक्तं स्यात्
तद्-ग्राह्यम् अविरोधतः ।
संक्षेपोक्त-विरोधे तु
गुणोक्तिश्च सतां यथा’’॥इति शब्दनिर्णये।
तेन कूर्मपुराणवचनं पाद्मवचनानुसारेण योजनीयम् ।
इति प्रदीपसिंहः।
देवतान्तर-पूजौचित्यम्
तच्चान्यत्राख्यातम् - Source: TW ।
अपूजा-पक्षः
प्रामाण्य-विचारः
विस्तारो ऽन्यत्र द्रष्टव्यः - कुशाग्र-प्रतिवचने ।
पुराणानां तात्पर्यम्
रामेश्वर-क्षेत्रोत्कर्ष-बोधने पुराणानां तात्पर्यं,
न तावद् वाल्मीकीये ऽसङ्गत-कल्पनारोपणम्।
एवं तात्पर्यग्राहिभिर् बुद्धिमद्भिस् समाधेयम्।
मन्दमतयो ह्य् अर्वाचीन-ग्रन्थापेक्षया प्राचीनं विकुर्युः।
पूजा समुद्रस्य
And VR records that Rama worshipped samudra before crossing the seas.
कूर्मपुराणेन लङ्काविजयानन्तरं सेतुबन्धे श्रीरामेण शिवलिङ्गस्थापनं ज्ञायते।
तिलकटीकाकृत् पौर्वापर्यव्यत्यासेन समादधाति।
जयात् परम् अपि न पूजा
अयोध्यां प्रति त्वरया गच्छतो रामस्य
लिङ्गप्रतिष्ठाऽवकाशो नावर्ततेत्य् अभिप्रायो गृह्यताम्।
रावणो न ब्राह्मणः
अन्यत्रेदम् आख्यातम्।
ऐतिहासिकी दृष्टिः
सद्य उपलभ्यमाने वाल्मीकीये रामायणे रामश्वरे रामकृता शिवप्रतिष्ठा नोक्ता न च सूचिता।
तत् तु शैवैः कालक्रमेण पुराणान्तरे योजिता।