[[श्रावणम् Source: EB]]
[
॥ श्रावणम् ॥
घनाऽकृति घटाऽश्लिष्टः । तप्तानां वारिदायकः ।
सर्वंलोक समाराध्यः । श्रावणोऽयं विराजताम् ॥
(नान्द्यन्ते)
सूत्रधारः – अयिकुटुम्बिनि, इतः आगच्छ ।
नटी – (ससम्भ्रमं प्रविश्य) एषास्मिस्वामिन् ।
सूत्रधारः – अयं ग्रीष्मः चण्डरविप्रतप्तः, प्राणिनां तृष्णां प्रजनयति ।
नटी – (विहस्य) किं भवान् तृषितः ?
सूत्रधारः – हञ्जे ! हृदयगतां भावनां जानासि त्वम् । एतादृश भावगर्भितं वचः आधुनिकाः न जानन्ति ।
नटी – किं पानीयं दद्याम् ?
सूत्रधारः – पानीयं मास्तु ।
नटी – तर्हि किं दद्याम् ?
सूत्रधारः – लवण- मिश्रिततक्रं पायय ।
नटी – अहो तृषितानां शीतल पानीयं योग्यं भवति, नतु तक्रम् ।
सूत्रधारः – हञ्जे त्वं न जानासि, तक्रस्य भैषजगुणम् । तक्रं शक्रस्य दुर्लभम् ।
नटी – (हसित्वा) हां तक्रमेव पाययेम् । अधुना किमर्थं, आहूताऽस्मि, निवेदयन्तु भवन्तः ।
सूत्रधारः – श्रुणु, श्रावणं नाम नाटकं प्रदर्शयितुं समुत्सुकोऽस्मि । तस्मिन् नाटके त्वया गातव्यम् ।
नटी – किं श्रावणं नाम नाटकम् ? केन कविना विलिखितमिदम् ।
सूत्रधारः – इदं तु गीर्वाणान्ध्रभाषाप्रवीणेन, कुशलेन परीक्षित् शर्मणा विरचितम् ।
नटी – आम् विदितम् । अनेन कविना यशोधरा महाकाव्यम्, अपिच अक्षय गीत रामायणं इत्यादि काव्यनिचयं विलिखितम् । अयं गीर्वाणान्ध्र प्रपञ्चे । सुप्रसिद्ध कविः । अहं अधुना अतीव प्रमुदिताऽस्मि ।
सूत्रधारः – भवती प्रमुदिताऽसि । गायस्व ।
नटी – कं विषयमुद्दिश्य ।
सूत्रधारः – श्रावणमुद्दिश्य ।
नटी – केन रागेण गातव्यम् ।
सूत्रधारः – हाँ, मेघमल्हार रागेण गातव्यम् ।
नटी – श्रुणुत मेघमल्हार रागम् ।
श्रावणस्तापहारी यः । काव्यरूप विभासकः ।
कृष्णमेघालि सम्भूतः । कुरुते लोक मङ्गलम् ॥
सूत्राधारः – अहो ! साधुगीतं भवत्या ।
(नेपथ्ये)
पूर्वजन्म कृतं पापम् । जन्मन्यस्मिन् समागतम् ।
अवश्यमनुभोक्तव्यम् । नहिलेशोऽपि संशयः ॥
नटी – (कर्णंदत्वा) आर्य ! कोऽयम् ? स्व दौर्भाग्यं विनिन्दयन् इतः प्रविशति ।
मूत्रधारः – हञ्जे ! पुत्रहीनं स्वात्मानं विनिन्दयन्, सुमन्त्रेणसार्थं, राजा दशरथः प्रविशति ।
नटी – राजा दशरथः सुमन्त्रेण सार्थम् ?
सूत्रधारः – ओम् ! मन्त्रिणा सुमत्रेण सार्थं इतः एव आगच्छति ।
नटीः – आर्य ! आवाभ्यां न स्थातव्यमत्र । एहि गच्छावः ।
(इति निष्क्रान्तौ)
(ततः प्रविशति दशरथः सुमन्त्रेण सार्थं विचिन्तयन्)
दशरथः – सुमन्त्र, अहो मे दौर्भाग्यं पृथ्वीपतिषु । अहं धराधिपोऽपि सकल सुख समाविष्टितोऽपि, मानसिकानन्दं नह्यनुभवामि । एतत् सत्यमेव मे दौर्भांग्यम् । यतः ।
पूर्वजन्म कृतं पापम् । जन्मन्यस्मिन् समागतम् ।
अवश्यमनुभोक्तव्यम् । नहि लेशोऽपि संशयः ॥
(दशरथः सिंहासने उपविशति, सुमन्त्रः पार्श्वस्थित पीठे उपविशति)
दशरथः – अयि सुमन्त्र, मम पूर्वजाः सन्तानार्थं तापं तापं, यज्ञ याग तपः पूजादिकं विरच्य, वंशोन्नतिकारकं सन्तानं प्राप्नुवन्तः आसन् ।
वैवस्वतमनोः पुत्रः, मे प्रपितामहः राजा दिलीपः, दिलीपस्य पुत्रः, मम पितामहः रघुः, रघोः पुत्रः, मे पिता अजः, यथाक्रमं, परम्पराऽगतं राज्यधुरं ऊढवा प्रजालिं धर्म निरताः प्रशासयामासुः । अहं अजस्य सुत दशरथः । मम एतावत्पर्यन्तं वंशाङ्कुरोऽपि न जातः । अहं कति वर्षाणि जीवेयं न जाने । मदनन्तरं कोऽयं कर्ता अस्य राज्यस्य भविष्यति । मम मरणानन्तरं तर्पणादिकं कः दास्यति । मे पूर्वजाः कथं तृप्ताः भविष्यन्ति । एवं विचार्यमाणे सर्वं भविष्यत् तमसा परीवृतमिव विभाति ।
कदा वंशे दीपाङ्कुरः भविष्यति । कदा सकलाः दिशः समुज्वलाः भविष्यन्ति । कदा प्रजाः सन्तुष्टान्तरङ्गाः भवेयुः । कदा सुताननं द्रक्ष्येयम् । कदा तं बालकं उत्सङ्गे विनिवेश्य, सकौतुकं तृप्तः चुम्बनमाचरेयम् । कदा दरहसन विकसित वदनं पुत्रकस्य पश्येयम् । कदामे वाञ्छा फलिष्यति । बत एवं विचार्यमाणे मे हृदयं चिन्तया जर्जरितं भवति । अनया सर्वदाऽहं अकर्मकः भवामि । विचारेण हृदयं विदलति ।
चिन्ता-ग्रीष्म परं तप्तम् । हृदयन्त्वनिशं भृशम् ।
आनन्द रसहीनत्वात् । दलितं बाधते बत ॥
सुमन्त्रः – राजन् ! ललाट लिखितारेखा परिमार्षुं न शक्यते । वय भोक्तारः । दाता सर्वेश्वरः । यत् भव्यं तत् भवति । वयं सन्तानार्थं यत् कर्तव्यं तत् कुर्मः । सकल धर्म शास्त्रोक्त रीत्या शान्त्यादिकं कारयामः । अवश्यं नातिचिरेण शुभसूचकःदिवसाः भविष्यन्ति । अस्मिन् विषये सन्तापहेतुः नस्यात् । भवता शान्तमनसा भवितव्यम् ।
दशरथः – सुमन्त्र ! भवान् सर्वशास्त्रवेत्ता । त्वं अतीव लौकिकोऽसि । पश्य ।
रजनी चन्द्रहीना च । शिशु हीनं निकेतनम् ।
कासारः पद्महीनश्च । नैवभान्त्येव शोभया ॥
चिन्तया दन्दह्यमानमानसः भवामि । केनोपायेन बाधा उपशामिता भविष्यति ।
सुमन्त्रः – अयि राजन् ! एवं चिन्तिते भवति, शरीरं व्याधिग्रस्तं भविष्यति । तस्मात् भवान् मनोरञ्जनार्थं, यत् किमपि वनं उत नदीतीरं वा गच्छतु, विश्रान्ति सुखं अनुभवतु, इति मदीया विज्ञापना ।
दशरथः – सुमन्त्र !
चिन्तादग्धमनस्कानाम् । शान्तिर्नास्ति महीतले ।
कुत्रापि यास्यमानानाम् । भोक्तव्यो दैवनिर्णयः ॥
सुमन्तः – राजन् तथा मा वदतु । चिन्ताग्रस्ताः सर्वथा प्रकृति दर्शनेन प्रशामित चित्ताः भविष्यन्ति इति आयुर्वेद सिद्धान्तः । तस्मात् भवता तथा अनुष्ठेयं इति ममाऽभिप्रायः ।
दशरथः – सुबुद्धिमतां, सुमन्त्र मन्त्रिवर्याणां, भवन्ति प्रशान्ति वचनाः सत्यं मे पालनीयाः । तस्मात् श्वः प्रभाते तमसा तीरं गन्तुम्, सर्वयत्नाः कुर्वन्तु भवन्तः । लोके किं वदन्ती प्रचलति यत् तमसा दर्शनेन बुद्धिः विकसिता भविष्यति इति । तमसां निहन्तीं तमसां विलोक्य, नूतनोत्तेज विलसित जीवनः भवेयम् ।
सुमन्त्रः – राजन् तथैव सर्व सन्नाहं कुर्याम् । सायंसन्ध्या प्रवर्तते सन्ध्यावन्दनादिकं कर्तुं गन्तव्यम्, उत्तिष्ठतु भवान् ।
दशरथः – सुमन्त्र, दैनन्दिनकार्यं नविस्मर्तव्यम् यतः ।
कर्तव्यं नैव लोकेऽस्मिन् । विस्मर्तव्यं कदापि भोः ।
परलोक भयात् सत्यम् । कर्मणा जायते फलम् ॥
(इति द्वावपि गच्छतः)
(यवनिकापतति)
*******************************************************************
.
द्वितीयं दृश्यम्
(ततः प्रविशति धनुर्धारी दशरथः)
दशरथः – इदं अरण्यं, सर्व जन्तूनां समाकुलं भवति । आकाशं सर्वं, मेघच्छन्नं प्रतिभाति । अयं श्रावणः पिपासार्दितानां, जन्तूनां, जगति, कुम्भाकार-घन-निसृत-ओतप्रोत-मुसल-धारा जलेन, तृप्तिं प्रयच्छति, अपिच धरणी मातरं तृप्तां करोति । अयं कालः ग्रीष्मवर्षागमयोः सन्धिः। अद्य एकोऽपि मृगः न सन्दृश्यते, किन्तु, काननं सर्वं निष्कम्प वृक्षं, शान्त मृगप्रचारं भवति । (इति कतिचित् पदानि गत्वा) अहो किमेतत् रामणीयकं तमसा नद्याः ।
इयं जलौघा बहु वृक्ष-शोभिनी । सदागति-प्रोद्धित-वीचिकालिभिः ।
चराऽचराऽदत्त नितान्त जीवना । विभाति मातेव पयस्विनी प्रिया ॥
इयं तमसा केवलं शीकराञ्चित शीतवातस्पर्शया मे परमानन्दं ददाति किमुत मज्जनेन । यद्येषा अपुत्रकस्य, चिन्तादग्धस्य जन्तोः उत्तममार्ग प्रदर्शिनी भवेत्, तर्हि धन्योऽहं मन्ये । अत्रोपविश्य किञ्चित् व्यपगतश्रमोभूत्वा पश्चात् मृगयां करिष्ये । अधुना अत्र काननं सर्वं सङ्गीतमयं प्रतिभाति मे । यतः -
सुवाहिनी-रम्य-तरङ्ग-निस्वनैः । पतत्रि-वर्गस्य मनोज्ञ सुस्वरैः ।
मधुव्रतानां मधुराति-गुञ्जनैः । चकास्ति सङ्गीत-सभेव वर्तनैः ॥
(इति उपविश्य चिन्तयन् आस्ते)
(यवनिका पतति)
******************************************************************
.
तृतीयं दृश्यम्
(ततः प्रविशति सन्तुलितान्तुलां वहन् श्रवण कुमारः)
श्रवणः – (स्वगतम्) आप्रातः ग्रीष्मावसाने, तपनद्युतौ बम्भ्रम्यमानः, पित्रोः धुरं वहन् अधुना तमसातीरं समागतोऽस्मि । किञ्चित्कालं अत्रैव विश्रान्ति सुखमनुभविष्ये । (इति तुलां विन्यस्य भूमौ, फाल भागात् घर्मजलं तर्जन्या विनीय श्रमापनोदन शब्दं करोति)
पिता – अयि बाल, त्वं अतीव परिश्रान्तः असि । किञ्चित्कालं विश्रमस्व । आवयोः कृते त्वं अतीव कष्टी भवसि । तत् आस्माकं असह्य वेदनं भवति ।
श्रवणः – पितः, तथा न वक्तव्यम् । एतत् सर्वं मम कर्तव्यं खलु । भवतोः सेवया अहं बहु प्रमुदितोस्मि ।
माता – अरे चिरञ्जीव, एहि मत्सकाशं (श्रवणः विसर्पति तस्याः सकाशम्)
श्रवणः – मातः, आगतोऽस्मि । (इति समीपे उपविशति)
माता – अयि तनय, ते शरीरं घर्मजल सिक्तं अस्ति । (इति स्वीय चोराञ्चलेन तस्य शरीरं परिमार्जयति)
श्रवणः – जननि, तथा करणं न मे रोचते । अहंतु युवयोः सेवा परायणः । युवां मया सेवितव्यौ । (इति तस्याः पादौ मृदुतरं स्पृशति)
माता – अरे बाल, किं ते कष्टमापतितन् । भुजस्कन्धे तुलायां आवां संवहन् अतिक्लेशं भजसे । आवयोः जीवनं सुखतमं करोषि, ते जीवन सुखं विहाय ।
श्रवणः – मातः, किं वदसि भवती । भवत्या ममपोषणे कियत् कष्टं अनुभूतम् । भवत्याः क्लेशात् मम क्लेशः गुरुतरो न भवति । अपिच श्रुणु ।
संवाह्य मातस्तव रत्नगर्भे । सुखेन मां त्वं नवमासकालम् ।
प्रसूय दत्वा स्तनमप्रमेयम् । इयन्तरूपं बहुधा कृतासि ॥
अम्बे ! न मातुः परं दैवतम् । मातृ पूजने सर्वाः देवताः पूज्याः भवन्ति । पितृ पूजने सर्वाः लोकाः पूज्याः भवन्ति । अहं युवयोः सेवाया सकल ब्रह्माण्ड मण्डलं पूजयामि । धन्योऽस्म्यहं पितरौ ।
पिता – अरे डिम्भक, श्रवण, शीतल समीरः प्रवहति । अत्र कुत्रापि समीपे नद्या भवितव्यम् इति मे मनीषा ।
श्रवणः – पितः, अयं तमसा नद्याः परिसरः ।
पिता – बाल, तमसाजलं पापहरं इति लोकश्रुतिः । पिपासा मां बाधते । किञ्चिज्जलमानीय पायय बाल ।
श्रवणः – किञ्चिज्जलं किं, ममसमीपे विद्यमान घटपूर्ण तमसा-जलं आनयिष्यामि पितः ।
माता – तनय, सावधानतया गन्तव्यम् । तमसातीरः गजसिंह व्याघ्रादिभिः समावृतः इतिश्रुतम् । क्षिप्रङ्गत्वा अप्रमत्ततया जलमानय । अहमपि बहु पिपासार्दिता ।
श्रवणः – पितरौ गत्वाहं क्षिप्रं पानीयमानयेयम् । अत्रैवोपविशताम् । (इति गच्छति)
(यवनिका पतति)
*************************************************************************
.
चतुर्थं दृश्यम्
(तमसानदीतीरं घनकाननावृतम्भाति ततः प्रविशति घटहस्तः श्रवणकुमारः)
श्रवणः – अहो ! कियत् सुन्दरमेतत् दृश्यम् । वधात्रा एकत्र सौन्दर्य दिदृक्षयेव तीरमिमं ससृजे इति मन्येऽहम् आहो !
विविध परिमलात्तैः पुष्पितैर्वृक्षषण्डैः ।
बहुल पतगवर्गैः कूजितैश्शब्दरम्यैः ।
प्रथयति गुणरूपे तीरदेशोऽत्रचित्रैः ।
विमल-सलिलवाहैः पावनैः शैत्यवातैः ॥
(इतः स्ततः विलोकयन्) इतः कारण्डव चक्रवाकानां कलकलध्वनिः । इतः मयूराणां केकाः । इतः मेघगर्जन-निर्गत, निस्वन स्वनाः, कर्णपेयं भवन्ति । सर्वमेतत् श्रावणानन्दस्थानं, श्रवणानन्द दर्शनयोग्यञ्च भवति । इतोऽयाताः शीत-वात-पोतकाः चाञ्चल्येन मे तनुः परिस्पृशन्ति ।
इतः प्रमत्ताः प्रचुरं मयूराः । विचित्रपिच्छैरभिभूषिताङ्गाः ।
केकाभिरस्मिन् विपिने प्रमोदे । नृत्यन्ति लीलं तमसा समीपे ॥
अत्र लोकत्रय सौन्दर्यं पश्यामीवाहं भावयामि । सर्वविहङ्गमाः पशवश्च अत्रैव निवसन्ति, यतः स्थानमेतत् सर्वसौख्यानां निलयमिति । मे चेतः तमसानदीपरिसरदर्शनेन अमन्दानन्दमनुभवति । अत्र इयं दिशा दर्शनयोग्या भवति ।
महोन्नतास्ते नगराजयश्च । शकुन्तवर्गावृत मस्तकाग्राः ॥
मातङ्ग यूथाञ्चित सम्यरूपाः । तन्वन्ति नेत्रोत्सवमागतानाम् ॥
(किञ्चित् अग्रेगत्वा) अयं श्रावणः कमपि भावं सन्दर्शयन् न सन्दिशतीव न सन्दर्शयतीव प्रतिभाति । अयं ध्यनिप्रथान काव्यप्रपञ्चावतारः । नाहं किमपि वक्तुं शक्नोमि ।
मनोमयूरः प्रचुरं प्रमत्तः । प्रवृत्त लास्याति विलासरूपः ।
वर्षागमे श्रावण वीक्षणेन । करोति नाट्यं बहु शिक्षितः किम् ॥
अत्र सर्वमपि रसप्रपूर्णं विभाति
गीतम् (मेघरागे)
1 अम्बराङ्गणे चलन्ति नील-वारिदाः ।
भानु-किरण-तण्यामान-प्राणि-शान्तिदाः ॥ धृ ॥
2 अन्धकार-बन्धुरास्ते बलाहकाः । मातृ-भूमि-फाल-भाग-वक्रितालकाः ।
शत्रु-शस्त्र-दाहनेन धूम-मालिकाः । प्रकृति-पठन-वरुणदेव-वर्ण-मालिकाः ॥
3 नीरदाप-पातनेन-भूतलं मुदा । दिव्यवारि-वाहनेन वत्सलं सदा ।
पल्वलेषु-रटयमान-दर्दुरार्भकाः । वर्षदेव-स्तोत्रमान-मन्त्र-पाठकाः ॥
4 पर्वताग्र-प्रथम-वारि-पातने प्रवाहकाः । वर्षभीति-धावमान-नागबालिकाः ।
बिन्दु-पात-ध्वन्यमान-वारि-जालकम् । अम्बुपान-मेदिनी-विलास-जालकम् ॥
(किञ्चित् विमृश्य) अहो किमर्थमेवं, अहं, पितरौ विस्मृत्य प्रकृति सौन्दर्य दर्शन लालसः अवभवम् । न कदाण्येवं पितरौ विस्मृतो मया आस्ताम । मया कर्तव्यं अनुष्ठेयं भवति । (इति वेगं तमसानदीं गच्छति, जलन्दृष्ट्वा) आः किमेतत् जलं ? नहि अमृतमेतत् । एषा नदी अतीव ओघवती भाति । (इति नद्यां अवतरति, जलेन हस्तपादं प्रक्षालयति, अञ्जलिना जलं त्रिवारं पीत्वा) अहो केवलमिदं जलं पीयूषमेव (इति उद्गारं करोति) अहं अतीव तृप्तोऽस्मि । यतः ।
जलमस्याः परं स्वच्छम् । पापघ्नं भाति सर्वदा ।
मृतश्चाप्यमृताभान्ति । स्नानपानेन निश्चयम् ॥
(इति नम्रगात्रः कुम्भङ्क्षालयति, कुम्भेन जलं तरङ्गी करोति, कुम्भजले निमज्जयति, तदा बुड बुड बुड शब्दः भवति ।)
(यवनिका पतति)
*************************************************
पञ्चमं दृश्यम्
(तमसानद्याः तीरे दशरथः चिन्तयन् अस्ति बुड बुड बुड शब्दः भवति)
दशरथः – (बुडबुड शब्दमाकर्णयन्) अहो आप्रातः एकोऽपि जन्तुः अरण्ये नावलोकितः । किन्तु जलपान शब्दस्तु श्रूयते । भवतु किञ्चित् कालं श्रुत्वा सब्द भेदिनं विस्जेयम् (इति उत्तिष्ठति) यदि विलम्ब्यते एषः पलायितः भवेत् । अधुना सहसा शब्दभेदिं विसृजेयम् । (इति आकर्णान्तं मौर्वीं आकृष्य शब्दभेदिनं विसृजति)
श्रवणः – (नेपथ्ये) हा हतोऽस्मि । हा तात । हे अम्बे मृतोऽस्मि (इत्युच्छैः आक्रोशति)
दशरथः – (कर्णन्दत्वा, किमेतदापतितं ? कम्पयन्) बालकस्याक्रन्दनमिवाऽयाति । अहं तदाक्रन्दनस्थानं गच्छेयम् । (इति गच्छति)
(यवनिका पतति)
********************************************************
.
षष्ठं दृश्यम्
(शल्यप्रोतः रुधिरासिक्ताङ्गः कुमारः विचेष्टमानः अस्ति । ततः प्रविशति दशरथः)
दशरथः – (विचेष्टामानं बालं दृष्ट्वा) एषः कुमारः । किं दारुणमध्यवसितं मया । अहोबत किं मे अपराद्धं अनेन कुमारेण । (इति सानुक्रोशं तं पश्यति)
श्रवणः – (दशरथं दृष्ट्वा) भोः ! अहं श्रवणकुमारः । ब्राह्मण पुत्रोऽहम् । अत्रैव दक्षिणतः मे पितारावास्ताम् । तौ पिपासार्दितौ । ताभ्यां कृते जलमानेतुं समागतोऽस्मि । तौ जनुषान्धौ । जलकुम्भमिदं ताभ्यां भवान् प्रयच्छतु । (इति मृतः)
दशरथः – (विषण्णः) अयं ब्राह्मणकुमारः । बहु पापः कृतः मया । ब्राह्मणो नहन्तव्यः । किन्तु अज्ञानतया मया ब्रह्महत्या कृतः । बत मे जीवने सर्वाणि अनिमित्तानि मां अनुधावन्ति । (इति सन्तप्तचित्तः, दुःखातिभरेण घटमुन्नमय्य गच्छन्)
अहो मे जीवनं सर्वम् । तथा पापाविलं भृशम् ।
श्रावणे वाहिनीवात्र पङ्किलैर्बृन्द्बुदैर्यथा ॥
(इति निष्क्रान्तः)
(यवनिकापतति)
***************************************************************************
.
सप्तमं दृश्यम्
(हञ्जे तनयः एतावत्पर्यन्तं नह्यागतः, इति श्रवणकुमार पितरौ परस्परं भाषयन्तौ स्तः)
पिता – हञ्जे, तनयः अद्य चिरयति कुतः ।
माता – अयं सर्वदा उद्यमशीलः । क्षिप्र कार्यकारी । कदापि विलम्बनं न करोति ।
पिता – हञ्जे, मे हृदयं कुशङ्कया दोलायितं भवति ।
माता – आर्य, डिम्भकस्य वन्यमृगात् त्रासो मा भूयात् ।
पिता – अस्मात् प्रदेशात् तमसा नदी कियत् दूरं विद्यतेत्यनभिज्ञौ आस्ताम् ।
माता – आर्य, मे हृदयं अत्यन्तं स्पन्दते । यत् किमपि सञ्जातं स्यात् तनयस्येति मे स्फुरति ।
पिता – हञ्जे ! तथामावद । शान्तं पापं शान्तं पापम् । तथा मा भूयात् । भगवन् । (इति हस्तौ उन्नमण्य नमस्करोति)
(पादतलस्पर्शया जनित गमन शब्दं श्रुत्वा)
माता – भोः श्रुणु गति शब्दः श्रूयते ।
पिता – (आकर्ण्य) हां गति शब्दः समायाति ।
माता – आर्य अयं तनयः समागच्छति ।
पिता – अरे तनय, किमर्थमेवं चिरयसि ।
माता – एहि तनय !आवां पुनरुज्जीवितौ तवागमनेन ।
(दशरथः प्रविश्य मौनेन तिष्ठति)
माता – अरे कुमारक ! किं कारणं, त्वं प्रत्युत्तरं न ददासि । कृत्थोऽसि किं आवयोः सेवया परिश्रान्तोऽसि ?
पिता – अरे तनय ! अनन्तरं त्वं रुष्टो भव । प्रथमतः पानीयं देहि ।
माता – तनय, त्वमेव आवयोः रक्षकोऽसि ।
पिता – अरे त्वमेव आवयोः दृष्टिः यष्टिश्च ।
माता – तनय, श्रवण, जलकुम्भं मे प्रयच्छ । अहं पिपासोपशमनं करिष्ये । अरे मे जिह्वा शुष्काभूतारे । (इति हस्तौ प्रसारयति)
(दशरथः शनैः शनैः तयोः पुरतः आहत्य कुम्भं प्रयच्छति)
माता – तस्य हस्ताभ्यां पात्रं नयति, तस्य हस्तस्पर्श सञ्जनित सुखमनुभूय, मनसि) अयं स्पर्शः तनयस्य नहि । अयं कोवा अन्य पुरुषः ।
पिता – अयि भोः कस्त्वम् ।
माता – किं भोः मौनमवलम्बसे । प्रत्युत्तरं देहि ।
दशरथः – पितरौ । (अर्थोक्त्या विरम्य)
माता – किं भोः वद सम्पूर्णम् । कोऽसि ?
दशरथः – पितरौ ! अहं अयोध्यापतिः दशरथः ।
माता – राजन् दशरथ ! भवान् किमर्थम् आगतवान् असि ।
पिता – क्वास्ति अस्मत् तनयः ।
दशरथः – पितरौ ! तमसानद्यां जनित बुडबुड शब्दं श्रुत्वा गजशङ्कया शब्द भेदिनमिषम् अज्ञानतया व्यसर्जयम् । तेन शरपातेन श्रवणकुमारः मृतः । तस्य कथनानुसारं जलकुम्भमहं आनीतोऽस्मि । (इति सगद्गदं कथयति)
पितरौ – हातनय श्रवण (इति सोरस्ताडं रुदन्तः)
पिता – राजन् ! तेन किं ते अपराद्धस् । हे अयोध्यापते । भवान् प्रमत्तः अस्ति । आवां अक्ष्णाभ्यां काणौ नहि बभूवतुः । भ अक्ष्णाकाणः । श्रवणाभ्यां बधिरः । राजानः स्वार्थिनः भवन्ति ।
माता – राजाऽधम ! अयं श्रावणः आवयोः तनयः, जीवनत्राता, प्राणाः । किं त्वं जानासि पुत्रप्रेम । राजन्, भवता अविचार्य कर्म कृतम् । धिगस्तुते ।
पिता – राजन् श्रुणु । त्वं ते कर्मणः फलं इह जन्मन्येव अनुभविष्यसि । त्वमपि पुत्रप्रेम्ना परितप्यमानमानसः, अयि कुमार, हा तनय, अयि मे प्राणाः, इति दन्दह्यमानचित्तः, जल्पन् ऋन्दन्, पञ्चत्वं प्राप्यसि, इति अहं त्वं शापामि । (द्वावपि हा तनय, श्रवण इति पञ्चत्वं प्राप्नुतः)
दशरथः – (चिन्ताक्रान्त मानसः) अहं अज्ञानतया अकृत्यम् अकरवम् । एतत् सर्वं दैवाज्ञया घटितम् । अहं अपुत्रकः “अपुत्रस्य गतिर्नास्ति” इति शास्त्राणि घोषयन्ति । तस्मात् अहं गतिहीनः । अहं भ्रष्टोजातः । “भ्रष्टस्य कावागतिः” ।) इति विचारयन् भूमावुपविशति) (किञ्चित्कालानन्तरं आनन्दम्) अनेन ब्राह्मणेन शप्तोऽहं यत् पुत्रप्रेम्णा पञ्चत्वं प्राप्नुयाम् इति । अहं पुँन्नामनरकात् त्रातः भविष्यामि । अहो कियदानन्दं भवति मे । अधुना मे हृदयं श्रवणकुमार वध जनित शोकेन, अनयोः दम्पत्योः शापेन करुणाद्भुत रसाभ्यां मज्जनोन्मज्जनं कुर्वदस्ति । मे हृदयं करुणाद्भुत रसाभ्यां निर्भरं श्रावणमेघकुम्भवत् परिपूर्णं भासते । मम दुःखादपि आनन्दः भवति । यत् भवति तत् कल्याणार्थं भवति यतः ।
भविष्ययाणं नहि शक्नुवन्ति । ज्ञातुं धरण्यां बहुधाबुधाऽपि ।
शापस्तु जातो मम जीवनेस्मिन् । वरः प्रियं पुत्रक दर्शनोन्मुखः ॥
अहं पुत्रक वदनकमल दर्शनसुखमनुभविष्यामि । सत्यं अयं तमसातीरः कल्याण समुत्पादनहेतुः भवति अधुना मे आनन्दस्य अवधिर्नास्ति । अहं पुँन्नामनरकात् मुक्तः (इति हर्षभरेण हृदयेन प्रयाति)
(यवनिका पतति)
******************************************************
.
]