Source: TW
Śrī Rāma did not incur the doṣa of brahmahatyā.
Some seminal references from the Dharma-sūtras, Smṛtis, Itihāsa, and Purāṇas are provided below. There is no time to write a detailed analysis, but the myth must be debunked.
Even if it is accepted that Rāvaṇa was a Brāhmaṇa, his conduct and the circumstances in which he was killed determine whether brahmahatyā-doṣa was incurred by Śrī Rāma or not. The thrust of all the Dharma-śāstras is the same: an aggressor (ātatāyin) Brāhmaṇa, even if learned in the Vedas, Vedāṅgas, and Vedānta, can be killed without incurring brahmahatyā-doṣa. An aggressor includes someone who abducts one’s wife. Moreover, killing such a Brāhmaṇa in self-defense on the battlefield also does not lead to brahmahatyā-doṣa.
All great commentators of the Vālmīki-Rāmāyaṇan agree with this position in the case of strī-hatyā regarding the killing of Tāṭakā. Their argument can be applied mutatis mutandis to the case of the killing of Rāvaṇa.+++(5)+++
The lack of mention of brahmahatyā-doṣa in the Vālmīki-Rāmāyaṇa must be given due weightage. The epithets applied to Śrī Rāma throughout the Vālmīki-Rāmāyaṇa, such as dharmajña, sarva-bhūta-hite rata, vigrahavān dharma, and satya-parākrama, must also be considered.
Once this core fact is established, per the Dharma-sūtras and Smṛtis, which are authorities in the determination of brahmahatyā-doṣa, one can proceed to explain the references to prāyaścitta in the Purāṇas.
The story of prāyaścitta has to be understood in the context of loka-śikṣaṇa (setting an example for the world), tīrtha-mahātmya (expounding the greatness of tīrthas such as Rāmeśvara), or karma-praśaṁsā (eulogizing yajñas such as Aśvamedha).
In this way, the samanvaya among all the śāstras, including the Vālmīki-Rāmāyaṇa, Dharma-sūtras, Smṛtis, and Purāṇas can be clearly established.
अध्यापकं कुले जातं यो हन्याद् आततायिनम् ।
न तेन भ्रूणहा* भवति मन्युस्तन्मन्युमृच्छति ॥
*पाठभेद - ब्रह्महा
(बौधायन-धर्मसूत्र १.१०.१८.१३)
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनमायान्तं हन्यादेवाविचारयन् ॥
नाततायिवधे दोषो हन्तुर्भवति कश्चन ।
प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥
(मनुस्मृति ८.३५०-३५१)
आततायिनं हत्वा नात्र प्राणच्छेत्तुः किञ्चित्किल्विषमाहुः अथाप्युदाहरन्ति-
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारहरश्चैव षडेते आततायिनः ॥
आततायिनमायन्तम् अपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् ॥
स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् ।
न तेन भ्रूणहा स स्यान्मन्युस्तन्मन्युमृच्छतीति ॥
(वसिष्ठ-धर्मशास्त्र ३.१५-१८)
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनमायान्तं हन्यादेवाविचारयन् ॥
नाततायिवधे दोषो हन्तुर्भवति कश्चन ।
प्रकाशं वाप्रकाशं वा मन्युस्तन्मन्युमृच्छति ॥
उद्यतासिविषाग्निं च शापोद्यतकरं तथा ।
आथर्वणेन हन्तारं पिशुनं चैव राजसु ॥
भार्यातिक्रमिणं चैव विद्यात्सप्ताततायिनः ।
यशोवित्तहरानन्यानाहुर्धर्मार्थहारकान् ॥
(विष्णु-स्मृति ५.१९०-१९३)
उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत् ।
यो हन्यात्समरे क्रुद्धो युध्यन्तमपलायिनम् ।
ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः ॥
क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन ।
यो यथा वर्तते यस्मिंस्तथा तस्मिन्प्रवर्तयन् ।
नाधर्मं समवाप्नोति नरः श्रेयश्च विन्दति ॥
(महाभारत ५.१७८.२७-२८)
अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम् ।
न तेन ब्रह्महा स स्यान्मन्युस्तं मन्युमृच्छति ॥
(महाभारत १२.३५.१९)
प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे ।
जिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत् ॥
(महाभारत १२.३५.१७)
तात्कालिकवधं हत्वा हन्तारमाततायिनम्।
न च हन्ता च तत्पापैर्लिप्यते द्विजसत्तम ॥
आततायिनमायान्तमपि वेदान्तगं रणे ।
जिघांसंतं जिघांसेच्च न तेन ब्रह्महा भवेत् ॥
(पद्मपुराण, सृष्टिखण्ड ४८.५६-५७, तथैव शिवपुराण, उमासंहिता २१.३५)
आत्मानं हन्तुमायान्तमपि वेदाङ्गपारगम् ।
न दोषो हनने तस्य न तेन ब्रह्महाऽभवम् ॥
(ब्रह्मवैवर्तपुराण, गणपति-खण्ड ३५.८१)