[[दूताङ्गदम् Source: EB]]
[
KĀVYĀMĀLĀ. 28.
THE
DÛTÂNGADA
OF
SUBHATA.
EDITED BY
MAHÂMAHOPÂDHYÂYA PANDIT DURGÂPRASÂDA
AND
KÂSÎNÂTH PANDURANG PARAB,
Second Revised Edition.
<MISSING_FIG href="../books_images/U-IMG-1722786390nnnnnnnnnnnnnnnnnnnnnnnnnnnnnn.png"/>
PRINTED AND PUBLISHED
By
TUKÂRÂM JÂVAJÎ
PROPRIETOR OF JAVAII DADAJI’S‘NIRNAYA-SAGARA’ Press,
BOMBAY.
1900.
<MISSING_FIG href="../books_images/U-IMG-1724310496Screenshot2024-08-22123800.png"/>
Price 2 Annas,
काव्यमाला, २८.
<MISSING_FIG href="../books_images/U-IMG-1724310714Screenshot2024-08-22124135.png"/>
श्रीसुभटकविप्रणीतं
दूताङ्गदम्।
<MISSING_FIG href="../books_images/U-IMG-1722786293kdghykusrgye.png"/>
जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना महामहोपाध्यायपण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परवोपाह्व-
पाण्डुरङ्गात्मजकाशिनाथशर्मणा च
संशोधितम्।
द्वितीय संस्करणम्।
<MISSING_FIG href="../books_images/U-IMG-1724310714Screenshot2024-08-22124135.png"/>
तच्च
मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम्।
१९००
(अस्यग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयधिपतेरेवाधिकार।)
मूल्यं २ आणकाः।
काव्यमाला।
<MISSING_FIG href="../books_images/U-IMG-1724311050Screenshot2024-08-22124717.png"/>
१महाकविश्रीसुभटकृतं
दूताङ्गदम्।
<MISSING_FIG href="../books_images/U-IMG-1722786752hsrrrrrrrrrjjjhystttttttx.png"/>
पायात्स वः कुमुदकुन्दमृणालगौरः
शङ्खो हरेः करतलाम्बरपूर्णचन्द्रः।
नादेन यस्य सुरशत्रुविलासिनीनां
काञ्च्यो भवन्ति शिथिला जघनस्थलीषु॥१॥
अपि च।
शंभोः कोदण्डभङ्गादविदितविभवः शक्रसूनोर्विनाशा-1
दज्ञातः सेतुबन्धादपि न परिचितः कैकसीनन्दनेन।2
संवादादङ्गदस्याप्यनधिगतगतिः कारणान्मर्त्यमूर्ते-
र्भूयाद्भूत्यै जनाना जगति रघुपतेर्वैष्णवः कोऽपि भावः॥२॥
(नान्द्यन्ते)
** सूत्रधारः—**(परिक्रम्य नेपथ्याभिमुखमवलोक्य) प्रिये विलासवति, इतस्तावत्।
–––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
१, अय सुभटकविरत्र कुमारपालदेव वर्णयति. स च कुमारपाल’ १०८८ मितात्सिस्त संवत्सरादारभ्य ११७२ मितसंवत्सरपर्यन्त गुर्जर (गुजरात) देश पालयामास। श्रेताम्बरजनौऽनेकग्रन्थकर्ता पण्डितवरः श्रीहेमाचार्योऽपि कुमारपालसमकालीन एव (मुम्बईमुद्रितसुभाषितावलीपुखकोपोद्धातस्य १३९ पृष्ठ विलोकनीयम्) हेमाचार्यकृत कुमार्पालचरित प्राकृतनिबद्ध प्रसिद्धमेव. ‘सुभटेन पदन्यासः स कोऽपि समितौ कृतः। ये नाधुनापि धीराणा रोमाञ्चो नापचीयते॥” इति कीर्तिकौमुद्यां (१।२४) स्रिस्तसंवत्सर त्रयोदशशतकपूर्वभागसमुत्पन्नः सोमेश्वरदेवोऽपि सुभटकवि स्तौति. अस्मिन्ग्रन्थे न सर्वेश्लोकाः सुभटकृताः।, किं तु भवभूतिराजशेखरादि्कृता अपि श्लोका अत्र वर्तन्ते, परकीयश्लोकग्रहण च कविरेव स्वयं ग्रन्थान्ते स्वीकरोति ‘पायुत्स वः–इत्यादि प्रथमश्लोकस्योत्तरार्धौ काव्यालंकारटीकाया(२।८) नष्टिसाधुनो हृतः,
(प्रविश्य)
** नटी—**अज्जउत्त, इअह्मि। आणवेदु अज्जो ज करणिज्जम्। (क)3
** सूत्रधारः—**विश्वविश्वंभरामारसमुद्धरणादिवराहस्य निजभुजयुगलविदलित4 सकलवैरिवृन्दसुन्दरीनेत्रनीलोत्पल-विगलितबहलवाष्पपूरप्लवमानप्रताराजहंसस्य महाराजाधिराजश्रीमन्त्रिभुवनपालदेवसय परिषदाज्ञया प्रबन्धविशेषमहमुपक्रपमाणोऽसि। भो भोः सामाजिकः, श्रुणुत सावधानाः यदद्य वसन्तोत्सवे देव5श्रीकुमारपालदेवस्य यात्रायां पद6वाक्यप्रमाणपारंगतेन महाकविना श्रीसुभटेन विनिर्मितं दूताङ्गदं नाम च्छायानाटकमभिनेतव्यम्।
** नटी—**अज्जउत्त, जुत्तं ववसिदम्। (ख)।7
(नेपथ्ये)
तारापतौ8 वानरराजलक्ष्मींनिहत्य यो वालिनमानिनाय।
तीर्णार्णवो दाशरथिः स देवः सुवेलशैलोपवनेष्वखेलत्9॥३॥
** सूत्रधारः—**आर्ये, प्रारब्धमेव कुशीलवैः10। यदमी11रामानुचरवीराणां परस्परमालापाः श्रूयन्ते। तदेहि। आवामप्यनन्तरकरणीयाय सज्जीभवावः।
(इति निष्क्रान्तौ\।)
**प्रस्तावना। **
(ततः प्रविशतः सुवेलशैलशिलातलासीनौ रामलक्ष्मणौ। सुग्रीवादिकश्च12 विभवतः परिवारः।)
** रामः13 तीर्णोऽर्णवः–’ इति पाठः।")—**(लक्ष्मण प्रति) वत्स लक्ष्मण,
तीर्णोर्णवः कवांस्तेव कपीश्वरस्य14
सेनाभटैर्झटिति राक्षसराजधानी।
यत्त्पौरुषोचितमिहाद्य15 कृतं मया न
द्दैवस्य वश्यमपरं धनुषोऽथवास्य ॥४॥
** लक्ष्मणः—**आर्य, कातरजनमनोवलम्बिना दैवेन क्रिम्।
उद्योगिन16 पुरुषसिंहमुपेति लक्ष्मी-
र्दैवं हि दैवमिति कापुरुषा वदन्ति।
देवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः॥९॥
अपि च।
यावल्ललाटशिखरं भ्रुकुटिर्न याति
यावन्न कार्मुकशिखामधिरोहति ज्या।
तावन्निशाचरपतेः पटिमानमेतु
त्रैक्यमूलविभुजेषु भुजेषु दर्पः॥६॥
तदादिश्यतामङ्गदाय दौत्यम्।
** रामः—** (अङ्गद सबहुमानमालोक्य)17 वत्स,
पिता ते यद्वाली बलिनि दशकण्ठे कलितवा-
न्न18 तद्वक्तुं शक्ता वयमयमुदा्स्ते न पुलकः।
स एव19 त्वं व्यावर्तयसि तनुजत्वेन पितृतां
ततः कि वक्तव्यं तिलकय निसृष्टार्थपदवीम्20॥७॥
** अङ्गदः—**(मौलिमण्डलमिलत्करयुगलेन प्रणम्य विज्ञापयति।) देव,
किं21 प्राकारविहारतोरणवर्ती लङ्कामिहैवानये
किं वा सेन्यमहं द्रुतं रघुपतेस्तत्रैव संपादये्।
आकल्पं कुलपर्वतैरविरलैर्बध्नामि वा सागरं
देवादेशय किं करोमि सकलं दोर्दण्डसाध्यं मम॥८॥
अज्ञानादथवाधिपत्यरभसादस्मत्परोक्षे23 हृता
सीतेयं प्रविमुच्यतामिति वचो गत्वा दशास्यं वद।
नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलछोणित-
च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि॥९॥
** अङ्गदः**—देव,
संधौ वा विग्रहे वापि मयि दूते दशाननी।
अक्षता मा क्षता वापि क्षितिपीठे लुठिष्यति॥१०॥
** रामः**—साधु24 भो वालिनन्दन, साधु। (इति पृष्ठे हस्त दत्त्वा विसृजति्)25
(अङ्गद प्रणम्य निष्क्रान्तः।)
** सुग्रीवः**—(लङ्काशैलशिखरमालोक्य।) देव , पश्य पश्य।
सावज्ञमिव संपश्यन्कपिवीरवरूथिनीम्।
निजांसे दशकण्ठोऽयं दत्ते मत्तेभवदृशम्॥११॥
तदागच्छत। वयमपि सुवेलशैलवनतिलकितानि जलनिधेस्तटानि पश्यामः।
(इति निष्क्रान्ताः)
(ततः प्रविशति रावणो मन्दोदरी विभीषणादिकश्च परिवारः।)
** रावणः—** (विभीषणं भति।) वत्स विभीषण,
एते26 ते मम बाहवः सुरपतेर्दोर्दण्डकण्डूहराः
सोऽहं सर्वजगत्पराभवकरो लङ्केश्वरो रावणः।
सेतोर्बन्धमिमं श्रृणोमि कर्णेभिः पश्यामि लङ्का वृतां
जीवद्भिस्तु न दृश्यते किमथवा किं वा नहि श्रूयते॥१२॥
अपि च।
जम्भारातीभकुम्भस्थलदलनपश्चन्द्रहासाभिधानः
स्वङ्गः किं तापसस्य श्रवणविषयतां न प्रयातो मदीयः।
यन्नासो मेघनादप्रभृतिभट्शतैर्व्यावृतां वेत्ति लङ्कां
तन्नूनं सत्यमेतत्प्रचलति हि मतिः प्राप्तकालस्य जन्तोः॥१६॥
यदाखण्डलदर्पेन्दुराहवो बाहवो मम।
दुह्यन्ति तापसेभ्योऽपि तदरिष्टमदो महत् ॥१४॥
** मन्दोदरी**—(स्वागतम्।)
तं ज्जेव्व अज्जवि गले गरलं गव्वस्स वरिसए एस।
जग्गन्ति जेण रक्खसकुलम्मि सोअङ्कुरकुडप्पा॥१५॥
(प्रकाशम्)। णाह, पेक्ख पेक्ख। अचरिअं अच्चरिअम्।
विलसिदसरोसवानरवरूहिणीकलअलस्स कल्लोला।
इह तुह विलासवासम्मि वीर विरअन्ति पडिसदृम्॥१६॥(क)
** रावणः—**(सावज्ञम्) देविप्रकृतिप्रियवादिनि27, अलमलमनया मर्कटकीटकोलाहलविभीषिकया्28। किमप्यपरं वक्तुकामास।
** मन्दोदरी—**
अज्ज वि ण कोवि दोसो रहुपहुणो देव देहि वैदेहीम्।
मन्दोदरीअ मण्डणमखण्डभावं समब्भेदु॥१७॥(ख)
––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
(क) तमेवाद्यापि गले गरलं गर्वस्यवर्षत्येषः।
जाग्रति येन राक्षसकुले शोकाडुरकुड्मलाः॥
नाथ, पेक्षस्व प्रेक्षस्व। आश्चर्यमाश्चर्यम्।
विलसन्सरोषवानरवरूथिनीकलकलस्य कल्लोलाः।
इह तव विलसवासे वीर विरचयन्ति प्रतिशब्दम्॥
(ख) अद्यापि न कोऽपि दोषो रघुप्रभोर्देव देहि वैदेहीम्।
मन्दोदर्या मण्डनमखण्डभावं समभ्येतु॥
** रावणः—**(सकोपहासम्) देवी,
एकं तावदकृत्यमेददतुलं यन्मैथिलीयं हृता
द्वैतीयीकमिदं विमृश्य यदसौ तस्मे तदा नार्पिता।
तार्तीयीकमिदं तु यत्कपिभटैर्बद्धेऽद्य वारां निधौ
संधानं दशकंधरो रचयति क्ष्मानन्दिनीमर्पयन्॥१८॥
तदवतंसयतु न्न्वती विलासगृहम्।(इति मन्दोदरी भाष्प विसृजन्ती निष्क्रान्ता।)
** रावणः**—(विभीषण प्रति) वत्स विभीषण, तवापि किमपि वक्तव्यमस्ति।
** विभीषणः—**देव लङ्केश्वर, विचारय नयचक्षुषा।
मनुष्यो न मनुष्यो तौ वानरास्ते न वानराः।
व्याजेन किमपि च्छन्नं देव दुर्दैवमेव ते॥१९॥
तदियं मुच्यतां राक्षसकुलकार्लरात्रिर्जानकी।
** रावणः—**(सरोष खड्गमादाय) आः पाप प्रतिपक्षपक्षपातिन् कुलाङ्गार दुराचार, एष ते चन्द्रहासेन शिरः पातयामि। (इति संरमते।)
(विभीषणश्च सभयमपसरति।)
** माल्यवान्—**(अन्तराले भवन् !) देव लङ्केश्वर, विचारय नयचक्षुषा किमहितमभिहितं कुमारविभीषणेन।
** रावणः—**भोः, त्वमपीदृशः संपन्नः।
(माल्यवान्सभयं तूष्णीमास्ते।)
** रावणः—**(विभीषणं प्रति) अरे बान्धवापसद,29 परिहर मे राजधानीम्।तमेव च वनेचरमनुप्रविश्य प्रकाशय नीतिनैपुण्यम्। न पुनः कथाशेषं करिष्यामि।
** विभीषणः—**न भाव्यमन्यथा भवति। (इति वदन्निष्क्रान्तः।)
(ततः प्रविशति प्रहस्ताभिधः प्रतीहारः।)
** प्रहस्तः—**देव, रामस्य दूतोऽहमिति ब्रुवाणः कोऽपि शाखामृगोद्वारमध्यास्ते ।
** रावणः—**(सावज्ञम्।)प्रवेशय तावत् ।
(ततः प्रविशति प्रहस्तेन सहाङ्गदः।)
** अङ्गदः**—(रावणमवलोक्य स्वगतम्)
स एष जगदास्कन्दकौतुकी दशकंधरः।
यन्मौलिकमलारामे रामः क्षेप्ता शिलीमुखान्॥२०॥
(प्रकाशम्।)
रे राक्षसाः कथयत क्व स रावणाख्यो
रत्नं रवीन्दुकुलयोरपहृत्य नष्टः।
त्रैलोक्यदीपनकरास्त्रशिखाकराले
यो रामनामदहने भविता पतङ्गः॥२१॥
(बहवो राक्षसा रावणरूप भिब्रति।)
** अङ्गदः—**
रे रे रावण रावणाः कति बहूनेतान्वयं शुश्रुमः
प्रागेकं किल कार्तवीर्यनृपते30र्दोर्दण्डपिण्डीकृतम्।
एकं नर्तनदापितान्नकवलं देत्येन्द्रदासीजनै-
रेकं वकतुमपि त्रपामह इति त्वं तेषु कोऽन्योऽथवा॥२२॥
** रावणः—**(बहुरुपाणि सहृत्य सहेलम्) भोः,भोः शाखामृग, कस्त्वं कस्यासि दूतः।
** अङ्गदः—**
पितर्युपरते यस्तु नोद्वहेत्पैतृकीं धुराम्।
तेन नैवोपदेष्टव्याः स्वस्य वंशस्य पूर्वजाः॥२३॥
तथापि भवतु।
रक्षोदुर्भिक्षमाघातुमवतीर्णोऽस्ति यः क्षितौ।
तस्य रामस्य दूतोऽहं सुतस्तस्य च वालिनः॥२४॥
अपि च।
तस्य रामस्य दूतोऽहं येन मे जनको हतः।
वालिनस्तस्य पुत्रोऽहं यद्वीर्यानुभवस्तव॥२५॥
** रावणः—**(अङ्गदं प्रति।)
** अङ्गदः—** न किंचित्।
** रावणः—** अपि च प्राप्तः पयोधेस्तटं
कस्मात्सांप्रतम्॥
** अङ्गदः—** एवमेव हि।
** रावणः—** ततो बद्धः किमम्भोनिधिः।
** अङ्गदः—**
क्रीडाभिः।
** रावणः**—किमसौ न वेत्ति पुरतो लङ्केश्वरो वर्तते॥
** अङ्गदः**—
जानात्येव विभीषणोऽस्य निकटे लङ्कापदे स्थापितः॥२६॥
** रावणः—**(साशङ्कम् ) रामस्याधुना कीदृशी चर्या।
** अङ्गदः—**
अङ्के कृत्वोत्तमाङ्गं प्लवगबलपतेः33 पादमक्षस्य34 हन्तुः
कृत्वोत्सङ्गे सलीलं त्वचि कनकमृगस्याङ्गमाधाय शेषम्।
बाणं रक्षःकुलघ्नः प्रगुणितमनुजेनादरातीक्ष्णमक्ष्णः
कोणेनोद्वीक्षमाणस्त्वदनुजवचने दत्तकर्णोऽयमास्ते ॥२७॥
(रावणस्तत्रावज्ञा नाटयन्, प्रहस्तस कणे एवमेव कथयति।)
** प्रहस्तः—**यदादिशति देवः। (इति निष्क्रान्तः।)
(ततः प्रविशति प्रहस्तेन सह मायामैथिली)
** मथिली—**जअदु जअदु अज्जउत्तः।(क)35 (इत्यभिदधाना रावणोत्सङ्गमारोहति।)
** रावणः—**(स्वगतम्) साधु भो मायामपि साधु, जानासि दशकण्ठमाराधयितुम्।
** अङ्गदः—**(सविषादमात्मगतम्) अपि नाम जानकी परायाङ्गनाचरितिमाचरेत्। भवतु। विलोकयामि तावत्।
** रावणः**—देवि विदेहनन्दिनि, प्रतिबोध्यतां रामप्रहितोऽयं शाखामृगः।
** मायामैथिली**—(अङ्गद सबहुमानमवल्येक्य।) वत्स अङ्गद, मह वयणेहि पडिबोधेदि राहवम्—
इम्मवर कीस स्विज्जसि राहव तं वज णिअं णअरम्।
दिण्णाहं णिजहिअए सक्खीकिय मयणमेअस्स॥२८॥
अवि अ।
मयि रावणङ्कपङ्कजविलासहंसीइँअज्ज रहुणाहो।
रक्खसभटेहिँ भञ्जिदभरतं भूसेदु णिजरजम्॥२९॥ (क)
** अङ्गद—** (कर्णौ पिधाय) न ख्स्लु भवती जानक। यतः।
अश्रुतपूर्वाविनया पर्याप्तालंकृता च शीलेन।
सा राघवस्य पत्नी पुनाति भुवनानि गङ्गेव॥ ३०॥
(ततः प्रविश्य पटाक्षेपेण)
** राक्षसी—**
श्रुत्वा रघुपतेः किंचिदनिष्टं देव36 मैथिली।
विधातुं सवेदुःखान्तं लतापाशेन वाञ्छति्॥३१॥
** रावणः—** (सखेदम्) आः, किमेवमभिहितमनवसरे। राक्षसाः, रक्षत रक्षत जानकीम्।(इति मायामैथिलीं विसर्जयति।)
** अङ्गदः—** (सहर्षम्) परमार्थमैथिलीयेन तेजसा तिरस्कृतं मायामैथिलीमयमन्धकारम्।
––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
(क) वत्स अङ्गद, मद्वचनैः प्रतिबोधय राघवम्—
एषामुपरि कस्मात्खिद्यसे राघव तं व्रज निजं नगरम्।
दत्ताहं निजहृदयेन साक्षीकृत्य मदनमेतस्य॥
अपि च।
मयि रावणाङ्कपङ्कजविलासहंस्यामद्य रघुनाथः।
राक्षमभटैर्भञ्जितरतं भूषयतु निजराज्यम्॥
** रावणः—**भो वलीमुख, किमपि वक्तुकामः।
** अङ्गदः—**
न दोषः स्वल्पोऽपि प्रभवति तवाकृत्यकरणा-
दपि क्रव्यादानां भवति परमं मण्डनमिव।
अतः क्रव्यादेश त्वयि न परदारापहरणा-
दनौचित्यं किंचित्त्दपि विषमाः क्षत्रियरुषः॥६२॥
** रावणः—**(सक्रोधम्) आः पाप दुर्मुख, मौखर्यदर्शनेन राघवमर्धयसि न पुनर्निदर्शनेन।
** अङ्गदः—**किमपरमुदाह्रणं विरोकय।
समं प्रतिज्ञया येन तीर्त्वा दुस्तरमर्णवम्।
वनद्रुमाः सुवेलस्य भज्यन्ते त्वद्भुजा इव॥३३॥
** रावणः—**अरे विचारमूढ,
पारावतैः किमयमम्बुनिधिर्न तीर्णः
क्रान्ताः कथं न कपिभिः क्व च नाम शैलाः।
तद्वेद्मि दोर्बलसौ यदि शौर्यरेखा-
माविष्करोति करवालकषोपलेऽद्य॥३४॥
अपि चरे, रावणं न जानासि।
आस्कन्धावधि कण्टपीठविपिने प्राक्चन्द्रहासासिना
छेत्तुं प्रक्रमिते मयैव झटिति त्रुट्यच्छिरासंततौ।
अस्मेरं गलिताश्रु गद्गदपदंभुग्नं च यद्येष्वभू-
द्वक्रेष्वेकमपि स्वयं स भगवांस्तन्मे प्रमाणं शिवः॥३५॥
** अङ्गदः—**
किं राघवस्य दशकंधरचन्द्रहस-
वंशेऽमवन्भुवनमीतिभिदः शरास्ते।
लूनानि यैस्तवं शिरांसि पुनः प्ररोह-
मेष्यन्ति मूढ नहि धूर्जटिर्वणीव॥३६॥
** रावणः—** (सक्रोध चन्द्रहासमादाय) रे अपसरापसर मेऽग्रतः, कथाशेषं करिष्यामि।
** अङ्गदः—** (गन्तुमिच्छन्।)
रे नक्तंचरराज मुञ्च सहसा देवीमिमां मेथिलीं
मिथ्या कि निजपौरुषस्य नटनप्रागल्भ्यमभ्यस्यसि।
एतां पश्यसि कि न किनरगणैरुद्गीतदोर्विक्रमां
सेनां वानरभर्तुरुद्भटजस्तम्भाग्रभीमां पुरः॥३७॥
अपि च।
शिरोभिर्मा देवीः शिव इव न ते दास्यति पुनः
प्रबन्धं पश्याब्धेः सरस इव केलाससुभ।
हितं तु त्वां ब्रूमो मम जनकदो्र्दण्डविजये
चल्त्कीर्तिस्तम्भ त्यज कमलबन्धोः कुलवधूम्॥३८॥
किं च।
आदौ येन सुबाहुमुख्यपिशिताहारैः समं ताडका
नीता नाशमतश्च भमग्नवदनश्रीस्ते खसाकारि च।
हत्वा येन वने भवद्भटवटून्बद्धोऽम्बुधिश्च क्षणा-
त्कर्ता त्वन्निधनस्य सैष समरे भ्रान्तिस्तवाद्यापि का।॥३९॥
अपि च।
रे रे राक्षस मा स्म शंकरवरभ्रान्त्या विभाङ्क्षीर्तयं
रुष्टो मूढ तदैव यन्मतिरभूत्सीतापहारे हरः।
नो चेदिष्टकपालमण्डनभृताप्याखण्ड्य मुण्डावलीं
भक्त्या ढौकितमीश्वरेण किमहो37 प्रत्यार्पितं पाभृतम् ॥४०॥
अपि च। जानीमहे महेश्वरपरिचरणप्रसङ्गपरमार्थमपि भवतः। मिथ्याभिमानिन्
आः पौलस्त्य किमेवमुत्पुलकितःस्वस्मै मुहुः श्लाघसे
यत्तोषं गमितः स्वमौलिकमलैर्बालेन्दु्र्मौलिर्मया ।
प्राचीनं हि विरञ्चिपञ्चमशिरश्छेदापवादं स्मर
न्देवोऽदत्त वरं तवापि कृपया कायव्रतं कुर्वतः॥४१॥
श्रुणु रे दशवदन, वदनविवरविनिर्गतवाग्विभीषिकिया न विभीमो वयम्। (इत्यभिधाय निष्क्रान्तोऽद्ङ्गदः।)
(नेपथ्ये।)
त्वयि त्रिभुवनाधीशे हन्ति वानरवाहिनी।
सज्जो भव महावीर वीरत्वं क्व गतं तव॥४२॥
** रावणः—** (सौत्सुक्यम् )) अये, अस्मदनुजीविनो वध्यमाना भृशं बुम्बायन्ते।
(ततः प्रविशन्ति विक्षताङ्गा निशाचरभटाः॥)
** निशाचराः—**
वानरैर्यदि वध्याः स्मस्त्वयि नाथेऽप्यसांप्रतम्।
त्वमपि प्राणिते बुद्धिं शाश्वतीं मा कृथा वृथा॥४३॥
रावणः— (सकोपं प्रहस्त त्वरितमाहू।)
संनह्यतां सपदि राक्षसवीरसेना
के नाम रामहतकस्य वनौकसोऽभी।
जागर्ति यन्मम भुजे ननु चन्द्रहासः
श्यामीकृतामरवधूमुखचन्द्रहासः॥४४॥
(पुनर्विकट परिक्रमन्।) अरावणमरामं वा जगदद्य भविष्यति। (इति वदनिष्क्रान्तः।)
(ततः प्रविशतो हेमाङ्गदचित्राङ्गदौ गगनवीथीसंचारिणौ गन्धर्वौ।)
** हेमाङ्गदः—**सखे चित्राङ्गद,
दिव्या स्त्रैभूर्मृवःस्वस्त्रितयडमरकोड्डामरैर्योधयित्वायोधयित्वा
लूनोक्षिप्तैः शिरोभिर्दशभिरधिनमो दर्शितैकादशार्कः।
काकुत्स्थेनावकीर्णोनिखविखशिखायोगपीठोपहूतो
ब्रह्मास्रेणाधिशेते रजनिचरपतेर्विरशय्यां कबन्धः॥४५॥ `
** चित्राङ्गदः—**सखे, अनया गगनवीथ्या वहींः कालात्संचरावहे निर्भयमेवम्।
(नेपथ्ये कलकलः।)
यद्वक्त्राणां दशानामिव दश ककुभः शासितं सृष्टिरासी-
द्विंशत्यायश्च दोर्भिर्देशगुणितमिव प्राप्तवान्वीर्यवर्ष्म।
लङ्केन्द्रः संजितेन्द्रः समरभुवि जवाज्जानकीवल्लभेन
ज्योतिर्दीप्रैः क्षुरप्रैःस खलु विरचितो निर्विवन्धः कबन्धः॥४ ६॥
** चारणः—**श्रृणु हेमाङ्गद, चित्राङ्गद, चित्रमिवावलोक्य।
हेलाखण्डितचण्डहेमहरिणैर्वाणैः कुलं रक्षसां
शेषीभूतपिभीषणं गुणनिधौ कृत्वापि रामे स्थिते।
प्रत्युज्जीवितशङ्कया यमजितो लड्कापतेः कातरै-
र्नो मुक्ताः कुसुमस्रजो न च सुरैरास्फालितो दुन्दुभिः॥४७॥
** चित्राङ्गदः—**(सचमत्कार हेमाङ्गदं प्रति।) सखे हेमाङ्गद, ईदृगेवाद्भुतरसैकभाजनं भवानीपतिभक्तिभासुरः प्रबलप्रतापभरप्रणमितसकलसुरासुरो वीरवीरोत्तंसःखल्वयं नक्तंचरचक्रवर्ती । यः किल पुरा पुरारिपरिचर्यावसरे
विभ्राणं दशवक्त्रतां क्रममिलत्पञ्चाननीपूजया
यः सर्वे खमिव खमीश्वरमिति ज्ञात्वा मुखेः पञ्चभिः।
शंभोरेव शिरःसु तं निजकरं व्यापारयन्वारितः
पार्वत्याः कथमप्यहो न स दशग्रीवो गिरां गोचरः॥४८॥
(कर्मप्राबल्यमीक्षमाणः। सखेदम्।) सखे हेमाङ्गद ‚पश्य पश्य।
इह खलु विषमः पुरातनानां भवति हि जन्तुषु कर्मणां विपाकः।
हरशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादैः॥४९॥
** हेमाङ्गदः—**सखे, नातिचित्रमेतत्। ‘यतो धर्मस्ततो जयः इययं सत्य एव शास्त्रप्रवादः। अतोऽस्मिन्नर्थे शरीरादिभिः पुण्यापुण्यकारिणामायतिर्दर्शिता। अत्र रावण एवोदाहरणमापद्यते। तथाहि ।
वपुर्मुख्यं वित्तं व्ययितमिह धर्माथमवनौ
खलु स्फारीभूतं वलति विपरीतं नहि पुनः।
वलि कुर्वञ्शंभोः पलभुजपतिः सत्रिभुवनां
निरःश्रेणी लेभे ननु विगमयन्नुत्पलकृते॥९०॥
(नेपथ्ये।)
बाणैर्लाञ्छितकेतुयष्टिशिखरो मूर्छान्मत्सारथि-
र्मासास्वादनलुव्धगृधविहगश्रेणीमिरासेवितः।
रक्षोनाथकबन्धगाढपतनक्षण्णाक्षदण्डो हयै-
र्हेषित्वा स्मृतमन्दुरास्थितिहृतैर्लङ्क रथो नीयते॥५१॥
(पुनर्नेपथ्ये ।)
सर्वा गीवोणवध्वो व्रजत निजगृहान्बद्धमाधोरण द्रा-
क्स्वर्गेमस्तम्भमलनय सुरकरिणं यामिका यात देवाः।
भूयो दिव्यद्रुमाणां मवतु ननु वने नन्दने संनिवेशो
द्वारि क्षिप्तं यदैन्द्रे दशवदनशिरः किंकरैरङ्कितस्य॥५२॥
अपि च।
रणरसिकसुरस्त्रीमुक्तमन्दारदामा
स्वयमयमवतीर्णो रक्ष्मणन्यस्त हस्तः।
विरचितजयशब्दो बन्दिमिः स्यन्दनाङ्क
द्दिनकरकुललक्ष्मीवल्लभो रामभद्रः॥९॥
** रामः—**(पुष्पकाधिरूढोऽयोग्यामागच्छन्सीता प्रति लड्गारणभूमि दशेयन्।)
अत्रासीत्फणिपाशवन्धनविधिः शक्त्या भवद्देवरे
गाढं वक्षसि ताडिते हनुमता द्रोणाद्विरत्राइतः।
दिव्येरिन्द्रजिदत् लक्ष्मणश्रेलोकान्तरं लम्मितः
केनाप्यत्र मृगाक्षि राक्षसपते कत्ता च कण्ठाब्वी॥५॥
इति नवरसगीर्भिर्जानकीं प्रीणयन्वः
पुलकितर्छरुताङ्गः पैतृकं प्राप्य धाम ।
सुखयतु कुलराज्यं पाल्यन्त्कपोरः
प्रकटितवहुभद्रः सर्वदा राममद्रः॥९९॥
स्वनिर्मितं किचन गद्यपद्यवन्धं कियत्पाक्तनमक्तवीन्द्रैः।
प्रोक्तं ग्रहीत्वा प्रविरच्यते स्म रसाट्यमेतत्सुभटेन नाट्यम् ॥५६॥
इति सुमठकविप्रणीत दूतङ्गद नाम च्छायानाटकं समाप्तम्।
समाप्तोऽयं ग्रन्थः।
<MISSING_FIG href="../books_images/U-IMG-1722786911kictrcvyujggtfvhynu.png"/>
दूताङ्गदस्थश्लोकानां सूची।
| अङ्के कृत्वोत्तमाङ्गं प्लवगवलय | बाणैर्लाञ्छितकेतुयष्टिशिखरो |
| अज्ज वि ण कोवि दोसो | बिभ्राण द्शवक्रता क्रममिल. |
| अज्ञानादथवाधिपत्यरभसाद | मनुष्यौ न मनुष्यौ तौ |
| अत्रासीत्फणिपाशर्वन्धतविधि | मयि रावणङ्कपङ्कजवलासह |
| अश्रुतपूर्वाविनय पर्याप्ताल | यदाखण्डलदर्पेन्दुराराहवो |
| आः पौलस्य किमेवमुत्पुलकि | यद्वक्त्राणां दशानामिव दश |
| आदौ येन सुबाहुमुख्यपिशि. | यावल्लाटशिखरं भ्रुकुटि |
| आस्कन्धावधि कण्ठपीठविपिने | रक्षोदुर्भिक्षमाधातुमवतीर्णो |
| इति नवरसगीर्भीर्जानकीं प्री | रणरसिकसुरघ्रीमुक्तमन्दार |
| इम्मवर किस खिज्जसिराह | राम |
| इह खलु विषमः पुरातनानां भव | रे नक्तचरराज मुञ्च सहसा |
| उद्योगिनं परुषसिंहमुपैति | रे राक्षसाःकथयत क्व स |
| एक तावदकृत्यमेतदतुल | रे रे राक्षस मा स्म शकरवर |
| एते ते मम बाहव सुरपते | रे रे रावण रावणा |
| किं राघवस्य दशकवरचन्द्र | वपुर्मुख्य वित्तं व्ययितमिह |
| किं प्राकारविहारतोरणवर्ती | वानरैर्यदि वध्याःस्मस्त्वयि |
| जम्भारातीभकुम्भस्थलदलन | विलसिदसरोसवानरवरूहिणी |
| तं जेब्ब अज्ज वि गले गरल | शम्भो कोदण्डभङ्गादवि |
| तस्य रामस्य दूतोऽहं येन | शिरोभिर्मा देवी |
| तारापतौ वानरराजलक्ष्मी | श्रुत्वा रघुपतेः किञ्चिदनिष्टं |
| तीर्णोऽर्णवः कवलितेव | स एष जगदास्कन्दकौतुकी |
| त्वयि प्रिभुवनाधीशे हन्ति | संधो वा विग्रहे वापि मयि |
| स्वस्त्रितयडमर | संनह्यतां सपदि रक्षसवीर |
| न दोषः स्वल्पोऽपि प्रभवति | समं प्रतिज्ञया येन तीर्त्वा |
| पायात्स वः कुमुदकुन्द, | सर्वा गीर्वाणवध्वो व्रजत निजगृ |
| पारावतैः किमयमम्बु | सावज्ञमिव संपश्यन्कपिवीर |
| पितर्युपरते यस्तु नोद्वहे | स्वनिर्मित किंचन गद्यपद्यदबन्धं |
| पिता ते यद्वाली वलनि | हेलाखण्डितचण्डहेमहरिणैर्बा |
]
-
“वालिनः” ↩︎
-
“कैकसीरावणादीनां माता, ‘नैकषी’ इति पुस्तकान्तपाठः.” ↩︎
-
“आर्यपुृत्र, इयमस्मि। आज्ञापयत्वार्यो यत्करणीयम्।” ↩︎
-
“‘युगलार्गलाविदलित’ इति पाठः’” ↩︎
-
" ‘देव’ इति पद पुस्तकान्तरे नास्ति।" ↩︎
-
" पदवाक्यपारंगमेन’ इति पाठः" ↩︎
-
“आर्यपुत्र, युक्तं व्यवसितम्।” ↩︎
-
“सुग्रीवे” ↩︎
-
“‘खेलेत्’ इति पाठः।” ↩︎
-
““नर्तकै”। इति पाठः।” ↩︎
-
" ‘इहैव रामानुचराणां परस्परालापा।” इति पाठः।" ↩︎
-
“सुग्रीवादिपरिवारश्च इति पाठः।” ↩︎
-
“रामः—(लक्ष्मणमवलोक्य । ↩︎
-
“सुग्रीवस्येत्यर्थः” ↩︎
-
“‘इहाङ्कुरित मयाद्य’ इति पाठः।” ↩︎
-
“अयं श्लोकः पुस्तकान्तरे नास्ति। प्रसिद्धश्च हितोपदेशादिषु।” ↩︎
-
" ‘आलोक्य समादिशति। महावीर अङ्गद’ इति पाठः” ↩︎
-
“‘न शक्तास्तद्वक्तुम्’इति पाठः।” ↩︎
-
“‘एष’ इति पाठः” ↩︎
-
" निसृष्टार्थो दूतविशेष इत्यर्थः।" ↩︎
-
" अस्माच्छ्लोकादारभ्याग्रिमाङ्गदोक्तिपर्यन्तं पुस्तकान्तरे नास्ति।" ↩︎
-
" अयं श्लोकःक्षेमेन्द्रेण सुवृत्ततिल्के भवभूतिनाम्नोदाहृतः। तत्र च द्वितीयचरणे ‘सीतेय प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना’ इति पाठोऽस्ति।" ↩︎
-
“‘साधु अङ्गद, साधु वालिनन्दन’ इति पाठः” ↩︎
-
“‘विसर्जयति’ इति पाठः” ↩︎
-
“‘एते ते’ इद्यादि श्लोकद्वयं पुस्ताकान्तरे नास्ति।” ↩︎
-
" ‘प्रकृति’ इति पुस्तकान्तरे नास्ति। " ↩︎
-
“‘कटककोलाहलबिभीषया’ इति पाठः।” ↩︎
-
“वान्ध्रवाभास” इति पाठः।” ↩︎
-
“‘सदने’ इति पाठः।” ↩︎
-
“‘रामः कि कुरुते’ इद्यादिरङ्गदरावणयोरुक्तिग्रयुक्तिरूपः श्लोकः।” ↩︎
-
" ‘रामः कि कुरुते’ इद्यादिरङ्गदरावणयोरुक्तिग्रयुक्ति रूपः शेकः।" ↩︎
-
" सुग्रीवस्य।" ↩︎
-
.%20हनूमतः। ↩︎
-
“जयतु जयत्वार्यपुत्रः” ↩︎
-
“‘मैथिली स्वयम्’ इति पाठः।” ↩︎
-
“‘तव किम्’ इति पाठः।” ↩︎