[[अद्भुतदर्पणम् Source: EB]]
[
[TABLE]
[TABLE]
[TABLE]
काव्यमाला।
<MISSING_FIG href="../books_images/U-IMG-172071569511.07.2024_22.04.19_REC.png"/>
श्रीमहादेवकवि
^(१)विरचितम्
अद्भुतदर्पणम्।
<MISSING_FIG href="../books_images/U-IMG-172071576311.07.2024_22.05.31_REC.png"/>
प्रथमोऽङ्कः।
श्रेयः श्रियो रसज्ञो ददातु पुरुषोत्तमो भवताम्।
जागर्ति यः पयोधौ तादृशतरुणीजिधृक्षयेव पुनः॥ १ ॥
अपि च।
अन्यादृशं चमत्कारमात्मानन्दैकसाक्षिणम्।
दर्शयन्तीं प्रतिव्यक्ति देवीं वाचमुपास्महे॥ २ ॥
_________________________________________________________
१. “कौण्डिन्यवंशसंभवो महाकविः श्रीमहादेवो दक्षिणदेशे दक्षिणेन कावेरीतीरमैरावताराधितस्य कामिनीवामभागस्य भगवतो महेशस्य संनिधौ वर्तमाने पलमारनेरीनामनिग्राम आसीत्, ‘औदार्यं रघुपुंगवे तदनुजे चौद्धत्यमत्यद्भुतं सीतायाश्च यथा पतिव्रतगुणो लोकोत्तरो दृश्यते ।अस्मिन्नद्भुतदर्पणे कविमहादेवस्य वाङ्निर्मितेऽप्येवं पश्यत दृश्यते यदिगुणो यः कोऽपि वक्राश्रयः॥ दिक्चक्रं कियदण्डभित्तिभिरिदं नन्वावृतं सर्वतोऽप्यण्डं नामकियत्रिविक्रमपदैराक्रान्तमेव त्रिभिः। तन्निर्यन्त्रणबालकृष्णभगवत्पादप्रसादोन्मिपत्प्राचण्ड्यः कविमण्डलेश्वरयशोगुम्फः क्व वा जृम्भताम्॥’ इत्यनेनैव विरचिताभ्यां पद्याभ्यामस्यबालकृष्णगुरोरन्तेवासित्वमवगम्यते तस्य च बालकृष्णगुरोः समानकालीनो नीलकण्ठविजयचम्पूकर्ता नीलकण्ठदीक्षित इति श्रीरामभद्रकविविरचिते जानकीपरिणयनाटके ‘यस्य स्तौति मतिं मनीषिसदसि श्रीनीलकण्ठाध्वरी कोण्डाज्योतिपिकश्च यस्य कुरुते संमानमार्यैः समम् । यत्रानुग्रहदृष्टिमर्पयति च श्रीवालकृष्णो गुरुः सोऽयं दीव्यति चोक्कनाथमखिनामक्रीतदासः कविः॥’ इत्यनेनावगतम् तस्मादेषोऽपि नीलकण्ठदीक्षितसमानकालीन एवेति निश्चीयते तेन तावन्नीलकण्ठविजयनामकचम्पू१६३७ मिते ख्रिस्तसंवत्सरे निरमायीति तद्ग्रन्थादेव ज्ञातमेव” इति
सुब्रह्मण्यशास्त्री.
(नान्द्यन्ते)
**सूत्रधारः—**कियच्चिरमुद्धृष्यते नान्दी कुशीलवैः। अथवा आचार इति काममनुष्ठीयतामिदं रङ्गपूजाभिधानं मङ्गलम्। वस्तुतस्तु
आ प्राभाकरयज्वनः स्वयमभिव्यक्तीभवद्ब्रह्मणा-
माचारैश्चरितार्थितश्रुतिगिरामाजानशुद्धात्मनाम्।
कौण्डिन्यव्यपदेशपूतयशसां यद्ब्राह्मणानां चिरा-
त्संघोऽयं सफलीकरोति नयनं तन्नः परं मङ्गलम्॥ ३ ॥
(प्रविश्य हृष्टः)
विदूषकः—
तुह णन्दी वा वम्हणसेवा वा होदु मङ्गलं किं वि।
मह उण मङ्गलमेदं जं लद्धा मोदआ इमिणा॥ ४ ॥ (क)1 तव नान्दी वा ब्राह्मणसेवा वा भवतु मङ्गलं किमपि। मम पुनर्मङ्गलमेतद्यलुब्धा मोदका अनेन॥")
**सूत्रधारः—**सखे रोमन्थक, अद्य किल लङ्केश्वरनर्मसुहृदो महोदरस्य भूमिका निष्प्रमादमभिनेतव्येति प्रागेव दत्तं ते मोदकपारितोपिकम्।
**विदूषकः—**कहं अज्ज णच्चिदव्वम्। अह वा ईरिसी एव्व दुज्जी-विआ सेलूसोपजीवआणम्। (ख)
**सूत्रधारः—**अयि, मन्यसे किंनिमित्तोऽयमारम्भ इति।
**विदूषकः—**हुँ, किंणिमित्तो त्ति। मह क्खु महाबम्हणस्स मोदओवा-अणपुवं अङ्गसभाअणं कादुं त्ति। (ग)
**सूत्रधारः—**सत्यमयमेव तस्य तस्य स्वार्थनिमित्तः प्रतिभाति। पश्य। दत्तोपायनमोदकं द्विजनुषामग्रार्चनं त्वादृशां
संदर्भे परिशोधनं कवयितुः सत्प्रीणनं मादृशाम्।
कीर्तिर्नाटकनायकस्य सदसः सद्यः परा निर्वृतिः
कस्य स्वार्थकृते न शंस भुवने नाट्यक्रियारम्भणम्॥ ५ ॥
**विदूषकः—**होदु एवं दाव एदम्। कोउण एत्थ बम्हवोसपरिपूरिए जण्णवाडे तुह सङ्गीदअं सुणिस्सदि। तुमं उण कण्डूलचलणो कहं णच्चिदव्वं त्ति परिभमन्तो मं खेदेसि। (क)
**सूत्रधारः—**नन्वेत एव महाब्राह्मणाः संततयजमानतया निरूढयजमानशब्दास्तत्र-भवतश्चराचरगुरोररौवताराधितचरणारविन्दस्य भगवतः परमेश्वरस्य परिसंनिधानमुपक्रान्तविविध-महाक्रतूपनिमन्त्रितानामनेकदेशान्तरसमागतानामखिलकलाकलापनिकषाणां महाजनानामादरमतिमहान्तमनुरुन्धानाः समादिशन्ति।
**विदूषकः—**किं इमादो जण्णवाडादो पडकुसीलवा ओसरन्तु त्ति। (ख)
सूत्रधारः—(सस्मितम्।) नन्वध्वरशोभायै वयमाहूताः।
**विदूषकः—**होदु। कीरिसो उण आदेसो। (ग)
**सूत्रधारः—**यथा विदित एव हि तत्रभवानस्मत्कुलगुरोरभिनवसौभरेरवनितलब्रह्मणः प्राभाकरदीक्षित इति सुगृहीतनाम्ना पवित्रितजगत्रयस्यमहर्षेरवतार इव द्वितीयः कुलभूषणमस्माकं कृष्णसूरिः।
**विदूषकः—**तदो तदो। (घ)
**सूत्रधारः—**अस्ति तस्य किल सूनुरायुष्मानस्माकं गर्भरूपो वत्स महादेवः।
**विदूषकः—**अत्थि। सुणीअदि गोट्ठीसु। (ङ)
**सूत्रधारः—**स किल बालजनसुलभेन चापलेन कविगणनामिच्छन्नाटकमिति यदेतदभिनवमभिनिर्वर्तितवान् तदद्य कर्मान्तरेषु युष्माभिः प्रयुज्यमानमार्या यावत्परिशोधयन्तीति।
**विदूषकः—**णं पुढमं दाव रावणपिअवअस्सस्स महोदरस्त भूमिआ अभिणेदव्वेत्ति णिमन्तअन्तेण तत्तहोदा अव्भुअदप्पणं क्खु णाडअं अभिषेदव्वं त्ति आअक्खिदं होइ। दाणिं उण णिजकुलपुत्तअस्स कइणो णाडअं पओअणिज्जं त्ति जजमाणा आदिसन्ति। कहं एदम्। (क)
**सूत्रधारः—**इदमेव तदद्भुतदर्पणं नाम।
**विदूषकः—**जुज्जइ जुज्जइ। अह कहं एत्थ एव्व अत्तणा लालणिज्ज्ञे वि एदाणं ओधिरिअपक्खवाआ दोसपरिसोहणेसु मज्झत्थदा। (ख)
**सूत्रधारः—**अयि मा मैवम्।
आशङ्किते सकृदसत्यपि वाच्यलेशे
स्वस्त्रीसुतेष्वपि जनैः परिशोधनानि।
शुद्धिप्रकर्षपिशुनान्यनुमन्यमाना
मध्यस्थतापि ममतैव सतां विमृष्टा॥ ६ ॥
किं च।
अपि स्वैराचारैः कलुषमितरेषां शमयतः
परश्लाघायत्ता भवति महतः स्वेषु शुचिता।
अहल्यावैकल्यक्षपणपदरेणोरपि विभोः
प्रमाणं वैदेहीचरितपरिशुद्धौ हुतवहः॥ ७ ॥
**विदूषकः—**होदु। आरिअभट्टप्पमुहेहिं पुव्वाआरिएहिं विरइ-एसुसत्थगन्थसंदभेसु सुलहे कम्मन्तरविणोदे एदाणं किं एदेण कव्ववन्धपरिसीलणेण। (क)
सूत्रधारः—अविमृश्येदमुदीरितमार्येण।
वेदो यः स हि शास्त्रमस्य तु पुनस्तत्वार्थमा जैमिने-
रद्याप्यार्यवचांसि वास्तवदृशा सर्वाण्युपस्कुर्वते।
तेषां यत्र मुखे रसो हृदि चमत्कारः प्रसादोऽखिले
तन्मात्रं परिमुच्य वाक्यमितरत्सर्वं तु शास्त्राणि ते॥ ८ ॥
तदात्तामेतत्। प्रस्तूयतां प्रकृतम्। अपि धृतानि ते पाठ्यानि।
विद्रूपकः—अह इं। किं दु दाणिं एव्व मोदआणं परिपूरिओ मे पिचण्डिओ कहं दाणि एव्व णच्चिदव्वम्। (ख)
सूत्रधारः—अयि, मा भैषीः। नन्वत्र रूपके गूढप्रणिधिना हनूमता निवेदितेषु निखिलेषु वैरिमर्मसु तत्क्षणनिबद्धेन सेतुना निस्तारितसागरमखिलनेव वलीमुखबलमधित्यकासु त्रिकूटस्य निविडितलङ्कापुरगोपुरं निवेशितवत्येव महाराजरामदेवे समन्ततस्तत्कालविजृम्भितानि महाविमर्दसूचकानि निमित्तानि बहुमन्यमानस्य कुमारलक्ष्मणस्य भूमिकैव प्राथमिकी। तद्विश्राम्यतु भवान्यावत्प्रवेशो दशाननस्य। तत्कालप्रयोक्तव्यानि खलु कानिचिदेव केवलवाचिकानि ब्राह्मण इति परिहृत्याङ्गहारं पाठितोऽसि।
विदूषकः—सोत्थि हो। ता इदो एव्व कावेरीपरिसरे जजमाणाणं अण्णसत्तसालं पविसिअ विस्समामि। (ग)
**सूत्रधारः—**अहमप्यनन्तरकरणीयाय सज्जीभवामि।
(इति निष्क्रान्ती।)
** प्रस्तावना**।
¯¯¯¯¯¯¯
(ततः प्रविशति लक्ष्मणः।)
लक्ष्मणः—(सर्वतोऽवलोक्य। साशंसम्।)
स्वस्त्यद्य सुप्रभातं हन्त निमित्तान्यमूनि दृष्टानि।
अपि रण इति वा शृणुयां मनसा वा वैरपारमपि यायाम्॥ ९ ॥
अथवा दूरे तावदेतत्। संधित्सति नाम राजा तारेयमुखात्। किं नु खलु कथयामि।
तन्नैव स्मृतमाश्रुतं सदसि यद्रक्षःकुलोन्मूलनं
तजीर्ण हृदि यद्विभीपणवशे संकल्पिताः सिंहलाः।
अन्यत्प्रस्तुतमद्य नूतनतया यत्किंचिदार्येण मे
मानी संधिकथां करोति हृदि कस्तद्वैरमूलं स्मरन्॥ १० ॥
भवतु। निर्वर्तितं हि मे भगवतः सूर्यस्योपस्थानमागस्त्येन मन्त्रेण। यावदार्यमवलोकयामि। (परिक्रम्यावलोक्य च।) एष निवासतया परिगृहीतस्य महतः सालतरोरधस्तादन्वास्यते जाम्बवता। अस्य हि
मद्वक्रेऽपि यदा दधाति न पदं दृष्टिः समग्रं ह्रिया
यद्वैयर्थ्यमिव व्यनक्ति विततश्वासः स्वगात्रेष्वपि।
मूर्धा शश्वदकाण्डशुष्कहसितैर्यच्चाग्रतः कम्पते
तन्मन्ये परिवर्तते निशिचरन्यक्कारशल्यं हृदि॥ ११ ॥
भवतु। उपसर्पामि।
(ततः प्रविशति यथानिर्दिष्टो रामः।)
रामः—(स्वगतम्।)
न्यक्कारस्य करिष्यते प्रतिकृतिः शत्रोः शिरःकर्तनै-
र्वंशस्योन्मथनेन जातिहननैरन्येन वा केनचित्।
दृष्टिं कोणयतो मुखं नमयतो धिग्वीरगोष्ठीजुषः
प्राप्तस्यास्य मम प्रमादजनुंषो वाच्यस्य का निष्कृतिः॥ १२ ॥
ततः परमग्निसंक्रान्तिरादिष्टा।
रामः—किं नाम।
जाम्बवान्—देव, पूर्वेद्युः किल मेघनादेन सकुटुम्बकमेव विभीषणगृहमग्निसात्क्रियतामित्यादिष्टमिति ब्रुवन्नमात्यसंपातिरिव श्रूयते।
रामः—कष्टम्। अत्याहितं प्रियसुहृदः।
(ततः प्रविशतः विभीषणामात्यौ ।)
प्रथमः—सखे संपाते, ततस्ततः।
संपातिः—सखे अनल, ततश्च दुरात्मनो मेघनादस्य व्यवसितं त्रिजटामुखादाकर्ण्य सद्य एव देवस्य कुटुम्बकमादाय गूढेन पथा मैनाके निवेश्य निवृत्तवानस्मि।
अनलः—साधु संपाते, साधु।
संपातिः—क पुनरिदानीं प्रस्थितोऽसि।
अनलः—देव, विभीषणादेशाद्रामदेवान्तिकम्।
संपातिः—तदेहि तावत्। उपसर्पावः।
(उपसृत्य प्रणमतः।)
जाम्बवान्—भद्र संपाते, दिष्ट्यावर्धसे सफलेन स्वामिकार्याभिनिवेशेन।
रामः—भद्र, किमन्यत्प्रष्टव्यम्। अवैकल्यमेव हि वयस्यविभीषणस्य।
उभौ—देवप्रसादात्।
रामः—दिष्ट्या दिष्ट्या।
(सर्वे हर्षे नाटयन्ति।)
लक्ष्मणः—(स्वगतम्।) उपहसामि तावदेतान्। (उपसृत्य।) आर्य,अभिवादये।
रामः—वत्स, इत आस्यताम्।
लक्ष्मणः—(उपविश्य।) कोऽयमिदानीमस्थाने हर्षोद्रेकः। महता खलुनिमित्तेन भवितव्यम्।
जाम्बवान्—कुमार, वाढम्।
लक्ष्मणः—
तर्हि पृच्छामि।
जीवग्राहमरिः किमद्य ससुतज्ञातिर्गृहीतो रणे
जाम्बवान्—
कियदेतत्कुमारकोपलेशस्य।
लक्ष्मणः—
क्षिप्ता सागरसंप्लवे हरिवरैरुन्मूल्य लङ्कैव किम्।
जाम्बवान्—
इदं तावदिदानीं कर्तव्यम्।
लक्ष्मणः—
अहो मे युद्धाधिरोहिणी तृष्णा यदनालोचितप्रस्तावमन्यदन्यत्पृच्छामि। इदं तु कालोचितं हर्षकारणं भविष्यति। यदुततारेयोपहृतां कथंचिदपि नः संधिप्रसक्तिं चिरादार्यामोक्षमृते तु राक्षसपतेः संमन्वते मन्त्रिणः॥ १३ ॥
जाम्बवान्—
कियदुपहसितं कुमारेण।
रामः—
(स्वगतम्।) हा प्रिये जनकराजनन्दिनि, अथवा अये हृदय, कथं प्रसङ्गादनुस्मृत्यैव तां विक्लवमसि। ननु प्रतिलभ्यतां सीता। अथ करिप्यते यथाकाममुपालम्भः। (प्रकाशम्।) श्रुतं तावदार्यमिश्रैः संधिर्नामस पुनरार्यामोक्षमृते नाम। तं च कथंचिदपि राक्षसपतेर्मन्त्रिणः संमन्वते नाम।
जाम्बवान्—
अपि च देव, ततश्च नामायमस्माकं हर्षः।
अनलः—
नन्वयं देवस्य विभीषणस्य कुटुम्बकवृत्तान्तश्रवणेन**—**
(इत्यर्धोक्ते।)
लक्ष्मणः—
भद्र, काममभिनन्दित एव मया कुटुम्बकवृत्तान्तः। किंतु तारेयप्रेपणं प्रत्यस्माकमयमुपोद्घातः।
जाम्बवान्—
नन्वसौ देवेन लङ्कामुपमर्दयिष्यता रिपुण्वप्रमाद निवेदकः प्रहितः।
लक्ष्मणः—
स्थाने खलु नैकृतिकेष्वपि परेषु महावीरतायाः सदृशमार्येण। जनस्तु संधित्सयेति तत्संभावयति।
रामः—
(निश्वस्य।) अस्तु तावत्। (परितोऽवलोक्य।) नास्ति खल्वत्र बाह्यो जनः। यतो निःशङ्कमावेद्यते हृदयखेदः।
परेण भार्या प्रसभं हृतेति सा तस्य गेहे सुचिरं स्थितेति।
तत्प्राप्तियत्नोऽपि च संधिनेति रामस्य जीवनमरणान्यमूनि॥ १४ ॥
सर्वेः—(कर्णौपिधाय ।) शान्तं पापं शान्तं पापम्। प्रतिहतममङ्गलं प्रतिहतममङ्गलम्।
लक्ष्मणः—(स्वगतम्।) कथं यदृच्छाविक्षिप्तेन चेतसा क्षणमिव समुच्छ्वसतो निरन्तराबद्धसंवेगदारुणमामज्जकीलितमजानता मया पुनरपि परिवट्टितं हृदयशल्यमार्यस्य। (प्रकाशम्।) आर्य, नार्हसि महार्हमात्मानमस्थाने गर्हितुम्।
**उभौ—**किं नाम व्याहृतं देवपादैः।
**जाम्बवान्—**भद्रौ, किं नामेति। नन्वेत एव निखिलभुवनपरित्राणमहार्घजीविता महान्तो यद्येवमादिशन्ति।
**रामः—**सत्यं निखिलभुवनपरित्राणमहार्घमेव जीवितं रामस्य।
एकस्त्रीपरिरक्षणेऽपि जडतामेतां प्रमादोत्तरां
येन प्रागपि जानतैव विधिना राज्यात्परिभ्रंशितम्।
संप्राप्तेऽपि पराभवे कुलभुवां प्राचामवाचामपि
व्रीडायैचिरदेहधारणमिदं संमन्यते केवलम्॥ १५ ॥
**उभौ—**कथमतिवर्तन्ते मन्युसंरब्धानि देवस्य जल्पितानि।
जाम्बवान्—(सहसोत्थाय प्रणम्य।) मा तावत्। कष्टमनुक्षणकदर्थिता एव वयं प्राकृतेनेव पराभवः पराभव इति धूमायमानैः स्वामिपादैः। नन्वसकृदावर्तितविश्वत्रयविजयदृप्तेषु महावीरेषु चापगुणारोपणसमसमयसमारोपितशासनस्यतत्रभवतो महापुरुषधौरेयस्य दर्शनभयगूढचारिणा केनापि दिवान्धेनेव दिवाकरस्य कीदृशोऽयं पराभवो नाम।
**लक्ष्मणः—**सम्यगुपपादितमनुक्षणकदर्थिता इत्यार्येण जाम्बवता।
जाल्मश्चौर्यमिदं चकार किल यस्तस्याद्य दृष्टं पदं
संप्रत्येव स दण्ड्यते च सगणो यत्किंचिदास्तामिदम्।
किंतु न्यङ्गतयावबुध्य तदिदं लज्जान्धकूपे चिरा-
दस्थाने खलु ताम्यता ननु वदाम्यार्येण दूयामहे॥ १६ ॥
**रामः—**वत्स, किमुच्यते चौर्यमिति। साधुरयं पन्थाः स्वदोषगोपनेषु। पश्य।
वैरोपदर्शितपथेषु मुहुः परेषां
सर्वप्रकाररचितेषु पराभवेषु।
मायेति चौर्यमिति वञ्चनमित्यशक्तै-
राच्छाद्यते सहज एव निजः प्रमादः॥ १७ ॥
अनलः—
देव, मायाप्रसङ्गादिदमनुस्मारितोऽस्मि।
लक्ष्मणः—(स्वगतम्।) दिष्टयाष्या कथान्तरं प्रस्तुतममात्यानलेन। (प्रकाशम्।) आर्य, नन्वयमाकर्णितविज्ञापनाक्षरः प्रतिप्रेष्यतां महाराजविभीषणस्यान्तिकम्।
रामः—(निश्वस्य।) आस्तां तावदयमान्तरः कुम्भीपाको रामस्य। भद्र,किमस्ति संदेशः प्रियसुहृदो विभीषणस्य।
**अनलः—**देव, अथ किम्। विज्ञापनावसरं तु नाधिगच्छामि।
**रामः—**अयि भद्र,
अर्थान्कार्यौपयिकानावेदयितुं हितैषिणा राज्ञः।
नावसरः प्रतिपाल्यो विशेषतो विग्रहावतीर्णस्य॥ १८ ॥
**जाम्बवान्—**युक्तमाह देवः।
**अनलः—**इदं तावत्स्वामिपादान्प्रणम्य देवविभीषणो विज्ञापयति—‘स्वामिपादादेशादतर्कितानीतेन महता गोलाङ्गूलबलेन निकुम्भिलाभिधानंकुमारदुर्गमुपनिपीडयता परिज्ञातो मया लङ्कायामध्यवसायः।’
**रामः—**कीदृशः।
अनलः—‘मायाप्रायं योद्धव्यमिति तदर्थं च मयशम्बरविद्युज्जिह्वप्रमुखमानीयते परैरादिमायाविकुलम्।’
**लक्ष्मणः—**मायेति नाम कापि महती खल्वियं विभीषिका राक्षसानाम्।
**रामः—**स्थाने हि ते निजेनैव बलेन जेतुमिच्छन्ति। मायाबला हि राक्षसी जातिः। अपि च।
दृष्टः शस्त्रविमर्दनिर्दयभुजो रामः कुठारायुधः
दृष्टो योजनवाहुरद्भुतजवद्वन्द्वाहवैकत्रती।
दृष्टः पर्वतवृष्टिदुर्दिनरणच्छ्लाघी च वाली मया
द्रष्टव्याः खलु सांप्रतं पुनरिमे मायाविनो राक्षसाः॥ १९ ॥
(इति चिन्तयति।)
(ततः प्रविशति वानरवेषः शम्बरः।)
शम्बरः—(स्वगतम्। हुंकृत्य।)
दृष्टा एव जनस्थाने पत्नीं हारयता त्वया।
मायिनो राक्षसा हन्त द्रक्ष्यन्ते सांप्रतं च ते॥ २० ॥
(परिक्रामन्।) कथमनावृत एवायमुपसर्पामि। अथवा अस्ति वैदेहीविरहातुरस्य महाराजलङ्केश्वरस्य परिहासविनोदनाय प्रागेव धृतोऽयं मे वानरवेषः। (आत्मानं विलोक्य।)
धिग्जातिरीदृगपि जीवति जीवलोके
हासाय केवलमशेपजगज्जनानाम्।
एतां कथंचिदपि वा विपहे जुगुप्सां
वेपोऽप्ययं वत विडम्बयितुं न शक्यः॥ २१ ॥
तथाहि।
उत्प्लुत्य धावनमकाण्डभयापसर्पः
पुच्छावधूतिरसकृद्धबभ्दुकुटिक्रिया च।
इत्यादि शिक्षितमभूदखिलं कथंचि-
देका तु सा किलिकिला मम दुर्ग्रहैव॥ २२ ॥
भवतु। प्राप्तावसरं विधास्यामि। (उपसृत्य। दृष्ट्वा।) कथमेतावप्यत्रैव विभीषणानुचरौ। भवतु। यावदेतावप्यपसर्पतस्तावद्वृक्षान्तरितः प्रस्तावमनुपालयामि।
(तथा करोति।)
अनलः—देव, सावशेषं मे विज्ञापनम्।
रामः—भद्र, ततस्ततः।
**अनलः—**ततश्च प्रागेव संग्रामावतरणात्किमपि संकेतयितव्याः सर्वेसैनिका इति।
**जाम्बवान्—**देव, कदाचिद्वानरवेषेण राक्षसा विचरेयुः।
**शम्बरः—**कथमहं परिज्ञातोऽस्मि। अथवा संभावना खल्वस्य भल्लूकस्य।
**जाम्बवान्—**ततश्च स्वयमेव महाराजविभीषणेन खपरविवेचकःसंकेतः कर्तव्य इति।
**शम्बरः—**कथं संकेतकरणमनुमत्रयते। विभीषणश्च माययाप्यस्माकमधिकोऽसुसंपादामेव संकेतमुद्रां विधास्यति। कथमिदं परिज्ञास्यामः।अथवा अस्ति महाराजलङ्केश्वरस्य श्वशुरेण दानवेन्द्रेण दर्शनोपदीकृतो महामणिरद्भुतदर्पणो नाम।
प्रतिफलति यत्र सर्वं वस्तु यदा योजनत्रितयात्।
तत्तत्क्रियाश्च सर्वा विना पुनर्मानसीं वृत्तिम्॥ २३ ॥
तदत्रैव स्फुटीभविष्यति यदेते किंचिच्चेष्टेरन्।
**जाम्बवान्—**भद्र संपाते, किमिदमाकर्णितं महाराजविभीषणेन मेघनादस्य दौर्जन्यम्।
**संपातिः—**इतः स्वामिपादानुज्ञया विज्ञापयिष्यामि।
**जाम्बवान्—**आः, पश्यत दुरात्मनो मेघनादस्य दौर्जन्यम्।
**रामः—**किमाश्चर्यमार्यस्य।
पितृव्ये राजपुत्राणां ज्ञातिद्वेषोविशिष्यते।
आनन्तर्यस्य यत्साम्यमभ्यसूयापदं हि तत्॥ २४ ॥
**लक्ष्मणः—**मेघनादो मेघनाद इति महती खलु गणना तत्रभवतोजाम्बवतः।
**जाम्बवान्—**कुमार, नहि नहि दौर्जन्यमस्य प्रभवति।
**लक्ष्मणः—**सत्यमेतत्।
प्राप्याप्यरीन्कथंचिद्यदि वयमेवं भवेम तूष्णीकाः।
तेषां दौर्जन्यमिति प्रभवति तच्चेति किं चित्रम्॥ २९ ॥
**रामः—**वत्स, यावदङ्गदो निवर्तते।
**शम्बरः—**कुतः पुनरङ्गदस्य जीवतो निवृत्तिः। यतः स किल यदिभिद्यमानो न घटेत, ततस्तन्नियमनाय कृतमेव तत्र संविधानकममात्यमाल्यवता।
**अनलः—**देव, अङ्गदावलम्विनी च काचित्किवदन्ती।
लक्ष्मणः—(सावज्ञम् ।) यत्किल तमधिकृत्य भेदः प्रस्तूयते इति।
**अनलः—**अथ किम्।
**रामः—**कालः खल्वयमुपायानां प्रयोगस्य।
**जाम्बवान्—**भद्रौ, विचार्यतां सर्वमपि स्वेषु परेषु वा मर्म।
**उभौ—**यथोक्तमार्येण। (इति परिक्रामतः।)
**रामः—**भद्रौ, इतस्तावत्।
उभौ—(प्रतिनिवृत्य।) आज्ञापयन्तु स्वामिपादाः।
रामः—मद्वचनाद्वक्तव्यस्तत्रभवान्वयस्यविभीषणो वयस्यसुग्रीवश्च—‘सर्वथा अप्रमत्ताभ्यां परिभ्रमितव्यम्’ इति।
‘धुर्यौ मनोरथस्य हि सुग्रीवविभीषणौ यतश्च रतः।
स किलास्माकं पन्थाश्चक्राणामिव परिभ्रमताम्॥ २६ ॥
**उभौ—**यदाज्ञापयन्ति स्वामिपादाः। (इति निष्क्रान्तौ।)
**शम्बरः—**अयमवसरो ममात्मानं दर्शयितुम्। गृहीतश्चायमङ्गदभेदप्रस्तावः। (ससंभ्रममुपसृत्य। लक्ष्मणस्य कर्णे) एवमिव।
**लक्ष्मणः—**मूर्ख, कथमियतैव संविग्नोऽसि।
शम्बरः—(स्वगतम्।) कथमियतैवेति ब्रवीति। अहो धीरता क्षत्रियडिम्भस्य। (प्रकाशम्।) कातरा खलु वानरप्रकृतिः।
**रामः—**किमाह दधिमुखः।
**लक्ष्मणः—**आर्य, न किंचिदन्यत्। वालिसूनुः किल पित्र्यं पन्थानमिच्छति।
**रामः—**किमनुप्रविष्टः परपक्षम्।
**शम्बरः—**देव, अथ किम्।
**रामः—**भवतु कोपः। फलं तु ज्ञातुमिच्छामि।
**शम्बरः—**अप्रतिपक्षं च कपिराज्यं पितृवधवैरनिर्यातनं च।
**रामः—**साधुसमयप्रतीक्षाः खलु मानिनः कृतामर्पाः।
**लक्ष्मणः—**किमेकेन तावदङ्गदेन।
सर्वा वानरवाहिनीयमथवा भूचारिणः प्राणिनो
यद्वानुप्रविशन्तु राक्षसवलं लोकास्त्रयः सेश्वराः।
प्राकाराट्टशिलाविघट्टितशिखाशीर्णस्फुलिङ्गैः शरै-
रार्यभ्रूरचनां विनैव निमिषालङ्केयमादीप्यते॥ २७ ॥
जाम्बवान्—(विमृश्य ।) बहुच्छलानि रक्षांसि यत्किंचित्प्रथयन्ति तदनृतमिव प्रतिभाति।
**रामः—**अनृतमेवैतत्।
लक्ष्मणः
—
अनृतमिदमृतं वा तेन किं नस्तदास्तां
प्रकृतमनुसरामो यन्निमित्तः प्रयासः।
ननु रिपुपुरमेतन्मृग्यमाणं चिराय
त्रितयमिव पुराणां धूर्जटेरग्रतस्ते॥ २८ ॥
**रामः—**यथोक्तं वत्सेन।
(सर्वे उत्तिष्ठन्ति।)
शम्बरः—(स्वगतम्।) कथमन्यदेव किंचिदेतैरुपक्रम्यते। (किंचित्पर्याकुलस्तिष्टति।)
जाम्बवान्—(अपवार्य।) देव, यथायमयथातथेङ्गितः, तथा मन्ये मायागृहीतवेषो राक्षस इति।
रामः—(दृष्ट्वा। अपवार्य।) साधु, निपुणं दृष्टम्।
शम्बरः—(स्वगतम्।) नूनमिमौ मयि विचिकित्सेते। का पुनरत्र प्रतिपत्तिः।
**जाम्बवान्—**तदा निर्णयादयं बन्धनीयः।
**रामः—**यथा रोचते भवते।
शम्बरः—(स्वगतम्।) भवतु। एवं तावत्। (प्रकाशम्।) देव, सुग्रीव भक्तिमौमुखरयति। वालिपुत्रस्य परपक्षानुप्रवेशो नाम महदातङ्कस्थानं महाराजसुग्रीवस्येति बलवदस्मि पर्याकुलः। परमतः प्रमाणं देवपादाः।
**जाम्बवान्—**एहि तावत्। अत्र प्रतिकरिष्यते। (शम्बरं हस्ते गृहीत्वा निष्क्रान्तः।)
**रामः—वत्स,**तदावामप्युपलभ्य सुग्रीववृत्तान्तमुत्तरमनुसंधास्यावः।
(इति निष्क्रान्ताः सर्वे।)
इति प्रथमोऽङ्कः।
——————
द्वितीयोऽङ्कः।
(प्रविश्य)
शम्बरः—(सहर्षोद्रेकम्।) दिष्ट्या खलु दाशरथिप्रहितं कार्यलेखमवमुक्तमत्पाणिरादाय हस्ताभ्यामवहितेन चेतसा यावदनुवाचयति तावद्यदृच्छासंनिपतितं सुग्रीवपरिचारकं दधिमुखमेव झटिति गोचरीकृत्य तिरोभवतामया वञ्चितोऽयं जरद्भल्लूकः।
(ततः प्रविशति दधिमुखं हस्ते गृहीत्वा जाम्बवान्।)
जाम्बवान्—(सविमर्शम्। स्वगतम्।)
किमेष रजनीचरः किमपि मायया दर्शय-
त्यथोनु परमार्थतो दधिमुखो गृहीतो भवेत्।
इति प्रबलसंशयाकुलितचेतसासौ मया
कथं नु परिमुच्यतामथ कथं नु वा बध्यताम्॥ १ ॥
अथवा संदिष्टं हि मे देवेन लेखमुखात्। यथा निकुम्भिलामुपरुन्धानस्य वयस्यविभीषणस्य संकेतमुद्राकरणेष्वनुप्रेक्षकेण भवता भवितव्यमिति।तदनेनापदेशेन विभीषणान्तिकमेनमुपनयामि। स एव ज्ञास्यत्येतस्य तत्त्वम्।
(इति परिक्रामति।)
**शम्बरः—**तिरोहित एव चिकीर्षितमस्य ज्ञास्यामि।
(इत्यनुसरति।)
दधिमुखः—(स्वगतम्।) कथं यदृच्छादृष्टमात्रमपर्यवसितप्रणामक्रियमेव मां हस्ते कृत्वा कुत्रापि प्रस्थितमार्येण। (प्रकाशम्।) आर्य, अभिवादये।
जाम्ववान्—(स्वगतम्।) कथं सहावस्थानेऽपि प्रणामः। भवतु। (प्रकाशम्।) भद्र, चिरं जीव।
**दधिमुखः—**आर्य, अपि ज्ञायते कथमस्मिन्नुद्देशे महाराजरामदेवइति।
जाम्बवान्—(स्वगतम्।) भवतु। पश्यामि। (प्रकाशम्।) भद्र, किंनिमित्तम्।
दधिमुखः—कुमारतारेयग्रहणप्रवृत्तिमाकर्ण्य सद्य एव लङ्कामभिप्लवमानेन स्वामिना सुग्रीवेणाहमादिष्टः— ‘विज्ञाप्यतामयं वृत्तान्तो देवाय’इति।
जाम्बवान्—(स्वगतम्।) कथमन्यदेवेदानीमस्य वचनम्। अकृतकविस्रम्भश्चायमविक्रियमाणः कथयन्परमार्थ इव मे प्रतिभाति। ततश्च पूर्वमनेन राक्षसाविष्टेन भवितव्यम्। अथवा अगस्त्यमन्त्रप्रभावान्नावेशशङ्का च रक्षसां वानरेषु। तत्कथमेतत्। भवतु। पृच्छामि तावदेनम्। (प्रकाशम्।)
अयि भद्र,
ब्रूपे सद्यो यस्त्वमस्मत्पुरस्ता-
त्तारेयस्यारातिपक्षप्रवेशम्।
स त्वं सद्यस्तद्विरुद्धप्रकारं
किंचिच्चेदं जल्पसीत्यद्भुतं नः॥ २ ॥
शम्बरः—(सहस्ततालं विहस्य।) अन्धेनेव सह चक्षुष्मान्क्रीडामि।
**दधिमुखः—**तर्हि मद्रूपधारिणा केनापि राक्षसेन संक्षोभाय विप्रलब्धा यूयमिति तर्कयामि।
**जाम्बवान्—**हुं, केनापीति। ननु स एव भवानिदानीं नीयते मया।
दधिमुखः—(सस्मितम्।) अहमेव तर्हि राक्षस इति गृहीतोऽस्मि।
शम्बरः—(सगर्वम्।) न केवलं गृहीतः, अपि तु बध्यसे च।
जाम्बवान्—(सोपश्लेषम् ।) भद्र, नहि नहि। संकेतमुद्राकरणायविभीषणान्तिकं गच्छामः।
**दधिमुखः—**भवतु। शङ्का हि गुणः संकटेषु। द्रष्टव्यस्तत्रभवानशेषमायातत्त्ववेदी महाराजविभीषणः। सुग्रीवप्रवृत्तिस्तु कुतो विज्ञास्यते देवेन।
**जाम्बवान्—**नन्विदानीमेव भवन्तं प्रथमग्राहितसंकेतमुद्रं विसर्जयिष्यामि।
(इति परिक्रामतः।)
**शम्बरः—**कथमयं न दण्ड्यते, प्रत्युत विभीषणान्तिकमुपनीयते। (विचिन्त्य।) भवतु। विभीषणः खलु परायणमेतेषामस्मन्मायानिस्तरणे। तदप्राप्तविभीषणमेव दधिमुखमन्तरा विभीषणीभूय घातयन्मणिप्रभावाधिगतसंकेतमुद्रो निःशङ्कं राजपुत्रयोरभियोगविलम्बमाचरन्नन्तरदर्शी भवामि। किं च।
यत्तारेयं निगृह्णन्ति प्रहस्ताकम्पनादयः।
स्वयं राजा सहामात्यैः सुग्रीवं चैकमागतम्॥ ३ ॥
तदपि मे प्रस्तुतोपकाराय। विपर्यये तु कालोचितं विधास्यते। इयता च कालेन निर्वर्तितकाद्रवेयावाहनः कुमारमेघनादः सिद्धिष्टमूलादुत्तिष्ठेत्। ततः सुसमाहितं भविष्यति। (इति निष्क्रान्तः।)
जाम्बवान्—(विचिन्त्य। निश्वस्य।) भद्र, एवमष्टादशस्वपितीर्थेषु आवश्यकशङ्कानुषङ्गादखिलद्वेषपदं भवति राजकार्यैकतन्त्रो मन्त्रिजनः।
पश्य।
शङ्क्यः कार्यपरीप्सया परिजनो राजापि नन्वन्ततः
स्यादेवं सति कष्टमेव न मिथः शङ्केत कः शङ्कितः।
शङ्का राजहृदि व्यनक्ति यदविश्वासोत्तरङ्गं भयं
तत्प्राणान्तिकमेव हन्त धिगहो दुर्जीवितं मन्त्रिणाम्॥ ४ ॥
**दधिमुखः—**आर्य, कियदुत्प्रेक्षसे महाराजरामदेवेऽपि।
**जाम्बवान्—**भद्र, सम्यगनुबोधितोऽस्मि। सुष्ठु न चिन्तनीयान्येवविमृश्यकारिणा रामदेवेन राजन्वतामस्माकमन्यराजन्यमन्त्रिजनसुलभानि तादृशानि दुरितानि। अयं हि।
क्षोदन्नक्षमते हिताय घटते मित्रेषु दत्ते मनः
शङ्कास्थानविवर्जनैर्विवृणुते विश्वास्यतामात्मनः।
नानिश्चित्य करोति नापि कुरुते मन्त्रैर्विना निश्चयं
स्वातन्त्र्यैकफलं वलोर्जितमपि स्वाम्यं नयत्यङ्गताम्॥ ९ ॥
तदीषत्करमस्य त्रैलोक्यराज्यमपि। किं पुनर्लङ्काराज्यं यत्प्रतिश्रुतं महाराजविभीषणाय।
**दधिमुखः—**एवमिदम्। (दृष्ट्वा।) कथं महाराजविभीषण इत एवाभिवर्तते।
जाम्बवान्—(दृष्ट्वा।) कथं विभीषण एवम्। (विचिन्त्य।) इदंसुनिष्पादितं दैवेन देवस्य विजयाय। यद्रामरावणयोर्वैरोपशमेऽपि रावणविभीषणयोर्न जीवतोर्वैरोपशमः।
**दधिमुखः—**साधूक्तमार्येण।
**जाम्बवान्—**कथमस्य निकुम्भिलोपरोधादिहागमनम्। भवतु। उपसर्पावः।
(इति निष्क्रान्तौ।)
इति विष्कम्भः।
——————
(नेपथ्ये।)
सर्वथा कुशलमस्तु राज्ञे सुग्रीवाय।
(प्रविश्य।)
रामः—(धनुरास्फाल्य।) क्व मे प्रियवयस्यः।
(पुनर्नेपथ्ये।)
यदयमेक एवेदानीम्
उत्प्लुत्य प्रविशति च क्षणेन लङ्का-
मुद्भान्तप्रतिभटमुच्यमानमार्गः।
उत्पाताम्बुद इव शोणितानि वर्ष-
न्नादित्यात्पतति च दारुणः कबन्धः॥ ६ ॥
रामः—(ऊर्ध्वं पश्यन्।) अहो, साहसं वयस्यस्य।
(प्रविश्य।)
लक्ष्मणः—(त्वरितं परिक्रामन्।) आर्य, कृतं कृतं विलम्बनेन किमेतदालोक्यते। ननु यत एव महाराजसुग्रीवस्तत एव खल्वावयोरवस्थितिः।
**रामः—**वत्स, कः संदेहः।
(इति परिक्रामतः।)
(ततः प्रविशत्याकाशात्पतनमभिनयन्त्राक्षसः।)
(राक्षसो मूर्च्छां नाटयति।)
रामः—(दृष्ट्वा।) कथमयमाकाशात्पतितो राक्षसः। नूनमनेन संग्रामनिर्धूतेन भवितव्यम्। अभियोक्ता च कश्चिदस्य वानरः स्यात्।
**लक्ष्मणः—**यथोक्तमार्येण। तथा ह्यस्य
उरःपीठो मर्मत्रुटनविलुठत्प्राणविधुतो
नखानामाघातं वदति दशधा दारिततटः।
विशीर्यद्दन्तालिव्यतिकरहठच्छिन्नरसन-
स्फुटन्नुन्मग्नाक्षः कथयति च मूर्धातलहतिम्॥ ७ ॥
शृणुमस्तावत्किमप्यसौ दृढवेदनोन्मत्तः प्रलपति। कदाचित्सुग्रीवप्रवृत्तिरुपलभ्येत।
(इति तथा कुरुतः।)
राक्षसः—(तदवस्थ एव।) आः पाप वानरापसद, पतितमिदानीं ते शिरः।
रामः—(सवितर्कम्।) को हि नामायं वानरो भवेत्।
(प्रविश्य दधिमुखवेषः)
शम्बरः—(स्वगतम्।) दिष्यावकाशो मायाविष्करणस्य। (उपस्टत्य। प्रकाशम्। सर्वक्लैव्यम्।) देव, जानीहि यस्येदमिति। (छिन्नं शिरो दर्शयति।)
रामः—(दृष्ट्वा। सवितर्कम्।) वत्स, पश्य कस्येदं वानरस्येति।
लक्ष्मणः—(दृष्ट्वा।) नन्वयमार्यनियोगेन पुरा मयैव बद्धः पट्टबन्धः।
**रामः—**हा वयस्य वानरेन्द्र, कथमेतद्विपर्यस्त इव जीवलोकः।
लक्ष्मणः
**—**आर्य, कथमविचार्यैव विक्लवोऽसि।
रामः
—
श्रुत्वा च भिन्नं तारेयं सुहृदः साहसं च तत्।
प्रवृत्ति च विचिन्त्येमां पापमाशङ्कते मनः॥ ८ ॥
लक्ष्मणः—
ननु निश्चितमेतन्मायाविकल्पितमिति।
**रामः—**वत्स, सर्वत्र कथमन्यथाभावः।
**शम्बरः—**अस्तु तावदयमाश्वासः। अहं पुनरिदमेव स्वामिशिरःशिरसा वहन्भृगुपतनेन स्वामिसत्कारं प्रत्यनृणीभवितुमिच्छामि।
**रामः—**भवतु। नातिक्रान्तमद्यापि विचार्यतामेतत्।
लक्ष्मणः—(स्वगतम्।) ऋजुतया खल्वार्यः सर्वत्र प्रत्येति। (प्रकाशम्।) अहो, व्यर्थयसि किमात्मानं भृगुपतनेन। ननु तत एव मृत्युः श्रेयान्भूत्यानां यत एव स्वामिनः।
**शम्बरः—**सुष्ठु भणितं कुमारेण। (सबाष्पगद्गदम्।)
पादेन हन्त मम पश्यत एव योऽसौ
भर्तुः शिरो मृदितवान्पितृवैररोषात्।
धिक्तस्य वास्तु मम वा ननु जीवलोको
देवस्य वाल इति तत्र न चेद्दया स्यात्॥ ९॥
रामः
—
तारेयमस्य किमपि स्पृशति प्रलाप-
स्तस्यापि नन्वरिषु संवदते प्रवेशः।
कष्टं बत प्रलपितैः किमकाण्ड एव
तत्साहसं कृतवता सुहृदा हताः स्मः॥ १० ॥
**शम्बरः—**देव, कथमकाण्ड इति वञ्चितेन किं कर्तव्यम्।
**रामः—**कथं वञ्चना नाम।
**शम्बरः—**नन्वस्य देवादेशेन दक्षिणद्वारे नलनीलतारप्रमुखमुपनिवेशयत एव वानरकानीकमागत्य केनापि मद्रूपधारिणा राक्षसेन कर्णे किमपि कथितमासीत्।
सद्यः किमित्यमात्यानां यो विमर्शक्षणोमिथः।
तस्मिन्नलक्षितोत्पातः स दृष्टिपथमत्यगात्॥ ११ ॥
**रामः—**अत्याहितेन भवितव्यं रहस्येन।
**शम्बरः—**देव, तच्च रहस्यं पश्चादवगमिष्यामि। तारेयः किल गृहीतुमारब्ध इति।
**रामः—**अतः खलु मामनापृच्छयैव कृतं साहसं पुत्रवत्सलेन।
**शम्बरः—**स च मया राक्षसस्वामिपादान्तिकाद्विभीपणान्तिकमभिगच्छता दृष्टो विभीषणाय निवेदितो वद्धश्च।
रामः—
किं तेन हस्तवद्धेन तथाभूते तु तादृशे।
हृष्यामो हारितगजा विह्वराग्रहादिमे॥ १२ ॥
**लक्ष्मणः—**क्केदानीमार्यो जाम्बवान्।
**शम्बरः—**कुमार, क्वेदानीमिति न जानामि। तदैव महाराजविभीषणेन दत्तसांकेतिकस्वहस्तमुद्रः प्रत्यागच्छन्नन्तरा गन्धमादनादिममाकर्ण्य वृत्तान्तमायासाय केवलमुत्तरगोपुरोद्देशमभिप्लुतवानस्मि।
(रामलक्ष्मणौ संकेतमुद्रां दृष्ट्रा परस्परमवलोकयतः।)
शम्बर:**—**यतः।
लङ्केन्द्रेण रणार्तिविह्वलतरैरङ्गैर्वलैश्च स्वयं
पित्रेव प्रतिपाल्यमानसमरक्रीडार्भटीशालिनः।
तारेयस्य विवल्गितान्यरिबलावष्टम्भसेतोः पथा
निस्तारं पितृवैररोपजलधेर्निष्पन्नमेवावदन्॥ १३ ॥
**लक्ष्मणः—**अश्रद्धेयमेतत्।
**रामः—**नन्वेकाकिनो बलवतोऽपि बहवः संशयाय।
लक्ष्मणः—(सासूयमिव।) आर्य,
सत्यं बहुभिरेकाकी वयस्यो निहतः परैः।
श्रद्धत्स्व मन्थानगिरिं पर्यलुम्पन्पिपीलिकाः॥ १४ ॥
रासः—(स्मितं कृत्वा।) दृष्टविभीषणस्वहस्तमुद्रेऽपि दधिमुखे किंनिबन्धनेयमश्रद्धा वत्सस्य।
**लक्ष्मणः—**हुं, किंनिबन्धनेति स्यादयं वराको मायाविभिर्मोहित इति।
**शम्बरः—**देवस्थाने खल्वियमश्रद्धा विदितसुग्रीवपराक्रमस्य कुमारस्य।
भर्तुस्तावद्युगपदुदिते सर्वलोकाभियोगे-
ऽप्यश्रद्धेयं भयमिति ननु ज्ञातमेतावतैव।
यत्सेनानीनिशिचरपतेस्तुल्य एष प्रहस्तो-
ऽप्येवं यादृच्छिकभुजलघुक्षेपमात्रावधूतः॥ १९ ॥
**लक्ष्मणः—**कथमयं प्रहस्तहतकः।
**रामः—**प्रहस्त इति सेनाध्यक्ष इति साशङ्कमाम्रेडितान्येव शश्वदमून्यक्षराणि वयस्यविभीषणेन।
**शम्बरः—**स एवायं माणिभद्रस्य जेता। किमेतेन।
एवं रावणमेव घूर्णनजवव्यत्यस्तवक्त्रावली-
निष्पर्यायविनिर्यदास्त्रमसकृत्किंन क्षितावक्षिपत्।
किं वा न व्यधुनोद्धनोरुपवनैरेवापरानाशरा-
न्धिङ्मायापिहितस्तु तं शरमयैर्नागैर्वबन्धेन्द्रजित्॥ १६ ॥
तदन्तरे च तावद्भीभत्सकर्मा तारेयः स्वयमेव रावणकरादाच्छिद्यचन्द्रहासम्—(इत्यर्धोक्ते बाष्पस्तम्भं नाटयति।)
रामः—अलमलमतः परं कथितेन। ननु सफलामर्पस्तारेयः। (सावेगम्।)
हा महाराज, हा मम प्रतिज्ञामहार्णवकर्णधार, हा मम त्रैलोक्यसाधनमहामात्य, हा मम दुर्जातबन्धो, हा सर्वप्राकारराममयवयस्य, वानरेन्द्र।
तैस्तैस्ते साहसारम्भैर्वेपमानेन चेतसा।
यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः॥ १७ ॥
(इति धनुरवलम्ब्य विह्वलस्तिष्ठति ।)
लक्ष्मणः—(स्वगतम्।)
असावपदिशन्किंचित्प्रस्तुवन्किंचिदद्भुतम्।
तस्मिन्निदर्शयन्किंचित्संमोहयति मामपि॥ १८ ॥
(प्रकाशम्।) आर्य, समाश्वसिहि समाश्वसिहि।
शम्बरः—(स्वगतम्।) दिशायं प्रमुग्ध एव रामहतकः। सन्निहिता चेयं गुर्वी शिला। तदनया सफलं यामि महान्तमिममायासम्। (आदातुमिच्छन्। दृष्टा।)कथं प्रकृतिस्थ एव लक्ष्मणहतकः। अहो निःस्नेहनिठुरं हृदयमस्य यदस्मिन्नपि महाशोकानलोष्मण्यश्मेव न किंचिदपि विक्लिद्यते। अथवास्य बलवती मय्यसंभावना \।
**लक्ष्मणः—**आर्य, समाश्वसिहि समाश्वसिहि। नन्वतिक्रामत्यवसरो धैर्यं प्रकाशयितुम्।
नष्टश्चेद्विपदादर्शः कुत्राभिव्यज्यतां धृतिः।
न चेन्नैशं तमस्काण्डं को वेद ज्योतिरोपधेः॥ १९ ॥
रामः—(आश्वस्य।) वत्स, इतः परमाश्वस्यापि किं करोमि मन्द भाग्यः।
**लक्ष्मणः—**ननु निवेदितमेव दधिमुखेन रावणतारेयप्रमुखमरातिचक्रमुत्तरगोपुरोद्देशे निखिलमेकत्र वर्तत इति। ततः स एव तावदभिसंधाय यातव्यः।
रामः—(निश्वस्य।) वत्स,
तारेयानयुतं हन्मि नियुतं रावणानपि।
ततः किमुपलभ्येत सकृदेतादृशः सुहृत्॥ २० ॥
तथापि सपरिवारराक्षसकुलोच्छेद एव हि सर्वप्रकारस्यापि पारं वैरस्य। तदादिश पन्थानम्।
**लक्ष्मणः—**इत इतस्तावदार्यः।
(इति परिक्रामतः।)
(प्रहस्तः संज्ञा लभते।)
शम्बरः—(स्वगतम्।) कथं प्रवृत्त एव पुनरप्यभियोगः। (प्रकाशम्। अनुसरन्।) देव, नन्विदमेव विज्ञापयितुमुपक्रान्तवानस्मि।
**रामः—**भद्र, ततस्ततः।
**लक्ष्मणः—**ननु गच्छतैव श्रोतव्यम्।
**शम्बरः—**एवमेष निर्वर्तितनृशंसकमीरक्षोमध्यकृतवल्गनो मां दृष्ट्वैव।
परावष्टम्भेन छलितवति तातं वत चिरा-
न्निरूढा सुग्रीवेच्छलनविधयैव प्रतिकृतिः।
इति स्वैरं दर्पस्खलितपदमुद्धुप्य बहुशो
ममाग्नोपादेन प्रसभमभिचिक्षेप तदिदम्॥ २१ ॥
(इति च्छिन्नं शिरोऽङ्के निधाय मूर्च्छति।)
**रामः—**भद्र, समाश्वसिहि समाश्वसिहि। किं न कुर्युरमर्पिता वैरिणः।
शम्बरः—(आश्वस्य। ससंभ्रममुत्थाय।) देव, तदेनं वटुं कुमारावष्टम्भेनपशुमारं मारयितुमनुज्ञानुग्रहदानेन प्रसीदन्तु स्वामिपादाः। (इति पादयोःपतति।)
**रामः—**नन्वादेष्टव्यम्। अभ्यर्थितोऽस्मि। वत्स, युवाभ्यामतिनिपुणंविमृश्य यथोचितमप्रमत्ताभ्यामनुष्ठातव्यम्।
लक्ष्मणः—(विमृश्य।) यथा दधिमुखेन रक्षोमध्यकृतवल्गनो दृष्टस्तारेयस्तथा मन्ये कापि राक्षसैरुपदर्शितमायेति यथा खलु परिमोहितः प्रलपति वराको यत्किंचित्।
शम्बरः—(स्वगतम्।) अयं वटुरशक्य इवातिसंधातुम्। कथमिदानीम्।
(नेपथ्ये कलकलः। सर्वे आकर्णयन्ति।)
शम्बरः—(स्वगतम्।)
नूनं पश्चिमगोपुरप्रमथनप्रत्येकदत्तेक्षणै-
र्भग्नोत्क्षिप्तगृहीतशैलशिखरैः कीशैर्हनूमन्मुखैः।
कुप्यत्सप्तमरुत्परस्परहतिव्यत्यस्तसप्तार्णवी-
कल्लोलैः प्रलयक्षितेरिव तलं लङ्कापुरं ग्रस्यते॥ २२ ॥
भवतु। एवं तावत्।
(प्रकाशम्।)
देव, यथायमामथ्यमानमहार्णवध्वनिगम्भीरभीषणः कोलाहलः प्रतीचीं दिशं वधिरयति, तथा मन्ये मारुतिप्रमुखानामपि श्रुतोऽयं वृत्तान्त इति।
(आकाशे।)
वयं हि यस्यागमनं चिराय युद्धैकलुब्धाः प्रतिपालयामः।
आलक्ष्यते वालिसुतः स दूरात्प्राप्तोऽद्य कालो भुजशालितायाः॥ २३ ॥
शम्बरः—(श्रुत्वा। स्वगतम्।) कथमागत एव स दुरात्मा तारेयः। (विचिन्त्य।) आः आगच्छतु। दधिमुखवदेनमपि वञ्चयंलक्ष्मणक्रोधस्य पात्री करोमि। (प्रकाशम्।) देव, दुरात्मनस्तारेयस्य दर्शनेन दृष्टः किलायमास्फोटो यूथपानाम्।
कुमारस्त्वेषमां तावन्मायान्ध इति मन्यताम्।
तारेयेणैव यावन्मे शिरश्छिन्नं न दृश्यते॥ २४ ॥
कुमार कुमार,
ननु निशिचरशाठ्ये सर्वथा शङ्कितव्ये
व्यपगतपरिशङ्कं स्वैरचारोद्धृतस्य।
तव सहजरूपो यः पञ्चवट्यां प्रमादः
परिदहति दुरन्तस्तस्य खल्वेषपाकः॥ २९ ॥
तिष्ठ तावत्। (पदान्तरे स्थित्वा।) तदिदानीम्
कतिचन कुलपुत्रा वालिपुत्रं भजेर-
न्कतिचन वत मायामोहितं मन्वते माम्।
प्रतिकरणमतोऽस्मिञ्जातमूलेन मे स्या-
दपि तु सफलयामि स्वामिपिण्डोपयोगम्॥ २६ ॥
(इति परिक्रामति।)
**रामः—**भद्र, नन्वावामप्यनुपदमागतावेव। वत्स, तदावामप्यस्यपदमनुसरन्तावुत्तरमेव गोपुरं प्रति प्रतिष्ठावहे, यत्किल दर्शनीयरणकर्मा दशाननः स्वयं रक्षति।
(इति परिक्रामतः।)
प्रहस्तः—(उत्थाय।) आः पाप वानरापसद, क्व नु जीवन्गमिष्यसि।
(इति स्खलितं परिक्रामति।)
शम्बरः—(स्वगतम्।) कथं प्रवृत्तमेव सर्वतः प्राकारमर्दनं हरियूथपैः।
अस्तु तावदेवम्। (प्रकाशम्।) भो भोः स्वामिसत्कारस्मरणश्लाघनीयमहिमानःप्लवङ्गमयूथपाः,
असावास्तां लङ्कापुरवरणरोधः क्षणमिह
स्वपक्षादुद्भूतं शृणुत पुनरत्याहितमिदम्।
अवष्टभ्य क्षुद्रो निशिचरवलं वालितनयः
प्लवङ्गानां शृङ्गं दुलयति च धिग्जीवति च नः॥ २७ ॥
(इति निष्क्रान्तः।)
रामः—
आभिः प्रवृत्तिभिरसाववसादितैव
हन्त प्रियस्य सुहृदः पुनरीक्षणाशा।
किंतु स्वयं भवति मे मनसः प्रसादो
यद्वा स भाविनि जयेऽपि भवेन्निमित्तम्॥ २८ ॥
तत्कृतमनेन विदलितहृदयेन विचारेण।
**लक्ष्मणः—**आर्य, नन्वियमिपुपातसंनिकृष्टैव रक्षसामेकावासस्थानं लङ्का।
इमं क्षणं राक्षसजातिमात्रमुन्मूलयामो वयमेकतानाः।
किं कस्य वृत्तं रणसीमनीति पश्चादिदं साधु विचारयामः॥ २९ ॥
**रामः—**यथोक्तं वत्सेन। (इति परिक्रामति।)
लक्ष्मणः—(स्वगतम्।) अपि नाम पुनरविघ्नितमेव झटित्युत्तरगोपुरोद्देशमार्यमुपानयेयम्। (प्रकाशम्।) इत इतस्तावदार्यः।
**रामः—**कथं परागत एव दधिमुखः।
प्रहस्तः—(सरोषम्।) यावदेनं वानरापसदमन्विष्य मूर्धानमुत्पाटयामि।
**रामः—**तद्वत्स, त्वरिततरं संभावयावः।
(इति निष्क्रान्ताः सर्वे।)
इति द्वितीयोऽङ्कः।
<MISSING_FIG href=”../books_images/U-IMG-1722593764Untitled-2.png"/>
तृतीयोऽङ्कः।
(ततः प्रविशति लक्ष्मणः।)
लक्ष्मणः—(स्वगतम्। सहर्षोत्साहम्।
) नन्वसाविदानीमार्यः
मन्दं पदानि हि ददत्प्रतिपत्तिशून्या-
न्यादीपितो हृदि रुषा मुहुरुक्कयेव।
क्षुद्रैरनुक्षणकदर्थितयापि गत्या
प्राप्तव्यदेशमिमराडिव नीत एव॥ १ ॥
तदीपत्करमध्वशेपनयनम्। (प्रकाशम्।) इत इतस्तावदार्यः।
(ततः प्रविशत्युन्मनायमानावस्थो रामः।)
रामः—
दूरं हन्त परागतो दधिमुखस्तारेय धीरोऽसि रे
हा सुग्रीव जहासि मामथ पुरस्ताद्दृश्यते गोपुरम्।
जीवन्तीं यदि लोकयेय दयितां न्यङ्गेऽपि धिग्जीवितं
किं वत्स त्वरसे ममैव हिकृतो भागस्त्वया रावणः॥ २ ॥
लक्ष्मणः—(स्वगतम्।) कथमनवस्थिताभिश्चित्तवृत्तिभिरार्यस्य निशाचरकुलकदनसंरम्भो गभीर एव सुदूरमारोप्यते। (प्रकाशम्।) आर्य, किमेतेन रावणमात्रेण। त्रैलोक्यकण्टकोच्छेद एव ननु ते संविभागः। तदेहितावदमुना त्रिकूटशिखरभागेन।
रामः—(दृष्ट्वा।) वत्स, किमधिरूढावेव त्रिकूटशिखरमावाम्।
**लक्ष्मणः—**आर्य, किं न पश्यसि।
ननु धनुरनुगण्डमग्रेवसज्यावसज्य त्वया
गिरिरयमखिलोऽधिरूढो निरालम्बदूरोन्नतः।
धुरि निजनिजयूथपालोच्चलद्वालसालम्बना
लघुकंपिपृतनायमेनं दुरारोहमारोहति॥ ३ ॥
किं च।
प्रागुष्णीष इव त्रिकूटशिरसि व्यालोक यो रेखया
लङ्काया वरणः स एष हि भवत्यभ्रंलिहैः संक्रमैः।
यश्च ग्रस्तहरित्स एष जलधिर्लेखावशिष्टाकृतिः।
कीशैर्धूत इवासितोत्तरपटः शैलस्य संलक्ष्यते॥ ४ ॥
रामः—(दृष्ट्वा।) इयमग्रे लङ्का।
अस्याः पश्य विलङ्घ्यते हरिवरैरस्मत्कृते हेलया
प्रायः कृच्छ्रविलङ्घय एषवरणस्त्वन्मार्गणानामपि।
लक्ष्मणः—
दग्धुं सज्जरारानले त्वयि जनस्थानात्तदानीमिमां
दुर्वारा धिगहो रुरोध करुणा स्त्रीबालवृद्धाश्रया॥ ९ ॥
रामः—(स्वगतम्।) अस्यां हि रुद्धया तया वराक्या चिरादन्धीकृता दृष्टिरियं रामस्य। अथवा।
नन्वद्यैव विमुञ्चति स्वयमियं दृष्टिश्चिरात्संज्वरं
साले दारितमात्र एव सहसा दृश्येत यद्वल्लभा।
एष त्वस्तपुनर्विरोपणकथो हृन्मर्मविस्फोटको
यद्ब्रह्माण्डविदारणेऽपि न सुहृत्तादृग्विधो दृश्यते॥ ६ ॥
**लक्ष्मणः—**आर्य, किमन्यच्चिन्तयसि। नन्वयं लक्षीकृतो गोपुरोद्देशः।
(इति धनुरामृशति।)
(नेपथ्ये।)
हन्त हन्त, दिष्ट्या खलु तत एव मृत्युः श्रेयान्भृत्यानां यत एव स्वामिनइति कुमारलक्ष्मणोपदिष्टेनैव वर्त्मना सफलो हि मे भर्तृपिण्डोपयोगः।
रामः—(श्रुत्वा।) वत्स, दधिमुखस्येवायमार्तस्वरः।
(पुनर्नेपथ्ये।)
हनूमन्मुख्यानां कथमपि च सुग्रीवसुहृदां
मनस्तैस्तैः सान्त्वैर्मयि सपदि नीतं प्रवणताम्।
अथ स्युः क्षुद्राश्चेदसहनतया व्युत्थितधियो
निजं मार्गं तेषामुपदिशतु सोऽयं दधिमुखः॥ ७ ॥
**लक्ष्मणः—**आर्य, पश्य पश्य।
हत्या धिग्दधिमुखमेव वालिसूनु-
विक्षिप्य प्रणुदतिशश्वदस्य शीर्षम्।
आवेगस्खलितपदैरमर्षशोक-
क्रोधान्धैरनुकलमीक्षितः प्लवङ्गैः॥ ८ ॥
**रामः—**कथं वराको झटित्येव शत्रुवशं गतः। (सश्लाघम्।) साधु रे वालिपुत्र, साधु।
मथासि सहजं शत्रुं स्वं चावर्जयसे कुलम्।
कण्टकांश्चोपमृद्भासि काले साधु प्रगल्भते॥ ९॥
(ततः प्रविशति तारेयवेषः शम्बरः।)
(शम्बरः ‘हनूमन्मुख्यानाम्’ (३।७) इति पूर्वोक्तं पठित्वा शिरो विक्षिपति।)
**लक्ष्मणः—**अहो निर्भयः कपिडिम्भः, यदार्यनिकटेऽपि वल्गति।
(इति खङ्गं परामृशति।)
शम्बरः—(स्वगतम्।) प्रहरेदेव कदाचिदयं लक्ष्मणो वैधवेयः। रामस्तु राजा महापुरुषः स्वजनतयोपनतेनानुमनुते शत्रावप्यत्याहितम्। तदेनमनुसरल्ँलक्ष्मणस्य क्रोधमादीपयामि यावत्सन्निहितो भवति तारेयः। (प्रकाशम्। राममुपसृत्य प्रणम्य।) देव, किंचिदस्ति विज्ञापनीयम्।
(रामः परिक्रामति।)
शम्बरः—(अनुसरन्।)
परावष्टम्भेन छलितवनिता तं वत चिरा-
न्निरूढा सुग्रीवे छलनविधयैव प्रतिकृतिः।
**लक्ष्मणः—**अहो निर्भयः कपिडिम्भः, यदार्यनिकटेऽपि वल्गति। यच्च भूयोऽपि सुहृद्वधमहापातकमुद्घोषयति। (इति खङ्गमाकर्षति।)
शम्बरः—
पदं तावत्पित्र्यं भवतु मम मा वापरमितः
पदातेरस्य त्वच्चरणभजनैर्जीर्यतु वपुः॥ १० ॥
**रामः—**हा वयस्य वानरेन्द्र, कथमीदृशस्ते दशाविपाकः। यत्र खलु तारेयशिरःकर्तनेनापि न प्रतीकारः। यदिदमसदृशतया तादृशस्य ते तिरस्कार इव।
**लक्ष्मणः—**हुं, तिरस्कार इति। ननु क्षपणीय एव सर्वः परपक्षः।
तदयमग्रावतारः खड्गस्य। (इति खङ्गमुदुनोति।)
**शम्बरः—**देव, अति हि नाम दूयसे वयस्येऽतीति। ननु विहितैव ते हितैकतानता वयस्यस्य।
जानीषे खलु तेन तातमथने तैस्तेश्छलोपक्रमै-
र्धिग्धिक्चीरविगर्हिते पथि तनु त्वं चापि संचारितः।
एतस्मिन्निहते तवैव सुकृतैरेषा कथं व्यग्रता
लङ्कासंगरसाह्यकर्मणि पुनर्दोर्द्वन्द्वमस्त्येव मे॥ ११ ॥
किं च।
पुत्रान्ध्न्नन्ति विवासयन्ति च पितॄन्भ्रातॄंश्च राज्येच्छया
राज्ञामेष कुलकमस्तदधुना किं कुर्महे क्षम्यताम्।
सुग्रीवोऽस्त्वथवाङ्गदोऽस्तु भवतः कार्यार्थिनस्तेन किं
लङ्कासंगरसाह्यमेष्यति स ते यः स्यात्प्लवङ्गेश्वरः॥ १२ ॥
रामः—(स्वगतम्।)
अभ्यस्त एष बहुशोऽतिविनीतवृत्ति-
रद्य त्वपूर्व इव हन्त विचेष्टते यत्।
तज्जोषमेव सकलं हृदि मर्षयन्तः
कार्यार्थिनो हि समये सति विक्रियन्ते॥ १३ ॥
(प्रकाशम्।) अयि भो विदग्धभाषिन्, सुष्ठु युज्यमानमुपन्यस्तम्। किंतुन वयं सहायकामाः। असांप्रतं च भवादृशानां प्रथमोपकारिषु परेषुविप्रलम्भः। ततो घटस्व तैरेव। मम तु गतैव वयस्यव्यवहारस्य समुचितिस्थानमाकृतिः। (इति धनुरवलम्ब्य मुह्यति।)
लक्ष्मणः—(विहस्य*।*) सत्यमियं मायैव। अथवा।
ईदृशैरेष चरितैः सत्यं वालिसुतो यदि।
यदि वा राक्षसो मायी सर्वथा वध्य एष नः॥ १४॥
(इति प्रहर्तुमिच्छति।)
**शम्बरः—**कथमिदानीम्। (सदृष्टिक्षेपम् ।) कथमत्यासन्न एव सेनार-
जोभिलक्षितसन्निपातस्तारेयः। तदमुमेव तावदस्य क्रोधान्धस्य सौमित्रेरनन्तरीकृत्य तिरोभवन्पश्यामि। (तथा कर्तुमिच्छति।)
(प्रविश्य पटाक्षेपेण)
**प्रहस्तः—**आः पाप वानरापसद, पतितमिदानीं ते शिरः। (इतिबाहुभ्यां शम्बरं गृह्णाति।)
लक्ष्मणः—आः, कोऽयमन्तरात्पतति। (इति विमृशति।)
(प्रविश्य सन्निपत्य)
सुग्रीवः—(स्वगतम्।)
प्रत्यक्षं राक्षसेन्द्रस्य प्रहस्तादीन्विधून्वता।
हन्त दूरावपातो मे वत्सेन विफलीकृतः॥ १५ ॥
अथवा।
कक्षापीडनपीडितैर्निशिचरैः साकं प्रहस्तादिभि-
र्व्यो॑म्नि स्यन्दनमिन्द्रजेतुरवशभ्रष्टस्य निर्धून्वता।
यद्वत्सेन किमप्यदार्शिपृथुकक्रीडा तदेतत्फलं
वेगक्षिप्तदशास्त्रमौलिविततेर्दूरावपातस्य नः॥ १६ ॥
(इति द्दष्ट्वासरभसं किंचिदपक्रम्य। प्रकाशम्।)
सुग्रीवेऽपि मयि स्वयं कथमसिं धत्ते कुमारो रुपा
लक्ष्मणः—(खगमुपसंहरन्।) किं नाम सुग्रीव इति।
**प्रहस्तः—**आः पाप, चिरस्य खलु कालस्य मद्भुजपञ्जरान्तरमनुप्रविष्टोऽसि। उत्पाटयामि ते मूर्धानम्।
**सुग्रीवः—**सुग्रीवेऽपि मयि स्थिते निशिचरो गृह्णाति वत्सं कथम्।
**लक्ष्मणः—**दिष्टया, आर्य, अलमलं व्यासङ्गेन। इह कोऽप्ययमग्रे सुग्रीव इत्यात्मानमाम्रेडयति।
सुग्रीवः—(दृष्ट्वा)
देवो हन्त कथं विमुह्यति धनुः संधारितैरङ्गकैः
**रामः—**सुग्रीव इत्यमृतबिन्दुसंधितान्यतीतस्यापि वत्सस्य नामाक्षराणि मामाप्याययन्ति।
सुग्रीवः—
कष्टं केन मदत्ययं कथयता देवः कदर्थीकृतः॥ १७ ॥
(उपसृत्य प्रणमति।)
रामः—(दृष्ट्वा।) कथं वयस्य एव।
**सुग्रीवः—**कः संदेहः।
रामः—
यथा दृट्रैव हन्तेममन्तरात्मा प्रसीदति।
तथा प्रियवयस्येन भवितव्यमनेन मे॥ १८ ॥
एहि वयस्य साहसिक, एहि।
**सुग्रीवः—**नन्वेष दासः प्रणमामि। (पुनः प्रणमति।)
**लक्ष्मणः—**आर्य, मा कुरु सहसा कुत्रापि विश्वासम्।
**रामः—**वत्स, अद्यापि कथमश्रद्धा। ननु वदामि वयस्य एवायमिति।
**सुग्रीवः—**कष्टमतिकृच्छ्रप्रत्यापनीयः संवृत्तोऽस्मि। (पुनश्च प्रणमति।)
रामः—(आलिङ्ग्य।)
यैरारम्भिहृदि स्पृहा परिभवोत्तारे शरीरेऽपि मे
यानि द्रागनुमार्जयन्ति भरतानाश्लेपदुःखं चिरात्।
दृष्ट्वा यानि समस्तबन्धुविरहक्लेशोऽपि न स्मर्यते
दिष्ट्या तानि मयाङ्गकानि सुहृदो लब्धानि दीर्घायुषः॥ १९ ॥
(इति हर्षपारवश्यमभिनयति।)
**सुग्रीवः—**हन्त, लज्जयेव मीलयति मामतिवत्सलतया देवपादानामस्थानप्रवृत्ता मुहुरत्युक्तिः। (हर्षलज्जापारवश्यमभिनयन्।) नन्विह प्रच्छायशीतले शिलातले देवमाश्वासयामि। (रामं शनैरपनयन्निष्क्रान्तः।)
**लक्ष्मणः—**आर्य, ननु वदामि मा कुरु सहसा कुत्रापि विश्वासम्। महानयं विचारावसरः। (सहैव निष्क्रान्तः।)
**प्रहस्तः—**आः पाप, चिरस्य खलु कालस्य मद्भुजपञ्जरान्तरमनुप्रविष्टोऽसि। उत्पाटयामि ते मूर्धानम्। तदिह विषमशिलासंकटे निपात्य यथासमीहितं संपादयामि।
**शम्बरः—**कथं जाम्बवत्करात्कथमपि परिभ्रष्टः पुनरपि गृहीतः संप्रमुग्धोऽस्मि। (इति पर्याकुलः प्रहस्तेन नीयमानो निष्क्रान्तः।)
इति तृतीयोऽङ्कः।
——————
चतुर्थोऽङ्कः।
(ततः प्रविशति जाम्बवान्दधिमुखथ।)
जाम्बवान्—(विमृश्य।) भद्र, किमाह भवान्।
नाहं ब्रवीमि रघुपुंगवसंनिधाने
तारासुतस्य दशकण्ठबलप्रवेशम्।
तन्निग्रहं गदितुमापतितस्तु दृष्टो
लेखावलोकसमयेऽस्मि पथि त्वयेति॥ १ ॥
तर्हि वक्तव्यं स तावदङ्गदस्य परपक्षानुप्रवेशवादी राक्षसो लेखावलोकनाय मया मुक्तहस्तस्त्वद्रूपधारी त्वामेव तावत्कालिकयादृच्छिकसंनिधानमन्तरीकृत्य मे तिरोभूत इति।
**दधिसुखः—**ननु वदामि तिरोभूतश्च विभीषणीभूय वातयितुमुपकान्तवानिति च।
**जाम्बवान्—**भद्र, एवमिदम्। अत एव किल मुद्रितेषुसर्वेषु वानरेषु दधिमुखस्त्वेको नागत इति स्वयमेव स्मृतं महाराजविभीषणेन।
**दधिमुखः—**उपपद्यते। अथ युष्मन्मुखाकर्णितमद्बन्धनवृत्तान्तेन च किं प्रतिपन्नम्।
**जाम्बवान्—**किमन्यत्। वञ्चितौ युवां केनापि मद्रूपधारिणा राक्षसेनेति। (विहस्य।) यावन्मोचितोऽसि। भद्र,
नैतन्मनसि कर्तव्यं यत्त्वं कार्यानुरोधिना।
नियन्त्रितो मया मोहादेतावन्तमनेहसम्॥ २ ॥
**दधिमुखः—**उपकृतं नन्वार्येण।
वधाय रक्षः प्रहितोऽप्यार्यो रोधेन केवलम्।
प्रतीक्षमाणो रामाज्ञां प्राणान्नक्षितवान्मम॥ ३ ॥
जाम्बवान्
—
भद्र, तदा च स हि दुरात्मा भवद्बन्धनानन्तरमेव सेनानिवेशावलोकनव्याजान्निःसृतो न ज्ञायते महाराजरामदेवसंनिधाने कुमार लक्ष्मणस्य पुरश्च किमाचरतीति। तदेहि तावत्। त्वरिततरं संभावयावः।
(परिक्रामतः।)
दधिमुखः—
कथमुपलब्धव्या प्रवृत्तिः स्वामिनः सुग्रीवस्य।
**जाम्बवान्—**ननु तदिदानीमेव कमपि मणिमद्भुताकारमम्बरतलपरिभ्रष्टोऽयमवलोक्यतामिति महाराजविभीषणाय निवेदयित्रा कथितममात्यसंपातिना। यथा ग्रहणप्रवृत्तं सामात्यमवधूय दशाननमवप्लुतो रामदेवसमक्षं देवसुग्रीव इति।
दधिमुखः—
तर्हि यावदस्य प्रत्यनन्तरभवामि।
**जाम्बवान्—**कथमुत्तरगोपुरोद्देशमनुपतितोमहाराज रामदेवः। तदुपसर्पावः।
(उत्प्लवननाटितकेन निष्क्रान्तौ।)
विष्कम्भः।
(ततः प्रविशति शम्बरं गृहीत्वा प्रहस्तः।)
प्रहस्तः—(साटोपम्।)
आः पाप स्फुरसि वृथैव चेष्टसे किं
तारेयापसद पुनर्न तेऽस्ति मोक्षः।
नन्वेष त्वरितबृहत्प्रहस्तबाहा
यन्त्रान्तर्निगलित एव कण्ठनालः॥ ४ ॥
तदिह विषमशिलासंकटे निपात्य मूर्धानमुत्पाटयामि !
शम्बरः—(स्वगतम्।) कथं सेनापतिरेव तारेयबुद्ध्या मे कण्ठं व्यारुजति। व्याहतं खलु सर्वे मूर्खेण। (प्रकाशं भ्रुवा संज्ञापयति।)
**प्रहस्तः—**कथमिह वयस्यः शम्बरः। मां तु सैव तारेयग्रहणवासना तद्वेषधारिणि वयस्यशम्बरेऽपि व्याकुलयति। (इति मुञ्चति।)
(प्रविश्य)
**लक्ष्मणः—**आर्य, अलमलं व्यासङ्गेन। श्रूयतामनयोः संलापः।
(प्रविश्य)
**सुग्रीवः—**कुमार, किमत्र श्रोतव्यम्। का प्रसक्तिरिह वत्सतारेयस्य। ननु स एवायं दुरात्मा शम्बरः।
(प्रविश्य)
**रामः—**कथमयं शम्बरः। तत्तस्मिन्नुपपद्यते सर्वमिदं संमोहनम्।
**प्रहस्तः—**सखे शम्बर, सफलय तावत्तारेयवेपधारणपरिश्रममभिल पितानुष्ठानेन। अहमपि तमेव वानरापसदमन्विष्य मूर्धानमुत्पाटयामि।
(इति निष्क्रान्तः ।)
**सुग्रीवः—**गृह्यमयं दुरात्मा तारेयवेपधारी शम्बरः प्रहस्तश्च।
**रामः—**किमनेन मूर्च्छान्धेन गृहीतेन प्रहस्तहतकेन।
(ततः प्रविशति जाम्बवान्दधिमुखश्च ।)
**जाम्बवान्—**किं नाम शम्बर इति। नूनमनेनैव तावदस कृत्संमोहकेन भवितव्यम्। (शम्बरं गृहीत्वा ।) विजयतां देवः।
(दधिमुखः सर्वान्प्रणमति ।)
**रामः—**कथमार्यो जाम्बवान्।
**लक्ष्मणः—**आर्य, दिष्ट्या ते दधिमुखश्च।
**रामः—**दिष्टया दिष्टया।
शम्बरः—(स्वगतम् ।) कथं पुनरप्युपागतोऽयं जरद्भल्लूकः। न शक्यमिदानीं जीवता प्रतिगन्तुम्।
**सुग्रीवः—**आर्य जाम्बवन्, अभिवादये।
**जाम्बवान्—**दिष्टया वयमायुष्मता साहसिकेन सनाथाः स्मः।
**रामः—**आर्य, किं ब्रूमः साहसं वयस्यस्य योऽयमपरिज्ञाप्यैव मे रिपुचक्रमध्यमेक एवावप्लुतः।
**सुग्रीवः—**नन्वसौ दधिमुख एव मया वत्सतारेयग्रहणप्रवृत्तिमाकर्ण्यसद्य एव लङ्कामभिप्लवमानेन संदिष्टः। विज्ञाप्यतामयं वृत्तान्तो देवायेति।
दधिमुखः—अस्मि संदिष्टो महति सेनासंमर्दे देवपादानन्विच्छन्नार्यजाम्बवतो यावदवलोकपथमापतितस्तावदनेन दुरात्मना—(इत्यर्धोक्ते ।)
**जाम्बवान्—**देव, अतिमहदस्ति वक्तव्यमनेन दुरात्मना। यदावयोराचरितं संमोहनम्। (इति शम्बरं निर्दिशति ।)
**लक्ष्मणः—**आवयोरपीति वक्तव्यम्।
**रामः—**तर्हि विस्रन्धोपविष्टैरस्माभिश्चर्वणीयोऽयमुपोद्घातः।
**लक्ष्मणः—**क्क पुनरिदानीं तारेयः।
सुग्रीवः—
अवधूय प्रहस्तादीनापतन्नभ्रवर्त्मना।
अन्तरा मेघनादाद्यैरद्यायमभियुज्यते॥ १ ॥
**रामः—**कथमयं प्रहस्तो वत्सतारेयेणैव निर्धूतः।
**लक्ष्मणः—**ननु तदिदमुदोषितमेव तारेयवेषमात्रदर्शनगृहीतशम्बरेण तद्ग्हणवासनारणरणिक-ग्रस्तेन प्रहस्तेन। अयं तु दुरात्मा सुग्रीवं वयस्त्यापनाय समरमुपपादयन्नन्यथैवेदमुदाहृतवान्।
**रामः—**एवमिदम्। अथ कीदृशो मेघनादाभियुक्तस्य तारेयस्यवृत्तान्तः।
**सुग्रीवः—**यादृशः प्रहस्तादिभिरभियुक्तस्य।
**रामः—**किमनेन सोऽपि निर्धूतः।
**सुग्रीवः—**अथ किम्।
**लक्ष्मणः—**साधु रे वालिपुत्र, साधु।
**रामः—**महावीरः खल्वसौ मेघनादः। तस्य किमेतेन। ततस्ततः।
**सुग्रीवः—**ततश्च निजनिजयुवराजयोः प्राथमिकाविमौ जयपराजयौ दृष्टैव।
सद्यः सांध्यमरीचिदत्तवहलीभावैरियं वानरै-
राक्रान्ता परितः पुरी पलभुजामेकौघतामागतैः।
सद्यश्च क्षणदाचरैस्तत इतः सर्वाभिसारोद्यतै-
रारब्धः समरः प्रवृत्ततिमिरप्रस्तारविस्तारितैः॥ ६ ॥
तत्र महति समरोत्सवे वत्समतिचिरविप्रयुक्ता देवपादा इति यथोपनतकतिपयसहायमेव नियुज्य नासीरे सरभसमापतन्ननेन दुरात्मना मृपा सद-
त्ययकथकेन वृथैव विक्लवीकृतानुपलब्धवानस्मि देवपादान्। अस्तु वा तावदेवम्।
अनुचरविरहेऽपि सतामात्मौपयिकीक्रिया चलत्येव।
नहि धूमविरतिखिन्नो विरमति शुष्कवनदाहतो वह्निः॥ ७ ॥
**रामः—**वयस्य, किंबहुना। मत्पादस्प्ट्ष्टिकया मा पुनरीदृशानि साहसानि कृथाः।
शम्बरः—(स्वगतम् ।) कथमयं सुग्रीवः। आकृतिसादृश्यादयमेव मे तारेय इत्यभिज्ञातः। (प्रकाशम्।)विमृशन्तु स्वामिपादाः।
**लक्ष्मणः—**कृतमनया पञ्चिकया। ननु प्रवृत्त एव सङ्ग्रामः।
**रामः—**तदेहि वत्स, निशावतरणरमणीयभीषणं हरिराक्षससेनयोरायोधनमवलोकयन्तो दशाननाभियोगमनुपालयावहे।
**जाम्ववान्—**का पुनरस्य प्रतिपत्तिः शम्बरस्य।
**लक्ष्मणः—**नन्वयमुत्खात एव खड्गः। (प्रहर्तुमिच्छति ।)
**रामः—**किमस्मिन्हस्तगृहीते शम्बरे शस्त्रव्यापारेण।
**सुग्रीवः—**तर्हि किष्किन्धायामेव गुहायां दृढबन्धने पातयितव्यः।
**रामः—**आसङ्ग्रामसमापनादेवमस्तु। इदं तु विचिन्त्यते कथमस्य विभीषणस्वहस्त-मुद्रा-विन्यासलाभ इति।
**जाम्बवान्—**देव, किमिदमाश्चर्यमस्मिन्। यतः शतमाय एप शम्बरः।
**रामः—**साधु रे शम्बर, साधु।
शम्बरः—(स्वगतं विमृश्य।) वद्धेऽपि मयि शक्यमिदानीं यातुधानैरुच्छसितुं यदेष निर्वर्तितका-द्रवेयावाहनः कुमारमेघनादः सिद्धियटमूलादुत्थितः स्वयमभ्यमित्रीणश्च संवृत्तः। भवत्वेवं तावत्। (प्रकाशम् ।) ननुविज्ञापयामि विमर्शन्तु स्वामिपादा इति। यतः ज्ञायते खलु नैकृतिकत्वंनिशाचराणां तदेते खलु प्रथमस्वीकृतसुग्रीववधमहोपकारस्य प्रत्युपकारमन्तरेणैव भवत्पादमूलसेवनमसहमानाः सुग्रीव इति जाम्बवानिति। दधिमुख इति किमपि दर्शयन्तो भवन्तं व्याकुलयन्ति।
**लक्ष्मणः—**धिक् प्रलापः।
**जाम्बवान्—**भद्र, सत्यमेव वयं यातुधाननैकृतिकाः। त्वं किल वालिसूनुस्तारेयः। तदेहि तावदवस्थाप्यसे पित्र्ये पदे किष्किन्धायाम्।
(इति शम्बरेण सह निष्क्रान्तः ।)
**रामः—**आश्चर्यमाश्चर्यम्।
यत्सत्यमभितः स्तब्धैरिन्द्रियैरिन्द्रजालवत्।
अद्भुतैकरसावृत्तिरन्तर्मीलयतीव माम्॥ ८ ॥
(नेपथ्ये कलकलः ।)
(सर्वे आकर्णयन्ति ।)
(पुनर्नेपथ्ये ।)
यावत्तारेययादृच्छिकहतिशिथिलान्यम्बरखग्विभूषा-
शस्त्राङ्कत्राणि भृत्याः कथमपि न समीकुर्वते शकजेतुः।
तावत्संतर्जयन्नः स च कलितकरास्फालघोराट्टहास-
व्यासक्तां क्रोधमूर्च्छामिव तिमिरमयीमाशु मायां विवेश॥ ९ ॥
किं च।
द्राक्च द्योः किं हरिद्भ्यः किमु किमु धरणेर्ज्ञायते नैव तत्वं
दीपे नष्टेऽन्धकारैरिव बलमहिभिश्छाद्यते वानराणाम्।
व्यामूर्च्छद्वेदनानां द्विरिह कथयितुं वाचि लुप्तैव शक्तिः
तन्नः कर्णानुकर्ण्य ननु झटिति महाराज रामः शृणोतु॥ १० ॥
रामः—(आकर्ण्य ।) वत्स, समागतस्ते वीरगोष्ठीविनोदसंविभागश्चिरकालकाङ्क्षितो राक्षसलोकयुवराजः।
**लक्ष्मणः—**आर्य, भवेदेवं यद्यसौ न पलायेत।
**रामः—**वत्स, मा मैवम्।
चिराय देवासुरलोकनाथैर्मनोरथप्रार्थितदुर्लभानि।
उत्कर्षमायोधनसाधनानि शंसन्ति वीर्यार्जितमिन्द्रजेतुः॥ ११ ॥
तथाहि पश्य।
घोरा दत्तवराः शरा विषधरास्तन्त्रास्त्रयोः कौशलं
मायाविश्वविधायिनी दिवि रथः साङ्ग्रामिकः कामगः।
तन्नैसर्गिकमूर्जितं भुजवलं साङ्गं तदत्रं विधे-
रेप्वेकैकमलं जगन्ति मथितुं सर्वाणि चेत्किं पुनः॥ १२ ॥
**सुग्रीवः—**देवनिपातभूयिष्ठा एव सर्वे सनायकाः कपिसैनिकाः।
किंबहुना।
यथाग्नेघोरफूत्कारा भोगिवाणाश्चरन्त्यमी।
तथा निर्जितसैन्योऽसावस्मानेवाभिवर्तते॥ १३ ॥
**रामः—**एवमिदम्। (सर्वतोऽवलोक्य ।) अतिविचित्रं खल्वायोधनमस्य वीरस्य।
न हेपारथ्यानां न खुरपुटकोटीपटपटो
न मौर्वीनिर्धोपो न रथचरणक्रेङ्कितमपि।
अपि प्रत्यासन्नं वदति युवराजं पलभुजा-
मसौ विष्वङ्यूर्च्छन्भुजगशरफूत्कारपवनः॥ १४ ॥
तथाहि।
ताम्रे दृशि प्लवङ्गवदने पृष्टस्फुलिङ्गोत्करो
गोलाङ्गलमुखे कियत्सिमिसिमाकारीवनश्मश्रुणि।
भल्लूकेषु च रोमशेषु ततया दृश्यः क्षणं ज्वालया
मूर्च्छन्निन्द्रजितं व्यनक्ति फणिनां फूत्कार एवागतम्॥ १९ ॥
तद्वयस्य, पर्यवस्थापय पलायितुमप्यशक्तां हरिवाहिनीम्।
**सुग्रीवः—**यावदाश्वास्य हरिवाहिनीमाविश्य गगनतलमन्विष्य निपातयामि मायानिगूढमेनं दुरात्मानम्। (उत्प्लवननाटितकेन निष्क्रान्तः ।)
**दधिमुखः—**यावदिमं वृत्तान्तं महाराजविभीषणाय निवेदयामि।
(इति परिक्रामति ।)
**रामः—**भद्र दधिमुख, मद्वचनादुच्यतां वयस्यसुग्रीवः मा कुरु जातु साहसमिति।
**दधिमुखः—**यदाज्ञापयन्ति देवपादाः। (इति निष्क्रान्तः ।)
**लक्ष्मणः—**कथमवप्लुतमात्र एव निबद्धनिश्चेतन आपतितो महाराजसुग्रीवः। का कथा दधिमुखस्य।
**रामः—**अहो वलमस्त्रराजस्य।
येषां मन्दरमन्थरज्जुरपि सा वोढुं भुजानक्षमा
ते सुग्रीवहनूमदङ्गदनलप्रष्ठाः प्लवङ्गेश्वराः।
यैः सर्वे युगपन्निवद्धपतिता निश्चेष्टनिश्चेतना-
स्तेऽमी शक्रजिता तपोबलजिता मन्त्रात्मका भोगिनः॥ १६ ॥
तद्वत्स, महागरुडमस्त्रोमनुसंधातव्यम्। (विकटं परिक्रम्य ।) भो भो हरियूथपाः, न भेतव्यं न भेतव्यम्। अयमहमागत एव।
**लक्ष्मणः—**अहो मायातिरोधानमात्रगर्वितो राक्षसापसदः।
नन्वेतस्मिन्खलु कथमपि व्योमगर्भान्तराले
संच्छन्नेनाप्यसकृदमुना सर्वथा धावितव्यम्।
एतद्विष्वक्ततशरशतान्योन्यसंघट्टरिङ्घ-
ज्ज्वालास्फालैः स्फुटतु पतितः पुङ्खवातोत्तरड्गैः॥ १७ ॥
(निष्क्रान्ताः सर्वे ।)
इति चतुर्थोऽङ्कः।
——————
पञ्चमोऽङ्कः ।
(ततः प्रविशति माल्यवान् ।)
माल्यवान्—( निश्वस्य ।) भोः, कष्टं कष्टम्।
इह देहिषु विस्फुरणं क्षणिकमिति प्रायशो वादः।
तदिदं दैवहतेषु प्रत्यक्षं राक्षसेष्वेव॥ १ ॥
(प्रविश्य)
मयः—(निश्वस्य ।) सुष्ठु दृष्टमायकेण।
वत्सेनाद्य निबध्यते नरयुंगं बद्धैव तद्वाहिनी -
त्युक्तानि श्रुतिमक्षराणि विविशुर्यावन्न लङ्कापतेः।
तावत्तत्क्षणकल्पितोत्सवहतिप्रक्षोभिरक्षोभटां
लङ्कामेव हठेन विष्वगविशन्नुकाकरा वानराः॥ २ ॥
**माल्यवान्—**सखे दानवराज, किमुच्यते नरयुगमिति। मा है.मंस्थाः। पश्य।
अनस्तिप्रत्यस्त्रे पशुवदवशानां दिविपदा-
मपि प्रायो यस्मिन्वत सहनमेव प्रतिविधिः।
तदेतन्नागास्त्रं तृणमिव विधूतं यदि तदा
वदामो रामाख्यं ननु किमपि तत्त्वं नरवपुः॥ ३ ॥
किं बहुना।
देवोऽसाविति शैवचापदलने सामान्यतो योऽभव-
त्क्षत्रारेर्विजये पुनः परिमितो विष्णुः शिवो वेति यः।
सोऽयं दाशरथौ हठोपनमतस्तार्क्ष्यस्य साक्षात्सतः
साचिव्ये सति हन्त विष्णुरिति मे तर्कः प्रसादं गतः॥ ४ ॥
(चिरात्स्मृत्वा परितोऽवलोक्य ।) सखे दानवराज,
अपि स्मरसि सङ्ग्राममस्माकममरैः सह।
अपि स्मरसि वा तस्मिन्नच्युतस्य विजृम्भितम्॥ ९॥
**मयः—**मातामह, कथं न स्मर्यते।
नन्वेतत्तटमर्णवस्य तदिदं कूटं त्रिकूटस्य च
द्वारं चापि तदेतदेव विकटं लङ्कापुरस्योत्तरम्।
देशेप्वेषु जवप्रणुन्नगरुडेनाविद्धपञ्चायुधे-
नार्यौ मालिसुमालिनौ युगपदेवासादितौ विष्णुना॥ ६ ॥
(माल्यवान्मुह्यति ।)
**मयः—**मातामहं, समाश्वसिहि समाश्वसिहि। हन्त, युगादिचरित्राण्यद्य स्मृत्वा हरेः प्रमुग्धोऽसि। अद्य तु यत्कर्तव्यं तत्र न ते वर्तते वुद्धिः।
माल्यवान्—(आश्वस्य ।) ननु प्रकृतैवेयं प्रस्तुता चिन्ता। पश्य।
कुन्ताघातपलायमानगरुडस्कन्धापवृत्तार्धया
मूर्त्या चक्रमुदीरयन्युधि यथारूपो मयालोकितः।
मानुष्योचितमानया ननु तथारूपोऽयमालोक्यते
तद्वयक्तं दनुकेकसीदितिसुतद्रोही स रामायते॥ ७ ॥
**मयः—**एवमिदम्।
माया मायेति वृथा महतीयं दुष्प्रसिद्धिरस्मासु।
नारायणे निविष्टं ननु मायातत्त्वसर्वस्वम्॥ ८ ॥
तथाहि।
वराहाकारः सन्यदकृत हिरण्याक्षदलनं
नृसिंहः संहारं यददित हिरण्यस्य कशिपोः।
वलिं पातालान्तस्तमसि रुरुधे वामनतया
स किं वा नो कुर्याददितिसुतपक्षैकपतितः॥ ९ ॥
अन्यच्च।
दनुजदितिजरक्षःपक्षभूरिप्रयत्ना-
दुदितममृतलक्ष्मी कौस्तुभैरावृताद्यम्।
निखिलमपि सुराणामेव पक्षे चिकीर्षुः
तदितरजनमोहं मोहिनीभूय चक्रे॥ १० ॥
**माल्यवान्—**सुप्रसिद्धमेतत्। तथा च श्रूयताम्।
एकश्चतुर्धा जातो यस्तस्यांशः पञ्चमो ह्ययम्।
सर्वनाशाय सीतेति संमोहयति रावणम्॥ ११ ॥
**मयः—**उपपद्यते। तत्किमयमर्थो महाराजदशाननाय कदाचिदनुढ़र्शितो मातामहेन।
**माल्यवान्—**सखे दानवराज, जानासि खलु रावणस्य साहसिकलक्षणामाजानसिद्धामत्युद्धतां प्रकृतिम्। अस्य हि
अश्रुतिः सकृदुक्तेऽर्थे द्विरुक्ते मुखजिह्मता।
भूयो विज्ञाप्यमाने तु भुग्नभ्रूकुटिवीक्षितम्॥ १२ ॥
अतः खलु विभीषणः कार्यवादी निराकृतः।
**मयः—**अलमलमनेन समयपरित्यागमहापातकिनः स्मरणेन विभीषणस्य।
**माल्यवान्—**समयपरित्यागमहापातकितापि ते जामातुरेव।
**मयः—**कियानयं पक्षपातो विभीषणे मातामहस्य।
विस्मृत्य चिरसत्कारं व्याजयन्नीपदप्रियम्।
वलेप्वभ्यन्तरीभूतो वद्धवैरस्य यो रिपोः॥ १३ ॥
**माल्यवान्—**अत्र को दोषो विभीषणस्य। यतः।
यथास्य न स्याद्व्युत्थानमेवं नास्माभिरीहितम्।
व्युत्थाने तु कृते तस्य विना रामं न जीवनम्॥ १४ ॥
**मयः—**तहिं समानीयतामयमुचितेन तेन संविधानेन।
**माल्यवान्—**नन्वतिक्रान्त एव तत्समानयनस्यावसरः। पश्य।
रक्षः श्रीयुवराजभावसमतानिष्पन्नयासूयया
तस्मिन्निन्द्रजिता मुहुः प्रकटितं यद्वैरमत्यूर्जितम्।
तद्दृढं परिवर्धयन्दशमुखस्तैस्तैर्भयोपक्रमै-
र्बन्धुक्षोभभिया विहाय निधनं व्युत्थानमस्यै हत॥ १९ ॥
**मयः—**किं बहुना।
मायैकसारचित्तानामस्माकमिह संगरे।
विभीषणस्य व्युत्थानं यत्तद्वारमपावृतम्॥ १६ ॥
**माल्यवान्—**सुष्ठु कार्यज्ञ एवासि।
**मयः—**आश्चर्यम्।
यद्भात्रोरनयोश्चित्तमेकं प्रीतिवशादभूत्।
वध्यघातकभावे तद्वर्तते सांप्रतं मिथः॥ १७ ॥
त्किं मूलमनयोरेतावतश्चित्तभेदस्य।
**माल्यवान्—**न किंचिदन्यत्।
प्रत्यर्पणाय सीतायाः पठन्त्रामगुणानयम्।
पक्षपातीति देवस्य परिज्ञातो विभीषणः॥ १८॥
**मयः—**एवमेवैतत्।
स्नेहनिवृत्तिरसूयाकोपो वैरस्यमीर्प्येति।
अप्रियवादिषु राज्ञामन्तःकरणानि भिद्यन्ते॥ १९ ॥
**माल्यवान्—**एवमनुक्षणोपारूढचित्तभेदश्च। (’रक्षःश्री-’ (५।१५) इत्यादिपठित्वा ।) व्युत्थितस्य च तस्य नैव रामादन्यत्रशरीरत्राणं प्रयोजनं च। ततश्च।
उभयोश्च तयोः समेतयोः सहजप्राकृतयोः सपत्नयोः।
अपवादविनाकृतं चिराद्युगपत्सेत्स्यति दण्डपातनम्॥ २० ॥
मयः—(विहस्य ।) निसर्गनिरवग्रहस्य महाराजलङ्केश्वरस्यापिकेयमपवादाशङ्का। तथापि कुम्भकर्णप्रहस्तादिपु तस्य काचिदस्ति मनागवहित्था।
**माल्यवान्—**एवमिदम्।
(प्रविश्य)
**पुरुषः—**जेदु मादामहो। पहत्थवहामरिसिओ महाराअलङ्केसरोसअं एव्व समराहिमुहोपत्थिओ समादिसइ। जह पडिवालिज्जउ सव्वदो सगोवुरो लङ्काउरप्पाआरो। पडिवोधिज्जउचिरसुत्तो कुमारकुम्भ-अण्णो। पडिरक्खिज्जउ पमदवणे तिअडामुहाहिं अप्पमत्ताहिं जाणई रक्खसीहिं त्ति। (क)
माल्यवान्—(श्रुत्वा । सनिर्वेदं विहस्य ।) सखे दानवराज, श्रुतः किल ते जामातुरादेशः। (निश्वस्य ।)
मृत्युरेषा हि लङ्काया मिथिलाधिपतेः सुता।
प्रसह्य दशकण्ठेन भवने परिपाल्यते॥ २१ ॥
**मयः—**मातामह, यद्भावि तद्भवतु \। अनुष्ठीयतां राजानुयोगः।
माल्यवान्—(निश्वस्य ।) का गतिः। कः कोऽत्र भोः।
प्रबोधयतु यूपाक्षः कुम्भकर्णैसर्किकरः।
रक्षत्वशोकवनिकां राजमित्रं महोदरः॥ २२ ॥
कुमारमेघनादो ब्रह्मास्त्रमन्त्रसाधनादिषु प्रवृत्त एव स्वयं व्यापारेषु। अतिकायप्रमुखश्च कुमारवर्गः सर्वत्र संक्रमेषु संनद्धः परिभ्रमतु।
————————————————————————————————————
(क) जयतु मातामहः। प्रहस्तवधामर्षितो महाराजलङ्केश्वरः स्वयमेव समराभिमुखः प्रस्थितः समादृश्यते। यथा प्रतिपाल्यतां सर्वतः सगोपुरो लङ्कापुरप्राकारः। प्रतिबोध्यतां चिरसुप्तः कुमारकुम्भकर्णः। प्रतिरक्ष्यतां प्रमदवने त्रिजटामुखाभिरप्रमत्ताभिर्जानकी राक्षसीभिरिति।
**मयः—**सुष्ठु संविभक्ता एव गुप्तयो लङ्कायाः।
**माल्यवान्—**अथ कथमद्यापि समरादेकापि नागता वार्ता।
**मयः—**अस्ति नन्वद्भुतदर्पणो महामणिरस्सदुपनीतः। तदत्रैव द्रटव्यो निखिलोऽपि समरवृत्तान्तो मातामहेन।
माल्यवान्—(सनिर्वेदम् ।) सोऽपि रामस्यैव हस्तमभिसंक्रामितः।
मयः—(सावेगम् ।) कथं कथं सोऽपि रामस्यैव हस्तमभिसंक्रामितः।
**माल्यवान्—**ननु वदामि सोऽपि रामस्यैव हस्तमभिसंक्रामित इति।
**मयः—**अहो प्रमादो दशाननस्य।
**माल्यवान्—**किमनेन कर्तव्यम्। यतः।
आकस्मिकप्लुतकपीन्द्रपदाभिघात-
निर्धूतरावणकिरीटतटच्युतेषु।
आशावपातिषु मणिष्वयमेक एव
संपातिना स्वयमदर्शि विभीषणाय॥२३ ॥
तेन चापि परिज्ञातमहिमामणिरद्भुतः।
कालोचिततया सद्यः करं रामस्य लम्भितः॥ २४ ॥
**मयः—**आर्य, कथय कथय कथं कथमस्य न केवलमद्भुतदर्पणस्य मणेरस्तदपभ्रंशः। प्रत्युत शत्रुहस्तपातश्च।
अस्त्रागमो गाधिसुतादगस्त्याद्धनुरागमः।
अस्मत्प्रमादाच्च मणेरद्भुतस्य समागमः॥ २९ ॥
**माल्यवान्—**नन्विदमेवास्य यदृच्छाघटितं जयसूचकं रामस्य।
अस्मासु बद्धवैरत्वादमरा ॠषयस्तथा।
सामर्थ्यानुगुणं रामे सांग्रामिकमकल्पयन्॥ २६ ॥
अन्यच्च।
वृद्धौ वृद्धौ रघुपतेरस्माकं च क्षये क्षये।
प्रकाशं विचरिष्यन्ते पाकारिप्रमुखाः सुराः॥ २७ ॥
**मयः—**मातामह, कास्ति शक्तिरमराणामन्येषां वा महाराजलङ्केश्व-
रस्य किंकरेष्वपि स्पष्टमपराद्धुम्। (दृष्ट्वा ।) कथं समरादिव समायाति विद्युज्जिह्नः।
**माल्यवान्—**तदेतन्मुखादुपलभ्य समरवृत्तान्तमुपनियुज्य च विजयाय कुम्भकर्णमेघना-दावुत्पश्यामश्च कार्यशेषम्।
(इति निष्क्रान्तौ ।)
इति विष्कम्भः ।
- (ततः प्रविशति विद्युजिह्न
-
।)
विद्युज्जिह्वः—आदिष्टोऽस्मि समरगतेन महाराजलङ्केश्वरेण। यथा—
रामश्च कुम्भकर्णेन लक्ष्मणश्चेन्द्रवैरिणा।
यथा भवेतां सुदमौ तथा बाणैर्मया कृतौ॥२८ ॥
तदनयोरतिकृपणयोरुपरि निपतन्ती लज्जते मद्वाहुसृष्टा बाणवृष्टिः।अतश्चतयोः समापनाय नियुज्य वत्सकुम्भकर्णमेघनादौ त्वरिततरमहमागत एव। आगतस्य च
वैदेही यदि परिरम्भणं वचो वा
दृष्टि वा वितरति तावकैरुपायैः।
तल्लाभं घटयति ताटकासु ते यः
संमोदः स बहुगुणो मम त्वयि स्यात्॥ २९ ॥
इति । (दृष्ट्वा ।) तत्र सहायतया निर्दिष्टो महाराजलङ्केश्वरस्य नर्ममित्रंमहोदर इत एवाभिवर्तते।
(प्रविश्य)
**विदूषकः—**आदिोट्ठह्मिसमराहिमुहपत्थिएण महाराअलङ्केसरेण।जह अइ वअस्स महोदर, जं वअस्सविज्जुज्जीहो अणुचिट्ठइ तत्थ तुए सहाएण होदव्वम्। (संस्कृतमाश्रित्य ‘वैदेही’ (५।२९) इत्यादि पठित्वा परिक्रामन् ।) दिट्टिआ चिरस्स संपुण्णो मे अज्ज एसो अपूरिअपुव्वो पिचण्डभरो। ता संणिहं गच्छम्मि। (बाहुभ्यामुदरं परिगृह्य परिक्रामति ।) (क)
———————————————————————————————————
(क) आदिष्टोऽस्मि समराभिमुखप्रस्थितेन महाराजलङ्केश्वरेण। यथा अयिवयस्य महोदर, यद्वयस्यविद्युज्जिह्वोऽनुतिष्ठति तत्र त्वया सहायेन भवित-
**विद्युज्जिह्वः—**दिष्ट्या समागत एवायमखिलब्रह्मराक्षसकुलमहोपाध्यायो महाराजलङ्केश्वरस्य कामार्थतीर्थमर्मज्ञो नर्मसुहृन्महोदर इत एवाभिवर्तते। य एष
मज्जास्नेहविनिष्पक्वमांसमोदकखादनैः।
विजिह्मितमुखो मन्दं विह्वलं चाभिवर्तते॥ ३० ॥
आर्य महोदर, इत इतस्तावत्।
**महोदरः—**कहं मए पञ्चग्गमंसमोद आणं परिपूरि अपि चण्डएण पवणतण अत्राह्वरुवे अपरि-भञ्चि अपाव- असंकुले एत्थ पमदवणे सरभसं आहिणिडदव्यम्।(क)
**विद्युज्जिह्वः—**एवमेतत्।
भग्नोऽत्र चैत्यप्राकारो वृक्षैरामूलितैर्वृतः।
कुरुते रोधमभितः कुम्भकर्णो यथा हतः॥ ३१ ॥
**महोदरः—**सन्तं पव्वं सन्तं पव्वम्। किं णामजष्पिअं अज्ज विज्जुज्जीहेण। (ख)
**विद्युज्जिह्वः—**कथं प्रमादादेव परिस्खलितं मे वचनम्।
**महोदरः—**को एत्थ पमादो। (ग)
**विद्युज्जिह्वः—**मृतस्य सुप्तस्य न किंचिदन्तरमिति।
**महोदरः—**अह इं। (घ)
विद्युज्जिह्नः—(विलोक्य ।)
————————————————————————————————
व्यम्। दिष्ट्या चिराय संपूर्णो मेऽद्यैषोऽपूरितपूर्वः पिचण्डभरः। तत्संनिधं गच्छामि।
(क) कथं मया प्रत्यग्रमांसमोदकैः परिपूरितपिचण्डकेन पवनतनयबाहूरुवेगपरिभग्नपावकसंकुलेऽत्र प्रमदवने सरभसमाहिण्डितव्यम्।
(ख) शान्तं पापं शान्तं पापम्। किं नाम जल्पितमद्य विद्युज्जिह्वेन।
(ग) कोऽत्र प्रमादः।
(घ) अथ किम्।
अथेयं राक्षसीमध्ये शिंशुपायास्तरोरधः।
राक्षसेन्द्राज्ञया सीता रक्ष्यते राक्षसीजनैः॥ ३२ ॥
तदितः परं पुरुषान्तरेण न गन्तव्यमिति खलु राजादेशः।तत्त्वया गत्वा मत्समीपमानीयतां वत्सा शूर्पणखा।
महोदरः—(सरोपम् ।) अरेरे अमच्चापसद, कहं दे अहं ण पुरिसो। अह वा किं तुमं एदं जाणासि। पडिसंवच्छरं पसूदा मह ब्रह्मरक्खसी कुण्डोदरी एव्व जाणाइ मे पुरिसत्तणम्। (क)
**विद्युज्जिह्वः—**आर्य, कः संदेहः। किंतु राजदारदर्शनेष्वनियन्त्रणः कृतोऽसि महाराजलङ्केश्वरेण। तत्प्रेषणीया मत्समीपं वत्सा शूर्पणखा।
**महोदरः—**तह। (इति निष्कम्य शूर्पणखया सह प्रविश्य ।) अमच्च, एसा वच्चा सुष्पणहा। (ख)
**विद्युज्जिह्वः—**वत्से शूर्पणखे, संप्रति भवत्या सीतायाः पुरस्ता देवमेवं कर्तव्यम्। (इति कर्णे कथयति। छिन्नं शिरश्चार्पयति ।)
**शूर्पणखा—**तह। (इति गृहीत्वा निष्क्रान्ता ।) (ग)
**विद्युज्जिह्वः—**आर्य महोदर, त्वयापि तदनुगुणमाचेष्टितव्यम्।
**महोदरः—**एव्वंहोदु। (घ)
**विद्युज्जिह्वः—**अहमपि महाराजलङ्केश्वराय तदिदमावेदयामि।
(इति निष्क्रान्तः ।)
महोदरः—(परिक्रम्य ।) एसो सिंसुवारुक्खो। णं एत्थ एव्व पडिरक्खिज्जइ जाणई रक्खसीहिं। (इत्युपसर्पति ।) (ङ)
—————————————————————————————————————————
(क) अरेरे अमात्यापसद, कथं ते अहं न पुरुषः। अथवा किं त्वमेतज्जानासि। प्रतिसंवत्सरं प्रसूता मम ब्रह्मराक्षसी कुण्डोदर्येव जानातिमम पुरुषत्वम्।
(ख) तथा। अमात्य, एषा वत्सा शूर्पणखा।
(ग) तथा।
(घ) एवं भवतु।
(ङ) एषशिंशपावृक्षः। नन्वत्रैव प्रतिरक्ष्यते जानकी राक्षसीभिः।
(ततः प्रविशति राक्षसीपरिवृता सीता सरमा च ।)
**सीता—**सहि सरमे, अज्जवि णाअदा पिअसही तिअडा।(क)
**सरमा—**णं रामरावणाणं अष्णोष्णघडिए संगामे जअपराजएदद्दृण खु ताए आअन्दव्वम्। जइ दे तुवरेदि अप्पा समरवुत्तन्तं परिष्णादुं ता अहं गदुअ तं घेत्तूण तुरिअं आअच्छम्मि। तुमं विस्सद्धा भविअमुहुत्तअं पडिवालेहि। (इति निष्कान्ता ।) (ख)
सीता—(साशङ्कम्।) किं मे कहइस्सइपिअसही तिअडा समरवुत्तन्तम्। माआविमोहणो क्खु एसो हदासो रक्खसावसदो। (इति पर्याकुलातिष्टति ।) (ग)
(प्रविश्य)
शूर्पणखा—(ससंभ्रममुपसृत्य । सहर्षम् ।) अइ जाणइ, दिट्ठिआ वड्ढसिभत्तुणो रावणस्स विअएण। भग्गो दे रामसमाअममणोरहो सहि, एदेहिं । (इति च्छिन्नं शिरो धनुश्च दर्शयति ।) (घ)
सीता—(दृष्ट्रा ।) हा हदम्मि मन्दभाइणी। (इति मुह्यति ।) (ङ)
**राक्षस्यः—**समस्ससिहि समस्ससिहि जाणड्। (च)
शूर्पणखा—(स्वगतम् ।) दिट्ठाआपणट्ठा से सण्णा। (प्रकाशम् ।) समस्ससिहि समस्ससिहि जाणइ। दिट्ठआ पणट्ठो दे पापसेसो।
——————————————————————————————————
(क) सखि सरमे, अद्यापि नागता प्रियसखी त्रिजटा।
(ख) ननु रामरावणयोरन्योन्यघटिते सङ्ग्रामे जयपराजयौ दृष्ट्वा खलुतयागन्तव्यम्। यदि ते त्वरयत्यात्मा समरवृत्तान्तं परिज्ञातुं तदहं गत्वा तांगृहीत्वा त्वरितमागच्छामि। त्वं विश्रब्धा भूत्वा मुहूर्तं प्रतिपालय।
(ग) किं मे कथयिष्यति प्रियसखी त्रिजटा समरवृत्तान्तम्। मायाविमोहनः खल्वेष हताशो राक्षसापसदः।
(घ) अयि जानकि, दिष्ट्या वर्धसे भर्तूरावणस्य विजयेन। भग्नस्ते रामसमागममनोरथः सखि, एताभ्याम्।
(ङ) हा हतास्मि मन्दभागिनी।
(च) समाश्वसिहि समाश्वसिहि जानकि।
सुप्पसण्णो भअवं पुष्णसंभारो। जाए तुह तेल्लोक्केसरो मह भादाअणुरुवो भट्टा संवुत्तो। (क)
राक्षस्यः—(सभयम् ।) कहं पणट्ठा से सष्णा। णं दीसइ णिस्सासो।ता को एत्थ विआरो। (ख)
**शूर्पणखा—**किंणिभित्तो विआरो तुह्माणम्। णं सोमणो उवलद्धो अह्माणं माणुसस्स मंसाहारो। (ग)
राक्षस्यः—(पभयं सरोषं च शूर्पणखां निर्भर्त्सयन्त्यः ।) अयि मूढे अणत्थ-आरिणि सुप्पणहे, भक्खणणिमित्तं तुझेहिं मारिदा जाणइति परिकुविदोभट्टा जीवन्तीओ एव्व अह्मे कुक्कुराणं भक्खणं कारिस्सदि। ता समरंगअस्स भत्तूणो पुरदो एवं जाणईउत्तन्तं णिवेदह्म। तदो जं होइ तंहोदु।(इति ससंभ्रमं सर्वा निष्क्रान्ताः ।) (घ)
(प्रविश्य)
**त्रिजटा—**सहि सरमे, सीदादेवीं उज्झिअ कहं पत्थिदासि। (ङ)
———————————————————————————————————
(क) दिष्ट्या प्रणष्टास्याः संज्ञा। समाश्वसिहि समाश्वसिहि जानकि। दिष्ट्या प्रणष्टस्ते पापशेषः। सुप्रसन्नो भगवान्पुण्यसंभारः। यया तव त्रैलोक्येश्वरो मम भ्रातानुरूपो भर्ता संवृत्तः।
(ख) कथं प्रणष्टास्याः संज्ञा। ननु दृश्यते निःश्वासः। तत्कोऽत्र विचारः।
(ग) किंनिमित्तो विचारो युष्माकम्। ननु शोभन उपलब्धोऽस्माकं मानुषस्य मांसाहारः।
(घ) अयि मूढे अनर्थकारिणि शूर्पणखे, भक्षणनिमित्तं युष्माभिर्मारिताजानकीति परिकुपितो भर्ता जीवन्तीरेवास्मान्कु क्कुराणां भक्षणं कारयिष्यति।तत्समरगतस्य’ भर्तुः पुरत एतं जानकीवृत्तान्तं निवेदयामः। ततो यद्भवति तद्भवतु।
(ङ) सखि सरमे, सीतादेवीमुज्झित्वा कथं प्रस्थितासि।
(प्रविश्य)
**सरमा—**सहि तिअडे, तुमं चिराअसि त्ति अण्णेसिढुं पिअसहीएसीदादेवीए एव्व पेसिदह्मि। कीरिसो समरउत्तन्तो रामरावणाणम्। (क)
**त्रिजटा—**को अण्णो। सअं एव्व संगामधुरंधरे महाराअरामदेवे। ता एहि। जाणईसमक्खं एव्व सव्वं णिवेदइस्सम्। (ख)
सरमा—(सस्मितम् ।) सहि, तुह मुहप्पसादो एव्व सव्वं णिवेदेइ। तह वि तत्थ एव्व सुणिस्सं वित्थारम्।(ग)
उभे—(उपसृत्य । सहर्षम् ।) सहि जाणइ, दिट्ठिआ वड्ढसि भत्तुणो समरविअअमहूसवेण। (घ)
सरमा—(दृष्ट्वा ।) कहं गाढणिद्दापरवसा बिअ एसा लक्खिज्जइ। (ङ)
**त्रिजटा—**सहि, कुदोएदाए तवस्सिणीए महाराअरामदेवविरहदिअहादो आरम्भिअ णिद्दावआसो। ता सुप्पणहाए किं वि अच्चाहिदं आअरिदं हवे। सा क्खु अमच्चविज्जुज्जीहेण सह विअणे किंवि मन्तअन्तीआसी। सो वि ईरिसेसु भीरुअणकदत्थणेसु सअं एव्व णिच्चसंणद्धो।किं उण भत्तुणो णिओएण। (च)
———————————————————————————————————
(क) सखि त्रिजटे, त्वं चिरयसीत्यन्वेष्टुं प्रियसख्या सीतादेव्यैव प्रेषितास्मि। कीदृशः समरवृत्तान्तो रामरावणयोः।
(ख) कोऽन्यः। स्वयमेव सङ्ग्रामधुरंधरो महाराजरामदेवः। तदेहि। जानकीसमक्षमेव सर्वं निवदेयिष्यामि।
(ग) सखि, तव मुखप्रसाद एव सर्वं निवेदयति। तथापि तत्रैव श्रोप्यामि विस्तारम्।
(घ) सखि जानकि, दिष्टया वर्धसे भर्तुः समरविजयमहोत्सवेन।
(ङ) कथं गाढनिद्रापरवशेवैषा लक्ष्यते।
(च) सखि, कुत एतस्यास्तपस्विन्या महाराजरामदेवविरहदिवसादारभ्य निद्रावकाशः। तच्छूर्पणखया किमप्यत्याहितमाचरितं भवेत्। सा खल्वमात्यविधुजिह्वेन सह विजने किमपि मन्त्रयमाणासीत्। सोऽपीदृशेषु भीरुजनकदर्थनेषु स्वयमेव नित्यसंनद्धः। किं पुनर्भर्तुर्नियोगेन।
**सरमा—**सहि, अहं वि तह एव्व मन्तेमि। (क)
**त्रिजटा—**सहि, चिट्ठदु एदम्। पेक्ख दाव पाणसंसअं आवण्णं पिअसहिं जाणइम्। (अश्रूणि वर्तयति ।) (ख)
**सरमा—**णं भत्तुणो तेल्लोक्कदुल्लहं विअअमहूसवं अ आणन्ती महातवस्सिणी संतप्पइ। पडिवाहेम णम्। (ग)
(उभे सीताया उरसि ललाटे च हस्तं दत्तः ।)
**त्रिजटा—**सहि जाणइ, अहवा देवि जाणइ, णं भणामो दिट्टिआ वड्ढसि भत्तुणो विअअमहूसवेणेत्ति। (घ)
**सरमा—**जाणइ, णं भणामो दिट्ठिआ वड्ढसि
भत्तुणो विअअमहूसवेणेत्ति। (ङ)
सीता—(नयने शनैरुन्मील्य।) ता इदं एव्व भत्तुणो सीसअं धणुं अ परिरम्भिअ इमादो दारुपव्वदादो अत्ताणं ओधूणिअ णिव्वुदा भविस्सम्। (धनुश्च शिरश्च परामृशन्ती। दृष्ट्वा।) कहं एदं वि मे मन्दभाइणीए अदंसणंगअम्। (पुनर्मुह्यति ।) (च)
उभे—(सवाष्पम् ।) समस्ससिहि समस्ससिहि पिअसहि, अज्ज पणट्ठादे अधण्णादा। अज्ज सुप्पसण्णो भअवं पुण्णसंभारो। (छ)
———————————————————————————————————
(क) सखि, अहमपि तथैव मन्त्रये।
(ख) सखि, तिष्ठत्वेतत्। पश्य तावत्प्राणसंशयमापन्नां प्रियसखीं जानकीम्।
(ग) ननु भर्तुस्त्रैलोक्यदुर्लभं विजयमहोत्सवं च जानती महातपस्विनीसंतप्यते। प्रतिवाहयाम एनाम्।
(घ) सखि जानकि, अथवा देवि जानकि, ननु भणामो दिष्ट्या वर्धसे भर्तुर्विजयमहोत्सवेनेति।
(ङ) जानकि, ननु भणामो दिष्ट्या वर्धसे भर्तुर्विजयमहोत्सवेनेति।
(च) तदिदमेव भर्तुः शीर्ष धनुश्च परिरभ्यास्माद्दारुपर्वतादात्मानमवधूयनिर्वृता भविष्यामि। कथमेतदपि मे मन्दभागिन्या अदर्शनं गतम्।
(छ) समाश्वसिहि समाश्वसिहि प्रियसखि, अद्य प्रणष्टा तेऽधन्यता। अद्य सुप्रसन्नो भगवान्पुण्यसंभारः।
**त्रिजटा—**णं मणस्सिलातिलअकप्पणफलअकवोलचुम्बणं लज्जालुनीए वि मए अज्जउत्तस्स एक्कवारं अप्पडिसिद्धं आसि त्ति तुए एव्व कहिअव अणाहिण्णाणं धारेन्ती किं दे अहं सच्चं तिअडह्नि। आदु अहं पि दे माआ। (क)
सीता—(समाश्वस्य सलज्जं त्रिजटामालिङ्गय ।) पिअसहि, कीस मं लज्जालुणं भूयो वि लज्जावेसि। (ख)
**सरमा—**सहि तिअडे, दाणिंएव्व विज्जुज्जीहकप्पिदेण सुप्पणहाएदंसिएण माआसंमोहणेण मुच्छिअं कहं वि अह्मवअणवीअसंगमेत्तएण पुणो विपच्चुज्जीविआंतेल्लोक्कणाहं वि दाणिंअणाहं जाणई णारुहसि तवस्सिणिं उवालद्धुम्। (बाष्पं विकिरति ।) (ग)
**त्रिजटा—**सहि, सचं भणइ सरमा। ता सुणाहि भत्तुणो इदं पुढमंरावणविअअउत्तन्तम्। (घ)
**सरमा—**सहि तिअडे, किं परोक्खेण कहणेण। पञ्चक्खं एव्व दंसेहिसव्वं रामरावणाणं अण्णोण्णसमरवुत्तन्तं पिअसहिए जाणइए। (ङ)
—————————————————————————————————
(क) ननु मनःशिलातिलककर्तनफलककपोलचुम्बनं लज्जालुकयापि मयार्यपुत्रस्यैकवारमप्रतिषिद्धमासीदिति त्वयैव कथितवचनाभिज्ञानं धारयन्ती किं तेऽहं सत्यं त्रिजटास्मि। अथवाहमपि ते माया।
(ख) प्रियसखि, किमिति मां लज्जालुकां भूयोऽपि लज्जयसि।
(ग) सखि त्रिजटे, इदानीमेव विद्युज्जिह्वकर्तितेन शूर्पणखया दर्शितेनमायासंमोहनेन मूर्च्छितां कथमप्यस्मद्वचनवीजसङ्गमात्रेण पुनरपि प्रत्युज्जीवितां त्रैलोक्यनाथामपीदानीमनाथां जानकीं नार्हसि तपस्विनीमुपालब्धुम्।
(घ) सखि, सत्यं भणति सरमा। तच्छृणु भर्तुरिदं प्रथमं रावणविजय वृत्तान्तम्।
(ङ) सखि त्रिजटे, किं परोक्षेन कथनेन। प्रत्यक्षमेव दर्शय सर्वेराम-रावणयोरन्योन्यसमरवृत्तान्तं प्रियसख्यै जानक्यै।
**त्रिजटा—**जड़ अणुमण्णेदि एसा पिअसही जाणई। (क)
सीता—(सकौतूहललज्जं त्रिजटामालिङ्ग्य।) सहि तिअडे, तुमं कहेहि कहं मए दिट्ठव्वम्, णं दट्ठव्वं वा चिरदिट्ठस्स अज्जउत्तस्स वच्चलक्खणस्स वा वीराइदम्। (ख)
त्रिजटा—(सस्मितम् ।) अयि लज्जालुणि, माआविजम्भिअं खु एदम्। (ग)
सीता—(सलज्जौत्सुक्यम् ।) सहि, चित्तप्पडिकिदिमाआसुचिरदिट्ठो एव्व अज्जउत्तो सवच्चो दट्ठव्वो। (घ)
**सरमा—**आं आं। सहि जाणइ, कहिं विपज्जवत्थावेहि अत्ताणम्। (ङ)
**सीता—**सहिवअणगोरवादो गहिदो क्खणो। (च)
**सरमा—**ता इदो एव्व दारुपव्वदतिरोधाणे सिंसवारुक्खन्तरिआ भविअ पेक्खदु जाणई। दंसेह्मिजं से दंसणिज्जं जाव ण को वि अण्णो जणो एत्थ आअच्छइ। (छ)
**त्रिजटा—**एव्वं एदम्। (ज)
**सरमा—**सहि जाणइ, तहिं एव्व उवसप्पामो। (झ)
————————————————————————————————
(क) यद्यनुमन्यत एषापा प्रियसखी जानकी।
(ख) सखि त्रिजटे, त्वं कथय कथं मया द्रष्टव्यम्, न द्रष्टव्यं वाचिरदृष्टस्यार्यपुत्रस्य वत्सलक्ष्मणस्य वा वीरायितम्।
(ग) अयि लज्जालुके, मायाविजृम्भितं खल्वेतत्।
(घ) सखि, चित्रप्रतिकृतिमायासुचिरदृष्ट एवार्यपुत्रः सवत्सो द्रष्टव्यः।
(ङ) आं आं। सखि जानकि, कुत्र विपर्यवस्थापयात्मानम्।
(च) सखीवचनगौरवाद्गृहीतः क्षणः।
(छ) तदित एव दारुपर्वततिरोधाने शिंशपावृक्षान्तरिता भूत्वा पश्यतु जानकी। दर्शयामि यदस्या दर्शनीयं यावन्न कोऽप्यन्यो जनोऽत्रागच्छति।
(ज) एवमेतत्।
(झ) सखि जानकि, तत्रैवोपसर्पमः।
**सीता—**णं विहेअह्मिपिअसहीणम्। (क)
(निष्क्रान्ताः सर्वे ।)
इति पञ्चमोऽङ्कः ।
——————
पष्टोऽङ्कः ।
(नेपथ्ये ।)
सहि जाणइ, अवहिदा पेक्ख दाव। भत्तुणो रावणस्स विअअमहूसवं दे दंसेमि। जाव सुप्पणहा अण्णदो गच्छइ। (ख)
(प्रविश्य ।)
**रावणः—**कथमस्मद्विजयमहोत्सवं दर्शयितुमारभते त्रिजटा सीतायै।
(प्रविश्य ।)
**महोदरः—**भो वअस्स, अह इं। (ग)
रावणः—(सहर्षम्।) सखे महोदर, महोधितेन वयस्यविद्युज्जिह्वेन मायया दर्शितराम-धनुःशिरोवृत्तान्तं सीताचित्तभेदाय त्रिजटया दर्शयितुं नूनमयमारभ्यते।
**महोदरः—**वाअस्स, अह इं। (घ)
रावणः—तदालोक्य त्रिजटायाः सीताविस्रम्भकौशलमाश्वास्य चा नन्यशरणतया मदेकशरणां वैदेहीमवतीर्य समरभुवमवमध्नामि रामहतकम्।
(प्रविश्य)
**लक्ष्मणः—**आर्य, प्रलपत्येप वैधवेयः प्राणात्यये।
(प्रविश्य)
**रामः—**भवतु । पश्य वत्स, तदद्भुतदर्पणेनैव मणिना किमाचारो दशाननः किमद्यापि न निर्यातीति।
—————————————————————————————————
(क) ननु विधेयास्मि प्रियसख्योः।
(ख) सखि जानकि, अवहिता प्रेक्षस्व तावत्। भर्तूरावणस्य विजयमहोत्सवं तव दर्शयामि। यावच्छूर्पणखान्यतो गच्छति।
(ग) भो वयस्य, अथ किम्।
(घ) वयस्य, अथ किम्।
लक्ष्मणः—(दृष्ट्वा ।) आर्य, कुतोऽस्य निष्क्रमणमन्तःपुरविहारोद्यतस्यजाल्मस्य।
**महोदरः—**भो वअस्स, किं दे पाणसंसअकरेण समरेण। (क)
रावणः—(सादरम् ।) अथ किमुपायान्तरं मन्यते भवान्।
**महोदरः—**माआमयी का वि सीदा रामस्स पच्चप्पणीआ। तं गेह्णिअ पडिणिवुत्ते ससेण्णे रामे णिरासा पुणो वि तस्स समाअमे भवन्तंएव्व अणण्णसरणा चिररोधकदत्थिदा सेविस्सदि जाणई। (ख)
**लक्ष्मणः—**आर्य, यक्षानुरूपो बलिरिति यत्किंचिदुपायमुपदिशतिकामान्धस्य जात्यन्धः।
**रामः—**वत्स, मा मैवम्। बुद्धिशाल्येवायं महोदरः। यदयमनुवर्तते समयेषु राजानम्। यच्च सीताप्रत्यर्पणेन विना नैव तव जीवितलाभ इति भङ्गयन्तरेण स्वामिनं प्रबोधयति।
रावणः—(सरोपम् । हुंकृत्य ।)
धिङ्मूर्ख कातरमहोदरमाययापि
प्रत्यर्पणं वदसि मे जनकात्मजायाः।
तन्न्यायतस्त्रिभुवनेशवधूषु दत्ता-
स्वालेख्यशेषमवरोधगृहं भवेन्मे॥ १ ॥
**महोदरः—**सीदामेत्तपच्चप्पणपणबन्धेण पुणोवि अद्दोहमित्तभावं पडिवण्णे ससेण्णे पडिग्गए तुह जह पुरं तेल्लोक्कविजएच्छाविहारो निप्पच्चूहोचिरस्य संपज्जइ। (ग)
————————————————————————————
(कं) भो वयस्य, किं ते प्राणसंशयकरेण समरेण।
(ख) मायामयी कापि सीता रामस्य प्रत्यर्पणीया। तां गृहीत्वा प्रतिनिवृत्ते ससैन्ये रामे निराशा पुनरपि तस्य समागमे भवन्तमेवानन्यशरणा चिररोधकदर्थिता सेविष्यते जानकी।
(ग) सीतामात्रप्रत्यर्पणपणबन्धेन पुनरप्यद्रोहमित्रभावं प्रतिपन्ने ससैन्ये प्रतिग्रहे तव यथा पुरं त्रैलोक्यविजयेच्छाविहारो निष्प्रत्यूहश्चिरस्य संपद्यते।
रामः—(सश्लाघम् ।) साधु रे महोदर, साधु।
न माल्यवान्नैव विभीषणो वा न कुम्भकर्णो न पुनः प्रहस्तः।
हितं ब्रुवाणो हृदयानुरोधी सत्यं त्वमेवास्य सुहृद्वयस्यः॥ २ ॥
**लक्ष्मणः—**किमत्र प्रतिपद्यते मूढो दशाननः।
**रावणः—**वयस्य, किं बहुना। परिज्ञात एव मयायं तवाभिसंधिः, यदर्जुनवालिभ्यामिव सह सख्यमिच्छति मे वयस्यो रामेण।
**महोदरः—**अह इं। (क)
रावणः—(सश्लाघम् ।) सखे महोदर, न केवलं महाकामतन्त्रेषु मे सचिवोऽसि। अपि तु महाराज्यतन्त्रेऽपि। ततश्च श्रूयतां कार्यभागः।
त्रैलोक्याभयदानदुर्व्यसनिनौ नैवार्जुनेन्द्रात्मजौ
तेनैतौ सुसमाहितौ ननु मया स्वस्वैककार्यार्पणात्।
रामस्तु त्रिजगत्पतित्वदुरहंकारप्रकारोन्नतः
तत्तद्विश्वहृतैः सहैव तु धनैः सीतार्पणे शाम्यति॥ ३ ॥
**महोदरः—**णं उववणणंमन्तिदम्। (ख)
**रावणः—**ततश्च विभीषणस्यापि रामसंकल्पितं प्राप्तमेव मया सह द्वैराज्यं लङ्कायाम्।
**महोदरः—**एव्वं एदम्। (ग)
**रावणः—**तथा च नित्यानुषक्तमेव वैरमनुक्षणरामकोपकरमस्माकं विभीषणेन स्यात्। अनिर्वासितोऽपि विभीषणः प्रहरेदेव नश्छिद्रेषु।
**रामः—**वत्स, श्रूयतामस्य वुद्धिनिष्कर्षः कार्येषु।
**लक्ष्मणः—**भवतु। दृश्यतां द्रष्टव्यम्।
**महोदरः—**वअस्स, जदि एव्वं सीदापच्चप्पणावसरे एव्व कादव्वोएसो अह्मेहिं एक्को पणबन्धो। (घ)
————————————————————————————————————
(क) अथ किम्।
(ख) ननूपपन्नं मन्त्रितम्।
(ग) एवमेतत्।
(घ) वयस्य, यद्येवं सीताप्रत्यर्पणावसर एव कर्तव्य एषोऽस्माभिरेकः पणबन्धः।
**रावणः—**भवतु। कीदृशः।
महोदरः—इदो वरं अह्माणं विभीसणेण सह समाओओ ण संभाविज्जइ। ता तुह्मेहिं अङ्गीकिदो एसो सिह्मलराजादो विप्पइट्ठे जत्थकुत्थ वि रज्जे तुह्मेहिं एव्व णिवेसणिज्जो त्ति। (क)
**लक्ष्मणः—**किमत्रोत्तरं पण्डितंमन्यस्य।
**रामः—**श्रोतव्यमेवैतत्।
**रावणः—**न साधु समर्थितं भवता।
स्थापितोऽपि क्कचिद्रक्षो राज्यहिंसां करिष्यति।
आर्थंहि तेन द्वैराज्यं राक्षसाधिपतेर्मम॥ ४ ॥
**महोदरः—**एवं जाणन्तो वि तत्तभवं अतिवलेण संपादिअवनप्पडिसमाहेअंइत्थिआवेरम्। (ख)
**रावणः—**कृतं गतानुकथनेन। इदानीं तु
रामलक्ष्मणसुग्रीवास्त्रयः स्युर्निहता मया।
सीतास्वयंग्रहाश्लेषचिन्तास्तम्भो न चेद्रिषुः॥ ९ ॥
**लक्ष्मणः—**आर्य, दुःसंकल्पशतदूषितं हृदयमेवास्य भेत्तव्यम्।
(रामो निश्वस्य धनुः पश्यति ।)
**रावणः—**तद्वयस्य महोदर, ममात्र वस्तुन्यवश्यसाधनीयतया सुचिरकाङ्क्षिते
त्वदुपायं च सरमात्रिजटारञ्जनानि च।
विद्युज्जिह्वक्रियां चैव वीक्षे सीतानुरञ्जने॥ ६ ॥
———————————————————————————————————
(क) इतः परमस्माकं विभीषणेन सह समायोगो न संभाव्यते। तद्युष्माभिरङ्गीकृत एष सिंहलराजाद्विप्रकृष्टे यत्रकुत्रापि राज्ये युष्माभिरेव निवेशनीय इति।
(ख) एवं जानन्नपि तत्रभवानतिवलेन संपादितवानप्रतिसमाधेयं स्त्रीवैरम्।
महोदरः—
विज्जुज्जीहसदेण वि तिअडासरमाण णियुददो वा वि।
सीदाभिअअमकज्जे कड्ढइ जोण्णे ण्पदरिसम्मि॥ ७ ॥ (क)
**लक्ष्मणः—**आर्य, श्रूयताम्। आर्यो प्रत्यस्य सुचिरनिष्पादितो बुद्धिनिष्कर्षः।
**महोदरः—**तहवि जदिस्सं दाव। ता इदो एव्व संणिहिदो एसो सिंसवारुक्खो। (विलोक्य ।) कहं एत्थ ण कोवि जणो दीसइ।(ख)
**रावणः—**कथं न कोऽप्यत्र दृश्यते। (सावेगम् ।)
मय्येषा विरहाकुले हनुमता चोरेण किं चोरिता
लक्ष्मणः—स्वयं चोरः परानपि चोरानेव समर्थयते।
रावणः—
किं मे शोधयितुं धृतिं त्रिजटया क्रीडेयमारभ्यते।
किं वा मे रणवेषभीषिततया कुत्रापि गूढा भवे-
दालीभिः सह राक्षसीभिरयि भोः सीता क्कयाता भवेत्॥ ८ ॥
**लक्ष्मणः—**आर्य, कृतं कृतमेतेन चिरमुन्मत्तप्रलपितश्रवणेन। यावदस्य कण्ठकूटं भेत्स्यामि।(शरमुद्धर्तुमिच्छति ।)
रामः—वत्स, नन्वयुध्यति तस्मिन्नसंबद्धे च किमायुधग्रहणेन। विशेषतस्तावदुन्मत्ते।
महोदरः—वअस्स, माणुसी खु एसा—
(इत्यर्धोक्ते ।) (ग)
रावणः—(विहस्य ।) सुलभमृत्युर्मानुषी जातिरिति खलु ते काचिदाशङ्का। श्रूयतां तावत्।
———————————————————————————————————
(क) विद्युज्जिह्नशतेनापि त्रिजटाशरमयोर्नियुततो वापि।
सीताभिजयमकार्ये कर्षति यौवने प्रदर्शयामि॥
(ख) तथापि यतिष्ये तावत्। तदित एव संनिहित एष शिंशपावृक्षः। कथमत्र न कोऽपि जनो दृश्यते।
(ग) वयस्य, मानुषी खल्वेषा।
वृथापराधशङ्केयं विनीतेऽपि यमे तव।
सोऽपि कच्चिदनात्मज्ञः सुग्रीव इव भास्करिः॥ ९ ॥
**महोदरः—**एव्वं एदम्। (क)
**लक्ष्मणः—**आर्य, दृष्टः किल दुर्मतेरुन्मस्तकोऽयमुन्मादप्रकारः।
रामः—वत्स, मा मैवम्।
दिक्पालान्दशभिर्दशापि वदनैरद्याप्यहो शासतः
वक्तृव्यत्ययजो नतेषु कलहः शान्तः सपत्नीष्विव।
एकद्वित्रिकटाक्षपातविषयायैकेऽप्यहो जन्तवः
ते भूस्वर्गरसातलेश्वरपदे दत्ताधिकारा इव॥ १० ॥
**रावणः—**तथा च वयस्य,
त्वदुपायेन सरमा त्रिजटारञ्जनेन च।
कियदावर्जिता सीतेत्येतद्रष्टव्यमद्य मे॥ ११ ॥
ततश्च समरमवतीर्य रामलक्ष्मणहतकाभियुक्तयोर्वत्सकुम्भकर्णमेघनादयोरोजायितमवलोकयन्नद्यैव समापयामि सुग्रीवभङ्गतः संग्रामकथाम्।
(इति परिक्रामति ।)
**लक्ष्मणः—**आर्य, दिष्ट्या खलु रावणकुम्भकर्णमेघनादास्त्रयोऽपि युगपदेव बाणगोचरमापतन्ति।
रामः—वत्स, अथ किम्।
**लक्ष्मणः—**आर्य, यद्येकामपि मे शृणोषि विज्ञापनाम्
नैकोऽपि जीवन्मोक्तव्यस्त्रिष्वेतेषु च राक्षसः।
निहत्य त्रीनिमानद्य सद्यो युद्धं समाप्यताम्॥ १२ ॥
**रामः—**कः संदेहः।
**लक्ष्मणः—**किं च।
लङ्कानामनि नर्मणि त्रिजगतां गाढप्ररूढास्त्रयोऽप्येते संप्रति शल्यशङ्कव इव प्रारब्धघोराधयः।
————————————————————————————————————
(क) एवमेतत्।
आकृष्टास्तव वाणकङ्कवदनैर्दिष्ट्याद्य दृष्टाश्चिरा-
देते तत्र पुनविंशन्ति न यथा कार्यं तथार्यावयोः॥ १३ ॥
रामः—वत्स, एवमिदम्।
लक्ष्मणः—(दृष्ट्रा ।) आर्य, कथमयं दशमुखहतकः स्वयमशोकवनिकाभ्यन्तरमेव प्रविशति। न पुनरद्यापि संग्रामम्।
**रामः—**वत्स, शोभते खलु कुम्भकर्णमेघनादयोरखिलत्रैलोक्यसारसमुद्धारसंभावितदोःस्तम्भयोरा- सज्जितनिखिलसंग्रामभरस्य स्वैरविहारो लङ्केश्वरस्य।
**लक्ष्मणः—**अस्तु तावत्।
अन्तस्तिष्ठन्वहिर्वापि लङ्काया दशकंधरः।
प्रकाशो वाथ गूढो वा वाणगोचर एव ते॥ १४ ॥
-ततश्च कुम्भकर्णमेघनादौ यावदायोधनभुवमवतरतस्तावदालोक्यतामद्भुतदर्पणेनैव मणिना किमाचारो दशानन इति। नन्वयमेव खलु सर्वप्रकारपरिज्ञातव्यचरितः प्रधानशत्रुरस्माकम्। तदत्रैव स्थितावावाम्
आकारेणैव जानीवः कुम्भकर्णस्य चेष्टितम्।
विभीषणेन ज्ञाप्येत मेघनादविजृम्भितम्॥ १९ ॥
अथवा मणिरयमद्भुतदर्पण एवं निखिलमवगमयति लङ्काया बहिरन्तश्च वृत्तान्तम्। ततश्च तत्तदुचितं प्रतिविधानमाचरिष्यते समयेषु।
**रावणः—**कथमिह न सीता राक्षस्यो वा। (इति परिभ्रमति ।)
महोदरः—(कर्णे दत्वा ।) भो वअस्स, कीडापव्वदपेरन्ते सद्दो विभसुणीअदि। ता तहिं एव्व गच्छाह्म।(क)
**रावणः—**के केऽत्र भोः किंकराणाम्। विज्ञाप्यतामस्मत्पुरतः सर्वोऽपि वत्सकुम्भकर्णमेघनादयोः समरवृत्तान्तः समयेषु युष्माभिः।
**लक्ष्मणः—**आर्य, समरवृत्तान्तज्ञापनाय किमस्य पुरुषान्तरेण। नन्वा वामेव शरनिकृत्तपुरःपातिताभ्यां कुम्भकर्णमेघनादयोः शिरोभ्यामावेदयावः समरवृत्तान्तमन्तःपुरविहारिणो लङ्केश्वरस्य।
————————————————————————————————————
(क) भो वयस्य, क्रीडापर्वतपर्यन्ते शब्द इव श्रूयते। तत्तत्रैव गच्छावः।
**रामः—**भवतु। पश्य किमाचारो दशानन इति।
**रावणः—**वयस्य, तदालोक्य सरमायास्त्रिजटायाश्च सीतामधिकृत्य बन्दिविस्रम्भकौशलमाश्वास्य चानन्यशरणतया मदेकशरणां वैदेहीमवतीर्य समरभुवमवमथामि सकपिस्तोमं रामहतकम्। (इति परिक्रामति ।)
**लक्ष्मणः—**प्रलपत्येषवैधवेयः प्राणात्यये।
**रामः—**भवतु। पश्य वत्स, तदद्भुतदर्पणेन मणिना किमाचारो दशाननः। किमद्यापि समराय न निर्यातीति।
लक्ष्मणः—(दृष्ट्वा ।) आर्य, कः पुनरन्यः समाचारो जाल्मस्य।
महोदरेण तेनैव महामात्येन संयुतः।
अशोकवनिकामध्यमाधावत्याकुलैः पदैः॥ १६ ॥
रामः—(दृष्ट्वा ।) वत्स, इदं तदशोकवनं नाम।
**लक्ष्मणः—**अथ किम्। अयं च वृक्षः शिशषानाम।
**रामः—**साधु वत्स, सर्वमिदं प्रत्यभिजानासि हनूमदावेदितम्।
**लक्ष्मणः—**आर्य, अथ किम्। (स्वगतम् । निश्वस्य ।)
अथेयं शिंशपागूढे क्रीडाभूमिधरान्तिके।
रावणप्रहितैरार्या रक्ष्यते राक्षसीजनैः॥ १७ ॥
(सबाष्पम् ।) अम्ब वैदेहि, चिरादभिवर्तते पादकमलयोरयं लक्ष्मणस्य शिरसा प्रणामपर्यायः। (इति प्रणमति ।)
रामः—(सवैक्लव्यम् ।) वत्स, अपि दृष्टिगोचरा सा रामस्य जीवनाडी। (इति मुह्यति ।)
लक्ष्मणः—(स्वगतम् ।) कथमियमार्याय दर्शनीया कथं वा न दर्शनीया। कष्टमतिमहति संकटे पतितोऽस्मि। (प्रकाशम् ।) आर्य, समाश्वसिहि समाश्वसिहि।
रामः—(आश्वस्य ।)
उपस्थिते लोचनयोरुत्सवेऽस्मिन्ममानयोः।
हा हन्त बाप्पासारो यन्नाद्याप्युज्झति वैरिताम्॥ १८ ॥
**महोदरः—**इदो इदो वअस्सलङ्केसरो। (क)
लक्ष्मणः—(आकर्ण्य ।) आर्य, विलक्षण एवास्य वीरभावः।
आततायिनि संनद्धे हन्त त्वय्यभिधावति।
विशङ्कः संभ्रमेणायं विशत्याक्रीडमेव यत्॥ १९ ॥
रामः—(दृष्ट्वा ।) तदत्र वत्स, शस्त्रागारेण भवितव्यं महामन्त्रतन्त्रमायासाधनस्थानेन वा। यदयमतिवेगवर्धितसंभ्रमविगणितवेपविपर्यासः स्वा- वरोधविहारमनन्यजनप्रवेशयोग्यमभिधावत्यशोकवनिकाभ्यन्तरम्।
**लक्ष्मणः—**किं मत्तस्य विपर्यासधावनेऽपि हेतुमुपक्षिपसि।
**महोदरः—**इदो इदो वअस्सलङ्केसरो। (ख)
रावणः—(परिक्रामन् । विचिन्त्य निश्वस्य च ।) वयस्य महोदर,
रामस्य बाणवेगं न चिन्तयेऽहं तृणावपातमिव।
कामस्य बाणवेगः कथं नु मयि वज्रपाततामयते॥ २० ॥
**महोदरः—**वअस्स, एदे दुवे वि रामकामा महासंयत्ता जेदव्वा उवद्विदा। (ग)
**रावणः—**अथ किम्।
**महोदरः—**ताणं एक्कअरविणिज्जए वि दुवे वि णिज्जिआ एव्व। (घ)
**लक्ष्मणः—**आर्य, रावणादपि बुद्धिमत्तरो महोदरः।
**रामः—**वत्स, अथ किम्।
**रावणः—**सखे महोदर, साधु समर्थितं भवता।
सीताकृतेऽभियुञ्जाते रामकामावुभौ च माम्।
सुनिग्रहस्तयोराद्योमया दुर्निग्रहः परः॥ २१ ॥
————————————————————————————————————
(क) इत इतो वयस्यलङ्केश्वरः।
(ख) इत इतो वयस्यलङ्केश्वरः।
(ग) वयस्य, एतौ द्वावापि रामकामौ महासंयत्तौजेतव्यावुपस्थितौ।
(घ) तयोरेकतरविनिर्जयेऽपि द्वावपि निर्जितावेव।
**महोदरः—**सुणिग्गहो विसतु रामो। वअस्सेण संपदं किंत्ति णणिगिण्हीअदि। (क)
**रामः—**साधु पृष्टं महोदरेण।
**लक्ष्मणः—**अथ किम्।
**रावणः—**सखे महोदर, समाकर्ण्यतामयमनितराकर्णनीयो रावणहदयाभिसंधिः।
सुबाहुमारीचविराधघाती वैरूप्यकारी स्वसुरेव साक्षात्।
मित्रेऽपि मे वालिनि गूढपापः सीतामपेक्ष्यायमुपेक्षितोऽभूत्॥ २२ ॥
महोदरः- णं उववण्णं मन्तिदं वअस्सेण। सीदां अवेक्खिभअ उवेक्खिओ रामो त्ति। जदो अमच्चविज्जुज्जीहेण किंवि माआए रामस्स सीसं एदंदिट्ठमेत्तर एव्व झत्ति मोहं उवगदा। ण आणामि अज्जवि सण्णंपडिवण्णा ण वेत्ति। (ख)
लक्ष्मणः—(सरोषं सकरुणं च ।) आर्य, श्रुतमार्यायाः संमोहनप्रकारर्वस्वमस्य नर्मसुहृदा समाविष्कृतम्।
**रामः—**वत्स, अथ किम्।
रावणः—(साशङ्कम् ।) कथमद्यापि संज्ञां न प्रतिपद्यते वैदेही। (सश्नाधम् ।) साधु रे विद्युज्जिह्व, साधु।
असाध्यमन्यथा ज्ञात्वाजानक्यावर्जनं मयि।
आरब्धोऽयं त्वया योगो मानुष्यां राक्षसीष्विव॥ २३ ॥
महोदरः—वअस्स, एवं एवं। सुणाहि एत्थ फलिअं अत्थम्। (ग)
———————————————————————————————————
(क) सुनिग्रहो विशतु रामः। वयस्येन सांप्रतं किमिति न निगृह्यते।
(ख) ननूपपन्नं मन्त्रितं वयस्येन। सीतामवेक्ष्योपेक्षितो राम इति। यतोऽमात्यविद्युज्जिह्वेन किमपि मायया रामस्य शीर्षमेतद्दृष्टमात्र एव झटिति मोहमुपगता। न जानेऽद्यापि संज्ञां प्रतिपन्ना न वेति।
(ग) वयस्य, एवमेतत्। शृण्वत्र फलितमर्थम्।
**लक्ष्मणः—**आर्य, किमिदं वक्ष्यति फलितमर्थं दशाननहतकस्य।
**रामः—**वत्स, श्रूयतां तावदवहितेन।
**महोदरः—**वअस्स, एसो मए सव्वहा णिद्धारिदो अत्थो। (क)
**रावणः—**क इव।
**महोदरः—**जइ रामो जीवइ तढ़ो तुइ भावबन्धं कदावि ण करिस्सदि सीदा। अह पक्खन्तरे सा एव्व ण जीविस्सदित्ति सव्वहा णत्थि दे जाणईणिरूढस्स दुम्मणोरहस्स फलम्। (ख)
लक्ष्मणः–आर्य, धिग़यमनात्मज्ञो दुर्मनोरथस्य फलमिति समक्षनिन्दामपि न जानाति मोहान्धः।
रावणः—(विहस्य ।)
ननु जानासि लोकेषु नार्योबन्दीकृता मया।
प्रायेण वशमानीताः पातिव्रत्यपरा अपि॥ २४ ॥
**लक्ष्मणः—**आर्य, पापस्य धिक्प्रलापः। अथवा।
स्वयंकृतेन पापेन स्वं न श्लाघेत किं स्वयम्।
यतस्तदा प्रभृत्येनमेकोऽपि न नियच्छति॥ २५ ॥
**रामः—**वत्स, एवमेतत्।
**लक्ष्मणः—**अथवा आत्मनि विद्यमानमेव रावणस्य चिराद्दण्डनदोषमन्यत्र संभावयामि।
**रामः—**वत्स, कः संदेहः।
**महोदरः—**णं मए एव्व सव्वं इदं साहिअं तुह इत्थिआसहस्ससंवणणम्। (ग)
———————————————————————————————————
(क) वयस्य, एष मया सर्वथा निर्धारितोऽर्थः।
(ख) यदि रामो जीवति ततस्त्वयि भावबन्धं कदापि न करिष्यतिसीता। अथ पक्षान्तरे सैवं न जीविष्यतीति सर्वथा नास्ति ते जानकीनिरूढस्य दुर्मनोरथस्य फलम्।
(ग) ननु मयैव सर्वमिदं साधितं तव स्त्रीसहस्रसंवननम्।
**रावणः—**अत एव त्वमिहापि कर्मणि नियुक्तोऽसि।
महोदरः—(अपवार्यै ।) कहं मए तिमिरचन्दिआसंभेदो संपादणिज्जो (क)
**लक्ष्मणः—**श्रुतमार्येण।
**रामः—**अथ किम्।
**महोदरः—**णं रक्खसाणं वि रक्खसो सि। (ख)
**रावणः—**ततः किम्।
**रामलक्ष्मणौ—**किमयमुपदिशति जाल्मस्य।
**महोदरः—**णं वलामोडिअ गहीदाए वलामोडिअ णिरुद्धाए एदाए बलामोडिअ एव्वणिव्वत्तणिज्जो सव्वो मणोरहो त्ति अम्ह जाइधम्मो तत्तहोदाणं ओगओ वहुसो अणुट्ठिदो अ। ता किं एत्थ विलम्वीअदि। (ग)
**लक्ष्मणः—**किमत्र वक्ष्यत्यनात्मज्ञः।
**रामः—**नूनमयं वक्ष्यति गूढमत्र कंचित्प्रतिबन्धम्।
रावणः—(विदूषकस्य हस्तं हस्तेनास्फाल्य विकृतं विहस्य ।) साधु नर्ममित्रमेवासि लङ्केश्वरस्य। तदाकर्णय। रम्भावलात्करणेन**—**(इत्यर्धक्ति रसपारवश्यमभिनीय ।) अहो चिरानुभूतोऽपि तात्कालिक इव मदयति मे हृदयमद्यापि कलितमोदारम्भो रम्भावलात्कारः।
**महोदरः—**णं सुदोएव्व तुह मुहादो मए तदो कुविदस्त णलउवरस्स सावो। जह अज्जप्पहुदि दसमुहो अकामं जं कंवि इत्थिअं वलामोडिअ अहिरमइ तदो से मुद्धा सहस्सहा होज्जेत्ति। (घ)
————————————————————————————————————
(क) कथं मया
तिमिरचन्द्रिकासंभेदः संपादनीयः।
(ख) ननु राक्षसाणामपि राक्षसोऽसि।
(ग) ननु बलात्कारेण गृहीताया बलात्कारेण निरुद्धाया एतस्या बलात्कारेणैव निर्वर्तनीयः सर्वो मनोरथ इत्यस्माकं जातिधर्मस्तत्रभवतामवगतो बहुशोऽनुष्ठितश्च। तत्किमत्र विलम्ब्यते।
(घ) ननु श्रुत एव तव मुखान्मया ततः कुपितस्य नलकूबरस्य शापः। यथाद्यप्रभृति दशमुखोऽकामां यां कामपि स्त्रियं बलात्कारेणाभिरमते ततोऽस्यमूर्धा सहस्रधा भवितेति।
(रावणो हुंकरोति ।)
महोदरः—णं अणुमदं एव्व ए्दंपुञ्जिअत्थलावलक्कारकुविदेण पिदामहेण। (क)
**रावणः—**धिड्मूर्ख, कथं मय्यपि नलकूबरस्य वराकस्य शापः। किं तु
बलाद्भुक्तां मया दृष्ट्वा रुदन्तीं पुञ्जिकस्थलाम्।
मा बलात्कुरु नारीरित्यन्वशान्मां पितामहः॥ २६ ॥
**लक्ष्मणः—**आर्य, श्रुतः किल यादृच्छिकोऽयमनयोः संलापः। तत्सर्वथा न शक्य एव स्त्रीमात्रे रक्षोवलात्कार इत्याम्रेडितमद्य संवदते संभाषणं विभीषणस्य।
रामः—(निश्वस्य स्वगतम् ।)
प्रागेव सीतां जानेऽहं पश्यामि च तथैव ताम्।
किंतु लोकस्य हृदये किमस्तीति विचिन्तये॥ २७ ॥
(प्रकाशम् ।) भवतु वत्स, दृश्यतां द्रष्टव्यम्। किमाचारो रावण इति।
रावणः—(सानुनयम् ।) तद्वयस्य, त्वया च विद्युज्जिह्वेन च त्रिजटामुखाभिश्च मयि कथमपि झटिति समावर्जनीया जानकी। (इति महोदरं प्रार्थयते ।)
**महोदरः—**भोदु। जतिस्सं दाव। (ख)
**रावणः—**दिष्टयाप्रसन्नो मे राक्षसकुलमहोपाध्यायः। (सप्रणामम् । हर्षेणवल्गन्मुकुटविपर्यासं शाखासु केशसक्ति चाभिनीय सरोपम् ।) कथं कपयो वत मामिहाप्यनुपतन्तो विपर्यासितमुकुटेषु सुग्रीवहतकप्रधानाः केशेषु मां गृह्णन्ति।
**लक्ष्मणः—**आर्य, नूनं प्राथमिक सुग्रीवद्वंद्वयुद्धकृतमुकुटभङ्गस्तत्प्रसञ्जितकेशपाशाकर्षणरण-रणकवर्धितरणोन्मादगृहीत एष प्रलपति तादृशमेवयत्किंचित्। तदिदानीम्
आकृष्यकेशे हरिभिः प्रसह्य निबध्य कारासु निवेशनीयः।
तत्रैनमार्यो निजसंविभागं दण्डेन योग्येन चिराद्युनक्तु॥ २८ ॥
————————————————————————————————————
(क) नन्वनुमतमेवैतत्पुञ्जिकस्थलाबलात्कारकुपितेन पितामहेन।
(ख) भवतु। यतिष्ये तावत्।
रामः—(स्वगतम् ।) रावणः खल्वसौ। (प्रकाशम् ।) वत्स,
निषिद्धमेतत्प्रागेव रणकर्म निरायुधे।
तदॄहीतायुधः सोऽयं समेष्यत्येव संगरम्॥ २९ ॥
**लक्ष्मणः—**भवतु। पश्यावः।
**महोदरः—**भो वअस्स, कुदो एत्थ वाणरा। किंदु तुह हरिसणट्टणवसादो इमस्सिं माउलुङ्गविडवे विपज्जत्थमउडसंणिवेसा सज्जन्ति केसा। तदो मोइअ पुणोवि बन्धणिज्जा एदे किरीडबन्धेण। (क)
**लक्ष्मणः—**अस्मत्कर्तव्यमस्य मुकुटभङ्गमग्रतः कृतवानयमशोकवनपादपः।
रामः—(स्वगतम् ।) अस्तु। किमेतेन। (प्रकाशम् ।) भवतु वत्स, दृश्यतांद्रष्टव्यम्।
रावणः—(मुकुटबन्धं समीकृत्य ।) वयस्य महोदर, तदिदानीम्
त्वदुपायेन सरमात्रिजटारञ्जनेन च।
कियदावर्जिता सीतेत्येतद्द्रष्टव्यमद्यमे॥ ३० ॥
ततश्च समरभुवमवतीर्य रामलक्ष्मणहतकाभियुक्तयोर्वत्सकुम्भकर्णमेघनादयोरायोधनहर्षमुत्तम्भयन्नद्यैव समापयामि सुग्रीवभङ्गतः सङ्यामकथाम्।(इति परिक्रामति ।)
**रामः—**वत्स, तदावामप्यस्यैव निर्गमनमनुपालयन्तावायोधनधुरंधरानुत्तम्भयावो हरियूथपान्।
**लक्ष्मणः—**यथोक्तमार्येण।
रामः—(सकौतुकम् ।) अयि वत्स,
एष्यत्येव रणाजिरं दशमुखः शस्त्रास्त्रमायोद्धतः
शक्रारिश्च पुरः समेष्यति कृतब्रह्मास्त्रसंसाधनः।
————————————————————————————————————
(क) भो वयस्य, कुतोऽत्र वानराः। किंतु तव हर्पनर्तनवशादस्मिन्मातुलुङ्गविटपे विपर्यस्तमुकुटसंनिवेशाः सज्जन्ति केशाः। तन्मोचयित्वा पुनरपि बन्धनीया एते किरीटबन्धेन।
तन्नः कौतुकमाहवाय घटते यत्कुम्भकर्णः स्वयं
यद्येते युगपत्रयोऽपि मिलिताः सोऽयं चिरस्योत्सवः॥ ३१॥
**महोदरः—**इदो इदो भवम्। (क)
**रावणः—**विधेयोऽस्मि सांप्रतं वयस्यस्य।
**लक्ष्मणः—**आर्य, तदावामपि शरनिकृत्तपुरःपातिताभ्यां कुम्भकर्णमेघनादयोः शिरोभ्यामावेदयावः समरवृत्तान्तमन्तःपुरविहारिणो लङ्केश्वरस्य।
**रामः—**यथा रोचते वत्साय।
(निष्क्रान्ताः सर्वे ।)
इति पष्ठोऽङ्कः ।
—————
सप्तमोऽङ्कः ।
(ततः प्रविशतो रामलक्ष्मणौ ।)
**लक्ष्मणः—**आर्य, नन्वावामपि शरनिकृत्तपुरःपातिताभ्यां कुम्भकर्णमेघनादयोः शिरोभ्यामावेदयावः समरवृत्तान्तमन्तःपुरविहारिणो लङ्केश्वरस्य।
**रामः—**यथा रोचते वत्साय।
लक्ष्मणः—(विचिन्त्य ।)
देवदानवदैतेयास्तिष्ठन्त्वेते जिता मुहुः।
अप्यस्त्रदेवता मन्दमभिगच्छत्यमुं भयात्॥ १ ॥
तदत्र ब्रह्मास्त्रग्रहणपर्यन्तेन समरव्यापारेण भवितव्यमार्यस्य।
**रामः—**वत्स, एवमिदम्। यतः।
अनुद्धृतोऽपि तूणीरादुद्यन्ब्रह्मास्त्रसायकः।
स्वयं समरविश्रान्तिं सूचयत्यात्ममोक्षणात्॥ २ ॥
**लक्ष्मणः—**आर्य, अथ किम्।
———————
—————————————————————————————
(क) इत इतो भवान्।
**रामः—**वत्स, पश्य तदद्भुतदर्पणेनैव मणिना किमाचारो दशानन इति।
लक्ष्मणः—(दृष्ट्रा ।) आर्य, कः पुनरन्यः समाचारो जाल्मस्य।
**रामः—**तत्किमशोकवनिकायामेव चिरमाधावत्यनात्मज्ञः।
**लक्ष्मणः—**ननूक्तमेव केनचित् ‘भ्रष्टस्य कान्या गतिः’ इति।
(ततः प्रविशति रावणो महोदरश्च ।)
**महोदरः—**भो वअस्स, इदो इदो भवम्। (क)
रावणः—(परिक्रामन् ।) सखे महोदर,
त्वदुपायेन सरमात्रिजटारञ्जनेन च।
कियदावर्जिता सीतेत्येतद्रष्टव्यमद्य मे॥ ३॥
**महोदरः—**भो वअस्स, किं दे अण्णेहिं उवाएहिं। णं कामरूवो सि। (ख)
रावणः—(सस्मितम् ।) सखे, विदितस्तवाभिप्रायः। रामवेषेणैव भवता रामानुरक्ता संमोहनीया जानकीति।
**महोदरः—**अथ इं। (ग)
**लक्ष्मणः—**श्रुतमार्येण।
**रामः—**वत्स, अथ किम्।
रावणः—(निश्वस्य ।)
वञ्चिताः पतिरूपेण मया तास्ताः पतिव्रताः।
यया हि मायया सास्यां मम कुण्ठीभवत्यहो॥ ४ ॥
**लक्ष्मणः—**श्रुतमार्येण।
**रामः—**वत्स, कः संदेहः पातित्रत्ये सीतायाः, पावनत्वे च भगवत्याभागीरथ्याः। (स्वगतम् ।) किं तु लोकः प्रमाणीकर्तव्यः।
**महोदरः—**भो वअस्स, सीदारतो उम्मत्तोसि \। सीदावेसाहिं एव्व अ- (घ)
————————————————————————————————————
(क) भो वयस्य, इत इतो भवान्।
(ख) भो वयस्य, किं तेऽन्यैरुपायैः। ननु कामरूपोऽसि।
(ग) अथ किम्।
(घ) भो वयस्य, सीतारक्त उन्मत्तोऽसि। सीतावेषाभिरेवास्माभिर्मोह-
ह्येहिं मोहणिज्जोत्ति, सव्वाहिं मन्दोदरीपमुहाहिं अन्तेउरभामिणीहिं एक्कक्कीहिंगहिदुं आरभिओ सीढ़ाए वेसो काएवि तासु गहिदुं ण सक्को जाओ। (घ)
**लक्ष्मणः—**श्रुतः किलानयोरार्येण संवादः।
**रामः—**वत्स, किमत्र श्रोतव्यम्।
प्रागेव जातवृत्तायाः प्रस्तुतानुगुणा कथा।
किं तु लोकप्रमाणा हि कृत्येष्विक्ष्वाकवो नृपाः॥ ५ ॥
**रावणः—**सखे, तथा च श्रूयताम्। (‘त्वदुपायेन सरमा’ इत्यादि पूर्वोक्तं पठति ।)
महोदरः—(स्वगतम् ।) कहं मए अण्णेण वा तिमिरचन्द्रिआसंभेदो संपादणिज्जो। (प्रकाशम् ।) एदु एदु भवं। (क)
(परिक्रामतः ।)
**लक्ष्मणः—**आर्य, श्रुतः किलायमनयोः संलापः।
**रामः—**वत्स, अथ किम्।
**महोदरः—**भो वअस्स, एसा जाणई तिअडासरमाहिं सह सहीहिंकिंवि मन्तअन्ती चिट्ठइ। (ख)
**रावणः—**वयस्य, तदावामिह तिरोहितावेव शृणुवः सह सखीभ्यामस्या विस्रम्भजल्पितानि।
(तथा कुरुतः ।)
(ततः प्रविशति त्रिजटासरमाभ्यां सह सीता ।)
**सीता—**सहि तिअडे, दंसेहि जं दंसणिज्जं। एसा अवहिदम्हि। (ग)
———————————————————————————————————
नीय इति सर्वाभिर्मन्दोदरीप्रमुखाभिरन्तःपुरभामिनीभिरे के कीभिर्ग्रहीतुमारब्धः सीताया वेषः कयापि तासु ग्रहीतुं न शक्यो जातः।
(क) कथं मयान्येन वा तिमिरचन्द्रिकासंभेदः संपादनीयः। एत्वेतु भवान्।
(ख) भो वयस्य, एषा जानकी त्रिजटासरमाभ्यां सह सखीभ्यां किमपि मन्त्रयमाणा तिष्ठति।
(ग) सखि त्रिजटे, दर्शय यद्दर्शनीयम्। एषावहितास्मि।
**रावणः—**सखे महोदर, किमियं दिदृक्षते किमियं दर्शयिष्यतीतिपरवानस्ति कुतूहलेन।
**महोदरः—**तुम्हीभूदो पेक्ख दाव। (क)
**लक्ष्मणः—**नूनमार्थस्य विजयवृत्तान्तमार्यायै दर्शयति त्रिजटा मायायोगेन।
**रामः—**वत्स, ननु कुतूहलस्थानमेतदेतस्याः।
**लक्ष्मणः—**हुं कुतूहलस्थानमिति।
सपुत्रज्ञातिसुहृदो रावणस्य रणे वधम्।
अथवा ग्रहणं शत्रोरार्येयं द्रष्टुमर्हति॥ ६ ॥
यद्वा तदपि प्रेक्षते समयेषु।
त्रिजटा—(उत्थाय ।) सहि सरमे, तुमं एव्व एत्थ रावणपुढमसमरवत्थुए मेहणादणा पासवुत्तन्तं आरम्भिअ दंसणिज्जे एत्थ माआरूवएपीठमद्दिआ भविअ तेसु तेसु रसन्तरेषु पज्जवत्थावेहि पिअसहिं वैदेहिम् \।(इति निष्क्रान्ता ।) (ख)
**रावणः—**वयस्य, पर्यवस्थापयेति वचनाद्भयानकरसप्रायेण मच्चरित्रस्तुकेन मायाविहारेण मया सीतामावर्जयितुमनया समारब्धेन भवितव्यमिति तर्कयामि।
**महोदरः—**णं दक्खामो सव्वं तिरोहिदा एव्व। (ग)
(तथा कुरुतः।)
**लक्ष्मणः—**आर्य, कथमावयोरपि दिदृक्षामुत्पादयत्ययमारम्भः।
**रामः—**नन्वासङ्ग्रामोदयादवश्यप्रतिपालनीयोऽयमस्माभिर्दशाननः।तदेवमस्तु।
————————————————————————————————————
(क) तूष्णींभूतः प्रेक्षस्व तावत्।
(ख) सखि सरमे, त्वमेवात्र रावणप्रथमसमरवस्तुके मेघनादनागपाशवृत्तान्तमारभ्य दर्शनीयेऽत्र मायारूपके पीठमर्दिका भूत्वा तेषु तेषु रसान्तरेषुपर्यवस्थापय प्रियसखीं वैदेहीम्।
(ग) ननु पश्यामः सर्वं तिरोहिता एव।
(तथा कुरुतः।)
(प्रविश्य)
मायालक्ष्मणः—(सनिर्वेदं दृष्ट्वा निश्वस्य।) कथं पलायितमेव दुरात्मना मेघनादहतकेन।
सीता—(सलजौत्सुक्यम् ।) कहं वच्छलक्खणो एव्व वाहरइ। (क)
**सरमा—**अह ईं। (ख)
**रामः—**आश्चर्यमाश्चर्यम्। कथं स एवायं वत्सस्य स्वरयोगः।
**लक्ष्मणः—**ननु दृष्ट एवं मारीचे मायायोगसंपादितो महानार्यस्यस्वरयोगः। तत्किमत्राश्चर्यम् \।
**महोदरः—**वअस्स, कहं उदारगभीरमंसलसरजोओ लक्खणस्सवाहारो। (ग)
**रावणः—**ननु परिचितपूर्व एवायमस्माभिर्लक्ष्मणहतकस्य। (सरोपम् ।) कथं वत्समेघनादस्यापि पलायनमुदाहरति।
**महोदरः—**वअस्स, सव्वं पेक्ख दाव। (घ)
**विकृतलक्ष्मणः—**नूनमार्यस्यायमनपेक्षितास्मदायोधनसंविभागचिरवद्धसंरम्भः साहसव्यापारः। कष्टं कष्टम्।
एतेन स्वयमिन्द्र एव जगृहे वेत्येष नागास्त्रम-
प्येकोऽप्येष सहस्रवत्प्रतिदिशं गूढश्चरत्यम्बरे।
इत्थं युद्धतृषातुरेण च मया दत्तो निषङ्गे करः
काकान्वेषिशरस्पृशा स च रणादार्येण विद्रावितः॥ ७ ॥
प्रकृतरामलक्ष्मणौ—यथावृत्तमेवैतत्।
————————————————————————————————————
(क) कथं वत्सलक्ष्मण एव व्याहरति।
(ख) अथ किम्।
(ग) वयस्य, कथमुदारगभीरमांसलस्वरयोगो लक्ष्मणस्य व्याहारः।
(घ) वयस्य, सर्व प्रेक्षस्व तावत्।
**रावणः—**वयस्य, विद्रावित इति कथमस्मत्पक्षापकर्षोऽप्यनुदर्श्यते सरमया सीतायै।
**महोदरः—**सव्वं पेक्ख दाव उवक्कन्दं एदम्। (क)
**सीता—**सहि सरमे, कहं मुक्को एव्व हदासो सो वच्छेण। (ख)
**सरमा—**दाणि मुक्को विअ। (ग)
**विकृतलक्ष्मणः—**भवत्वेवं तावत्। (उच्चैः ।) भो भो मेघनादप्रभृतयो निशाचरचमूपतयः,
क्केदंहन्त पलाय्यते क्व नु गतान्मुञ्चेत वो लक्ष्मणो
नन्वार्येण तदेतदाश्रुतमभूद्युष्मत्कुलोन्मूलनम्।
आधावैः किमवश्यमेष्यति वधे तहब्रूमहे वो हितं
मा वध्यध्वमिहाध्वरेषु पशुवद्युद्धेष्वकिंचित्कराः॥ ८ ॥
**रामः—**आसीदियमाघोषणा वत्सस्य।
**प्रकृतरामलक्ष्मणौ—**अथ किम्।
**सीता—**सहि सरमे, इमाए वच्छलक्खणस्स आघोसणाए मह कण्णजुअलं अमिअधाराए विअ पूरिज्जइ। (घ)
**महोदरः—**भो वअस्स, खुदा एसा लक्खणहदअस्स आघोसणा। (ङ)
**रावणः—**वयस्य, किमनया लक्ष्मणहतकस्य वाचाटतया।
**विकृतलक्ष्मणः—**कथमनादृत्यैव मे वचनमन्यत एते धावन्ते। यावदग्रत एताञ्शरजालेन निवारयामि।
**प्रकृतरामलक्ष्मणौः—**यथावृत्तमेवैतत्।
————————————————————————————————————
(क) सर्व प्रेक्षस्व तावदुपक्रान्तमेतत्।
(ख) सखि सरमे, कथं मुक्त एव हताशः स वत्सेन।
(ग) इदानीं मुक्त इव।
(घ) सखि सरमे, अनया वत्सलक्ष्मणस्याघोषणया मम कर्णयुगलममृतधाराभिरिव पूर्यते।
(ङ) भो वयस्य, श्रुतैषा लक्ष्मणहतकस्याघोषणा।
सीता—(सहर्षम् ।) सहि सरमे, ईरिसेण वच्छलक्खणस्स रोसावेसेणपमज्जिओ विअ मे हिअअमण्णू। (क)
**रावणः—**मुधामनोरथो मुग्धायाः।
**महोदरः—**अह ई। (ख)
(प्रविश्य)
**विकृतरामः—**नन्विदानीं मे।
सीता—(सहर्षम् ।) सहि, जह एसो कुविदकलहंसकण्ठघोसघग्घरमणोहरो णवसुहासारो विअ मह कण्णविवरं चिरस्स पूरेइ तह मण्णे अज्ज उत्तो वि एसो वाहरइ। (ग)
**सरमा—**साहु सहि, चिरस्त पच्चभिजाणासि। (घ)
**महोदरः—**भो वअस्स, अदिगभीरो एसो सरजोओ। (ङ)
रावणः—(सविस्मयम् ।) अहो स्वरसंपदुत्कर्षो मानुपस्य।
जितेपु लोकपालेषु नदन्मे जयदुन्दुभिः।
अनेन खरयोगेन हन्त स्मृतिपथं गतः॥ ९ ॥
महोदरः—(दृष्ट्वा । स्वगतम् ।) ठाणे क्खु इमं उद्दिसिअ सुप्पणहाए जाणई उद्दिसिअ महाराअरावणस्स अ सव्वाणत्थकरो दुव्वारो मअणविआरो समुप्पण्णो। (प्रकाशम् ।) वअस्स, उववण्णं मन्तिदम्। किंतु सीदंउद्दिसिअ भवन्तं उम्मादइत्तओ सअं उम्मत्तो कामोत्ति मह एसो तक्को। (च)
————————————————————————————————————
(क) सखि सरमे, ईदृशेन वत्सलक्ष्मणस्य रोषावेशेन प्रमार्जित इव मे हृदयमन्युः।
(ख) अथ किम्।
(ग) सखि, यथैष कुपितकलहंसकण्ठघोषघर्घरमनोहरो नवसुधासार इव मम कर्णविवरं चिरस्य पूरयति तथा मन्ये आर्यपुत्र इवैष व्याहरति।
(घ) साधु सखि, चिरस्य प्रत्यभिजानासि।
(ङ) भो वयस्य, अतिगभीर एष स्वरयोगः।
(च) स्थाने खल्वेनमुद्दिश्य शूर्पणखाया जानकीमुद्दिश्य महाराजरावणस्य
प्रकृतरामलक्ष्मणौ—साधु साधु।
रावणः—(सावहित्यम् ।) मूर्ख, दृश्यतां द्रष्टव्यम्।
(नेपथ्ये ।)
हत्वाप्येतान्निशिचरगणानानुपूर्व्येण सर्वा-
न्कामं पश्चादपि दशमुखो हन्त हन्तव्य एव।
द्रागस्माकं त्वशिथिलवलस्फूर्तिरक्षीणशक्ति-
द्रष्टव्योऽसौ सकृदिति चिरादेप तीन्नोऽभिलाषः॥ १० ॥
**महोदरः—**वअस्स, समरकुदूहली राअउत्तों। (क)
रावणः—
विदेहराजस्य सुतामवेक्ष्य विस्रम्भणीयामखिलैरुपायैः।
दण्ड्योऽपि मुक्तो यदयं ततो मां दिदृक्षते जातु रणेषुरामः॥११ ॥
तदेवमस्तु।
**महोदरः—**एवं एदं। को एत्थ संदेहो। (ख)
**प्रकृतलक्ष्मणः—**दाक्षिण्यपरवशोऽयमार्ये दशाननः।
**प्रकृतरामः—**वत्स, एवमिदम्।
**विकृतरामः—**वत्स, किमेतेन पलायमानेषु धनुर्ग्रहणेन।
(विकृतलक्ष्मणः परिक्रामति ।)
**विकृतरामः—**वत्स, नतु वदामि किमेतेन पलायमानेषु धनुर्ग्रहणेनेति।
**प्रकृतलक्ष्मणः—**आसीदिदमनुशासनमार्यस्य।
**प्रकृतरामः—**अथ किम्।
**सीता—**णिच्चोदारो अज्जउत्तो। (ग)
—————————————————————————————————————————
च सर्वानर्थकरो दुर्वारो मदनविकारः समुत्पन्नः। वयस्य, उपपन्नं मन्त्रितम्।किं तु सीतामुद्दिश्य भवन्तमुन्मादयितृकः स्वयमुन्मत्तः काम इति ममैष तर्कः।
(क) वयस्य, समरकुतूहली राजपुत्रः।
(ख) एवमेतत्। कोऽत्र संदेहः।
(ग) नित्योदार - आर्यपुत्रः।
**सरमा—**तुमं जाणासि लोओ अ। (क)
**रावणः—**साधु सरमे, वालिवधमुद्घाटयन्ती गूढमुपहससि।
**महोदरः—**अह इं। (ख)
विकृतलक्ष्मणः—(सविमशीमर्पम् ।) आर्य, श्रूयताम्।
पलायितव्यं च रणे पलाशैः पलायमाने च धनुर्न धार्यम्।
उन्मूलनीयानि च तत्कुलानीत्यर्थो महान्विप्रतिषिद्ध एपः॥ १२ ॥
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेवैतत्।
**सीता—**उववण्णं मन्तिदं वच्छेण। (ग)
**सरमा—**अह इं। (घ)
**महोदरः—**कहं रक्खसाणं कुलोम्मूलणं एव्व एदेहिं पडिण्णादम्। (ङ)
रावणः—(सपरिहासम् ।) अवश्यकर्तव्येऽपि किमनया प्रतिज्ञा विभीषिकया।
**विकृतरामः—**वत्स, मा मैवम्। एते हि यातुधानयोधाः
द्रागस्वामिषु सङ्गरेषु यदपक्रम्यापि रक्षन्त्यसूं-
स्तत्स्वामिप्रतिपालनाय ननु तत्सर्वस्य सेवाफलम्।
स स्वामी स्वयमेव चेत्प्रविशति क्रोधाकुलः सङ्गरं
मुञ्चन्त्येव तदग्रतः सुखमसून्न त्वेव तं पण्डिताः॥ १३॥
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेवैतत्।
**सीता—**सरमे, णं अण्णारिसं एव्व सोअण्णं एदस्स। (च)
—————————————————————————————————————————
(क) त्वं जानासि लोकश्च।
(ख) अथ किम्।
(ग) उपपन्नं मन्त्रितं वत्सेन।
(घ) अथ किम्।
(ङ) कथं राक्षसानां कुलोन्मूलनमेवैतैः प्रतिज्ञातम्।
(च) सरमे, नन्वन्यादृशमेव सौजन्यमेतस्य।
महोदरः
—
जुत्तं मन्तिदं खत्तिअकुमालेण। (क)
रावणः—
वयस्य, इदानीमेकमुपपन्नमेतेषु चिरादस्य प्रलपितेषु।
**विकृतलक्ष्मणः—**आर्य, तहिं विनश्यन्तमेव दशाननमनुविनश्येदखिलोऽपि योऽयमस्य परिस्पन्द इत्यार्यस्य स्यादभिप्रायः।
विकृतरामः—
वत्स, अथ किम्।
**प्रकृतरामः—**यथावृत्तमेतत्।
**सीता—**सहि सरमे, खुट्टु दिट्ठो अभिप्पाओ अज्जउत्तस्स वच्छलक्खणेण। (ख)
**सरमा—**अह इं। (ग)
रावणः—(सरोषम्। ‘विनश्यन्तम्’ इत्यादि लक्ष्मणोक्तं पठित्वा।) वयस्य, श्रुतः किल दुरालापो लक्ष्मणहतकस्य।
अरामलक्ष्मणं लोकमद्यैव न करोमि किम्।
सीतानुरञ्जनप्रेक्षा चिरं चेन्न रुणद्धि माम्॥ १४ ॥
**महोदरः—**वअस्स, एवं एदम्। पेक्ख दाव पेक्खणिज्जम्। (घ)
(रावणस्तथा करोति ।)
**विकृतलक्ष्मणः—**तदिदानीम्
बाणौघव्यतिकरवह्निदह्यमाना-
द्वयामुह्यन्दशवदनः पुरादमुष्मात्।
निर्यातु द्रुतमवशः स्वयं दवाग्नि-
व्यालीढादिव गिरिकुञ्जतः शरारुः॥ १९ ॥
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेवैतत्।
————————————————————————————————————————————
(क) युक्तं मन्त्रितं क्षत्रियकुमारेण।
(ख) सखि सरमे, सुष्ठु दृष्टोऽभिप्राय आर्यपुत्रस्य वत्सलक्ष्मणेन।
(ग) अथ किम्।
(घ) वयस्य, एवमेतत्। प्रेक्षस्व तावत्प्रेक्षणीयम्।
**सीता—**अम्हेहिं दुप्पेक्खणिज्जो वच्छो रोसावेसेण। (क)
**सरमा—**अह इं। (ख)
**रावणः—**अहो दुराटोपो लक्ष्मणहतकस्य।
**महोदरः—**अहो भीसणो एसो। (ग)
**विकृतरामः—**वत्स, अयुद्ध्यति तस्मिन्नसन्नद्धे च किमायुधग्रहणेन।
**प्रकृतलक्ष्मणः—**आसीदिदमनुशासनमार्यस्य।
**प्रकृतरामः—**वत्स, अथ किम्।
**रावणः—**दयापरवशोऽयमस्मासु स्त्रीशूरः।
**महोदरः—**साहु वअस्स, साहु। (घ)
सीता—(सनिर्वेदम् ।) सहि सरमे, एव्वं एव्व चिराइदं इमस्स वहे अज्जउत्तेण। (ङ)
**विकृतलक्ष्मणः—**आर्य, यद्येवमयुध्यति तस्मिन्नायुधं न ग्राह्यम्, तर्हिजितमयुद्धेनैव दशाननेन स्यात्।
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेतत्।
**सीता—**जुत्तं उत्तं वच्छेण। (च)
**सरमा—**अह ई। (छ)
**रावणः—**अहो, वतेदमन्यादृशं पौरुषमस्य मानुपपोतस्य। यस्य किलमते लङ्केश्वरोऽपि युद्धभीरुरेव समर्थितः।
————————————————————————————————————
(क) अस्माभिर्दुःप्रेक्षणीयो वत्सो रोषावेशेन।
(ख) अथ किम्।
(ग) अहो भीषण एषः।
(घ) साधु वयस्य, साधु।
(ङ) सखि सरमे, एवमेव चिरायितमस्य वधे आर्यपुत्रेण।
(च) युक्तमुक्तं वत्सेन।.
(छ) अथ किम्।
**महोदरः—**वअस्स, कहं माणूसपोतओ तेल्लोक्कवीरं ’ तत्तभवन्तंजाणाइ। (क)
**रावणः—**एवमेतत्।
प्रकृतलक्ष्मणः—(सोपहासम् ।) अतिस्फुटमेव त्रैलोक्यवीरत्वमस्यजनस्थानचोरस्य।
**प्रकृतरामः—**भवत्वेवम्।
**विकृतरामः—**तर्हि स्वस्वयूथपरिवृतैर्यूथपैरेव कदर्थीकर्तव्या सर्वतो लङ्का।
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेतत्।
सीता—(सहर्षम् ।) तुवरेदु तुवरेदु वच्छलक्खणो। (ख)
**सरमा—**णिव्वत्तिदं क्खु एदं दंसिज्जइ। (ग)
सीता—(सलज्जम् ।) सहि, पुणो पुणोवि मं आउलीकरेदि सहीए एसा णिउणदा। (घ)
**महोदरः—**भो वअस्त, कहं जाणईहिअअवक्कठिणदन्तणहेहिं वाणरसिह्मेहिं पूरिज्जइ सव्वदो वि लङ्काउरुद्देसो। (ङ)
**रावणः—**वयस्य, न भेतव्यम्।
नागाधिपतिभोगाभा ननु सन्ति भुजा मम।
ये निरुन्धन्ति लङ्काया द्वाराणि विपदामपि॥ १६ ॥
प्रकृतलक्ष्मणः—(विहस्य ।) दृष्टा एव ते नन्वार्यस्य चिरादेकबाणलक्ष्येण वालिना वानरेन्द्रेण बाहवः।
————————————————————————————————————
(क) वयस्य, कथं मानुषपोतकस्त्रैलोक्यवीरं तत्रभवन्तं जानाति।
(ख) त्वरयतु त्वरयतु वत्सलक्ष्मणः।
(ग) निर्वर्तितं खल्वेतद्दर्शयिष्यति।
(घ) सखि, पुनः पुनरपि मामाकुलीकरोति संख्या एषा निपुणता।
(ङ) भो वयस्य, कथं जानकीहृदयवत्कठिनदन्तनखैर्वानरसिंहैः पूर्यते सर्वतोऽपि लङ्कापुरोदेशः।
**प्रकृतरामः—**वत्स, मा मैवम्। अस्य हि
त्रैलोक्यविजयौद्धत्यनित्यदुर्ललितस्य सः।
घुणक्षतलिपिप्रख्यः कादाचित्कः पराभवः॥ १७ ॥
प्रकृतलक्ष्मणः - आर्य, रणरणकग्रस्ततया सत्यमेवेदमवगच्छति त्रिजटया दशर्यमानमखिलमपि दशाननो महोदरश्च।
**प्रकृतरामः—**वत्स, एवमेव खल्विदमावयोरपि कदाचित्प्रतिभाति।
**विकृतलक्ष्मणः—**ततश्च किम् \।
**विकृतरामः—**ततश्च वत्स,
यामद्यापि स्पृशति चकितो वायुरर्कश्च लङ्कां
तामेवायं कपिशतकदर्थीकृतां मृष्यते किम् \।
तन्मानैकव्यसनविवशो निर्गमिष्यत्यवश्यं
मर्त्यारव्धस्वजननिधनाकर्णनोदीर्णरोषः॥ १८ ॥
ततश्च ।
तुलितचलितत्रुट्यत्कैलासमूलमहाशिला-
कषणगुणितज्याघाताङ्कां वहन्भुजविंशतिम्।
चिरधृतरणक्रीडाकण्डूभरानुगुणं जग-
त्रयजयमदाविष्टश्चेष्टिष्यते दशकन्धरः॥ १९ ॥
**प्रकृतरामलक्ष्मणौ—**अन्यूनोऽयमनतिरिक्तश्च कथाभागः।
**सीता—**हदासे वि रक्खसावसदे केत्तिओ एदस्त बहुमाणो। (क)
**सरमा—**सहि, ईरिसं ते भतुणो सोअण्णम्। (ख)
**महोदरः—**सुदं वअस्सेण से सोअण्णम्। (ग)
रावणः—(सशिरःकम्पम् ।) किमुच्यते सौजन्यमिति। किंबहुना।
————————————————————————————————————
(क) हताशेऽपि राक्षसापशदे कियानेतस्य बहुमानः।
(ख) सखि, ईदृशं ते भर्तुः सौजन्यम्।
(ग) श्रुतं वयस्येनास्य सौजन्यम्।
अनेन सौजन्येनायमर्थी यद्युपतिष्ठते।
सीतां विनान्यदखिलं दत्तमेव मया भवेत्॥ २० ॥
**प्रकृतलक्ष्मणः—**आर्य, प्रलपति वराको यत्किंचित्।
**प्रकृतरामः—**वत्स, तादृशस्तस्य नित्योद्धतः कोऽपि स्वभावभेदः।तद्दृश्यतां द्रष्टव्यम्।
विकृतलक्ष्मणः—(विहस्य ।) चोरेऽपि कथमार्यस्य महती संभावना।नीचेऽपि तस्मिन्नैकृतिके द्वन्द्वयुद्धाशंसा च। यतः।
युध्यन्वायमयुध्यन्वा सायुधोऽथ निरायुधः।
तिष्ठन्पलायमानो वा दण्ड्यश्चोरो हि सर्वथा॥ २१ ॥
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेतत्।
**सीता—**उववणं मन्तिदं वच्छेण। (क)
**रावणः—**वयस्य महोदर,
त्रैलोक्यसारहर्तारं को न जानाति रावणम्।
स्वस्त्रीसंरक्षणाशक्तश्चोरं मामेष मन्यते॥ २२ ॥
**प्रकृतलक्ष्मणौः—**आर्य, श्रुतं प्रलपितमस्य जाल्मस्य।
**प्रकृतरामः—**नन्विदमुपपद्यते लङ्केश्वरस्य।
**विकृतलक्ष्मणः—**भवतु यदभिलपितमार्यस्य। भो भो हरियूथपाः, स्वस्वयूथपरिवृतैरितस्ततः कदर्थंकर्तव्या सर्वतोऽपि लङ्का युष्माभिः।
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेतत्।
**सीता—**सहि, कोवावेसदुप्पेक्खणिज्जस्स वि वच्छलक्खणस्स एसो आदेसो मं सुहावेदि। (ख)
**सरमा—**को एत्थ संदेहो। (ग)
————————————————————————————————————
(क) उपपन्नं मन्त्रितं वत्सेन।
(ख) सखि, कोपावेशदुष्प्रेक्षणीयस्यापि वत्सलक्ष्मणस्यैष आदेशो मां सुखापयति।
(ग) कोऽत्र संदेहः।
महोदरः—(समयम् ।) कहं दाणिम्। (क)
रावणः—
मूर्ख, वृत्तमेव खल्विदमनुदृश्यते।
(नेपथ्ये कलकलः ।)
(सर्व आकर्णयन्ति ।)
**विकृतलक्ष्मणः—**कथमादिष्टमात्रा एव हरियूथपाः प्रवृत्ता एव सर्वतः प्राकारभङ्गेषु।
रावणः—कः कः—(इत्यर्धोक्तेलज्ज्याविरमति ।)
**महोदरः—**साहु, झत्ति पडिवुद्धो सि। (ख)
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेवैतत्।
**सीता—**दिट्ठिआदिट्ठिआ। (ग)
**सरमा—**सहि, ठाणे खु एत्तिअस्स कालस्स तुह मुहअन्दे वि दिट्ठोईरिसो पसादो। (घ)
**रावणः—**वयस्य, किंबहुना।
लङ्कानिरोधकथयायमियान्प्रसादो
यद्येतदाननविधौ चिरकाङ्क्षितो मे।
तन्माययापि निधनं मम दर्शयित्वा
द्रष्टव्य एव हि समग्रमुखप्रसादः॥ २३ ॥
प्रकृतलक्ष्मणः
—
अयि मुमूर्षो, किमनेन मायासंपादितेन स्ववधदर्शनेन।
साक्षादेवार्यवाणैस्त्वं सद्यो मृत्युवशं गतः।
पश्यस्यार्यामुखाम्भोजे प्रसादस्य समग्रताम्॥ २४ ॥
—————————————————————————————————————————————
(क) कथमिदानीम्।
(ख) साधु, झटिति प्रतिबुद्धोऽसि।
(ग) दिष्ट्या दिष्टया।
(घ) सखि, स्थाने खल्वेतावतः कालस्य तव मुखचन्द्रेऽपि दृष्ट ईदृशःप्रसादः।
(पुनर्नेपथ्ये ।)
कैलासाचलकेलिचालनकलानिर्व्यूढदोर्विक्रमः
सर्वोर्वीविजयप्रकाशितमहाशस्त्रास्त्रसारोदयः।
पातालामरलोकसारहरणप्रख्याततेजोमयो
रक्षोलोकमहेश्वरो विजयते लोकेषु लङ्केश्वरः॥ २५ ॥
**प्रकृतरामः—**वत्स, दृष्ट एव हि लङ्केश्वरस्य वन्दिस्तुतावपि पराकमवस्तुनो याथार्थ्यम्।
**प्रकृतलक्ष्मणः—**आर्य, अथ किम्। किं तु वञ्चनाप्रायतया नेदंहृदयंगमं वीरलोकस्य।
**सीता—**सहि सरमे, केत्तिओ चोरस्स बीरवादो। (क)
**सरमा—**आम्। जाणइ, आम्। (ख)
**महोदरः—**भो वअस्स, सुदोवि तुह पहावो रोमञ्चं उप्पादेइ। (ग)
रावणः—(निश्वस्य ।) वयस्य, अशकलीकृतशत्रुशरीरस्य कः प्रभावः।
सहेत नैव स्वप्नेऽपि शत्रुनाम जगत्सु यः।
तस्य मे पश्यतो लङ्का शाखामृगगणैर्वृता॥ २६ ॥
तदिदानीं यौगपद्यविहितेन रामलक्ष्मणसुग्रीवविभीषणसमापनेन सद्य एव निरवशेषयामि समरकर्म। (इति परावर्तते ।)
**प्रकृतलक्ष्मणः—**आर्य, कथमयमुत्तिष्ठते पुनरपि कुपितः सङ्ग्रामाय। अपि नामायमितो बहिः पुनरपि सकृदागच्छेत्।
**प्रकृतरामः—**वत्स, नन्वस्य निर्गममेव हि प्रतिपालयावहे।
**महोदरः—**वअस्स, दटुब्वं दाव दट्ठूण पच्छा जहसमीहिदंकरिस्ससि। (घ)
————————————————————————————————————
(क) सखि सरमे, कियांश्चोरस्य वरिवादः।
(ख) आम्। जानकि, आम्।
(ग) भो वयस्य, श्रुतोऽपि तव प्रभावो रोमाञ्चमुत्पादयति।
(घ) वयस्य, द्रष्टव्यं तावद्दृष्ट्वा पश्चाद्यथासमीहितं करिष्यसि।
**रावणः—**अननुलङ्घनीयवचनो हि सर्वथा मे वयस्यमहोदरः।(इति निवर्तते ।)
(पुनर्नेपथ्ये ।)
किंच।
स्वर्गस्त्रैणापहारी हरिदधिपकुलस्त्रीसहस्रापहर्ता
हर्ता मर्त्याङ्गनानामहिपतिदनुजाधीशनारीविहारी।
रक्षःस्त्रीलक्षचित्तप्रमथनमदनोभिन्नधर्मार्थसेतुः
कामव्यामोहदाहज्वरचिरपथिकग्रामणीरेष भाति॥ २७॥
**महोदरः—**भो वअस्स, खुदो क्खु दे जसोसव्वंकसो पहावो। (क)
**रावणः—**सत्यमनेन वैतालिकवचनेन पुनरपि नवीकृताः स्मः।
**प्रकृतलक्ष्मणः—**अहो निर्लज्जता राक्षसापशदस्य।
पशुप्रायविचेष्टोऽयं पौलस्त्यकुलपांसनः।
स्वयंकृतेन पापेन स्तूयमानेन मोदते॥ २८ ॥
**प्रकृतरामः—**वत्स, मा मैवम्।
हृतत्रैलोक्यसारस्य जिताखिलदिशापतेः।
शोभते राक्षसेन्द्रस्य स्वैरचारो विशृङ्खलः॥ २९ ॥
**सीता—**हद्धी हद्धी। पावस्स एदस्स पावाआरस्स रक्खसो पुणोपुणो वि सुदिपावतमाई एदाई अक्खराई। (इति कर्णौ पिदधाति ।) (ख)
सरमा—आम् जाणइ, किं कादव्व्अम्। दट्ठव्वोक्खु एदपाआदंसिदोसमग्गो संगामजओ। (ग)
**महोदरः—**भो वअस्स, तुह विअओ दंसिज्जइ। ता पेक्खअप्पमत्तो। (घ)
————————————————————————————————————
(क) भो वयस्य, श्रुतः खलु ते यशःसर्वकषः प्रभावः।
(ख) हा धिक् हा धिक्। पापस्यैतस्य पापाचारस्य रक्षसः पुनः पुनरपि श्रुतिपापतमान्येतान्यक्षराणि।
(ग) आम् जानकि, किं कर्तव्यम्। द्रष्टव्यः खल्वेतस्य मायादर्शितः समग्रःसंग्रामजयः।
(घ) भो वयस्य, तव विजयो दर्शयिष्यते। तत्प्रेक्षस्वाप्रमत्तः।
**रावणः—**वयस्स, नन्वस्मद्विजयमहोत्सवं दर्शयति सीतायै त्रिजटेत्यतिकुतूहलस्थानमेतदस्माकम्।
(नेपथ्ये ।)
भो भोः सन्निहिता हरियूथपाः, सपदि विज्ञापयन्तु महाराजरामदेवस्य संनिधाने कुमारलक्ष्मणस्य पुरतश्च।
सीता—(सकौतुकम् ।) कीरिसं तं अच्चाहिदं भवे। (क)
**सरमा—**णं अग्गदो एव सव्वंसोदव्वम्। (ख)
(पुनर्नेपथ्ये ।)
यदेष रावणः
आगच्छन्नेव बाणव्यतिकरविदलद्वानरानीकमुक्ता-
क्रन्दान्तर्धायिचापध्वनिजनितबहूकारघोराट्टहासः।
भग्नैः सुग्रीवतारासुतनलहनुमज्जाम्बवन्नीलमुख्यै-
र्विख्यातैर्यूथपालैरविहतगतिना त्वां रथेनाभ्युपैति॥ ३० ॥
**प्रकृतरामलक्ष्मणौ—**यथानिर्वृत्तमेवैतत्।
**सीता—**सहि सरमे, सुदं से मुहाविजम्भिअं चोरस्स। (ग)
**सरमा—**एव्वं एदंदक्ख दट्ठव्वम्। (घ)
**महोदरः—**भो वअस्स, सुदं क्खु ते तेल्लोक्कदुण्णिरोहस्स रहवेअस्स माहप्पम्। (ङ)
**रावणः—**वयस्य, किमेतेन । नन्विदानीमेव
उदयास्ताचलमध्ये परितो भानुं रथस्य मम।
स्मरसि परिक्रमणानां कृतानि शश्वत्सहस्राणि॥ ३१ ॥
————————————————————————————————————
(क) कीदृशं तदत्याहितं भवेत्।
(ख) नन्वग्रत एव सर्वं श्रोतव्यम्।
(ग) सखि सरमे, श्रुतमस्य मुधाविजृम्भितं चोरस्य।
(घ) एवमेतत्पश्य द्रष्टव्यम्।
(ङ) भो वयस्य, श्रुतं खलु ते त्रैलोक्यदुर्निरोधस्य रथवेगस्य माहात्म्यम्।
**प्रकृतलक्ष्मणः—**धिगतिविकत्थनो राक्षसापशदः।
**प्रकृतरामः—**भवतु। दृश्यतां द्रष्टव्यम्।
**विकृतलक्ष्मणः—**इदं तावदिदानीमार्यमभ्यर्थये।
विकृतरामः—कीदृशं तदभ्यर्थनीयं वत्सस्य।
विकृतलक्ष्मणः—
प्रतिज्ञातः शश्वद्यदपि भवता रावणवधः
प्रतिज्ञानिर्वाहव्रतमपि च जानामि भवतः।
तदप्यस्मिन्दृष्टे चिरसमरवाञ्छापरवशौ
करौ चापे तूणावपि सरभसौ मे विचरतः॥ ३२ ॥
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेवैतत्।
**सीता—**कहं वच्छलक्खणो णेण हदासेण सह पुढमं समरधुरंधरोसंवृत्तो। (क)
**सरमा—**णं एसो वि दसरहस्स तणओ रामस्स अणुओ अ। (ख)
**सीता—**सहि, मा खु मा खु एद्यंभण। किं दु ईरिसेसु समरकज्जेसु वच्छलक्खणग्गजोत्ति अज्जउत्तो भणिदधो। (ग)
प्रकृतरामः—(स्वगतम् ।) अहो प्रियायाश्चिरादुपालम्भः।
प्रकृतलक्ष्मणः—(स्वगतम् ।) मम हि
सुतो दशरथस्येति सुमित्रापुत्र इत्यपि।
न तथा नामनी रूढे यथा रामानुजाभिधा॥ ३३ ॥
(प्रकाशम् ।) आर्य, दृश्यतां द्रष्टव्यम्।
**प्रकृतरामः—**अथ किम्।
**विकृतरामः—**वत्स, एवमस्तु। दृश्यतां सारो रावणस्य।
—————————————————————————————————————————
(क) कथं वत्सलक्ष्मणोऽनेन हताशेन सह प्रथमं समरधुरंधरः संवृत्तः।
(ख) नन्वेषोऽपि दशरथस्य तनयो रामस्यानुजश्च।
(ग) सखि, मा खलु मा खल्वेवं भण। किं त्वीदृशेषु समरकार्येषु वत्स लक्ष्मणाग्रज इत्यार्यपुत्रो भणितव्यः।
**विकृतलक्ष्मणः—**यदादिष्टमार्येण। (इति परिक्रामति ।)
**विकृतरामः—**तदहमपि स्वामिदर्शनावष्टम्भसंभावितात्मभिर्यातुधानप्रधानैरभिनियुज्यमानामुत्तम्भयामि हरिवाहिनीम्।
(उभौ निष्कान्तौ ।)
**सरमा—**सहि जाणइ, सुप्पणहाअमणस्स वेलां परिहरिअ सेसं दक्खिस्ससि। (क)
(इति निष्कान्ते ।)
**महोदरः—**भो वअस्स, अह्मे वि गूढत्थिदा एद्यदक्खामो जं एत्थ सेसं। (ख)
रावणः—(स्वगतम् । ननु कुम्भकर्णमेघनादयोराहित एव वत्सयोरशेषः संग्रामभरः। (प्रकाशम् ।) वयस्य, निशम्यतामयं दशाननस्य मतसिद्धान्तः संग्रहेण।
मायया स्वशिरच्छेदमपि रामेण कल्पितम्।
दर्शयित्वापि सीताया दृश्या वक्रप्रसन्नता॥ ३४ ॥
**प्रकृतलक्ष्मणः—**रे रे राक्षसापशद, किमनेन मायान्तर्गडुना।
आगच्छ बहिरार्योऽयं हन्त च्छेत्ता शिरांसि ते।
परलोकगतः पश्येः प्रसादं जानकीमुखे
॥
३५
॥
**रावणः—**सखे महोदर, इदं च श्रूयताम्।
यद्वत्सकुम्भकर्णो वहति धुरं बोधितो रणस्यैकम्।
अन्यां च मेघनादो विहितब्रह्मास्त्रसाधनो वत्सः॥ ३६ ॥
वयस्य, तदपि मे प्रस्तुतोपकाराय।
**महोदरः—**एव्वं एदम्। ता एहि। गदुअ पेक्खणिज्जं पेक्खम्ह। (ग)
**रावणः—**तेन हि समयेषु समरवृत्तान्तः परिज्ञास्यते चारमुखेन। तदत्र दृश्यतां द्रष्टव्यम्।
—————————————————————————————————————————
(क) सखि जानकि, शूर्पणखागमनस्य वेलां परिहृत्येशेषं द्रक्ष्यसि।
(ख) भो वयस्य, आवामपि गूढस्थितांवेव द्रक्ष्यावो यदत्र शेषम्।
(ग) एवमेतत्। तदेहि। गत्वा प्रेक्षणीयं प्रेक्षावहे।
**प्रकृतलक्ष्मणः—**समरवृत्तान्तज्ञापनाय किमस्य चारेण।
पुरः शरोत्कृत्तनिपातिताभ्यां द्राक्कुम्भकर्णेन्द्रजितोः शिरोभ्याम्।
अन्तःपुरस्वैरविहारभाजे निवेदयावो रणकर्म राज्ञे॥ ३७ ॥
रावणः—(विचिन्त्य ।) वयस्य, किंबहुना तदहमाश्वास्य वैदेहीमवतीर्य समरभुवं रामलक्ष्मणहतकाभियुक्तयोर्वत्सकुम्भकर्णमेघनादयोरायोघनमवलोकयन्नद्यैव समापयामि सुग्रीवभङ्गतः सङ्ग्रामकथाम्।
ततश्च स्वयमेवेयं सद्यो नष्टावलम्बना।
मैथिली हन्त सेवेत मामेव त्रिजगत्पतिम्॥ ३८ ॥
महोदरः—(स्वगतम् ।) अहो दुम्मणोरहो एदस्स। (प्रकाशम् ।) एद्यंएदम्। (क)
(निष्कान्ताः सर्वे ।)
इति सप्तमोऽङ्कः ।
—————————
अष्टमोऽङ्कः ।
(प्रविश्य ।)
**लक्ष्मणः—**आर्य, तदिदानीं
पुरःशरोत्कृत्तनिपातिताभ्यां द्राक्कुम्भकर्णेन्द्रजितोः शिरोभ्याम्।
अन्तःपुरस्वैरविहारभाजे निवेदयावो रणकर्म राज्ञे॥ १ ॥
(प्रविश्य ।)
**रामः—**वत्स, एवमिदम्। तदद्भुतदर्पणेनैव मणिना पश्य किमाचारो दशानन इति। नन्वयं सर्वप्रकारपरिज्ञातव्यचरितः प्रधानशत्रुरस्माकम्।
**लक्ष्मणः—**एवमिदम्।
(प्रविश्य ।)
**महोदरः—**इदो इदो वअस्सलङ्केसरो। (ख)
(प्रविश्य ।)
**रवणः—**संखे महोदर,
—————————————————————————————————————————
(क) अहो दुर्मनोरथ एतस्य। एवमेतत्।
(ख) इत इतो वयस्यलङ्केश्वरः।
त्वदुपायेन सरमात्रिजटारञ्जनेन च।
कियदावर्जिता सीतेत्येतद्द्रष्टव्यमद्य मे॥ २ ॥
महोदरः—(अपवार्य ।)
विज्जुज्जीहसदेणवि तिअडासरमाण णिउददो वावि
सीदाहिअअमकज्जे कुण्ठइ जोह्वेद्यदरिसम्मि॥ ३॥
(प्रकाशम् ।) भो वअस्स, जदिस्सं दाव तुह कज्जसिद्धिए। ता पेक्खदु भवंजं पेक्खणिज्जम्। (क)
**रावणः—**एवमस्तु। (इति परिक्रामति ।)
लक्ष्मणः—आर्य, श्रुतः किल महोदरस्य सुचिरनिष्पादितो बुद्धिनिष्कर्षोऽयमार्यां प्रति।
**रामः—**अथ किम्।
महोदरः—भो वअस्स, एसो दारुपद्यदो। एदं तस्स तिरोधाणम्।
ता पेक्खदु भवं जं पेक्खणिज्जम्। (ख)
**रावणः—**एवमस्तु।
**महोदरः—**ता सिंसवारुक्खन्तरिदा भविअ पेक्खम्ह। (ग)
(तथा कुरुतः।)
**लक्ष्मणः—**आर्य, कथं दारुपर्वततिरोधानमेवायमभिधावत्यनात्मज्ञः।
रावणः—भवतु। दृश्यतां द्रष्टव्यम्।
(ततः प्रविशति त्रिजटासरमाभ्यां सह सीता ।)
**सीता—**सहि तिअडे, जं मए पेक्खणिज्जं तस्स सेसं दंसेहि। (घ)
—————————————————————————————————————————
(क) विद्युज्जिह्वशतेनापि त्रिजटासरमयोर्नियुततो वापि।
सीताहृदयमकार्ये कुण्ठति ज्योत्स्नेव दर्शे॥
भो वयस्य, यतिष्ये तावत्तव कार्यसिद्धयै। तत्प्रेक्षतां भवान्यत्प्रेक्षणीयम्।
(ख) भो वयस्य, एष दारुपर्वतः। इदं तस्य तिरोधानम्। तत्प्रेक्षतां भवान्यत्प्रेक्षणीयम्।
(ग) तच्छिशपावृक्षान्तरितौ भूत्वा प्रेक्षावः।
(घ) सखि त्रिजटे, यन्मया प्रेक्षणीयं तस्य शेषं दर्शय
**त्रिजटा—**सहि जाणइ, साहु साहु । पेक्ख दाव पेक्खिअसेसम्। भत्तणो रावणस्स विअअमह्सवं ते दसेमि। (क)
**रावणः—**सखे महोदर, कथमस्मद्विजयमहोत्सवं दर्शितशेपं दर्शयति त्रिजटा सीतायै।
**महोदरः—**णं तुमं एद्यभट्टा तेल्लोकस्स। ता तुम्हीभूदो पेक्खदाव।(ख)
**रावणः—**विधेयोऽस्मि सांप्रतं वयस्यस्य।
सीता—(सलत्रौत्सुक्यम् ।) विहेअह्मिसंपदं पिअसहीणम्। (ग)
**त्रिजटा—**सहि सरमे, तुमं एत्थ पीठमद्दिआ भविअ तेसु तेसुरसन्तरेसु पज्जवत्थावेहि पिअसहिं जाणइम्। (घ)
**सरमा—**सहि, एद्यंहोदु। ता तुवरेहि। जाव अण्णो जणो एत्थणाअच्छइ। (ङ)
रामः—वत्स, कथं दर्शितशेपमस्मद्विजयवृत्तान्तं दर्शयति त्रिजटासीतायै।
**लक्ष्मणः—**आर्य, अथ किम्। द्रष्टव्यश्च सर्वोऽपि व्यापारो दशाननस्य।
रामः—वत्स, एवमिदम्। तदद्भुतदर्पणेनैव मणिना पश्यावः किमाचारो दशानन इति।
लक्ष्मणः—यदभिमतमार्यस्य।
(तथा कुरुतः ।)
—————————————————————————————————————————
(क) सखि जानकि, साधु साधु। प्रेक्षस्व तावत्प्रेक्षितशेपम्। भर्तूरावणस्य विजयमहोत्सवं ते दर्शयामि।
(ख) ननु त्वमेव भर्ता त्रैलोक्यस्य। तत्तूष्णींभूतः प्रेक्षस्वतावत्।
(ग) विधेयास्मि सांप्रतं प्रियसख्योः।
(घ) सखि सरमे, त्वमत्र पीठमर्दिका भूत्वा तेषु तेषु रसान्तरेषु पर्यवस्थापय प्रियसखीं जानकीम्।
(ङ) सखि, एवं भवतु। तत्त्वरय। यावदन्यो जनोऽत्र नागच्छति।
त्रिजटा—सहि जाणइ, इदो वरि सेसं दंसेमि। अवहिदा होहि। (इति निष्कान्ता ।) (क)
(नेपथ्ये 1)
भो भोः सन्निहिता हरियूथपाः, सपदि विज्ञापयन्तु महाराजरामदेवसन्निधाने कुमारलक्ष्मणस्य पुरतश्च। यदेव रावणः (‘आगच्छन्नेव**–**’(७।३०) इत्यादि पूर्वोक्तं पठति -।)
(प्रविश्य)
विकृतरामः—वत्स, दिष्टया दिष्टया।
(प्रविश्य)
विकृतलक्ष्मणः—
आर्येणैव बहोः कालादाहितोऽयं मनोरथः।
सारः स्वसंविभागस्य स्वयमेव विलोक्यताम्॥ ४ ॥
विकृतरामः—यथोक्तं वत्सेन। (धनुः पश्यति ।)
**विकृतलक्ष्मणः—**यावदहमस्य पार्ष्णिग्राहिणीमुच्चाटयामि यातुधानवाहिनीम्।
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेवैतत्।
विकृतरामः—(ज्याशब्दं कुर्वन् ।) भो भोः पौलस्त्य पौलस्त्य,
महाशत्रोर्महाशत्रुः काङ्क्षितस्यापि काङ्क्षितः।
दिष्ट्यादृष्टस्य दृष्टोऽसि तिष्ठ तिष्ठाम्यहं पुरः॥ ५ ॥
प्रकृतरामलक्ष्मणौ—यथावृत्तमेतत्।
सीता—(सवाष्पम्।) सहि, अज्जउत्तस्स विअअण्णस्स कस्स महादोईरिसस्स अभिआदवअणस्स संभावणा। (ख)
—————————————————————————————————————————
(क) सखि जानकि, इत उपरि शेषं दर्शयामि। अवहिता भव।
(ख) सखि, आर्यपुत्रस्येवान्यस्य कस्य मुखादीदृशस्याभिजातवचनस्यसंभावना।
**सरमा—**सहि, एद्यंएदम्। (क)
**महोदरः—**अहो, सोअण्णं राअउत्तस्स। (ख)
रावणः—सखे, किमुच्यते सौजन्यमिति। किं बहुना।
अनेन सौजन्येनायमर्थीयद्युपतिष्ठते।
सीतां विनान्यदखिलं दत्तमेव मया भवेत्॥ ६ ॥
**प्रकृतरामः—**भो भोः पौलस्त्य पौलस्त्य,
अत्यन्तसुजनो नाहमन्यद्देयं किमर्थये।
देयं यद्दूद्वयुद्धं मे ददासि स्वयमेव यत्॥ ७ ॥
(प्रविश्य)
विकृतरावणः—(विकटं विहस्य सर्वतोऽवलोक्य ।) हन्त, दाशरथिमन्वेषयतो मम दर्शनमात्रेणैव सर्वतो विभज्यन्ते सनायकाः कपिवाहिनीसैनिकाः। ही ही।
आ तस्मान्मम सप्तलोकविजयादद्यापि युद्धक्रिया
शाम्यत्येव यदेवमायुधसकृत्संधानमात्रादपि।
तत्कुत्राप्युचितप्रयोगविषयाभावेन नानुष्ठिता
सा मायागमसंप्रदायपदवी मय्येव धिग्जीर्यति॥ ८ ॥
**प्रकृतलक्ष्मणः—**अहो, दुरहंकारो जाल्मस्य।
प्रकृतरामः—वत्स, कास्य क्षतिरेतावतः कालादभग्नपूर्वस्य महतो दशाननाहंकारस्य।
(प्रकृतलक्ष्मणो हुंकरोति ।)
(विकृतरामः ‘महाशत्रोः’ (८/५) इत्यादि पूर्वोक्तं पठति ।)
विकृतरावणः—
यद्येवमभियोक्ता त्वमनरण्य इवासि माम्।
तद्विमर्दक्षमां भूमिं समेष्यावो यदीच्छसि॥ ९ ॥
—————————————————————————————————————————
(क) सखि, एवमेतत्।
(ख) अहो सौजन्यं राजपुत्रस्य।
किं च।
न माया नो कूटं न पुनरभिचारक्रमविधि-
र्न मन्त्रो नो तन्त्रंजगदविदितो नास्त्रनिचयः।
त्वदभ्यस्तैरस्त्रैस्त्वदभिलषितैर्हेतिभिरपि
प्रयच्छाम्याजिं ते यदि तव दिक्षास्ति हृदये॥ १० ॥
विकृतरामः—(सम्मितम् ।) यथा रोचते महावीराय।
(इति निष्क्रान्तौ ।)
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेवैतत्।
सीता—(सभयम् ।) कहं दाणिम्। (क)
सरमा—माआ क्खु एवं दंसिज्जइ। किं एत्थ विआरेण। (ख)
प्रकृतरावणः—सखे महोदर, मायादर्शितोऽपि मामुद्रांमयत्ययमद्भुतः कथोद्धातः।
विकृतलक्ष्मणः—आर्य, भो भोः, श्रूयतां मे विज्ञापनं महोदारतयामहासत्त्वतया च मनागार्यस्य संभाव्यते चिररणावमर्दपरिश्रान्त इति रावणेऽपि कदाचिद्दाक्षिण्यमक्षुण्ण-वीरगोष्ठीविनोदकुतूहलं च। तत इदंविज्ञापयामि।
तैस्तैर्वध्यः स्पष्टदृष्टापराधैर्दिष्टया दृष्टयोर्गोचरे चावतीर्णः।
धिग्धिग्जीवन्मुच्यते चेदिदानीं दृश्येतायं कुत्र भूयोऽपि चोरः॥ ११ ॥
**प्रकृतरामः—**अस्तीदमनुदर्शनं वत्सस्य।
**प्रकृतलक्ष्मणः—**अथ किम्।
**विकृतलक्ष्मणः—**तथा च।
स्वसंविभागलङ्केन्द्रवधमार्यो यथाचरेत्।
तथाद्यैवाधिसङ्ग्राममार्यमुद्योजयाम्यहम्॥ १२ ॥
—————————————————————————————————————————
(क) कथमिदानीम्।
(ख) माया खल्वेवं दर्श्यते। किमत्र विचारेण।
(नेपथ्ये ।)
ततः परमग्निसंक्रान्तिरादिष्टा।
**रामः—**किं नाम।
**जाम्बवान्—**देव, पूर्वेद्युः किल मेघनादेन सकुटुम्बकमेव विभीषणगृहमग्निसात्क्रियता-मित्यादिष्टमितिब्रुवन्नमात्यसंपातिरिव श्रूयते।
**रामः—**कष्टम्। अत्याहितं प्रियसुहृदः।
(ततः प्रविशतः विभीषणामात्यौ ।)
**प्रथमः—**सखे संपाते, ततस्ततः।
**संपातिः—**सखे अनल, ततश्च दुरात्मनो मेघनादस्य व्यवसितं त्रिजटामुखादाकर्ण्य सद्य एव देवस्य कुटुम्बकमादाय गूढेन पथा मैनाके निवेश्य निवृत्तवानस्मि।
**अनलः—**साधु संपाते, साधु।
**संपातिः—**क्कपुनरिदानीं प्रस्थितोऽसि।
**अनलः—**देव, विभीषणादेशाद्वामदेवान्तिकम्।
**संपातिः—**तदेहि तावत्। उपसर्पावः।
(उपसृत्य प्रणमतः।)
**जाम्बवान्—**भद्र संपाते, दिष्टया वर्धसे सफलेन स्वामिकार्याभिनिवेशेन।
**रामः—**भद्र, किमन्यत्प्रष्टव्यम्। अवैकल्यमेव हि वयस्यविभीषणस्य।
**उभौ—**देवप्रसादात्।
**रामः—**दिष्टया दिष्टया।
(सर्वे हर्षे नाटयन्ति ।)
लक्ष्मणः—(स्वगतम् ।) उपहसामि तावदेतान्। (उपलक्ष्य ।) आर्य, अभिवादये।
रामः—वत्स, इत आस्यताम्।
लक्ष्मणः—(उपविश्य ।) कोऽयमिदानीमस्थाने हर्षोद्रेकः। महता खलुनिमित्तेन भवितव्यम्।
जाम्बवान्—कुमार, वाढम्।
**सीता—**साहु वच्छ, साहु। (क)
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेतत्।
विकृतलक्ष्मणः—(दृष्ट्वा त्वरितं परिक्रामन् । सोपहासं सहर्ष च ।) नन्वयंमार्यो दशाननस्य।
त्रिभित्रिवेणुं चतुरश्चतुर्भि-
र्वाहानथैकेन च सूतमेकम्।
द्वाभ्यां च तूणीधनुषी दशापि
च्छिनत्ति वाणैर्दशभिः
(सप्रमोदम् ।)
शिरांसि॥१३ ॥
सीता—(सहर्ष सरमामालिङ्गय ।) सहि, दिट्ठिआ दिट्ठिआ। (ख)
प्रकृतरावणः—सखे, मुधायमानन्दो मुग्धायाः।
**महोदरः—**अह इं। (ग)
विकृतलक्ष्मणः—नहि नहि। किरीटान्। किंच। अहो महोदारतेयमार्यस्य।
विशिखेनैनमेकेन विद्धं हृदयमर्मणि।
आलम्बते धनुष्कोट्या पतन्तं रावणं रथात्॥ १४ ॥
भवतु। (‘स्वसंविभाग**—**’ (८1१२ ) इत्यादि पठित्वा निष्क्रान्तः ।)
(ततः प्रविशति रथात्पतन्तं विकृतरावणं धनुष्कोट्यावलम्बमानो विकृतरामः ।)
विकृतरामः—(सबहुमानम् ।)
त्रैलोक्यैश्वर्यभोक्तायं त्रैलोक्यैकमहाभटः।
अज्ञातमुखभङ्गोऽयं त्रैलोक्यस्यैककण्टकः॥ १५ ॥
प्रकृतरामलक्ष्मणौ—यथावृत्तमेतत्।
—————————————————————————————————————————
(क) साधु वत्स, साधु।
(ख) सखि, दिष्टया दिष्टया।
(ग) अथ किम्।
**महोदरः—**अहो गुणपक्खवाओ राअउत्तस्स। (क)
**प्रकृतरावणः—**वयस्य, किमेतेन सुजनडम्भव्यापारेण।
**सीता—**सहि सरमे, दिट्ठंअज्जउत्तस्स सोअण्णम्। (ख)
**सरमा—**अह इं। (ग)
विकृतरावणः—(आश्वस्य ।) अरेरे राम, तिष्ठ तिष्ठ।
**विकृतरामः—**नन्वहमग्रत एव ते तिष्ठामि।
विकृतरावणः—(दृष्ट्वा स्वगतम् ।) कथमयं मे न सारथिः किंतु सारथिं विनिहत्य राम एव स्वयं मामवलम्बते। अहो महासत्त्वता राजपुत्रस्य।तर्हि स्वयमेव रथमपि समराय संचोदयामि। (हयान्संचोदयन्दृष्ट्वा ।) कथंनिहता एव मे सर्वे रथ्याश्च। तर्हि पदातिरेव पदातिमायोधयामि दाशरथिम्। (धनुः परामृशन् ।) कथं न दृश्यते चापोऽपि। कः कोऽत्र भोः।
धनुर्धनुः। (दृष्ट्वा ।) कथं निहत एव जनोऽयमनुयात्रिकः सर्वोऽपि।
**विकृतरामः—**भो भो दशानन,
गृहाण यदि न श्रान्तिः करभ्रष्टमिदं धनुः
भूयोऽपि यदि ते जातु भुजसारः प्रकाश्यताम्॥ १६ ॥
विकृतरावणः—(सोपहासम् ।)
सत्यं मामेष कार्यार्थी समयेप्यनुवर्तते।
रणप्रियो रणेनैव रञ्जनीयोऽस्मि रावणः॥ १७ ॥
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेवैतत्।
**प्रकृतरावणः—**अन्यून एष कथाभागः।
**महोदरः—**अह इं। (घ)
—————————————————————————————————————————
(क) अहो गुणपक्षपातो राजपुत्रस्य।
(ख) सखि सरमे, दृष्टमार्यपुत्रस्य सौजन्यम्।
(ग) अथ किम्।
(घ) अथ किम्
सीता—(सावज्ञम् ।) का एदस्स रणप्पिअदा जणट्ठाणचोरस्स। (क)
**सरमा—**अह इं। (ख)
(प्रकृतरामलक्ष्मणौ सरोपं रावणं पश्यतः ।)
**विकृतरामः—**महावीर, सत्यमेतद्यद्रणेनैव ते रञ्जनीयत्वम्। तहिंगृहाण शस्त्रं यदि मन्यसे।
**विकृतरावणः—**तत्किमन्येन शस्त्रेण दशाननस्य।
हेलोन्मूलितकैलासाः शेषास्तिष्ठन्तु मे भुजाः।
द्विभुजं त्वामहं दोद्वाभ्यामेवाभियोघये॥ १८ ॥
(इति विह्वलं परिक्रामति ।)
**प्रकृतरामलक्ष्मणौ—**यथावृत्त एवायमखिलोऽपि वागारम्भः।
**सीता—**अम्हो कक्कसदा हदासस्स। (ग)
**सरमा—**अह ई। (घ)
**प्रकृतरावणः—**सखे महोदर, किमियं जानाति कार्कश्यं रावणस्य।
गृहीतं न विमुञ्चेयं नाभियुक्तं न हन्म्यहम्।
न प्रसन्नो न रक्षामि ननु तेनास्मि कर्कशः॥ १९ ॥
**महोदरः—**भो वअस्स को एत्थ संदेहो। (ङ)
**विकृतरामः—**भो भोः पौलस्त्य पौलस्त्य,
हरिसेनावमर्देन हन्त श्रान्तश्चिरादसि।
अद्य याहि श्व आयाहि हन्त वीक्षावहे मिथः॥ २० ॥
किं च।
श्रान्तो गूढः क्षपितसचिवोऽनायुधो विद्रुतो वा
चोरो हि त्वं दशमुख ततः सद्य एवासि दण्ड्यः।
—————————————————————————————————————————
(क) कैतस्य रणप्रियता जनस्थानचोरस्य।
(ख) अथ किम्।
(ग) अहो कर्कशता हताशस्य।
(घ) अथ किम्।
(ङ) भो वयस्य, कोऽत्र संदेहः।
द्रागस्माकं त्वशिथिलबलस्फूर्तिरक्षीणशक्ति-
द्रष्टव्यस्त्वं सकृदिति चिरादेष तीव्रोऽभिलाषः॥ २१ ॥
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेवैतत्।
**सीता—**कहं मुक्को एद्यहदासो अज्जउत्तेण। (क)
**सरमा—**दाणिं मुक्को विअ। (ख)
**प्रकृतरावणः—**सखे महोदर, मुधैव हर्षो विषादश्च मुग्धायाः -।
**महोदरः—**अह इं। (ग)
**विकृतरावणः—**भवतु। मम विश्रमापदेशेन स्वयमपि विश्रमावका- `शमभिलषसि। भवतु। को दोषः।
विकृतरामः—
अस्मद्वाणावपातेन हन्त श्रान्तचिरादसि।
अद्य याहि श्व आयाहि हन्त वीक्षावहे मिथः॥ २२ ॥
(निष्कान्तो विकृतरावणः ।)
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेतत्।
सीता—(सावेगम् ।) सहि सरमे, णं भणामि मुक्को एद्यहदासो अज्जउत्तेण त्ति। (घ)
**सरमा—**सहि, णं भणामि दाणि मुक्को विअ त्ति। (ङ)
प्रकृतरावणः—(विहस्य ।) सखे महोदर, ग्रहणमोचनयोः प्रभुं मन्यते वराकी मानुषं राक्षसेन्द्रस्य।
**महोदरः—**अह इं। (च)
—————————————————————————————————————————
(क) कथं मुक्त एव हताश आर्यपुत्रेण।
(ख) इदानीं मुक्त इव।
(ग) अथ किम्।
(घ) सखि सरमे, ननु भणामि मुक्त एव हताश आर्यपुत्रेणेति।
(ङ) सखि, ननु भणामीदानीं मुक्त इवेति।
(च) अथ किम्।
(प्रविश्य)
विकृतलक्ष्मणः
—
(सामर्पम् ।) कथं विसृष्ट एव वराकोऽयमार्येणदशाननः। (सनिर्वेदम् । निश्वस्य ।) एवमेव समयोपनतमुपेक्षमाणाः पश्चादनुतप्यामहे। भवतु। रे रे हताश राक्षसापसद,
अद्य याहीति यद्वाचमाकर्यैव पलायसे।
तेन ते चोरता भीरो जाल्मता च प्रकाशिता॥ २३ ॥
प्रकृतरामलक्ष्मणौ
—
यथावृत्तमेतत्।
सीता
—
(सनिर्वेदम् ।) वच्छ, को संदेहो चोरत्तणे रावणस्स। दण्डोउण तस्स विलम्बिअदि। (क)
सरमा
—
कमेण खु होदद्यम्। (ख)
प्रकृतरावणः
—
(सरोपम् ।) सखे महोदर, रावणस्यापि दण्डप्रणेतारमन्यमाशङ्कते वराकी।
महोदरः
—
अह इं। (ग)
विकृतलक्ष्मणः
—
(सत्वरमनुसरन् ।) के केऽत्र हरियूथपाः।
केशे गृह्णीत वध्नीत गच्छत्येष दशाननः।
प्रतिबन्दीकृतोऽस्माभिः पापः कारासु जीर्यतु॥ २४ ॥
प्रकृतरामलक्ष्मणौ
—
यथावृत्तमेतत्।
सीता
—
(सहर्षम् ।) दिट्ठिआदिट्टिआ। (घ)
सरमा
—
अह इं। (ङ)
प्रकृतरावणः
—
मुधैव हर्षो मुग्धायाः।
**विकृतलक्ष्मणः—**अथवा।
—————————————————————————————————————————
(क) वत्स, कः संदेहश्वोरत्वे रावणस्य। दण्डः पुनस्तस्य विलम्व्यते।
(ख) क्रमेण खलु भवितव्यम्।
(ग) अथ किम्।
(घ) दिष्टया दिष्टया।
(ङ) अथ किम्।
तत्रैनमार्यो निजसंविभागाद्दण्डेन योग्येन चिराद्युनक्तु।
तत्खण्डितद्वित्रिभुजाशिरस्कं ददामि कारागृहपालकेभ्यः॥ २५॥
(त्वरितं परिक्रामन् ।) तद्गृह्यतां गृह्यतामयं चोरो राक्षसापसदः।
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेतत्।
**विकृतलक्ष्मणः—**अथवा स्वयमेवैनमाकुलेषु केशेषु गृह्णामि।
**सरमा—**सहि जाणइ, समस्ससिहि समस्ससिहि। (क)
**सीता—**दिट्टिआ वच्छलक्खणो सअं एद्यकज्जधुरंधरो संवुत्तो। (ख)
**सरमा—**अह इं। (ग)
प्रकृतरावणः—(सरोपम् ।) सखे महोदर, दृष्टः किलायमस्मासु सीताहृदयानुरञ्जनप्रकारः सरमायाः। इयं हि
भर्तृवञ्चनपापेऽस्मिन्प्रवृत्ता वधमर्हति।
तदेनां प्रथमं हन्मि ततो दशरथात्मजौ॥ २६ ॥
(खङ्गमुत्खायाभिद्रवति ।)
महोदरः—(रावणं वलान्निगृह्य ।) भो वअस्स, किं अण्णं उवक्कमसि।पेक्खणिज्जं दाव समग्गं पेक्ख। (घ)
**रावणः—**भवतु। पश्यामि।
विकृतलक्ष्मणः—(अनुद्रुत्य सजुगुप्सम् ।) धिगस्य दुरात्मनो दुराचारस्य पापराशेरङ्गस्पर्शमारुतादपि जुगुप्सते मे हृदयम्, किं पुनरङ्गस्पर्शात्।
**विकृतरामः—**वत्स, एवमिदम्।
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेवैतत्।
—————————————————————————————————————————
(क) सखि जानकि, समाश्वसिहि समाश्वसिहि।
(ख) दिष्टया वत्सलक्ष्मणः स्वयमेव कार्यधुरंधरः संवृत्तः।
(ग) अथ किम्।
(घ) भो वयस्य, किमन्यदुपक्रमसे। प्रेक्षणीयं तावत्समग्रं प्रेक्षस्व।
**सीता—**जुत्तं उत्तं वच्छेण। (क)
**प्रकृतरावणः—**वयस्य, श्रुता वाचाटता लक्ष्मणहतकस्य।
**महोदरः—**अह इं। (ख)
**विकृतलक्ष्मणः—**तदेवमस्तु। (उच्चैः ।) के केऽत्र हरियूथपानाम्।
नन्वेषद्रवतिस्वयं दशमुखः पश्चादनुद्रुत्य तं
गृह्णीत द्रुतमार्यसायकशिखाकृत्तावशिष्टे कचे।
तेनेमं क्षतजावसेचनजटीभूतेन वा दृढं
किष्किन्धाकुहरेषु शम्वरसखं युञ्जीत कारासु च॥ २७ ॥
प्रकृतरामलक्ष्मणौ—
यथावृत्तमेवैतत्।
सीता—(सहर्षम् ।) वच्छ लक्खण, तुवर तुवर। (ग)
**सरमा—**सहि, एद्यंएदंसो हि तुह ऊसाहं उप्पादेइ। (घ)
**प्रकृतरावणः—**सखे महोदर, कियानयं मृषानन्दो मुग्धायाः।भवतु। यथा कथंचन दृष्ट एव चिरादेतस्या मुखप्रसादलेशोऽपि।
**महोदरः—**अह इं। (ङ)
**प्रकृतलक्ष्मणः—**आर्य, किमनेन जाल्मप्रलपितश्रवणेन।
**प्रकृतरामः—**भवतु। दृश्यतां द्रष्टव्यम्।
विकृतलक्ष्मणः—
तत्र च्छेदमथो दाहं शूलारोपणमेव वा।
चोरस्यास्योचितं दण्डमार्य एव विधास्यति॥ २८ ॥
**प्रकृतरामः—**अस्तीदमनुदर्शनं वत्सस्य।
**विकृतरामः—**यदि मामस्य दण्डप्रणयने वत्सः प्रमाणयति।
—————————————————————————————————————————
(क) युक्तमुक्तं वत्सेन।
(ख) अथ किम्।
(ग) वत्स लक्ष्मण, त्वर
(घ) सखि, एवमेतत्स हितवोत्साहमुत्पादय
(ङ) अथ किम्।
**विकृतलक्ष्मणः—**आर्य, किमेतेन रावणमात्रकेण।
उद्वृत्तस्य शतक्रतोरपि भवान्दण्डप्रणेता चिरा-
दर्थेऽस्मिन्मम सायकाः प्रतिभुवः किं तेन तत्तिष्ठतु।
वन्दीपु प्रतिवन्दिकृत्यमुचितं कृत्वा तु विज्ञापये
वन्धे वास्य वधोऽपि वा ननु पुनर्मोक्षेऽपि वा त्वं प्रभुः॥ २९ ॥
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेवैतत्।
**विकृतरामः—**वत्स, एवमिदम्। किंतु किंचिदिव श्रूयतां वत्सेन।
**विकृतलक्ष्मणः—**अवहितोऽस्मि।
**सीता—**सहि सरमे, अण्णं किं वि आअरीअदि अज्जउत्तेण। अणुमदंएद्यतं वच्छलक्खणेण। (क)
**सरमा—**अइ मुद्धे, णं कहिअं एद्यमए दाणिं रावणो मुक्को विअ त्ति। (ख)
**विकृतरामः—**वत्स, एष मे चिरस्य हृदयाभिसंधिः।
**विकृतलक्ष्मणः—**आज्ञापयन्त्वार्यपादाः।
विकृतरामः—
मृद्गन्वानरवाहिनीं प्रतिदिशं विद्रावयन्यूथपा-
न्सुग्रीवे ससुते समन्त्रिणि जयं तात्कालिकं लब्धवान्।
त्वय्यप्याहितसाहसः किमपरं दत्ताद्भुतो मय्यपि
श्रान्तः क्षीणपरिच्छदश्च स कथं युध्येत युद्धोत्सुकैः॥ ३० ॥
तथा च वत्स,
हनिष्यते यथाकाममद्य श्वो वा दशाननः।
तं त्वनन्यरणश्रान्तं जातु चेतो दिदृक्षते॥ ३१ ॥
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेतत्।
**सीता—**सहि सरमे, रणकुदूहली अज्जउत्तो। ण उण सीदावेक्खाकुतूहली। (ग)
—————————————————————————————————————————
(क) सखि सरमे, अन्यत्किमप्याचर्यत आर्यपुत्रेण। अनुमतमेव तद्वत्सलक्ष्मणेन।
(ख) अयि मुग्धे, ननु कथितमेव मयेदानीं रावणो मुक्त इवेति।
(ग) सखि सरमे, रणकुतूहल्यार्यपुत्रः। न पुनः सीतापेक्षाकुतूहली।
**सरमा—**अइ मुद्धे, किंणिमित्तो एसो आरम्भो रामलक्खणाणम्। (क)
प्रकृतरावणः—(सोपहासम् ।) अयि मुग्धे, रावणभुजावरुद्धायां त्वयि किंकर्तव्यं त्वदपेक्षाकुतूहलिनापि सानुजेन रामेण।
**महोदरः—**अह इं। (ख)
विकृतलक्ष्मणः—(विहस्य ।) रणनिहतमपि दशाननमुज्जीवयेदेव तेन सममार्यस्य द्वन्द्वयुद्धाशंसा।
**विकृतरामः—**सम्यसुक्तं वत्सेन। नतु त्सेनैवेदमनुद्दश्य्ताम्।
संशान्ते भृगुनन्दने सुरपतेः सूनौ च याते दिवं
शस्त्राशस्त्रिविमर्दकल्पनकथाशून्ये जगन्मण्डले।
दिष्ट्या नन्वयमेक एव हि चिरादद्येोपलब्धो रिपु-
स्तस्मिन्संप्रति दृष्टमात्रनिहते को वेद नः कौशलम्॥ ३२ ॥
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेतत्। अन्यून एवायमावयोरुक्तिप्रत्युक्तिसंदर्भः।
**सरमा—**सहि, सुदो क्खु ते भत्तुणो सअं रावणवहे समस्साहो। (ग)
**सीता—**अह इं। (घ)
सरमा—
अइरेण सफलो होदु। (ङ)
प्रकृतरावणः—(विकृतं विहस्य ।)
वराकी रामविहितं वधमाशंसतेऽद्य मे।
नाशिताखिललोकं मां न तु जानाति रावणम् ॥ ३३ ॥
**महोदरः—**अह इं। (च)
—————————————————————————————————————————
(क) अयि मुद्दे, किंनिमित्त एष आरम्भो रामलक्ष्मणानाम्।
(ख) अथ किम्।
(ग) सखि, श्रुतः खलु ते भर्तुः स्वयं रावणवधे समुत्साहः।
(घ) अथ किम्।
(ङ) अचिरेण सफलो भवतु।
(च) अथ किम्।
विकृतलक्ष्मणः—(विहस्य ।)
क्रीडितुमिच्छत्यार्यः कियच्चिरं पङ्क्तिकण्ठेन।
गरुड इव सर्पशिशुना गज इव मार्जारपोतेन॥ ३४ ॥
(विकृतरामः स्मितं करोति ।)
**प्रकृतरामलक्ष्मणौ—**यथावृत्तमेवैतत्।
प्रकृतरावणः—
अहो दुरहंकारो मनुष्यपोतस्य।
विकृतलक्ष्मणः—
भवत्वेव यथाकामं पञ्चषक्षणखेलनम्।
पश्चादपि त्वां पश्येयं प्रतिज्ञानवकीर्णिनम्॥ ३५ ॥
विकृतरामः—(सस्मितम् ।) वत्स, एवमस्तु।
**विकृतलक्ष्मणः—**आर्य, तदिदानीम्
पुरःशरोत्कृत्तनिपातिताभ्यां द्राकुम्भकर्णेन्द्रजितोः शिरोभ्याम्।
अन्तःपुरस्वैरविहारभाजे निवेदयावो रणकर्म राज्ञे॥ ३६ ॥
(विकृतरामलक्ष्मणौ निष्क्रान्तौ ।)
इति मायानाटिका।
———————
(प्रविश्य)
त्रिजटा—(सस्मितम् ।) सहि जाणइ, दिट्ठो क्खु पच्चक्खं एव्व भत्तुणोविअअउत्तन्तो। ता मा संतप्प विज्जुज्जीहदंसिदेण महामाआवुत्तन्तेण। (क)
सीता—(त्रिजटामालिङ्गय ।) ता सहि, एव्वं पराइदो सो हदासो किमाआरो त्तिजाणीहि। (ख)
**त्रिजटा—**किमेदेण हदासस्स विआरेण जो हत्थलग्गो वि राअउत्तेणण समाविओ, किंदुअज्ज जीव त्ति मुक्को। (ग)
—————————————————————————————————————————
(क) सखि जानकि, दृष्टः खलु प्रत्यक्षमेव भर्तुर्विजयवृत्तान्तः। तन्मा संताप्य विद्युज्जिहृदर्शितेन महामायावृत्तान्तेन।
(ख) तत्सखि, एवं पराजितः स हताशः किमाचार इति जानीहि।
(ग) किमेतेन हताशस्य विचारेण यो हस्तलग्नोऽपि राजपुत्रेण न समापितः, किंत्वद्य जीवेति मुक्तः।
**लक्ष्मणः—**आर्य, सत्यमाह त्रिजटा।
रावणः—(सरोपम् ।) सखे महोदर, दृष्टः किलायमनुरञ्जनप्रकारस्त्रिजटासरमयोः सीतायाम्। तदिदानीम्
एते निहन्मि प्रागेव ये मत्कार्यस्य दूपिके।
पश्चात्तौ च हनिष्यामि प्राकृतौ रामलक्ष्मणौ॥ ३७ ॥
तदनेनैव हनूमदुन्मूलितेन चैत्यस्तम्भेन यथासमीहितं संपादयामि। (स्तम्भग्रहणं नाटयति ।)
(सर्वा रावणं दृष्ट्वा संभ्रान्ताः ।)
**लक्ष्मणः—**आर्य, पश्य पश्य दुरात्मनो दुरारम्भम्। तदयमेवावसरःशरनिकृत्तपुरःपातिते कुम्भकर्णमेघनादयोः शिरसी दर्शयितुमस्मै जाल्माय।
**रामः—**अथ किम्।
(निष्क्रान्तौ ।)
(नेपथ्ये ।)
पादाघातैरुदीतैरनुकलमवनीकम्पमुज्जृम्भयद्भि-
निश्वासोच्छ्वासगत्यागतिभिरुपचितारब्धवात्याशताभिः।
दृक्पातैर्दिग्विधूतैरनुदिशमवशोत्कूलितोल्कासहस्रै-
रङ्गैस्वैर्दुर्निमित्तान्ययमतिगुणयन्कुम्भकर्णोऽभ्युपैति॥ ३८ ॥
किं च ब्रह्मास्त्रमन्त्राक्षरजपघटनादुर्निवारातिघोर-
ज्याचापस्यन्दनाश्वध्वजमुखनिखिलायोधनार्थार्थसार्थः।
आवृण्वन्वाणजालैरखिलमपि दिशाचक्रमत्युग्रपातै-
रन्तर्धानैकतानो जयति रणकृतश्लाघनो मेघनादः॥ ३९ ॥
रावणः—(आकर्ण्य । सहर्षम् ।) हन्त, सत्यमुत्साहयति मामिह कर्मणि वत्सयोरयम-निवारितारम्भःसंरम्भः। (स्तम्भग्रहणं नाटयति ।)
(पुनर्नेपथ्ये ।)
अन्भोधौ मन्दराद्रिद्वयमथनदशामूरुयुग्मेन तन्व-
न्सेतुत्रैविध्यमेतत्पयसि विरचयन्दारिताभ्यां भुजाभ्याम्।
मूर्ध्ना किंच त्रिकूटं गिरिमपि च नयन्द्राक्चतुष्कूटभावं
श्रीरामद्वित्रिबाणव्यतिकरवशतो हन्यते कुम्भकर्णः॥ ४० ॥
रावणः—(आकर्ण्य।) कथं रामबाणव्यतिकरवशतो हन्यते कुम्भकर्ण इति।
**महोदरः—**भो वअस्स, अदो खु असणिहदस्स विअ भीसणो सुब्बइ एसो णिग्घोसो।(क)
(पुननैपथ्ये ।)
मायासीताभिघातादखिलमपि बलं मोहयन्वानराणा-
मर्धारब्धाभिचाऋतुविहतिसमुद्भूतकोपाभिभूतः।
सिद्धिन्यग्रोधरोधप्रतिहतविविधक्रूरमायाप्रकारः
शक्रारिर्वक्रघोरः प्रसभमभिहतो लक्ष्मणेन क्षणेन॥ ४१ ॥
रावणः—(आकर्ण्य । सावेगम् ।) कथं कथं पापाः पापमुद्धोषयन्ति मे वत्सस्य। (मुह्यति ।)
**महोदरः—**भो वअस्स, समस्ससिहि समस्ससिहि। (ख)
रावणः—(आश्वस्य ।) सखे महोदर,
किं राज्येन किमभिः किं न्वनया सीतया वा मे।
यन्मम सर्वप्राणौ यातौ वत्सौ विमुच्य मां क्कापि॥ ४२ ॥
(पुनर्मुह्यति ।)
**महोदरः—**अइ भो वअस्स, तुह अन्तेउरविहारमसहमाणा वराआ बाणरा जं किंवि उग्घोसं उप्पादेन्ति त्ति तक्केमि। (ग)
रावणः—(आश्वस्य । सरोपम् ।) भवतु। समरमवतीर्य सर्वमिदं समीकरिध्यामि। (परिक्रामन् ।) कः कोऽत्र भोः।
—————————————————————————————————————————
(क) भो वयस्य, अतः खल्वशनिहतस्येव भीषणः श्रूयत एष निर्घोषः।
(ख) भो वयस्य, समाश्वसिहि समाश्वसिहि।
(ग) अयि भो वयस्य, तवान्तःपुरविहारमसहमाना वराका वानरायत्किमप्युद्घोषमुत्पादयन्तीति तर्कयामि।
(प्रविश्य)
सूतः—(प्रणम्य ।) आज्ञापयन्तु लङ्केश्वरखामिपादाः।
रावणः—
शैवं शूलवरं धनुर्मयकृतं पाशायुधं वारुणं
कौबेरं रथमस्त्रशस्त्रमखिलं देवासुरेभ्यो हृतम्।
मौलं तच्च बलं महत्सुमहतीं मायां जगन्मोहिनीं
यद्यत्संगरसाधनं तदखिलं सज्जीकुरुप्वाग्रतः॥ ४३ ॥
(निष्कान्तः सूतः ।)
**रावणः—**अहमपि यथोचितं संपादयामि। (निष्कान्तः ।)
**महोदरः—**ता अहं वि वअस्सलङ्केसरस्स विअअप्पत्थाणसोत्थिवाअणमोदअं गेह्णीअ पुणोवि इह आअच्छम्हि। (निष्कान्तः ।) (क)
**सरमा—**सहि तिअडे, तुमं झत्ति गदुअ समरउत्तन्तं जाणीअ तुरिअं आअच्छ। अहं वि इह एद्यदारुपद्यदतिरोहाणे सह रक्खसीहिं जाणईं पडिवालेन्ती लङ्कावावारं जाणिस्सम्। (ख)
(निष्कान्ताः सर्वे ।)
इत्यष्टमोऽङ्कः ।
—————
नवमोऽङ्कः ।
(प्रविश्य)
**लङ्का—**सखि निकुम्भिले, इत इतस्तावत्।
—————————————————————————————————————————
(क) तदहमपि वयस्यलङ्केश्वरस्य विजयप्रस्थानस्वस्तिवाचनमोदकं गृहीत्वा पुनरपीहागच्छामि।
(ख) सखि त्रिजटे, त्वं झाटेति गत्वा समरवृत्तान्तं ज्ञात्वा त्वरितमागच्छ। अहमपीहैव दारुपर्वततिरोधाने सह राक्षसीभिजनकों प्रतिपालयन्ती लङ्काव्यापारं ज्ञास्ये।
(प्रविश्य)
**निकुम्भिला—**कामं सद्दावेइ। (दृष्ट्वा ।) कहं अज्जा लङ्का। अज्जेलङ्के, एत्तिअं कालं ण दिट्ठासि। दाणिं कहिं पत्थिदासि। (क)
**लङ्का—**वत्से निकुम्भिले, न जानासि खल्वेको वानरो रावणशरणायांअप्यशरणाया इव मे छेदभेददाहमुखाभिः कदर्थनाभिः संमोहं कृतवान्।
निकुम्भिला—(निःश्वस्य । सकम्पम् ।) अज्जे लङ्के, अलं अलं ते तस्सकहणेण। (ख)
**लङ्का—**ततो निर्विण्णाहमिमं वृत्तान्तं भगवते पितामहाय निवेदयामीति यावदस्य पादमूलमुपसर्पामि तावदेव स विदितवेदितव्यो मामेवमाश्वासितवान्।
**निकुम्भिला—**कहं विअ। (ग)
लङ्का—(कर्णे ।) एवमिव।
**निकुम्भिला—**हा हदम्हि मन्दभाइणी। (मुप्यति ।) (घ)
**लङ्का—**वत्से निकुम्भिले, समाश्वसिहि समाश्वसिहि।
निकुम्भिला—(आश्वस्य । सनिर्वेदम् ।) अज्जे लङ्के, सुण्णारणं क्खु अम्हे हुविस्सामो। (ङ)
लङ्का—वत्से निकुम्भिले, मैवं संतप्ता भव। विभीषणः खल्वावयोहतशेषस्य च राक्षसकुलस्य च चिरादनुपालनाय रामेण—(इत्यर्धोक्ते।) अथवा महाराजरामदेवेन स्वयमिहैव राजभावे स्थापयिष्यते।
निकुम्भिला—(सवाष्पम् ।) अज्जे, एव्वं होदु। (च)
—————————————————————————————————————————
(क) कामं शब्दापयति। कथमार्या लङ्का। आर्ये लङ्के, एतावन्तं कालं न दृष्टासि। इदानीं कुत्र प्रस्थितासि।
(ख) आर्ये लङ्के, अलमलं ते तस्य कथनेन।
(ग) कथमिव।
(घ) हा हतास्मि मन्दभागिनी।
(ङ) आर्ये लङ्के, शून्यारण्यं खल्वावां भविष्यामः।
(च) आर्ये, एवं भवतु।
**लङ्का—**अतःपरमावाभ्यामशेषैरपि हतशेषै राशरकुलैः ‘यथा राजा तथाप्रजाः’ इति नीतिमनुसृत्य सौम्यन्तरैरेव भवितव्यम्। त्वया घोराभिचारभूमिभावं परित्यज्य महायज्ञक्षेत्र-भावश्चिरादुररीकर्तव्यः।
**निकुम्भिला—**हुं। (क)
**लङ्का—**मया च मिथिलाकिष्किन्धाप्रभृतिभिर्नगरीभिः सह सखीभावमवलम्ब्य तत्रभवत्याः स्वयमयोध्यायास्तेन तेन सारवस्तुपहारेण किंकरीभावश्चिरादूरीकर्तव्यः।
**निकुम्भिला—**अम्हो कालस्स वेसम्मम्। (ख) (संस्कृतमाथित्य।)
सन्ति हन्त त्रिलोकेऽस्मिन्या या नगरदेवताः।
ताभिराराध्यया कापि त्वयाप्याराध्यते पुरी॥ १ ॥
**लङ्का—**तदिदानीमावयोः सीतादेवीचरणशुश्रूपामन्तरेण न किंचिदपि कर्तव्यमवशिष्यते। ततस्तत्पादमूलमेव गच्छावः।
**निकुम्भिला—**एव्वं एदम्। (ग)
(परिक्रामतः ।)
**निकुम्भिला—**अज्जे, समरउत्तन्तं जाणिअ एव्वं करेह्म। (घ)
(नेपथ्ये ।)
एकद्वाः क्वचन द्वित्राः कापि त्रिचतुराः क्वचित्।
रुषिताः कपिमेकैकं रुन्धन्ति दशकन्धराः॥ २ ॥
तथाहि।
आविष्कुर्वति रावणे युधि निजां मायां जगन्मोहिनी-
मेकैकं परितः कपिं त्रिचतुराः संरुन्धते रावणाः।
—————————————————————————————————————————
(क) हुँ।
(ख) अहो कालस्य वैषम्यम्।
(ग) एवमेतत्।
(घ) आर्ये, समरवृत्तान्तं ज्ञात्वैवं कुर्वः।
यूथेन्द्रानपि पञ्चषाः कपिपतिं सुग्रीवमप्यङ्गदं
सप्ताष्टाः शतशस्तु लक्ष्मणमहो रामं त्वसंख्या इमे॥ ३ ॥
पश्य पश्य। आश्चर्यमाश्चर्यम्।
एकैकं दशकण्ठमाशु परितः संख्यातिगा राघवा
मृद्गन्ति प्रसभं हयध्वजरथच्छत्रायुधध्वंसिनः।
तत्किं वेद रघूद्वहः सखि महागान्धर्वमस्त्रोत्तमं
यद्देवात्रिपुरान्तकात्त्रिभुवने जानाति नान्यो जनः॥ ४ ॥
लङ्का—(दृष्ट्वा सविपादम् ।) हन्त हन्त,
गन्धर्वदैत्यसुरपन्नगयक्षरक्षो-
विद्याधरादिभिरपि त्रिजगज्जनौधैः।
एकोऽपि नैव समदर्शि यदीयकोणो
मौलं बलं तदवधीन्निमिषेण रामः॥ ५ ॥
अयि निकुम्भिले, पश्य पश्य।
निहत्य मायास्तिमिरप्रकारा निशाचरेन्द्रस्य स रामचन्द्रः।
रथस्य वर्त्मनि निरुध्य वाणैरिमं समभ्येति पदातिरेव॥ ६ ॥
(उभे सहसा चक्षुःप्रतिघातं रूपयतः ।)
लङ्का—
किं सिन्धोर्वडवानलोऽयमुदितः किं वागतो भास्करो
भूलोकं ननु मातलीरितहयो मन्येऽयमैन्द्रो रथः।
(निश्वस्य ।)
विस्पष्टं विकरिष्यते सुरवरैरित्युक्तवान्माल्यवा-
न्संवादाय भवत्यहो शतमखः स्वस्यन्दनप्रेषणात्॥ ७ ॥
निकुम्भिला—(सास्त्रम्।) अज्जे लङ्के, इन्दविअएण खु तिहुबणम्मि पडिट्ठावि-अइन्द-विअइणामहेअस्स मह सामिणो रक्खसलोअजुबराअस्स अचिन्तिअपुव्वेण हठोट्ठिएण तेण दसाविसेसेण ईरिसं अवत्थन्तरं पाविदाणं अह्माणं पेक्खन्तीणं एव्व काइंकाइंण किदाइंकदत्थणाइं। (रोदिति ।) (क)
—————————————————————————————————————————
(क) आर्ये लङ्के, इन्द्रविजयेन खलु त्रिभुवने प्रतिष्ठापितेन्द्रविजयिनाम-
**लङ्का—**वत्से, समाश्वसिहि समाश्वसिहि।
चिरपरिचितराजव्यत्यये पत्तनानां
ननु भवति नवीने राज्ञि कोऽपि प्रकारः।
तदपि तदनुजन्मा यन्मया च त्वया च
प्रकृतिषु निजसीमापालनात्पालनीयः॥ ८ ॥
किंच।
यक्षाधिराजकलिता स्थितिरावयोहि
रक्षोधिराजभुजपालन विस्मृताभूत्।
तद्धर्मभूषणविभीषणपालनेन
सर्वोऽप्ययं शममुपेष्यति नौ विपादः॥ ९ ॥
निकुम्भिला—(आश्वस्य ।) एद्यंहोटु। (क)
(नेपथ्ये कलकलः ।)
निकुम्भिला—(कर्णं दत्वा सविस्मयम् ।) अज्जे, पलअघणत्थणिदमंसलभीसणो कोपिअस्सुदपुत्रो सुणीअदि एसो णिग्घोसो। (ख)
लङ्का—(व्याकण्यं।) अहो कालस्य कोऽपि विपर्यासः।
दशाननभयान्मूकास्त्रिदशाः सन्तु चेतनाः।
रथस्याचेतनस्यापि लक्षितः किं नु निस्वनः॥ १० ॥
**निकुम्भिला—**एत्रंएदम्। (ग)
लङ्का—(निश्वस्य।) सखि निकुम्भिले, सर्वमिदमनुचिन्तनीयमनुकथनीयमनुमोदनीयं च यद्येकोऽपि जीविष्यति रक्षसां जीवभूतो दशाननः।
—————————————————————————————————————————
धेयस्य मम स्वामिनो राक्षसलोकयुवराजस्याचिन्तितपूर्वेण हठोत्थितेन तेन दशाविशेपेणेदृशमवस्थान्तरं प्रापितानामस्माकं पश्यन्तीनामेव कानि कानि नकृतानि कदर्थनानि।
(क) एवं भवतु।
(ख) आर्थे, प्रलयघनस्तनितमांसलभीषणः कोऽप्यश्रुतपूर्वः श्रूयत एवनिर्घोषः।
(ग) एवमेतत्।
(नेपथ्ये कलकलः ।)
**लङ्का—**कथं छिन्नान्येव शिरांसि रामेण रावणस्य। कथं च सद्य एव प्ररोहन्ति तादृशान्येव तानि पुनरन्यानि। अथवा।
मन्येऽमुष्य शिरश्छेदं मुकुटच्छेदतो वरम्।
शिरांसि मुकुटैः साकं रोहन्ति मुकुटास्तु नो॥ ११ ॥
तदमर्षितो दशाननश्च
शूलं खङ्गंपरशुमशनिं तोमरं भिण्डिपालं
वाणान्पाशानहिकुलकृतान्पादपान्पर्वतांश्च।
विष्वग्रामे विकिरति रजोवर्पवात्यासहस्र-
व्यामूढाशावलयनिपतद्धोरदम्भोलिकोटिः॥ १२ ॥
**निकुम्भिला—**दिट्टिआ दिट्ठिआ। (क)
**लङ्का—**वत्से, पश्य पश्य।
रामोऽप्यसंभ्रमोपात्तदिव्यास्त्ररसनाञ्चलैः।
गाढानि रावणास्त्राणि ग्रासमानोऽभिवर्तते॥ १३ ॥
**निकुम्भिला—**अम्हो, माणुसो वि रक्खसाणं भीसणदंसणो एसो। (ख)
**लङ्का—**कः संदेहः। य एष
किरीटानि च्छिन्दन्किमपि न च विन्दन्ननुपदं
निकृन्तन्ग्रीवा अप्यसकृदकृतार्थो रघुपतिः।
क्रमप्राप्तं शत्रोर्हृदयमशनेरप्यविषयं
विसृष्टब्रह्मास्त्रो विदलयति हाहास्मि निहता॥ १४ ॥
(मुह्यति ।)
**निकुम्भिला—**अज्जे, समस्ससिहि समस्ससिहि। (ग)
(नेपथ्ये ।)
भो भो हरियूथपाः, समादिशन्ति भवतः सर्वानेव रामदेवखामिपादाः।
—————————————————————————————————————————
(क) दिष्ट्या दिष्ट्यां।
(ख) अहो, मानुषोऽपि राक्षसानां भीषणदर्शन एषः।
(ग) वत्से, समाश्वसिहि समाश्वसिहि।
लङ्कारोधात्कपीनां विरमतु पृतना राक्षसेपु प्रहारः
सज्जोऽपि त्यज्यतां तेष्वपजितचकिताः प्रद्रुताः सान्त्वनीयाः।
स्कन्धावारे पुरे वा भवतु च परितः संचरो निर्निरोधो
लङ्का यातु प्रसादं पुनरपि च यथा मन्थमुक्तान्धिवेला॥ १५ ॥
लङ्का—(सहर्षं निकुम्भिलामालिङ्गय ।) वत्से, दिष्ट्या वर्धावहे।
(पुनर्नेपथ्ये ।)
स्पर्धारब्धोऽपि सद्यः कपिपिशितभुजां संगरः शान्तिमेतु
प्रीतिश्चान्योन्यमेपामविरतमयतामृद्धिमद्योभयेषाम्।
यो यो रुद्धः स सद्यः कपिषु निशिचरेष्वर्च्यतां मुच्यतां वा
लङ्काकिष्किन्धयोर्यद्रघुपतिरकरोदैकराज्यप्रसादम्॥ १६ ॥
किंच।
लङ्कासीम्नि विभीषणस्य सुहृदः श्रीरामपादेङ्गित-
ज्ञानोदारकुमारलक्ष्मणकृते राज्याभिषेकोत्सवे।
हिंसावैरविरामसौम्यचरिताः सर्वेऽपि तस्मिन्नृपे
साम्यं शीलगुणेन विभ्रतु यथा राजा तथा हि प्रजाः॥ १७ ॥
**लङ्का—**वत्से निकुम्भिले, सुष्ठु संदिष्टममात्यपनसेन।
(पुनर्नेपथ्ये ।)
प्राकारगोपुरगृहोपवनप्रतोली-
भागेषु भग्नविषमाणि समीक्रियन्ताम्।
सौमित्रिसज्जदभिषेकमहोत्सवस्य
लङ्काप्रवेशसमयोऽद्य विभीषणस्य॥ १८ ॥
**निकुम्भिला—**दिट्ठिआ दिट्ठिआ। (लङ्कामालिङ्गति ।) (क)
लङ्का—(सानन्दम् ।) वत्से निकुम्भिले, तदिदानीमावाभ्यां
सीतादेव्याः सन्निधावीश्वराया यद्यद्वृत्तं तद्विजिज्ञासितव्यम्।
सर्वेषां नो रक्षसां प्राणिनामप्यस्या हस्ते वर्तते जीवनाडी॥१९॥
(परिक्रामतः ।)
—————————————————————————————————————————
(क) दिष्ट्या दिष्ट्या।
(नेपथ्ये ।)
लङ्के वेत्रकरा पुरश्चर झटित्युत्सारयन्ती जना-
न्सर्वेश्चाम्ब निकुम्भिले त्वमभितः संमर्दमामर्दय।
देव्या मैथिलकन्ययाद्य शिविकामध्यासितां पार्श्वयो-
रालम्ब्य त्रिजटा स्वयं च सरमाप्यध्यक्षिते रक्षताम्॥ २० ॥
**निकुम्भिला—**दिट्ठिआ दिट्ठिआ। (हर्पनृत्तमभिनयति ।) (क)
**लङ्का—**वत्से, अनतिक्रमणीयनियोगो हि सांप्रतमस्माकं महाराजविभीषणः।
**निकुम्भिला—**एव्वं एदम्। (ख)
लङ्का—(विचिन्त्य।)
आबालवृद्धमनुनीतमिहाद्य पश्या-
म्याश्वासितं जनमनेन विभीपणेन।
मन्दोदरी दुहितरं तु विलोक्य खिन्नां
नो वेद्मि किंनु मय एष करिष्यतीति॥ २१ ॥
**निकुम्भिला—**णं अज्ज वि अपरिच्चत्तरावणपक्खवाआणं अह्माणं एसो अण्णोणसंवादो वि अवराहं विअ आवहइ।ता सीदादेवीए एव्वपादमूलं गच्छम्हो। (ग)
(निष्क्रान्ते ।)
इति नवमोऽङ्कः ।
——————
दशमोऽङ्कः ।
(प्रविश्य)
मयः—(सास्रम् ।) अहो, कथमवान्तरप्रलयो रामेणराक्षसानाम्।
—————————————————————————————————————————
(क) दिष्टया दिष्ट्या।
(ख) एवमेतत्।
(ग) नन्वद्याप्यपरित्यक्तरावणपक्षपातयोरावयोरेषोऽन्योन्यसंवादोऽप्यपराधमिवावहते। तत्सीतादेव्या एव पादमूलं गच्छावः।
सर्वे हा वत राक्षसा विनिहताः स्त्रीवालवृद्धान्विना
मुक्ताः केऽपि महोदरप्रभृतयो जात्यानया त्याजिताः।
तत्तस्मिन्नविधास्यतः प्रतिविधिं यं कंचिदद्यैव मे
व्यर्था सा कुहना समस्तगहना व्यर्थे च मे जीवितम्॥ १ ॥
(दृष्ट्वा ।) कथं रामवृत्तान्तविज्ञानाय प्रहिता समागच्छति वत्सा शूर्पणखा।(सश्लाघम् ।)
स्त्रीखभावस्थिताप्येषा जातैका जातिगन्धिनी।
सेयं प्रतिक्रियावेशपिशाचग्रहमोहिता॥ २ ॥
(प्रविश्य)
शूर्पणखा—(सास्त्रम् ।) हा अज्ज रावण, हा अज्ज कुम्भअण्ण, वच्छ मेहणाद।(मुह्यति ।) (क)
**मयः—**वत्से, समाश्वसिहि समाश्वसिहि। प्रतिविधानलेशस्यापि किमस्ति कश्चिदवकाशः।
शूर्पणखा—(निश्वस्य ।) मादामह, अदो परं वि किं अस्थि पडिविधाणम्। (ख)
मयः—
अप्राप्यैव मनोरथं दशमुखः सीतानिमित्तं हतः
किं तेनाशरजातिरेव निखिला यत्तन्निमित्तं हता।
तत्सीतैव हि मृत्युरद्य जनिता रक्षःकुलस्यास्य न-
स्तस्यामेव विधीयतां प्रतिविधिः सर्वैरुपायैरपि॥ ३ ॥
**शूर्पणखा—**णं अदिक्कन्दो समओ सीदं उद्दिसिअ किंवि अच्चाहिद आअरिदुम्। (ग)
**मयः—**एवमिदम्। यतः।
—————————————————————————————————————————
(क) हा आर्य रावण, हा आर्य कुम्भकर्ण, हा वत्स मेघनाद।
(ख) मातामह, अतःपरमपि किमस्ति प्रतिविधानम्।
(ग) नन्वतिक्रान्तः समयः सीतामुद्दिश्य किमप्यत्याहितमाचरितुम्।
तद्यानं त्रिजटा च सा च सरमा संरक्षतः पार्श्वयो-
र्विष्वग्यान्ति विभीषणस्य सचिवा व्याधूतवेत्राञ्चलाः।
तत्सीतामधिकृत्य शक्यमिह नः कर्तुं किमत्याहितं
तद्रामेण वियोगमेव पुनरप्यस्या विधास्याम्यहम्॥ ४ ॥
शूर्पणखा—
(आश्रस्य ।) अज्ज, वअणाईंएद्यमं सुहाअन्ति। किं उणणिद्यत्तिए कज्जे। (क)
**मयः—**वत्से, नन्वतिक्रामत्यवसरो निर्वोदुमिदं कार्यसर्वस्वम्। तज्ज्ञायतां किमाचारो रामो लक्ष्मणश्चेति।
**शूर्पणखा—**अज्ज, ण लक्खिओ मए रामो लक्खणो वा। किं दु तस्स परिअणवाहारो कोवि सुदो। (ख)
**मयः—**कीदृशः।
शूर्पणखा—(संस्कृतमाश्रित्य ।)
परगृहचिरवासशङ्कयासौ जनकसुतां प्रति मन्दरागबन्धः।
क्वचिदपि घनमोहगाढलज्जाशवलितमूढमना निगूढमास्ते॥५ ॥
इति।
**मयः—**अहो जातिगन्धीनि चरित्राणि रामस्य।
**शूर्पणखा—**अह इं। किंदु ण जाणादि समएसु कादद्यंअकादद्यंअ। अप्पसुहमग्गहिअआ क्खु माणुसी जाई। (ग)
भयः—(सस्मितम् ।) वत्से, निजहृदयमाविष्कुर्वत्या भवत्या रामलक्ष्मणयोराहितोऽयं चिरादुपालम्भः। (सपरिहासम् ।) वत्से, किं बहुना।
—————————————————————————————————————————
(क) आर्य, वचनान्येव मां सुखापयन्ति। किं पुनर्निर्वर्तिते कार्ये।
(ख) आर्य, न लक्षितो मया रामो लक्ष्मणो वा। किंतु तस्य परिजनव्याहारः कोऽपि श्रुतः।
(ग) अथ किम्। किंतु न जानाति समयेषु कर्तव्यमकर्तव्यं च। अल्पसुखमग्नहृदया खलु मानुषी जातिः।
रामो वा त्वां वृषस्यन्तीं लक्ष्मणो वा भजेत चेत्।
न सीतापहृतास्य स्यान्न च स्याद्रक्षसां वधः॥ ६ ॥
शूर्पणखा—(सनिश्वासं हुंकृत्य ।) किदं अदिक्कन्दं अक्कन्दिअ। जं पकिदं तं अणुचिट्ठ। (क)
**मयः—**एवमिदम्। (विचिन्त्य ।)
सीताराघवयोर्योगो यथा विघटितो भवेत्।
तथा त्वं चिन्तय क्षिप्रं कांचितात्कालिकीं क्रियाम्॥ ७ ॥
**शूर्पणखा—**अज्ज, तुमं एद्यचिन्तेहि जं एत्थ करणिज्जम्। (ख)
**मयः—**मम त्वेवं प्रतिभाति। श्रूयतां यत्करिष्यते।
अहं रामो भूत्वा जनसदसि सीतामुपगतां
परित्यक्ष्याम्येनां परभवनवासं प्रकटयन्।
ततः सा रोषान्धा नवमसहमाना परिभवं
प्रवेक्ष्यत्यम्भोधिं दहनमथवा शोकविवशा॥ ८ ॥
**शूर्पणखा—**उववण्णं मन्तिदं अज्जेण। (ग)
**मयः—**तदस्य प्रकृतस्य कर्मणः प्रवर्तनाय समयप्रतीक्षो भवामि।
**शूर्पणखा—**एद्यंहोदु। (घ)
(नेपथ्ये ।)
अहो वत देवी सीता
मदान्धरक्षोगृहवासदोपशङ्कानुपक्तेन रघूदूहेन।
त्यक्ता समक्षं महतो जनस्य त्यजत्यहो देहमियं हुताशे॥ ९ ॥
(प्रविश्य)
**त्रिजटा सरमा च—**हा, हदम्हि मन्दभाइणी। (मुह्यतः ।) (ङ)
—————————————————————————————————————————
(क) कृतमतिकान्तमाक्रन्द्य। यत्प्रकृतं तदनुतिष्ठ।
(ख) आर्य, त्वमेव चिन्तय यदत्र करणीयम्।
(ग) उपपन्नं मन्त्रितमार्येण।
(घ) एवं भवतु।
(ङ) हा, हतास्मि मन्दभागिनी।
शूर्पणखा—(सदर्पम्।) दिट्ठिआ दिट्ठिआ। (क)
मयः—(दृष्ट्वा सविस्मयम् ।) वत्से, पश्य पश्य।
पाषाणेपु जलेषु चाप्रतिहतं यो वा क्रमेत स्वयं
सीतायामयमेव हन्त दहनः कुण्ठीभवन्दृश्यते।
**शूर्पणखा—**अच्चरिअं अच्चरिअं। (ख)
**मयः—**वत्से, अत्यल्पमिदम्।
यत्तेजोऽभिहतो निरन्तरमयं ध्मातोऽपि धूपायते
तद्दग्धं कुलमेव धिक्पलभुजां सीतामयेनाग्निना॥ १० ॥
**शूर्पणखा—**एद्यमेदम्। (ग)
**मयः—**तदिदानीम्
दृष्टं द्रष्टव्यमस्माकं कर्तव्यं किमतःपरम्।
(विचिन्त्य ।)
विभीषणोऽनुसर्तव्यः स हि राजा कुलस्य नः॥ ११ ॥
(निष्क्रान्तौ ।)
(नेपथ्ये ।)
भो भो रामचन्द्र,
जातः पङ्क्तिरथस्य पायसवपुर्मुक्तो हि यज्ञे भवा-
न्सीतेयं जनकस्य देवयजनक्षेत्रात्किलाजायत।
तत्त्यक्त्वा पुरुषान्तरव्यवहितिं रूपान्तरव्याजम-
प्यार्येयं मुनिदेवसंसदि गुणश्लाध्या मया दीयते॥ १२ ॥
(ततः प्रविशतो रामलक्ष्मणौ सुग्रीवविभीषणौ च ।)
**रामः—**अयि वत्स, अये वयस्यौ।
**लक्ष्मणः—**आज्ञापयन्त्वार्यपादाः।
—————————————————————————————————————————
(क) दिष्ट्या दिष्टया।
(ख) आश्चर्यमाश्चर्यम्।
(ग) एवमेतत्।
सुग्रीवविभीषणौ
—
आज्ञापयन्तु स्वामिपादाः।
**रामः—**किं बहुना।
जानेऽहं जनकात्मजां त्रिभुवनश्लाघ्यैकपत्नीव्रतां
दृष्टा चाद्भुतदर्पणेन मणिना रक्षस्तृणीकुर्वती।
दिष्टयेयं तदपि त्रिलोकजनताचित्तस्थितिं रक्षितुं
संघेऽस्मिन्दहनं गता स्वयमियं तेनैव मे दीयते॥ १३ ॥
**लक्ष्मणः—**कीदृशीयमार्याकृतेऽपि त्रिभुवनचित्तरक्षा।
**सुग्रीवः—**कुमार, अथ किम्।
**विभीषणः—**किं बहुना।
न तदग्निशिखा कुर्याद्यत्कुर्याज्जनकात्मजा।
इत्थमुद्धोप्यते नूनमृषिभिः कान्तदर्शिभिः॥ १४ ॥
(नेपथ्ये ।)
भृगोरेषाकन्या प्रथममथ दुग्धाब्धितनया
विदेहानां नेतुस्तदनु यजनक्षेत्रजनिता।
अनन्या ते विष्णोस्त्रिजगदवनायावतरणे-
प्वनु त्वामप्येषा खयमवतरत्येव नियता॥ १५ ॥
विभीषणः—(दृष्ट्वा ।) कथं प्रमुग्धैव त्रिजटा सरमा च।
आश्वसिहि त्रिजटे त्वं त्वमपि च सरमे समाश्वसिहि।
किमिह महोत्सववृद्धौ द्रष्टव्यायां प्रमोहेन॥ १६ ॥
त्रिजटासरमे—(आश्वस्य सविस्मयं सकरुणं च ।) सहि जाणइ, कहं दहणंपविट्ठासि। अह्मे वि तार्हि-एद्यप्पविसम्मो। (प्रवेष्टुमुद्यते । दृष्ट्वा सविस्मयं सानन्दं च ।) कहं तादेण विअ अग्गिदेवेण जाणई उच्छङ्गम्मि परिलालिज्जइ।अहव सलङ्काणअरस्स असोअवणस्स णिरवसेसदाहप्पवृत्तो एसो हुदवहोएदाए सीदादेवीए णिवासभूदो त्तिएक्कम्मि एव्व सिंसवारुक्खम्मि धूमं विणिअं ण पेसिदवन्तो। सो एद्यहुदवहो तं एद्यसीदादेवीं कहं पहविस्सदिपरिभविदुम्। ता समीवंगदुअ पेक्खम्ह। (निष्कान्ते ।) (क)
—————————————————————————————————————————
(क) सखि जानकि, कथं दहनं प्रविष्टासि। आवामपि तत्रैव प्रविशावः।
(नेपथ्ये ।)
ऋषिदेवगणानुमोदितां गिरमग्नेरविशङ्कितं कुरु।
भजतामनया समं भवानभिषेकोत्सवमस्मदीप्सितम्॥ १७ ॥
किं च वत्स,
सत्ये या स्थितिरच्युता मम कृता वत्सेन खेदैर्निजैः
सैवेयं दिवि जायते सुरपतेरर्धासने मे स्थितिः।
सत्यं यद्भवतोऽभिषेचनविधौ तत्पूरयन्मामकं
त्रायेथा भरतं चिराय जननीप्राप्तापवादाकुलम्॥ १८ ॥
अपि च।
वत्से जानकि वत्स लक्ष्मण ननूपालभ्य एवास्मि वां
यत्क्लेशे रुचिरं मयैव हि युवामेतावति स्थापितौ।
तधूयं जनचित्तरञ्जनगुणप्रायापदानोन्नता-
श्चत्वारस्तनयाः स्नुषा त्वमिति च श्लाघ्या ममैवोन्नतिः॥ १९ ॥
**रामः—**दिष्ट्या खलु तातपादैरपरित्यागो वत्सभरतस्य।
(पुनर्नेपथ्ये ।)
शान्तं पापं शान्तं पापम्।
भवतो वनवासोऽयं भरतस्य मतो यदि।
तदा तस्य परित्यागशपथः सार्थको मम॥ २० ॥
**रामः—**सर्वज्ञा एव हि तातपादाः।
(पुनर्नेपथ्ये ।)
स त्वत्पादुकयोर्निवेश्य निखिलं राज्याधिकारक्रमं
शत्रुध्नेन तपस्विवेषशुचिना साकं तपस्वीभवन्।
———————————————————————————————————
कथं तातेनेवाग्निदेवेन जानक्युत्सङ्गे परिलाल्यते। अथवा सलङ्कानगरस्याशोकवनस्य निरवशेषदाहप्रवृत्त एष हुतवह एतस्याः सीतादेव्या निवासभूत इत्येकस्मिन्नेव शिंशपावृक्षे धूममपि निजं न प्रेषितवान्। स एव हुतवहस्तमेव सीतादेवीं कथं प्रभविष्यति परिभवितुम्। तत्समीपं गत्वा पश्यावः।
त्वामाराधयति त्वदीयमखिलं राज्यं चिरात्पालय-
न्द्रष्टव्यः स चिराय संभृतभवद्राज्याभिषेकोत्सवः॥ २१ ॥
रामः—
वनं वा राज्यं वा मम बहुमतं तातविहितं
न तु त्रैलोक्यश्रीरपि भुजजिता मे बहुमता।
तदत्र भ्रातॄणां तदिदमुपभोगोपकरणं
समृद्धं वो राज्यं निखिलमनुपाल्यंखलु मया॥ २२ ॥
(नेपथ्ये ।)
अयि चत्स,
एवमस्तु चिरं जीव यजस्वविविधैर्मखैः।
इन्द्रानुभावितानत्मानेषत्वं द्रष्टुमर्हसि॥ २३ ॥
**रामः—**अनुगृहीतोऽस्मि।
**लक्ष्मणः—**आश्चर्यमाश्चर्यम्।
पाकारिप्रमुखैः स्वयं सुरवरैरार्यस्य दत्ते वरे
संसुप्तेष्विव वानेरषु निहतेष्वप्युत्थितेषु क्षणात्।
तद्गात्राणि हृतान्यपि द्विजगणैर्ग्रस्तान्यपि श्वापदैः
वासु स्वाखभितोऽपि मूर्तिषु यथास्थानं मिलन्ति स्वयम्॥ २४ ॥
विभीषणः—(प्रणम्य ।)
यद्यद्दिक्पालकेभ्यः प्रसभमपहृतं रावणेनार्थजातं
तत्तत्तेभ्यो यथाखं भवदनुमतितः प्रेषितं सर्वमेव।
एतत्तु स्वामिचित्तानुगुणगतिगुणं पुष्पकं नाम यानं
स्वीकर्तुंं प्रेषितुं वा पुनरपि धनदायैव देवः प्रमाणम्॥ २५ ॥
रामः—(दृष्ट्वा सविस्मयम् ।) वत्स, पश्य पश्य।
चन्द्रमण्डलमेवेदं सर्वदारब्धचन्द्रिकम्।
अक्षय्यतेच्छासंचारावस्य द्वावधिकौगुणौ॥ २६ ॥
**लक्ष्मणः—**एवमिदम्।
(नेपथ्ये।)
पुत्रेष्टौ मम दिव्यपायसवपुस्त्वं राम सेनार्पित-
स्तेनेयं यजनेश्वरेण यजनक्षोणीभवा दीयते।
तत्स्वीकृत्य पुनर्जयश्रियमिव त्रैलोक्य सेव्यामिमां
सापत्न्यं कुरु शाश्वतं त्वमनया साकेतराज्यश्रियः॥ २७ ॥
रामः—(सहपेम्।) वत्स, दिष्ट्यानुमतमिन्द्रानुगामिभिस्तातपादैः। (लक्ष्मणेन सह विमानारोहणं नाटयन्नङ्के सीतामारोप्य। इत इतः सख्यौ।
(प्रविश्य)
त्रिजटासरमे—(विमानारोहणं रूपयन्त्यौदृष्ट्वा सहर्पम् ।) दिट्ठिआ दिट्ठासंपुण्णमणोरहा पिअसही जाणई। (क)
सीता—(सस्मितं सादरम् ।) हला, एत्थ उवविसह। (ख)
(उभे उपविशतः ।)
रामः—(सानन्दम् ।) किं बहुना।
दिष्टयोत्सङ्गः सीतया मेऽद्य पूणों दिष्टयायोध्या मत्प्रवेशेन पूर्णा।
मातॄणां मे मन्त्रिणां बान्धवानां भ्रातॄणां च प्रार्थना साधु पूर्णा॥ २८ ॥
**त्रिजटासरमे—**वअस्स, अह इं। (ग)
(सीतानन्दातिशयमभिनयति ।)
**लक्ष्मणः—**आर्य, एवमेतत्। (सबहुमानम् ।)
सस्त्रीकश्च विभीषणः सवनितैः सर्वैः समं राक्षसैः
सस्त्रीकश्च हरीश्वरः सवनितैः सर्वैः समं वानरैः।
सस्त्रीकः सवधूजनैरपि गुहः सर्वैः समं बान्धवै-
रागच्छन्तु विलोकयन्तु च चिरादार्याभिषेकोत्सवम्॥ २९ ॥
(दृष्ट्वा सविस्मयानन्दम् ।) कथं त्रिलोकीजन एव सवनितः सर्वोऽपि स्वयमार्याभिषेक-महोत्सवदिदृक्षालक्षितः संमिलति। (सर्वेऽपि सकुतुकानन्दं वीक्षन्ते ।)
—————————————————————————————————————————
(क) दिष्टया दृष्टा संपूर्णमनोरथा प्रियसखी जानकी।
(ख) हला, अत्रोपविशथ।
(ग) वयस्य, अथ किम्।
(नेपथ्ये ।)
भो भो रामचन्द्र, दिष्टया त्वमीदृशस्य त्रैलोक्यमहोत्सवस्य भाजनं जातोऽसि। तत्कथय किं ते भूयः प्रियमुपकरोमि।
**रामः—**भगवन्हव्यवाहन,
साकं वारिधिना दशाननकृतस्तीर्णो निकारो मया
साकं मे विजयश्रिया जनकजा लब्धानवद्या पुनः।
साकं मामुपसेवते मदनुजैः साकेतराज्यस्थितिः
साकं वन्धुसुहृज्जनैरिह मया प्राप्ताश्चिरात्संपदः॥ २० ॥
तथापीदमस्तु।
दूरीकृतंक्षयकलङ्कभुजंगदोपा
मुव्यक्तसंततसुधारसपूरपूर्णा।
तापं तमश्च जगतां सरसं हरन्ती
चन्द्रप्रभेव कविता जनतां धिनोतु॥ ३१ ॥
(इति निष्कान्ताः सर्वे ।)
इति दशमोऽङ्कः ।
ग्रन्थकर्तुः प्रशस्तिः ।
<MISSING_FIG href="../books_images/U-IMG-172080063012.07.2024_21.40.08_REC.png"/>
औदार्यैरघुपुंगवे तदनुजे चौद्धत्यमत्यद्भुतं
सीतायाश्च यथा पतिव्रतगुणो लोकोत्तरो दृश्यते।
अस्मिन्नद्भुतदर्पणे कविमहादेवस्य वाङ्मिमिते-
ऽप्येवं पश्यत दृश्यते यदि गुणो यः कोऽपि वक्त्राश्रयः॥ १ ॥
सारासारविवेचनं विदधते शब्दार्थशास्त्रेषु ये
ये च व्याकरणेषु शिक्षितधियश्छन्दोविचित्त्यामपि।
येऽलंकारनिबन्धनेषु बहुशो यत्नेन दत्ताशया
वीक्षन्तां कविमण्डलेश्वरमहादेवस्य ते वैखरीम्॥ २ ॥
दिक्चक्रं कियदण्डभित्तिभिरिदं नन्वावृतं सर्वतो-
ऽप्यण्डं नाम कियत्त्रिविक्रमपदैराक्रान्तमेतत्त्रिभिः।
तन्निर्यन्त्रणबालकृष्णभगवत्पादप्रसादोन्मिष-
त्प्राचण्ड्यः कविमण्डलेश्वरयशोगुम्फः क्क वा जृम्भताम्॥ ३ ॥
रसेषु भावेषु गुणेषु रीतिप्वलंक्रियावृत्तिषु कल्पनासु।
वैदग्ध्यगन्धीनि वचःप्रसूनान्युत्तंसयन्ति स्वयमेव सन्तः॥ ४ ॥
बाल्मीकिवाक्यामृतपूरितेऽपि श्रीराघवस्य स्फुटमन्तरङ्गे।
मद्भारती भक्तिकृतावकाशा मनागिवारोहतु मन्थरापि॥ ५ ॥
समाप्तश्चायं ग्रन्थः ।
—————————————————————————————————————————
१. प्रथमं श्रीसुब्रह्मण्यशास्त्रिभिः प्रेषितादेव पुस्तकादस्य मुद्रणं प्रारम्भि. तदनन्तरं तञ्जोरनगरवासिभिः टी. एस्. कुप्पुस्वामिशास्त्रिभिः प्रेषितं ग्रन्थलिप्या लिखितं पुस्तकद्वयमपि समासादितम्. तत्रैकस्मिन्पुस्तके ग्रन्थान्त एवं लिखितमस्ति**—**
‘प्रपूर्वमाथ्यभिख्यायां शरदं प्रविशत्यवौ।
शरदि त्वद्भुतादर्शैग्रन्थं लिखितवानजः॥
जयन्ति कवयो लोके जगदानन्दकन्दलाः।
यद्गिरः सागरायन्ते यशश्चन्द्रोदये सताम्॥’ इति.
अन्यस्मिन्**—**
‘पपूर्वरीतापिख्यातौ मासे श्रावणिकेऽपि च।
नवीनं चाद्भुतादर्श नाटकं लिखितं मया॥’ इति.
एवं पुस्तकत्रयाधारेण संशोधनमकारि.
<MISSING_FIG href="../books_images/U-IMG-1722443289ad5.png"/>
]
-
“(क ↩︎