[[बालरामायणम् Source: EB]]
[
[TABLE]
॥ श्रीः ॥
॥ प्रस्तावना ॥
<MISSING_FIG href="../../../books_images/U-IMG-1691300123emage8.jpg"/>
अथ प्राचीनोत्तमकाव्यसुधास्वादलोलुपानां गुणैकपक्षपातिनां रसिकजनानां प्रीत्यै सकलनाटकावतंसभूतं बालरामायणाख्यं नाटकमिदानीं प्रकाशयितुमिच्छुरादौतावदेतद्रचयितुर्वर्णनं संक्षेपतः कुर्वे । अस्य महानाटकस्य रचयिता सूर्यवंशीययायावरकुलजन्मा सत्यवतीतनूजो रघुकुलचूडामणेर्महेन्द्रपालस्य गुरुः श्रीराजशेखरः कविरस्ति । सोऽयं संस्कृतेऽतिनिष्णातोऽपि सर्वविधप्राकृतभाषार्णवपारदृश्वाकेवलया प्राकृतभाषयैव कर्पूरमञ्जर्याख्यं सट्टकाभिधं नाटकविशेषं प्राकृतबहुलातिप्रौढसंस्कृतभाषया विद्वन्मरोहरां विद्धशालभञ्जिकाख्यां नाटिकां च व्यतनोत् । अयं च कविरतिशूरः सकलशास्त्रार्थतत्त्ववेत्ता केरलक्षितिपतिः श्रीशङ्कराचार्यसमकालिको राजशेखराख्यो राजाऽऽसीत् । अयमतिमानुषचरित्रं श्रीशङ्कराचार्यंदिदृक्षुस्तत्रतदनुमतिं लब्धुकामस्तत्समीपे स्वसचिवं प्रेष्य तद्वारा कृताभिर्बहुविधाभिःस्तुतिभिस्तोषितात् श्रीशङ्कराचार्यादासादिततत्समीपगमनानुज्ञस्तत्रगत्वा हाटकायुतसमर्पणपूर्वं स्वप्रणीतमपूर्वं नाटकत्रयमाचक्षते । तन्नाटकत्रयश्रवणेनातिसंतुष्टवतस्तस्मात् भिक्षोर्लब्धस्वाभिमतवरः स्वीयां पुरीमाजगामेति शङ्करविजयीयपञ्चमंसर्गस्यैवमेनमतिमर्त्यचरित्रमिति दशमश्लोकमारभ्यागमत् कृतकृत्यधीर्निजांनगरीं तस्य गुणानुदीरयन्नित्यन्तैरेकविंशत्या श्लोकैरिमां कथां तद्ग्रन्थकारः श्रीमाधवाचार्यो व्यलिखत् ।उपलभ्यते चैषु दिवसेषु बालरामायणं कर्पूरमञ्जरी विद्धशालभञ्जिकेति नाटकत्रयमेवैतत्कविप्रणीतम् । एतेनास्य कवेरतिप्राचीनत्वं द्योत्यते । एवमयं राज्ञां कवीनां च शेखरभूतो राजशेखरनामा कविः स्ववंशमौक्तिकमणेः श्रीरामचन्द्रस्य बाल्यदशामारभ्य समग्रंचरितं विवक्षुरेतद्दशाङ्कघटितमपूर्वं बालरामायणाख्यं महानाटकमकरोत् । एतन्नाटकमपि प्रसन्नराघवमिव वीररसप्रधानं स्थलविशेषे शृङ्गारकरुणरसगर्भितं चास्ति । अतः समीचीनकाव्यपठनजनितफललाभ एतदुत्तमकाव्यस्य सुधास्कन्दिनीनां सूक्तीनां श्रवणेन भवेदयं च कविरनेकोत्तमगुणालङ्कृतश्चासीदित्येतत्प्रथमाङ्कस्थाभ्यां पारिपार्श्विकं प्रत्यन्योक्तिद्वारा सूत्रधारवचनरूपाभ्यामग्रिमश्लोकाभ्यां स्फुटमवगम्यते। तथाच सूत्रधारोक्तिः।
किं न श्रुतं सभ्यस्य शङ्करवर्मणो वर्णनम्।
पातुं श्रोत्ररसायनं रचयितुं वाचः सतां संमता
व्युत्पत्तिं परमामवाप्तुमवधिं लब्धुं रसस्त्रोतसः।
भोक्तुं स्वादु फलं च जीविततरोर्यद्यस्ति ते कौतुकं
तद्भ्रातः शृणु राजशेखरकवेः सूक्तीः सुधास्कन्दिनीः॥
अपि च ।
आपन्नार्तिहरः पराक्रमधनः सौजन्यवारांनिधि-
स्त्यागी सत्यसुधाप्रवाहशशभृत्कान्तः कवीनां गुरुः।
वर्ण्यंवा गुणरत्नरोहणगिरेः किं तस्य साक्षादसौ
देवो यस्य महेन्द्रपालनृपतिः शिष्यो रघुग्रामणीः॥
अथास्य नाटकस्यैकमेव पुस्तकमत्रैव काश्यां निवसतः परमसुहृदो ढुण्डिराजाचार्यशास्त्रिणः सकाशान्मयाऽऽ-सादितम् । ततः परमस्यां नगर्यामन्यनगरीषु चैतत्पुस्तकान्तरलाभायातिमार्गणपरोऽप्यलब्धपुस्तकान्तर एतत्पुस्तकमेव महता परिश्रमेण सम्यक् परिशोध्य पाठशालाध्यक्षस्य श्रीमतो ग्रिफिथसाहिबस्याज्ञया काशीविद्यासुधानिधिपत्रे मुद्रितमप्येतत्पत्रग्रहणासमर्थानां रसिकजनानामानन्दाय पृथङ् मुद्रितं कर्तुमुद्यतोऽस्मि ।
अतः सर्वैश्वर्यवन्तं विनतजनमनःसंतोषदायिनं श्रीपरमेश्वरमिदमेव प्रार्थये यत् सहृदयानां मनःस्वेतदुत्तमं काव्यं परमां मुदमादधात्वित्यलं बहुलेखनेनेति शम्।
गोविन्ददेवशास्त्री
<MISSING_FIG href="../../../books_images/U-IMG-1692858614Screenshot2023-08-22122513१११.png"/>
॥श्रीगणेशाय नमः॥
<MISSING_FIG href="../../../books_images/U-IMG-1691317544image12.png"/>
प्रसत्तेर्यः पात्रं तिलकयति यं सूक्तिरचना
यः आद्यः स्वादूनां श्रुतिचुलुकलेह्येन मधुना ।
यदात्मानो विद्याः परिणमति यश्चार्थवपुषा
स गुम्फो वाणीनां कविवृषनिषेव्यो विजयते ॥ १ ॥
नाद्यन्ते सूत्रधारःससंरम्भं परिक्रम्य पुरोऽवलोक्य सप्रश्रयमञ्जलिं बद्ध्वाभोभो भुजस्तम्भालानितलक्ष्मीकरेणुना रघुकुलैकतिलकेन महेन्द्रपालदेवेनाधिकृताः सभासदः सर्वानेष वो गुणनिधिर्विज्ञापयति विदितमेवैतद्भवताम्। यत्तु नाट्याचार्येण धूर्तिलेन प्रतिज्ञातम् ।
वीराद्भुतप्रायरसे प्रबन्धे
लोकोत्तरं कौशलमस्ति यस्य ।
नाट्ये च नृत्ये च परं प्रवीणा-
मसौ सुतां मेपरिणेष्यतीति ॥ २ ॥
तत्र दक्षिणापथादागतो रङ्गविद्याधरनामा भरतपुत्रो भवद्भिः परीक्षितो न चनिर्व्यूढस्तन्मामपि परीक्षध्वम्। कर्णं दत्त्वाऽऽकाशे किं ब्रूथविलक्षेण सता कर्णाटनटेन तेन निर्मर्यादमिदमुदितम् । यदुताखण्डितप्रसरा हि पुरुषकाराः कर्णाटानां तथाहि ।
** अहमेष हरिष्यामि परिणेतुः पुरोऽपि ताम् ।**
** नारीपरिभव सोढुं दाक्षिणात्या न शिक्षिताः ॥ ३ ॥**
अञ्जलिं बद्ध्वा तदिदं मयापि निवेद्यते यदि हि परिणयामि ।
अपि द्वीपान्तरादेष हृतां प्रत्याहरामि ताम्।
कलत्रहरणे पुंसां कियदर्णवलङ्कनम्॥ ४॥ इति।
विचिन्त्य किं पुनस्तत् ।
प्रविश्य पारिपार्श्विकः। एदं तम्1।
**सूत्रधारः -**माहिष किमिदम् ।
**पारिपार्श्विकः -**देवादेसपत्तं तं णिरुवेदुभाओ2।
सूत्रधारः- सखेदम् । कथमन्यदुपक्रान्तमन्यदापतितं सोयमातपार्थिनः पयोदाभ्युदयः। विचिन्त्य । सविघ्नविप्रुष एव काम्प्रक्रियारम्भाः। विभाव्य आम् अनिर्वेदः सिद्धेर्मूलम् । निश्चित्य भवत्वेवं तावत् । प्रकाशम् । मारिष रसान्तरेण नावहितं मे चेतः। तद्भवानेव वाचयतु ।
**पारिपार्श्विकः -**गृहीत्वा वाचयति ।
कमवढ्ढन्तविलासं रसाअलेकं करेइकन्दप्पो3।
**सूत्रधारः -**अये प्रश्नोत्तरम् । सेयमस्मत्प्रीतिरितिदेवादेशः। तत्स्वयमेव वाचयामि । गृहीत्वा वाचयति।
निर्भयगुरु§र्व्यधत्त च वाल्मीकिकथां किमनुसृत्य॥ ५॥
___________________________________________________________________________
§ निर्भयराजस्य महेन्द्रपालस्य गुरुरुपाध्यायो राजशेखरः। तथाच कर्पूरमञ्जर्याम् ।
बालकई कइराओ णिम्भअराअस्सतह उवउझाओ।
इय जस्स परम्पराए अप्पा माहप्पमारूढो॥
अस्यार्थः।
बालकविः कविराजो निर्भयराजस्य तथा उपाध्यायः।
इति यस्य परम्परया आत्मा माहात्म्यमारूढः॥
कथं भाषाचित्रकमेकालापकं चैतत् स्वगतं सूचनाक्रमोपि विचिन्त्य।वालरामाअणम्4। विमृश्य नाटयितव्यमित्यर्थतोऽभिहितं भवति।
** पारिपार्श्विकः -**अहो अच्चरिअमच्चरिअम्॥अएणं लिहिदं अण्णं पढीअदि।5
** सूत्रधारः**- सहर्षम्।अनुकूलं हि दैवं सर्वस्मै स्वस्तिकरोति यत्प्रस्क्ततसंवादी देवादेशः।
** पारिपार्श्विकः** - दिठ्ठिआकालिदीमन्दाइणीसलिलं विअपढ़मं दुधा पहाविअपच्छा तं कज्जं एकीभूदम् ++
** सूत्रधारः -**सहर्षम्।संप्रति हि।
सद्विज्ञानं कुलतिलकतां याति दारैरुदारैः
फुल्ला कीर्त्तिर्भ्रमति सुकवेर्दिक्षु यायावरस्य ।
धीरोदात्तं जयति चरितं रामनाम्नश्च विष्णोः
काव्यव्याजात्तदियमपरा काप्यहो कामधेनुः ॥ ६॥
**पारिपार्श्विकः -**वम्मीइणा मुणिवरिठ्ठेण दिठ्ठणिबन्धणस्सरामचन्दचरिदस्स को उण सो विसेसो जं एस कई दंसइस्सदि §।
____________________________________________________________________________
++ दिष्ट्या कालिन्दीमन्दाकिनीसलिलमिव प्रथमं द्विधा प्रवाह्य पश्चात् तत् कार्यमेकीभूतम् ।
§ वाल्मीकिना मुनिवरिष्ठेन दृष्टनिबन्धनस्य रामचन्द्रचरितस्य कः पुनः स विशेषो यमेष कविर्दर्शयिष्यति ।
____________________________________________________________________________
** सूत्रधारः -**मारिष क्वचित्कश्चित्प्रगल्भते नहि सर्वः सर्वंजानाति।
** पारिपार्श्विकः -**भाव णं भणामि पच्चक्वीकिदसअलसग्गसद्दत्थादोतत्थभवदो महेसिणो अदिक्कमिअ किं एस चम्मचक्वूपेक्विस्सदि*।
** सूत्रधारः**- मारिष मामैवम्।
वदनेन्दुषु वामदृशामिन्दीवरपत्रसंघटितम् ।
रसनासु च सुकवीनां निवसति सारस्वतं चक्षुः ॥ ७॥
प्राज्ञश्चायम् । वस्त्वन्तरमतिशयानो हि प्रज्ञाप्रकर्षः। सूक्तमिदं तेनैव महामन्त्रिपुत्रेण ।
उदन्वच्छन्ना भूः स च निधिरपां योजनशतं
सदा पान्थःपूषा गगनपरिमाणं गणयति।
इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः
सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ ८॥
**पारिपार्श्विकः -**ता णमक्कारो करीअदु6।
** सूत्रधारः -**ननु नमस्कृतं तेनैव।
योगीन्द्रश्छन्दसां स्रष्टा रामायणमहाकविः।
वल्मीकजन्मा जयति प्राच्यः प्राचेतसो मुनिः॥ ९॥
प्रबन्धोपक्रमे च स किल कविरेवमुक्तवान् ।
ब्रह्मभ्यः शिवमस्तु वस्तु विततं किंचिद्वयं ब्रूमहे
हे सन्तः शृणुतावधत्त विधृतो युष्मासु सेवाञ्जलिः।
—————————————————————————————————————————
* भाव ननु भणामि प्रत्यक्षीकृतसकलसर्गशब्दार्थात् तत्रभवतो महर्षेरतिक्रम्य किमेष चर्मचक्षुः प्रेक्षिष्यते ।
यद्वा किं विनयोक्तिभिर्मम गिरां यद्यस्ति सूक्तामृतं ।
माद्यन्ति स्वयमेव तत्सुमनसो याञ्चा परं दैन्यभूः ॥ १०॥
सर्वभाषाविचक्षणश्च स एवमाह।
गिरः श्रव्या दिव्याः प्रकृतिमधुराः प्राकृतधुराः
सुभव्योऽपभ्रंशः सरसरचनं भूतवचनम् ।
विभिन्नाः पन्थानः किमपिकमनीयाश्च त इमे
निबद्धायस्त्वेषां स खलु निखिलेऽस्मिन् कविवृषा॥ ११॥
एतत्प्रबन्धमहत्त्वं प्रति तेनेदमुक्तम् ।
ब्रूते यः कोपि दोषं महदिति सुमतिर्बालरामायणेऽस्मिन्
प्रष्टव्योऽसौ पटीयानिह भणितिगुणोविद्यते वा नवेति ।
यद्यस्ति स्वस्ति तुभ्यं भव पटनरुचिर्विर्द्धि नः षट् प्रबन्धा-
न्नैवं चेद्दीर्घमास्तां नटवटुवदने जर्जरा काव्यकन्था॥ १२॥
पारिपार्श्विकः -विहस्य भाव अलङ्किदकदमगोत्तो पवित्तीकिदकदमणामहेओ एस कई जस्सिं णाम भावस्स देवस्सअ एव्वं पक्ववादो *।
**सूत्रधारः -**अय्यनभिज्ञ गगनार्णवमाणिक्यं पूषणमपि तर्हि पृच्छ।
स मूर्तोयत्रासीद्गुणगण इवाकालजलदः
सरानन्दः सोऽपि श्रवणपुटपयन वचसा।
नचान्ये गण्यन्ते तरलकविराजप्रभृतयो
महाभागस्तस्मिन्रयमजनि यायावरकुले॥ १३॥
________________________________________________________________
* अलङ्कृतकतमगोत्रः पवित्रीकृतकतमनामधेय एष कविर्यस्मिन् नाम भावस्य देवस्य चैवं पक्षपातः।
____________________________________________________________________________
तदामुष्णायणस्य महाराष्ट्रचूडामणेरकालजलदस्य चतुर्थो दौर्दुकिःशीलवतीसूनुरूपाध्यायश्रीराजशेखर इत्यपर्याप्तं बहुमानेन । स्मृतिं नाटयित्वा अहो किमपि कमनीया कवेरात्मन्याशीः।
आद्यः कन्दो वेदविद्यालतानां
जैह्वंचक्षुर्निर्निमेषं कवीनाम् ।
यो येनार्थी तस्य तत् प्रक्षरन्ती
वाङ्मूर्तिर्मे देवता सन्निधत्ताम् ॥ १४॥बाहूति
इदं च सूक्तमुक्तवान्।
जिह्वेदेवि सरस्वतींभगवतीमग्रे समयां कुरु
त्वां बद्धाञ्जलि राजशेखरकविः सोऽयं स्वयं याचते ।
स्तुत्येऽस्मिन्निजवंशमौक्तिकमणौ रामे विरामे द्विषां
कुण्ठा मे प्रतिभैव दैवतवशाद्वाचां प्रवृत्तिर्यदि॥ १५॥
पारिपार्श्विकः - ता किं ण्ण वण्णीअदि7।
**सूत्रधारः -**ननु वर्णितमेव दैवज्ञेन ।
बभूव वल्मीकभवः कविः पुरा
ततः प्रपेदे भुवि भर्तृमेदुताम् ।
त्थितः पुनर्योभवभूतिरेखया
स वर्त्तते संप्रति राजशेखरः ॥१६॥
अपि किं न श्रुतं सभ्यस्य शङ्करवर्मणो वर्णनम् ।
पातुं श्रोत्ररसायनं रचयितुं वाचः सतां संमता ।
व्यत्पत्तिं परमामवाप्नुमवधिं लब्धुं रसस्रोतसः।
भोक्तुं स्वादु फलं च जीविततरीर्यद्यस्ति ते कौतुकं
तद्भ्रातः शृणु राजशेखरकवेः सूक्तीःसुधास्कन्दिनीः॥ १७॥
अपि च ।
अपन्नार्त्तिहरःपराक्रमधनः सौजन्यवारांनिधि-
स्त्यागी सत्यसुधाप्रवाहशशभृत्कान्तः कवीनां गुरुः।
वर्ण्यं वा गुणरत्नरोहणगिरेः किं तस्य साक्षादसौ
देवो यस्य महेन्द्र पालनृपतिः शिष्यो रघुग्रामणीः॥ १८॥
नेपथ्ये गीयते।
मुक्कहरिणाङ्कमण्डलपासप्पसरो बुधो विवुहवग्गो।
ओत्क्वरिअराहुविहुरं णलिणीणाहं समुल्लिहइ *॥ १९॥
सूत्रधारः - आकर्ण्य कथमुपश्रुतदेवादेशैः कुशीलवैरुपक्रान्तमेव यदियं शुनःशेपस्य प्रावेशिकी ध्रुवा । विमृश्य ध्रुवा हि नाम नाट्यस्य प्रथमे प्राणाः। तथाहि।
ग्रथयति पात्रविशेषान् सामाजिकमनांसि रञ्जयति ।
अनुसंदधाति च रसान् नाट्यविधाने ध्रुवा गीतिः ॥ २०॥
तदेह्यवामप्यनन्तरकरणीयाय सज्जीभवाव इति निष्क्रान्तौ । आमुखम् ।
ततः प्रविशति शुनःशेषः।
शुनःशेपः - प्रातःसवन एव यजमानं द्रष्टुमिच्छामि । तत्र कश्चित्सन्ध्यां वन्दमानस्य मे कालातिपातः संवृतः। ऊर्ध्वमवलोक्य कथमद्याप्यपटिष्ठमाञ्जिष्टं च मञ्जु मार्त्तण्डीयं तेजः।
तथाहि।
____________________________________________________________________________
* मुक्तहरिणाङ्कमण्डलपार्श्वप्रसरो बुधो विबुधवर्गः।
अवतीर्य राहुविधुरं नलिनीनाथं समुल्लिखति॥
____________________________________________________________________________
उषःप्रवालद्रुमबालपल्लवा-
स्त्रिलोकहर्म्याङ्गणहस्तदीपिकाः।
दिनद्विपेन्द्रारुणकर्णचामरा
मरीचयोऽर्कस्य लुठन्ति कोमलाः॥ २१॥
स्मृत्वा ।
यदेतदग्नेसरमम्बरस्त्थं
ज्योतिः स पूषा पुरुषः पुराणः।
अथास्य शिष्यः किल याज्ञवल्क्यं
स्तस्यापि राजा जनकः स योगी॥ २२॥
राक्षसरक्षौषधं रामभद्रमानेतुं सिद्धाश्रमादयोध्यां गच्छता तातविश्वामित्रेण यज्ञोपनिमन्त्रकस्य परमसुहृदः श्रोत्रियक्षत्रियस्य महाराजसीरध्वजस्य स्वप्रतिनिधिः प्रेषितोऽस्मि । आसन्नसत्रसमयस्य चागच्छतोऽध्वरविधिरवभृथावशेषो वर्तत इति मे तर्कः। तदेष राजर्षेःसौस्नातिकोऽपि भवन् न गुरोरपराधभूमिःस्यामिति परिक्रामति ।
प्रविश्य तापसच्छद्मना राक्षसः।स्वगतम् ।
संप्रेषितो माल्यवताहमद्य
ज्ञातुं प्रवृत्तिं कुशिकात्मजस्य।
पुरं निमीनां मिथिलां च गन्तुं
तां चाप्ययोध्यां रघुराजधानीम्॥ २३॥
कुलपुत्रक इति सप्रसादमादिष्टश्चास्मि। यथा सीतानाम्नीमयोनिजां जनककन्यां धूर्जटिधनुरारोपणपणपरिणेयां देवो दशाननः श्रुतवान् ।तस्य मर्त्यमण्डलचाराधिकारनियुक्ता सहो
दरी शूर्पणखा नित्यमेवंविधानां राजकार्याणां संपादयित्रो उचितविधायिनी च मे वत्सा । प्रभुचित्तानुवर्त्तनं हि सेवकजनसिद्धविद्या ।सीतार्थी च मिथिलां प्रस्थातुकामो महाराजरावणः किंबहुनाऽयमपरो गण्डस्योपरि पिण्डिकोद्भेदोयत्किल प्रस्थास्यमानेन निशाचरचक्रवर्तिना तत्रभवतो नीललोहितान्तेवासिनः पार्वतीधर्मपुत्रकस्य जामदग्न्यस्य सकाशं परशुमार्गणाय मायामयः प्रहितः। तदिदमसमञ्जसमिव पश्यामि । यतः।
शमव्यायामाभ्यां प्रतिविहिततन्त्रस्य नृपतेः
परं प्रत्यावापः फलति कृतसेकस्तरुरिव ।
बहुव्याजं राज्यं न सुकरमराज्यप्रणिधिभि-
र्दुराराधा लक्ष्मीरनवहितचित्तं चलयति॥ २४॥
विमृश्य । अहह । अनमात्यायतसिद्धेर्धिङ्मन्त्रित्वम् । कुतः।
स्वेच्छया कुरुते स्वामी यत्किंचन यतस्ततः।
तत्तत् प्रतिचिकीर्षन्तो दुःखं जीवन्ति मन्त्रिणः ॥ २५॥
विचिन्त्य।तद्भवद्भविष्यदनर्थयोर्भवदनर्थं प्रथमं प्रतिकुर्वीतेति नीतिविदः। तदेष सीतावृत्तान्त एव प्रथमं प्रतिविधातव्यः।भद्रमुख तत्त्वया मेनकाकामुकस्य त्रिशङ्कुयाजिनः क्षत्रियब्राह्मणस्य तस्य प्रवृत्तिरस्मासु निवेदनीया स च सिद्धाश्रमादुच्चलित इति श्रुतिः। तस्य दशरथः सीरध्वजश्च परं मित्रे। तत्र यदि दशरथं प्रति यायात् तदहमन्यापदेशेन दशकन्धरस्य यात्राभङ्गाय यतिष्ये। स हि नक्तंचराणां निसर्गामित्रो विश्वामित्रः। व्रतचर्यया वीरव्रतचर्यया च समर्थः। दशरथोऽपि तथाविध एव । जनकश्च योगीशान्तो दान्तश्च। अहं तु मिथिलां पुरींप्रत्युच्चलितस्तत्त्वरितमिमां विचित्य रघुराजधानींयास्यामि ।विमृश्य तादृश एव तादृशानामपसर्पः स्यादिति कृततापसवेषोऽपि महर्षिभ्यो बिभ्यत् संचरामि । पुरोऽवलोक्य कथं तापसः। प्रत्यभिज्ञाय तत्रापि विश्वामित्रधर्मपुत्रः शुनःशेपः। भवत्वस्मादेव तत्किंवदन्तीलाभः। उपसृत्य भगवन्नभिवादये ।
शुनःशेपः-अभिलषितेन युज्यस्व।
इति परिकामतः।
**राक्षसः -**विलोक्य भगवन् साप्तपदीनं सख्यं मां मुखरयति तत्प्रष्टुकामोऽस्मि।
शुनःशेपः - ब्रह्मन्नभिधीयताम्।
**राक्षसः -**विद्यास्नातक द्रव लक्ष्यसे तत् कयमयं स्वाध्यायप्रत्यूहः।
शुनःशेपः-गुरोरादेशः।
राक्षसः -कस्ते गुरुः।
शुनःशेपः - भगवान्विश्वामित्रः।
**राक्षसः -**स्वगतम् । भवतु कोपयाम्येनम् । सुप्तमत्तकुपितानां हि भावज्ञानं द्रष्टव्यम् । प्रकाशम् । अथ कोऽयं विश्वामित्रो नाम।
**शुनःशेपः -**सकोपम्। अये द्वीपान्तरादिवागतोऽसि यद्भगवन्तं विश्वामित्रमपि न जानासि ।
न्यस्यान्यान् दक्षिणस्यां दिशि गगनमुनीन् सप्त क्लृप्तर्क्षपक्षो ।
नव्यं हव्यं च कृत्वा त्रिदशजनहूते सर्वयागाङ्गवर्गे।
वासिष्ठींशापमुद्रां सपदि विदलयन् यो महासत्रबन्धे
मध्येव्योम त्रिशङ्कोःशतमखविमुखः स्वर्गसर्गं चकार॥ २६ ॥
अपि च ।
क्षत्रब्रह्ममहानिधिः क्षितिभुजां जेता मुनीनां च यः
बाणी यस्य परं पवित्रिततलौचापस्रुचोर्धारणात् ।
विश्वामित्र इति त्रिलोकतिलकं त्वं वेत्सि नास्मद्गुरुं
योऽस्मिंश्चित्रशिखण्डिनां भगवतां धात्रा कृतः सप्तमः ॥ २७ ॥
संप्रत्येव राक्षसभयात् सत्रे दीक्षिष्यमाणः स भगवान् रक्षितारं रामभद्रं वरीतुमयोध्यां गतः।
राक्षसः - तत्रासम् । भगवन् । मा कोपीः। वटुस्वभावसुलभं चापलमत्रापराध्यति न पुनरज्ञानम् । कः पुनः स्तम्भितरम्भं भगवन्तं विश्वामित्रं न जानाति । स्वगतम् । कृतं यत् कर्तव्यम् । संप्रति चारसंचारस्थावसरः। प्रकाशम्। क्व पुनर्गुर्वादेशो गमयिता ।
शुनःशेपः-मिथिलापुरीम् ।
राक्षसः- किं तत्र
**शुनःशेपः -**गुरुसुहृदो राजर्षेः सीरध्वजस्य यज्ञोपस्थानम् । ब्रह्मंस्त्वमपि वैदेशिक इवासि तत्कुतः पुनरिदमागम्यते।
राक्षसः- स्वगतम् भवत्येवं तावत् । प्रकाशम् । रोहणाचलपरिसरोत्तंसादगस्त्याश्रमतः।
शुनःशेपः - किंचित्सानुशयम् । कोयमगस्त्योनाम।
राक्षसः- विहस्य भगवन्कृतप्रतिकृतमेतत् । निजोदयनिर्विषीकृतभुवनाम्भस्कं कः पुनरगस्त्यं न जानाति ।
निषेद्धा विन्ध्यस्य प्रथमचुलुकाचान्तञ्जलधिः
कृतापद्वातापेर्नस कलशभूः कस्य विदितः।
गुरुर्लोपामुद्राहृदयदयितो यस्त्रिजगत-
स्त्रयींमाणिक्याद्रेरधिवसति वैखानसवृषा ॥ २८ ॥
**शुनःशेपः -**परस्परं गुर्वधिक्षेपादुभावपि प्रायश्चित्तिनौ वर्तावहे ।
**राक्षसः -**तदनुजानीहि मामघमर्षणाय ।
शुनःशेपः - निर्वर्तितगुर्वाज्ञोऽहमपि प्रायश्चित्ते यतिष्ये । किन्तु किंचित्प्रष्टव्यमस्ति ।
**राक्षसः -**नियोजय।
शुनःशेपः - लङ्कोपकण्ठवर्तिनि तत्राश्रमपदे कश्चिदस्ति दशकण्ठोदन्तः।
राक्षसः - यत्किल स्थाणवीयधनुरारोपणपणेन रावणः सीतां परिणेष्यतीति तन्न कश्चिदेवंविधः।
**शुनःशेपः -**विहस्य स्वगतम् । अये लघुचित्तवृत्तिनिर्भिन्नहृदयार्थोराक्षस इवैषः। युक्तियुक्तं चैतत्।
अगर्भसंभवां कन्यां दशकण्ठो जगज्जयी ।
आरोप्य हरकोदण्डं कथं न परिणेष्यति ॥ २९ ॥
प्रकाशम् ।ब्रह्मन्ननुमन्यस्वमां मिथिलाप्रवेशनाय।
**राक्षसः -**मामपि कार्यवशादितो गत्वा प्रायश्चिताय । इति निष्क्रान्तौशुद्धविष्कम्भकः।
ततः प्रविशति पुष्पकेण रावणः प्रहस्तश्च ।
रावणः -
यस्यारोपणक्रमेणापि बहवो वीरव्रत त्याजिताः।
कार्यं सज्जितबाणमीश्वरधनुस्तद्दोर्भिरेभिर्मया ॥
स्त्रीरत्नंतदगर्भसंभवमितो लभ्यं च लीलायिता
तेनैषा मम फुल्लपङ्कजवनी जाता दृशां विंशतिः॥ ३०॥
प्रहस्तकः - सर्वतोऽवलोक्य कथं दशाननदेवदर्शनाकाङ्क्षिवृन्दारकवृन्दमिदमग्रतः समग्रमपि गगनाभोगं बिभर्ति । साक्षेपम् ।
वह्नेनिह्नोतुमर्चिः परिचिनु पुरतः सिञ्चतो वारिवाहान्
हेमन्तस्थान्तिके स्याः प्रथयति दवथुं येन ते ग्रीष्म नोष्मा ।
मार्तण्डाश्चण्डतापप्रशमनविधये धत्त नाडींजलार्द्रां
देवो नान्यप्रतापं त्रिभुवनविजयी मृष्यते श्रीदशास्यः ॥ ३१॥
रावणः -सौत्सुक्यं हंहो नभस्तरुपुष्प पुष्पक किंचिदुच्यसे ।
सेवागतामरविमानसहस्रसेनाः
सीमन्तयन् मम मनोजयिना जवेन ।
तां मैथिलस्य नृपतेर्व्रज राजधानीं
यत्राद्भुतं हरधनुर्धरणीसुता च ॥ ३२॥
**प्रहस्तकः -**किमद्याप्युत्कण्ठते देवः। नन्वबतीर्णममुना गगनार्णवपोतपात्रेण विमानराजेन जनकमन्दिरे । तद्भवतु देवागमनं सीरध्वजाय निवेदयामि । उच्चैः।
वामैराकृष्य वेगात्प्रगुणितशिरसः पाणिभिः केशबन्धान्
सव्यैरव्याजशस्त्रप्रणयनपटुभिश्क्विन्दतः कण्ठपीठीः।
मन्यामस्यानुरूपामुपकरणगतिं प्रीतये चन्द्रमैलि-
र्यस्यान्तस्तोषपोषं व्यथित दशमुखी विंशतिर्बाहवश्च ॥ ३३॥
सोऽयं स्वयंग्रहणष्टुर्ललितोदशास्य-
स्त्वां याचते दुहितरं पणपूर्वमेव।
संबन्धसन्धिमनुना च सहानुभूय
वंशो निमेर्जयतु यावदियं धरित्री॥ ३४॥
कर्णं दत्त्वाऽऽकाशे किं ब्रूथ सोऽयं पुराणब्रह्मवादी याज्ञवल्क्यशिष्यो राजर्षिर्जनक आङ्गिरसेन पुरोधसा सार्धमितोऽभिवर्तते। तदिदमास्थानमण्डपोपकण्ठमधिष्ठीयतामित्यवतरतः।
ततः प्रविशति जनकः शतानन्दंश्च ।
जनकः -
यन्मीमांसयतः श्रुतीः शतपथाः साक्षात्कृतब्रह्मणो
विश्वामित्रमहामुनेरपि वयं वर्त्तामहे चेतसि ।
अप्युल्लीढकषायपावनधियां सद्यःसमाधिश्लथं
तत्सङ्गीतकमन्तरेण हृदयं हर्षान्नरीनर्तिनः ॥ ३५॥
शतानन्दः - राजर्षे सूर्यप्रशिष्य सत्याशिषस्ते गुरवो यद्भगवान् विश्वामित्रोऽपि मैत्रीमनुरुध्यते । प्रहस्तस्तदेव पठति।
जनकः -आकर्ण्य। अये तपस्यतामपि न निरत्ययः सुखप्रत्ययः। यत् सीतार्थी दशकण्ठोऽपि गृहानुपगच्छति ।
शतानन्दः -अहह। आश्चर्यमेकोऽपि गरीयान् दोषः समयमपि गुणग्रामं दूषयति । तथाहि ।
आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं
भक्तिर्भूतपतौपिनाकिनि पदं लङ्केति दिव्यापुरी।
उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते
स्याच्चेदेष न रावणः क्वनुपुनः सर्वत्र सर्वे गुणाः॥ ३६॥
**जनकः -**सखेदम् । भगवन्नैतिथ्य गृहानुपगताय सीतार्थिने लकेश्वराय किमुत्तरम् ।
शतानन्दः - राजर्षे चिरं दत्तमेवोत्तरम्।
जनकः -भगवन् केन।
शतानन्दः -भगवता शिपिविष्टेन।
जनकः -किमिव।
शतानन्दः - स्वधनुः।
जनकः -निःश्वस्य।
गिरिशधनुरधिज्यं रावणः कर्तुमीष्टे
करतुलितहराद्रेर्दुष्करं किं हि तस्य ।
किमुत न स निमीनां यौनसंबन्धयोग्य-
स्तदिति हि मम चित्तं चिन्तया मूर्च्छतीव ॥ ३७॥
**शतानन्दः -**राजर्षे मा विषीदस्व। पाणिप्रणयिनं कोदण्डदण्डं प्रसादीकुर्वतः पार्वतीपर्तेर्विवोढाकः सीताया अभिमत इति न जानीमः। इदं तु प्रतिज्ञानीमहे यदुत न प्रचण्डदोःखण्डोऽपि दशकण्ठः श्रीकण्ठमनीषितमपरथा प्रस्थापयिष्यति । तदेहि दुर्वृत्तमपि मुनिपुत्रमुचितेन संभावयाव इत्युत्थाय परिक्रामतः।
**जनकः -**पुरोऽवलोक्य। दिष्ट्या दृष्टपुलस्त्यप्रसवाः प्रमोदामहे । लङ्केश्वर इतइतो भवानिदमासनमास्यताम् । सर्वे यथोचितमुपविशन्ति।
**शतानन्दः -**ऋषिपुत्रको दिव्यश्वासि तत्कतमामातिथेयींकुर्मः।
महोक्षो वा महाजो वा श्रोत्रियाय विशस्यते।
निवेद्यते तु दिव्याय स्रक्सुगन्धिनिधिर्विधिः॥ ३९ ॥
**रावणः -**ब्रह्मर्षे इयमस्माकमातिथेयी।
यत् पार्वतीहठकुचयहणप्रवीणे
पाणौ स्छितं पुरभिदः शरदां सहस्रम् ।
गीर्वाणसारकणनिर्मितगात्रमत्र
तन्मैथिलीक्रयधनं धनुराविरस्तु॥ ३९॥
प्रहस्तकः - आविरस्तु सममगर्भसंभवया सीतया ।
**रावणः -**सप्रत्याशं स्वगतं च ।
निर्माल्यं नयनश्रियः कुवलयं वक्त्रस्य दासः शशी
कान्तिः प्रावरणं तनोर्मधुमुचो यस्याश्च वाचः किल ।
विंशत्या रचिताञ्जलिः करतलैस्त्वां याचते रावण -
स्तां द्रष्टुं जनकात्मजां हृदय हे नेत्राणि मित्रीकुरु ॥ ४०॥
**शतानन्दः -**इदमाविर्भवति दशानन माहेश्वरं धनुः।
**रावणः -**स्वात्मानं प्रतीदमाविर्भवति माहेश्वरं धनुर्न पुनरद्यापि मान्मथम् ।
**शतानन्दः -**सहेलमालोक्य।
स्फूर्जद्वज्राहतसुरगिरिस्वर्णचूर्णच्छटाभि-
स्तुल्योल्लासैस्त्रिभुवनदृशां दत्तदौस्थित्यमुद्रः।
आशारन्ध्राण्ययमविरतं रुद्रकोदण्डदण्डः
स्वेच्छाचण्डोरचयति रुचां पञ्जरैः पिञ्जराणि॥ ४१॥
नेपथ्यं प्रति कः कोऽत्रभोः सौविदल्लेषु कन्यान्तःपुरादागच्छतु जनकराजकन्या । नेपथ्ये इयमियम् । ततः प्रविशति सीता सख्यौच ।
**सीता -**ससाध्वसोल्लासम्। अम्महे रक्खसो त्ति सुणिअसच्चं सज्झसकोदूहलाणं अन्तरे वट्टामि ।8
एका-भट्टिदारिए। रक्खसोत्ति मा णं परिहव रक्खसचक्ववट्टीक्खुएसो ।9
**सीता -**अहिअदरं उव्वेअणिज्जो ।10
**द्वितीया-**अह किं मन्तेध किं कादुंइध आअदो ।11
**प्रथमा -**सङ्करसरासणं समारोइदुं ।12
**द्वितीया -**णं एव्वं भण भट्टिदारिअं परिणेदुं ।13
प्रथमा-अयि उड्डामरसीले कहं पुण असङ्करोअलद्धसङ्करप्यसादो वा इमं चावमारोवइस्सदि14।
सीता - स्वगतम् । अम्महे ऊससिदह्मिअणभ्भवरिसेण पिअसहीवाणेण !15
सर्वा - परिक्रामन्ति।
सीता -पुरोऽवलोक्य। एक्वासणोववेसिणो कदि उण एदे जणा ।16
सख्यौ -णं एक्को एक्वोएसो दसमुहो विंसदिभुअदण्डो अ ।17
सीता-तादसदानन्दमिस्साणं अन्तरे उवविसिस्सम्18।
रावणः - सैत्सुक्यमवलोक्य स्वगतम् । अहो त्रिभुवनातिशायि मकरध्वजसञ्जीवनं रामणीयकमस्याः। तथाहि ।
इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव
प्रम्लानारूणिमेव विद्रुमलता श्यामेव हेमद्युतिः।
पारुष्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं
सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हाइव॥ ४२ ॥
किंच बहुष्वपि निजेषु कर्मसु विवेक्तेकर्त्रे किंचिदेव रोचते । यतः।
एतां यथाहृदयवर्त्तनमायताक्षीं
संसारसारनिचयेन विधाय वेधाः।
शङ्के दिदेश मदनं परिरक्षितार-
मारात् स मां किरति येन शरैः शितायैः ॥ ४३ ॥
शतानन्दः -पुलस्त्यनन्दनेदं तद्धनुरियं सा सीता ।
**रावणः -**इदं तद्धनुरयं स रावणः। किं पुनरसंभावनागर्भमदशकण्ठोचितं व्याहरसि । पश्य ।
सार्द्धंहरेण हरवल्लभया च देव्या
हेरम्बषण्मुखवृषप्रमथावकीर्णम् ।
कैलासमुद्धृतवतो दशकन्धरस्य
कैषा जरद्धनुषि दुर्मददोः परीक्षा ॥ ४४ ॥
**ग्रहस्तकः -**स्वगतम् । इदं शिपिविष्टान्यस्माददृष्टगुणारोपणकर्म कार्मुकम् । कथमेतत् । विचिन्त्य पराक्रमपरीक्षायां को वा महादेवाऽपि देवस्य किंच ।
कृतं सुराणां सारेण स्थाणवीयमिदं धनुः।
किङ्करास्ते च देवस्य सुकरा रोपणक्रिया ॥ ४५ ॥
**रावणः -**सरोषं धनुरादाय ।
अस्मद्दोर्दण्डचण्डाञ्चननिबिडगुणग्रन्थिभुग्नोभयाश्रि
व्यश्रीभावोर्द्धपृष्ठत्रुटदनणुरणत्कर्मणाः कार्मुकस्य ।
कल्पान्तोद्भ्रान्तभर्गप्रहतडमरुकोड्डामरध्वानधीर-
ष्टाङ्कारस्तारतारस्त्रिदशनिशमितो व्योमरन्ध्रंरुणद्धु ॥ ४६॥
**शतानन्दः -**अपवार्य । अहो लङ्कापतेरपूर्वो गर्वगरिमायन्ममापि शतानन्दस्य न निश्चिनुते चेतः किं भवितेति । दुरारोपमैन्दुशेखरं धनुर्दुर्निवारा रावणभुजदण्डाः।
**जनकः -**स्वगतम् । भगवन् भर्ग सन्निधत्स्व निजे धनुषि प्रथा जनककुलालङ्करणं भवति मे वत्सा। जितत्रिजगतापि जामात्रा वयमपत्रपामहे।
**सीता -**आत्मगतं सप्रणामम् । अम्ब वसुन्धरेपसीद सीदा विण्णवेदिंपढमं में अन्तरं देज्ज पच्छारावणो धनुं आरोविज्जदु ।19
सखौ -आकाशे भगवं अणङ्ग णमो दे माक्खु रक्खसं उद्दिसिअसुउमारजणजोग्गं पहरणं संधिहिसि।20
**प्रहस्तकः -**सगर्वम् । हन्त न सर्वदा सर्वस्य सदृशो दशापाकः। यतः।
वामबाहुर्मृडान्याः करकलितरणत्कङ्कणालीकरालो
यस्मिन्सव्यश्च शम्भोर्भुजगवलयवान् सह्यमाकर्षणं तत् ।
कैलासोद्धारधीरं दशवदनभुजामण्डलीयन्त्रबन्धं
रेरे कोदण्डदण्ड प्रतिपततदलं नासि सोढादृढोऽपि ॥ ४७ ॥
विचिन्त्य भवतु पातालचरानम्बरचरांश्चसावधामान्विधास्ये। अधोऽवलोक्य।
पृथ्वि स्थिरा भव भुजङ्गम धारयैनां
त्वं कूर्मराज तदिदं द्वितयं दधीथाः।
दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षां
देवः करोति हरकार्मुकमाततज्यम्॥ ४८ ॥
ऊर्ध्वमवलोक्य ।
अश्वान् विश्वासयैतान् क्षणमरुण कुरु स्वर्गमातङ्गकण्ठं
गाढोरुग्रन्थिमाधोरण विबुधगणाः कर्णयोर्दत्त हस्तान्।
लङ्केन्द्रोदग्रपाणिप्रणयिभवधनुर्भङ्गजन्मा कठोर-
ष्टाङ्कारः स्वर्गरोदःकुहरवलयितस्त्रासकारी न कस्य ॥ ४९ ॥
**रावणः -**अहो मम दशाननस्याज्ञा यदमीषां स्वावयवानामपिजितगगनचाटुकारः सर्वत्र व्यापारः। तथाहि संप्रत्येव तावत्।
निष्पर्यायनिवेशयेशलरसैरन्योन्यनिर्भर्स्सिभि-
र्हस्ताग्नैर्युगपन्निपत्य दशभिर्वामैर्धृतं कार्मुकम्।
सव्यानां पुनरप्रथीयसि विधावस्मिन् गुणारोपणे
मत्सेवाविदुषामहंप्रथमिका काप्यम्बरे वर्त्तते ॥ ५०॥
विचिन्त्य। सजुगुप्सानुतापम् । अविमृश्यकारिता हि पुंसः
पर परिभवस्थानं यत्प्राकृतवदप्राकृतोऽपि रावणः पणेन परिणेतुकामः। तत्सर्वथा किमनेन ।
रुद्राद्रेस्तुलनं स्वकष्ठविपिनच्छेदो हरेर्वासनं
कारावेश्मनि पुष्पकापहरणं यस्येदृशाः केलयः।
सोऽहं दुर्मदबाहुदण्डसचिवोलङ्केश्वरस्तस्यमे
का श्लाघा घुणजर्जरेण धनुषा कृष्टेन भनेन वा ॥ ५१ ॥
इति सावज्ञं क्षिपति ।
सस्त्र्यौ -भट्टिदारिए दिठ्ठिआ वढ्ढसे समं दे पाणिग्गहणमङ्गलेण मुक्कं रावणेण धणू ।21
सीता - साश्वासमात्मगतम्। हिअअ अणुऊलो विअ दे देवो वम्महोअ ।22
शतानन्दः -भो लङ्केश्वर परममाहेश्वरोऽसि तत्किमिदमसंस्तुतं प्रस्तुतम् ।
जनकः -ससंरम्भमुत्थाय।
न ब्रह्मोपनिषन्निषेवणरतिर्नोयाज्ञवल्क्यो गुरुः
कोपावेशनविससा च सहसा शक्नोति रोद्धुंमनः।
दृष्ट्वा शम्भुमहाधनुः परिभवं पाणिर्जराजर्जर-
स्तेनाभ्युत्सहते ममैष युगपच्चापाय शापाय च ॥ ५२ ॥
विमृश्य नेपथ्यं प्रति कः कोऽत्रभोः। धनुर्धनुः। प्रविश्य धनुरुपनीय निष्क्रान्तः पुरुषः।
जनकः- परिकरं बद्ध्वा गृह्णाति ।
रावणः- सकेोपहासम्।
हस्तालम्बितमक्षसूत्रवलयं कर्णावतंसीकृतं
स्रस्तं भ्रूयुगमुन्नमय्य रक्षितं यज्ञोपवीतेन च ।
सन्नद्धाजघने च वल्कलपटी पाणिरच धत्ते धनु-
र्दृष्टं भो जनकस्य योगिन इदं दान्तं विरक्तं मनः ॥ ५३॥
शतानन्दः -आश्चर्यम् । अहो महाप्रभावो मे याज्यः। अस्य हि ।
वाञ्छानुगौ न जरसा जनकस्य पाणी
सत्यं स एष तपसस्तु परः प्रकर्षः।
मौर्वींस्वयं यदधिरोहति चापकोटिं
संधानकर्मणि शराश्च यदुत्सहन्ते॥ ५४ ॥
**सीता -**हद्धिहद्धि । तादोवि णाम उवममेक्कधणो धणुं वाचारेदि स एष हुदबहंवरिसिदुकामोमिअङ्कमणी ।23
**प्रहस्तकः -**आः क्षत्रियबन्धो वृथावृद्ध दशाननमुद्दिश्य धनुरारोपयसिनन्वेष ते पौलस्त्यशस्त्रं चन्द्रहासः शिक्षयिता।
रावणः -उच्चैर्विहस्य सोल्लुण्ठम् ।
घुणव्रणनभङ्गुरं पशुपतेः पुराणं धनु-
र्निरीक्ष्य भुजमण्डलीबलमदाद्विकीर्णंमया ।
स एष न तितिक्षते समरसीम्निसीरध्वजः
समं हसत हे मुखान्यसमेतदुद्धट्टनम् ॥ ५५ ॥
जनकः -पुलस्त्यपुत्र संवृणु शस्त्रं एषते परममाहेश्वरः सीरध्वजो न क्षमते ।
रावणः -अहो सीतास्त्रेहो मामार्द्रयति यदहमपि दशकण्ठईदृशानां वचसां सोढा । ससंरम्भम्।
यज्वाजरापरिणतः श्वशुरो अविष्यन्
ब्रह्मैकतानहृदयो गुणवांस्तथेति।
क्षान्तेर्निमित्तमिदमत्र ममैकमेकं
हे पाणयः किमिति वाञ्छथ चन्द्रहासम् ॥ ५६ ॥
जनकः -रावण इतो अव एष प्रहण्यसे। नेपथ्ये ।
जनक विरम रोषात् त्वं हि संन्यस्तशस्त्रः
कथमयमुपरागस्त्वद्गुरुर्याज्ञवल्क्यः।
परिणतिपरिहीणक्षुद्रराजन्यजन्यं
तदिह शरनिवेशं संवृणु वीडिताः स्मः ॥ ५७ ॥
जनकः- बालर्थेशुनःशेपयदात्छ इदमपास्तं शस्त्रम् । तथाकृत्वा तज्जगतामपराक्षसत्वायेदं शापोदकमुत्सृजामीति कमण्डलुमादत्ते ।
**शतानन्दः -**भगवतो वैकर्त्तनादागतस्य निरवधिसीम्नो ब्रह्मतत्वोपलम्भस्य तपोराशेश्च किमयं व्ययः क्रियत इति शापोदकमुपसंहरेति ।
**जनकः -**भगवन् । विश्वामित्रधर्मपुत्र कुलगुरो गौतम ।
कृते राक्षसराजेन पिनाकस्य पराभवे ।
जानन्ति युक्तं गुरवो भवद्भिः परवानहम् ॥ ५८ ॥
**रावणः -**मिथिलेश्वर किमिति संरम्भसे । ननु रभसनिर्जितैरावणोरावणः खल्वहम् ।
मयि कण्ठपरिच्छेदपरितोषितशङ्करे
कुण्ठीभवन्ति सर्वेषामस्त्राणिच तपांसि च ॥ ५८॥
त्वं किल संबन्धज्येष्टो ब्रह्मविद्यावरिष्ठ इति च मया क्षम्यते ।
सख्यौ -अपवार्य हदास दे वअणं जणअकुलदेवदाओ पडिहणन्तु24।
शतानन्दः -निशाचरचक्रवर्त्तिन् मा वृथा विकत्थस्व । वक्रीकृतचण्डीशचापदण्डस्य शोभत एष व्याहारो न पुनस्तव ।
**रावणः -**सक्रोधम् । किंकिमाह भवान् । निशाचर चक्रवर्तिन् मा वृथा विकत्थस्वेत्यादि पूर्वोक्तमनुवदति । विचिन्त्य तत्किमत्र साम्प्रतम् ॥
परिषदियमृषीणामेष वृद्धो नरेन्द्रः
कथमथ तदमुष्मिन् मैथिलीलालसोऽपि ।
निजभुजबलदृप्यद्वीरवर्येसमाजे
हठहरणविनोदं राक्षसेन्द्रः करोतु ॥ ६०॥
ससंरम्भम् । शृणुत भोः शृणुत निशाचरपतेः प्रतिज्ञाम् ।
कुर्वन् मैर्वीनिवेशक्रमजमदटनिस्पष्टटङ्कारटङ्कं
शम्भोः कोदण्डदण्डं बधिरितभुवनं भूर्भुवः स्वस्त्रयेऽपि।
यस्तामेनां वरीता रसयति तदसृक् चन्द्रहासो ममासिः
कण्ठास्थिग्रन्थिशक्तीकरणभवरणत्कारवाचालधारः॥ ६१॥
नेपथ्ये कलकलः।
रावणः -भोः प्रहस्त किमयमकाण्डचण्डो विस्तीर्णजलधरध्वानतानवकृदेष निर्घोषः।
**प्रहस्तकः -**देवदेवमनुपततामस्मद्बलानामेष निर्भरभरितभुवनाभोगतलः कलकलः।
नेपथ्ये वैतालिकः। जयजय त्रिजगत्पते पौलस्त्य सुष्वापमाध्यंदिनी संध्याभवतु देवस्य संप्रति हि।
शीतं श्रीखण्डकाण्डं निबिडयति फणीभोगनालेन लीन-
श्छायावृक्षस्य मूले रचयति चमरी रम्यरोमन्थलीलाम् ।
सेष्योन्तर्मानुषीयं वितरति कमितुर्घर्मितस्याङ्कपालीं
लीलाकस्तुरकैणी सरति विचरितुं सारणिग्रन्थिपर्णम् ॥ ६२ ॥
**रावणः -**तद्वयमपि निसर्गरमणीयेषु मिथिलापुरीपरीसराक्रीडेषु क्रीडाभिर्द्वित्राणि दिनान्यात्मानं विनोदयामस्तदादिश्यन्तां सेनापतयः।
ताम्बूलीनद्धमुग्धक्रमुकतरुतलप्रस्तरेसानुगाभिः
पायं पायं कलावीकृतकदलदलं नारिकेलीफलाम्भः॥
सेव्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि
र्दा25त्यूह25व्यूहकेलीकलितकुहकुहारावकान्ता वनान्ताः॥ ६३ ॥
इति निष्क्रान्ताः सर्वे ।
॥ प्रतिज्ञापौलस्त्यो नाम प्रथमोऽङ्कः ॥
॥ अथ द्वितोयोऽङ्कः ॥
<MISSING_FIG href="../../../books_images/U-IMG-1691407613emage10.png"/>
अतः परं परशुरामरावणीयो भविष्यति।
ततः प्रविशति भृङ्गिरिटिः।
भृङ्गिरिटिः - सपरिक्रममात्मानं निर्वर्ण्य । अये विकृतरूपतापि क्वचिन्महतेऽभ्युदयाय यतः।
स्नायुप्रायनिबद्धकीकसतनुं नृत्यन्तमालोक्य मां
चामुण्डाकरतालकुट्टितलयं वृत्तेविवाहोत्सवे ।
ह्रीमुद्रामपनुह्य यद्विहसितं देव्या समं शम्भुना
तेनाद्यापि मयि प्रभुः स जगतामास्ते प्रसादोन्मुखः *॥ १ ॥
पुनर्निरूप्य सोपहासम् । अहो त्रिभुवनाधिपतेरनुचरस्य महार्हवेषता ।
कौपीनाच्छादनं वल्कमक्षसूत्रं26जटासटाः।
रुद्राङ्कुशस्त्रिपुंड्रंच वेषो भृङ्गरिटेरयम् ॥ २ ॥
विचिन्त्य भृङ्गिरिटिस्वामिनो वा कीदृशो वेषविशेषः।
दिगम्बरो वहति भुजङ्गभूषणं
कपालवान् कलयति दाम कौणपम् ।
वृषप्रियो रचयति भस्मगुण्ठना-
मुमापतेश्चरितमचिन्त्यकारणम् ॥ ३ ॥
यद्वा यस्य लैङ्गोद्भवं भैरवीयं तौम्बुरवमौमापतमार्द्धनारीश्वरमैन्दुशेखरमन्तकान्तकरं कालकूटीयं जम्भारिभुजस्तम्भनं दक्षमखोन्माथि मात्मथंत्रैपुरमन्धकासुरीयमित्यपरमप्यपरिमेयं चित्रं चरित्रजातमाचक्षते । तस्य भगवतश्चेष्टापरीक्षायां कौनाम परमेष्टिवैकुण्ठावपि । किं पुनर्भृङ्गिरिटिः। तथाहि ।
—————————————————————————————————
* स्नायुप्रायणि स्नायुप्रचुराणि निबद्धानि कीकसान्यस्थीनि यस्यामेतादृशी तनुर्यस्य । एतेन भङ्गरिटेर्विकृतरूपता सूचिता । अतो विवाहोत्सवे प्रवृत्तेशम्भुना सह भगवती देवी लज्जामुद्रां विहाय विकृतरूपिणं नृत्यन्तं भङ्गिरिटिंदृष्ट्वा यज्जहास तेन भगवान् शिवो न केवलं तदानीमेव तस्मिन् तुष्टः किन्तु सोऽद्यापि तस्मिन् तुष्ट एव । महात्मानो हि येन केनापि कारणेन यस्मिन्नेकवारं संतुष्टास्तस्मिन् सर्वदा प्रसादोन्मुखास्तिष्ठन्तीति भावः।
—————————————————————————————————
नग्नस्तिष्ठति तं नमन्ति विबुधाः संवीतदिव्यांशुकाः
प्रीतो याति वृषेण वारणगतस्तं वासवः सेवते ।
भूषा तस्य नृणां कपालशकलाः स्तोता धनेशः स्वयं
दोर्गत्यस्य परं पदं स भगवान् शम्भुर्विभुत्वस्य च ॥ ४ ॥
तत्किमनेन यथादिष्टमनुतिष्ठामि । परिक्रम्यावलोक्यं च।अये नारदः। कलहकुतूहली खल्वेष मुनिः यद्वा।
लिङ्गोद्भवव्यतिकरे स्वमहत्वहेतो-
र्नारायणद्रुहिणयोरुदभूद्विवादः।
यस्मादयं कलिमुखोमुनिराविरासीत्
तन्मा कथं नु भवतु प्रियसंप्रहारः* ॥ ५ ॥
विचिन्त्य। भवत्वस्मादेव तर्हि तयोरुदन्तमुपलप्स्य इति परिक्रामति । ततः प्रविशति यथा निर्दिष्टो नारदः।
नारदः- विचिन्त्य सत्यं सत्यमिदं गीयते दुस्त्यजा प्रकृतिरिति । यतः।
युयुधे युद्ध्यते को वा योत्स्यते वा मदोद्धतः।
इति मे व्यग्रमनसः कालोऽभ्येति च याति च ॥ ६ ॥
अपि च ।
स्रस्तान्त्रतन्त्रतुरगाणि कृपाणघात-
घूर्णत्करीण्यनणुपूतनफूत्कृतानि।
—————————————————————————————————————————
यस्मादयं कलिमुखोमुनिराविर्भूतस्तस्मात् कथं नु प्रियसंप्रहारः प्रियविनाशो मम
……….
भवत्विति भावः।
धावत्कदम्बकटुताण्डवडामराणि
द्रष्टुं रणान्यहरहस्त्रिजगद्भ्रमामि * ॥ ७ ॥
विमृश्य यो यत्रानुरक्तः स तदन्यतिरस्कारेण तदेव बहु मन्यते । तथाहि ।
तन्मम ब्रह्म परमं तत्तपः सा क्रतुक्रिया ।
स स्वाध्यायः स च जपोयद्वीक्ष्येयुद्धमुद्धतम् ॥ ८ ॥
येन केन चिद्व्यसनिनो जनस्य तदसन्निधाने तत्प्रतिनिधिरपि विनोदाय । तथाचाहम् ।
अलाभे वीरयुद्धस्य नखवादनसंभृतम्।
सापत्न्यककलिं स्त्रीणां पश्यामि च शृणोमि च ॥९॥
किंच।
लावकतित्तिरिकुक्कुटमेषैर्महिषैश्च या रणक्रीडाः।
द्रुहिणाच्युतकलियोनेस्ताः प्रीत्यै नारदस्य मुनेः ॥ १० ॥
अपि च।
वीराणां शस्त्रसंस्फ़ोटे करिणां दन्तघट्टने।
व्याघ्राणां नखनिर्भेदे नारदः परितुष्यति ॥ ११॥
आत्मानं निर्दिशन् । अपिच ।
______________________________________________________________
* स्रस्तानि गलितान्यन्त्रतन्त्राणि प्रधानान्त्राणि येषामेवंविधास्तुरगा येषु। कृपाणघातैर्घूर्णन्तो मूर्च्छापरवन्तः करिणो येषु। अनणून्युत्कटानि पूतनानां रणरुधिरपानोत्सुकदेवयोनिविशेषाणां फूत्कतानि येषु। धावन्ति यानि कदम्बानि योद्धृसमूहास्तेषां कटुना त्रासजनकेन ताण्डवेन डामराणि भयानकान्येवंविधानि रणानि द्रष्टुमहं नित्यं त्रिलोकीं पर्यटामि । एतेन सततमतिघोररणाभिकाङ्क्षी भगवान् नारद इति मन्यते।
यन्नारीतनुरच्युतः स भगवान् कन्दर्पदर्पापहो
यच्चाभूद्गिरिशः पतिश्च मरुतां यत्फेनपुञ्जायुधः।
सौम्यं यच्च विमुच्य रूपमभवच्चण्डी हिमाद्रेःसुता
तत्सर्वं मम नारदस्य ललितं युद्धैकलीलारुचेः *॥ १२ ॥
संप्रत्येवोपस्थितामिव मनोरथसिद्धिं पश्यामि यदावेदितमेतस्य27त्रयीविद्याशिष्येण माठरेण यथा याचितपरशुं दशग्रीवमाधूतधूर्जटिधनुषं चाभियोक्तुं मिथिलापुरीं प्रस्थितो राम इति । विचिन्त्य तदहमपि तत्र गत्वा तयो28रमर्षवृद्धिविधिना मनोरथानामप्यपथं समरसंभारमालोकयामि। इति परिक्रामति।
**भृङ्गिरिटिः -**वेगात्कतिचित्पदानि गत्वा स्वागतं देवर्षेर्नारदस्य।
**नारदः -**कथं महादेवानुचरो भृङ्गिरिटिः। उपसृत्य स्वस्ति भृङ्गिरिटये । क्व पुनः प्रस्थीयते ।
**भृङ्गिरिटिः -**यत्र वीरवर्गवरिष्ठौ जामदग्न्यदशकंण्ठौ ।
**नारदः -**प्रमथप्रथम साधु स्मारितोऽस्मि। तत्कथयकः पुनर्जामदग्न्यदशग्नीवयोर्वीरव्रतवर्यासु प्रकृष्यते।
**भृङ्गिरिटिः -**देवर्षे महदन्तरं रामरावणयोर्वीरव्रतचर्यां प्रति पश्य।
त्रिःसप्तावधि बाधिता क्षितिभुजामाजन्मवैखानसः
कर्तामातृवधैनसः स सकलश्रुत्यर्थवीथीगुरुः।
विश्वस्याश्च भुवः क्रतौवितरिता श्यामाकमुष्टिंपचो
रामः सोमसुदप्रमेयमहिमा कासां गिरां गोचरः॥ १३ ॥
—————————————————————————————————————————
* एतास्तिस्रकथाः श्रीमद्भागवतादौप्रसिद्धाः।
—————————————————————————————————————————
नारदः - चन्द्रशेखरसखे न रावणोऽपि वीरव्रतचर्यां प्रति केनाप्यतिसंधीयते । यतः।
आसीदस्ति भविष्यति क्वचिदपि त्रैलोक्यमालोक्यतां
यद्येतस्य दशाननस्य सदृशो दिव्या हि युष्मद्दृशः।
तुल्यं कृत्स्रशिरश्छिदः कृतनुतेः स्तोकत्रिलोकीप्रदो
यस्मात्सोऽपि वरप्रदानसमये देवः शिवो लज्जितः *॥ १४॥
भृङ्गिरिटिः - देवर्षे नारद यथा समर्थयसे । तथाहि ।
एकः कैलासमद्रिं करगतमकरोच्चिच्छिदे क्रौञ्चमन्यो
लङ्कामेकः कुबेरादहृत वसतये कोङ्कणानब्धितोऽन्यः।
एकः शक्रस्य जेता समिति भगवतः कार्तिकेयस्य चान्य-
स्तत् कामं कर्मसाम्यात्किमपरमनयोर्मध्यगावीरलक्ष्मीः ॥ १५॥
नारदः - सहर्षं हस्तमुद्यम्य ।
चित्रं नेत्ररसायनं त्रिदशतासिद्धेर्महामङ्गलं
मोक्षद्वारमपावृतं मम मनःप्रह्लादना भेषजम्।
साकं नाकपुरन्ध्रिभिर्नवपतिप्राप्युत्सुकाभिः सुराः
सर्वे पश्यत रामरावणरणं वक्त्येष वो नारदः ॥ १६॥
भृङ्गिरिटिः -युद्धैकरुचे मा निर्भरं संरम्भस्व त्वन्मनोरथपरिपन्थी हि देवादेशः। यदेषोऽस्मि स्वचापतिरस्कारमप्यविगणय्य ऋचीकपुलस्त्यसहितस्तयोरन्योन्यमन्युग्रन्थिश्लथीकरणाय प्रेषितः।
—————————————————————————————————————————
* एककालावच्छेदेन सकलमस्तकच्छेदकृत् स्तोता चायं दशग्रीव इति कथमहमभीष्टवरदोऽपि तुच्छां त्रिलोकीं दास्यामीति वरप्रदानसमये भगवान्शिवोऽपि ललज्जे । एवंविधोदशग्रीवोऽपि कासां गिरां गोचरो न कामामित्यर्थः ॥
**नारदः -**सविषादमात्मगतम् । धिक्कष्टमुत्थितरश्च कौतुकद्रुमाङ्कुरोझटिति त्रुटितश्च तदन्तरितं तावदिदं रामरावणीयं युद्धमयोध्यां गत्वा परं रामरावणीयं योजयिष्यामि संप्रत्येवोभयरामीयं वा । प्रकाशम् । भूर्भुवःस्वस्त्रितयवासिभिरप्यनुल्लङ्घनीयो देवादेशः। तदहं ब्रह्मणः सदनं प्रति तावद्यास्यामि ।
**भृङ्गिरिटिः -**अहमपि प्रस्तुतकार्यसिद्धयइति निष्क्रान्तौ।
शुद्ध विष्कम्भकः *।
ततः प्रविशति रावणः प्रतीहारी च।
**रावणः -**सीतामनुसंधाय।
तद्वक्त्रंयदि मुद्रिता शशिकथा तच्चेत्स्मितं का सुधा
सा दृष्टिर्यदि हारितं कुवलयैस्ताश्चेद्गिरो धिङ्मधु।
सा चेत्कान्तिरतन्त्र+मेवकनकं किं वा बहु ब्रूमहे
यत्सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः ॥ १७ ॥
प्रतीहारी -स्वगतम् । कहंअज्जवि सच्चेअ चित्तभित्ती तंचेअचित्तअम्म ता गाढमभिणिविठ्ठोदसाणणे कामो ता
—————————————————————————————————————————
* भूतभविष्यत्कालिककथांशानां निदर्शकः संक्षिप्तार्थोयोऽङ्कस्य प्रारम्भे रचनाविशेषः स विष्कम्भक इत्युच्यते। स च द्विधा शुद्धः संकीर्णश्च तत्र मध्यमेन मध्यमाभ्यां वा पात्राभ्यां यः प्रयोजितः स शुद्धो यो हि नीचमध्यमपात्रकल्पितः स संकीर्णः। तथा च साहित्यदर्पणे।
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः।
संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥
मध्येन मध्यमाभ्यां वा पात्राभ्यां संप्रयोजितः।
शुद्धः स्यात् स तु संकीर्णो नीचमध्यमकल्पितः ॥
—————————————————————————————————————————
+ अतन्त्रमप्रधानं तुच्छमित्यर्थः।
—————————————————————————————————————————
मण्णे सदमण्णुपक्लवादोएत्थवित्यरइ। आकाशे। हहो विसमबाण जुत्तमिणं सरिसमिणं जं दाणिं एदहमेत्तेवि दसाणणपसादे ईदिसो दे पुरन्दरपक्लवादो जेण सअलजणणिन्दणिज्जेण इमिणा उभअवेदयत्तणेणवि ण लज्जीअदि। भोदु कज्जं कज्जन्तरमन्तरेदि ता एव्वं दाव। प्रकाशम्। देव माआमओ दुवारुद्देसे चिठ्ठदि*।
रावणः -अनाकर्ण्य भोभो मदन अति हि नाम दुर्ललितोऽसि यन्मय्यपि प्रहरसि यद्वा।
अपि प्रहर्त्तामम वल्लभोऽसि
मृगाङ्कबन्धो निखिलामरेषु।
यैर्व्यापृतस्त्वं मयि रावणेऽपि
तैरेव बाणैर्यदि तां प्रति स्याः॥ १८ ॥
प्रतीहारी -पूर्वोक्तमभिधत्ते।
रावणः -हन्तहन्त नैकप्रकारी मदनव्यापारः। यतो मम वैदेहीदर्शनतः प्रभृति ।
न्यञ्चत्कुञ्चितमुन्मुखं हसितवत्साकूतमकिकरं ।
व्यावृत्तं प्रसरत्प्रसादि मुकुलं सत्प्रेम कंप्रं स्थिरम्॥
—————————————————————————————————————————
*
कथमद्यापि सैव चित्रभित्तिस्तदेव चित्रकर्म तद्गाढमभिनिविष्टो दशानने कामस्तन्मन्ये शतमन्युपक्षपातोऽत्र विस्तार्यते । हंहो विषमबाण युक्तमिदं सदृशमिदं यदिदानीमेतावन्मात्रेऽपि दशाननप्रसादे ईदृशस्ते पुरन्दरपक्षपातो येन सकलजननिन्दनीयेनानेनोभयवेदनत्वेनापि न लज्ज्यते । भवतु कार्यं कार्यान्तरमन्तरयति तदेवं तावत् देव मायामयो द्वारोदेशे तिष्ठति ।
—————————————————————————————————————————
उद्भु भ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरङ्गाकुले
चक्षुः साश्रु च वर्त्तते रसवशादकैकमन्यक्रियम्* ॥ १९॥
**प्रतीहारी -**स्वगतम् । सव्वधा मदोरीमन्दी किदसिणोहगण्ठिणोसे सौदामआउल्लावा । विचिन्त्य। ता भोदु णिसःगदूसहेण से परसुरामणामग्गहणेण सिढिलेमि सदावेसं। प्रकाशम् । णं विण्णवेमि परसुरामपासपडिणि अत्तो + इत्यर्धोक्ते।
**रावणः -**मायामयस्तच्छीध्रं प्रविशतु ।
प्रविश्य मायामयः। देव मायामय इतो दृष्टिदानेनानुयाह्यः।
**रावणः -**अथ याचितपरशुना परशुरामेण किमभिहितमासीत्।
**मायामयः -**त्रैलोक्यमाणिक्य रामोदन्तमाकरणयतु स्वामी।
पौलस्त्यः प्रणयेन याचत इति श्रुत्वा मनो मोदते
देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति।
तद्वाच्यः स दशाननो मम गिरा दत्ता द्विजेभ्यो मही
तुभ्यं ब्रूहि रसातलत्रिदिवयोर्निर्जित्य किं दीयताम्॥ २० ॥
**रावणः -**कदा नु खलु परशुरामो रसातलत्रिदिवये र्जेता दाता च संवृतः। रावणः पुनः प्रतिग्रहीता । ततस्त्वया किमसौ प्रत्युक्तः।
**मायामयः -**नक्तंचरचक्रवर्तिन्इदमिदं निवेद्यते ।
—————————————————————————————————————————
* मदनव्यापारेण रावणस्याक्षिविंशत्या एकैकमक्षि न्यञ्चत् कुञ्चटित्यादिविविधप्रकारकममूदित्यर्थः।
+ सर्वथा मन्दोदरीमन्दीकृतस्रेहग्रन्थेरस्य सीतामया उल्लापास्तद्भवतु निसर्गदुःसहेनास्य परशुरामनामग्रहणेन शिथिलयामि सीतावेशम् । ननु विज्ञापयामि परशुरामपार्श्वप्रतिनिवृत्तः।
—————————————————————————————————————————
देवो यद्यपि ते गुरुः स भगवान् खण्डेन्दुचूडामणिः
क्षोणीमण्डलमेकविंशतिमिदं वारान् जितं यद्यपि ।
द्रष्टव्योऽस्यमुमेव भार्गववटो कण्ठे कुठारं वहन्
पौलस्त्यस्य पुरस्तथापि रचितप्रत्यय सेवाञ्जलिः ॥ २१ ॥
**रावणः -**सप्रसादम् । कथमीदृशमनीदृशोऽभिदधीत ततस्ततः।
**मायामयः -**तूष्णींतिष्ठति ।
**रावणः -**पराभिहितं हि भाषसे तन्निर्विशङ्कं निवेदय ।
**मायामयः -**देव प्रकृतिमुखरा हि ब्राह्मणजातिर्देवादेश इति निवेद्यते ।
परशुमिममदेयं याचते युद्धहेतो-
र्गिरिशधनुरधिज्यं कर्त्तुमुत्कण्ठते च ।
तदिदमभिदधीथास्तं प्रवाचं पिशाचं
तव भुजतरूखण्डं मत्कुठारो न सोढा ॥ २२ ॥
**रावणः -**सक्रोधहासम् । सूक्तं भद्रेण प्रकृतिमुखरा ब्राह्मणजातिरिति तदनुभविष्यति क्षुद्रक्षत्रियविजयदुःशिक्षितो मुनिखेट29श्चापलस्य फलम् ।
**मायामयः -**अस्तमितान्यविक्रमगतीनि जगन्ति त्रीण्यपि मन्वानो नितरां दृप्यति ब्रह्मवीरः।
**रावणः -**कतरदधिष्ठानमध्यास्ते स ते ब्रह्मवीरः।
**मायामयः -**स्वगतम् । सकोपग्रन्थिरिवास्मत्स्वामी भवतु न प्राणनिर्याणेऽप्यनुचितवाचो भवन्ति भृत्याः प्रकाशम् ।
निःशेषं काश्यपाय क्रतुविधिगुरवे दक्षिणीकृत्य पृथ्वीं
काण्डैर्ज्योतिः शिखण्डैर्मधुरिपुशयने व्यस्तवान् वारि येभ्यः।
तानेलानालिकेरीक्रमुकफणिलताराजरम्भावनान्ता-
नम्मोधेर्गर्भभागानधिवसति मुनिर्भार्गवो भर्गशिष्यः ॥ २३॥
**रावणः -**तर्हि मिथिलातः सिंहलानुत्तरेण लङ्कां साधयतः सविधीभविता ।
**मायामयः -**देव प्रकृत्तिरोषणोरेणुकापुत्रस्तमागतमुत्प्रेक्षे ।
**रावणः -**तत्प्रियंप्रियं नः। नेपथ्ये ।
स एष भृगुपुङ्गवो गिरिशबालशिष्यो मुनिः
परश्वधशिखाशुशुक्षणिहुताखिलक्षत्रियः।
उपैति धृतमत्सरो गुरुशरासनन्यक्कृतेः
क्व नाम दशकन्धरोवस्तु चन्द्रहासं करे॥ ५४॥
**रावणः -**अनाकर्णनमभिनीय । अपि न नर्मगर्भमभिधत्से ।
**मायामयः -**सत्यमेतत् ।
**रावणः -**स विनोदयिता मे कन्दर्पकण्डूलभुजदण्डमण्डलम्। नेपथ्ये पुनस्तदेव।
**मायामयः -**ननु प्राप्त एवायमसावितः समहस्तास्फाल्यमानमार्जनामज्जुमुरज-निनदनिष्पन्दसुन्दरेण रवेण निवेदितनिजागमनो जामदग्न्यः।
ततः प्रविशति करेण शरमान्दोलयन्धृतधनुर्जामदग्न्यो माठरश्च ।
**माठरः -**स्वगतम् ।
अयमेव महाभागो भृग्वपत्यं यदस्य हि ।
यदेव ब्रह्म परमं स एव गिरिशो गुरुः॥ २५॥
किंचं अनाकलितसत्वसारसंभारभीषणरमणीयाकृतयो हि महात्मानः। तथाहि ।
वैखानसो मुनिवृषा प्रवरश्चवीर-
श्चित्रं चरित्रमिदमस्य मुदे भिये च ।
क्षीराम्बुधेरिव पयः सभुजङ्गराजं
मार्तण्डरूपमित्र धर्मपरिप्लुतं च ॥ २६ ॥
विचिन्त्य । भवत्वेवं तावत् । प्रकाशम् । भगवन् भार्गव किमिदमपाकृतच्यवनादिवचः शृङ्खलाविसंष्ठुलमपक्रममुपक्रांतम् ।
**जामदग्न्यः -**सस्मरणमनाकर्ण्य। अहो मयि महान् खलु महेश्वरवल्लभायाः प्रसादः। कुतः।
गोदानमङ्गलविधेरनु रेणुका यान्
केशानवर्द्धयत तातनिवारिताऽपि ।
वेणीकृता मम जटापटलस्य हेतो-
स्ते कुन्तलाः स्वयमपास्य भवं भवान्या ॥ २७ ॥
**माठरः -**भगवन् भार्गवेत्यादि तदेवाभिधत्ते ।
जामदग्न्यः -महाब्राह्मण किमुच्यते यदनभिज्ञोऽसि वीरव्रतचर्याक्रमस्य न च विन्दानस्य योगमार्गमसुप्रतिपदः परब्रह्मानन्दः। पश्यतु भवान् ।
सेष्येपश्यति षण्मुखे भगवती कोदण्डशिक्षाश्लथं
धम्मिल्लं विरचय्य चुम्बितवती यं वत्सला मूर्द्धनि
सोढा सोऽपि हि भार्गवो गुरुधनुर्निर्भर्त्सनं रावणा-
दित्याकर्ण्य गणैर्वृतः स्मितमुखैरीशोऽपि लज्जिष्यते॥ २८ ॥
**माठरः -**शिष्यस्नेह एव मां मुखरयति । तदाचार्याःप्रमाणम् ।
**जामदग्न्यः -**स एष भृगुपुङ्गव इत्यादि पठति ।
**रावणः -**साधु भोः साधु सत्यमिन्दुशेखर शिष्योऽसि ।
वीरप्रसूर्जगति भार्गव रेणुकेव
या त्वां त्रिलोकतिलकं सुतमभ्यसूत ।
शक्रेभकुम्भतटखण्डनचण्डधारो
येनैष मे न गणितो युधि चन्द्रहासः॥ २८ ॥
**जामदग्न्यः -**पुलस्त्यापत्य अयमस्माकमाकस्मिकवीरव्रतदायी विफलीकृतकृतान्तक्रोधहासः स ते चन्द्रहासः। येन शिपिविष्टपरितुष्टये स्वकण्ठकाण्डमण्डलींद्विधा कृतवानसि ।
**रावणः -**आं जामदग्न्य स एवैष निसर्गकरालः करवालः येन सा मम भूर्भुवःस्वस्त्रयी पादपीठे लोठिता ।
**जामदग्न्यः -**लङ्केश्वर ईदृश एवायं चन्द्रहासः।
दृष्टे मुखानामेतस्मिन्कण्ठखण्डनशङ्कया ।
स्वेषां च न परेषां च जायन्ते कम्पसंपदः ॥ ३०॥
**रावणः -**भार्गवभार्गव मामैवं किं करवाम यदतिक्रान्ते वस्तुनि साक्षिप्रत्ययपरतन्त्रा व्यवहाराः। ततश्च ।
आस्कन्धावधि कण्ठकाण्डविपिने द्राक्चन्द्रहासासिना
छेत्तुं प्रक्रमिते मयैव टसितित्रुद्यच्छिरासंततौ ।
अस्मेरं गलिताश्रु गद्गदपदं भुग्नभ्रु वा यद्यभू-
द्वक्त्रेष्वेकमपि स्वयं स भगवांस्तन्मे प्रमाणं शिवः ॥ ३१ ॥
**जामदग्न्यः -**आत्मवधः प्रथमः पातकेषु । अनेनापि विकत्थस इत्यहोते श्रुतिषु वैचक्षण्यं यदित्थमध्यगीष्महि ।
असुर्या इति ते लोका अन्धेन तमसा वृताः।
तांस्ते मृत्वाभिगच्छन्ति ये के चात्महनो जनाः ॥ ३२ ॥
**रावणः -**आः क्षत्रियापुत्र ब्राह्मण इव मीमांसमानस्त्रिवेदींविप्लावयसि । तदेष ते राजा रावणो दण्डधरः।
**जामदग्न्यः -**विहस्य अहो वर्णाश्रमेषु वैशारद्यंराज्ञः ! तदिदमध्याप्यसे ।
सकलस्यास्य लोकस्य जातिर्भवति मातृतः।
ऋषीणां तु श्रुतिदृशां पितृतो धर्मनिर्णयः ॥ ३३॥
**रावणः -**यदात्थएवमपि भवतु ।
**जामदग्न्यः -**किं पुनरैरस्मदेमहसि न दारवीयं ज्योतिरस्तमयते । अतश्च ।
यः पाणिप्रणयात्पवित्रिततनुर्देवेन खट्वाङ्गिना
यः शस्त्रैकगुरुर्गजासुरवधूवैधव्यमुद्राप्रदः।
तत्रास्मिन् परशौशिताग्रहुतभुग्ज्वालाच्छटाडामरे
श्लिष्यन्तः सहसा व्रजन्ति विलयं ते चन्द्रहासादयः॥ ३४॥
**रावणः -**विहस्य । अयमसौ चन्द्रहासस्य विलापयिता कुठारो यः खण्डैकभाग इत्यमाङ्गलिकत्वाद्भगवता भर्गेण भवते दत्तः। तत्तपस्यतस्ते महदुपकरणमासीत्समित्काण्डखण्डनाय ।
जामदग्न्यः - आंरावण स एवायं भगवतो भवानीवल्लभस्य प्रसादचिन्तकः परशुर्महदुपकरणं च मे तपस्यतः समित्काण्डखण्डनायक्रुद्ध्यतस्तु प्रचण्डदुर्वृत्तदण्डनाय ।
**रावणः -**जामदग्न्येदृश एवायं खण्डपरशुपाणौपरशुरासीत् । आधारनिबन्धनो यदाधेयस्य गुणाध्यारोपः। मुक्ताशुक्तिसंपुटपीतं हि पश्य पाथो ग्रन्थीभवति।
**जामदग्न्यः -**निशाचरचक्रवर्त्तिन् न सार्वत्रिकमिदं सलिलगर्भगतोऽपि गभस्तिमाली दुरालोक एव । जामदग्न्यपाणिप्रणयवानपि हरपरश्वधो दुर्निषेध एव ।
**रावणः -**ओमिति ब्रूमः। यदि न दुर्निषेधः कथमिव रेणुकाशिरश्च्छेदेऽपि स्वच्छन्दः। अपि च रे ब्रह्मबन्धो ।
देवीविलासमुकुरः परशुर्य आसीत्
स्तम्बेरमासुरशिरोमणिशातधारः।
तं रेणुकारुधिरपङ्ककृताङ्कमेनं
द्रष्टुर्न कस्य हृदयं करुणा रुणद्धि॥ ३५ ॥
विचिन्त्य। हंहो नीललोहितशिष्य नूतनः खल्वेष क्षत्रियधर्मोयज्जननीजनेऽपि शौर्यपर्यवसायः। तथाप्याद्रियसे । अहो स्वतन्त्रा लोकयात्रा । यद्वाअसतामपि महापुरुषशुश्रूषा किमपि कामदुधा। यतः।
त्वं जामदग्न्य जननीवधपातकेन
न ब्रह्मवर्चसंवतां सविधेऽभविष्यः।
गीर्वाणवन्द्यचरणस्तव चन्द्रमौलि -
राचार्यकं स भगवान् यदि नाकरिष्यत् ॥ ३६ ॥
तथाप्येतदभिधीयसे ।
चापाचार्यस्त्रिपुरविजयी कार्त्तिकेयो विज्ञेयः
शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः30।
श्रस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां
बद्धस्पर्द्धस्तव परशुना लज्जते चन्द्रहासः॥ ३७ ॥
जामदग्न्यः - कथं नाम न लज्जते यतो निसर्गनिरवग्रहं न जानाति जामदग्न्यम् ।
रेवाम्भोगर्भमज्जद्विविधवरवधूहस्तयन्त्रोज्झिताभिः
क्रीडन् वारां लताभिः स्मरसि यदकरोदर्जुनः कार्तवीर्यः।
तद्दोष्णां यत्तु रामो रणभुवि विदधे वेगवल्गत्कुठारः
प्रायः पौलस्त्य सा ते श्रवणपरिणतिंनो गता किंवदन्ती ॥ ३८॥
**प्रतीहारी -**स्वगतम्। एदं तं रक्खसाणं पिरक्खसो अत्थित्ति।31
**रावणः -**विहस्य मानुषेण रावणपराजय इत्यहोसुभाषितम् । तं प्रति आर्चीकेरपत्य शत्रुरिति योधनीयो भवति न पुनर्मृषादोषैर्योजनीयः। विभाव्य । यद्वा आयुधनिषेध्या रिपवो न सामसाध्याः। हस्तमुद्यम्य भार्गवभार्गव मा निरर्गलं प्रगल्भस्व । न निरस्त्रेषु निशाचरपतिः प्रहरति यदि ते निर्विघ्नो वीरव्रतचरितोत्कर्षः। अतश्च ।
त्रैयम्बकः परशुरेष निसर्गचण्डः
सौपर्णकेतनमिदं धनुरुन्नतं च ।
अस्मिन् द्वये बिभृहि भार्गव हेतिमेकां
येनायमृच्छति करं मम चन्द्रहासः ॥ ३९ ॥
**जामदग्न्यः -**किं नाम रामोऽप्येवमुच्यते । वाडवीयमपि ज्योतिरर्णवार्णः पानार्थमभ्यर्थ्यते । किंच।
कैलासाद्रिविटङ्कतः सह सुरैर्द्रष्टुं प्रवृत्ते हरौ ।
मध्यस्थे शशिशेखरे रणविधौ सूनोश्च शिष्यस्य च।
सार्द्धंयेन विनिर्जितो गणचमूचक्रेण हेरम्बिणा स्कन्दो-
ऽसौ दशकण्ठ कुण्ठरभसास्तस्मिन् मयि त्वादृशाः ॥ ४०॥
**रावणः -**विहस्य । सैषा गुरुप्रदेया गुरुपुत्रे दक्षिणा तदिदमनुष्टितं गुरुवद्गुरुपुत्रे वर्त्तितव्यमिव ।
**जामदग्न्यः -**भवानिव न सर्वश्रुत्यर्थवीथीविदग्धः। यतस्तत्रैव गुरुवद्गुरुपुत्रे प्रवृत्तिः।
वयं पुनरशास्त्रचक्षुषस्तदिदं बूमहे । यथा ।
वन्द्यः पितेव स भवान् नलकूबरस्य
रम्भा स्नुषा धनपतेरिव सा तवापि ।
यत्त्वन्यदत्र हृदयान् नतदेति कण्ठं
दोषस्तथापि यदि तत् स्मृत एष रुद्रः ॥ ४१ ॥
**रावणः -**आधेयविक्रमकर्माणो32येन केन चिदपवदन्ते । किंच ।
हेरम्बडम्बरिणि नन्दिनिनन्दिहेता-
वुद्दामचन्द्रमसि संयति षण्मुखेन ।
मुक्तोऽसि यत् पशुपतिप्रणयानुरोधात्
तेन त्वमेव विजयी विजितः कुमारः ॥ ४२ ॥
**जामदग्न्यः -**किमभेद्यमम्भसां किमदूष्यं दुर्जनवचसां यतो जामदग्न्यवचांस्यपि विचार्यन्ते । पश्य पश्य।
ईशोगुरुर्गिरिसुता जननी किमाभ्यां
शश्वत् स एव समरेषु पराङ्मुखस्य।
अद्यापि काण्डचयखण्डितचन्द्रकाग्रः।
साक्षी शिखण्डनिवहो गुहवाहनस्य ॥ ४३ ॥
**रावणः -**कस्य पुनः प्रत्यक्षपराङ्मुखस्य मतिमतः सतोऽनुमाने बहुमानः। ततश्च तदेवाभिधीयसे त्रैय्यम्बकः परशुरित्यादि पुनः पठति ।
**जामदग्न्यः -**निशाचरचक्रवर्त्तिन् अकुर्वतापि भवता परमुपकृतं यदेष स्मारितोऽस्मि ततश्च ।
येन न्यक्कृतमिन्दुशेखरधनुर्दर्पादनादृत्य मां
स्वर्बन्दीभिरसूयितः स बलवान् पौलस्त्य कस्ते करः।
द्राक्छित्त्वा मणिबन्धनाद्वलयिनं रामः कुठारेण तं
देव्याः कोपविभिन्नमास्यशशिनि स्वं धाम संधास्यति_(*)॥ ४४ ॥
अथवा एकस्मिन्नपराधिनि सर्वेऽपि सहधर्मचारिणोऽपराद्धारः। ततश्च ।
ये हेलोद्धृतचन्द्रचूडगिरयो ये चन्द्रहासार्थिनः
संग्रामे युगपद्भवन्ति सभयं श्लिष्टाश्च ये रम्भया ।
दोर्दण्डास्त इमे क्षुरप्रपतनच्छिन्नोच्चलत्पाणयो
मत्कोपाद्दिवि नालशेषकमलामासूत्रयन्त्वब्जिनीम् ॥ ४५ ॥
रावणः - अथ सनाथः प्रमथनाथो भवता परिग्राहकेण । अथ भगवती भवानी च विमाननानतं शिरः समुन्नेष्यति । विचिन्त्य ।
—————————————————————————————————————————
* रामो देव्या आस्यशशिनि कोपविभिन्नं कोपनिर्गलितं स्वं धाम तेजसंधास्यतीत्यन्वयः। भर्तृशरासनन्यक्काररूपानुचितकर्मकारिणस्तस्य रावणः करस्य छेदनेन देवी हर्षोत्फुल्लवदना भवेदिति भावः।
—————————————————————————————————————————
बन्दीकृतामरपतेर्जितपुष्यकस्य
तस्याट्टहासमुखराणि मुखानि मेऽद्य।
तूणीधनुः परशुवल्कजटाक्षसूत्री
वैखानसो भृगुवटुर्यदयं विपक्षः ॥ १६ ॥
**जामदग्न्यः -**विरोचनस्नुषाजनपरीक्षितविक्रमस्य शोभत एव मादृशेषु वटुरित्यधिक्षेपः। सजुगुप्सम् ।
अपि दशमुख कच्चिद्वृत्तपातालयात्रः
स्मरसि लयविचित्रं वक्रवाद्यं विधाय।
यदसि बलिवधूभिः स्मेरनेत्रोत्पलाभि-
र्निजकरतलरङ्गे नर्तितः कौतुकेन ॥ ४७ ॥
**रावणः -**सर्वमस्ति यतो न भार्गव इव रावणः करुणात्मनि परित्रातव्ये स्त्रीजने पुरुषः।
जामदग्न्यः - भार्गवो न रावण इव पशावप्यपुरुषः। अपि च किंचित्पृच्छामि ।
त्वां संक्रन्दननन्दनः किल कपिः कक्षागुहागह्वरे
कृत्वा प्रत्युदधि व्यधत्त स यदा सन्ध्यासमाधिव्रतम् ।
शङ्के रावण बाहुयन्त्रघटनासंरोधमन्दीकृत-
श्वासश्रेणिविसंष्टुलाननवनो दुःखं तदासीः स्थितः ॥ ४८ ॥
**रावणः -**सक्रोधहासम् । मुग्धबुद्धयो हि यथाश्रुतस्य ग्रहीतारो न पुनर्विवेक्तारः। अतश्च पश्यपश्य।
अर्द्धं नारी पुमानर्द्धमिति संचिन्त्य चेतसा ।
चण्डीशस्यापि कोदण्डे यस्यावज्ञा न संहृता ॥ ४९ ॥
भूर्भुवःस्वस्त्रयोवीरः स एष दशकन्धरः।
का नाम राम तस्यास्था वटौ वा मर्कटेऽपि वा ॥ ५०॥
**जामदग्न्यः -**पुलस्त्यापत्य यद्वा तद्वा भवतु भार्गवस्तादृशानि तु वीररत्नानि न जात्या जुगुप्सते । पश्य।
लोकोत्तरं चरितमर्पयति प्रतिष्ठां
पुंसां कुलं न हि निमित्तमुदात्ततायाः।
वातापितापनमुनेः कलशात् प्रसूति-
र्लीलायितं पुनरमुद्रसमुद्रपानम्॥ ५१॥
**रावणः -**अरे दुर्मुखवटो वैखानसखेट विडम्बितत्र्यम्बकाचार्य स्वहेतिधारातिथीकृतरेणुकामूर्द्धन् मूर्धाभिषिक्तरुधिरजलनिवापाञ्जलिर्तार्पतपितृक क्षत्रियागर्भपातनमहापातकिन् एषप्रदर्श्यते दशाननदोर्दण्डमण्डलीसामर्थ्यसारः। ततश्च ।
लूत्वा बिसलतालावं कण्ठं ते रेणुकारिपोः।
स एष चन्द्रहासासिः प्रायश्चित्तं चरिष्यति॥ ५२॥
यद्वा ।
क्वायं मे चन्द्रहासः प्रहृतिशतलिपिन्यस्तजैत्रप्रशस्तिः
स्वर्मातङ्गस्य कुम्भेक्व च कुहक भवान् ब्राह्मणः शस्त्रवाही ।
वामेभ्योऽस्मत्करेभ्यो बहिरयमिह यस्तत्कनिष्ठाङ्गुलीभूः
प्रारब्धब्रह्मघोषं हरतु नखशिखा त्वच्छिरः कन्धरातः॥ ५३ ॥
**जामदग्न्यः -**अरे रे पुनरुक्ताकार दुराचार निशाचरचरम विरिञ्चिकुलकलङ्क लङ्कोपपते पातकैकरसिक कुबेरवैरिन्नभिलषितरम्भापरीरम्भ दाक्षायणीप्रणामपरिहारिन्नन्वेष ते दृश्यते दोर्दण्डमण्डलीसामर्थ्यसारः।
रावणः - विहस्य स्वसारानुसारेण भार्गवो दशकण्ठमण्याकलयति। नेपथ्यं प्रति पुष्पक इतइतः।
प्रविश्य पुष्पकम् । अयमहम् ।
**रावणः -**एष समारुह्यस इत्यार्द्धारोहणावरोहणनाटितकाभ्याम्। अहह मनाक्किल वीरव्रतसमयमुद्रामतिक्रान्तोऽस्मि।
जामदग्न्यः -
वीरव्रताज् जहिहि रावण चन्द्रशालां
मा पुष्पकस्य मयि पादचरे ऽपि रामे ।
पश्यन्त्विमाः समरमप्सरसोऽद्यतावन्
न्यक्पातिभिर्विहितमूर्ध्वचरैश्च बाणैः ॥ ५४ ॥
**रावणः -**अनभ्यस्तचरस्तवैषसमरारम्भ इति ममानुकम्पा ।
**जामदग्न्यः -**सोल्लुण्ठम्। पशुपतिनाप्यननुकम्प्यमानमनुकम्पस इत्यहो सकरुणा ते धिषणा । किं पुनरिदमुच्यते।
यथाभ्यासं प्रवर्तन्ते त्वादृशामत्र पत्रिणः।
हरान्तेवासिनस्त्वेते सर्वतोदिक्कविक्रमाः ॥ ५५ ॥
रावणः - तद्यदि तवाधुना भगवांस्त्रिनेत्रस्त्राता इत्युभावपि चापारोपणं नाटयतः।
ततः प्रविशतः सशिष्यावृक्षीकपुलस्त्यौभृङ्गिरिटिश्च । शिष्यः पुरो निर्दिशन् । साश्चर्यम्। किं उण इदो एदाओ अखण्डपिण्डिअसिहासंहचण्डीकिअचित्तभाणुणो तक्खणोवणदडाहुत्तरणतारतरजच्चकंचणमअकेउदण्डमण्डलीओ अमन्दसछन्दसंपडिअजडिलजालालिपक्खालणासविसेससमुज्जलन्तअग्गिरासिअअसंठिअधअपडाडम्बरिल्ली- ओ णिबिडह्माप
म्भारपरिगमेवि अमुलायमाणसरसुप्पलाविच्छिरण्णकणअकोअणअपरिअरेण अ विराअमणाओ विमाणपन्तीओ गअणपेरन्ताहिं झत्ति ओसरन्ति * ।
**ऋचीकः -**वत्स दाक्षायण ।
नश्यन्नानाविमानाङ्गणमणिवलभीरत्नवातायनेभ्यो
वक्त्रैराकण्ठदृश्यैर्यदमरललना लोलमालोकयन्ति ।
यच्चेदं व्योम विद्युत्खचितमित्र पुरस्तेन मन्ये किमन्य-
द्वत्साभ्यामाद्रियन्ते शिखिनिचयमुचो देवताः शस्त्रमय्यः ॥ ५६ ॥
**पुलस्त्यः -**सविशेषमालोक्य सखे तत्त्वानुगतस्तेतर्कः।
एकत्रैकतमो परत्र दशधा कीर्णोयदाकर्ण्यते
टङ्कारस्तिरयन् जगन्ति धनुषामेकादशानामयम् ।
रामोऽसौ स च रावणो रणधरां धर्तुं समभ्युद्यता-
वीषद्वालकुशाङ्कुरामरवधूकेशप्रियैः पाणिभिः ॥ ५७ ॥
**शिष्यः -**एकतोऽवलोक्य । सचमत्कारम् । पेक्खेहपेक्खह इदो एदाओ अमन्दसिन्दूरसुन्दरिअकुम्भपब्भारभासुराओ पअण्डमुण्डमण्डलीमण्डिअसुण्डादण्डडम्बरुड्डामराओ पअट्टमअधाराधोरणीणीरन्धणिरुद्धरेणुरमणिअसरणीओ गलगुहाणिउञ्जपुञ्जिअगज्जिअणिज्जिदजलदजालत्थणिदवित्थ-
—————————————————————————————————————————
* किं पुनरित एता अखण्डपिण्डितशिखासङ्घचण्डीकृतचित्रभानवस्तत्क्षणोपनतदाहोत्तरणतारतरजात्यकाञ्चन- मयकेतुदण्डमण्डल्योऽमन्दस्वच्छन्दसंपतितजटिलज्वालालिप्रक्षालनासविशेषसमुज्ज्वलदग्निराशिचयसंस्थितध्वजपटाडम्बरिण्यो निबिडोष्मप्राग्भारपरिगमेय्यम्लायमानसरसोत्यलाविच्छिन्नकनककोकनदपरिकरेण च विराजमाना विमानपङ्क्त्योगगनप्रान्तेभ्यो झटित्यपसरन्ति।
—————————————————————————————————————————
राओ दोग्घद्टघटाओ ओदरन्ति *
**भृङ्गिरिटिः -**भद्र दाक्षायण साधु दृष्टं वारणास्त्रमिदमामन्त्रितं रावणेन यतः।
उत्सर्पद्दर्पहेलागुलुगुलितगलाडिण्डिमोड्डामरिण्यः
सन्नाहन्यासकर्मक्रमरुचिररुचः सादिभिः शोभमानाः।
एतास्तीव्राङ्कुशाग्रप्रगुणितशिरसः श्रेणयो वारणानां
प्रेङ्खद्भिः शीकराम्भस्स्तबकितककुभः केतुभिः संपतन्ति ॥ ५८ ॥
**शिष्यः -**इदोवि एदे उत्तुङ्गलाङ्गूलग्गालिङ्गिअगअणङ्गणुच्छङ्गा घणघोणघुरुघुराघोस- घग्घरिज्जन्तगलगुहाकुहरप्फारफुल्लगल्लविदुरिल्ला विज्जुप्पुञ्जपिञ्जरिददिठ्ठिच्छडाकडक्खदुप्पेच्छा सहसत्ति सीहसंहा ओदरन्ति+ ।
**पुलस्त्यः -**इदमपि द्विरदास्त्रप्रतिद्वंद्वि पञ्चाननास्त्रमामन्त्रितं जामदग्न्येन यतः।
गुञ्जापुञ्जारुणाक्षैर्धुतविकटसटासंकटस्कन्धबन्धै-
र्विभ्रद्भिर्बभ्रु गात्रं खरनखरशिखाश्रेणिनिर्याणरौद्रैः।
एतैः कण्ठप्रणालीप्रणयिघुरुघुराघोरनिर्घोषनिघ्नै-
र्निर्विघ्नं सिंहसंघैरिदमतिरभसात्क्रान्तमेवान्तरिक्षम् ॥ ५९॥
—————————————————————————————————————————
* प्रेक्षध्वं प्रेक्षध्वम् । इत एता अमन्दसिन्दूरसुन्दरितकुम्भप्राग्भारभासुराः प्रचण्डमुण्डमण्डलीमण्डितशुण्डादण्डडम्बरोड्डामराः प्रवृत्तमदधाराधोरणीनीरन्ध्रनिरुद्धरेणुरमणीयसरण्यो गलगुहानिकुञ्जपुञ्जितनिर्जितजलदजालस्तनितविस्तरा दोर्घण्टघटा अवतरन्ति ।
- इतोऽप्येते उत्तुङ्गलाङ्गुलाग्रालिङ्गितगगनाङ्गणोत्सङ्गा घनघोणघुरघुराघोषघर्घरद्गलगुहाकुहरस्फार-फुल्लगल्लव्यतिकरा विद्युत्पुञ्जपिञ्जरितदृष्टिच्छटाकटाक्षदुष्पेक्ष्या सहसैव सिंहसङ्घा अवतरन्ति।
—————————————————————————————————————————
सर्वे - साकूतम् । एतएत एतयोरन्तरेभवामः। शिष्यवर्जमितरे हस्तमुद्यम्य ।
विरम भार्गव संहर सङ्गरं
त्यज धनूंषि दशापि दशानन।
विषहते न परस्पर वैशसं
स भवतोर्भगवान् वृषभध्वजः॥ ६०॥
**रावणः -**सविषादं सोऽयं दिधक्षोर्दावपावकस्य गरिमसारः सीकरासारः। विमृश्य ।
वीरः स भार्गवमुनिः स च राक्षसेन्द्रो
योऽयं द्विधा प्रविततो यशसां प्ररोहः।
कस्मान् न वाञ्छति मथा स तमष्टमूर्ति-
रेकायनं त्रिजगति क्रियमाणमीशः ॥ ६१ ॥
**जामदग्न्यः -**सावज्ञम् ।
न्यक्कारो गुरुकार्मुकस्य कुरुते मां वीरवर्गे पुनः
साक्षाद्भृङ्गिरिटिर्गिरा पशुपतेराज्ञापयत्येष च ।
हा तत्किं करवै किमन्यदथवा याचे महीमन्तरं
येन स्यां सशरासनः सपरशुः कालाग्निरूद्रातिथिः॥ ६२ ॥
इतरे तदेव पठन्ति । रावणः। भार्गवभार्गव देवादेशान्मित्रमसि तदिदमापृच्छ्यसे गमनाय ।
**जामदग्न्यः -**यथात्थमित्रमसि तदेष प्रेष्यसे । इतरे प्रियं नः प्रियं नः
(
नेपथ्ये ।)
भगवन् भार्गव तत्रभवत्या परमे ब्रह्मणि वर्त्तमानया मैत्रेय्या लोकयात्रापरतन्त्रया च कात्यायन्या समं समुपरतकल्को याज्ञवल्क्यस्त्वामाह ।
अतिथिरसि किमन्यद्देवदेवो गुरुस्ते
वयमपि च सदाराः साग्नयोऽस्मिन् वसामः।
तदुपसर गृहान्नस्त्वं भृगोः पुत्रभाण्डं
वटुपरिषदभीष्टाः सन्त्वनध्यायचेष्टाः ॥ ६३ ॥
जामदग्न्यः- यथाह सूर्यशिष्यः।
इति निष्क्रान्ताः सर्वे।
॥रामरावणीयो नाम द्वितीयोऽङ्कः ॥
————————
॥ अथ तृतीयोऽङ्कः ॥
<MISSING_FIG href="../../../books_images/U-IMG-1692194977Screenshot2023-08-16193916.png"/>
अतः परं विलक्षलङ्केश्वरो भविष्यति ।
ततः प्रविशति गृध्रमिथुनम् ॥
पक्षी -प्रिये सुवेगे भगवतो लक्ष्मीपतिलाञ्छनस्य निसर्गनागशवोरमृताहरणविश्रुतविक्रमस्य शकुन्तचक्रवर्तिनो वैनतेयस्यास्मत्कुलप्रथमपुंसः सकलगोत्रधुरन्धरेण भविष्यतापत्येन नूनमन्तवव्यसियत् ते निशाचरमांसास्वादनेन तत्कीलालकवलेनच दोहदविधेरयमुपस्थितः समयः।
सुवेगा -अयि चित्तसिहण्ड तेल्लोकेक्कमल्ले रक्खसरक्खाको पुजन्यकुमारे णन्दमाणे दुल्लहं दोहलअमिमं मण्णे।33
**चित्रशिखण्डः -**भवति यथात्थकिमुच्यते रावणः खल्वसौ पश्य।
साक्षाद्यत्प्रपितामहः कमलभूर्मनः स कोऽप्युन्नतो
न स्त्रीति प्रणनाम यश्च वरदां देवींभवानीमपि।
यच्छौर्योदयसाक्षिणी च सकला सा भूर्भुवःस्वस्त्रयी
तं व्यावर्त्य दशास्यमन्यचरितस्त्रोत्रेण लज्जामहे॥ १ ॥
किंतु।
गतः स कालो यत्रासीन् मुक्तानां जन्म वल्लिषु।
वर्त्तते सांप्रतं तासां हेतवः शुक्तिसंपुटाः॥ २ ॥
यतः श्रुतताडकाताडनोऽपि न निशाचरपतिरद्यापि निजदोर्दण्डचण्डिमोचितमाचरति।
**सुवेगा -**हंहो गरुत्मद्गोत्तालङ्करण कधेसु कीदिसीउण सुन्दसुन्दरीए वहविडम्बणा संवुत्ता।34
**चित्रशिखण्डः -**प्रिये श्रूयताम्। एकदा स भगवान् विश्वस्य मित्रं विश्वामित्रः सप्ततन्तुत्राणाय दाशरथिमयोध्यातः सिद्धाश्रमं सलक्ष्मणं राममानिनाय। वैतानिकं च विततान। तत्र यथोचितसामोद्गारिण्युद्गातरि शस्तमन्त्रसंस्कृताहुतौहोतरि प्रचरणकर्मधुर्येऽध्वर्यौदिव्यां गिरमनुवर्तमाने यजमाने सम्यगवेक्षिताखिलकर्मणि ब्रह्मणि सरभसमनैरम्मदमदाम्भोलमनैन्दवममार्तण्डीयमचैत्रभानवं च ज्योतिरुद्जृम्भत।
**सुवेगा -**अच्चरिअमच्चरित्रम्35।तदोतदो ।
**चित्रशिखण्डः -**ततश्च सपुत्रदारेषु दिगन्तरादागतेषु किमिदमिति कान्दिशीकेषु मुनिषु तत्रोदघोषि जनैः।
रक्ताभ्यक्तोरुसृक्का गुरुकवलवलज्जाङ्गलव्ययतालुः
फेत्कारैः फुल्लगल्लव्यतिकरगुरुभिः कम्पयन्ती जगन्ति।
अन्योन्येनायपाणिप्रणयि शवयुगं ताडका ताडयन्ती
सेयं द्राग्द्दष्टदंष्ट्राङ्कुरकषणरणत्कारभीमाऽभ्युपैति ॥ ३ ॥
सुवेगा -अहह भीसणाणं विभीसणा हदासा। तदोतदो।36
चित्रशिखण्डः - अथ स भगवान् कुशिकनन्दनस्तत्प्रमथनार्थं राममेव नियुयुजे ।
**सुवेगा -**दुक्करमुवक्कन्तं भअवदा कोसिएण। तदोतदो।37
**चित्रशिखण्डः -**ततः संजातस्त्रीवधविचिकित्सामुद्रो रामभद्रः सविनयमिदमाह।
स्त्रीराक्षसी कथमिवात्र पतन्तु बाणाः
प्रेष्यस्य ते कुशिकनन्दन तत्प्रसीद।
आदिश्यतामिह हि कोऽपि तपस्वितन्त्रे
मन्त्राक्षरैः कतिपयैर्य इमामपास्येत् ॥ ४ ॥
**सुवेगा -**अहो उचिदकारित्तणं राहवस्स। तदोतदो।38
**चित्रशिखण्डः -**अथैकजन्मानुभूतक्षत्रब्रह्मभावः स भगवांस्त्रिपताकेन पाणिना चिबुके राममुन्नमय्य निजगाद।
कालरात्रिकरालेयं स्त्रीति किं विचिकित्ससे।
तज्जगत्त्रितयं त्रातुं तात ताडय ताडकाम् ॥ ५ ॥
**सुवेगा -**साकूतम्। तदोतदो।39
**चित्रशिखण्डः -**ततः सहैव मुनिगिरां विरामेण रामकार्मुकतो भुजङ्गभोगभीषणा बाणपद्धतिराविरासीत् । उक्तं च लक्ष्मणेन ।
विध्वस्तहस्तयुगलं ललितान्त्रतन्त्र-
मुन्मुक्तरक्ततति खण्डितकालखण्डम् ।
उत्कृत्तकृत्ति रचितं च शरैः शरीर-
मार्येऽखिलाङ्गपरिताडिनि ताडकायाः ॥ ६ ॥
**सुवेगा -**डिम्भत्तणेवि तरुणराहवोचिदं चरिदं रामभद्दस्स तदोतदो।40
**चित्रशिखण्डः -**ततस्त्रैशङ्कवस्य शोकशङ्कोः शमयिता सुन्दासुरवधूवधचरित्रेण चित्रीयमाणः।
साकं लेभे जम्भकास्त्रैः समन्त्रै-
र्विश्वामित्रस्तुष्यतो यं कृशाश्वात् ।
रामायासौ तं धनुर्वेदमाद्यं
प्रीतः प्रादात् तत्र सौमित्रये च ॥ ७ ॥
**सुवेगा -**अहो से भरदमादामहस्स मुणिणो सुसदिस संजोअगब्भाचरिअविब्भमा। किंच तदो कोसिएण पडिवण्णं ॥41
**चित्रशिखण्डः -**ततश्च शकुन्तलायाः पिता सुकेतुसुतोन्मथनपरीक्षितविक्रमं संक्रान्तकार्मुकोपनिषदं सलक्ष्मणं राम
मादाय शङ्करशरासनारोपणप्रवर्तितसीतास्वयंवरयात्रां मिथिलां पुरीं प्रत्युच्चचाल ।
**सुवेगा -**तदोतदो।39
**चित्रशिखण्डः -**ततस्तेषां ताटकेयौ निजतेजस्तिरस्कृतमार्तण्डमरीचिर्मारीचः सततोद्यतबाहुः सुबाहुश्च जननीवधविरुद्धावध्वानमनुरुन्धाताम् ।
**सुवेगा -**ठाणेक्खु अहिणिविठ्ठा दुठ्ठादुठ्ठरक्खसीसुदा तदो किं संवुत्तं ताणं ।42
**चित्रशिखण्डः -**यत्तयोर्मातुः। तथाहि।
कोदण्डात्तरलमुदञ्चतः शरस्य
द्राग्द्वेधा व्यधित सुधारया सुबाहुम्।
मारीचं सपदि च पुङ्खपत्रवातै-
रम्भोधेः पुलिनचरं चकार रामः। ॥ ८ ॥
**सुवेगा -**सपरितोषम् । रक्खसकुलक्खअकारिक्खुरामअन्दचरिदम् ।43
**चित्रशिखण्डः-**तस्माच्च समरतः सुचिरसंचितेन निशाचराणामसृजा मांसेन च संपादय दोहदम्।
**सुवेगा -**णाह एव्वं तुए उवअरन्तेण णिज्जिदसअलसउन्तसीमन्तिणीसोहग्गा सुवेगा कआ किं पुण किंपि पुच्छीऋदि।44
**चित्रशिखण्डः -**प्रिये समादिश्यताम्।
**सुवेगा -**कीस दशाणणोवि अवमाणणासहणसहावोवट्टदि।45
**चित्रशिखण्डः -**अयि सुपत्रिणि सर्वार्वमानीदशाननः कथमवमाननां सहते । किंतु सीताविरहवैधुर्यमत्रापराद्ध्यति । न विना हिमानीमचण्डोमार्तण्डः।
**सुवेगा -**कीदसा उण सीदाविरहवेदणविणोदा दसाणणस्स।46
**चित्रशिखण्डः -**लङ्कापुरचारिणा त्रिकूटाचलपक्षिराजेन रत्नशिखण्डन भवद्देवरेण निवेदिता एव।
**सुवेगा -**के उण दे।47
**चित्रशिखण्डः -**नन्वेते कथ्यन्ते।
इन्दुः सीतावदनसदृशो जानकीनेत्रहृद्यं
नीलाम्भोजं बिसकिसलया मैथिलीहासभासः।
सम्यक्ताम्पादिति च बहवस्तस्य जाता जगत्यां
लङ्काभर्तुर्जनकतनयाविप्रलम्भे विनोदाः ॥ ८ ॥
विनोदान्तरं पुनरिदमद्य । यत्किल भगवतः पुरन्दरस्यादेशात्तत्रभवता भरताचार्येण सीतास्वयंवरचरितसंबद्धं नूतनं नाटकमुपनिबद्धं सुरसदसि प्रयुक्तं च । तद्दर्शनाय दशाननेन द्रौहिणिर्भणितः। तेनचाप्सरोभिः सह पुत्रशतमपि लङ्कां पुरींप्रति प्रहितमिति ।
मादाय शङ्करशरासनारोपणप्रवर्तितसीतास्वयंवरयात्रां मिथिलां पुरीं प्रत्युच्चचाल ।
**सुवेगा -**तदोतदो।39
**चित्रशिखण्डः -**ततस्तेषां ताटकेयौ निजतेजस्तिरस्कृतमार्तण्डमरीचिर्मारीचः सततोद्यतबाहुः सुबाहुश्च जननीवधविरुद्धावध्वानमनुरुन्धाताम् ।
**सुवेगा -**ठाणेक्खुअहिणिविठ्ठा दुठ्ठा दुठ्ठरक्खसीसुदा तदो किं संवत्तं ताणं।48
**चित्रशिखण्डः -**यत्तयोर्मातुः। तथाहि।
कोदण्डात्तरलमुदञ्चतः शरस्य
द्राग्द्वेधा व्यधित सुधारया सुबाहुम्।
मारीचं सपदि च पुङ्खपत्रवातै-
रम्भोधेः पुलिनचरं चकार रामः। ॥ ८ ॥
**सुवेगा -**सपरितोषम् । रक्खसकुलक्खअकारिक्खुरामअन्दचरिदम्।43
चित्रशिखण्डः-तस्माच्च समरतः सुचिरसंचितेन निशाचराणामसृजा मांसेन च संपादय दोहदम्।
**सुवेगा -**णाह एव्वं तुए उवअरन्तेण णिज्जिदस अंलसउन्तसीमन्तिणीसोहग्गा सुवेगा कआ किं पुण किंपि पुच्छीऋदि।49
***
**चित्रशिखण्डः -**प्रिये समादिश्यताम्।
**सुवेगा -**कीस दशाणणोवि अवमाणणासहणसहावोवट्टदि।45
**चित्रशिखण्डः -**अयि सुपत्रिणि सर्वावमानी दशाननःकथमवमाननां सहते । किंतु सीताविरहवैधुर्यमत्रापराद्यति । न विना हिमानीमचण्डो मार्तण्डः।
**सुवेगा -**कीदसा उण सीदाविरहवेदणविणोदा दसाणणस्स।46
**चित्रशिखण्डः -**लङ्कापुरचारिणा त्रिकूटाचलपक्षिराजेन रत्नशिखण्डन भवद्देवरेण निवेदिता एव।
**सुवेगा -**के उण दे।47
**चित्रशिखण्डः -**नन्वेते कथ्यन्ते।
इन्दुः सीतावदनसदृशो जानकीनेत्रहृद्यं
नीलाम्भोजं बिसकिसलया मैथिलीहासभासः।
सम्यक्साम्पादिति च बहवस्तस्य जाता जगत्यां
लङ्काभर्तुर्जनकतनयाविप्रलम्भे विनोदाः ॥ ८ ॥
विनोदान्तरं पुनरिदमद्ययत्किल भगवतः पुरन्दरस्यादेशात्तत्रभवता भरताचार्येण सीतास्वयंवरचरितसंबद्धं नूतनं नाटकमुपनिबद्धं सुरसदसि प्रयुक्तं च तद्दर्शनाय दशाननेन द्रौहिणिर्भणितः। तेनचाप्सरोभिः सह पुत्रशतमपि लङ्कां पुरींप्रति प्रहितमिति ।
( ***)
सुवेगा - ता एहि अह्मेवि णिअरज्जाहिठ्ठाणं विंझगिरिं गटुआ णिबिडणीडणिवासिणो दोहलअं संपादेह्न* इति परिक्रम्य निष्क्रान्तौ।
मिश्रविष्कम्भकः।
ततः प्रविशति रावणः प्रहस्तश्च ।
रावणः - मदनाकूतमभिनीय हृदय दिष्ट्या वर्द्धसे सीताप्रतिकृतिदर्शनेन । नेपथ्ये । जयजय त्रिजगत्पते पौलस्त्य सुखाय सायंतनी सन्ध्या भवतु देवस्य संप्रति हि ।
माञ्जिष्ठीकृतपट्टसूत्रसदृशः पादानयं पुञ्जयन्
यात्यस्ताचलचुम्बिनीं परिणतिं स्वैरं ग्रहग्रामणीः।
वात्यावेगविवर्तिताम्बुजरजश्छत्रायमाणः क्षणं
क्षीणज्योतिरितोऽप्ययं सभगवानर्णोनिधौ मज्जति ॥ १०॥
रावणः - दिष्ट्या गतं दिवसेन । भोभो प्रहस्त तदुच्यन्तां वैरिञ्चामुनयः प्रस्तूयतामिति ।
प्रहस्तः - नेपथ्याभिमुखमवलोक्य । भोभो भरतपुत्राः प्रेक्षणककृते कृतक्षणः क्षणदाचरचक्रवर्ती तत्प्रस्तयताम् प्रविश्य कोहलः।
कर्पूर इव दग्धोऽपि शक्तिमान् यो जनेजने ।
नमः शृङ्गारबीजाय तस्मै कुसुमधन्वने ॥ ११ ॥
रावणः - द्वादशपदेयं प्रवर्तिता नान्दी तत्प्रस्तावयिष्यति ।
कोहलः - तत्रभवतः परमेष्ठिनो मानसभुवः प्रथमपुत्रस्य नाट्ययोनेर्भरताचार्यस्य कृतिरभिनवं सीतास्वयंवर इति नाटकं
________________________________________________________________________
* तत् एहि आवामपि निजराज्याधिष्ठानं विन्ध्यगिरिं गत्वा निबिडनीडनिवासिनौदोहदं संपादयावः।
________________________________________________________________________
योक्तव्यम् । अतः कमलसम्भवोपदिष्टनाट्यवेदेन स्वपौरुषपरेतोषितखण्डपरशुदर्शित-लास्यताण्डवप्रपञ्चचतुरेण भवता दीयमानमवधानमभ्यर्थये । यतः।
श्रवणैः पेयमनेकैर्दृश्यं दीर्घैश्च लोचनैर्बहुभिः।
भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम् ॥ १२ ॥
**रावणः -**किं पुनरिदमसंस्तुतं प्रयस्तूते । कः पुनरसौयोऽयमत्रमयि रावणेऽपि सति सीतां स्वयं वृणुते । विमृश्य भवतु निरङ्कुशाः कविवाचः।
**कोहलः -**समन्तादवलोक्य अहो राक्षसराजस्य त्रिभुवनशिरःशेखरायमाणा प्रभुशक्तिः। तथाहि।
ज्योतीषि प्रस्तुवन्ति प्रतिफलनवशान् मौक्तिकन्यासलक्ष्मी-
मिन्दोर्ज्योत्स्नावितानीभवति भगवतां दर्पणत्वं रवीणाम् ।
सन्ध्यारागश्च रङ्गे रचयति सहसा सान्द्रसिन्दूररेखां
स्वेदच्छेदाय चैते दिशिदिशि मरुतस्तालवृत्तीभवन्ति ॥ १३ ॥
भोभो लङ्केश्वरसभासदः स तत्रभवान् द्रौहिणिएह।
वाग्वैदर्भी मधुरिमगुणं स्यन्दते श्रोत्रलेह्यं
वस्तुन्यासो हरति हृदयं सूक्तिमुद्रानिवेद्यः।
सद्यःसूते रसमनुपमप्रौढिजन्मा प्रसादः
संदर्भश्रीरिति कृतधियां धाम गीर्देवतायाः ॥ १४ ॥
ततश्च।
सुवर्णबन्धविद्योति कुरुत श्रवणाश्रयम्।
सच्छायमुल्लसद्वृत्तं काव्यं मुक्तामयं बुधाः ॥ १५ ॥
नेपथ्ये गीयते ।
प्रकटितरामाम्भोजः कौशिकवान् सपदि लक्ष्मणानन्दी ।
सुरचापदमनहेतोरयमवतीर्णः शरत्समयः ॥ १६॥
**कोहलः -**कथमुपक्रान्तं भरतपुत्रैः। यदियं रामलक्ष्मणानुगतस्य भगवतो विश्वामित्रस्य प्रावेशिकी ध्रुवा । तदहमप्यनन्तरकरणीयाय सज्जोभवामि । इतिनिष्क्रान्तः।
॥ प्रस्तावना ॥
ततः प्रविशति विश्वामित्रो रामलक्ष्मणौ च ।
विश्वामित्रः- अहो तत्त्वेऽभिनिविष्टं मनो जनकस्य । यद्वा याज्ञवल्क्याद्यजुर्विज्ञानविभवः खल्वसौ। स हि चन्द्रमसोऽनुभावो यदस्य ग्रावाणोऽपिनिस्यन्दन्ते ।
**रामलक्ष्मणौ -**भगवन्नुपाध्याय किमसौ वैदेहः शुक्लान्यपि यजूंषि विज्ञाय याज्ञवल्क्यतो न वनाय प्रतितिष्ठते ।
**विश्वामित्रः -**वत्स दाशरथे राम वत्स लक्ष्मणस खलु राज्याश्रममहामुनिरित्थंसमर्थयते ।
स्थितिः पुण्ये रण्ये सह परिचयो हन्त हरिणैः
फलैर्मेध्या वृत्तिः प्रतिनदि च तल्पानि दृषदः।
इतीयं सामग्री फलति हि विरक्त्यै स्पृहयतां
वनं वा गेहं वा सदृशमुपशान्तस्य मनसः ॥ १७॥
**रामः -**सत्यमिदं गीयते। अतथाविधो न तथाविधरहस्यवेदी ।
**रावणः -**साक्षेपम् । अये अयमसौ रामो दाशरथिर्यस्ताडकारिस्ताडकेयारिश्च । मुनिमुद्दिश्य । अहो क्षत्रियब्राह्मणस्याभिचारे चातुर्यं यदस्मत्परिजनेऽपि जनितवानयमपि क्ष
त्रियडिम्भो डिम्भडम्बरम्।
लक्ष्मणः - पुरोऽवलोक्य । अये सविधीकृतधनुषि स्वयंवरयात्राभुवि वर्त्तामहे । यतः।
क्वणत्कनककिङ्किणीमुखरतोरणैर्गोपुरै-
र्विचित्रमणिदीधितिस्फुरणसूचितेन्द्रायुधैः।
चकास्त्ययमवाङ्मुखीकृतनभश्चरीलोचनः
स्थितोन्नतनरेश्वरः किमपि मञ्चहर्म्योच्चयः ॥ १८ ॥
**विश्वामित्रः -**समन्तादवलोक्य।
पुरविजयि तदेतत् कार्मुकं चन्द्रमौले-
रयमिह जनकानामग्रणीर्योगिनां च ।
अयमपि च निमीनां धर्मबन्धुः पुरोधाः
सुरयजनसमुत्थामैथिली चेयमत्र ॥ १९ ॥
ततः प्रविशन्त्युपविष्टा यथानिर्दिष्टा जनकशतानन्दसीताः प्रतीहारी धात्रेयिका च ।
**शतानन्दः -**भोः सीरध्वज अद्यखलु ताडितताडकाकुटुम्बस्य रामभद्रस्य दर्शनेन दशरथशैशवमनुस्मारितोऽस्मि यत्तेनापि ।
अदृष्टश्मश्रुभेदेन गतेन क्षणमित्रताम् ।
वज्रपाणेः कृतं राज्यमदैत्यमपदानवम् ॥ २० ॥
**जनकः -**एवमेवैतत् । न खल्विक्ष्वाकूणामपेक्षितवयःप्रक्रमो विक्रमः।
**शतानन्दः -**हेमप्रभे शाम्भवधनुःसमीपवर्त्तिनींकुरु राजपुत्रींप्रवृत्ता स्वयंवरयात्रा ।
सीता धात्रेयिका तथा कुरुतः।
**विश्वामित्रः -**वत्स लक्ष्मण यथानिर्दृिष्टं जनकासनासन्नवर्तिनं मञ्चकैकदेशमारोहय रामभद्रम् । आरोह च स्वयं येन सीरध्वजोऽनुसंधत्ते ।
रामलक्ष्मणौ तथा कुरुतः।
**रामः -**स्वगतम् । अये इयमसौ सीता यस्याः स्वयं भगवती वसुमती माता यागभूमिर्जन्ममन्दिरं इन्दुशेखरकार्मुकारोपणं च जामातृगुणः। सस्पृहं निर्वर्ण्य ।
समन्तात् साभोगं न च कुचविभागाञ्चितमुरो
नितम्बः स्वां लक्ष्मीमभिलषति नाद्यापि लभते।
दृशो लीलामुद्रा स्फुरति च नचातिस्थितिमती
तदस्यास्तारुण्यं प्रथममवतीर्णं विजयते ॥ २१ ॥
विचिन्त्य। हंहो हृदय इतः प्रभृति नूनमस्खलितशासनः कुसुमायुधो भविता । पश्य ।
वहतु धनुरसङ्गादैक्षवं वैणवं वा
प्रहरतु च पृषत्कैःकौसुमैरायसैर्वा।
तदपि मकरकेतुर्मूर्ध्नि धन्वीश्वराणा-
मियमिह युवभावं यावदङ्गीकरोति ॥ २२ ॥
सम्यग्विभाव्य । तामियं वयोवस्थामलङ्करोति यस्यामभिनवाकल्पविकल्पविभ्रमभङ्गिव्ययमानसा शङ्के दिवानिशं तिष्ठतीति । यतः।
उत्तालालकभञ्जनानि कबरीपाशेषु शिक्षारसो
दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः।
तिर्यग्लोचनवर्तितानि वचसां छेकोक्तिसंक्रान्तयः
स्त्रीणां म्लायति शैशवे प्रतिपलं कोऽप्येष केलिक्रमः ॥ २३ ॥
**रावणः -**इयमसौ हृदयविशल्यकरणौषधिर्मैथिली । तदखिलनेत्रसंपातनेन पश्याम्येनाम् । सुचिरं विभाव्य ।
धम्मिल्लोललितः स्मितं शुचि दृशौ दीर्घे भ्रुवौभङ्गुरे
पाशाभे श्रवसी विशालमलिकं माञ्जिष्ठपृष्ठोऽधरः।
कण्ठो रुक्मरुचिः समुन्नतमुरः काम्यं च काञ्चीपदं
दृग्द्वन्द्वानि चिरं विभज्य दशधा तन्मैथिलींपश्यत॥ २४ ॥
आकाशे ।सीतामनुसंधाय सोन्मादमिव ।
तरङ्ग्य दृशोऽङ्गने पततु चित्रमिन्दीवरं
स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् ।
क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिका-
मुदञ्चय मनाङ्मुखं भवतु च द्विचन्द्रं नमः ॥ २५ ॥
**प्रतीहारी -**समन्तादवलोक्य भूमिपालान् यत् सत्यं सरुपमरूपसंपदो जनस्य साहायकेन स भगवान् कुसुमायुधः कमपि कामिजनं विडम्बयति यतः।
एतेनोच्चैर्विहसितकसौकाकलीगर्भकण्ठो
लुभ्यच्चक्षुः प्रहितममुना साङ्गभङ्गः स्थितोऽयम्।
हारस्याग्रंकलयति करेणैष हर्षाच्च किंचित्
स्त्रैणः पुंसां नवपरिगमः काममुन्मादहेतुः॥ २६ ॥
किंचिदुच्चैः।
शृणुत जनकशुल्कं क्षत्रियाः सर्व एते
दशवदनभुजानां कुण्ठिता यत्र शक्तिः।
नमयति धनुरैशं यस्तदारोपणेन
त्रिभुवनजयलक्ष्मीर्मैथिली तस्य द्वाराः ॥२७ ॥
**रावणः -**सक्रोधहासम् । अप्यलीककवेमुढं कथमिव करतललुलितकैलासशैलोच्चयाः कार्मुकलतारोपणेऽपि दशकण्ठबाहवः कुंण्ठाः। किंच रे विचक्षणंमन्य रुद्रद्रिस्तुलनमित्यादि पठति ।
**हेमप्रभा -**सहि जाणइ उवक्कन्ता धणुज्जता ता सफलपरिस्समं होदु संपअं पआवयिणो पिअसहीए रूवणिम्माणणिउणत्तणं अत्थुकदत्थोकुसुमकोअण्डस्स कोअण्डजोग्गोपरिस्समो*।
**प्रतीहारी -**पुरोऽवलोक्य स्वगतम्। अये नरक एष प्रथममुपस्थितः। प्रकाशम् ।
कृष्णागुरुद्रुमतलेषु सुराङ्गनाभि-
रामोदिगन्धमृगबन्धुषु गीतकीर्तिः।
शौरेर्वराहवपुषो जगतीकलत्रे
प्राग्ज्योतिषाधिपतिरेष सुतः किलाभूत्॥ २८ ॥
किंच ।
अस्योद्योगे प्रसर्पत्पटुपटहरवोद्रिक्तदानद्रवाणां
सन्नाहन्यासदर्पद्विगुणिततरसां वारणानां भरेण।
निःशेषन्यञ्चदुर्वीवलयपरिणतिस्रस्तसन्नाहबन्धः
पृष्ठाष्ठीलं बिलोलं कलयति कलया जर्जरं कूर्मराजः॥ २८ ॥
—————————————————————————————————————————
* सखि जानकि उपक्रान्ता धुनर्यात्रा तत् सफलपरिश्रमं भवतु साम्प्रतं प्रजापतेः प्रियसख्या रूपनिर्माणनिपुणत्वम् । अस्तु च कृतार्थः कुसुमकोदण्डस्य कोदण्डयोग्यः परिश्रमः।
—————————————————————————————————————————
(एतत् पुटम् सम्पूर्णं नास्ति)
त्तिमहणिज्जत्तकामरूवो कामरुवेसरो
पिच्छरिंछोलीसरिच्छाआ णिवडन्तु*।
डपक्खोअसुरो+।
मा उत्तम्म ण असुरसमारोवणिज्जं
प्रभावो भवानीवल्लभस्य यद्वसुमती-
वण्डा हरचिन्ताचमत्कृतः।
व समुत्थाय पुनः स्थितः॥ ३० ॥
वासुन्धरेय धिक्। यदभिमानिना-
दुर्यशःकन्दः।
र्वा दशाननः।
ऽवलोक्य स्वगतम्। अये कथमसौ
द्रिचन्दनलताकुञ्जे भुजङ्गाङ्गनाः
नात् फणिपतेर्गायन्ति संगीतिषु।
इन्वदन्वयवृषा किंचान्यदस्य स्वयं
धेनुरसमा सा ताम्रपर्णी सरित् ॥ ३१॥
—————————————————————————————————————————
* रूपः कामरूपेश्वर एषः। तदस्मिंस्तरुणता-
न्तु निबिडकटाक्षनिक्षेपाः।
-
समारोपणीयं शङ्करशरासनम्।
—————————————————————————————————————————
this page is needs correction
वाचः संवननं सतां रणविधिः क्लृप्तामरीवल्लभो
नेत्रोन्मादकरं वपुर्मृगदृशां हस्तावचेयं यशः।
इत्येतस्य निसर्गसुन्दरगुणस्यैतत्परं लाञ्छनं
पात्रापात्रविवेचनं न यदभूत् सर्वस्वदानेष्वपि ॥ ३२ ॥
**हेमप्रभा -**कपोलकन्तिनिभ्भच्छिअमुद्धमहूअकुसुमपण्डिमेपण्डमेइणीणाहो एसो ता इमस्स वअणसदवत्ते णिवेसअ संचरक्वच्चरणरिंक्वोलीसच्छाअं दिठ्ठिम् *।
सीता। जो दमिदचूडामणी50 ।
प्रतीहारी । साकारसंवरणं विहस्य ।
रभसादयमादाय कोदण्डं मदनद्विषः।
व्रीडाविनमितग्रीवो वन्दित्वा पुनरुज्झति ॥ ३३ ॥
**रावणः -**विहस्य अहो द्रविडपतेः सुसूत्रितस्त्यागकारणपरिग्रहः।
**प्रतीहारी -**अन्यतोऽवलोक्य । स्वगतम् । अये अयं माहिष्मतीपतिः। प्रकाशम् ।
अत्रेर्लोचनशुक्तिमौक्तिकमणेर्देवात्सुधादीधिते-
र्गोत्रं हैहयभूभुजां यदुदगात्तस्मिन्नभूदूर्जनः।
दोःसीमन्तितनर्मदेन वपुषा पौलस्त्यदर्पद्रुहः
सूनुर्वाञ्छितमेघनादविजयस्तस्यैष शत्रुंतपः ॥ ३४ ॥
**रावणः -**जरत्क्षत्रियप्रतीहार दुरभिधायिनमेनं त्वां मृष्यतां नाम दशास्यः। वत्समेघनादनिन्दापदं पुनरयं न क्षमते चन्द्रहास इति खड्गमादित्सते ।
—————————————————————————————————————————
*कपोलकान्तिनिर्भर्त्सितमुग्धमधूककुसुमपाण्डिमे पाण्ड्यमेदिनीनाथ एष तदस्य वदनशतपत्रे निवेशय संचरत्षट्चरणकान्तिसच्छायां दृष्टिम् ।
—————————————————————————————————————————
**प्रहस्तः -**देव मुनिजनप्रयोज्यं प्रेक्षणकमेतत् तदलमकाण्डसंरम्भेण ।
प्रतीहारी-
यन्मेखला भवति मेकलशैलकन्या
वीतेन्धनो वसति यत्र च चित्रभानुः।
तामेष पाति कृतवीर्ययशोवतंसां
माहिष्मतींकलचुरेः कुलराजधानीम्॥ ३५ ॥
अपि च ।
अस्याहवे हरिचमूखुरखण्डितोर्वी-
पांसुप्रसारपरिपूर्तिभिया वहन्ति।
नेत्राणि नित्यविकचानि मरुत्तरुण्यो
नीरन्ध्रपाणिपुटयुग्मपिधानवन्ति॥ ३३ ॥
**हेमप्रभा -**गुरुअणदंसिअविणअणम्मदे सम्मक्कालङ्करणमाहिस्सईणअरणरिन्दो एसो ता इमस्सिं तरलपह्नलधवलविसाला लोअण्णरत्तणीला दिज्जन्तु सहसेति णेत्तपेरन्ता * ।
**सीता -**जो खत्तिअकुलकुमारीवि भविअ अवमण्णिअपरसुरामपरक्कम्मो ।51
**प्रतीहारी -**स्वगतम् । अहो गर्वगरिमा हैहयकुलकुमारस्य । प्रकाशम् ।
त्रैयम्बकेऽपि कोदण्डे दोर्दण्डमदडामरः।
अयमाद्रियते वीरो नारोपणपणक्रियाम् ॥३७ ॥
—————————————————————————————————————————
* गुरुजनदर्शितविनयनर्मदे नर्मदैकालङ्करणमाहिष्मतीनगरनरेन्द्र एवतदस्मिंस्तरलपक्ष्मलधवलविशाला लावण्यरक्तनीला दीयन्तां सहसैव नेत्रपर्यन्ताः।
—————————————————————————————————————————
**प्रहस्तः -**मूढ दशकण्ठायसे किंतु न बन्दीकृतमहेन्द्रोऽसि ।
**प्रतीहारी -**अन्यतोऽवलोक्य स्वगतम् । अये अयमितश्चेदिपतिः। प्रकाशम् ।
सीतास्वयंवरनिदानधनुर्धरेण
दग्धात् पुरत्रितयतो विभुना भवेन ।
खण्डं निपत्य भुवि या नगरी बभूव
तामेष चैद्यतिलकस्त्रिपुरीं प्रशास्ति ॥ ३८ ॥
किंच ।
पाणिप्रस्यैर्बकुलसुमनःसौरभं यो मिमीते
दम्पत्योर्यःसुरतचरिते सौख्यसंख्यां करोति।
यश्च ज्योत्स्नांचुलुकपुटकैः काममाचामतीन्दोः
शक्तः स्तोतुं स खलु निखिलान्यस्य कीर्त्यद्भुतानि॥ ३४ ॥
**हेमप्रभा -**अमन्दमअणमअदाणपअडहालेडहालेसरोएसो ता इमं पेच्छ तिरिच्छदंसणलीलाणिमीलिअकालिमेण कलिअससिहण्डपज्ज़िमेण दिठ्ठिच्छडाकडक्खेण*।
**सीता -**जो सो सम्मदालङ्किदमण्डलाहिपई।52
प्रतीहारी -
मानी गिरिशकोदण्डमयमाकलयन् दृशा।
सद्यो निभृतमुन्मार्ष्टि निजदोर्दण्डमण्डलम्॥ ४० ॥
रावणः- अहो मेकलपतेः स्वपरिच्छेद वैदग्धी ।
—————————————————————————————————————————
* अमन्दमदनमददानप्रकटभाले दशार्णेश्वर एष तदिमं प्रेक्षस्व तिर्यग्दर्शनलीलानीमीलितकालिम्ना कलितशशिखण्डपाण्डिम्नादृष्टिच्छटाकटाक्षेण ।
—————————————————————————————————————————
**प्रतीहारी -**अन्यतोऽवलोक्य । स्वगतम् । अयमितः सिंहलेश्वरः। प्रकाशम् ।
यस्याम्बुधिः स भगवान् स च रोहणाद्रिः
कोशाविमौ मदनमन्त्रपदैर्वचोभिः।
सोऽयं प्रियो यदि हसन् मृदु सिंहलेन्द्रः
क्रोडानिधानमनुरोधपुरं धिनोति ॥ ४१ ॥
किंच।
यस्योच्चण्डासिदप्रण्डहतिविदलितैर्वैरिवर्गैरलक्ष्य-
क्षिप्तास्त्रोद्भ्रान्तवीरप्रतिबलकलनाशून्यसंग्राममार्गे।
जीवत्संस्कारशक्त्या भुवि चरति चिरात्कृत्तबन्धं कबन्धे
दत्तो देवीभवद्भिः सह सुरकुसुमैरात्मनःसाधुवादः ॥ ४२ ॥
**हेमप्रभा -**असमन्तजोव्वणारोहणारम्भे रोहणमाणिक्कगिरिणो परमेसरी एसो ता इमं णिज्झाअन्ती कुण खणविसकन्दोट्टणिउरम्बकरम्बिअं अम्बरद्धृन्तं *।
सीता- जो कोत्युहसगोत्तरअणरइदसेहरालङ्किदसिरुद्देसो।53
**प्रतीहारी -**स्वगतम् । अनिश्चिन्वता चितेन मन्दोद्यम इवायम् । प्रकाशम् ।
अस्य चण्डीशकोदण्डे स्वदोर्दण्डे च भूपतेः।
गतागतशते सख्यं विदधाते विलोचने ॥ ४३॥
—————————————————————————————————————————
* असमस्तयौवनारोहणारम्भे रोहणमाणिक्यगिरेः परमेश्वर एष तदिमं निध्यायन्ती कुरु क्षणविशदकमलनिकुरम्बकरम्बितमम्बरार्द्धान्तम्।
रावणः - सिंहलपते किमिदं संदिह्यते न च संदेहदेहो वीरव्रतनिर्वाहः।
**प्रतीहारी -**अन्यतोऽवलोक्य । स्वगम् । कथं मथुरानाथः। प्रकाशम् ।
हन्तुं रीपूनवतरिष्यति शार्ङ्गपाणिः
कंसप्रलम्बवृषकेशिमुखानिहेति।
यस्यामशुश्रुम पुराणकवेर्वचांसि
तामेष पार्थिवपतिर्मथुरां प्रशास्ति ॥ ४४ ॥
किंच।
दृष्ट्वा व्योमनि बालमभ्रशकलं लेह्यं जगच्चक्षुषां
नीपानां कुसुमावतंसज्जननं नृत्यप्रदं बर्हिणाम् ।
यात्रावेशहरं जिगीषुमनसामस्य स्फुटत्कञ्चुकः
कान्ताभिः सुहृदां द्विषां च युगपत् प्राप्तः प्रमोदोत्सवः॥४५॥
हेमप्रभा- णिसमासव्वङ्गमहुरे महुरेक्कालङ्करणं एसो ता इमस्मिअणिवेसअ दिठ्ठिं जई तुमं णिरुवमरूवरेहादंसणुक्कण्ठाविसंठुलमाणसासि*।
**सीता -**जो विन्दावणविहारदुल्ललिओ।54
**प्रतीहारी -**स्वगतम्। कथमधिगतकोदण्डपाण्डित्योप्ययमुदास्ते । प्रकाशम् ।
आरोपयतु वा मा वा राजैष हरकार्मुकम्।
सूच्यतेऽस्य धनुर्योग्या प्रकोष्ठकिणमालया॥ ४६॥
—————————————————————————————————————————
* निसर्गसर्वाङ्गमधुरे मधुरैकालङ्करणमेषतदस्मिनिवेशय दृष्टिं यदि त्वं निरूपमरूपरेस्वादर्शनोत्कण्ठाविसंष्ठुलमानसाऽसि।
________________________________________________________________________
**रावणः -**सोपहासम् । कथं मधुराधिपतिर्महाधन्वो न सुरचापारोपणकर्मणि परमप्रवीणः ।
प्रतीहारी - अन्यतोऽवलोक्य स्वगतम् । अयमितोऽवन्तिपतिः। प्रकाशम् ।
निर्वाणैकरुचिर्भवश्च भगवांस्त्रैलोक्यलीलागुरु-
र्देवोऽसौ मकरध्वजश्च वसतो विश्रान्तवैरव्रतम्।
यस्यामाश्रमतृष्णयैवनगरीमेकासनींतामसौ
शिप्राम्भःपरिखावतींनरपतिः सत्यव्रतो रक्षति ॥ ४७ ॥
किंच।
वीरश्रीवेणिबन्धो भुजभुजगफणा शत्रुषु भूपताका
देवस्य प्रेतभर्तुः पृथुतरपृतनाद्वीपिनीवीचिलेखा।
क्रोधाग्नेर्धूमवर्तिः सुरयुवतिदृशां शृङ्खलादाम दीर्घंं
लक्ष्मीलीलाकटाक्षःप्रतिसमरमभूदस्य जैत्रः कृपणः॥ ४८ ॥
**हेमप्रभा -**रहचलणचडुलणिअम्बुद्देसविसाले विसालेक्कअभिलासो एसो ता कीरउ इमस्सिं क्खणमण्डलतण्डवपडच्चपत्तलब्भूलदालङ्किदा दिठ्ठी।*
**सीता -**जो तिउरडहणठ्ठाणठ्ठिअमहाकालणामन्तरिअखअपरसुणामपवितिअणिहालवट्टो +।
प्रतीहारी। स्वगम्। कथं धनुरारोपणपराङ्मुखोऽयम्। प्रकाशम्।
—————————————————————————————————————————
* रथचरणनितम्बोठ्ठेशविशाले विशालैकसाभिलाष एष तत् कोर्यमस्मिन् क्षणमण्डलताण्डवपाण्डित्यपत्रलभ्रूलतालङ्कता दृष्टिः।
+ यस्त्रिपुरदहनस्थानस्थितमहाकालनामान्तरितखण्डपरशुनामपवित्रनिभालपट्टः।
—————————————————————————————————————————
नेत्रत्रिभागमात्रेण निरीक्ष्य हरकार्मुकम् ।
एष स्थितो वलत्कण्ठः सुहृदालापतत्परः ॥ ४९ ॥
**रावणः -**हंहो कुशस्थलीनाथ कोऽयमनाकलितकालपरिणामजर्जरेऽपि धनुष्यनध्यवसायस्तव ।
**प्रतीहारी -**अन्यतोऽवलोक्य । स्वगम् । कथमयं क्रथकैशिकाधिपतिः। प्रकाशम् ।
वाग्देवता वसति यत्र रसप्रसूति-
र्लीलास्पदं भगवतो मदनस्य यच्च।
प्रेङ्खद्विदग्धवनिताञ्चितराजमार्गं
तत्कुण्डिनं नगरमेष विभुर्बिभर्ति॥ ५० ॥
किंच।
रूपाधारैकवेधाः कुलगृहमुचितं चातुरीचेष्टितानां
कन्दर्पाव्हानविद्या हृदयहृतिकरो रागिणां मुक्तिहेतुः।
श्रुत्वैतन्नामनष्टेष्वरिषु रणभुवो दिव्यभावाक्षमेषु
व्यर्थः स्वःसुन्दरीणां वरवरणविधौ वेषलाभो बभूव॥ ५१ ॥
**हेमप्रभा -**सिणिद्धसामलघणकुडिलकुन्दले कुन्दलेसरो एसो ता इमस्स दंसणेण सहलीकुरु पसइसमप्पमाणं णाअणिम्माणम्*।
**सीता -**जो मरहठ्ठवरिट्ठो।55
**प्रतीहारी -**स्वगतम् । अये प्रकृतिपराधीनं चरितमेतस्य । प्रकाशम् ।
—————————————————————————————————————————
* स्निग्धश्यामलघनकुटिलकुन्तले कुन्तलेश्वर एष तदस्य दर्शनेन सफलोकुरु प्रसतिसमप्रमाणं नयननिर्माणम् ।
—————————————————————————————————————————
हरचापसमारोपे प्रेरितोऽप्यनुजीविभिः।
स्वरूपं वर्णयत्येष कुन्तविद्याविशारदम् ॥ ५२ ॥
**रावणः -**अति हि नाम शैशवोचितमाचरितमनेन।
**प्रतीहारी -**अन्यतोऽवलोक्य। स्वगतम्। कथमयं काञ्चीपुरपरमेश्वरः। प्रकाशम् ।
देवस्य मन्मथजितो नयनानलोत्थे
जातः कुले कुलवतां प्रवरः कुमारः।
कृत्स्नत्रिलोकभवनाभरणैर्यशोभिः
काञ्च्याः पुरः पतिरयं पुरतश्चकास्ति ॥ ५३ ॥
किंच।
वीराश्चण्डासिदण्डप्रहरणसुहृदः संमुखं संपतन्तो
ये जाताः पात्रमाजिष्वनिमिषसुमनोदामदानोत्सवस्य ।
अस्य प्रेङ्खत्क्षुरप्रप्रहतिभिरमरीभूय तैरेव भूयः
शेषाणां मूर्ध्नि मुक्ताः सुरकुसुममहावृष्टयः पुष्टभृङ्गाः ॥ ५४ ॥
हेमप्रभा - णकञ्चनकञ्चिदामालङ्किदकञ्चिदेसे कञ्चिदेसेसरो एसो ता इमस्स वअणहरिणङ्के विसम्मउ दंसिअमअणबाणसिष्ठी दिठ्ठी * ।
सीता- जो चन्दसेहरप्पसादीकदकुलक्कमागदवुसहलञ्क्वणो ।56
**प्रतीहारी -**स्वगतम् । कथमप्रमाणीकृतेन्द्राणीशाप इवायम् । प्रकाशंम् ।
—————————————————————————————————————————
* नवकाञ्चनकाञ्चिदामालङ्कृतकाञ्चिदेशे काञ्चिदेशेश्वर एष तदस्य वदनहरिणाङ्के विश्राम्यतु दर्शितमदनबाणसृष्टिर्दृष्टिः।
—————————————————————————————————————————
चापारोपमपास्यैव स्थितः सीतास्वयंवरे ।
दृश्यते भूभुजां नेत्रैरेष रोषकषायितैः ॥ ५५ ॥
**रावणः -**सक्रोधम् । रेरे निर्मर्याद स्वयंवरसमयं विभिन्दन्नेष न भवसि । विभाव्य सलज्जम् । नन्वेष भवसि ।
**प्रहस्तः -**विहस्य ।
अस्यस्वयंवरविभेदसमुत्सुकस्य
दृष्ट्वा स्फुरत्पुलकपक्ष्मलमङ्गमङ्गम् ।
प्रत्युल्लसन्ति च रुषो विलयं च यान्ति
प्रेक्षाप्रपञ्चमनुसृत्य दशाननस्य॥ ५६ ॥
**प्रतीहारी -**अन्यतोऽवलोक्य स्वगतम् । कथमयं वीरशृङ्गारललितलम्पटो लाटेश्वरः। प्रकाशम् ।
देवात् कुशेशयभुवो भुवनैकबन्धोः
संध्याविधौ कलयतश्चुलुकं जलस्य ।
यो जातवान् प्रतिमया स मुनिश्चुलुक्य-
स्तस्यान्वयैकतिलको नृप एषलाटः॥ ५७ ॥
किंच।
हेलावल्गितकण्ठनालविलसन्मुक्तालतालङ्कृतं
वासां संदधतीभिरेकविजयी सोऽयं द्विषां धोमसु
भृङ्गाग्रग्रहकृष्टकेतकदलस्पर्द्धावतीनां दृशां
वारस्त्रीभिरदभ्रविभ्रमवशादातृप्ति पात्रीकृतः॥ ५८ ॥
हेमप्रभा - ओठ्ठमीचन्दसुन्दरललाडे लाडेसरो एसो ता इमस्सिं सामलधवलपवालसच्छसुरचापरिंक्वोलिच्छाअं विच्छा
अन्ता दिज्जन्तु लडहकडक्खविक्खेवा *।
**सीता -**जो पइदिणमण्डणभेत्तवावारे सत्तचित्तो।57
**प्रतीहारी -**स्वगतम् । स्वभावेन मायावानयम् । प्रकाशम् ।
मार्जनाव्याजलग्नेन करेणोत्सरता पुनः।
न गृहीतं न च त्यक्तमनेन हरकार्मुकम् ॥ ५८ ॥
**रावणः -**सत्यं शृङ्गारलीलालम्पट एवायं लाटराजः। किमत्र वीरव्यपदेशेन ।
**प्रतीहारी -**अन्यतोऽवलोक्य।
स्वगतम् । कथमयं कुशस्यलीनाथः। प्रकाशम् ।
विश्वामित्रमहामुनेर्यदजनि ब्राह्मण्यलाभात्पुरा
क्षात्रं गोत्रमयं तदादिनृपतिर्दिग्विश्रुतः सुश्रुतः।
प्रोक्तं येन नृणां महाकरुणया चित्रं चिकित्सामृतं
कीर्तिस्तम्भविभूषणाश्च ककुभो यद्वाहिनीशैः कृताः॥ ६० ॥
किंच।
वासो जाम्बवपल्लवानि जघने गुञ्जास्रजो भूषणं
हस्तस्वस्तिकदानमञ्चलविधिर्धातुद्रवो मण्डनम् ।
उत्तंसः शितिकण्ठपिच्छलतिका बेषोऽयमल्पैर्दिनै-
रस्यारातिवधूजनेन शबरीसंवासतः शिक्षितः ॥ ६१ ॥
**हेमप्रभा -**करअलगेज्झमज्झदेसे मज्झदेसणरिन्दो एसोता इमं कोदूहलफुल्लाविअणअणभरिज्जमाणवअयणमण्डला
_________________________________________________________________________
* अष्टमीचन्द्रसुन्दरललाटे लाटेश्वर एष तदस्मिन् श्यामलधवलप्रवालस्वच्छसुरचापकान्तिच्छायामपि छादयन्तो दीयन्तां सुन्दरकटाक्षविक्षेपाः
पुलोएसु*।
________________________________________________________________________
**सीता -**जो मन्दरान्दोलिददुद्धसिन्धुसमुप्यण्णधण्णन्तरि चरमावदारस्स दिवोदासस्स पढमसिस्सो ।58
प्रतीहारी
वामहस्तधृतेशानधनुरन्येन पाणिना ।
एष ज्यामटनींनेतुं न शक्रोति न मुञ्चति ॥ ६२ ॥
रावणः - विहस्य । हंहो धनुर्वेदविद्याकुश्रुत सुश्रुत विविधेषु व्याधिषु भिषज्यतु भवान् न पुनः खाण्डपरशवे धनुषि ।
**प्रतीहारी -**समन्तादवलोक्य स्वगतम् । कथमथैते राजानः सर्वेऽप्यहंपूर्विकया पार्वतीपतेर्भगवतो धनुरारोपयितुमुपस्थिताः। प्रकाशम् ।
ओण्ड्रश्चण्डासिरश्मिर्मगधविभुरसावेष काम्बोजराजः
सौराष्ट्रोऽयं नरेंद्रः शकनृपतिरितोऽप्यत्रनेपालपालः।
अन्ध्राणामीश्वरोऽग्रे सदसि समुदिताः क्ष्माभृतः सर्व एते
सीतायामिन्दुमौलेर्धनुषि च सरसाः प्रेमकौतूहलाभ्याम् ॥ ६३॥
**हेमप्रभा -**परेन्तघोलन्तहारलदालङ्किदघणत्थणिघणात्थणिदपअण्डगम्भीरभीसणे सअलमहीमण्डलमण्डणेक्कपरक्कमे महामहीवइणो सञ्चरणचञ्चुरचञ्चरीअचञ्चु-संपुठ्ठिअसिहासंचिअचावलपुण्डरीअगब्भदलदोणीणं सरिच्छेण तिरिच्छेण अ सवणावदंसत्तणं दंसअन्तेण अच्छिविच्छोहेण ज
—————————————————————————————————————————
* करतलग्राह्यमध्यदेशे मध्यदेशनरेन्द्र एष तदिमं कौतूहलफुल्लितनयनभरितवदनमण्डला विलोकय ।
हिज्जंपेच्छ *।
________________________________________________________________________
**सीता -**कीस उण एंदे णरिन्दा सअलखत्तिअमाणखण्डणखण्डपरसुचावारोवणमुहाडम्बरेण विडम्बअन्ति अत्ताणम्+॥
**प्रतीहारी -**एकतरेपृथिवीपालाः।
एकाग्रया धिया ध्येयं न करस्पर्शमर्हति।
इति भक्त्या नमन्त्येते केवलं हरकार्मुकम् ॥ ६४ ॥
अन्यतरे तु राजानः।
आरोपणायकलया कार्मुके कलितेऽप्यमी ।
तद्भारभुग्नसर्वाङ्गा जानुभिर्जगतो गताः ॥ ६५ ॥
**रावणः -**विहस्य परं नामीभिरारोपितमौमापतं धनुरात्मापि नारोपितः प्रवीरजनसंख्यासु ।
**प्रतीहारी -**स्वगतम् । कथमेते निखिलक्षत्रियाः क्षत्रियजनोचितेऽपि चापारोपणकर्मणि वितथसामर्थ्या वर्त्तन्ते । तदेतेषु परमनाकलितसत्वसारोविकर्त्तनकुलकुमार आस्ते । यद्वाकिमनेनापि।
यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः।
करोतु तत्र किं नाम नारीनखविलेखनम् ॥ ६६ ॥
विचिन्त्य। भवतु तथापि संकीर्तयाम्येनम् । अनाकलितसारा हि वीरप्रकाण्डप्रसूतिः।
—————————————————————————————————————————
* प्रान्तघूर्णद्धारलतालङ्कृतघनस्तनि घनस्तनितप्रचण्डगम्भीरभीषणान् सकलमहीमण्डलमण्डनैक-पराक्रमान् महामहोपतोन् संचरणचञ्चुरचञ्चरीकचञ्चुसंपुटस्थितशिखासंचितचापलपुण्डरीकगर्भदलद्रोणीनां सदृक्षेण तिरश्चा च श्रवणावतंसत्वं दर्शयताऽक्षिविक्षोभेण यथेच्छं प्रेक्षस्व। सट्टक्षेण
- कथं पुनरेते नरेन्द्राः सकलक्षत्रियमानखण्डनखण्डपरशुचापारोपण मुखाडम्बरेण विडम्बयन्त्यात्मानम्।
________________________________________________________________________
**रावणः -**अनारोपितमसंभावनया लङ्केश्वरेण क्षत्रियैरप्यसामर्थ्येन मन्ये वृषध्वजायुधं दृष्यति । धनुरुद्दिश्य रे रे पुराणवेणुदलद्द्रोणीनिर्माण।
मुक्तं मयाऽसि हरकार्मुक यत्तदानीं
मा तेन भूद्द्रढिमदर्पपरिग्रहस्ते।
त्वद्भङ्गमार्गपटुभिः स पुनः प्रकोष्ठै-
र्नन्वेष तिष्ठति हठैकरुचिर्दशास्यः ॥ ६ ॥
इत्युत्थातुमिच्छति ।
प्रहस्तः - देव नेयं जानकी न चेदमैन्दुशेखरं धनुः।
**रावणः -**तत्किमिदम् ।
**प्रहस्तः -**प्रेक्षणकमिदम्।
प्रतीहारी -
यद्दिम्बमम्बरमणिर्यदपां प्रसूति-
र्नक्तं निषिञ्चति यदग्निशिखासु भासः।
ज्योत्स्नानिशासु हिमधाम्नि च यन्मयूखाः
पूषा पुराणपुरुषः स नमोऽस्तु तस्मै ॥ ६८ ॥
तस्मादजायत मनुर्नरराजबीजं
यस्यान्वये स सगरः स भगीरथश्च ।
एकेन येन जलधिः परिखानितोऽय-
मन्येन सिद्धसरिता परिपूरितश्च ॥ ६ ॥
सावित्रान् मनुतो महीयसि कुले ये जज्ञिरे क्षत्रिया-
स्तेषामेण महारथो दशरथः क्ष्माचक्रमाक्रामति।
पीनांसः पृथुलोचनः प्रमदयन् कृत्स्नामयोध्यां गुणै-
र्विश्वामित्रवितीर्णचापनिगमस्तस्यैष रामः सुतः॥ ७० ॥
________________________________________________________________________
रामः- वत्स लक्ष्मण कथमेष मां निर्दिशति । तदुत्थीयते ।
**लक्ष्मणः -**एतदुत्थीयते । मञ्चावरोहणनाटितकेन परिक्रामतः।
**प्रतीहारी -**साधु रामभद्र साधु सत्यं मार्तण्डकुलैकमण्डनमसि ।
**रावणः -**साधु रे क्षत्रियडिम्भ साधु तवैव परमखण्डितोऽभिमानग्नन्थिरनवधिरध्यवसायश्च । तन्मानुषीषु भवन्माता पुत्रवती ।
**विश्वामित्रजनकौ -**अतिदिलीपमतिदशरथमङ्गीकृतं कर्म रामभद्रेण ।
**हेमप्रभा -**काले बालत्तणं रामचन्दस्स क्षरिदेण उणसअलणरेन्द्रमण्डलीजेठ्ठो ।59
**शतानन्दः -**सूर्यशिष्यान्तेवासिन्नतिसाहसिको रामभद्रः।
यतः।
कोदण्डमीशकरपीडनदृष्टसार-
मारब्धनिर्वहणनिर्वृतिपूर्वपुंसि।
आरोपणाय परिसर्पति रामभद्रे
गोत्रं तुलां समधिरूढमहस्करस्य॥ ७० ॥
प्रतीहारी -
प्रणिपत्य कुमारोऽयं मृडान्यै च मृडाय च ।
उद्युक्तो धनुरादातुं न विद्मःकिं करिष्यति ॥ ७१ ॥
**हेमप्रभा -**जं किदं भअवदा दक्खाअणीवल्लहेण। किं च केसरिकिसोरसरिच्छपओट्ठाणं पुरिसाणं भुअदण्डमण्डणिज्जे कज्जे किं विअ दुक्करं णाम*।
रामः प्रदक्षिणयन् । स्वगतम् ।
वैदेहीवरबीजाय सुरसारमयाय च ।
तुभ्यं चण्डीशचापाय त्रिपुरप्लोषिणेनमः ॥ ७२ ॥
सरभसमादाय । प्रकाशम् ।
मद्दोर्दण्डद्वयाक्रान्त्या वत्स लक्ष्मण लक्षय।
स्फुटिष्यति न कोदण्डं त्रुटिष्यति न वा गुणः ॥ ७३ ॥
रावणः - विहस्य इदं तन्नटगर्जितं नाम।
**लक्ष्मणः -**सोढशङ्करकराकर्षणकर्मणि कार्मुके केयमसम्भावनाऽऽर्यस्य ।
रामः - तर्हीदमारोप्यते ।
**रावणः -**इयमपि सा नटबिभीषिका।
**प्रतीहारी -**समन्तादवलोक्य।
यथायथा धूर्जटिचापकोटिं
रामानुबन्धादधिरोहति ज्या ।
तथातथा सर्वनरेश्वराणां
मुखानि मूलान् मलिनीभवन्ति ॥ ७४ ॥
**लक्ष्मणः -**न केवलं वैलक्ष्यवतां महीपालानामेकेन वदनमालिन्येन संपन्नम् । अपितु ।
आर्ये रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैः
सिञ्जासञ्जनतत्परे विहसितं दत्त्वा मिथस्तालिकाः।
—————————————————————————————————————————
* यत् कृतं भगवता दाक्षायणीवल्लभेन । किंच केसरिकिशोरसदृक्षप्रकोष्ठानां पुरुषाणां भुजदण्डमण्डनीये कार्ये किमिव दुष्करं नाम ।
________________________________________________________________________
आरोग्य प्रचलाङ्गुलीकिसलये म्लानं गुणास्फालन-
स्फाराकर्षण रुग्णपर्वणि पुनः सिंहासने मूर्च्छितम् ॥ ७५॥
**प्रतीहारी -**सहसाऽवलोक्य न केवलमाकृष्टं भग्नं च किंचिदुच्चैः।
संस्पर्शादपि मन्थरस्य मरुतः सिञ्जानसिञ्जालतं
सार्द्धंक्षत्रवधव्रतैऋगुरुणा क्रौञ्चाचलद्वेषिणा ।
दोर्दण्डाञ्चलमण्डलीकृतमिदं रामेण राज्ञां पुरः
प्रागप्राप्तपराभवं भवधनुष्टङ्कारवत् त्रुट्यति ॥ ७६॥
**रावणः -**सेयं कवीनां वचनकामधेनुः। यदसद्भूतमपि सुते ।
**विश्वामित्रः -**सखे जनक फलितमस्मद्धनुर्वेदविद्यान्तेवासितया रामभद्रस्य । तथाहि ।
गुर्वीं मौर्वीं विधुन्वन् विदधदतिभियः सप्तपातालपालान्
वृन्दैर्वृन्दारकाणां प्रसरति परितस्तूर्णमाकर्ण्यमानः।
ठात्कारः खण्डिताशाकरिकरटतटीदानदुर्वर्ण एष
त्रुट्यत्पर्वोऽनुसन्धेर्वृषधरधनुषो रामदोर्यन्त्रितस्य॥ ७७ ॥
**शतानन्दः -**आश्चर्यमाश्चर्यम् । अतिभवानीवल्लभं रामभद्रचरितम् । तथाहि ।
ओङ्कारो विश्वरक्षाक्रम निगमविधेरन्तकस्याट्टहासः
संहर्ताशात्रवाणां पटुपटहरवः कीर्तिनिर्वासनस्य।
दोर्यन्त्रासञ्जिसिञ्जानमदटनिरटत्सर्वपर्वप्रसूत-
ष्टीत्कारः शम्भुचापे जयति विजयिनो राघवस्यादिबन्दी॥ ७८ ॥
**जनकः -**नमो भगवते नीललोहिताय ।
विश्वक्षमातलनरेश्वरदुष्करेऽस्मिन्
सद्यःकृते गुरुणि कर्मणि राघवेण ।
चण्डीशचापमथनाद् व्यथते च चित्तं
जामातृलाभरभसान्मम मोदते च॥ ७ ॥
**सीता -**सहि हेमप्यहे भग्गं भग्गस्स भअवदो चावं।60
**हेमप्रभा -**संपरणं च पित्रसहीए पाणिग्गहुणं।61
**रावणः -**उच्चैर्विहस्य, प्रज्ञावतां हि चक्षुरक्षुद्रमतिविषयासु धिषणासु प्रतिवसति । यतः।
रामेण मुग्धमनसा वृषलाञ्छनस्य
यज्जर्जरं धनुरभाजि मृणालभज्जम्।
तेनामुना त्रिजगदर्पितकीर्तिभारो
रक्षःपतिर्ननु मनाङ् न विडम्बितोऽभूत्॥ ८०॥
**रामः -**सकण्ठरोधम्।
वाचा कार्मुकमस्य कौशिकपतेरारोपणायार्पितं
मद्दोर्दण्डहठाञ्चनेन तदिदं भग्नं कृतन्यक्कृति ।
नो जाने जनकस्तदत्रभगवान् व्रीडावशादुत्तरं
त्रिक्षेप्त्रे नतकन्धरो भगवते रुद्राय किं दास्यति॥ ८१ ॥
**लक्ष्मणः -**अहो महदन्तरं पुरुषकाराणाम् ।
भग्नं निरीक्ष्य हरकार्मुकमित्यथैते
रोमाञ्चकञ्चुकमिदं वपुरुद्वहामः।
आर्यस्तु कण्ठधृतवाणि विलक्षभावा-
न्नासानिषण्णनयनं वदनं बिभर्ति॥८२॥
विश्वामित्रः - किमुच्यते दिलीपकुलालङ्करणं दशरथोऽस्य जनयिता ।
**शतानन्दः -**महाराज सीरध्वज यथोचितमत्र प्रस्तूयतां समर्प्यतां वैदेही रामभद्राय ।
**जनकः -**मञ्चावरोहणनाटितकेन परिक्रम्य।
रुग्णचण्डीशकोदण्ड निजदोर्दण्डनिर्जिताम्।
गृहाण पाणौ वैदेहीं पद्मा पद्मेनिषीदतु ॥ ८३ ॥
इति पाणौपाणिमर्पयति ।
**रावणः -**सक्रोधम् । आः कथमयमलीकदुर्विदग्धः क्षत्रियवटुकीटो ममापि लङ्केश्वरस्य पुरतः सीतायाः पाणिं पाणिना पीडयति । तदेष न भवति इति संरभते।
**प्रहस्तः -**विहस्य स्वगतम् ।
दृष्ट्वैतां रभसादलीकजनकप्रत्तां मृषा मैथिलीं
हस्ताग्रे नटराघवेण विधृतां रागेण राङ्गाङ्गणे ।
उत्ताम्यन्ति रुषाकषायितदृशो देवस्य लङ्कापते-
र्दोर्दण्डा विधृतायुधाश्च वदनान्याकृष्टदंष्ट्राणि च॥ ८४ ॥
प्रकाशम् । राक्षसपते पर्यवसितप्रायः प्रेक्षाविधिः। तद्भावयतु चतुराभिनयां बुद्धिं रसवृद्धिं च नर्तकानां देवः।
**रावणः -**सस्मरणलज्जम् । आत्मगतम् । कथं प्रेक्षणकमेतत् । मुधा संरब्धमस्माभिः। प्रकाशम्। सखे प्रहस्त अपि स्मरसि दशकन्धरस्य प्रतिज्ञाम् ।
**प्रहस्तः -**देव स्मरामि कुर्वन् मौर्वीत्यादि पठति ।
**रावणः -**तदिदमनुष्ठास्यते ।
(द्वितीयनेपथ्ये ।)
वैतालिकः। जयजय महाराज सीरध्वज सुखाय सायन्तनी सन्ध्या तत्रभवतो भवतु देवस्य जामात्रा रामभद्रेण सह संप्रति हि ।
संकोचव्रतमादिशन् जलरुहां देवस्त्रिवेदीतनुः
सोऽयं विद्रुमकन्दसुन्दरवपुर्यात्यस्तमस्तातपः।
माञ्जिष्ठत्रसरच्छटैकसुहृदां यद्दीधितीनां पुरः
प्रेङ्खद्भाति सनालनीलनलिनप्रस्ताररम्यं तमः ॥ ८५॥
अपिच ।
दिनसन्ध्यावरवध्वोर्वहति विवाहाग्निविभ्रमं भानुः।
लाजायते च साक्षादुत्तरलस्तारकानिकरः ॥ ८६ ॥
पुनर्नेपथ्ये ।
देव देव्यो विज्ञापयन्ति ।
जनक कुलवधूनामेष सज्जः समाजो
विवहनविधिबन्धर्वर्तते चाप्यनेहा ।
अनुभवितुमुदारां कौतुकागारदीक्षां
तदिह सह दुहित्रा प्रेष्यतां रामभद्रः ॥ ८७ ॥
**जनकः -**एष प्रेष्यते स्वयं च प्रस्थीयते । प्रतीहारस्य कर्णे एवमेवम् ।
**प्रतीहारी -**किंचिदुच्चैः।
इह सुजनसमाजे सङ्गता ये नरेन्द्राः
स्फुटमुकुलितपाणिः प्राह सीरध्वजस्तान् ।
सविधमधिवसन्तो मत्पुरीगोपुराणां
परिचिनुत सपर्यांसोत्सवो यावदस्मि ॥ ८८ ॥
इति निष्क्रान्ताः सर्वे सीतास्वयंवरो नाम गर्भेऽङ्कः।
**रावणः -**विचिन्त्य ।
राज्ञां वृथा सदसि रामयशः प्रकीर्णं
तूर्णं मुधा मुकुलिता च पिनाककीर्त्तिः।
दीर्णेन जीर्णधनुषा गिरिशोज्झितेन
यातः पदं मम रुषां च मृषैव रामः ॥ ८९ ॥
सीतामनुसंधाय । तद्वक्त्रमित्यादि पठति ।
**प्रहस्तः -**देव समाप्तमेव देवप्रेक्षणक्रम् । तत् प्रेष्यन्तां वैरिञ्चा मुनयः परमेश्वरोऽपि प्रविशत्वभ्यन्तरम् ।
इति परिक्रम्य निष्क्रान्तौ।
॥ विलक्षलङ्केश्वरोनाम तृतीयोऽङ्कः ॥
———————————
॥ अथ चतुर्थोऽङ्कः ॥
<MISSING_FIG href="../../../books_images/U-IMG-1692245260Screenshot2023-08-17093724.png"/>
अतः परं भार्गवभङ्गो भविष्यति ।
ततः प्रविशत्युपाध्यायो वटुश्च ।
वटुः। भोभो उवाज्झाअ अब्भुवगदसिस्सभावो अहमेस भवभूदी सपादोपग्गहमभिवादेह्नि ।62
**उपाध्यायः -**विद्यावान्भूयाः। शिरसि स्पृशन् वत्स भवभूते कुतः पुनरूपनयनादिकाः संस्काराः कुतश्च मामुपाध्यायीकर्तुमागतोऽसि ।
वटुः। भअवदो भग्गवादो ।63
**उपाध्यायः -**भगवान् भार्गवो भगवतो भवानीवल्लभात् प्रतिपन्नकार्मुकोपनिषत् संविदितचतुर्दशविद्यास्थनरहस्यश्च तदनुपपन्नमिवेदं पश्यामि यदुताध्ययननिमित्तमाचार्यान्तरसमाश्रयणम्।
वटुः -भो उवज्झाअ ण हु दिट्ठे अणुववण्णं णाम।64
उपाध्यायः - कथम् ।
वटुः - सो क्खु महेसी भविअसमरसमारम्भमहग्गहग्ग हिओ ।65
उपाध्यायः - तस्य खल्वियं मात्रंशक्षत्रभावसुलभा यावज्जीवमायुधपिशाची न हृदयादपक्रामति ।
वटुः - तेण क्खुअहं एदे विणिहदपडिवक्खदोघट्टघटाकडपासवासत्तसल्ला भल्ला विद्राविअमहारहरिउदप्पा खुरप्पा असमसमरारम्भपवट्टिदवेरिवीररुहिरराआ णाराआ खण्डिअविपक्खधाणुक्कबाणासणदण्डा कण्डा सुट्ठमुच्छिअचतुरङ्गबलसेण्णसहअरिसहस्सदंसणसव्वंगुक्कीरिदाओभेरिआओ सअलखतिअगोत्तणि द्दलणदुव्विडि- ल्लाबाणावलित्ति पभूदकण्डसंभारअं वहन्तेण कुदो दाव विज्जाहिगमो शिअसरीरदोवि परिब्भंसिदोह्नि जदो गआणणगरुअङ्गभारोवि भविअभिङ्गिरिटिपडिरूवो वट्टामि । सस्मरणम् । अदिक्कन्तदिअसप्पओसे उण
णिद्दलिदणीलकण्ठसरासणं दासरहिराममभिजुज्जिदुं णिच्छिदमणेण सअं चिन्तिअ बहवो बहुप्पआरफलसारा कण्डकरण्डआसंजमिदा जाणं दुव्वहतणं अणुसंधिय अद्धरत्तसमए णिहुदपदसंचारमवक्कमित्र उवज्झाअत्तणेणभअवन्तमब्भुववण्णोह्नि*।
**उपाध्यायः -**एतदेव स्वर्गगमनप्रभावभाजां मुन्यतिथीनां मुखेभ्यः श्रुतमस्माभिः। यदुत श्रुतभार्गवसमरसंरम्भेण पुरन्दरेणापि दशरथः सत्कृत्य प्रहित इति । विचिन्त्य । अहो महदन्तरमन्योन्यं रामयोः। यत् परिणतवयाः प्रगल्भविक्रमो वैखानससूनुर्यत् कौमारकमुग्धमधुराननो राजन्यपोतः। विमृश्य । अहह सकृद्दृष्टमपि नयनावलम्बिनमिव तमहमिमं पुरतः पश्यामि । अहो नु खलु भोः।
ज्यायान् धन्वी नवधृतधनुस्ताम्रहस्तोदरेण
क्षत्रक्षोदव्यतिकरपटुस्ताङकाताडकेन।
कर्णाभ्यर्णस्फुलितपलितः क्षीरकण्ठेन सार्द्धं
योद्धुंवाञ्छन्न कथममुना लज्जते जामदग्न्यः ॥ १ ॥
—————————————————————————————————————————
* तेन खलु अहं एते विनिहतप्रतिपक्षगजघटाकटपार्श्वव्यासक्तशल्या भल्लाः विद्रावितमहारथरिपुदर्पाःक्षुरप्राः असमसमरारम्भप्रवर्तितवैरिवीररुधिररागा नाराचाः खण्डितविपक्षधानुष्कबाणासनदण्डाः काण्डाः सुष्ठुमूर्च्छितचतुरङ्गबल सैन्यसहचरिसहस्रदंशनसर्बाङ्गोत्कीरिता भेरिकाः सकलक्षत्रियगोत्रनिर्दलनदुर्ललिता बाणावलिरिति प्रभूतकाण्डसम्भारं वहता कुतस्तावत् विद्याधिगमो निजशरोरादपि परिभ्रंशितोऽस्मि । यतो गजाननपूर्वङ्गभारोऽपि भूत्वा भृङ्गिरिटप्रतिरूपो वर्ते । प्रतिक्रान्तदिवसप्रदोषेपुनर्निर्दलितनीलकण्ठशरासनं दाशरथिराममभियोक्तुं निश्चितमनसा स्वयं चिन्तयित्वा बहवो बहुप्रकारफलसाराः काण्डकरण्डकाः संयमिताः येषां पूर्वहत्वमनुसंधायार्द्धरात्रसमये निभतपदसंचारमवक्रम्योपाध्यायत्वेन भवनमभ्युपपोऽस्मि ।
________________________________________________________________________
**वटुः -**भो उअज्झाअजदि क्खुएवंविधपरक्कमो परसुरामो ता की उण ण तिणअणबाणासणे पअट्टो आसि।66
**उपाध्यायः -**स खलु शरासनशिक्षाविचक्षणः सब्रह्मचारिभिरनुयुक्तोऽपि पुनःपुनरित्थमभिधाय स्थितः।
आचार्यो मे स खलु भगवानस्मदग्राह्यनामा
तस्मादेषा धनुरुपनिषत् तत्प्रसादात् क्षमोऽपि।
अध्यासीनः कथमहमहो वर्त्म वैखानसानां
सीतापाणिग्रहणपणितं चापमारोपयामि ॥ २ ॥
**वटुः -**कीरिसं मन्तेध भग्गवराहवाणं समरसंरम्भे कस्सिंजअवडाआ पडिवज्जिस्सइ।67
**उपाध्यायः -**भद्र भवभूते किं कथयामि यदुभयपराक्रमावलोकि सन्देहदोलाधिरूढमिवचेतः। पश्य ।
एकः सङ्ख्येऽभिमुखमजयत् सूनुमर्द्धेन्दुमौले-
स्तस्यैवान्यो धनुरनुपमं पुष्पमाथं ममाथ ।
द्वावप्येतावति हि बलिनौ किन्तु तद्गाजयश्री-
र्यस्य प्रीतः स खलु भगवान् पार्वतीप्राणनाथः ॥ ३॥
नेपथ्ये।
अत्रे पुलस्त्य पुलह प्रतिथे सुगीथ
शाण्डिल्य कुण्डिन विभाण्डक याज्ञवल्क्य ।
काण्वेवसिष्ठ यम दत्त पदं रणाय
शापेन निर्दहति नारद एषनोचेत् ॥ ४॥
भो नाकनायक विनायक चित्रभानो
भानो विशाख वरुण क्षणदेशदम्भौ ।
कीनाश किन्नरपते पवमान रुद्र
द्राक्तङगरं भजत भार्गवराघवीयम् ॥ ५ ॥
रत्नप्रभे रजनि चित्रलते लवङ्गि
सौदामिनि भ्रमरि सुन्दरि देवसेने ।
रम्भे घृताचि कलकण्ठि सुकण्ठि सर्वाः
स्वर्योषितो व्रजत पश्यत रामभद्रम् ॥ ६॥
मायावने विहगवेग कृपाणकेतो
जीमूतवाहन कपिञ्जल हंसनाद ।
विद्यावतंस तिलकोत्तर केलिसार
विद्याधरास्त्वरितमेत रणाय यामः ॥७॥
है हेमवर्ण मणिशेखर चित्रबाहो
वीणाविनोद मदवल्लभ रक्तकण्ठ ।
क्रीडाकुमार कनकाङ्गद रुद्रहास
द्राक् सारणाः सरत मां युधि चेद्दिदृक्षा ॥ ८ ॥
**उपाध्यायः -**वत्स भवभूते कलहकुतूहली नारदमुनिर्महर्षीन् देवानप्सरसो विद्याधरान् सिद्धांश्च हठप्रसादाभ्यांमभिधत्ते तदेह्यावामपि तत्समरोपस्थानेन कमलसंभवसंभवं मुनिमनुवर्तामहे ।
इति निष्क्रान्तौ । मिश्रविष्कम्भकः।
ततः प्रविशति मातलिसारथिना रथेन चामरधारिण्या वीज्यमानोदशरथः। समन्तादवलोक्य कथमुन्निद्रपारिभद्रद्रुमस्तबकरमणीयारुणसन्ध्यानुबन्धिनि गगनाङ्गणपृष्ठे प्रतिष्ठामहे । विचिन्त्य । अहो काऽपि वैचित्री वर्तते अन्तरिक्षकुक्षौ प्रभातसमयस्य तथाहि ।
व्योमोत्सङ्गविभूषणस्य सवितुर्द्यावापृथिव्योः समं
ध्वान्तध्वस्तिरुदङ्मुखैश्च किरणैः प्रारम्भि चावाङ्मखैः।
प्रत्यासन्नविरोधितस्य गगने मन्दाकिनीसद्मनां
पद्मानां प्रकरः प्रगेऽपि विकसत्यावृत्तकीर्णच्छदः ॥९॥
अपिचः।
निर्याति प्रथमप्रचारसमये स्फारध्वनड्डिण्डिम-
स्रस्ताधोरणदूरनामितगजेनाऽयं नभोवर्त्मना ।
अभ्रंवा जघनान्तदोलितकरः स्वर्वाहिनीं गाहितुं
रोधस्ताडनकेलिरुग्णदशनग्नावाश्रिरैरावणः ॥ १० ॥
स्मरणमभिनीय । आर्य मातले सकलसुरसुन्दरीकरतलान्दोलितचामरचिकुरचुम्ब्यमानमांस-लांसस्थलीसंदानितसन्तानकुसुममालाप्रालम्बेन समददानवद्विरदनिकुरम्बडम्बरडामरैकहारिणा हरिणा समादिष्टोऽस्मि यथा सखे दशरथ गच्छ त्वं मिथिलां पुरीं यदावेदितं मे मर्त्यमण्डलचाराधिकारचतुरेण चारणचक्रेण यदुत शङ्करशरासनसमारोपणपणप्रवर्तितसीतास्वयंवरयात्रापरतन्त्रायां मिथिलायां शिथिलाभिमानग्रन्थिमन्थरस्थितिषु संकलपृथ्वीपालेषु ।
गात्रं गोत्राचलेन्द्रस्त्रिनयनवलयं यस्य सिञ्जाभुजङ्गो
विष्णुर्बाणः पुराणां त्रयमभयमभूद् दुःखलव्यंशरव्यम् ।
धन्वी येनेन्दुमौलिः स च भुवनगुरुस्तद्धनुर्धाम धाम्नां
क्रूरक्रेङ्कारमारात्स्वभुजवलयितंरामभद्रेण भग्नम् ॥ १९ ॥
गुरुधनुर्ध्वंसजनितामर्षविषमेणवीतत्रासरेणुना रैणुकेयेन सह रामभद्रस्यं समरसंरम्भो भवितेति तत्र च तत्प्रतिकृत्यवधूवरमयोध्यामध्यारोप्य सुरकार्यशेषसंपत्तये पुनरनाहूतेनोपस्यातव्यमिति । तन्नमुचिसूदनसारथे कथय स भगवान् पौलोमीवल्लभो भृगुपतिचरितानि बहु मन्यते नवा ।
**मातलिः -**किं नाम बहु मन्यते नवेति शृणु श्रावयामि ।
आस्थानसद्मनि विलासगृहे विमाने
जैत्रे रथे चं सततं सुरचक्रवर्ती ।
रामस्य चित्रलिखितानि कुतूहलेन
वीरो विलोकयति पूर्वविचेष्टितानि ॥ १३ ॥
यदस्यैव पुरन्दरस्यन्दनस्य चतुर्दिशं मत्तवारणीयफलकेषु रामचित्रं लिखितम् । अङ्गुल्या निर्दिशन् तत्तावदितोदीयतां दृष्टिः। इयं च प्ररोचना भृगुपतिपराक्रममहानाटकस्य यदुत भगवतस्त्र्यम्बकात् कार्मुकोपनिषल्लाभः।
**दशरथः -**कथमयं विशालशिलः शिलोच्चयः। तत्रापि हिमालय इति प्रालेयपाण्डुराभिः शिखरश्रेणीभिर्लक्ष्यते ।
मातलिः -
शैलेन्द्रो हिमवानयं गुरुगुहागर्भस्यविद्याधरी-
गीतत्वच्चरितः कृताश्रमपदो रुद्रेणपन्त्यासह ।
एतस्मिंश्चिरजीविभिः परिगतं दिव्यौषधीसेवनात्
कन्दर्पस्य वपुष्मतश्च चरितं राजन्ननङ्गस्य च ॥ १३ ॥
अन्यतो दर्शयन् इह धनुर्वेदविद्योपदेशः।
देवस्त्र्यम्बक एष वन्द्यचरणो वृन्दैः सुधाभोजिना-
मत्रास्ते स शरासनोपनिषदं दातुं धृताचार्यकः।
दूरावर्जितमौलयः सरभसाः सद्यःप्रतीच्छन्त्यमी
हेरम्बेण च षण्मुखेन च समं रामादयः सुव्रताः ॥ १४ ॥
**दशरथः-**अहो मनुष्यमुनिमहाभागधेयो भगवान् भार्गवो यस्य स्वयमर्द्धेन्दुमौलि-र्धनुर्वेदविद्याचार्यः।
**सौदामिनी -**कथंअधिगदोवदेसरहस्सा खुरलीखेलिणो इदो एदे वट्टन्ति किं उण दूरदेसप्पसरो लक्खविक्खेवो णिविडप्पहारितणं च रामबाणाणं सविसेसमालिहिदं एत्य*।
**मातलिः -**अहो महदन्तरं प्रज्ञाप्रकर्षस्य तथाहि ।
उपदिशति समानं कर्म कृत्स्नंपिनाकी
सममपि च यतन्ते कर्तुमभ्यासमेते ।
तदपि भृगुकुलेन्दुः काममुत्कृष्यतेऽसौ
ननु भवति निवीतं द्रव्यमेव क्रियाभिः ॥ १५ ॥
पुरोऽवलोक्य। अति हि नाम स्वच्छन्दचरितस्याऽपि देवस्य माध्यस्थ्यं तथाहि ।
बर्हिध्वजेऽपि सति सत्यपि दन्तिवक्त्रे
प्रेमोपधानमवधूय पिनाकपाणिः।
हस्तेन नित्यधृतवासुकिकङ्कणेन
प्राज्ञप्रियः स्पृशति भार्गवमेव पृष्ठे ॥ १६ ॥
—————————————————————————————————————————
* कथमधिगतोपदेशरहस्याः खुरलीखेलिन इत एते वर्तन्ते । किं पुनर्द्धरदेशप्रसरो लक्ष्यविक्षेपो निबिडप्रहारित्वं च रामबाणानांसविशेषमालिखितमत्र ।
________________________________________________________________________
पुरतोऽवलोक्य कथं खुरलीखेलनप्रसरत्पृषत्कपङ्क्तीनां त्रिनयनान्तवासिनां चेतसि विरचितं पदं परस्परस्पर्द्धया । पुनरवलोक्य कोदण्डपाण्डित्यनिबन्धनः प्रवृत्त एवं कलहः।
**दशरथः -**एवमेवैतत् ।
द्वन्द्वारम्भविजृम्भितभ्रुकुटिना भालेन रामे मुनौ
कोदण्डं निबिडाङ्गुलीपरिगमादास्फालयत्ययतः।
ज्यानिर्घोषकषायितोदरजुषां गीर्वाणसेनापतेः
षड्वक्त्रीश्रवसां करोति न करद्वन्दुं पिधानक्रियाम् ॥ १७ ॥
**सौदामिनी -**एस समरङ्गणसमासण्णकेलाससिहरणिवेमी भअवं वुसहलञ्छणोसमं विसाहजणणीए देवीए पेक्खदिणंदिप्पमुहसेणावदिपरिव्वुदाणं कुमारहेरम्बाणं रामेण सह झत्ति समरसंरम्भविवसिदं * ।
**मातलिः -**न केवलं पश्यति स्वमनीषिकोत्कर्षणि शिष्ये किमपि प्रीयते यतः।
सम्यक्कोदण्डविद्या विनयचतुरता कुत्र सोल्लेखरेखा
पुत्रान्तवासिनोर्मेसपदि परिणतेत्येष वेत्तुं विशेषम् ।
देवः श्रीचन्द्रचूडामणिरचलसुतापाणिपद्मावलम्बी
स्थित्वोद्ग्रीवं विटङ्कात् स्फटिकशिखरिणो वीक्षते निश्चलाक्षः ॥ १८ ॥
**दशरथः -**अति हि प्रीयते यतः।
—————————————————————————————————————————
* एष समराङ्गणसमासन्नकैलासशिखरनिवेशी भगवान् वृषभलाञ्छनःसमं विशाखजनन्या देव्या प्रेक्षते नन्दिप्रमुखसेनापतिपरिवृतयोः कुमारहेरम्बयो रामेण सह झटिति समरसंरम्भव्यवसितम् ।
________________________________________________________________________
नन्दन्नन्दिनि चण्डचण्डचरिते हेलाचलच्चन्द्रम-
स्युद्दामद्विरदास्यहास्यरसवत्याविष्ट घण्टामुखे।
भ्राम्यद्भृङ्गिरिटौ च भङ्गुरगणग्रामे सहैवोमया
संग्रामे प्रहरन्नयं दिशिदिशि प्रेम्णा हरेणेक्ष्यते ॥ १९ ॥
मातलिः - इतइतः पश्य हास्याद्भूतयोरधिष्ठानम् ।
दोर्दण्डद्वितयाञ्चितोन्नतधनुर्यन्त्रप्रसूतेषवः
शुण्डोद्दण्डपरश्वधाः परिणमद्दन्तार्गलाकोटयः।
एताः कर्णविकीर्णवक्रकवचाः संरम्भिणः सङ्गरे
हेरम्बस्य हरन्ति हन्त हृदयं द्राक्कोपविक्रान्तयः ॥ ३० ॥
नरनागक्रियामिश्रा हृतरुद्राम्बकक्रियाः।
दुर्धरा हन्त हेरम्बरणव्यापारकेलयः ॥ २१ ॥
**सौदामिनी -**कुज्जराणणरणकम्मणिम्माणपडिकोविदेण जमदग्गिसूगुणा उवक्कन्तं किंपि जेण णासन्तगणग्गामं समज्जिदं विअ समरङेगणं पडिहाअदि*।
**दशरथः -**साधु सौदामिनि साधु यथा समर्थयसे।
अत्रैते प्रमथाः सरन्ति सभियः कैलासशैलान्तरं
नन्दी भृङ्गिरिटिश्च लूनधनुषावत्रेषुधी मुञ्चतः।
हेरम्बस्य च मुक्तमत्र मधुपैस्त्रासादमाद्यन्मुखं
क्रौञ्चारिः परमेष तिष्ठति हसन् सङ्ख्ये शरैः पुङ्ख्यितैः ॥२३॥
पुरोऽवलोक्य। कथं जामदग्न्यस्य पुरतोऽक्षरावली । वाचयति ।
—————————————————————————————————————————
* कुञ्जराननरणकर्मनिर्माणपरिकोपितेन जमदग्निसूनुनोपक्रान्तं किमपि येन नश्यद्गणग्राम समार्जितमिव समराङ्गणं प्रतिभाति ।
त्वं पुत्रस्त्रिपुरद्रुहः पुनरहं शिष्यस्तदेतावता
तुल्योप्यस्तु कथं तवायमधिकः कोदण्डशिक्षाविधिः।
तत्राधारनिबन्धनो यदि भवत्याधेयधर्मोदय-
स्तद्भोःस्कन्द गृहाण कार्मुकमिदं निर्णीयतामन्तरम्॥ २३॥
**मातलिः -**भूकाश्यप पुरतः पश्य सहसा षण्मुखं संमुखीभूय स्थितवन्तं गजाननं च भृगुपतिः पाशुपतास्त्रेण ज्योतिश्छटाछादितरोदःकन्दरकुहरडामरेण हर्षादुपतिष्ठते ।
**दशरथः -**कथमक्षरावली वाचयति ।
क्रोधोद्बोधव्यतिकरसदृङ्गिर्भराभ्यासयोग्यो
मद्दोर्दण्डोपगमसदृशस्त्र्यक्षशिष्योचितश्च ।
दत्तातङ्कोविबुधमनसां कर्तुमद्धाकबन्धं
चापादस्मातुप्रसरतु शरः सम्मुखः षण्मुखेऽपि ॥ २४ ॥
**मातलिः -**अत्रान्तरे किञ्चिज्जातम् ।
किञ्चित्कोपकषायितेन मनसा यावत् सतीसूनवे
त्रैयक्षं भृगुनन्दनो निजधनुर्यन्त्रे निधत्ते शरम् ।
हेलास्रस्तदुकूलसंवृतिमती विस्रंसिकाञ्चीलता
तावाद्व्याकुलनूपुरं भगवती मध्ये मृडानी स्थिता ॥ २५ ॥
**दशरथः -**पुरतोऽवलोक्य । अयं तु प्रकृत्युद्धतो रामः कथमित्थमतिप्रश्रयते । तदस्य त्रिभुवनातिशायि चरिताद्भुतं तथाहि ।
दृष्ट्वा रामः किसलयसमं पाणिमुद्यम्य सम्य-
ङ्मध्ये भूतां गिरिदुहितरं षण्मुखस्यात्मनश्च ।
संहृत्यास्त्रं विधृतशरधिर्मुक्तकोदण्डदण्डः
पादौ मार्जन्नमति नमता प्राग्जटामण्डलेन ॥ २६ ॥
**सौदामिनी -**अहो पसादादिसओ रामम्मि चन्द्रसेहरस्सतत्थभवं मच्चमण्डलाखण्डल ता इदो पेक्ख।68
**दशरथः -**दृष्ट्वा ।
येनात्र खण्डपरशुः परशूत्तमेन
शम्भुः सुमेरुतटताडनखण्डितेन ।
रामाय निर्जितवते तमसौकुठार-
मस्मै समर्पयति साञ्जलिसंपुटाय ॥ २७ ॥
दत्ते च विद्यास्थानानि देवस्तस्मै चतुर्दश
शतभङ्गीभवद्भद्रा महतां हि प्रसत्तयः ॥ २८ ॥
**सौदामिनी -**संके तदोपहुदि रामो परसुरामोत्ति उच्चदि ।69
**मातलिः -**इदमग्रतः पश्य ।
यः शृङ्गायैः सरणिमरुणत् क्रौञ्चशैलः सहेलं
यातुः शम्भोर्द्धनुरुपनिषत्प्राप्तये पादमूलम् ।
सोऽयं कोपाद्वहति विहितं मार्गणैर्भर्गवस्य
छिद्रद्वारं त्रिदिवसरसीहंसयात्रायवित्रम् ॥ २८ ॥
अथेदमग्रतः पश्य अयं हि पितृभक्त्यतिशयः परशुरामस्य यदुत रेणुकाशिरश्छेदः।
**दशरथः -**अहह शान्तं पापं कथं जमदग्न्यपत्यमपि प्रमाद्यति हंहो पुरुहूतसूत ।
सहस्रं हि पितुर्माता गौरवेणातिरिच्यते।
तत्किं पितृगिरा रामो विधत्ते रेणुकावधम् ॥ ३० ॥
यद्वा निरपराधवधादेष जमदग्निरपि प्रमाद्यति स्म । विचित्य कः पुनरयं मार्गे भार्गवस्य यदिदमपि प्रस्मर्यते ।
गुरोरप्यवलिप्तस्य कार्यकार्यमजानतः।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ ३१ ॥
**सौदामिनी -**कर्णौ पिधाय कहं उण भअवदा भग्गवेण तुदं सवणेहिं सुणिअ वा अणुचिदआरि अणुठ्ठिदं परसुधारावावारेण।70
**मातलिः -**अथायतः पश्य !
**दशरथः -**दृष्ट्वा कथं प्रत्यापन्नजीवितापुनरस्य माता ।
**मातलिः -**आश्चर्यमाश्चर्यम् ।
यावद्वरं न वृणुते किल जामदग्न्य-
स्तुष्टात् पितुः स्वजननीप्रतिजीविताय ।
तावच्छिरः पृथगपि स्थितमस्य मातु-
र्वेगादुपेत्य विदधात्यकबन्धभावम् ॥ ३२ ॥
**सौदामिनी -**तक्खणजणिदजीवितावदाणस्स सोहइ जणणीसिरच्छेदोवि भअवदो भग्गवस्स ।71
दशरथः -
यच्छिन्नंजननीशिरः पितृवराद्भूयोऽपि यत् संहितं
तच्छिष्यस्य पिनाकिनो महदभूच्चित्रं चरित्रं किल ।
तेनैतेन कथाद्भुतेन तु वयं वाचाऽपि लज्जामहे
यद्वाते गुरवोऽविचिन्त्यचरितास्तेभ्योऽयमस्त्वञ्जलिः ॥ ३३ ॥
**मातलिः -**इदमन्यद्दृश्यतां द्रष्टव्यम् ।
**दशरथः -**अयं हि प्रचण्डदोर्दण्डसहस्रदुःसहो हैहयनरेन्द्रः श्रूयते ।
मातलिः -
इष्टापूर्तपवित्रमाश्रमपदं प्राप्तोऽयमत्रार्जुनो
राजानं जमदग्निरत्रभगवान् सज्जातिथेयोऽर्चति।
धेनोः कामदुहः कृतोऽत्र च मुनेर्वत्सापहारोऽमुना
प्राणान्मुञ्चति चैष गोयहविधावार्चीकिरस्मिन् मुनिः ॥ ३४॥
**सौदामिनी -**पुरतोऽवलोक्य सविचिकित्सम् । अहह अखत्तिअगोत्तोचिदं आचरिदं बाहुसहस्सज्जुत्तेण सहस्सज्जुणेण जंदाणिं समररच्छामुच्छिदभत्तारपरित्ताणणिमित्तं उअरि णिबेसिदणिअसरीरा पडिव्वदाणं पढमोदाहरणं रेणुआ किवाणधारापहार्रोहं तहिं तडित्ति ताडिदा *।
**दशरथः -**कथं महतामपि प्रमादः। तदहोकिमपि कन्दलितानुरागाः संसारभोगाः।
—————————————————————————————————————————
* अक्षत्रियगोत्रोचितमाचरितं बाहुसहस्रयुक्तेन सहस्रार्जुनेन यदिदानीं समररथ्यामूर्छितभर्तृपरित्राणनिमित्त-मुपरि निवेशितनिजशरीरा पतिव्रतानां प्रथमोदाहरणं रेणुका कृपाणधाराप्रहारैस्तत्र तडिति ताडिला ।
________________________________________________________________________
**मातलिः -**पुरतोऽवलोक्य । अयमितो महावीरः पृष्ठासज्जिततूणीरः परमेश्वरोपदिष्टधर्मासज्जीकृतकार्मुककर्मा परशुधाराज्योतिरुज्जम्भणडामरः समरपरितोषितामरः सकलारण्यकजननिवेदितवृत्तान्तः साक्षादिव कृतान्तः शिखण्डिकेतुकाण्डावलीभिरप्यप्रहृतः शशिशेखरसेवानिवृत्तः सरभसमितोऽभ्युपेतः। कथमियमयतो वर्णावली । वाचयति ।
विद्वान् दारसखः परं परिणतो नीवारमुष्टिंपचः
सत्यज्ञाननिधिर्दधत् प्रहरणं होमार्जुनीहेतवे।
रे दुःक्षत्रिय किं त्वया मम पिता शान्तोमया पुत्रवान्
नीतः कीर्त्यवशेषतां तदिह ते धिग्धिक्सहस्रं भुजान् ॥ ३५॥
मातुः प्रहारत्रयमाहितं मे
विनापराधादिह हैहयेन ।
निःक्षत्रियां त्वां विनिहत्य तेन
त्रिःसप्तकृत्यो जगतींकरोमि ॥ ३६ ॥
भोभो निरवद्यवाचस्तपोधनाः किं मम कोपप्रशमं परिमार्गध्वं तदस्मिन् परवान् वर्ते ।
सा सतिश्च्यवनान्वये व्रतविधिः सोऽयं च वैखानस-
स्ताएताश्च गुरोरनङ्गदहनात् संस्कारशुद्धाः क्रियाः।
तत्त्वज्ञानमिदं च यत्किल दया भूतेषु धर्मः परः
सर्वं तत् परिहृत्य मातृवधजः क्रोधानलो जृम्भते॥ ३७॥
**मातलिः -**सत्यसङ्गरः परशुरामः।
ज्यावल्लीबद्धलङ्केश्वरसकलसुहृद्दीनविज्ञापनायां
दत्त्वा यः कर्णमूचे यदुत चिरतरं शिक्षतां राक्षसेन्द्रः।
सोऽपि ह्यास्कन्धबन्धत्रुटितभुजतरुर्भार्गवेणैष रोषात् ।
कीर्तिस्तम्भोपमश्री परशुविहतिभिर्द्राक्कृतः कार्तवीर्यः ॥ ३८॥
**सौदामिनी -**सच्चं परसुरामो भअवदो भग्गस्स सिस्सो किं उण भैरवरूवधारिणो ण उणं सदासिवस्स कहं अणणधा से भुअदण्डखण्डणेक्कमल्ला परक्कमारम्भा * ।
दशरथः -
एषत्रिःसप्तकृत्वस्त्रिभुवनतिलको माथकः क्षत्रियाणां
तावद्वा भूतधात्र्याःक्रतुषु गुणवते कश्यपाय प्रदाता ।
स्नाता क्षत्रास्रवापीष्वतनुषु बहलक्रोधवह्निप्रशान्त्यै
पित्रोः किञ्च प्रवीरः सपदिवितरिता तन्निवापाञ्जलीनाम्॥ ३८ ॥
पुरोऽवलोक्य । अहो भार्गवपुङ्गवस्य पराक्रमातिशयो यदियं दशा वर्तते महीपालानां तथाहि ।
याचन्ते गृहिणीमुखैर्नृपतयः स्वप्राणभिक्षामिमे
बन्धन्तश्चरणाग्नयोर्निपतिताः कण्ठे कुठारान् परे ।
लीलादर्पणपाणयोविरचितस्त्रीवेशमेते नताः
किञ्चान्ये विगलन्ति चीवरभृतो द्वार्वेदिकाशायिनः॥ ४० ॥
**मातलिः -**पुरोऽवलोक्य तदिदमतिचरमं चरिताद्भुतं परमेश्वरशिष्यस्य परशुरामस्य ।
दत्त्वा पृथ्वींजलधिरसनामर्थिने ब्राह्मणाय
स्फारज्योतिःशरविहतिभिः सिन्धुमुक्ते परान्ते ।
—————————————————————————————————————————
* सत्यं परशुरामो भगवतो भर्गस्य शिष्यः किं पुनर्भैरवरूपधारिणो न पुनः सदाशिवस्य कथमन्यथाऽस्य भुजदण्डखण्डनैकमल्लाः पराक्रमारम्भाः।
________________________________________________________________________
ब्रह्मावाप्त्यै जयपरशुनास्मिन् समित्काण्डलावः।
शिष्यः शम्भोर्विहितवसतिस्तप्यतेऽसौ तपांसि ॥ ४१ ॥
दशरथः - किमपरमारम्भपर्यवसानयोरखण्डः खण्डपरशुशिष्यस्य वीरव्रतनिर्वाहः।
सौदामिनी - उभअं खु ण्दं अप्प
डिहदप्पहावं सुणिमो णीललोहिदणिडाललोअणुल्लासी भअवं हुदवहो जं चण्डीसकोअण्डरहस्सोवदेसणीसंदपल्लविदपदावप्पसरो परसुमोत्ति
*
।
दशरथः - समन्तादवलोक्य । आर्य मातले महावीरचरित्रावलोकनपरायत्ते चित्ते न किञ्चित्प्रतिभाति । तत्कथय कतमः पुनरयमन्तरितोक्षोद्देशो यत्र वर्तामहे ।
मातलिः - पुरन्दरनगरीतः सप्तमो मर्त्यमण्डलतः प्रथम
.
…. वायुस्कन्धः किं पुनरदूरवर्तिवसुधातलादस्मद्रथगतिः।
….. वेगनाटिसकेन सेयं विदेहनगरी तदिदं च विदेहपतिमदरं
… तदवतीर्यमहाराजदशरथो मामनुजानातु स्वर्गगमनाय सौदामिनीं च । अयं च मिथिलेश्वरप्रतीहारः प्रत्यभिज्ञाय
….. वन्तमभ्युत्थितः।
दशरथः - अवतीर्य आर्य मातले भद्रे सौदामिनि साध
….युवामिति।
प्रविश्य प्रतीहारः प्रणम्य च इतइतोऽभ्येतु महाराजदशरथः।
—————————————————————————————————————————
this page is needs correction
*
उभयं खल्वेतदप्रतिहतप्रभावं शृणुमो यन्नीललोहितभाललोचनोऽसी भगवान् हुतवहो यच्चण्डोशकोदण्डरहस्योपदेशनष्यन्दपल्लवितपप्रसरः परशुराम इति।
—————————————————————————————————————————
**दशरथः -**परिक्रम्य हंहो सीरध्वजदौवारिक अपि वृत्तविवाहमङ्गलो रामभद्रः।
**प्रतीहारः -**न केवलं वृत्तविवाहमङ्गलः प्रस्थानोन्मुखश्च वर्तते तदर्थं च महाराजसीरध्वजो विश्वामित्रो रामभद्रलक्ष्मणौ सीताहेमप्रभे च तमिममास्थानमण्डपमधितिष्ठन्ति ।
दशरथः - हृदय किमुत्कण्ठसे सवधूटीकं रामभद्रं पश्येति प्रविशतः।
ततः प्रविशन्त्युपविष्टा यथानिर्दिष्टाः सीरध्वजादयः। शतानन्दः सीतायाश्चिबुकमुन्नमय्य ।
यस्यास्ते जननी स्वयं क्षितिरियं योगीश्वरोऽयं पिता
मातर्मैथिलि शिक्ष्यते कथय किं तस्याः सुजातेस्तव ।
स्नेहात्केवलमुच्यते पुनरिदं स्त्रीणां पतिर्दैवतं
यद्भूयास्त्वमपास्य धर्ममपरं छायेव रामानुगा ॥ ४२ ॥
**सीता -**लज्जते ।
**जनकः -**वत्सै वैदेहि यदभिधानीयं तदभिहितं कुलगुरुणाऽऽङ्गिरसेन तथाप्यपत्यस्नेह एष मां वाचालयति।
अभ्युत्थानमुपागते गृहपतौतद्भाषणे नम्रता
तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्यास्वयम् ।
सुप्ते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति
प्राच्यैः पुत्रि निवेदिताः कुलवधूसिद्धान्तधर्माअमी ॥ ४३ ॥
**शतानन्दः -**जानकि इदं च प्रसङ्गानुगतं शिक्ष्यसे ।
निर्व्याजा दयिते ननान्दृषु नता श्वश्रूषु भक्ता भव
स्निग्धा बन्धुषु वत्सला परिजने स्मेरा सपत्नीष्वपि ।
पत्युर्मित्रजने सनर्मवचना खिन्ना च तद्वेषिषु
स्त्रीणां संवननंनतभ्रुतदिदं वातैषधं भर्तृषु ॥ ४४ ॥
सीता रोदिति।
**जनकः -**निःश्वस्य।
सीते संवृणु बाष्पवारि भवती मुग्धा ममेदं मनो
व्युत्पत्त्याऽपि हि याज्ञवल्क्यगुरुतः संसारभागे स्थितम् ।
किञ्चान्यत्कथयामि मे हृदयतो ह्रीमुद्रया प्रोषितं
विश्वामित्रमहामुनेरपि पुरो यल्लोचने साश्रणी ॥ ४५ ॥
**शतानन्दः -**कथमिव भगवान् कुशिकनन्दनोऽपि व्रीडाबीजं यस्यास्य ।
सांसारिकैर्वचोभिस्ते सीताविश्लेषजन्मभिः।
द्रवतीव मनो बाष्पैर्विश्वामित्रमुनेरपि ॥ ४६ ॥
**रामः -**स्वगतम् कथमियं रोदिति । विभाव्य ।
बाष्पोत्पीडः श्लथपुटतया तावदन्तर्निरुद्ध-
स्तूर्णोत्तीर्णस्तरलनयनस्तारकाभ्यां निपातः।
सान्द्रस्यन्दः सपदि चपलैः पक्ष्मभिः प्रान्तकीर्णः
पूर्णस्रोतास्तदनु सुदृशा लोठितोऽवक्रकण्ठम् ॥ ४७ ॥
विचिन्त्य रुदन्त्यपि किमपि जानकीसमाधाय मधुरस्य हि मानुषस्य प्रकृतिरेषा । तद्यथाकथमपि रमयति ।
**सीता -**ताद उम्मिलामण्डवीसुदकित्तीहिं समं गमिस्सं ।72
**विश्वामित्रः -**भो ता अपि यास्यन्ति।
**हेमप्रभा -**तव सिक्खिदं भअवदा किंपि।73
**शतानन्दः -**अति हि मुग्धा जानकी ।
**प्रतीहारः -**देवो दशरथो राजन् संबन्धी ते समागतः शतक्रतुरथेनायमभ्युत्थानेन पूज्यताम् । सर्वे सहसा समुत्थाय यथोक्तं कुर्वन्त्युपविशन्ति च ।
**जनकः -**पुरन्दरस्य सखे संबन्धिन् दशरथ।
मया विनाविवाहोऽभूदिति चेतसि मा कृथाः।
यदासीत् सन्निधौतत्र स्वयं कुशिकनन्दनः ॥४८॥
नेपथ्ये ।
उच्चण्डाच्चन्द्रचूडालिकफलकतटालङ्कृतेरुर्ध्वनेत्रात्
त्रैलोक्याकाण्डरोगज्वरजननगुरोर्मण्डितुर्मण्डलस्य।
उत्तप्तस्वर्णचूर्णप्रतिकृति विकिरन् दिङ्गिकुञ्जेषु तेजः
कोऽयं वेगाद्वयुष्मानिव सरति दृशां बर्हणोबर्हिरुत्थः ॥ ४९ ॥
पुनस्तत्रैव ।
यत्तूणे परशुर्द्धनुर्गुणनतं पाणौ शराः पञ्चषाः
कृष्णैणाजिनमक्षसूत्रवलयं यज्ञोपवीतं जटाः।
तन्नूनं जमदग्निजो मुनिवृषा रोषादुपैत्यग्रत-
स्तुल्यं मूर्तिमिवैष बिभ्रदुभयींवीरस्य शान्तस्य च ॥ ५० ॥
**जनकदशरथौ -**भगवन्नाङ्गिरस सज्जातिथेयो भव भार्गवोऽतिथिर्भवति ।
**शतानन्दः -**अस्त्यतिथिरयं किं पुनः समरश्राद्धकर्मणि ।
**रामः -**वत्स लक्ष्मण निखिलवैखानसवन्द्यो वीरग्रामणीः अवणपरम्परोत्पादितकौतुकातङ्कमुद्रो भगवान् भार्गवो दिष्ट्या द्रष्टव्यः।
**लक्ष्मणः -**आर्य न केवलं द्रष्टव्योऽनुभवितव्यश्च ।
**रामः -**के वयं भार्गवानुभवे ।
**सीता -**अपवार्यपिअसहि हेमप्पहे चण्डीससिस्सो खत्तिअअन्तअरो अ परसुरामोत्ति सुणिअ पल्लविदकोदूहलवल्ली पज्जविदसझ्झसरसपरवसा वट्टामि *।
**हेमप्रभा -**जुज्जदि पप्फुल्लकोदूहलत्तणं परसुरामदंसणेण उणससझ्झसत्तणं भग्गधणुद्दण्डचण्डचरिदस्स पुरदो रामअन्दस्स।74
ततः प्रविशति सरोषसंभ्रमो जामदग्न्यः।
**जामदग्न्यः -**भोः किमसावकाण्डचण्डो निबिडकडत्कारपूरितरोदसीकन्दरोदरमेदुरो निनदनिस्यन्दः। कर्णं दत्त्वा आकाशे । किं ब्रूथ दाशरथिना रामेण स्थाणवीयं धनुरारोपितमाकृष्टं भग्नं च तदुद्भवः कोदण्डकोटरकुटीरकटुरसौसुटङ्कष्टङ्कारः। सविषादम् ।
पौलस्त्यस्य तिरस्कृतामरपतेस्ते बाहवोविंशति-
र्दम्भोलिव्रणगुच्छलाञ्छनभृतो यस्मिन् गताः कुण्ठताम् ।
तद्भग्नं यदि कार्मुकं भगवतोरामेण चूडावता
धिग्धिङ्मां तदिदं नमः परशवे स्वस्त्यस्तु रुद्राय च ॥५१॥
विचिन्त्य। आत्मानं निर्दिशन् सत्यसङ्गरस्तदेष परशुरामः। तदेकवारं गुरुष्वपि प्रतिज्ञातमर्थं कथयति । यदित्थं
—————————————————————————————————————————
* प्रियसखि हेमप्रभे चण्डीशशिष्यः क्षत्रियान्तकरश्च परशुराम इति श्रुत्वा पल्लवितकौतूहलवल्ली प्रज्वलितसाध्वसरसपरवशा वर्ते ।
कथयन्ति गुणदोषयोर्युगपदापततोर्गरीयसि प्रयतितव्यम् । अञ्जलिं बद्ध्वा आकाशतः।
भोः सर्वे च्यवनादयः शृणुत मे रामस्य विज्ञापना-
माज्ञां वो न च लङ्घयामि किमु तद्भर्गस्य भग्नं धनुः।
क्षुण्णक्षत्रियमेकविंशतिमतो वारान् विधातुर्जग-
द्वाविंशोऽपि ममैष संप्रति पुनर्जातः प्रतिज्ञाक्षणः ॥ ५२ ॥
सहसा परिक्रम्य । धनुर्भङ्गदर्शनं नाटयित्वा । हा शङ्करकरान्दोलनदुर्ललित हा त्रिपुरदहनडम्बरहठकर्मकर्मठ हा गीर्वाणसारपरमाणुनिर्माण हा दुर्जनजनकसदनदुर्निक्षेप हा नतसकलनाक पिनाक त्वमपीदृशं दृश्यसे तदिदमापतितं लूतातन्तुना गन्धगजालानसंदानं सूचीतुण्डेन वज्रमणिभेदः। तथाहि ।
पार्वत्या निजभर्तुरायुधमिति प्रेम्णा यदभ्यर्चितं
निर्मोकेन च वासुकेर्निचुलितं यत सादरं नन्दिना।
निर्दग्धत्रिपुरेन्धनं धनुरिदं तत् मन्मथोन्माथिनः
शिष्ये सत्यपि रामनामनि मयि द्वेधा कृतं दृश्यते ॥ ५३॥
सक्रोधगर्वं समन्तादवलोक्य भो भो प्रोषितजामदग्न्यं जगदवीरं मन्यमाना वीरंमन्याः क्षणमात्रमवधत्त ।
चूडापञ्चकमण्डनः क्वनु शिशुश्चण्डः क्वचायं मुनि
र्नित्याकुण्ठखुरप्रखण्डितबृहत्क्रौञ्चाद्रिगर्भान्तरः।
तत् सर्वानपि वः स्वयंवरविधौ राज्ञः समेतान् ब्रुवे
रामं रक्षत शक्तिरस्ति यदि वः क्रुद्धः पुनर्भार्गवः ॥ ५४॥
कर्णं दत्त्वा आकाशे । किं ब्रूथ वह्निरेव वह्नेर्भेषजं राम एव रामस्य रचिता न यरवीर्यरक्षणीयं रघुकुलमिति । विभाव्य । न
निज्ञवीर्यरक्षणीयं नापरवीर्यरक्षणीयं रघुकुलं नीललोहितान्तेवासिनि रामेऽभियोक्तरि । विचिन्त्य। अहो कालपरिपाको यदश्रुतपूर्वाणि वचांसि श्रूयन्ते यदनालोकितचराणि चालोक्यन्ते सखेदम् । इदं च दुःसहतरं निकारान्तरम् । हस्तमवधूय ।
अद्यापि धिक्किमिव जीवति भार्गवोऽसौ
बाणावलूनगुहवाहनबर्हदाम्नः।
यस्यावमत्य गुरुदत्तमिमं कुठारं
डिम्भोऽपि राम इति नाम यदस्यहर्ता ॥ ५५ ॥
कर्णं दत्त्वा आकाशे । किं ब्रूथ केन न वर्णितं दाशरथेः शङ्करकार्मुकारोपणं को न विस्मितस्तद्भङ्गेन साक्षेपम् । किमुक्तं केन न वर्णितमित्यादि पठति । तच्छृणुत भोः।
यः कर्ताहरचापदण्डदलने यश्चानुमन्ता ननु
द्रष्टा यश्च परीक्षिता च य इह श्रोता च वक्ता च यः।
सद्यःखण्डितकण्ठपीठवलयः केलिं करिष्यत्ययं
कीलालोल्लसितस्य तस्य परशुर्भर्गप्रसादीकृतः ॥ ५६ ॥
सरभसं परिक्रम्य ।भो विदेहेश्वरशुद्धान्तसंचारिणःकुब्जवामनकिरातवर्षवरसौविदल्लाः क्व रामो दाशरथिः। नन्वेष भार्गवाऽभ्युपैति ।
लूनक्षत्रियकण्ठमण्डलगलत्कीलालकुल्याभृत-
प्राग्मारेषु सरःसु यस्त्रिषु रुषा चक्रे निवापक्रियाम् ।
श्रुत्वा धूर्जटिचापदण्डदलनं नाम्नश्च सापत्नकं
रामो राममयं स्वयं गुहसहाध्यायी समन्विष्यति ॥ ५७॥
**रामः -**वत्स लक्ष्मण दूरत्वादविभावितेनापि तारतरेणवचसा सरोषसंभ्रमोभार्गवो मुनिः प्रतिभाति ।
जामदग्न्यस्तदेव पठति ।
**रामः -**सरभसमुपसृत्य भगवन् भार्गव सदयं प्रसीद सदाचार इति रामोऽभिवादयितुकामः।
**जामदग्न्यः -**विहस्य नाभिवादनप्रसाद्यो रेणुकासूनुः गरीयान् हि गुरुधनुर्भङ्गापराधः। किं न श्रुतम् ।
अपि कालस्य यः कालः कण्ठे कालो महेश्वरः।
भार्गवस्तस्य शिष्योऽहं निसर्गनिरवग्रहः॥ ५८ ॥
ततश्च ।
मध्येनरेश्वरसभं रभसेन येन
मुक्तं धनुस्तडिति च त्रुटितं गुरोर्मे ।
रामेऽपि नाम भजतां भुजदण्डयुग्म-
मुद्दामधामनि तदेतदकाण्डचण्डम्॥ ५८ ॥
**रामः -**सविनयं केयमक्षान्तिर्भगवतो मुग्धबुद्धिषु मादृशेषु पुत्रभाण्डेषु पश्यतु हि तपोराशिः।
बाह्वोर्बलं न कलितं न च कार्मुकस्य
त्रैयम्बकस्य तनिमा तत एष दोषः।
तच्चापलं परशुराम मम क्षमस्व
डिम्भस्य दुर्विलसितानि मुदे गुरूणाम् ॥ ६० ॥
**जामदग्न्यः -**किं नाम तपोराशिरहं न शौर्यराशिः। किञ्च रे निदर्शितलाघव राघव स्ववर्णनापरं सगर्वमभिहितं तदाकर्णय यत्ते करोमि ।
त्रुटितनिबिडनाडीचक्रवालप्रणाल-
प्रसृतरुधिरधाराचर्च्चितोच्चण्डरुण्डम् ।
मडमडिति मृडानीकान्तचापस्य भङ्क्तुः
परशुरमरवन्द्यःखण्डयत्यद्यमुण्डम् ॥ ६१ ॥
रामः -
स्वायत्तेन कुठारेण स्वाधीने राममूर्द्धनि।
यथेष्टं चेष्टतामार्यस्त्वदाज्ञां को निषेधति ॥ ६२ ॥
**जामदग्न्यः -**यः प्रेतनाथस्यातिथ्यमनुभवितुकामः। रामः। ऋञ्जलिंबद्ध्वा।
अनूचानं भक्त्या भृगुभव भवन्तं प्रणमति
क्रुधः शान्त्यै रामस्तदिह सुकुमारं कुरु मनः।
हठान्यस्यत्कण्ठे परशुमपि नोत्तेजयसि मां
रघूणां ब्रह्माणः किमपि यदमी गोत्रगुरवः ॥ ६३॥
**जामदग्न्यः -**विहस्य ।
रुद्राणीधर्मसूनुर्विशिखविलिखनच्छिन्नकौञ्चाद्रिकुञ्जः
स्कन्दावस्कन्ददायी कृतरणरसिकक्षत्रियक्षोदकेलिः।
दत्तोर्वीनव्यभिक्षः शरविधुतपयोराशिबद्धाश्रमोऽहं
श्रेष्ठः श्रीकण्ठशिष्योधनुषि धृतरतिर्ब्राह्मणोरैणुकेयः ॥ ६४॥
**शतानन्दः -**किमुच्यते वीरवर्गवरिष्ठःश्रीकण्ठशिष्यः। जामदग्न्यः। यदिहापि राजन्यपोते भार्गवो धनुर्धारयति तदसावस्यैवापराधो यदुत्फल्लफणं फणावन्तं न पश्यति। स तस्यैव दोषः। ततः।
पक्वकर्पूरनिष्येषमयं निरपिषत् त्रयम् ।
मम व्रीडां च चण्डीशचापं च स्वं च जीवितम्॥ ६५॥
**जनकः -**कथं सन्यस्तशस्त्रग्रहणस्यापि मम पुनरस्त्रग्रहणक्षणो वर्तते । नेपथ्याभिमुखमवलोक्य कः कोऽत्र भोः धनुर्धनुः।
पुरुषः प्रविश्य धनुरूपनीय निष्क्रान्तः।
**जनकः -**धनुरादाय।
चण्डीशचापमवमन्तरि राक्षसेन्द्रे
शस्त्रत्यजाऽपि धृतमेव मया त्वमासीः।
रामाय कार्मुक पुनः परिगृह्यसेऽद्य
वत्सेऽपि वाञ्छितवतेऽनुचितं चरित्रम् ॥ ६६॥
समाधाय।
प्रणमति जनकस्त्वां देवि दिव्यास्त्रविद्ये
मम धनुषि पुराणे सन्निकर्षंकुरुष्व ।
परिभवति मदग्रेभार्गवो रामभद्रं
प्रहिणु तदिह बाणान् वार्द्धकं मां दुनोति ॥ ६७ ॥
**दशरथः -**संबन्धिन् जनक कृतंकृतं कार्मुकपरिग्रहेण किमिति प्रादुर्भूतसाहसावतंसमपि जामातरमवजानासि ॥ पश्य ।
यस्योत्पत्तिर्दिनकरकुले यं महाभागधेयं
विश्वामित्रो धनुरुपनिषद्योकशिष्यं व्यधत्त ।
श्रीकण्ठीये बलमविकलं यस्य चापे च दृष्टं
तस्यान्यस्माद्यदि परिभवः स्वस्ति वीरव्रताय ॥ ६८ ॥
**विश्वामित्रः -**महाराजसीरध्वज यथाह संबन्धी ते दशरथः। धनुरपनीय जामदग्न्यं प्रति।
रामः शिष्यो भृगुभव भवान् भागिनेयीसुतो मे
वामे बाहावुत तदितरे कार्यतः को विशेषः।
दिव्यास्त्राणां तव पशुपतेरस्य मत्तस्तु लाभ-
स्वत् त्वां याचे विरम कलहादार्यकर्मारभस्व ॥ ६९ ॥
**जामदग्स्यः -**मातुर्मतुल न किञ्चिदन्तरं भवतो भवानीवल्लभस्य च न किञ्चिदन्तरं क्षत्रियवटोस्त्वदन्तेवासिनः क्षत्रियान्तकरस्य शङ्करशिष्यस्य वा ।
**शतानन्दः -**अतिनिरर्गलवाग्भार्गवो यद्गुरुष्वपि नानुरुध्यते ।
**जामदग्न्यः -**किञ्च भोः स्वभुजोपार्जितब्रह्मभाव न शस्त्रग्रहणाधिकारः संबन्धमनुरुध्यते।
**रामः -**ब्रह्मर्षे जामदग्न्य कः पुनरयं शस्त्रग्रहणाधिकारो यद्गुरुष्वपि तिरस्कारः।
**जामदग्न्यः -**सभ्रुकुटीभङ्गम्। आः क्षत्रियखेट बटो वाचाटोऽसि ।
भग्नरुद्रधनुःखण्डप्रोतेन शिरसा तव।
मुण्डधारी व्रती चाहमुपस्थास्ये कपालिनम् ॥ ७० ॥
**रामः -**भगवन् किं पुनरिमाः सर्वंकषा रोषवाचः।
सर्वत्यागी परिणतवयाः सप्तमः पद्मयोनेः
शिष्यः शम्भोरिति च यदि वः प्रश्रयी रामभद्रः।
तत् किं भीमा भ्रुकुटिघटना तामिमां नास्मि सोढा
वोढा वीरव्रतविधिमयं यद्गुरुर्व्रीडमेति ॥ ७१ ॥
**जामदग्न्यः -**ततः किम् ।
**रामः -**ततश्चेदम्।
यस्याचार्यकमिन्दुमौलिरकरोत् स ब्रह्मचारी चिरं
जातो यत्र गुहश्चकार च भुवं यद्गीतवीरव्रताम्।
तत्कोदण्डरहस्यमद्य भगवन् द्रष्टैष रामः स ते
हेलोज्जृम्भितजृम्भकेण धनुषा क्षत्रं च नालं वयम् ॥७२॥
**जामदग्न्यः -**साधु रे क्षत्रियडिम्भसाधु साधु मातुर्मातुलशिष्य साधु साधुताडितताडकाकुटुम्बक साधु साधु भग्नभर्गब्राणासन साधु साधु रैणुकेयरणरसिक साधु, किन्तु ।
चापं वृषाकपिनिरस्तसमस्तसारं
द्वेधा विधाय रघुनन्दन मा स्म दृष्यः।
वैकुण्ठकार्मुकमकुण्ठकठोरभाव-
मारोपयैतदिह चेत् तवशक्तिरस्ति ॥ ७३॥
इति धनुरर्पयति ।
लक्ष्मणः। पुरोभूयादाय च धनुः। आर्य आर्य आर्यलाभपणैकप्रणयिनि शङ्करकार्मुकारोपणे के नामान्ये दोर्दण्डचण्डिममात्रारोप्ये तु वैष्णवे धनुषि सति पदातिलवे लक्ष्मणे न प्रभुरार्यः।
**सीता -**स्वगतम् । वच्छ लक्खण सुलक्खणोसि जो राहवकुलोचिदचरिदधुरं धारेसि ।75
**विश्वामित्रः -**रामभद्रे भग्नधूर्जटिधनुषि ज्यायसि कनीयसो भ्रातुरुचितमेव माधवीयं चापमारोपयितुं भङ्क्तुंवा ।
**लक्ष्मणः -**आरोपयति।
शतानन्दः -
दोर्दण्डन्यासलीलानमदष्टनि तडत्कारि नारायणीयं
सद्यःसज्जीकृतज्यं विरचयति धनुर्लक्ष्मणे स्यामलक्ष्म ।
रामस्याद्यस्य दत्तं मुखशशिनि पदं कालिकालाञ्छनेन
न्यस्तं नव्यस्य भव्ये कुमुदवनभुवा द्राक्स्मितज्योत्स्नया च ॥ ७४ ॥
**विश्वामित्रः -**योगिन् जनक सखे दशरथ रामभद्रभ्रातृत्वमति हि निर्व्यूढमिक्ष्वाकुकुललक्ष्मणो लक्ष्मणस्य ।
**हेमप्रभा -**सहि जाणइ पेक्ख देवरस्स दे भत्तुसरिसं परक्कमं ता सुभणिदं अज्जेण णिद्दलिदसङ्करसरासणे जेट्ठे कणिट्ठभादुणो समुचिदं जेव्व वैकुण्ठबाणासणविणासणम्। अण्ण कधेमि *।
धणुविब्भमोमझ्जणिविद्दमुद्दिणिबन्धरणन्तणिअदण्डम्।
चलई जेइअणिवडन्तचडुलगुणघग्घरुसूसम् ॥
बह्मण्डभण्डभिन्दणवाउलपडुरवगुणमिस्सो ।
सन्धिज्जइ पअडपओदमण्डणाडम्बरुड्डामरो ॥
सवणन्तघडिअगुणलछिणीबिडक्रुडिलन्तकोडिकुण्डलिअम् ।
झणझणइ झत्ति पुणरुत्तिमज्जुसिञ्जारवं चावम् ।
भुअजुअलदण्डमण्डलिअचण्डकोअण्डदण्डभङ्गभवो।
पिण्डिजुइ ग्रह व ब्रह्मण्डभण्डए कडु कडक्कारो ॥
इअवलइअसन्धिअकट्ठिअस्स धणुहो णरेन्दसदणेषु।
रहुउलविक्कममेक्कं कहईव विदलणटङ्कारो+॥
जनकः -
—————————————————————————————————————————
* सखि जानकि प्रेक्षस्वदेवरस्य ते भर्तृसदृशं पराक्रमं तत् सुभणितमार्येण निर्दलितशङ्करशरासने ज्येष्ठे कनिष्ठभ्रातुः समुचितमेव वैकुण्ठबाणासनविनाशनम् । अन्यत् कथयामि ।
+ धनुर्विभ्रमो मध्यनिविष्टमुष्टिनिबन्धरणन्निजदण्डम् ।
चलति जेप्यनिपतच्चटुलगुणघर्घरोच्छोषम् ॥
ब्रह्माण्डभाण्डभेदनव्यापृतपटुरवगुणमिश्रः।
सन्धीयते प्रकटपयोदमण्डनाडम्बरोड्डामरः ॥
—————————————————————————————————————————
हरधनुषि हठाधिरोपणेन
क्षितितनयापरिभाषितः पणोऽभूत्।
विहितमपरिभाषितं पणत्वं
पुनरिदमूर्मिलयामुरारिचापे॥ ७५ ॥
हस्तमुद्यम्य भोः संबन्धिन् दशरथ साऽपिवत्सा ममोर्मिला पारितोषिकं लक्ष्मणस्यास्तु ।
**दशरथः -**अस्तु।
**विश्वामित्रः -**ते अपि माण्डवी श्रुतिकीर्तिश्च कुशध्वजदुहितरौभरतशत्रुघ्नयोः स्ताम् ।
**शतानन्दः -**आं किमपि प्रियं नः।
**जामदग्न्यः -**अति हि दशरथडिम्भौप्रगल्भेते तदेतदपरं समरसंरम्भक्षमां मिथिलोपकण्ठक्षमामवतराम इत्यवतरति ।
नेपथ्यं प्रति । अये माठर धनुर्धनुः।
प्रविश्य शिष्यः। इदं धनुः।
**जामदग्न्यः -**आदाय ।
हर्षोन्मुक्तामृतार्द्रद्युसदनसुमनोदामसम्पर्कजीव-
म्मद्बाणक्षुण्णवीराण्यनणुरणमहारम्भनर्मायितानि।
वर्तन्तां नव्यपत्युत्सुकविबुधवधूवाञ्छितच्छेदखेद-
व्याधूताविद्धपाणिप्रविचलवलयास्फालकोलाहलानि॥ ६ ॥
ततश्च।
——————————————————————————————————————————————————
श्रवणान्तघटितगुणवष्ठिनिबिडकुटिलान्यकोटिकुण्डलितम् ।
झक्षझणायते झटिति पुनरुक्तिमञ्जुसिञ्जारवं चापम् ॥
भुजयुगलदण्डमण्डलितचण्डकोदण्डदण्डभङ्गभवः।
पिण्ड्यते अथ चब्रह्माण्डभाण्डे कटु कटत्कारः॥
इति वलयितसन्धि आकृष्टस्य धनुषो नरेन्द्रसदनेषु ।
रघुकुलविक्रममेकं कथयतीव विदलनटङ्कारः ॥
—————————————————————————————————————————
विधाय धरणीबन्धमराममपलक्ष्मणम् ।
अनृणो गुरुपादानां गन्ताऽस्मि निजमाश्रमम् ॥ ७७॥
**रामः -**भगवन् भार्गव।
करस्ये सति कोदण्डे तूणीरस्येषु पत्रिषु ।
विधत्स्व स्वयशोवीर्य किं वीरस्य विकत्थया ॥ ७८ ॥
इति परिक्रम्य निष्क्रान्ताः सर्वे ।
॥ भार्गवभङ्गो नाम चतुर्थोऽङ्कः॥
———————
॥ अथ पञ्चमोऽङ्कः ॥
<MISSING_FIG href="../../../books_images/U-IMG-1692346230Screenshot2023-08-17093724.png"/>
अतः परमुन्मत्तदशाननो भविष्यति ।
प्रविश्य मायामयः परिक्रम्य च साक्षेपम् । हंहोनिसर्गनिरर्गलचरितैकनिंबन्धन विधे इदमुपालभ्यसे कः पुनः प्रकारस्तव यद्रत्नाकरेऽपि क्षारभावः सुधादीधितावपि लाञ्छनछाया पुलस्त्यापत्येऽपि मतिविपर्यासो यदादिष्टोऽस्मि राक्षसराजेन यदुतगच्छत्वं रघुराजधानीमयोध्यां तत्र च चण्डीशकोदण्डनिर्दलनलब्धजानकीजनितगर्वगरिमा प्रथमदाशरथिर्वाच्यः।
मैथिली यदि धनुर्लहो भवे-
त्तद्गुणात् प्रथमतस्तदीशिनः।
राम विद्धि तव मोहमित्यमुं
विष्टपत्रयपतेर्ममास्तु सा ॥ १ ॥
किञ्च रे राजन्यपोत न श्रवणगोचरं गता राक्षसराजप्रति
ज्ञेयम् । कुर्वन्मौर्वीत्यादि पठति । भद्र मायामय स इत्यभिहितस्तामर्पयिष्यति सा तु तदर्पिता ।
अस्मद्विक्रमचेष्टितानि निखिलत्रैलोक्यहेलाजय-
प्रव्हीभूतसुरासुराणि भवतो भूमेः सुता शृण्वती ।
पत्यौ द्वेषकषायितेन मनसा स्निग्धा मयि स्थास्यति
स्त्रीणां प्रेम यदुत्तरोत्तरगुणग्रामस्पृहाचञ्चलम् ॥ २ ॥
विचिन्त्य। तत्कथमसौ निसर्गनिशाचरशत्रुर्वसिष्ठविश्वामित्रसनाथ इत्थमभिघातव्यो भवति सोऽयं कालकूटकवलनग्रहस्तदिदं यमदंष्ट्राङ्कुरशलाकाकर्षणं विभाव्य भवतु तदिदमसमञ्जसं चेष्टितं देवस्य नयज्ञानवते माल्यवते निवेदयामि स खल्वस्माकं मतिनौविप्लवे कर्णधारः। सपरिक्रममवलोक्य कथमयममात्यो माल्यवान् किमपि चिन्तयन् लेखहस्त आस्ते । विभाव्य तन्महाराजरावणदुर्न्नीतिपरम्परायत्तचित्तेनानेन भवितव्यं न हि तरणिकिरणस्पर्शादन्यो व्याधिरिन्दीवरवनस्य । सुखिनः परसौख्येन परदुःखेन दुःखिता जायन्ते कवयः काव्ये नयतन्त्रे च मन्त्रिणः।
ततः प्रविशति यथानिर्दिष्टो माल्यवान् ।
**माल्यवान् -**मिथिलापुरीनिवासिना स्पशेन लेखः प्रहितस्तदमुं निरूपयामि । उन्मुच्य वाचयति। स्वस्ति लङ्कायां मतिमन्तं माल्यवन्तं विदेहनगरीतः कश्चित् सविनयमवबोधयति श्रेयोऽन्यत् ।
सीतास्वयंवरविधौ धनुरीश्वरस्य
चक्रीकृतं भुजबलेन बभञ्ज रामः।
श्रुत्वा च तन्मुनिवृषा वृषकेतुशिष्यो
रोषाज्ज्वलन्निव पुरींमिथिलामवाप ॥ ३ ॥
तदेतद्वोविदितमेव। इदमिदं निवेद्यते तत्र च शरनिकरवर्षणे क्षितितलनिघर्षणे सुभटवर्षणे कातरमनोधर्षणे परस्परप्रतिहतिमर्षणेकीलालपकर्षणे लोमहर्षणे च महारम्भे समरसंरम्भे ।
शम्भोः शिव्यं कुशिकमुनितः प्राप्तविद्योपविद्यः
क्षुण्णक्षत्रं दशरथभुवामग्रणीःक्षत्रियाणाम् ।
वृद्धं बालश्च्यवनकुलजं भास्वतो वंशजन्मा
रामं रामो व्यजयत गतिच्छेदिना सायकेन ॥ ४ ॥
विचिन्त्य । महती वार्ताा । विभाव्य । तस्यापि कलत्रे राक्षसराक्षोऽनुरज्यत इति न सुखोदर्कं तर्कयामि ।
**मायामयः -**विलोक्य कथमधीतलेखस्तद्यावदुपसर्पामि । परिक्रम्य कनिष्ठमातामह मायामयोऽभिवादयते ।
**माल्यवान् -**अपि सुखं भद्रस्य महाराजरावणः किं कुरुते ।
**मायामयः -**यदपङ्कजासनसंभवान्वयः कुरुते ।
**माल्यवान् -**किमिव ।
**मायामयः -**यदादिष्टोऽस्मीति पठति ।
**माल्यावान् -**हसित्वा वृद्धबुद्धिर्हि प्रथमं पश्यति चरमं कार्यदुर्योगोऽवतरति यन्मया धूर्जटिधनुरधिक्षेपणतः प्रभृति मतिचक्षुषा दृष्टमेव यदुत दशकन्धरोऽनुधास्यति सीताहरणम् ।
**मायामयः -**ततस्ततः।
**माल्यवान् -**ततश्च मया मन्दोदरीपितुर्मायागुरोर्मयस्य
प्रथमशिष्यो विशारदनामा यन्त्रकारः सबहुमानं नियुक्तः सीताप्रतिकृतिकरणाय विरचिता च सा तेन रावणोपच्छन्दनार्थमभिहितं च ।
सूत्रधारचलद्दारुगात्रेयं यन्त्रज्ञानकी ।
वक्त्रस्थसारिकालापा लङ्केन्द्रं वञ्चयिष्यति ॥ ५ ॥
**मायामयः -**सकौतुकम् । दृष्टा मातामहेनासौ कीदृशी यन्त्रजानकी ।
**माल्यवान् -**मायामय मया दृष्टा यादृशी सत्यजानकी तस्मादेव च सीताधात्रेयिकाऽपि कारिता सिन्दूरिका नाम। प्रतिशिरसि परामृश्य तद्देवस्य मिथिलागमनं वीतविघ्नोपशमनं तद्वचनादुचितं तदुपवर्णनं तेन च कृतकसंविधानेन निरन्तरप्रेमोपार्जनं च सत्यापयितुमिदानीं निशाचरपतिर्वाच्यः। देव परपरिणीताऽपि सा ।
तव त्रिलोकीविजयैकजन्मभि-
गुणैरुदारैरनुरञ्जितापि सा ।
अनभ्यनुज्ञाजनितं करग्रहं
निषेधते हन्त नतेन मौलिना ॥ ६ ॥
**मायामयः -**अप्येवं प्रतिपत्स्यते दशाननः।
**माल्यवान् -**प्रतिपत्स्यते वचसा न मनसा । उभौहसतः।
**माल्यवान् -**तदितिप्रतिपन्नवते दर्शनीय ।
**मायामयः -**एवं कृते किं कृतं भवति ।
**मल्यवान् -**शृणु यत्कृतं भवति सिताप्रतिकृतिदर्शनेन दशाननः प्रलोभितो भवति प्रलोभनेन च काललाभः काललाभो हि नयविदां प्रयोगग्रामं कन्दलयति प्रयोगपरतन्त्रा च कार्यसिद्धिः।
**मायामयः -**यथादिष्टमार्येण।
**माल्यवान् -**प्रयोगक्षमश्च कालोविलम्बनीयः सत्यापनाथ।
**मायामयः -**यदादिशत्यार्यः।
**माल्यवान् -**तद्गच्छ त्वं यथाभिमतसिद्धये । अहमपि मन्त्रिमण्डपिकामध्यासिष्य इति निष्क्रान्तौ। विष्कम्भकः।
ततः प्रविशति रावणः प्रहस्तश्चामरधारिणी च ।
रावणः
न प्रीते परमेश्वरोऽपि शिरसां छेदेन होमेन वा
ज्यावल्लीनहनेन चामरपतौद्वारार्गलासङ्गिनि ।
संयत्यैलबिलात्तथा न च हृते विश्वातिथौ पुष्पके
द्रष्टव्या जनकात्मजेत्यथ यथा लङ्केश्वरोमोदते ॥ ७॥
विचिन्त्य हंहो हृदय न प्रस्मर्त्तव्यं यदावेदितममृतमयाचरं मायामयेन यथा किल ।
सौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवीं
द्वारात्तस्यति चित्रकेलिसदसो वेषं विषं मन्यते ।
आस्ते केवलमब्जिनीकिसलयप्रस्तारशय्यातले
संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा ॥ ८ ॥
तत्प्रहस्त शीघ्रं प्रवेशय जानकींन कालहरणक्षमाः प्रियजनसमागममहोत्सवाः।
**प्रहस्तः -**निष्क्रम्य सीतासिन्दूरिकामायामयैः सह प्रविष्टः।
**मायामयः -**इयं सा।
**रावणः -**इयं सा विभाव्य ।
चक्षुः स्मेरमवारिजं कुवलयं वक्त्रस्य मित्रं विधु-
र्भ्रूलेखा स्मरतोरणं स्मितलवो लीलालतापल्लवः।
उच्छिष्टं कलकण्ठवाक् च वचसां शङ्के तदेणीदृशः
सर्वाङ्गीणमहो विधेः परिणतं विज्ञानचित्रं चिरात् ॥ ९ ॥
**सिन्दूरिका -**देव दसाणण चावारोहणदिअहम्मि ईसि दिठ्ठाइंजाणई तुज्झ वअणाइं कुणइ एहिं दंसणपुणरुत्तपेआइं ।76
रावणः - भद्रे जानासि मदनपराधीनं जनमवस्थापयितुम् ।
**सिन्दूरिका -**अण्णधा वा रक्खमचक्कवत्तिणो विणणवीअदि।77
**रावणः -**सोल्लासम् । तत्कथय येन युगपदनुभवामि विंशतिधा श्रोत्रामृतम्।
**सिन्दूरिका -**इदं विण्णवीअदि ।78 संस्कृतमाश्रित्य।
यन्मुग्धामपि चन्द्रिकां गमयति प्रावृत्य चीनांशुकं
स्वस्मै कुप्यति पञ्चमं रचयते यत्कण्ठनालाय च ।
यच्चान्यत्परिहृत्य पक्ष्मलदृशस्त्वत्संकथास्वादरो
लोकस्तत्र निरर्गलं प्रलपति त्वं ब्रूहि किं मन्यसे॥ १० ॥
**रावणः -**सहर्षम् । ततस्ततः।
**सिन्दूरिका -**भूयः संस्कृतमाश्रित्य ।
_________________________________________________________________
* देव दशानन चापारोपणदिवसे ईषद्दृष्टानि जानकी तव वदनानि करोति इदानीं दर्शनपुनरुक्तयेयानि ।
—————————————————————————————————————————
एतस्याः स्मरसंज्वरः करतलस्पर्शैः परीक्ष्यो न यः
खिग्धेनाऽपि जनेन दाहभयतः प्लोषप्रदः पाथसाम्।
निर्वीर्यीकृतचन्दनौषधिविधौतस्मिंस्तडत्कारिणो
लाजस्फोटममी स्फुटन्ति मणयो विश्वेऽपि हारस्रजाम् ॥ ११ ॥
**रावणः -**अयि सीताधात्रेयिके तत्किमिति मैथिली मां प्रति साचीकृतवक्त्रमास्ते।
धात्रेयी - णवाणुराओ एत्थअवरज्झ णउण पिअसही जदो।
वक्कं च वत्तितंसं णिमेन्ति देहेण झत्ति वलिएण।
पढमुण्णअवल्लहसङ्गमेण णडिआओ मुद्धमहिलाओ * ॥ १३ ॥
**रावणः -**किमुच्यते सीतायाः प्रियसखी खल्वसि केतकसम्पर्क्किसिचयमपि किमप्यामोदाय । सीतां प्रति अयि स्वागतं जनकराजजन्मनो जनस्य ।
**सीता -**सख्याः कर्णे एवमेवम् ।
**सिन्दूरिका -**लङ्केसर सहीसञ्चारिदक्खराजाणई विण्णवेदि अज्ज साअदं मन्दोदरीदइददं सणेण।79
**रावणः -**स्वगतम् । बाढंस्निह्यति मयि वैदेही ईर्ष्यायितं हि स्त्रीणां प्रकाशकं प्रेमभरस्य । विहस्य प्रकाशम् । ननु जान-
—————————————————————————————————————————
* नवानुरागोऽत्रापराध्यति न पुनः प्रियसखी । यतः
वक्त्रं च वर्तितासं नियमयन्ति देहेन झटिति वलितेन।
प्रथमोपनतवल्लभसङ्गमेन नटिता मुग्धमहिलाः।
कीदयितदर्शनेनेति संप्रति वक्तव्यं भवति सहर्षम् । हंहो हृदय मनोरथानामुपरि वर्तसे यतः।
प्रेमरम्यमुभयोः समं दिशोः
कामिनां यदिह चाषपिच्छवत् ।
एकतस्तु न चकास्ति साध्वपि
श्यामपृष्ठमिव बर्हिणश्छदम् ॥ १३ ॥
**सीता -**सख्याः कर्ण एवमेवं भण ।
**सिन्दूरिका -**विसज्जिअलज्जाकण्ठबन्धं अप्पणा भण जदो सअं दूदी दूदीणं वरिठ्ठा ।80
**सीता -**सवाक्स्तंभम् । जधा समत्थिदं लङ्केसरेण ता एत्थ वत्थुणि मए विरइदाइं कदिचि वअणाणि सुणीअदु।
एक्कदिसारम्मेणवि अलं सिणेहेण सिहिदलच्छविणा।
युणिमो समदोवासं पेच्छं अ पिच्छोवमं पेम्मम् + ॥ १४ ॥
**रावणः -**तर्हि घनप्रेमनिबिडप्रेमा दशकण्ठो विजयते ।
**सीता -**सुदरं जअदि दसकण्ठो ।
समपेम्मरसं समरूवजोव्वणं समविलासवेअट्टम् ।
—————————————————————————————————————————
+ यथा समर्थितं लङ्केश्वरेण। तदत्र वस्तुनि मया विरचितानि कतिचित् वचनानि श्रूयन्ताम् ।
—————————————————————————————————————————
एकदिक्रम्येणापि अलं स्नेहेन शिखिदलच्छविना।
स्तुमः समद्विपार्श्वं प्रेक्ष्यं च पिच्छोपमं प्रेम ॥
समसुहदुःखं च जणं समपुण्णेहिं जणो लहइ ॥* १५ ॥
**रावणः -**अहो सूक्तिपाको जनकसुतायाः। यतः।
स्वादूनां प्रथमाय रूपविभवं मिथ्या मिथस्तन्वते
प्रेम्णे स्वस्ति मनोभवैकसुहृद यस्य प्रसादादिह ।
दम्पत्योरनपेक्षितप्रियसखीचित्रप्रकारोक्तयो-
र्जायन्ते प्रहरान्तरेऽपि शतशः कोपप्रसादोदयाः ॥ १६ ॥
सीरध्वजात्मजे देवि तदिदं विज्ञाप्यसे ।
दुग्लीलासु सकौतुकं यदि मनस्तन्मे दृशां विंशति-
र्निःसन्धौ परिरम्भणे रतिरथो दोर्मण्डली दृश्यताम् ।
प्रेमा चेत्परिचुम्बने दशमुखी वैदेहि सज्जा पुरः
पौलस्त्यस्य च राघवस्य च महत् पश्योपचारेऽन्तरम्॥१७॥
अपि च जानकि लङ्कास्वामित्वे सति ।
मदनघभुजदण्डयामचण्डप्रताप-
प्रतिहतदयितानां खेचरीणां शिरःसु ।
तव करपुटचेष्टासज्जसेवाञ्जलीनां
चरणनखशिखाली शेखरीभावमेतु ॥ १८ ॥
**सीता -**आं दसाणण आं पुरिसविसेसपरिसंकुक्करिसिणीओ जेव्व पुरन्धीओ होन्ति।81
**रावणः -**किञ्चिदुपसृत्य सुन्दरि किमद्यापि संदिह्यते । तदेहि ।
—————————————————————————————————————————
* सुतरां जयति दशकण्ठः।
—————————————————————————————————————————
समप्रेमरसं समरूपयौवनं समविलासविशिष्टम्।
समसुखदुःखं च जनं समपुण्यैर्जनो लभते ॥
लीलोद्याने यदि सुरपतेरस्ति वाञ्छा विहर्तुं
मेरोः शृङ्गे यदि च विसरत्तारकाचन्द्रदाम्नि ।
चण्डाभोगोड्डमरपुलकां देहि वैदेहि तन्मे
लङ्काभर्तुर्निबिडितकुचामादरादङ्कपालीम् ॥ १८ ॥
इति धारयति । सचसत्कारम् । कथमयमस्त्रैणः संस्पर्शः।
रूपसंपदमरीषु नेदृशी
स्पर्श एष च दृषत्सहोदरः।
तन्मतिर्मम विदेहजन्मनो
मां परीक्षितुमियं विजानता ॥ २० ॥
पुनर्निरूप्य । अये सारिकाधिष्ठितवक्त्रं सीताप्रतिकृतियन्त्रम् । अहो मतिमान् मायामयश्छलितोऽस्मि जनकराजपुत्र्याः प्रतिकृतिसमर्पणेन तद्गच्छ मद्विनोदार्थमिमां भवनस्थां कुरु। इति सीतासिन्दूरिके मायामयश्च निष्क्रान्ताः।
**रावणः -**मदनाकृतमभिनीय प्रभञ्जनिके लीलोद्यानमार्गमादिश येन युगपदुपस्थितरात्रिंदिवे युगपदभ्युदितसूर्याचन्द्रमसि युगपद्विभक्तसर्वर्तुनि तत्र सीताविरहदुःखिनमात्मानं विनोदयामि । भोः प्रहस्त तदितो गत्वा सन्निधीयतां शिशिरः पदार्थसार्थो विप्रकृष्यतां तदितरः।
**प्रहस्तः -**परिक्रामन्।
कस्त्वं चैत्र किमत्र पुष्पधनुषः का शक्तिरिन्दोरपि
व्यावर्तस्व वसन्तवात विरम त्वं काकलीपञ्चम ।
देवेऽस्मिन् दशकन्धरे भवत मा संरम्भगर्भक्रमाः
प्रागल्भी भवतां हरौविजयिनी तस्मिन्नहल्यापतौ॥ २१॥
निष्क्रान्तः। नेपथ्ये ।
राहोतर्जय भास्करं वरुण हे निर्वाप्यतां पावकः
सर्वे वारिमुचः समेत्य कुरुत ग्रीष्मस्य दर्पच्छिदम् ।
प्रालेयाचल चन्द्र दुग्धजलधे हेमन्तमन्दाकिनि
द्राग्देवस्य गृहानुपेत भवतां सेवाक्षणो वर्त्तते ॥ २२ ॥
**प्रतीहारी -**इदोइदो एदु देवो इमं लीलुज्जाणम् ।82
उभौ प्रविशतः।
**रावणः -**भद्रे सकलर्तुसमलङ्कृतानुद्यानोद्देशान्द्रष्टुमिच्छामि ।
**प्रतीहारी -**ता इदोदो एदु दसाणणदेवो।83
रावणःपरिक्रामति।
**प्रतीहारी -**एसो सलिलसोसदुरुद्दण्डिदपुण्डरीअमण्डलो जलद्दासंदाणिदसुन्दरीदेहकन्दल-सलीलपरिरम्भपह्नलिदका मिश्रणअणुल्होगिनो ।84
**रावणः -**अये ग्रीष्मः। इह हि ।
यावन्नालं कमलकलिकाः प्रातरेव स्फुटन्ति
श्यामामध्ये विकचयति चेन्नीलमब्जं मृगाङ्कः।
ग्रीष्मेऽमुष्मिन् जरठितरवौ रागिणां गात्रदेयाः
सद्यःशुष्कैरिव च सलिलैः संस्क्रियन्ते जलाद्रः॥ २३ ॥
अपिच ।
कर्णे स्मेरं शिरीषं शिरसि विचकिलस्रग्लताः पाटलिन्यः
कण्ठे माला विशाला वपुषि च नलिनीमूलकाण्डाः कलापाः।
सामोदं चन्दनाम्भः स्तनभुवि नयने म्लानमाज्जिष्ठपृष्टे
गाजं लोलज्जलार्द्रंं जयति मृगदृशां ग्रैष्मिको वेष एषः॥ २४ ॥
तापातिरेकमभिनीय ।
अयि शिशिरतरोपचारयोग्ये
द्वितयमिदं युगपन्न सह्यमेव ।
जरठितरविदीधितिश्च कालो
दयितजनेन समं च विप्रयोगः ॥ २५ ॥
तदग्रतो दर्शय ।
**प्रतीहारी -**पदान्तरे स्थित्वा एस णीसेसमिलिदबन्धवो भग्गपथिअमग्गो लङ्गलीकुसुमालिङ्गिदचङ्गत्तणो विआसजज्जरिज्जन्तजरठकेसरकुडुम्बडम्बरो कुसुमाउहविलासविक्कमेक्कारम्भो वरिसारम्भो* ।
**रावणः -**अपि वर्षा ऋतुः। इह हि ।
पञ्चोषोर्गुणघोषणाग्रगुणकस्त्रैलोक्यचिन्तातिथे
स्तूर्यंताण्डवसंविधासुशिखिनां हंसप्रवासानकः।
सूतिस्वस्त्ययनं विदूरवसुधारत्नाङ्कुराणामयं
गम्भीरस्तनितध्वनिर्जलमुचां रोदोगृहं गाहते॥ २६ ॥
—————————————————————————————————————————
*
एष निःशेषमिलितबान्धवो भग्नपथिकमार्गोलाङ्गलीकुसुमालिङ्गितं सौन्दर्योविकासजर्जरज्जरठकेसरकुटुम्बडम्बरः कुसुमायुधविलासविक्रमैकारम्भो वर्षारम्भः।
—————————————————————————————————————————
अपिच ।
संपिण्डीकृतजीर्णजीरककणश्रेणीश्रियः केशरान्
संनद्धं परितो निरन्तरदलद्द्रोणीनिवेशैस्त्रिभिः।
प्रान्तभ्रान्तमधुव्रतीवलयितं स्वस्ति प्रियासंकटे
गन्धग्राह्यमबाह्यवृत्ति दलति क्रीडावने केतकम् ॥ २७ ॥
सोत्कण्ठम् ।
विरम जलदकाल स्वस्ति ते भद्र भूया-
दनुचितपरिवारस्त्वं तवैते तथा हि ।
विरहमविरहं वा नानुरुधन्ति मेघाः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ २८ ॥
तदग्रतो दर्शय ।
प्रभञ्जनिका पदान्तरे स्थित्वा एस करन्दिओदारसुन्दरो दलितनीलेन्दीवरवणो बन्धूअविच्छाइदमहिन्दकोअण्डो विरलीकटकेअईकुसुमवासप्पसरो मनोहरीकदणीसेससरओ सरओ * ॥
**रावणः -**अये शरत् ।
अवतरति घनात्ययः किमन्य-
द्विकसितकुङ्कुमकेसरावतंसः।
परिसरपुलिनेषु निम्नगानां
सपदि समागतराजहंसयूथः ॥ २८ ॥
अपिच ।
—————————————————————————————————————————
* एषा करन्दिकावतारसुन्दरी दलितनीलेन्दीवरवना बन्धूकविच्छायितमहेन्द्रकोदण्डा विरलोकृतकेतकीकुसुमवासप्रसरा मनोहरीकृतनिःशेषसराः शरत् ।
—————————————————————————————————————————
कुर्वाणाः कैरवाणां मधुकणहरणं कूजितं रञ्जयन्तो
हंसालीकण्ठनालीष्वविकलकलमामोदमैत्रीपवित्राः।
शेफालीफुल्लपालीपरिमलमिलनाश्चुम्बिताश्चञ्चरीकैः
कह्लाराह्लादकाराःकुवलयसुहृदः शारदा वान्ति वाताः ॥३०॥
साभिलाषम् ।
कुवलयमप्सु दिवीन्दुः सिन्धुषु पुलिनानि वाक्चहंसीषु ।
इत्यवयवैर्विभक्तां सीतां दर्शयति शरदेषा ॥ ३१ ॥
तापमभिनीय सोऽयमपरः शरन्नामा ग्रीष्मः। तदग्रतो दर्शय ।
**प्रतीहारी -**पदान्तरे स्थित्वा एस अणहिणन्दिदलीलामज्जगुम्मज्जणो पसरिदणीरन्धलोद्धर-अपुञ्जपिञ्जरिददिम्मुहोअणियन्तिदकोञ्चीकुलकोलाहलाडम्बरकरविदसीमन्तो हेमन्तो *।
**रावणः -**अये हेमन्तः।
इह हि वहति कामं कामकोदण्डयष्टि-
र्द्रविडयुवतिगण्डश्यामिकां कोशकारः।
चिरविरहितहंसीकण्ठकाण्डावपाण्डुः
स्फुरति च रुचिमत्ता पर्व्वणांपुण्ड्रकस्य॥३२॥
अपिच ।
लम्पाकीनां किरन्तश्चिकरविरचनां रल्लकांछासयंन्त-
श्चुम्बन्तश्चन्द्रभागासलिलमविकलं भूर्जकाषैकचण्डाः।
एते कस्तूरिकैणप्रणयसुरभयो वल्लभा बाह्लवीनां
कौन्तालीकेलिकाराः परिचयितहिमं हैमना वान्ति वाताः ॥३३॥
—————————————————————————————————————————
*
एष अभिनन्दितलीलामज्जनोन्मज्जनः प्रसारितनोरन्धलार्धरजःपुञ्जपिञ्जरितदिङ्मुखोऽनियन्त्रितक्रौञ्चीकु- लकोलाहलाडम्बरकरम्बितसीमान्तो हेमन्तः।
—————————————————————————————————————————
तापमभिनीय ।
सर्वाङ्गमदनद्दाहः स कोऽपि मम वर्तते ।
अप्येष हन्त हेमन्तो यत्रोष्णसमयायते ॥ ३४ ॥
तदग्रतो दर्शय ।
**प्रतीहारी -**पदान्तरे स्थित्वा एस हिमुल्लसिदतरुणदमणअकन्दलो णिबिडपडन्ततुहिणकणुक्केरणिव्विग्धमहग्धिदपरिरम्मो अवदंसीकदतरुणतरणिकिरणुक्केरो पुराणदप्पणविच्छाअमअलञ्च्छणो णिज्जिदणीसेससिरी सिसिरो *।
**रावणः -**अये शिशिरः। इह हि ।
वह्नेःशक्तिर्जलमिव गता दर्शनाद्दाहवृते-
र्नित्योत्संधौनवमरुबके वर्तते पुष्पकार्यम् ।
शीतात्त्रासं दधदिव रविर्याति चाशां कृशानो-
र्नीहारार्तेरिव च दिवसाः सांप्रतं संकुचन्ति ॥ ३५ ॥
अपिच ।
चूडागर्भनिवेशि दामविकलं मुक्ताफलैर्भूषणं
स्त्रीणां कुङ्कुमपिच्छिलः स्तनभरोगूढोदरं मन्दिरम् ।
द्वित्राः स्यूलपटाः प्रसर्पदगुरुग्रामश्च धूमोद्गमः
संभोगाय भवन्ति चात्र कृतिनां दीप्रा विलासाप्तयः ॥ ३६ ॥
सखेदम् ।
नगरपरिघदीघी बाहुदण्डा ममैते
विजितकलभकुम्भा सा च तस्याः कुचश्रीः ॥
—————————————————————————————————————————
*
एष हिमोल्लसिततरुणदमनककन्दलो निबिडनिपतत्तुहिनकणोत्करनिर्विघ्नमहर्घितपरिरम्भोऽवतंसिततरणिकिरणोत्करः पुराणदर्पणविच्छायमगलाञ्छनो निर्जितनिःशेषश्रीःशिशिरः।
—————————————————————————————————————————
तव शिशिर समीरश्चैष नीहारसार-
स्त्रयमिति हि समेतं दुर्लभं रावणेन ॥ ३७॥
तदग्रतो दर्शय ।
**प्रतीहारी -**पदान्तरे स्थित्वा एस फलितफलिणीवणन्तरोणिरन्तरपल्लविदकङ्केलिलदादण्डो णिबिडुग्गीदकलकण्टिकण्ठो कुडजगण्ठिजडिलपुणाअणिवह भग्गकुसुमिदसोहञ्जणसाही मरणसंदेहारोविदसअलपविसन्तो वसन्तो * ।
**रावणः -**अये वसन्तः। इह हि ।
सूते संप्रति दुग्धमुग्धसुभगं पुष्पोद्गमं मल्लिका
बाह्लीकीदशनव्रणारुणदलैः पत्रैरशोकोऽर्चितः।
भृङ्गीलङ्घितकोटि किंशुकमिदं किञ्चिद्विवृन्तायते
माञ्जिष्टैर्मुकुलैश्च पाटलितरोरन्यैव काचिल्लिपिः ॥ ३८॥
किञ्च ।
सपदि सखीभिर्निभृतं विरहवतीस्त्रातुमत्र भज्यन्ते ।
सहकारमञ्जरीणां शिखोद्गमग्रन्थयः प्रथमे ॥ ३८ ॥
सम्यङ्निरूप्य सोत्कण्ठम् । सीतावयवशोभासंवादात्तद्विगुणप्रणयिनी मेमधुलक्ष्मीः। तथा हि ।
लावण्यार्द्धंमधूकान्यनुवदति दृशावुत्पलानां सनाभी
दत्तश्रीर्मल्लिकाभिः सह चरति सुहृत्सौरभं केसरस्य ।
वैदेह्याः पाटलानां सुजनयति रुचिंकिञ्च बिम्बाधरोष्ठः
क्रीडाभिश्चित्र चैत्रत्वमसि तदिह मे वल्लभो दुर्लभश्च ॥४०॥
—————————————————————————————————————————
* एष फलितफलिनीवनान्तरो निरन्तरपल्लवितकङ्केलिलतादण्डो निबिडोद्गीतकलकण्ठीकण्ठः कुटजग्रन्थिजटिलपुत्रागनिवहो भग्नकुसुमितसोभाञ्जनशाखी मरणसंदेहारोपितसकलप्रवसन् वसन्तः।
—————————————————————————————————————————
प्रभञ्जनिका -अलं इमिणा । उक्कण्ठाकरीणं धुरन्धरो एसो ।85
**रावणः -**उत्कण्ठामभिनीय ।
घर्मर्त्तोदमय वसन्तमुत्कवन्तं संतापमभिनीय ।
द्राग्ग्रीष्मं स्थगयतु वार्मुचामनेहा उत्कण्ठामभिनीय।
त्वं वर्षाः शमय घनान्त भूयः संतापमभिनीय।
वारिदान्तं हेमन्तः सह शिशिरे हन्त हन्तु ॥ ४१ ॥
**प्रभञ्जनिका -**देव दिठ्ठंसअलं रिदुचक्कवालं ता किम्पिमअरन्दमुच्चन्तबहलसीअरासारं सअं परिब्भमन्तजत्ततालवित्तंणिग्गण्ठिदगण्ठिरकणअकेरिआकवललुद्धगन्धहरिणणाहिकोससुअन्धदसदिसं जाणइविरहवेदणाविणोदत्थाणत्थरअणसिलाचउक्किअं अलङ्कादु देओ† ।
**रावणः -**यदभिरुचितं भवत्यै परिक्रामितक्रेन सखेदम्।
आत्तं श्रान्तमिदं विषण्णममुना नीचैरनेन स्थितं
कम्पोऽस्मिन्निह जृम्भिना प्रलपितं चैतेन तूष्णीमदः।
—————————————————————————————————————————
†
देव दृष्टं सकलमतुचक्रवालं तत्किमपि मकरन्दमुञ्चद्बहलसोकरासारां स्वयं परिभ्रमद्यन्त्रतालवृन्तां निर्ग्रन्थितग्रन्थिलकनककलिकाकवललुब्धगन्धहरिणनाभिकोशसुगन्धदशदिशां जानकीविरहवेदनाविनोद-स्थानस्थरत्नशिलाचतुष्किकामलङ्करोतु देवः।
—————————————————————————————————————————
एतद्ध्यानपरं घनोऽत्र पुलकः स्रस्तं च बाष्पैरितः।
सीतादुर्विनयेन मेदशमुखी हा धिक्कथं वर्तताम् ॥४२॥
**प्रभञ्जनिका -**स्वगतं जधा मअणोआणवेदि । प्रवेशनाटितकेन अअं रअणचउक्किआकेलिपल्लोङ्को ता उअविसदुदेवो ।86
**रावणः -**उपविश्य सकेोपम् ।
तां गाढं प्रहरस्व मां परिहरन्।
सावज्ञम् ।
तां मां च मा वा वधीः।
सानुकम्पम् ।
तां हंतुं परिकल्पितैरपि शरैर्मामेव वा ताडय ।
सानुरागम् ।
यदा मन्मथ तां च मां च युगपद्विध्येः समयायुधो
येनाहं जनकात्मजा च सदृशं प्रेम प्रपद्यामहे॥४३ ॥
तद्भद्रे सन्निधापय शिशिरोपचारसामग्री ।
**प्रभञ्जनिका -**देव देवदाओआअदाओ तन्निवेदिदा दाव सिसिरोवआरसामग्गी सव्वा सण्णिहिदा ता किं णाम ण चिन्तिदोषणदं लङ्केसरस्स† ।
**रावणः -**पुरोऽवलोक्य ।
—————————————————————————————————————————
†
देव देवता आगताः। तन्निवेदिता तावत् शिशिरोपचारसामग्री सर्व संनिहिता तत् किं नाम न चिन्तितोपनतं लङ्गेश्वरस्य ।
—————————————————————————————————————————
सलिलकलशपाणिर्जायतां मन्दरस्त्री
तुहिनगिरिकुटुम्बिन्यस्तु नीहारहस्ता ।
सपदि मलयजाया चन्दनाम्भो निधत्तां
व्यजतु चमरदण्डैःकिञ्च नेपालपाली ॥ ४४ ॥
किञ्चित्तापमभिनीय । अलमलं भवतीभिः। पर्वतकलत्राणि यूयं युष्मदङ्गसङ्गः सुतरां तापाय । अन्यतोऽवलोक्य।
यासां जन्म विवस्वतो भगवतश्चण्डाच्च मार्तण्डत-
श्चण्डीशेक्षणतश्च मन्मथमथस्ताः सन्तु हर्याद्बहिः।
याः सार्द्धंसुधया समं कमलया साकं मृगाङ्केण च
क्षीराब्धेरमराङ्गनाः समभवंस्तास्त्वन्तिके सन्तु मे ॥ ४५ ॥
ततश्च ।
रम्भा रम्भादलायैर्व्यजतु विहरतां दावदानेन हारा
तारा ताराधिपश्रीरधितनु तनुतां चन्दनस्यन्दमेकम्।
प्रम्लोचा मोचपाकच्छविरवतु बिसन्यासभङ्ग्याममाङ्गा-
न्यञ्जद्राद्राग्दलार्द्रामुरसि च दधती मेनका मे नका च ॥ ४६ ॥
पुनः संतापितकेन यासां मट्ठिजितवल्लभविरहिणीनां भवतीनां सन्निधिरपि संतापाय किं पुनरूपचारः। अन्यतोऽवलोक्य ।
पार्श्वंमुञ्चतु वेत्त्यनङ्गगृहिणी नाङ्गोपचारक्रियां
चण्डी चामरभूषणैर्व्यजतु मां द्वात्रिंशता पाणिभिः।
भास्वत्पत्नि सरोरुहैरलमलं घर्मीयदेषां प्रियः
स्वान्दारान्नय सन्निधिं जलनिधे नद्यस्तवान्तःपुरम्॥ ४७ ॥
सहर्षमवलोक्य।
पादौपीडय ताम्रपर्णि मुरले हस्तो हृदि स्थाप्यतां
भोः कावेरि मृणालदाम वितर द्राङ्गर्मदे वीजय ।
त्वं गोदावरि देहि चन्दनरसं हे तापि तापोष्मणः
शान्त्यर्थंसृज यन्त्रवारि विरही लङ्केश्वरः सीदति ॥ ४८ ॥
भूयःसंतापमभिनीय एता अपि मदनाङ्कुरितमदङ्गसङ्गात्परिक्वथन्ति। सक्रोधम् । प्रभञ्जनिके मत्प्रसाददुर्ललिताः खल्वेते ममाप्याज्ञां न गणयन्ति तदादिश्यन्तां किङ्करा यदुत ।
कम्पाघातैः सुरभिरभितः सत्वरं ताडनीयो
गाढाक्रान्तं मलयमरुतः शृङ्खलादाम दत्त।
कारागारे क्षिपत तरसा पञ्चमं रागराजं
चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्टबिम्बम्॥ ४९ ॥
द्वाराभिमुखमवलोक्य का पुनरिमा द्वारि ।
**प्रभञ्जनिका -**वारुणी लच्छी सरस्सई ।87
रावणः- सावज्ञम् ।
दूरे तिष्ठतु वारुणी विरहिणां का नाम रत्नस्पृहा
लक्ष्मीः क्षीरमहोदधेरपि सुता स्वाहेव दाहे पटुः।
वाचालासि सरस्वति व्रज गृहान्कः सूक्तिगोष्टीक्षणो
यत्सत्यं न ममाद्यकिञ्च न मुदे सीताप्रसादं विना ॥ ५० ॥
ऊर्ध्वमवलोक्य स्वगतं तथाप्येवं तावत् । प्रकाशम् ।
हंहो विबुधापसदाः किमिदं येन शिशिरोपचारं कर्तुमुद्दिष्टा उष्णोपचारं रचयथ तर्हि विस्मृतो वः प्रकृत्यमर्षणो
**दशकण्ठः -**विचिन्त्य यद्वा प्रसादचिन्तकाः खल्वेते मम तन्न तेषु परुषमभिधास्ये जलार्द्रामभिनीय ।
चन्द्र ज्योत्स्नाजलाद्रामपनय यदिदं दह्यते देहदाहैः सेकमभिनीय।
क्षीराब्धे दुग्धसेको मदनहुतभुजा पिण्डभावं बिभर्ति ।
नलिनोपचारमभिनीय।
हेमाम्भोज स्रजस्ते विशद महते प्लोषपोषाय निष्ठाः हिमतापानुभवमभिनीय।
प्रालेयाद्रे दवीयांस्त्वव हिमदवथुर्दृष्ट एवाम्बुजेषु ॥ ५१ ॥
प्रभञ्जनिका- अहो मम्महवामदा अहो देवपडिउलदा जं दाणिं रमणिज्जं वि उव्वेअणिज्जं सिसिरं वि उह्णंपडिहाअदि।88
**रावणः -**साभ्यर्थनावज्ञम् ।
शेषाहे त्वत्फणानां पिबतु दशशती मारुतं चैत्रमित्रं
एहो जिह्वालता ते शशधरवपुषश्चन्द्रिकामेव लेढु ।
संकोचं पुष्पवन्तौ सपदि वितरतं पङ्कजेन्दीवराणां
त्वां याचे पञ्चबाणः पुरदहन पुनर्दह्यतामर्द्धदग्धः ॥ ५२॥
विचिन्त्य कथममी तापोत्कर्षेऽपि मम प्रत्यनीकप्रोत्साहनेनापि न विरमन्ति तदेवं तावत् साक्षेपम्।
मास्म श्वाससटाःसमीर चिरतः का कैतवी रावणे
धाराश्रूणि कृशीकुरुष्व वरुण त्वत्केलयः खल्विदम् ।
हंहो पावक तापमल्पय तनौ त्वत्तो जगद्दाहिका
व्यावर्तस्व वसन्त हन्त मदनः स्याद्येन वीतायुधः॥ ५३॥
स्वगतम् । तत्कः पुनरत्र प्रकारस्तापोपशमने। विचिन्त्य भवत्वेवं तावत् । प्रकाशम् ।
हे संवर्ताः कुरुत करकावृष्टिभिर्मां विकीर्णं
द्राक्संभूय व्यजनचरितं धत्त कल्पान्तवाताः।
क्रीडावापी भव हिमगिरे बुध्नबन्धाद्विलीनो
लङ्काभर्तुर्मनसिजशिखी नान्यथा शंशमीति ॥ ५४ ॥
सविशेषतापमूर्ध्वमवलोक्यकिञ्च ।
सूत्रीकृतासु तरुणेन्दुकरच्छटासु
नक्षत्रबिम्बमयमौक्तिकगुम्फनाभिः।
सीतावियोगविधुरस्य नवीनमार्गः
संपाद्यतां दशमुखस्य विलासहारः॥ ५५ ॥
अथवा किमेभिः क्षुद्रनक्षत्रमणिभिः। ततश्च ।
हस्तद्वयीनिबिडपीडितपार्वणेन्दु-
निस्यन्दितामृतरसेन निषिञ्च किञ्चित्।
अङ्गानि मे स्मरमहाज्वरतापभाञ्जि
स्वस्मै स्वयं ननु भिषज्यति राक्षसेन्द्रः ॥ ५६ ॥
**प्रभञ्जनिका -**देवस्स देवेण वेज्जत्तणं पडिवण्णं मअलञ्छणस्स उण का वत्ता ।89
**रावणः -**यद्वा किमनेनापि सीतावदनबन्धुना विधुरीकृतेन चन्द्रं प्रति सकरुणम् ।
हंहो चन्द्र विमुच्यतां चरणयोः पर्यन्तसेवाक्रम-
स्त्वं पीयूषरसस्य रागशशिनः पात्रं तु लङ्केश्वरः।
तन्मे वक्रपरम्परापरिचिताः प्लोषं करिष्यन्त्यमी
मा कच्चिद्भवतोऽपि बिम्बवलये श्वासाश्चमत्कारिणः ॥ ५७॥
मदनवेदनामभिनीय ।
आः काम मय्यपि विमुञ्चसि नाम बाणान्
किं रावणो न विदितः शमितामरो यः।
यद्वास एष तव राघवपक्षपात-
स्तत्त्वामसौ प्रतिकरिष्यति चन्द्रहासः ॥ ५८ ॥
**प्रभञ्जनिका-**विडजणमाणसणिवासिणं विब्भमच्छग्गुणगारविअं मणहरीकदकादम्बरीमदुम्माणं पञ्चबाणं विणासअन्तेण देवेण दिज्जदु णिहुअणविण्णाण विसेसाणं जलज्ञ्जली * ।
**रावणः -**विरसं विहस्य मकरध्वज यन्निवारितेऽपि मां प्रहरसि तदवगतस्तवार्थः। यत्किल ।
किं करिष्यति कोपेन देवो मे दशकन्धरः।
यदनङ्गतयानास्मि चन्द्रहासासिगोचरः॥ ५९ ॥
तत्किं न जानासि रावणः सर्वङ्कषप्रभाव इति। विचिन्त्य यद्वा मत्प्रसाददुर्ललितोऽयं सर्वदा तपस्वी तदेकवारमपराधमस्य क्षमे । ऊर्ध्वमवलोक्य सहसोत्थाय च ।
हे पाकशासन विसर्जय वारिवाहां
स्त्वं कार्तिकेय कुरु दूरतरं मयूरम्।
—————————————————————————————————————————
*
विटजनमानसनिवासिनं विब्भ्रमषाङ्गुण्यगौरवितं मनोहरोकृतकादम्बरीमदोन्मानं पञ्चबाणं विनाशयता देवेन दीयतां निधुवनविज्ञानविशेषाणां जलाञ्जलिः।
—————————————————————————————————————————
हे शक्र संवृणु निजानि तडिन्महांसि
लङ्केश्वरोविरहितः सहते न वर्षाः ॥ ६० ॥
अग्रतोऽवलोक्य के पुनरमी ।
**प्रभञ्जनिका -**देव सेवागदा भुअङ्गमा अत्ताणं दंसअन्ति ।90
रावणः -
हे पन्नगाः किमपि शेषविषस्वरूपं
रूपं तु वेणिमनुचाञ्चति वल्लभायाः।
तेनैष दुर्द्धरतरस्त्वरते कृपाणो
युष्मानियं नमति तेन च मौलिमाला ॥६१ ॥
परिक्रामन्नग्रतोऽवलोक्य कथमियं केलिकमलिनी । सहर्षम् ।
नवमरकतपात्रीरोचिषः पत्रपङ्क्ती-
स्तव कमलिनि वन्दे चक्षुषोश्चार्पयामि।
यदिह नयनलेह्यंदोर्लतामध्यरोध-
स्तनतटपरिणाहं सूत्रयन्ति प्रियायाः ॥ ६२॥
अन्यतोऽवलोक्य अये कथममी ब्रह्मविमानहंसाः सीताविभ्रमगमनमवहूत्य परिक्रामन्तो महामात्मानं रोचयन्ते। साक्षेपम्। आः क्षीरजलपृथक्करणपाण्डित्यसंगृहीताः सितशकुनयः केयं लुण्ठाकता । विचिन्त्य भवतु नलिनासनमेवतावदभिदधे । अञ्जलिं बद्ध्वा ।
हंहो पितामह निषेध विमानहंसान्
लीलागतं मृगदृशस्त इमे हरन्ति ।
नोचेन्ममोपदिश तेषु यदाचरामि
त्वं येन दण्डनविधेः प्रथमप्रणेता॥ ६३ ॥
विलोक्य कथं सत्वरं मामवलोक्य स्थितास्तन्मन्ये मद्भयाङ्गतिस्तेयं परित्यक्तमेतैः। तत्र प्रत्यादिशामि । यदित्थंकथयन्ति सकृद्विहितदोषं दोषेभ्यो विनिवर्त्तमानं साधुवद्वीक्षेत। अन्यतोऽवलोक्य रे पुरन्दर मम पुरतः सीतामालिङ्गसि तन्नेयमहल्यामुनिपत्नी चन्द्रहास इतइत एष बिडौजसि समादिश्यसे ।
**प्रभञ्जनिका -**पुरतः स्थित्वा देव कहिं इह महेन्दो कहिं वा सीदा ।91
**रावणः -**निपुणं निरूप्य हन्तहन्त सादृश्याद्विप्रलब्धोऽस्मि । इन्दीवराकरोऽयं न विकस्वरलोचनः शचीरमणः। जलचन्द्रप्रतिमैषा तरङ्गदीर्घा न वैदेही ।
**प्रभञ्जनिका -**स्वगतम् । अण्णदो दंसिअ अवक्खिवामि से हिअआवक्खेवम्। प्रकाशम्। इदोइदो पेक्खदु दसाणणो देवो।92
**रावणः -**साक्षेपम् । आः पन्नगाः प्रियतमामादाय पातालं प्रविशथ वैनतेयवैनतेय निवारयैतान् यद्वा ममापि रावणस्य सहायापेक्षा । तदेषोऽहमेव परिसर्पामि । इति संरम्भते ।
**प्रभञ्जनिका -**पादयोर्निपत्य कहिं एत्थपण्णआ कहिं एत्थजाणई ।93
**रावणः -**निरूप्य यथाह भवती ।
अयं तोयावर्तो बत न वितलं नागवसते-
रयं वीचीच्छेदो न खलु फणिनामेष निवहः।
इयं भृङ्गश्रेणी न पुनरलकानां विरचना
इदं हेमाम्भोजं विकसति न सीतामुखमिदम् ॥ ६४ ॥
विचिन्त्य तदितः स्थलकमलिनीमतो विलासकरिमृगपक्षिजातांश्च नीलोद्यानैकदेशान्निरूपयामि परिक्रामितकेनावलोक्य ।
सारङ्ग दृष्टिलसिते कलभाषिते च
पुंस्कोकिल स्मितसरोरुह सौरभे च ।
दिव्येभ विभ्रमगतौ च सदैव यस्याः
शिष्याः स्थतां कथयत स्वगुरुं प्रियां मे ॥ ६५ ॥
विलोक्य कथमभी मद्भयात्सर्वेप्यप्रतिपत्तिमुखास्तिष्ठन्ति केवलमैरावतो मदवशात्कण्ठगर्जंकरोति जाने प्रेयस्या यावदपहृतमनेन भवत्वेनमेव तावदाभाषे ।
कुम्भाभ्यां कुचसंपदूरुविभवो हस्तेन लीलागतं
केलीचङ्क्रमितेन गण्डतलयोः कान्तिश्च दन्तद्युता ।
स्वःस्तम्बेरमनाथ पक्ष्मलदशो यस्यास्त्वयेदं हृतं
तां मे दर्शय येन संमदवता स्तेयं मया क्षम्यते ॥ ६६ ॥
विलोक्य कथं मामनादृत्य निजप्रियामभ्रमं प्रति प्रवृत्तः। साक्षेपम् । रेरे कात्यायनी केसरिकिशोर शिक्षयैनम् । विचिन्त्य अथवा शिक्षितचर एवायम् ।
कण्ठार्पितमहापाशश्चरणार्पितशृङ्खलः।
बध्यते द्युकरी द्वारि कोस्त्यान्यो दण्डडम्बरः॥ ६७ ॥
अन्यतोऽवलोक्य कथमद्यापर्वणि चन्द्रग्रहणं वसुमतीवर्ति तदेतदद्भुतम् ।
**प्रभञ्जनिका -**देव किसणपक्खदिअसेसु चन्द्रग्गहणंति कति जुत्तं ण पडिहाअदि ।94
**रावणः -**प्रभञ्जनिके यथात्थसम्यग्विलोक्य च किञ्चिद्वेहस्य च ।
जितनवनवनीतं धाम नो चन्द्रिकेयं
स्मितकुवलयनीले चक्षुषी नो कलङ्कः
सरलभुजगभङ्गिर्वेणिरेषा न राहु-
र्मुखमिदमिह तस्या नैष राकामृगाङ्कः॥ ६८ ॥
विचिन्त्य क्व पुनरत्र सीतावदनेन्दुरपि विमृश्य ज्ञातं ध्यानातीतया सीतया मुहुमुहुर्विप्रलभ्यामहे । अन्यतोऽवलोक्य । अयं विलासकुरङ्गाग्रणीः समीरणसारङ्गः। विचिन्त्य कथं जानकीनयनलीलामलिम्लुचः। साक्षेपम्।
शास्योऽसि मारुत हूते त्वन्मृगेण तदीक्षणे ।
स्वामी भृत्यापराधेन दण्डनीय इति स्थितिः ॥ ६९ ॥
पुरतोऽवलोक्य सरीसृपचक्रवर्तिन् वासुके गण्डूषयैनं यद्वा मानपरिग्रहदोषं चन्द्रमपि तावदाक्षिपामि ।
रजनीश विमुञ्च लाञ्छनैणं
दयितालोकन हृन्ममैष वध्यः।
यदि चास्य परिग्रहं दधीथा-
स्वदितो मूढ दशाननं न पश्येः॥ ७० ॥
सैहिकेयसैहिकेय कवलीकुरु कुरङ्गलाञ्छनम् ।
**प्रभञ्जनिका -**केलीकन्दोद्दवणविसद्दवण्णं परिपिक्वकप्यूरपिण्डपण्डुरअं मअलत्सणमुच्छिन्दाणेण देवेण माणंसिणीमाणमुद्दाविद्दावणे किं कादव्वम्।95
**रावणः -**भवति प्रभञ्जनिके सर्वदैव प्रसादपात्रं ममैषः। तदेकवारं तावच्छिक्षयामि ।
हे चन्द्रमस्त्यज मृगं कुरु रावणाज्ञां
तत्कारिणस्तव गुणद्वितयेन योगः।
तन्मैथिलीनयनकान्त्यपहारदोषो
लुप्तश्चते भवति बिम्बमलाञ्छनं च ॥ ७१ ॥
पुरतोऽवलोक्य जानकिजानकि किमिव मायाऽपकृतं यदवगुण्ठा स्थिताऽसि । यद्वा प्रसादरसोन्मुखमनसोऽपि विलासहेतोः कामिन्यः कुप्यन्ते तत्प्रसादयामीति प्रणप्रति ।
**प्रभञ्जनिका -**का पुण एत्य जाणई ।96
**रावणः -**इयमियम् ।
**प्रभञ्जनिका -**कहिं सा ।97
**रावणः -**हस्तं व्यापारयन् हा हतोऽस्मि मन्दभाग्यः।
इयं लता कापि निरन्तरच्छदा
प्रसूनगन्धाहूतषट्पदावलिः।
अधो दधाना हरितं नवांशुकं
न मैथिली नीलदुकूलगुण्ठना ॥ ७२॥
अन्यतोऽयेऽवलोक्य कथममी चकोराः शकुन्तयः। अहो चारुचरितं चित्रमेतेषामन्यविहङ्गमवर्गासाधारणं यत्किल चन्द्रिकाचान्तिचातुर्यम् । तान् प्रति ।
अयि पिबत चकोराः कृत्स्नमुन्नामिकण्ठ-
क्रमकवलनचञ्चच्चन्द्रकान्तीरमिश्राः।
विरहविधुरितानां जीवितत्राणहेतो-
र्भवति हरिणलक्ष्मा येन तेजोदरिद्रः ॥ ७३ ॥
किञ्च रे हतशकुनयः।
चेतोभुवश्चरितविभ्रमसंविधानं
नूनं न गोचरमभूद्दयिताननं वः।
तत्कान्तिसम्पदमवाप्स्यथ चेच्चक्रोशः
पानोत्सवं किमकरिष्यत चन्द्रिकासु ॥ ७४ ॥
प्रविश्य पटाक्षेपेण छिन्ननासा कृतावगुण्ठना शूर्पणखा साक्रन्द्रं पादयोर्निपत्य अज्ज एक्कमादुक पेक्खतक्खअचूडामणी उप्पाडिदो वडवाणलजालाकलप्पअं घुल्ललिदं दसकण्ठकणिठ्ठबहिणीए अच्चाहिदम् ।98 इति शिर उद्घाट्य दर्शयति ।
**रावणः -**सक्रोधम् ।
पौलोम्याप्यत्र वीरे समरभुवि भयाद्याचिते भर्तृभिक्षां
वैदेहीदत्तशौर्यव्रतमदनजिते यद्यभून्मप्यवज्ञा ।
तत्किं कस्यापि तस्य त्वयि विधुरमिदं कुर्वतः कर्म भग्न-
स्वर्गेभोद्दामदानस्रुतिरयमपि मे विस्मृतश्चन्द्रहासः॥ ७५॥
तद्वत्से कथय ।
परस्परविघट्टनामुखरदन्तपत्रान्तर -
प्रवृत्तरसनं महाकहकहारवैर्भैरवैः।
इदं मम महोद्भटं सभयशेषवक्त्रेक्षितं
प्रचण्डकुटिलोत्कटभ्रुकुटि भुग्नभालं मुखम्॥ ७६ ॥
**शूर्पणखा -**स्वगतम् । रहुउलराहाणीपरिठ्ठिदे रामलक्खवणे अहिसारअन्ती अणिच्छन्तेहिं तेहिं बलकारक्कमेण एत्थावत्था कदत्ति कधं जेठ्ठभादुणो कधइस्सं ता एव्वं दाव प्रकाशम् । देव अओज्झाणअरीए रामेत्ति खतिअकुमारो अत्थि* ।
**रावणः -**स्वगम् । अस्ति यः सीतायाः पतिः। प्रकाशम् किंतस्य ।
**शूर्पणखा -**तस्स भरिआ भुवणेक्कसुन्दरी सीदा णाम।99
**रावणः -**सावज्ञमात्मगतम् । त्रिभुवनसुन्दरीतिवक्तव्ये भुवनसुन्दरीत्याह । प्रकाशम् । ततः किं तस्याः।
**शूर्पणखा -**लङ्केसरस्स समुचिदत्ति अपहरन्ती तेहिं कवालघट्टजोग्गा कदह्नि।100
—————————————————————————————————————————
* रघुकुलराजधानीपरिस्थितौरामलक्ष्मणावभिसरन्ती अनिच्छद्भ्यांताभ्यां बलात्कारक्रमेणेदृशावस्थाकृतेति कथं ज्येष्ठभ्रातुः कथयिष्यामि । तदेवं तावत् देव अयोध्यानगर्यांराम इति क्षत्रियकुमारोऽस्ति ।
—————————————————————————————————————————
**रावणः -**अये दाशरथिविनाशाय कारणद्वयी संपन्ना सीता शूर्पणखा च । प्रकाशम् । वत्से मा विषीद निर्जितजामदग्न्यशस्त्रव्यापार एवासौ ततश्च ।
त्रुट्यद्दोर्द्दण्डखण्डोड्डुमरपुरुपतत्कण्ठकोष्ठप्रकोष्ठं
स्फारस्फिक्पृष्ठपीठीहठदलितशिराकन्धराकाण्डखण्डम् ।
सस्तम्मं क्षत्रडिम्भं चटदितिविचटन्मुण्डपिण्ड प्रचण्ड-
श्चण्डीशोच्चण्डदंष्ट्राक्रकच इव दृढं चन्द्रहासस्तृणेढु ॥३७॥
इति परिक्रम्य निष्क्रान्तः।
॥उन्मत्तदशाननो नाम पञ्चमोऽङ्कः ॥
—————
॥ अथ षष्टोऽङ्कः ॥
<MISSING_FIG href="../../../books_images/U-IMG-1692375891Screenshot2023-08-17093724.png"/>
अतः परं निर्दोषदशरथो भविष्यति।
ततः प्रविशतः शूर्पणखामायामयौ ।
**शूर्पणखा -**अज्ज अहिण्णादं तएमादामहस्स तक्कालमन्दिदं जधा किल रामे सुबद्धवेरा सुप्पणहा कुलउत्तओमायामओ ता दुवेवि एदे कज्जसिद्धीए कारणेत्ति णिउत्ता* ।
**मायामयः -**बुद्धिप्रकर्षं प्रति किमुपवर्ण्यते तत्रभवतो माल्यवतः। किमभीष्टं चन्द्रमसः कुमुद्वतीवल्लभस्येति।
—————————————————————————————————————————
*
आर्य अभिज्ञातं त्वया मातामहस्य तत्कालमन्त्रितं यथाकिल रामे सुबद्धवैरा शूर्पणखा कुलपुत्रको मायामस्तौद्वावप्येतौकार्यसिद्धेः कारणे इति नियुक्तौ ।
—————————————————————————————————————————
नीतितन्त्रे द्वयं दृष्टं सिद्ध्ये कृत्यवस्तुनः।
समानः कार्ययोगश्च प्रभुशक्तिश्च निश्चला ॥ १ ॥
तदेहि दशाननमातामहमेवोपतिष्ठावहे ।
**शूर्पणखा -**एवं करह्न।101 परिक्रम्यावलोकितकेन । मायामयः।
नैर्ऋताधिपकार्याणामुपायोपायकर्मणि ।
आर्यो यन्माल्यवानास्तेऽव्यस्तलक्षेण चक्षुषा ॥ २ ॥
ततः प्रविशति माल्यवान् ।
**माल्यवान् -**स्मृतिमभिनीय शूर्पणखानिकारदर्शनसमुत्तेजितोऽपि दशकण्ठो रघुराजधानीयात्रातो निवर्ततस्तावदिदमुपदश्य चारकैर्यदुत देवस्य वैदेह्या संदिष्टं यथा ।
स्वयं मया प्रेमपरीक्षणाय
प्रवर्तितः स्वाकृतियन्त्रयोगः।
अथाहमेवागणितैरहोभि -
र्दशाननान्तं नियतं प्रवत्स्ये ॥ ३ ॥
विचिन्त्य ।
इत्थंमिथ्या विप्रलब्धोऽपि देव-
स्त्यक्त्वावेशं सोदरीवैकृतेऽपि ।
जातः सीतासङ्गमायत्तचित्तो
न्यक्कृत्यान्यज्जृम्भते मन्मथाज्ञा ॥ ४ ॥
स्मृतिनाटितकेन । न जाने किं वृत्तं वा कैकेयीदशरथयोः। उपसर्पितकेन ।
**मायामयः -**जयतिजयत्यार्यः।
**शूर्पणखा -**जअदुजअदु कणिठ्ठमादामहो।102
**माल्यवान् -**ऋथ तत्र किं वृत्तम्।
**मायामयः -**यथादिष्टमार्येण।
**माल्यवान् -**सहर्षं तद्विस्तारतः कथ्यताम्।
**मायामयः -**अथैकदा दयितस्त्रेहमय्या तया सममसुरानीकविजयाय पूरितसुहृन्मनोरथे दशरथे त्रिविष्टपतिलकभूतं पुरुहूतं प्रभाववति समुपस्थितवति तद्रूपधारिणौकुवलयदलाभिरामं रामं सपदि छलयितुमयोध्यां शूर्पणखाऽहं च प्राप्तवन्तौ । विहितजनरञ्जनेन वृन्दारकबन्दिव्यञ्जनेन गीतसंस्मृतसहचरेण निशाचरेण ।
दैत्यग्रामं रणपरिगमे कर्वता नामशेषं
येन न्यस्ता दिशिदिशि यशःकन्दलीनां प्ररोहाः।
हासज्योत्स्नांसुरपतिवधूवक्त्रचन्द्राय दत्त्वा
सार्द्धंदारैर्दशरथनृपः स्वां पुरीं सोऽयमेति ॥ ५ ॥
**माल्यवान् -**ततस्ततः।
**शूर्पणखा -**तदो तस्स वअणप्यसरणमाअण्णिअ सव्वदो वज्जन्तगिरवज्जतुरं गाअन्तगन्धव्वजणचुम्बिअणच्चन्तणटीसत्थंउब्भिज्जन्तविअवडद्धअवडाआयुगं तोरणणिवझ्झन्तचित्तवन्दणमालअं सच्छरत्थाचत्तरवउप्पहपइण्णपिठ्ठातअचुण्णंतं पुरं चउद्दिसं आसि+ ।
—————————————————————————————————————————
+
ततस्तस्य वचनप्रसरणमाकर्ण्यसर्वतो वाद्यन्निरवद्यतूर्यं गायद्गन्धर्वजनचुम्बितनृत्यन्नटीसार्थं उद्भिद्यमानविकटध्वजपताकायुगं तोरणनिबध्यमानचित्रवन्दनमालकं स्वच्छ्ररथ्याचत्वरचतुष्पथप्रकीर्णपिष्टातकचूर्णं तत् पुरं चतुर्दिशमासीत् ।
—————————————————————————————————————————
माल्यवान् - ततस्ततः।
मायामयः - ततश्च यावत् मायाकैकेयी शूर्पणखा मायादशरथोमायामयश्च यथास्थानमुपविष्टौ तावत्कैकेय्याः प्रियसखी मन्थरा नाम तद्रूपधारिणी शूर्पणखापरिचारिकेव तदा मामुपेत्योक्तवती।
माल्यवान् - किम्।
मायामयः - इदम् ।
यत्त्वयाऽस्या महाराज प्रतिपन्नंवरद्वयम् ।
व्योमयात्रासहचरी कैकेयी याचतेऽद्य तत् ॥ ६ ॥
यथाभिहितं किं तत् । उक्तं च मन्थरया ।
वरेणैकेन लभतां रघुराज्यं सुतो मम ।
चतुर्दश समा रामो वने वन्येन तिष्ठतु ॥ ७ ॥
**माल्यवान् -**सहर्षम् । ततस्ततः।
**शूर्पणखा -**विहस्य सुदसच्चदरहेण वि माअमण्ण तथा करुणं विरोइदुं प्रउत्तं जथा जदि णाम तरुणो परं ण रोवदिदा गावगण्ठ्ठीणं परं जदि ण दलइ हिअअम्103॥
**माल्यवान् -**विहस्य भद्र मायामय त्वमेव शेषं कथय कविमुखादेव शृणुमः।
मायामयः - विहस्य।
तथा मया प्रस्तुतमार्य रोदितुं
निबद्धधाराप्रसरेण चक्षुषा।
स्थिता यथा स्वर्गनदीव दक्षिणे
यथा च वामे यमुनेव चक्षुषि॥ ८ ॥
माल्यवान् **-**किं हि दुष्करं स्वामिभक्ते किमसाध्यं वैदमध्यस्य ततस्ततः।
**मायामयः -**तदिति प्रतिपत्रवता मया निर्वासितो राजपुत्रः प्रवृत्तश्च गन्तुं वनाय ।
**शूर्पणखा -**लक्ष्मणजाणईमेत्तपरिवारस्स से किदा जत्ता104
मायामयः - आर्य किमपि द्विषतामुदात्तजनचरितमावर्जकं पश्य ।
क्रूरक्रमं किमपि राक्षसजातिरेका
तत्रापि कार्यपरतेति मयि प्रकर्षः।
रामेण तु प्रवसता पितुराज्ञयैव
बाष्पाम्भसामहमपीह कृतो रसज्ञः ॥ ९ ॥
अपिच । दशकण्ठमातामह ।
अप्युऽज्झतो निजगृहान् सुखसारबन्धून्
कान्तारवासमनसः पितृशासनेन ।
रामस्य सा स्थितवती मुखमेत्य लक्ष्मीः
पद्मस्य या शरदि या च निशाकरस्य ॥ १० ॥
**शूर्पणखा -**तदोअह्नेतं पविसाविअ सच्चदसरहागमणसङ्किणो दडिदि जणरूआभविअ किं हविस्सदित्ति जाणिदुं तक्खणं तहिं जेव्व ठ्ठिआ अह तत्थ पउत्ता पोरलोअस्स हलहवुल्लावा जथा केहिं वि किरकेकईदसरहरूवधारीहिं छलिदो रामभद्दोत्ति * ।
**माल्यवान् -**ततस्तृतः।
**मायामयः -**ततश्च वामदेवप्रभृतिभिर्यथावृत्तमभिधाय सपादोपग्रहं वारितोऽपि तदिदमभिप्राय स्थितः।
मया मूर्ध्नि प्रह्वेपितुरिति घृतं शासनमिदं
स यक्षो रक्षो वा भवतु भगवान् वा रघुपतिः।
निवर्तिष्येसोऽहं भरतकृतरक्षां निजपुरीं
समाः सम्यङ्नीत्वा वनभुवि चतस्रश्च दश च ॥ ११ ॥
कार्यरोपनिष्पत्तये यथोचितं मातामह एव जानातीति निष्क्रान्ताः। विष्कम्भकः।
ततः प्रविशति मातलिसारथिना रथेन कैकेय्या सह दशरथः।
**दशरथः -**आर्य मातले कियद्दूरमयापि रघुराजधानी ।
**मातलिः -**य एष दृश्यते सरयूसरितः स्रोतसा परिक्षिप्तप्राकारो धरणितलैकदेशः सात्वियमयोध्या । रथवेगनाटितकेन ।
**कैकेयी -**पणमामि भअवदिं सरऊं जा पुव्वं दीसमाणा णअपेऊसगण्डूसकवलं करेन्ती आसि सा संपदं हलाहलकवडपडिरूआपडिहाअदि किं पुण मेअअओज्झादंसणे वि अकारणपज्जाउलं हिअअंता जदि वच्छाणं रामभद्दभरदलकवण-
_________________________________________________________________________
* ततो वयं तं प्रवास्य सत्यदशरथागमनशङ्किनो झटिति जनरूपा भूत्वा किं भविष्यतीति ज्ञातुं तत्क्षणं तत्रैव स्थिताः। अथ तत्र प्रवृत्ताः पारजनस्य मन्दोल्लापा यत् काभ्यामपि कृतकेकयीदशरथरूपधारिभ्यां छलितो रामभद्र इति ।
—————————————————————————————————————————
सत्तुग्धाणं वधूणं च सीदामण्डबीउम्मिलासुदकित्तीणं दंसणेण णिव्वासइस्सदि * ।
**दशरथः -**अयि कैकेयि ।
एतछ्रान्तविचित्रचत्वरपथं विश्रान्तवैतालिक-
श्लाघाश्लोकमगुञ्जिमज्जुमुरजं विध्वस्तगीतध्वनि ।
व्यावृत्ताध्ययनं निवृत्तसुकविक्रीडासमस्यं नम-
द्विद्वद्वादकथं कथं पुनरिदं मौनव्रते वर्त्तते ॥ १२ ॥
अवतरणनाठितकेन ।
**मातलिः -**मर्त्यमहाराज सम्भावयस्व सदनमहमपि निबिडौजसं बिडौजसमुपतिष्ठामीति निष्क्रान्तः।
परिक्रामितकेन दशरथः। कः कोऽत्र भोः।
नेपथ्य अयमहं काम्पिल्लः सौविदल्लः।
दशरथः- आहूय सुमन्त्रवामदेवौ ।
प्रविश्य वामदेवः। स्वस्ति महाराजदशरथाय देव सन्निहितोऽत्रसुमन्त्रः।
**दशरथः-**अनाकर्णितकेन एतछ्रान्तमित्यादि पठति ।
**वामदेवः -**सास्रं स्वगतं च ।
हे मद्वाणि निजां विमुञ्च वसतिं द्राग्देहि यात्रां बहिः राजानं प्रति ।
देव स्तम्भय चेतनावचनयोरप्येति शुष्काशनिः।
_________________________________________________________________________
* प्रणमामि भवतीं सरयूं या पूर्वं दृश्यमाना नयनपीयूषगराडूषकवलं कुर्वन्ती आसीत् सा साम्प्रतं हालाहलकवलप्रतिरूपा प्रतिभाति । किं पुनर्मेऽयोध्यादर्शनेऽप्यकारणपर्याकुलं हृदयं तत् यदि वत्सानां रामभद्रभरतलक्ष्मणशत्रुघ्नानां वधूनां च सीतामाण्डव्यूर्मिलाश्रुतकीर्तीनां दर्शनेन निर्वासयिष्यति।
—————————————————————————————————————————
दम्पती आकुलं नाटयतः।
वामदेवः -
त्वद्रूपाद्विपिनाय चीवरधरो धन्वी जटी शासनं
रामः प्राप्य गतः कुतश्चन वनं सौमित्रिसीतासखः ॥ १३ ॥
उभौ मूर्च्छतः।
**वामदेवः-**देव समाश्वसिहि समाश्वसिहि । देवि कैकेयि समाश्वसिहि समाश्वसिहि ।
**दशरथः -**केन पुनः कारणेन ।
वामदेवः-येन केकयकुलस्योपरिदुर्यशःपांशुपातः।
कैकेयी **-**ण हु जादभरदस्स दुच्चरिदं किंपि अथवा दसरहणरिन्दो से पिदा105।
**वामदेवः-**शान्तं क्व पुनः सुधादीधितिएतपस्यन्दी ।
दशरथः - स्फुटं कथय पर्यााकुलोऽस्मि ।
वामदेवः-
केकयस्य सुतया वरयुःमं
या चितोऽसि भवता च वितीर्णम् ।
**दशरथः -**किं तत्।
वामदेवः -
यत्किलास्तु भरतो युवराजः
**कैकेयी -**हा हदंह्नि मन्दभाइणी106।
**दशरथः -**किम् ।
वामदेवः -
स प्रयातु वनमद्यच रामः ॥ १४ ॥
**दशरथः -**हाहा धिक्कष्टम् ।
नरेन्द्रो वृद्धः स्त्रीवश इति मयि न्यस्तमयशो
निषण्णा दौरात्म्येष्विति मलिनिता केकयसुता ।
मतं तस्याप्यस्मिन्निति च भरते लक्ष्म लिखितं
न जाने वा कोऽस्मिन् रघुकुलकलङ्के कविरभूत् ॥ १५ ॥
क्व पुनस्तौ कैकेयीदशरथौ ।
**वामदेवः -**रामभद्रं प्रवास्यापसृतौ ।
**कैकेयी -**ता किंति ण वारिदो वच्छो मे रामभद्दो107।
**वामदेवः -**निवेदितवृत्तान्तः सपादोपग्रहं वारितोऽपि तदिदमभिधाय स्थितः।
मया मूर्ध्नि प्रह्वेपितुरिति घृतं शासनमिदं
यक्षो रक्षो वा भवतु भगवान् वा रघुपतिः।
निवर्तिष्ये सोऽहं भरतकृतरक्षां निजपुरीं
समाः सम्यङ्नीत्वा वनभुवि चतस्रश्च दश च ॥ १६ ॥
**दशरथः -**हाहा वत्स रामभद्र अति हि नामासाम्प्रतिकता यत्तवापि गुरुजनाज्ञातिक्रमः। कैकेयि हा हताऽसि तीए दुज्जसदाई सुठ्ठु चउत्यीचन्दा दिट्ठोत्ति108 ।
**कैकेयी -**सकरुणं भअवदि रामभद्दसासुए सीदाजजणि वसुन्धरे रन्धं देहि अअं पणइजणो मागादि रहुउलवधूसमागमे पडिक्विदा ण जीविदुं पारिस्सं । हा जाद भरद अलिअदुज्जसकलङ्किदा कधं दे मुहं दंसहस्सं हा ताद संभाविदोऽसि दुक्वेण हा अम्ब विडम्बिदाऽसि हा कोसल्ले सल्लिदाऽसि हा सुमित्ते सरीरमेत्तीकदाऽसि * इति रोदिति ।
ततः प्रविशतः कौशल्यासुमित्रे।
**कौशल्या -**सहि सुमित्ते अलं संतप्पिदेण संपदं सो जादरामभद्दोदिणणाहस्स उले उप्पण्णो जेण मायागुरुअणस्स वि सासणणिव्वाहणेण बालराहवेण भविअ जरापरिणदराहवाणं पच्छाकदं चरिदम्109 ।
**सुमित्रा-**अइ अलिकावट्टम्हसुत्थिदे किटं वाआविस्थरेण एहि पढमपलत्तद्दूसहमहादुक्त्वं महाराअं संभावेह्न110
इति परिक्रामतः।
दशरयः- अवस्थोचितं परिक्रम्य अयि हृदय साक्षविलायं विलीयस्व कौशल्यासुमित्रे दृश्येते।
___________________________________________________________________________
*
भगवति रामभद्रश्वश्रूः सीताजननि वसुन्धरे रन्ध्रंदेहि अयं प्रणयिजनो याचते । रघुकुलवधूसमागमे प्रतिक्षिप्ता न जीवितुं पारायिष्ये । हा जात भरत अलोकदुर्यशकलङ्किता कथं ते मुखं दर्शयिष्यामि ।हा तात संभावितोऽसि दुःखेन । हा अम्ब विडम्बितासि ।हा कौशल्ये शल्यितासि । हा सुिमित्रे शरीरमात्रीकृतासि ।
—————————————————————————————————————————
**कैकेयी -**संमुखमुत्त्थाय अइ हिअअणिहितदूसहदुःखसल्ले कोसल्ले अइ रामाणुसरणसलक्वणलक्वणपवित्ते सुमित्ते एसा रामणिव्वासिणी भरधदुज्जससंपादिणी कैकेई सीददु111 इतिसर्वा रुदन्ति ।
**दशरथः -**सखे वामदेव अथ तदाकर्ण्यकिमभिहितं वत्सलक्ष्मणेन ।
**वामदेवः -**हृदयकरीषं कषं कथमपि लक्ष्मणवचनं देवादेश इति निवेद्यते।
तातः प्रेम यतः करोत्यनुचितं त्याज्यः स पूज्योऽपि सन्
कैकेय्याः कुचरित्रमित्थमथचेत्तत्राऽस्मि कुण्ठक्रमः।
आर्यश्चेद्भरतो विकर्त्तनकुले कर्त्तुं कलङ्कं स्थितो
गुञ्जज्ज्यामुखरं धनुर्ननु मयाप्यद्यैव संभाव्यते ॥ १७ ॥
सुमित्रा - किं पुण अविदिदवुत्तन्तो मायामअसुप्पणहाणं वच्छलक्वणो112।
**दशरथः -**रामभद्रेण किं प्रतिपन्नम् ।
**वामदेवः -**इदं कथ्यते।
तातादेशात् कियदिदमहो यद्वनान्तेनिवासो
यस्मिन् सेव्याः प्रशमनिधयो धाम निःश्रेयसानाम् ।
अप्येकाकी किमु पितृगिरा गाढगूढाचलेन्द्रै-
र्बद्धासेतुं लवणजलधौ हेलया संचरामि ॥ १८ ॥
दशरथः - प्रकृतिसुकुमारया तु जानक्या किमभिहितम् ।
**वामदेवः -**वत्से जानकि पितृश्वशुरसंपादितस्वस्थस्थितिरिहस्यैव त्वं रामभद्रागमनं प्रतिपालय गर्भेश्वरीभिर्भवादृशीभिर्दुरतिक्रमणीया विन्ध्यमहीधरभुव इत्युभयक्रममहत्तरिकाभिरभिहिता यदुक्तवती सीता तदिह पत्रिकायामास्ते सा दृश्यतां कण्ठावरोधादवाचनीयान्यक्षराणि इति पत्रिकां क्षिपति ।
सुमित्रा - गृहीत्वा वाचयति ।
किं तादेण णरेन्दसेहरसिहालीढग्गपादेण मे
किं वा मे ससुरेण वासवसहासींहासणद्वासिणा ।
उद्देसा गिरिणो अ ते वणमही सा चेअ मे वल्लहा
कोसल्लातणअस्स जत्थ चलणे वन्दामि णन्दामि अ *॥ १९॥
**कौशल्या -**संस्तभ्यात्मानम् ।
रामे व
णा
अचलिदे पिदुसासणेण
तं लक्खणे अणुगदे सह जाणईए ।
आणन्दबाहसमए विहुरासुपूर-
मुज्झन्तएहिं णअणेहिं विडम्बिदह्यि + ॥ २० ॥
_________________________________________________________________________
* किं तातेन नरेन्द्रशेखरशिखालीढाग्रपादेन मे
किं वा मे श्वशुरेणवासवसभासिंहासनार्द्धासिना ।
उद्देशा गिरयश्चते वनमही सा चैव मे वल्लभा
कौशल्यातनयस्य यत्र चरणौवन्दे च नन्दामि च ॥
+ रामे वनाय चलिते पितृशासनेन
तं लक्ष्मणेऽनुगते सह जानक्या ।
आनन्दबाष्पसमये विधुराश्रुपूर-
मुज्झद्ब्यांनयनाभ्यां विडम्बितास्मि ॥
_________________________________________________________________________
विचिन्त्य सकरुणप्रमोदम् ।
किं अण्णेण सुण्णणाम जणणीतारुण्णणिव्वासिया
एक्कं मराणध जादमत्थ विमले रामं रहूणं कुले ।
रज्जं वज्जिअ तादसास
ण
परो को पत्थिदो का
ण
णां
किं बुड्ढेण वि राहवेण चरिदं एदंकिदं केण वि *॥ २१ ॥
दशरथः - क्व पुनस्तापसगृहस्यवेषयोर्विनिमयः कृतो वत्सेन ।
वामदेवः -
क्षित्वा दाम जटाकृतास्तव सुतस्यास्मिन्धनाः कुन्तलाः
दशरथः - हंहो हृदय किमद्यापि श्रोष्यसि।
वामदेवः -
क्षित्वा चात्र दुकूलमत्र वसितं रामेण तद्वल्कलम्।
कैकेयी - एस पोम्मसमणिणो कंचणवन्धविसणेणवारित्राक्वेवणपरिक्वेवो113 ।
वामदेवः -
भ्रातृस्वीकृतमत्रचानुविहितं सौमित्रिणाऽपि व्रतं
दशरथः - वत्स लक्ष्मण त्वच्चरितेनामुना विषीदति प्रसीदति च मे मनः।
वामदेवः -
भर्तुश्चानुगताविह क्षितिभुवा श्वश्रूजनो वन्दितः
॥
२२
॥
_________________________________________________________________________
* क्रिमन्येन श्रुतेन नाम जननीतारुण्यनिर्वासिना
एकं मन्यध्वं जातमत्र विमले रामं रघूणां कुले ।
राज्यं वर्जयित्वा तातशासनपरः कः प्रस्थितः काननं
किं वृद्धेनापि राघवेण चरितमिदं कृतं केनापि ॥
**कैकेयो -**सासूणं परं अहं मन्दभाइणी जा पवसन्तरामभद्दवहुपादवन्दणेण वञ्चिदा114 l
**वामदेवः -**इयमपरा विषादहर्षयोरुत्कर्षसीमा ।
याः स्नेहाज्जनकेन वेणिरचनां नीताः स्वयं विभ्रमान्मैत्रेय्या परिचुम्बिताः प्रणमने या याज्ञवल्क्येन च ।
**कैकेयी -**सोत्कम्पम् । ता किं ताणम्115।
वामदेवः -
ताः सीताप्यतिकान्तकुन्तलसटाः कर्तुं जटाः प्रस्तुता
पादौ मूर्ध्रि निधाय संभ्रमवशात् सौमित्रिणाऽस्मिन् धृताः ॥२३॥
**कैकेयी -**अम्मो पच्चुज्जीविदंह्निअज्ज वामएव वक्कलणिएसणपसारिवहत्थे रामभद्दे वहुए किं पडिवण्णं आसि116।
**वामदेवः -**देवि जनकजाता यत् प्रतिपद्यते ।पश्य।
सीताप्युपहिततरुत्वचि रामभद्रे
वल्कांशुकं हृदयसोम्नि समर्पयन्ती ।
कौशल्यया चरणयोः प्रणिपत्य शीघ्र-
माघ्राय मूर्ध्रि विवृता शपथैश्च तैस्तैः ॥ २४ ॥
दशरथः - रामजननि महदुपकृतं यद्विधाभवद्धारितं हृदयं दशरथस्य।
वामदेवः - किं नाम धारितं
हृदयमद्यापि बहु श्रोतव्यमस्ति । पश्य ।
दयितमनुसरन्तीं मैथिलीमीक्षमाणा
गृहिणमनुयियासुर्जानकी सा कनिष्ठा ।
गुरुगुरुजनलज्जानप्रवक्ताम्बुजेन
भ्रुकुटिपुटनिबन्धाद्वारिता लक्ष्मणेन ॥ २५ ॥
**दशरथः -**किमुच्यते सच्चरितेषु रामभद्रस्यान्तेवासी लक्ष्मणः। ततस्ततः।
वामदेवः-
निष्कर्णिकाऽस्तवलयोज्झितहारयष्टि-
र्निर्नूपुराप्यपहूताङ्गदमेखला च ।
त्वत्कः प्रसाद इति केवलमेव वेणौ
चूडामणिं निदधती चलिता वघूस्ते ॥ २६ ॥
ततश्च ।
स्मर्तव्यासि चिरं चकोरदयिते दात्यूहि तुभ्यं नमो
दृष्टस्त्वं शितिकण्ठ संहर गिरो गच्छाम्यहं सारिके ।
हे लीलाशुक विस्मरिष्यसि न मामेकैकमत्यादरा-
दिंत्यामन्त्र्य तथा विलासवयसां विश्वे वयं रोदिताः ॥ २७ ॥
कैकेयी - पिअकेलिसउन्ता ज़्जेव्व मे वच्छा117* ।
वामदेवः -
केलीहंसो गतिमनुसरन् कारितः पञ्जरे यत्
पश्चाल्लग्ना प्रमदहरिणी वारिता यत् सखीभिः।
यद्वैदेह्यागृहशुकगिरो नादृताश्च व्रजन्त्या
तत्केनास्यां पुरि न रुदितं नोदितः साधुवादः ॥ २८ ॥
विचिन्त्य देव अथमपरः क्षते क्षारावसेको यदिदमपि राजपुत्रीवचनं निवेद्यते ।
तुभ्यं स्वस्ति विलासवापि भवतीं प्रेक्षे पुनर्दर्शनं
क्रीडाक्रीड विमुच्यसेऽद्य कथितं हे केलिदोले तव ।
वासागार नमोऽस्तु ते गुणनिकाः सर्वाः सुखं स्यीयता-
मेषा वःपरिचारिका वनभुवं रामानुगा गच्छति ॥ २९ ॥
दशरथः- हा रघुकुलचन्द्र रामचन्द्र कोऽयं दिलीपकुलेचरितविपर्यासः।
वृद्धो दशरथः सोऽयमुपास्ते गृहमेधिताम् ।
त्वया तु क्षीरकण्ठेन वनवासो निषेव्यते ॥ ३० ॥
वामदेवः- सखे भूकाश्यप रामभद्रप्रवसनव्यसने तु पौराणां कथं कथ्यतां विल्कवता ।
गाढोरः स्थलताडनत्रुटिधृतैर्हारावलीमौक्तिकैः
संदिग्धीकृतबाष्पबिन्दुरुदितं पौराङ्गनाभिस्तथा ।
आमूलश्लथपक्षतिस्थितिनतग्रीवायतुण्डं यथा
वीथीपञ्जरवर्तिभिः शुक्रकुलैरप्युत्कमुत्कूजितम् ॥ ३१ ॥
दशरथः -
हे प्राणाः स गतो रामस्तदनु व्रजत द्रुतम् l
जरसा जर्जरैरङ्गैः शक्तिर्दशरथस्य का ॥ ३२ ॥
संतापमभिनीय । अयि रामजननि कौशल्ये ।
शशिकान्तः कथं ग्रावा भजते बहिरन्तताम् ।
रामस्तु चन्दनं भूत्वा जातो मे दावपावकः ॥ ३३ ॥
वामदेवं प्रति सखे ततस्ततः।
वामदेवः - ततश्च कृतानुगमनाग्रहग्रन्थिमपि भरतं निजपादुकाराधनाय नन्दिग्रामे निवेश्य पितृरहितराज्यरक्षणक्षणे शत्रुघ्नं स्वशपथैः संस्थाप्य मां च तच्चिन्तने नियुज्य सुमन्त्रमात्रपरिकरः प्रस्थितस्ते पुत्रः।
ततः प्रविशति सुमन्त्रः।
सुमन्त्रः - आर्यवर्तमतिक्रम्य दक्षिणां दिशं प्रवसता कुमाररामभद्रेण निर्वर्तितोऽस्मि द्राघीयसीं च तीर्थयात्रां कृत्वा पुनरयोध्यां प्राप्तस्तत्र जाने महाराजदशरथः स्वर्गनगरीतो निवर्तित न वेति । राजप्रवेशितनाटितकेनावलोक्य कथमागत एव भगवतो मघोनः सखा । उपसृत्य स्वस्ति महाराजदशरथाय देव सुमन्त्रसंचारिताक्षरो दुस्तरकान्तारपथिको रामभद्रोऽभिवादयते ।
दशरथः - सवाक्स्तम्भम् । पूर्णवनवासव्रतो भवतु मे वत्सः।
राज्ञ्यः- अवि कुसलं तस्स सकलत्तस्स रामभद्दस्स लक्खणस्स अ118 ।
सुमन्त्रः - कथं न नाम कुशलं येषां चरितानि जनानामाशिषो भवन्ति ।
दशरथः - सखे सुमन्त्र निवेदय वैदेशिकत्वं गर्भरूपाणाम् ।
सुमन्त्रः - देव रघुराजधानीत इदं निवेद्यते ।
सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी
गत्वा जवात्त्रिचतुराणि पदानि सीता ।
गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा
रामाश्रुणः कृतवती प्रथमावतारम् ॥ ३४ ॥
**राज्ञ्यः -**सास्रंम् । वच्छे जाणइ लीलाभवणमणिकुट्टिमकेलिपरिक्कमणदुल्ललिआ भविअ पामरीजणजोग्गे णिवडिदासि119 ।
दशरथः - अहहनिष्करुणा विधिः। मालतीमुकुलैर्न कूलं कल्पयति । ततस्ततः।
सुमन्त्रः - पुरीपरिसरत्यागे तु।
रूढोलपस्तृतवतीषु वसुन्धरासु
दाक्षिण्यतः प्रचलितामवलोक्य सीताम् ।
रामाशयेऽपि परिपन्थिनि यत्तदुक्त्वा
सौमित्रिणाऽर्द्धपथ एव कृतो निवासः ॥ ३५ ॥
कैकेयी - सोम्ममुह जाद लक्खण अवसरमन्तण किं भणामि120।
**सुमन्त्रः-**तत्र च कुशशयने निशामतिवाह्यप्रत्यूष एव पुनः प्रवृत्ता गन्तुं तत्र च ।
मसृणचरणपातं गम्यतां भूः सदर्भा
विरचय सिचयान्तं मूर्ध्निधर्मः कठोरः।
तदिति जनकपुत्री लोचनैरश्रुगर्भैः
पथि पथिकवधूभिर्वीक्षिता शिक्षिता च ॥ ३६ ॥
कतितिथेऽपि च प्रयाणे भागीरथ्याः परं पारं निश्चित्य प्रचलिताः। संतताध्वपरिश्रान्तया च सीतया कलमगोपीजनः स्त्रीस्वभावसुलभेन विश्रम्भेण मार्गं पृष्टः। निवेदितं च तेन ।
पुरो भूः शालेयी कलमपरिपाकोत्सुकशुका
पुरः फुल्लाम्भोजा तिलकयति वो वर्त्मसरसी ।
अथाग्रे सीमानो हलदलितमुस्तासुरभय-
स्ततोऽदूराद्दिव्या नयनविषयं यास्यति सरित् ॥ ३७ ॥
राज्ञ्यः - कधंजा सा अह्याणं पुराणससुरस्स भअवदो भगीरधस्स जसवडांआ गङ्गादेवी विट्टमहेसिमुहादो सुवन्ती आसि तस्मिं जाव संपत्तं राहवकुडुम्बं तदोतदो121 ।
सुमन्त्रः - ततश्च त्रियामासमये समासाद्य निस्रोतसं नावमारूढाः।
कैकेयी - साकूतम् । भअवदि भाईरधि भईरधाराहणं सुमरिअ सुहुतारा होइ122 ।
दशरथः - ससंभ्रमम् । अयि सुमन्त्र प्रस्थितकर्णधारा नौः।
सुमन्त्रः। किमुच्यते लक्ष्मणमित्रं निषादाधिपतिंर्गुहः कर्णधारः।
कौशल्या - तंदोतदो123।
सुमन्त्रः -
शम्भोर्मैलौ शशितिलकिते क्लृप्तकेलिप्रचारा
स्त्रोतासूत्रैः कृतविरचनां भूर्भुवःस्वस्त्रयस्य ।
तामुत्तीर्य त्रिदशसरितं लोचनैरश्रुगर्भै-
रन्तर्वेदीप्रवचनविदां ते पदं प्राप्तवन्तः ॥ ३८ ॥
**राज्ञ्यः -**अम्मो सुट्टाणे ठिदा ते जणा तदोतदो124 ।
सुमन्त्रः - ततश्च पश्चिमेन प्रयागं रात्रिमेकामतिवाह्य समुत्तीर्यकलिन्दनन्दिनीं नानाधातुविचित्रं चित्रकूटाचलं गताः।
दशरथः - देवि दक्षिणकोशलाधिपतिपुत्रि सुकुमारा राजपुत्री दुःसञ्चारा चित्रकूटगिरेररण्यानी ।
**सुमन्त्रः -**तत्र च ।
आर्द्रोलपाक्लृप्तनवोटजानां
सौमिन्निणा नीतफलोदकानाम् ।
कथाप्रसङ्गस्मृतबान्धवानां
तेषामभूत्तत्र चिरं प्रवासः ॥ ३८ ॥
किञ्च।
त्वक्तारवी निवसनं मृगचर्म शय्या
गेहं गुहा विपुलपत्रपुटा घनाश्च ।
मूलं दलं च कुसुमं च फलं च भोज्यं
पुत्रस्य जातमटवीगृहमेधिनस्ते ॥ ४० ॥
**कौशल्या -**अज्ज कधेसु कीदिसं पुण्णं वणवासिणीए सीदास घरिणित्तणं125+।
सुमन्त्रः - इदं निवेद्यते ।
यदास्वाद्यं सीता वितरति तदग्रे स्वगृहिणे
सुमित्रापुत्राय प्रणिहितमशेषं च तदनु ।
यदामंवा नामं यदनतिरसं यच्च विरसं
फलं वा मूलं वा रचयति तु तेन स्वशमनम् ॥ ४१ ॥
कौशल्या - पुत्ति सीदे कहिं पुण महाराजराजजादाए भविअ णिसग्गदरिद्दघरिणिन्तणं तए सिक्विदम्126 ।
दशरथः - देवि दैवं शिक्षयति ।
सुमन्त्रः - इदमपरमावेद्यते हृदयकरीयंवचो यदुताध्वखेदजनकेषु प्रयाणकेषु ।
उत्थाय संभ्रमवशस्खलितोत्त्तरीया
कृत्वा धनुर्निचुलुके मृगयानिवृत्तौ ।
सीताऽञ्चलेन तरलेन समुल्लसन्ती
रामाननान्नमितपक्ष्मारजः प्रमार्ष्टि ॥ ४२ ॥
दशरथः - ततस्ततः।
सुमन्त्रः - ततश्च जानकीहरणकृतोद्यमविराधविध्वंसनेन सीतागात्रनिवेशितनखरोल्लेखस्य च धाराधरवायसस्य काणोकरणेन सुस्यान्याश्रमपदानि विधाय दक्षिणं महाकान्तारमधिकृत्य प्रस्थितास्ते ।
दशरथः - अयि सुमन्त्र नववधूटिलक्ष्मणयोः प्रथमपथिकता विक्लवयति ।
सुमन्त्रः - किं नाम विक्लवयति न पुनरानन्दयति ।
धरणितलनिषण्णं वर्त्मविश्रान्तिहेतो-
र्व्यजति जनकपुत्री वाससः पल्लवेन।
राज्ञ्यः - अम्मो सुट्टाणे ठिदा ते जगा तदोतदो127।
सुमन्त्रः - ततश्च पश्चिमेन प्रयागं रात्रिमेकामतिवाह्म समुत्तीर्य कलिन्दनन्दिनीं नानाधातुविचित्रं चित्रकूटाचलं गताः।
दशरथः - देवि दक्षिणकोशलाधिपतिपुत्रि सुकुमारा राजपुत्री दुःसञ्चारा चित्रकूटगिरेररण्यानी ।
सुमन्त्रः - वच च ।
आर्द्रोलपाक्लृप्तनवोटजानां
सौमित्रिणा नीतफलोदकानाम् ।
कथाप्रसङ्गस्मृतबान्धवानां
तेषामभूत्तत्र चिरं प्रवासः ॥ ३९ ॥
किञ्च I
त्वक्तारवी निवसनं मृगचर्म शय्या
गेहं गुहा विपुलपत्रपुटा घनाश्च ।
मूलं दलं च कुसुमं च फलं च भोज्यं
पुत्रस्य जातमटवीगृहमेधिनस्ते ॥ ४० ॥
**कौशल्या -**अज्ज कधेसु कोदिसं पुण्णं वणवासिणीए सीदाए घरिणित्तणां128 ।
सुमन्त्रः - इदं निवेद्यते ।
यदास्वाद्यं सीता वितरति तदये स्वगृहिणे
सुमित्रापुत्राय प्रणिहितमशेषं च तदनु ।
***
यदामं वा नामं यदनतिरसं यच्च विरसं
फलं वा मूलं वा रचयति तु तेन स्वशमनम् ॥ ४१ ॥
कौशल्या - पुत्ति सीदे कहिं पुण महाराजराजजादाए भविअ णिसग्गदरिद्दघरिणित्तणं तए सिक्खिदम्129।
दशरथः - देवि दैवं शिक्षयति ।
सुमन्त्रः - इदमपरमावेद्यते हृदयकरीयंवचो यदुताध्वखेदजनकेषु प्रयाणकेषु ।
उत्त्याय संभ्रमवशस्खलितोत्तरीया
कृत्वा धनुर्निचुलुके मृगयानिवृत्तौ ।
सीताऽञ्चलेन तरलेन समुल्लसन्ती
रामाननान्नमितपक्ष्मरजः प्रमार्ष्टि ॥ ४२ ॥
दशरथः - ततस्ततः।
सुमन्त्रः - ततश्च जानकीहरणकृतोद्यमविराधविध्वंसनेन सीतागात्रनिवेशितनखरोल्लेखस्य च धाराधरवायसस्य काणीकरणेन सुस्यान्याश्रमपदानि विधाय दक्षिणं महाकान्तारमधिकृत्य प्रस्थितास्ते ।
दशरथः - अयि सुमन्त्र नववधूटीलक्ष्मणयोः प्रथमपथिकता विक्लवयति ।
सुमन्त्रः - किं नाम विक्लवयति न पुनरानन्दयति ।
धरणितलनिषण्णं वर्त्मविश्रान्तिहेतो-
र्व्यजति जनकपुत्री वाससः पल्लवेन ।
***
अगणितनिजखेदः पादसंवाहनाभिः
परिचरति हृष्यं लक्ष्मणो रामभद्रम् ॥ ४३ ॥
राज्ञ्यः। हा देव कहिं उण गब्भेसरेहिं
भविअ
जाणईलक्खणेहिं पहिअजणजोग्गंगुरुसुस्सूसणं सिक्विदम्130 ।
सुमित्रा - उचिदकारित्तणे अस्सुदसिक्खिदाइंमहाभाअजणचरित्ताइं131।
दशरथः- जाने जानकीतोऽपि प्रसादवान् वत्सलक्ष्मणे रामभद्रः।
सुमन्त्रः - यथादिष्टं देवेन ।
ताराप्रेङ्खणपीतबाष्पपयसो यत्नेन संचारिताः
सीतायाः सविधस्थितेषु च मृगद्वन्द्वेषु वीरुत्सु च ।
बाले वर्त्मकृते प्रवासिनि जवादुल्लङ्ग्यगम्भीरतां
सौमित्रौ निपतन्ति वत्सलतया पुत्रस्य ते दृष्टयः ॥ ४४ ॥
दशरथः - अपि शिवाः पन्थानो वत्सानां सुशकुनया सीतया ।
**सुमन्त्रः -**देव रामचन्द्रदर्शनमेव सर्वेषामपि सुशकुनम् । करुणाकौतुकाभ्यामागताभि- र्वैखानसवधूभिर्हस्तचिबुकेन चिबुके चुम्बन्तीभिरभिहिता सीता पुत्रि पतिव्रते वैदेहि अप्रमत्तजनसंचारणीयानि गिरिकान्ताराणि तत्पादवेदनावत्यप्यनुरामभद्रं संचर किं न पश्यसि ।
वप्रे यूथं चरति करिणां कन्दगस्वच्छभल्लाः
कुञ्जे सिंहैः स्थितिरुपहिता द्वीपिभिर्मेखलासु ।
गोलाङ्गलास्तरुषु सरणैभ्रान्तिमन्तःपुलिन्दै-
र्विन्ध्येसत्त्वं तदिह कतरद्यन्नहिंस्रं न रौद्रम् ॥ ४५ ॥
अपिच ।सीरध्वजसुवासिनि ।
यावग्रन्थिं परिहर पुरः कण्टकिन्यत्र वीरु -
द्वस्त्रप्रान्तं दवदहनतः किञ्चिदुच्चैः कुरुष्व ।
शाखास्तिर्यग्विनमय शिरः पश्य वल्मीकरन्ध्रं
वंशस्तम्बे चरति च करी तत्स्थिरा तावदास्स्व ॥ ४६॥
**सुमित्रा -**अहह कधं णु क्बु कङ्करोक्केरवक्कलणिविलासु । व
सुन्धरासु वसुन्धरापुत्ती णिप्तग्गसुकुमारा संचरदि132।
**रामः -**इदं कथ्यते यथा संचरति ।
मुञ्चत्यग्रेकिसलयचयं लक्ष्मणो याति सीता
पादाम्भोजे विसृजदसृजी तत्र संचारयन्ती।
रामो मार्गं दिशति च ततस्तेऽखिलेनाऽपि चाह्ना
शैलोत्सङ्गप्रणयिनि पथि क्रोशमेकं वहन्ति ॥ ४७ ॥
अतश्च ।
जरदजगरश्वासत्रासप्रनष्टमृगाङ्गनं
हरिनखमुखन्यासादस्तद्वियोज्झित्चीत्कृतम् ।
शबरवनितोत्खातैः कन्देः स्फुटस्थपुटान्तरं
तदनु सरितां बन्धुं विन्ध्यं गतास्त इमे गिरिम् ॥ ४८ ॥
**कौशल्या -**जा कविञ्जलकेलिजुज्झे वि बिब्भन्तीआसि सा कधं पुण वाणरमुक्कवुक्कारवसङ्किअपहिअंकिराअजालभल्लाहअवेल्लमाण अच्छभल्लकीलालक-वलणकेलिकोदूहलिल्लकेसरिकिसोरदीहनीहालिहिज्जन्तपोम्मराअखाणिंविंज्झगिरिं पेक्खन्तीसुणामे पदाइंधारहस्सदि हा हददेव्व सांतं के.लिकदलीकन्दली मत्तकरिसुण्डावेढं सहावीऋदि हंहो दिलीपकुलदेवदाओसुरक्खिदं कुणध वणे एहवकुडुम्बम् * ।
दशरथः - किं करोतु वराकी क्व पुनर्मालतीकलिका दर्भगुणग्रथनाकदर्थनां क्षमते ।
सुमन्त्रः- शृणु यथा क्षमते ।
मूलेमूले पथि विटपिनां खेदिनी दीर्घमास्ते
शुप्यत्कण्डी पिबति सलिलं निर्झरेनिर्झरे च ।
जातत्रासा निमिषति दृशं कन्दरेकन्दरेच
स्थानेस्थाने वहति च मतिं बद्धवासाभिलाषा ॥ ४९ ॥
निःश्वस्य देव इदं पुनरतिष्टतरं श्रावयामि ।
विन्ध्याध्वानो विरलसलिलास्तर्षिणी तत्र सीता
यावन्मूर्छांकलयति किल व्याकुले रामभद्रे ।
द्राक्सौमित्रिः पुटककलशीं मालुधानीदलानां
तावत्प्राप्तो दधदतिभृतां वारिणा नैर्झरेण ॥ ५० ॥
______________________________________________________________________________
* या कपिञ्जलकेलियुद्धेऽपि बिभ्यत्यासीत् सा कथं पुनर्वानरमुक्तषुक्कारवशङ्कितपथिकं किरातजालभल्लाहतवेल्लदच्छभल्लकीलालकवलनकेलिकौतूहलितकेसरिकिशोरदीर्घजिह्वालिह्यमानपदमरागस्वनिं विन्ध्यगिरिं प्रेक्षमाणा स्नुषामे पदानि धारयिष्यति । हा हत दैव शान्तं केलिकदलीकन्दली मत्तकरिशुण्डावेष्टनं साह्यते हंहो दिलोपकुलदेवताः सुरक्षितं कुरुत वने राघवकुटुम्बम् ।
—————————————————————————————————————————
समुच्छ्वसन्ति ।
**कौशल्या -**लक्खणलक्खण उवणेहि चलणकमलाइंसीसेण इस्सं * ।
कैकेयी**-**सहि कोसल्ले उद्वेहिउद्वेहि कहिं एत्थरामो लक्ष्मणोवा अदिक्कन्तंक्खुभणीअदि + ।
**दशरथः -**एष विषादहर्षयोरन्तरे वर्ते ।
कौशल्या - हा रामभद्द केण उण दिणअरकुलकुमारएण संविंझगिरिवासदुःखं अणुभूदम् ।
सुमित्रा - सहि कोसल्ले ण सव्वोरामभद्दो।
**कैकेयी -**णअरेणाअरे कैकेयी ।
कौशल्या - तदोतदो।
सुमन्त्रः - ततश्च ।
विहितशयनोऽनेकन्यासैरनोकहपल्लवैः
कलितकलशोपाणिः कुम्भोदलैश्च पुटीकृतैः।
अथ विरचितः किंचित्तालप्रभेऽह्निसुतेन ते
परिसरसरिज्जम्बूकुञ्जेनिकेतपरिग्रहः ॥ ५१ ॥
दशरथः- सविशेषकरुणम् । ततस्ततः।
_______________________________________________________________________________
लक्ष्मणलक्ष्मण उपनय चरणकमले शीर्षेण ते धारयिष्यामि ।
सखिकौशल्ये उत्तिष्ठोत्तिष्ठ क्वात्र रामो लक्ष्मणो वा अतिक्रान्तं
गण्यते ।
हा रामभद्र केन पुनर्दिनकरकुलकुमारकेण भूत्वा विन्धगिरिवासनुभूतम् ।
सखि कौशल्ये न सर्वोरामभद्रः।
नगरेनगरे कैकेयी ।
ततस्ततः।
—————————————————————————————————————————
सुमन्त्रः - तदित्थं कतितिथे च प्रयाणे ।
गिरिषु जयपताका विन्ध्यशैलस्य पाणि-
र्द्विपकुलनिचिताम्भाः प्रेयसी पश्चिमाब्धेः।
नयनपथमथागान्नर्मदा देव तेषां
शिशिरितजलमिन्दोश्चन्द्रिकेव प्रसूता ॥ ५२॥
दशरथः - या किल भगवत्यार्यवर्त्तदक्षिणापथयोर्विभागरेखा ।
**सुमन्त्रः -**ततश्चाहमनुगमनकृतायहग्रन्थिरपिदेव द्रोहं निगदता रामभद्रेण विनिवृत्तये स्थापितः। किञ्च देव ।
कृत्वा पाणी शिरसि जटिले पद्मकोशायमानौ
रामेण प्राक्प्रणतिविनयो देव विज्ञापितस्ते ।
बाष्पस्तारातरलनयनस्तम्भितोप्युज्जिहानः
पश्चान् मुक्तः श्वसितविधुतो वन्दितेनाननेन ॥ ५३ ॥
कौशल्या - अज्ज तए विमुक्को रामभद्दो133।
सुमन्त्रः - देवि सर्वे वयं रामभद्रेण परित्यक्ताः।
**कौशल्या -**तदोतदो123 ।
**सुमन्त्रः -**ततश्च ।
नीत्वा कालं तरुणतरणिं स्त्रिग्धजम्बूनिकुञ्जे
धारादत्तोन्नमितसिकतासद्मनांक्रीडनेन ।
रेवां देव स्खलितचरणा पिच्छिलाभिः शिलाभि-
स्तामुत्तीर्णापथिकतरलन्यस्तहाहा वधूस्ते ॥ ५४ ॥
**सुमित्रा -**तदोतदो134 ।
सुमन्त्रः - ततोऽहं तानवलोकयन्नर्वाक्कूल एव तां रजनीमुषितस्ते तु परपारे । अथान्येद्युः।
जित्वा बाष्पं किमपि कलया स्फारितैर्नेत्रपात्रै
रर्वाक्कूले विहितवसतिं वीक्षमाणाः क्षणं माम् ।
ते दिग्भागं स्तिमितवचसो नर्मदायाः परस्ता-
ल्लोपामुद्रापतितिलकितंदेव गन्तुं प्रवृत्ताः ॥ ५५ ॥
दशरथः - वत्स रामभद्र मन्ये ममेव मलयाचलवासिनः प्रियवयस्यस्य जटायोरपि सर्वङ्कषो भविष्यसि ।
ततः प्रविशति गगनार्द्दावतरणनाटितकेन सप्रहारव्यथो रत्नशिखण्डः।
चन्द्रहासप्रहारोत्त्थांजयन् मूर्च्छांनभोनिलैः।
अयोध्यामवतीर्णोऽस्मि कथंचित् क्षतपक्षतिः ॥
विचिन्त्य एवं स्थितोऽपि ।
एषोऽहं जलमयरत्नकामधेनुं
पक्षाभ्यां सपदि विघूर्ण्य ताम्रपर्णीम् ।
द्राक्कृत्वा मलयतरून् दुताहिपाशा-
नादेशाद्दशरथमागतो जटायोः ॥ ५६ ॥
तद्यावत्तत्रभवन्तं भूकाश्यपं पश्यामि । गगनाक्रमेणावलोक्य । एष महाराजदशरथः। कः कोऽत्र भोः। निवेद्यतामजनन्दनाय नरेन्द्राय ।
जटायोर्गृध्रराजस्य सुहृदस्तव शैशवात् ।
दूतो रत्नशिखण्डोऽस्मि तन्निदेशादुपागतः ॥ ५७ ॥
**सुमन्त्रः -**इतइतः।
इत्युत्त्थातुमिच्छति ।
**सुमन्त्रः -**देव तदिदमपक्रान्तोपवर्णनं कोयमायुधग्रहणकालः।
**दशरथः -**उपविश्य । हाहा धिक्कष्टमयमपूर्वोरघुराजकुलकलङ्कावतारः। विचिन्त्य तर्हि मायामयः।
मायामृगेण रामोऽपि हृत इत्यद्भुतं महत् ।
मतिर्वाखर्वभाग्यानां पश्यन्त्यपि न पश्यति ॥ ६३ ॥
सुमित्रा - पुत्ति सीदे कवलितहालाहलस्स जणस्स एस संपदं सोओ । जा देसन्तरे वि रक्खसेण हीरसि135 ।
कैकेयी - केकेईदुज्जसमहाकन्दस्स एस दुदीओ कन्दलुब्भेओ136।
**दशरथः -**उपविश्य सवैलक्ष्यम् । ततस्ततः।
रत्नशिखण्डः - एतद्व्यतिकरमन्वयवयोवदनेभ्यः श्रुत्वा स ते सखा गृध्रकपोतैः परिवृतो दुःसहस्रुषापहारतिरस्कारो मलयाचलादुच्चलितः। अत्रान्तरे त्रिदशवक्रविमुच्यमानदृग्गोचरस्य रजनीचरभर्तुरग्रेमार्गं निरुध्य कृतवान् गगनावगाहमामूलविस्तृतपतत्रपुटो जटायुः।
दशरथः - साधु वयस्य साधु ततस्ततः।
रत्नशिखण्डः -
यत्संवर्ते दिनमणिरयं वासरस्यैककर्ता
यद्विस्तारे भवति रजनीरञ्जितो जीवलोकः।
ताभ्यां रुन्धन्नरुणतनयो रोदसी पक्षतिभ्यां
जातो योद्धुंत्रिभुवनरिपोग्रतो रावणस्य ॥ ६४ ॥
दशरथः - किमुच्यते संपातिसहोदरो मन्मित्रमारुणिरसि । ततस्ततः।
रत्नशिखण्डः - ततश्चाभिहितमभिमानोद्धुरं गृध्रराजेन ।
संप्राप्तोऽहं जटायुर्मलयगिरिगुहाकन्दरक्रोडनीड-
स्तद्भोः सीतापहारिन् बिभृहि करचये केन चिच्चन्द्रहासम् ।
येन त्वत्कृत्स्नचूडारुणमणिनिकरं मत्कचण्डोयतुण्ड-
व्यापारैःस्रंसमानं सपदि शकुनयो मांसगर्धा ग्रसन्ताम् ॥ ३५ ॥
दशरथः - अहो निरूपममोजायितं वेगविजितवायोर्जटायोः।
कौशल्या - भअवदि सङ्गामसिरि जई भोदुतत्तभवं जडाऊ ।
तदोतदो137।
**रत्नशिखण्डः -**तत्सर्वैरेवास्माभिररुणगरुडान्वयप्रसवैः शकुन्तिभिरन्तरित-स्तातजटायुर्योद्धुंचारब्धं ततश्च ।
कर्णाभ्यर्णेष्वलिकफलकेष्वायते नेत्रतन्त्रे
नासावंशेष्वधरपुटकेष्वंसवक्षःस्थलीषु ।
योयो भागः सुरपतिरिपोः स्वामिनः स्पष्ट आसीत्
तंतं गृधाः कवलकलितं लुनवन्तो नखायैः ॥ ६६ ॥
ततश्च सकलैरेव शकुन्तिवीरैराकुलितेन राक्षसराजेन चन्द्रहासव्यापारेणास्याभिमुखं प्रवृत्तं हन्यमानेषु च महापतत्रिभटेषु जटायुना पुनः सर्वे वयमन्तरिताः। ततश्च ।
चित्रे तत्र पतन्निशाचररणे नाङ्गं जटायोरभू-
न्नोकृत्तं दशकन्धरण कणशो यच्चन्द्रहासासिना ।
लङ्काभर्तुरपि प्रचण्ड कुलिशव्यापारनीराजितं
यत्तुण्डेन न खण्डितं खगपतेर्यद्वा न लूनं नखैः ॥ ६७ ॥
कौशल्या - भअवदि सङ्गामसिरि मुच्चदु सीदां बन्दिग्गहादो138 ।
दशरथः - ततस्ततः।
रत्नशिखण्डः -
तदनु दिवि जटायुश्चञ्चुसंदंशमुद्रा-
कवलनविधिवेगप्रस्खलच्चन्द्रहासः।
दशभिरपि नखायैर्दिग्गजेन्द्राङ्कुशाभैः
सपदि दशमुखानि प्राद्रवद्रावणस्य ॥ ६८ ॥
**दशरथः -**साधु गरुडाग्रज साधु साधु दिनमणिसारथे साधु जटायुना पुत्रेण ।
कौशल्या - तं कदं अज्जजटाउणा जं सहिसुसाहरणे कीरदि तदोतदो139।
रत्नशिखण्डः - ततश्च ।
द्राक्चन्द्रहासपरिखण्डितचञ्चुकोटि-
श्चञ्चुप्रहारपरिखण्डितचन्द्रहासः।
नाडिन्धमे तडिति कण्ठतटे स तेन
कुन्तेन कुन्तनखरः प्रहतः शकुन्तः ॥ ६९ ॥
ततश्च तदिदमपश्चिमं तवकण्ठगतप्राणेन जटायुना सं
टम् ।
यत्संपातिसहोदरस्य सदृशं यच्चारूणोःसाम्प्रतं
यच्वाधीननखायुधस्य च समं युक्तं च यद्रावणे ।
तन्मैत्रीमनुरुन्धता तवमया तत्सङ्गराये कृतं
न व्रीडां गमितोऽसि येन न पुनः स्यां संभवे येन च ॥ ७० ॥
**दशरथः -**हा अरुणकुलालङ्करण हा संपातिवल्लभ हा गरुडप्रसादवित्त कामवस्थांनीतोऽसि प्रियसुहृदा दशरथेन ।
कौशल्या - हा देव्वतएकदविलम्बंसमत्थअंवणगदंइवकुडुम्बम्140 ।
सुमित्रा - ण केवलं वणगदं भुवणगदं वि141।
रत्नशिखण्डः - तत्प्रहिणोतु मां महाराजोनिजकुलकुलायमानाय ।
**दशरथः -**साधु एतु भवान् ।
**रत्नशिखण्डः -**परिक्रम्य निष्क्रान्तः।
कैकेयी - उत्तरकोसलणरिन्द किमवसिदं रहुवंसस्स142 । अतएवाऽहम् ।
यस्मिन्नापःसह परिणताः सूर्यपुत्रीपयोभि-
र्मन्दाकिन्याःकुमुदरुचयो मेचकेन्द्रीवराभैः।
तीर्थोतस्मिन् मम विशदितं देवताभूय भूयः
स्वाङ्गत्यागात् स्पृहयति मनो वासवार्धासनाय ॥ ७१ ॥
इति परिक्रम्य सर्वे निष्क्रान्ताः।
॥ निर्दोषदशरथो नाम षष्टोऽङ्कः ॥
तद्दोःखण्डदवानलो भृगुर्पार्तार्नर्जित्य तं च त्वया
मालेयं जयसंपदी विरचिता स्वस्मादनग्रेसरी ॥ ५ ॥
नेपथ्ये ।
हेलासिञ्जिदसिञ्जिणीझणारावेण वीणाइदं
कोदण्डं तुह पाणिपीडनणदं जुज्झेणित्रं ताखणम् ।
ते सव्वे खरदूसणप्पभुदिणो जीवेहिं मुक्का पुरो
पच्छा भल्लप्रवेल्लिएहिं सहसा देहेहिं भूमिं गदा * ॥६॥
कर्पूरचण्डः -
जात्यन्धत्वमधिष्ठितं सपदि तैर्दत्तं जलं तैर्दृशे
दृष्टिं सृष्टवतो विधेर्भगवतः क्लेशश्च तैर्भावितः।
येषां ताडयितुं स्थिते त्वधिजवान्मारीचमायामृगं
द्राग्दैवादनुपेयुषां दिविषदां जाते वृथा चक्षुषी ॥ ७॥
अपिच ।
नाद्याप्यस्ति तदीययोर्नयनयोः संकोचदुःस्यं वपु-
स्तेषां गण्डतटे स्फुटत्पुलकता नाट्यापि विश्राम्यति ।
तेनाद्यापि वहन्ति हर्षणतया रिक्तं च चेतो निजं
दृष्टं देव कबन्धदैत्यनिधनं यैस्त्वत्कृतं कौतुकात् ॥ ८ ॥
नेपथ्ये ।
पुज्जीभूदहर द्रृ हासजइणा रूपेण रुद्धं वरं
क्खीणं वालिजसं व दुन्दुभिमहाकङ्कालसेसं जहा ।
_______________________________________________________________
*हेलासिञ्जितसिञ्जिनीझणझणारावेण वोणायितं
कोदण्डं तव पाणिपीडननतं युद्धे निजं तत्क्षणम् ।
ते सर्वे खरदूषणप्रभृतयो जीवैर्विमुक्ताः पुरः
पश्चात् भल्लप्रवेल्लितैःसहसा देहैर्भूमिं गताः ॥
—————————————————————————————————————————
पेल्लन्ता चलणेण विंज्झगिरिणो हेलायिदं तं तुए
अह्ने एव्व दुवे परं ण हु गदा वेरी वि बन्दित्तणम् * ॥९॥
अविअ ।
लीलामुक्केक्कबाणव्वणविवरगुहामज्झमुच्छन्तवाआ
जाआ जे सत ताला तिहुअणजइणो चावचारेण तु
ज्झ
णिच्चं गाअन्ति हेलाभरिदणहअलब्भन्तरं ताररावा
सत्तेहिं तेण तेहिं तुह जसपसरं सत्तलोअठ्ठिदव्व + ॥१०॥
कर्पूरचण्डः -
पौलस्त्यस्यावमन्ता त्रिदशपतिसुतश्चक्रवर्ती कपीनां
कर्ता संध्यासमाधेर्जलनिधिषु चतुर्दिङ्गिकुञ्जाश्रितेषु।
किष्किन्धां राजधानीं भुजपरिघबलात्रायमाणस्त्वयाऽसौ
वाली हेमाब्जमाली गुणनिधिरिषुणा निर्मितो दक्षिणेर्मा ॥११॥
नेपथ्ये ।
जेकेलासे कलिन्दे मलअमहिहरे मन्दर मेरुसेले-
सह्येविंज्झेमहेन्दे तह अ हिमवहे पव्वदे वाणरेन्दा।
________________________________________________________________
* पुञ्जीभूतहराद्रुहासजयिना रुपेण रुद्धं परं
क्षीणं वालियशश्च दुन्दुभिमहाकङ्कालशेषं यथा ।
प्रक्षिपता चरणेन विन्ध्यगिरेर्हेलायितं तत् त्वया
आवमेव द्वौ परं न खलु गतौ वैरिणाविव बन्दित्वम् ॥
+ अपिच
लीलामुक्तैकबाणव्रणविवरगुहामध्यमूर्च्छद्वाता
जातास्ते सप्त तालास्त्रिभुवनजयिनश्चापचारेण तव ।
नित्यं गायन्ति हेलाभरितनभस्तलाभ्यन्तरं ताररावाः
सप्तभिस्तेन तैस्तव यशः प्रसरं सप्तलोकस्थितमिव ॥
—————————————————————————————————————————
चित्रे तत्र पतन्नि
शाचररणे नाङ्गं जटायोरभू-
न्नोकृत्तं दशकन्धरण कणशो यच्चन्द्रहासासिना ।
लङ्काभर्तुरपि प्रचण्डकुलिशव्यापारनीराजितं
यत्तुण्डेन न खण्डितं खगपतेर्यद्वा न लूनं नखैः ॥ ६७ ॥
कौशल्या - भअवदि सङ्गामसिरि मुच्चदु सीदां बन्दिग्गहादो138 ।
दशरथः - ततस्ततः।
रत्नशिखण्डः -
तदनु दिवि जटायुश्चञ्चुसंदंशमुद्रा-
कवलनविधिवेगप्रस्खलच्चन्द्रहासः।
दशभिरपि नखाग्रैर्दिंग्गजेन्द्राङ्कुशाभैः
सपदि दशमुखानि प्राद्रवद्रावणस्य ॥ ६८ ॥
**दशरथः -**साधु गरुडाग्रज साधु साधु दिनमणिसारथे साधु जटायुना पुत्रेण ।
कौशल्या - तं कदं अज्ज जटाउणा जंसहिसुसाहरणे कीरदि तदोतदो143 ।
रत्नशिखण्डः - ततश्च ।
द्राक्चन्द्रहासपरिखण्डितचञ्चुकोटि-
श्चञ्चुप्रहारपरिखण्डितचन्द्रहासः।
नाडिन्धमे तडिति कण्ठतटे स तेन
कुन्तेन कुन्तनखरः प्रहतः शकुन्तः ॥ ६८ ॥
ततश्च तदिदमपश्चिमं तव कण्ठगतप्राणेन जटायुना संदिष्टम् ।
यत्संपातिसहोदरस्य सदृशं यच्चारुणोः साम्प्रतं
यच्चाधीननखायुधस्य च समं युक्तं च यद्रावणे ।
तन्मैत्रीमनुरुन्धता तवमया तत्सङ्गराये कृतं
न व्रीडां गमितोऽसि येन न पुनः स्यां संभवे येन च ॥ ७० ॥
**दशरथः -**हा अरुणकुलालङ्करण हा संपातिवल्लभ हा गरुडप्रसादवित्त कामवस्यां नीतोऽसि प्रियसुहृदा दशरथेन ।
कौशल्या - हा देव्व तए कदविलम्बं समत्थंअ वणगदं राहवकुडुम्बम्140 ।
**सुमित्रा -**ण केवलं वणगदं भुवणगदं वि141।
**रत्नशिखण्डः -**तत्प्रहिणोतु मां महाराजा निजकुलकुलाय गमनाय ।
**दशरथः -**साधु एतु भवान् ।
रत्नशिखण्डः - परिक्रम्य निष्क्रान्तः।
**कैकेयी -**उत्तरकोसलारिन्द किमवसिदं रहुवंसस्स142 । अत एवाऽहम् ।
यस्मिन्नापः सह परिणताः सूर्यपुत्रीपयोभि-
र्मन्दाकिन्याः कुमुदरुचयो मेचकेन्दीवराभैः।
तीर्थे तस्मिन् मम विशदितं देवताभूय भूयः
स्वाङ्गत्यागात् स्पृहयति मनो वासवार्धासनाय ॥ ७१ ॥
इति परिक्रम्य सर्वे निष्क्रान्ताः।
॥ निर्दोषदशरथो नाम षष्टोऽङ्कः ॥
***
तद्दोःखण्डदवानलो भृगुपतिर्निर्जित्य तं च त्वया
मालेयं जयसंपदी विरचिता स्वस्मादनग्रेसरी ॥ ५ ॥
नेपथ्ये ।
हेलासिञ्जिदसिञ्जिणीज्झणज्झणारावेण वीणाइदं
कोदण्डं तुह पाणिपीडनणदं जुज्झेणिअं ताखणम् ।
ते सव्वे खरदूसणप्पभुदिणो जीवेहिं मुक्का पुरो
पच्छा भल्लप्रवेल्लिएहिं सहसा देहेहिं भूमिं गदा* ॥६॥
कर्पूरचण्डः -
जात्यन्धत्वमधिष्ठितं सपदि तैर्दत्तं जलं तैर्दृशे
दृष्टिं सृष्टवतो विधेर्भगवतः क्लेशश्च तैर्भावितः।
येषां ताडयितुं स्थिते त्वधिजवान्मारीचमायामृगं
द्राग्दैवादनुपेयुषां दिविषदां जाते वृथा चक्षुषी ॥ ७ ॥
अपिच ।
नाद्याप्यस्ति तदीययोर्नयनयोः संकोचदुःस्थं वपु-
स्तेषां गण्डतटे स्फुटत्पुलकता नाद्यापि विश्राम्यति ।
ते नाद्यापि वहन्ति हर्षणतया रिक्तं च चेतो निजं
दृष्टं देव कबन्धदैत्यनिधनं यैस्त्वत्कृतं कौतुकात् ॥ ८ ॥
नेपथ्ये ।
पुञ्जीभूदहरदृहासजइणा रूपेण रुद्धं वरं
क्खीणं वालिजसं व दुन्दुभिमहाकङ्कालसेसं जहा
_______________________________________________________________
* हेलासिञ्जितसिञ्जिनीझणझणारावेण वोणायितं
कोदण्डं तव पाणिपीडननतं युद्धे निजं तत्क्षणम् ।
ते सर्वे खरदूषणप्रभृतयो जीवैर्विमुक्ताः पुरः
पञ्चात् भल्लप्रवेल्लितैः सहसा देहैर्भूमिं गताः ॥
—————————————————————————————————————————
पेल्लन्ता चलणेण विंज्झगिरिणो हेलायिदं तं तुए
अह्नो एव्व दुवे परं ण हु गदा वेरी वि बन्दित्तणम् * ॥९॥
अविअ ।
लीलामुक्केक्कबाणव्वणविवरगुहामज्झमुच्छन्तवाआ
जाआ जे सत्त ताला तिहुअणजइणो चावचारेण तुज्झ
।
णिच्चं गाअन्ति हेलाभरिदणहअलब्भन्तरं ताररावा
सत्तेहिं तेण तेहिं तुह जसपसरं सत्तलोअठ्ठिदव्व + ॥१०॥
कर्पूरचण्डः -
पौलस्त्यस्यावमन्ता त्रिदशपतिसुतश्चक्रवर्ती कपीनां
कर्ता संध्यासमाधेर्जलनिधिषु चतुर्दिङ्गिकुञ्जाश्रितेषु ।
किष्किन्धां राजधानीं भुजपरिघबलात्रायमाणस्त्वयाऽसौ
वाली हेमाब्जमाली गुणनिधिरिषुणा निर्मितो दक्षिणेर्मा ॥ ११॥
नेपथ्ये ।
जे केलासे कलिन्दे मलअमहिहरे मन्दर मेरुसेले-
सह्येविं
ज्झे
महेन्दे तह अ हिमवहे पव्वदे वाणरेन्दा ।
_____________________________________ ***__________________________
* पुञ्जीभूतहरादृहरासजयिना रूपेण रुद्धं परं
क्षीणं वालियशश्च दुन्दुभिमहाकङ्कालशेषं यथा ।
प्रक्षिपता चरणेन विन्ध्यगिरेर्हेलायितं तत् त्वया
आवमेव द्वौ परं न खलु गती वैरिणाविव बन्दित्वम् ॥
+ अपिच
लीलामुक्तैकबाणवणविवरगुहामध्यमूर्च्छद्वाता
जातास्ते सप्त तालास्त्रिभुवनजयिनश्चापचारेण तव ।
नित्यं गायन्ति हेलाभरतनभस्तलाभ्यन्तरं ताररावाः
सप्तभिस्तेन तैस्तव यशः प्रसरं सप्तलोकस्थितमिव ॥
—————————————————————————————————————————
सव्वे सुग्गीवपादप्पणदिपणइणो ते वि जं स प्पसादो
मेवातुट्टस्म सच्चं तुह जसजलधेर्भूलदावेल्लिदाणम् * ॥ १२॥
कर्पूरचण्डः -
भीमं यज्जलधिं जवेन हनुमानुल्लङ्घ्य
लङ्कां गतो
यच्चाशोकमहावनं दलितवानक्षं च यत्क्षुण्णवान् ।
सीतोपायनमौलिरत्नसहितः प्राप्तश्च यत् त्वामसौ
तत्राप्येषभवत्प्रभावमहिमा निर्यन्त्रणः कारणम् ॥ १३ ॥
नेपथ्ये ।
किं अण्णेहिं विराधप्पहुदिविदरणादंवरुग्घट्टणेहिं
एदं ते वण्णआमो जलनिधिसविधावासिदे जं तुमम्मि ।
वट्टन्ते रक्खसीणं तरलकरदलप्फास्तुट्टन्तहारा
हारावक्कन्तकण्ठा णवणअणजलुप्पीलिणो विप्पलावा + ॥१४॥
कर्पूरचण्डः -
नानानिर्व्याजवीर्यस्तुतिशतसदृशं कुम्भकर्णानुजोय-
द्राग्देवेनाभिषिक्तो रजनिचरमहाराज्यलाभाय तेन ।
लङ्केन्द्रस्यापि जातान्यतिनिभृतसृतश्वासबन्धावधूत-
श्मश्रुश्रेणीनि चिन्तामुकुलितनयनस्रञ्जि सर्वाननानि ॥ १५॥
_______________________________________________________________
* ये कैलासे कलिन्दे मलयमहीधरे मन्दरे मेरुशैले
सह्ये विन्ध्ये महेन्द्रे तथा च हिमवहे पर्वते वानरेन्द्राः।
सर्वे सुग्रीवपादप्रतिप्रणयिनस्तेऽपि यत् स प्रसादः
सेवातुष्टस्य सत्यं तव यशोजलधेर्भ्रूलतावेल्लितानाम् ॥
+ किमन्यैर्विराधप्रभृतिविदरणाडम्बरोद्घाटनै-
रेतत्ते वर्णयामो जलनिधिसविधावासिते यत् त्वयि ।
वर्तन्ते राक्षसीनां तरलकरतलस्फारत्रुट्यद्धारा
हारावाक्रान्तकण्ठा नवनयनजलोत्पीडिनो विप्रलापाः ॥
—————————————————————————————————————————
प्रविश्य । पटीक्षेपेण प्रतीहारः। रेरे अलीकवैतालिक कोऽयं कलकलः।
कर्पूरचण्डः - आर्य रामदेवस्य शौर्यगुणभोगावली गीयते ।
प्रतीहारः - ननु रामदेवेन निषिद्धमात्मोपवर्णनमादशरथस्वर्गारोहणश्रुतेरादशकण्ठबन्धम् ।
कर्पूरचण्डः - विभीषणवैतालिको वैदेशिकोऽस्मि । तदेकवारं मर्षय एष त्यक्तो भोगावलीपाठः। सप्रश्रयम् । कथं पुनरधिगतपितृमरणशोकशङ्कुस्तत्रभवान् रामदेव एवंविधे समुद्योगकर्मणि प्रवर्तते
**प्रतीहारः -**विहस्य अय्यनभिज्ञोऽसि सच्चरितानाम् ।
वहन्ति शोकशङ्कं च कुर्वन्ति च यथोचितम् ।
कोप्येष महतां हन्त गाम्भीर्यानुगुणो गुणः ॥ १६ ॥
बन्दी - आर्य कोपेनान्तरितोऽसि । कथय किं पुनः कुरुते रामभद्रः।
प्रतीहारः - पुलिनोपरि रचितकुशप्रस्तरोपविष्ट उपोषितश्च भगवन्तं भागीरथीवल्लभमुपास्ते । तत्र च ।
सुग्रीवे प्रणयोल्लसाः शशधरे बद्धाभ्यसूयाश्चिरं
साश्चर्याः पवनात्मजे धृतरुषः पौलस्त्यवत्पां दिशि।
सोत्साहाश्च शरासने जलनिधौ क्षुब्धाश्च कृत्स्नांनिशां
रामस्याद्य नियन्तुमेव न गता नानारसा दृष्टयः ॥ १७ ॥
बन्दी - आर्य एवमपि समुद्रो न किञ्चित्प्रतिपद्यते ।
प्रतीहारी - जडराशिरसौ ।
बन्दी - तथाविधे उदन्वति किमाह रामदेवः।
प्रतीहारः - इदं कथ्यते ।
रामे तटान्तवसतौ कुशतल्पशायि-
न्येवं तु नाम भवतो भगवन्ननास्था ।
स्मृत्वा तदेहि सगरं च भगीरथं च
दृष्ट्वाऽथ वा मम धनुश्च शिलीमुखांश्च ॥ १८ ॥
बन्दी - तर्हि लङ्घितो गोष्पदवत्समुद्रः।
प्रतीहारः - समंतादवलोक्य भोभोः सकलप्लवङ्गमयूथपतयः समस्तगोलाङ्गूलसेना निःशेषाच्छभल्लचमूपरिवृढाश्च किमिदमवीरजनोचितमाचरितं यद्दूरात् परिहूतवेलावनालीनिवासकेलिभिः पराङ्मुखं पदात्पदमपक्रम्यते ।
कर्पूरचण्डः - विलोक्य कथमगणितनिजकुलक्रमाचारास्त्वद्वचनमप्यवधीरयन्तो मकराकरं दुस्तरमवलोक्य यथागतं प्रस्थिता एव ।
प्रतीहारः - भवतु संस्थापयामि ।
पीतोऽयं कलशोद्भवेन चुलुकं कृत्वैकमम्भोनिधि-
र्नो वेलामपि लङ्घते नियमितग्रासादयं वाडवात् ।
कल्पान्तेषु वहत्ययं च विपुलं श्वभ्रावशेषं वपु-
स्तत्पूर्वाकलितेप्यमुत्र भवतां कोऽयं विषादोदयः ॥१९॥
किञ्च ।
अप्पेकैके पिबत चुलुकं यद्यपां सैन्धवीनां
यद्येकैकं क्षिपथ जलधौ गण्डशैलोपलं वा ।
तेन श्वभ्रं भवति सकलोऽप्यम्बुराशिः स्थलं वा
तत्किं मिथ्या भजत विधरं व्यस्ततन्द्राः कपीन्द्राः ॥ २० ॥
बन्दी - हंहो सुग्रीवप्रतिहार भवद्वचनमाकर्णयन्तः सर्वेप्येते यूथपतयो जलनिधिवेलावनालीषु विहितोत्साहं व्यवस्यताः।
प्रतीहारः - समन्तादवलोक्य ।
नीलेन सैन्यपतिना भुजताडनान्ते
मुक्तस्तथा किलकिलाध्वनिरेष रौद्रः।
अष्टापि वाञ्छति विरिञ्चिरसौ श्रवांसि
शङ्के यथा करयुगेन मुधा पिधातुम् ॥ २१ ॥
धूम्रो विजृम्भणविदारितसृक्कदृष्ट-
दंष्ट्राङ्कुरक्रकचसंपुटवक्त्रयन्त्रम् ।
लाङ्गूलवेष्टितमयं मलयं महाद्रि-
मुत्पाट्य वाञ्छति निधौ पयसां निधातुम् ॥ २२ ॥
यावत्रिविक्रमतनुं न हरिर्जहाति
तावत्प्रदक्षिणपरिभ्रमणस्य कर्ता ।
आकर्ण्य संक्रमविधिक्रममम्बुराशा-
वृक्षाधिपः किमपि कुप्यति वार्धकाय ॥ २३ ॥
अप्यङ्गदः स्वनखदारितपाकपाण्डु-
कर्पूरगर्भरजसां पटलेन सद्यः।
उद्धूलनं निजयशः परिपाण्डुरेण
प्रस्वेदवारिशमनं कुरुते कुमारः ॥ २४ ॥
आमोदभाजि वनशालिनि केसराढ्ये
तारापतिस्फुरणतः प्रविजृम्भमाणे
।
लाङ्गूललम्बतरनालविशेषहूद्ये
दृष्टं न केन कुमुदे कुमुदस्य रूपम् ॥ २५ ॥
मैन्दः समुद्रपुलिनादयमश्विसूनु-
र्दृष्टोमनाङ्मुकुलया द्विविदेन
दृष्ट्या ।
आदाय दन्तिमकरद्वितयं कराभ्यां
युद्धाय योजयति सान्द्रमदार्द्रगण्डम् ॥ २६ ॥
वक्तीव वानरबलानि हसन् हनूमान्
मद्रोमवल्लिषु दृढं करुतावलंबम् ।
येनैष सागरमहं लघु लङ्घयामि
श्यामाचरैश्च समरं सह योजयामि ॥ २७ ॥
तारास्तनत्रुटितचन्दनपङ्कलेप-
माबद्धकाच्चनसरोजसहस्रमालम् ।
वक्षः प्लवङ्गपतिना विपुलं विलोक्य
संभावितश्चुलुकपेयपयाः पयोधिः ॥ २८ ॥
कर्पूरचण्डः - एवमेवैतत् । सचमत्कारं पुरोऽवलोक्य पश्य शबलीयमानजलमानुपमिथुनमत्यर्थकदर्थ्यमानशङ्खिनीयूथमितस्ततः पुनरुक्तायमानवाडव-दहनडम्बरमम्बरोन्मुखतरङ्गताड्यमानमार्तण्डमण्डलमुच्चण्डतापविवशमुक्ताशुक्तिसंपुटप्रकटमुक्तमौक्तिकप्रकरमुच्छलदनच्छकच्छपमत्स्यं लोठमानपाठीनपृष्ठममन्दाक्रन्दितमकरमपसृत-नक्रचक्रमुड्डीयमानसपक्षशिलोच्च्यसंचयं तटावटप्रविष्टनष्टपन्नगं क्रन्दत्करिविमुच्यमानमदप्रवाहावगाहमम्भस्तम्भनिविष्टमहामुनिविधीयमानपावकप्रशमं विबुधसाध्यसदुविद्याधरजनविमुक्तोपरिगमनं नभसि समारुह्यावलोकितं तीरतरुकुलायललितैःशकुनिभिरपसृत्य दृष्टं कपिकुटुम्बकैर्निर्गत्य निरीक्षितं गर्भवासदुर्ललिताभिरसुरसुएरोभिरुत्थाय निभालितं मथनोद्रतशेषाभिरप्सरोभिःस्तुत
स्परित्यागं मृगलाञ्छनैरावतपारिजातकौस्तुभप्रभृतिभिरु
वन्तं तत्किमयमेवंविधः। किञ्च ।
गूढस्फारस्फुलिङोऽरुणमणिषु घनं लब्धधूरुमप्रबन्धो
नीलास्वश्मस्यलीषु स्फुटपिहितरुचिर्वैद्रमेषु द्रमेषु ।
यत्सत्यं छन्नभस्मा गिरिपतिदलिते मण्डले मौक्तिकानां
दुःखेनोन्नीयतेऽग्निःसलिलवसतिभिः प्रज्वलन्नम्वुराशौ ॥२९॥
प्रतीहारः। सवितर्कम् ।
क्षात्किंस्विदत्णः चयसमयशिखी निर्गतश्चञ्चदर्चिः
स्विद्वित्वार्णवार्णंस्युपरि परिणतः सर्वतोऽप्यौर्ववद्धिः।
स्वित्कालाग्रिरुद्रः स्यगयतिजगतोमेष पातालमूला-
तातं धाम्मि वारां रघुपतिविशिखाः प्रज्वलन्तःपन्तति ॥३०॥
तदेद्युपस्यितमहासंरम्भं सुयीवबिभीषणसहितं रामदेव-
वर्तावह इति परिक्रम्य निष्क्रान्तौ । विष्कम्भकः।
ततः प्रविशतो रामलक्ष्मणौ सयीवविभीपणौ हनूमांश्च ।
रामः। सशरसंधानण्वाकाशे शिरसा प्रणम्य ।
यत्खातः सगरेण मर्त्यसरितं मन्दाकिनीं कुर्वता
पूर्णो यच्च भगीरथेन तदयं नः कीर्तनं सागरः।
श्रेयस्मिन्प्रतिकूलवर्तिनि मया कीर्णाः शरश्रीणयो
हे
वृद्वाः प्रणतोऽस्मि मुञ्चत रुषं रामस्य कान्या गतिः ॥३९॥
बिभीषणः। सखे सुयोव
अतिशशाङ्कशेखरमिद चेष्टितं
द्विवस्य यदनेन ।
निर्वाणं जलपानपीडितजलैर्यस्मिन् युगान्तानलै-
र्यस्याभाति कुकूलमुर्मुरमृदुः क्रोडे शिखी वाडवः।
तस्याप्यस्य कृशानुसंक्रमकृतज्योतिःशिखण्डैः शरै
र्दत्तश्चण्डदवाग्निडम्बरविधिर्देवस्य वारांनिधेः ॥ ३२॥
**सुग्रीवः -**सखे विभीषण अदृष्टपूर्वमश्रुतचरं च रामभद्रचरितं कं न विस्मापयति । यञ्जलान्यपि ज्वलन्ति ततश्च ।
अन्योन्याश्लेषरक्षाविधिवलितवपुर्यष्टितुष्टं भुजङ्ग-
द्वद्वैरुद्दामदाहस्रुतसलिलमहागर्भमभ्रैर्व्यलायि।
सर्वत्रावर्तमुद्रां विदधति जलधौ सायकैः पावकीयै-
रुक्तापाद्यादसां च त्रिजगदभिभवन्निःसृतो विस्रगन्धः ॥३३॥
हनुमान् - साश्चर्यं पुरोऽवलोक्य प्रणम्य च ।
सेयं देव भ्रुकुटिरचना मुञ्चतु त्वल्ललाटं
ज्योतिश्चक्रस्तबकितशिखश्चापदण्डं च बाणः।
वारां मध्यादयमुदयते पन्नगीगीतकीर्तिः
सार्धं दारैर्नदपरिवृतः साञ्जलिर्यत्समुद्रः ॥ ३४ ॥
सर्वे - सकौतुकमवलोकयन्ति ।
रामः - तर्हिसंहूतं चैत्रभानवमिदमस्त्रम् ।
लक्ष्मणः - आर्य एष संधानसंहाररहस्यवेदी ।
ततः प्रविशति सौपधिनिपेको बद्धव्रणपट्टश्च समुद्रो गङ्गायमुने च ।
गङ्गा - सखि सावित्रि न स्वैरं संचरणविधिपरिक्रमणक्षमस्तरङ्गिणीनाथः। पश्य ।
न क्षुण्णानि मुरारिशूकरखुरैर्यानि क्षमाकर्षणे
मन्यानाद्रिविघट्टनैरपि चिरं भग्ना न येषां त्वचः।
शान्तं यत्र च वासुकेर्विषशिखाज्योतिर्भिरस्याम्बुधे-
स्तान्यङ्गानि रघूद्वहस्य विशिर्खौवद्धानि दग्धानि च ॥३५॥
सर्वे - यथोचितं परिक्रामन्ति ।
**समुद्रः -**सखेदम् । देवि हैमवति प्रिये कालिन्दि कथमपराधी रामभद्रं द्रक्ष्यामि ।
गङ्गा - रत्नाकर स एव रामभद्रोऽपराधी येन सगरभगीरथयशोराशौ त्वय्यपकृतम् ।
यमुना - भाईरहीणाह किं णाम अवराहित्तणं जहिं तक्त्वणमणुवत्तणम्144 ।
समुद्रः - तर्हि बालनारायणं रामदेवमुपसर्पामः। न हि राकामृगाङ्कमण्डलमन्तरेण चन्द्रमणेरानन्दजलस्यन्द इति सर्वे परिक्रामन्ति ।
यमुना - उपसृत्य दसरहणन्दण रामचन्द्र सअरभगीरहसरिसगोरवो दे समुद्दो संमुहो एस145 ।
समुद्रः - साभ्यर्हणम् ।
इन्दुर्लक्ष्मीरमृतमदिरे कौस्तुभः पारिजातः
स्वर्मातङ्गः सुरयुवतयो देव धन्वन्तरिश्च ।
मन्याम्रेडैः स्मरसि तदिदं पूर्वमेव त्वयात्तं
संप्रत्यब्धिः शृणु जलधनस्त्वां प्रपन्नः प्रशाधि ॥ ३६॥
रामः - सगौरवं भगवन् रत्नाकर नमस्ते नन्वहं प्रशास्यो भगवतः सागरस्य तदेकवारमविनयो नयो वाक्षम्यतां रामस्य ।
बिभीषणः - किमुच्यते । ननु निसर्गनिरर्गलः पक्षपातो भवति भागीरथीनाथस्य।
पीयूषाकर एष नित्यममुना धन्वन्तरिः सान्वयो
गङ्गावल्लभमस्य चेष्टितमयं शोभासुधादीधितिः।
इत्यस्त्येव सतां मनःसु लिखिता सिन्धोः प्रशंसावलि-
र्जामात्रा भवतैव किं पुनरसौ लक्ष्मीगुरुः श्लाध्यते ॥३७॥
रामसमुद्रौ सलज्जमासाते ।
विभीषणः- देव का पुनरसौ वर्णनावर्णिका यया रत्नाकरचरित्रमावेद्यते । पश्य ।
धत्ते यत्किलकिञ्चितैकगुरुनामेणीदृशां वारुणी
वैधुर्यं विदधाति दम्पतिरुषां यच्चन्द्रिकाद्रे नभः।
यत्पीयूषभुजां च मन्मथसुहृन्नित्यं वयः सम्पदां
यल्लक्ष्मीरधिदैवतं च जलघेस्तच्चित्रमाचेष्टितम् ॥ ३८॥
सुग्रीवः - ईदृश एव महिमा भगवतः सागरस्य । यतः।
या स्त्रीणामधिदैवतं गिरिसुता तत्सोदरः सानुमान्
मैनाको रजताकरः सुतनयः शैलेश्वरो येन सः।
पक्षच्छेदसमुद्यतेन्द्रकुलिशत्रासान्निलीय स्थितः
सोप्येतस्य करालकुक्षिकुहरे पातालजम्बालिनि ॥ ३९॥
अपिच ।
वहति भुवनश्रेणीं शेषः फणाफलकस्थितां
कमठपतिना मध्येपृष्ठं सदा स च धार्यते ।
तमपि कुरुते क्राडाधीनं पयोधिरनादरा-
दहह महतां निःसीमानश्चरित्रविभूतयः ॥ ४०॥
समुद्रः - सप्रणयासूयम् ।
मुञ्चद्भिरुग्रमनलं विशिखप्रकाण्डै-
र्मद्दाहडम्बरसमर्पणकेलिकाले
देव स्मृतं न कथमित्यपि यत्किलाहं
लक्ष्मीसखः क्व नु युगान्तशयः शयिष्ये ॥ ४१॥
रामः - अञ्जलिं बद्ध्वा मा पुनरविनयोद्घट्टनेन मां लज्जयतु श्रीनाथः।
समुद्रः - गङ्गायमुने प्रति ।
कमण्डलोर्ब्रह्मकराग्रभूषणा-
दियं प्रसूता भवमौलिभूषणम् ।
इयं च देव द्युमणेस्तरङ्गिणी
त्वदन्वयस्य प्रथमा सवासिनी ॥ ४२॥
रामः - देवि अम्बिकापतिधृते मन्दाकिनि मातर्मार्तण्डस्यन्दनि यमुने एष रामोऽभिवादयते ।
उभे - रविकुलालङ्करण राम अविरलं समरसंभारं वह ।
समुद्रः - रामं प्रति नियुज्यतामयं जनः।
रामः - नन्वहं नियोज्यो भगवतः किं पुनः प्रकृते कर्मणि सहायमिच्छति रामः।
समुद्रः - विशेषं श्रोतुमिच्छामि ।
**गङ्गा -**कृतं वाग्विस्तरेण ।
इहार्णवमहार्णस्सु पोतपात्रमिव स्थिरम् ।
द्रुतमारभ्यतां सेतुरखर्वः पर्वतोत्तमैः ॥ ४३ ॥
सर्वे- विस्मयन्ते ।
समुद्रः - यथाऽऽवेदितं त्रिस्रोतसा मणिमच्चक्रवालाचलममध्यासीनं वाडवदहन-मुत्तरेणानन्तनागाङ्कपर्यङ्कशायिनं भवन्तं दक्षिणेन योऽयं द्रुतेन्द्रनीलश्यामलः सलिलस्कन्धः प्रदेशो निर्विबन्धः सेतुबन्धस्येति।
रामः - विहस्य भगवन् किल ग्रावाणः कथं प्लवन्ते ।
समुद्रः - महामुनिवितीर्णवरस्य विश्वकर्मसूनोररातिवनदावानलस्य नलस्य करतलस्पर्शप्रभावेन।
सर्वे - महदाश्चर्यम् ।
नेपथ्ये । महान् कलकलः।
समाकर्णितकेन हनुमान् । तदिदमत्रभगवतो मकरालयस्य वचनमुपश्रुत्य हूष्यतां कपिबलानामेष हराट्टहासमांसलः कलकलः।
समुद्रः - रामभद्र किमपि वाञ्छन्तु वानरवीराः सकलकपिकुलानुग्राही पुनरयं मार्गो न सर्वे हनूमन्तस्तदमुं मलयतटीविटङ्कमधिरुह्य पश्यतु सेतुबन्धप्रदेशं रामः।
रामः - यथाह धन्वन्तरेः प्रसविता । सप्रश्रयम् । अपार भगवन्नकूपार रामदुर्विनयसव्रणान्यङ्गानि तत्साधयतु निजं पातालनिलयं परमनुगृहीतोऽस्मि।
समुद्रः - यथाह सप्तमो वैकुण्ठावतारः। इदं गम्यते गङ्गायमुनाभ्यां सह निष्क्रान्तः। सर्वे समारोहणं नाटयन्त्युपविशन्ति च ।
नेपथ्ये ।
भो नागनाथ हरिकच्छप दिव्यमत्स्य
स्वस्त्यस्तु वः क्षणमितः कुरुतापसर्पम् ।
अब्धावयं ननु रघूद्वहकीर्तिहेतुः
सेतुः प्रसर्पति दशाननधूमकेतुः ॥ ४४ ॥
अपिच ।
यादांसि हे चरत सङ्गतगोत्रतन्त्रं
वामेन चन्दनगिरेरुत दक्षिणेन।
नोचेन्निरन्तरधराधरसेतुसूति-
राकल्पमेव न विरंस्यति वो वियोगः॥४५॥
सुग्रीवः - हनुमत् आदिश्यन्तां सेनापतयः पर्वतानयनाय । हनुमान् । यदादिशति स्वामी । सर्वतो निरूप्य ।
दृप्यद्विक्रमकेलयः कपिभटाः श्रुण्वन्तु सुग्रीवजा-
माज्ञां मौलिनिवेशिताञ्जलिपुटाः सेतोरिह व्यूहने।
दोर्द्दण्डद्वयताडनश्लथधराबन्धोद्धृतान्भूधरा-
नानेतुं सकलाः प्रयात ककुभः किं नाम वो दुष्करम्॥४६॥
सुग्रीवः -
आनयन्तु कपयो महागिरी-
नङ्गदस्तु सपदि प्रतीच्छतु ।
त्वं नलः प्रबलबाहुविक्रमः
सेतुबन्धविधये नियोजय ॥ ४७ ॥
सर्वे समाकर्णितकेन ।
हनुमान् - विहस्य । आपद्विनीतः किमपि वर्तते वारिराशिः। सेतुबन्धविहितये निजप्रतीहारशोणमुखेन शिक्षति
जलहासत्वानि।
सुग्रीवः - सखे हनुमन् गच्छ आहूय वानरद्वयं यन्निवेदसेतुबन्धविधिं रामदेवाय ।
हनुमान् - निःसृत्य वानराभ्यां सह प्रविश्यैतौ कपिधित्थौ निवेदयतः।
यंयं गिरिं क्षिपति वानरवर्ग एष
वारां निधौ निपतता ननु तेनतेन ।
द्राङ् मन्दराहतसुधाकवलामरा/णां
संस्थाप्यते मथनधीर्जलमानुषाणाम् ॥ ५१॥
लक्षणः - साश्वर्यम् । आर्य कथापरम्परोपश्रुतानि प्रत्यक्षय समुद्रयादांसि ।
क्षिप्तोगिरिः कच्छपपृष्ठपीठात्
संघट्टवेगोच्छलितोऽनुपाती ।
ग्रासीकृतोऽयं तिमिना किमन्यत्
सचापि लालेन तिमिङ्गलेन ॥ ५२ ॥
रामः - वत्स लक्ष्मण अत्यल्पमिदमुच्यते ।
अस्ति मत्स्यस्तितिर्नाम तथा चास्ति तिमिङ्गिलः।
तिमिङ्गिलगिलोऽप्यस्ति तद्विलेाऽप्यस्ति राघवः ॥ ५३॥
अपिच ।
क्षिप्तो गिरिर्जलधिबन्धविधौ नलेन
यात्येकतः शकुलशावविवर्तनाभिः।
अप्यन्यतः कमठडिम्भनिशुम्भनेन
सेतुः कथञ्चिदिति सर्पति मध्यमब्धेः ॥ ५४ ॥
दधित्थः -
यद्ग्रावाणः प्लवन्ते यद्यपि च जलधिर्बध्यते लोष्ठलीलां
बिभ्राणा यत्कपीन्द्रैः करतलतुलनादाह्रियन्तेमहीन्द्राः।
यन्नष्टं दिव्ययोर्द्राक्कमठशकुलयोः पुत्रपौत्रप्रपौत्रे-
र्मार्गात्तद्देव सिन्धौ रजनिचरपतेर्नाशहेतुः सः सेतुः ॥ ५५॥
सुग्रीवः - इदमपरमुपस्थितं सेतुबन्धे विघ्नान्तरम् ।
तावत्क्वनाम गिरयः श्रितसेतुबन्धा
रुन्धन्ति पाथसि समुत्थितपाञ्चजन्ये ।
यावत्तदुच्छलितदिव्यनदीसदस्रै-
रापूर्यदुस्तरतरः क्रियते समुद्रः ॥ ५६ ॥
विभीषणः - इदं चाद्भुततरम् ।
यावन्रिपातरयकीर्णमशेषमर्णो
व्यावृत्य संलगति नो ककुभां मुखेभ्यः।
तावत्स्वमुक्तमपि चित्रमपां निधाना-
दाकृष्य शैलमयमुत्पतितः प्लवङ्गः ॥ ५७ ॥
अपिच-
और्वःशिखी वसति यत्र हरिश्च यज्र
यत्रासुराः शिखरिणश्च पतत्रभाजः।
आमूलतोऽम्बुधिरयं प्रकटीकरोति
तत्तन्महाकपिविमुक्तमहींध्रकर्णः ॥ ५८ ॥
सुग्रीवः -
ये गोत्रे सुरवारणस्य करिणो यः कौस्तुभीये कुले
कान्तो रत्नचयः श्रियश्च निभृता ये केचन ज्ञातयः।
ये चन्द्रस्य च बान्धवाः किमपरं तानप्ययं दर्शये-
द्यदुद्धृत्यहनुमताऽमरगिरिर्वेगादिहाऽऽक्षिप्यते ॥ ५९॥
**रामः -**सखेसुग्रीव मामैवं त्रयस्त्रिंशतो देवकोटीनां वासः सखल्वसौ । कपित्थः। एदे विन्दारअविन्दविलासवासा कुङ्कुमपङ्ककल्लविअहूरातरुणीगण्डपासच्छविणो मेरुमहीहरस्स एदे अद्भुणारीसरविसमसंणिवेसचरणपडिबिम्बचुम्बिअसिलाअलद्धन्ता णीहारणिवहणिबिडणिवडणवित्तपण्डुरत्तणा गोरीगुरुणो गिरिचक्कवट्टिस्स एदे सुराहूदसुधारसोक्करिसणिच्चतरुणतरुणो कोत्थुहमिअङ्कमइरासुरद्दुसिरिसमुप्पत्तिसक्विणो मन्दरगि रिन्दस्स एदे कुबेरमित्तत्तणकिअणिवासकित्तिवासणिव्विग्ध्यमहग्ध्घिअगुणा णित्यलिअजरठमियङ्कमण्डलच्छाआकेलाससेल्लस्स एदे कंचणकमलघट्टचङ्गोठ्ठिअमाणसा गन्धहरिणणाहि सुगन्धिणो गन्धमादणस्स एते हणुमन्तवालभावचावलविलुत्तलवलीकन्दलकडप्पा तक्कालपरव्खालिअकेरलीकवोलकालकन्तिणो अजणधरित्तीहरस्सएदे मत्तण्डमण्डलमग्गभङ्गेक्कदायिणो णम्मदाणईसोत्तसित्तसिहरसिहण्डिमण्डणा विंज्झधराहरस्स एदे विविहवणणमणहरमणिष्पभाप्पसरविरइआखण्डलकोअण्डदण्डमण्डला अगत्थिमुणिसीमन्तिणीमज्जण पवित्तिअतित्थवित्थारा रोहणाचलस्स एव्वमणणस्स वि भुवणगब्भसंभवस्स गिरिणोसाणुसंघाआपवङ्गमपुङ्गवेहिंसमोद्भरिआसेउबन्धं विरअयन्ति।
_________________________________________________________________________________
* एते वृन्दारकवृन्दविलासवासाः कुङ्कुमपङ्कचर्चितहूणतरुणीगण्डपार्श्वच्छवयोमेरुमहीधरस्य । एतेऽर्द्धनारीश्वरविषमनिवेशचरणप्रतिबिम्बचुम्बितशिलातलार्द्धन्ता नीहारनिवहनिबिडनिपतनवित्तपाण्डुरत्वा गौरीगुरोर्गिरिचक्रवर्तिनः। एते सुरानुभूतसुधारसोत्कर्षनित्यतरुणतरोः कौस्तुभमृगाङ्कमदिरासुरद्रुम-श्रीसमुत्पत्तिसाक्षिणो मन्दरगिरीन्द्रस्य । एते कुबेरमित्रत्वकृतनिवासकृत्तिवासनिर्विघ्नमहर्घितगुणा निर्जितजरठमृगाङ्कमण्डलच्छायाः कैलासशैलस्य । एते काञ्चनकमलपत्रशोभितमानसा गन्धहरिणनाभिसुर्गान्धनो गन्धमादनस्य । एते हनूमद्बालभावचापलविलुप्त लवलीकन्दल
—————————————————————————————————————————
दधित्थः- सहसा विलोक्य।
पादोनवर्तिनि महोदधिसेतुबन्धे
पारे परे कपिबलैरवलोक्य लङ्काम्।
अत्युल्लसत्किलिकिलारवमुत्प्लुतं च
यातं च सौधशिखरेषु निशाचरीभिः ॥ ६० ॥
नेपथ्ये महान् कलकलः। सर्वे समाकर्णितकेन ।
रामः - किं पुनरयं प्रलयकालोत्तालवैकुण्ठकालकण्ठकोलाहलकालः कलकलः।
**कपित्थः -**पुरतोऽवलोक्य । देव सेउबन्धपडिबन्धणिमितं कीरन्तरअणरोहण-माणिक्कपाइक्कस्स वित्थरन्तवाहिणीतरङ्गतुरङ्गमसंघट्टस्स ओत्थरन्तजङ्गमदुग्गमहामयंगअस्स पसरन्तजलहिजलवत्तरहवरस्स दोलन्तगअण केलिकाणणध अवडा आडम्ब रस्स कठ्ठिज्जन्तजिम्भायमाणकयन्तवयणवाणासणस्स पडन्तसेणाविलासिणीकडक्वलक्वस्स समुज्जन्तरणलच्छिकङ्कणचक्कचक्कचक्कवालस्स उब्भिज्जन्तजयसिरिवेणिदण्डचण्डासिणो उवठ्ठिदस्स चउरङ्गस्स वि पढमक्वणप्पहाविदस्स रक्खसलोअस्स सुग्यीवसासणसमासादिदविचित्तहुंकारोहिं णिसग्गसंग अगिरिसिहरतरुप्पहरण-पाणिजुअलेहिं वाणरेहिं पडिक्वलिज्जन्तस्स रक्खसाणी अस्स एस हलबोलो * ।______________________________________________________________________
समूहास्तत्कालप्रक्षालित केरलीकपोलकालकान्तेरञ्जनधरित्रीधरस्य । एते मार्तण्डमण्डलमार्गैकभङ्गदायिनो नर्मदानदीस्रोतःसिक्तशिखरशिखण्डिमण्डना विन्ध्यधराधरस्य । एते विविधवर्णमनोहरमणिप्रभाप्रसरविरचिताखण्डलकोदण्डदण्डमण्डला अगस्त्यमुनिसीमन्तिनीमज्जनपवित्रित-तीर्थविस्तारा रोहणाचलस्य । एवमन्यस्यापि भुवनगर्भसंभवस्य गिरेः सानुसंघा ताः प्लवङ्गमपुङ्गवैःसमुद्धताः सेतुबन्धं विरचयन्ति ।
* सेतुबन्धप्रतिबन्धनिमित्तं कीर्यद्रत्नरोहणमाणिक्यपदातिकस्य विस्तीर्यद्वाहिनीतरङ्गतुरङ्गम-संघस्योट्यमानजङ्गमदुर्गमहामतङ्गजस्य प्रसरज्जलधिजलवद्रथवरस्य दोलायमानगगनकेलिकाननध्वजपताकाडम्बरस्य
कृप्यमाणजृम्भायमाणकृतान्तवदनबाणासनस्य पतत्सेनाविलासिनोकटाक्षलक्षस्य ससुद्यद्रणलक्ष्मोकङ्कणचक्रचक्रचक्रवालस्योपयमानजयश्रीवेणिदण्ड-चण्डासेरुपस्थितस्य चतुरङ्गस्यापि प्रथमक्षणप्रधावितस्य राजसलोकस्य सुग्रीवशासनसमासादितविचित्र-हुंकारैर्निसर्गसंगतगिरिशिखरतरुप्रहरणपाणियुगलैर्वानरः प्रतिक्रियमाणस्य राक्षसानीकस्यैप कलकलः।
______________________________________________________________________
लक्ष्मणः - साधु लङ्केश्वर साधु षाद्गुण्योचितमुपक्रान्तं न पुनर्निरूपमाननिजसाहसोचितम्।
सुग्रीवविभीषणौ- तदयतः किंचिदुपसृत्योपविशतु देवः।
रामः - तथा करोति ।
कपित्थः - परिमिलिअवलीमुह पडिकवलिज्जन्ते णिसायरसेणे सुणीकइअदिअन्तराइंसमकालपधाविणहिं पवङ्गमेहिं पडिक्वदसिलुच्चआणं दससहस्सेहिं पूरिया सा सेउखण्डी उत्तीर्णं असंपुणणांवाणराणीअंदिएणो लङ्काउरीए सण्णाहपडहो वज्जियाइंपुरन्दरजआणीदाइंसमरतूराइंपढिआ रावणरणभोगावली वन्दिविन्देहिं गीअं चकेलासुद्धरणपमुहं चरिदुज्वयं चारणगणेहिं वाणरपडिपक्वभावेण असुणिज्जन्ति पयट्टहासाइंरक्वसीणंवअणाइंता कुणह जहजह काअव्वम् + ।
_____________________________________________________________________________________
+ परिमिलितवलीमुखप्रतिकवलोयमाने निशाचरसैन्ये शून्योकृत्य दिगन्तराणि समकालप्रधावितैः प्लवङ्गमैः प्रतिक्षिप्तशिलोच्चयानां दशसहस्रैः धृरिता सा सेतुखण्डी। उत्तीर्णं च संपूर्णं वानरानीकम् । दत्तो लङ्कापुर्यां सन्नाहपटहः। वादितानि पुरन्दरजयानीतानि समरतूर्याणि । पठिता रावणरणभोगावली बन्दिवृन्दैः। गीतश्च कैलासोद्धरण प्रमुखश्चरितोच्चयश्चारणैः। वानरप्रतिपक्षभावेन च श्रूयन्ते प्रकटहासानिराक्षसीनां वचनानि तत् कुरुत यथायथा कर्तव्यम् ।
_____________________________________________________________________________________
लक्ष्मणः - भद्र विश्रब्धो भव नाद्याप्यायुधग्रहणकालो निर्दशाननानि निर्मेघनादानि च निःसृतानि बलानि ।
**दधित्थः-**सुभटसमाकृष्टकोदण्डदण्डं निहतवानराच्छभल्लभल्लं रभसनिक्षिप्त-निरन्तरभिन्दिपालमालं वेगप्रवर्तितचक्रचक्रं खण्डितविपक्षशक्ति शक्तिनिर्दारित-परशुकपरशुकंकुवलयवनभ्रमनिपातिसितशकुन्तकुन्तं परहृदयप्रकम्पनं द्वेधाकृतकरीन्द्र-करालकरवालं समरप्रचारचतुराङ्गचतुरङ्गं निर्मर्यादप्रसृतमातङ्गमातङ्गं योधजयैकस्पन्दनस्यन्दनं समासादितविपत्तिनिर्भरं प्रवृत्तमेवव्रणितसकलानीकसमनीकम् । विभाव्य अये परस्परं संवलनादति तुमुलं वर्तते । विहस्यैकतो निरूप्य ।
अमी कबन्धैः प्लवगा रणाङ्गणो
शिरस्सु कण्ठात्पतितेषु रक्षसाम् ।
मिथो विरोधाज् जनहासदायिनीं
सृजन्ति सृष्टिं कपिराक्षसात्मिकाम् ॥ ६१ ॥
अन्यतोऽवलोक्य ।
निशाचरोऽयं गमितः कबन्धतां
करोन्द्रवक्त्रे पतितेऽधिकन्धरम् ।
प्रवृत्तनृत्तक्रमभीमदर्शनैः
करोति हेरम्बवपुर्विडम्बनाम् ॥ ६२ ॥
अपरतोऽवलोक्य ।
अच्छभल्लकपयः स्वकबन्धै-
र्व्यत्पयादधिनिविष्टशिरस्कैः।
माययारचितचित्रशरीरा
राक्षसा इव विभान्ति मुहूर्तम् ॥ ६३ ॥
अन्यतोऽवलोक्य ।
गतं परप्रणतिपरायणं शिर-
स्समित्सुहूत्करयुगलंच तिष्ठति ।
दूतीव ही विकसितसंमदोत्सवं
प्रवर्तते किमपि कबन्धताण्डवम् ॥ ६४ ॥
कपित्थः - देव पेक्खदु अणवर अविप्पइणणघुसिणचुण्णं विअअम्बरं विरअअन्तं भुवणगब्भप्पसरिदं रअसमुद्दमठ्ठमं विअवित्थारअन्तं तिदिवदंसणदिणणप्पाणं विअधरणिमण्डलं दंसअन्तं विहिअवसुन्धराफंसभअं रवितुरङ्गाणं उच्छलियधूलि वलयतलिणीक अभूमिभारत्तणोण किअमहानुग्गहं भुअङ्गवणोसेसस्स वीरजणदंसणणिवेसिअवेसविसेसपंसुलत्तणोणअसूइयवित्थारं विज्जाहरीहिं पओसविसट्टण-अणकन्दोट्टभरणणिवारणदिणणपाणिपिहिंदवयणत्तणोण जुउच्छिअं अच्छराहिं घण्टाटङ्कारसुणिज्जन्तकारिन्दं कणअकिङ्किणीकणक्कारजाणिज्जन्तसन्दणं हेसारव सूइज्जन्ततुरङ्गं कठ्ठिअगुणणिविडणमन्ताटणि मुक्ककडक्कारकलिज्जन्तधाणुक्कं अङ्गपरिफंसपडिजाणिज्जन्तरिक्वरक्वसवाणरं चउरङ्गवलचडुलचरणक्वोहसमुत्तम्भिअरेणुविरइअणीरन्धान्धआरं समरङ्गणंवट्टइ * ।
_________________________________________________________________________
* देव प्रेक्षतामनवरतविप्रकोर्णघुसृणचूर्णं वियदन्तरं विरचयन्तं भुवनगर्भप्रसुतं रजःसमुद्रमष्टममिव विस्तारयन्तं त्रिदिवदर्शनदत्तपर्याणमिव धरणिमण्डलं दर्शयन्तं विहितवसुन्धरास्पर्शभयं रवितुरङ्गाणां उच्छलितधूलिवलयतलिनीकृतभूमिभारत्वेन कृतमहानुग्रहं भुजङ्गपतेः शेषस्य वीरजननिवेशितवेशविशेषपांशुलत्वेनासूयितविस्तारं विद्याधरोभिः प्रदोषविकसितनयन-कमलभरणनिवारणदत्तपाणिपिहितवदनत्वेन मुगुप्सितमप्सरोभिः घण्टाटङ्कारयूयमाणकरीन्द्रं कनककिङ्किणीझणत्कारज्ञायमानस्यन्दनं हेषारवसूच्यमानतुरङ्गं कष्टगुणनिबिडनमदनिमुक्तकटत्कारकल्यमानधानुष्कंअङ्गपरिस्पर्शप्रत्यभिज्ञायमानर्क्षराक्षसवानरं चतुरङ्गबलचटुलचरणक्षोभसमुत्तम्भितरेणुविरचितनीरन्धान्धकारं समराङ्गणं वर्तते ।
_____________________________________________________________________________________
दधित्थः- देव यथाऽऽवेदितं कपित्थेन अति हि निर्भरो भूपरागप्रसरः। तथाहि ।
हेलाचण्डचलच्चमूपरिकरक्षुण्णक्षमाजन्मभिः
पक्कैलाफलगर्भचूर्णरुचिभिः कीर्णेऽम्बरे रेणुभिः।
एतस्मिन् समराङ्गणे गुणनिधिर्विश्वप्रदीपोऽप्ययं
तूर्णोत्तानितकांस्यतालकरणिर्जातो दिनानां पतिः ॥ ६५ ॥
अपि च ।
युद्धोत्थेरजसामुदञ्चति चये द्वाभ्यां दवीयोऽन्तरान्
पाणिभ्यां युगपत्र लोचनपुटानष्टौ पिधातुं क्षमः।
एकैकं दलमुत्रमय्य गमयन् वासाम्बुजं कोशतां
धाताय्यावरणाकुलः स्थित इतः स्वाध्यायवन्ध्याननः ॥ ६६ ॥
कपित्थः- विहस्य णिरन्तरपसरन्त सरलक्वपुङ्खविकिरणेण विअडधअवडा आवेल्लिरपल्लवपेल्लणोण दंसणाग असुरसुन्दरीचक्कविमुक्कगरिल्ल मल्लवेल्लणोण पढमं तणुईकदं रणरेणुचकुवालं णिठ्टुरप्पहारकयकवन्धकन्धरारन्धणी सरन्तरुहिरधाराधोरणीहिं करिकरखेलावल्लिअसीअरासारप्पसरेण अणिल्लूणमेव मूलदो धूलिमण्डलम् ।
दधित्थः- प्रशान्तरेणुनि रणाङ्गणेपुनः संसक्तमेव यशोधनमायोधनं शूराणाम् । विभाव्य । अये महाप्रभावःसमराङ्गणप्राणपरित्यागो वीरवर्गस्य यदप्सरसोऽपि स्वयंवरेणोपतिष्ठन्ते । यदुत ।
________________________________________________________________________
* निरन्तरप्रसरच्छरलक्षपुङवविकिरणेन विकटध्वजपताकाचञ्चलपल्लवप्रेरणेन दर्शनागतसुरसुन्दरी-चक्रविवमुक्तश्रेष्ठमाल्यमोक्षणेन प्रथमं तनुकीकृतं रणरेणुचक्रवालं निष्ठुरप्रहारकृतकबन्ध-कन्धरारन्ध्रनिःसरद्रुधिरधाराधोरणीभिः करिकरखेलाप्रेरित सीकरासारप्रसरेण च निर्लुनमेव मूलतो धूलिमण्डलम् ।
चण्डासिच्छेदलीलायितहृतशिरसो दिव्यतां संदधाना
न्यञ्चद्भिः कण्ठकाण्डैः समरवशदृशः पूर्वसंस्कारशक्त्या ।
द्राग्दृष्ट्वानाथमाद्यंसपदि विदधतः फालदानं विमाना-
द्वीराः स्वःसुन्दरीभिः किमिदमिति धृता बन्धुरैर्बाहुबन्धैः ॥६७ ॥
सुग्रीवः - यथैव निवेदितमति हि नामाश्चर्यवितरणैकमुष्टियोगः समरसंरम्भो वर्तते । तथाहि ।
वीराश्चण्डासिदण्ड प्रहरणसुहृदः संमुखंसंपतन्तो
ये जाताः पात्रमाजिष्वनिमिषसुमनोदामदानोत्सवस्य ।
पश्य प्रेङ्खत्क्षुरप्रप्रहतिभिरमरीभूय तैरेव भूयः
शेषाणां मूर्ध्नि मुक्ताः सुरकुसुममहावृष्टयः पुष्ठभृङ्गाः ॥ ६८ ॥
विभीषणः - देव इतोऽपि दृश्यतां द्रष्टव्यम् ।
वीरवैमानिकत्वं समरमरणतो लम्भितैः सङ्गराग्रे
दृष्ट्वा स्वस्वामिबाधाप्रहरणविरहात्सर्वतः सूत्रितोऽयम्
दारैः पाशप्रकाशैः सपदि वलयकैश्चक्रवत्संपतद्भिः
स्वर्णापीर्डैः स्वमुक्तद्रुघणकरणिभिर्नूतनो युद्धमार्गः ॥ ६॥
कपित्थः- णिबिडपडन्तकरिकङ्कसंकटं फारफेक्कारफुल्लि अगल्लसिवासेविआसवं रुहिरपाणपीडाणुद्दुमरडाइणीमुक्कडक्कारडामरं रत्तमत्तवेआलविलासिणीकेलिकलि-अकिलिकिलाको लाहलकाहलं समरसंभारसंभाविअपवलवलीमुहवलक्कन्तं रस्ख ससेणं लङ्काभिमुहं पअट्टइ*।
_______________________________________________________________________
* निबिडपतत्करिकरङ्कसंकुलं स्फारफेत्कारफुल्लगल्लशिवासेवितासः रुधिरपानपोडनोड्डामरडाकिनी मुक्त डात्कारडामरं रक्तमत्तवेतालविलासि नीकेलिकलितकिलकिलाकोलाहलसंकुलं समरसंभारसंभावित प्रबलवलीमु खबलाक्रान्तं राक्षससैन्यं लङ्काभिमुखं वर्तते ।
_______________________________________________________________________
हनूमान् - विहस्य देव विजितमस्माभिर्यत्प्रमुख एव विमुखं राक्षसबलम् ।
रामः - प्रवृत्ते रणकर्मणि सेनयोः सारणापसरणानि गणशो भवन्ति कस्तत्र जयःपराजयो वा ।
हनूमान् - देव नैवं यत्किल प्रमुखविमुखं बलं द्वादशवर्षाणिन संमुखीभवतीति प्रायोवादः।
रामः - विहस्य भद्र हनूमन् किमनेन विमुखेन संमुखेन वा यदिह न धूर्जटिधराधरोद्धारेप्यकुण्ठोदशकण्ठो नापि विनिर्जितमघवा मेघनादः पुरोऽवलोक्य कथं लङ्काप्रतोलीमतिक्रम्य राक्षसबलं वर्तते । ऊर्ध्वमवलोक्य सकौतुकम् ।
कोऽयं दिव्ये विमाने
हनुमान्-
रजनिचरपतिः
लक्ष्मणः -
साधु पौलस्त्य साधु
द्राक् चण्डं चन्द्रहासंकलय सविधगे नास्त्यरातौ तितिक्षा ।
रामः -
सीताप्यत्रैव तस्याश्चटुषु कृतरतिः सैष भोः कार्मुकं मे सुग्रीवः।
शांन्तं बाणाःसरन्तो न खलु जनकजां रावणं वा विदन्ति ॥ ७० ॥
नेपथ्ये।
भोः पश्य राम मम पार्श्वगतां च सीतां
तच्च प्रदर्शय निजं जितवालि वीर्यम् ।
अस्याःस एष ननु मूर्धनि चन्द्रहासो
रम्भाप्रकाण्डदलनोद्यममातनोति ॥ ७१ ॥
**रामः -**विहस्य हंहो रावण संवृणु जनितजनहासं चन्द्रहासंकः शक्तिमानपि मृगाङ्कमूर्तिं शिलापट्टके पिनष्टि।
लक्ष्मणः -
सविषादम् ।
यावत्करोति न धनुः सशरं ममार्यो
यावन्नसूत्रयति विक्रमणं हनूमान् ।
आर्यशिरो दशमुखेन विलूय तावत्
क्षिप्तं च कल्पितमदर्शनमम्बरे च ॥ ७२ ॥
रामः- ससंभ्रमं कथमिदं दशकण्ठेन विलूय क्षिप्तं सीताशिरः शर्करायां भुवि पतति तत्सत्वरमुपसृत्य स्तनतटपरिपीडनपरिचितस्पर्शे प्रसारितकरयुगजनितेऽञ्जलौप्रतीच्छामि । तथा कृत्वाऽवलोक्य च हा वैदेहि शिरः शेषा वर्तसे । सकरुणं विभाव्य।
तरुणभुजगलीला सैव वेणी तदेव
श्रवणयुगमनङ्गन्यस्तडोलाद्वयाभम् ।
स्मरकुवलयबाणावीक्षणे ते च तस्या-
स्तदयमलकलक्ष्मा वक्त्रचन्द्रः स एव ॥ ७३॥
हा प्रिये वैदेहि ।
इन्दोः संप्रति कान्तिरस्तु विमला दीर्घा मृगीणां दृशः
स्वादिष्ठा कलकण्ठिवाक्किसलयान्ये कान्तरक्तानि च ।
यातायां त्वयि तस्य राक्षसपतेर्दुस्संचरं गोचरं
यद्वातस्य गभीरमास्यकुहरं दुर्मेधसो वेधसः ॥ ७४ ॥
सविशेषकरुणम्।
देव्याः शिरो मम पुरो यदिदं विलूनं
दृष्टं छलादृशमुखो यदसौ प्रणष्टः।
धिङ्निष्फलं हनुमतः प्लवनं तदब्धौ
धिङ्निष्फलः स च ममाचलसेतुबन्धः ॥ ७५ ॥
सर्वेविषादं नाटयन्ति ।
लक्ष्मणः - सक्रोधम् । अरे रे समरकुण्ठ दशकण्ठ।
छन्नात्मना जनकजानिधनेन्धनेन
यो दीपितः सपदि नो हृदि शोकवह्निः।
निर्वापयिष्यति पतिस्तमसौ रघूणां
त्वत्कामिनीजनविलोचनवारिपूरैः ॥ ७६ ॥
रामः- अवस्थोचितं स्मित्वा सखे सुग्रीव वयस्य विभीषण रावणवधे विहितप्रतिज्ञाः कृता वयं वत्सेन ।
लक्ष्मणः- आश्चर्यमाश्चर्यम् । निर्लूनमप्यार्याशिरःसमुल्लपति तत्सविधवर्तिनोभूत्वा शृणुमः । सर्वे समुपसर्पन्ति ।
लक्ष्मणः - कथं स्फुटाक्षरमिदमभिधत्ते ।
सूत्रधारचलद्वारुगात्रेयं यन्त्रजानकी ।
कण्ठस्थशारिकालापा कृता लङ्केशकेलये ॥ ७७ ॥
तच्छिरस्यैव निर्याता साऽचाऽहं राम शारिका ।
सच्चरित्ररसप्रीत्या त्वां बोधयितुमास्थिता ॥ ७८ ॥
तेन तेऽयेऽभिनीताऽस्याःशिरःखण्डननाटिका ।
मृता सीतेति येन त्वं गृहान् प्रति निवर्तसे ॥ ७९ ॥
सर्वे - हर्षंनाट्यन्ति ।
रामः - स्वस्ति भवत्यै प्रियकारिण्ये तत्समीहितसिद्धये साधय विहस्य अहो शौर्य इव छलप्रपञ्चेऽपि चातुर्यंरावणस्य ।
लक्ष्मणः - आर्य सुवेलाचलमेखनासु तावदावसन्तु कपियूथपतयः प्रातर्लङ्कादुर्गमभियोक्ष्यते ।
रामः - यदि न प्रकृत्यमर्षणो रावणः संप्रत्येव प्रत्यभियुङ्क्तेनेपथ्ये । महान् कलकलः।
लक्ष्मणः - किं पुनरयं भैरवाकारशङ्करकृतफेत्कारविकरालः कलकलः।
विभीषणः - पुरोऽवलोक्य ।
किञ्चिन्मृगाधिपमुखाय करीन्द्रवक्त्रं
कुप्यल्लुलायवदनाय च वाजितुण्डम् ।
आसेधयन् सपदि रात्रिचराननेन
पर्येत्ययं दशभुजो ननु सिंहनादः ll८०ll
रामः - कथयकोऽयं सिंहनादो नाम ।
विभीषणः - देव मान्दोदरेयो मेघनादावरजश्च समरसीमानमवतरति तेनायमन्ति मांसलः कलकलः।
रामः - विहस्य तदयमर्धेरावणस्य।
विभीषणः - अवयवसंख्यानेन । पराक्रमेण पुनर्द्वगुणो यतः।
दोर्दण्डोदञ्च्यमानाचलचलितभवस्तम्भनारम्भमज्ज-
द्बुधप्राग्भारभारान्निजभुजविपिनं कुर्वतो व्यञ्चदुच्चैः।
लङ्कानाथस्य नन्दिप्रभृतिषु दलत्स्वङ्गमङ्गं महास्त्रै-
रेकंवेगानेकेष्वपि रचितरणं सिंहनादं स्मरामि ॥ ८१ ll
ततः प्रविशति यथानिर्दिष्टः सिंहनादः।
सिंहनादः -
पुरोऽवलोक्य कथमन्तरिततापसं वानरसेनापतिभिरभिमुखीभूतम् ।
**रामः -**किं पुनरयं पुरतोऽन्धकार इव ।
**कपित्थः-**देव देवादेसमन्तरेणवि जम्बवन्तमुक्कवुक्काररवाइंहणुमन्तमन्तपरिसरिआइं विष्फुरिअभीमभुअण्डाइं वित्थरन्ततारतारगलगज्जिदाइं छाआणिज्जिअपरिपिक्कफण-सफलपणसपिसङ्गिङ्गणाइं सुसेणाहिट्टिअसेणाणिवेसाइं णीलप्पहाणीलिअदसदि-सन्तराईवलीमुहकिलिकिलारअभरिददरीमुहाइं गलप्पहावा जलदुज्जायाईं समुल्लसियकुमुदकन्तिकुमुअकित्तिसन्ताणाइं सिंहणादसंमुहमोत्थरिआइं णीसेसाइं वि वाणरवलाईं*।
दधित्थः- अथ युगपत् क्षुभितानि दशार्धसंख्यान्यपि सिंहनादमुखानि । ततश्च ।
धूत्कारध्वनितं मृगेन्द्रवदनादन्त्याननाद् बृंहितं
बंहिष्ठं च लुलायतुण्डकुहरक्रोडाज्जरद्रात्कृतम् ।
जातं चार्वणवक्त्रकन्दरदरादेतस्य हेषारुतं
संख्ये कस्य भयोदयाय न वचोनिर्यच्च रक्षोमुखात् ॥ २॥
कपित्थः - तदो देव णिविडभुअदण्डपीडणाविसदृटङ्कारं
_________________________________________________________________________
*देवादेशमन्तरेणापि जाम्बवनमुक्तबुक्काररवाणि हनूमन्मन्त्रप्रसतानि विस्फुरितभीमभुजदण्डानि निस्तीर्यमाणतारतारगलगर्जितानि छायानिर्जितपरिपक्वपनसफलपनसपिशङ्गितगगनाङ्गणानि सुषेणाधिष्ठित सेनानिवेशानि नीलप्रभानीलितदर्शदगन्तराणि वलोमुखकिलिकिलारत्रभरितदरीमुखानि नलप्रभावानलदुर्जयानि समुल्लसितकुमुदकान्तिकुमुदकीर्तिसंतानानि सिंहनादसंमुखमवतीर्णानि निःशेषाण्येव वानरबलानि ।
_______________________________________________________________________
कदुअ कोदण्डं तह वरिसिदुंपउत्तो वाणविद्धिं वाणरविन्दे जह ण सुरसुन्दरीविमुक्को कुसुमुक्केरो सुभटेसु णिवडइ। ण समरङ्गणगअं रेणूचक्कमङ्कमइ दिअन्तरालइं। ण दिणअरकिरवावारपअठ्ठोवि गयणमाणिक्कस्स पसरइरहो146।
सिंहनादः - पुरोऽवलोक्य साट्टहासम् ।
रेरे कृत्स्नाःप्लवगपशवः किं भवद्भिर्भवद्भिः
संग्रामाग्रे मम रणरसो लम्भितः सर्वभावम् ।
यस्मिन् कस्मिन्न खलु समरे रोचकी सिंहनाद-
स्तन्मे रामं कथयत स हि श्रूयतेवीरसिंहः ॥ ८३ ॥
कपित्थः - बाणवरिसपीडिअं विअ वाणरवलं पज्जाउलं जंबुद्दीवाहमुहं वट्टइ147।
**सिंहनादः -**भूयो विलोक्य किमेताभिर्विजिताभिरपि वानरकीटकोटिभिः। हस्तानुद्दिश्य ।
हे पाणयोबिभृत पञ्च महाधनंषि
पञ्चापि येन युगपत्प्रतियोधयामि ।
सुग्रीवमक्षदमनं च सहाङ्गदेन
रामं च रामजयिनं सह लक्ष्मणेन ॥ ८४ ॥
भूयः पुरो विलोक्य साट्टहासं कथं तेऽपि महावीरवानरसेनापतयोऽपि नश्यन्ति । किञ्चिदुच्चैः।
_______________________________________________________________________
सुग्रीवाङ्गदमैन्दनीलकुमुदप्रह्लादतारादयः
किं मुग्धाःस्य निजान्गृहान्प्रति यथादृष्टेन याताध्वना ।
पातालार्पित शैलजालरचनारम्यक्रमोत्तम्भितो
नन्वास्ते विपुलः स वो जत्ननिधावद्यापि सेतुः स्थिरः ॥ ८५ ॥
**रामः -**वत्स लक्ष्मण किमेतत् ।
लक्ष्मणः - सगर्वमग्रतो भूत्वा रेरेविकृताकार दुराचार नृमांसकवलनदक्ष राक्षसापसद किमिदमतिप्रगल्भमाभाषसे नन्वदृष्टवीरप्रकाण्ड चरितचण्डिमाऽसि ।
**सिंहनादः -**अनाकर्णितकेन वानरताडनं नाटयित्वा रे कृत्स्नाःप्लवगपशव इत्यादि पठति ।
रामः- साधु सिंहनाद साधु न ह्रेपितस्त्वया वीरवर्गवरिष्ठो दशकण्ठः।
सिंहनादः -
रामराम मयि मुञ्चसायकान्
प्राक् प्रहाररुचिरेष रावणिः।
येन ते चरममाशुदर्शये-
च्छस्त्रतन्त्रमयमेतदम्बरे ॥ ८६ ll
रामः - सधैर्यमवलोक्य विहस्य च ।
धिग् धिङ्निशाचरपतिं शुक्रसारणौ धि-
ग्धिङ्मेघनादमथधिग्दश राजपुत्रान् ।
यैस्त्वं विचित्रवपुषा चिरमीक्षणीयः
क्रूराशयैरुपहूतो रणदेवतायै ॥ ८७ ॥
**सिंहनादः -**राघव अति हि नाम दृप्यसि किं पुनर्दप्पकारणं किञ्चन ते चरितेषु व्रीडिताः स्मः।
स्त्रीमात्रं ननु ताटका भृगुभवो रामश्च विप्रः शुचि-
र्मारीचो मृग एष भीतिभवनं वाली पुनर्वानरःl
भोः काकुत्स्थविकत्थसे कथय किं वीरो जितः कस्त्वया
दोर्दर्प्पस्तु तथापि ते यदि ततः कोदण्डमारोपय ॥ ८८ ॥
लक्ष्मणः- विहस्य ।
स्त्री ताटकास्तु तद्घातेगुर्वाज्ञा गुरुकारणम् ।
मारीचोऽप्यस्तु स मृगः क्षात्रं हि मृगयारसम् ॥ ८९ ॥
परशुरामब्राह्मणदमने शृणु सूक्तं वैतालिकस्य योजम्भंजितवानित्यादि पठति । बालिविजये पुनरुपालभ्यसे ।
रामः -
वाली वलीमुख इति ब्रुवता त्वयैव
लङ्कापतेर्मलिनितो यशसां प्ररोहः l
न्यूनाज्जयो यदिह लक्ष्म स चापि तेन
दोर्मूलपञ्जरशुको विहितः पिता ते ॥ ९० ॥
**सिंहनादः -**सक्रोधम् । रेरेकुक्षत्रिय तातमधिक्षिपसि तदेष शितमुखैः शिलीमुखैरवकीर्यसे ।
रामः - धनुरुद्यम्य रेरेराक्षसपोत त्वमपि प्रत्यवकीर्यसे किन्तु लङ्कापुरीगोपुरपरिसरवसुन्धरासु शरविक्षेपाद्दिदृक्षुपौरजना उद्विजिता भवन्ति तत् किञ्चिदुपसृत्य समरसंरम्भमारभामहे ।
इति निष्क्रान्ताः सर्वे ॥
॥ असमपराक्रमो नाम सप्तमोऽङ्कः ॥
_______________________________________________________________________
॥ अष्टमोऽङ्गः ॥
अतः परं वीरविलासो भविष्यति ।
ततः प्रविशतो राक्षसौ।
एकः - सखे दुर्मुख किमपि महान् सत्त्वभ्रंशो रावणस्य यत्कुमारसिंहनादवधमप्याकर्ण्य न शोकः कृतो नाप्यमर्षः केवलमेकं तुलाद्यूतं प्रवर्त्तितं तत्र च लङ्काधिपत्यं सीतापहारिता न पुनरर्पिता ।
दुर्मुखः - अज्जसुमुह सामिणीए तिण्डाए समादिडं जह गच्छह अङ्गदणरन्तयाणं एक्कतुलं पेक्खहजेण तुह्नमुहादो सुणिअ सीदादेवीए णिवेइस्सं ता दुवे वि अह्नेगदत्ति एत्तिअमहंजाणामि ण उण कारणं ता कहीअदु जहा पड़िवणणम् म् *148 ।
सुमुखः - परं लङ्केश्वरेण शुक्रसारणौ । प्रहितौ दाशरथिमभिधातुमभिहितं च ताभ्याम् ।
वक्ताम्भोजार्चनाभिः फलमभिलषितं हेलया यस्य लिप्सोः
सोत्कण्ठं कण्ठकाण्डेष्वहमहमिकयाखड्गधाराग्रगेषु ।
स्त्रीतित्यक्तप्रणामप्रकुपितगिरिजाकृष्टवामार्धपाणि-
स्ताषोदस्तान्यहस्ता झटिति न घटिता शाम्भवी ताललीला
॥ १॥
स निशाचरचक्रवर्ती त्वामाह यदुत किमखिलवानरराक्षसक्षयकरेण संग्रामेण तदेकं तुलाद्यूतं प्रवर्तयावः। तत्र च ।
त्वत्काङ्ककारविजये तव राम लङ्का
सीता च ते पुनरियं भवतोऽस्तु दाराः।
मत्काङ्ककारविजये तु ममाधिपत्यं
तस्यां च ते पुरि कलत्रजने च तत्र ॥ २ ॥
दुर्मुखः - []149 तदोतदो *149 ।
**सुमुखः -**ततश्च हासलवलाञ्छिताधरमुद्रेण रामभद्रेणाभिहितं यदाह द्रुहिणप्रणप्ता । किं पुनरावयोरङ्ककारत्वमुचितं ययोरन्तरङ्गोऽभियोगः।
दुर्मुखः - तदोतदो +150 ।
सुमुखः - ततश्च निरुपमानरामपराक्रमशङ्किताभ्यामुक्तं शुकसारणाभ्यां यदुत महानायकयोर्नायं क्रम इति कुम्भकर्णाग्रजस्त्वामिदमाह ।
दुर्मुखः - तदोतदो +150 ।
**सुमुखः -**ततश्च सौमित्रिसुग्रीवविभीषणजाम्बवदाञ्जनेयप्रभृतिभिर्निषिद्धेनापि तथेत्यभ्यु-पगम्याङ्ककारीकृतः कुमारोऽङ्गदो रघूद्वहेन निजपुत्रो नरान्तकस्तु लङ्केश्वरेण ।
**दुर्मुखः -**भोः किं पुण णियभुअदण्डमण्डलीपरक्कमे अणासंसा देवस्स जेण णारन्तअवाहुसु समारोविअं लङ्कारज्जम् ।
_
___________________________________________________________________________________
$ किं पुनर्निजभुजमण्डलीपराक्रमे नाशंसा देवस्य येन नरान्तकबाहुषुसमारोपितं लङ्काराज्यम् ।
_______________________________________________________________________
सुमुखः - असमञ्जसकारितायां किमुच्यते स्वामी । किञ्च ।
मृत्युं यदैव गमितो युधि सिंहनादः
शक्तिर्यदैव च वृथा भरताग्रजेऽभूत् ।
सीतार्पणं नृपसुताय तदैव युक्तं
मोहस्तु तत्र रजनीचरकालरात्रिः ॥ ३ ॥
दुर्मुखः - जुवराअमेहणादस्स उण का वत्ता *151 ।
सुमुखः -
यद्वद्वोनागपाशैः प्रचुरतमतमःश्यामले रात्रिमध्ये
यद्युद्धं यन्नभस्तः शरपतनविधिर्मायया छत्रमूर्तेः।
यद्भक्तिर्मन्त्रजिह्वेप्रसरति च रथं नित्यजैत्रं सुवाने
तन्मन्ये मेघनादोऽप्यनुभवति भयं राघवाद्गुप्तमन्तः ॥४॥
अपिच।
लङ्का दुर्गंजलधिपरिखादुर्गमं राक्षसेन्द्र-
स्तस्याः स्वामी सुरजनवधूचामरैर्वीज्यमानः।
रामःशाखामृगपरिगतो मानुषस्तद्विपक्ष -
स्तत्रैतस्मिन् जयविधिरितिव्रीडया नः कलङ्कः ॥ ५ ॥
**दुर्मुखः -**जं णिम्मलमदिचक्खुणो पेक्खन्ति तं दिडं अज्जसुमुहेण +152 ।
**सुमुखः -**अलममुना राक्षसविरुद्धकथानुबन्धेन यथादिष्टमेव कुर्वः। उभौ परिक्रामतः।
दुर्मुखः - एसा सामिणी तिअडा अह्येपडिवालअन्ती
चिठ्ठइ ता एहि उवसप्पह्न153तथा कुरुतः।
ततः प्रविशति त्रिजटा ।
त्रिजटा - सौत्सुक्यमालोक्य हंहोदुम्मुह सुमुह तुरिअं उवसप्पह णिवेदेह जुज्झउत्तन्तम्154 । उभौप्रणम्योपविशतः।
सुमुखः - स्वामिनि त्रिजटे लङ्कापुरींपूर्वेण सुवेलाचलं च पश्चिमेन उभयतो मञ्चः परिमितप्राकारपरिष्कृतः स्तोकसमुन्नतः समुन्नतसमस्तजनप्रेक्षणीयो रत्नाक्षवाटे कारितो राक्षसराजेन तत्र च प्राच्यमञ्चाधिरुढेससौमित्रिसुग्रीवविभीषणे रामे नीलाधिष्ठिते च वानरबले प्रतीच्यमञ्चाघिरुढेच सशुकसारणेदशकण्ठे प्रहस्ताधिष्ठिते च राक्षसबले गगनाङ्गणगतासु च वीरजनचरितकुतूहलिनीषु सुरसुन्दरीषु ताडितमल्लभटीतूर्यौमाङ्गल्यकलशानुगतौ निशितकृपाणपाणी प्रविष्टावङ्ककारौ । ततश्च ।
रत्नत्रिकङ्कणविभूषितदोःप्रकाण्डं
श्रीखण्डपाण्डुरितदेहभरं च रूपम् ।
युद्धाङ्गणेङ्गदनरान्तकयोर्निरीक्ष्य
चक्षुर्निमेषविमुखं स्तुतमप्सरोभिः ॥ ६ ॥
त्रिजटा - तदोतदो123 l
दुर्मुखः - तदो अ समोत्तीरिअ मञ्चादो णीलपहत्थेहिंसेणावइहिं कट्टिएसु अन्तरदण्डेसु णिरइआलीढपाआदोविसंमुहं संठिआ अङ्कआए पउत्ता अरणमण्डले मण्डलीए भमिउं155।
त्रिजटा - तदोतदो123 ।
दुर्मुखः - तदो अ ताणं विविहं वग्गन्ताणं उपरि ताडणे णमन्ताणं तलताडणे उप्पयताणं अणवरअपहारपरम्परं पेसअंताणं पेसिअं पडिछन्ताणं दिठ्ठिंवञ्चअन्ताणं अरक्खिअमग्गं रक्खिन्ताणं अण्णदो दंसिअअण्णदो पहरन्ताणं संभरिआसेसधीरत्तणेण वंसविसेसं छुरिआजुलं उज्झिकअ अण्णुण्णमाहरन्ताणं पयट्टंतं जुज्झ156।
त्रिजटा - तदोतदो123।
सुमुखः -
चारी सुचित्रपदता स्थिरता च दृष्टेः
क्रान्तिर्भुवः प्रहूतियोजनवञ्चनेन ।
सर्वाङ्ककाररणकर्मणि मात्रिकेय-
मुत्कीर्य तत्र समये कथितेव ताभ्याम् ॥ ७ ॥
अपिच ।
यथायथा प्रहरति वालिनन्दन-
स्तथातथा हरिहरिभिः स्थितं मुदा ।
यथायथा प्रहरति रावणात्मज-
स्तथातथा किलिकिलितं च राक्षसैः ॥ ८ ॥
**त्रिजटा -**तदोतदो134।
दुर्मुखः - तदो अ ताणं णिब्भरं पअट्टे समरसंघट्टे चरणेणचरणमप्फलिअदरणभन्तस्स णारन्तअस्स रोमञ्चणिविडरअणङ्गदेणाङ्गदेण कन्धराकण्डंबुद्धबन्धे खित्ता छुरिआ । उडिदो अखेडासंखोहो वाणरवले । जायाइं अ मउलन्तकमलमण्डलच्छायाइं रावणबयणाइं । वञ्चिअणिसाअरलोअलोअणं परोप्परदिएणहत्थआलं च पहसिआऊं अच्छराऊं । खरसमीरणुमूलिअफुल्लपालिभद्धदुम्मो विअ पहारविवसो समं णिसाअरोणअणिन्दीवरणीरन्धणीरधाराहिं धरणिंगऊं रावणङ्कआरो+ ।
त्रिजटा - हा वछकहिं सि देहि मे पडिवअणं भद्द कहेसु कीदिसी उग्र णारन्तअवहे देवाणं मुहछाआ आसि157 ।
____________________________________________________________________
+ ततश्च तयोर्निर्भरं प्रवृत्ते समरसंघट्टे चरणेन चरणमास्फाल्य दरनमतो नरान्तकस्य रोमाञ्चनिबिडरत्नाङ्गदेन कन्धराकाण्डबुध्रबन्धे क्षिप्ता क्षुरिका। उत्थितश्च क्ष्वेडासंक्षोभो वानरबले । जातानि च मुकुलायमानकमलमण्डलच्छायानि रावणवदनानि । वञ्चितनिशाचरलोकलोचनं परस्परदत्तहस्ततालं च प्रहसिता अप्सरसः। खरसमीरणोन्मुलितफुल्लपारिभद्रद्रुम इव प्रहारविवशः समं निशाचरीनयनेन्दीवरनीरन्ध्रनीरधाराभिर्धरणीं गतो रावणाङ्ककारः।
_______________________________________________________________________
**सुमुखः -**यादृशी प्रतिपक्षपराभवे सति भवति स्वामिनि त्रिजटे कथं कथ्यते देवतापक्षपातः क्षत्रियकुमारे विजेतरि तत्र यद्वाको नाम धर्मविनयिनि जने न स्निह्यतियतः।
हर्षादिकं नयनमुशना नेत्रयुग्मानि देवा-
स्त्रीण्यक्षीणित्रिपुरविजयी पद्मसद्माऽष्टदृष्टीः ।
चतुःषट्कंद्विगुणगुणितं शाङ्करिर्दृक्सहस्रं
नीत्वोल्लासंस च सुरपतिर्दृष्टवान् वालिपुत्रम् ॥ ९ ॥
**त्रिजटा -**तदोतदो अज्जदसकण्डेण किं पडिवणं158 ।
सुमुखः - इदमभिहितम् ।
मा भङ्गसङ्गमवयच्छ नरान्तकस्य
जातः पराङ्मुखगतिर्न पुरा सुरेशः।
तत्सांप्रतं भवतु तत् पुनराजिकर्म
साधारणं यदिह वानरराक्षसानाम् ॥ १० ॥
त्रिजटा - कहं अज्जेणदिएणो जलञ्जली लज्जादेवीए तदोतदो159 ॥
सुमुखः - ततश्च सविभीषणहस्ततालं हसति रामदेवे कुम्भकर्णप्रबोधनाय निकुम्भिलानिर्गतस्य च मेघनादस्य समाह्वानाय शुकसारणौप्रेष्य लङ्कामेव प्रविष्टो देवः।
**त्रिजटा -**ता गछह वुत्तन्तरं उअलहिउं अहं वि सीआदेवीए पिअणिवेदिआ भविस्सम्160 | इति निष्क्रान्ताः|मिश्रविष्कम्भः|
ततः प्रविशति सुप्तोत्थितो रावणः। पाश्वयोर्द्वौद्वौपरिचारराक्षसौ प्रतीहारी च ।
प्रतीहारी - स्वगतमहोअवत्यादिरेओ दशकण्ठदेवस्य जेण इमस्सिं एव्व केलिविमाणाहिठ्ठाणोरअणट्टालए पओसाहिपच्चूसं जाव रअणीरणं वेक्खिअवासरसमरसंरम्भदंसासुवत्तणेण ट्टिदोवि इसिणिद्दामुद्विअणअणन्दीवरवणो किंवि किंवि चिन्तअन्तो चिठ्ठइ161 ।
रावणः - भद्रे वेत्रवति यो यत्र परमभिज्ञः स तेन सुतरामावर्ज्यते यद्विभावरीसमरसंमर्दव्यतिकरेण वयमपि विस्मायिताः। विशेषस्मृतिनाटितकेन ।
प्रेयान् मे दन्तिदन्तप्रवसदसुरयं वल्लभोमेविपक्षं
कुन्तप्रोतोऽपि योऽयं सरति मम रुचिस्ताण्डवी यत्कबन्धः।
अत्रास्मत्प्रेमबद्धभ्रुकुटिमुखमिदं यस्य लूनेऽपि कण्ठे
स्वःस्त्रीणां नक्तमाजाविति वरवरणे तोषिताः के न वाग्भिः ॥ ११॥
ऊर्ध्वमवलोक्य किमयमतिसत्वरः सुरजनसमाजः। शङ्के कतिपययातुधानवधात्तापसं प्रति संप्रति प्रीयते । सक्रोधम् ।
हर्षोत्कर्षः किमयममराः क्षुद्ररक्षोवधाद्व
स्तन्मे दोष्णां विजितजगतां विक्रमं विस्मृताः स्थ।
किञ्चाद्यैव प्रियरणरसो बोध्यते कुम्भकर्ण-
स्तर्ण जेता स च दिविषदां बोध्यते मेघनादः ॥ १२॥
प्रतीहारी - अवसरसंतोसणिज्जो सामिजणोत्ति चिन्तअन्ता उच्चावचसंचारिणो सुरसंघादा देवं एव्वं सेवन्ति162 ।
नेपथ्ये । हंहो लङ्काउरीपाआरपालआ अदिक्कन्तजामिणीजुज्झजणिअं बलीमुहवलविदुसणं पडिकरेह उत्तम्मेह विहिदुम्मूलुणाइंतोरणाइंअगाहीकरेह रिक्वरक्वसवाणरकरङ्कसंछाइअं परिहं समीकरेह विहडिअकंचणसिलालिओ पओलिओ पुण णवीकरेह मन्दुकियं कटक्कियं सज्जेह भग्गं पाआरखण्डिमग्गंएअं पि किं ण पेक्वह डालिअं अट्टालिअं विहडिअंअरण्डिआपखण्डं जञ्जरिअं जन्तसंताणं णिउंचिआओकंचणीयाओ ताव परिकरेह स्वेवणिंआइं सज्जह मज्जवसातेल्लाइंआणोध आवट्टिअपरिक्वेर्वाणिज्जओ आणेह सिज्जरससित्थजदुजादीओ णिअडेह पवेसपज्जोलणिज्जइं खोमसणकप्पासपट्टसुत्ततसरतन्तुसंताणाइंविरएह कीलिआ कठ्ठणपाडणिज्जंगोउरदूवारं ढोएह विविहपहरणसण्णाहदससहस्साइ + ।
_____________________________________________________________________
हंहोलङ्कापुरीप्राकारपालका अतिक्रान्तयामिनीयुद्धजनितं बलीमुखबलविध्वंसनं प्रतिकुरुत । उत्तम्भयत विहितोन्मूलनानि तोरणानि अगाधीकुरुत ऋक्षराक्षसवानरकरङ्कसंछादितां परिखां । समीकुरुतविघटितकाञ्चनशिलालीः प्रतोलीः। पुनर्नवीकुरुत मन्दीकृतं कराटकिद्वारं । सज्जयत भग्नं प्राकारखण्डीमार्गम् । एतत् किं न पश्यय । दोलितं अट्टालिकं विघटितं वरण्डिकाप्रखण्डं जर्जरितं यन्त्रसंतानं निकुञ्चिताः काञ्चनिकाः तावत् परिकुरुत क्षेपणीयानि सज्जयत मज्जावसातैलानि आनयतावर्त्तितपरिक्षेपणीयाः सर्जरससिक्यजतुजातीः निकटयत प्रवेशप्रज्वलनीयानि क्षोमशणकार्पासपट्टसूत्रतसरतन्तुसन्तानानि विरचयत कीलिकाकर्षणपातनीयं गोपुरद्वारं वहत विविधप्रहरणसन्नाहशतसहस्राणि ।
_______________________________________________________________________
**रावणः -**आकर्ण्य विहस्य च अये किमयमलीकः संरम्भो मनुष्यबुद्धिदुर्ग्गं दुर्गं कथयन्ति । ततश्च ।
सति सर्वामरोच्चण्डे मम दोर्दण्डमण्डले ।
शङ्के प्राकारविभवो लङ्काऽलङ्कारकारणम् ॥ १३ ॥
राक्षसान् प्रति साक्षेपं रेरे करङ्कक रेरे कङ्कालक विबोधयतंकुम्भकर्णंज्येष्ठक्षत्रियतापससंरम्भाय ।
उभौ पदान्तरे भवतः।
**करङ्ककः -**जनान्तिकं सखेकङ्कालक देवः कुम्भकर्णंप्रबोधयति न पुनरात्मानं किं च प्रयत्नप्रबोधितोऽप्यसौ रामेण दीर्घंशाययितव्या एव ।
कङ्कालकः - कणणे विभीषणं वज्जिअसव्वस्स एसागइ ।
करङ्ककः - तथैव ।
धिक् शौण्डीर्यमदोद्धतं भुजवनं धिक् चन्द्रहासं च ते
धिग्वक्त्राणि निकृत्तकण्ठवलयप्रीतेन्दुमौलीनि च ।
निद्रालावतिघस्मरे प्रतिदिनं स्वापान्महामेदुरे
प्रत्याशा चिरविस्मृतायुधविधौ यत् कुम्भकर्णे स्थिता ॥ १४ ॥
रावणः - सुमुखदुर्मुखौ निकुम्भिलानिर्यायिनः कुमारमेघनादस्य कनिष्ठतापसेन सह समरसंरम्भं निवेदयतं ।
उभौ प्रणम्य यदान्तरेभवतः।
सुमुखः - जनान्तिकं सखे दुर्मुख किमपि शौर्यातिरेको रामानुजस्य यदमुना निकुम्भिलां प्रति प्रस्थितस्य कुमारमेघनादस्य संदिष्टं यदुत ।
यावन्नैव निकुम्भिलायजनतः सिद्धे हविर्ल्लोहिनि
प्राप्तस्यन्दनचापकाण्डकवचं स्वं मन्यसे दुर्जयम् ।
वैदेहीविरहव्यथाविधुरितेऽप्यार्येविधाय क्रुधो
वन्ध्यास्तावदयं सशक्रविजयिंस्त्वां लक्ष्मणो जेष्यति ॥ १५ ॥
दुर्मुखः - तह एव्व किं भणीअदु विराहविद्दंसणस्स कणिट्टभादा लक्खणो क्खुएसो मिअङ्कमण्डलेणसमं जादस्स ततो ण परिहीअन्ति गुणा पेऊसस्स163।
सुमुखः - सवीरगोष्टीषु पुनरिदमभिहितम् ।
स्मर्तव्यस्मितमाननं विरचितं येनामरीणां रणा-
न्नित्यं भोगवती कृता निपतितद्वारार्गलायेन च ।
धिग्धिग्भीमनिकुम्भिलागुरुगुहागर्तैकसाध्ये स्थितं
तत्संप्रत्यभिचारकर्मणि महावीरस्य शौर्यव्रतम् ॥ १८ ॥
करङ्कः - पुरोऽवलोक्य।
सोऽयं पुरः शयनसद्मनि कुम्भकर्णः
संसेवितस्त्रिदशयामिककामिनीभिः।
श्वासोत्तरं स्वपिति जर्जरकङ्कणौघै
स्तत्पाणिभिस्तडिति ताडितपादभागः ॥ १७ ॥
कङ्कालकः - सुठ्ठुक्खु परिचिअंभणासि णिबिडणिद्वाणन्दठ्ठिओकुमारो कुम्भकण्णो164।
**रावणः -**यत्सत्यं भगवतः कमलसंभवाद्गरीयसापि तपसानिद्रानन्दमेव वृतवान् मे वत्सः कुम्भकर्णः।
सुमुखः - कर्णे ।
यात्वैरावणवारणे रणभुवो भग्नेतरौडिण्डिमो
यः कृष्टञ्च कृतश्च सङ्गरविधावाघोषणादुन्दुभिः।
यस्तस्यैष रवो रयेण विदधद्दिक्पालशून्यादिशः
कामं क्रामति रोदसि स्वयमयं तन्मेघनादः पुरः ॥ १८ ॥
पुनराकणर्य।
यद्नरवाकृतिकरालकपालपाणि-
फेट्कारडामरतरोनिनदानुबन्धः।
तन्नूनमत्र हनुमान् समराय पत्त्रं
सौमित्रिणा विरचितोऽयमख़र्वगर्वः ॥ १९ ॥
**दुर्मुखः -**हंहो देव कहं तुए संदेहदोलअमधिरोविदाइंमत्तण्डपुलत्थाणं कुलाइं।
रावणः -
वामानि पश्यत समेत्य मुखानि पञ्च
रामं सहास्सदनुजेन रणे चरन्तम् ।
रामानुजं च सह शक्रजिता हसन्ति
हे दक्षिणानि दशकण्ठनियोग एषः ॥ २० ॥
कङ्कालकः - ता कीरउविबोहविडम्बणाडम्बरो कुमारकुम्भकण्णस्स165 ।
करङ्कः- कथं पुर्नार्वबोधयितव्यः।
कङ्कालकः - समन्तादवलोक्य । अअं अठ्ठारहकुलविभेअ विहिण्णोसेवासमागओभुअङ्गमवग्गोता इमस्सिं केवि गरिठ्ठुवरिठ्ठे समादिस166।
**करङ्कः -**साधु सखे साधु महाभोगभोगयष्टिभिः संवेष्ट्य विबोधयितारः खल्वेते किञ्चिदुच्चैः।
वक्षस्तक्षक ताड्यतां फणशतैस्त्वंवासुके नासिका -
रन्ध्रेरुन्धि निषेवतां श्रवणयोः कर्कोटकिःकोटरे ।
कालः कालियपन्नगश्च कुरुतां कण्ठे कठोराञ्छनं
लङ्केन्द्रानुज एषयेन विहरेद्विद्राणनिद्रारसः ॥ २१ ॥
रावणः - विहस्य किमेभिर्मृणालकोमलकायकाण्डैःप्रचएडैरपि फणावद्विर्वत्सस्य क्रियते ।
कङ्कालकः - अमहाभाअजणमणोरहा विअ वंझ्झीभूदा फणिन्दा167।
दक्षिणतो नेपथ्ये ।
यन्मातामहतो मयात्परिगतं मायारहस्यं मया
तत्संर्वं रचितं गतं विफलतामासाद्यतौतापसौ।
यः शिष्येण सता नु चापनिगमो लब्धः पितुस्तोषिता-
दाचार्यद्दशकण्ठतः किमपरं तस्यैष जातः क्षणः ॥ २२॥
रावणः - वत्स किं स्विघसे करुणामयस्य मायामयास्ते केलयो निष्करुणोपुनः कर्मणि वीराणां प्रथमोऽसि ।
दुर्मुखः - देव किलिकिलाइअहणुमन्तविमाणो सज्जीकिदचण्डकोअण्डमण्डिअ पाणी कणिठ्ठतावसो मेहणादस्स पुरदो भविअवत्तकामो वट्टइ168।
वामतः - कङ्कलिकः। ता इमस्सिं केलिविमाणरअणट्टालअपरन्तचरे गिरिन्दसंदोहे दसाणणदेवस्स अण्णा णिवेसीअटु169 ।
करङ्कः-
संवाह्यौ सह्यपादौ तव तुहिनगिरे कर्म मर्मप्रबाधि
विन्ध्याद्रे रुन्धि रक्षो वलयतु मलयः पर्वतः सर्वतोङ्गम् ।
त्वं नेत्रे पारियात्राचल वलय करौ सज्जतां मन्दराद्रि-
र्निर्निद्रामुद्र एष प्रसरति समरे येन भोः कुम्भकर्णः ॥ २३ ॥
रावणः - विहस्य वत्सस्य कठोरे वपुषि पतितोत्पतिता अतिगरीयांसो गिरयः कन्दुकायन्ते ।
कङ्कालकः - अविद्धे विअ मोन्तिए तन्तुणा अकिअकज्जेण कुमारे बाहिरदो लुठ्ठिअं महिहरचक्केण170।
दक्षिणतो नेपथ्ये।
मायां मुञ्च गृहाण कौतुकरसं वीरप्रशस्ये रणे
स्वर्नारीजन एष नूतनपतिप्राप्त्याऽस्तु बद्धोत्सवः।
मद्बाणाःखरदूषणत्रिशिरसां सैन्योपमर्दादमी
रक्षःशोणितपानलम्पटमुखास्त्वत्तोऽपि वाञ्छन्त्यसृक् ॥२४॥
**रावणः -**अये कुमारमेघनादोचितवचनदुर्मुखो लक्ष्मणः। तदेनं वत्स एव शिक्षयिता ।
पुनर्नेपथ्ये। सुमित्रापुत्र स्वशस्त्रकथामारभसे कः पुनस्तव शस्त्रग्रहणे अधिकारः।
धीमान्पमानयमिति स्तुवता जनेन
न्यासीकृता ननु सनिर्वृति यत्र दाराः।
तस्यच्छलादपि परापहूतेषु तेषु
कुक्षत्रियप्रहरणानि विडम्बनाय ॥ २५ ॥
सुमुखः - नेपथ्याभिमुखमवलोकितकेन किमाह लक्ष्मणः। रेरे ब्रह्मराक्षस वीरजनमर्यादानभिज्ञोऽसि यदप्रतीकार कर्मणि प्रहरणानि विडम्बनाय विपरीते पुनर्मण्डनाय ।
**रावणः -**अहो धृष्टता मानुषस्य यत्कुमारमेघनादेन सह वीरव्रतचर्यायामुक्तिप्रत्युक्तिभिर्भाषिता।
**कङ्कालकः -**अन्यतोऽवलोक्य। एदे गुरुगलन्तदाणवारिपक्खालिअगण्डमण्डला गलगुहाकुहरणग्गलणिगालन्तगुलुगुलारवा दिक्करिणो ता इमे समादिस *।171
करङ्ककः -
वप्रक्रियाक्रमकरालकरप्रहार-
पादावमर्दरहसोल्लिखनादि कर्म ।
दिग्दन्तिनः किमपि यद्गुणितं भवद्भि
स्तत्कुम्भकर्णापरिबोधविधावुपाध्वम्॥ २६॥
**रावणः -**युक्तमेवैतत् । जङ्गमानि दुर्ग्गाणि दिक्करिणः।
**करङ्कः -**देव दृश्यतां द्रष्टव्यम् ।
निस्तन्द्रैर्दिग्द्विपेन्द्रैर्युगपदधिगतैर्बोधनायाधिवक्षः
प्रारब्धे द्वन्द्वयुद्धे प्रचुरमदचयोच्चण्डगण्डैश्चतुर्धा ।
निद्रामुद्रां न मुञ्चत्यपि च घुरुघुराघोषगर्भोरुघोणा-
घुत्कारैर्घोरतारैः स्वपिति पिहितदृग्निर्भरं कुम्भकर्णः ॥२७॥
**कङ्कालकः -**विहस्य तं कदं कुमारकुम्भकण्णे दिक्करिचक्कवालेण जं जम्माबहिरे पञ्चमतरङ्गग्गारेहिं कीरइ *172।
दक्षिणतो नेपथ्ये रेरे दुर्मुख मुखर लक्ष्मण ।
तं रामं कथयन्ति विक्रमधनं तन्मे मनाक्प्रीतये
तस्मिन् सङ्गरकेलिकर्म यदयं वीरप्रियो रावणिः।
भ्रातृत्वेन तु तस्य लक्ष्मण कथं धैर्योद्धुरं चेष्टसे
दायादान्नच रिक्यवत्क्क चन भो शौर्यक्रिया क्रामति ॥ २८ ॥
पुनस्तत्रैव ।
लङ्केश्वरेण यदि शङ्करपादमूले
लूत्वा शिरांसि भुवनाधिपतित्वमाप्तम्।
तन्मेघनाद यदि किं तव सूर्यभक्तो
भास्वन्मणिर्ज्वलति किं स्फटिकोपलस्य ॥ २९ ॥
पुनस्तत्रैव रेरे विनोचनकुलपांसन केरलीसुत लक्ष्मल रणप्रवणं रावणयुवराजं इन्द्रजितमपि मां न जानासि तदेव ज्ञाप्यसे । पुनस्तत्रैव रेरे पुलस्त्यकुलकलङ्क सहोढासुत रामचन्द्रानुचरं लक्ष्मणमपि मां न जानासि तदेव ज्ञाप्यसे ।
**सुमुखः -**देव लङ्काधिपते तदित्थमन्योन्यमाक्षिपद्भ्यां पुलस्त्यककुत्स्थकुलकुमाराभ्याम् ।
उन्नलनीलनलिनानि नभोहृदस्य
दूताः समित्परिगमाय चमूकटाक्षाः।
आभ्यां परस्परमपि प्रहिताः कृतान्त-
केलीशकुन्तय इमे विशिखाः सहस्रम् ॥ ३०॥
वामतः। कङ्कालकः करङ्ककं प्रति। ता अण्ण केवि समादिस *।173
**करङ्ककः -**भवतु रावणावरजविबोधनाय भगवन्तं सपरिवारं भर्गमभ्यर्थये । सप्रश्रयम् ।
हेरम्ब कण्ठगर्जं रचयतु मुरजानादृतो हन्तु नन्दी
चण्डी चण्डाट्टहासं किरतु डमरुकं ताडयत्विन्दुमौलिः।
येनाकाण्डप्रबोधप्रभवगुरुतरक्रोधदीप्तारुणाक्षः
संग्रामग्रामलुण्ठोद्भटभुजपरिघो जायते कुम्भकर्णः ॥ ३१॥
**रावणः -**साधु भोः साधु सुषुप्तस्यापि महान्निनदः प्रतिबोधहेतुःकिं पुनर्विबोधोपचारा वत्से सावित्रे महसीव सर्वतेजांसि प्रलीयन्ते ।
**कङ्कालकः -**स्वगतम् । विवोहीअइ कुमारो जइ सलिले सिलाहिं उत्तरीअइ अलाबूहिं वा णिमन्जीयइ174। दक्षिणतो दुर्मुखः। देव लङ्कापरमेसर कुमारमेहणाअंलक्खणं अ अणुवदन्ताणंरक्खसवाणरबलाणं भीसणभीसणंवदृइ175 ।
**सुमुखः -**देव सुभीषणमेव वर्त्तते । पश्य ।
युद्धोर्वीष्वर्द्धमग्नैःकुवलयसरमां सूत्रिता पत्रिभिः श्री
र्नाराचैः पाशबन्धागतभुजगभयं लम्पिता वानरेन्द्राः।
भल्लैस्तिर्यक्यतद्भिश्चिलिचिमचयिनो दर्शिताः सादिमार्गाः
प्राप्ताश्च द्राक् क्षुरप्रैर्वियति नखतुला वीरवक्त्राब्जलावैः ॥३२॥
दुर्मुखः - देव पेक्ख।
कोअण्डचक्ककरवालकिवाणधेसु
मल्लत्तयाक्कमणिवेसिदसड्गरेसु।
वीरेसु पेक्खणिवडन्ति समं पहारा
वेण्णदिव्वतरुणोणअफुल्लमाला + ॥ ३३ ॥
वामतः। कङ्कालकः। सविषादं । कहं पुण एअंभविस्सदि176 ।
करङ्ककः -
हे कामिन्यः कनककलशीपीवराभ्यां स्तनाभ्यां
गाढाश्लिष्टं रचयत लसद्दोर्लताः कुम्भकर्णम् ।
_________________________________________________________________
+ देव पश्य ।
कोदण्डचक्रकरवालकृपाणधेषु
मल्लत्वक्रमनिवेशितसड्गरेषु ।
वीरेषु पश्य निपर्तान्त समं प्रहारा
वेगेन दिव्यतरुणीनवफुल्लमाला ।
_______________________________________________________________________
कामक्रीडानिबिडरचितः सेवितः स्वर्वधूभि-
र्जायेतायं त्रिभुवनजयी येन निद्रादरिद्रः ॥ ३४ ॥
रावणः - विलोक्य सहर्षं कथं विबुद्धो मे वत्सः।
करङ्ककः - विबुद्धः कुम्भकर्णो यातश्च तापसाभ्यर्णम् ।
दुर्मुखः -
एक्केहिं चण्डखग्गावडणविहडिदुट्टड्कसीसावमुक्के
हुंकारेरोसहेलावलिअभडचमूलोयणिम्भच्छिएहिं ।
अण्णेहिं दिव्वणारीणिबिडभुअलयाबद्धकण्ठेहिं देहिं
देहेहिं पेक्खजाआसमरमरणिणो तक्खणं वीरलक्खा* ॥३५॥
करङ्ककः - वामतो नेपथ्याभिमुखमवलोक्य विबुद्धः कुम्भकर्णःपरिजनादुपलब्धवृत्तान्तः किमाह।
सूते नान्यं जगति जननी तादृशं पुत्ररत्नं
रामो यादृग्लवणजलधौ सेतुसीमन्तकारः।
शङ्के शङ्कां वहति च ततो राक्षसेन्द्रोप्यकाण्डे
निद्राभङ्गः कथमितरथा कारितः किङ्करैर्मे ॥ ३६ ॥
विचिन्त्य । तदश्रुतमेवैतत् प्रकृतिरोषणेन रावणेन वचनमास्तां मा कदाचन विभीषणवृत्तान्तः स्यात् । प्रकाशम् । किमाह कुम्भकर्णः।
आस्तां धनुः किमपि नापरतो भुशुण्डी-
चक्रैरलं भवतु पट्टिशमुद्गरौधैः।
______________________________________________________________________
* एकैश्चण्डखड्गागापतनविघटितोट्टङ्कशीर्षावमुक्ते
हुङ्कारे रोषहेलावलितभटचमूलोकनिर्भर्त्सितैः।
अन्यैर्दिव्यनारीनिबिडभुजलताबद्धकण्ठैर्द्वयैः
देहैःपश्य जाताः समरमरणिनस्तत्क्षणं वीरलक्षाः।
_______________________________________________________________________
धावत्प्लवड्गपृतनाकवलक्रमेण
प्राप्स्याम्यहं सुहिततां च रिपुक्षयं च ॥ ३७ ॥
**रावणः -**साधु वत्स साधु सत्यं मदनुजोऽसि ।
दुर्मुखः - देव उप्पडिओ कुमारमेहणादस्स रहो177।
सुमुखः -
निश्चक्रचीत्कृतिरलब्धमहीतलत्वात्
क्षुण्णाम्बुदोदरपयोमयगर्भसारः।
धूस्तुण्डघट्टनविवर्त्तितऋक्षलक्षः
पुत्रस्य ते गगनमुत्पतितो रथोऽयम् ॥ ३८ ॥
दुर्मुखः - पभञ्जणणन्दणोवि वाणरिन्दो अणुप्पडिओ मेहणादस्स रहवरन्178।
सुमुखः -
मेघोदरद्रुतपरिप्लुतमोचिताम्भाः
संस्तभ्यसप्ततुरगानरुणेन दृष्टः।
वैमानिकैः स्तुत इतः क्षणमुक्तमार्गः
सौमित्रिणा सह खमुत्पतितो हनूमान् ॥ ३८ ॥
वामतः करङ्कः I
दिग्मातड्गैःकमठपतिना भोगिभर्त्रीच शङ्के
कृत्वा रुद्धां कथमपि धृता दूरतन्त्री धरित्री ।
स्वप्राग्भागस्थगितगगने कुम्भकर्ण विनिर्या-
त्युच्चैर्नीतो दिनमणिरथस्त्रस्यता चारुणेन ॥ ४० ॥
नेपथ्ये । कः कोऽत्र भोः विज्ञाप्यतां देवो दशकण्ठस्तदिदं तवानुजः प्रतिजानीते ।
सीताप्रियं च दलितेश्वरकार्मुकं च
वालिद्रुहं च रचिताम्बुधिबन्धनं च ।
रक्षोहणं च विजिगीषुविभीषणं च
रामं निहत्य चरणौ तव वन्दिताहे ॥ ४१ ॥
**रावणः -**साधु वत्स कुम्भकर्ण साधु कथमन्यथा समरसीमनि रावणस्त्वत्प्रवणः।
दक्षिणतो नेपथ्ये । सुमुखः।देव दृश्यतां क्षत्रियतापसव्यवसायः।
पौलोमीकुचसिचयं हठेन हृत्वा
यः क्लृप्तो नृहरिसटौघचामराङ्कः।
त्वत्सूनोः शिखिरथकेतने च तस्मिन्
सौमित्रेः सपदि पतन्ति बाणदण्डाः ॥ ४२ ॥
पुनरवलोक्य ।साधु भोः कुमारमेघनाद साधु साधु संक्रान्तकार्मुकोप-निषदाचार्याद्दशकण्ठतोऽसि ।
देव पुलस्त्यनन्दन।
यन्मङ्गले स्नपितमञ्जनयाऽऽर्द्रनेत्र्या
यन्मारुतश्च परिचुम्बति कौतुकेन ।
न्यस्तः शरः शिरसि तत्र हनूमतोऽस्य
पुत्रेण ते रभसलङ्घितसागरस्य ॥ ४३ ॥
रावणः - तर्हि प्रतिकृतो लङ्कादाहपरिभवः कुमाराक्षवधपरिभवश्च वत्समेघनादेन ।
सुमुखः -
यानूर्मिलापतिरयं च तवात्मजश्च
बाणोत्करान् विकिरितो रचितान्धकारान्।
तेऽन्योन्यखण्डनवशाद्विफलीभवन्ति
रत्युत्सवे बधिरयोरिव कण्ठनादाः ॥ ४४॥
वामतः कङ्कालकः। किं पुणा एस विडम्बिअहेरम्बगलगुज्जावो विणिज्जिदसङ्करकरप्फालि-अगड्डमरडमरुअकोलाहलोकुण्ठिअवेउण्ठसूयरघोरधक्कारप्पसरो णिउज्जिअणरसिंह-मुक्कपुक्कुलवुक्करवइएरो असेससद्दसंमद्दो सुणी अइ *।179
करङ्ककः - कर्णौ पिधाय देव यथाऽभिहितं कङ्कालकेन।
कुर्वन्नुत्कर्णतालान् दिशिदिशि करिणो धौर्जेटीनां जटानां
बन्धाहिग्रन्थिमुद्रां सपदि शिथिलयन् खण्डितोपेन्द्रनिद्रः।
कुन्दानो नन्दिवाद्यं मुरजमुखरतं भुग्नविश्वप्रमोदो
रोदोरन्ध्रं निरुद्धं प्रसरति किमिदं निष्ठुरज्यानिनादः॥ ४५॥
**रावणः -**जाने वत्सस्य साम्मुख्यं भजता ज्याबन्धबन्धुरितं धनुरास्फालितं ज्येष्ठतापसेन।
दक्षिणतो नेपथ्ये। सुमुखः। गगनाङ्गणचारिणोरुभयोरपि सायकैर्विचित्रमाचेष्टितं तथाहि।
अमी पुरोऽभ्राणि विभिद्य पत्रिणः
प्रयान्ति धारासलिलैः सह क्षितिम् ।
वहन्त्यथैतानि च पश्यं विश्वतः
पृषत्करन्ध्रैःस्थितयोरनुक्रियाम् ॥ ४६॥
अपि च । अत्रान्तरितकुक्षौ निरन्तरे शरव्यतिकरे ।
अन्तर्धाय परिक्रमन्ति सभियः सिद्धाः प्रसिद्धाअमी
नात्यर्थेच सुधाभुजो वयमिति त्रस्यन्ति नाकोकसः।
दारानन्तरयद्भिरात्मवपुषा नष्टं च विद्याधरै-
र
भ्यस्यन्ति च काण्डवारणकरां विद्यां गणश्रेणयः ॥ ४७ ॥
वामतः कङ्कालकः।कहं परिअणसमप्पिअं प्पहरणसंदोहमवमण्णिअ पसरिओ कुम्भकरणो180।
**करङ्कः -**किमाह कुम्भकर्णः। आस्तां धनुरित्यादि पठति ।
**रावणः -**साधु वत्स साधु सत्यं मदनुजोसि तदुद्धतं
रावणहृदयशल्यम् ।
**दुर्मुखः -**हाहा किं
एअं वट्टइ जदो सव्वादो सदसहस्सलक्खसंखा पज्जलन्ति हुयवहा जहं अ अञ्जणगिरिकुडविअडो पसरइ धूसुप्पीडो मेरुसिहरदोहरसिहाघट्टाविसट्टन्ति जालाओ सज्झारविमण्डलपज्जलङ्गाविप्फुरन्तिप्फुलिङ्गा + ।
रावणः -
अनेन लड्का यदकारि मत्पुरी
हनुमतो गात्रगतेन भस्मसात् ।
__________________________________________________________________
+
हाहा किमेतद् वर्तते । यतः सर्वतः शतसहस्रलक्षसङ्ख्याः प्रज्वलन्ति हुतवहा यथा चाञ्जनगिरिकूटविकटः प्रसरति धूमोत्पीडो मेरुशिखरदीर्घशिखासंघा विसरन्ति ज्वालाः संध्यारविमण्डलप्रज्वलाङ्गा विस्फुरन्ति स्फुलिङ्गाः।
_______________________________________________________________________
निजापराधप्रशमाय तद् ध्रुवं
निषेवितुं मामयमेति पावकः ॥ ४८ ॥
सुमुखः - देव पदातिलवस्तु सुमुखोऽभिमन्यते लक्ष्मणदिधक्षया कुमारमेघनादेन ग्रहितमाग्नेयमस्त्रं तत एष भुवनाप्लोषः। अङ्गुल्या निर्दिशन् ।
सद्यः सिञ्चति विष्टराम्बुजमयं देवः श्रुतीनां कवि-
स्तारान्तः पुरवानुपैति गगनाच्चन्द्रो जलाद्रीवृतः।
गङ्गा च द्युमणेः सुता च सरितावन्योन्यमाश्लिष्यतः
किंचास्त्रानलडम्बरेकरिमुखः क्षीराब्धिमाधावति॥४९॥
अपिच ।
दुग्धाब्धेः क्वथनाविलं तत इतो धत्ते पयः पिण्डतां
शैलेन्द्रः प्रविलीनकृत्स्नतुहिनः पाषाणशेषः स्थितः।
सान्द्राभिः करकाश्मवृष्टिभिरमी गर्भं क्षरन्त्यम्बुदाः
प्लोषार्तिं च समश्नुते रविरपि स्वाहापतेः पत्रिभिः ॥ ५० ॥
वामतः कङ्कालकः। देव पेक्ख दाव दावसभुवदण्डकोअण्डप्फालणाणन्तरं परिहरिअ पहरणाइं रहसम्मुलिदतमालमालं सहत्थम्भामिदपहरणसज्जसज्जं समुहागर्दाहन्तालतालं
दूरुल्लासिदकुसुमपाडलपाडलं गअणन्दोतिदविसालसालं रहसुच्छलिदपडन्तकेसरकेसरं गहिदसव्वङ्गसरलसरलं लोलिदकुसुमसंदणसंदणं पअट्टध्धरिदसव्वंसध्वंसं पअण्डकरकलिदपलासपलासं करजुअलबन्धर
अवसपउन्तपीपलपीपलं णिसग्ग
कठिणकक्करकक्करं णहप्पहारुक्खाअपत्थरपत्थरं पहरणीकदपडन्तगण्डगण्डमेल्लं सम्मुहोच्छुलिदं प्पहाप्पबलं वाणरबलम् *।
**रावणः -**का पुनरमीभिर्गणना शलभायन्ते कुम्भकर्णे वानरबलानि ।
दक्षिणतो दुर्मुखः। किं पुण एदं दसदिसापसरिदचउस्समुद्दं विअ जलअन्ताअन्तगिरिन्दसंदोहं विअ सलिलीभूदगअणवलअंविअ भुवअगभ्भन्तरं वट्टदि181 ।
सुमुखः - एवमेवैतत् ।
न्यस्यत्कान्तिं हुतवह इव स्वर्गपद्माकराणां
ज्वालाधौतान्यपि विशदयन्नग्रिशौचांशुक्रानि।
रिक्ताभ्राणां भरणकरणं स्थान एव स्थितानां
किं नामायं ल्पवयति पुरो रोदसी वारिपूरः ॥ ५१ ॥
**रावणः -**विचिन्त्य सेयमनभ्रवृष्टिः। विमृश्य भवतु ज्ञातम् ।
लक्षीकरोमि वरुणं न शरावलीनां
वार्यन्त्रतां व्रणशतैर्यदयं बिभर्ति।
_______________________________________________________________________
*
देव प्रेक्षस्व तावत् तापसभुजदण्डकोदण्डास्फालनानन्तरं परिहृत्य प्रहरणानि रभसोन्मलिततमालमालं स्वहस्तभ्रामितप्रहरणमज्जसर्जं संमुखागतहिन्तालतालं दुरोल्लासितकुसुमपाटलपाटलं गगनान्दोलितविशालशालं रभसोच्छलितपतत्केसरकेसरं गृहीतसर्वाङ्गसरलसरलं लोलितकुसुमस्यन्दनस्यन्दनं प्रयत्नोद्धृतसर्वांशवशं प्रचण्डकरकलितपलाशपलाशं करयुगलबन्धरयवशपतत्पिप्पलपिप्पलं निसर्गकठिनकर्करकर्करं नखप्रहारोत्खातप्रस्तरप्रस्तरं प्रहरणोकृतपतद्गण्डगण्डशौलं संमुखाच्छलितं प्रहारप्रबलं वानरबलम् I
_______________________________________________________________________
मोक्तुर्महाकरुणयेत्युपकारिणो मे
सीतावियोगदवथुं स हि मार्ष्टि वृष्ट्या ॥ ५२ ॥
**सुमुखः -**अहं पुनर्जनिचैत्रभानवमस्त्रमवजेतुं वारुणबाणप्रवणोलक्ष्मणः।
कङ्कालकः - अध तत्थ केवि कद्रणो कुम्भअण्णस्स चण्डिलणहसिहरेहिं खण्डिदकआ वराहा विअ पाएसु पडन्ति उपणिमन्तिणोव्व जङ्घासु लग्गन्ति पुरिसकडलग्गपडव्व ऊरुसु मव्वन्ति अस्सवारकरवालव्व णिअम्बबिम्बे दोलन्ति सुअणव्व मज्झत्याहोन्ति विहुरकुण्डबव्व पासेसु चिठ्ठन्ति तरुणीथणव्व वच्छत्थले वित्थरन्ति वेणिदण्डव्व पुठ्ठिठ्ठाणेघोलन्ति चिरमिलिअबन्धवव्व कण्ठे लग्गन्ति कवोलगलिअजलबिन्दुव्व चिवुअगो ललन्ति चुम्बणरसिअव्व अहरं पीडअन्ति सुरहिपरिमलव्व जहिच्छं नासाविवरेसु सञ्चरन्ति सुहासिअव्व कण्णेसु प्पइसन्ति सिविणअव्व अच्छीसु लम्बन्ति प्पठ्ठाणतिलअव्व भाले विरफुरन्ति णीचव्व समालम्बिदा सीसे समारुहन्ति भुअंङ्गाव्व केसगाहे अहिरमन्ति * ।
—————————————————————————————————————————
* अथ तत्र कोऽपि कपयः कुम्भकर्णस्य चण्डिलनखशिखरैः खण्डितकचा वराहा इव पादयोः पतन्ति उपनिमन्त्रिता इव जङ्घासु लगन्ति पुरुषकटिलग्नपटा इवोर्वोर्मर्व्वन्ति अश्ववारकरवाला इव नितम्बबिम्बे दोलन्ति सुजना इव मध्यस्था भवन्ति विधुरकुटुम्बा इव पार्श्वयोस्तिष्ठन्ति तरुणीस्तना इव वक्षस्थले विस्तरन्ति केणोदण्डा इव पृष्ठस्थाने घूर्णन्ति चिरमिलितबन्धव इव कण्ठे लगन्ति कपोलगलितजलबिन्दव इव चुबुकाये ललन्ति चुम्बनरसिकाइवाधरं पीडयन्ति सुरभिपरिमला इव यथेच्छं नासाविवरयोः संचरन्ति सुभाषितमिव कर्णयोः प्रविर्शान्त स्वप्नाइवाक्ष्णोर्लम्बन्ते प्रस्थानतिलका इव भाले विस्फुरन्ति नीचा इव समालम्बिताः शीर्षे समारोहन्ति भुजङ्गा इव केशग्रहेऽभिरमन्ते ।
_______________________________________________________________________
**रावणः -**अथ प्लवङ्गयूथपतिषु किं कुरुते कुम्भकर्णः।
**कङ्कालकः -**तदो तेण ताणं मज् केवि हदा पदिहिं कुप्परिदा कुप्परपहरिहिं कीलिदा कीलेहिं सक्करीकदा करसंपुडुप्पीडणेण अप्फालिदा तलप्फालिहिं चप्पडिदा चवेडाहिं निव्वाविदा मुठ्ठीहिं वथिदा
अ चलणेहि182 ।
करङ्ककः - एवमेवैतत् ।
मुष्ट्या पिनष्टि सुदृढैश्च तलैस्तृणेढि
पद्भ्यां निशुम्भति करेण च हन्त हन्ति ।
तूर्णं च कर्णमतिकुर्प्पति कूर्प्पराभ्या-
मस्त्रायितावयव एष तवानुजन्मा ॥ ५३ ॥
**सुमुखः -**जलपीडापगममभिनीय देव दिष्ट्या युगपत्स्वपरबलविनाशशङ्कितेन सौमित्रिणा संहूतं वारुणमस्त्रं तथाहि ।
ज्वालापल्लवितो भवत्यतितरां नाद्याप्पयं पावकः
संवृत्तो रणरेणुधूसरवपुः स्नात्वा रविर्भास्वरम् ।
शान्तः स्थाणुविलोचने च विषमच्छात्कारनादो महान्
प्रक्षाल्याम्बरमुर्वरां च विरते दिव्यास्त्रजे वारिणि ॥ ५४॥
वामतः करङ्क ।
नासारन्ध्रनिरोधतः श्रवणयोश्छिद्रद्वयाच्छादना-
च्चक्षुःसंपुटघट्टनान्मुखमहाव्यादानसंकोचनात् ।
दोर्मूलद्वयपीडनाच्च कुरुते क्रुद्धस्तवात्रानुजो
दिङ्मातङ्गपराक्रमानपि कपीन् हाहारवस्यास्पदम् ॥५५॥
अपि च लङ्कापते पौलस्त्य ।
धुतानां भवतो भ्रात्रा कपीनां तनुकम्पतः।
रोमावलम्बनभ्रष्टा विनष्टाः पञ्च कोटयः ॥ ५६ ॥
दक्षिणतो दुर्मुखः सत्रासं । किं पुण बहलतेल्लकल्लविदकज्जलविल्लिदं विअ तरुणताविच्छरिच्छोलिछण्णं विअ ससलिलजलअजालमालिदं विअ सिद्धिकण्ठकण्ठप्पहापिहिदं विअ अवणुण्णनाराअणकन्तिसव्वस्सं विअ जममहिसविसाणेहिं क्किण्णं विअ हेरम्बदाणकद्दमकरम्बिअं विअ भुवाणङ्गणं वट्टदि183 ।
**रावणः -**ननु क्व पुनस्तमस्काण्डैकचण्डो मार्तण्डो वर्तते । विचिन्त्य विहस्य च ।
अराममपलक्ष्मणं भुवनमद्यनिर्वानरं
विधाय शरवीथिभिर्नियतमिन्द्रजिद्रोषितः।
जिघांस्यति स मां गुरुं रघुभुवामितीव क्वचि-
द्भिया दिनकरे गते त्रिजगदेतदन्धं स्थितम् ॥ ५७ ॥
भूयो विहस्य तदहो दिनकरः क्व न दृश्यते वत्समेघनादस्य।
दक्षिणतः सुमुखः। देव पदातिलवस्तु सुमुखो मन्यते । रणाङ्गणचारिणो वैरिणोऽन्धीकरणकारणतामिस्रमस्त्रमवतारितं युवराजेन्द्रजिता यतः।
चक्रद्वन्द्वैर्विरहकलनाकातरैर्दीनदृष्टो
दत्तौत्सुक्यः कुवलयदृशां साभिसारव्रतानाम् ।
दृग्दौर्बल्यं विदधदधिकं हस्तहार्योन्धकारो
राजावर्तद्रुतिविरचितां मां च खं चातनोति ॥ ५८ ॥
वामतः कङ्कालकः। तथा अ दृढदहिज्जन्तकलेवरं जज्जरिज्जन्तमवलोइअ पवङ्गवग्गं पधाविदो समं दलिदञ्जाणणीलेण णोलेण रहसुग्गीवो सुग्गीवो किदा अ सरलीकदभुदण्डमण्डले सुवेलसेलमूलादो उप्पाडिअ णिज्झरजम्बालपिच्छिला सिला184 *।
**करङ्कः -**यथाऽभिहितं कङ्कालेन ।
अन्ध्रीनितम्बफलकस्य नरोत्तमानां
वक्षःस्थलस्य च दधत्युपमानमुद्राम् ।
भ्रातुस्तवात्र हूदि साहसकेलितल्पे
प्रक्षिप्यते हरिनरेण शिलेयमुर्वी ॥ ५८॥
रावणः - विहस्य तदिदं मृणालकाण्डेन गण्डशैलताडनम् ।
**करङ्कः -**कथं क्षिप्तैव । रावणमुद्दिश्य।
संग्रामभीषणबिभीषणपूर्वजस्य
मुष्ट्या दृढं शकलिताद्यतथा शिलेयम् ।
खण्डं यथा पतति मेदुरमुर्वरायां
दृष्टं तदम्बुजपरागकणप्रमाणम् ॥ ६० ॥
**रावणः -**विहस्य त एवं वर्ण्यन्ते येभ्यः कुप्यति कुमारकुम्भकर्णः। दक्षिणतो दुर्मुखः। अच्छरिअं किं पुण एदे णासन्तणीरन्धन्धआरा प्फुरन्तससिकन्तमणिणो विसट्टन्तकन्दोट्टवलआ संप्फुडिदपुडइणीकुसमा सरसाअमाणपाणगोठ्ठिणो णिट्टविज्जन्तमाणंसिणीमाणा निसिज्जन्तवम्महसिलीमुहा भमन्तमअणुमत्तकामिणीसत्था दिउणरोवाविदविरहिणीणअणा तिउणहरिसाविदवल्लहसङ्गदङ्गणा चउग्गुणपच्छाविदपरिहरिअपिअप्पसाअणप्पणामा पञ्चउणपअदाविदसुरअमोहिदमिहुणाअ समन्तदो मिअङ्का वट्टन्ति * ।
रावणः - सोल्लासमाकाशे । भोः सेवाविदग्ध सुधादीधिते जानासि लङ्केश्वरमाराधयितुम् ।
सदा दिगन्तस्थितसान्द्रचन्द्रिकाः
सुखाय नक्तञ्चरचक्रवर्तिनः।
इति स्थितोऽयं बहुभिः स्वमूर्तिभि-
र्दिवाऽपि मां शीतरुचिर्निषेवितुम् ॥ ६१ ॥
सुमुखः - देव चिन्तयामि तामिस्रमस्त्रं तिरयितुं चान्द्रमसमायुधमाहूतं सुमित्रापुत्रेण यतः।
कन्दर्पस्य प्रथमसुहृदः क्षीबयन्तोऽम्बुराशीन्
शेफालीनां धुतसुमनसो लीढभासश्चकोरैः।
_________________________________________________________________________
* आश्चर्यं किं पुनरेते नाशितनीरन्ध्रान्धकाराः स्फुरच्छशिकान्तमणयो विकसत्कमलवलयाः संस्फुटितकमलिनीकुसुमाः सरसायमानपानगोष्ठयो निस्तापितमनस्विनीमाना निषिध्यमानमन्मथशिलीमुखा भ्रमन्मदनोन्मत्तकामिनीसार्था द्विगुणरोदितविरहिणीनयनाः त्रिगुणहर्षितवल्लभसंगताङ्गना-श्चतुर्गुणप्रच्छादितपरिहृतप्रियप्रसादनप्रणामाः पञ्चगुणप्रकटितसुरतमोहितमिथुनाश्च समन्ततो मृगाङ्का वर्तन्ते ।
_______________________________________________________________________
निर्यान्त्येते विशिखमुखतः पश्य राकामृगाङ्काः
पङ्कश्यामं तिमिरशिबिरं दूरमुत्सारयन्तः ॥ ६२ ॥
करङ्कः - देव शिलोद्दलनवैलक्ष्ये ।
उद्वेल्लितोरगजनोज्झितचन्दनेन
कर्पूरपादपसरद्दुसनिर्भरेण।
खण्डेन देव मलयस्य वलीमुखेन्द्रो
हेलोद्दृतेन निजिघांसति कुम्भकर्णम् ॥ ६३ ॥
रावणः - अहो मर्कटकीटस्याध्यवसायः। दक्षिणतो दुर्मुखः। रक्खसेसरपेक्खणिअग्गहणसंक्रासङ्कुडन्त बिम्बचन्दरविणो बहुराहुदंसणचमक्कन्तकामिणीदिण्णविसण्णच्छिविच्छोहभग्गपल्लत्थङ्गुलीकिसलअसमुप्पोसिदा अप्पसण्णवअरन्तीसूइदा चमक्विदचन्दंतेउरवित्थरन्तविविहवहुब्रह्मघोसा भुवणुद्देसा दीसंति185।
रावणः - सविमर्शम् ।
ममासुरस्य त्रिदशाः परं द्विषो
विबाधयिष्ये दशकन्धरेण तान् ।
इहेति मां राहुरयं सबान्धवो
रणेऽद्य पूर्वोपचिकीर्षुरागतः ॥ ६४ ॥
आकाशे । स्वर्भानो मा भैषीः शरणार्थिनामभयकारणं रावणः।
सुमुखः - शङ्के श्वैतांशवमायुधं बाधितुं राहवीयमस्त्रमिदमुदीरितं देवयुवराजेन यतः।
रयचलितविमानैः स्वर्गिभिर्मुक्तमार्गा
ग्रहचरितविदां च व्यञ्जितातङ्कमुद्राः।
ग्रहणशतसहस्रोल्लासनासूत्रधाराः
प्रतिशशि शितदंष्ट्रा राहवः संपतन्ति ॥ ६५ ॥
वामतः करङ्क ।
अत्रान्तरे त्वदनुजेन धनुर्विधूय
संधानकर्मणि कृतश्च समीरबाणः।
सार्धं महींध्रशकलेन सुवेलमूला-
द्वारां निधौ निपतितः कपिचक्रवर्ती ॥ ६६ ॥
रावणः - सहर्षक्रोधं तर्हि सलिलेन्धने वह्नावाहुतीभूतः।
करङ्क -
यावन्नपाणिमपि संवृणुतेऽनुजस्ते
यावत्र शाम्यति च धिक्करणं सुराणाम् ।
तावत्रियोद्धुमुदधेः प्रथमः कपीना-
मस्य स्थितस्तडिति ताड़ितदोः पुरस्तात् ॥ ६७ ॥
रावणः - स्वगतम् । वेगवत्तया वालिनमप्यतिशेते । विचिन्त्य प्रकाशम् । प्लुतिप्रधानैव वानरजातिः।
दक्षिणतो दुर्मुखः। लङ्कापरमेसर पेक्ख
पेक्ख कोत्थुहमणिणिवेसलंच्छिदवच्छत्थलवणमाला-प्पालम्बचुम्बणागददिव्वमहुअरमञ्जुगञ्जारवविकिण्णकण्णा गरुडप्पहापुञ्जपिञ्जरिदहोद-सीगम्भवित्थारा णिज्जिददलिदिन्द्रीवरद्रामकन्तिणो आकण्णाकठ्ठिअसारङ्गधारिणो मुरारिणो संचरन्ति * ।
रावणः - ससंमदम् ।
अयं हि सेव रचितार्द्रमानसो
न वक्षसो मे कमलां हरिष्यति ।
इति स्वशक्त्या कृतमूर्तिविस्तरै-
रजोऽपि मां रञ्जयितुं समागतः ॥ ६८ ॥
आकाशे हंहो नारायण न प्रणतदारापहारी दशकण्ठः।
सुमुखः - देव संभावयामि सैंहिकेयहेतिविहतये वैष्णवं प्रहरणमिदं विस्तारितं लक्ष्मणेन यतः।
लक्ष्मीकण्ठग्रहणरसिका संचरत्पाञ्चजन्य-
ध्वानश्रेणीभरितककुभो दोर्भिरुच्चैश्चतुर्भिः।
क्रामन्त्यन्तर्भुवनभवनं विष्णवो जिष्णवोऽमी
श्याभाश्चक्रग्रहरणनमद्राहुसंहारकाराः ॥ ६९॥
वामतः कङ्कालकः। पुरो भूदेण मग्गवत्तिणा वाणरवोरेण तक्खणसज्जिज्जंतकुम्भअण्णबाणासणमक्खिविअ खित्तं धरणिपिठ्ठे रोसभरविभत्तमञ्जिठ्ठाए दिठ्ठीए दठ्ठूण देवकरणिठ्ठेणमुक्का चक्कावली पअदिदा पट्टिसा पेसिदा दंसिदमारणवेअट्टी भुसुण्डी स्वित्ता णीसङ्कं सङ्कुमाला आक्खित्तं मोगारोग्गिण्णं उप्फेरिदपुलअफारपअक्कमेण कम्पाविदो करग्गलग्गोखग्गो वाणरचक्कवट्टिणा वि परिहरिआउहकडप्पेण णिउझ्झंअझ्झवसिअ अप्फोडिदो भुअडण्डो किलिकिलिदं अ समंदोहभरिअभुअणन्तरं प्यधाविदाओ संदंसणकोदूहलफुल्लगल्लफलआओ सुरसुन्दरीओ समारूढो लङ्काउरीपारसिहरेसु णिसाअरजणो वसुधाणिवेसिसलासंघादेण वाणरलोएण पाससंठाविदविविहाउहेण रक्ख
सवग्गेण अ अङ्गीकदमुदासीणत्तणं तदो दो वि समं वग्गिअअलीणा मल्लजुझ्झेण तहिं अ गाढअरं हत्यग्गहं मम्मान्ति सिरेण सिरणिवेसियो हुडुक्कविक्कमेण परिक्कमन्ति कक्खाबन्धविणिहितहत्था उच्छलन्ति भुअदण्डसंदंसेण कन्धरां धरन्ति जङ्घन्तरकत्तरीहिं पीडन्ति कुक्कुडझडप्पेहिं मिल्लन्ति डुक्करेहिं डुक्कन्ति अफोडतिरिच्छपाअप्पक्वेवेण केवलं करिसन्ति केसेसु ण णअणाइंहणन्ति ण णासावंसे पहरन्ति ण दलन्ति दन्तेहिं ण खण्डन्ति नखेहं एदाणं च पडणुप्पडणेसु उप्पडन्ति सत्तसाअरा गलन्तगण्डसेला होन्ति कुलसेला दिक्करिकादरत्तणप्पमुक्कचिक्कारपूरिदा घुण्णदि वसुन्दरा पडिखो हणणमन्तधरित्तीभारबक्किदखन्धरो कम्पदि महाकुम्मो ता जुज्जदि देवस्स धणुग्गहो *।
_______________________________________________________________________
* लंकापरमेश्वर प्रेक्षस्वप्रेक्षस्व कौस्तुभमणिनिवेशलाञ्छितवक्षःस्थलवनमालाप्रालम्ब-चुम्बनागर्तादव्यमधुकरमञ्जुगुञ्जारवविकीर्णकृष्णागरुडप्रभापुञ्जपिञ्जरितरोदसोगर्भविस्तारानिर्जितदलितेन्दी- रदामकान्तय आकर्णाकृष्टशार्ङ्गधारिणो मुरारयः संचरन्ति ।
* पुरोभूतेन मार्गवर्तिना वानरवीरेण तत्क्षणसज्ज्यमानकुम्भकर्णबाणासनमाक्षिप्य क्षिप्तं धरणीपृष्ठे । रोषभरमञ्जिष्ठया दृष्ट्या दृष्ट्वा देवकनिष्ठेन मुक्ता चक्रावली प्रवर्तिताः पट्टिशाः प्रेषिता दंशितमारणपेशला भुशुण्डी क्षिप्ता निःशङ्कं शङ्कुमाला आक्षिप्तं मुद्गरोद्गोर्णम् उत्प्रेरितपुलकस्फारपदक्रमेण कम्पितः कराग्रलग्नः खड्गः। वानरचक्रवर्त्तिनाऽपि परिहुतायुधकलापेन नियुद्धमध्यवस्यास्फोटितो भुजदण्डः किलकिलितं च शब्दसन्दोहभरितभुवनान्तरं प्रधाविताः सन्दर्शनकौतूहलफुल्लगल्लफलकाः सुरसुन्दर्यः समारूढो लङ्कापुरीप्राकारशिखरेषु निशाचरजनो वसुधानिवेशितशिलासंघातेन वानरलोकेन पार्श्वसंस्थापितविविधायुधेन राक्षसवर्गेण चाङ्गीकृतमुदासीनत्वम् । ततो द्वावपि समं वलितकनीनौ मल्लयुद्धेन तदा च गाढतरं हस्तग्राहं मार्गेते शिरसा शिरोनिवेशिनौ हुडुकविक्रमैः
_______________________________________________________________
रावणः। विहस्य का पुनरेषा द्वन्द्वयुद्धमर्यादा ।दक्षिणतो दुर्मुखः। एदे पअट्टितठ्ठीविभ्भमणच्चा सुसद्दीकदकादम्बरीपाणविहिदुम्मादा जुवदीकदजरदीजणा उपणीदकुसुमबाणप्पअरा विरहिणीकण्ठबढ्ढिदपञ्चमतरङ्गा मिअङ्कबालमित्ता दूदीकददक्खिणसमीरणा सव्वदो संचरन्ति मदणा186 ।
रावणः - सहर्षम् ।
यावन्ति लोकहृदयानि जगत्रयेऽत्र
तावद्भवैरनुगतो मदनैर्मनोभूः।
शम्भोर्भिया भगवतः शरणाय शङ्के
मां रावणं समरचण्डभुजं प्रपन्नः ॥ ७० ॥
आकाशे । हे मकरध्वज मदनुग्रहेण मत्परिग्रहेण च न त्वां देवदेवोऽपि बाधिष्यते ।
**सुमुखः -**जाने वैष्णवमस्त्रं स्तम्भयितुं पौष्यकेतनमायुधमातन्यते मन्दोदरीनन्दनेन यतः।
चिह्नोत्सङ्गस्फुरितमकराः पुष्पधन्वान एते
द्राक् तन्वन्तो मधुसहचरं पञ्चमं रागराजम् ।
______________________________________________________________
परिक्रामतः। कक्षाबन्धविनिहितहस्तावुच्छलतः। भुजदण्डसंदंशेन कन्धरां धरतः। जङ्घान्तरकर्त्तरीभ्यां पीडयतः। कुक्कुटस्पर्शेर्मिलतः। डुत्कारैर्डुत्कुरुतः। आस्फोटतिर्यक्पादप्रक्षेपेण न केवलं कर्षतः केशेषु । न नयने घ्नतः। न नासावंशे प्रहरतः। न दलतो दन्तैः। न खण्डयतो नखैः। एतयोश्च पतनोत्पतनेषूत्प्लवन्ति । गलद्गण्डशैला भवन्ति कुलशैलाः। दिक्करिकातरत्वग्रमुक्तचीत्कारपूरिता घूर्णति वसुन्धरा । प्रतिक्षोभणनमद्धरित्रीभारवक्रितकन्धरः कम्पतेमहाकूर्मः। तद्युज्यते देवस्य धनुर्ग्रहः।
_______________________________________________________________
लक्ष्मीलीलाललितचरितैरच्युतान् वञ्चयित्वा
श्वेतद्वीपं रतिरतिकृतो मन्मथाः प्रापयन्ति ॥ ७१ ॥
वामतः कङ्कालकः। सव्वङ्गसंङ्गदणिबिडणिपीडणापरव्वसगात्तपडन्तभुअबलेण गअणङ्गणे अन्दोलिअ कुमारकुम्भअण्णेण धरणिवठ्ठे तडिति ताडिदो सुग्गीवो187 ।
रावणः - सहर्षम् । तर्हि मत्तकरेणुकरगतस्य कदलीकन्दस्य दशां लम्भितः।
करङ्कः -
कक्षापञ्जरदात्यूहं कपीनां चक्रवर्तनम् ।
कृत्वा त्वदनुजोऽभ्येति दिष्ट्या त्वं देव वर्धसे ॥७२॥
**रावणः -**स्वगतम् ।
यदर्थितं प्राज्यबलेन वालिना
विधाय दोर्मूलवशं दशाननम् ।
तदुद्धृतं शल्यमनेन मानिना
विधाय कक्षाकुहरे हरीश्वरम् ॥ ७३ ॥
कङ्कालकः - कुम्भअण्णकख्खन्तरगदं सुग्गीवमवलोइअ रहसझणक्किअरसणाणोउरकेऊरं नच्चिदुं पडत्ताओ सअलविंदारअविन्दबन्दिसुन्दरीओ ता पेख्खवु दे188वो।
रावणः - सहर्षम् ।
किं शच्या परतो रतिर्धनपतेर्दूरे भवन्तु स्त्रिय-
श्चन्द्रान्तःपुरमेतदस्तु च पृथक्कौबेरिणीषूत्सवः।
साकं शक्रजितः कलत्रनिवहैः सार्धं च दारैर्मम
प्रीत्युल्लासितपाणिपल्लवयुगं मन्दोदरी नृत्यतु ॥ ७४ ॥
दक्षिणतो दुर्मुखः। किं पुण एदे ते पेक्खोल्लितखट्टङ्गा व्वहलपअट्टट्टहासा प्पसहमुक्वडक्वारडामरा णच्चन्तरहस्सुत्तालवेआला चमकंतसुरासुरपुरन्धिणो ललन्तच्चूडामणि-चन्दखण्डा खलखलन्तवेल्लिदामरकल्लोलिणीपवाहा तडतडितिताडिडुडुमरडमरुअरवरौद्दा खणखणितिदाहिणमुहकुहरगम्भनिबिडमिलिदजरठदाढा रोसफुक्वारपुल्लिदफणाभार-हाराहिहारिणो पअण्डरूअधारिणो चण्डीसा संचरन्दि * ।
रावणः - सहर्षम् ।
मह्यं तदा धृतमुदा शशिशेखरेण
दत्तो वरो न शिरसां सदृशश्छिदा यः।
तत्सांप्रतं स भगवान् कृतभूरिमूर्ति-
रभ्यागतः पुनरनुग्रहवाञ्छ्या माम् ॥ १५ ॥
सुमुखः - देव संभावयामि कन्दर्पबाणविहतये खाण्डपरशवमस्त्रमातन्यते तृतीयेन दाशरथिना यतः।
ऊर्ध्वाक्षिक्रोडकुण्डोल्लसितहुतवहज्योतिरुक्षम्भणाभिः
कुर्व्वन्तो देहदाहं पुरमथनमनोन्माथिनां मन्मथानाम् ।
_____________________________________________________________________________
* किं पुनरेते ते प्रेङ्खोलितखट्वाङ्गा बहलप्रकटाद्वहासाः प्रसभमुक्तडात्कारडामरा नृत्यद्रभसोत्तालवेताला-स्त्रस्तसुरपुरन्ध्रयो ललच्चूडामणिचन्द्रखण्डाः खलखलायमानवेल्लितामरकल्लोलिनीप्रवाहास्तडतडिति-तडितोड्डमरडमरुकरवरौद्राःखणखणितिदक्षिणमुखकुहरगर्भनिबिडमिलज्जरठदंष्ट्रा रोषफूत्कारपूल्लित-फरणाभारहाराहिधारिणः प्रचण्डरूपधारिणश्चण्डीशाः संचरन्ति ।
_______________________________________________________________
चूडाबद्धार्धचन्द्राश्चलसुरसरितो भूषिताः पन्नगेन्द्रैः
श्रीकण्ठाः श्यामकण्ठाः प्रणतसुरशताः साट्टहासाश्चरन्ति॥७६॥
रावणः - भगवन् भर्ग स्वल्पकण्ठवनछेदसाहसमनल्पःप्रसादः।
वामतो नेपथ्ये करङ्कः।
वेगोत्खातान्त्रतन्त्रीचयचलचरणः सञ्चरद्दन्तयन्त्र-
प्रान्तग्रस्तोरुनासासरणिररुणदृक् क्षुभ्यतः कुम्भकर्णात् ।
लूनव्याकीर्णकर्णः खरनखशिखरैरेष शाखामृगेन्द्र-
स्त्वङ्गल्लाङ्गूलयष्ट्या तडतडिति शिरस्ताडयन् खं प्रपन्नः॥७७॥
रावणः - सविषादम् । अहो प्रमादः छलप्रहारित्वं वानराणां नावधारितं वत्सेन ।
कङ्कालकः- एस सुग्गीवो कुमारकुम्भरणं विच्छिन्नवकरिअ गअणं उप्पअन्तो गदो ज्जेव्व तावससआसम्189 ।
करङ्कः - कपिचक्रवर्तिचापलकोपितश्च मध्यमपौलस्त्यः समरसमारम्भमेव शरणं मन्यमानो लङ्कापुरीगोपुरादुपावृत्तः संमुखीभूतश्चास्य सकलवाहिनीपरिवृतः स्वयमेव तापसः।
कङ्कालकः - पुरदोऽवसरिअचउद्दिसंपरिवुदो वानरमेणावदीहिं तस्स पुरदो जम्बवन्तमणिमन्त-महामुहदुस्सहप्पहुदिणो दीदा रिक्खाहिवा गअगबअवक्खकडक्खपुरस्सरा पच्छादो गोलाङ्गुलबलाधिवा दहिमुहदरीमुहदुम्मुहपहाणा वामदो सरभकेसरिकिसोरप्पमुहा पदक्खिणदो हविअ वग्गिदुं पउत्ता190 ।
रावणः - सोऽयं पिपीलिकापन्नगन्यायः।
**कङ्कालकः -**तदो अ मोगारपहारपरम्पराहिं मुच्छाविअअतिरिछछभल्लो णिरग्गलगिलिदगोलंगूलवगो चुष्पणिअवाणरवाहिणीसंण्णिवेसो पअदो तावसाभिमुखं समासादितमुच्छाविदेहिं च तेहिं चडद्दिसं अक्कामिज्जन्तो नीरन्धरोसन्धआरन्धदाए समं पाससरिदेण णिअपरिअणेण विविहबलीमुहाणं कवलकेलिकम्मणि पअट्टो191 +।
नेपथ्ये । देव दाशरथे त्वर्यतां वानरपरित्राणाय ।
दिङ्मातङ्गशिरस्तटीचिपिटिनं प्रेतप्रभोः सैरिभे
भूयो दर्शितशृङ्गभङ्गविपदं विभ्रन्महामुद्गरम् ।
षोणाशोणितसारणीकवलनक्षीबो ऽमरप्रेयसी-
हासः स्वांश्च परांश्च खादति रणे नक्तंचरेन्द्रानुजः ॥७८॥
रावणः - अहो अतृप्तिः अध्यवसायश्च वत्सस्य ।
करङ्कः- देव दोर्बन्धबन्धुरितधनुर्दाशरथिरभ्यर्णो वर्तते कुम्भकर्णस्य कुम्भकर्णेनापि गुरुमुद्रचूडामणिः पाणिरनणीयानुत्तम्भितस्तापसवधाय ।
रावणः - अभङ्गुरः सङ्गरः सदा मे वत्सस्य ।
करङ्कः - हाहा धिक्कष्टम् ।
हस्तः स्थितो नभसि शत्रुजिघांसयैष
मत्ताङ्गनातिलकदानविधानदक्षः।
उद्दामरामशरखण्डनतः प्रकोष्ठात्
पृष्ठे भुवो निपतितः सह मुद्गरेण ॥ ७९ ॥
कङ्कालकः - देव पाणी विअ बाहुदण्डो वि से खण्डिओ192 ।
रावणः - सास्रम् ।
मुच्छानमत्प्लवगपुङ्गवरक्तसिक्तः
स्वर्दन्तिदन्तवलयैः कृतकङ्कणश्रीः।
आमूलतो मदनुजस्य भुजो भुजङ्ग-
भीमाकृतिर्झटिति हा नृशरेण लूनः ॥ ८० ॥
इति मूर्च्छति ।
करङ्कः - समाश्वसितु देवो वामपाणिप्रणीतमुद्गरः किमपि दुर्मदो राममाक्रामति तवानुजः।
रावणः - किञ्चिदुत्थायावलोकयति ।
नेपथ्ये ।
एतद्विलूनमिषुणाऽर्धविधूपमेन
लङ्केश्वरानुजशिरो दशनार्दितोष्ठम् ।
संस्कारसंकलितकोपकपायण्डं
चण्डाञ्चितभ्रु पतति स्थिरदृष्टि रामे ॥ ८१ ॥
सर्वे क्षोभं नाटयन्ति ।
पुनर्नेपथ्ये ।
सद्यो राक्षसमल्लभल्लदलितग्रीवाप्रकाण्डं पत-
न्निद्रालोर्द्रुहिणप्रणप्तुरसदृग्दंष्ट्राकरालंशिरः।
द्राक् शाखामृगचक्रचूर्णनभयादादायतारापथात्
प्रक्षिप्तं च महार्णवे हनुमता दृष्टं च गत्वासुरैः ॥ ८२ ॥
रावणः - हा वत्स कां दशां दशकण्ठेन नीतोऽसि ।
नेपथ्ये ।
देवाः सर्वे विमानान्यपनयत रविस्यन्दनो यातु दूरे
विश्वे शाखामृगेन्द्राः परिहरत रणप्राङ्गणं राक्षसाश्च ।
वेगस्रस्ताज्जनाद्रिप्रतिनिधिरवधिः सर्वविस्मापकानां
लङ्कातङ्कैकहेतुर्निपतति वियतःकौम्भकर्णः कबन्धः ॥ ८३॥
रावणः - शोकनाटितकेन ।
शेषः सोट्याऽपि शङ्कां त्यजति न भवता कण्ठसूत्रार्धकृष्टो
गौरीसिंहेन्द्रदन्तिद्वितयरणविधिं त्वत्प्रणीतं स्मरामि ।
तच्चास्ते त्वच्चरित्रं लिखितमिवपुरो मद्दृशां यत्सुमेरु-
र्वत्सेनोदस्यमानो रचितचटुशतं मोचितः स्वर्गिवर्गैः ॥ ८४ ॥
इति रोदिति ।
दक्षिणतः सुमुखः। अयमपरः क्षते क्षारावसेकः।
आकर्णाकृष्टचापोन्मुखविशिखशिखाशेखरः शूलपाणि-
र्बिभ्राणो भैरवत्वं बहलकहकहारावरौद्राट्टहासः।
ध्यातः सौमित्रिणाऽथ प्रसरदुरुतरोत्तालवेतालप्राल-
स्तद्वक्त्रादुद्भवद्भिः समजनि शिखिभिर्भस्मसादिन्द्रजिच्च ॥
८
५॥
रावणःमूर्च्छति सर्वे यथोचितमुपचरन्ति ।
**रावणः -**मूर्च्छाविच्छेदनाटितकेन ।
शेतां संप्रति वासवश्चिरभवन्निद्राजडैर्लोचनै-
र्जायन्तां विबुधोपयोग्यकुसुमाः सर्वेऽपि दिव्यद्रुमाः।
बन्धाःस्वर्गसदां च सन्त्वनिगडाः प्राप्तोऽसि तं गोचरं
म
द्वक्त्रै
रपि वत्स नाम दशभिर्वक्तुं न यः शक्यते ॥ ८६ ॥
साक्रन्दं रुदित्वा । हंहो किङ्करा मन्दोदरीं द्रष्टुमिच्छामि इति परिक्रम्य सर्वे निष्क्रान्ताः।
॥ इति वीरविलासो नामाष्टमोऽङ्कः ॥
॥ अथ नवमोऽङ्कः ॥
<MISSING_FIG href="../../../books_images/U-IMG-169203151917.png"/>
अतः परं रावणवधो भविष्यति ।
ततः प्रविशति यमपुरुषः। तत्रभवतो लुलायलक्ष्मणःसकलप्राणभृतां विहितविनाशस्य कीनाशस्य किमपि विश्वातिशायिनी प्रभविष्णुता । यतः।
नित्यस्मिताम्बुरुहविष्टरसंनिविष्टः
स्वेच्छाविनिर्मितचतुर्दशलोक एकः।
ब्रह्मेति यः किमपरं कविता श्रुतीनां
तस्यापि निःश्वसितसंहृतिसः कृतान्तात् ॥ १ ॥
परिक्रम्य पार्श्वे विलोक्य च । अहो नक्तंचरचक्रवर्त्तिनो वीरकचूडामणेः किमपि निष्पतीपमाज्ञातं यदेषोऽस्मि तेनापि भगवता भूर्भुवःस्वस्त्रयविहितनियमेन यमेन विजनेऽपि श्रवसि समादिष्टः। यथाज्ञापितोऽस्मि पुरुहूतेन यदुत विनतानन्दनः स्यन्दनरूपतामारोप्यास्माभिः परिकल्पितमातलिसुतसुनीतसारथिर्दाशरथेः समरसीम्निजैत्रं पत्रं कृतः संप्रति तु तादृशस्य रामभद्रस्य तादृशेन रावणेन सह द्वन्द्वयुद्धमनुमन्यामहे दिदृक्षामहे च तदुद्धुतनिजाक्षपटलपटलीभ्यो लङ्कालोकलेखमानमयेन जानीमः।
कदा केषांच केभ्यश्च क्षयो लङ्कानिवासिनाम् ।
रामात्तु दशकण्ठस्य किंविधो भविता वधः ॥ २ ॥
येन तत्रेव क्षणे चारणोपदिश्यमानमहावीरप्रकाण्डप्रचाराः पुत्रदर्शनकुतूहलिना दिव्यरूपेण परमसुहृदा दशरथेन सह संग्रामसीमानमवतराम इति तद्भद्रमुख महाक्षपटलिकं मद्वचनाच्चित्रगुप्तमादिश येन लङ्कालेख्यकमुद्धृत्य समर्पयति पुरन्दरश्रावणाय तद्यावच्चित्रगुप्तमेवोपसर्पामि ।
परिक्रामितकेन विचिन्त्य अहो दशाननः सर्वेषामुपरि पराक्रमेण तथाहि ।
यत्र दृष्टे हरेरक्ष्णां सहस्रं कुड्मलायते ।
कृतान्तदण्डः सोऽप्यस्य कण्ठे किमपि कुण्ठितः ॥ ३ ॥
अपिच ।
अवतरति विधाय ब्रह्मदण्डं प्रचण्डं
सकलजननभाजां कल्पितान्ते कृतान्ते ।
समरशिरसि यस्य प्राप भङ्गं धुताङ्गः
खुरदलितधरित्रीचित्रकायो लुलायः ॥ ४ ॥
कथमयं चित्रगुप्तः।
ततः प्रविशति चित्रगुप्तः। अङ्गभङ्गनाटिकेन ।
दिवानिशं राक्षसमण्डलस्य
प्रचण्डरामानुचरैर्जितस्य ।
निबध्नतो मे निधनप्रपञ्चं
स्थितः करः खेदजडाङ्गुलीकः ॥ ५ ॥
पुरुहूतः - उपसृत्य कर्णे एवमेवम्
चित्रगुप्तः - यदादिशति स्वामी । इदमर्प्यते निबन्धोद्धरणनाटितकेन न खलु कश्चिदिह प्रच्छन्नो वा मत्तो वा यो मन्त्रं निर्भेदयेत् साक्षात्करणाय तत् प्रतिवाचय । पुरुषो वाचयति ।
अतिक्रान्ते कृते काले प्राप्ते त्रेतादिवत्सरे ।
कृष्णकार्तिकपक्षाद्यदिवसोदययोगिनि ॥ ६ ॥
रामैकरतसुग्रीवप्लवङ्गमबलैर्बलात् ।
लङ्काऽलङ्कारतां विभ्रत्युपरुद्धा महोदधेः ॥ ७ ॥
धूम्राक्षं क्रोधधूम्राक्षमकम्पनमकम्पनम् ।
हतवानञ्जनीजन्मा भिन्नाञ्जनसमप्रभम् ॥ ८ ॥
प्रहस्तो दीर्घहस्तेन नीलेनाशु निमीलितः।
द्वितीयेऽह्निद्विधा चक्रे कुम्भकर्णं रघूद्वहः ॥ ९ ॥
नरान्तकस्यान्तकोऽभूदङ्गदो रुचिराङ्गदः।
नीतो देवान्तकश्चान्तं त्रिशिराश्च हनूमता ॥ १० ॥
ऋषभेण महापार्श्वः पार्श्वपीडनतो हतः।
चक्रेऽतिकायं निष्कायं तृतीयेऽह्निच लक्ष्मणः ॥ ११ ॥
कुम्भकर्णोद्भवौ कुम्भनिकुम्भौ दम्भपण्डितौ ।
हरिराजहनूमद्भ्यां चक्रातेयमसेवकौ ॥ १२ ॥
मकराक्षं सरोजातः खरपुत्रं खरान्तकः।
रामो गुणद्रुमारामो निजघान घनौजसम् ॥ १३ ॥
मेघनादं महानादं सायकैर्हतनायकैः।
लक्ष्मणः सिंहलक्ष्माणं बबाध प्रियबान्धवः ॥ १४ ॥
महोदरो विरूपाक्षो विरूपाक्षो महोदरः।
चतुरेण चतुर्थेऽह्निसुग्रीवेण रणे हतौ ॥ १५ ॥
संग्रामे वीरसंग्रामे राजितः समराजितः।
चक्रे रणमहाचक्रेमार्गणैर्मर्ममार्गणैः ॥ १६ ॥
दशकण्ठो धृतोत्कण्ठो राघवादस्त्रलाघवात् ।
पञ्चमेऽहनि पञ्चत्वं प्रयासेन प्रयास्यति ॥ १७ ॥
युगलकम् । चित्रगुप्तः। तदपरिहीणकालं भगवन्तमुपतिष्ठ येन पुरन्दरादेशमनुतिष्ठति स्वामी ।
इति निष्क्रान्तौ विष्कम्भकः।
ततः प्रविशतः पुरन्दरदशरथौ चारणमिथुनं च ।
चारणः - आर्य मातले सकलदानवेश्वरपुराक्रमणं सौत्रामणं अतिदृक्कुतूहलोत्तानितलोक-लोचनपक्षमाणमैरावणलक्ष्माणं गगनाङ्गणसंचरणवेगतरलितमाणिक्यं किङ्किणीनिनदनिःस्यन्दनं स्यन्दनमितः कुरु । अयमसावतिसुरासुरसङ्गरनिवेशो रामरावणयोः समरसंरम्भोद्देशः। सर्वे रथवेगं नाटयन्ति ।
दशरथः - भगवन् गीर्वाणनाथ इतः प्रसादं विधाय निधीयन्तां दृष्टयः।
अयमनुकृतवल्लीफुल्लतापिच्छगुच्छो
रणभुवमवतीर्णः कार्मुकी रामभद्रः।
अयमपि दशकण्ठः कुण्ठिताम्भोदशोभः
परिकलयति बाणं भ्रान्तकोदण्डदण्डः ॥ १८ ॥
कर्णं दत्त्वा आकाशे ।किमाह रभसोल्लासितहृदयामोदमुद्रो रामभद्रः।
भो लङ्केश्वर दीयतां जनकजा रामः स्वयं याचते
कोऽयं ते मतिविभ्रमः स्मर नयं नाद्यापि किंचिद्गतम् ।
नैवं चेत् खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः
पत्री नैष सहिष्यते मम धनुर्ज्याबन्धबन्धूकृतः ॥ १९ ॥
पुरन्दरः - सखे भूकाश्यप कतिहायनः पुनरयं वत्सो रामभद्रो येनेदृशान्यतिपरिणतप्रणेयानि च वचांसि वक्तुं शिक्षितः।
दशरथः - सविनयम् ।देव भवदनुग्रहस्यैष प्रभावः स खल्वयस्कान्तमणेरनुभावो यदयो द्रवति । आकाशे कर्णं दत्त्वा ।
किमाह राक्षसराजः। रेरे रावण दोर्दण्डचण्डिमाहृतराम त्वत्पूर्वपुरुषस्यापि प्रहरणैर्नैव सोढमासीत् तथाहि । स मया ।
भृङ्गः स्तम्बेरमेणेव मदलम्पटचेष्टितः।
अनरण्यो वरेण्यश्रीश्चपेटी चिपिटीकृतः ॥ २० ॥
किञ्च रे अनरण्यकुलकुमार।
चक्रे चक्रं मुरारेर्मयि कुपितवधूकुण्डलक्षेपलीला-
मस्मिन्नंसे विभिन्नस्तडिति विसलताकाण्डवत् कालदण्डः।
वक्षस्यूर्जस्वि वज्रं गतमिह च तुलां स्त्रैणहारप्रहारै-
र्यत् सत्यं पत्रिणस्ते मम वपुषि घने मन्मथास्त्रीभवन्ति ॥ २१ ॥
**पुरन्दरः -**विचिन्त्य ।अहो महदन्तरं रामरावणयोर्वचनचातुर्यं प्रति यद्वा मतिः परिणमन्ती पुरुषमुदात्तयति न वयः।
चारणः - कर्णं दत्त्वाआकाशे । किमाह रामभद्रः। तर्हि सह्यतामयमनङ्गबाणोपमानो बाणः।
**चारणी -**ससंभ्रमं प्रणम्य ।भअवं पुरन्दर णिवेसीअन्तु विसट्टकन्दोट्टकाणणमणोहरा इदोइदोअच्छिविच्छोहा । जदोपढमं कोदंडमंडलादो पलअकेउदंडप्पमाणो बाणो पच्छा कोसलर्णरंदणंदणस्म वअणादो वाणी णिर्गता भअवं इंदा
णीवल्लह अस्सुदपुव्वं अदिठ्ठपुव्वं च रामचंदचरिदं जं दाणिं
दसाणणस्स मंदोदरीचडुलचुंबणविलुत्ततिलअवंधे णिडोलबट्टे
जअधअदंड त्तणमुवणीदो बाणो *।
**चारणः -**सुगेहिनि सुदृष्टिरसि ।
यस्मिन्नम्बकमम्बिकापतिरसौ देवस्तृतीयं वह-
त्यााद्यंयत्र च रोचनाम्बुतिलकं न्यस्यन्ति पृथ्वीभुजः।
क्रोधे द्राक् भुकुटीपुटेन घटते यच्च त्रिभङ्गात्मना
तत्रैव त्रिविद्रुहः प्रथमतो रामेण बाणोऽर्पितः ॥ २२ ॥
**चारणी -**सविषादम् । हध्धिहध्धि हदासदसकन्धरेण वि णिभ्भरदलदिंदीवरवणाहिरामस्स रामस्स गिरिसिलाविसालंवच्छत्थलमुद्दिसिअ कअंतदा
ढा
जरठो सरो सन्धिदो193 ।
______________________________________________________________________
* भगवन् पुरन्दर निवेश्यन्तां विशदकमलकाननमनोहरा इतइतोऽक्षिविक्षेपाः। यतः प्रथमं कोदण्डमण्डलात् प्रलयकेतुदण्डप्रमाणो बाणः पश्चात् कोशलनरेन्द्रनन्दनस्य वदनाद्वाणी निष्क्रान्ता । भगवन्निन्द्राणीवल्लभ अश्रुतपूर्वमदृष्टपूर्वं च रामचन्द्रचरितं यदिदानीं दशाननस्य मन्दोदरीचटुलचुम्बनविलुप्ततिलकबन्धे ललाटपट्टे जयध्वजदण्डत्वमुपनीतो बाणः।
_______________________________________________________________
दशरथः - कः कोऽत्र धनुर्धनुः पुरन्दरप्रसादीकृतसखिभावे सति दशरथे कथामिव रावणो रामभद्रंप्रहरतु।
पुरन्दरः -
सखे दशरथ द्वन्द्वयुद्धमिदंतनुचितं क्षत्रधर्मस्य दिव्यभावस्य च यदद्वन्द्ववृत्तिरपि शस्त्रं गृह्णाति ।
दशरथः - तत् कथयतु वन्द्यः किमत्र साम्प्रतम्
पुरन्दरः - यदत्र साम्प्रतमसाम्प्रतं वा राघवधुरन्धरी राम
देव एव तद्वेद ।
चारणः -
यन्मैथिलीमदनतल्पतलं यदात्त-
मारीचरत्नमृगचर्म शिलाघनं च ।
रामस्य वक्षसि चिरोज्झितहारदाम्नि
तस्मिन्नयं दशमुखेन शरो निखातः ॥ २३ ॥
दशरथः - कथं रावण निपुणोऽसि यदेकेन बाणेन हृदये द्वयं ताडितं रामो दशरथश्च ।
चारणः -
मन्दोदरीस्तनविसूत्रितकुङ्कुमं य
द्यद्वज्र
घातकणचूर्णविकीर्णहारम् ।
लङ्केश्वरस्य हृदि तत्र भवद्भुवाऽपि
मारीचरक्तपिहितो निहितः पृषत्कः ॥ २४ ॥
**चारणी -**सचमत्कारम् । आअण्णाकद्विदकोदंडमंडलनिग्गलंतसरधोरणीणीरंधणि-रुध्धभुअणकंदरो सुठ्ठु खु रामरावणाणंणिभ्भरोसमरसंरंभो अहह का वि लख्खणजेठ्ठस्स दसरहणं दणस्स धाणुक्कदा जेण अदिक्कमिअ रहवरकेउदण्डं सरच्छडा पअट्टंति194 *।
पुरन्दरः -
सखे महीमहाराज अमुना रामशरविद्यवैशारद्येन देवं त्रिपुरान्तकरं शङ्करमनुस्मारितोऽस्मि ।
दशरथः-
रावणावलोकनाटितकेन कथं रामभद्रचरितप्रमोदवते भगवते
महेन्द्रायापि कुप्यति दशास्यः। कर्णं दत्वा
आकाशे ।
किमाह रावणः।
स्मर्तुं युक्तः स तव समयः संयतं त्वां विमोक्तुं
शच्या यस्मिन्नहमतिशुचा याचितो भर्तृभिक्षाम्**।
यद्वा क्षुद्रो जन इव कथं कथ्यतां राक्षसेन्द्रः
पाणौ यस्य स्मयगरजुषामौपधं चन्द्रहासः ॥ ५५ ॥
अपिच रे कपिललोमशवाहो अहल्याजार।
बाणान् स्यन्दनकेतुर्याष्टिसुहृदो रामस्य नामाङ्कितान्
दृष्ट्वा वासव किं दृशां दशशती निःशल्यमुत्फुल्लति ।
सद्यस्तापसकामिनोऽस्य विमतेराजौ तु कृत्वा शिर-
स्त्वां कारागृहदत्तगाढनिगडं कर्ता प्रगे रावणः ॥ ५६ ॥
दशरथः - भूय आकाशे कर्णं दन्त्वा । किमाह वत्सा मे रामभद्रः अहो वालिबालवयस्य पौलस्त्य भवादृशेभ्यो वीरवरपरिभाषाः प्रवर्तन्ते तत् किमिदं नाम यदन्यः प्रतिपक्षोऽन्यस्मैकुप्यते तदेहि मामेव योधय ।
यद्दुर्म्मार्गमार्गणाद् दाशरिथना क्षत्रियेण भवान् विनेय एव । विचिन्त्य, । क्रिमाह रावणः रेरे मानुषीपुत्रायमसावक्षत्रियो रावणः स भवान् क्षत्रियो रामः तद् दृश्यतां कतरोविनेयः कतरोविनेतेति, किमाह रामभद्रः हंहो अमानुषीपुत्र अयमसो क्षत्रियो रामः स भवानक्षत्रियो रावणस्तदत्र दृश्यतां कतरो विनेयः कतरो विनेतेति ।
चारणः - विलोक्य । कथममर्षेण दर्पिताभ्यां रामरावणाभ्यां परस्परं प्रत्युपक्रान्तमिषुवर्षाद्वैतम् ।
चारणी - संसंभ्रमम् । सुरपरमेसर भीसणं वदृदि ।जदो णिविडपाडिदपडाआवडा विधुरिदबंधुरधुराबंधा तख्खणदो खंडिदख्खदंडा ताडणभंगिभंगुरिदपग्गहपरिग्गहा णिग्गिहीद
गमणपवलचक्कचंकमणा उद्दामुउदलिददीहकूवरप्पवरा इमाणं
अ
समाणा परिप्फुरंति दीहप्पमाणा बाणा । अविअ पडिख्खलि
दजक्वपक्खा भग्गचारणसंचरणा मंथरिदणिरवज्जविज्जाहर
विहारा रभसुंमूलिदसुरासुरप्पसरा विसण्णापण्णअपवन्नविव
डवित्थारा णिठ्ठुरणिट्टाविदगंधव्वगव्वा पअडविध्धंसिदसि
ध्धसिध्धा गअणंगणुत्तासिदसउन्तसंताणा कहिं दाणिं पुणइमाणं ण पसरिदा सरसंघाआ *।
______________________________________________________________________
* सुरपरमेश्वर भीषणं वर्तते यतो निबिडपाटितपताकापटा विधुरितबन्धुरधुराबन्धास्तत्क्षणतः खण्डिताक्षदण्डास्ताडनभङ्गभङ्गुरितप्रग्रहपरिग्रहा निगृहीतगमनप्रबलचक्रचङ्क्रमणा उददामदलितदीर्घकूबरप्रवरा अनयोरसमानाः परिस्फुरन्ति दीर्घप्रमाणा बाणाः। अपिच परिस्खलितजक्षपक्षा भग्नचारणसंचरणा मन्थरितनिरवद्यविद्याधरविहारा रभसोन्मलितसुरप्रसरा विषण्णापन्नगप्रपन्नविवरविस्तारा निष्ठुरनिष्टापितगन्धर्वगर्वाः प्रकटविध्वंसितसिद्धसिद्धा गगनाङ्गणोत्त्रासितशकुन्तसन्तानाः क्वेदानीं पुनरेतयोर्न प्रसृताः शरसङ्घाताः।
_______________________________________________________________
**चारणः -**सम्यग्विभाव्य । अति हि सुदूरमन्तरं कार्मुककर्मणि विरञ्चिविरोचनकुल-तिलकयोरनयोर्हस्तलाघवस्य तथाहि ।
रघुपतिवदनेन्दौ कार्मुकैः पङ्क्तिसंख्यै-
र्दश विकिरति बाणान् यातुधानप्रधानः।
दशभिरपि च काण्डैरेककोदण्डवाही
प्रहरति दशवक्त्रींराघवो रावणस्य ॥ २७ ॥
अपिच सुरचक्रर्वार्तन् इह हि कामिनामनुरागपरिग्रहो गुणलवलाभलोभेन दोषप्रमोषमावहति तथाहि ।
रामक्षिप्तान् प्रतीच्छत्ययमिह विशिखान् बक्षसा राक्षसेन्द्रः
सीताहस्ताम्बुजाग्रार्पितमलयभवस्यासकान्मन्मथान्धः
।
सोल्लासं हारवल्लीकवचपरिचिते ते तु तस्मिन् विशन्तः
स्वेदाम्भः प्रारभन्ते पुलकमुपनयन्त्युद्धतिं चार्पयन्ति ॥ २८॥
आकाशे कर्णं दत्वा । किमाह सविचिकित्सक्रोधं रामः न केवलममुना समबाणवर्षेण रावणप्रमार आरभ्यते अपित्वेतस्य जानकीकरतलस्पर्शकेलिसंभावनीयगात्रेषु पत्रिषुरो
माञ्चकञ्चुकं यावदामोच्यते तद्भवतु विश्वामित्रोपदिष्टमन्त्रै
र्दिव्यास्त्रैरमुमायोधयामि ।
**चारणी -**सचमत्कारम् किं उण एदं आमूलफलिदप्फुलिंगजडिलजालावलीविलीणतुहिणसरणिसारणीपूरिज्जमाणमंदाइणीचंदभाआपहुदिनदीसत्यमंथरिदवित्थारो सअलकुलसे
लचक्कुवट्टी कुवेराधिठिदं दिसमधिवसंतो हिमवंतो संतव
णुत्तरलसिलाजदुणीसंदणिज्जरदहिज्जंतचरणचंक्रमणक्कंदि-अकरिन्दपवेससमूससंतसेत्तसलिल-मदप्फालि-द-तडंतणिवतंडप्रत्थरवित्यारप-अट्टसद्दसंदोहभरिदगंभीरगुरुगुहाकुहरमज्झो चिंझो सिमिसिमाअंतसंततसिरिखंड-मंडलीग्रब्भठ्ठभुअइंदभाअभरिज्जंतत्तंबवरणीसोत्तसंत्तासिदसिप्पिसंपुडमुहपलोट्टमोता हलकरंबिदतंबण्णीपवणविच्छिण्णणिअंवडंबरालंकिददक्खिणमहीव
लओ मलओ डाहकुविद कुंभसंभवमहामुणिगेहिणीदिण्णविव
ण्णदिठ्ठिच्छडाकडप्पसंकोडिदचडुलजालुप्पीउपीडापरिहरिज्ज
माणमाणिक्कचक्कवालवेल्लिालदाभवणगभ्भसंभाविदहुदवहुच्छेदमुहुत्तसुहपसुत्तविज्जाहर मिहुणजणिदमणमोहणो रोह
णो*।
**पुरन्दरः -**ध्रुवं शस्त्रमाग्नेयमामन्त्रितं पौलस्त्यदमनविधावस्ततन्द्रेण रामचन्द्रेण । यतः।
रामनर्तितमहाधनुर्मुखा-
द्यत्रयत्र निपतन्ति सायकाः।
तत्रतत्र जलधेर्जलोच्चये
कार्यतो विरचयन्ति वाडवम् ॥ २८ ॥
अपिच।
__________________________________________________________________________________
*किं पुनरिदमामूलफलितस्फुलिङ्गजटिलज्वालावलीविलीनतुहिनसरणिसारणीपूर्यमाणमन्दाकिनोचन्द्रभागा-प्रभृतिनदीसार्थमन्यरितविस्तरः सकलकुशशीलचक्रपतिः कुबेराधिष्ठितां दिशमधिवसन् हिमवान् सन्तपनोत्तरलशिलाजतुनिस्यन्दनिर्झरदह्यमानचरणचङ्क्रमानाक्रन्दितकरीन्द्रप्रवेशसमुच्छवसत्स्रोतः सलिलस्फालिततटान्तनिपतत्प्रस्तरविस्तारप्रवृत्तशब्दसन्दोहभरितगम्भीरगुरुगुहाकुहरमध्यो विंध्यः सिमसिमायमानसन्ततश्रीखण्डमण्डलीभ्रष्टभुजगेन्द्रभोगभ्रियमाणताम्रपर्णीस्रोतस्सन्त्रासितशुक्तिसंपुटमुख-पतितमुक्ताफलकरम्बितताम्रपर्णीपवनविच्छिन्ननितम्बडम्बरालंकृतदक्षिणमहीवलयो मल्लयो दाहकुपित-कुम्भसंभवमहामुनिगेहिनोदत्तविवर्णदृष्टिच्छटाकलापसंकोटितचटुलजलीसीडपरिह्रियमाणमाणिक्यचक्रवाल-वेल्लितलताभवनगर्भसंभावितहुतवहाच्छेदमुहूर्तसुखसुप्तविद्याधरमिथुनजवितमनोमोहनो रोहणः
_______________________________________________________________
सद्यः कल्पद्रुमाणां मणिकुसुमवतां वर्त्तते दावदाहः
क्रन्दन्त्युत्तप्तधारास्रुतिकृतकरकावृष्टयस्तोयवाहाः।
रामस्योच्चण्डचापप्रणिहितहुतभुङ्मार्गणार्चिःप्रपञ्चै-
स्तूर्णेत्तीर्णः समुद्रं सरति च विसरो मेरुहेमद्रवस्य ॥३०॥
चारणः
-
आकाशे कर्णं दत्त्वा । किमाह रावणः कथं दिव्यास्त्रसमरसमारम्भी रामस्तदहमपि समारभे । यद्वा।
आग्नेयास्त्रं हृदयदवथुर्वारुणं हन्त शस्त्रं
धाराबाष्पं पवनशरतां यान्ति च श्वासदण्डाः।
तज्जानक्या क्रिमिव न कृतं रक्षसां स्वामिनो मे
दिव्यैरस्त्रैर्यदयमपरं तापसः कर्तुकामः ॥ ३१ ॥
**चारणी -**आमूलुद्दलिअपारिआअतरुराइणो उक्कंपिदाण
प्पकय्पपादवा विसुत्तिदसंताण-अतरुसंताणा विमद्दिदामंदमंदारुद्दुमा णिदलिद्दणंवणहरिअंदणा इमे आसुत्तिदसत्तभुअणावसाणा पवमाणा पवट्टति195 ।
पुरन्दरः - नूनमात्मनिकार्शानवप्रस्त्रमसमर्थं समर्थयता त्रिभुवनाभोगभङ्गनिमित्तमग्निमारुतसंयोग इति सामीरणमासूत्रितं राक्षसराजेन तथाहि ।
दिव्यानां यानपङ्क्तीर्दिशिदिशि विकिरन् भग्राचिह्नोरुदण्डः
पञ्चानां स्वर्द्रुमाणाममरमधुलिहां रुग्णशाखाप्रकाण्डः।
भञ्जन् बर्हावतंसं हरसुतशिखिनः पिच्छविच्छेदनाभि-
र्वायुर्वात्येष चण्डो जलधितटरूहां मर्दनो विद्रुमाणाम् ॥३२॥
**चारणी -**किं उण मसिणवट्टिदराअवट्टसिणिध्धमुध्धमुध्धसामलछाण्ण वि च्छाइज्जइ गअणङ्गणं दुद्दिणेण आवञ्जिज्जइ कलकलरवुक्कंठाविसंठुलकंठार्हिं तंडवाडंबरो सिइंडिमं
डलीहिं णिबिडिञ्जइ मिणालदंडपंडुराहिं मं
डिदबह्नंडकंद
राहिं जलधाराधोरणीहिं गज्जिज्जइ णिविदुल्लासिअवंसक
रिकरिल्लविदुरिल्लेहिं फारप्फालिदगंभीरभेरीभीसणेहिं जलहरोहिं * ।
पुरन्दरः - मन्ये पवनोद्दीपितदहनास्त्रशान्तये जलधरास्त्र
मिदमाहूतं रामभद्रेण तथाहि ।
तैलस्निग्धान्ध्रनारीचिकुरविरचनामेचकाः शक्रचाप-
ज्योतिर्लक्ष्माण एते निचुलपरिचिताश्चातकाचान्तवारः।
न्यस्यन्तः केतकीनां मुकुलपरिकरं केकिनां नृत्तकारा-
स्तारावर्त्मोन्नमन्तः कमलकवलनाः पूरयन्त्यम्बुवाहाः ॥३३॥
ततश्च ।
रोदसीकन्दराभोगमानयष्टिसमक्रमैः।
क्रियतेऽर्णवमग्नेव धाराम्भोभिर्जगत्त्रयी ॥ ३४ ॥
**चारणी -**पेख्खदु देवो अण्णोण्णाजुज्भंतजलहत्थिसत्थाकल्लोलकेलिणिलुक्कंतगिरिपख्खिणो लख्खिज्जंततिअसेंदसिंधुर
बंधवा समुल्लसंतपीऊससेसा दीसंतदेवद्दुमपादवालवाला
___________________________________________________________________
* किं पुनर्मसणवर्त्तितराजपट्टस्निग्धमुग्धेन श्यामलच्छायेनापि छाद्यते गगनाङ्गणं दुर्दिनेन । आवर्ज्येते कलकलरवोत्कण्ठाविस्रंष्ठुलकण्ठाभिस्ताण्डवाडम्बरःशिखण्डिमण्डलोभिः। निबिडायते मृणालदण्डपाण्डुराभिर्मण्डितब्रह्माण्डकन्दराभिर्जलधाराधोरणीभिः। गर्ज्यते नबिडोल्लासितवंशकरि-करिन्द्रसदृशौः स्फारोत्स्फारितगम्भीरभेरीभीषणैर्जलधरैः।
_______________________________________________________________
अवलोइज्जंतनाराअणसूअरसमुध्धरिदधरिणिवेढणिलुक्कणठ्ठाणा वित्थरंतकोत्थुहसगोत्तमणि-करंबि
दपाआलजंबाला उच्छलंतलच्छीबालविलासुद्देसा सप्पवंचपंचजणजणणीसंखिणीसणाहा ससंभमब्भमंतकच्छर्वाडंभगभ्भा पअडिज्जंतदामोदरणिद्दाविमद्दसअणिज्जसेसरमणिज्जा माहवमहातिमिगोत्तगिलिज्जंततिमिंगिला णिब्भरं भरंति भुअणाई इमे समुद्दा * ।
पुरन्दरः -
नूनमात्मनि वारुणास्त्रमप्यतन्त्रं मन्यमानेन त्रिभुवनाभोगगर्भमहाकन्दरप्लावनाय जलं जलसंपृक्तंमहाजलाय कल्पत इत्यौदन्वतमस्त्रमाहूतं पौलस्त्येन तथाहि ।
कुर्वन्तो वाडवाग्नेर्द्रुतकरिमकरग्रासमर्चिःप्रचारं
दैत्यस्त्रीमुक्तहाहारवचकितवलच्छुक्तिनिर्मुक्तमुक्ताः।
पक्षोत्क्षेपेण चण्डोड्डमरितपयसः पक्षिणां क्ष्माधराणां
त्रीन् लोकान् प्लावयन्ति प्रसभविरचितावर्तमुद्राः समुद्राः ॥३५॥
चारणी - भअवं दससदख्ख पेख्खपेख्ख कलिदकलिकालकवलणा सत्तसाअरपाणप्पवीणा शिव्वाणणअरराअमग्गा धम्मद्दुममहारामा कोधपाअवप्पसरपरसुणो णिविडिदजडाजूटबंधा कमंडलुमंडिदहत्था पअडिदजोअपट्टा बंह्मसुत्तप-
_____________________________________________________________________
* प्रेक्षतां देवः। अन्योन्ययुध्यमानजलहस्तिसार्थाःकल्लोलकेलिनिरुत्क्रान्तगिरिपक्षिणो लक्ष्यमाणत्रिदशेन्द्रसिन्धुरबान्धवाः समुल्लसत्पीयूषशेषा दृश्यमानदेवद्रुमपादपालवाला अवलोक्यमान-नारायणसूकरसमुद्धृतधरणिपृष्ठनिलयनस्थाना विस्तार्यमाणकौस्तुभसगोत्रमणिकरम्बितपाताम्लजम्बाला उच्छलल्लक्ष्मीबालविलासोद्देशा सप्रपञ्चपञ्चजनजननीशङ्खिनीसनाथाः ससंभ्रमभ्रमत्कृष्ण-कच्छपडिम्मगर्भाःप्रकटायमानदामोदरनिद्राविमर्दशयनीयशेषरमणीया माधवमहातिमियोत्रगिल्यमान-तिमिङ्गिला निर्भरं भरन्ति भुवनानीमे समुद्राः।
वित्तिदखंधबंधा भअवंतो अगत्थिमहेसिणोऽलख्खसंखा संचरंति * ।
_______________________________________________________________
पुरन्दरः - मन्ये त्रिभुवनपरिप्लावनपयःपाननिमित्तमगस्त्योपदिष्टमगस्त्यास्त्रं धनुषि संहितं रघुकुलराजपुत्रेण तथाहि ।
लोपामुद्रानिबद्धोपचरणविधयो धौतवल्कोत्तरीया
रन्तानामाधिराज्ये विरचितरतयो ब्रह्मसूत्राञ्चितांसाः।
एते निर्यान्त्यगस्त्याश्चलचुलुकपुराचान्तसप्ताब्धिवारो
रुद्राक्षाक्षावलीभिर्द्विगुणवलयिता बिभ्रतः कर्णपालीः ॥ ३६॥
चारणः - सविस्मयम् । नमुचिमथनमन्यरितमन्यो शतमन्यो दिव्येनास्त्रजातेन दिव्यमस्त्रजातं विजित्य तत् किमपि कृतं रक्षोलक्ष्मीविरामेण रामेण यदनिशं विमृशतोऽपि मे न चेतः प्रत्येति न वाच उच्चरन्ति । निरङ्कुशा दशाननस्याज्ञा । विभाव्य सावष्टम्भम् । यद्वेदं निवेद्यते ।
विश्वाज्ञादानदक्षाक्षरमुखरमुखं चन्द्रहासोपपाद्य-
च्छेदक्रीडारसज्ञं तदिदमनवधिक्रोधहुङ्कारधारि ।
सार्धं शुद्धान्तनारीनयनजपयसासूयितं देवदारै-
राकण्ठाद्दाशकण्ठंभुवि पतति शिरोरामभल्लाग्रलूनम् ॥ ३७॥
पुरन्दरः - हंहो ऐन्दुमतेयातिदुष्करं कृतं रामभद्रेण यतः।
शम्भोरग्रेनिजकरचरच्चन्द्रहासप्रसूतां
लङ्कानाथः किमपि सुबहोर्विस्मरन्नेष कालात् ।
___________________________________________________________________________________
*
भगवन् दशशताक्ष प्रेक्षस्वप्रेक्षस्व कलितकलिकालकवलनाः सप्तसागरपानप्रवीणा निर्बाणनगरराजमार्गा धर्मद्रुममहारामाः क्रोधपादपप्रसरपरशवोनिबिडितजटाजूटबन्धाः कमण्डलुमण्डितहस्ताः प्रकटितयोगपट्टा ब्रह्मसूत्रपवित्रतस्कन्धबन्धा भगवन्तोऽगस्त्यमहर्षयो लक्ष्यसंख्याः संचरन्ति ।
_______________________________________________________________
धाराज्योतिस्तरलितशिखैः साम्प्रतं रामबाणैः
कण्ठच्छेदव्यतिकररुजं लम्भितः स्मारितश्च ॥ ३८ ॥
दशरथः - शौर्यगाम्भीर्ये त्रिभुवनातिशायिनी राक्षसराजस्य यदित्थं गतेऽपि न चलितं प्राचाहङ्कारेण तथाहि ।
एतल्लूनं दशमुखशिरः स्रंसते कण्ठपीठा-
च्चक्षुर्धत्ते धनुषि सशरे चैतदुग्राट्टहासम् ।
एतद्रामं प्रति च कुरुते धिक्शतं क्रोधवाचा-
मेतल्लङ्कामभिः च भवति स्त्रीजनाश्वासनाय ॥ ३९॥
चारणी - विहस्य । ता अज्जपहुदि दसाणणं गवाणणं वाहरिस्सामो196 ।
**चारणः -**प्रिये मञ्जुवादिनि जानाम्यद्यैव निराननमप्यभिधास्यसि नन्वयमोङ्कारो रावणशिरोमण्डलच्छेदविद्यायाः।
**दशरथः -**प्रतिगृहीता प्रतिभोदयिनी दिव्यवाक् बद्धो वाससि ग्रन्थिः।
चारणः - कर्णं दत्त्वा आकाशे । किमाह रामभद्रः। रेरे राक्षसीपुत्र ।
यद्रौरीचरणाब्जयोः प्रथमतस्त्यक्तप्रणामक्रियं
प्रेमाणर्द्रेण सविभ्रमेण च पुरा येनेक्षिता जानकी ।
लूनं ते तदिदं च राक्षसशिरो जातं च शान्तं मनः
शेषच्छेदविधिस्तु सम्प्रति परं स्वर्बन्दिमोक्षाय मे ॥४०॥
पुनः कर्णंदत्त्वा आकाशे । किमाह रावणः। रेरे क्षत्रियापुत्र सुलभविभ्रमचर्मचक्षुरसि तदवलोकय कतमदत्र लूनं शिरः।
दशरथः - विमृश्य । सप्रणामं सकलभूर्भुवःस्वस्त्रयैकवीर शुनासीर मायाविनिर्मितलड्केश्वरशिरोदर्शनेन विलक्षं क्रुद्धो
रामः शित्तकाण्डमण्डलीभिरकाण्डचण्डाभिरन्तरितमार्तण्डमण्डलाभिरखण्डोड्डमरितत्रिभुवनाभोगाभिरभिवर्षितुं प्रवृत्तः।
चारणी - देव पेख्खपेख्ख निविडभिउडीकोडिकुडिलललाडवट्टाइं जरढदाढदंडवरणिठ्ठुरदठ्ठाहरुठ्ठाइं रहसणीसरंतदीहहुंकारदारुणणासावंसविवरंतराइं रामसरधाराधोरणीहिं चउद्दिसंझत्ति निवडंति छिण्णविवण्णाइं लंकेसरसिराइं * ।
दशरथः - चमत्कृत्य ।
यस्यांयस्यां ककुभि रभसस्पष्टदंष्ट्राकरालं
लङ्काभर्तुर्निपतति शिरो भल्लनिर्लूनकण्ठम् ।
तस्यास्तस्यास्तरलितदृशा स्वर्गिवर्गेण नष्टं
प्राक्संस्कारक्रमभयवता योजनानां शतानि ॥ ४१ ॥
सहसावलोक्य । अहो मायाविता राक्षसस्य ।
रामबाणकृतः पातो न यावदधार्यते ।
क्रियते तावदुद्भेदोमूर्ध्नींरावणमायया ॥ ४२ ॥
अतश्च ।
लङ्कावीरस्य मायाचयचतुरमतेर्मैथिलीनाथचापव्यापारोद्वान्तबाणव्रणनधृतरुषः स्वां प्रतिज्ञां विवक्षोः।
____________________________________________________________________
*देव प्रेक्षस्वप्रेक्षस्व निबिडभ्रुकुटीकोटिकुटिलललाटपट्टानि जरठदंष्ट्रादण्डवरनिष्ठुरदष्टाधरोष्ठानि रभसनिस्सरदीर्घहुंकारदारुणनासावंशविवरान्तराणि रामशरधाराधोरणीभिश्चतुर्दिशं झटिति निपतन्ति च्छिन्नविवर्णानि लङ्केश्वरशिरांसि
।
_______________________________________________________________
ग्रीवागर्भप्रणालीसरणिसमुचितैकैकवर्णक्रमेण ।
च्छिन्नोद्वित्रैर्मुखाब्जैः कथमपि हि गिरामेतिप ङ्क्तिःसमाप्तिम् ॥४३॥
कर्णं दत्त्वा आकाशे किमाह रामभद्रः। प्रतिकूलं हि दैवं स्वारब्धमपि कार्यं विपर्यासयति तथाहि ।
शत्रुध्वंसः किल जनकजासंगमस्यैकहेतु-
स्तेनारब्धं दशमुखवधाडम्बरं राघवेण ।
छिन्नंछिन्नंपतति च शिरो जायते चान्यदन्य-
ल्लङ्काभर्तुस्तदिह करवै हा कथं मन्दभाग्यः ॥ ४४ ॥
पुनराकाशे । किमाह रावणः हंहो राम किमलीकशिरःखण्डनाडम्बरेण विडम्बयस्यात्मानं क्व पुनः स्वेच्छाजन्मनां रावणावयवानां विच्छेदः।
पुनराकाशे किमाह रामः। रावणायं मे प्रीतये भवज्ज
म्भकभावः। तथाहि ।
यन्मूलतो दशशिरांसि भवन्ति यच्च
च्छेदेषु तानि शतशोऽथ सहस्रशश्च ।
तत् साधु राक्षसपते कथमन्यथाऽय-
मुत्सृज्यतां जनकजाहरणापवादः ॥ ४५ ॥
पुनराकाशे किमाह रावणः। आः क्षत्रियखेट कापटिकतापस धनुरारोपणसमयप्रथमगृहीतां सीतामभिलषन्नुपपतिरिव शीर्षच्छेद्योऽसि ।
पुनराकाशे किमाह रामः। रेरे पिशाचापसद ।
रम्भोपभोगरभसेन निरर्गलोऽसि
नो मैथिलीहरणनामसहोऽपि रामः।
नन्वस्मि भास्करकुलप्रभवो द्युभूषा
पूषा स एव हि निजान्वयकर्मसाक्षी ॥ ४६ ॥
तदित्थमभिदधानमपवित्रं वक्त्रमितो निर्विशतु ते शुद्धिम् ।
क्षारणः - विभाव्य संत्रस्य च । किमपि निरुपमानं राघवकोण्डपाण्डित्यमसदृशाकारश्च पौलस्त्यपुरुषकारः। यतः।
छिन्नं शिरो निपतदन्तरतस्तदेत-
दादाय देव निजमेव दशाननेन ।
मुक्तं च वक्षसि ककुत्स्थकुलध्वजस्य
जातश्च कुड्मलितपङ्कजचारुचक्षुः ॥ ४७ ॥
दशरयः - हा वत्स रामभद्र कतरदिदं प्रहरणं यदमुनापि मूर्च्छितोऽसि ।
**पुरंदरः -**सखे दशरथ रामभद्रं प्रति कृतं करुणावाणीभिर्नन्वेष सकलवीरप्रकाण्डचन्द्रचूड-कोदण्डस्य दलयिता ।
चारणः - कर्णं दत्वा आकाशे किमाह रामः। तदवयंवान्तरच्छेदपुरःसरं शिरः खण्डनकर्म विरचयामि मा कश्चन नियतप्रतिबन्धो मायाविधिः स्यात् ।
चारणः - न केवलमभिहितमनुष्ठितं च पुनराकाशे कर्णंदत्त्वा किमाह रामः।
छिन्नोद्गतो वहति कार्मुकमस्य मुष्टि-
र्लूनोदितः शरवरं च करो बिभर्ति ।
कृत्तोत्थितं च मुखमर्पितदृष्टि लक्ष्ये ।
धिक् तन्ममैष विफलोऽम्बुधिसेतुबन्धः ॥ ४८ ॥
दशरथः - सद्यश्छिद्यमानमुण्डमण्डलीमायाप्रपञ्चवञ्चितराघवशरलाघवमनच्छमवगच्छन्नेष विंशत्यर्धकन्धरो दुर्धरधनुर्धरोऽत्युच्चण्डचित्रकवचसज्जनिजशरीरसहस्रनिर्माणच्छद्मकर्मणि परां प्रवीणतामुपदर्शयति तन्नविम्दः किमत्र प्रतिपत्स्यते रामभद्रः।
पुरंदरः - यत् कुलाचलसंदोहदहनकर्मणि भगवान् कालाग्रिरुद्रः।
चारणः - ससंभ्रमम् । यदादिशति त्रिदशचक्रवर्ती पश्य ।
यावन्तो भुवि चाम्बरे च ककुभां कोणोपकोणेषु च
व्यावल्गन्ति धनुर्धराः कवचिनो मायामया रावणाः।
रामः स्वर्गजनाशिषां पदमसावेकोऽपि कोपोद्धत-
स्तावद्धाप्रतिवक्त्रयोजितशरश्रेणीभिरालक्ष्यते ॥ ४९ ॥
दशरथः - अद्य फलितं मे पुरंदरप्रसादेन यत् समरसीमनि वत्सरामभद्रं दशाननादुत्कर्षवन्तं पश्यामि ।
चारणः - कर्णं दत्त्वा आकाशे किमाह रामः। भवतु भगवतः कुशिकनन्दनाज्जृम्भकास्त्रप्रदानप्रसंगोपात्तं मायाहरमस्त्रं संदधामि ।
चारणः - सम्यगवलोक्य । दशरथं प्रति महाराज कारय चक्षुषी पारणं दृश्यतां द्रष्टव्यम् ।
मायाहरशरन्यासादेष नक्तंचरेश्वरः
एकशेषशिराः संप्रत्येकशेषो रथे स्थितः ॥ ५० ॥
सर्वतोऽवलोक्य । रावणभयशरणागतसमग्रनाकिनि पिनाकिनि त्रिभुवनस्वस्त्ययन-निमित्तमुदाहृतब्रह्मणि ब्रह्मणि निरन्तरचिन्तानिश्चेतसि प्रचेतसि संभावितजगन्नाशे कीनाशे समुपालब्धविधौ भगवति विधौ परिम्लायति रिपुग्रामनिधनदे धनदे दूरोत्क्षिप्तरणे समीरणे विगलितवसौ विभावसौ दुरपत्यजनननिन्दितपुलस्त्येऽगस्त्ये कल्याणमनुध्यायति ध्यानचक्षुषि
मुनिवरिष्ठे वशिष्ठे गायति साम विश्वाम्बुजविकाशमित्रे विश्वामित्रे भयालापस्फुरिताधरे विद्याधरे निर्वाणोद्यतचारणहाहारवमुखरवृन्दारकवृन्दं भुवनाभोगं विदधता जीवितनिरपेक्षेण राक्षसराजेन निजस्यन्दनं सविधीकृत्य समुद्भ्रान्तसारथिर्दाशरथिरथः सपदि दोर्दण्डमण्डलेन धूर्बन्धे विधृतो भ्रामितश्च ।
दशरथः -
साकूतं प्रणम्य ।
भगवत्यो रघुकुलदेवता दशरथमनुगृह्णीत भगवन्निन्द्र गृहाण दम्भोलिमम्भोधरलाञ्छनं धनुर्वा नन्वेष कवलीक्रियते रामचन्द्रो रावणराहुणेति मूर्च्छति ।
पुरंदरः -
प्रियवयस्य किमाकुलोऽसि कियत्कालं जलदतिरस्करिणी मार्त्तण्डमण्डलमन्तरयति ।
दशरथः -
ससंभ्रममवलोकयन् हस्तमुद्यम्य समरसुन्दर पुरंदर पश्यपश्य ।
वत्सस्य साश्वः साक्षश्च सचक्रध्वजधूर्युगः।
व्योम्निभ्रमरकभ्रामं भ्राम्यतेऽनेन हा रथः ॥ ५१ ॥
इति पतति ।
पुरन्दरः - अये किमपि महाबलपराक्रमो राक्षसराजः।
चारणः - कियद्वावर्णनमर्णवस्यायं मकरालय इति ।
वेल्लद्विद्युल्लतालीच्छुरितपरिकरैरम्बुदैर्वान्तवार्भि-
र्दिव्यानां व्योमयानैर्भयचकितवधूवमुक्तार्तनादैः।
लङ्केन्द्रेणाग्रहस्तभ्रमितरथपथप्रस्थितैस्तारकाणा-
मुत्तालैश्चक्रवालैरिव च विरचिता वक्त्रनीराजनश्रीः ॥५२॥
नेपथ्ये कलकलानन्तरम् ।
यद्वक्त्राणां दशानामिव दश ककुभः शासितुं सृष्टिरासी-
द्विंशत्या यश्च दोर्भिर्दशगुणितमिव प्राप्तवान् वीरधर्मम् ।
लङ्केन्द्रः संयतेन्द्रो रणभुवि दशभिर्मैथिलीवल्लभेन
ज्योतिर्दीप्तैः क्षुरप्रैः स खलु विरचितो निर्विबन्धः कबन्धः॥ ५३॥
दशरथः - आकर्ण्य । कः पुनरयमकारणबन्धुः श्रवणामृतवर्षिणां वचनेनास्मानाश्वासयति ।
चारणः - नेयमाश्वासना किं पुनर्विभीषणप्रियकरणाय लङ्कावैतालिक एष निवेदयति ।
दशरथः - तत् किमिव नेदं सहस्रचतुषापि भगवता नयनाज्जलिपुटपेयीकृतम् ।
चारणः। शृणु यथा ।
यावल्लोलाक्षचक्रध्वजहरितरलालातचक्रायमाणं
भूगोलास्फालहेतोर्भ्रमयति नभसि स्यन्दनं राक्षसेन्द्रः।
दोर्दण्डैश्चण्डवेगोद्धृतहरगिरिभिः
दशरथः - किंचिदुत्थाय सुप्रपाता रावणकरान्दोलितस्यन्दनभ्रमणभङ्गिस्तद्धारय धारय वत्सम् ।
चारणः - सहर्षम् । द्राक् क्षुरप्रेण तावत्
तस्यैवाकर्ण्य वाणीं दशममपि शिरश्चिन्नवान् नाम रामः ॥ ५४ ॥
पुरंदरः -
विहस्य शङ्के भवत एव शब्दवेधित्वं शिक्षितमभ्यस्तं च रामभद्रेण किं पुनरुपाध्यायादधिकः संवृत्तः। विमृश्य । तदेतदुद्दामरामक्षुरप्रप्रवेशिनो ब्रह्मास्त्रस्य भूर्भुवः स्वस्त्रितयडामरं सूदितदशकन्धरमदं भद्रमाजृम्भितम् ।
दशरथः - तत् प्रियं नः।
चारणी - ता किन्नपडुपडहझल्लरीविदुरिल्लं सर्वसकंसतालमिस्सं णिस्संखसंखं भूरिभेरीविपंचीपवंचभंकारझंकारभंगिंगभ्भिणीकुसुमवरिसपुव्वं अणवच्छिण्णमप्फालिदो देवदाहिं विजअदुंदुही197 * ।
चारणः -
शृणु यथा ।
हेलाखण्डितचण्डहेमहरिणैर्बाणैः कुलं रक्षसां
शेषीभूतबिभीषणं गुणनिधौ कृत्वापि रामे स्थिते ।
प्रत्युज्जीवनशङ्कया यमजितो लङ्कापतेः कातरै-
र्नो मुक्ताः कुसुमस्रजो न च सुरैरास्फालितो दुन्दुभिः ॥ ५५ ॥
नेपथ्ये ।
बाणैर्लाञि्च्छतकेतुयष्टिशिखरो मर्च्छानमत्सारथि-
र्मांसास्वादनलुब्धगृध्रविहगश्रेणीभिरासेवितः।
रक्षोनाथमहाकबन्धपतनक्षुण्णाक्षदण्डो हयै-
र्हेषित्वा स्मृतमन्दुरास्थितिहृतैर्लङ्कां रथो नीयते ॥ ५६ ॥
**पुरंदरः -**सखे दशरथायमनन्यसदृशाकारो रामभद्रपुरुषकारः। अतश्च ।
निर्दग्धत्रिपुरेन्धनोऽस्तु गिरिशः क्रौञ्चाचलच्छेदने
पाण्डित्यं विदितं गुहस्य किमु तावज्ञातयुद्धोत्सवौ ।
लूत्वा पङ्कजलावमाननवनं चैतस्य लङ्कापते-
र्वीराणां चरिताद्भुतस्य परमे रामः स्थितः सीमनि ॥ ५७ ॥
चारणः - विहस्य । अवगतदशकन्धरवधैर्विबुधैरिदानींसत्वरैर्दाशरथौ हर्षपुष्पवर्षमारभ्यते । नेपथ्ये ।
सर्वा गीर्वाणवन्द्यो व्रजत निजगृहान् बन्धुमाधोरण द्राक्
स्वर्गेभस्तम्भशालां नय सुरकरिणं यामिका यातदेवाः।
भूयो दिव्यद्रुमाणां ननु भवतु वने नन्दने संनिवेशो
द्वारि क्षिप्तं यदैन्द्रे दशवदनशिरः किङ्करैरन्तकस्य ॥
**चारणः -**नाकनरलोकनायकौ दिष्ट्यावर्धेथे पुरंदरप्रतीहारवचनेन अपरिक्षतेन च रामशरीरसौन्दर्येण । तथाहि ।
रणरसिकसुरस्त्रीमुक्तमन्दारदामा
स्वयमयमवतीर्णो लक्ष्मणन्यस्तहस्तः।
विरचितजयशब्दो वन्दिभिः स्यन्दनाङ्का-
द्दिनकरकुललक्ष्मीवल्लभो रामचन्द्रः ॥
इति निष्क्रान्ताः सर्वे रावणवधो नाम नवमोऽङ्कः ॥
॥ अथ दशमोऽङ्कः ॥
<MISSING_FIG href="../../../books_images/U-IMG-169180978422.png"/>
अतः परं राघवानन्दो भविता।
ततः प्रविशति सशोका लङ्का।
**लङ्का -**हा दुद्धरतवविसेसपरितोसिदारविन्दासण तिहुअणेक्कमल्ल दसकण्ठ हा हेलाबन्दीकदमहिन्द मेहणाद हा समरसंरम्भसुप्पसण कुम्भकण्ण क्कहिंसि देहि मे पडिवअणम्198।
प्रविश्य सत्वरा अलका । पुरोऽवलोक्य कथमियं लङ्काऽस्तमितेऽपि सच्चरितकुण्ठे दशकण्ठे दुःखिता । विमृश्य । परिपालना हि भृत्यान् स्वामिनः स्मारयति न गुणग्रामः। प्रकाशम् । सखि लङ्के वलीमुखबलबलात्कारमाकर्ण्य निखिलनाकतलतिलकायमानयाऽमरावत्या मर्त्यमण्डलशौण्डया चोज्जपिन्यारसातलभोगभङ्गिभूतया च भोगवत्या तदनुचरेण च त्रिभुवनवासिनाऽपि पुरीचक्रेण कुशलप्रश्नाय भवतीं प्रति प्रहिता । अहं च सखीस्नेहादागतास्मि ।
छिन्नान दिव्यतरवस्तव काचिदारात्
कच्चिद् भृता न परिखाः कनकाम्बुजिन्यः।
प्लुष्टानिकच्चन न रत्नमहागृहाणि
कच्चिन्नकाञ्चनमयो दलितश्च सालः ॥ १ ॥
लङ्का । सवाक्स्तम्भम् । सहि केलासुच्छङ्गसिणि कुबेरसच्चरिदे देवणिलये अलए किं णाम न संपरणणं तथा अ तेण केसरिकलत्तसंभवेण समीरसंभूदेणवाणरेण सुउमारकामिनीकरअलकोमलेहिं किसलयेहिं लाडललणाहरोठ्ठमज्जिठ्ठेक्कसुभ-अकुसुमत्थवएहिं बन्दीकदसुरसुन्दरीचरणप्पहारदोहलअसंकन्तालत्तअलंछिदेहिं उक्खबन्धेहिं लीलामन्दिरं माअरध्धअस्स कुलभवणं मलअमग्गपट्टिणो दक्खिणासमीरणस्स विस्मामठ्ठाणं हिअअस्स पठमणिलओ णिच्चं वसन्तस्स पेरन्तनिवेसिदकप्पपाअवप्पहुदिपंचविहदेवद्दुमा असोअवणिया सव्वा संचुणिणआपात्रालपरिचुंबी परिहापरिक्वेवोवि त्थलत्थिद्धिं लंभिदो अविच्छिण्णसंचरणचदुरेणवि मत्तण्डमण्डलेण अलङ्घणिज्जं कणअपाआरचक्कंसुमरणसे संपादिदं मणिभवणविध्धंसणदंसणे उण शिक्करुणस्स वि जाणस्स किं भणिअदि असुधाराधोरणी किं उण सिणोहमइं पित्रसहिं समासइअप्पाणपरिच्चअणववसाएहिं विरइदह्नि *।
अलका - सखि धर्मजेतरि भीषणविभीषणो विभीषणोविनेतरि तत्रभवती किं सशोकशङ्कुरेव तविधिनाथपूर्ववल्लभे लङ्के विरमन्तु मध्यस्थगितैकावलीकल्पा बाष्पजलकणाश्रेणयः। विरज्यतु च जरठ काञ्चनारकुड्मलकोटिपाटला दृष्टिः। धौतमाञ्जिष्ठपटच्चरदीनाधरमुद्रा समासादयतु स्वां लक्ष्मींलघुभवन्तु च प्रमाणानुकृतमृणालदण्डाःश्वासदण्डाः।
**लङ्का -**जं तिणेत्तमित्तस्स णाअरो भणदि199 ।
नेपथ्ये ।
रुद्राणि लक्ष्मि वरुणानि सरस्वति द्यौः
सावित्रि धात्रि सकलाःकुलदेवताश्च ।
शुध्यर्थिनीविशति शुष्मणि रामरामा
तत्संनिधत्त सहसा सह लोकपालैः ॥ २ ॥
____________________________________________________________________________________
*
सखि कैलासोत्सङ्गवासिनि कुबेरसच्चरिते देवनिलयेऽलके किं नाम न संपन्नं तथा च तेन केसरिकलत्रसंभवेन समीरसंभूतेन वानरेण सुकुमारकामिनीकरतलकोमलैः किसलयैर्लाटललनाधरोष्ठमञ्जिष्ठैकसुभगस्तबकै र्बन्दीकृतसुरसुन्दरीचरणप्रहारदोहदकसंक्रान्तालक्त-कलाञ्छितैर्वृक्षबन्धैर्लोला मन्दिरं मकरध्वजस्य कुलभवनं मलयमार्गप्रवर्तिनो दक्षिणसमीरणस्य विश्रामस्थानं हृदयस्य प्रथमनिलयो नित्यं वसन्तस्य पर्यन्त निवेशितकल्पपादपप्रभुतिपञ्चविधदेवद्रुमाऽशोकवनिका सर्वासंचूर्णिता पातालपरिचुम्बी परिखाप्रतिक्षेपोऽपि स्थलस्थितिं लम्भितोऽविच्छिन्नसंचरणचतुरेणापि मार्तण्डमण्डलेनालङ्घनीयं कनकप्राकारचक्रं स्मरणशेषं संपादितं मणिभवनविध्वंसनदर्शने पुनर्निष्करुणस्यापि जनस्य किं भणयतेऽश्रुधाराधोरणी । किं पुनः स्नेहमयीं प्रियसखीं समासाद्यप्राणपरित्यजनव्यवसायेभ्यो विरताऽस्मि ।
_______________________________________________________________
लङ्का - आकर्णितकेन किं उणविसुद्धिकारणम्200 ।
चालका - राक्षसगृहवासः किल । विचिन्त्य । विहस्य च ।
कालुष्यहेतुर्वैदेह्या न राक्षसगृहस्थितिः।
ध्वान्तबन्दीकृताऽपीन्दोर्न कला जातु नीलति ॥ ३ ॥
लङ्का - ता एहि गदुअपेक्खवह्न201।
अलका - कुबेरप्रसादादिहस्यैव दिव्येन चक्षुषा पश्यामि ।
लङ्का - ता ममावि पिअसही णिवेइदु 202।
अलका - इयं रामराणी स्वाहावल्लभे भगवत्यात्मानमाहुतीकुर्वाणाकुररीव करुणाक्रेङ्कारकातरया गिरा देवीवाचमभिसंधाय स्तौति विशुद्धिकारणं च ब्रूते ।
लङ्का - किं विश्र सुणावेदु203§202 ।
अलका-
यद्गीर्वाणाः क्रतुबलिलिहो यत्स्मरश्चित्तजन्मा
सीमोन्मायी न च यदुदधिर्जुव्हते यच्च विप्राः।
यः कृत्स्नस्यप्रलयदिवसो ये च ये च प्रकाशाः
कृत्स्नःसोऽयं जयति महिमा पावकः पावकस्य ॥ ४ ॥
किञ्च।
मित्रं मन्त्री गुरुः शिष्यः स्वामी भृत्यश्च मे सदा ।
राम एव यथा नान्यस्तथा मां पातु पावकः ॥ ५ ॥
लङ्कां प्रति नातः परमवज्रहृदयैः श्रोतुं द्रष्टुं च शक्यते ।
लङ्का - तं भणिअंजणअणन्दिणीए जेण रावणप्पदीणं वि दलिआइं हिअआइंगअणङ्गणादो वि बाहबिन्दुसंदोहा णिवडन्ति । तदोतदो204
_(*)
।
अलका - ततश्च ।
वह्निर्ज्वालाः सृजति कियतीर्जानकी किं विधत्ते
कीदृक् छाया रघुपतिमुखे कर्म किं लक्ष्मणस्य।
इत्थंयावद्विमृशति जनः कौतुकोत्तानिताक्ष -
स्तावच्छन्नं गगनमखिलं द्योतमानैर्विमानैः ॥ ६ ॥
ततश्च ।
सीतामुदीक्ष्य सुमुखींशिखिनः प्रवेशे
मुक्तास्तथा सुमनसः सुरसुन्दरीभिः।
स्त्रग्विक्रयःसकलखेचरमालिकानां
जातो यथा चिरतरं त्रिदिवे महार्घः ॥ ७ ॥
ततश्च । प्रोद्घुष्टमरुन्धतीप्रभृतिभिरन्तर्हिताभिः पतिव्रताभिः।
यत्पौलस्त्यगृहोषिता प्रविशति त्वां देव शुद्ध्यर्थिनी
सीतेयं प्रथमा सतीषु कुरु तज्ज्योतिर्जलार्द्राजडम् ।
धर्मम्लानमृणालकाण्डमृदुलान्यङ्गानि दग्धानि चे-
देतस्याः क्व नु शोधकोऽपि भगवन् संशुद्धये यास्यसि ॥ ८ ॥
**लङ्का -**अहो देवदाणं वि सीदापक्खवादो अथवा सव्वोगुणेसु रज्जदि ण सरीरेसु205 ।
**अलका -**अहो खलु भोः पतिव्रतामयं ज्योतिरनभिभवनीयं ज्योतिरन्तरैः। यतः।
प्रविशन्त्या चितावक्त्रंजानक्या परिशुद्धये ।
भेदः कोऽपि न निर्णीतः पयसः पावकस्य वा ॥ ९ ॥
हाहा किमपि निष्करुणचेता हिरण्यरेताः।
विशुद्धये प्रविष्टाऽसौ वैदेही हव्यवाहनम्।
अभ्रंलिहानां ज्वालानां चक्रेण च त्तिरोहिता ॥ १० ॥
**लङ्का -**कंकेल्लिकेलिकाणणदहणो शिक्करुणाणं पढमोदाहरणं हुदवहो । अलकां प्रति तदोतदो206 ।
अलका **-**सखि लङ्केअतिक्रान्तासु च कतिपयीषु कालकलासु।
वह्नेः शुद्धिविधायिनो भगवतस्तेजोभिरत्युद्धतै-
रम्लानामनसूयया विरचितां मौलिस्रजं बिभ्रती ।
पादाङ्गुष्ठनखाग्रदत्तनयना नीरन्ध्रविन्यासत-
स्तोकालक्ष्यमुखी चितावलयतो द्राङ् मैथिली निर्गता ॥ ११ ॥
नादौ न मध्ये नान्ते च सीताया हव्यलेहिनि ।
शुद्धस्येव सुवर्णस्य जातो वर्णविपर्ययः ॥ १२ ॥
**लङ्का -**अणुचिदआरी हुदवहो जं जणअतणसुद्धिकारणं भोदि207।
अलका - सखि सर्वाङ्गहिरण्मयि यथा ।
शुध्धायाः क इवात्र शोधनविधिः स्वःसैन्धवीनामपां
पूतानां परिपूतये किमपरं तत्ते सखी मन्यते ।
लावण्यामृतसारणीसरणिभिर्निर्वाणरोचिर्लतो
निर्दग्धुं कलयाऽपि हन्त न शिखी शक्तोऽभवन्मैथिलीम् ॥ १३॥
नेपथ्ये ।
योगीन्द्रश्च नरेन्द्रश्च यस्याः स जनकः पिता ।
लङ्का - ता किं तिस्सं208 ।
नेपथ्ये ।
सा शुद्धा रामगृहिणी वह्नौदशरथस्त्रुषा ॥१४ ॥
ततश्च ।
बद्धः सेतुर्लवणजलधौ क्रोधवह्नेःसमित्वं
नीतं रक्षःकुलमधिंगताः शुद्धिमन्तश्च दाराः।
तेनेदानीं विपिनवसतावेष पूर्णाप्रतिज्ञो
दिष्ट्याऽयोध्यां व्रजति दयिताप्रीतये पुष्पकेण ॥ १५ ॥
तद्भोः प्लवङ्गयूथपतयःसर्वेगोलाङ्गुलसेनानायका निःशेषाच्छभल्लचमूपालकाश्च महाराजसुग्रीवो वः समाज्ञायपति यदुत सज्जीभवन्तु भवन्तस्त्रिभुवनैकमङ्गलकलशेन रघुवंशमुक्तामणिना क्षात्रधर्मरक्षाविधिसिद्धमन्त्रेण रामदेवेन सममयोध्यां गन्तुम् ।
संप्रेषितश्च हनुमान् भरतस्य पार्श्वं
लङ्काङ्गनाचकितनेत्रनिरीक्षितश्रीः।
यात्येष वारिनिधिलङ्घनदृष्टसारो
राज्याभिषेकसमयोचितकार्यसिद्ध्यै॥ १६ ॥
अलका - तदावामपि रामभद्रदर्शनसुखमनुभवाव इति निष्क्रान्ते । विष्कम्भः।
ततः प्रविशतो विमानयानेन रामलक्ष्मणौसीतात्रिजटे सुग्रीवविभीषणौ च ।
रामः - सीतां प्रति ।
यत्सख्युः शशिशेखरस्य धनदाल्लङ्केश्वरेणाहृतं
तन्मन्याच्च विभीषणे परिहृतं दत्तं च तेनाऽपि नः।
किञ्चिन्न्यञ्चितकन्धरेणशिरसा धृत्वा प्रसन्नां दृशं
तद्भक्त्याललिताङ्गि पुष्पकमिदं वन्दस्व मोदस्व च ॥ १७॥
सीता वन्दते ।
रामः - पश्चादवलोक्य ।
यस्यामजर्जरितचन्द्रिकमर्कपादै-
स्त्रासान्निशाचरपतेरुषसि व्यभासि ।
व्यावर्त्य वक्त्रकमलं कमलाति पश्य
लङ्केति तां नवविभीषणराजधानीम् ॥ १८ ॥
सीता - अवलोक्य । एसा सा विणआणन्दणसमाणीदमेरुमहाजम्बूसाहासमुप्पण्णा सुणीअदि209 ।
**रामः -**आम् । मैथिलि एवं पुराविद आचक्षते पुरो दर्शयन् ।
अग्रेविलोकय कृशाङ्गिकुतूहलेन
दत्त्वा दृशं तरुणकेतकपत्रदीर्घाम् ।
नानास्त्रमन्त्रणपरं कपिराक्षसानां
युद्धं कचाकचितलातलि च प्रवृत्तम् ॥ १९ ॥
अन्यतो दर्शयन् ।
अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवद्देवरे
गाढं वक्षसि ताड़िते हनुमता द्रोणान्दिरत्राहूतः।
दिव्यैरिन्द्रजिदत्र लक्ष्मण शरैर्लोकान्तरं लम्भितः
कोनाप्यत्र मृगाक्षिराक्षसपतेः कृत्ता च कण्ठाटवी ॥ २०॥
**सीता -**विहस्य अज्जउत्तो जाणदि को उण एसो210।
रामो लज्जते । सर्वे स्मयन्ते ।
सुग्रीवः -
लङ्केन्द्रानुजएष मैथिलि महान् योऽयं कबन्धः पुरो
वारां भर्तरि शैलसेतुरपरः प्रोतो यथा राजते ।
निद्रालोरतितुन्दिलस्य खलतेः तीबस्य घोणासृजा
मोघेनास्य भयस्पृशोऽपि निभृतं स्वर्वासिनो हासिताः ॥ २१ ॥
सीता - अज्जउत्तेण देवा वि पहसणणट्टं
पेक्खाविदा211 ।
रामः - किञ्चित्स्मित्वा पूष्पकं प्रति हंहो विमानराज विमुच्य वसुधासविधवर्तिनींगतिं किञ्चिदुच्चैर्भव कुतूहलिनी जानकी दिव्यदर्शनव्यतिकरस्य ।
ऊर्ध्वगतिनाटितकेन ।
रामः -
यथायथा रोहति बद्धवेगं
व्योम्नः शिखां पुष्पकमानताङ्गि ।
महाम्बुधीनां वलयैर्विशालै-
स्तथातथा संकुचतीव पृथ्वी ॥ २२ ॥
सीतां प्रति सुरचारणकिन्नरविद्याधरसंकुलं गगनमार्गमीक्षतां मैथिली।
प्रविश्य विद्याधरः। रामभद्र महेन्द्रादेशादेष रत्नशेखरो विद्याधरकुमारस्ते दिव्यचरितं व्यनक्ति।
रामभद्रः - अहो महान् प्रसादोऽस्मासु देवराजस्य।
रत्नशेखरः - सीतां प्रति ।
बन्धे वारिनिधेः कृतेऽपि गिरिभिः सोढः शिरोमण्डल-
च्छेदो राक्षसपुङ्गवेन समरे यस्याः किमन्यत्स्कृते।
कीदृक् सा जनकात्मजेति रभसाद्विद्याधरैर्द्वन्द्वशः
पाणिच्छन्ननिवारितार्ककिरणैस्त्वं कौतुकाद् दृश्यसे ॥ २३ ॥
सीता - अपवार्य।
विद्याधराः सहचरीचतुरोक्तिमार्गे
रागस्पृशो गगनगर्भयथेष्टचेष्टाः।
निस्तल्पमल्पसमयं निबिडाभ्रखण्ड-
कुड्यान्तरेष्विह रताद्भुतमाद्रियन्ते ॥ २४ ॥
**रामः -**प्रिये पृथ्वीपुत्रि नीरन्ध्रबन्धमपि वारिवाहव्यूहं द्विधा विधाय पुष्पकं प्रवर्तते विलोक्य विहस्य ।
क्षिप्तं त्वया काञ्चनकान्तिदाम
यन्मत्तवारणमुपेत्य कुतूहलिन्या ।
तेनामुना जलधरोऽयमरालकेशी
सद्यस्तडिद्वलयवानिव पश्य जातः ॥२५॥
अपि च ।
हस्ते त्वया हारिणि हारयष्टिभि-
र्विमानवातायनतःकुतूहलात् ।
कृते विदध्यात्सदृशीं प्रतिक्रिया-
मितीव धाराम्बु घनो निरस्यति ॥ २६ ॥
सीता - अज्जउत्त किं उण एदंकरिदन्तच्छेदपण्डुरं पुष्वपच्छिमसिन्धुबन्धोभअपेरन्तं तदुत्तरदिसाकुहरपूरणधुरन्धरं दीसदि212 ।
**रत्नशेखरः -**जनकनन्दिनि किमत्र रावणारिणा रत्नशेखरं पृच्छ हिमालयः खल्वयम् ।
सीता - किं जो सो विन्दारअविन्दवन्दिदरुद्दचरणपडिबिम्बचुंबिदसिलुच्छङ्गो गङ्गासोत्तसीमन्तिदणिअंबो हेरम्बदन्तमुसलुल्लिहिदमेहलाबन्धो णिवडिदहरवुसहवरखुरखण्डिदधरणिवट्टो चित्तसिहण्डिमण्डलावचिदमन्दारकुसुमप्पसरो गोरीगुरुत्ति णिव्विध्यमहघ्घिदो सुणीअदि +।
**रत्नशेखरः -**स एवायम् ।
__________________________________________________________________
+
किं य एष वृन्दारकवृन्दवम्दितरुद्रचरणप्रतिबिम्बचुम्बितशिलोत्सङ्गो गङ्गास्रोतःसीमन्तितनितम्बो हेरम्बदन्तमुसलोलिखितमेखलाबन्धो निपतितहरवृषभत्ररखुरखण्डित धरणिपृष्ठश्चित्रशिखण्डमण्डलावचित-मन्दारकुसुमप्रसरो गौरीगुरुरिति निर्विघ्नमहार्घितः श्रूयते ।
_______________________________________________________________
श्रीकण्टश्वशुरः स एष भगवान् मेनापतिः पर्वतः
पुत्रीवानुमया पुरः किमपरं हेरम्बमातामहः।
यस्यायं महिमा यदत्र शमिनः श्यामाकमुष्टिंपचाः
स्वास्वेवाश्रमभूषु दिव्यवपुषः क्रीडन्ति कामाज्ञया ॥ २७ ll
अपिच।
स्त्रीणां जन्ममहातरोःकिमपरं सौभाग्यलाभोत्सव-
स्तत्प्राप्तेरधिदैवतं गिरिसुता साप्यस्य कुञ्जान्तरं ।
एकाङ्गुष्ट निपीडितक्षिति तपस्तप्त्वासहस्रं समा-
श्चन्द्रापीडशरीरसंविभजनप्रेमाणमापद्यत ॥ २८ ॥
**सीता -**अज्जउत्त इधज्जेव अध्धनारीसरी हरो संवृत्तो213 ।
रत्नशेखरः - आं वासुन्धरेयि।
अत्रोढायां गिरिदुहितरि प्रीतिमानिन्दु मौलिः
प्रेमावेशाझ्झटिति भगवानर्धनारीश्वरः सन्।
मन्दं देवैः प्रणतचरणःप्रत्यभिज्ञानलेशा-
द्वामे पाणी तदितरकर ताडयित्वाजहास ॥ २८ ॥
रामः - किमुच्यते सर्वाश्चर्यनिधानं हि नीहारमहागिरिः।
रत्नशेड्खरः - यथाज्ञातं विराधविध्वंसनेन ।
अस्मिन्नूढामृडानी द्युसरिदिहधृता दन्तिदैत्योऽत्र भिन्न-
श्छिन्नं ब्राह्मं शिरोऽस्मिन्निहगुरुनिधने निर्मिता मातरश्च ।
दृक्श्रोत्रप्रीतिपेयं दलितसुरपुरीदुर्गमद्वारमुद्रं
सिद्धानां पूर्वसिद्धेरिति हरचरितं वर्ण्यते चित्रमत्र ॥ ३० ॥
सीता - इह हिमवन्तमहीहरे चन्दसेहराहिं मअरध्धणिद्दहणं रहुउलमहत्तरीआओ पसंतीओ आसि ता कहिं उण तम्214।
**रत्नशेखरः -**यदिदं निर्मितमिव मरकतमणिमरीचिवीचिभिराच्छादितमिव वंशकरी-रनीलकान्तिभिः परिकल्पितमिवानूरुसारथिरथतुरङ्गमरोमराजिभिरुत्पादितमिव शितिकण्ठकण्ठकमण्डलीमेचकरुचिसंचयैस्तरुभिराश्रमपदं भगवतो वृषभध्वजस्य ।
एतत्सुन्दरि देवदारुविपिनं शैलस्य गौरीगुरो-
रस्मिन् वासवशासनेन रहयन् सद्मःसमाधिक्रियाम् l
प्रत्यक्षंगिरिजन्मनः सुरजने स्तोत्राय सज्जाञ्जलौ
रुद्रस्याम्बकपावकेन मदनोवेगादनङ्गीकृतः ॥ ३१ ॥
सीता - परमेसरसरीरपरिक्खिदतिक्खविसिहस्स मअरध्ध अस्स कदमो उणणिवेसो215 + ।
रत्नशेखरः-
एतन्मैथिलि मन्मथाश्रमपदं रत्या स्वयं वर्धितै-
र्लीलाशाखिभिरञ्चितान्तिकमितः केलीशकुन्ताश्रयैः।
शृङ्गारश्च रसो मधुश्च समयो देवश्च ताराधिपो
रागः पञ्चमसंज्ञकश्चललितैस्ते यत्र सिद्धा व्रतैः ॥३२॥
सीता - सकौतुकम् । पुञ्जीकदअज्जउत्तकित्तिसंताणाणुआरी रासीभूदहरट्टहाससरिसनिवेसो पलयाणलपिण्डीकदक्वीरसमुद्रुदुदुक्करपडिरूवो कदरो उण एस महिहरो ।216
**रामः -**रुद्रावासः कैलास इति मे तर्कः।
**रत्नशेखरः -**यथावगतं ताडकाताडनेन।
कैलासः स्फटिकाद्रिरेष भगवानेनं भवानीसखः
सख्यादैलबिलस्य भक्तिजनितान्नित्यं शिवः सेवते ।
किञ्चास्मिचनुमेखलं नखमुग्वच्छेदैः समावेदाते
हेलोत्पाटनपूर्वकालनिहितैर्लङ्कापतेर्विक्रमः ॥ ३३॥
अत्र च ।
कैलासाचलकर्णिकेयमलका नेत्रैकपेया पुरी
देवस्य द्रविणप्रभोः क्रिमपरं शृङ्गारसारस्य भूः।
यस्यामस्तमितेऽद्य राक्षसपतौयक्षाङ्गनानाममी
वर्तन्ते प्रतिचत्वरं प्रतिगृहं प्रत्यापणं चोत्सवाः॥ ३४॥
रामः - पुरोऽवलोक्य कः पुनरस्तमिताखिलककुद्बन्धः सलिलस्कन्धः।
रत्नशेखरः - उत्पत्तिसदनं कलहंसवयसामाकरःकनकारविन्दानां विलासदीर्घिका देवदेवस्य समवगाढतटान्तरसमवमहोष्मणा हेरम्बेण रभसाचान्तवीतवीचिभङ्गं गगनाङ्गणपरिभ्रामिणा चन्द्रहरिणेन लीलालौढसीकरकणं कुलकुलायकारिण-कुमारमयूरेण प्रसारितकराकृष्यमाणार्णस्कं करिमकर-त्रासादौरावतेभसेवितशाद्वलोपकण्ठं नीलकण्ठवृषेण समध्यासितपरिसरं संतानकारण्ये नारायणवराहेण वर्णितवैभवं वैकुण्ठकमठेनाभिलषितगर्भं पद्मनाभमहामत्स्येन नीतनीरं त्रिसन्ध्यमरुन्धतीकराकलितकमलिनी-पत्रपात्रैरानन्दितपुरन्दरमानसं मानसं नाम दिव्यं सरः। सीतां प्रति ।
एतन्मानिनि मानसं सुरसरो निर्लुनहेमाम्बुजं
पार्वत्या प्रियपूजनार्थममुतो गङ्गा सरिन्निर्गता।
अस्माच्चित्रशिखण्डिभिःच परमे पर्वण्युपादीयते
स्नानातीर्णवृषाङ्कभस्मरजसां सङ्गात्पवित्रं पयः॥ ३५॥
**सीता -**को उण एसो णिच्चतरुणतरुमण्डलीचुम्बिदमहाणिअम्बनिवेसो मत्तण्डचण्डेक्करह-चक्कचुम्बणमसिणसुवण्णसिहरो महीहरो दीसदि।217
रत्नशेखरः -
नेत्रं वासुकिरत्र केशवभुजैः संदानितोऽयं पुरा
चक्रुर्बल्लवतां परिभ्रमविधावेतस्य देवासुराः।
मन्याः सोऽयमभूत्समुद्रकलशे तन्नीयतां कौतुका
देष श्रोत्रपरम्परापरिचितो दृग्गोचरं मन्दरः॥ ३६॥
रामं प्रति इतो विषनिष्यन्दिनींविद्वेषिषु प्रसादामृतवीचिर्मालिनींसुहृत्सु निवेशय दृशम् ।
क्षीराम्भाः परितोऽयमर्णवपतिर्जातं मृगाङ्कादिकं
पीयूषावधि रत्नजातममुतः किं चास्य तीरान्तरे।
मुक्त्वा कल्पभृतः स्वयंवरसुरान् सौभाग्यदानाग्रणी-
लक्ष्म्याऽस्मिन् कुसुमावली वरयितुं वैकुण्ठकण्ठेऽर्पिता॥३७॥
रामचन्द्र इतइतोपि दृश्यतां द्रष्टव्यम् ।
यं नित्यं भगवान् प्रदक्षिणयति भ्राम्यत्प्रभाग्रेसर-
ध्वान्त श्रेणिविभक्तवासरनिशाविन्यासरेखं रविः।
धत्ते कां चन काञ्चनश्रियमसौ मेरुर्गिरीणां गुरु-
र्देवैः सार्द्धमधित्यकामधिवसत्यस्यामरग्रामणीः ॥ ३८॥
सीतां प्रति ।
एतां यश्य पुरः सुमेरुशिखरे दम्भोलिपाणेः पुरीं
त्वत्कालोकनकौतुकोत्तरलितैर्व्यग्रांपुरन्ध्रीजनैः।
यस्यास्तोरणगोपुरप्रणयिभिर्नामाङ्कितैर्मार्गणैः
पौलस्त्यस्य विनापि वर्णरचनां न्यस्ता प्रशस्तिः स्थिरा ॥ ३८॥
**रामः -**हंहो पुष्यक इतोऽपि किञ्चिदुच्चैर्भव न तृप्यति चेतो दिव्यदर्शनकुतूहलस्य सर्वे विमानोर्ध्वगतिं नाटयन्ति ।
**सीता -**केअईकेसरपराअपडिरूवो पिक्कघणसारपंसुपसरसरिच्छछवी मुत्ताहलविसद-सोहासण्णिवेसो णिवेसिदाणंदकंदो हिअअस्स कुदो उण एतावंतो जोण्हावित्थरो ।218
**रामः -**मन्ये चन्द्रलोकसमीपे वर्तामहे।
**रत्नशेखरः -**यथाह मारीचहरिणारिः।
सद्मश्चन्दनपङ्कपिच्छिलमिव व्योमाङ्गणं कल्पयन्
पश्यैरावतकान्तदन्तमुशलच्छेदोपमेयाकृतिः।
उन्मीलत्ययमच्छमौक्तिलताप्रालम्बलम्बैःकरैः
कान्तानां स्मरलेखवाचनकलाकेलिप्रदीपः शशी ॥ ४०॥
सीतां प्रति ।
गौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः
सद्मो मार्जितदाक्षिणात्यतरुणोदन्तावदातद्युतिः।
चन्द्रः सुन्दरि दृश्यतामयमसौ चण्डीशचूडामणिः
संबन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरुः ॥ ४१॥
अतः परमगम्या अस्मादृशां भुवः स च ब्रह्मलोक इति भूयते तत्र च किल ब्रह्मर्षिपरिषत्परिवादी परमेष्ठी गरिष्ठं तपस्तप्यते।
रामः -
लक्ष्मींवक्षसि कौस्तुभस्तबकिनि प्रेम्णा करोत्यच्युतो
देहार्धे वहति त्रिविष्टपगुरुर्गौरींस्वयं शङ्करः।
शङ्के पङ्कजसंभवस्तु भगवानद्यापि वाल्यावधेः
सर्वाङ्गप्रणयां प्रियां कलयितुं दीर्घं तपस्तप्यते॥ ४२॥
**सर्वे -**स्मयन्ते ।
**सीता -**भअवं गाअणपुप्फ पुप्फअ संपदं परिणमिअ अंबुरासिलंबी भव जेण त्थिरं जलणिहिजाणपत्तं सीमंतरेहं वारुणीतरुणीए अज्जउत्तप्पआवप्पसरपढममग्गं महासेउबंधं पेक्खह्न *219। विमानावतरणनाटितकेन ।
**रत्नशेखरः -**स्वस्ति रामभद्राय साधयामि सम्प्रति इति निष्क्रान्तः।
**त्रिजटा -**सीतां प्रति। णीलमणिकुट्टिमं विअ वरुणभवणंगणस्स णिग्गममग्गं विअ पाआलतलतिमिरचक्कवालस्स आलवालं विअ भुअणमहामहीरुहस्स गोठ्ठिठ्ठाणं विअ दिसाविलासिणीणं दप्पणं विअ गाअणाभोअस्स महोअहिं पिअसहि पसद्यमाणयसारिअच्छी पेक्ख*220।
लक्ष्मणः -
यत्स्वातः सगरेण मर्त्यसरितं मन्दाकिनींकुर्वता
पूर्णोयच्च भगीरथेन गिरिभिर्बद्धोयदार्येण च ।
तत्ते चित्रविचेष्टितं श्वशुरयोर्भर्तुश्च वारां निधिं
वीक्षस्वैनमधो निधाय नलिनच्छायामुषीचक्षुषी ॥ ४३॥
**सीता -**आदिकंदं लच्छीलदाकंदलीए उदयद्दिं हरचूडाचंदस्स वारीवंधमैरावणस्स महाकलसं पेऊसस्स प्रणमामि भअवंतमुदन्नंतम् ।221
रामः -
धत्ते यत्किलकिञ्चितैकगुरुतामेणीदृशां वारुणी
वैधुर्यं विदधाति दम्पतिरुषां यच्चन्द्रिकार्द्रंनभः।
यत्पीयूषभुजां च मन्मथसुहृन्नित्यं वयः संपदां
यल्लक्ष्मीरधिदैवतं जलनिधेस्तच्चित्रमाचेष्टितम् ॥ ४४॥
लक्ष्मणः -
वह्निंयोऽम्भःसमिद्भिर्ज्वलयति जगतीद्दीपखण्डाति यस्य
स्वादिष्ठा यत्प्रसूतिस्त्रिदशयुवतयः श्रीः सुधा वारुणी च ।
सोऽपि ह्युड्डीनलीनैः शरपतनभयादद्रिभिः क्षुण्णपादै-
र्देवि त्वद्भर्तुराज्ञामिव वहति महाशैलसेतुच्छलेन॥ ४५॥
**सुग्रीवः -**देवि मैथिलि किमपि महिमातिरेकस्त्रिभुवनजयपताकायते भगवतो भागीरथीवल्लभस्य।
या स्त्रीणामधिदैवतं गिरिसुता तत्सोदरः सानुमान्
मैनाको रजताकरः सुतनयः शैलेश्वरो येन सः।
पक्षच्छेदसमुद्यतेन्द्रकुलिशत्रासान्नीलीय स्थितः
सोऽप्येतस्य करालकुक्षिकुहरे पातालजम्बालिनि॥ ४६॥
विभीषणः -
हेरम्बमज्जनविधाविह दानगन्धा-
द्वार्दन्तिनो धुतकरालकरं पतन्तः।
पश्चादुपेत्य सपदि प्रमथैर्ध्रियन्ते
रुद्राङ्कुशैर्विरचिताङ्कुशकेलयोऽमी॥ ४७॥
तिर्यग्विमानगतिनाटितकेन।
**सीता -**अखण्डिताखण्डलकोअंडमंडलपडिरूवो कदरो ठण एसुद्देसो *222।
विभीषणः -
पश्यस्यग्रेजलधिपरिखं मण्डलं सिंहलानां
चित्रोत्तंसं मणिमयभुवा रोहणेनाचलेन।
दूर्वाकाण्डच्छविषु चतुरं मण्डनं यद्वधूनां
गात्रेष्वम्भो भवति गमितं रत्नतां शुक्तिगर्भैः ॥ ४८॥
किञ्च ।
जनश्च वाक्सुधासूतिर्मणिसूतिश्च रोहणः
नान्यत्र सिंहलद्वीपान्मुक्तासूतिश्च सागरः ॥ ४९॥
**सीता -**इह किल भावं अगत्थिमहेसी णिवसदि *।223
**रामः -**इदं हि भगवतो रत्नाधिपतेरधित्यकायामाश्रमपदं धर्माश्रमपदं पुनरग्रे ।
सुग्रीवः -
क्रान्त्वा स्फुटस्फुटितशुक्तिविमुक्तमुक्त-
मम्भोनिधिं विधुतदिक्प्रविभागमेतत्।
प्राप्ता वयं नवरसाज्जनपुञ्जनीलं
कूलं कुलायगशकुन्ततमालमालि॥ ५०॥
सीतां प्रति ।
चटुचटुलनिमीलस्पर्शलीलातिमील
न्नयनयुगमतङ्गारब्धनिद्राविनोदम् ।
शुकहरितनितम्बं पश्य वंशीवनान्तै-
रचलमखिलपृथ्वीमाल्यवन्माल्यवन्तम् ॥ ५१॥
**सीता -**नहिं किल तुह्माणं वासारत्तो अदिक्कितो ।224
रामः -
आं वैदेहि।
द्युतिजितकरवालः सूतवंशीप्रवालः
स्फुटितकुटजमालः स्पष्टनीलत्तमालः।
इह हि गतमरालः केतकालीकराल
शिखरिणि मम कालः सोऽभवन्मेघकालः॥ ५२॥
पुरो दर्शयन् ।
अयं स ते चण्डि शिखण्डिपुत्रको
गिरेस्तटात्तत्क्षणमूर्द्धकन्धरः।
निरीक्ष्य नौ स्नेहरसार्द्रया दृशा
प्रियां पुरस्कृत्य करोति ताण्डवम्॥ ५३॥
**सीता -**पुत्त एहि उड्डिऊण विमानसिहरं समारूह।225
**रामः -**अतिसुमुखा जानकी।
**सुग्रीवः -**सीतां प्रति।
गुणवति फणिवीरून्नद्धूपगप्रकाण्डः
प्रचुरमरिचवल्लीवल्लरीकः पुरस्तात् ।
मलय इह महाद्रिर्नन्दनश्चन्दनाना-
मयमधिलुठदेलाश्लिष्टकक्कोलयष्टिः॥ ५४॥
**सीता -**रणरणअकारणं कामिमिहुणाणं माणिणीमाणगण्ठिणिठ्ठवणो जत्तो किल समीरणो पअट्टदि ।226
**रामः -**देवियथा श्रुतवत्यसि ।
ये दोलाकेलिदानव्यतिकरगुरवो ये लतागर्भकाराः
कोदण्डाभ्यासविद्याविधिषु विजयिनो ये स्मरस्वेदवाराम्।
तन्वन्तश्चैत्रमैत्रं मलयशिखरिणस्ते विनिर्यान्त्यमुष्मादा-
कैलासं समीराः सुरतमहमहासात्तिणो दाक्षिणात्याः ॥ ५५॥
अपि च पुनः पश्य ।
रत्नप्रसूरिति समस्तत्तरङ्गिणीषु
वारां निधेर्भगवतः सुभगं कलत्रम् ।
अस्मिन्चिरन्तरनितम्बिनि ताम्रपर्णी
चक्षुःपथं व्रजतु मौक्तिककामधेनुः ॥ ५६॥
अस्यां पुनरिदं सौभाग्यकारणम् ।
रोधेरेखे चन्द्रनारण्यरूपे
वारि स्वादां नारिकेलाम्भसोऽपि।
यच्चैवान्यः संभवो मौक्तिकानां
तेनाम्भोधेर्वल्लभा ताम्रपर्णी॥ ५७॥
विमानवेगनाटितकेन रामः। पुरोऽवलोक्य ।
दन्तोलूखलिभिः शिलोञ्छिभिरियं कन्दाशनैः फेनपैः
पर्णप्राशनिभिः कुटीचरकुलैः काले च पक्काशिभिः।
नोवारप्रसृतिंपचैश्च परितः पूतं मुनेराश्रमं
पश्यन्ती भव पावना भगवतः पातुर्निधेरम्भसाम्॥ ५८॥
हस्तमुन्नम्य ।
हंहो पुष्पक वायुवेग मुनिना धूमः पुरः पीयते
छायां मा कुरु कोऽप्ययं दिनमणावेकाग्रदृष्टिः स्थितः॥
दूरादत्र भव प्रदक्षिणगतिः स्थाणोरिदं मन्दिरं
किञ्चित्तिष्ठ तपस्विनस्तव पुरो यावत्प्रयान्त्यन्यतः॥ ५८॥
सीता - अज्जउत्त होमोहिज्जंतहुदवहा विवरिज्जंतकथमुत्ता पठिज्जन्तबटुचरणा वण्णिज्जन्तधम्मसास्त्रा उअदिसिज्जंतसमाधिमग्गा वरिवसिज्जंतऋदिहिवग्गा पण्णसालासणिणवेसं अम्हारीसाणां संसारगंठिणठ्ठवणा*।227
**रामः -**प्रकृष्टं हि तपः किमपि कामदुघम् । अग्रतो दर्शयन् ।
एते व्योमनि शोषयन्ति हणित्रासाच्चिरं चीवरे
संध्याचामविधौ कमण्डलुमिमं पश्यन्ति रिक्तं कृतम् ।
भिक्षन्ते च फलान्यमी करपुटीपात्रे वनानोकहा-
नेषामर्घविधौ च सन्निधिगताः पुष्यन्त्यकाण्डे लताः॥ ६॥
समंतादवलोक्य कारय चक्षुषी पारणमवलोकय कुम्भसंभवमुनेराश्रमतरून् ।
स्वाध्यायान्ते बटुपरिषदां येषु विश्रान्तिसौख्यं
लोपामुद्राकरपुटजलैः प्रत्यहं येऽवसिक्ताः।
आगस्त्येऽस्मिन् विधुतरजसामाश्रमे पादपानां
केऽप्युत्कर्षा यदतिथिकृते सर्वकालं फलन्ति॥ ६१॥
**लक्ष्मणः -**अति हि तपस्विसंकए भुवः।
**रामः -**हंहो विमानराज कञ्चिदेकदेशमलङ्कुरु यावदहमग्निमारुतसंभवं मुनिमनुवर्ते । सर्वे विमानावरोहणं नाटयन्ति।
**सुग्रीवविभीषणौ -**देव त्वर्य्यतामेषमैत्रावरुणो विकङ्कततरुतले भगवत्या लोपामुद्रया सममस्मान् वीक्षमाणस्तिष्ठति ।
ततः प्रविशत्यगस्त्यो लोपामुद्रा च।
**अगस्त्यः -**भवति धर्मसुते लोपामुद्रे।
प्रीतिस्निग्धः खेचरैरर्च्यमानो
बिभ्रद्येम्नःसीम्निवैमानिकत्वम् ।
वाक्सत्वाङ्गसमुद्भवैरभिनयैर्नित्यं रसोल्लासतो
वामाङ्ग्यः प्रणयन्ति यत्र मदनक्रीडामहानाटकम् ।
अत्रान्धास्तव दक्षिणेन त इमे गोदावरीस्रोतसां
सप्तानामपि वार्निधिप्रणयिनां द्वीपान्तराणि श्रिताः ॥ ७०॥
किं वा।
हरनेत्राग्निदग्धस्य केतौमकरलक्ष्मणः।
दृष्टिरन्ध्रपुरन्ध्रीणां सज्जा संजीवनौषधिः॥ ७१॥
**विभीषणः -**उभयकूलप्ररूढनारिकेलनिकरक्रमुककुलपालीक्षिप्ता कावेरी सरिदियम् ।
रामः -
कावेरी कबरीव भामिनि भुवो देव्याः पुरो दृश्यतां
पुगैर्नागलताश्रितैरुपदिशत्याश्लेषविद्यामिव।
कर्णाटीजनमज्जनेषु जघनैयस्याः पयः प्लावितं
पीत्वा नाभिगुहाभिरात्तरुचिभिः प्राचीं दिशं नीयते ॥ ७॥
किञ्च।
कर्णाट्यो यत्रयत्रैव विक्षिपन्ति दृशो दिशि ।
विक्षेपाग्रेसरः कामस्तत्रतत्रैव धावति॥ १३॥
**सुग्रीवः -**भरताग्रजायमग्रेमहाराष्ट्रविषयः।
रामः -
यत् क्षेमं त्रिदिवाय वर्त्म निगमस्याङ्गं च यत्सप्तमं
स्वादिष्ठं च यदैक्षवादपि रसाच्चक्षुश्च यद्वाङ्मयम् ।
तद्यस्मिन् मधुरं प्रसादि रसवत् कान्तं च काव्यामृतं
सोऽयं सुभ्रुपुरोविदर्भविषयः सारस्वतीजन्मभूः॥ ७॥
किञ्च ।
रतविद्याविदग्धानां विभ्रमोल्लेखलम्पटः।
नित्यं कुन्तलकान्तानां किङ्करो मकरध्वजः॥ ७५॥
**सीता -**जहिं उप्पणा मे पिदामहससुरस्स घरिणी इंदुमदी *।228
त्रिजटा - संस्कृतमाश्रित्य ।
कीट्टक्केलिकलस्य किल भवति सखी सुखधाम ।
का च सुताशशितिलकस्य विन्ध्यमहीधरधाम॥
सीता - संस्कृतमाश्रित्य । नर्मदा ।
**त्रिजटा -**इयं णम्मदा दीसदि।229
सीता - इदो अम्हाणं अज्जसुमंतो णिवुत्तो ॥230
**रामः -**अपवार्य ।
अय्यस्मदग्रकरयन्त्रनिपीडितानां
धाराम्भसां स्मरसि मज्जनकेलिकाले।
सुभ्रुत्वया निजकुचावरणैक्रयोग्य-
मत्राब्जवल्लिदलमावरणाय दत्तम्॥ १६॥
किञ्च ।
तदिह कलहकेलौसैकते नर्मदायाः
स्मरसि सुतनु कच्चिन्नौपराधीनसुप्तम् ।
उपसजलसमीरप्रेङ्खणाचार्यकार्यं
तदनु मदनमुद्रां तच्च गाढोपगूढम् ॥ ७७॥
विभीषणः - वामतो दर्शयन् अयमसावितो विश्वम्भराशिरःशेखर इव लाटदेशः।
रामः -
यद्योनिः किल संस्कृतस्य सुदृशां जिह्वासु यन्मोदते
यत्र श्रोत्रपथावतारिणि कटुर्भाषाक्षराणां रसः।
गद्यंचूर्णपदं पदं रतिपतेस्तत्प्राकृतं यद्वच-
स्ताल्लाटाल्ललिताङ्गिपश्य नुदती दृष्टेर्निमेषव्रतम्॥६८॥
किञ्च ।
लक्षीकर्तुं प्रवृत्तोऽपि लाटीलडहवीक्षितैः।
लक्षीभवति कन्दर्प्पःस्वेषामेवात्र पत्रिणाम्॥ ७९॥
**सुग्रीवः -**अयमुज्जयिनीनिवासोभगवान् महाकालनाथः।
**रामः -**अञ्जलिं। बद्ध्वा।
यन्मनस्ताडनाद्वक्रः कामकेतकसायकः।
स्थितः शशिच्छलेनैव मौलौ स जयतीश्वरः॥ ८०॥
सीतां प्रति ।
खेले संचरितुं तरङ्गतरलभ्रूलेखमालोकितुं
रम्यं स्यातुमनादरार्पितमनोमुग्धं च संभाषितुम् ।
सन्त्यज्योज्जयिनीजनीर्विवदितुं हृद्यं च हे जानकि
प्रत्याङ्गार्पणसुन्दरं च न जनो जानाति रन्तुं परः॥ ८१॥
किञ्च ।
चकोर्य एव चतुराश्चन्द्रिकाचामकर्मणि।
आवन्त्य एव निपुणाः सुदृशो रतकर्म्मणि॥ ८२॥
सीता - संस्कृतमाश्रित्य ।
प्रावृषेण्यं हि संस्यानां किं समुत्पत्तिकारणम् ।
त्रिजटा - प्रतिसंस्कृतेन । मालवाः।
सीता -
दृश्यन्ते लोचनानन्दहेतवस्त इमे जनाः॥ ८३॥
रामः -
एतन्मालवमण्डलं विजयते सौजन्यरत्नाकरैः
सम्यग्विभ्रमधामभिः किमपरं शृङ्गारसारैर्जनैः।
यत्रारुह्यविचित्ररत्नवलभीर्नानाशिलासद्मनां
नीयन्ते जलदोदयेषु दिवसाः कान्तासखैः कामिभिः॥ ८४॥
सीता - वेणिलठ्ठिव चसुंधरापुरंधीए णीसंदपंकव्व गाअणस्स इंदणीलकंटिअव्व उत्तरदिसाए पुरदो कालिंदी दीसदि*।231
रामः -
सेयं सुभ्रु पुरः कलिन्दतनया गीर्वाणसिन्धोःसखी
वासः कालियपन्नगस्य यमुना दृग्गोचरे वर्तते।
वन्दस्वार्यमणीमिमां दुहितरं वैवस्वतस्यानुजां
यस्याः स्वर्णपरीक्षणक्षमदृषत्तापी स्वसा सोदरी॥ ८५॥
सीता प्रणमति ।
**लक्ष्मणः -**आर्यादूरवर्तनी भगवत्ययोध्या । इमेऽन्तर्वेदीभूषणं पञ्चालाः।
**रामः -**सीतां प्रति।
यत्रार्येन तथानुरज्यति कविर्ग्रामीणगीर्गुम्फने
शास्त्रीयासु च लौकिकीषु च यथा भव्यासु नव्योक्तिषु ।
पञ्चालास्तव पश्चिमेन त इमे वामा गिरां भाजना-
स्त्वद्दृष्टेरतिथीभवन्तु यमुनां त्रिस्रोतसं चान्तरा॥ ८॥
किञ्च ।
प्रपञ्चितकलातन्त्रे पाञ्चालीकेलिकर्मणि।
सर्वास्त्रमोक्षं लभते युगपत् कुसुमासुधः॥ ८७॥
**लक्ष्मणः -**इदं पुनस्ततोऽपि मन्दाकिनीपरिक्षिप्तं महोदयं नाम नगरं दृश्यते ।
रामः -
शश्वत्सुधामवसुधामहितं द्विषद्भि-
र्नोगहितं भवति गाधिपुरं पुरस्तात् ।
वैदेहि देहि शफरीसदृशं दृशं त-
दस्मिन्नितम्बिनि नितम्बवहव्युसिन्धौ ॥८८॥
इदं द्वयं सर्वमहापवित्रं
परस्परालङ्करणैकहेतुः
पुरं च हे जानकि कान्यकुब्जं
सरिच्च गौरीपतिमौलिमाला॥ ८॥
अपि च ।
यो मार्गः परिधानकर्मणि गिरां यः सूक्तिमुद्राक्रमो
भङ्गिर्याकबरीचयेषु रचनं यद्भूषणालीषु च ।
दृष्टं सुन्दरि कान्यकुब्जजलनालीकैरिहान्यच्चय-
च्छिक्षन्तं सकलासु दिक्षु तरसा तत्कौकिन्यः स्त्रियः॥२०॥
विमानवेगनाटितकेन लक्ष्मणः। आर्य दिव्य सरितोर्गङ्गायमुनयोरयमग्रेसङ्गमः।
**रामः -**सीतां प्रति।
न्यग्रोधोऽयं वन्द्यतां श्यामनामा
शम्भोर्भ्रष्टा शेखराज्जाहूवीयम् ।
कालिन्दी चप्लाविता तत्पयोभि-
स्तीर्थं ह्येतत् स्वर्गमार्गः प्रयागः ॥ ८१॥
**सर्वे -**वन्दन्ते ।
**लक्ष्मणः -**पूर्वतोदर्शयन् इयमितो भगवतो भर्गस्य केलिवासो वाराणसी ।
यद्वाचंयमवृत्तयः किमपरं नीवारमुष्टिंपचाः
सत्यं ज्येतिरुपासते सुकृतिनो द्राक् संवदन्ते च नः।
नित्यासन्नतयात्रखण्डपरशोर्वाराणसीवासिनः
संभोगैरपि सुभ्रुवां तदजरं विन्दन्ति नन्दन्ति च ॥८२॥
**सीता -**दसकंतमूदन वाराणसीसंकित्तणेण सुमराविदम्हि अक्खिआणद्दं मिहिलं महाणाअरिं*।232
**रामः -**भगवन् विमानराज दर्शय सीतायै तत्र भक्तो जनकस्य राजधानीम् ।
किञ्चिदूर्द्ध्वगतिनाटितकेन रामः।
अन्तेवासी यदधिवसति स्वर्मणेर्याज्ञवल्क्यो
यत्त्रायन्ते निमकुलभुवः प्रत्यहं भूमिपालाः।
तत्ते चक्षुर्विशतु मिथिलामण्डलं जन्मभूमिं
यत्रोढासि त्रिनयनधनुःखण्डनाडम्बरेण॥ ९३॥
**सीता -**भअवदि मिहिलाणअरि समं गुरुअणेण एसा अणमिज्जसि *233 ।
विभीषणः - इह किल रामदेवेन क्षत्रियान्तकरणस्य भङ्गो भार्गवमुनेर्दत्तः।
सुग्रीवः -
अपां फेनेन तृप्तोऽसौ स्रातश्चन्द्रिकयाऽपि सः।
यदप्रसूतकौशल्यं क्षत्रं क्षपितवान्मुनिः॥ २४॥
**रामः -**लज्जमानः सीतां प्रति ।
यत्रार्थातिशयोऽपि सूत्रितजगन्मर्यादया मोदते
संदर्भश्च समासमासलवदप्रस्तार विस्तारितः।
उक्तिर्योगपरंपरापरिचिता काव्येषु चक्षुष्मतां
सा रम्या नवचम्पकाङ्गि भवतु त्वन्नेत्रयोः प्रीतये॥ १५॥
**सीता -**दूरादवलोकनं नाटयित्वा लंघिदसाअरादो हणु मंतादो वि दूरदेसदंसिणी दिठ्ठी सिग्घत्ति पडिहाअदि ।234
ततः प्रविशति हनुमान्।
हनूमान्- प्रणम्य देव मत्तः शुतवृत्तान्तो वसिष्ठः समं भरतशत्रुघ्नाभ्यामन्याभिश्च प्रकृतिभिस्त्वदभिषेकसज्जस्तिष्ठति । सर्वे परिक्रामन्ति ।
**रामः -**पुरोऽवलोक्य प्रणम्य च ।
सज्ञां रवेः प्रभवतां कुलराजधानी-
मालोकयामरपुरीप्रतिमामयोध्याम् ।
वार्भिः शरच्छशिकरद्युतिभिः सरय्वां
या पूर्वपार्थिवयशोभिरिवावभाति ॥ ९६॥
सर्वे प्रणमन्ति।
**रामः -**पुरोऽवलोक्य विमानराज वसिष्ठादयोऽपि मां प्रत्युद्यातुकामास्तन्ननु नरेन्द्रराजकुले-ऽस्मिन्नवतरामः। सर्वेऽवतरणं नाटयन्ति ।
ततः प्रविशति वसिष्ठो भरतशत्रुघ्नौ च।
**वसिष्ठः -**वत्स भरत शत्रुघ्न ।
शिष्ये शम्भोर्व्याधित यदयं यच्च धातुः प्रपौत्रे
कस्तेनास्मिन् जगति न जनो विस्मितः सस्मितश्च ।
अभ्यत्थातुं वयमपि ततो रामभद्रं प्रवृत्ता
दिष्ट्या दृष्टं दशरथकुलं श्वेतमानैर्यशोभिः॥ ९७॥
सर्वे परिक्रामन्ति।
**रामः -**सविनयमुपसृत्य सपादोपग्रहम् ।
इक्ष्वाकूणां कूलगुरुं प्रेष्ठं चित्रशिखण्डिनाम् ।
अरुन्धतीपतिमृषिं राम एषोऽभिवन्दते ॥ ८॥
**वसिष्ठः -**का दीयतां तवेत्यादि पठति ।
**रामः -**आर्षंहि वचनं विभिन्नवक्तृकमपि न विसंवदति यदगस्त्यवाचा भगवान् वसिष्ठोऽपि ब्रूते
सीता प्रणमति ।
**वसिष्ठः -**जनकराजपुत्रि रामाशिषैवाशीस्ते । किञ्च ।
अन्ययोगव्यवच्छेदादुपास्ते यदरुन्धती ।
संविभक्तं त्वया पुत्रि तत्संप्रति सतीव्रतम् ॥ ९९॥॥
**लक्ष्मणः -**काकुत्स्थकुलगुरो मैत्रावरुणे लक्ष्मणोऽभिवादयते ।
**वसिष्ठः -**वत्स लक्ष्मण जितेन्द्रजितस्तव किमाशास्महे।
**भरतः -**आर्य रावणविद्रावण एष भरतोऽभिवादयते ।
**रामः -**बाहू प्रसार्यएह्मोहि वत्स भरत ।
परिष्वजामि सोत्कण्ठो मां प्रतीपं परिष्वज।
आलिङ्गिते भ्रातृगात्रे कवोष्णः सोऽपि चन्द्रमाः॥ १०० ॥
**भरतः -**सीतां वन्दते ।
**सीता -**वछ भरध उठावीअदु वअणोंदु भोदुदे आणंदमंदपरिप्फंदा टिठ्ठी।235
**शत्रुघ्नः -**आर्यं पादसेवाविसंवादी शत्रुघ्नः प्रणमति ।
**रामः -**शत्रुघ्नमुत्याप्यावलोक्य च दिष्ट्या द्वितीयलक्ष्मणो दृश्यते ।
**शत्रुघ्नः -**सीतां प्रणमति।
**सीता -**वछ सत्तुहण चिरं णंद जणणीजणा दे कहिं।236
**शत्रुघ्नः -**माङ्गलिक्यपाणिरन्तःपुरग्रीवे तिष्ठति ।
लक्ष्मणो भरतं वन्दते ।
भरतः -
हे लक्ष्मण सलक्ष्मीक परिष्वज महाभुज।
आर्यसेवापवित्राणि गात्राणि सुखयन्तु माम्॥ १०१ ॥
**शत्रुघ्नः -**लक्ष्मणं परिष्वज्य निर्विघ्ननिर्वाहितरामदेवादेशे त्वयि द्विगुणं स्निह्यति मनः।
**रामः -**भगवन्मैत्रावरुणे किष्किन्धापतिरेष सुग्रीवो भास्करिरयं च लङ्कापरमेश्वरो विभीषणः पौलस्त्योऽभिवन्दते।
**वसिष्ठः -**दीर्घप्रशस्तिस्तम्भाविमौ भवतां भवतः।
**रामः -**भरत परिष्वजस्वेतौसीतादेवरौ।
भरतसुग्रीवविभीषणाः परस्परं परिष्वजन्ते।
वसिष्ठः -
रामो दातदशाननः किमपरं सीता सतीष्वग्रणीः
सैमित्रिः सदृशोऽस्तु कस्य समरे येनेन्द्र जिन्निर्जितः।
किं ब्रूमो भरतं च रामविरहे तत्पादुकाराधकं
शत्रुघ्नः कथितोऽग्रजस्य च गुणैर्वन्द्यंकुटुम्बं रघोः ॥ १०२ ॥
रामं प्रति वत्स दाशरथेरामचन्द्र प्रशस्तो मुहूर्त्तो वर्तते तदध्यास्वपित्र्यं सिंहासनमेषोऽभिषिच्यसे।
**रामः -**तथा कुरुते ।
वसिष्ठवर्ज्जं सर्वेसाष्टाङ्गं प्रणमन्ति । नेपथ्ये मङ्गलगीतध्वनिनन्दीवाद्यं च । आकाशे ।
आराधितो रघुकुलोद्वह पुष्पकं प्राक्-
पालं चिरादिदमदत्त पतिः पशूनाम् ।
तस्य प्रभुस्त्वमिह संप्रति तत्प्रयच्छ
त्वां याचते धनदएष वृषाङ्कमित्रम्॥ १०३॥
**वसिष्ठः -**वत्स रामभद्र धन्योऽसि यस्य ते तत्रभवान्राम कुबेरोऽर्थी ।
रामः - विमानराज भगवता धनदेन प्रार्थ्यसे समर्प्यसे च । ऊर्द्ध्वमवलोक्य कथं धनदमुपस्थातुं विमानराजः प्रतिष्ठते ।
**वसिष्ठः -**रामं प्रति किं ते भूयः प्रियमुपकरोमि ।
रामः - अतः परमपि प्रियमस्ति ।
रुग्णं चाजगवं नचापि कुपितो भर्गस्सुरग्रामणीः
सेतुश्च यथितः प्रसन्नमधुरो दृष्टश्च वारां निधिः।
पौलस्त्यश्च हतः स्थितश्च भगवान् प्रीतः श्रुतीनां कविः
प्राप्तं यानमिदं च याचितवते दत्तं कुबेराय च ॥ १०४ ॥
तथापीदमस्तु ।
सम्यक्संसारविद्याविषदमुपनिषद्भूतमर्थाद्भुतानां
ग्रथ्नन्तुग्रन्थिबन्धं वचनमनुपतत्सूक्तिमुक्ताः सुयुक्ताः ।
सन्तः संतर्पितान्तःकरणमनुगुणं ब्रह्मणः काव्यमूर्ते-
स्तत्तत्वं सात्विकैश्च प्रथमपिशुनितं भावयन्तोऽर्चयन्तु ॥ १०५॥
इति निष्क्रान्ताः सर्वे ।
॥
राघवानन्दो नाम दशमोऽङ्कः ॥
समाप्तमेतत्किल बालरामायणं महानाटकमत्र गद्यैः।
पद्यैःसुधास्वादुभिराद्यविष्णो रामाभिधस्य ग्रथितं चरित्रम् ॥ १॥
पाणिग्रहान्मैथिलराजपुत्र्या यावत्पदं पित्र्यमवापरामः।
यायावराणां कुलदीपकेन राज्ञां शिखण्डेन कवीश्वरेण ॥ २ ॥
परं पदं काव्यसुधारसस्य ज्ञात्वा समग्रंपरिशोध्य सम्यक् ।
प्रकाशितं मुद्रणतस्तदेतद् गोविन्ददेवेन कवीन्द्रतुष्ट्यै॥ ३ ॥
॥ शुद्धिपत्रम् ॥
| अशुद्धम् | |
| सद्दकाभिधं | सट्टकाभिधं |
| विद्वन्मरोहरां | विट्टून्मनोहरां |
| रसस्त्रोतसः | रसस्रोतसः |
| प्रस्क्तत | प्रस्तुत |
| पहाविअ | पवाहिअ |
| निबद्धा | निबन्द्धा |
| त्थितः | स्थितः |
| व्यत्पत्तिं | व्युत्पत्तिं |
| संवृतः | संवृत्तः |
| संपादयित्रा | संपादयित्री |
| समारोइदुं | समारोवइदुं |
| एक्वासणो | एक्कासणो |
| एक्वो | एक्को |
| येशल | पेशल |
| वम्महो | मम्महो |
| एष | एस |
| यदात्छ | यदात्थ |
| कस्तुरिकैणी | कस्तूरीकैणी |
| पासपडि | पासप्पडि |
| संवृतः | संवृत्तः |
| त्रैय्यम्बकः | त्रैयम्बकः |
| तेज | तेजः |
| अशुद्धम् | |
| रावणः | रावण- |
| विरिञ्चि | विरञ्चि |
| परत्र | ऽपरत्र |
| निबिगेष्म | निबिडोष्म |
| स्त्रोत्रेण | स्तोत्रेण |
| तयौः | तयोः |
| कीदसा | कीदिसा |
| शिखण्डन | शिखण्डेन |
| विरहविनोदा | विरहवेदनविनोदा |
| मिबिड | निबिड |
| ज्योंतीषि | ज्योतींषि |
| रण्ये | ऽरण्ये |
| मुढ | मूढ |
| दर्जूनः | दर्जुनः |
| नीमीलित | निमीलित |
| दप्रण्ड | दण्डप्र |
| चितेन | चित्तेन |
| स्वगम् | स्वगतम् |
| रीपून | रिपून |
| इमसिं | इमस्सिं |
| कृपणः | कृपाणः |
| पवितिअ | पवित्तिअ |
| स्वगम् | स्वगतम् |
| लङ्कता | लङ्कता |
| स्वगम् | स्वगतम् |
| सिष्ठी | सिठ्ठी |
[TABLE]
| अशुद्धम् | शुद्धम् |
| वतंसिततरणि | वतंसीकृततराणि |
| पविसन्तो | पवसन्तो |
| माञ्जिष्टै | माञ्जिष्ठै |
| प्रपद्यामहे | प्रपद्यावहे |
| सामग्री | सामग्रीः |
| महते | सुमहते |
| स्त्वव | स्तव |
| षाङ्गुण्य | षाड्गुण्य |
| लुण्ठाकता | लुण्टाकता |
| वक्षेषम् | वक्षेपम् |
| कथमभी | कथममी |
| दशो | दृशो |
| कोस्त्यान्यो | कोस्त्यन्यो |
| तिझति | त्तिझत्ति |
| सैहिकेय | सैंहिकेय |
| प्रणप्रति | प्रणमति |
| पर्पूर | कर्पूर |
| प्यवज्ञा | प्यवज्ञा |
| खतिअ | खत्तिअ |
| स्वगम् | स्वगतम् |
| मायामस्तौ | मायामयस्तौ |
| गावग | गावग्ग |
| ग्धाणं | ग्घाणं |
| नेपथ्य | नेपथ्ये |
| किंति | कित्ति |
| चउत्पी | चउत्थी |
| अशुद्धम् | |
| जजणि | जणणि |
| दुर्यश | दुर्यशो |
| श्वश्रूः | श्वश्रु |
| दुर्यश | दुर्यशः |
| भरध | भरद |
| मायामअ | माआमअ |
| दुर्यश | दुर्यशः |
| आएणे | आणणेण |
| एअ | राअ |
| प्रवस्य | प्रवस |
| रुढोलप | रुढोपल |
| जाव | दाव |
| मारूठाः | मारुढाः |
| स्वशमनं | स्वमशनं |
| तरीया | त्तरीया |
| हृष्यं | च हूष्यं |
| उल्लङ्ख्य | उल्लङ्घ्य |
| क्क | क्व |
| द्वियो | द्दिपो |
| विध्यं | विन्ध्यं |
| एहव | राहव |
| त्कण्डी | त्कण्ठी |
| विन्ध | विन्ध्य |
| वैडुर्य | वैदूर्य |
| यदा | तदो |
| वृतः प्रवृतः | वृत्तः प्रवृत्तः |
| अशुद्धम् | |
| वक्रस्य वक्राणि | वक्त्रस्य वक्त्राणि |
| दुर्यश | दुर्यशो |
| द्वितीयो | द्वितीयः |
| निमीलिदनयणो | णिमीलिदणअणो |
| दाम | द्दाम |
| क्षिपथ | क्षिपत |
| मुपाट्य | मुत्पाट्य |
| काच्चन | काञ्चन |
| वह इति | वहे इति |
| यञ्जला | यज्जला |
| द्वद्वै | द्वन्द्वै |
| द्रश्यामि | द्रक्ष्यामि |
| वाणण्णं | वाणराणं |
| स्तिति | स्तिमि |
| रसोक्वरिस | रसोक्करिस |
| णिमितं | णिमित्तं |
| संध | संघ |
| निशायर | निशाअर |
| गीअं च | गीओ अ |
| अम्बरं | अन्तरं |
| उछलिय | उच्छलिअ |
| मुगुप्सित | जुगुप्सित |
| प्रणष्टः | प्रनष्टः |
| वित्थरन्त | णित्थरन्त |
| जत्न | जल |
| काकुत्स्थ | काकुस्थ |
| अशुद्धम् | |
| तद्वा | तद्द्वा |
| देवस्य | देवस्स |
| वरवनाः | वरवनः |
| शाययितव्या | शाययितव्य |
| यदान्तरे | पदान्तरे |
| ततो | तदो |
| द्दारा | द्वारा |
| यद्भरवा | यद्भैरवा |
| स्विद्यसे | खिद्यसे |
| पमान | पुमान |
| निगालन्त | निग्गलन्त |
| विनोचन | विरोचन |
| वेणण | वेए ण |
| विकिरितो | विकीरतो |
| भुवदण्ड | भुअदण्ड |
| न्दोतिद | न्दोलिद |
| भुवअण | भुअण |
| केणी | वेणी |
| चुबुकार्गे | चिबुकाग्रे |
| जिघांस्यति | जिघांसति |
| गञ्जा | गुञ्जा |
| स्वित्ता | खित्ता |
| नखेहिं | णाखेहिं |
| पडत्ताओ | पउत्ताओ |
| पेख्खवु | पेख्खदु |
| गया | गय |
| अशुद्धम् | |
| दरिमुख | दरीमुख |
| मिदंतनुचितं | मिदंत्वनुचितं |
| दाशरिथना | दाशरथिना |
| मुउदलिद | मुद्दलिद |
| पवन्न | पवण्ण |
| जक्षपक्षा | यक्षपक्षा |
| सविचिकित्स | सविचिकित्सा |
| घिठिदं | घिठ्ठिदं |
| मल्लयो | मलयो |
| ज्जपिन्या | ज्जयिन्या |
| द्रोणान्दि | द्रोणाद्रि |
| कोना | केना |
| पूष्पकं | पुष्पकं |
| त्स्कृते | त्कृते |
| भ्रामिणा | भ्रमिणा |
| स्नानोतीर्ण | स्नानोत्तीर्ण |
| शशि | राशि |
| यमाणय | पमाणप |
| यत्स्वातः | यत्खातः |
| द्दीप | द्वीप |
| खादिष्ठा | स्वादिष्ठा |
| मूर्द्ध | मूर्द्ध्व |
| त्तरङ्गि | तरङ्गि |
| रोधे | रोधो |
| चन्द्रना | चन्दना |
| किञ्चितिष्ठ | किञ्चित्तिष्ट |
| अशुद्धम् | |
| हणि | हरिण |
| भवति | भगवति |
| बिभ्रद्योम्न्नः | विभ्रद्व्योम्नः |
| स्वविरै | स्ववीरै |
| तिरे | तीरे |
| अत्रान्धा | अत्रान्ध्रा |
| स्ताल्लाटाल्ल | स्तांल्लाटांल्ल |
| चसंधरा | वसुन्धरा |
| कुसुमासुधः | कुसुमायुधः |
| शुत | स्नुत |
| सज्ञां | राज्ञां |
| कूलगुरुं | कुलगुरुं |
| व्यवच्छेद | व्यवच्छेदा |
| यदरुन्धनी | यदरुन्धती |
| काकुत्स्थ | काकुस्थ |
]
-
“एतत् तत् ।” ↩︎
-
“देवादेशपत्रं तत् निरूपयतु भावः ।” ↩︎
-
" क्रमवर्धमानविलासं रसातले कं करोति कन्दर्पः ।" ↩︎
-
“बालरामायणम् ।” ↩︎
-
“आश्चर्यमाश्चर्यम् । अन्यत् लिखितमन्यत् पठ्यते ।” ↩︎
-
“तन्नमस्कारः क्रियताम् ।” ↩︎
-
“तत् किं न वर्ण्यते ।” ↩︎
-
“अहो राक्षस इति श्रुत्वा सत्यं साध्वसकौतूहलयोरन्तरे वर्ते।” ↩︎
-
“भर्तृदारिके राक्षस इति मैनं परिभव राक्षसचक्रवर्ती खल्वेषः।” ↩︎
-
“अधिकतरमुद्वेजनीयः।” ↩︎
-
“अथ किं मन्त्रयथः किं कर्तुमिहागतः।” ↩︎
-
“शङ्करशरासनंसमारोपयितुम्।” ↩︎
-
“नन्वेवं भण भर्तृदारिकां परिणेतुम्।” ↩︎
-
“अयि उड्डामरशीले कथं पुनरशङ्करोऽलब्धशङ्करप्रसादोवेमं चापमारोपयिष्यति।” ↩︎
-
“अहो उच्छ्वसितास्मि अनभवर्षेण प्रियसखीवचनेन ।” ↩︎
-
“एकासनोपवेशिनः कति पुनरेते जनाः।” ↩︎
-
“नन्वेक एवैष दशमुखो विंशतिभुजदण्डश्च।” ↩︎
-
“तातशतानन्दमिश्राणामन्तर उपवेक्ष्यामि ।” ↩︎
-
“अम्ब वसुन्धरे प्रसीद सीता विज्ञापयति प्रथमं मेअन्तरं देवपश्चाद्रावणो धनुससेवयतु” ↩︎
-
“भगवन्ननङ्ग नमस्ते मा खलु राक्षसमुद्दिश्य सुकुमारजनयोग्यं प्रहरणं संदधासि।” ↩︎
-
“भर्तृदारिके दिष्ट्या वर्धते क्षमं ते पाणिग्रहणमङ्गलेन मुक्तं रावणेन धनुः।” ↩︎
-
“हृदय अनुकूल इव ते देवो मन्मथश्च।” ↩︎
-
“हा धिक् हा धिक् तातोऽपि नामोपशमैकधनो धनुर्व्यापारयति सएष क्षुतवहं वर्षितुकांमो मृगाङ्कमणिः।” ↩︎
-
“हताश ते वचनं जनककुलदेवताः प्रतिघन्तु।” ↩︎
-
“अक्षसूत्रं रुद्राक्षमाला।” ↩︎
-
“एतस्य जामदग्न्यस्य।” ↩︎
-
“तयोः जामदग्न्यदशग्रोवयोः।” ↩︎
-
“मुनिखेटो मुन्यपसदः।” ↩︎
-
" हन्तकारो बलिः।" ↩︎
-
" एतत्तत् राक्षसानामपि राक्षसोऽस्तीति।" ↩︎
-
“आधेयविक्रमकर्माण आरोपितविक्रमकर्माणः।” ↩︎
-
“अये चित्रशिखण्डत्रैलोक्यैकमल्ले राक्षसरक्षाकरे, पुलस्त्यकुमारे दुर्लभं दोहढकमिमं मन्ये।” ↩︎
-
“गरुत्मद्गोत्रालङ्करण कथय कीदृशो पुनः सुन्दसुन्दर्या वधविडम्बना संवृत्ता।” ↩︎
-
“आश्चर्यमाश्चर्यम्।” ↩︎
-
" अहह भीषणानामपि भीषणा हताशा। ततस्ततः।" ↩︎
-
“दुष्करमुपक्रान्तं भगवता कौशिकेन। ततस्ततः।” ↩︎
-
“अहो उचितकारित्वं राघवस्य। ततस्ततः।” ↩︎
-
“डिम्भत्वेऽपि तरुणराघवोचितं चरितं रामभद्रस्य।” ↩︎
-
“अस्य भरतमातामहस्य मुनेः सुसदृशसंयोगगर्भाश्चरितविभाः। किं ततः कौशिकेन प्रतिपन्नम्।” ↩︎
-
“स्थाने स्वल्वभिनिविष्टौ दुष्टौदुष्टराक्षसोसुतौ। ततः किं संवृत्तं तयौः।” ↩︎
-
“नाथ एवं त्वयोपकुर्वता निर्जितसकलशकुन्तसीमन्तिनीसौभाग्यासुवेगा कृता किं पुनः किमपि पृच्छते।” ↩︎
-
“स्थाने खल्वभिनिविष्टौ दुष्टो दुष्टराक्षसोसुतौ। ततः किं संवृत्तं तयोः।” ↩︎
-
“नाथ एवं त्वयोपकुर्वता निर्जितसकलशकुन्तसीमन्तिनीसोभाग्यासुवेगा कृता किं पुनः किमपि पुच्छाते।” ↩︎
-
“यो द्रविडचूडामणिः।” ↩︎
-
" यः क्षत्रियकुलकुमारोऽपि भूत्वाऽवमानितपरशुरामपराक्रमः।" ↩︎
-
" यः स नर्मदालङ्कृतमण्डलाधिपतिः।" ↩︎
-
“+ यः कौस्तुभसगोत्ररत्नरचितशेखरालङ्कृतशिरउद्देशः।” ↩︎
-
" यो वृन्दावनविहारदुर्ललितः।" ↩︎
-
" यो महाराष्ट्रवरिष्ठः।" ↩︎
-
“यञ्चन्द्रशेखरप्रसादीकृतकुलक्रमागतवृषभलाञ्छनः।” ↩︎
-
“यः प्रतिदिनमण्डनमात्रव्यापारे सक्तचित्तः।” ↩︎
-
" यो मन्दरान्दोलितदुधसिन्धुसमुत्पन्नधन्वन्तरिचरमावतारस्य दिवोदासस्य प्रथमशिष्यः।" ↩︎
-
“कालेन बालत्वं रामचन्द्रस्य चरित्रेण पुनः सकलनरेन्द्रमण्डलीज्येष्ठः।” ↩︎
-
“सखि हेमप्रभे भग्नं भर्गस्य भगवतश्चापम्।” ↩︎
-
" संपन्नं च प्रियंसख्याः पाणिग्रहणम्।" ↩︎
-
" भोभो उपाध्याय अभ्युपगतशिष्यभावोऽहमेष भवभूतिः सपादोपग्रहमभिवादये।" ↩︎
-
“भगवतो भार्गवात्।” ↩︎
-
“भो उपाध्याय न खलु दृष्टेऽनुपपन्नंनाम।” ↩︎
-
“स खलु महर्षिर्भूत्वा समस्यामारम्भमहाग्रहगृहीतः” ↩︎
-
“भो उपाध्याय यदि खल्वेवंविधयसक्रमः परशुरामस्तत् किं पुनर्न त्रिनयनबाणासने प्रवृत्त आसीत्।” ↩︎
-
“कीदृशं मन्त्रमथ भार्गवराघवयोःसमरसंरम्भेकस्मिन्जयपताका प्रतिवर्तिष्यते।” ↩︎
-
“अहो प्रसादातिशयो रामे चन्द्रशेखरस्य तत्रभवन् मर्त्यमण्डलाखण्डल तदितः प्रेक्षस्व।” ↩︎
-
“शङ्के ततः प्रभृति रामः परशुराम इत्युच्यते।” ↩︎
-
“कथं पुनर्भगवता भार्गवेण श्रुतं श्रवणाभ्यां श्रुत्वा वाऽनुचितकार्यनुष्ठितं परशुधाराव्यापारेण।” ↩︎
-
“तत्क्षणजनतजीवितावदानस्य शोभते जननोशिरश्च्छेदोऽपि भगवतो भार्गवस्य।” ↩︎
-
" तात उर्मिलामाण्डवीश्रुतकीर्तिभिः समं गमिष्यामि।" ↩︎
-
“तव शिक्षितं भगवता किमपि।” ↩︎
-
“युज्यते प्रफुल्लकौतूहलत्वं परशुरामदर्शनेन पुनः ससाध्वसत्वं भर्गधनुर्दण्डचण्डचरितस्य पुरतो रामचन्द्रस्य।” ↩︎
-
“वत्स लक्ष्मण सुलक्षणोऽसि यो राघवकुलोचितचरितधुरं धारयसि।” ↩︎
-
“देव दशानन चापारोपणदिवसे ईषद्दृष्टानि जानकी तव वदनानि करोति इदानीं दर्शनपुनरुक्तयेयानि।” ↩︎
-
“अन्यथा वा राक्षसचक्रवर्तिनो विज्ञाप्यते।” ↩︎
-
" इदं विज्ञाप्यते।" ↩︎
-
“लेङ्केश्वर सखीसंचारिताक्षरा जानकी विज्ञापयति अद्य स्वागतं मन्दोदरीदयितदर्शनेन।” ↩︎
-
“विसर्जितलज्जाकण्ठबन्धमात्मना भण यतः स्वयं दूतीद्रूतीनां वरिष्ठा।” ↩︎
-
“आं दशानन पुरुषविशेषपरिशङ्कात्कर्षिण्य एव पुरन्ध्यो भवन्ति” ↩︎
-
" इतइत एतु देवः एतल्लोलोद्यानम्।" ↩︎
-
" तदितइत एतु दशाननदेवः।" ↩︎
-
“एष सलिलशोषदुरुद्दण्डितपुण्डरीकमण्डलो जलार्द्रासंदानितसुन्द्ररीदेहकन्दलसलीलपरिरम्भपक्ष्मलितकामिजनानुष्णो ग्रीष्मः।” ↩︎
-
“अलमनेन। उत्कण्ठाकारिणां धुरन्धर एषः।” ↩︎
-
“यथा मदन आज्ञापयति। अयं रत्नचतुष्किकाकेलिपल्यङ्कस्तदुपविशतु देवः।” ↩︎
-
“वारुणी लक्ष्मी सरस्वती।” ↩︎
-
“अहो मन्मथवामता अहो दैवप्रतिकूलता यदिदानीं रमणीयमप्युद्देजनीयं शिशिरमप्युष्णं प्रतिभाति।” ↩︎
-
“देवस्य देवेन वैद्यत्वं प्रतिपन्नंमुगलाञ्छनस्य पुनः का वार्ता।” ↩︎
-
“देव सेवागता भुजङ्गमा आत्मानं दर्शयन्ति।” ↩︎
-
“देव क्वेह महेन्द्रः क्व वा सीता।” ↩︎
-
“अन्यतो दर्शयित्वावक्षिपाम्यस्य हृदयावक्षेषम्। इतइतः प्रेक्षतां दशाननो देवः।” ↩︎
-
“क्वात्र पन्नगाः क्वात्र जानकी।” ↩︎
-
“देव कृष्णपक्षदिवसेषु चन्द्रग्रहणमिति झटिति युक्तं न प्रतिभाति।” ↩︎
-
“क्रेलीकमलवनविकसितवर्णं परिपक्वपर्पूरपिण्डपाण्डुरं मृगलाञ्छनमुच्छिन्दता देवेन मनस्विनीमानमुद्राविद्रावणे किं कर्तव्यम्।” ↩︎
-
“का पुनरत्र जानकी।” ↩︎
-
“क्व सा।” ↩︎
-
“आर्यैकमातृक प्रेक्षस्व तक्षकचूडामणिरुत्याटितो वडवानलज्वालाकलापकं चूर्णितं दशकण्ठकनिष्ठभगिन्या अत्याहितम्।” ↩︎
-
“तस्य भायी भुवनैकसुन्दरी सोता नाम।” ↩︎
-
“लङ्केश्वरस्य समुचितेति अपहरन्ती ताभ्यां कापालिकव्रतयोग्या कृतास्मि।” ↩︎
-
“एवं कुर्मः।” ↩︎
-
“जयतुजयतु कनिष्ठमातामहः।” ↩︎
-
“श्रुत्सत्यदशरथेनापि मायामयेन तथा करूणां प्ररोदितुं प्रवृत्तं यथा यदि नाम तरवः परं न रोदिताः । ग्रावग्रन्थीनां परं यदि न दलति हृदयम् ।” ↩︎
-
“लक्ष्मणजानकीमात्रपरिवारस्यास्य कृता यात्रा ।” ↩︎
-
“न खलु जातभरतस्य दुश्चरितं किमपि । अथवा दशरथनरेन्द्रोऽस्य पिता ।” ↩︎
-
“हा हतास्मि मन्दभागिनी ।” ↩︎
-
“तत् किमिति न वारितो वत्सो मे रामभद्रः ।” ↩︎
-
“त्वया दुर्यशदायी सुष्ठु चतुर्थी चन्द्रो दृष्ट इति ।” ↩︎
-
“सखि सुमित्रे अलं संतापितेन साम्प्रतं स जातरामभद्रो दिननायस्य कुले उत्पन्नो येन मायागुरुजनस्यापि शासननिर्वाहणेन बालराघवेण भूत्वा जरापरिणतराघवाणां पश्चात् कृतं चरितम्” ↩︎
-
“अयि अलोकावष्टम्भसुस्थिते कृतं वाचाविस्तरेण। सहि प्रथमपतत्दुःसहमहादुःखं महाराजं संभावयामः ।” ↩︎
-
“अयि हृदयनिहितदुःसहदुःखशल्ये कौशल्ये । अयि रामानुसरणमलक्षणलक्ष्मणपवित्रे सुमित्रे एषा रामनिर्वासिनी भरतदुर्यशतंपादिनी कैकेयो सीदतु ।” ↩︎
-
“किं पुनरविदितवृत्तान्तो मायामयशूर्पणखानां वत्सलक्ष्मणः ।” ↩︎
-
“एष पदमरागमणेः काञ्चनबन्धविध्वंसनेन वारिजाक्षेपणपरिक्षेपः” ↩︎
-
“श्वश्रूणां परमहं मन्दभागिनी या प्रवस्यद्रामभद्रवधूपादवन्दनेन वञ्चिता ।” ↩︎
-
" तत् किं तासाम् ।" ↩︎
-
“अहो प्रत्युज्जीवितास्मि आर्य वामदेव वल्कर्लानवेशनप्रसारितहस्ते रामभद्रे वध्वा किं प्रतिपन्नमासीत् ।” ↩︎
-
“प्रियकेलिशकुन्तैव मे बत्सा” ↩︎
-
“अपि कुशलं तस्य सकलत्रस्य रामभद्रस्य सलक्ष्मणस्य च ।” ↩︎
-
“वत्से जानकि लींलाभवनमणिकुद्धिमकेलिपरिक्रमणदुर्ललिता भूत्वा पामरीजनयोग्ये निपतितासि ।” ↩︎
-
“सौम्यमुख जात लक्ष्मण अवसरमन्त्रणक किं भणामि ।” ↩︎
-
“कथं या साऽस्माकं पुराणश्वशुरस्य भगवतो भगीरथस्य जयपताका गङ्गा देवी बद्धमहर्षिमुखात् श्रूयमाणा आसीत् तस्यां तावत् सांप्रतं राधवकुटुम्बम् । ततस्ततः ।” ↩︎
-
“भगवति भागीरथि भगीरथाराधनं समृत्वा सुखोत्तारा भव ।” ↩︎
-
“अहो सुस्याने स्थितास्ते जनाः ।” ↩︎
-
“आर्य कथय कीदृशं पुण्यं वनवासिन्याः सीताया गृहिणीत्वम् ।” ↩︎
-
“पुत्रि सोते कुत्र पुनर्महाराजराजजातया भूत्वा निसर्गर्दारगृहिणीत्वं त्वया शिक्षितम्।” ↩︎
-
“अहो सुस्थाने स्थितास्ते जनाः।” ↩︎
-
“आर्य कथय कीदृशं पुरायं वनवासिन्याः सीताया गृहिणीत्वम् ।” ↩︎
-
“पुत्रि सोते कुत्र पुनर्महाराजराजजातया भूत्वा निसर्गदर्दा दगृहिणीत्वं त्वया शिक्षितम् ।” ↩︎
-
“हा दैव क्वपुनर्गर्भेश्वराभ्यां भूत्वा जानकोलक्ष्मणाभ्यां पथिकजनयोग्यं गुरुशुश्रूषणं शिक्षितम् ।” ↩︎
-
“उचितकारित्वेऽश्रुतशिक्षितानि महाभागजनचरित्राणि ।” ↩︎
-
“श्रहहकथं नु खलु कर्करोत्करेवल्कलनिबिडासु गिरिवसुन्धरासु वपुत्री निसर्गसुकुमारा संचरति ।” ↩︎
-
“आर्य त्वया विमुक्तो रामभद्रः ।” ↩︎
-
“पुत्रि सीते कवलतहालाहलस्य जनस्य एष साम्प्रतं शोको या त्वं देशान्तरेऽपि राक्षसेन हार्यसे ।” ↩︎
-
“कैयेयीदुर्यशमहाकन्दस्य एष द्वितीयो कन्दलोटभेदः ।” ↩︎
-
“भगवतिसंग्रामश्रीर्जयोभवतु जटायुः । ततस्ततः ।” ↩︎
-
“तत् कृतं जटायुना यत् सखीस्तुषाहरणे कीर्त्यते । ततस्ततः ।” ↩︎
-
“हा देव त्वया कृतविडम्बं समस्तं वनगतं राघवकुटुम्बम् ।” ↩︎ ↩︎
-
“तत् कतं जटायुना यत् सखीनुषाहरणे कीर्त्यते । ततस्ततः ।” ↩︎
-
“भागीरथीनाथ किं नामापराधित्वं यदि तत्क्षणमनुवर्तनम् ।” ↩︎
-
“दशरथनन्दन रामचन्द्र सगरभगीरथसदृशगौरवस्ते समुद्रः संमुख एषः।” ↩︎
-
“ततो देव निबिडभुजदण्डपोडनाविशदटङ्कारं कृत्वा कोदण्डं तथा वर्षतुं प्रवृत्तो बाणवर्षं वानरवृन्दे यथा न सुरसुन्दरोविमुक्तः कुसुमोत्करः सुभटेषु निपतति । न समराङ्गणगतं रेणुचक्रमाक्रामति दिगन्तराणि । नदिनकरकिरणव्यापारप्रकटोऽपि गगनमाणिक्यस्य प्रसरति रथः ।” ↩︎
-
“बाणवर्षपोडितमिव वानरबलं पर्यााकुलं जम्बुद्वीपाभिमुखं वर्तते ।” ↩︎
-
“आर्य सुमुख स्वामिन्या त्रिजटया समादिष्टं यथा गच्छतं अङ्गदनरान्तकयोरेकतुलां प्रेक्षेयां येन युष्मन्मुखात् श्रुत्वा सीतादेव्यै निवेदयिष्यामि तद्वावप्यावां च गतावित्येतावदहं जानामि न पुनः कारणं तत् कथ्यतां यथा प्रतिपन्नम् ।” ↩︎
-
“* युवराजमेघनादस्य पुनः का वार्ता।” ↩︎
-
“+ यन्निर्मलमतिचक्षुषः पश्यन्तितद् दृष्टमार्यसुमुखेन।” ↩︎
-
“एषा स्वामिनी त्रिजठाऽऽवां प्रतिपालयन्ती तिष्ठति तदेह्युपसर्पावः ।” ↩︎
-
“हंहो दुर्मुख सुमुख त्वरितमुपसर्पतं निवेदयतं युद्धवृत्तान्तम् ।” ↩︎
-
“ततश्च समुत्तीर्य मञ्चात् नीलप्रहस्ताभ्यां सेनापतिभ्यां कृष्टयोरन्तरदण्डयोर्निरचितालीढपादौद्वावपि संमुखं संस्थितावङ्ककारौप्रवृत्तौच रणमण्डले मण्डल्या भ्रमितुम् ।” ↩︎
-
“ततश्च तयोर्विविधं वल्पतोरूपरि ताडने नमतोस्तलताडन उत्पततोरनवरतप्रहारपरम्परां प्रेषयतोः प्रेषितं प्रतीच्छतोर्दृष्टिं वञ्चयतोररक्षितमङ्गं रक्षतोरन्यतो दर्शयित्वाऽन्यतः प्रहरतोः संभताशेषधोरत्वेन वंशविशेषं छुरिकायुगलमुत्क्षिप्यान्योन्यमाहरतोः प्रवृत्तं तद् युद्धम् ।” ↩︎
-
“हा वत्स क्वासि देहि मे प्रतिवचनं भद्र कथय कीदृशी पुनर्नरान्तकवधे देवानां मुखच्छायाऽऽसीत् ।” ↩︎
-
“तत आर्य दशकण्ठेन किं प्रतिपत्रम् " ↩︎
- ↩︎
-
“तद् गच्छतं वृत्तान्तरमुपलब्धुम् । अहमपि सीतादेव्यै प्रियनिर्वोदका भविष्यामि ।” ↩︎
-
“अहो अवस्थातिरेको दशकण्ठदेवस्य येनास्मिन्नेव केलिविमानाधिष्ठाने रत्नाट्टालके प्रदोषाधिप्रत्यूषं यावत् रजनीरणं प्रेक्ष्य वासरसमरसंरम्भदर्शनोत्सुकत्वेन स्थितो ऽपीषन्निद्रामुद्रितनयनेन्द्रीवरवनाः किमपि किमपि चिन्तयन् तिष्ठति ।” ↩︎
-
“अवसरसंतोषणीयः स्वामिजन इति चिन्तयन्त उच्चावचसंचारिणः सुरसंघाता देवमेव सेवन्ते ।” ↩︎
-
“तथैव किं भरायतां विराधविध्वंसनस्य कनिष्ठभ्राता लक्ष्मणः खल्वेषः । मृगाङ्कमण्डलेन समं जातस्य ततो न परिहीयन्ते गुणाः पीयूषस्य ।” ↩︎
-
“सुष्ठु खलु परिचितं भणसि निबिडनिद्रानन्दस्थितः कुमारः कुम्भकर्णः ।” ↩︎
-
“तत् क्रियतां विबोधविडम्बनाडम्बरः कुमारकुम्भकर्णस्य ।” ↩︎
-
“अयमष्टादशकुलविभेदविभिन्नः सेवासमागतो भुजङ्गमवर्गः । तदस्मिन् कानपि गरिष्ठवरिष्ठान् समादिशः” ↩︎
-
“अमहाभागमनोरथा इव वन्ध्योभूताः फणीन्द्राः ।” ↩︎
-
“देव किलिकिलायितहनूमद्विमानः सज्जीकृतकोदण्डपाणिः कनिष्ठतापसो मेघनादस्य पुरतो भूत्वा वक्तुकामो वर्तते ।” ↩︎
-
“तदस्मिन् केलिविमानरत्नाद्वालकपर्यन्तचरे गिरीन्द्रसंदोहे दशाननदेवस्याज्ञा निवेश्यताम् ।” ↩︎
-
“अविद्ध इव मैक्तिके तन्तुनाऽकृतकार्येण कुमारे बहिस्तो लुलितं महीधरचक्रेण ।” ↩︎
-
“एते गुरुगलददानवारिप्रक्षालितगण्डमण्डला गलगुहाकुहरनिरर्गलनिर्गलद्गुलुगुलारवा दिक्करिणस्तढिमान् समादिश।” ↩︎
-
“तत् कृतं कुमारकुम्भकर्णे दिक्करिचक्रवालेन यज्जन्मबधिरे पञ्चमतरग्डोंद्रारैः क्रियते।” ↩︎
-
“तदन्यान्कानपि समादिश।” ↩︎
-
“विबोध्यते कुमारो यदि सलिले शिलाभिरुन्तीर्यतेऽलाबूभिर्वा निमज्ज्यते।” ↩︎
-
" देव लङ्कापरमेश्वर कुमारमेघनादं लक्ष्मणं चानुवर्तमानानां राक्षसवानरबलानां भीषणभीषणं वर्तते ।” ↩︎
-
“कथं पुनरेतद् भविष्यति ।” ↩︎
-
“देव उत्पतितः कुमारमेघनादस्य रथः ।” ↩︎
-
“प्रभञ्जननन्दनोऽपि वानरेन्द्रोऽनूत्पतितो मेघनादस्य रथवरम् ।” ↩︎
-
“किं पुनरेष विडम्बितहेरम्बगलगुञ्जारवो विनिर्जितशङ्करकरास्फालितोड्डामरडमरुककोलाहलः कुण्ठितवैकुण्ठसूकरघोरघुत्कारप्रसरो निकुज्जितनरसिंहमुक्तपुष्कलबुक्कारव्यतिकरोऽशेषशब्दसंमर्दः श्रूयते।” ↩︎
-
“कथं परिजनसमर्पितं प्रहरणसंदोहमघमत्य प्रसतः कुम्भकर्णः ।” ↩︎
-
“किं पुनरेतद् दशदिशाप्रसतचतुःसमुद्रमिव जलयन्त्रायमार्णागिरीन्द्संदोहमिव सलिलीभूतगगनवलयमिव वारिसिद्धिमात्रप्रवृत्तप्रजापतिव्यापारमिव भुवनाभ्यन्तरं वर्तते ।” ↩︎
-
“ततस्तेन तेषां मध्ये केऽपि हताः पयां कूर्परिताः कूर्परप्रहरिः कीलिताः कीलैःः शर्करीकताः करसंपुटोत्पीडनेरास्फालितास्तलास्फालैश्चिपिटीकताञ्चपेटाभिर्निवापिता मुष्टीभिर्व्यथिताश्च चरणग्भ्याम् ।” ↩︎
-
“किं पुनर्बहलतैलमिश्रितकज्जलविलिप्तमिव तरुणतापिच्छकान्तिच्छद्रमिव ससलिलजलदजालमालितमिव शितिकण्ठकण्ठप्रभापिहितमिवोवनुचनारायणकान्तिसर्वस्वमिव यममहिषविषाणाभ्यां कोर्णमिव हेरम्बदानकर्दमकरम्बितमिव भुवनाङ्गणं वर्तते ।” ↩︎
-
“तथा च दृढदह्यमानकलेवरं जर्जरितमवलोक्य प्लवङ्गवर्ग प्रधावितः समं दलिताञ्जननोलेन नीलेन रभसोद्वीवः सुग्रीवः कृता च सरलीकृतभुजदण्डमण्डले सुवेलशैलमूलादुत्पाट्य निर्भरजम्बालपिच्छिला शिला ।” ↩︎
-
“राक्षसेश्वर प्रेक्षस्व निजग्रहणशङ्कासङ्कर्चाद्वम्बचन्दरवयो बहुराहुदर्शनचमत्कृतकामिनीदत्तबिसचाक्षिविक्षोभभग्नपर्य्यस्ताङ्गुलोकिसलयसमुत्पो पिता अप्रसचवदनरात्रिसूचिताश्चमत्कृत चन्द्रान्तःपुरविस्तरद्दिविधबहुब्रह्मघोषा भुवनादेशा दृश्यन्ते ।” ↩︎
-
“एते प्रकटितनर्तकीविभ्रमनृत्याः सुस्वादीकृतकादम्बरीपानविहितोन्मादा युवतीकृतजरतीजना उपनीतकुसुमबाणप्रकरा विरहिणीकण्ठवर्द्धितपञ्चमतरङ्गा मृगाङ्कबालमित्रा दूतीकृतदक्षिणसमोरणाः सर्वतः संचरन्ति मदनाः ।” ↩︎
-
“सर्वाङ्गसङ्गतनिबिडनिपीडनापरवशगतः प्रचण्डभुजबलेन गगनाङ्गणे आन्दोल्य कुमारकुम्भकर्णेन धरणीपृष्ठे तडिति ताडितः सुग्रीवः ।” ↩︎
-
“कुम्भकर्णकक्षान्तरगतं सुग्रोवमवलोक्य रभसभणत्कृतरशनानपुरकेयूरं नर्त्तितुं प्रवृत्ताः सकलवृन्दारकवृन्दबन्दिसुन्दर्यः । तत्प्रेक्षतां देवः ।” ↩︎
-
“एष सुग्रीवः कुमारकुम्भकर्णं विच्छिन्नमवकृत्य गगनमुत्पतन् गत एवतापससकाशम् ।” ↩︎
-
“पुरतोऽपसत्य चतुर्दिशं परिवृतो वानरसेनापतिभिः । तस्य पुरतो जाम्बवन्मणिमन्महामुखदुःसहप्रभृतयः स्थिता ऋक्षाधिपाः । गयागवयगवाक्षकटाक्षपुरःसराः पश्चाद् गोलाङ्गूलबलाधिपाः । दधिमुखदरिमुखदुर्मुखप्रधाना वामतः । शरभकेसरिकिशोरप्रमुखाः प्रदक्षिणता भूत्वा वलितुंप्रवृत्ताः ।” ↩︎
-
“ततश्च मुद्गरप्रहारपरंपराभिर्मूर्छायितातिऋक्षाच्छभल्लो निरर्गलगिलितगोलाङ्गूलवर्गश्चूर्णितवाहिनीसन्निवेशः प्रवृत्तस्तापसाभिमुखं समासादितमूर्छाविच्छेदेश्च तैश्चतुर्दिशमाक्रम्यमाणो नीरन्ध्ररोषान्धकारान्धतया समं पार्श्वसरितेन निजपरिजनेन विविधवलीमुखानां कवलकेलिकर्म्मणि प्रवृत्तः ।” ↩︎
-
“देव पाणिरिव बाहुदण्डोऽप्यस्य खण्डितः ।” ↩︎
-
“हा धिक् हा धिक् हताशदशकन्धरेणापि निर्भरदलदिन्दीवरवनाभिरामस्य रामस्य गिरिशिलाविशालं वक्षस्थलमुद्दिश्य कृतान्तदंष्ट्राजरठः शरः संहितः ।” ↩︎
-
“आकर्णकृष्टकोदण्डमण्डलनिर्गलच्छरधोरणीनोरन्ध्रनिरुद्धभुवनकन्दरः सुष्ठु खलु रामरावणयोर्निर्भरः समरसंरम्भः । अहह कापि लक्ष्मणज्येष्ठस्य दशरथनन्दनस्य धानुष्कता येनातिक्रम्य रथवरकेतुदण्डं शरच्छटाः प्रवर्त्तन्ते ।” ↩︎
-
“आमूलोलितपारिजाततरुराजा उत्कम्पितानल्पकल्पपादपा विसूत्रितसंतानतरुसंताना विमर्द्धितामन्दंमन्दाद्रुमा निर्गलितनन्दनवनहरिचन्दना इमे आसूत्रितसेप्तभुवनावसानाः पवमानाः प्रवर्त्तन्ते ।” ↩︎
-
“तदद्व्यप्रभुति दशाननं नवाननं व्याहरिष्यामः।” ↩︎
-
" तत् किमिते न पटुपटहझल्लरीमिश्रं सवंशकांस्यतालमिश्रं निःशङ्कशङ्खं भूरिभेरीविपञ्चीप्रपञ्चभाङ्कारभङ्कारभङ्गिगर्भिणीकुसुमवर्षपूर्वमनवच्छिन्नमास्फालितो देवताभिर्विजयदुन्दुभिः ।" ↩︎
-
“हा दुर्द्धरतयोविशेषपरितोषितारविन्दासन त्रिभुवनैकमल्ल दशकण्ठहा हेलाबन्दोकृतमहेन्द्र मेघनाद हो समरसंरम्भसुप्रसच कुम्भकर्ण क्वासि देहि मे प्रतिवचम् ।” ↩︎
-
“यत् त्रिनेत्रमित्रस्य नगरी भणति ।” ↩︎
-
“किं पुनर्विशुद्धिकारणम् ।” ↩︎
-
“तदेहि गत्वा प्रेक्षामहे ।” ↩︎
-
“किमिव श्रावयतु ।” ↩︎
-
“तद् भणितं जनकनन्दिन्या येन रावणपत्नीनामपि दलितानि हुदयानि । गगनाङ्गणादपि बाष्पबिन्दुसंदोहा निपतन्ति ततस्ततः ।” ↩︎
-
“अहो देवतानामपि सीतापक्षपातोऽथवा सर्वे गुणेषु रज्यते न शरीरेषु ।” ↩︎
-
“कङ्कोलिकेलिकाननदहनो निष्करुणानां प्रथमोदाहरणं हुतवहः । ततस्ततः ।” ↩︎
-
“अनुचितकारी हुतवहो यज्जनकतनयाशुद्धिकारणं भवति ।” ↩︎
-
“तत् किं तस्याः” ↩︎
-
“एषा सा विनतानन्दनसमानोतमेरुमहाजम्बूशाखासमुत्पन्ना श्रूयते ।” ↩︎
-
“आर्यपुत्रो जानाति कः पुनरेषः ।” ↩︎
-
“आर्यपुत्रेण देवा अपि प्रहसननृत्यं प्रेक्षायिताः ।” ↩︎
-
“आर्यपुत्र किं पुनरिदं करिदन्तच्छेदपाण्डुरं पूर्वपश्चिमसिन्धुबन्धोभयपर्यन्तं तदुत्तरदिशाकुहरपूरणधुरन्धरं दृश्यते ।” ↩︎
-
“आर्यपुत्र । इहेवार्धनारीश्वरो हरः संवत्तः ।” ↩︎
-
“इह हिमवन्महीधरे चन्द्रशेखरा न्मकरध्वजनिर्दहनं रघुकुलमहत्तरिकाः प्रशंसन्त्य आसन् तत् क्व पुनस्तत् ।” ↩︎
-
“परमेश्वरशरीरपरीक्षितती क्षविशिखस्य मकरध्वजस्य वनिवेशः ।” ↩︎
-
“पुञ्जोकतार्यपुत्रकीर्तिसन्तानानुकारी राशीभूतहराद्वहाससतृशनि वेत्रः प्रलयानर्लापण्डोभूतक्षीरसमुद्रदुग्धोत्करप्रतिरूपः कतरः पुनरेष महीधरः।” ↩︎
-
“कः पुनरेष नित्यतरुणतरुमण्डलीपरिचुम्बितमहानितम्बसविवेशो मार्तण्डचण्डेकरथचक्रचुम्बनमसुणसुवर्णशिखरो महीधरो दृश्यते।” ↩︎
-
“केतकीकेसरपरागप्रतिरूपः पक्वघनसारपांसुप्रसरसदृशच्छविर्मुक्ताफलविशदशोभासंनिवेशो निवेशितानन्दकन्दो हृदयस्य कुतः पुनरेतावान् ज्योत्स्राप्रसरः।” ↩︎
-
“भगवन् गगनाङ्गणपुष्प पुष्पक साम्प्रतं परिणम्याम्बुशलम्बी भव येन स्थिरं जलनिधिज्ञानपत्रं सीमन्तरेखां वारुणीतरुणया आर्यपुत्रप्रतापग्रसरप्रथममार्ग महासेतुबन्धं पश्यामः।” ↩︎
-
“नीलमणिकुट्टिममिव वरुणभवनाङ्गणस्य निर्गममार्गमिव पातालतिमिरचक्रवालस्यालवालमिव भुवनमहामहीरुहस्य गोष्ठीस्थानमिव दिशाविलासिनीनां दर्पणमिव गगनाभोगस्य महोदधिं प्रियसखि प्रसुतीयमानप्रसारिताक्षी पश्य।” ↩︎
-
“आदिकन्दं लक्ष्मीलताकन्दल्या उदयाद्रिं हरचूडाचन्द्रस्य वारीबन्धमेरावणस्य महाकलशं पीयूषस्य प्रणमामि भगवन्तमुदन्वन्तम्।” ↩︎
-
“अखण्डिताखण्डलकोदण्डमण्डलप्रतिरूपः कतरः पुनरेष उद्देशः।” ↩︎
-
“इह किल भगवानगस्त्यमहषिर्निवसति।” ↩︎
-
“यत्र किल युष्माकं वर्षर्तुरतिक्रान्तः।” ↩︎
-
“पुत्र एहि उड्डीय विमानशिखरं समारोह।” ↩︎
-
“रणरणककारणं कामिमिथुनानां कामिनीमानग्रन्थिनिष्टपनो यतः किल समीरणः प्रवर्तते।” ↩︎
-
“होमोह्यमानहुतवहा विवियमाणकथामुक्ताः पठामानबदुचरणा वर्ण्यमानधर्मशास्त्रा उपदिश्यमानसमाधिमार्गावरिवस्यमानातिथिवर्गाः पर्णत्रनसंनिवेशमस्मादृशानामपि संसारग्रन्थिनिष्टपनाः।” ↩︎
-
“* यत्रोत्पन्ना मे पितामहश्वशुरस्य गृहिणीन्दुमती ।” ↩︎
-
“इयं नर्मदा दृश्यते।” ↩︎
-
“दृतोऽस्माकमार्यसुमन्त्रोनिवृत्तः।” ↩︎
-
“वेणियष्टिरिव वसुन्धरापुरन्ध्या निस्यन्दपङ्कमिव गगनस्येन्द्रनीलकणिठकेवोत्तरदिशः पुरतः कालिन्दी दृश्यते।” ↩︎
-
“दशकण्ठसूदन वाराणसीसंकीर्तनेन स्मारितास्मि अक्ष्यानन्दां जननीभूतां मिथिलां महानगरोम्।” ↩︎
-
“भगवति मिथिलानगरि समं गुरुजनेनैषा प्रणम्यसे।” ↩︎
-
" लङ्घितसागरायद्धनुसतोऽपि दूरदेशदर्शिनी दृष्टिः शीघ्रेति प्रतिभाति।" ↩︎
-
“वत्स भरत उत्थाप्यतां वदनेन्दुर्भवतु ते आनन्दमन्दवरिस्यन्दा दृष्टिः।” ↩︎
-
“वत्स शत्रुघ्नचिरं नन्द जननीजनस्तेक्व।” ↩︎