[[रामायणतात्पर्यसंग्रहः Source: EB]]
[
[TABLE]
<MISSING_FIG href="../books_images/U-IMG-1700763815i1.png"/>
॥ श्रीः ॥
॥ श्रीरामायणसारसंग्रहस्तोत्रम्॥
<MISSING_FIG href="../books_images/U-IMG-1700763742i1.png"/>
इह खलु भगवान्प्राचेतसः कमलासनवरलब्धसकलार्थवेदनःश्रीरामचन्द्रचरितवर्णनात्मकं श्रीरामायणाख्यं महदादिकाव्यं निर्मये। तन्निर्भिमाणश्च तत्र निबद्धैःश्रीरामचन्द्रवचनैस्तच्चरितकाव्यान्तरवचनैः स्ववचनैश्च सकलदेवतातिशायिनं शिवस्य महिमातिशयं व्यञ्जयामासेत्येतदर्थप्रतिपादकं शिवस्तोत्रमारभमाणस्तत्प्रतिपाद्यमर्थेतावत्प्रतिजानीते—
वाल्मीकिरादिकविराङखिलार्थदर्शी
साक्षाद्विरिञ्चइव संप्रतिपन्नभावः।
विश्वेश विष्णुमधिकृत्य कृते प्रबन्धे
व्यक्त्या तवैव निबबन्ध परं परत्वम्॥
व्यक्त्या व्यञ्जनाख्यया ध्वनिवृत्त्या॥१॥
तत्र तावदगस्त्याश्रमप्रवेशसमये श्रीरामचन्द्रवचनैः कविवचनैश्च शिवमहिमातिशयद्योतनमाविष्करोति—
रामायणे हि कलशप्रभवाश्रमस्था
देवादयोऽपि तमुपासत इत्युदीर्य।
स्थानानि चात्र मधुजिन्मघवन्मुखानां
तस्याश्रमे निगदितानि न ते कपर्दिन्॥
अगस्त्याश्रमाभ्याशे लक्ष्मणं प्रति श्रीरामचन्द्रवचनानि—
‘अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। अगस्त्यं नियताहारं सततं पर्युपासते॥अत्र देवाश्च यक्षाश्च नागाश्च पतगैःसह।वसन्ति नियताहारा धर्ममाराधयिष्णवः॥’ इति। अगस्त्याश्रमप्रवेशानन्तरं कविवचनानि—‘स तत्र ब्रह्मणः स्थानमग्नेःस्थानं तथैव च। विष्णोःस्थानं तथेन्द्रस्य स्थानं चैव विवस्वतः॥सोमस्थानं भगस्थानं स्थानं कौबेरमेव च। धातुर्विधातुःस्थाने च वायोः स्थानं तथैव च॥स्थानं च पाशहस्तस्य वरुणस्य महात्मनः। स्थानं तथैव गायत्र्या वसूनां स्थानमेव च॥ स्थानं च नागराजस्य ह्यनन्तस्य महात्मनः। कार्त्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति॥’ इति। एवं देवोपास्यत्ववचनानां स्थानवर्णनवचनानां च
वक्तृभेदेऽपिकाव्यप्रबद्भूरेकत्वात् ‘उदीर्य’ इति निर्देशः। अत्र ब्रह्मादीनामगस्त्यमुपासितुमागतानां स्थानान्युक्त्तानि, तथैव प्रागुपक्रान्तत्वात्, उत्तररामायणे शम्बुकवधानन्तरं श्रीरामचन्द्रं द्रष्टुं स्वर्गाद्विमानैरागतानाम् ‘अगस्त्यस्याश्रमपदं द्रक्ष्यामस्तं महाशयम्’ इत्यादिकं वचनजातमुपन्यस्य तथैव तदभिवादनार्थंतेषामगस्त्याश्रमगमनोक्त्या तत्रैव श्वेतनामानं राजानं क्षुत्पिपासारूपमहाव्याधेरवधिंपृष्टवन्तं प्रत्यगस्त्यदर्शनेन ‘स हि तारयितुं शक्तःसौम्यः सुरगणानपि। किं पुनस्त्वां महाबाहो क्षुत्पिपासासमन्वितम्॥’ इति वचनोपन्यासेन चागस्त्यस्य सकलदेवतोपास्यतायाः स्फुटीकरणाच्च। अगस्त्योपासनार्थं तदाश्रमे निवसतां ब्रह्मादिदेवानामिव तत्रशिवस्य स्थानं नोक्तम्। तस्माद्ब्रह्मविष्ण्वादयएवागस्त्योपासका न तु शिव इति द्योतनेन शिवस्य तदतिशायिमहिमा व्यञ्जितः॥२॥
न केवलमेतावता, किं तु प्रकारान्तरेणापि व्यञ्जित इत्याह—
तेन त्वमेव ननु सिध्यसि पारिशेष्या-
त्तस्येन्दुशेखर तपोनिकरैरुपास्यः।
तस्याप्युपासकतया विनिवेशितेभ्य-
स्तेभ्यस्तव त्वतितरां महिमा प्रसिध्येत्॥
शिवं विना सकलैर्देवैरुपास्यमानस्य ह्यगस्त्यस्य तपोनिकरैराराधनीयःशिव एवेति पारिशेष्यात्सिध्यति। ततश्चेतरदेवानां शिवोपासकत्वसिद्धेस्तेभ्यः शिवस्थातितरामुत्कर्षःप्रसिव्यतीत्यर्थः॥३॥
किं च लवणवधार्थं शत्रुघ्नं प्रेषयता श्रीरामचन्द्रेण तद्वधार्थं हरिमूर्तिरूपं किंचिदस्त्रंदत्वा तत्प्रभावो वर्णितः—‘नायं मया शरः पूर्वं रावणस्य वधार्थिना। मुक्तःशत्रुघ्नभूतानां महांस्त्रासो भविष्यति॥” इति। तथैव शत्रुघ्नेनक्रियमाणे तस्य शरस्य संधाने सकलभूतत्रासकत्वात्त्रासेन समागतान्देवान्प्रति ब्रह्मणो वचनेनापि तस्य शरस्य महामहिमा प्रपञ्चितः—‘एषो हि पूर्वदेवस्य लोककर्तुः सनातनः। शरस्तेजोमयो ह्येष येन वो भयमागतम्॥ एष वैकैटभस्यार्थे मधुनश्च महाशरः। सृष्टो महात्मना तेन वधार्थं दैत्ययोस्तयोः। एवमेव प्रजानीध्वं विष्णोस्तेजोमयं शरम्। एषा चैवतनुःपूर्वं विष्णोस्तस्य महात्मनः॥’ इति। एवंभूतंशरं प्रयच्छतापि श्रीरामचन्द्रेण यदा शिवेन
स्वशूलाद्विनिष्कृष्य दत्तं शूलं लवणस्य हस्ते स्थितं तदा येन केनाप्युपायेन स जेतुं न शक्यत इति हस्ते शूलाभावसमये संनिरुप्यानेन शरेण स हन्तव्य इत्युपदिश्य तदुपपादनार्थमुक्तम्—‘श्रीमतःशितिकण्ठस्य कृत्यं हि दुरतिक्रमम्’ इति। अनेनापि शिवस्य निरतिशयोत्कर्षसिद्धिमाह—
**अत्यन्तपूज्यविषयं किल यत्प्रसिद्धं **
श्रीमद्विशेषणमिदं हरिमूर्तिरूपात्।
अस्त्रास्वदाप्तमधिकं किमपि त्रिशूलं
व्यङ्क्तुंत्वयीव न परत्र निवेशितं तत्॥
वैष्णवमूर्तिरूपेणाप्यस्त्रेण हरदत्तशूलाभावसमयं प्रतीक्ष्य हन्तव्य इति वचनेन तदुपपादनार्थेन शिवाज्ञाया दुरतिक्रमत्ववचनेन च शिवस्य निरतिशयमहिमा स्पष्ट एव। श्रीमद्विशेषणेनापि तदभिव्यक्तिरुच्यते। अत्र हीदं विशेषणम् ‘श्रीमाञ्शत्रुनिबर्हणः’ ‘षडर्धनयनः श्रीमान्’ इत्यादाविव कान्त्यतिशयादिवर्णनया नान्यथासिद्धम्, ततो दुरतिक्रमत्योपवादनासिद्धेः। किं त्वत्यन्तपूज्यविषयम्। इत्थंभूतमिदं विशेषणं शिव इव नान्यत्र प्रयुक्तमिति तेनापि तस्य निरतिशयोत्कर्षसिद्धिः॥४॥
कुम्भोद्भवस्य सुरमंसदुपास्यता च
श्रीमद्विशेषणमिदं च तवेन्दुमौले।
श्रीरामचन्द्रवचनेष्विति तन्निबन्ध-
स्तस्यापि भक्तिमधिकां भवति व्यनक्ति॥
अथ श्रीरामचन्द्रवचनान्तरेणापि तस्य शिवे भक्त्यतिशयव्यक्तिं दर्शयति—
**यस्यास्ति हि स्म शिबिरं शिव दक्षिणाग्रे **
कुक्षिं गते जलनिधेर्नलसेतुक्लृप्त्यै।
तस्मिञ्जगद्विदितभूमनि सेतुबन्धे
पूर्वं प्रसन्न इति च त्वयि भक्तिमूचे॥
प्रतिप्रयाणसमये सीतां प्रति श्रीरामचन्द्रवचनानि—‘एतत्तुदृश्यते तीर्थं सागरस्य वरानने। यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्॥ एष सेतुर्मया बद्धःसागरे सलिलार्णवे। तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः॥पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम्।अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम्॥ हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि।विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम्॥ एतत्कुक्षा
समुद्रस्य स्कन्धावारनिवेशनम्। एतत्तु दृश्यते तीर्थ सागरस्य महात्मनः॥ सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम्। एतत्पवित्रमतुलं महापातकनाशनम्॥ अत्र पूर्वं महादेवःप्रसादमकरोत्प्रभुः। अत्र राक्षसराजोऽयमाजगाम विभीषणः॥’ इति। अत्राद्यश्लोकेन सागरतरणानन्तरं यत्र परपारे समुद्रजलावतारप्रदेशे सेनानिवेश आसीत्स प्रदेश उक्तः। ततस्त्रिभिः श्लोकैः स्वकारितो नलसेतुः सागरो मैनाकश्च प्रदर्शितः। तदनन्तरमर्धेन यत्र नलसेतुबन्धनार्थं सेनानिवेश आसीत्स प्रदेश उक्तः। न च तेन मैनाक एवंलकावत्समुद्रमध्यगतदुर्गरूप उक्त इति शङ्कनीयम्, समुद्रमध्ये निमज्ज्य स्थितस्य तस्य प्राग्दुर्गत्वोक्त्ययोगात्, अनन्तरमपि केनचित्तमेव दुर्गमाश्रित्य स्थीयत इति प्रसिद्ध्यभावात्, दुर्गं कर्तुं शक्यमित्यर्थकल्पनस्य चातिक्लिष्टत्वात्, ‘यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्’ इति सागरोत्तरणानन्तरस्येव तत्प्राचीनस्यापि स्कन्धावारनिवेशनस्यैव प्रदर्शने तत्स्वारस्याच्च।एवं च तस्य समुद्रकुक्षिगतत्वोक्तिः सेतुबन्धाख्यवक्ष्यमाणसेतुदक्षिणाग्रप्रदेशत्वाभिप्रायेण योजनीया, अन्यथा समुद्रजलमध्ये यावन्नलसेतुबन्धनं पञ्चरात्रपर्यन्तं सेनानिवेशायोगात्। ततः सार्धश्लोकेन सेतुबन्धाख्यःसक-
लजगत्पूजितः सकलमहापातकनिवर्तकश्च सेतुरुक्तः। तस्य सेतोस्तथाभूतमहिमहेतुस्तवरामेण प्रतिष्ठापितस्य तथा वरं दत्तवतः शिवस्य प्रसादस्तदनन्तरमर्धेनोक्तः। तेनार्धेन संक्षिप्तश्चार्थःकूर्मपुराणे रामोपाख्याने रावणवधानन्तरं प्रतिप्रयाणवृत्तान्तकथने विवृतः—‘सेतुमध्ये महादेवमीशानं कृत्तिवाससम्। सामिसोमलसत्फालं स्थापयामास राघवः॥ तस्य देवो महादेवः पार्वत्या सह शंकरः।प्रत्यक्ष एव भगवान्दत्तवान्वरमुत्तमम्॥ ये त्वया स्थापितं लिङ्गं द्रक्ष्यन्ति मनुजर्षभाः। महापातकनिर्मुक्तास्ते यान्ति परमां गतिम्।अन्यानि चैव पापानि स्नातस्यात्र महोदधौ। दर्शनादेव लिङ्गस्य नाशं यान्ति न संशयः॥ यावत्स्स्थास्यन्ति गिरयो यावदेव च मेदिनी।यावत्सेतुश्च तावच्चस्थास्याम्यत्र तिरोहितः॥स्थानं दानं तपः श्राद्धं भविष्यत्यक्षयंफलम्। स्मरणादेव लिङ्गस्य दिनपापं प्रणश्यति॥’ इति। वाल्मीकीयं वर्तमानश्वेतवराहकल्पावतारवृत्तान्तप्रतिपादकमिति तत्प्राचीनलक्ष्मीकल्पवृत्तान्तप्रतिपादककूर्मपुराणवर्णितस्यार्थस्य ‘अत्र पूर्वम्—’ इत्यनुवादो युक्त एव। अत्रपूर्वप्रसन्नः शिव इत्युक्त्या शिवे रामचन्द्रस्यानादिसिद्धो भक्त्यतिक्षय आविष्कृतः। एवं च सेतुबन्धाख्यःसेतुः
पूर्वं यत्र प्रसन्नः शिवस्तत्र तस्य दिव्यमन्दिरनिर्माणार्थं तत्सेवायै समागच्छतां गमनागमनसौकर्यार्थं नवटङ्कच्छेदविनिर्मितचतुरश्राकारैः पाषाणैरेव विनिर्मितः। नलसेतौ तत्संज्ञाभेदात्पूर्वमारभ्य ख्यातत्वपूजितत्ववचनात्तत्रैव पूर्वं शिवस्य प्रसन्नत्ववचनाच्च शिवालयनिर्माणार्थं समुद्रकुक्षौ किंचिद्दूरं प्रविष्टो नलसेतोरन्यः प्राक्सिद्धः सेतुरुक्त इति प्रतिभाति।नलसेतुर्हि न नवटङ्कचिह्नाभिर्नापि केवलं शिलाभिः कृतः, किं तु तरुगुल्मलतादिसहितैर्गिरिशिखरैर्गण्डपाषाणैश्च। उक्तंहि तत्रैव—‘ततो विसृष्टा रामेण सर्वतो हरियूथपाः।अभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः॥ ते नगान्नगसंकाशाःशाखामृगगणर्षभाः। बभञ्जुर्वानरास्तत्रपचकर्षुश्च सागरम्॥ते सालैश्चाश्वकर्णैश्चतथा वंशैश्च वानराः। कुटजैरर्जुनैस्तालैस्तिलकैस्तिमिशैरपि।बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः। मत्तैश्चाशोकवृक्षैश्च सागरं समपूरयन्॥ पुष्पिताग्रान्समूलांश्च पादपान्हरिसत्तमाः। इन्द्रकेतूनिवोद्यम्य प्रजहुर्हरयस्तरून्॥ सालान्दाडिमवृक्षांश्च नारिकेलान्विभीतकान्। बकुलान्ककुभान्निम्बान्समाजह्रुरितस्ततः॥ मेघाभैःपर्वताग्रैश्च तृणैः काष्ठैर्बबन्धिरे।पुष्पिताग्रैश्च तरुभिः सेतुं बध्नन्ति वानराः॥’ इति। एवं पादपादिस-
हितैःपाषाणैः कृतः सेतुम्तात्कालिकसंचारमात्रोपयोगी न चिरं सिन्धोरुपरिस्थायी। नलसेतुतः सेतुबन्धोऽन्य इति स्फुटं प्रतिभातीति विमर्शनीयं विद्वद्भिः। ननु—कूर्मपुराणे सेतोःस्थायित्वं दर्शितम्। तथा स्कान्दे नागरखण्डेऽपि। तत्र हि ‘यदि कश्चित्समायाति मनुष्योऽत्र कथंचन।मत्कारणान्नहन्तव्यः सर्वैरेव निशाचरैः॥ तथा निशाचराःसर्वे त्वया वार्या विभीषण।मम सेतुं समुल्लङ्घ्यन गन्तव्यं धरातले॥’ इति श्रीरामचन्द्रवचनम्, ‘भविष्यन्ति कलौ काले दरिद्रा नृपमानवाः। तत्र स्वर्णस्य लोभेन देवतादर्शनाय च॥नित्यं चैवागमिष्यन्ति त्यक्त्वा रक्षःकृतं भयम्। तेषां यदि वधं कश्चिद्राक्षसः प्रापयिष्यति। भविष्यति च मे दोषः प्रभुद्रोहोद्भवः प्रभो॥ तस्मात्कंचिदुपायं त्वं चिन्तयस्व यथामम।आज्ञाभङ्गकृतं पापं जायेत न सुरोत्तम॥‘इति विभीषणस्य प्रतिवचनं चप्रदर्श्य ‘तस्य तद्वचनं श्रुत्वा ततः स रघुसत्तमः। बाढमित्येव चोक्त्वाथ चापं सज्जीचकार सः॥ ततस्तं कीर्त्तिरूपं च मध्यदेशे रघूत्तमः। आच्छिनत्सुशितैर्बाणैर्दशयोजनविस्तृतम्॥’ इति मनुष्याणां द्रव्यलोभाल्लङ्कापर्यन्तगमनं मा भूदित्येतदर्थं रघुनायेनैव मध्यभागे सेतुच्छेदः कृत इति वर्णितम्।सत्यम्।
कूर्मपुराणोक्तं तावत्कल्पान्तरवृत्तान्तविषयमित्युक्तम्। नागरखण्डोक्तमपि कल्पान्तरवृत्तान्तविषयमेव। तत्रहि वैकुण्ठयात्रार्थं समाह्वानाय देवदूतागमनानन्तरं स्वयं वैकुण्ठयात्रां करिष्यता श्रीरामचन्द्रेण पुष्पकमारुह्य किष्किन्धामार्गेण सुग्रीवेण सह लङ्कां गत्वा तत्र दशरात्रमुषित्वा प्रतिनिवृत्तिसमये सेतोरादिमध्यान्तेषु रामेश्वराख्यं लिङ्गत्रयं प्रतिष्ठाप्य तत्र विभीषणायेयं बुद्धिरुपदिष्टेति वर्णितम्। अतःकथाभेदात्तदपि कल्पान्तरवृत्तान्तविषयमेव। कल्पान्तरसेतुर्यावत्प्रलयस्थायीति पुनः प्रवृत्ते कल्पे सेत्वन्तरनिर्माणमुपपद्यते। शिवमन्दिरनिर्माणार्थं किंचिद्दूरं कृतः सेतुबन्धस्तु शिवाज्ञया कल्पान्तरेऽपि तिष्ठतीत्येतदप्युपपद्यत इति न कश्चिद्वा विरोधः। ‘आरब्धपूर्वमितरैर्बद्धासेतुं महोदधौ। वृतो वानरकोटीभिः समुत्तीर्य महार्णवम्॥’ इति भारतवचने सेतोःपूर्वमितरैरारब्धत्वोक्तिस्तु पूर्वमपि रघुनाथेनैव कृतो न त्वितरैरित्येतदभिप्रायेणोपपद्यते। अध्यात्मरामायणकृता तु ‘सेतुमारभमाणस्तु तत्ररामेश्वरं शिवम्। संस्थाप्य पूजयामास रामो लोकहिताय च॥प्रणमेत्सेतुबन्धं यो दृष्ट्वा रामेश्वरं शिवम्।ब्रह्महत्यादिपापेभ्यो मुच्यते तदनुग्रहात॥’ इति नलसेत्वारम्भसमये रामेश्वरप्रतिष्ठा वर्णिता। प्रतिप्र-
याणसमये च ‘एष सेतुर्मया बद्धःसागरे सलिलार्णवे।एतत्तु दृश्यते तीर्थ सागरस्य महात्मनः॥ सेतुबन्ध इति ख्यातं त्रैलोक्येन च पूजितम्। एतत्पवित्रं परमं दर्शनात्पातकापहम्॥ अत्र रामेश्वरो देवो मया शंभुः प्रतिष्ठितः॥’ इति सीतां प्रति श्रीरामचन्द्रोक्तिवर्णनेव च तदृढीकृतम्। तदित्थं पुराणान्तरं दृष्ट्वा वर्णितम् ‘सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम्’ इत्यादिवाल्मीकीयरामायणवचनसंदर्भाभिप्रायमित्थमुन्नीय वर्णितं वेति न विद्मः। उदाहृतवाल्मीकीयरामायणवचनसंदर्भस्यापि नलसेतुनिर्माणारंम्भसमये रामेश्वरप्रतिष्ठा कृतेत्यभिप्रायकलने सेतुबन्धनिर्माणपूर्वकं तत्ररामेश्वरं प्रतिष्ठाप्य सेतुबन्धरामेश्वरदर्शने महाफलत्वं च श्रीरामचन्द्रेण नियतमिति ततः प्रभृति महापातकनाशनमिदं तीर्थं त्रैलोक्येनाभिपूजितम्, इहरामेश्वरश्च रावणवधसिद्धयर्थं प्रसन्नोऽभूदित्येतदर्थतया स्वारस्यं भजत एव। अस्मिन्पक्षे रामेश्वरदिव्यमन्दिरपर्यन्तं सेवार्थिनां गतागतसौकर्याय टङ्कचिह्नपाषाणैः स्थायिनं सेतुबन्धं निर्माय स तदग्रेस्कन्धावारं निवेश्य ततःप्रभृति तात्कालिकस्वसेनागतागतोपयुक्तं सेतुं तरुगुल्मादिसहितैः शैलशिखरादिभिर्नलेन कारयामासेति योजनीयम्। वाल्मी-
कीये हि रामायणे प्राचीनवृत्तान्तस्य पश्चादुद्घाटनमन्यत्रापि दृश्यते यथा काकवृत्तान्तस्य यथा वा रावणगृहोषितसीतार्थपायसप्रेषणवृत्तान्तस्य यथा वान्धमुनिकृतदशरथत्पापवृत्तान्सस्यापि। एवं सेतुबन्धनिर्माणवृत्तान्तस्यापि भविष्यतीतिन काचिदनुपपत्तिः। सेतुबन्धसाधारण्ये नलसेतुत्वव्यवहारस्तु पश्चादुभयोरेकीकरणान्नलसेतुभागभूम्रोपपद्यते॥६॥
श्रीरामचन्द्रचरितविशेषैस्तस्य शिवे भक्त्यतिशयाभिव्यक्तिमाविष्कर्तुं तानेव चरितविशेषाञ्श्लोकत्रयेण निबध्नाति—
श्रान्तः सुदीर्घसमरेण रघुप्रवीर-
श्चिन्ताकुलः कलशयोनिकृतोपदेशः।
ब्रह्माच्युतत्रिनयनेश भवत्स्वरूपं
**स्तोत्रेण यद्रिपुजयाय रविं प्रपन्नः॥७॥ **
रक्षोधिपोनिहत एव दिवं प्रयाहि
**कार्यं कृतं खलु न इत्युदिते विधात्रा। **
राज्यस्थितः कुरु तुरङ्गममेधयज्ञ-
मित्युक्तमेव जगृहे तव यच्चशंभो॥८॥
इक्ष्वाकुवंशभवराज्यपदे निविष्ट-
स्त्वामेव यच्च सुचिरं हयमेधक्लृप्त्या।
ईजे कथान्तरगिरा शिव तेन चक्री
यष्टव्य इत्यवरजस्य निरस्य भावम्॥
रावणयुद्धसमये’ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्।उपगम्याब्रवीद्राममगस्त्यो भगवानृषिः॥’ इत्युपक्रम्यागस्त्यकृतादित्यहृदयोपदेशं प्रदर्श्य श्रीरामचन्द्रस्तदुपदिष्टादित्यहृदयस्तोत्रं जप्त्वा तद्विश्वासेन चिन्तां विहाय हर्षेण रावणवधोद्युक्त आसीदिति प्रपञ्चितम्।आदित्यहृदयं च शिवविषयम् ‘ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे। भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥’ इत्यादित्यस्य त्रिमूर्त्यधिपतित्वमुक्त्वा तदुपपादनाय ‘रौद्राय वपुषे’ इति स्तोत्रस्यादित्यान्तर्यामिशिवपर्यन्तत्वाविष्करणात्, ‘नमो हिरण्यबाहवे हिरण्यपतयेऽम्बिकापतय उमापतये नमो नमः’ ‘असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः’ न मोहमायन्महामाय मोहमाय’ इत्यादित्योपासनार्थवैदिकमन्त्रभागाणामादित्यान्तर्यामिशिवपर्यन्तत्वदर्शनेन वेदोपबृंहणार्थे रामायणे पठितस्याऽऽदित्यहृदयस्यापि तत्पर्यन्तत्वावश्यंभावाच्च।रावणवधानन्तरमग्निप्रवेशितां सीतां ग्राहयितुं समागतेषु
देवेषु ब्रह्मणा प्रतिपादितम्’तदिदं नः कृतं कार्येत्वया धर्मभृतां वर। निहतो रावणो राम प्रहृष्टो दिवमाक्रम॥इति। तदनन्तरं शिवेन तु ‘प्राप्य राज्यमयोध्यायां सान्त्वयित्वा सुहृज्जनम्। इक्ष्वाकूणां कुले राजा स्थापयित्वा महाबल॥इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः। ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि॥’ इत्युक्तम्। तत्र ब्रह्मवचनमनादृत्य शिववचनमेवाङ्गीकृतम्। तदङ्गीकृत्यायोध्यांप्राप्य राज्यं परिपालयता च शिवोपदेशं मनसि निधायाश्वमेधः कृतः। अश्वमेधेन शिव एवाराधितः। कथमिदं ज्ञायते शिव एवाराधित इति? अश्वमेधोद्योगसमये प्रागश्वमेधेन विष्णुराराधित इति प्राचीनकथोपन्यासेन लक्ष्मणस्य चिकीर्षितेनाश्वमेधेन विष्णुराराधनीय इति भावं विदित्वा तेन शिव आराधित इति रघुनाथःकथान्तरोपन्यासेन ‘नान्यं पश्यामि भेषज्यमन्तरेण वृषध्वजम्। नाश्वमेधात्परो यज्ञःप्रियश्चैव महात्मनः॥’ इति कथान्तरगतवचनोपन्यासेन च स्वयमश्वमेधेन च शिव आराधनीय इति स्वाशयमाविश्चकार। तथैव ऋत्विग्भिरपि शिवप्रीत्यर्थमेवाश्वमेधःकारित इत्येतत् ‘ते तु रामवचः श्रुत्वा नमस्कृत्य वृषध्वजम्। अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म नित्यतः॥’ इति श्लोकेन
व्यञ्जितम्। अतः श्रीरामचन्द्रः शिवमेवाराधितवानिति ज्ञायते॥७-९॥
एतैश्चरितविशेषैः श्रीरामचन्द्रस्य शिवे दृढा।भक्तिराविष्कृतेत्युक्तिपूर्वकं कवेरपि शिवस्य महिमातिशये तात्पर्य तदीयवचनार्थलिङ्गेन दर्शयति—
एतैस्त्वयि प्रकटिता रघुनन्दनस्य
भक्तिः स्थिरा परतरत्वमतिश्च नित्या।
सुव्यक्तमादिकविना स्वयमात्मनश्च
रुद्रः स विष्णुरिव चेत्युपमोक्तिभङ्ग्या॥
‘कृताभिषेकःस रराज रामः सीताद्वितीयःसह लक्ष्मणेन।कृताभिषेको गिरिराजपुत्र्या रुद्रः सविष्णुर्भगवानिवेशः॥’ इत्युपमानिबन्धेन कविरपिस्वयं शिवः सर्वातिशायिमहिमशालीति स्वतात्पर्यमाविश्चकारेत्यर्थः॥१०॥
अथ कवेः शिव एव सर्वजगन्नियन्तेत्यत्र तात्पर्यहेतुभिराविष्कर्तुं तत्तावत्प्रतिजानीते—
संवत्सरं वरद वासयितुं प्रवृत्तः
सीतां दशाननगृहे जगतां नियन्तुः।
संकल्प एव तवतद्वसतेरबोधे
रामस्य हेतुरिति भावममुष्य मन्ये॥११॥
सीतारामयोर्विप्रयोगंसंवत्सरमनुविवर्तयिषोरीश्वरस्य संकल्प एव रामस्य रावणवसत्यबोधे हेतुर्वाल्मीकेराशयास्थित इत्येतत्कृतो ज्ञायत इत्याशङ्क्य, अवश्यजिज्ञासितं रावणनिलयमेव रघुनाथेन सादरं पृष्टैस्तज्जानद्भिरत्याप्तैरपि जटायुकबन्धसुग्रीवैरनुक्तत्वाद्रामस्य तन्निलयावबोधे संवत्सरविप्रयोगानिर्वाहाश्चेति श्लोकत्रयेणाह—
सीतापहारमवलोक्य रघूत्तमाय
ब्रूयुर्न जात्विति मुनिर्विदितत्वदाज्ञः।
पृष्टो यदस्य रघुचन्द्रमसा निवास
मुक्त्वा गतः खगपतिः कियदन्यदन्यत्॥
संसूच्य वक्ष्य इति नाह कबन्ध एत-
दज्ञानमभ्यनयदत्र च सूर्यसूनुः।
उक्तं हि तत्र भगवन्ननिमित्तमन्य-
त्संकल्प एव भवतः शिव तस्य दृष्टिः॥
ज्ञाते रिपुं रघुपतिर्लघु संजिहीर्षे-
यः क्रोधतः समजिहीर्षदशेषलोकान्।
मोघो भवेच्छिव तदा निहते रिपौ ते
संकल्प एव न हतेतु तदीयबाणः॥१४॥
जटायुसमागमे तावदेवं प्रश्नोत्तरे—‘जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः। सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः॥ किंनिमित्तं हरेत्सीतां रावणस्तस्य किं मया। अपराद्धं तु यद्दृष्ट्वा रावणेन हृता प्रिया॥कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम्।सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम॥ कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः। क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः॥ तमुदीक्ष्याथ दीनात्मा विलपन्तमनाथवत्। वाचाऽतिसन्नया रामं जटायुरिदमब्रवीत्॥ सा हृता राक्षसेन्द्रेण रावणेन विहायसा।मायामास्थाय विपुलां वातदुर्दिनसंकुलाम्॥परिश्रान्तस्य मे तात पक्षौ च्छित्त्वाच राक्षसः। सीतामादाय वैदेहीं प्रयातो दक्षिणां दिशम्॥उपरुभ्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव।पश्यामि वृक्षान्सौवर्णानुशीरकृतमूर्धजान्॥ येन याति मुहूर्तेन सीतामादाय रावणः। विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते॥विन्दो नाम मुहूर्तोऽयं स च काकुत्स्थ नाबुधत्। झषवद्बडिक्षं गृह्यक्षिप्रमेव विनश्यति॥ न च त्वया व्यथा कार्या
जनकस्य सुतां प्रति। वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे॥अस्य मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः। आस्वात्सुस्राव रुधिरं म्रियमाणस्य सामिषम्॥ पुत्रो विश्रवसः साक्षाद्धाता वैश्रवणस्य च। इत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः॥ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः॥’ इति। आरण्यकाण्डे कबन्धसमागमे रामचन्द्रोक्तिस्तु—‘रावणेन हृता भार्या मम सीता यशस्विनी।निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम्॥ नाममात्रं तु जानामि न रूपं तस्य रक्षसः।निवासं वा प्रभावं वा वयं तस्य न विद्महे॥ शोकार्तानामनाथानामेवं विपरिधावताम्। कारुण्यतो दृशं कर्तुमुपकारे च वर्तताम्॥काष्ठान्यानीय शुष्काणि काले भग्नानि कुञ्जरैः।धक्ष्यामस्त्वां महाभाग श्वभ्रे महति कल्पिते॥ स त्वं सीतां समाचक्ष्व यत्रवा येन वा हृता।कुरु कल्याणमत्वर्थं यदि जानासि तत्त्वतः॥’ इति प्रश्नः। तत्र कबन्धस्योत्तरम्—‘दिव्यमस्ति न मे ज्ञानं न हि जानामि मैथिलीम्। यस्तां ज्ञास्यति तं वक्ष्ये दग्धःस्वं रूपमास्थितः। अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो॥ राक्षसं तं महावीर्येसीता येन हृता तव। विज्ञानं हि महद्भ्रष्टं शापदोषेण राघव॥
स्वकृतेन मया प्राप्तं रूपंलोके विगर्हितम्। किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः॥ तावन्मामवटे क्षिप्त्वा दह राम यथाविधि। दुग्धस्त्वयाहमवटे न्यायेन रघुनन्दन।वक्ष्यामि तं महावीर यस्तं ज्ञास्यति राक्षसम्॥ तेन सख्यं च कर्तव्यं न्यायवृत्तेन राघव।कल्पयिष्यति ते वीर साहाय्यं लघुविक्रम॥न हि तस्य त्वविज्ञातं त्रिषु लोकेषु राघव।सर्वान्परिसृतो लोकान्पुरो वै कारणान्तरे॥’ इति। ततो राक्षसदेहदाहानन्तरं शापमुक्तेन प्राचीनं स्वरूपमास्थाय विमानमधिरुह्य गतेन तेन ‘श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः’ इत्युपक्रम्य तस्य चरित्रमप्युपन्यस्य ‘स ते सहायो मित्रं च सीतायाः परिमार्गणे। भविष्यति हिते राम मा च शोके मनः कृथाः॥ भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा। कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः॥ गच्छ शीघ्रमितो वीर सुग्रीवं तं महाबलम्। वयस्यं तं कुरु क्षिप्रमितो गत्वाद्यराघव॥’ इत्यादीनि चोक्त्वा’स हि स्थानामि सर्वाणि कार्त्स्न्येन कपिपुंगवः।न तस्याविदितं लोके किंचिदस्ति हि राघव॥ यावत्सूर्यः प्रतपति सहस्रांशुररिंदम॥’ इतिप्रागुक्तार्थ एवानूदितः। सुग्रीवसमागमे तु—‘क्ववा वसति तद्रक्षोमहद्व्यसनदं
मम। यन्निमित्तमहं सर्वान्मारयिष्यामि राक्षसान्॥ हरता मैथिलीं येन मां च रोषयता भृशम्।आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम्॥’ इति प्रश्नः। ततः सुग्रीवस्य प्रत्युत्तरम्—‘न जाने निलयं तस्य सर्वथा पापरक्षसः। सामर्थ्येविक्रमं वापि दौष्कुलेयस्य वा कुलम्॥’ इति। इह जटायुबाह्यान्तरचिह्नैःक्षणान्तरेऽपि स्वस्य जीवमानुवृत्तेर्दौर्लभ्यं संभावयन्व्याहरणशक्तिकाल एव रावण वधे त्वरितस्य श्रीरामचन्द्रस्य प्रश्नविषयेष्ववश्यजिज्ञासितरावणनिलयप्रश्नस्यैव प्रथममुत्तरं वक्तव्यमिति स्वयमेव ज्ञातुं शक्तोऽपि तद्वक्तुमिवोपक्रम्य तदस्पृष्टं दर्शनादिकमन्यदन्यदेवाह। ततो विश्रान्तिसमये ‘पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च’ इत्येतावदेवोक्त्वेतः परं रावणनिलयवचनं प्राप्तकालमासीदिति चिन्तयत्यपि राघवे दिवं गतः। कबन्धोऽपि सीतां रावणनिलयं च पृष्टः प्राग्दिव्यरूपेण संचारकाले सकलदेवगन्धर्वादिप्रसिद्धं रावणं जानंस्तद्विभावनाय विशेषतो नाभिजानामि मैथिलीमित्युक्त्वा रावणं तु जानामीति विभावयन् ‘अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो। राक्षसं तंमहावीर्यंसीता येन हृता तव॥विज्ञानं हि महद्भ्रष्टंशापदोषेण राघव॥’ इत्युक्तिभङ्गया दहनेन शापमोक्षं
याणसमये च ‘एष सेतुर्मया बद्धः सागरे सलिलार्णवे। एतत्तुदृश्यते तीर्थंसागरस्य महात्मनः॥ सेतुबन्ध इति स्वातं त्रैलोक्येन च पूजितम्। एतत्पवित्रं परमं दर्शनात्पातकापहम्॥अत्र रामेश्वरो देवो मया शंभुः प्रतिष्ठितः॥’ इति सीतां प्रति श्रीरामचन्द्रोक्तिवर्णनेन च तदृढीकृतम्। तदित्थं पुराणान्तरं दृष्ट्वा वर्णितम् ‘सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम्’ इत्यादिवाल्मीकीयरामायणवचनसंदर्भाभिप्रायमित्थमुन्नीय वर्णितं वेति न विद्मः। उदाहृतवाल्मीकीयरामायणवचनसंदर्भस्यापि नलसेतुनिर्माणारंम्भसमये रामेश्वरप्रतिष्ठा कृतेत्यभिप्रायकलने सेतुबन्धनिर्माणपूर्वकं तत्ररामेश्वरं प्रतिष्ठाप्य सेतुबन्धरामेश्वरदर्शने महाफलत्वं च श्रीरामचन्द्रेण नियतमिति ततः प्रभृति महापातकनाशनमिदं तीर्थ त्रैलोक्येनाभिपूजितम्, इदंरामेश्वरश्च रावणवधसिद्ध्यर्थं प्रसन्नोऽभूदित्येतदर्थतया स्वारस्यं भजत एव। अस्मिन्पक्षे रामेश्वरदिव्यमन्दिरपर्यन्तं सेवार्थिनां गतागतसौकर्याय टङ्कचिह्नपाषाणैः स्थायिनं सेतुबन्धं निर्माय स तदग्रेस्कन्धावारं निवेश्य ततःप्रभृतितात्कालिकस्वसेनागतागतोपयुक्तं सेतुं तरुगुल्मादिसहितैःशैलशिखरादिभिर्नलेन कारयामासेतियोजनीयम्। वाल्मी-
कीये हि रामायणे प्राचीनवृत्तान्तस्य पश्चादुद्धाटनमन्यत्रापि दृश्यते यथा काकवृत्तान्तस्य यथा वा रावणगृहोषितसीतार्थपायसप्रेषणवृत्तान्तस्य यथा वान्धमुनिकृतदशरथशापवृत्तान्तस्यापि। एवं सेतुबन्धनिर्माणवृत्तान्तस्यापि भविष्यतीति न काचिदनुपपत्तिः। सेतुबन्धसाधारण्ये नलसेतुत्वव्यवहारस्तु पश्चादुभयोरेकीकरणान्नलसेतुभागभूम्रोपपद्यते॥६॥
श्रीरामचन्द्रचरितावेशेषैस्तस्य शिवे भक्त्यतिशयाभिव्यक्तिमाविष्कर्तुं तानेव चरितविशेषाञ्श्लोकत्रयेण निबध्नाति—
श्रान्तः सुदीर्घसमरेण रघुप्रवीर-
श्चिन्ताकुलः कलशयोनिकृतोपदेशः।
**ब्रह्माच्युतत्रिनयनेश भवत्स्वरूपं **
स्तोत्रेण यद्रिपुजयाय रविं प्रपन्नः॥७॥
रक्षोधिपोनिहत एव दिवं प्रयाहि
कार्यं कृतं खलु न इत्युदिते विधात्रा।
राज्यस्थितः कुरु तुरङ्गममेधयज्ञ-
मित्युक्तमेव जगृहे तवयच्च शंभो॥८॥
इक्ष्वाकुवंशभवराज्यपदे निविष्ट-
स्त्वामेव यच्च सुचिरं हयमेधक्लृप्त्या।
ईजे कथान्तरगिरा शिव तेन चक्री
यष्टव्य इत्यवरजस्य निरस्य भावम्॥
रावणयुद्धसमये ‘ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्। उपगम्याब्रवीद्राममगस्त्यो भगवानृषिः॥’ इत्युपक्रम्यागस्त्यकृतादित्यहृदयोपदेशं प्रदर्श्य श्रीरामचन्द्रस्तदुपदिष्टादित्यहृदयस्तोत्रं जप्त्वा तद्विश्वासेन चिन्तां विहाय हर्षेण रावणवधोद्युक्त आसीदिति प्रपञ्चितम्। आदित्यहृदयं च शिवविषयम्’ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे।भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥’ इत्यादित्यस्य त्रिमूर्त्यधिपतित्वमुक्त्वा तदुपपादनाय ‘रौद्राय वपुषे’ इति स्तोत्रस्यादित्यान्तर्यामिशिवपर्यन्तत्वाविष्करणात्, ‘नमो हिरण्यवाहवे हिरण्यपतयेऽम्बिकापतय उमापतये नमो नमः’ असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः’ न मोहमायन्महामाय मोहमाय’ इत्यादित्योपासनार्थवैदिकमन्त्रभागाणामादित्यान्तर्यामिशिवपर्यन्तत्वदर्शनेन वेदोपबृंहणार्थे रामायणे पठितस्याऽऽदित्यहृदयस्यापि तत्पर्यन्तत्वावश्यंभावाच्च। रावणवधानन्तरमग्निप्रवेशितां सीतां ग्राहयितुं समागतेषु
देवेषु ब्रह्मणा प्रतिपादितम् ‘तदिदं नः कृतं कार्येत्वया धर्मभृतां वर। निहतो रावणो राम प्रहृष्टोदिवमाक्रम॥’ इति। तदनन्तरं शिवेन तु ‘प्राप्य राज्यमयोध्यायां सान्त्वयित्वा सुहृज्जनम्। इक्ष्वाकूणां कुले राजा स्थापयित्वा महाबल॥ इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः। ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि॥’ इत्युक्तम्। तत्र ब्रह्मवचनमनादृत्य शिववचनमेवाङ्गीकृतम्। तदङ्गीकृत्यायोध्यां प्राप्य राज्यं परिपालयता च शिवोपदेशं मनसि निधायाश्वमेधःकृतः। अश्वमेधेन शिव एवाराधितः। कथमिदं ज्ञायते शिव एवाराधित इति? अश्वमेधोद्योगसमये प्रागश्वमेधेन विष्णुराराधित इति प्राचीनकथोपन्यासेन लक्ष्मणस्य चिकीर्षितेनाश्वमेधेन विष्णुराराधनीय इति भावं विदित्वा तेन शिव आराधित इति रघुनाथःकथान्तरोपन्यासेन ‘नान्यं पश्यामि भेषज्यमन्तरेण वृषध्वजम्। नाश्वमेधात्परो यज्ञःप्रियश्चैव महात्मनः॥’ इति कथान्तरगतवचनोपन्यासेन च स्वयमश्वमेधेन च शिव आराधनीय इति स्वाशयमाविश्चकार। तथैव ऋत्विग्भिरपि शिवप्रीत्यर्थमेवाश्वमेधःकारित इत्येतत् ‘ते तु रामवचः श्रुत्वा नमस्कृत्य वृषध्वजम्। अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म नित्यतः॥’ इति श्लोके
व्यञ्जितम्। अतः श्रीरामचन्द्रः शिवमेवाराधितवानिति ज्ञायते॥७-९॥
एतैश्चरितविशेषैःश्रीरामचन्द्रस्य शिवे दृढा भक्तिराविष्कृतेत्युक्तिपूर्वकं कवेरपि शिवस्य महिमातिशये तात्पर्यं तदीयवचनार्थलिङ्गेन दर्शयति—
**एतैस्त्वयि प्रकटिता रघुनन्दनस्य **
भक्तिः स्थिरा परतरत्वमतिश्च नित्या।
सुव्यक्तमादिकविना स्वयमात्मनश्च
रुद्रः स विष्णुरिव चेत्युपमोक्तिभङ्ग्या॥
‘कृताभिषेकःस रराज रामः सीताद्वितीयः सह लक्ष्मणेन।कृताभिषेको गिरिराजपुत्र्या रुद्रः सविष्णुर्भगवानिवेशः॥’ इत्युपमानिबन्धेन कविरपिस्वयं शिवः सर्वातिशायिमहिमशालीति स्वतात्पर्यमाविश्चकारेत्यर्थः॥१०॥
अथ कवेः शिव एव सर्वजगन्नियन्तेत्यत्र तात्पर्यहेतुभिराविष्कर्तुं तत्तावत्प्रतिजानीते—
संवत्सरं वरद वासयितुं प्रवृत्तः
सीतां दशाननगृहे जगतां नियन्तुः।
संकल्प एव तव तद्वसतेरबोधे
रामस्य हेतुरिति भावममुष्य मन्ये॥११॥
सीतारामयोर्विप्रयोगंसंवत्सरमनुविवर्तयिषोरीश्वरस्य संकल्प एव रामस्य रावणवसत्यबोधे हेतुर्वाल्मीकेराशयस्थित इत्येतत्कृतो ज्ञायत इत्याशङ्क्य, अवश्यजिज्ञासितं रावणनिलयमेव रघुनाथेन सादरं पृष्टैस्तज्जानद्भिरत्याप्तैरपि जटायुकबन्धसुग्रीवैरनुक्तत्वाद्रामस्य तान्निलयावबोधे संवत्सरविप्रयोगानिर्वाहाच्चेति श्लोकत्रयेणाह—
सीतापहारमवलोक्य रघूत्तमाय
ब्रूयुर्न जात्विति मुनिर्विदितत्वदाज्ञः।
पृष्टो यदस्य रघुचन्द्रमसा निवास-
मुक्त्वा गतः खगपतिः कियदन्यदन्यत्॥
संसूच्यवक्ष्य इति नाह कबन्ध एत-
दज्ञानमभ्यनयदत्र च सूर्यसूनुः।
उक्तं हि तत्र भगवन्ननिमित्तमन्य-
त्संकल्प एव भवतः शिव तस्य दृष्टिः॥
ज्ञाते रिपुं रघुपतिर्लघु संजिहीर्षे-
द्यः क्रोधतः समजिहीर्षदशेषलोकान्।
**मोघो भवेच्छिव तदा निहते रिपौ ते **
संकल्प एव न हतेतु तदीयबाणः॥१४॥
जटायुसमागमे तावदेवं प्रश्नोत्तरे—‘जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः। सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः॥ किंनिमित्तं हरेत्सीतां रावणस्तस्य किं मया। अपराद्धं तु यद्दृष्ट्वा रावणेन हृता प्रिया॥कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम्।सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम॥ कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः। क्वचास्य भवनं तात ब्रूहि मे परिपृच्छतः॥ तमुर्दाक्ष्याथ दीनात्मा विलपन्तमनाथवत्।वाचाऽतिसन्नया रामं जटायुरिदमब्रवीत्॥ सा हृता राक्षसेन्द्रेण रावणेन विहायसा।मायामास्थाय विपुलां वातदुर्दिनसंकुलाम्॥परिश्रान्तस्य मे तात पक्षौ च्छित्त्वाच राक्षसः। सीतामादाय वैदेहीं प्रयातो दक्षिणां दिशम्॥उपरुष्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव। पश्यामि वृक्षान्सौवर्णानुशीरकृतमूर्धजान्॥ येन याति मुहूर्तेन सीतामादाय रावणः। विणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते॥विन्दो नाम मुहूर्तोऽयं स च काकुत्स्थ नाबुधत्। झषवद्बडिक्षंगृह्य क्षिप्रमेव विनश्यति॥ न च त्वया व्यथा कार्या
जनकस्य सुतां प्रति। वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे॥अस्य मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः। आस्वात्सुस्राव रुधिरं म्रियमाणस्य सामिषम्॥पुत्रो विश्रवसः साक्षाद्धाता वैश्रवणस्य च। इत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः॥ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः॥’ इति। आरण्यकाण्डे कबन्धसमागमे रामचन्द्रोक्तिस्तु—‘रावणेन हृता भार्या मम सीता यशस्विनी।निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम्॥ नाममात्रं तु जानामि न रूपं तस्य रक्षसः। निवासं वा प्रभावं वा वयं तस्य न विद्महे॥ शोकार्तानामनाथानामेवं विपरिधावताम्। कारुण्यतो दृशं कर्तुमुपकारे च वर्तताम्॥ काष्ठान्यानीय शुष्काणि काले भग्नानि कुञ्जरैः।धक्ष्यामस्त्वां महाभाग श्वभ्रे महति कल्पिते॥ स त्वं सीतां समाचक्ष्व यत्रवायेन वाह्रता।कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः॥’ इति प्रश्नः। तत्र कबन्धस्योत्तरम्—‘दिव्यमस्ति न मे ज्ञानं न हि जानामि मैथिलीम्। यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः। अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो॥ राक्षसं तं महावीर्येसीता येन हृता तव।विज्ञानं हि महद्भ्रष्टंशापदोषेण राघव॥
स्वकृतेन मया प्राप्तं रूपं लोके विगर्हितम्। किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः॥ तावन्मामवटे क्षिप्त्वा दह राम यथाविधि। दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन। वक्ष्यामि तं महावीर यस्तं ज्ञास्यति राक्षसम्॥ तेन सख्यं च कर्तव्यं न्यायवृत्तेन राघव। कल्पयिष्यति ते वीर साहाय्यं लघुविक्रम॥ न हि तस्य त्वविज्ञातं त्रिषु लोकेषु राघव। सर्वान्परिसृतो लोकान्पुरो वै कारणान्तरे॥’ इति। ततो राक्षसदेहदाहानन्तरं शापमुक्तेन प्राचीनं स्वरूपमास्थाय विमानमधिरुह्यगतेन तेन ‘श्रूयतां राम वक्ष्यामि सुग्रीवोनाम वानरः’ इत्युपक्रम्य तस्य चरित्रमप्युपन्यस्य ‘स ते सहायो मित्रं च सीतायाः परिमार्गणे। भविष्यति हि ते राम मा च शोके मनः कृथाः॥ भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा। कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः॥ गच्छ शीघ्रमितो वीर सुग्रीवंतं महाबलम्। वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव॥’ इत्यादीनि चोक्त्वा ‘स हि स्थानामि सर्वाणि कार्येन कपिपुंगवः। न तस्याविदितं लोके किंचिदस्ति हि राघव॥ यावत्सूर्यःप्रतपति सहस्रांशुररिंदम॥’ इतिप्रागुक्तार्थ एवानूदितः। सुग्रीवसमागमे तु—‘क्ववा वसति तद्रक्षो महद्व्यसनदं
मम। यन्निमित्तमहं सर्वान्मारयिष्यामि राक्षसान्॥ हरता मैथिलीं येन मां च रोषयता भृशम्। आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम्॥’ इति प्रश्नः। ततः सुग्रीवस्य प्रत्युत्तरम्—‘न जाने निलयं तस्य सर्वथा पापरक्षसः। सामर्थ्येविक्रमं वापि दौष्कुलेयस्य वा कुलम्॥’ इति। इह जटायुबाह्यान्तरचिह्नैःक्षणान्तरेऽपि स्वस्य जीवनानुवृत्तेर्दौर्लभ्यं संभावयन्व्याहरणशक्तिकाल एव रावणवधे त्वरितस्य श्रीरामचन्द्रस्य प्रश्नविषयेष्ववश्यजिज्ञासितरावणनिलयप्रश्नस्यैव प्रथममुत्तरं वक्तव्यमिति स्वयमेव ज्ञातुं शक्तोऽपि तद्वक्तुमिवोपक्रम्य तदस्पृष्टं दर्शनादिकमन्यदन्यदेवाह। ततो विश्रान्तिसमये ‘पुत्रो विश्रवसः साक्षाद्धाता वैश्रवणस्य च’ इत्येतावदेवोक्त्वेतः परं रावणनिलयवचनं प्राप्तकालमासीदिति चिन्तयत्यपि राघवे दिवं गतः। कबन्धोऽपि सीतां रावणनिलयं च पृष्टः प्राग्दिव्यरूपेण संचारकाले सकलदेवगन्धर्वादिप्रसिद्धंरावणं जानंस्तद्विभावनाय विशेषतो नाभिजानामि मैथिलीमित्युक्त्वा रावणं तु जानामीति विभावयन् ‘अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो। राक्षसं तं महावीर्यं सीता येन हृता तव॥विज्ञानं हि महद्भ्रष्टं शापदोषेण राघव॥’ इत्युक्तिभङ्ग्यादहनेन शापमोक्षं
पूर्वविज्ञानं च प्राप्य तदनन्तरं रावणं तन्निलयं च वक्ष्यामीति सूचयित्वा पुनस्तदैव ‘वक्ष्यामि तं महावीर यस्तं ज्ञास्यति राक्षसम्’ इति स्वयं रावणं न वक्ष्यामि तज्ज्ञातारमन्यं वक्ष्यामीति पूर्वसूचितार्थमुक्त्वा सुग्रीवमेतज्ज्ञातारं तेन यत्र क्वचिन्निवेशितायाः सीताया मार्गणे समर्थं च सामान्यतो विशेषतश्च प्रसङ्गेन जगाद। सुग्रीवस्तुपृष्टः सर्वप्रकारेणापि रावणं तन्निलयं च जानन्नेव कथमपि न जानामीति ज्ञानमपललाप। स जानातीत्येतच्च कबन्धवचनैः सुविदितमेव। चतसृष्वपि दिक्षु मार्गितव्यान्पुरगिरिसागरादीनुपदिश्य ‘अभास्कर ममर्यादं न जानीमस्ततःपरम’ इति तद्वचनेन च विदितम्। उत्तररामायणे हि सुग्रीवस्य रावणतत्प्रभावतन्निलयादिदृढपरिज्ञानसद्भावः स्पष्टीकृतः। तत्रह्यगस्त्येन रघुनाथंप्रति वालिनाबलाद्गृहीत्वा किष्किन्धाभ्याशं नीतस्य रावणस्य वालिना सहाग्निसाक्षिकसख्यप्राप्तिमुक्त्वा ह्युक्तम्—‘अन्योन्यलम्बितकरौ ततस्तौ हरिराक्षसौ। किष्किन्धां विशतो हृष्टौ सिंहौगिरिगुहामिव॥स तत्र ह्युषितो मासं सुग्रीव इव राक्षसः। अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः॥ एवमेतत्पुरावृत्तं वालिना रावणःप्रभो। धर्षितश्च कृतश्चापि भ्राता पावकसंनिधौ॥
इति। एवं युवराजःसुग्रीव इव वालिनो बहुमानपात्रतया मासमात्रं सहस्थितः। ततस्त्रैलोक्यविजयार्थममात्यैर्नीतश्च।तस्य स्थानविक्रमादिकं सुग्रीवो न जानातीत्येतदत्यन्तासंभावितमेव। तेन सर्वथा न जानामि किंचिज्जानामीत्यर्थ इति शङ्कापि निरस्ता, अतिसौहृदेन परिचये सर्वप्रकारेणापि ज्ञानस्यावश्यंभावात् तदर्थकल्पनेऽपि यावज्जानाति तावतस्तदैव वक्तव्यत्वापत्तेश्च।यत्तु हनुमदादीन्दक्षिणसमुद्रं प्रेषयता दक्षिणस्यां दिशि सीतान्वेषणाच्चतत्रत्यान्वेषणीयस्थानान्युपदिशता लङ्कामतीत्यस्थितं भोगवत्वादिकं वदता विशिष्य लङ्कानोक्ता तत्प्राक्कृतस्वज्ञानापलापनिर्वाहाय। चतसृष्वपि दिक्षु सीतान्वेषणार्थमप्रसिद्धान्यपि स्थानान्युपन्यस्यन्नतिप्रसिद्धां लङ्कांन जानातीत्यत्यन्तासंभावितमेतत्। अत एव ह्युक्तफलाफलनिर्वाहाय वालिसामर्थ्येरामेण पृष्टः सुग्रीवः सर्वविधमपि वालिनः पराक्रमं प्रपञ्चेनवर्णवन्नपि वालिना गृहीत्वा किष्किन्धां नीत इत्यमुमंशं नोक्तवान्। एवं सर्वात्मना स्वस्थ रावणानिलयादिज्ञानं गृहमानोऽपि दक्षिणस्यां दिशि हनुमदादिप्रेषणसमय इदानीमपि गूहिते मित्रकार्ये न सिध्येदिति स्वज्ञानमाविश्चकार। तत्र हि दक्षिणसमुद्रवर्णनानन्तरमुक्तम्—‘द्वीपस्तस्य परे
पारे शतयोजनविस्तृतः। अगम्यो मानुषैर्दिप्तस्तं मार्गष्वंसमन्ततः॥ तत्र सर्वात्मना सीता मार्गितव्या विशेषतः।स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः॥ राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः॥’ इति। अत्र पूर्वं स्वज्ञानं गूहितमिति व्रीडया रावणस्येति नाममात्रमुक्तंलङ्केति तु नोक्तम्। एवं च यद्गृधराजःस्वयं दशरथस्थानीयोऽपि प्रथमवक्तव्यं व्याहरणशक्तिकाले नावदत्, यच्च कबन्धसुग्रीवौकृतकरिष्यमाणमहोपकारौ तन्नावदतां तत्र दृष्टः कश्चन हेतुरस्ति चेत्कविनावश्यमुच्येत। तदनुक्त्या तदभावं निश्चित्य परमेश्वरसंकल्प एव तत्र हेतुर्विवक्षित इति सहृदयाःस्वयमेव ज्ञास्यन्तीत्यभिप्रेत्य तेषामवचनमात्रं कविर्निबबन्धेति निश्चीयते। न च तेषां रावणनिलयादीनामधिगमेऽपि सेतुबन्धादिकार्येषु सहायान्वेषणार्थं कालविलम्बो भवेदिति तत एवान्यथासिद्धेः कथं तेषामवचनं परमेश्वरसंकल्पैकायत्तंसहृदया निश्चिनुयुरिति शङ्कनीयम्,एतच्छङ्कावाराणार्थमेव कविना जनस्थाने सीतामन्वेषमाणस्य रामस्य गन्धर्वादिषु सीतां केऽपि न प्रदर्शयन्ति न प्रयच्छन्ति चेति महता क्रोधेन कृत्स्नस्यापि त्रैलोक्यस्य खिलकिरणार्थं शरसंधानपर्यन्तव्यापारमुक्त्वा, ततो लक्ष्मणकृतेन प्रसादनेन ‘एकस्य
नापराधेन लोकान्हन्तुं त्वमर्हसि’ इति तस्य ततो निवृत्तिरुक्ता। अनेनाकर्णितेन सहृदयाःश्रीरामो रावणवधे सहायान्तरं नेच्छेदित्यवगमादुक्तशङ्कारहिताः सन्तस्तेषामवश्यवचननिरोधे परमेश्वरसंकल्पमेवहेतुं विवक्षितं ज्ञास्यन्तीत्यनेन साक्षान्नारायणस्यैव लक्ष्मीविप्रयोगं चिरमनुवर्तयितुं कृतसंकल्पः परमेश्वरो नारायणादन्योऽभवन्नारायणादप्यधिकमहिमेति पूर्वापरसंदर्भेषु व्यञ्जितः शिव एव विवक्ष्य इति ज्ञास्यन्तीति कवेराशय इत्यर्थः। ननु परमेश्वरः किमर्थं रावणगृहे संवत्सरं सीतां वासयितुं संकल्पयामासेति। उच्यते—महता तपसा युक्तो रावणस्तपोवीर्यभ्रंशं कारयित्वा रघुनाथमुखेन हन्तव्यः। तत्तपोवीर्यभ्रंशश्च चिरं तत्रसीतावासनेनैव लभ्यते। तद्वाप्तेहि तस्यां निरन्तरं मोहितात्मा सर्वं तपस्यजेत्। तदानीं रघुनाथेन हन्तुं शक्यो भवति, नान्यथेति। एतदभिप्रायेणैव भगवता वाल्मीकिना जटायुवधानन्तरम् ‘तां लतामिव वेष्टन्तीमालिङ्गन्तीं महादुमान्। मुञ्च मुञ्चेति बहुशःप्रवदन्राक्षसेश्वरः॥ क्रोशन्तीं राम रामेति रामेण रहितां वने। जीवितान्ताय केशेषु जग्राहान्तकसंनिभः॥’ इति रावणेन प्रसह्य सीतायाः केशग्रहणं कृतमित्युक्तम्। ‘दृष्ट्वा सीतां परामृष्टां दीनां दि-
व्येन चक्षुषा। कृतं कार्यमिति श्रीमान्व्याजहार पितामहः॥’ इति तदानींतनकेशग्रहणानन्तरमेव रावणवधेन देवकार्यं सिद्धं ब्रह्मा निश्चिकायेत्युक्तम्। यदा प्रथमं पर्णशालायां केशग्रहणादि कृतं तदा स निश्चिकायेति नोक्तम्। तत्रापि केशग्रहणादिर्महान्मानभङ्ग उक्तः—‘अभिगम्य प्रहृष्टात्मा राक्षसःकाममोहितः।जग्राह रावणःसीतां ग्रहः खे रोहिणीमिव॥वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः। ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना॥’ इति। इदानीं ब्रह्मणो देवकार्यसिद्धिनिश्चयमनुक्त्वैव जटायुवधानन्तरं केशग्रहणं दृष्ट्वा तस्य तन्निश्चयमुक्तवतःकवेराशयः—यद्यप्याद्येन महता महिषीमानभङ्गेनैवातिकुद्धस्य रामचन्द्रस्य रावणजिघांसा भवेत्, तथापि तपोबलसमन्वितस्य तस्य सीतायास्तद्गृहवासनेनैव तपोनाशो भविष्यति। ‘सीतां च तात रक्षिष्येत्वयियतिसलक्ष्मणे’ इति यदि जटायुना रावणमार्गे वसता रावणं जित्वा सीता मोचिता स्यात्तदा रावणगृहे तन्निवासालाभात्सकृत्कृतेन महिषीमानभङ्गेन पुनरपि कदाचिन्निजसंनिधानाभावे मायया समागत्य सीतामपहरेदिति शङ्कया राघवस्य सर्वात्मना रावणवधार्थविजृम्भणसंभवेऽपि तपोबलसमन्विते तस्मिंस्तद्विजृम्भणं न प्रभवेदिति प्राग्ब्रह्मण
स्तन्निश्चयो न जातः, जटायुप्रयुक्तविघ्ननिवृत्तौ जात इति। एवं तपोबलसमन्वितो रावणस्तद्गृहे सीतावासनेन तद्भ्रंशनं विना हन्तुं न शक्यत इति स्कान्देकेदारखण्डे स्पष्टीकृतम्। तत्र ह्येवमुपाख्यायते—रावणेन निर्जिताः सर्वे देवास्तद्वधोपायं मन्त्रयामासुः। तदा भगवान्नारायणस्तदीयं स्वमूर्धोपहारपर्यन्तशिवाराधनरूपं तपःप्रभावं वर्णयित्वा भवद्भिस्ततोऽधिकं तपः कृत्वा नजेतव्य इत्युवाच। तेऽपि तथाभूतंतपः कर्तुमशक्नुवन्तः शिवं प्रसादयितुं शिवलोकं जग्मुः।तत्र शिवाराधनपुरःस्थितेन नन्दिकेश्वरेण ‘क्व यूयं क्व शिवः शंभुस्तपसा परमेण हि। द्रष्टव्यो यदि मध्यस्थःसोऽद्यद्रष्टुं न पार्यते॥यावद्भावा अनेकाश्च इन्द्रियार्थास्तथैव च।यावच्च ममताभावस्तावदीशोऽपि दुर्लभः॥’ इति शिवदर्शने नैराश्यं बोधिताः। ततो रावणवधोपायं नन्दिकेश्वरःस्वयमुवाच—‘अपहासपरं वाक्यं पौलस्त्यस्य श्रुतं यदा।तदा मया च शपोऽसौ रावणो लोकरावणः॥ ईदृशान्येववक्त्राणि संभविष्यन्ति येषु वै। तैः समेतो महान्कोऽपि नरवर्यो महातपाः॥ मां पुरस्कृत्य मूढ त्वां हनिष्यति न संशयः। एवं शप्तो मया ब्रह्मन्रावणो लोककण्टकः॥ अर्चितं केवलं लिङ्गं परमेण समाधिना।पिण्डिकारूपसंस्थानं विना तेन सुरोत्त-
माः॥ विष्णुना हि महाभागाः सर्वःसर्वं विधास्यति। देवदेवो महादेवो विष्णुरूपो महेश्वरः॥ सर्वे यूयं प्रार्थयध्वं विष्णुंसर्वगुहाशयम्। अहं च सर्वदेवानां पुरोवर्ती भवामि वः॥’ इति। ततस्तथैवनन्दिकेश्वरसमन्विता देवा वैकुण्ठं गत्वा भगवन्तं प्रार्थयामासुः। तान्प्रति भगवानेवमुवाच—‘शैलादिनं पुरस्कृत्य सर्वे यूयं त्वरान्विताः। अवतारान्प्रकुर्वन्तु वानरीं तनुमाश्रिताः॥ अहं च मानुषो भूत्वा अज्ञानेन समन्वितः। संभविष्याम्ययोध्यायां गृहे दशरथस्य हि। ब्रह्मविद्यासहायोऽहं भवतां कार्यसिद्धये॥ जनकस्य गृहे साक्षाद्ब्रह्मविद्या जनिष्यते। भक्तो हि रावणःसाक्षाच्छिवध्यानपरायणः॥ तपसा महता युक्तो ब्रह्मविद्यां यथेच्छति। तदा तदुभयभ्रष्टं रक्षो भवति तत्क्षणात्॥ सर्वेश्वरे न भक्तः स्यात्तस्या वीक्षणतत्परः॥’ इति ‘ततः सर्वेसुरगणा अवतारपराऽभवन्। वाली त्विन्द्रांशसंभूतः सुग्रीवोभास्वतःसुतः॥ तथा ब्रह्मांशसंभूतो जाम्बवान्कपिकुञ्जरः। शिलादतनयो नन्दी शिवस्यानुचरःप्रियः॥ एकांशेन महाभागो हनुमान्स महाकपिः। अवतीर्णाःसहायार्थं विष्णोरमिततेजसः॥’ इति च। अतः परमेश्वरस्यानुचरो नन्दी प्रतिज्ञापरिपालनार्थं रावणवधोपायमुपदिष्टवतः पश्चादज्ञानं
परिगृह्य रघुनाथरूपेणावतीर्णवतः स्वमूर्तैकरूपस्य नारायणस्य प्रतिज्ञापरिपालनार्थं चिरं सीताया रावणगृहे वासनं संकल्पयामासेति युक्तमेव। एवं च श्रीरामचन्द्रोऽवबुध्यते चेत्तदानीमेव रावणसंजिहीर्षया बाणान्संदध्यात्। तेन रावणवधनिर्वृत्तौस्वसंकल्पवैयर्थ्यम्,तदनिर्वृत्तौ रामबाणस्य मोघतेति दोषद्वयस्यापि परिहारार्थं तदवबोधद्वाराणि परमेश्वर एव निरुरोधेति तात्पर्यम्॥१२—१४॥
अथ हेत्वन्तरेणापि शिवस्य सर्वनियन्तृत्वे कवेस्तात्पर्यमाविष्करोति—
तत्रोद्यते सकलसंहरणाय भीत्या
सद्यो दशाननवधोऽस्त्विति वाञ्छया च।
यन्नाह रोपितशरं तमुपेत्य देव-
स्तत्रापि सर्वजगदीश स एव हेतुः॥१५॥
रघुनाथे क्रुधा देवासुरमानुषादिसकलत्रैलोक्यसंहरणाय कृतबाणसंधाने देवासुरादीनां सर्वेषामपि महती भीतिरुदपद्यतैव। तस्य हि क्रोधस्त्रैलोक्यसंहरणप्रतिज्ञा तदर्थबाणसंधानं चैवं वर्णितानि—‘न धर्मस्त्रायते सीतां ह्रियमाणां महावने।भक्षितायां हि वैदेह्यांहृतायामपि लक्ष्मण॥के
हि लोके प्रियं कर्तुं शक्ताःसौम्य ममेश्वराः। कर्तारमपि लोकानां शूरं करुणवेदिनम्। अज्ञानादवमन्येरन्सर्वभूतानि लक्ष्मण॥ मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्। निर्वीर्यइति मन्येरन्नूनं मां त्रिदशेश्वराः॥ मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण॥ अद्यैव सर्वभूतानां रक्षसां विलयाय च। संहृत्यैव गुणान्सर्वान्मम तेजः प्रकाश्यते॥ नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः। किंनरा वा मनुष्यावा सुखं प्राप्स्यन्ति लक्ष्मण। ममास्त्रबाणसंपूर्णमाकाशं पश्य लक्ष्मण। निःसंपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम्॥ संनिरुद्धग्रहगणमावारिसनिशाचरम्। विप्रणष्टाखिलमरुद्भास्करद्युतिवर्जितम्॥ विनिर्मथितशैलाग्रंशुष्यमाणजलाशयम्। ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्॥ त्रैलोक्यंतु करिष्यामि संयुक्तं कालधर्मणा॥ न तां कुशलिनीं सीतां प्रदास्यन्ति सुरेश्वराः। अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्॥ नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण। आकर्णपूर्णैरिषुभिर्जीवलोकं निरन्तरैः॥ करिष्ये मैथिलीहेतोरपिशाचमराक्षसम्॥ मम रोषप्रयुक्तानां सायकानां बलं सुराः। द्रक्ष्यन्त्यद्य विमुक्तानामतिदूरातिगामिनाम्॥ नैव देवा न दैतेया न पिशाचा न राक्षसाः। भविष्यन्ति मम
क्रोधात्त्रैलोक्ये विप्रणाशिते॥ देवदानवयक्षाणां लोका ये रक्षसामपि। बहुधा निपतिष्यन्ति बाणौघैः शकलीकृताः॥ निर्मर्यादानिमाल्ँलोकान्करिष्याम्यद्य सायकैः। हृतां मृतां वा सौमित्रेन दास्यन्ति ममेश्वराः॥ तथारूपां च वैदेहीं न दास्यन्ति यदि प्रियाम्। नाशयामि जगत्सर्वेत्रैलोक्यं खचराचरम्॥ इत्युक्त्वा रोषताम्राक्षो रामो निष्पीड्य कार्मुकम्। शरमादाय संदीप्तं घोरमाशीविषोपमम्॥ संदधे धनुषा श्रीमान्रामः परपुरंजयः॥ युगान्ताग्निरिवक्रुद्धो निःश्वसन्निदमब्रवीत्। यथा जरा यथा मृत्युर्यथा कालो यथा विधिः। नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण।तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम्॥ पुरैवमे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम्। सदेवगन्धर्वमनुष्यगुह्यकं जगत्सशैलं परिवर्तयाम्यहम्॥’ इति। एवमतिक्रुद्धे रघुवीरे सकलत्रैलोक्यसंहरणोद्यते हि तस्मिंस्त्रैलोक्यवर्तिषु भूतेषु कस्यभीतिर्नोत्पद्येत? सागरमात्रसंहरणोद्यते तस्मिन्सर्वभूतत्रासो वर्णितः। एवंभूते समये लोकसंरक्षणाय शक्रादिषु केनापि देवेनागत्य सकलैरपि देवैर्दुर्धर्षेण रावणेन प्रसह्यह्रृता सीता तेन लङ्कांनीता जीवतीति रामे प्रतिवक्तव्यम्। न च रावणभयात्तदनुक्तिरिति शङ्कनीयम्, रावणं इन्दुं
समर्थस्य तदर्थं संरम्भवतः कस्यचिदलाभे हि रावणाद्भेतव्यम्। अस्मिन्वृत्तान्ते रघुवीरस्त्रैलोक्यसंहरणाय संहितं शरं रावण एवसकलराक्षससहिते प्रायुञ्जीत। तेन तदानीमेव तस्य सपुत्रबान्धवस्य वधोस्त्वितीच्छया देवेषु केनचिदागत्य वक्तुमेवोचितम्। रावणवधे संनद्धं रघुवीरमालक्ष्य शक्रेणतस्य युद्धसमये समारुह्यावस्थानार्थं मातलिः सारथिः स्वकीयरथोऽपि किल प्रेषितः। न चास्मिन्समयेऽपि तथोक्तम्। अतस्तदवचनेन प्रागुक्तःपरमेश्वरसंकल्प एव हेतुः कविना विवक्षित इत्यर्थः। महाभारते हि साल्ववधार्थं कृतशरसंधानः प्रद्युम्नोदेवैःसाल्वस्य कृष्णवध्यत्वविषयेश्वरसंकल्पवचनेन निवारित इति वर्णितम्—‘नैष वध्यस्त्वया वीर साल्वराजः कथंचन। संहरस्व पुनर्बाणं न वध्योऽयं त्वया रणे॥एतस्य हि शरस्याजौ न वध्योऽस्ति पुमान्क्वचित्। मृत्युरस्व महाबाहो रणे देवकिनन्दनः॥ कृष्णःसंकल्पितो धात्रा तन्न मिथ्या भवेदिह॥’ इति। तत्तुल्यसरणिरयं संदर्भः। एवं कवेस्तत्रोक्तिभङ्गया शिवमहिमाविष्करणं प्रपञ्चितम॥
अथ कविनिबद्धस्य वक्तुर्विश्वामित्रस्य वचनभङ्ग्यापितदाविष्करणं दर्शयति—
गङ्गा शिवे शिरसिते पतनेन पुण्या
पापापनोदनविनोदपटीयसीति।
देवादयोऽपि वसुधातलवासमाप्ताः
स्नातास्तथेति स वचो निबबन्ध चार्षम्॥
तत्र तावद्भगीरथं प्रति तपसा प्रीतस्य ब्रह्मणो वचनं पठितम्—‘गङ्गायाः पतनं राजन्पृथिवी न सहिष्यते। तांवै धारयितुं वीर नान्यं पश्यामि शूलिनः॥’ इति। महाभारते तु तपसा प्रसादितया गङ्गयेत्थमुक्तं पठितम्—‘करिष्यामि महाभाग वचस्ते नात्र संशयः। वेगं तु मम दुर्धार्येपतन्त्या गगनाच्च्युतौ॥ न क्षमस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप। अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात्॥इति। ततस्तेन तपसा प्रसादितस्य शिवस्य परममङ्गले परमपावने मूर्ध्नि गङ्गायाः पतनं शिवेन कृतं तदवलेपनिर्धूननमित्यादिकम् ‘आकाशादपतद्राम शिवे शिवशिरस्युत। अचिन्तयच्चसा देवी गङ्गा परमदुर्धरा। विशाम्यहं हि पातालस्रोतसा गृह्य शंकरम्॥ तस्या वलेपनं ज्ञात्वा क्रुद्धस्तु भगवान्हरः। तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा॥ वातस्मिन्पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि। हिमवत्प्रतिमे राम जटामण्डलगह्वरे।" इत्यादिसंदर्भेणोक्त्वा तदनन्तर-
मुक्तम्—‘तत्र देवर्षिगन्धर्ववसुधातलवासिनः। भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः॥ शापात्प्रपतिता ये च गगनाद्वसुधातले।कृत्वा तत्राभिषेकात्ते बभूवुर्गतकल्मषाः॥ धूतपापाःपुनस्तेन तोयेनाथ सुभास्वता। कृताभिषेका गङ्गायां बभूवुर्विगतक्लमाः॥’ इति। तत्सर्वमेतेन लोकेन संगृहीतम्॥१६॥
एवं शिवमहिमातिशयप्रतिपादनं बहुस्थलेषु प्रवृत्तमुदाहृत्य तन्निकर्षप्रतिपादनच्छायापन्नस्य चपलोक्तिनिभस्य परशुरामवाक्यसंदर्भस्य प्रतीयमानार्थतात्पर्यमाह—
नारायणस्य धनुषस्तव भीम चापा-
दुत्कृष्टतां गणयतः किल भार्गवस्य।
यन्मेनिरे त्वदधिकं तमितीव वाक्यं
तद्बाधितं च वचनेन रघुद्वहस्य॥१७॥
रामचन्द्रेण जनकगृहे शैवधनुः समारोपयता भग्नमित्याकर्ण्य तथाविधं क्षत्रियोत्कर्षमसहमानो भार्गवःपथि समागतः स्वहस्ते स्थितं वैष्णवं धनुः शैवाद्धनुषोऽधिकं मन्वानःश्रीरामचन्द्रं प्रति ‘इदं धनुः समारोप्य तत्र शरसंधानं कुरु, ततस्तव मया सह युद्धयोग्यतामालक्ष्य त्वया योद्धास्मि’
इत्युक्तिसमय इदमुपाख्यानमाह—पुरा शिवनारायणयोर्बलतारतम्यं जिज्ञासमानैर्देवैः प्रार्थितेन कमलभुवा तेन तयोः केनचिदुपायेन विरोध उत्पादिते विश्वकर्मणा निर्माय दत्तमिदं धनुर्द्वयं गृहीत्वा ताभ्यां प्रवृत्ते युद्धे शिवोनारायणेन निर्जितः, देवाश्च तदा नारायणमधिकं मेनिर इति। तस्य स्वार्थे न तात्पर्यम्, तयोर्मध्ये शिवस्य बलोत्कर्षनारायणमूर्तिरूपादस्त्राच्छिवदत्तस्य कस्यचिच्छूलस्योत्कर्षच प्रतिपादयता श्रीरामचन्द्रवचनेन बाधितत्वात्॥१७॥
ननु कथाद्वयमपि रामायणगतम्, कुतस्तयोर्बलाबलविवेक इत्याशङ्कयाह—
दृप्तस्य कोपकलुषस्य वचः किलाद्यं
धर्मस्य विग्रहवतस्तु वचो द्वितीयम्।
युद्धे क्वचित्त्वदधिकत्वमरेर्वचश्च
त्वद्दत्तसत्यवरनिर्वहणाय युक्तम्॥१८॥
काव्यवक्त्रेैक्येन वक्तुर्गुणानुगुणबलाबलविभागमाश्रित्यावश्यसमाधेयविरोधसमाधानासंभवे कविनिबद्धवक्तृगुणदोषानुसारिणा बलाबलविभागेन वा समाधातुमुचितम्। इह चाद्योपाख्यानस्य वक्ता भार्गवोऽतिदृप्तः प्रसिद्धस्तदानीं
च क्रोधान्ध इति स्वक्षत्रियवधादुपरतिंशस्त्रसंन्यासं च परित्यज्य चपल इति विदितः। द्वितीयोपाख्यानवक्ता श्रीरामचन्द्रस्तु ‘धर्मो विग्रहवान्रामः—’ इत्यादिकविवचनैः’विद्धि मामृषिभिस्तुल्यं केवलं धर्ममाश्रितम्’ इत्यादिस्ववचनैश्च ‘रामो द्विर्नाभिभाषते’ इत्यादिवचनैः स्ववचनस्य सूनृततया च धर्मैकनिरतः सत्यसंध इति प्रसिद्धः। अतस्तद्वचनेन तद्विरोधिनो भार्गवस्य वचनस्य बाधनं युक्तम्। एतेन ‘ब्रह्मा स्वयंभूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा। इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम्॥’ इति रावणं प्रति हनुमद्वचनमपि व्याख्यातम्। तदपि हि रावणभयोत्पादनार्थत्वेनान्यथासिद्धं वचनान्तरविरुद्धं न स्वार्थ बोधयितुमीष्टे। यथा ‘मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ।अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः॥ न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः॥’ इति सीतां प्रति हनुमतो वचनं सीताश्वासनार्थत्वेनान्यथासिद्धम्। एतादृशान्यथासिद्धिरहितं तु ‘एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा’ इति श्रीरामचन्द्रवचनं शिवस्य तदपेक्षया बलोत्कर्ष व्यनक्ति। अत्र शिववर्णनं दीपकालंकारद्योत्यायामुपमायां शिवस्योपमानत्वसिद्ध्यर्थम्।
उपमेयादधिकगुणमेवोपमानं भवतीति कविसमयः। मुखचन्द्रादौ तत्प्रसिद्धम्। एवं प्रमाणबलाबलपर्यालोचनया च बाध्यबाधकभाव उक्तः॥ अथ प्रमेयपर्यालोचनया भार्गववर्णितोपाख्यानस्यान्यथासिद्धिरुच्यते—शिवो नारायणेन निर्जित इति खल्वस्मिन्नुपाख्याने वर्णितम्। सोऽयमर्थःशिवेन कदाचिन्नारायणाय स्वदत्तं वरं परिपालयितुमभिनीतः स्वपराजयः। कथम्? भारते हि द्रोणपर्वणि द्रोणवधानन्तरमतिकुपितेनाश्वत्थाम्नाऽर्जुनं प्रति प्रहितं नारायणास्त्रंभगवता कृष्णेन वितथीकृतमालक्ष्य व्रीडितेन धिग्धिगिति शस्त्रं परित्यज्य दक्षिणां दिशं प्रति प्रस्थितेन मध्येमार्गं मिलिताद्वेदव्यासादाकर्णितं यदुपाख्यानम्—पुरा नारायणाय षष्टिं वर्षसहस्राणि मैनाके तपसा शिवमाराधितवते शिवेन बलवीर्यपराक्रमादिकं सर्वत्राप्रतिहतं दत्तमिति—तत्रेदंवरान्तरमपि शिवेन तस्मै दत्तमिति वर्णितम्—‘अपि चेत्समरं प्राप्यभविष्यसि ममाधिकः’ इति। हरिवंशे च पारिजातहरणसिद्ध्यर्थं शिवमाराध्य स्तुवते कृष्णायायमेव पुरा दत्तो वरःस्मारित इति वर्णितम्—‘इति संस्तूयमानस्तु भगवान्गोवृषध्वजः। प्रसार्यदक्षिणं हस्तं वासुदेवमथाब्रवीत्॥मनीषितानामर्थानां प्राप्तिस्तेऽस्तु सुरोत्तम। पारिजातं तु
हर्तासि मा भूत्ते मनसो व्यथा॥ पुरा मैनाकमाश्रित्य तपस्त्वमकरोर्यदा।तदा मम वचः कृष्ण संस्मृत्य स्थैर्यमाप्नुहि॥ अवध्यस्त्वमजेयस्त्वं मत्तः शूरतरस्तथा। भवितासीत्यवोचंयत्तत्तथा न तदन्यथा॥’ इति। तस्मादन्यथासिद्धेरपि न तदुपाख्यानेऽभिनिवेशःकार्य इति॥१८॥
एवं श्रीरामायणे सर्वत्र शिवमहिमप्रख्यापनसत्त्वात्क्वचिद्विरोध्यभावाच्च शिवमहिमातिशय एव तस्य प्रधानप्रतिपाद्य इत्याह—
इत्थं तव श्रुतिशतप्रथितं परत्वं
प्राधान्यतः स्मरहर प्रतिपादनीयम्।
द्वारं तु रामचरितं कविना गृहीतं
रामायणे महितमुत्तमकाव्यरत्ने॥१९॥
उत्तमकाव्यं हि तदुच्यते यद्ध्वन्यमानार्थप्रधानं तदभिव्यञ्जनसमर्थोत्तमनायकचरितनिबन्धनरूपं च। तदिह श्रीरामचन्द्रं काव्यनायकं कृत्वा तच्चरितनिबन्धनद्वारा शिवस्य परभावः कविना ध्वन्यध्वन्येन प्रख्यापित इत्यर्थः। ननु ‘स तु मेधाविनौदृष्ट्वा वेदेषु परिनिष्ठितौ। वेदोपबृंहणार्थाय तवग्राहयते प्रभुः॥’ इति श्रीरामायणस्य वेदोपश्रव
णत्वमुचितम्। तत्तु सिध्येद्यदि प्रधानप्रतिपाद्यत्वाभिमतस्य शिवपरभावस्य वेदप्रमितत्वं स्यादित्याशङ्क्यविशेषितं श्रुतिशतप्रथितमिति। ‘सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते संप्रसूयन्ते सर्वाणि चेन्द्रियाणि सह भूतैर्न कारणं कारणानां ध्याता धाता कारणं तु ध्येयः सवैर्यःसंपन्नः सर्वेश्वरः शंभुराकाशमध्ये क्षणमेकं तं लब्ध्वा क्रतुशतस्यापि चतुःसप्तत्या यत्फलं तदवाप्नोति। शिव एको ध्येयःशिवंकरः सर्वमन्यत्परित्यज्य समाप्ताऽथर्वशिखा’ इत्यथर्वाशिखोपनिषदि ‘यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम्।सह भूतेन्द्रियैः सर्वैः प्रथमं संप्रसूयते॥ कारणानां च यो धाता ध्याता परमकारणम्।न स प्रसूयतेऽन्यस्मात्कुतश्चन कदाचन॥ स सर्वैश्वर्यसंपन्नोनाम्ना सर्वेश्वरः स्वयम्। सर्वैर्मुमुक्षुभिर्ध्येयःशंभुराकाशमध्यगः॥ सर्वमन्यत्परित्यज्य शिव एव शिवंकरः। परो ध्येयोऽथ देवेशःसमाप्ताथर्वणी श्रुतिः॥’ इत्यादिशिवपुराणोपबृंहितायामन्यासु चाथर्वशिरःश्वेताश्वतरकैवल्योपनिषदादिषु बहुपुराणवचनप्रपञ्चोपबृंहितासु प्रसिद्धः शिवस्य परभावः। किं च श्रीरामायणं सावित्रीमन्त्रगर्भं चतुर्विंशतौसहस्रेषु सहस्रस्यादौ क्रमनिवेशितसावित्रीवर्णचतुर्विंशतिकमिति ‘पूर्वे पूर्वेभ्यो वचनमेतदूचुः’ इत्यादिन्यायेन तद-
भियुक्तपरम्परासंप्रदायसिद्धम्।तेन सावित्र्यर्थप्रधानं श्रीरामायणमिति ज्ञायते। तदर्थःसवितुर्वरेण्यः शिव एवेति सवितृमण्डलविद्यादिषु सुप्रसिद्धमेव। श्रीरामायणे चादित्यहृदये सवितृवरेण्यस्त्रिमूर्तिस्त्र्युत्तीर्णःशिव एवेति भावितम्। ततोऽपि शिवमहिमप्रख्यापनपरतयैव श्रीरामायणस्य वेदोपबृंहणत्वं समर्थितमित्यलं पल्लवितेन॥१९॥
केचित्तु वैष्णवाभिमानिनो वदन्ति—भगवत्प्रपदनं भरन्यासविद्या। सात्रसकृदनुष्ठितास्वानुष्ठानदेहावसान एव गतिमस्मृतिमप्यनपेक्ष्य मुक्तिप्रदा।तस्मादयमुपायान्तरेभ्यःश्रेयान्मुक्त्युपायः। तदेवाह न्यासविद्यारूपं भगवत्प्रपदनं मुमुक्षोर्विभीषणस्य प्रपदनप्रपञ्चनोपबृंहितम्। तदेवास्य प्रधानं प्रतिपाद्यम्–इति। तन्मतमनूद्यनिरस्यति—
केचिद्विभीषणसमाचरितं प्रधानं
कोणे श्रुतं प्रपदनं प्रतिपाद्यमाहुः।
**प्राधान्यमत्र कथमुत्तमनाम्निकाव्ये **
वाच्यातिशायिविषयार्थि तदश्नुवीत॥२०॥
त्रिविधं हि काव्यमुत्तममध्यमाधमभेदात्। यत्र वाच्यातिशायि व्यङ्ग्यंतदुत्तमम्। यत्र व्यङ्ग्यं वाच्यस्यगुणीभूतं
तन्मध्यमम्। यत्र व्यङ्ग्यमेव नास्ति तदधमम्। काव्यस्य ह्यात्मा ध्वनिःशब्दार्थौवपुःस्थानीयाविति सहृदयानां मर्यादा। तत्र व्यङ्ग्यरहितं निरात्मकं वपुर्मात्ररूपमित्यधमम्, चार्वाकमतपक्षपातित्वात्। वस्तुतो गुणप्रधानभावार्हयोर्वाच्यव्यङ्ग्ययोस्तद्वैपरीत्याद्गुणीभूतव्यङ्ग्यंमध्यमम्। ये वस्तुतो गुणप्रधानभूतयोर्देहात्मनोः कदाचित् ‘मम शरीरम’ इत्यादिबुद्ध्या विविच्यजानन्तोऽपि देहात्मभ्रमप्राचुर्येण देहप्रधाना लौकिकास्तदनुसारित्वात्तथाभूतमिदं व्यासप्रभृतीनां महाकवीनां पुरस्ताद्गणनीयेन महाकविना भगवता प्राचेतसेन कृतं काव्यं न भवति। किं तूत्तमकाव्यमित्येवमहनीयं संमतं च सहृदयानां सर्वेषामपि तथैव। अतोऽत्र ध्वनिप्राधान्यमपहाय वाच्यप्राधान्यमुच्यमानमपहासायैव कल्पत इति॥२०॥
अथ काव्यमर्यादामपहाय फलगौरवेणास्त्र प्रपदनस्य प्राधान्यमुच्येत, तदपि नास्तीत्याह—
स्याच्चेत्तदीश फलगौरवतःप्रधान-
मिक्ष्वाकुनायक समाचरितं तथा स्यात्।
तच्चापि वायसकृतं धनलाभतोऽपि
दारात्मलाभमधिकं हि बुधा वदन्ति॥२१॥
राज्ययोगेच्छया विभीषणेन प्रपदनं कृतम्। दारेप्सया श्रीरामचन्द्रेण सुग्रीवप्रपदनं कृतम्, ‘सुग्रीवं शरणं गतः’ इति बहुधाऽऽम्रेडितत्वात्। वायसेन तु तन्मुक्तास्त्रेणात्मनाशमाशङ्क्यतत्प्रतिष्ठानरूपलाभार्थं तस्यैव प्रपदनं कृतम्। तदपि’त्रील्लोँकान्संपरिक्रम्य तमेव शरणं गतः’ इति कविना दर्शितम्। तत्र धनदारात्मलाभफलानां प्रपदानानां मध्ये कस्य फलमधिकमिति त्वमेव विमृश।‘राजानं प्रथमं विन्देत्ततो भार्या ततो धनम्’ इत्यात्मपरित्राणार्थं राजन्वती भूमिःप्रथममन्वेष्टव्या।तत्र गृहं कृत्वा वासार्थ भार्या भ्रमेष्टव्या।ततस्तद्भरणार्थेधनमेष्टव्यमिति धनदारात्मनामुत्तरोत्तरस्य पूर्वपूर्वशेषिभावनोत्कर्षो नीतिशास्त्रेष्वन्वयमुखेन दर्शितः। ‘आपदर्थ धनं रक्षेद्दारान्रक्षेद्धनैरपि। आत्मानं सततं रक्षेद्दारैरपि धनैरपि॥’ इति व्यतिरेकमुखेणाप्ययमर्थो दर्शितः। तस्मात्फलभूम्नाप्राधान्यं चेच्छ्रीरामचन्द्रकृतस्य वायसकृतस्यैव वा प्राधान्यं प्रसज्येतेत्यर्थः॥२१॥
ननु विभीषणकृतं प्रपदनं मुक्त्यर्थमिति फलगौरवेणावाच्यस्यैव तस्य प्राधान्यमुक्तं न काव्यमर्यादासिद्धं प्राधान्यमित्याशङ्क्याह—
तच्चेद्विमुक्तिफलकं फलगौरवं स्या-
द्राज्येप्सयैव तु कृतं तदिति प्रसिद्धम्।
श्रीरामचन्द्रपवनात्मजयोश्च सूक्त्या
साक्षाच्च तस्य वचनेन विभीषणस्य॥२२॥
न मुक्त्यर्थेविभीषणेन प्रपदनं कृतम्, किं तु राज्यभोगार्थम्। तदेतत्पवनात्मजादिवचनैः स्पष्टम्।तत्र विभीषणागमनसमये पवनात्मजवचनम्—‘उद्योगं तव संप्रेक्ष्य मिथ्यावृत्तं च रावणम्। वालिनं च हतं श्रुत्वा सुग्रीवं चाभिषेचितम्। राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः॥’ इति। तत्रैव सुग्रीवादीन्प्रतिरामचन्द्रवचनम्—‘न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः। पण्डिता हि भविष्यन्ति तस्माद्धाह्यो विभीषणः॥’ इति।तथा नागपाशबन्धेऽपि श्रीरामचन्द्रवचनम्—“यन्मया न कृतो राजाराक्षसानां विभीषणः।मिथ्याप्रलपितं मां च प्रवक्ष्यन्ति न संशयः॥” इति। तत्रैव शोकार्तस्य विभीषणस्य वचनम्—‘ययोर्विर्यसमाश्रित्य प्रतिष्ठा काङ्क्षिता मया। तावुभौ देहनाशायप्रसुप्तौ पुरुषर्षभौ॥’ इति। एतेनेयमपि शङ्का निरस्ता राज्यलाभमान्तरालिकं प्रयोजनं कृत्वा मोक्षार्थं विभीषणः प्रपन्न इति रामे विष्णुत्वबुद्धौ सत्यामेव मोक्षार्थं तत्प्रपदनमपि
कल्प्येतापि। नतत्र सा बुद्धिस्तत्रास्ति, तथा सति नागपाशबन्धेन मूर्छितं रामचन्द्रं दृष्ट्वैववप्रलापानुपपत्तेः, न विष्णोरित्थमापत्कदाचिदपि प्रसज्यतेऽभिनयमात्रमिदं किंचित्कालमित्याश्वासोपपत्तेः॥२२॥
ननु विभीषणप्रपदनं मुक्त्यर्थं न भवति चेत्प्रपदनानन्तरम् ‘परित्यक्तामया लोका मित्राणि च धनानि च’ इति वचनं न स्यात्, न ह्यमुमुक्षोरविरक्तस्य सर्वत्यागवचनं संभाव्यत इत्याशङ्क्याह—
लङ्कासुहृद्धनसुखानुभवादि सर्वं
त्यक्तं मयेति तु वचो न ततो विरक्त्या।
श्रीरामचन्द्रकरुणार्द्रकटाक्षलब्धे
तत्रैव रागपिशुनः खलु वाक्यशेषः॥१३॥
‘भवद्गतं मे राज्यं च जीवितं च सुखानि च’ इति तदुत्तरार्धरूपो वाक्यशेषस्तत्रैव लङ्काराज्यादौ रामचन्द्रप्रसादलब्धे रागं व्यञ्जयति। अतो न लङ्कादेःस्वरूपतस्त्यागविषयं पूर्वार्धम्। किं तु रामचन्द्रप्रसादाल्लब्धंतन्ममाभूदित्येतदभिप्रायम्। तेन लङ्काधिपत्यादिकं त्वया मह्यं दातव्यमिति व्यज्यते॥
अत्रैव गमकत्वेन विभीषणवचनानन्तरप्रवृत्तं श्रीरामच-
न्द्रव्यापारमुदाहरति—
ज्ञात्वा तदीप्सितमतोऽथ रघुवीर-
स्तेनैव रावणबलादि च वाचयित्वा।
कृत्वा च रावणतदिष्टवधप्रतिज्ञां
राज्याधिपत्यमददादभिषेकपूर्वम्॥२४॥
श्रीरामचन्द्रो विभीषणस्येदं वचनमाकर्ण्य तदभिप्रायं बुद्ध्वातत्र क्रिया केवलमुत्तरमिति तदानीमेवाभिषेकपूर्वकं लङ्काराज्याधिपत्यं तस्मै ददौ। कथमिदानीमन्यदीयतया स्थितस्यराज्यस्य तस्मै दानमिति पश्यतामस्थाने व्यापारोऽयमिति शङ्कावारणार्थम् ‘अहत्वा रावणं संख्ये सपुत्रं सहबान्धवम्। अयोध्यांन प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे॥’ इत्यभिषेकात्प्रागेवं रावणतदीयपरिवारवधप्रतिज्ञा कृता। प्रतिपक्षबलमज्ञात्वा हठात्क्रियमाणेयं प्रतिज्ञाप्यस्थान इति तेषामेव शङ्कावारणाय प्रतिज्ञायाःप्राग्विभीषणवचनश्रवणानन्तरमेव ‘आख्याहि मम तत्त्वेन राक्षसानां बलाबलम्’ इति विभीषणं प्रति पृष्ट्वातन्मुखेन रावणस्य सर्वमपि बलं वाचितम्। आख्याहीत्यस्य प्रश्नस्य करिष्यमाणाभिषेकोपयोगाभिप्रायो न वर्ण्यते चेद्विभीषणेन यत्प्रार्थितं तत्रोत्तरं किमप्यनुक्त्वा रा-
मेणान्यदेव पृष्टमिति वैयधिकरण्यं स्यात्। तमाद्विभीषणोक्त्यनन्तरं श्रीरामचन्द्रव्यापारपर्यालोचनयापि विभीषणोक्तिः केवलं रामचन्द्रप्रसादलभ्यराज्यप्रार्थनार्थेति निश्चीयत इत्यर्थः।अतः केवलं राज्यप्रेप्सयैव रामचन्द्रप्रपदनम्।रामचन्द्रस्यापि राज्यप्रदानमात्रविषया प्रतिज्ञा। अत एव नागपाशबद्धस्य रामस्य विभीषणाय प्रतिज्ञातं राज्यं न दत्तमित्येतद्वचनम्।रावणवधानन्तरमभिषेकपूर्वकं विभीषणाय लङ्काराज्यप्रदानेनैव रामस्य विभीषणविषये कृतकृत्यत्वबुद्ध्या प्रमोदो बालरामायणे कथितः—‘अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्। कृतकृत्यस्तथा रामो विज्वरः प्रमुमोद ह॥’ इति। तस्माद्विभीषण प्रपदनस्य फलगौरवकृतं पारिभाषिकमपि प्रधानप्रतिपाद्यत्वं न संभवतीति पूर्वोक्तरीत्या रामायणे प्रायः सर्वत्र ध्वन्यमानं शिवपारम्यमेव तस्य प्रधानप्रतिपाद्यमिति सिद्धम्॥ यद्यपि ध्वन्यमानत्वाविशेषाद्रामायणे तत्र तत्र व्यञ्जितः शृङ्गारवीरकरुणाद्भुतरौद्रादिको रसो देवतागुरुनृपपितृपुत्रादिविषयरतिरूपो भावोऽपि प्राधान्यमर्हति, तथापि रामायणे सर्वत्र प्रविततः शिवपारम्यरूपो वस्तुध्वनिः प्राधान्यमश्नुत इत्यत्र नास्ति संशीत्यवकाशः। अतो रामायणं शिवमहिमप्रख्यापनप्रधानं भवत्येवेति सिद्धम्॥
अथ स्तोत्रस्य प्रचयगमनार्थसमाप्तौ नमस्काररूपं मङ्गलं क्रियते—
प्राचेतसाय कवये प्रथमाय तस्मै
तत्काव्यहारतरलाय च राघवाय।
**विश्वात्मने तदुभयस्थिरभावलक्ष्य- **
मुख्यास्पदाय विभवे च नमः शिवाय॥
इति श्रीभरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्गराजाष्वरिवरसूनोरप्पयदीक्षितस्य कृतिः
श्रीरामायणसारसंग्रहस्तोत्रविवरणं
संपूर्णम्।
<MISSING_FIG href="../books_images/U-IMG-1701453317इ१.png"/>
]