रावणो न ब्राह्मणः

पौलस्त्यत्व-मात्रान् न ब्राह्मण्यम्

इतिहास-पुराणेषु क्वचिद् एव ब्राह्मणस्य वर्णान्तर-स्त्रियाम् उद्भूतः पुत्रो ब्राह्मण उच्यते, बहुत्र न।

अब्राह्मणापत्योद्भवस्योदाहरणानि -
व्यासात् क्षत्रियायाम् अम्बिकायां क्षत्रियो धृतराष्ट्रः, क्षत्रियायाम् अम्बालिकायां क्षत्रियः पाण्डुः, शूद्र-दास्याः शूद्रो विदुरः।

ब्राह्मणापत्योद्भवय् उदाहरणानि - पराशरात् क्षत्रियायां सत्यवत्यां व्यासः, जमदग्नेः क्षत्रियायां रामः।

एवं पौलस्त्यत्व-मात्रान् न राक्षस-राज-कुमारी-सूनोर् वैश्वरवसो रावणस्य ब्राह्मण्यं निश्चेतुं शक्यम्।
उत्तरकाण्डे तु विश्रवसो भारद्वाज-ब्राह्मण्यां जातं “सर्वैर् ब्रह्म-गुणैर् वृतम्” धनाध्यक्षम् आह।
रावणादौ तु तद्-विपरीतम् - “दारुणान् … प्रसविष्यसि राक्षसान् क्रूरकर्मणः; जनयामास बीभत्सम्” इत्य् उक्तम्।

English

Brahminhood from inter-jAti union with a Brahmana male?

In the Itihasas and Puranas, it is only in some instances that a son born to a Brahmin from a woman of another varna is called a Brahmin; in many places, he is not.

Examples of the birth of non-Brahmin offspring:

  • From Vyasa, the Kshatriya Dhritarashtra was born to the Kshatriya Ambika, the Kshatriya Pandu to the Kshatriya Ambalika, and the Shudra Vidura to a Shudra maid.

Examples of the birth of Brahmin offspring:

  • From Parashara, Vyasa was born to the Kshatriya Satyavati; from Jamadagni, Rama (Parashurama) was born to a Kshatriya woman.

Thus, Ravana’s Brahminhood cannot be ascertained merely from his being a descendant of the brAhmaRShi pulastya and a rAxasa princess. However, in the Uttara Kanda, it describes the Lord of Wealth (Kubera), who was born to Vishravas from a Brahmin woman of the Bharadwaja clan, as being “endowed with all brahminical qualities,” but nowhere does it say this about Ravana.

वाल्मीकेर् मतम्

वाल्मीकि-रामायणे रामेण रावणः क्षत्र-धर्म-व्यवस्थितो मतः -

नैवं विनष्टाः शोचन्ते
क्षत्र-धर्म-व्यवस्थिताः ।
वृद्धिम् आशंसमाना ये
निपतन्ति रणाजिरे ॥ १५ ॥ …
इयं हि पूर्वैः सन्दिष्टा
गतिः क्षत्रिय-सम्मता ।
क्षत्रियो निहतः सङ्ख्ये
न शोच्य इति निश्चयः ॥ १८ ॥

कथं रामस्य ब्राह्मण्यं वाल्मीकीयतो ज्ञेयम्? तत्र खलु क्षत्रिय इत्येव व्यपदिष्टः - रावणकलेवरदाहप्रसङ्गे विशिष्य।

English

rAvaNa can’t be both a kShatriya and a brAhmaNa at the same time (no specific varNa-change lore). rAma of vAlmIki clearly says “kShatriya”, skAnda-purANa says “brAhmaNa”. Either twist vAlmIki as per SP and call rAma a liar/ confused person, or understand intent of skAnda-purANa as per vAlmIki - your choice.

धर्माकूत-मतम्

अनुलोमजत्वेन पर्वणि होमे ऽधिकारं प्रतिपादयति धर्माकूतकृत् सुन्दरकाण्डे -

ननु मूर्धावसिक्तादीनां वर्ण-बहिर्भूतत्वेन जात्य्-अन्तरत्वम् उक्तम् ;
तन् न सङ्गतम्,
अनुलोम-जातानां मातृ-जातीयत्वात् ।
तद् आह विष्णुः-

‘समान-वर्णासु पुत्राः समान-वर्णा भवन्ति ।
अनुलोमासु मातृ-वर्णाः ।
प्रतिलोमास् त्व् आर्य-विगर्हिताः’

इति ।
शङ्खो ऽपि -

‘क्षत्रियायां ब्राह्मणाद् उत्पन्नः
क्षत्रिय एव भवति ।
क्षत्रियेण वैश्यायाम् उत्पन्नो वैश्य एव ।
वैश्येन शूद्रायां शूद्र एव भवति '

इति

— नैष दोषः ।
अनयोर् वचनयोर् मातृ-जात्य्-उचित-धर्म-प्राप्त्य्-अर्थत्वात् ।

धर्माकूतकृद् यद् विभीषणस्य १०-दिनाशौचाभावम् उल्लिख्य सद्यःशौचं वर्णयति -
तद् एव समाधानं क्षत्रियोचिते १२-आहाशौचे ऽपि सङ्गच्छत एव। अतो न विभीषणाभिषेको ब्राह्मण्य-निरूपकः।

राक्षस-साधारणस्य क्षत्रियत्वम्

उत्तरकाण्डे राक्षसाणां च स्वाभाविकं क्षत्रियत्वं सूचितम् प्रजापतिना -

रक्षाम इति यैरुक्तं
राक्षसास् ते भवन्तु वः ।

धर्माकूते सुन्दर-काण्डे -

राक्षस-सामान्यस्य क्षत्रिय-जातित्वेन राक्षस्यां विश्रवस उत्पन्नस्यापि मूर्धावसिक्तत्वेन कर्माधिकार-संभवात् ।
अथवा रक्षणार्थं सृष्टा जातिस् तावत् क्षत्रिय-जातिर् एव ।

राक्षसास् सर्वे दुष्टा इत्य् अपि न । अवर्तत हि विभीषणः साधुः, सुकेशश् च। एवं चोच्यते -

सुकेशं धार्मिकं दृष्ट्वा … ग्रामणीर्नाम गन्धर्वो (स्वसुतां) धर्मात्मा ददौ।

अध्यात्मरामायणे

यदि चाध्यात्मरामायणम् प्रमाणं वः, तत्रापि मण्दोदरी-वचनम् -

राक्षसाः क्षत्रियाकारा
जाता भूमेर् भरावहाः।
तान् हत्वा बहुशो रामो
भुवं जित्वा ह्यदान्मुनेः॥ ५१॥
स एव साम्प्रतं
जातो रघुवंशे परात्परः।
भवदर्थे रघुश्रेष्ठो
मानुषत्वम् उपागतः॥ ५२॥

स्कन्दपुराण-प्रक्षेपः

स्कन्दपुराणम् - 3.1.47.40:

अतो दशग्रीववधात्
कुम्भकर्णवधाद् अपि ।
ब्रह्महत्या समभवद्
रामस्याक्लिष्टकर्मणः ॥ ४० ॥
अतस् तच्-छान्तये रामो
लिङ्गं रामेश्वराभिधम् ।
स्थापयामास विधिना
वैदिकेन द्विजोत्तमाः ॥ ४१ ॥

तत्रोक्तं पौलस्त्यत्वाद् रावण-ब्राह्मण्यं पूर्वम् एव निराकृतम्।
एवञ्च प्राचीनैष् टीकाकृद्भिर् अपि नोल्लिखितम्,
न च बहुभिर् अर्वाचीनैर् (तिलक-धर्माकूतादि-कृद्भिर्) इत्य् अवधेयम्।
तत्रत्याख्यानस्य प्रथमोल्लेखः कदा लभ्यतय् इति विचारणीयम् - तदा प्रक्षेपकालावधिः स्पष्टतरो भवति।

पाद्म-पुराणारोपः

कुर्वतो बुद्धिपूर्वं मे
ब्रह्महत्यां सुनिन्दिताम्
न मे दुःखापनोदाय
साधुवादः सुसम्मतः ॥ २६ ॥

इति राम-शोके ऽगस्त्यो ऽश्वमेधं सूचयति।
अयम् एवात्र शोकवान् रामो वाल्मीकीये सुपरिचित-विभीषणो “क्षत्रियो न शोच्य” इति विपर्यासः।

इदम् अप्य् आख्यानं केनादाव् उद्धृतम् इत्य् अन्वेष्टव्यम्।

विरोध-परिहारः

सत्य् एवम्, कथं निगूह्येत विरोधो रामायण-पुराणयोः?
यदि च विरोधो, तत्रार्थवादतया ग्रहणेन परिहारस् समुचित एव।

प्रमाण-तारतम्यम् अन्यत्र विचारितम्

वाल्मीकीये अनुक्तत्वात् तद्विरोधत्वाच् च स्कन्दपुराणवचनं तीर्थप्रंशसापरमेव मन्तव्यम्,
न तु श्रीरामस्य ब्रह्महत्यादोषप्रतिपादनपरम्।

इति कुशाग्रः।

आचारतो ऽपि न

न हि रावणस्य राक्षसाधिपतेः पुलस्त्यपुत्रस्याप्य् ऋषि-विद्वेषिणो ब्राह्मण्यं सम्भवति -
यथा न कुबेरस्य।

Ravana is called as lokakantaka as well as a man-eater and to claim that killing him begets brahmahatya flies against logic. Two - one cannot do praayashchitta for the sin before even committing it. - रविलोचनः

आततायि-ब्रह्म-हत्या?

न रावणो ब्राह्मणः।
तथा भ्रमेण गृहीते ऽपि तद्-वधो न प्रायश्चित्तम् अपेक्षते, प्रत्युत देव-सहित-सर्व-लोक-वन्दनम्।
तद् एव हि वाल्मीकीये दर्शितम्।

“क्षेत्र-दार-हारश् चैव षड् एते ह्य् आततायिनः”

इत्यस्माद् रावणस्याततायित्वम् अवगम्यते।
पुनश्च

“आततायिनमायान्तं…न तेन ब्रह्महा भवेत्”

इत्यादिभिः स्मृतिप्रसिद्धवचनैर्
न तस्य वधाद् ब्रह्महत्यादोषः।

English

Śrī Rāma did not incur the doṣa of brahmahatyā in killing Rāvaṇa. The evidence from the Dharmaśāstras is simply overwhelming. There is no brahmahatyā in killing an aggressor. Even as purusha, he does not incur the doṣa of brahmahatyā, per the opinion of Baudhayana, Vasishtha, Vyasa, Manu, et al. All great commentators of the Vālmīki-Rāmāyaṇan agree with this position in the case of strī-hatyā regarding the killing of Tāṭakā. Their argument can be applied mutatis mutandis to the case of the killing of Rāvaṇa. - कुशाग्रः

सेतुमाहात्म्यार्थवादाः

English

Valmiki is THE Pramana for Ramayana, so many distortions and additions to Rama-Katha episodes and story in the Puranas, as per the theological orientations of the Purana writers. Skanda Purana Kshetra Mahatmya (extolling pilgrimage spots) portions add too much exaggerations and hype all the time. Not just Rama’s sin of killing Brahmana Ravana, but Krishna’s sin of killing uncle Kamsa, and 5-6 more such sins are listed in the Setu Mahatmaya and it is said that expiation for all those sins is through visiting and worshiping at the Setu. - jaTAyuSh