[[प्रसन्नराघवम् Source: EB]]
[
[TABLE]
[TABLE]
॥ श्रीः॥
प्रसन्नराघवम्।
<MISSING_FIG href="../books_images/U-IMG-1730166861Screenshot2024-10-29072140.png"/>
प्रथमोऽङ्कः।
चत्वारः प्रथयन्तु विद्रुमलतारक्ताङ्गुलिश्रेणयः
श्रेयः शोणसरोजकोरकरुचस्ते शार्ङ्गिणः पाणयः।
भालेप्वब्जभुवो लिखन्ति युगपद्ये पुण्यवर्णावलीः
कस्तूरीमकरीः पयोधरयुगे गण्डद्वये च श्रियः॥१॥
अपि च।
आकल्पं मुरजिन्मुखेन्दुमधुरोन्मीलन्मरुन्माधुरी-
धीरोदात्तमनोहरः सुखयतु त्वां पाञ्चजन्यध्वनिः।
लीलालङ्घितमेघनादविभवो यः कुम्भकर्णव्यथा-
दायी दानवदन्तिनां दशमुखं दिक्चक्रमाक्रामति॥२॥
अन्यच्च।
नाभीपद्मवसच्चतुर्मुखमुखोद्गीतस्तवाकर्णन -
प्रोन्मीलत्कमनीयलोचनकलाखेलन्मुखेन्दुद्युतिः।
सक्रोधं मधुकैटभौ सकरुणस्नेहं सुतामम्बुधेः
सोत्प्रासप्रणयं सरोजवसतिं पश्यन्हरिः पातु वः॥३॥
(नान्यन्ते)
सूत्रधारः— (परितो विलोक्य। सहर्षम्।) अयै, कथममी निजवदनशारदारविन्दनर्तितगिरिनन्दिनीनयनखञ्जनस्य निखिलमुनिजनहृदयरञ्जनस्य विकटजटापटलोत्सङ्गताण्डवितगङ्गातरङ्गनिकरस्य मन्दाकिनीचन्दनललाटिकायमानमुकुटोपनीतनूतनसुधाकरस्य त्रिभुवननलिननिर्माणनिर्मलबिसाङ्कुरस्य भगवतः शंकरस्य यात्रायां परिमीलिता एव पार्षदाः। तदेतानुपगम्य निजकलाविलोकनप्रसादाय तावदभ्यर्थयामि। (विमृश्य।) अथवा किमभ्यर्थनया। यतः।
आकारेणैव चतुरास्तर्कयन्ति परेङ्गितम्।
गर्भस्थं केतकीपुष्पमामोदेनेव षट्पदाः॥४॥
(विलोक्य। सहर्षम्।) नूनमेतदभिसंधानादेव सामाजिकसमाजादितोऽभिवर्तते सखा मे रङ्गतरङ्गः।
(प्रविश्य।)
** नटः—** भाव, इदं मन्मुखेनैव भवन्तमुदीरयन्ति सामाजिकाः।यत्किल ‘अये भरताधिराज–’ (इत्यर्धोक्ते।)
सूत्रधारः—(कर्णौ पिधाय।) अहह। असमञ्जसमसमञ्जसम्। भवतु। कार्यं तावदाकर्णयामि।
** नटः—**भाव, अधुना मयैव भवत्सकाशादाकर्णनीयं किमिदमसमञ्जसमिति।
सूत्रधारः— नन्विदमेव। यत्किल नन्दति ज्यायसि कनीयसिराजपदमुपन्यस्यते। अहं हि भरतमात्रक एव। मम पुनरग्रजन्मा गुणारामनामा राजपदभाजनम्।
नटः— कीदृग्गुणस्ते गुणारामः।
** सूत्रधारः—** ननु नाम्नैव दत्तोत्तरम्।
नटः— (विहस्य।) कथं नाम्नैव गुणावगमः।
सूत्रधारः— अथ किम्।
गुणग्रामाभिसंवादि नामापि हि महात्मनाम्।
यथा सुवर्णश्रीखण्डरत्नाकरसुधाकराः॥५॥
अपि च। किमिदं गुणारामे कथं नाम्नैव गुणावगम इत्युच्यते। यःखलु रतिजनकस्य राज्ञः सदसि हरचापारोपणं नाम रूपकमभिनीय परितुष्टेन राज्ञा समर्पितां रङ्गविद्याधराख्यातिं प्रियामिव समासादितवान्।
** नटः—** स पुनः संप्रति कं देशमभिनन्दयति।
** सूत्रधारः—** केनापि दाक्षिणात्येन नटापसदेन ममैवेदं गुणारामेति नामेति वदता रङ्गविद्याधराख्यातिरपहृता। तदाकर्ण्य गुणारामस्तामेवदिशं प्रचलितः। अधुना च श्रुतमस्माभिः यत्किल सुकण्ठनान्ना गायकेन सह मैत्रीं विधाय दाक्षिणात्यानां भूभुजां सदसि तेन सह रङ्गसंगरमुपक्रान्तवानिति।
** नटः—** अहो। महानुपक्रमः।
** सूत्रधारः—**उचितमिदम्। यतः।
कीर्तिं मृणालकमनीयभुजामनिद्र-
चन्द्राननां स्मितसरोरुहचारुनेत्राम्।
ज्योत्स्नास्मितामपहृतां दयितामिव खां
लब्धुं न कः परमुपक्रममातनोति॥६॥
तत्कथय कार्यम्।
नटः— इदमेव। यत्किल त्वयाभिनीयमानमवलोकयाम इति।
प्रत्यङ्कमङ्कुरितसर्वरसावतारं
नव्योल्लसत्कुसुमराजिविराजिबन्धम्।
घर्मेतरांशुरिव वक्रतयातिरम्यं
नाट्यप्रबन्धमतिमञ्जुलसंविधानम्॥७॥
** सूत्रधारः—** तत्कथं पुनरवधारणीयं किंनामधेयं नाटकमिति। (विमृश्य। सहर्षम्।) अये, कथमहं निजशिरः शेखरशयाल्वपि नीलोत्पलंरत्नाकरचपलवीचिमालापरिसरे विचारयामि। नन्विहैव श्लोकेऽष्टपङ्किक्रमाल्लिखिते स्फुटमति ‘प्रसन्नराघवं नाम’ इति।
** नटः—** (तमेव श्लोकं पठित्वा। सहर्षम्।) अहो, देव्याः कविकुलकुमुदविकासचन्द्रिकायाः प्रसादमहिमा सरखत्याः, यत्प्रसादादेवंविधाः कवीनां विचित्रमधुराः सूक्तयः समुल्लसन्ति।
** सूत्रधारः—**एवमेतत्। नन्वनेनैव कविनोक्तम्—
वाणि त्वत्पदपद्मरेणुकणिका या स्वान्तभूमिं सतां
संप्राप्ता कवितालता परिणता सैवेयमुज्जृम्भते।
त्वत्कर्णेऽपि चिराय यत्किसलयं सूक्तापदेशं शिरः-
कम्पभ्रंशितपारिजातकलिकागुच्छे विधत्ते पदम्॥८॥
(पुनर्विभाव्य।) मम पुनः कविकमलसद्मनि मुनौ वल्मीकजन्मनि मनःकौतुकितं यस्यैकमपि वदनारविन्दमासाद्य चतुर्मुखकमलवनविहारविनोदमनुभवति भारती नाम राजहंसी।
** नटः—**एवमेतत्। त्रिभुवनाभोगेऽपि हि
भास्वद्वंशवतंसकीर्तिरमणीरङ्गप्रसङ्गस्वन-
द्वादित्रप्रथमध्वनिर्विजयते वल्मीकजन्मा मुनिः।
पीत्वा यद्वदनेन्दुमण्डलगलत्काव्यामृताब्धेः किम-
प्याकल्पं कविनूतनाम्बुदमयी कादम्बिनी वर्षति॥९॥
(विमृश्य।) मम तु रामचन्द्र एव निर्भरमानन्दितोऽयं चित्तचकोरः।कीर्तिचन्द्रिकाचुम्बितोऽयं वाल्मीकेरपि सारस्वतसागरः समुल्ललास
सूत्रधारः— इत्थमिदम्।
चन्द्रे च रामचन्द्रे च नारीणां च दृगञ्चले।
नीलोत्पलसुहृत्कान्तौ कस्य नामोदते मनः॥१०॥
अपि च।
झगिति जगतीमागच्छन्त्याः पितामहविष्टपा-
न्महति पथि यो देव्या वाचः श्रमः समजायत।
अपि कथमसौ मुञ्चेदेनं न चेदवगाहते
रघुपतिगुणग्रामश्लाघासुधामयदीर्घिकाम्॥११॥
** नटः—** कथं पुनरमी कवयः सर्वे रामचन्द्रमेव वर्णयन्ति।
** सूत्रधारः—** नायं कवीनां दोषः। यतः।
स्वसूक्तीनां पात्रं रघुतिलकमेकं कलयतां
कवीनां को दोषः स तु गुणगणानामवगुणः।
यदेतैर्निःशेषैरपरगुणलुब्धैरिव जग-
त्यसावेकश्चक्रे सततसुखसंवासवसतिः॥१२॥
अपि च। भोः,
बीजं यस्य चिरार्जितं सुचरितं प्रज्ञा नवीनोऽङ्कुरः
काण्डः पण्डितमण्डलीपरिचयः काव्यं नवः पल्लवः।
कीर्तिः पुष्पपरम्परा परिणतः सोऽयं कवित्वद्रुमः
किं वन्ध्यः क्रियते विना रघुकुलोत्तंसप्रशंसाफलम्॥१३॥
** नटः—** कः पुनरस्य कविः।
** सूत्रधारः—**(सप्रणयकोपम्।)
विलासो यद्वाचामसमरसनिष्यन्दमधुरः
कुरङ्गाक्षीबिम्बाधरमधुरभावं गमयति।
कवीन्द्रः कौण्डिन्यः स तव जयदेवः श्रवणयो-
रयासीदातिथ्यं न किमिह महादेवतनयः॥१४॥
अपि च।
लक्ष्मणस्येव यस्यास्य सुमित्राकुक्षिजन्मनः।
रामचन्द्रपदाम्भोजे भ्रमद्भृङ्गायते मनः॥१५॥
** नटः—** कथमविदितचन्द्रमसश्चकोरकिशोरकस्य चरितमनुसृतोऽस्मि। तेन हि मम हस्ते निजनाटकमर्पयित्वेदमुक्तोऽस्मि— ‘रक्षणीयमिदंसूक्तिरत्नं चोरेभ्यः’ इति। स च मया सविनयमिदमुक्तः—
कर्णे निधाय च पिधाय च कण्ठपीठे
धृत्वा च मूर्धनि नते हृदये च कृत्वा।
चोरापहारचकितेन चिरं मयैष
त्वत्सूक्तिमौक्तिकगणः परिरक्षणीयः॥१६॥
** सूत्रधारः—** केयमलीकशङ्का तस्य कवेः।
सुललितवदनामुदारवृत्तां कृतिमथवा युवतिं परस्य हृत्वा।
तटमपि परमर्णवस्य गत्वा वद कतरः सुखभाजनं जनः स्यात्॥१७॥
नटः— एवमेतत्। नन्वयं प्रमाणप्रवीणोऽपि श्रूयते। तदिह चन्द्रिकाचण्डातयोरिव कवितातार्किकत्वयोरेकाधिकरणतामालोक्य विस्मितोऽस्मि।
सूत्रधारः— क इह विस्मयः।
येषां कोमलकाव्यकौशलकलालीलावती भारती
तेषां कर्कशतर्कवक्रवचनोद्गारेऽपि किं हीयते।
यैः कान्ताकुचमण्डले कररुहाः सानन्दमारोपिता-
स्तैः किं मत्तकरीन्द्रकुम्भशिखरे नारोपणीयाः शराः॥१८॥
** नटः—** अपि नाम स्वयमेव कविताकोविदाः पारिषदा अस्य सूक्तिभिर्विनोदिष्यन्ते।
** सूत्रधारः—** नन्वनेनैवोक्तम्—
अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः
परभणितिषु तोषं यान्ति सन्तः कियन्तः।
निजघनमकरन्दस्यन्दपूर्णालवालः
कलशसलिलसेकं नेहते किं रसालः॥१९॥
नटः— अहो अस्य कवेः सूक्तीनां सरलता कोमलता च।
सूत्रधारः— क्वचिद्वक्रता कठिनता च।
** नटः—** कथमेते अपि रमणीये।
** सूत्रधारः—** कथं किम्।
निन्द्यन्ते यदि नाम मन्दमतिभिर्वक्राः कवीनां गिरः
स्तूयन्ते न च नीरसैर्मृगदृशां वक्राः कटाक्षच्छटाः।
तद्वैदग्ध्यवतां सतामपि मनः किं नेहते वक्रतां
धत्ते किं न हरः किरीटशिखरे वक्रां कलामैन्दवीम्॥२०॥
अपि च।
अमृतजलधेः पायंपायं पयांसि पयोधरः
किरति करकास्ताराकारा यदि स्फटिकावनौ।
तदिह तुलनामानीयन्ते क्षणं कठिनाः पुनः
सततममृतस्यन्दोद्वारा गिरः प्रतिभावताम्॥२१॥
** नटः—** नूनमस्य कवेः किमपि कौतुकप्रमोदमेदुरमन्तःकरणं यदेवंविधाः सरसशीतलाः सूक्तयः समुल्लसन्ति।
** सूत्रधारः—** उचितमिदम्।
यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो
भासो हासः कविकुलगुरुः कालिदासो विलासः।
हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः
केषां नैषा कथय कविताकामिनी कौतुकाय॥२२॥
अपि च।
न ब्रह्मविद्या न च राजलक्ष्मीस्तथा यथेयं कविता कवीनाम्।
लोकोत्तरे पुंसि निवेश्यमाना पुत्रीव हर्षंहृदये करोति॥२३॥
(नेपथ्ये।)
साधु भोः, कुशीलवकुलोत्तंस साधु।
** सूत्रधारः—** कथमयं भगवतो याज्ञवल्क्यस्य प्रियोऽन्तेवासी दाल्भ्यायन इत एवाभिवर्तते। तदस्यानवलोकनीयचतुर्थवर्णस्य पुरतःस्थातुमनुचितमस्माकम्। तदेहि। परतो गच्छावः।
(इति निष्क्रान्तौ।)
इति प्रस्तावना।
_________
(प्रविश्य।)
** दाल्भ्यायनः—** (तमेव श्लोकं पठित्वा। साकूतम्।) साधूक्तमनेन। तथाहि। भूपतिरयं जनकोऽपि सकललोकलोचनारविन्दमार्तण्डे क्वचिदपि पुरुषप्रकाण्डे निजां कन्यां समर्पयितुकामोऽस्मद्गुरूपदिष्टायां ब्रह्मविद्यायां कुलक्रमागतायां राज्यलक्ष्म्यां च शिथिलादरः संवृत्तः। (पुनः कर्णं दत्त्वा।) कथमयमाकाशे वीणाध्वनिः श्रूयते। तन्नूनमस्माद्गुरूमभ्यागच्छता समीरसंघट्टनक्वलकणद्वल्लकीगुणेन देवर्षिणा नारदेन भवितव्यम्। (विलोक्य।) कथं ध्वनिसादृश्येन प्रतारितोऽस्मि। नन्वयं गगनतलावलम्बिनोर्मधुकरयोरेव ध्वनिराकर्ण्यते (पुनः कर्णं दत्त्वा। सहर्षविस्मयम्।) अहो, भगवतो योगीश्वरस्य प्रसादमहिमा येनाहमेवंवानामपि वचनावबोधमधुरां सिद्धिमासादितवानस्मि। तदाकर्णयामिकिमेतावालपतः। (कर्णं दत्त्वा।) एकः किमाह– ‘सखे कलालाप, कुत आगतोऽसि’। अपरः किमाह— ‘वयस्य मधुरप्रिय, संततविकस्वाराच्चन्द्रमौलिमन्दाकिनीकुमुदकानतात्’। अहो अनयोश्चतुरालापपेशलता रुचिरनामधेयता च। (पुनः कर्णंदत्त्वा।) किमाह मधुरप्रियः— ‘अस्ति नवीनः कोऽपि वृत्तान्तः। किमाह कलालापः— ‘अस्ति। अचिरमेव कदापि खलु बालनन्दनो बाणासुरः कमलमालया भगवन्तमिन्दुमौलिमभ्यर्च्य सविनयमिदमूचिवान्। यत्किल भगवन्,
कैलासाधिकसारं किमस्ति वस्तु महीतल।
यस्मिन्सफलतामेति मम दोर्दण्डमण्डलम्’॥२४॥
ततश्च विहस्येदमाह च भगवानिन्दुमौलिः—
‘अस्ति मे कार्मुकं दिव्यं न्यस्तं जनकभूभुजि।
यस्य वाणानले तिस्रः पुरः प्राप्ताः पतङ्गुताम्’॥२५॥
तदाकर्ण्य च तत्कार्मुकं विलोकयितुं स तत्र गतः। अहमिहागतः। कुतः पुनस्त्वमिह। कथय कीदृशो वा तत्र नवीनो वृत्तान्त इति।’ किमाह मधुरप्रियः— ‘अहमागतोऽस्मि नन्दनवनात्। अथ च तत्र मया लङ्केश्वरानुचरस्य गर्जितमाकर्णितम्— आः कथं रे, नन्दनवनस्य रक्षिणोऽनर्चितचन्द्रचूड एव निशाचरचक्रवर्तिनि लूनसकलप्रसूनं नन्दनवनमिति। ततस्तैरिदमुक्तो निशाचरः— क्षन्तव्यमेतत्। अद्य हि जनकराजकन्यकावीरस्वयंवरविलोकनकुतुकितसकलसुरलोकविमानमण्डनाय म-
हान्कुसुमोपयोगः। तदाकर्ण्य चेममेव वृत्तान्तमुपायनीकरोमि लङ्केश्वरस्येति प्रचलितो निशाचरः। अहमपि कौतुकादिहागतोऽस्मि।’ (सविषादम्।) अहो महाननर्थाङ्कुरोद्भेदो यदयं बाणरावणयोः कर्णान्तिकमपि विश्रान्तः सीतास्वयंवरवृत्तान्तः। अथवा। अलमतिकातरतया। भ्रमारोपिता अपि भ्रमरोक्तयः संभवन्ति। (विमृश्य।) कुतो वा भ्रमरसंभावना।
मकरन्दरसस्यन्दसुन्दरोद्गारधारिणौ।
श्रवणानन्दिनावेतौ बन्दिनाविव राजतः॥२६॥
(नेपथ्य।)
साधु भगवन्, विज्ञातं बन्दिनावेव खल्वावां नानादिगन्तसमागतनृपतिचक्रवर्णनाय जनकेन समादिष्टौ।
दाल्भ्यायनः— अहो घुणाक्षरन्यायो यदिदं भ्रमरद्वयं प्रति मयोक्तं बन्दिद्वयं प्रति फलितं वचः। भवतु। तदिमं भ्रमरवृत्तान्तमस्मद्गुरवे निवेदयामि।
(इति निष्कान्ताः।)
इति विष्कम्भकः।
________
(ततः प्रविशति बन्दिद्वयम्।)
**एकः—**बअस्स1 मञ्जीरअ, पेक्ख पेक्ख। गइन्ददसणसिणिद्धसलाआसहस्सणिम्मिदेसु मञ्चएसु आसीणा इमे कुङ्कुमकअङ्गराआ राआणणे अमलफडिअपासाअसिहरासङ्गिणो कणअसिंहा विअ रेहन्ति। अमुद्धदुद्धसाअरलहरिसिहरावलम्बिणो अभिणवुग्गमन्तणिसाअरबिम्बपडिबिम्बा विअ सोहन्ति।
मञ्जीरकः— सखे नूपुरके, पश्य पश्य।
स्वां वां दिशं श्रितवतां निवहेन राज्ञां
मञ्चावलीवलयमाकलितं विभाति।
सीतास्वयंवरविलोकनकौतुकेन
पुञ्जीकृताकृति दिशामिव चक्रवालम्॥२७॥
अपि च।
नटति नरकराग्रव्यग्रसूत्राग्रलग्न-
द्विपदशनशलाकामञ्चपाञ्चालिकेयम्।
त्रिपुरमथनचापारोपणोत्कण्ठिताना-
मतिरभसवतीव क्ष्माभृतां चित्तवृत्तिः॥२८॥
नूपुरकः— वअस्स2 मञ्जीरअ, को इमो सीदाकरग्गहवासनावसन्तलच्छीविलसन्तपुलअमुउलजालमण्डिदं णिअभुअसहआरसाहिजुअलं पुलोवन्तो चिदि।
** मञ्जीरकः—** स एष निजयशः परिमलप्रमोदितचारणचञ्चरीकचयकोलाहलमुखरितदिक्चक्रवालक्ष्मापालकुन्तलालंकारो मल्लिकापीडो नाम।
** नूपुरकः—** इमो3 उण कदमो जो किल दूरावसारिअकडअप्पअडिअधणुग्गुणकिणकसणलेहामण्डले भुअदण्डे पुलोवन्तो चिट्टदि।
** मञ्जीरकः—** सोऽयं कुबेरदिगङ्गनाललाटतटविलासलम्पटः काश्मीरतिलकः।
** नूपुरकः—** इमो4 उण को निअपड़ावदिणअरुग्गमपुव्वगिरिसिहरसहअरं दक्खिणभुअदण्डमुन्नमिअ वट्टदि।
** मञ्जीरकः—** स एष निजप्रतापप्रभापटलपिञ्जरितमलयाचलनितम्बतटः काञ्चीमण्डनो वीरमाणिक्यनामा नृपतिः।
** नूपुरकः—** को5 इमो हरिसुल्लसन्तपुलअविसंटुलकपोलत्थलचलिअकुण्डलसरिसनिवेसणावदेसेण पअडिअहरसरासणकण्णऊरमनोरहो रेहदि।
** मञ्जीरकः—** (सविपादम्।)
आद्वीपात्परतोऽप्यमी नृपतयः सर्वे समभ्यागताः
कन्येयं कलधौतकोमलरुचिः कीर्तिश्च लाभास्पदम्।
नाकृष्टं न च टात्कृतं न नमितं स्थानाच्च न त्याजितं
केनापीदमहो धनुः किमधुना निर्वीरमुर्वीतलम्॥३२॥
(नेपथ्ये।)
आः, कोऽयमलीकवैतालिको धनुर्मात्रकेऽपि नमयितव्ये निर्वीरमुर्वीतलमुपदिशति।
नूपुरकः— वअस्स6, कस्स इमो महीअलचलन्तराहुरह चक्करवकक्कसो कण्ठधुणी सुणीअदि।
मञ्जीरकः— मयाप्ययमपरिचितः। तदेनं पृच्छामि तावत्। (परिक्रम्य।) अहो, कः खलु भवान्यः सकलदेशदर्शिनो ममापि न विख्यातः।
(प्रविश्य।)
** पुरुषः—** (साटोपं परिक्रम्य। सक्रोधम्।) आः पाप, वैतालिकापसद,। कतिपयग्रामटिकापर्यटनदुर्विदग्ध, कथं मामपि दश— (इत्यर्धोक्ते स्वागतम्।) कथं संवरणीयं विवरितुमुपक्रान्तोऽस्मि। भवतु। इदमेव तावन्निर्वाहयामि। कथं मामपि दशदिग्विलासिनीकर्णपूरीकृतकीर्तिपल्लवं त्रिभुवनवीरनामधेयं कूपमण्डूक इव सागरमविख्यातमपदिशसि। तत्कथय क्व तावत्कर्णान्तनिशमयगुणं कन्यारत्नं कार्मुकं च।
** मञ्जीरकः—** इदं तावत्कार्मुकम्। कन्या तु चरमं लोचनपथमवतरिष्यति।
पुरुषः— (ससंरम्भम्।) धिङ् मूर्ख। कथं रे, राशिनक्षत्रपाठकानां गोष्ठीं न दृष्टवानसि। तेऽपि कन्यामेव प्रथमं प्रकटयन्ति, चरमं धनुः।
मञ्जीरकः— (स्वगतम्।) कथमयं वाचाटतां प्रकटयति। भवतु। अनयैव तावदेनं निवारयामि। (प्रकाशम्।) अये, एतावति वीरमण्डले भवानेव नक्षत्रविद्याकुशलः।
पुरुषः— (सक्रोधम्।) आः, कथं रे, अहमेव क्षत्रविद्यायामकुशलः।
** मञ्जीरकः—** तत्कथं कार्मुकमन्तरेणैव कन्याविलोकनायोत्कण्ठसे।
** पुरुषः—** (साटोपम्। परिक्रम्य।) कथं ममापि चापारोपणे संशयः।
** मञ्जीरकः—** अथ किम्।
** पुरुषः—** तदेष ममाभिसंभाव्यते। यदि।
विनैवाम्भोवाहं बहुलरुचिलिप्ताम्बरतला-
त्तडिल्लेखा हेमद्युतिविततिरम्या विलसति।
यदि वा।
विनैव स्वर्गङ्गां नभसि रभसोन्मुद्रशफरी-
परीवर्तैःसाकं स्फुरति नवनीलोत्पलवनम्॥३३॥
(विलोक्य सविषादम्।) कथमस्मत्प्रतिज्ञाभङ्गाय विपरीतं सृष्टिनैपुणं प्राणतवान्विधिः। नन्विदं तथैव पश्यामि। (विमृश्य।) अथवा कविधिरपि मद्विरोधाय।
मयि क्षीरोदन्वन्निभृतमुरजिन्नाभिनलिनीं
निजक्रीडावापीजलकमलिनीं कर्तुमनसि।
पदभ्रंशाशङ्की मधुरमधुरालापचतुरै-
श्चतुर्भिः स्वैर्वक्रैरनुनयपरोऽभूदयमपि॥३४॥
(पुनर्निपुणं निरूप्य।) अये, सादृश्येन प्रतारितोऽस्मि।
तडिल्लेखा नेयं विलसति परं सौधशिखरे
वसन्त्याः कस्याश्चित्कनकरुचिरा गात्रलतिका।
अपीदं नोन्मज्जत्कुवलयवनं मीनतरलं
परं तस्या एव स्फुरति नयनालोकललितम्॥३५॥
(विभाव्य।) नूनं तदेव सीताभिधानं कन्यारत्नम्। (पुनः सहर्षम्।)
राजीव जीवसि मुधा न सुधाकर त्व-
मस्याः समः पदनखस्य कुतो मुखस्य।
अग्रे दृशोर्मृगदृशः कतमः कुरङ्ग-
स्तत्खञ्जन त्वमपि किं जनरञ्जनाय॥३६॥
(पुनः सरभसम्।)
कदली कदली करभः करभः करिराजकरः करिराजकरः।
भुवनत्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः॥३७॥
** मञ्जीरकः—** सखे नूपुरक, किमेतत्। कस्याश्चिदपि हस्तादादायसानन्दमालोकयत्यन्तःपुरिको जनः।
** नूपुरकः—** अहं7 एरिसं संभावेमि जं किर गुरुभवणादो आगदाएचन्दणिआए समष्पिदं चित्तपडं पुलोवेदि त्ति।
** मञ्जीरकः—** स त्वया दृष्टश्चित्रपटः।
** नूपुरकः—** भट्टदारिआ8 दाव अणच्च को वि णीलुप्पलदामसामलओकुसुमसरसरिसरूओ कुण्डलीकिदहरचावो चक्कवट्टिकुमारो।
** मञ्जीरकः—** अहह, मुग्धः खल्वबलाजनः। यदेवमपि कठोरप्रतिज्ञेराजनि किशोरवयसं जामातरमाशंसति। सखे, जानासि केन लिखितंचित्रमिति।
** नूपुरकः—** जाणामि9 महेसिणो जणकस्य दुहिआए धम्मआरिणीए।
** मञ्जीरकः—** (सहर्षम्।) इदानीमुद्धिन्नो मम मनोरथाङ्करः। देवीहि मैत्रेयी सिद्धयोगिनी कालत्रयदर्शिनी सा नालीकमालिखति।
** नूपुरकः—**सव्वं10 संभावीअदि जइ इमो जरठङ्गो इदो ओसरदि।
** मञ्जीरकः—** आः, कोऽयं किमिदम्। एनमपसारयामि। अये,किमितस्ततो विलोकयसे। नन्विदं शांभवं धनुः। तदिहैव दीयतां दृष्टिः।
** पुरुषः—** आः, किमुच्यते दृष्टिरिति। नन्वियं मुष्टिरपि दीयते।
(परिक्रम्य शेखरभ्रंशमभिनीय सविषादं विलोकयति।)
मञ्जीरकः—
अये लङ्केश विस्रस्तशेखरालोकनेन ते।
समयो याति तत्तूर्णं गृहाण हरकार्मुकम्॥३८॥
** पुरुषः—** (स्वगतम्) कथमनेन विदितोऽस्मि। (विमृश्य।) अथवाघुणाक्षरन्यायगतं शब्दसादृश्यमेतत्। (प्रकाशम्। ससंरम्भम्।)
सावलेपकमनीयमुदस्य क्रीडयैव विनिबध्य च मौर्वीम्।
कृष्टमेव हरकार्मुकमेतद्दृश्यमत्र सुदृशो हृदयं च॥३९॥
(धनुषि हस्तमर्पयित्वा। स्वागतम्।) कथं न चलत्यपि। भवतु। (प्रकाशम्।) अये, धनुरिति वक्रः पन्थाः। तत्सरलेन करवालधारापथेन सीतामानयामि।
** मञ्जीरकः—** कथमतिप्रगल्भसे। न विलोकयसि।
रोषारुणीकृतविलोचनकान्तिभिन्न-
भ्रूभङ्गभीमघटितभ्रुकुटीविटङ्कम्।
उत्खातलोलकरवाललताकराल-
दोर्दण्डचण्डचरितं नरवीरचक्रम्॥४०॥
** पुरुषः—** (कृपाणमुद्यम्य। परितो विलोक्य।) पश्यत पश्यत।
निर्भिन्नवैरिकरिकुम्भतटीविमुक्त-
मुक्ताफलप्रकरतारकिताम्वरश्रीः।
यः कालरात्रिरिव भाति रणे स एष
रे रे नृपा मम कृपाकृपणः कृपाणः॥४१॥
(आकाशे कर्णं दत्त्वा।) किं ब्रूथ।
एकः कथं बहुतरैः सुभटैः करोमि
संग्रामडम्बरमिति त्यज रे विषादम्।
यं मन्यसे सुलभमत्र सहैव तेन
चेतो निधेहि समरे समरेखयैव॥४२॥
अहो धृष्टता मनुष्यकीटानाम्। तदेता न्निजमूर्त्यैव तावद्भीषयामि। (साटोपं निष्क्रान्तः।)
(नेपथ्ये।)
मन्दाकिनीकनकपद्मबिसाङ्कुराणां
किंचोग्रदिग्गजलसद्दशनाङ्कुराणाम्।
उन्मूलनैरलमनीयत शैशवं यै-
स्तेऽमी निजा मम भुजाः प्रकटीभवन्तु॥४३॥
(ततः प्रविशति निजरूपेण दशकण्ठः।)
** नूपुरकः—**वअस्स11, पेक्ख पेक्ख कोदूहलं जं एकस्स वि माणुसहसदस मत्थआहं।
** मञ्जीरकः—** नैष मानुषः। राक्षसराजः खल्वसौ दशकण्ठः।
** नूपुरकः—**ता12 परित्ताअदु मं वअस्सो। णं रक्खसमत्तोजेव्वसंमुहपडिदं माणुसं चव्वेह किं उण रक्खसराओ।
** मञ्जीरकः—**अलं कातरतया। सकलवीरवृन्दवन्दनीया हि बन्दिजातिः। तत्कथमस्मद्विधेषु सकलभुवनैकवीरो विपरीतं वर्तिप्यते दशकण्ठः।
** नूपुरकः—** (सहर्षम्।) जदि13 एरिसं ता किंपि इमं णीसको पुस्सिस्सम्। (उपसृत्य।) अये, किंति एत्तिआइंमत्थआइंउव्वहीअन्ति किंतिवा एक रक्खिअ उण अवराइंजत्तकुत्तवि ण णिक्खिप्पन्ति।
** रावणः—** आः पाप, कथमस्थाने शिरश्छेदवार्तयाऽमङ्गलमावेदयसि।तदेष वैतालिक इत्युप्रेक्ष्यः।
** मञ्जीरकः—** (विहस्य।) स्थाने शिरश्छेदवार्तापि भवतो मङ्गलाय।
** रावणः—** अथ किम्। ननु रे,
विद्याधरप्रणयिनीकरपल्लवाग्र-
लीलाविमुक्तकुसुमप्रकरावकीर्णे।
श्रीचन्द्रचूडचरणे च रणे च कामं
छिन्नोऽपि मस्तकगणो मम मङ्गलाय॥४४॥
** नूपुरकः—** जदि14 एरिसो तुमं ता किंति णिअरूअं संगोविअ चोराव्व पविट्ठसि।
** रावणः—**धिङ् मूर्ख। न जानासि रे,
ये चन्द्रचूडाचलचालनैकचातुर्यचिन्तामणयो भुजा मे।
तैरेव भूयिष्ठतैरैः प्रवृत्तश्चापाधिरोपाय कथं न लज्जे॥४५॥
तत्कथय कुत्र जानकीति।
** मञ्जीरकः—** (सविषादम्।)
यस्याः स्वयं कुलगुरुः किल याज्ञवल्क्य—
स्तातः स एष जनको जननी धरित्री।
सापि त्वमद्य वत दुर्विधिशैशवेन
वत्से निशाचरकराङ्कगता भवित्री॥४६॥
** नूपुरकः—** (अपवार्य।) अलं15 तावेण। कहं एत्तिअमेत्तम्मि वीरमण्डले कोवि णत्थि जो इमस्स हठप्पउत्तस्स पुरदो होदि।
** मञ्जीरकः—** कुपितस्य दशकण्ठस्य कः संमुखे भवति क्षत्रिय ऋतेसहस्रबाहोः कार्तवीर्यात्।
** नूपुरकः—** (सहर्षम्।) जीविदं16ह्य। पेच्छ णं पत्तो सहस्सबाहूकिदवीरपुत्तो।
** मञ्जीरकः—** धिङ् मूर्ख। जामदग्न्यकुठारधाराजलनिमग्नः व संप्रतिकार्तवीर्यः। तन्नूनमयं बाणासुरो भविष्यति। हन्त भोः, तदिदमनर्थान्तरम्। (विमृश्य।) अथवा विषस्य विषमौषधं भविष्यति।
(ततः प्रविशति बाणासुरः।)
** बाणासुरः—** (परिक्रम्य। साटोपम्।)
कैलासशैलशिखरादपि भूरिसारं
निःसीमभारमधुना धनुरिन्दुमौलेः।
आलम्ब्य पुप्पसदृशं करपल्लवेन
स्फीतं भुजद्रुमवनं सफलं करोमि॥४७॥
** रावणः—** (अनाकर्णितकेन।) कथमद्यापि नानीय जानकी।
** बाणः—** (विलोक्य। स्वगतम्।) कथमिह दशकण्ठोऽपि। (प्रकाशम्।) अहो एतावति वीरलोके न केनापि तावदारोपितमैश्वरं धनुः।
** नूपुरकः—** नारोपणीयं च।
** रावणः—** कथमद्यापि नानीयते सीता। तदयं चन्द्रहास एव मेबलादानयति।
** वाणः—** (विहस्य।) यदीदृशं वीरडम्बरं तत्किमारोप्यैव हरकार्मुकंनानीयते सीता।
** रावणः—** आः, कोऽयमलीकपण्डितः।
उद्दण्डचण्डिमलसद्भुजदण्डखण्ड-
हेलाचलाचलहराचलचारुकीर्तेः
कीदृग्यशस्तुलितबालमृणालकाण्ड-
कोदण्डकर्षणकदर्थनयानया मे॥४८॥
** वाणः—** सोऽयमशक्तिप्रकारः।
** रावणः—** आः, कथं दशमुखस्याप्यशक्तिसंभावना।
** बाणः—** (विहस्य) अये, बहुमुखता नाम बहुप्रलापितायाः कारणम्।विक्रमस्य बहुबाहुतैव।
** रावणः—** आः, कथं रे, पलालभारनिःसारेण भुजभारेण वीरंमन्योऽसि।
** बाणः—** (सक्रोधम्।) अये समरकलाकुण्ठ दशकण्ठ, ममापि भुजभारं निःसारं व्यपदिशसि। न जानासि किं। यतोऽत्रैव
पितुः पादाम्भोजप्रणतिरभसोत्सिक्तहृदयः
प्रयातः पातालं न कतिकतिवारानकरवम्।
सहस्रे वाहूनां क्षितिवलयमासज्य सकलं
जगद्भारोद्वेलां फणफलकमालां फणिपतेः॥४९॥
** रावणः—** अरे, चलितनयवृत्तिरसि। यदलीकविक्रमवर्णनया सत्यविक्रमस्य मे पुरतः स्वात्मानं विडम्बयसि।
** बाणः—**कथं त्वमेव सत्यविक्रमः।
** रावणः—** अथ किम्।
दोष्णां न मे विदितवानसि वीरलक्ष्मी-
प्रासादविश्रमवतीं पदवीं गरिष्ठाम्।
ये चन्द्रशेखरगिरौ करपल्लवाङ्क-
पर्यङ्कशायिनि दधुः कलशप्रतिष्ठाम्॥५०॥
** बाणः—** अलमलीकवाग्विग्रहेण। तदिदं धनुरावयोस्तारतम्यं निरूपयिष्यति।
** मञ्जीरकः—** अये बाणरावणौ, किमिदं नरवीरैकसमर्पणीयसीतापरिणयमनोरथेन विफलमायास्यते चेतःपदवी।
** वाणः—** किमेतावता।
त्रिपुरमथनचापारोपणोत्कण्ठिता धी-
र्मम न जनकपुत्रीपाणिपद्मग्रहाय।
अपि तु बहुलबाहुव्यूहनिर्व्यूहमाला-
वलपरिमलहेलाताण्डवाडम्बराय॥५१॥
** रावणः—**
उन्मीलितेन शिखरेण हराचलस्य
प्रागेव मे भुजवनस्य कृता परीक्षा।
एषा विदेहतनयाकुचकुम्भकेलि-
कौतूहलाद्गिरिशकार्मुककर्मदीक्षा॥५२॥
(नेपथ्ये।)
असुरसुरनिशाचरोरगाणामपि नरकिंनरसिद्धचारणानाम्।
नमयति यदि कोऽपि चापमेतन्मम दुहितुः स करग्रहं तनोतु॥५३॥
** रावणः—**
रे रे भुजाः कुरुत चन्द्रकलाकिरीट-
कोदण्डकर्षणयशोधवलां त्रिलोकीम्।
अङ्गीकुरुध्वमचिराश्च विदेहपुत्री-
वक्षोजचन्दनरजःपरिधूसरत्वम्॥५४॥
(धनुरालोक्य। स्वगतम्।) अये, दुर्विगाहमिदम्। तदलमनेन। (प्रकाशम्।)बाण, त्वमेव तावदग्रे धनुरारोपय। अस्माकमपि नूतनागतत्वेन मान्योऽसि।
** बाणः—** तथास्तु। (इति। परिक्रामति।)
** रावणः—** (स्वगतम्।) अरे हृदय, अलं कातरतया। अयं तावत्कतरः कुण्ठीकृतदशकण्ठे शितिकण्ठकार्मुके।
अन्योऽपि कोऽपि यदि चापमिमं विकृष्य
सीताकरग्रहविधिं विदधीत धीरः।
लङ्कां नयामि च गिरानुनयामि चैनां
द्वागानयामि च वशे जनकेन्द्रपुत्रीम्॥५५॥
** मञ्जीरकः—** सखे पश्य।
ब्राणस्य बाहुशिखरैः परिपीड्यमानं
नेदं धनुश्चलति किंचिदपीन्दुमौलेः।
कामातुरस्य वचसामिव संविधानै-
रम्यर्थितं प्रकृतिचारु मनः सतीनाम्॥५६॥
** रावणः—** (सविषादमात्मगतम्) कथमियं सीतानुनयप्रत्यूहपिशुनेवदुरूपश्रुतिः। (प्रकाशम्।) अये वाण, अपि नाम ते पलालभारनिःसारोभुजभारः।
** बाणः—** कथं भुजमण्डलमिदमालोकयन्नपि कटुभाषितां न मुञ्चसि।
** रावणः—** तत्किमनेन करिष्यसि।
** बाणः—** यत्कृतं हैहयराजेन।
** रावणः—** इदमसौ ते भुजवनं निजप्रतापानले निर्दहामि।
** वाणः—** इदमहं त्वत्प्रतापानलमनेकरुचिरचापचुम्बितनिजबाहुबलाहकनिवहनिर्मुक्तनाराचधारासारैः शमयामि।
** रावणः—**
रे बाण मुञ्च मयि बाणशतानि पञ्च
नन्वस्ति मे करतले करवालवल्ली।
रे पञ्चबाण विवृणु त्वमपि स्वबाणा-
न्नन्वेति सा युवतिलोकललामवल्ली॥५७॥
** नूपुरकः—** अये17 वाणलावणा, सअं जेव्व अप्पाणं वण्णअन्तौ णलज्जेथ।
** रावणः—** धिङ् मूर्ख, कथमात्मैकश्लाघ्यो दशकण्ठः। ननु रे,
मन्दोदरीकुटिलकोमलकेशभार-
मन्दारदाममकरन्दरसं पिबन्तः।
वीणानिनादमधुरध्वनिमुद्गिरन्तो
मद्विक्रमं मधुकरा अपि कीर्तयन्ति॥५८॥
द्वितीयोऽङ्कः।
(ततः प्रविशति तापसः।)
** तापसः—** (समन्तादवलोक्य।) अहो, अयमनेकशुकशावकानुगमनिकामहरिल्लतावितानमनोरमारामरमणी-यसंनिवेशप्रदेशः। (नेपथ्याभिमुखमवलोक्य।) कथमयं भिक्षुः। भिक्षो, इत इतः।
(प्रविश्य।)
** भिक्षुः—** अपि कुशलं तापसस्य।
** तापसः—** क्षेममस्माकम्। युष्माकं च कुशलम्।
** भिक्षुः—** इदानीं विशेषतो भवद्दर्शनात्।
** तापसः—** (पुनः सप्रणयम्।) ननु कीटवनमहीपर्यटनेन श्रान्तो भवान्। तदिह मिथिलायां पञ्चरात्रनिवासेन श्रमोऽपनेतव्यः। प्रसङ्गादयं च राजा जनको द्रष्टव्यः।
** भिक्षुः—**किमस्माकं निरीहाणां राजदर्शनेन।
** तापसः—** नूनमयं ब्रह्मविद्याविनोदकुशलः खलु सीरध्वजः। तेन द्रष्टुमुचित एव भवादृशान्।
** भिक्षुः—** अये, राजापि ब्रह्मविद्यावानिति सत्यमेतत्।
** तापसः—** भिक्षो, सत्यमेतत्। देवस्य दश— (इत्यर्धोक्ते।) देवस्यशितिकण्ठस्याज्ञा।
** भिक्षुः—**(विहस्य।) अलमपलापेन। विदितं मया। राक्षसः खलुभवान्।
** तापसः—**तत्कथय विश्रब्धं को भवानिति।
** भिक्षुः—** अहमपि भवादृश एव कोऽपि राक्षसः।
तापसः— तदाकर्ण्यताम्। अहं हिं सकलमन्त्रिमुकुटमाल्येन माल्यवता प्रहितस्ताटकावनम्। आकर्णितं हि तेन यत्किल कोऽपि कौशिकोनाम मुनी राजानमयोध्यापतिमेत्य स्वमखरक्षणाय तस्य रामनामानंतनयं सानुजं याचितवान्। तेन चावश्यं माननीयो मुनिरिति निजनयनाभ्यामपि प्रियतमौ निजतनयौ तस्य समर्पितौ।
** भिक्षुः—** ततस्ततः।
** तापसः—**ततस्तेन मुनिना पारितोषिकं ताटङ्कयुगमर्पितं तस्य राज्ञः। उक्तं च— ‘राजन्, दिव्यमिदं ताटङ्कयुगम्।
तदिदं वीरसूकर्णनिवेशोचितमित्यसौ।
अन्तःस्फुरन्ती रत्नानां वर्णमालेव शंसति॥१॥
तेन च कौसल्याकर्णयोर्निवेशनीयम्’ इति। अनुमतं च राज्ञा।राजकुमारद्वयानुगतेन निजाश्रमपदं प्रति गतं च मुनिना।
** भिक्षुः—** ततस्ततः।
** तापसः—** तदिदमाकर्ण्य तत्ताटङ्कयुगं लङ्केश्वरजनन्या निकषायाएव कर्णोचितमिति विचिन्त्य तदाहरणाय पूर्वमेव ताटकां प्रति निंजानुचर एकः प्रस्थापितः। अधुना च नूनं ताटकया तत्ताटङ्कयुगमाहृतमिति विचार्य तदानयनाय ताटकां प्रत्यहं प्रहितः।
** भिक्षुः—** कथं पुनरिदं वृत्तान्तजातमाकर्णितं माल्यवता।
** तापसः—**
वार्ता च कौतुकवती विमला च विद्या
लोकोत्तरः परिमलश्च कुरङ्गनाभेः।
तैलस्य बिन्दुरिव वारिणि दुर्निवार-
मेतत्त्रयं प्रसरति स्वयमेव भूमौ॥२॥
विशेषतश्च बहुतरप्रणिधिप्रणिधायी माल्यवान्।
** भिक्षुः—**तत्कथं मिथिलोपवने भवान्।
** तापसः—** आकर्णितं हि मया मिथिलामागतो लङ्केश्वर इति।अतस्तद्विलोकनाय प्रथममिहागतः। अधुना च ताटकावनं यास्यामि।तत्कथय तावद्भवान्पुनः कतरः।
भिक्षुः— अहमपि स एव यः प्रथमं ताटकां प्रति प्रहितः। मिथिलोपवनागमनकारणं समानमावयोः।
** तापसः—** (सहर्षम्।) तत्कथय तावत्। तत्किं सताटङ्कमधुना ताटकावनम्।
** भिक्षुः—** सताटकमिति तावत्पृच्छा।
** तापसः**—क्वपुनः संप्रति ताटका।
** भिक्षुः—** पुरीं प्रविष्टा।
** तापसः—** तत्किं दशरथस्य।
** भिक्षुः—** नहि नहि।अन्तकस्य।
** तापसः—** केन पुनः प्रतिहारायितमन्तकपुरीप्रवेशे तस्याः।
** भिक्षुः—** रामबाणेनैव।
** तापसः—** क एष रामः। (विसृश्य।) नूनं स एव यः खलु दशरथकुमारयोरग्रजः। तत्कथय क्व पुनरधुना ताटकातनयौ।
** भिक्षुः—** सुबाहुस्तावत्ताटकामेवानुगतः। मारीचोऽपि शिशुक्रीडोचितरामनाराचपीडितो जीवन्मुक्त इव दूरं क्षिप्तः।
** तापसः—**तत्कथमिदानीं न कथितं केनापि लङ्केश्वरस्य।
** भिक्षुः—** कथितमेव किलेदमाक्रन्दता मारीचेन।
** तापसः—**तत्कथं कुपितो न लङ्केश्वरः।
भिक्षुः— सीताभिलाषशीतले लङ्केश्वरचेतसि नारूढ एव कोपपरितापः।
** तापसः—**-क्व पुनरधुना रामलक्ष्मणौ।
** भिक्षुः—** श्रुतं मया कौशिकानुपदं तदाश्रमान्मिथिलां प्रति प्रचलिताविति। (विलोक्य। सत्रासम्।) कथमिमौ तावित एवाभिवर्तेते। तदस्यनिशाचरवैरिणो रामस्य पुरतः स्थातुमनुचितमावयोः।
(इति निष्क्रान्तौ।)
इति विष्कम्भकः।
(ततः प्रविशतो रामलक्ष्मणौ।)
** रामः—** वत्स लक्ष्मण, पश्य पश्यारामरामणीयकम्।
** लक्ष्मणः—** आर्य निसर्गरमणीयोऽयमारामः। अधुना तु मधुमासावतारेण नितान्तरमणीयः।
** रामः—** (सहर्षम्) कथमवतीर्णैव मधुमासलक्ष्मीः। (विमृश्य।) एवमेतत्। तथाहि।
इह मधुपवधूनां पीतमल्लीमधूनां
विलसति कमनीयः काकलीसंप्रदायः।
(नेपथ्ये।)
भर्तृदारिके, इत इतः।
** रामः—** कथमियं राजकुमारिका। तदालोकयामि तावत्। (विलोक्य। सहर्षकौतुकम्।)
केयं श्यामोपलविरचितोल्लेखहेमैकरेखा-
लग्नैरङ्गैः कनककदलीकन्दलीगर्भगौरैः।
हारिद्राम्बुद्रवसहचरं कान्तिपूरं वहद्भिः
कामक्रीडाभवनवलभीदीपिकेवाविरस्ति॥७॥
(ततः प्रविशति सीता सखी च।)
** सीता—**हला18 पेक्ख पेक्ख। अज्ज इममुज्जाणं वसन्तसहअरेणसअं जेव्व मम्महेणालंकिदं विअ अतिमेत्तंरमणिज्जं पडिहादि।
** सखी—** अनवद्याङ्गि, एवमेतत्।
** रामः—** अये, सर्वानवद्याङ्गीति वक्तव्यम्। नन्वस्याः
बन्धूकबन्धुरधरः सितकेतकाभं
चक्षुर्मधूककलिकामधुरः कपोलः।
दन्तावली विजितदाडिमबीजराजि-
रास्यं पुनर्विकचपङ्कजदत्तदास्यम्॥८॥
(पुनर्निर्वर्ण्य।) अहो, मुग्धाया अप्यस्याः प्रकृतिकमनीयपदार्थपरिशीलनौचित्यचातुरी। तथाहि। इयं हि
पदाभ्यामुन्निद्रामधरयति शोणाम्बुजरुचिं
कराभ्यामादत्ते नवकिसलयानामरुणताम्।
प्रवालस्य च्छायां दशनवसनाग्रेण पिबति
स्मितज्योत्स्नापूरैरुपहसति कान्ति हिमरुचेः॥९॥
** सखी—**भतृदारिके, इदं तच्चण्डिकायतनम्।
** सीता—** (अञ्जलिं बद्ध्वा।)देवि19, ससहरमौलिदेहाद्धधारिणि, त्रिहुअघरसुआसिणि, णमो णमो दे।
** सखी—** समुचितैव प्रमाणपरिपाटी।
सीता— (सप्रणयकोपम्।) अलमलीअजप्पिदेण20।
** सखी—** (अञ्जलिं बद्ध्वा।)
कान्तमिन्दुमणिदामकोमले कोमलेन्दुमुकुटाङ्कशायिनि।
इन्दुचारुमचिरेण विन्दतामिन्दुसुन्दरमुखी सखी मम॥१०॥
** रामः—** अये, कथमस्याः परिणयमनोरथप्रणयी सखीजनः। (विमृश्य) उचितमेतत्। वयःसंधौ खल्वियं वर्तते। तथाहि।
अपक्रान्ते बाल्ये तरुणिमनि चागन्तुमनसि
प्रयाते मुग्धत्वे चतुरिमणि चाश्लेषरसिके।
न केनापि स्पृष्टं यदिह वयसा मर्म परमं
तदेतत्पञ्चेषोर्जयति वपुरिन्दीवरदृशः॥११॥
** सखी—** अयि देवि, सत्वरं मे पूरय मनोरथम्। यावदियं न दुर्मनायते सखी।
सीता— (सप्रणयकोपम्) किंति21 दुम्मणायिस्सम्।
** लक्ष्मणः—** अयि राजहंसकन्यके, किमिति दुर्मनायसे। अयं ते चूतविटपान्तरितः कान्तः।
** सीता—** हला22, कस्स इमो करिकलहकण्ठनिग्घोसमहुरो कण्ठसद्दो सुणीअदि। ता णिरूवेह्म।
** रामः—** (सविषादम्।) कथमियमन्तरितैव लतया। (लतां प्रति।)
स्तनविजितस्तबकश्रीरधराधरितप्रवालनवलक्ष्मीः।
अयि लतिके तिरयन्ती तरलदृशं मावलम्बसे लज्जाम्॥१२॥
(पुनः सहर्षम्।)
श्यामच्छवीनामियमन्तराले प्रादुर्भवन्ती कदलीदलानाम्।
कलेव चान्द्री नवनीरदानां चकोरवन्मां मुदितं करोति॥१३॥
(पुनः कदलीं प्रति।)
हे बालहेमलतिके ध्रुवमीहसे त्व-
मूरुश्रियं कलयितुं तरलायताक्ष्याः।
एनां विलम्बय विलासवतीं चिरं हि
स्त्रीणां कलाः परिचिताः स्थिरतां प्रयान्ति॥१४॥
** सीता—** हला23, को इमो कणअवण्णो सिहण्डिपिच्छमण्डिदकण्णयूरो मुद्धत्तणविमुकलोअणविआरो कुमारो दीसदि। इमं पेक्खन्तीए मह णिअवच्छम्मि विथ वच्छत्तणपच्छालिअं हिअअं वट्टदि।
** लक्ष्मणः—** अये, केयमस्यां सुमित्रायामिव मे सुचिरप्रवृत्ता चित्तवृत्तिः।
** सीता—** हला24, इमं कुमारं पुलोअन्तीए मह वच्छा उम्मिला चित्तमारुहदि।
** सखी—** (विहस्य।) नूनमयं कस्यचिद्वत्सशब्दलालनीयो भविष्यति। यं विलोकयन्त्या मे त्वमपि चित्तवृत्तिमारोक्ष्यसि। तत्पृच्छामि तावदेनम्। (परिक्रम्य।) अये राजकुमार, कः खलु भवान्। यस्त्वमेक एव मुग्धतयापरिशीलितास्वपि वनभूमिषु विहरसि।
** लक्ष्मणः—** धिङ् मूर्खे, कथं मामग्रजेन परिसरवर्तिना रामचन्द्रेण नाथवन्तमप्येकाकिनमपदिशसि।
** सखी—** (सहर्षम्।) कुसुमितस्तदधुना मे मनोरथद्रुमः।
** सीता—** हला25, किमेत्थ अह्माणं। ता एहि। णिअघरं जेब वज्जह्म। (किंचित्परिक्रम्य पुनर्व्यावृत्य।) हला, एक्कं विसुमरिदझि। णं सो सहआरपादवो अवलोअणीओ जस्स वासन्दीलदाए सह संगमं अहिलसन्ति मह अम्बाओ। (इन्युभे परिक्रामतः।)
रामः— (सहर्षम्।)
मन्मनःकुमुदानन्दशरत्पार्वणशर्वरी।
अहो इयमितो नूनं पुनरप्यभिवर्तते॥१५॥
(निर्वर्ण्य।)
वहत्यस्या दृष्टिर्विकचनवनीलोत्पलतुला-
मखण्डस्याभिख्यां वदनमिदमिन्दोः कलयति।
कुचौ किंचिन्मीलत्कमलतुलनां कन्दलयत-
स्तमःशोभां चित्रां चिकुरनिकुरम्बं हि कुरुते॥१६॥
** सखी—** एष सहकारपादपः, इयं च वासन्ती लता। (इति तदन्ति कमनुसरतः।)
** रामः—** कथमिमे मे परिसरमनुसरतः। तत्किंचिदपसरामि तावत्।
सखी— (सहकारशाखां करे धृत्वा। सकौतुकम्।) हला26, पेक्ख पेक्ख। इमेहिं नहसिहाविलिहिदेहिं कोमलदलेहिं संभावीअदि जं किर इअं चूदलदा केणावि विदद्धेण णिअहत्थेण संभाविदेत्ति। अहवा णिअचावलदासङ्किदेण सअं मम्महेणेव्वेति।
** रामः—** इत्थं संभावयति भवती। मम पुनरन्यथा वितर्कः।
मत्वा चापं शशिमुखि निजं मुष्टिना पुष्पधन्वा
तन्वीमेनां तव तनुलतां मध्यदेशे बभार।
यस्मादत्र त्रिभुवनवशीकारमुद्रानुकारा-
स्तिस्रो भान्ति त्रिवलिकपटादङ्गुलीसंधिरेखाः॥१७॥
** सखी—** भर्तृदारिके, इयं वासन्ती लता। इदं च पश्य।
वासन्तीरसबिन्दुं सुन्दरमिन्दिन्दिरा इह चरन्ति।
चिरमन्दिरमरविन्दं मन्दं मन्दं परिहरन्ति॥१८॥
(सीता तदेव पठति।)
** रामः—** किमिदानीं लतान्तरवर्णनया। नन्वियमेव
निर्मुक्तशैशवदशा शिशिरा नवीन-
संप्राप्तयौवनवसन्तमनोरमश्रीः।
उन्मीलितस्तननवस्तबका निकाम-
मेणीदृशस्तनुलता तनुते मुदं नः॥१०॥
** सखी—** भर्तृदारिके, पश्य। इयमसौ वासन्ती लता स्वयमेव सहकारपोतमालिङ्गितुं पुरःसरति।
** सीता—**(सप्रणयकोपम्।) अये27 अलिअजष्पिणि, दाणिं तुह परिसरंपरिहरिअ अण्णादो गमिस्सम्।
** रामः—**
अमलमृणालकाण्डकमनीयकपोलरुचे-
स्तरलसलीलनीलनलिनप्रतिफुल्लदृशः।
विकसदशोकशोणकरकान्तिभृतः सुतनो-
र्मदललितानि हन्त ललतानि हरन्ति मनः॥२०॥
सीता— (विलोक्य सकौतुकम्।) अम्मो28,
विसट्टपेसलुप्पलप्पलासपुङ्खसामलो
महेससोम्मसेहरप्फुरन्तसोमकोमलो।
लदाघरम्मि को इमो अणङ्गरूअखण्डणो
विलोअणाण देइ मे सुहं सिण्डमण्डणो॥२१॥
** सखी—** भर्तृदारिके, कथय कथं लतालोकनाद्विरतासि।
(सीतानाकर्णितकेन तदेव पञ्चमखरं पठति।)
सखी— (उपसृत्य) कथमियमन्यचित्तेव लक्ष्यते। क्व पुनश्चित्तमस्याः। (रामं दृष्ट्वा। साकूतम्।) अये, इदमस्याश्चित्तगजबन्धनालानम्।
(पुनः स्वगतम्।)
अइ29 पिबह लोअणाइंपिअजणवअणारविन्दमअरन्दम्।
अइ तरलाइंविआरह पुण कह तुह्मेकह इमो अ॥२५॥
(इति रामं नयनाञ्चलेन सलीलमालोकते।)
रामः—(निर्वर्ण्य।)
सर्वस्वंनवयौवनस्य भवनं भोगस्य भाग्यं दृशां
सौभाग्यं मदविभ्रमस्य जगतः सारं फलं जन्मनः।
साकूतं कुसुमायुधस्य हृदयं रामस्य तत्त्वं रतेः
शृङ्गारस्य रहस्यमुत्पलदृशस्तत्किंचिदालोकितम्॥२६॥
(सीता स्वगतं पुनस्तामेव गाथां पठति।)
सखी—अयि भर्तृदारिके, पश्य।
दलदमलकोमलोत्पलपलाशशङ्काकुलोऽयमलिपोतः।
तवलोचनयोरनयोः परिसरमनुवेलमनुसरति॥२७॥
सीता—(सहर्षमात्मगतम्।) अपि30 लोअणाइंबद्धसप्पदाइंणं सुहोपसुदीयम्।
रामः— (सप्रत्याशम्।)
अमृतमयपयोधिक्षीरकल्लोललोलैः
स्नपयति तरलाक्षी यत्र मां नेत्रपातैः।
अपि भवतु सदायं सन्मुहूर्तः
(विमृश्य। सविषादम्।)
कुतो वा
मधुरविधुरमिश्राः सृष्टयो हा विधातुः॥२८॥
(प्रविश्य।)
चेटी— भट्टदारिए31, भट्टिणीहिं आण्णतह्मि। जं किर वत्सा जाणई
झति घरमाणीअ विचित्ताहरणेहिं मण्डीअदु। जेण तीए सानन्दं वअरणाविन्दं पुलोअह्म।
सीता—हण्डे32, कहं सिणेहमुद्धाओ मह अम्बाओ।
चेटिका— भट्टजारिए33, कहं ण मुद्धाओ तुह अम्बाओ।
सीता—कहं34 उण मुद्धाओ मह अम्बाओ।
चेटिका—जा35 तुमं णिसग्गलावण्णचन्दलेहां णेवच्छलच्छीलञ्छणेणालंकिदुमिच्छन्ति। तहा अ।
अइ तुह मुहलेहा चन्दबिम्बे सणेहा
दसणकिरणलच्छी अच्छजोह्णासरिच्छी।
कुवलयदलदोणीकन्दराए वहन्ती
तरलबहलमिट्टी दुद्धधारे व दिट्ठी॥२९॥
ता आअच्छ। गच्छह्म णिअघरं जेब।
(इति निष्क्रान्ताः स्त्रियः।)
रामः—(सविषादम्।) कथं नयनपथमतिक्रान्तैव कान्ता।
(पुनः सप्रत्याशम्।)
अप्याविरस्तु भूयोऽपि मम लोचनयोरियम्।
दिवसेऽन्तर्हिता नक्तं चन्द्रिकेव चकोरयोः॥३०॥
लक्ष्मणः—आर्य, इयमाविरस्ति।
रामः— (सहर्षम्।) कथं पुनः प्राप्ता प्रेयसी। (विलोक्य।) न तावन्नूनंकिमप्यन्यदभिसंधाय तदिदमुक्तं वत्सेन। (उच्चैः।) वत्स, केयमाविरस्ति।
लक्ष्मणः—
मुग्धस्य केलिविजितस्मरचापयष्टे-
रातन्वती रुचिमतीव सुधाकरस्य।
रागोद्धुरा स्फुटमुदञ्चिततारकश्रीः
संध्याविरस्ति ननु कापि पतिंवरेव॥३१॥
**रामः—**वत्स, एवमेतत्। तथा हि।
कृत्वा प्रवुद्धकमलामखिलां त्रिलोकी-
मम्भोनिधेर्विशति गर्भमसाविदानीम्।
अन्तःप्रसुप्तहरिनाभिसरोजबोध-
कौतूहलीव भगवानरविन्दबन्धुः॥३२॥
**लक्ष्मणः—**आर्य, दृश्यतामयमीषन्मुकुलितराग इव गगनाभोगः।
**रामः—**एवमेतत्। इदानीं हि
प्राचीमालम्बमाने घनतिमिरचये बान्धवे बन्धकीनां
संप्राप्ते च प्रतीचीं शशिकरनिकरे वैरिणि स्वैरिणीनाम्।
अर्घश्यामोपलार्धस्फटिकमिव दिशामन्तरालं विधत्ते
कालिन्दीजह्नुकन्यामिलदमलजलस्यन्दसंदोहमैत्रीम्॥३३॥
(पुनः सहर्षमङ्गुल्या दर्शयन्।)
एतत्कोककुटुम्बिनीजनमनः शल्यं चकोराङ्गना-
चञ्चूकोटिकपाटयोर्घटितयोरुद्घाटिनी कुञ्चिका।
दग्धस्यापि नवाङ्कुरः स्मरतरोरार्द्रागसां प्रेयसी-
मानोद्दामगजाङ्कुशो विजयते मुग्धं सुधांशोर्वपुः॥३४॥
लक्ष्मणः—
कल्लोलक्षिप्तपङ्कत्रिपुरहरशिरः स्वःस्रवन्तीमृणालं
कर्पूरक्षोदजालं कुसुमशरवधूसीधुभृङ्गारनालम्।
एतद्दुग्धाब्धिबन्धोर्गगनकमलिनीपत्रपानीयबिन्दो-
रन्तरतोषं न केषां किसलयति जगन्मण्डनं खण्डमिन्दोः॥३५॥
रामः—वत्स, अलमतिप्रसङ्गेन। तदेहि।चितकुसुमोपायनेन भगवन्तं गाधिनन्दनमुपास्महे।
(इति निष्क्रान्ताः सर्वे।)
इति द्वितीयोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-1730268962लाै.png"/>
तृतीयोऽङ्कः।
(ततः प्रविशति वामनकः।)
वामनकः—(आत्मानं विलोक्य। सविस्मयम्।) अहो36 अङ्गाणं मे तुङ्गत्तणम्।अवि णाम ईरिसेहिं अङ्गेहिं एत्थ संचरन्तेण मए दुआरसिहरंभज्जीअदि। ता खुज्जो भविअ संचरिस्सम्।
(तथा करोति।)
(प्रविश्य।)
कुब्जकः— वअस्स37 वामणअ, दाणिं सअलगुणसंजुत्तो सि तुमं।
**वामनकः—**कह38 विअ।
**कुब्जकः—**पढमं39 जेव्ववामणो दाणिं उण खुज्जत्तणं पत्तो।
वामनकः—(सक्रोधम्।) अए40 मुरुख, कहं अत्तणो खुज्जत्तणं परम्मिआरोवेसि। णं तुमं जेव्व खुज्जओ। मए उण दुआरसिहरभङ्गसङ्किदेणअप्पम्मि खुज्जत्तणं आरोविदम्।
कुब्जकः— (विहस्य।) कह41 विअस्थिमेत्तएण तुह अङ्गेण दुआरसिहरं भञ्जिस्सदि। (पुनः सक्रोधम्।) अरे अलीअवाआल, केण तुहकहिदं अहं खुज्जओ त्ति।
**वामनकः—**णं42 इमिणा जेव्वदरिअवुसहकउदसरिसेण पुट्टट्टिदेणमंत्रत्थबएण उव्वाहिएण।
कुब्जकः— किं43 इमस्स महेसिणो होमग्गिधूमसामलिअलोअणस्सहरचावदंसणेण। ता तक्केमि खत्तिअबम्हणो इमो त्ति।
वामनकः—(विहस्य।) कहं44 तणु व्व मदीवि तुहं वङ्कुणी जं एवंतक्केसि। सच्चं खत्तिअबह्मणो इमो त्ति।
कुब्जकः—ता45 को वि अणत्थो संभाविअदि जं किर चिरतवस्साकरिसिदो इमो तिव्वं पेक्खमाणो खत्तिअबह्मणो रुजुमदिणो अह्माणंराएसिणो रज्जं गहीदुं आअदो त्ति।
वामनकः—सन्तं46 पावम्। ईरिसं मा जप्प। अअं हि चिरतवस्सापरितोसिदस्स ब्रह्मणो वाआए खत्तिअत्तणं परिहरिअ बम्हणत्तणं पत्तो।
कुब्जकः—कहं47 तणु व्व मदीवि तुह वामणी जं एरिसअलीअलोअवुत्तन्ते वि पत्तिआअदि। जइ कस्सवि वाआए खत्तिओ बह्मणोहोइ ता मह वाआए तुमं वि बह्मणो होसि।
वामनकः—अरे48 बालिस, कहं तुह गोमुहस्स भअवदो चउम्मुहस्सवि णत्थि अन्तरम्।
कुब्जकः—जइ49 इमो सुद्धबह्मणो ता किं इमस्स चावचिन्ताए।
वामनकः— अत्थि50कारणं। तस्स पासम्मि तदो जेव्वगहिअचावविज्जा दोवि खत्तिअकुमारा वट्टन्ति। ताणं दंसइस्सदि चावं ति।
कुब्जकः— ता51सुद्धासओ इमो।
वामनकः—अह52 इं।
कुब्जकः—ता53कहेहि दाव इमस्सिं अलीअदूसणारोवेण णं महपावं उप्पण्णं ण वेत्ति।
वामनकः—पावं54 ति किं भणीअदि। णं महापावं उप्पण्णम्।
कुब्जकः—अरे55 मुरुख, ण आणासि धम्मस्स तत्तम्। संबन्धिअणेपरिहासवअणाइं ण हु पावकारणाइं।
वामनकः—कहं56 उण इमो तुह संबन्धिअणो।
कुब्जकः—अरे57, ण आणासि। अस्स वि दोणि कुमारा, अह्माणं वि दोणि कुमारीओ। ता तक्केमि संबन्धिअणो हविस्सदि त्ति।
वामनकः—(विहस्य।) कहं58 अह्माणं एरिसं पुण्णम्।
(नेपथ्ये।)
ताटङ्किना झटिति ताडितताटकेन
रामेण पद्मरमणीयविलोचनेन।
क्रीडाशिखण्डकधरेण सलक्ष्मणेन
साकं मुनिः कुशिकसूनुरितोऽयमेति॥१॥
वामनकः—(सहर्षविस्मयम्।) अहो59, जा किर सअललोअभीसणा रक्खसी ताडएति सुणीअदि सा इमिणा जइ ताडिदा ता इमस्सिं हरचावारोवणंवि संभावीअदि। ता एहि। इमं कण्णसुहारहं भट्टिणीणं समप्पह्म।
(इति निष्क्रान्तौ।)
इति प्रवेशकः।
(ततः प्रविशति रामलक्ष्मणानुगतो विश्वामित्रः।)
विश्वामित्रः— (अङ्गुल्या दर्शयन्।) वत्स रामभद्र,
एतत्तर्कय चक्रवाकहृदयाश्वासाय तारागण-
ग्रासाय स्फुरदिन्दुमण्डलपरीहासाय भासां निधिः।
दिक्कान्ताकुचकुम्भकुङ्कुमरसन्यासाय पङ्केरुहो-
ल्लासाय स्फुटवैरिकैरववनत्रासाय विद्योतते॥२॥
रामः—(अञ्जलिं बद्ध्वा।)
लालयन्तमरविन्दवनानि क्षालयन्तमभितो भुवनानि।
पालयन्तमथ कोककुलानि ज्योतिषां पतिमहं महयामि॥३॥
विश्वामित्रः—(स्वागतम्।) अपि नाम मयोपनीयमानं वत्सरामभद्रमचिरादेव जनकस्तनूजया संभावयिष्यति।
लक्ष्मणः—आर्य, पश्य।
यावन्नीरनिधेः प्रभातसमयःप्रोद्धृत्य लोकत्रयी-
माणिक्यं रविविम्बमम्बरवणिग्वीथीपथे न्यस्यति।
तावत्कर्तुमिवास्य मूल्यमुचितं पद्माकरेण स्वयं
लक्ष्मीर्लब्धविकाशपङ्कजकरन्यस्ता पुरः स्थाप्यते॥४॥
विश्वामित्रः— (सहर्षमात्मगतम्।) अये वत्स, लक्ष्मणेनैव दत्तमुत्तरम्। देवताधिष्ठितानि हि मुग्धवचनानि भवन्ति।
रामः—(मुनिं प्रति।) भगवन्, कथमियं बहुनरकरितुरङ्गमतरङ्गितापि राजधानी तपोवनभूमिरिव प्रशान्तपावनी विभाव्यते।
विश्वामित्रः— क इह विस्मयः। नन्विह जनकः प्रतिवसति यस्यायंभगवान्याज्ञवल्क्यो गुरुः।
रामः—सोऽयं भगवानस्य गुरुर्यः किल योगीश्वर इति ख्यायते।
विश्वामित्रः—वत्स, स एवायं
पादोपजीवनाद्भानोः प्रबोधमुपलभ्य यः।
अभूद्योगीश्वरख्यातेः सद्म पद्ममिव श्रियः॥५॥
तदेहि। राजभवनमुपसर्पामः। (इति निष्क्रान्तः।)
(नेपथ्ये।)
पयोभिः सिच्यन्तां बहलविलसत्कुङ्कुमरसैः
प्रसूनैः कीर्यन्तां परिमलमिलल्लोलमधुपैः।
चतुष्कैः पूर्यन्तामविरललसन्मौक्तिकगणै-
र्मुदा पौरस्त्रीभिर्नगरपथरथ्याङ्गणभुवः॥६॥
विश्वामित्रः—नूनमस्मदभ्यागमनसानन्दस्य शतानन्दस्य वाक्यपरिस्पन्दः। (विलोक्य।) अहो अस्य रभसातिशयो यदयं कृतमपिनगरपरिष्कारं पुनरादिशति।
(प्रविश्य।)
शतानन्दः—भगवन्, अभिवादये।
विश्वामित्रः—सौम्य, आयुष्मान्भूयाः।
शतानन्दः— भगवन्, अयमसौ जनको राजा भगवन्तं प्रतीक्षते।
विश्वामित्रः—(विलोक्य।) अये, स एष जनकः
अङ्गैरङ्गीकृता यत्र षड्भिः सप्तभिरष्टभिः।
त्रयी च राज्यलक्ष्मीश्च योगविद्या च दीव्यति॥७॥
(ततः प्रविशति जनकः।)
जनकः—(कृताञ्जलिर्भूत्वा।)
यः काञ्चनमिवात्मानं निक्षिप्याग्नौ तपोमये।
वर्णोत्कर्षं गतः सोऽयं विश्वामित्रो मुनीश्वरः॥८॥
(उपसृत्य।) भगवान्, अयं ते समीहितसंपल्लतासमुद्गमारामः प्रणामः।
विश्वामित्रः—राजर्षे, वसुंधरासुनासीरसीरध्वजाप्रतिहतमनोरथोभूयाः।
(इति यथोचितमुपविशन्ति।)
जनकः— भगवन्, अधुना सुनासीरसाधारणत्वमधः करणं मे।
विश्वामित्रः— कथमिव।
जनकः—संप्रति तदीयामपि पदवीमतीत्य वर्ते।
गाधिनन्दन न नन्दनजन्मा तादृशः स हरिचन्दनशाखी।
यादृशो मम भवत्पदपद्मद्वन्द्ववन्दनविधिः सुखहेतुः॥९॥
विश्वामित्रः—अहो ते प्रणयातिशयो यः सहजप्रमोदसुखाम्बुधिनिमग्नोऽप्यस्मत्समागमजन्मनः सुखशीकरान्बहु मन्यसे।
**जनकः—**भगवन्, अस्मद्विधानां राज्यरागोपरक्तचेतश्चन्द्रमसां कुतस्त्योऽयं सहजानन्दचन्द्रिकोद्भेदः।
विश्वामित्रः— मैवं भोः,
ज्याघातः कार्मुकस्य श्रयति करतलं कण्ठमोंकारनाद-
स्तेजो भाति प्रतापाभिधमवनितले ज्योतिरात्मीयमन्तः।
राज्यं सिंहासनश्रीः शममपि परमं वक्ति पद्मासनश्री-
र्येषां ते यूयमेते निमिकुलकुमुदानन्दचन्द्रा नरेन्द्राः॥१०॥
**शतानन्दः—**सत्यमेतत्। एते हि
वाराङ्गनाकरतरङ्गितचामरोर्मि-
श्वेतातपत्रशतपत्रिणि राजहंसाः।
क्रीडन्ति राज्यसरसि स्वरसं च धीरा
योगीन्द्रचन्द्रसुगमे पथि संचरन्ति॥११॥
लक्ष्मणः— (अपवार्य।) आर्य, राजानोऽप्यमी ब्रह्मविद्याचतुरा इतिचित्रीयते मे चेतः।
**रामः—**वत्स, किमिह चित्रम्। ननु
छत्रच्छाया तिरयति न यद्यन्न च स्प्रष्टुमीष्ठे
दृप्यद्गन्धद्विपमदमषीपङ्कनामा कलङ्कः।
लीलालोलः शमयति न यच्चामराणां समीरः
स्फीतं ज्योतिः किमपि तदमी भूभुजः शीलयन्ति॥१२॥
**विश्वामित्रः—**आङ्गिरसोचितमात्थ राजहंसा इति। सकलकुवलयोत्तंसा राजहंसा अमी।
जनकः— भगवन्, इदमस्मत्प्राचीनेषु शोभते न तु मयि कतिपयग्रामटिकास्वामिनि।
विश्वामित्रः— मैवं भोः,
अवनिमवनिपालाः सङ्घशः पालयन्ता-
मवनिपतियशस्तु त्वां विना नापरस्य।
जनक कनकगौरीं यत्प्रसूता तनूजां
जगति दुहितृमन्तं भूर्मवन्तं वितेने॥१३॥
जनकः— भगवन्, नूतनशतभुवननिर्माणनिपुणस्य भगवतः कियतीयमभिनववचनचातुरी नाम। स खलु भवान्यस्य
शलाकीकृत्य स्वांदृशमसमकोपारुणरुचिं
सुरश्रेणीचित्रं गगनतलभित्तौ रचयतः।
सुधोंशोर्भानोश्च प्रथमरचितं बिम्बयुगलं
सुधालाक्षासान्द्रद्रवभरितपात्रद्वयमभूत्॥१४॥
शतानन्दः— राजर्षे, सत्यमात्थ। किमुच्यतेऽसौ भगवान्।
त्रिशङ्कोः स्वर्लोकादवनितलपातं रचयितुं
सुनासीरे कोपाद्विकसितपदाब्जे विकसितः।
यदीयोऽसौ नव्यत्रिदशनगरारम्भरभसः
सुरस्तोमे भक्त्या मुकुलितकराब्जे मुकुलितः॥१५॥
लक्ष्मणः— (अपवार्थ।) आर्य, कथमेवंविधं भगवतः प्रतापितभुवनत्रयं तपोभिधानं तेजः।
रामः—अपि न विदितं ते राजर्षेरिदम्।
रोषाभिभूतपुरुहूतपदाभिभूतं
दृष्ट्वात्रिशङ्कुमथ कोपविपाटलश्रीः।
आकुङ्मलीकृतकराम्बुजराजिरम्या
संध्येव दृष्टिरमरैर्यदुपासितास्य॥१६॥
विश्वामित्रः—राजर्षे, अपि तावद्रत्नगर्भागर्भसंभवं कन्यारत्नमलंकुरुते त्वाम्।
जनकः—भगवन्, भवत्प्रसादादधुना जामातृरत्नमप्यलंकरिष्यते।(राममवलोक्य। सकौतुकम्।) भगवन्,
सकलजनविलोकनोत्सवानामयमयनं कतरः पुरः कुमारः।
हरितमणिमयूखहारिणो यः कलयति कल्पतरोः प्ररोहलीलाम्॥१७॥
शतानन्दः—भगवन्, अयं च कतरो यः खल्वस्यैव
नीलनीरजदलोज्ज्वलकान्तेरन्तिके स्फुरति काञ्चनगौरः।
लोचनस्य सुदृशः श्रवणाग्रे संनिविष्ट इव चम्पकगुच्छः॥१८॥
विश्वामित्रः—नाम्ना तावद्रामलक्ष्मणावेतौ।
जनकः—अहो कर्णामृतम्।
शतानन्दः—(निर्वर्ण्य।) भगवन्,
एतयोरहमुदाररूपयोरुल्लसत्सहजसौहृदश्रियोः।
कामपि स्वजनतां विभावये कौस्तुभामृतमयूखयोरिव॥१९॥
जनकः—
एतयोः प्रकृतिरम्यरूपयोरुल्लसत्सहजसौहृदश्रियोः।
आन्तरः स्फुरति कोऽपि संनिधिः प्रत्यगात्मपमात्मनोरिव॥२०॥
**विश्वामित्रः—**अयि योगीश्वरशिष्य, ईदृशेषु गभीरेष्वभिनवोदन्तपीयूषवेशन्तेषु भवत एव मनो निमज्जति। स्वजनभावे पुनरनयोर्वयमपिसाक्षिणः।
**जनकः—**तत्किं भ्रातरावेतौ।
विश्वामित्रः— अथ किम्।
जनकः—(सहर्षं निर्वर्ण्य।)
तनुश्रिया निर्जितचम्पकोत्पलौ सुवर्णनीलोत्पलकोशकोमलौ।
अहो दृशामुत्सवदानदक्षिणौ सुलक्षणौ लक्ष्मणलक्ष्मणाग्रजौ॥२१॥
(पुना रामं विलोक्य। सकौतुकम्।) भगवन्, किमेतत्।
यथाहं निःसीमोत्सवसुभगभोगे भवकथा-
पथातीते चेतः प्रणयिनि रमे पुंसि परमे।
तथैवास्मिन्बाले दलदमलनीलोत्पलदलो-
दरश्यामे रामे नयनपदवीमागतवति॥२२॥
विश्वामित्रः—(स्वगतम्।) उचितमेतत्। न खलु सकललोकलोचनानन्दकरः शीतकरः। शंकरशिरः शयालोः कलानिधेरपरं तत्त्वम्। (प्रकाशम्।) राजर्षे, स एष सौन्दर्यातिशयस्य महिमा।
जनकः— कः पुनराभ्यां पुत्रवतां मौलिमाणिक्यमारोपितः।
विश्वामित्रः—
किं शीतांशुमरीचयः किमु सुरस्रोतस्विनीवीचयः
किं वा केतकसूचयः किमथ वा चन्द्रोपलानां चयः।
इत्थं जातकुतूहलाभिरभितः सानन्दमालोकिताः
कान्ताभिस्त्रिदिवौकसां दिशि दिशि क्रीडन्ति यत्कीर्तयः॥२३॥
**रामः—**वत्स, नूनमयं सकलगुणावदातस्तातः प्रस्तूयते।
**शतानन्दः—**नूनममी ऋष्यशृङ्गचरुभागानां विलासाः।
जनकः— दशरथभागधेयानां च।
**विश्वामित्रः—**एवमेतत्। अवधिः खलु भाग्यवतां राजा दशरथः।
**जनकः—**महात्मवतां च।
**विश्वामित्रः—**तत्किमस्माभिरुच्यताम्। भवतोर्महिम्नि भवन्तावेवसाक्षिणौ।
जनकः—कतरोऽहं दशरथस्य महिमाभोगमनुभवितुं कासार इवसागरस्य।
**विश्वामित्रः—**शोभन्त एव विनयमधुराणामधरीकृतात्ममहिमानःकामं सत्यविधुरा अपि वाचः। अथवा समुचितमेवैतत्। यतः।
जज्ञिवान्दशरथः स हि राजा राममिन्दुमिव सुन्दरगात्रम्।
लोकलोचनविगाहनशीलां त्वं पुनः कुमुदिनीमिव सीताम्॥२९॥
लक्ष्मणः— (अपवार्य।) आर्य, इन्दुकुमुदिनीदृष्टान्तेन किमपिसंविधानं सूचितं भगवता।
रामः—(सप्रणयकोपम्।) अलमलीकालापितया।
जनकः—(स्वगतम्।) कथमनया भङ्ग्या किमपि सूचितं मुनिना।तत्किमनेन रभसवशंवदेन विस्मृतमेव शांभवं धनुः। (प्रकाशम्।) भगवन्, अनेन भगवतो वक्रकमनीयेन वाग्विलासेन द्वितीयेनेव हरकार्मुकेणकिमपि कौतुकितोऽस्मि।
विश्वामित्रः—(स्वगतम्।) कथमनया परिपाट्या हरचापारोपणमुद्भावयति। भवतु। (प्रकाशम्।) राजर्षे, साधु स्मारितोऽस्मि। अतीव मेकौतुकं वृषभकेतुकार्मुकावलोकने। तेन तदानयनायादिश्यन्तां पुरुषाः।अथवा किमन्यैः। रामभद्र एवादिश्यताम्।
जनकः— (सविस्मयम्।) भगवन्, कथं मुग्ध इव दुग्धमुखमपिराममिन्दुकिरीटकार्मुकानयनार्थमादिशसि। न जानासि किम्।
एतत्तद्दुर्विगाहं तुहिनगिरिमयं कार्मुकं यत्र जज्ञे
मौर्वी दर्वीकराणां पतिरुदधिसुतानायकः सायकश्च।
दोर्दण्डैश्चन्द्रमौलेर्नतमपि यदभूदुन्नतं कार्मुकाणां
बाष्पाम्भोवृष्टये च त्रिपुरमृगदृशामैशमप्यैन्द्रमासीत्॥३०॥
**विश्वामित्रः—**जानामि।
सेवायातसमस्तखेचरकरक्रीडाचलच्चामर-
श्रेणीमारुतपानपीननिबिडज्यापन्नगाकर्षिणा।
गाढाकुञ्चनजृम्भमाणतुहिनस्यन्दैर्यदीयैः श्रमः
संत्यक्तः पुरवैरिणापि तदिदं शैलेन्द्रसारं धनुः॥३१॥
**जनकः—**तत्कथमस्यानयनाय रामायादिशसि।
विश्वामित्रः— न केवलमानयनाय। किंत्वानमनाय। (रामं प्रति।)वत्स, बध्यतां परिकरः। इदं च
मारीचमारीचतुरं सुबाहोरपवारणम्।
न्यस्यतां लक्ष्मणकरे ताटकाताडनं धनुः॥३२॥
**जनकः—**कथमसंभावनीयमेवोद्भावयसि।
विश्वामित्रः— कथमिदं न विदितं ते। अनेन हि
प्राप्य चापनिगमानितः क्रमात्संप्रताप्य विशिखैर्निशाचरान्।
अस्मदीयमस्वरक्षणक्रियादक्षिणेन गुरुदक्षिणीकृता॥३३॥
जनकः— (विमृश्य। निःश्वस्य च।) भगवन्, अस्त्येतत्। किंतु
मारीचमुख्यरजनीचरचक्रचूडा-
चञ्चन्मरीचिचयचुम्बितपादपीठः।
अत्राभवद्विफलबाहुबलावलेपो
वीरः शशाङ्कमुकुटाचलचालनोऽपि॥३४॥
**विश्वामित्रः—**किमेतावता। नन्वत एव राममादिशामि। (रामं प्रति।)वत्स, उत्तिष्ठ। कुमुदिनीकान्तकलाकिरीटकार्मुकरोपणप्रवीणतया संप्रीयास्मान्।
जनकः—(स्वगतम्।)
यस्य ख्याता जगति सकले निस्तमिस्रा तपःश्री-
र्मिथ्योत्कण्ठः कथमिह भवेदेष गाधेस्तनूजः।
बालो रामः किमपि गहनं कार्मुकं चन्द्रमौले-
र्दोलारोहं कलयति मुहुस्तेन मे चित्तवृत्तिः॥३५॥
(पुनः पृथिवीमालोक्य।)
रतिरिव जननेत्रानन्दिनी नन्दिनी ते
कुमुमशर इवायं रूपसारः कुमारः।
यदि तु धनुरपीदं प्राप्तमेतस्य हस्तं
कुसुममयमिव स्यात्संभृतः संप्रदायः॥३६॥
शतानन्दः—राजर्षे, किमेतन्मूढइव मुहुर्मुहुरालोकसे। अनुवर्तस्व महर्षेर्वचनम्।
जनकः— (प्रकाशम्।) अनुवृत्तमेव। (रामं प्रति।) वत्स, अनुष्ठीयतां गुरुवचनम्।
(राम उत्थाय परिकरं बध्नाति।)
(प्रविश्य।)
प्रतीहारी—जेदु60 जेदु देवो को वि बह्मणो देवस्स दंसणत्थीदुआरदेसम्म चिट्ठदि। ता किं पवेसीअदु।
जनकः—आः,इदमपि किं जनकः प्रष्टव्यः।
प्रतीहारी—तथा। (इति निर्गत्य तेन सह प्रविशति।)
जनकः—ब्रह्मन्, प्रणम्यसे।
मुनिः—राजन्, सुमतिर्भूयाः।
जनकः—(स्वगतम्।) अन्यादृशीयमाशीः परिपाटी। भवतु(प्रकाशम्।) मुने, इहास्यताम्।
**मुनिः—**संदेशहरः खल्वस्मि।
जनकः—कस्यायम्। कीदृशो वा संदेशः।
मुनिः—
पीत्वा कज्जलकालिमानमखिलं क्ष्मापालनारीदृशां
नीत्वा स्फीतशोट्टहासमहसा लोकत्रयं शुभ्रताम्।
चण्डीशं चरितैरनेकविभवैरद्यापि यः सेवते
हे वैदेह जामदग्न्यपरशुस्त्वामेतदाभाषते॥३७॥
जनकः— (स्वगतम्।) अहो गर्वाङ्कुरस्य वक्रता। भवतु।(प्रकाशम्।) किं तत्।
मुनिः—
कस्मैचिद्देहि कन्यां नरपतिशिशवे दीर्घमायुर्लभस्व
व्यावर्तस्वाप्रियान्नः पुरमथनधनुःकर्षणालापपातात्।
नो चेदन्योऽस्त्युपायस्तव कलुषमषीपङ्कसंक्षालनाया-
मस्मद्विस्तारिधाराञ्चलबहलपयःपूरदूरावगाहः॥३८॥
जनकः—(विहस्य।) तन्मयापि प्रतिसंदेशः कथनीयस्तस्य।
मुनिः— कीदृशोऽसौ।
जनकः—
त्वं मित्रं मम जामदग्न्यपरशो तेनैतदाभाष्यसे
संप्रत्येव यथाप्रतिश्रुतमियं कन्या मया दीयते।
तेनेह स्वयमेत्य धूर्जटिधनुर्धौरेयदोः संपदो
जामातुः पुरतश्चिराय भवता धाराजलं त्यज्यताम्॥३९॥
मुनिः—तथास्तु। (इति निष्क्रान्तः।)
जनकः— आङ्गिरसोपक्षिप्तस्तावदयं जादमग्न्येन निजकोपानलस्फुलिङ्गः।
शतानन्दः— किमेतावता। अतिगम्भीरभुजसारकासारकैरवारामःखलु रामः।
विश्वामित्रः—राजर्षे, के पुनरमी परितः स्फुरन्मणिमौलयः परः सहस्रा दृश्यन्ते।
जनकः—
श्रीकण्ठकार्मुकनिरस्तभुजावलेपा
नानादिगन्तजगतीपतयः किलामी।
अभ्यर्थनां मम किमप्यभिवर्तमाना
गृह्णन्ति कानिचिदहानि नरेन्द्रपूजाम्॥४०॥
विश्वामित्रः—वत्स रामभद्र, तदेषामेव पश्यतां कौतुकमस्माकं पूरय।
(रामो विश्वामित्रं प्रणम्य निष्क्रान्तः।)
**जनकः—**आङ्गिरसापरिशीलितसंनिवेशस्य वत्सरामस्य भवता प्रत्यनन्तरीभूयताम्। आदिश्यतां कञ्चुकी च करकलितकमलमालाया जानक्याः स्वयंवराङ्गणावतरणाय।
**शतानन्दः—**तथास्तु। (इति निष्क्रान्तः।)
(प्रविश्य।)
**कञ्चुकी—**जयतु देवः। अनुष्ठित एव देवादेशः।
विश्वामित्रः— (विलोक्य। सहर्षम्।) आः, कथमुद्गतमेव रामचन्द्रयशःपताकाकेतुदण्डेन हरकोदण्डेन।(पुनः सविस्मयम्।) अये,
राघवेण शिशुनापि किलायं लीलयैव नमितो हरचापः।
दूरमुल्लसति यस्य समन्तादम्बरेऽपि गमितो गुणघोषः॥४१॥
**लक्ष्मणः—**भगवन्, एवमेतत्। तथा हि।
पूर्णा एव पुरारिचापकपटच्छन्नाचलग्रामणी-
गूढानेकगुहागभीरकुहरस्फारप्रतिध्वानिभिः।
मौर्वीभूतभुजङ्गराजवदनश्रेणीविसर्पद्वचः-
प्रारब्धार्ययशः प्रशस्तिसदृशैर्व्याघातघोषैर्दिशः॥४२॥
**जनकः—**आः किमुच्यते दिशः पूर्णा इति। ननु
एतैः श्रीकण्ठकोदण्डचञ्चन्मौर्वीभवै रवैः।
चिरात्प्रतिज्ञया साकं पूर्णो मम मनोरथः॥४३॥
प्रतीहारी— (कञ्चुकिनं प्रति।) अज्ज61, पेक्ख पेक्ख कोदूहलम्। सीदारामेहिं मिलिअ उण हरचावारोवणं समग्गीकरीअदि।
कञ्चुकी—(सकौतुकम्।) कथमिव। (विमृश्य विहस्य च।) आं, ज्ञातम्।
करकिसलयलीलाचारु चण्डीशचापे
दशरथतनयेन स्वैरमाकृष्यमाणे।
रससरसविकासी सीतया पुङ्खितोऽसौ
कुवलयदलदामश्यामकान्तिः कटाक्षः॥४४॥
**लक्ष्मणः—**भगवन्, अत्यद्भुतं वर्तते। नन्वयं
भिन्दन्निद्रां मुरारेः सकलभुजभृतां म्लानयञ्शौर्यदर्पं
छिन्दन्दिक्कुम्भिकर्णाञ्चलचलनकलां कम्पयन्कूर्मराजम्।
आर्यश्लाघागभीरः प्रलयजलधरध्वानधिक्कारधीर-
ष्टाङ्कारः कृष्यमाणत्रिपुरहरधनुर्भङ्गभूराविरस्ति॥४५॥
प्रतीहारीः—
तेल्लोकं62 लङ्घअन्तो गिरिगहिरगुहासुत्तजग्गन्तसीह-
प्फारुम्मिल्लन्तकण्ठत्थणिदपडिरवुग्गारपूरिज्जमाणे।
बह्मण्डे भज्जमाणे बहुविअडकडक्कारपब्भारमीमो
अम्मो भज्जन्तचण्डीसरघणुहटणक्कारओ उग्गमेइ॥४६॥
कञ्चुकी— पश्य कौतुकम्।
क्रीडाभग्नमृगाङ्कमौलिधनुषं सीतार्पितां वक्षसा
बिभ्राणं कमलस्रजं निजगृहं शृङ्गारवीरश्रियोः।
रामं व्रीडवशादवाञ्चितमुखं भूमीभुजां पश्यतां
चेतः क्रोधविषादविस्मयमुदामूर्मीःसमालिङ्गति॥४७॥
(प्रविश्य।)
शतानन्दः—राजर्षे, विषीद वा प्रसीद वा। इदं यथादृष्टमुपवर्ण्यते।
ज्यावल्लीं ललिताङ्गुलीकिसलयैराकर्णमाकर्षतो
न भ्रूर्भङ्गुरतां गता रघुशिशोर्भग्नं धनुर्धूर्जटेः।
नाहंकारतरङ्गितो ध्वनिरभूत्कण्ठेऽस्य दीर्यद्धनु-
ष्टङ्कारस्तु चकार तारतरलः शब्दाद्वितीयं जगत्॥४८॥
जनकः— कथं पुनरेतावतीमतिभूमिमवगाहमानोऽपि वत्सो रामभद्रोभवता न निवारितः।
शतानन्दः—कथंकारं वारयामः।
यावत्कन्दुकलाञ्छनाञ्चितकरः शोणाब्जनालाकृतिः
कौसल्यार्पितमङ्गलप्रतिसरो वत्सस्य दोःकन्दलः।
किंचिच्चञ्चति तावदेवहि दलच्चण्डीशचापोच्छल-
च्छब्दैकार्णवसग्नमेतदखिलं जातं त्रिलोकीतलम्॥४९॥
जनकः—तदलं कालातिपातेन। याच्यतामनुमतिर्भगवतो विश्वामित्रस्य जानकीरामभद्रयोः पाणिसंघट्टनाय।
शतानन्दः—
सम्यक्संघट्टमानेन धनुषैव पिएनाकिनः।
ननु संघट्टितौ पाणी जानकीरामभद्रयोः॥५०॥
तदूर्मिलालक्ष्मणयोरेव पाणिसंघट्टनाय भगवानभ्यर्थनीयः।
विश्वामित्रः—(विहस्य।) अस्त्वेतत्। परं तु
पाणीञ्जनककन्यानां पीडयद्भिः सहानुजैः।
सीताया रामभद्रो मे पाणिपीडनमिच्छति॥५१॥
जनकः—(सहर्षम्।) कथं माण्डवीश्रुतकीर्तिभ्यां भरतशत्रुघ्नयोरपिपरिणयमनुसंधत्ते भगवान्।
विश्वामित्रः—अथ किम्।
जनकः—तद्गृहीतमिदमधिशेखरमाज्ञाकुसुमं भगवतः। तदागच्छत। समीहितं निष्पादयामः।
( इति निष्क्रान्ताः सर्वे। )
इति तृतीयोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-1730287848लललल.png"/>
चतुर्थोऽङ्कः।
(नेपथ्ये ध्रुवा गीयते।)
मणिमयमङ्गलदीवो63 जणअनरेन्दस्स मण्डवे जलइ।
चण्डाणिलो व पत्तो जस्सिं विमलाअमो होइ॥१॥
(पुनर्नेपथ्ये।)
अरे क्षत्रियाः, अपसरत लोचनपथात्। नन्वयं
कुर्वन्कोपादुदञ्चद्रविकिरणसटापाटलैर्दृष्टिपातै-
रद्यापि क्षत्रकण्ठच्युतरुधिरसरित्सिक्तधारं कुठारम्।
तीव्रैर्निःश्वासपातैः पुनरपि भुवनोत्पातमासूचयद्भि-
र्गर्जन्मौर्वीकचापस्त्रिभुवनविजयी जामदग्न्यःसमेति॥३॥
(ततः प्रविशति जामदग्न्यः।)
जामदग्न्यः—(साटोपं परिक्रम्य।) अहो धृष्टता जनकस्य। यदयंहरचापारोपणेन कन्यादानं प्रतिजानीते। (परशुं विलोक्य।)
सकलनृपकठोरकण्ठपीठीबहलगलद्रुधिरौघधौतधारः।
तदिदमजनकं जगद्विधत्ते परशुरयं जमदग्निनन्दनस्य॥३॥
(विमृश्य।)
उदितोऽर्जुनभुजविपिने ज्वलितस्तुङ्गेषु नृपतिवंशेषु।
निमिकुलकमलकलापं कोपानल किं पुनः स्पृशसि॥४॥
(पुनर्विचिन्त्य।) अलमस्मिन्नुपेक्षया। मनोरथोपनीतजामातृभुजबलावलेपदुर्ललितः खल्वयम्। तथा हि। संदिष्टमनेनास्मत्परशोः।(‘त्वं मित्रम्’ ३।३९ इत्यादि पठति।) अहो अस्य दुरवलेपः।
यस्योद्यद्धोरधाराञ्चलदलितगलद्बाहुशाखासहस्र-
प्रोद्गच्छद्रक्तधारानिवहजितनवोन्मीलदर्कांशुजालः।
क्ष्मापालः कार्तवीर्यः सुरपुरसुदृशां पुष्पिताशोकशाखि-
भ्रान्तिं दत्त्वापि चित्ते निजपुरसुदृशां शोकशाखीबभूव॥५॥
अपि च।
येनाबद्धत नर्मदाम्बुनिवहः संख्ये च लङ्केश्वर-
स्तद्यस्मिन्निरमज्जदर्जुनभुजक्षोणीरुहां मण्डलम्।
क्षत्रस्त्रीनयनाम्बुपूरमिषतः खेलन्ति यत्केलय-
स्तत्तादृक्परंशुर्ममायमधुना धाराजलं मुञ्चति॥६॥
(विलोक्य।) कथमयं शतानन्दशिष्यस्ताण्ड्यायनः।
(प्रविश्य।)
ताण्ड्यायनः— भगवन्, अभिवादये।
**जामदग्न्यः—**आयुष्मान्भूयाः। कथय तावत्। अपि नाम भवदुपाध्याययजमानस्य निवृत्ता हरचापारोपणश्रद्धा।
**ताण्ड्यायनः—**निवृत्ता।
जामदम्यः—(सहर्षम्।) निवृत्ता।
**ताण्ड्यायनः—**भगवन्, निवृत्ता सहैव चापेन।
जामदग्न्यः—(ससंभ्रमम्।) किमात्थ सहैव चापेन निवृत्तेति।
ताण्ड्यायनः— अथ किम्।
जामदग्न्यः— स्फुटं कथय तावत्किं वृत्तमिति।
ताण्ड्यायनः— कस्यचिद्
अखण्डचण्डिमोद्दण्डभुजदण्डनिपीडितम्।
भगवन्भृगुमार्तण्ड भग्नं भर्गशरासनम्॥७॥
जामदग्न्यः—(सक्रोधम्।) कस्य।
ताण्ड्यायनः—
सुबाहुमारीचपुरःसरा अमी
निशाचराः कौशिकयज्ञघातिनः।
वशे स्थिता यस्य
जामदग्न्यः—अलम्। अतः परं ज्ञातः खलु खलानामग्रणीर्निशाचरग्रामणीः।
ताण्ड्यायनः—(स्वगतम्।) कथं दशकण्ठेन धनुर्भग्नमिति प्रतीतंभगवता। भवतु तावत्।
तेषामयं निरूपमः प्रथमः कुमारो
रामाभिधः कुशिकराजतनूजशिष्यः॥१२॥
जामदग्न्यः—(क्षणं विभाव्य। सामर्षम्।)
दुर्धर्षाः सुरसिद्धकिंनरनरैस्त्यक्तक्रमं वक्रतां
प्राप्ते यत्र विधातरीव तरसा तिस्रोऽपि दग्धाः पुरः।
तद्भग्नंयदि राघवेण शिशुना चण्डीपतेः कार्मुकं
ताण्ड्यायनः—(स्वगतम्।) किमधुना वक्ष्यति।
जामदग्न्यः—
तन्मग्नं कुलमेव तर्कय रघोर्मच्छस्त्रधाराम्भसि॥१३॥
**ताण्ड्यायनः—**संरब्धोऽयं भगवान्। तमिमं वृत्तान्तमुपाध्यायस्य कथयामि। (इति निष्क्रान्तः।)
जामदग्न्यः—(विलोक्य।)अभिनवविवाहमङ्गलतया तर्कयामिस एष रामः सानुज इति। (सहर्षम्। निर्वर्ण्य।) अर्धमुग्धः खल्वयंजनो यदेनं काम इति वक्तव्ये राम इति जल्पति। (पुनर्निर्वर्ण्य)
सौन्दर्यं मदनादपि प्रथयति प्रौढिप्रकर्षंपुरां
भेत्तारं मदनारिमप्यधरयत्युद्दामदोः क्रीडितम्।
मुग्धत्वं मदनारिमौलिशशिनोऽप्युत्कर्षमालम्बते
मूर्तैस्तत्किमसौ रसैर्विरचितः शृङ्गारवीराद्भुतैः॥१४॥
(ततः प्रविशतो रामलक्ष्मणौ।)
लक्ष्मणः—(सकौतुकम्।)
मौर्वीं धनुस्तनुरियं च बिभर्ति मौञ्जीं
बाणाः कुशाश्च विलसन्ति करे सितायाः।
धारोज्ज्वलः परशुरेष कमण्डलुश्च
तद्वीरशान्तरसयोः किमयंविकारः॥१५॥
आर्य, किं पुनरिदं ब्रह्मक्षत्रवर्णात्मकं चित्रमिव स्फुरति।
रामः— वत्स, न विदितं ते। नन्वयं स भगवान्भार्गवः।
वेध्यं क्रौञ्चमहीधरस्य शिखरं देयं धरित्रीतलं
प्रत्यग्रक्षितिखण्डदण्डनविधिक्रीडाविधेयोऽम्बुधिः।
जेयस्तारकसूदनो युधि करक्रीडाकुठारस्य च
च्छेद्यं यस्य बभूव हैहयपतेरुद्दामदोःकाननम्॥१६॥
**लक्ष्मणः—**तर्हि विस्मयनीयशीलोऽयं भगवान्।
रामः— विस्मयनीयशीलानां शिखामणिरिति वक्तव्यम्। अयं हि
एकः स्वर्णमहीधरां क्षितिमिमां स्वर्णैकशृङ्गीं यथा
गामेकां प्रतिपाद्य कश्यपमुनौ न स्वात्मने श्लाघते।
किंच क्रौञ्चगिरिं गिरीशतनयस्याविद्धशक्तिक्षतं
विद्ध्वाबाणगणैरुदारहृदयो वैलक्ष्यमालम्बते॥१७॥
(उभौ परिक्रामतः।)
रामः— (अञ्जलिं बद्ध्वा) भगवन्, भृगुकुलशिरःशेखरशिखण्डक,एष सानुजस्य मे परमोन्नतिरमणीपरिणामः प्रणामः।
**जामदग्न्यः—**समरविजयी भूयाः।
**रामः—**भगवन्, भृगुकुलमौलिमाणिक्य, अनुगृहीतोऽस्मि।
भार्गवः— (स्वगतम्। सकरुणम्।)
रामे चन्द्राभिरामे विनयवति शिशौ किं प्रकुप्यातिमात्रं
(विमृश्य।सक्रोधम्।)
हुं चापं चन्द्रमौलेश्चपलमतिरसाविक्षुदण्डं बभञ्ज।
(पुनः सानुकोशम्।)
बाला वैधव्यदीक्षां जनकनृपसुता नार्हतीयं मदस्रात्
(पुनर्विचिन्त्य। सामर्षम्।)
आः शान्तो मे कुठारः कथमयमधुना रेणुकाकण्ठशत्रुः॥१८॥
(प्रकाशम्) दाशरथे, इयमसौ मे त्वयि समुदाचारानुसारिणीवाग्वृत्तिरेव।
रामः—(विहस्य ।) मनोवृत्तिस्तु कीदृशी।
भार्गवः—
चण्डीशकार्मुकविमर्दविवर्धमान-
दर्पावलेपसविशेषविकाशभाजोः।
बाह्वोस्तवाहमधुना मधुना समानै-
राराधयामि रुधिरैः कठिनं कुठारम्॥१९॥
**रामः—**भगवन्, निग्रहानुग्रहयोः स्वाधीनोऽयं जनः। परं तेकोपबीजं ज्ञातुमिच्छामि।
**भार्गवः—**अहो दर्पान्धता यदात्मना कृतमस्माभिरुक्तमपि नावधारयति निजदुर्विनयम्। ननु रे,
येनोपदिष्टमद्यापि पुरस्त्रीविरहव्रतम्।
न भुग्नं तत्त्वया भग्नं जगद्गुरुशरासनम्॥२०॥
**रामः—**भगवन्, अलीकलोकवार्तया निरपराधे मयि मुधाकोपकलङ्कितोऽसि।
**भार्गवः—**तत्किं स्वस्ति हरकार्मुकाय।
**रामः—**नहि नहि।
**भार्गवः—**तत्कथं निरपराधोऽसि।
रामः—
मया स्पृष्टं न वा स्पृष्टं कार्मुकं पुरवैरिणः।
भगवन्नात्मनैवेदमभज्यत करोमि किम्॥२१॥
**भार्गवः—**आः, कथं रे चन्दनदिग्धं नाराचं निधाय हृदयं मेशीतलयसि। तदलमनेन। (कुठारमुद्यम्य।)
हे राम कामरिपुकार्मुककर्मघात-
संजातपातक तवैष कठोरधारः।
सीताकरव्यतिकरप्रतिकूलबन्धुः
कण्ठं पुरा विशतु निष्करुणः कुठारः॥२२॥
तत्प्रवीरो भव।
रामः—
हारः कण्ठं विशतु यदि वा तीक्ष्णधारः कुठारः
स्त्रीणां नेत्राण्यधिवसतु नः कज्जलं वा जलं वा।
संपश्यामो ध्रुवमिह सुखं प्रेतभर्तुर्मुखं वा
यद्वा तद्वा भवतु न वयं ब्राह्मणेषु प्रवीराः॥२३॥
**जामदग्न्यः—**आः, कथं मामपि प्रणतिपात्रं ब्राह्मणमात्रमिवमन्यसे। (पुनः सामर्षम्।)
जानीषे नहि जामदग्न्यमपि रे यद्दीर्घदोःकन्दल-
द्वन्द्वास्कन्दितबाहुना रणभुवि स्कन्देन मन्दौजसा।
नास्राक्षीद्भुजसंपदं मम कथं वक्रानुसारादिति
क्रुद्धेनोद्धतमैक्षि शंकरकरन्यस्तं विधातुः शिरः॥२४॥
(पुनः सामर्षम्।) किमात्थ रे, किमात्थ। ‘न वयं ब्राह्मणेषु प्रवीराः’इति। कथं क्षत्रियजातिगर्वितो ब्राह्मणजातिं तृणाय मन्यसे। तदिदानीमावयोः का गरीयसीति सङ्ग्रामतुलैव निर्णेष्यते।
रामः—
भो ब्रह्मन्भवता समं न घटते संग्रामवार्तापि नः
सर्वे हीनबला वयं बलवतां यूयं स्थिता मूर्धनि।
**लक्ष्मणः—**जामदग्न्य, एवमेतत्।
यस्मादेकगुणं शरासनामिदं सुव्यक्तमुर्वीभुजा-
मस्माकं भवतां पुनर्नवगुणं यज्ञोपवीतं बलम्॥२५॥
**रामः—**वत्स, अलमिह माननीये मुनौ दुर्विनयवैदग्ध्येन।
**जामदग्न्यः—**अस्य को दोषः।
दारैर्मुक्तकुचांशुकैः परिवृतं प्राचीनमेषां नृपं
नाहिंसीद्यदसौ कुठारहतकस्तस्यैतदुज्जृम्भितम्।
यन्नारीकवचान्वयप्रणयिनां क्षत्त्राधमानामिमा
दुर्वाचः प्रविशन्ति मे श्रवणयोर्धिक्क्षत्रगोत्रे कृपाम्॥२६॥
**रामः—**अलमिह क्षीरकण्ठे कंठोरकोपतया। तत्क्षम्यताम्।
**जामदग्न्यः—**आः, किमुच्यते क्षीरकण्ठ इति। विषकण्ठःखल्वसौ।
**लक्ष्मणः—**भगवन्, शितिकण्ठशिष्येण विशेषतः क्षन्तव्यम्।
**जामदग्न्यः—**आः, कथं विषकण्ठनामसाम्येन त्वमपि मे गुरुः।
लक्ष्मणः—(विहस्य।) भगवन्, अन्याभिसंधानेन मयेदमुक्तंयत्किल
किरीटमधिरूढेऽपि वाले प्रालेयरोचिषि।
शितिकण्ठस्य किं चित्ते धत्ते कोपाङ्कुरः पदम्॥२७॥
तद्भवांस्तदन्तेवासीति विशेषतः क्षन्तुमर्हति।
जामदग्न्यः—(स्वगतम्।) अहो अस्य क्षत्रियबटोर्वाक्परिपाटीपाटवम्। भवतु। (प्रकाशम्) तदिदं क्षान्तमेव मया। अयं तु नक्षमते प्रकृतिकठोरः कुठारः। शीलं न वेत्सि कथमस्य।
क्रीडाविनिर्मितसुदुर्मददोर्विलास-
निःशेषराजकवधस्य परश्वधस्य।
कीलालकीकसकचैः परितो विचिन्त्य
येन त्रिधापि विदधे पृथिवी त्रिवर्णा॥२८॥
(पुनः सामर्षम्।) कथमस्य हरप्रसादपरशोः शीलमपरिशीलितं ते।
यत्र क्रामति संगराङ्गणभुवं दुर्वारधाराञ्चल-
क्षुण्णक्षत्रकिशोरकण्ठरुधिरैर्नीरेणुका भूरभूत्।
तादृग्वीरवरखयंवरपरखर्लोककन्याकर-
क्रीडापुष्करदामरेणुभिरभूक्ष्यौरेव रेणूत्कटा॥२९॥
लक्ष्मणः— भगवन्, एतत्सत्यम्। यत्किल भवत्कुठारधाराञ्चलविलसितेन नीरेणुका भूरभूदिति।
जामदग्न्यः—(स्वगतम्।) आः, कथं रेणुकावृत्तान्तेन मर्म विध्यति। भवतु। (प्रकाशम्।) अये क्षत्रियपोत, अलमिह निरपराधेभवति मुधा परश्वधपातेन। तदयं मे प्रकृतिकठोरभाषिणं भवत्कण्ठमेव शातयति कुठारः।
(नेपथ्ये।)
अये जामदग्न्य, कथमतिप्रगल्भसे। तदिदमिदानीं भवच्छासनाय शरासनमानीयते।
जामदग्यः—(विहस्य।) कथमयं जनकः। (उच्चैः।) अये याज्ञवल्क्यशिष्य, किं भवतः शरासनेन। पद्मासनमेवावलम्बस्व।(पुनः सोत्प्रासम्।)
युष्माकं भोः सुघटितबहुन्यस्तपद्माक्षकण्ठा
मिथ्योत्कण्ठा किमिति समिति क्षत्रियश्रोत्रियाणाम्।
तेऽन्ये चञ्चत्करतलचलच्चण्डनिस्त्रिंशधारा-
धौतारातिद्विषमदमषीपङ्कपूराः प्रवीराः॥३०॥
तदलं भवता। एतावेव तावत्क्षत्रियस्फुलिङ्गौ निर्वापयामि।
(पुनर्नेपथ्ये।)
अये जामदश्य, कथं तथा शमधनसमृद्धस्य जमद मेस्तनयोऽपि शमदुर्गतोऽसि संवृत्तः।
जामदग्न्यः— कथमयमाङ्गिरसः। (उच्चैः।) अये शतानन्द, कथय तावत्। इदमेवंविधं शमाभिधानं कस्मादुपात्तम्। भगवतो गौतमाद्वा गोत्रभिदो वा।
(नेपथ्ये।)
आः, क्षत्रियापुत्र, निजजननीकण्ठताण्डवितकुठार कुलाङ्गार, कथं तपस्तुङ्गमाङ्गिरसमपि कुलं कलङ्कयसि।
जामदग्न्यः— आः पाप कुलपांसन पांसुलापुत्र, कथं भृगूणामत्रे तपस्ताण्डवं मण्डयसि।
रामः— भगवन्, सकललोकविख्यातमिदं भृगूणामाङ्गिरसां कुलम्। तपोविशेषतस्तु भर्गशिष्यस्य। अत एव विज्ञापयामि।
तपः शान्तं चेतः स्फटिकमणिमालापरिकरः
कुशाः कुण्डी दण्डः सततमुटजावासनिरतिः।
मुनीनामेतद्वः समुचितमुदग्रं न वचनं
न वक्रभ्रूभङ्गो न शरधनुषी नापि परशुः॥३१॥
(पुनः सविस्मयम्।) भवानेव तावद्विचारयतु।
क्व परशुरशुभस्ते कुत्र गोत्रं पवित्रं
क्व नु धनुरिदमुग्रं निर्मलं कुत्र शीलम्।
घनसमरकराला कुत्र नाराचहेला
कुश किसलयलीला कुत्र सा पर्णशाला॥३२॥
जामदग्न्यः— कथमन्यमिव मां प्रणतिपात्रं मुनिमात्रं मन्यसे स एष जामदग्न्यःखल्वहं
क्षुण्णक्षत्त्रकठोरकण्ठविगलत्कीलालधारासरि-
न्निर्वृत्ताभिषवस्य कृत्तशिरसां केशान्कुशान्कुर्वतः।
गृह्णन्रक्तजलाञ्जलीन्पितृगणो यस्य क्षणं विस्मितः
संतोषेण जुगुप्सया करुणया त्रासेन हासेन च॥३३॥
तदलमिदानीमपि
कृत्वा त्रिःसप्तकृत्वः समिति विशसनं पूर्वमुर्वीपतीनां
कृत्वान्यत्सप्तकृत्वः पुनरपि कदनं दुर्मदानां नृपाणाम्।
निर्माय क्ष्मापतीनां प्रतिसमरहृतैरुत्तमैरुत्तमाङ्गैः
कापालीमक्षमालां झटिति भगवतो भैरवस्यार्पयामि॥३४॥
रामः—
प्रसीद त्वं रोषाद्विरम कुरु मे चेतसि गिरं
चिरं यच्चायासैर्बहुभिरिह वारैर्जितमभूत्।
यशोवित्तं वृत्तं कितव इव विक्षोभतरलं
तदेतस्मिन्वारे भृगुतिलक मा हारय मुधा॥३५॥
जामदग्न्यः— कथं रे हारयिष्यामि। (विमृश्य।) अथवा \।
किं नाम वाग्डम्बरपण्डितेषु युष्मासु वाणीः प्रचुराः प्रयुञ्जे।
बाणान्रिपुप्राणहरान्मदीयान्सर्वेऽपि यूयं सहिताः सहध्वम्॥३६॥
रामः— किमन्यैर्नन्वहमेव हरशरासनारोपणोपनीतजानकीकरकिसलयलीला निहितकमलमालिकामिलदलिपटलकोलाहलसंगीतयशः परिमलेन वक्षःस्थलेन सहिष्ये।
जामदग्न्यः—
ईशत्यक्तपुराणचापदलनप्रोद्भूतगर्वोद्धति-
व्यग्रस्त्वं कतरः स मे तव गुरुः सोढुं न शक्तः शरान्।
तुष्टादिष्टवरप्रदाद्भगवतः पद्मासनात्सादरं
मन्नाराचभयादयाचत किल ब्राह्मीं तनुं कौशिकः॥३७॥
रामः—(स्वगतम्।) कथं भगवन्तं विश्वामित्रमधिक्षिपति। तदतः परं न सहिष्ये। (प्रकाशम्।)
ईशत्यक्तपुराणचापदलनप्रोद्भूतगर्वोद्धति-
व्यग्रोऽहं कतरः स ते मम गुरुः सोढुं न शक्तः शरान्।
तुष्टादिष्टवरप्रदाद्भगवतः पद्मासनात्सादरं
त्वन्नाराचभयादयाचत किल ब्राह्मीं तनूं कौशिकः॥३८॥
(इति पदव्यत्यासेन पुनः श्लोकं पठति। पुनः साटोपम्) अये जामदग्न्य,
तत्कोदण्डं कुलिशकठिनं भग्नमेतेन भग्नं
ममं शल्यं तव हृदि महद्भग्नमेतावता किम्।
त्र्यैयक्षं वा भवतु यदि वा नाम नारायणीयं
नैतत्किंचिद्गणयति स मे दुर्मदो दुर्विलासः॥३९॥
जामदग्यः— (सहर्षम्) साधु रे क्षत्रियपोत, साधु। यत्किल जामदम्ग्न्यनाम्नश्चण्डधाम्नः पुरतः स्वद्योत इव विद्योतसे। किमात्थ रे, किमात्थ।
रामः—(तदेव पठति।) नन्विदं भूयोऽप्युच्यते। (पुनस्तदेव पठति।)
**जामदग्न्यः—**साधु स्मारितोऽस्मि।
**रामः—**किं तत्।
जामदग्न्यः—
कराघाताद्विष्णोस्तरलवनमालापरिमल-
भ्रमत्तुङ्गध्वानद्विगुणित विकाशः समजनि।
स यस्य ज्याघोषः सुररिपुवधूवर्गरुदित-
ध्वनिस्वाध्यायानां प्रणव इव तत्कार्मुकमिदम्॥४०॥
रामः—
करपङ्केरुहक्रोडे क्रीडितं येन शार्ङ्गिणः।
तदेतत्।
जामग्न्यः—
अथ किं यदि शक्तोऽसि गृहाण विगृहाण वा॥४१॥
रामः— गृह्णामि।
**जामदग्न्यः—**तदेहि। बाष्पायमाणभवद्बन्धुजनबन्धुरां वसुंधरामतिक्रम्य समरक्षमां क्षमामवतरावः।
(इति निष्क्रान्तौ।)
लक्ष्मणः—(विलोक्य सहर्ष सकौतुकं च।)
मा शांभवं धनुरिवेदमपि प्रयातु
भङ्गप्रसङ्गमिति मन्दचलद्भुजेन।
आर्येण कार्मुकमपीदमहो सहेलं
चक्रीकृतं भगवतो गरुडध्वजस्य॥४२॥
(नेपथ्ये।)
अहो कौतुकम्।
उद्भिन्नश्चापचक्रादमरपरिहृतव्योमरन्ध्रावगाही
बाणोऽयं राघवस्य त्रिदशपुरगतिच्छेदकृद्भार्गवस्य।
हंसीभूतः सुरस्त्रीकरकमलगलत्पुष्पसौरभ्यलुभ्य-
द्भृङ्गीसंगीतभङ्गीपरिचलितयशाः स्वर्गपर्यङ्कमेति॥४३॥
(ततः प्रविशतो रामजामदग्न्यौ ।)
जामदग्न्यः— (रामं विलोक्य निर्वर्ण्य च स्वगतम्।)
त्रिलोकी कोकीयं मुदमुदयतानेन लभते
विकाशं वा धत्ते मुनिजनमनःपङ्कजवनम्।
अये कोऽयं बालः कुवलयदलश्यामलतनु-
र्जगद्योनिर्ज्योतिः कथमिदमहो तत्परिणतम्॥४४॥
(पुनर्विमृश्य।)
आपूरणाय पुरवैरिशरासनस्य
बाणात्मना परिणतः किल लीलया यः।
आरोपणाय पुनरस्य स एव शङ्के
बालात्मना परिणतः पुरुषः पुराणः॥४५॥
(प्रकाशम्।) वत्स, इतः।
(रामः सलज्जमधोमुखस्तिष्ठति।)
जामदग्न्यः— (उपसृत्य। रामस्य चिबुकमुन्नमय्य।) किमिति लज्जास्थानम्।
कमलबन्धुविलोचन यस्त्वया स्वमहिमोन्नमनैरधरीकृतः।
न किमसावरीकुरुते नरस्त्रिदशकोटिकिरीटमणीनपि॥४६॥
रामः—(अञ्जलिं बद्ध्वा।) भगवन्, अलमनेन। दुर्विनयपङ्कमलिनीकृतमात्मानं तावद्भवच्चरणनखकिरणतरङ्गिणीजलेन क्षालयामि।
चण्डमेव किल तिग्मरोचिषः सौम्यमेव किल शीतरोचिषः।
चण्डसौम्यमिति कौतुकावहं नौमि तावकमहं महन्महः॥४७॥
(इति पादयोः पतति।)
जामदग्न्यः— अयि कल्याणनिधे, आशीरुक्तिरपि त्वयि पुनरुतिरेव। तथापीदमाशास्महे।
यशःपूरं दूरं तनु सुतनुनेत्रोत्पलवनी-
तमस्तन्द्राचण्डातप तप सहस्राणि शरदाम्।
इयं चास्तां युष्मच्छरशमितलङ्केश्वरशिरः-
श्रितोत्सङ्गा नन्दत्सुरनरभुजङ्गा त्रिजगती॥४८॥
तदनुजानीहि माम्। (इति निष्क्रान्तः।)
रामः— (लक्ष्मणं प्रति।) ननु कथं नयनपथमतिक्रान्त एव भगवान्। तदेहि। भृगुकुलतिलकवियोगखिन्नमात्मानं बन्धुजनविलोकनेन विनोदयावः।
(इति निष्क्रान्ताः सर्वे।)
इति चतुर्थोऽङ्कः।
गङ्गा— हा इन्दुमतिनन्दन, हा सकललोकहृदयानन्दनचन्दन, हा महाकोदण्डपण्डित, हा आखण्डलप्रियसख, हा निजतनयनिर्विशेषप्रीतिपरिपालितसकललोक, हा रामभद्रैकजीवित। (इति मूर्च्छति।)
सरयूः— (स्वगतम्।) अस्यैव विलसितमेतत्।
गङ्गा— हा महाराज दशरथ। (इति मूर्च्छिता पतति।)
** यमुना—** (अंशुकाश्ञ्चलेन वीजयन्ती।)भअवदि64, समस्ससिहि समस्ससिहि। णं इमेहिं जेव्व गुणेहिं असोअणिज्जो सो राआ।
गङ्गा— (सरयूं प्रति।) सखि, तवैव न केवलमयं तापः, सर्वजनसाधारणः खल्वसौ। तदेनं रामभद्रच्छत्रच्छाययापनोदयामः।
सरयूः— (निःश्वस्य।) भगवति, न खल्वप्रोषितसलिलसेकः कमलकेदारः परिशुष्यति।
गङ्गा— स्पष्टं तावत्कथय।
(सरयूरधरस्फुरणं नाटयति।)
गङ्गा— अलमलम्। कथं दावानलशोषितायां तरुशाखायां कुठारमारोपयितुमिच्छसि। अथवा कथय तावत्।
सरयूः—(स्वगतम्।) अहो,
न ज्ञातुं नाप्यनुज्ञातुं नेक्षितुं नाप्युपेक्षितुम्।
सुजनः स्वजने जातं विपत्पातं समीहते॥२॥
(प्रकाशम्।) रामभद्रमभिषेक्तुं कृतमनोरथं दशरथमेत्य कैकेयी प्रथमं तावदिदमुक्तवती।
इदमेव नरेन्द्राणां स्वर्गद्वारमनर्गलम्।
यदात्मनः प्रतिज्ञा च प्रजा च परिपाल्यते॥३॥
गङ्गा— (स्वगतम्।) अनेनैव तावदकल्याणरुचिः सूचिता दुराशया। (प्रकाशम्।) चरमं च किम्।
सरयूः—
त्वया देयं यन्मे द्वयमभिहितं देहि तदिदं
वनं कौसल्येयो विशतु युवराजोऽस्तु भरतः।
सरयूः—
‘वनं वनजपत्राक्षि समागच्छ सहैव वा॥६॥’
इत्यनेन रामवचनामृतेनैव।
**गङ्गा—**उचितमिदं जानकीस्नेहस्य।
**यमुना—**अवि65 णाम रामलक्खणाणं वि कोवि संवादो संवुत्तो।
**सरयूः—**अथ किम्। इदमुक्तो हि रामचन्द्रेण लक्ष्मणः—
‘गमय वत्स निमील्य विलोचने कतिचिदत्र निमेषसमाः समाः।
अपि च मामिव शीलसुशीतलं शुभरतं भरतं परिशीलय॥७॥
इदमुक्तं च लक्ष्मणेन— ‘अये रघुनाथ,
त्वया समं मे चत्वारि यामा एव युगान्यपि।
चतुर्दश समाः स्थातुं विना मन्वन्तराणि मे॥८॥
अपि च।
त्वया मम समेतस्य कल्पा अपि समासमाः।
भवता विप्रयुक्तस्य कल्पकल्पः क्षणोऽपि मे॥९॥
गङ्गा— अपि नाम कौसल्ययापि किंचिच्छिक्षितो रामभद्रः।
**सरयूः—**अथ किम्। सा हि ‘अयि वत्स, रामभद्र, सीताम्’ इत्यर्धोक्त एव बाष्परुद्धकण्ठीदमुक्तवती—‘अथवा वत्स, लक्ष्मणे रक्षितरि को भवान्सीतासमीक्षणस्य। तदिदं तावदभ्यर्थयामि।
इह मुग्धमुखे वत्स लक्ष्मणे दक्षिणो भव।
अपि राज्योपभोगेभ्यो यस्य त्वं सहजप्रियः॥१०॥’
इदमुक्तं च रामभद्रेण—’ अपि मातः, निजजीवितेऽपि दक्षिणेन भवितव्यमित्यपि शिक्षणीयमेव।
**गङ्गा—**तन्नूनं ततः प्रभृति सहजसौन्दर्यमेवाभरणं वत्सरामस्य।
सरयूः—अन्यदप्येकंविमुञ्चन्सकलमाभरणजातमित्थमभ्यर्थितः कौसल्यायो रामभद्रः—
‘हस्तावलम्बदानाय सीतामाङ्गल्यसंपदः।
इदं विमुञ्च मा वत्स राम रत्नाङ्गुलीयकम्॥११॥
इदमन्यच्च ते कथयामि। धीरा समाकर्णय।
**गङ्गा—**कथमेतावदाकर्णितवतीमपि मामधीरामाशङ्कसे।
सरयूः—
निकामं रामस्य प्रमुदितमुखाम्भोरुहरुचे-
र्जटावल्लीर्मल्लीमुकुलसदृशैर्वाष्पपृषतैः।
निषिञ्चन्सौमित्रिः कथमपि वितेने खलु यदा
तदा जातं मातः करुणमयमेतज्जगदपि॥१२॥
**यमुना—**अवि66 णाम तस्सि समये सीदावि किंवि सिक्खिदा बन्धुअणेण।
**सरयूः—**अयि देवि, विपरीतमालपसि।
गहनविपिनवासोत्कण्ठया संप्रयातं
प्रियतममनुयान्त्या तत्क्षणं राजपुत्र्या।
चरणकमलगुञ्जन्मञ्जुमञ्जीरशब्दैः
स्फुटतरमुपदिष्टा बान्धवाः साधु वृत्तम्॥१३॥
इदं तु वृत्तम्।
पुरः कान्तं यान्तं विपिनमनुयान्त्याः सरभसं
तदादौ सीतायाः किसलयनिभौ वीक्ष्य चरणौ।
मुहुः शीतास्तप्ताः किमपि च मुहुर्बन्धुनयनैः
समं मुक्ता मुक्तासदृशरुचयो बाष्पकणिकाः॥१४॥
**गङ्गा—**हर्षविषादयोर्विलसितमेतत्।
सरयूः— इदं बन्धुजनेन शिक्षितो रामचन्द्रः—
‘बाला विदेहतनया तरलौ भवन्तौ
दिग्दक्षिणा च रजनीचरचक्रदुष्टा।
तद्वत्स वत्सलतयेदमुदाहरामो
मा राम गच्छ नय दक्षिण दक्षिणाशाम्॥१५॥
**गङ्गा—**ततस्ततः।
**सरयूः—**ततस्तामेव दिशं प्रति
सुरमुरजगभीरधीरनादद्विगुणगुणध्वनिचापदत्तहस्तः।
पुरजननयनैः कृतं दधानः कुवलयदाम जगाम रामभद्रः॥१६॥
यमुना— को67 उण सो अवसरो सुरमुरअसद्दस्स।
**गङ्गा—**सखि, न जानासि। गभीरं ध्वनद्भिः खलु सुरमुरजैः किमपि गभीरमेव ध्वनितम्।(पुनः सविषादम्।) हा दशरथ, सकलगुणसंपदां भाजनं भूत्वापि कथमेकस्य भाजनं न जातोऽसि।
यमुना— कहं68उण सो राआ तुझेहिं पसंसीअदि जेण तारिसोऽवि तणओ तुणं विअ मुक्को।
**सरयूः—**शान्तं पापम्।
नरेन्द्रः कैकेयीवचनपरिपाटी विगलितः
क्षणं मोहक्कोधप्रसरभरयोरन्तरचरः।
सुतं चोरग्रस्तो मणिमिव करस्थं न कृपण-
स्तृणानीव प्राणान्पुनरयममुञ्चद्दशरथः॥१७॥
**यमुना—**अवि69 णाम भरदस्स णाणुमदमिदम्।
**सरयूः—**अये, भरतस्य मातुलगृहादागतस्य कैकेय्याश्च संवाद एवोत्तरं दास्यति।
**गङ्गा—**कीदृशः पुनरसौ।
सरयूः—
मातस्तातः क्व यातः सुरपतिभवनं हा कुतः पुत्रशोका-
त्कोऽसौ पुत्रश्चतुर्णां त्वमवरजतया यस्य जातः किमस्य।
प्राप्तोऽसौ काननान्तं किमिति नृपगिरा किं तथासौ बभाषे
मद्वाग्बद्धः फलं ते किमिह तव धराधीशता हा हतोऽस्मि॥१८॥
गङ्गा—(सहर्षम्।) वत्स भरत, भवसि रामानुजन्मा।
सरयूः—
रामे प्राप्ते वनान्ते कथमपि भरतश्चेतनां प्राप्य तातं
नीत्वा देवेन्द्रलोकं मुनिजनवचनादूर्ध्वदेहक्रियाभिः।
भ्रातुः शोकामितप्तः स्वजनपरिवृतः पालयामास नन्दि-
ग्रामे तिष्ठन्नयोध्यां रघुपतिपुनरागामिभोगापवीरः॥१९॥
**यमुना—**तदो70 तदो।
**सरयूः—**अहमेतावदेव जानामि। ततः परं तद्वृत्तान्तनिरूपणाय निजजलकमलवनवासी कोऽपि कलहंसः प्रस्थापितो मया।
(प्रविश्य।)
कलहंसः— देव्यः, इदं नमो वः।
**तिस्रः—**अयि कमलावतंस कलहंस, मङ्गलमन्दिरं भव।
गङ्गा— अये, कथय तावद्वत्सानां मे प्रथमतः प्रभृति पथि चरितानि।
हंसः—
विघ्नानिवानुसरतो विनिवार्य पौरा -
नग्रे स्वयं नय इवैष जगाम रामः।
एनं विभूतिरिव सानुजगाम सीता
तां लक्ष्मणस्तु सुखलाभ इवानुगच्छत्॥२०॥
**गङ्गा—**ततस्ततः।
**हंसः—**ततः कियत्यपि दूरे पथिकलोकेनेदमुक्तस्ते वत्सवर्गः—
पन्थाः समः सिकतिलो मृदुशाद्वला भू-
वैतस्वती सरिदियं शिशिरा न दूरे।
अग्रे चकास्ति सरसी च कुमुद्वतीयं
कादम्बकूजितकरम्बितहंसनादा॥२१॥
अन्यच्च।
तरुरयमितः शीतच्छायः स्रवन्मधुशीकरः
सरिदियमितः स्वल्पस्वच्छप्रवाहमनोहरा।
इदमिदमितः स्निग्धामोदं मुहुर्मधुरध्वन-
न्मधुकरवधूमुग्धाभोगं वनं सरसीरुहाम्॥२२॥
गङ्गा— अहो, अध्वश्रमशमनानि पथिकजनवचनानि।
**यमुना—**तदो70 तदो।
हंसः— ततः प्रियतममनुगच्छन्ती जानकी
भीतं विलोक्य हरिणं करुणार्द्रचित्ता
पत्युर्निजेन पिदधे धनुरंशुकेन।
केदारसीम्नि सदयं च यवप्ररोह-
मादाय साधु विदधे श्रवणावतंसम्॥२३॥
अन्यच्च।
तटभुवि सरसीनां सैकते निम्नगानां
परिसरमपहातुं चक्रवाकी प्रियस्य।
क्षणमपि न समर्थ लोलमालोकयन्ती
पथि जनकतनूजा प्राप हर्षं शुचं च॥२४॥
**गङ्गा—**एवमनुकम्पनीयवत्सला मे जानकी। (पुनः सस्नेहम्।) अपि तावत्पथिकनी तिशीतलानि मे वत्सानां शीलानि।
**हंसः—**कीदृशी पुनः पथिकनीतिः।
गङ्गा—
यावत्कर्णं तपति तपनस्तावदेव प्रयाणं
विश्रामश्च प्रसरति रवेरंशुजाले कराले।
यात्रोद्योगः पुनरपि रवेर्लम्बमाने विमाने
यावन्मीलत्यथ कमलिनी तावदावासबन्धः॥२५॥
**हंसः—**भगवति, अनवस्थितमिदं नित्यंपथिकानाम्।
**गङ्गा—**हन्त, कथं कठोरातपस्पर्शमपि जानन्ति जानकीललिताङ्गानि।
**हंसः—**अलं कातरतया।
अपि तपति पतङ्गे चण्डचण्डैर्मयूखैः
पथि जनकतनूजा नैव संतापमाप।
गङ्गा—(सकौतुकम्।) कथमिव।
हंसः—
अपरिचितनिमेषालोकमालोकयन्ती
कुवलयदलदामश्याममङ्गं प्रियस्य॥२६॥
Please dont Edit this page (Blank Page)
(पुनः सकौतुकम्।) इदमन्यच्च सरसपेशलं कथयामि ते।
जनकतनयाहस्तन्यस्तैर्मुहुर्नवपल्लवैः
शिशिरमसृणस्तत्कालं यः समेति समीरणः।
प्रशमममुना खेदोद्भूतं जगाम कपोलयोः
सलिलमनयोः शोकोद्भूतं शशाम न नेत्रयोः॥३०॥
अपि च।
कृतः स्थाने स्थाने विहितवरिवस्यापरिकरः
सुमित्रापुत्रेण श्रमशमनशीतो रघुपतिः।
असावेतेनापि क्षणविरहबाष्पाञ्चितदृशा
कृतालोकश्चक्रे गलितसकलायासशिशिरः॥३१॥
**सरयूः—**कियतां पुनरह्नां परिवर्तन रघुराष्ट्रमतिक्रान्तं वत्सैः।
**हंसः—**अयि, कथमजानती वर्तसे रघूणामाधिपत्यम्।
एते हि स्वरसावनम्रनिखिलक्ष्मापालमौलिज्वल-
न्माणिक्य फुर दंशुमांसल पदप्रेङ्खन्नखज्योतिषः।
दूरोन्मुक्तचतुः समुद्रलहरी विक्षिप्तशुक्तिस्खल-
न्मुक्तापङ्क्तिविनिर्मितैकवलयं भूमण्डलं भुञ्जते॥३२॥
उत्तरकोसलास्त्रिचतुरैरेवाहोभिरतिक्रान्ताः। अथ पुरमथनमौलिमालतीमालां मन्दाकिनीमचिरेण च कलिन्दगिरिकरिकपोल मदवारिधारां कालिन्दीमप्यतिक्रान्ताः।
गङ्गा—(यमुनां प्रति।) सखि, तदिदं यत्कथितवत्यसि।
यमुना—
तपनसुतया देव्या यद्वा भगीरथकन्यया
विपुलविपुलैर्वीचीहस्तैश्चिरादपि किं कृतम्।
ललितलवलीभङ्गैरङ्गैर्वनं चलिता सती
जनकतनया पाणौ धृत्वा न यद्विनिवारिता॥३३॥
गङ्गा—(विहस्य।) सखि, कथं परोक्ष इव समक्षेऽपि नितान्तमुपालम्भसे।
**यमुना—**तदो70 तदो।
**हंसः—**ततश्च शबरशरदलितविन्ध्यकरिकुम्भतटीविमुक्तमुक्ताफलप्रकरतारकिततीरलतावितानपरिच्छदां शर्मदां नर्मदामतीत्याचिरेण चपलकर्णाञ्चलपरिमिलितमदकरिकपोलचलितसहचरसमागममुदितमधुकरवधूमधुरसरसकुसुमकेसरं गोदावरीपरिसरं प्रयाताः।
**यमुना—**हद्धि71 हद्धि। तत्थ हि लङ्केसरभइणी क्खणेण पमत्तासुप्पहा णाम रक्खसी परिब्भमई।
हंसः— अतिप्रमत्तेति वक्तव्यम्। सा हि सौमित्रिशरदलितनिजनासिकारुधिरसीधुरसमास्वादितवती।
गङ्गा— (सातङ्कम्। तदाकर्ण्य।) किं प्रतिपन्नं जनस्थानवासिना निशाचरचक्रेण।
हंसः— करकलितकरालकुन्तलकरवालकार्मुकेण निशाचरचक्रेण रामं प्रति प्रचलितम्।
गङ्गा— ततस्ततः।
हंसः— ततश्चेदं विज्ञप्तः सौमित्रिणा रामभद्रः—‘आर्य, अयं में
नक्तंचरेन्द्रभगिनीसुकुमारनासा-
निर्मुक्तरक्तलवलिप्तशितैकधारः।
उत्कण्ठतें कठिनराक्षसकण्ठजानां
पानाय कर्दमसृजामसृजां कृपाणः॥३४॥
इदमुक्तं च रामभद्रेण— ‘वत्स, अस्त्येतत्। किंतु प्रकृतिभीरुः खल्वबलाजनः। तेन हि जानकीसनाथगर्भां पर्णशालामेव समुत्खातकरवालः पालयतु भवान्। अयमहमचिरात्— ‘इत्यर्धेक्त एव निशाचरचक्रं प्रति प्रचलितः संमिलितश्च।
गङ्गा—(सत्रासम्।) अनन्तरं किं वृत्तम्।
हंसः—
अथाहूतस्तादृक्समरजयसंरम्भरभस-
प्रसर्पद्गम्भीरध्वनिगरिमगर्जद्दशदिशम्।
मुहूर्तात्सौमित्रिः
सरयूः— तत्किं रामेण।
हंसः— नहि नहि।
**सरयूः—**अयि देवि भागीरथ, त्रायख् मां नूनं निशाचरचक्रेणेति वक्ष्यति।
हंसः—
विपिनचरनक्तंचरचमू-
वधक्रीडाकिंचिन्मुकुलितरुषा रामधनुषा॥३५॥
सरयूः— दिष्ट्या जीवितास्मि। सेयं प्रथमदर्शिततीव्रातपा पीयूष वृष्टिः।
**हंसः—**ततः प्रमुदितमुनिजनशतसमुद्भूतसाधुवादश्रवणविनोदेन कतिचिदहानि नयन्ति स्म।
अथाविरासीत्कुरुविन्दलोचनो द्रुमान्तरे विद्रुमशृङ्गशोभितः।
विभक्तमुक्तामयचित्रमण्डनो मनोपहारी हरिणो हिरण्मयः॥३६॥
गङ्गा—(स्वगतम्।) नूनमयमनर्थाङ्कुरः। (प्रकाशम्।) ततस्ततः।
हंसः—
भ्रूवल्लीविजितमनोजचारुचाप-
श्चापश्रीजितयुवतीमनोरमभ्रूः।
सीतायास्तमनुससार लोचनान्तः
कान्तश्च स्फुरदसितोत्पलाभिरामः॥३७॥
ततः
त्रासातुरेण हरिणेन सहैव तेन
दूरं प्रयाति हृदये जनकात्मजायाः।
सौमित्रिराश्रमपदात्कृतचापपाणि-
र्द्राङ्गिर्जगाम च विवेश च कोऽपि भिक्षुः॥३८॥
**गङ्गा—**ततस्ततः।
**हंसः—**ततः
इतो बाणं रामः क्षिपति हरिणे मुक्तकरुणः
सचापः सौमित्रिः खजनमनुयाति द्रुतमितः।
इतः सीता भिक्षामुपनयति भिक्षोः करतले
त्रयं व्योम्नि प्रेङ्खन्युगपदहमालोकयमिदम्॥३९॥
सरयूः— ततस्ततः।
**हंसः—**ततः।
कनकहरिणगात्रे बाणपातावलोका-
द्विमुखहृदयवृत्तिर्लोचने संनिमील्य।
कथयितुमयि चेदं रामवृत्तान्तजातं
सरयु तव तटान्तं तूर्णमेवावतीर्णः॥४०॥
तदनुजानीत मां देव्यः सलिलावगाहनाय। श्रान्तोऽस्मि।
तिस्रः—
विहरास्मिन्रमणीये शुचिपयसि स्मेरनीरजे सरसि।
पुरतरुणीचरणरणन्मणिनूपुरकूजितोत्कुतुकः॥ ४१॥
(हंसः प्रणम्य निष्क्रान्तः।)
**गङ्गा—**सखि सरयु अनेन वृत्तान्तक्रमेण कातरं मे मनः।
सरयूः— अलं कातरतया। नन्वनेन हि नूपुरोद्भेदेन स्मृतं मया यत्किल वनगमनोद्यतां जानकीमिदमुक्तवती करकलितनू पुरद्वया पतिव्रता सीमन्तिनीरत्नमरुन्धती।
अधिचरणममू चमूरुनेत्रे मृदुणितौ मणिनूपुरौ विधेहि।
अहरपि विरहं न यन्महिम्ना हरिणदृशः सह वल्लभैर्लभन्ते॥४२॥
कृतवती च तथा जानकी।
गङ्गा— इदानीं किमपि निर्वृतास्मि। सत्यवादिनी हि मे सखी वसिष्ठगृहमेधिनी। तदागच्छत। इमं वृत्तान्तं रघुकुलवत्सलाय सागराय निवेदयामः। (इति परिक्रामन्ति।)
गङ्गा— (सविस्मयम्।) अहो, प्रवाहवेगातिशयात्तत्क्षणादेव दूरमुपयाताः स्मो यदयमदूर एव गोदावरीसहचरः सागरः किमपि समालपन्नालोक्यते कल्लोलिनीकान्तः।
(ततः प्रविशति गोदावरीसहचरः सागरः।)
**सागरः—**ततस्ततः।
**सरयूः—**कथमिहापि किमपि वृत्तान्तशेषः प्रस्तूयते।
यमुना— अवि72 णाम तं जेव्व हविस्सदि जं किर हंसेण णावगअम्।
** गोदावरी—**ततः।
रामोन्मुक्तैकबाणप्रणिहतहृदयः काञ्चनाङ्गः कुरङ्गः
सद्यो मारीचनामाजनि रजनिचरः सान्द्ररक्ताक्तवक्षाः।
भिक्षुः सोऽपि क्षणार्धान्मणिखचितचलत्कुण्डलश्रेणिशोभा-
वीचीखेलत्कपोलस्फुरितदशशिराः कुम्भकर्णाग्रजोऽभूत्॥४३॥
गङ्गा— हा, हतास्मि। (विमृश्य।) अथवास्ति तन्मणिनूपुरद्वयम्।
**सागरः—**अपि नाम मम वधूटिका स्पृष्टा निशाचरेण।
**गोदावरी—**न स्पृष्टा।
**सागरः—**कथमिव।
**गोदावरी—**तथा हि।
रजनिचरकराग्रस्पर्शसंपातविघ्नं
रचयितुमनुसूयाहस्तदत्ताङ्गरागाम्।
वहलमनलपुञ्जः पिञ्जरज्योतिरुद्य-
कुवलयदलशीतां संवृणोति स्म सीताम्॥४४॥
**सागरः—**अहो, अत्रिपत्न्यास्तपः प्रभावः।
**गोदावरी—**ततो वरुणमन्त्र चिन्तनाहूतनूतन बलाहकाञ्चलनिचुलितपाणिरस्पृशदेव
हा राम हा रमण हा जगदेकवीर
हा नाथ हा रघुपते किमुपेक्षसे माम्।
इत्थं विदेहतनयां मुहुरालपन्ती-
मादाय राक्षसपतिर्नभसा जगाम॥४५॥
**सरयूः—**अयि भागीरथ, कथमस्मद्भागधेयादरुन्धतीवाचोऽपि मृषा भविष्यन्ति।
**गङ्गा—**नहि नहि।
सागरः—(सविषादम्।) ततः।
**गोदावरी—**ततः शैलशिखराधिवासिना विहङ्गराजेन जटायुना पन्थानमवरुध्येदमुक्तो राक्षसेन्द्रः-
‘आः पापिन्पश्यतो मे रघुतिलकवधूं चोरवृत्त्यापहर्तुं
सीतां शीतांशुलेखामिव गिरिशशिरःशायिनीमुद्यतोऽसि।
एष च्छित्वा शिरांसि प्रखरनखमुखैर्दीप्तचूडामणीभि-
स्त्वामद्याहं गरुत्मानुरगमिव सुधाकाङ्क्षिणं संहरामि॥४६॥
**गङ्गा—**स एष नूपुरप्रसादः।
सागरः—(सहर्षम्।) ततस्ततः।
गोदावरी—
नखैस्तदीयैः कुलिशात्कठोरैर्भिन्दद्भिरङ्गानि निशाचरस्य।
रथः स हेमाभरणो बभञ्जेन जानकीलाभमनोरथोऽस्य॥४७॥
**सागरः—**ततः।
**गोदावरी—**ततश्च निशितनखनिस्त्रिंशनिर्घातभैरवे समरसंरम्भे संभ्रमकातरायां रावणैककरस्थितायां जानक्यां
तस्याः क्ववणत्किमपि नूपुर एक एव
क्रन्दन्निवातिकरुणं चरणात्पृथिव्याम्।
गङ्गा— हा, अधुना निराशाः स्मः।
गोदावरी—
आतिष्ठ तिष्ठ निहतोऽसि खलेति जल्प-
न्दूराज्जटायुरपि खङ्गहतः पपात॥४८॥
**सागरः—**हा वत्से जानकि, अधुना नीतासि निशाचरेण। (इति मूर्च्छति।)
गङ्गा—(उपसृत्यांशुकान्तेन वीजयन्ती।) अये रघुकुलवत्सल, समाश्वसिहि समाश्वसिहि।
**सागरः—**कथमिह गङ्गापि।
**गङ्गा—**यमुनासरय्वौच।
**सागरः—**तन्मांमिलिताः सर्वा एव धारयत। अयमहं हतोऽस्मि शोकस्रोतसा।
गङ्गा— अलमतिकातरतया। यतः।
प्रायो दुरन्तपर्यन्ताः संपदोऽपि दुरात्मनाम्।
भवन्ति हि सुखोदर्का विपदोऽपि महात्मनाम्॥४९॥
**सरयूः—**सखि गोदावरि, अपि जानासि नूपुरवृत्तान्तम्।
**गोदावरी—**अथ किम्। कथितमेव वनदेवतया–’ तमादाय कोऽपि कपिः ऋष्यमूकसंमुखं गतः’ इति।
**सागरः—**रामभद्रस्य तु को वृत्तान्तः।
**गोदावरी—**रामभद्रोऽपि सीता विरहविह्वलः सौमित्रिणा धार्यमाणस्तामेव दिशं प्रतस्थे।
(नेपथ्ये।)
सखि कालिन्द वर्धसे।
**यमुना—**का73 उण इमाई सूईसला आविद्धाई मह णहाइं अलत्त-अरसेण सिञ्चदि।
(प्रविश्य।)
तुङ्गभद्रा— जयतु जयतु नदीनाथः।
सागरः— कथं पुनर्वर्धते कालिन्दी।
तुङ्गभद्रा— भ्रातुः सुग्रीवस्य चक्रवर्तिपदलाभेन।
यमुना— दाणिं74 चन्दणचण्डतपलिम्पन्तपासजुअला बट्टामि।
सागरः— कथं पुनर्वालिपालितापि कपिराज्यलक्ष्मीः सुग्रीवमनुसंक्रान्ता।
तुङ्गभद्रा— कथमद्यापि वालिकथा।
सागरः— कथमिव।
तुङ्गभद्रा— ननु नूपुरप्रदानविश्वासितेन रामचन्द्रेणात्मानं सुग्रीवं च समर्पयता हनूमता तथा व्यवसितं यथा—
सहेलं हत्वैनं हरिणमिव हैमं रघुपतिः
कपीनां साम्राज्ये प्रणतमभिषिञ्चन्रविसुतम्।
अपि ध्वंसात्पत्युर्नृपतिमपि चक्रे फलभुजा-
मपि प्रीतं चक्रे निजकुलगरिष्ठं दिनकरम्॥५०॥
**सागरः—**ततः किं वृत्तम्।
**तुङ्गभद्रा—**ततः सुग्रीवेणापि—
परिम्लानां मालामिव ललितसौरभ्यरहिता-
मपि स्थाने स्थाने विचिनुत वधू दिनमणेः।
इति स्वेनैवोक्ताः कुमुदनलनीलाङ्गदमुखा
हनूमत्संयुक्ता दिशि दिशि नियुक्ताः कपिभटाः॥५१॥
**सागरः—**इदानीमुज्जीवितोऽस्मि।
गोदावरी— किं भवानेव। नन्विदानीमखिलोऽपि जीवितो जनः।
सागरः— एवमेतत्। सकलजनमनः साधारणी हि रामचन्द्रमाधुरी। नन्विदैव पश्य।
नेदीयसी हि सरयूस्तपनोद्भवेयं
भागीरथीयमुदयः सगरान्ममापि।
इत्यन्वयाद्रघुकुले यदि पक्षपात-
स्तद्वत्सा किमपि वामपि चित्तवृत्तिः॥५२॥
(ऊर्ध्वमवलोक्य। सविस्मयम्।)
विलासैर्दम्भोलेर्दलितगरुतः सर्वगिरयः
स चैको मैनाकः पयसि मम मग्नो निवसति।
अये कोऽयं शैलः स्फुरदमितगव्यूतिमहिमा
हिमाद्रिर्विन्ध्यो वा लघुतरगतिर्लङ्घयति माम्॥५३॥
तदागच्छत। निरूपयामस्तावत्कोऽयमिति।
(इति निष्क्रान्ताः सर्वे।)
इति पञ्चमोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-1730315096Screenshot(87"/>.png)
षष्टोऽङ्कः।
(ततः प्रविशतो रामलक्ष्मणौ।)
रामः—
सौमित्रे, ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते
लक्ष्मणः—
चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति।
रामः—
वत्सैतद्विदितं कथं नु भवता
लक्ष्मणः—
धत्ते कुरङ्गं यतः
रामः—
क्वासिप्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि॥१॥
(पुनर्विलोक्य।) हन्त। संतापेन प्रतारितोऽस्मि। कथमयं गगनतलाधिरोही रोहिणीहृदयनन्दनश्चन्द्रः। (चन्द्रं प्रति।)
रजनिकर करास्ते बान्धवाः कैरवाणां
सकलभुवनचेष्टाजागरूका जयन्ति।
न कथयसि कथं तत्कुत्र सा जानकी मे
त्वमसि मृगसहायः किंनु नक्तंचरोऽसि॥२॥
लक्ष्मणः— (स्वगतम्।) कथमयमभिषङ्गतरङ्गस्तरलीकरोत्यार्यमानसम्। तदन्यतो नयामि। (प्रकाशम्।) आर्य, अयमितो विलोक्यतां चपलचञ्चुपुटाचान्तशीतकरशीकरश्चकोरः।
** रामः—**(चकोरं प्रति।)
तन्मे विदेहतनयावदनं निवेद्य
भ्रातश्चकोर कुरु मां चरितार्थवृत्तिम्।
पीता यदीयकमनीयकपोलकान्तिः
कान्तासखेन भवता शशिनं विहाय॥३॥
लक्ष्मणः— आर्य, इयमितो विलोक्यतां शरत्कृशा निशाकरकिरणानुकारितरङ्गा तरङ्गिणी।
** रामः—**(विलोक्य।)
कल्लोलिनि त्वमिव सापि कुरङ्गनेत्रा
नूनं किमप्यनुदिनं क्रशिमानमेति।
एतावदस्ति भवतीह निसर्गशीता
सीता पुनर्वहति कामपि तापमुद्राम्॥४॥
** लक्ष्मणः—** इतो विलोक्यतामनिद्रनीलनलिनीवनविलीनोऽयमलिनीनाथः।
रामः—(विलोक्य।) अये, कोऽयं विहङ्गः।
उन्मीलन्नयनान्तकान्तिलहरीनिष्पीतयोः केवला-
दामोदादवधारणीयवपुषोः कान्तासखेन क्षणम्।
यत्कर्णोत्पलयोः स्थितेन भवता किंचित्समुद्गुञ्जितं
भ्रातस्तिष्ठति कुत्र तत्कथय मे कान्तं प्रियाया मुखन्॥५॥
लक्ष्मणः—(सातङ्कम्) अपीमं न विलोकयेदार्यः।
** रामः—**(विलोक्य।) अये, कोऽयं विहङ्गः।
योऽयं बहिः कलितकुङ्कुमरेणुराग-
मन्तस्तु संभृतदयं हृदयं दधानः।
पारेतरङ्गिणि मुहुः करुणं रटन्ती -
मालोकते सहचरीं न तु संनिधत्ते॥६॥
(विमृश्य) नूनमयं वल्लभाविरहविदारितहृदयो वराश्चक्रवाकः।
**लक्ष्मणः—**अहो प्रमादः।
**रामः—**नूनमयमेकः समदुःखतया समानशीलो मे। अथवा कुतोऽस्य मम च समानशीलंता।
अयमुदयति चन्द्रे विप्रयोगं प्रियायाः
श्रयति तपति सूर्ये सङ्गमङ्गोकरोति।
मम तु जनकपुत्री विप्रयुक्तस्य यातं
शतमधिकमपीदं चन्द्रसूर्योदयानाम्॥ ७॥
** लक्ष्मणः—**आर्य, इह तावन्मुकुलितकमलिनीपरिसरानुसारिणिकलहंसे दीयतां दृष्टिः।
** रामः—**(विलोक्य।)
निजनखशिखालेखालीढस्फुरत्कमलस्तनीं
निरतमधुपश्रेणीगीतां चलन्कलहंसकः।
अकरुणशशिप्रेङ्खत्पादप्रहारविमूर्च्छिता-
महह नलिनीं क्लान्तक्लान्तां मुहुर्मुहुरीक्षते॥८॥
(विमृश्य।) बरमेवंविधानामपि सहचरीजनानुकम्पया कोमलं चेतो न तु निसर्गकठिनस्य रामस्य।
लक्ष्मणः—(स्वगतम्।) कथमिदानीमप्यस्य चेतसि जानकीयमिन्द्रजालमुन्मीलति।
(नेपथ्ये।)
सखे रत्नशेखर, चिराद्दृश्यसे।
लक्ष्मणः—(आकर्ण्य।) किमेतत्।
(पुनर्नेपथ्ये।)
वयस्य चम्पकापीड, एवमेतत्। मया हीयन्तं समयमखिलमायानिधेर्मयनाम्नो दानवस्य पुत्रीं निजसहोदरीं मन्दोदरीमनुवर्तितुं लङ्कायां कृतालयाच्चित्ररूपनाम्नो दानवात्सकलामिन्द्रजालकलामाददानेन स्थितम्।
लक्ष्मणः— नूनमयं कृतकर्णकौतुकामोदः कयोरपि पथिकयोः संवादः।
(पुनर्नेपथ्ये।)
सखे रत्नशेखर, तन्मे धारयसि निजकलादर्शनमिति।
(पुनर्नेपथ्ये।)
वयस्य चम्पकापीड,
असुरसुरनिशाचरोरगाणामपि नरकिंनरसिद्धचारणानाम्।
सकलजनविलोकनैकचित्रं स्फुटमिह कस्य विजृम्भते चरित्रम्॥९॥
अथवा किमन्येन। लङ्कानुभूतमेव नूतनं किमपि सरसरमणीयं चरितमुपदर्शयामि ते।
** लक्ष्मणः—**आर्य, इतोऽवधार्यताम्। नन्विदमयत्नोपनीतं प्रेक्षणीयम्।
रामः— (अनाकर्णितकेन।)
देवि त्वदीयमणिनूपुरजृम्भमाण-
कोलाहलोत्तरलहंसकुलाकुलासु।
वैदेहि लक्ष्मणपदाम्बुजलाञ्छितासु
गोदावरीपुलिनभूमिषु देहि दृष्टिम्॥१०॥
लक्ष्मणः— क्व पुनरिह वैदेही, क्ववा गोदावरी।
रामः—(विमृश्य) कथं प्रतारितोऽस्मि मतिविभ्रमेण। (विचिन्त्य।) अथवा कृतार्थीकृतोऽस्मि। अनेन हि मे
गोदावरीतीरतपोवनेषु सौमित्रिसीतापरिपूर्णपार्श्वः।
मुदा निमेषानिव यान्यनैषं दिनानि तान्येव पुनः स्मृतानि॥११॥
(पुनः सप्रत्याशम्।) अपि नाम
तान्येव पक्ष्मदृशो वचनामृतानि
भूयोऽपि कर्णचुलुकैरहमापिबेयम्।
यैर्मामदर्शयदसौ विकचप्रमोदा
गोदावरीकमलवीचिविचेष्टितानि॥१२॥
तुह75 सुहअ उक्खिवन्ती तरङ्गसिअचामरं रहुमिअङ्क।
धवलकमलादपत्तं धारइ गोलाई सहत्थे॥१३॥
रामः—(सहर्षम्।) अये, स एवायं प्रियतमायाः समालापः। तथा हि।
परिमितकमनीयः कोमलो वाग्विलासः
सरसमधुरकाकुस्वीकृता कापि लेखा।
ध्वनिरपि च विपञ्चीपञ्चमस्यानुवादी
श्रुतिरपि कलकण्ठीकण्ठसंवादभूमिः॥१४॥
तत्कुत्र पुनः प्रेयसी। (विलोक्य।) तत्कथमयमदृष्टचन्द्रलेखश्चन्द्रालोकः।
(ततः प्रविशति यथानिरूपयिष्यमाणा जानकी।)
रामः— (ससंभ्रमम्) प्राप्तेयं प्रेयसी। (इति गन्तुमिच्छति।)
लक्ष्मणः— (रामं हस्ते धृत्वा।) अलमिह संभ्रमेण। विद्याधरोपनीतमिन्द्रजालकं खल्वेतत्।
रामः— (निर्वर्ण्य।) अये, क एष संनिवेशविशेषः। तथा हि।
एकेनालम्बितेयं शिथिलभुजलताशोभिना शाखिशाखा
हस्तेनान्येन चायं दिनकर किरणक्लान्तकान्तिः कपोलः।
एष स्रस्तो नितम्बे लुलति कुचभरस्त्यक्तकाञ्चीकलापे
नेत्रोत्सङ्गे च वाप्पस्तबकनवकणैः पक्ष्मला पक्ष्मलेखा॥१५॥
नूनमियमशोकशाखिशाखां सखीमिवावलम्ब्य निद्रामुपागता। तथा हि।
आमीलन्नवनीलनीरजतुलामालम्बते लोचनं
शैथिल्यं नवमल्लिकासहचरैरङ्गैरपि स्वीकृतम्।
(पुनर्विमृश्य) नूनमनया हृदयप्रमोददायी कोऽपि स्वप्नोदृष्टः। तथा हि।
आलापादधरः स्फुरत्कलयति प्रेङ्खत्प्रवालोपमा-
मानन्दप्रभवाश्च वाप्पकणिका मुक्ताश्रियं बिभ्रति॥१६॥
सीता— (उन्मील्य लोचने।) हद्धि76 हद्धि। अण्णारिसो मे जीअ— लोओ गोलाणई। कहिं सा, पीलुप्पलसामलो कहिं रामो, लङ्का कहिं, कहिं वा हद्धि रामेक्कजीविदा सीदा। (इति मूर्च्छति।)
रामः— अयि वसुधे,
यां वै गर्भे त्रिजगदवलारत्नभूतां दधाना
लब्धार्थत्वाज्जगति भवती रत्नगर्भा बभूव।
तामुत्सङ्गे तब विलुलितां वीक्षमाणा च सीतां
द्राग्दीर्णासीन्न कथमथवा देवि सर्वंसहासि॥१७॥
तदेनामभ्यर्थयामि तावदस्याः समुद्बोधनाय। अथवा किमभ्यर्थनया।
निजामपि सुतां सीतां नेयमुद्बोधयिष्यति।
निजेऽप्यपत्ये करुणा कठिनप्रकृतेः कुतः॥१८॥
तदेनं तावदभ्यर्थयामि।
स्निग्धाशोकद्रुम निजसखीं तूर्णमुद्बोधयैनां
सिक्त्वा सिक्त्वा किसलयकरखंसिना सीकरेण।
एतस्याः किं नयनकमलस्यन्दिभिः सान्द्रसान्द्रै-
र्बाष्पोत्पीडैरनुदिनमपि त्वं न सिक्तालवालः॥१९॥
कथमनाकर्णितकेन प्रत्याख्यातमनेन। अये, कृतघ्नता पलाशिनः। (विलोक्य।) कथं प्रकृति प्रियंवदाया में प्रियायाः सखीजनोऽपि न कश्चिदिह।
(प्रविश्य।)
त्रिजटा— जानकि, समाश्वसिहि समाश्वसिहि।
सीता— (समाश्वस्य।) कहं77 पिअसही मे तिअडा।
** त्रिजटा—** सखि, अनया ते मधुरया मुखरेखया तर्कयामि यत्किल प्रियं किमपि दृष्टवती भवती।
सीता— अत्थि78 दाणिं हि मए सिविणअम्मि सअं गोलाणईए सहत्थकलिदतरङ्गचामरधवलकमलादवत्ताए परिचरिज्जन्तो अज्जउत्तो दिट्ठो।
त्रिजटा— तर्हि वर्धसे। सुखस्वप्नः खल्वसौ।
सीता— केरिसो79 मे रामेक्कचित्ताए सिविणअम्मि विस्सासो।
**त्रिजटा—**तत्किं चिन्तास्वप्न इति संभावयसि। नहि। चिन्तास्वप्नोऽपि नैवमचुम्बितावगाही भवति।
सीता— किं80 उण अचुम्बिदम्।
त्रिजटा— यन्न संभाव्यते।
सीता—
जं81णहु संभावीअदि तं पि हला अस्थि अत्थ लोअम्मि।
जं जीवइ जणअसुदा अपुलोअन्तीवि रामचन्दमुहम्॥२०॥
ता किं इमिणा सिविणएण जीविदेण वा। उवेक्खिदह्मिअज्जउत्तेण।
रामः— शान्तं पापम्। अयि प्रिये, हृदयस्थितापि मे कथमजानती वर्तसे हृदयवृत्तिम्।
सीता— अहवा82 किंति हरमुउडमिअङ्के कलङ्कं आरोपइस्सम्। जाणामि अज्जउत्तो अज्जवि अकलिदउत्तन्तो मे।
रामः— प्रिये, इदानीमुचितमनुसंदधासि।
सीता—(विमृश्य।) कहं83।
वाआलेणवि कहिदा णादं णाहस्स णेउररएण।
अहवा विहिविहुरबलात्तेणवि मूअत्तणं पत्तम्॥२१॥
(नेपथ्ये।)
अये लङ्कानिवासिनः, सावधानमवस्थीयताम्। नन्वितः
प्राकारमुन्नतमसीमबलो विलङ्घय
प्राप्तो रुषारुणितदृक्कपिवीर उच्चैः।
(उभे आकर्ण्य त्रासं नाटयतः।)
(पुनर्नेपथ्ये।)
तत्संमुखं प्रचलति स्वयमक्षनामा
नन्वेष राक्षसपतेः कुपितः कुमारः॥२२॥
सीता— कहं84 उण सह महीअलेण वेवदि व्व असोअवणम्।
त्रिजटा—(विमृश्य।)
तुहिनकरमयूखैर्दीप्तकंदर्पदर्प-
स्तपनकुलवधूटीं त्वामयं मुक्तलज्जः।
अयमयमनुनेतुं रामचन्द्रैकचित्ता-
मपि स विपिनवीथीमेति लङ्काधिनाथः॥२३॥
(सीता त्रासं नाटयति।)
(ततः प्रविशति रावणः।)
(सीता पराङ्मुखी तिष्ठति।)
रावणः— अयि जानकि,
कंदर्पज्वरवेदनापरिपतद्वाष्पस्रुतिक्षालितं
स्वर्गश्रीकुचकुम्भकुङ्कुमरजस्तेयापराधोज्ज्वलम्।
एतत्त्वां सुरदन्तिदन्तशिखरोल्लेखाङ्कविख्यापित-
प्रस्फूर्जच्चतुरन्त विश्वविजयं वक्षःस्थलं याचते॥२४॥
सीता— (अनाकर्णितकेन।) अवि85 णाम पुणोवि रामचन्दमुहचन्द पुलोवइस्सम्।
त्रिजटा— जानकि, एवं प्रलापिनि लङ्केश्वरे कर्णावधानमपि तावद्देहि।
रामः— साधु त्रिजटे, प्रलाप इत्युक्तवत्यसि।
रावणः—
यत्संतुष्टवतः पुरा पुरभिदश्छन्दोत्सवच्छेदिनो
न क्रोधादनमन्नवोद्गतशिरः श्रेणौ नमन्त्यामपि।
एतत्तद्दशमं शिरो मम नमत्त्वत्पादपाथोजयो-
रव्याजं मिथिलेन्द्रपुत्रि भवतीं प्रेमातुरं याचते॥२५॥
सीता— (संस्कृतमाश्रित्य।)
निजे पाणौ कृत्वा कमललतिकाबालमुकुलं
ययोश्चक्रे गुञ्जन्मधुपमवतंसं रघुपतिः।
अपमौ कर्णौ मे वचनमिदमाकर्ण्य न कथं
विशीर्णौ युक्तं वा चरितमिदमन्तः कुटिलयोः॥२६॥
रावणः— अयि जानकि, अवलोकनमात्रेणापि तावन्मां संभावय।
सीता— अपि निशाचर, एतावत्प्रार्थनाभङ्गलाघवात्कथं राघवादपि न बिभेषि।
रावणः— अये, क एष राघवो नाम यं किल जनो राम इति जपति। (विहस्य।)
कामः कियानसिलतानिहितैकबाहु-
क्रीडार्दितत्रिभुवनस्य दशाननस्य।
रामस्तु केवलमयं सुमुखि त्वदर्थे
मां हन्ति हन्त न चिरान्निशितैः शरौघैः॥२७॥
सीता— सत्यमेतत्।
रावणः— (स्वगतम्।) कथमन्यदेव किमप्युक्तवानस्मि। (तदेव विपरीतं पठित्वा।) अयि जानकि, तावन्मां जीवय नयनामृतेन।
सीता— तदा त्वामपि लङ्केश, विलोकयिष्यति जानकी।
रावणः—(सप्रत्याशम्।) तत्कथय समयम्। अयं हि
मन्दोदरीमपि विमुञ्चति राज्यमेत-
दप्युन्मदं तव पदाब्जतले करोति।
किं जल्पितेन बहुना सुमुखि त्वदर्थे
स्वान्युच्छिनत्त्यपि शिरांसि पुनर्दशास्यः॥२८॥
सीता— अपि खद्योतभासापि समुन्मीलति पद्मिनी।
रावणः—(सक्रोधम्।) आः पापे, यावत्किल तपनखद्योतयोस्तावदेवान्तरं रामरावणयोः। यदियं हन्यसे। (इति खङ्गमुत्पादयति।)
** रामः—**
हा जानकि त्वमधुनासि कथं भवित्री
(सविचिकित्सम्।)
धिग्दैवतं तव सुदारुण एष पाकः।
(सक्रोधम्।)
आः पाप राक्षसकुलाधम संहृतोऽसि
(ससंभ्रमम्।)
हे वत्स लक्ष्मण धनुर्धनुरेष कालः॥२९॥
लक्ष्मणः— आर्य, किमिदमैन्द्रजालिकविलोकनादलीकमेव संभ्रम्यते।
रावणः— अयि जानकि, अयमसावुदीर्णकरालकरवालः कालभुजङ्गः। तदिदानीमपि दशकण्ठभुजा श्लेषभेषजमनुजानीहि।
सीता—
विरम विरम रक्षः किं मुधा जल्पितेन
स्पृशति नहि मदीयं कण्ठसीमानमन्यः।
रघुपतिभुजदण्डादुत्पलश्यामकान्ते-
र्दशमुख भवदीयान्निष्कृपाद्वा कृपाणात्॥३०॥
रावणः— किमतः परं कालक्षेपेण। तदहमिदानीमस्याः कण्ठरुधिरेण कालिकामर्चयामि। (इति खङ्गधारां परामृशति।)
रामः— अहह।
विधिरकरुणः स्फीतंस्फीतं तमः परिजृम्भते
जलधिसलिले मग्नं विश्वं युगं परिवर्तते।
कुवलयदलस्रक्संश्लेषोत्सवैकपदे पदं
यदयमदयः सीताकण्ठे करोति कृपाणकः॥३१॥
( पुनर्विभाव्य।) हन्त भोः,
चान्द्रीं लेखां दशति दशनैर्दारुणः सैंहिकेयो
नव्यां वल्लीं दवदहनकश्चान्दन दन्दहीति।
अप्युन्मत्तः कुवलयमयीं मालिकामालुनीते
मूलादुन्मूलयति नलिनीं दुष्टहस्ती करेण॥३२॥
** सीता—**
चन्द्रहास हर मे परितापं रामचन्द्रविरहानलजातम्।
त्वं हि कान्तिजितमौक्तिकचूर्णं धारया वहसि शीतलमम्भः॥३३॥
** रावणः—** कः कोऽत्र भोः। सत्वरं मम करे कपालपात्रमर्प्यतां येनास्याः कण्ठरुधिरं प्रतीच्छामि। (इत्यशोकविटपान्तराले हस्तं प्रसार्य।) कथं न्यस्तमेव केनापि मम करतले कपालम्। (विलोक्य। सचमत्कारम्।) अये, न कपालमेतत्। किं त्वशस्त्रच्छिन्नं शिर एव कस्यापि। (विमृश्य।) कस्य पुनरिदम्। नूनमक्षकुमारस्य। (इति मूर्च्छितः पतति।)
** त्रिजटा—** अयि लङ्केश्वर, समाश्वसिहि समाश्वसिहि।
रावणः— (समाश्वस्य।) नूनमिदं तस्य दुष्टकपेर्विजृम्भितम्। तेन तमेव तावदग्रतः पातयामि। (इति निष्क्रान्तः।)
रामलक्ष्मणौ— (सहर्षम्।)अहो संविधानवैदग्धी।
** त्रिजटा—** (सीतामालिङ्ग्य) सखि, पुण्येन जीवितासि।
सीता— अपुण्णेणेति86 भणिज।
त्रिजटा— कथमिव।
**सीता—**कहं87 उण तं अपुण्णं होइ जं किर रामचन्दविरहतावणिव्वापणीए चन्दहासवाराए उवेक्खिदह्मि। ता किं इमिणा जीविदेण। इह दारुसंचअम्मि अरिंग पज्जालेहि जत्थ इमाई अङ्गाई सीअलअम्मि।
त्रिजटा— शान्तं पापम्। नन्वचिरादेव निजाङ्गकानां
हिमकरकिरणकरम्बितमरकतमयपीनपट्टकप्रतिमे।
मलयजपरागरजसि रामोरसि तापमपहरसि॥३४॥
**सीता—**हला88, किं इमिणा अलीअजप्पिदेण। सव्वं जेन्न अणलपवेसेण विवसिदह्मि। ता उवणेहि मे अङ्गालखण्डअम्।
रामः— हन्त भोः, कथमपि शार्दूलमुखान्मुक्तायाः पुनरपि शबरवागुरामवतीर्णायाः कुरङ्गवध्वा भङ्गीमङ्गीकृतवती जानकी।
त्रिजटा— (निर्गत्य प्रविश्य च।) असुलभानलोऽयं प्रदेशः।
रामः— (सहर्षम्।) त्रिजटे, दिष्ट्या रक्षितस्त्वया रामः।
सीता— (संस्कृतमाश्रित्य। अशोकं प्रति।)
कुरु सकरुणं चेतः श्रीमन्नशोकवनस्पते
दहनकणिकामेकां तावन्मम प्रकटीकुरु।
ननु विरहिणां संतापाय स्फुटीकुरुते भवा-
न्नवकिसलयश्रेणीव्याजात्कृशानुशिखावलिम्॥३५॥
(विलोक्य। सहर्षम्।) हला89, पेक्ख पेक्ख। निवडिदं दाव इमस्स सिहरादो अङ्गालखण्डअम्। (इत्युपसृत्य ग्रहितुमिच्छति।)
रामः—
अये कथमशोकोऽपि ममायं शोकतां गतः।
लक्ष्मणः— आर्य, अनुपपन्नमिदं यत्किल तरुशिखरमङ्गारखण्डकमुद्गिरति।
** रामः—**
किं न संपादयेद्वत्स रामस्य विधिवैधुरी॥३६॥
(सीताङ्गारखण्डं हस्तेनादत्ते।)
रामः—
अनल नलिनकोमले करेऽस्याः
स्फुरदरुणोत्पलकुड्मलोपमः स्याः।
(विमृश्य !)
चरितमुचितमस्ति वा कुतस्ते
ननु भुवने विदितोऽसि कृष्णवर्त्मा॥३७॥
सीता—(हस्ते गृहीत्वा। सविषादम्।) कहं90 मह अपुण्णेण अग्गीविसीअलो संवुत्तो। (निपुणं निरूप्य। सचमत्कारम्। ) अये, अङ्गालखण्डअंण हु एदं। अवि उण पम्मराअरअणखण्डअम्।
त्रिजटा— अये, पुण्यवतामग्निरेव रत्नं भवतीति प्रवादः सत्य एव संवृत्तः।
सीता—(पुनर्विलोक्य) कहं91 सा इमा रअणमुद्दिआ।(पुनः संस्कृतमाश्रित्य। मुद्रिकां प्रति।)
या शैशवावधि मनोरमरामचन्द्र-
हस्ताङ्गुलिप्रणयिनी सुभगा सुवृत्ता।
अन्येव सा जनकराजसुता कथं नु
लङ्कामुपागतवती मणिमुद्रिकेयम्॥३८॥
(पुनः सादरम्। कराङ्गुलिकिसलयेन लालयन्ती।) अए92 रअणङ्गुलीअ, अविदाव कुसलं सलक्खणाणं रामचन्दचलणाणं।
(पटाक्षेपेण प्रविश्य।)
हनूमान्— कुशलं देवि, कुशलम्।
सीता— अमिअमुह93, को सितुमम्।
हनूमान्—
तारापतेरनुचरो रघुनन्दनस्य
दूतः सुतोऽस्मि मरुतः प्रथितो हनूमान्।
त्वां हन्तुमुद्यतवतो दशकंधरस्य
न्यस्तं करे निभृतमक्षशिरो मयैव॥३९॥
रामः— अहो, कथमिदं हनूमन्नामधेयस्य मद्बान्धवस्य विलसितमेतत्।
लक्ष्मणः— अहो, सचमत्कारता संविधानस्य।
सीता— अइ94 भद्दमुह, को उण इमो तरावई।
हनूमान्—
यो वालिनः शौर्यनिधेरमित्रं त्रैलोक्यबन्धोस्तपनस्य सूनुः।
रामस्य पादाब्जताभिवर्ती सुग्रीवनामा कपिचक्रवर्ती॥४०॥
सीता— केण95 उण नरवाणराणं एरिसं सखित्तणं णिमिदम्।
**हनूमान्—**रामबाणेनैव
वालिने विसृजता धनुरङ्कं नाकलोकललनाकुचकेलिः।
तारया सममदीयत चास्मै वानरेन्द्रपदवीमणिमौलिः॥४१॥
**सीता—**कहेहि96 दाव।अवि णाम मए मन्दभाइणीए किदे दुब्बलोदाणिं किंपि रहुणाहो।
हनूमान्— किमपीति किमुच्यते। इदानीं हि बहुलपक्षशशीव दिने दिने रघुपतिः कृशतामुपयाति सः।
सीता— हद्धि97 हद्धि।
हनूमान्—
कुवलयप्रतिमद्युतिरस्य तु प्रविकसत्यनुभाववशंवदा॥४२॥
**सीता— ** दाणीं98 किमपि उज्जीविदह्मि।
** हनूमान्—** अयि देवि, आकर्णय तावद्यत्संदिष्टं देवेन देव्याः।
हिमांशुश्चण्डांशुर्नवजलधरो दावदहनः
सरिद्वीचीवातः कुपितफणिनिश्वासपवनः।
नवा मल्ली भल्लीकुवलयवनं कुन्तगहनं
मम त्वद्विश्लेषात्सुमुखि विपरीतं जगदिदम्॥४३॥
अपि च।
कस्याख्याय व्यतिकरमिमं मुक्तदुःखो भवेयं
को जानीते निभृतमुभयोरावयोः स्नेहसारम्।
जानात्येकं शशधरमुखि प्रेमतत्त्वं मनो मे
त्वामेवैतच्चिरमनुगतं तत्प्रिये किं करोमि॥४४॥
(सीता लज्जते।)
त्रिजटा— सखि, त्वमपि रघुपतेः किमपि संदेशं प्रत्यभिज्ञानं च समर्पय।
सीता— ¹इमो मे पडिसंदेसो।
बहलगलन्तणअणजलणिज्झरपज्जाउलावि मह दिट्ठी।
तुह सुहअ वअणससहरलावण्णरसं पिपासेदि॥४५॥
(चूडारत्नमाकृष्य हनूमतः करे समर्पयन्ती।) अइ चूडारअण,
विच्छालअ णिअमङ्गं रअणीअरदिट्टिपंसुपंसुलिअम्।
रहुवइपअणिम्मलणहरअणीअरजौह्वनीरणिअरम्मि॥४६॥
————————————————————————————————————
- अयं मे प्रतिसंदेशः।
बलगलन्नयनजलनिर्झरपर्याकुलापि मम दृष्टिः।
तव सुभग वदनशशधरलावण्यरसं पिपासति॥
अयि चूडारत्न,
अपि क्षालय निजमङ्गं रजनिकरदृष्टिपांसुपांसुलितम्।
रघुपतिपदनिर्मलनखरजनिकरज्यौत्स्ननीरनिकरे॥
हनूमान्— देवि, अनुजानीहि। त्वरयति मां रामचन्द्रचरणदर्शनोत्कण्ठा।
सीता—(सबाष्पगद्गदम्।) अइ99 अकारणसिणिद्ध, पडिगदे तुह्मि पुणोवि को मह कहिस्सदि रहुणाहस्स पउत्तिम्।
हनूमान्— अयि देवि, दिष्ट्या स्मारितोऽस्मि। नन्विदं ते संदिष्टं देवेन देव्याः।
मा ताम्य तामरसपत्त्रविशालनेत्रे
विख्याप्यते पुनरपि त्वयि मत्प्रवृत्तिः।
सौमित्रिकार्मुकगुणध्वनिभिर्गभीरै-
स्तैः किं च राक्षसवधूरुदितैरधीरैः॥४७॥
(नेपथ्ये।)
हत्वा कथंचिदपि राजकुमारमक्षं
रे वानरापसद कुत्र पलायितोऽसि।
त्वां हन्तुमिच्छति दशाननशासनेन
दर्पोद्धतो धृतधनुर्ननु मेघनादः॥४८॥
हनूमान्— देवि, कृतकार्योऽस्मि। तदलमतःपरमात्मापलापेन। तदिदं प्रणम्यसे आपृच्छसे च।
सीता— अ100ए101पवणणन्दण, अणाआसेण इमं दुण्णिसाअरसाअरं अदिक्कमेहि।
हनूमान्— अयं मूर्ध्नि गृहीतो देव्याः प्रसादः। (इति निष्क्रान्तः।)
सीता— हला102 तिअडे, खेअरी भविअ पेक्ख दाव इमस्स उत्तन्तम्।
त्रिजटा— तथा। (इति निष्क्रान्ता।)
(नेपथ्ये।)
बाणौधानेकवीरः कलयति च रुषा मेघनादेन मुक्तान्
(सर्वे हर्षं नाटयन्ति।)
(पुनर्नेपथ्ये।)
बद्धोऽयं राक्षसेन ज्वलदनलशिखादीप्तपुच्छः कृतश्च।
(सर्वे विषादं नाटयन्ति।)
(पुनर्नेपथ्ये।)
क्रामन्नट्टालिकानामुपरि कृतपदो दन्दहीत्येष लङ्कां
(सर्वे हर्षविषादौ नाटयन्ति।)
(पुनर्नेपथ्ये।)
अक्लान्तोऽयं पयोधेः पयसि शमयति स्वाङ्गलनं कृशानुम् ॥४९॥
(सर्वे हर्षे नाटयन्ति।)
(पुनर्नेपथ्ये।)
अहो आश्चर्यमाश्चर्यम्।
वेलाद्रेरस्य हेलाक्रमणपरिणतस्तुङ्गमाक्रम्य शृङ्गं
मौलिं पूर्वाचलस्य द्युमणिरिव नभो लङ्घयत्यम्बुराशिम्।
वेगप्रोद्भूतवातप्रतिहतसलिलोन्मुक्तगम्भीरगर्भ-
व्यक्तीभूतोरगेन्द्रस्तुतिशतविकसत्कीर्तिहारो हनूमान्॥५०॥
सीता—(नेपथ्याभिमुखमवलोक्य।) हला103 तिअडे, अवतिण्णासि महीअलम्। ता पिअवंदाए तुह आलिङ्गेमि अङ्गाई। (इति निष्क्रान्ता।)
रामः— प्रिये, मामपि प्रतीक्षस्व।
लक्ष्मणः— आर्य, किमिदं लङ्कावृत्तान्तानुसारिणि विद्याधरप्रणीते महेन्द्रजाले पुनः संभ्रम्यते।
रामः— तर्हि दिष्ट्यास्माभिर्निजविक्रमकथापराङ्मुखस्यापि हनूमतश्चरितरहस्यमाकलितम्।
(नेपथ्ये।)
** **अये रघुनाथ, अयमसौ
दर्पोद्धतं दधिमुखं तरसा निपीड्य
पीत्वा चिरं मधुवने स्वरसं मधूनि।
द्रष्टुं समेति भवतः पदपद्मलीलां
नीलाङ्गदप्रभृतिभिः सहितो हनूमान्॥५१॥
रामः— वत्स, आकर्णितम्। तदागच्छ। कृतकार्यं हनूमन्तं प्रत्युगच्छावः।
( इति निष्क्रान्ताः सर्वे।)
इति षष्ठोऽङ्कः।
———————————
सप्तमोऽङ्कः।
(ततः प्रविशति पुलस्त्यशिष्यः।)
पुलस्त्य शिष्यः— (परितो विलोक्य।) अपरिशीलितसंनिवेशोऽस्मि। तत्कथं पृच्छामि तस्य भवनम्।(पुनर्विलोक्यछ।) कथमयं लङ्केश्वर महामन्त्रिणो माल्यवतः परिचारकः करालकः। (उचैः।) सखे करालक, इत इतः।
(प्रविश्य।)
**करालकः—**मुने, प्रणम्यसे।
मुनिः— समीहितं लभख। कथय तावन्मे विभीषणस्य भवनम्।
करालकः— किं तत्र।
मुनिः— आदिष्टोऽस्मि भगवता पुलस्त्येन कमपि संदेश मुपनेतुं पौत्रस्य।
करालकः— न तावदिदानीमिह विभीषणः।
मुनिः— कथय किमेतत्।
करालकः— एकदाभिप्रणमतो विभीषणस्य करात्सकौतुकं लिखिताक्षरपङ्किपत्रमेकं गृहीतं लङ्केश्वरेण वाचितं च—
‘उदर्कभूतिमिच्छद्भिः सद्भिः खलु न दृश्यते।
चतुर्थीचन्द्रलेखेव परस्त्रीभालपट्टिका॥१॥’
मुनिः— अहो, प्रभुविज्ञप्तिचातुरी बिभीषणस्य।
करालकः— ततो विहस्यैवं लङ्केश्वरेणोक्तम्**—**‘नूनं केनापि भीरुणाभाषितमेतत्। ख्यातं हि यत्किल
परस्त्रीकुचकुम्भेषु कुम्भेषु परदन्तिनाम्।
निपतन्ति न भीरूणां दृष्टयः शरवृष्टयः॥२॥’
मुनिः— अहो, निजचित्तवृत्तिभित्तिभूमिकानुसारीणि वाक्चित्राणिलोकस्य।
**करालकः—**ततः प्रणयकोपविषादमिदमाह लङ्केश्वरं विभीषणः—
‘यस्य त्र्यम्बकमौलिखेलदमलस्वर्लोककल्लोलिनी-
लीलालङ्घनलम्पटेन यशसा दिग्भित्तयः क्षालिताः।
सोऽपि त्वं जनकाधिराजतनयाबद्धाभिलाषः कथं
हा जातोऽसि पुलस्त्यसंततियशः शीतद्युतेर्लाञ्छनम्॥३॥
मुनिः— (सकौतुकम्।) ततस्ततः।
करालकः— ततश्च।
कोपपाटलितलोलदृष्टिना किंचिदुन्नमितखङ्गयष्टिना।
रावणेन नयधर्मभूषणस्ताडितो हृदि पदा बिभीषणः॥ ४ ॥
मुनिः— हन्त, नूनं
लङ्केश्वरेण दुष्टेन नयधर्मविभूषणः।
बिभीषणश्च न परं विभवोऽपि पदा हतः॥५॥
ततस्ततः।
** करालकः—** ततः कतिपयपरिवारेण विभीषणेन लङ्केश्वरं विहाय राम एव समाश्रितः।
मुनिः— (स्वगतम्।) अनुष्ठितं तर्हि पुलस्त्यसंदेशरहस्यं विभीषणेन। (प्रकाशम्।) भवान्पुनः किमधुना कर्तुकामः।
करालकः— अहमादिष्टोऽस्मि माल्यवता जानकीविरहविह्वलहदयस्य लङ्केश्वरस्य मनोविनोदनाय केनापि चित्रकारेण विरचितं चित्रमिदं दृग्गोचरीकरणीयमिति।
मुनिः— (विहस्य।) कथमित्थमासन्नशत्रौ लङ्केश्वरेण तादृशस्य महामन्त्रिणो माल्यवत एवमुपचरितुमुचितम्। तन्नूनं प्रस्तुतोचितमेव किमप्येतद्भविष्यति।
(नेपथ्ये।)
रे रे चन्दनमिन्दुमण्डलशिलापट्टे समुद्धृष्यतां
रे रे चामरमुज्वलैः शशिकरैः श्वेतं विनिर्मीयताम्।
रे रे बालमृणालतन्तुलतिकासूत्रेण पाथोजिनी-
पत्रस्थैरुदबिन्दुभिर्मणिमयो हारः समासूत्र्यताम्॥६॥
मुनिः— (सोप्रहासमात्मगतम्।) यादृशोऽयं शीतोपचारस्तादृश एव सीतोपचारो लङ्केश्वरस्य भविष्यतीति। (प्रकाशम्।) कथमिदं विरहतप्तस्य दशकंधरस्य शीतोपचारार्थमादिश्यन्ते निशाचराः।
**करालकः—**खेचराश्च। इदानीं हि
अङ्गं लिम्पति चन्दनेन मृदुभिः शीतद्युतिः स्वैः करैः
किंचिचञ्चलकालवृन्तकलनव्यग्रो वसन्तानिलः।
किंचायं नलिनीदलैर्वितनुते तल्पं प्रतीचीपति-
र्देवैरित्थमनङ्गतप्तहृदयो लङ्केश्वरः सेव्यते॥७॥
मुनिः— (स्वगतम्।) अये, अलीकवाग्डम्बरं निशाचरस्य।
करालकः— (नेपथ्याभिमुखमवलोक्य) कथमयं प्रहस्तो राजद्वारमुपसर्पति। तदस्य हस्ते चित्रपटमर्पयिष्ये। भवानपि समीहितं साधयतु।
(इति निष्कान्तौ।)
इति विष्कम्भकः।
(ततः प्रविशति रावणश्चित्रहस्तः प्रहस्तश्च।)
रावणः—(स्वगतम्)
राजल्ललाटफलका कमनीयकूज -
त्काञ्चीगुणप्रणयिनी धृतकेशपक्षा।
हा किं करोमि मम सा हृदयं प्रविष्टा
नाराचयष्टिरिव पुष्पशिलीमुखस्य॥८॥
(विमृश्य।) अहो, कथमद्यापि हठाहरणखिन्नां नितान्तकृशधूसराङ्गीमपि जानकीं जनस्थानस्थितामिवाहमखण्डमण्डनां पश्यामि। अथवोचितमिदम्।
आचान्तकान्तिरुन्निद्रैर्मयूखैरहिमत्विषः।
धूसरापि कला चान्द्री किं न बध्नाति लोचनम्॥९॥
प्रहस्तः— अयि देव, इदमालोक्यतां चित्तविनोदनं चित्रम्।
रावणः— किं पुनरिहालिखितम्।
प्रहस्तः— अयं तावत्तरल तिमिनिकरकरालकल्लोलकोलाहलोज्जागरः सागरः।
रावणः—(विलोक्य।) किमिदमुत्तरेण तरङ्गमालिनमनुतमालखण्डमाखण्डलधनुःसहस्रानुकारि कपिशयति गगनतलम्।
प्रहस्तः— तदिदं सुग्रीवपालितं कपिकुलम्।
** रावणः—** (विहस्य।) अपि वालिपालितमिति वक्तव्यम्। भवतु।किं पुनरनेन। कौ पुनरिमौ कार्मुकरौ।
** प्रहस्तः—** ताविमौ रामलक्ष्मणौ ययोरग्रजस्य बाणपातविलसितेन सुग्रीवपालितमधुना कपिकुलम्।
रावणः—(अनाकर्णितकेन।) कः पुनरयं नितान्तकृशकमनीयतनुरमन्दमन्दराघातनिर्मन्थनोत्थिततरलतरङ्गदूरविक्षिप्तशंकरशिरःशेखराधिरोहण-कुतूहली कलानिधिरिव तरङ्गमालिनस्तटभुवमधिशेते।
प्रहस्तः— स एव लङ्कागमनकुतूहली निजकुलगुरुं सागरमुपचरितुं कुशशयनविन्यस्तगात्रः प्रथमो दाशरथिः।
रावणः— (विहस्य।) कथमित्थमेव जानकीलाभकौतुकः सोऽयमस्मानप्युपचरिष्यति।
प्रहस्तः— इतो विलोक्यतामयं रामनाराचनिर्मुक्तबहलानलहेलातरलदीनमीननिकरपरिवारः पारावारः।
रावणः— कौ पुनरिमौ ज्येष्ठतापसस्य सादरं वानरवीरैः पार्श्वपरिसरमानीयेते।
**प्रहस्तः —**अयं तावत्सागर एव। अयमपि देवस्यैव—(इत्यर्धोक्ते।) अथवा किमस्य बन्धुविरोधिनो नामग्रहणेन।
रावणः— कथमयं बिभीषणोऽस्मद्विरोधेन राममाश्रयति। भवतु।
निशाचरशिरोरत्नरञ्जिताङ्घ्रिशिरोरुहः।
प्रियोऽपि दशकण्ठस्य नैष दर्शनमेष्यति॥१०॥
रावणः— (सकौतुकम्।) किं पुनरिदमक्षरपङ्क्तिद्वयम्।
प्रहस्तः— नूनमिदं समुद्रविभीषणौ प्रति लक्ष्मणस्य वचनद्वयं भविष्यति।
**रावणः—**एकं तावद्वाचय।
प्रहस्तः—(वाचयति।)
‘त्रासं मुञ्च समुद्र कोपदहनो रामस्य पास्यत्ययं
बन्दीभूतसुरेन्द्रसुन्दरदृशामक्ष्णोरमुद्रं पयः।
कामं ते मकरीगणो विहरतामेतस्य लङ्केश्वर-
स्त्रीगण्डस्थलपत्रभङ्गमकरीविध्वंसिनः सायकाः॥११॥’
**रावणः—**अन्यदपि वाचय।
ग्रहस्तः—(वाचयति।)
‘अद्यैवास्य विभीषणस्य शरणापन्नस्य मूर्ध्ना नते-
रानृण्यं विदधात्ययं रघुपतिर्लङ्काधिपत्यश्रियम्।
एतस्यैव भुजाविह प्रतिभुवौ सुग्रीवराज्यार्पण-
त्रैलोक्यप्रथमानसत्यचरितौ सर्वे वयं साक्षिणः॥१२॥’
रावणः— अहो, वाग्डम्बरैकसारता कनिष्ठतापसस्य। भवतु। किं पुनरिदं मध्ये समुद्रमालोक्यते।
प्रहस्तः— स एष कपिकुलोन्मूलितशैलशिखरनिर्मितः काकुत्स्थकुलकीर्तिप्रसक्तिप्रबन्धः सेतुबन्धः।
रावणः— अहो चित्रकरस्य चातुरी। यदलीकमपि सत्यमिव दर्शितवान्।
प्रहस्तः— कथमद्यापीदमलीकमिति संभावना देवस्य।
(नेपथ्ये कलकलः।)
रावणः—किमेतत्।
ग्रहस्तः—
एषामयं रामचमूचराणां दर्पोद्धतानां कपिकुञ्जराणाम्।
नवोद्गतानामिव नीरदानां कोलाहलः कोऽपि समुज्जिहीते॥१३॥
प्रहस्तः— तदिदं शङ्कितव्यं प्रतिविधातव्यं वा।
रावणः— आः। किमिह शङ्कया प्रतिविधानेन वा। अनेन हि।
कोलाहलेनोल्लसता कपीनां मनो मदीयं मुदमेव धते।
मन्दोदरीभूषणनूपुराणां महामणीनामिव शिञ्जितेन॥१४॥
(प्रविश्य।)
मन्दोदरी— जेदु104 जेदु देवो।
**रावणः—**देवि, इत आस्यताम्।
(मन्दोदरी यथोचितमुपविश्याधोमुखी तिष्ठति।)
रावणः—
भुग्नालकं स्मितपराजितचन्द्रलेखं
दृग्लीलया कुवलयश्रियमादधानम्।
एतन्मुखं दिविषदामिव दुर्निरीक्ष्यं
तन्वङ्गिमामिव मुधा किमधः करोषि॥१५॥
प्रहस्तः— देव, कपिसेनाकोलाहलचिन्तयैव नूनमधरीकृतमुखीदेवीति तर्कयामि।
रावणः— आः, क एष चिन्ताविषयः।
इयं लीलालोलाङ्गदभुजलता नीलचिकुरा
समुन्मीलत्तारा कुमुदहसिता चारुनयना।
प्लवङ्गानां सेना युवतिरिव तारापतिमुखी
ममाग्रे कंदर्पं प्रकटयितुमद्य प्रभवति॥१६॥
मन्दोदरी—^(१)देव, अण्णं पि अस्थि कारणं। अज्ज हि मए देवस्स सउणणिरूवणत्थं गिरिसिहरगहणगब्भट्ठिहां सबरपल्लीं पट्ठाविदा णिअपरिआरिआ। ताए अ कीए वि सबरकुडुम्बिणीए णिअघरपेरन्तवासिणं केसरिकिसोरअं उल्लावअन्तीए एरिसं वअणं आअणिदम्—
‘मा होहि णाअवइणो परिहवमेतेण गव्वणिव्वूढो।
वसुहमिमं गिरिसंकडं मइन्द सरहस्स णन्दणो पत्तो॥१७॥’
रावणः— किमिह विषादस्थानमस्मान्प्रत्युदासीनमेवैतत्। तथा हि।
मा भव नागपतेः परिभवमात्रेण गर्वनिर्व्यूढः।
वसुधामिमां गिरिसंकटां मृगेन्द्र शरभस्य नन्दनः प्राप्तः॥१८॥
**ग्रहस्तः—**देव, अन्यथाघटमानमिदम्।
मा भव नागपतेः परिभवमात्रेण गर्वनिव्यूढः।
वसुधामिमां गिरिसंकटमयीं दशरथस्य नन्दनः प्राप्तः॥१९॥
रावणः— आः, केयं निसर्गनिःशङ्के लङ्केश्वरे मयि शकुनोपश्रुतिपरीक्षा।
(नेपथ्ये।)
हेलास्फालितरामलक्ष्मणधनुर्ज्यावल्लरीझल्लरी-
झाङ्कारप्रसरप्ररूढपुलकप्राग्भारनीरन्ध्रिताः।
व्यावल्गत्कपिकण्ठकाण्डकदनक्रीडत्कृपाणाञ्चल-
स्फूर्जद्दुर्जयदोर्बलैकचपलाश्चञ्चन्ति रात्रिंचराः॥२०॥
———————————————
१. देव अन्यदप्यस्ति कारणम्। अद्य हि मया देवस्य शकुननिरूपणार्थं गिरिशिखरगहनगर्भस्थितां शबरपल्लीं प्रस्थापिता निजपरिचारिका। तया च कस्याअपि शबरकुटुम्बिन्या निजगृहपर्यन्तवासिनं केसरिकिशोरकं लालयन्त्या ईदृशं वचनमाकर्णितम्—
मा भव नागपतेः परिभवमात्रेण गर्वनिर्व्यूढः।
वसुधामिमां गिरिसंकटां मृगेन्द्र शरभस्य नन्दनः प्राप्तः॥
रावणः—( सहर्षम्।) अये, निशाचरवीरविजयोत्तरः समरः।
(पुनर्नेपथ्ये।)
अग्रेसरी रघुपतेः परिणद्धपाक-
किंपाकपाटलमुखी कपिवीरसेना।
निःशेषमापिबति राक्षसवीरचक्रं
प्रातः प्रभेव तपनस्य तमिस्रजालम्॥२१॥
रावणः— आः, कथमुत्कण्ठायितं मर्कटैः। (उच्चैः।) कः कोऽत्र भोः। मदाज्ञया
कृत्वा विनिद्रमपनिद्रभुजावलेपः
प्रोद्दामरामसमराय स कुम्भकर्णः।
आदिश्यतां निजभुजार्दितवज्रपाणि-
रद्यैव लक्ष्मणरणाय च मेघनादः॥२२॥
(पुनर्नेपथ्ये।)
देव, भवदाशयविदा महामन्त्रिणा माल्यवता पूर्वमेव संविहितमिदम्। इदानीं हि
रामेण सार्धमयमुद्धतबाहुदर्पः
संग्रामभूमिमधितिष्ठति कुम्भकर्णः।
रक्षः शिखण्डिहृदयोत्सवमेघनादः
सौमित्रिणा सममसावपि मेघनादः॥२३॥
(पुनर्नेपथ्ये।)
यद्दंष्ट्रावज्रघातैः समिति विदलिताः शैलकल्पाः कपीन्द्रा
यन्नाराचाम्बुवर्षैर्दवदहनसमाः शामिता वानरेन्द्राः।
वीरोऽसौ कुम्भकर्णः स च समरकलाकौतुकी मेघनादः संजातौ
रावणः— किमतः परं वदिष्यति।
(पुनर्नेपथ्ये।)
हा पतङ्गौदशरथसुतयोर्दारुणे बाणवह्नौ॥२४॥
(मन्दोदरीरावणौ मूर्च्छतः।)
प्रहस्तः— देव, समाश्वसिहि समाश्वसिहि।
रावणः—(समाश्वस्य।) देवि, समाश्वसिहि समाश्वसिहि।
मन्दोदरी—(समाश्वस्य।) परित्ताअदु105 मं अज्जउत्तो। एसा णिमग्गम्मि सोअतिमिरे।
रावणः— अयि, अलं कातरतया। अयं चन्द्रहासचन्द्र एव शोकतिमिरादुद्धरिष्यति भवतीम्। (पुनरुत्थाय खड्गमुद्यम्य।) पश्यायमसौ मे
भिन्नप्रभिन्नसुरकुञ्जरकुम्भमुक्त-
मुक्ताफलैर्विचलितैः कलिताधिवासः।
अद्यैव खेचरनिशाचरलोचनाना-
मुन्मीलयन्मुदमुदञ्चति चन्द्रहासः॥२५॥
(इति प्रहस्तेन सह निष्क्रान्तः।)
मन्दोदरी— अये106, अच्चरिअं। समरसंरम्भविलोअणविह्मअत्थिमिदमिदं विज्जाहरमिहुणं किंपि मन्तेदि। तेण हि अज्जउत्तस्स विजअत्थं अहं पि णिअकुलदेवदाओ अच्चिदुं गच्छमि। (इति निष्क्रान्ता।)
(ततः प्रविशति विद्याधरमिथुनम्।)
विद्याधरी— अज्जउत्त107, को इमो रणरहसविलसन्तपुलअभरकुडुमलिदभुअवणो कविचमूचक्कं अहिवट्टदि।
**विद्याधरः—**प्रिये, स एष रामसमरकौतुकी दशकण्ठः।
विद्याधरी— को108 उण इमो अञ्जणपुञ्जच्छविसरीरो कविवीरो तस्स संमुहं परावट्टदि।
विद्याधरः— प्रिये, स एष विचित्रसमरशीलो नीलः। (विलोक्य। सविस्मयम्।) अहो,
वक्षस्थले किमपि नीलकरोज्झितेन
नीलाचलस्य शिखरेण कृतप्रहारः।
लङ्केश्वरः स्मरति नूनमसौ वसन्त-
नीलोत्पलप्रहरणं हरिणेक्षणानाम्॥२६॥
(पुनः सकौतुकम्।) पश्य पश्य।
नीलोऽयं दशमुखपाणिपङ्कजाना-
मङ्केषु भ्रमरतुलां भ्रमन्बिभर्ति।
अप्येको दशसु किरीटपीठिकासु
द्राक्प्रेङ्खन्ननुभवतीन्द्रनीललीलाम्॥२७॥
**विद्याधरी—**को109 उण इमो णिसाअरेन्देण समं समरसाहसमङ्गीकरिअ चिट्ठदि।
**विद्याधरः—**स एष स्वामिपक्षपाती बिभीषणः। (सविषादम्।)हन्त भोः,
येयं बिभीषणे शक्तिर्मुक्ता क्रूरेण रक्षसा।
विद्याधरी— अह110 किं ताए।
विद्याधरः—
लक्ष्मणेन गृहीतेयं प्रियेव निजवक्षसा॥२८॥
**विद्याधरी—**हद्धि97 हद्धि।
विद्याधरः—
वर्षन्नेव समन्ततो दशमुखं चापच्युतैः सायकैः
सौमित्रिं च विसंज्ञमङ्कनिहितं नेत्रच्युतैरम्बुभिः।
एतत्तर्कय हर्षशोकतरलाः कुर्वन्कपीनां दृशो
रामश्चामलकेलिवीरकरुणाव्यामिश्रतां गाहते॥२९॥
(विलोक्य।) कथमपगत एव रामबाणपीडितो दशकण्ठः।
(नेपथ्ये।)
हा वत्स लक्ष्मण विकासय नेत्रपद्मे
मागादिदं युगपदेव समस्तमस्तम्।
भाग्यं दिवाकरकुलस्य च जीवितं च
रामस्य किं च नयनाञ्जनमूर्मिलायाः॥३०॥
विद्याधरः— हन्त, सोऽयमनुजवत्सलस्य रामस्य विलापः।
(नेपथ्ये।)
देव, समाश्वसिहि समाश्वसिहि।
**विद्याधरी—**कहं111 सुग्गीवेण समासासीअदि रामचन्दो। ता किं दाणीं आलविस्सदि।
विद्याधरः— आकर्णयामस्तावत्सुग्रीवेण समाश्वास्यमानः किमाह रामः।
(नेपथ्ये।)
सखे सुग्रीव, कथमाश्वास्यते।
अयि राघवाविति सुधामधुरं विनिपीय पारैमुनिलोकवचः।
अयि राघवेति गरलप्रतिमं कथमद्य रामहतकः पिबतु॥३१॥
अपि च।
कनीयस्या मातुः कृतचरणपातः कथमहं
सहिष्ये मत्पार्श्वे विफलपरिवर्तंनयनयोः।
अये शान्तं पापं कठिन इव चेज्जीवितुमना
विना वत्सं रामः पुनरयमयोध्यां प्रविशति॥३२॥
**विद्याधरः—**अहह। करुणैकार्णवो वर्तते। (विमृश्य।) कः पुनरिह प्रतीकारः। (विचिन्त्य।) अथवा का प्रतीकारकथा। वक्रो हि विधिः।
विद्याधरी— वक्कदरोति112 भणिज्जं। इदं पेक्ख। णं इमो वाणरो जेव्व कोवि लङ्केसरकिदसंधाणो करकलिदसैलसिहरो रामसंमुहं जेव्व परिवट्ठदि।
विद्याधरः— (कर्णौ पिधाय।) शान्तं पापम्। अयि मुग्धे, मैवं वादीः। अयं हि
महौषधीनामाधारं भूधरं गन्धमादनम्।
आदाय लक्ष्मणप्राणत्राणायाभ्येति मारुतिः॥३३॥
(पुनर्विलोक्य। सहर्षम्)
आमोदमाघ्राय महौषधीनां सौमित्रिरुन्मीलितपद्मनेत्रः।
भूयोऽपि चक्रीकृतचारुचापः करोति रामः परिपूर्णकामम्॥३४॥
विद्याधरी— कहं113 पुणो वि रामरणकोदूहलफुल्लन्तभुअमण्डलो णिसाअराखण्डलो परावडिदो जेव्व।
विद्याधरः— प्रिये, तदिदानीं सावधानं विलोकय। तुलाधिरोहः खल्वयं वीरलक्ष्म्याः। यन्नाम रामरावणयोः समर इति।
विद्याधरी— कहं114 उण सअललोअवीरस्स रामचन्दस्स अणेकवीरपरिहूदस्स रावणस्स तुलाधिरोहो वीरलच्छीए हविस्सदि।
विद्याधरः— प्रिये, न जानासि। कथं दशकण्ठं विना
विन्यासं नाकनारीकुचकलशलसत्कुङ्कुमस्थासकाना-
मस्पृष्ट्वा मार्ष्टुमासीदसिकलहकलाकोविदः को विदग्धः।
भिन्नस्वर्गेभकुम्भस्थलबहलगलन्मौक्तिकव्यक्तहासः
कस्याक्रीडत्कराग्रे त्रिदशपतियशश्चन्द्रहाश्चन्द्रहासः॥३५॥
अपि च।
किं ब्रूमो दशकन्धरं निजचमूरक्षाकपाटीभव-
द्वक्षःपीठपतत्कठोरकुलिशाघातेषु जातस्मितम्।
व्योमाभोगसरोविलासिनि वने यत्पाणिपङ्केरुहां
कैलासेन शिरः स्थितेन्दुकलिकोत्तंसेन हंसायितम्॥३६॥
(नेपथ्ये)
हेलोन्मूलितचन्द्रचूडगिरयस्त्रैलोक्यदत्तापदो
लङ्कातङ्कहराः पुरंदरपुरस्त्रीवृन्दबन्दीकृतः।
वैदेहीकुचकुम्भकुङ्कुमरसव्यासङ्गबद्धस्पृहाः
सोत्कण्ठं दशकन्धरस्य जयिनः खेलन्ति दोःकेलयः॥३७॥
(पुनर्नेपथ्ये।)
हेलोन्मूलितचन्द्रचूडधनुषस्त्रैलोक्यदत्ताभया
लङ्कातङ्ककराः पुरंदरपुरस्त्रीवृन्दबन्दीमुचः।
वैदेहीकुचकुम्भकुङ्कुमरसव्यासङ्गलब्धोत्सवाः
सोत्कर्षं रघुनन्दनस्य जयिनः खेलन्ति दोःकेलयः॥३८॥
विद्याधरः— नूनमयं राक्षसवानरयोर्निजस्वामिवर्णनानुसारी व्याहारः।
**विद्याधरी—**कहं115 उण रहट्ठिदेण रावणेण समं भूमिट्ठिदस्स राहबस्स समरो हविस्सदि।
विद्याधरः— प्रिये, पश्य। आनीत एव मातलिना पुरुहूतरथः। अधिष्ठितश्च विनयाभिरामेण रामेण।
(नेपथ्ये।)
अये, कथं
पूर्वमेव प्रयातानां खरमारीचवालिनाम्।
सौजन्यमुग्धः पन्थानमधिवर्तितुमीहसे॥३९॥
विद्याधरः— आकर्णयामस्तावदनेन रामवचनेन पीडितः किमाह रावणः।
(नेपथ्ये।)
खरः कीदृग्वाली कपिरपि च मारीचहतकः
कुरङ्गस्तान्हत्वा कथमपि कथं दृप्यसि मनाक्।
अयं पश्य प्राप्तो दशवदननामा सुरपुरी-
करीन्द्राणां हेलारचितकदनः पञ्चवदनः॥४०॥
अथवा
कालीकेसरिकेसराञ्चलसटासाटोपसंपादित-
क्रीडाचामरकोमलानिललवाचान्तश्रमाम्भःकणः।
श्रीमानेष दशाननो विजयते तस्यास्यपञ्चानन-
व्यापारप्रतिपादनैरपि यशः कीदृक्समुन्मीलति॥४१॥
विद्याधरः— अये, दशवदनवचनकुपितः किमपि वक्तुकाम इव लक्ष्यते लक्ष्मणः।
(नेपथ्ये।)
किं ते पञ्चाननतया दशाननतया वा। त्वमिदानीं
दूरोन्मुक्तमदो विभीषण इव न्यञ्चच्छिरःशेखरः
स्वच्छन्दं चरणारविन्दयुगले रामस्य भृङ्गो भव।
रे नक्तंचर कुम्भकर्ण इव वा कर्णान्तचक्रीभव
चापोत्सङ्गविमुक्तबाणदहने सद्यः पतङ्गो भव॥४२॥
विद्याधरी— पेक्ख116 पेक्ख। इदो सरन्धआरं वित्थारअन्तेण णिसासुहायिदं दसमुहेण।
विद्याधरः— नन्वितस्तदेव निजविशिखमयूखधारया विनिवारयता चन्द्रायितं रामचन्द्रेण।(पुनः सकौतुकम्।) अये, नूनमयं दिव्यास्त्रलीलया प्रतिहतदिव्यास्त्रं निकृत्तचापं रावणं किमपि वक्तुकाम इव रामः।
(नेपथ्ये।)
निकृत्तचाप इति मा संक्षोभतरलो भव।
शस्तमन्यदपि स्वैरं ननु रे समरे कुरु॥४३॥
विद्याधरी— आकण्णिअदु117 दाव किं दाणीं भणदि रावणो।
(नेपथ्ये।)
आकर्णितस्तव दशानन बाहुदण्ड-
श्रीखण्डकाननफणी नवचन्द्रहासः।
येन स्वनाममवसाम्यरुषेव पीतः
स्वर्लोकलोलनयनामुखचन्द्रहासः॥४४॥
विद्याधरः— लीलादलितचन्द्रहासः सोत्प्रासः किमधुना वदति रावणं रामचन्द्रः।
(नेपथ्ये।)
अयि, तावदधुना लङ्केश्वरः खिद्यते।
विद्याधरी— किंपि118 दाणीं जप्पिस्सदि रावणो।
(नेपथ्ये।)
कथमद्यैव लङ्केश्वरः खिद्यते। ननु रे,
विध्वस्ता दशभिर्भुजैर्दशदिशः प्रत्येकमेते पुन-
र्भारायैव दशापरे मम गिरिप्राग्भारभाजो भुजाः।
आराध्यः शशिमौलिरम्बुधिजले निद्राति नारायणः
किंकर्तव्यतयानयानुदिवसं लङ्केश्वरः खिद्यते॥४५॥
विद्याधरी— वअणमेतं119 दाणीं।
विद्याधरः— नहि नहि। पश्य पश्य। नन्वयमिदानीमपि
धनुर्निस्त्रिंशादिप्रहरणगणच्छेदकुपितो
दशास्यः स्वान्मूर्ध्नो रघुपतिशरश्रेणिदलितान्।
करैरेकैरेकैर्नभसि भृशमादाय युगप-
त्क्षिपन्नन्यैरन्यैः सफलयति दोर्विंशतिमपि॥४६॥
(पुनः सकौतुकम्।)
एतान्यस्य यथायथा सुविशिखैः कृत्तानि रक्षःपते-
रुद्गच्छन्ति शिरांसि भीपुतिलकैः साकं दिवौकः पतेः।
उन्मीलन्ति तथातथा रघुपतेरन्तः प्रमोदोर्मयः
कण्ठच्छेदविनोदकौतुकभरव्यग्रीभवच्चेतसः॥४७॥
विद्याधरी— कहं120 अज्जावि णिसाअरेन्दबन्दीकिदसुरसुन्दरीणं दंसणं दुलहं जं इमस्स सीसाइंपुणो पुणोवि उम्मीलन्ति।
विद्याधरः— अलं तापेन। क्रीडति खलु रामः सह रावणेन। न पुनरद्यापि कुप्यति। (पुनर्विलोक्य सकौतुकम्।) प्रिये, पश्य पश्य।
अन्तःसान्द्रवहन्महेश्वरशिरः शीतांशुलेखोल्लस-
त्पीयूषद्रवशीकरव्यतिकरप्राग्भारभाजामिव।
छिन्नानामपि रामचन्द्रविशिखैर्भूयः समुद्गच्छतां
काप्यन्यैव निशाचरेन्द्रशिरसां कान्तिः समुज्जृम्भते॥४८॥
(पुनः सकौतुकम्। विहृस्य।) अहो अस्य चित्तवृत्तिः।
अयं यावद्यावत्पृथुहृदयपीठो रघुपतिः
शिरश्छेदासक्तो न दशवदनस्य व्यथयति।
अयं तावत्तावद्वहति मुदमुच्चैर्दशमुखः
किलैतस्मिन्देवी जनकपतिपुत्री निवसति॥४९॥
(नेपथ्ये।)
अयि प्रिय राम,
किं क्रीडसि शरस्तोमैर्नन्वेकेनैव पत्रिणा।
परिपूरय नः कामं यशसा च जगत्त्रयम्॥५०॥
विद्याधरः— नूनममी दिवौकसस्त्वरयन्ति रामचन्द्रम्। तच्छृण्वन्किमधुना वक्ष्यति रावणः।
(नेपथ्ये।)
रे रे मम भुजाः,
मुक्त्वैकां हरशेखरप्रणयिनीं पीयूषभानोः कलां
दिक्पालावलिमौलिमण्डनमणीन्गृह्णीत सर्वानपि।
तैः काञ्चीं रचितां चिराय वहतु श्रोणीतटे जानकी
गायन्ती कमनीयशिञ्जितभरैर्मद्विक्रमाडम्बरम्॥५१॥
विद्याधरः— (विहस्य।) लङ्केश्वर, समयज्ञोऽसि यद्भुजानेव नियुक्तवानसि। अधुना हि भुजमण्डलमेव परिवारवर्गस्ते। (विलोक्य साकूतम्।) अये, कथमनेन दशाननवचनेन किंचित्कुपित इव दृश्यते जानकीकान्तः। (पुनः सहर्षविषादम्।) हन्त भोः,
विकचकुसुमस्तोमाकीर्णे परागविभूषितः
शशिमणिशिलातल्पेऽनल्पे सलीलमशेत यः।
अयमयमसौ रोषारूढे क्षणं रघुनन्दने
भुवि दशमुखः शेते धूलिच्छटापरिधूसरः॥५२॥
विद्याधरी— (सहर्षम्।) ता121 दाणीं जेव्व जणअणन्दिणी रामचन्देण समं संगमिस्सदि।
विद्याधरः— अथ किम्।
उद्दामहेतिवलयैः परिदीपिताशं
पश्य प्रविश्य जनकेन्द्रसुता हुताशम्।
प्रत्युद्गता समधिकां द्युतिमावहन्ती
प्रातर्मयूखकलिकेव दिवाकरस्य॥५३॥
विद्याधरी— पेक्ख122 पेक्ख। इमो असमसमरकअत्थिदं पदेसं अवतरइ रामचन्दो।
विद्याधरः— तदेहि। कर्णामृतं पुलोमजायै निवेदयावः।
(इति निष्क्रान्तौ।)
(ततः प्रविशति रामः सीतालक्ष्मणौ सुग्रीवबिभीषणौ च।)
रामः— अये, कथमुपगत एव भगवानम्बरमणिश्चरमाचलचूडम्
लक्ष्मणः— पश्चिमपयोधिवेलां च। नन्विदानीम्
उद्दामदिग्द्विरदचञ्चलकर्णपूर-
गण्डस्थलोच्चलदलिस्तबकाकृतीनि।
मीलन्नभांसि मृगनाभिसमानभांसि
दिक्कन्दरेषु विलसन्तितमां तमांसि॥५४॥
रामः— अये, कथमुज्जृम्भितमेव निशाचरचक्रानुकारिणा तिमिरनिकरेण।
बिभीषणः— नन्वितोऽपि समुन्मीलितमेव रामनाराचानुकारिणा तुहिनकरकिरणप्रकरेण।
सुग्रीवः— एवमेतत्। अमी हि
क्षीराब्धेर्लहरीषु फेनधवलाश्चन्द्रोपलेषु स्रव-
त्पाथःसीकरिणो विकासिकुमुदक्रोडे रजः पिञ्जराः।
उन्मीलन्ति चकोरचञ्चगहने छिन्नप्ररूढाश्चम-
त्कुर्वन्तः प्रियविप्रयुक्तरमणीगात्रे सुधांशोः कराः॥५५॥
विभीषणः— एवमेतत्। इदानीं हि
शंकरार्धतनुबद्धपार्वतीकुङ्कुमाक्तकुचकोरकाकृतिः।
सूच्यते कमलिनीभिरुन्नमत्पद्मकोशकरलीलया शशी॥५६॥
लक्ष्मणः— (सकौतुकम्।) एवमेतत्। अहो।
व्वान्तौघे शितिकण्ठकण्ठमहसि प्राप्ते प्रतीचीमुखं
प्राचीमञ्चति किंच दुग्धलहरीमुग्धे विधोर्धामनि।
एतत्कोकचकोरशोकरभसम्लानप्रसन्नोल्लस-
दृक्पातोर्मिकदम्वचुम्बितमिव त्रैलोक्यमाभासते॥५७॥
रामः— वत्स, एवमेतत्। इदानीं हि
शीतांशुस्फटिकालवालवलयद्रागुल्लसत्कौमुदी-
वल्लीनूतनपल्लवाञ्चितमिव प्राप्य क्षणं ताम्रताम्।
चञ्चन्मत्तचकोरचञ्चुघटनाच्छिन्नाग्रकाण्डस्रुत-
क्षीरस्यन्दनिरन्तराप्लुतमिव श्वेतं वियद्भासते॥५८॥
(नूनर्विलोक्य सकौतुकम्।) वत्स लक्ष्मण,
पश्योदेति वियोगिनां दिनमणिः शृङ्गारदीक्षामणिः
प्रौढानङ्गभुजङ्गमस्तकमणिश्चण्डीशचूडामणिः।
तारामौक्तिकहारनायकमणिः कंदर्पसीमन्तिनी-
काञ्चीमध्यमणिश्चकोरपरिषच्चिन्तामणिश्चन्द्रमाः॥५९॥
लक्ष्मणः— एवमेतत्। अयमसौ
स्वैरंकैरवकोरकान्विदलयन्यूनां मनः खेदय-
न्नम्भोजानि निमीलयन्मृगदृशां मानं समुन्मीलयन्।
ज्योत्स्नां कन्दलयन्दिशो धवलयन्नुद्वेलयन्वारिधी -
न्कोकानाकुलयंस्तमः कवलयन्निन्दुः समुज्जृम्भते॥६०॥
बिभीषणः— सखे सुग्रीव, पश्य।
मयूखनखरत्रुटत्तिमिरकुम्भिकुम्भस्थलो-
च्छलत्तरलतारकाकपटकीर्णमुक्तागणः।
पुरंदरहरिद्दरीकुहरगर्भसुप्तोत्थित-
स्तुषारकरकेसरी गगनकाननं गाहते॥६१॥
सुग्रीवः— सखे बिभीषण, पश्य।
यः श्रीखण्डतमालपत्रति दिशः प्राच्याः स्मरक्षमापतेः
पाण्डुच्छत्रति दन्तपत्रति वियल्लक्ष्मीकुरङ्गीदृशः।
केलिश्वेतसहस्रपत्रति रतेः किं च क्षपायोषितः
क्रीडाराजतसीधुपात्रति शशी सोऽयं जगन्नेत्रति॥६२॥
रामः— (निर्वर्ण्य।)
सितकिरणकपोलीमालिमालोकयन्ती
तिमिरविरहतापव्याकुलां व्योमलक्ष्मीम्।
रजनिरमलताराशीकरैः सिक्तमस्याः
परिमलयति गात्रं चन्द्रिकावन्दनेन॥६३॥
(पुनर्विमृश्य। स्वगतम्।)
इन्दुरिन्दुरिति किं दुराशया बिन्दुरेष पयसो विलोक्यते।
विदं विजयते मृगीदृशः श्यामकोमलकपोलमाननम्॥६४॥
(पुनः सीतां प्रत्यपवार्य।)
तन्वि त्वदनस्य विभ्रमलवं लावण्यवारांनिधे-
रिन्दुः सुन्दरि दुग्धसिन्धुलहरीबिन्दुः कथं विन्दतु।
उत्कल्लोलविलोचने क्षणमयं शीतांशुरालम्बता -
मुन्मीलन्नवनीलनीरजवनीखेलन्मरालश्रियम्॥६५॥
सीता— (लजां नाटयति। विलोक्य सहर्षम्।)^(१)अहो, कहमिमो उम्मीलिदो जेव्व।
मुउलीकिदारविन्दो माणवईमाणवारणमइन्दो।
तिहुअणणअणारविन्दो रअणीमुहचन्दणो चन्दो॥६६॥
रामः- सखे सुग्रीव, पश्य पश्य।
इन्दोरस्य त्रियामायुवतिकुचतटीचन्दनस्थासकस्य
व्योमश्रीचामरस्य त्रिपुरहरजटावल्लरीकोरकस्य।
कंदर्पक्षोणिपालस्फटिकमणिगृहस्यैतदाखण्डलाशा-
नासामुक्ताफलस्य स्थगयति जगतीं कोऽपि भासां विलासः॥६७॥
सुग्रीवः— अये रघुनाथ, पुनरुक्तमिदमाचष्टे चन्द्रमसः किरणविलासः।
रामः— कथमिव।
**सुग्रीवः—**नन्वत एव
——————————————————
१. अहो, कथमयमुन्मीलित एव।
मुकुलीकृतारविन्दो मानवती मानवारणमृगेन्द्रः।
त्रिभुवननयनारविन्दो रजनीमुखचन्दनश्चन्द्रः॥
कर्पूरादपि कैरवादपि दलत्कुन्दादपि स्वर्णदी-
कल्लोलादपि केतकादपि चलत्कान्तादृगन्तादपि।
दूरोन्मुक्तकलङ्कशंकरशिरःशीतांशुखण्डादपि
श्वेताभिस्तव कीर्तिभिर्धवलिता सप्तार्णवा मेदिनी॥६८॥
रामः— अलं तुच्छप्रायजल्पितेन।
बिभीषणः— देव, तुच्छप्रायमेव जल्पितं सुग्रीवेण। यदुक्तं मेदिनी धवलितेति। ननु त्रिलोकीतलमेव धवलितमिति वक्तव्यम्। संप्रति हि—
समुन्नतघनस्तनस्तबकचुम्बितुम्बीफल-
क्वणन्मधुरवीणया विवुधलोकवामभ्रुवा।
त्वदीयमुपगीयते हरकिरीटकोटिस्फुर-
त्तुषारकरकन्दलीकिरणपूरगौरं यशः॥६९॥
**रामः—**अयि लङ्केश्वर, भवानपि किष्किन्धानाथमतमेवानुगतः।
(पुनर्विलोक्य सहर्षं सुग्रीवं प्रति।)
संरम्भोद्रिक्तनक्तंसमयदशमुखोच्चण्डदोर्दण्डहेला-
कैलासः सप्तलोकीजयमुदितमनोजन्मवादित्रशङ्खः।
लोलाक्षीगण्डपालीलवणिमजलधेरुद्गतः फेनपिण्डः
पश्य व्योमावकाशं विशति विरहिणां दत्तशङ्कः शशाङ्कः॥७०॥
(निर्वर्ण्य। स्वगतम्।)
अयं नेत्रादत्रेरजनि रजनीवल्लभ इति
भ्रमः कोऽयं प्रज्ञापरिचयपराधीनमनसाम्।
सुधानामाधारः स खलु रतिबिम्बाधरसुधा-
रसासेकस्निग्धादजनि नयनात्पुष्पधनुषः॥७१॥
लक्ष्मणः— आर्ये जानकि, पश्य पश्य।
आनन्दं कुमुदादीनामिन्दुः कन्दलयन्नयम्।
लङ्घयत्यम्बराभोगं हनूमानिव सागरम्॥७२॥
**सीता—**अये123सुलक्खण लक्खण, सो उण दाणीं कहिं रहुउलकुड्डम्बसन्तावसमणचन्दणो पवणणन्दणो।
लक्ष्मणः— आर्ये, स एष रामचन्द्रेण बन्धुमानन्दितुमयोध्यायां प्रहितः।
सीता— ता124अह्मेहिं किंति विलम्बीअदि।
(रामो बिभीषणमुखमालोकते।)
विभीषणः— (निर्गत्य प्रविश्य च। ) इदं तत्पुष्पकाभिधानं विमानरत्नमारुह्यताम्।
(सर्वे विमानावरोहणं नाटयन्ति।)
** रामः—** (सकौतुकम्।) अये, तदिदं विमानरत्नंयत्किल त्रिभुवनैकवीरः कुबेरानुजः कुबेरादाजहार।
लक्ष्मणः— (सामर्षम्।) कथमयं किष्किन्धामाहिष्मतीपतिभ्यः समभागविभक्तलक्ष्मीकोऽपि त्रिभुवनैकवीर इति व्यपदिश्यते।
रामः— (विहस्य।) वत्स, एवमेतत्।
तादृक्कठोरभुजयन्त्रनिपीडनेन
निःशब्दतामुपगतैर्दशकण्ठकण्ठैः।
यत्कीर्तिघोषणमकारि चतुःसमुद्र-
वेलासु किं स वचसां विषयः कपीद्रः॥७३॥
अपि च।
कोपप्रदीप्तनिजलोचनदीपवह्नि-
निर्भिन्नसान्द्रतिमिरे स दशाननोऽपि।
काराकुटीरकुहरे वसति स्म यस्य
सोऽप्येष हैहयपतिर्विषयो न वाचाम्॥७४॥
किंतु परिभावय वत्स,
यस्य द्राक्करवालकृत्तशिरसः कण्ठालवालस्थलीं
चूडाचन्द्रमसं निपीड्य निबिडं सिञ्चन्सुधानिर्झरैः।
स्वां मेने दशखण्डमण्डन इति ख्यातिं कृतार्थांहरः
पन्थानं दशकन्धरः स च कथंकारं गिरां गाहते॥७५॥
(निर्वर्ण्य।) अये, किमुच्यतेऽस्य खलु त्रिकूटगिरिशिखर कण्ठीरवस्य दशकण्ठस्य लोकोत्तराणि चरितानि।
यद्दोःशायिनि चन्द्रशेखरगिरौ भारावतारोन्नम-
न्नागाधीशफणावलीमणिरुचां पूरे समुन्मीलति।
जातास्तुल्यमकालबालतपनाताम्राश्चतस्रो दिशो
देवस्यापि रुषा तुषारकिरणोत्तंसस्य तिस्रो दृशः॥७६॥
लक्ष्मणः— आर्य,
एष मे मनसि भासतेऽधुना मूर्तिमानिव मनोरथो रथः।
नास्ति नो यदधिरोहलीलया दूरमागतवतामपि श्रमः॥७७॥
रामः— एवमेतत्। तथाहि।
उल्लङ्घ्य नीरधिमतीत्य च दण्डकानि
नद्यौ च मेकलकलिन्दसुते व्यतीत्य।
प्राप्ताः शिखण्डिशतखण्डितशाखिखण्ड-
मेते वयं शिखरिणं ननु चित्रकूटम्॥७८॥
सीता— (तिर्यग्विलोक्य) अहह125 कलिन्दनन्दिणि, सच्चप्पसादासि जं पुणोवि णिअकुडुम्बस्सदिष्णदंसणासि।
रामः— अयि, तदिदं निर्मुक्तविरोधश्वापदं भगवतो भारद्वाजस्याश्रमपदम्।
लक्ष्मणः— एवमेतत्। अत्र हि
व्याजृम्भमाणवदनस्य हरेः करेण
कर्षन्ति केसरसटाः कलभाः किलैके।
अन्ये च केसरि किशोरकपीतमुक्तं
दुग्धं मृगेन्द्रवनितास्तनजं पिबन्ति॥७९॥
अपि च।
क्रीडन्माणवकाङ्घ्रिताडनशतैरुज्जागरस्य क्षणं
शार्दूलस्य नखाङ्कुरेषु कुरुते कण्डूविनोदं मृगः।
चञ्चच्चन्द्रशिखण्डितुण्डघटनानिर्मोकनिर्मोचितः
किंचायं पिबति प्रसुप्तनकुलश्वासानिलं पन्नगः॥८०॥
रामः— अये, कथमयं संप्राप्त एव चक्रवाकरमणीसंरम्भसमयः प्रभातसमयः। तथाहि।
एते केतकधूलिधूसररुचः शीतद्युतेरंशवः
प्राप्ताः संप्रति पश्चिमस्य जलधेस्तीरं जराजर्जराः।
अप्येते विकसत्सरोरुहवनीदृक्पातसंभाविताः
प्राचीरागमुदीरयन्ति तरणेस्तारुण्यभाजः कराः॥८१॥
लक्ष्मणः— (सकौतुकम्।)
सद्यः संघटमानको कमिथुनव्याजेन पीनस्तन-
द्वन्द्वव्यञ्जितयौवनोज्ज्वलरुचो निर्माय दिक्कन्यकाः।
दुर्दैवाक्षरमालिका मिव झगित्याकृष्य भृङ्गावलीं
लक्ष्मीमम्बुजिनीजनस्य तनुते देवस्त्विषामीश्वरः॥८२॥
सुग्रीवः— बिभीषण, पश्य पश्य।
उन्मीलन्ति निशानिशाचरवधूनिर्वासनामान्त्रिकाः
सायं सालससुप्तपङ्कजवनप्रोद्बोधवैतालिकाः।
फुल्लत्पङ्कजकोशगर्भकुहरप्रोद्भूतभृङ्गावली-
झाङ्कारप्रणवोपदेशगुरवस्तीद्युतेरंशवः॥८३॥
बिभीषणः— एवमेतत्। तथाहि।
आयान्त्या दिवसश्रियः पदतलस्पर्शानुभावादिव
व्योमाशोकतरोर्नवीनकलिकागुच्छःसमुज्जृम्भते।
आतन्वन्नवतंसविभ्रममसावाशाकुरङ्गीदृशा-
मुन्मीलत्तरुणप्रभाकरकरस्तोमः समुद्भासते॥८४॥
रामः— प्रिये,
एतत्तर्कय चक्रवाकसुदृशामाश्वासनादायिनः
प्रौढध्वान्तपयोधिमग्नजगतीदत्तावलम्बोत्सवाः।
दीप्तांशोर्विकसन्ति दिङ्मृगदृशां काश्मीरपक्कोदक-
व्यात्युक्षीचतुराः सरोरुहवनश्रीकेलिकाराः कराः॥८५॥
(अपवार्य।) पश्य पश्य।
शिथिलयति सरागो यावदर्को नलिन्याः
कमलमुकुलनीवीग्रन्थिमुद्रां करेण।
प्रविकसदलिमाला गुञ्जितैर्मञ्जुशब्दा
जनयति मुदमुच्चैः कामिनां कामिनीव॥८६॥
सीता— (विहस्य विलोक्य च।)^(१)कहं इमो उम्मीलिदो जेव्व ।
पुव्वगिरिपम्मरायो पअडीकिदणअणशी अलसहाओ।
कुङ्कुमकिअङ्गराओ णलिणीजणवल्लहो देवो॥८७॥
रामः— (प्रकाशम् ।) अये, जानकि, पश्य ।
तरलतरतरङ्गभङ्गहेलाबहलविलासविलोलहंसमाला।
अमरपुरतरङ्गिणीयमम्बा सुरनरमङ्गलकारिणी न दूरे॥८८॥
(सीता सहर्षं तदेव पठति संस्कृतं प्राकृतं च।)
रामः— (सहर्षम् ।) वत्स लक्ष्मण, इयमदूरे रघुकुलमङ्गलाङ्कुरप्ररोहकेदारधरणीतरङ्गिणी सरयूः । इयं च सरयूतरङ्गशीकरशीतलीकृतपरिसरा नगरीसीमन्तमणिरयोध्या।
लक्ष्मणः—(सहर्षम् ।) अयमसौ भरतानुयातस्त्वदभिषेककृतमतिर्भगवानरुन्धतीपतिः।
दिलीपकुलमाणिक्यं सकलाशाविकासकम् ।
आविर्भवन्तं भास्वन्तं भवन्तं संप्रतीक्षते॥८९॥
तेन पुष्पकादवतरामः।
रामः— वत्स, प्रतीक्षस्वेहैव तावत्सुलभसकलमण्डलालोकमाखण्डलाशामण्डनं भगवन्तं चण्डमरीचिं नमस्यामः । (अञ्जलिं बद्धा।)
प्राचीकुङ्कुमतिलकं पूर्वाचलशेखरैकमाणिक्यम्।
त्रिभुवनगृहैकदीपं वन्दे लोकैकलोचनं देवम्॥९०॥
(नेपथ्ये ।)
अये वत्स रामभद्र।
**रामः—**अहो अद्भुतम्।
विकासयन्ती नितरां पद्मानीव मनांसि नः।
प्रभेव भारती कापि भानुबिम्बाद्विजृम्भते॥९१॥
——————————————————
१. कथमयमुन्मीलित एव ।
पूर्वगिरिपद्मरागः प्रकटीकृतनयनशीतलस्वभावः।
कुङ्कुमकृताङ्गरागो नलिनीजनवल्लभो देवः॥
(नेपथ्ये।)
यशःपूरं दूरं तनु सुतनुनेत्रोत्पलवनी-
तमस्तन्द्राचण्डातप तप सहस्राणि शरदाम्।
इयं चास्तां युष्मद्गुणकथनपीयूषपटल-
श्रितोत्सङ्गा नन्दत्सुरनरभुजङ्गा त्रिजगती॥९२॥
रामः - अनुगृहीतोऽस्मि।
(पुनर्नेपथ्ये।)
अन्यच्च ते किमाशास्महे।
सुग्रीवः— अये तात दिनकर, परिपूर्णमनोरथ एव रामभद्रः अनेन हि
प्राप्ता निर्भरमुन्नतिर्निजगुणैराज्ञा पितुः पालिता
सुग्रीवश्च बिभीषणश्च परमां राज्यश्रियं प्रापितौ।
सङ्ग्रामे दशकन्धरः सुररिपुर्नीतो यशःशेषतां
हृष्टो बन्धुजनश्च हर्षविगलद्बाष्पोल्लसल्लोचनः॥९३॥
तथापीदमस्तु।
आवालाद्वदनाम्बुजे तनुभृतां सारस्वतं जृम्भतां
देवे कौस्तुभधाम्नि चन्द्रमुकुटेऽद्वैता मतिः खेलतु।
वाग्देव्या सह सूक्तवैशसरसा देवी च दीव्यादियं
शेषस्येव फणाञ्चलेषु सततं लक्ष्मीः सतां सद्मसु॥९४॥
रामः— तदागच्छत। पुष्पकादवतीर्य गुरुं बन्धुजनं पौरांश्चानन्दयामः।
(इति सर्वे पुष्पकादवतरन्ति।)
जायन्तामविरामरामचरितक्रीडाभिरामाः सता-
मुन्मीलन्नवमालिकाविरचितस्रग्दामरम्या गिरः।
याः कण्ठेऽपि निवेश्य पेशलधियो रोमाञ्चलीलाञ्चिताः
कान्ताबाहुलताविलासमहिमाश्लेषांस्तृणं मन्वते॥९५॥
(इति निष्क्रान्ताः सर्वे।)
इति सप्तमोऽङ्कः।
समाप्तोऽयं ग्रन्थः।
—————————————
श्लोकानुक्रमणिका।
<MISSING_FIG href="../books_images/U-IMG-17301966170002.png"/>
| अइ तुह मुहलेहा चन्द २ | २९ |
| अइ पिवह लोअणाइं २ | २५ |
| अखण्डचण्डिमोद्दण्ड ४ | ७ |
| अग्रेसरी रघुपतेः ७ | २१ |
| अङ्गं लिम्पति चन्दनेन ७ | ७ |
| अङ्गैरङ्गीकृता यत्र ३ | ७ |
| अत्र ते सखि शिखण्ड २ | २३ |
| अथाविरासीत्कुरुवि ५ | ३६ |
| अथाहूतस्तादृक्सभर ५ | ३५ |
| अद्यैवास्य बिभीषणस्य ७ | १२ |
| अधिचरणममू चमूरु ५ | ४२ |
| अनल नलिनकोमले ६ | ३७ |
| अनाहृत्य हठात्सीतां १ | ६० |
| अन्तःसान्द्रवहन्महेश्वर ७ | ४८ |
| अन्योऽपि कोऽपि यदि १ | ५५ |
| अपक्रान्ते बाल्ये तरुणि २ | ११ |
| अपि तपति पतङ्गे ५ | २६ |
| अपि मुदमुपयान्तो १ | १९ |
| अप्याविरस्तु भूयोऽपि २ | ३० |
| अप्युच्चण्डैस्तपन ५ | २७ |
| अमलमृणालकाण्डकम् २ | २० |
| अमी मे दोर्दंडास्तुलि १ | ५९ |
| अमृतजलधेः पायं पायं १ | २१ |
| अमृतमयपयोधिक्षीर २ | २८ |
| अम्बाः शुश्रूषमाणा मे ५ | ६ |
| अयं यावद्यावत्पृथु ७ | ४९ |
| अयं नेत्रादत्रेरजनि ७ | ७१ |
| अयमुदयति चन्द्रे ६ | ७ |
| अयि राघवाविति सुधा ७ | ३१ |
| अये कथमशोकोऽपि ६ | ३६ |
| अये लङ्केश विस्रस्त १ | ३८ |
| अवनिमवनिपालाः ३ | १३ |
| असुरसुरनिशाचरो १ | ५३ |
| उन्मीलितेन शिखरेण १ | ५२ |
| उल्लङ्घ्य नीरधिमतीत्य ७ | ७८ |
| एकः स्वर्णमहीधरां क्षिति ४ | १७ |
| एकः कथं बहुतरैः १ | ४२ |
| एकेनालम्बितेयं शिथि ६ | १५ |
| एतत्कोककुटुम्बिनीजन २ | ३४ |
| एतत्तद्दुर्विगाहं तुहिन ३ | ३० |
| एतत्तर्कय चक्रवाकसुदृशा ७ | ८५ |
| एतत्तर्कय चक्रवाकहृदया ३ | २ |
| एतयोः प्रकृतिरम्य ३ | २० |
| एतयोरहमुदाररूपयो ३ | १९ |
| एतान्यस्य यथायथा ७ | ४७ |
| एते केतकधूलिधूसररुचः ७ | ८१ |
| एते हि स्वरसावनम्र ५ | ३२ |
| एतैः श्रीकण्ठकोदण्ड ३ | ४३ |
| एष मे मनसि भासते ७ | ७७ |
| एषामयं रामचमूचराणां ७ | १३ |
| कंदर्पज्वरवेदनापरि ६ | २४ |
| कदली कदली करभः १ | ३७ |
| कनकहरिणगात्रे वाण ५ | ४० |
| कनीयस्या मातुः कृतचरण ७ | ३२ |
| कमलबन्धुविलोचन ४ | ४६ |
| करकिसलयलीला ३ | ४४ |
| करपङ्केरुहक्रोडे ४ | ४१ |
| कराघाताद्विष्णोस्तरल ४ | ४० |
| करुणतरङ्गतरङ्गिणि २ | ६ |
| कर्णे निधाय च पिधाय १ | १६ |
| कर्पूरादपि कैरवादपि ७ | ६८ |
| कल्लोलक्षिप्तपङ्कत्रिपुर २ | ३५ |
| कल्लोलिनि त्वमिव ६ | ४ |
| कस्मैचिद्देहि कन्यां ३ | ३८ |
| कस्याख्याय व्यतिकर ६ | ४४ |
| कान्तमिन्दुमणिदाम कोमले २ | १० |
| कान्तेनाथ प्रणयमधुरं ५ | २८ |
| कामः कियानसिलता ६ | २७ |
| कामारिकार्मुकविकर्षण १ | ३० |
| चान्द्रीं लेखां दशति ६ | ३२ |
| छत्रछाया तिरयति ३ | १२ |
| जज्ञिवान्दशरथः स हि ३ | २९ |
| जं णहु संभावीअदि ६ | २० |
| जनकतनयाहस्तन्यस्तै ५ | ३० |
| जानीषे नहि जामदन्य ४ | २४ |
| जायन्तामविरामराम ७ | ९५ |
| ज्याघातः कार्मुकस्य ३ | १० |
| ज्यावल्लीं ललिताङ्गुली ३ | ४८ |
| झगिति जगतीमाग १ | ११ |
| तटभुवि सरसीनां सैकते ५ | २४ |
| तडिल्लेखा नेयं विलस १ | ३५ |
| तत्कोदण्डं कुलिशकठिनं ४ | ३९ |
| तदिदं वीरसूकर्ण २ | १ |
| तनुश्रिया निर्जितचम्प ३ | २१ |
| तन्मे विदेहतनया ६ | ३ |
| तन्वि त्वद्वदनस्य विभ्रम ७ | ६५ |
| तपःशान्तं चेतः स्फटिक ४ | ३१ |
| तपनकुलशिरः किरीट ३ | २८ |
| तपनसुतया देव्या यद्वा ५ | ३३ |
| तरलतरतरङ्गभङ्गहेला ७ | ८८ |
| तरुरयमितः शीतच्छायः ५ | २२ |
| तस्य पद्मवनबान्धव ३ | २५ |
| तस्याः कणत्किमपि नूपुर ५ | ४८ |
| ताटङ्किना झटिति ३ | १ |
| तादृक्कठोरभुजयन्त्र ७ | ७३ |
| तान्येव पक्ष्मदृशो ६ | १२ |
| तारापतेरनुचरो रघु ६ | ३९ |
| तुह सुहअ उक्खिव ६ | १३ |
| तुहिनकरमयूखैर्दीप्त ६ | २३ |
| तेल्लोक्कं लङ्घअन्तो ३ | ४६ |
| त्रासं मुञ्च समुद्र ७ | ११ |
| त्रासातुरेण हरिणेन ५ | ३८ |
| त्रिपुरमथनचापारो १ | ५१ |
| त्रिलोकी कोकीयं मुद ४ | ४४ |
| त्रिशङ्कोः स्वर्लोकाद ३ | १५ |
| पदाभ्यामुन्निद्रामधरयति २ |
| पन्थाः समः सिकतिलो ५ | २१ |
| पयोभिः सिच्यन्तां ३ | ६ |
| परस्त्रीकुचकुम्भेषु ७ | २ |
| परिमितकमनीयः ६ | १४ |
| परिम्लानां मालामिव ५ | ५१ |
| पश्य पश्य सुभटैः स्फुट १ | ३१ |
| पश्योदेति वियोगिनां ७ | ५९ |
| पाणीञ्जनककन्यानां ३ | ५१ |
| पादोपजीवनाद्भानो ३ | ५ |
| पितुः पादाम्भोजप्रणति १ | ४९ |
| पीत्वा कज्जलकालिमा ३ | ३७ |
| पुरः कान्तं यान्तं विपिन ५ | १४ |
| पुव्वगिरिपोम्मरायो ७ | ८७ |
| पूर्णा एव पुरारिचाप ३ | ४२ |
| पूर्वमेव प्रयातानां खर ७ | ३९ |
| प्रत्यङ्कमङ्कुरितसर्व १ | ७ |
| प्रत्यासन्ने भवति ५ | २९ |
| प्रसीद त्वं रोषाद्विरम ४ | ३५ |
| प्राकारमुन्नतमसीम ६ | २२ |
| प्राचीकुङ्कुमतिलकं ७ | ९० |
| प्राचीमालम्बमाने घन २ | ३३ |
| प्राप्ता निर्भरमुन्नति ७ | ९३ |
| प्राप्य चापनिगमानितः ३ | ३३ |
| प्रायो दुरन्तपर्यन्ताः ५ | ४९ |
| प्रोषितवति रजनिकरे ५ | ५ |
| बन्धूकवन्धुरधरः सित २ | ८ |
| बहलगलन्तणअणजल ६ | ४५ |
| बहलगलितैः संतापो ५ | १ |
| बहुलपक्षशशीव दिने ६ | ४२ |
| बाणस्य बाहुशिखरैः १ | ५६ |
| बाणौघानेकवीरः कल ६ | ४९ |
| बाला विदेहतनया ५ | १५ |
| बीजं यस्य चिरार्जितं १ | १३ |
| भास्वद्वंशवतंस १ | ९ |
| भिन्दन्निद्रां मुरारेः ३ | ४५ |
| भिन्नप्रभिन्नसुरकुञ्जर ७ | २५ |
| यद्दोःशायिनि चन्द्रशेखर ७ | ७६ |
| यद्वाहू वहतः पराक्रम ३ | २६ |
| यशःपूरं दूरं तनु ४ | ४८ |
| यशःपूरं दूरं तनु सुतनु ७ | ९२ |
| यस्य ख्याता जगति सक ३ | ३५ |
| यस्य त्र्यम्बकमौलिखेल ७ | ३ |
| यस्य द्राकरवालकृत्त ७ | ७५ |
| यस्याः स्वयं कुलगुरुः १ | ४६ |
| यस्याश्चोरश्चिकुरनिकरः १ | २२ |
| यस्येन्द्रारिजयश्रिया ३ | २७ |
| यस्योद्यद्धोरधाराञ्चल ४ | ५ |
| यस्योद्यद्भुजदण्डचण्डिम ३ | २४ |
| यां त्रै गर्भे त्रिजगदबला ६ | १७ |
| यावत्कन्दुकलाञ्छना ३ | ४९ |
| यावत्कर्णं तपति तपन ५ | २५ |
| यावन्नीरनिधेः प्रभात ३ | ४ |
| या शैशवावधि मनो ६ | ३८ |
| युष्माकं भोः सुघटित ४ | ३० |
| ये ऋष्यशृङ्गचरुभाग ४ | १२ |
| ये चन्द्रचूडाचलचालनै १ | ४५ |
| येनावध्यत नर्मदाम्बु ४ | ६ |
| येनोपदिष्टमद्यापि ४ | २० |
| येयं बिभीषणे शक्ति ७ | २८ |
| ‘येषां कोमलकाव्यकौश १ | १८ |
| योऽयं बहिः कलित ६ | ६ |
| यो वालिनः शौर्यनिधे ६ | ४० |
| रजनिचरकराग्रस्पर्श ५ | ४४ |
| रजनिकर करास्ते ६ | २ |
| रतिरिव जननेत्रा ३ | ३६ |
| राघवेण शिशुनापि ३ | ४१ |
| राजललाटफलका ७ | ८ |
| राजीव जीवसि मुधा १ | ३६ |
| रामे चन्द्रामिराभे विनय ४ | १८ |
| ‘रामेण सार्धमयमुद्धत ६ | २३ |
| रामे प्राप्ते वनान्ते कथ ५ | १९ |
| रामोन्मुकैकबाणप्रणि ५ | ४३ |
| शिथिलयति सरागो या ७ | ८६ |
| शीतांशुस्फटिकालवाल ७ | ५८ |
| श्यामच्छवीनामियमन्तराले २ | १३ |
| श्रीकण्ठकार्मुकनिरस्त ३ | ४० |
| संरम्भोद्रिक्तनक्तं ७ | ७० |
| सकलजनविलोकनोत्स ३ | १७ |
| सकलनृपकठोरकण्ठ ४ | ३ |
| सद्यः संघटमानकोक ७ | ८२ |
| समुन्नतघनस्तनस्तबक ७ | ६९ |
| सम्यक्संघट्टमानेन ३ | ५० |
| सर्वस्वं नवयौवनस्य २ | २६ |
| सहेलं हत्वैमं हरिण ५ | ५० |
| सावलेपकमनीयमुदस्य १ | ३९ |
| सितकिरणकपोली ७ | ६३ |
| सुबाहुमारीचपुरःसरा ४ | ८ |
| सुरमुरजगभीरवीर ५ | १६ |
| सुललितवदनामुदार १ | १७ |
| सेवायात समस्त खेचर ३ | ३१ |
| सौन्दर्यं मदनादपि प्रथ ४ | १४ |
]
-
“वयस्य मञ्जीरक, पश्य पश्य। गजेन्द्रदशनस्निग्धशलाकासहस्रनिर्मितेषु मञ्चेष्वासीना इमे कुङ्कुमकृताङ्गरागा राजानोऽमलस्फटिकप्रासादशिखरासङ्गिनः कनकसिंहा इव राजन्ते। अमुग्धदुग्धसागरलहरीशिखरावलम्बिनोऽभिनवोद्गच्छन्निशाकरबिम्बप्रतिबिम्बा इव शोभन्ते।” ↩︎
-
“वयस्य मञ्जीरक, कोऽयं सीताकरग्रहवासनावसन्तलक्ष्मीविलसत्पुलकमुकुलजालमण्डितं निजभुजसहकारशाखियुगलं विलोकयंस्तिष्ठति।” ↩︎
-
“अयं पुनः कतमो यः किल दूरापसारितकटकप्रकटितधनुर्गुणकिणकषणलेखामण्डले भुजदण्डे विलोकयंस्तिष्ठति।” ↩︎
-
“अयं पुनः को निजप्रतापदिनकरोद्गमपूर्वगिरिशिखरसहचरं दक्षिणभुजदण्डमुन्नमय्यवर्तते।” ↩︎
-
“कोऽयं हर्षोल्लसत्पुलकविसंष्ठुलकपोलस्थलचलितकुण्डलसदृशनिवेशनापदेशेन प्रकटितहरशरासनकर्णपूरमनोरथो राजते।” ↩︎
-
“वयस्य, कस्यायं महीतलचलद्राहुरथचक्ररवकर्कशः कण्ठध्वनिः श्रूयते।” ↩︎
-
“अहमदृशं संभावयामि यत्किल गुरुभवनादागतया चन्दनिकया समर्पितंचित्रपटं विलोकयतीति।” ↩︎
-
“भर्तृदारिका तावदन्यश्च कोऽपि नीलोत्पलदामश्यामलः कुसुमशरसदृशरूपः कुण्डलीकृतहरचापश्चक्रवर्तिकुमारः।” ↩︎
-
“जानामि महर्षेर्जनकस्य दुहित्रा धर्मचारिण्या।” ↩︎
-
“सर्वे संभाव्यते यद्ययं जरठाङ्ग इतोऽपसरति।” ↩︎
-
" वयस्य, पश्य पश्य कौतूहलं यदेकस्यापि मानुषस्य दश मस्तकानि।" ↩︎
-
“तत्परित्रायतु मां वयस्यः। नूनं राक्षसमात्र एव संमुखपतितं मानुषंचर्वति किं पुना राक्षसराजः।” ↩︎
-
“यदीदृशस्तर्हि किमप्येनं निःशङ्कः प्रक्ष्यामि। अये, किमितीयन्ति मस्तकान्युह्यन्ते किमिति वैकं रक्षित्वा पुनरपराणि यत्रकुत्रचिन्न निक्षिप्यन्ते।” ↩︎
-
“यदीदृशस्त्वं तर्हि किमिति निजरूपं संगोप्य चोर इव प्रविष्टोऽसि।” ↩︎
-
“अलं तापेन। कथमेतावन्मात्रे वीरमण्डले कोऽपि नास्ति योऽस्य हठप्रवृत्तस्य पुरतो भवति।” ↩︎
-
“जीवितााः स्मः। पश्य ननु प्राप्तः सहस्रबाहुः कृतवीर्यपुत्रः।” ↩︎
-
“अये बाणरावणौ, स्वयमेवात्मानं वर्णयन्तौ न लज्जथ।” ↩︎
-
“हला, पश्य पश्य। अद्यैतदुद्यानं वसन्तसहचरेण स्वयमेव मन्मथेनालंकृतमिवातिमात्रं रमणीयं प्रतिभाति।” ↩︎
-
" देवि, शशधरमौलिदेहार्धधारिणि, त्रिभुवनगृहसुवासिनि, नमो नमस्ते।" ↩︎
-
“अलमलिकजल्पितेन।” ↩︎
-
“किमिति दुर्मनायिष्ये।” ↩︎
-
“हला, कस्यायं करिकलभकण्ठनिर्घोषमधुरः कण्ठशब्दः श्रूयते। तन्निरूपयामः।” ↩︎
-
“हला, कोऽयं कनकवर्णः शिखण्डिपिच्छमण्डितकर्णपूरो मुग्धत्वविमुक्तलोचनविकारः कुमारो दृश्यते। इमं पश्यन्त्या मम निजवत्स इव वात्सल्यप्रक्षालितं हृदयं वर्तते।” ↩︎
-
“हला, इमं कुमारं विलोकयन्त्या मम वत्सोर्मिला चित्तमारोहति।” ↩︎
-
“हला, किमत्रास्माकम्। तदेहि। निजगृहमेव व्रजामः। हला, एकं विस्मृतास्मि। ननु स सहकारपादपोऽवलोकनीयो यस्य वासन्त्या लतया सह संगममभिलषन्ति ममाम्बाः।” ↩︎
-
“हला, पश्य पश्य। एतैर्नखशिखाविलिखितैः कोमलदलैः संभाव्यते यत्किलेयं चूतलता केनापि विदग्धेन निजहस्तेन संभावितेति। अथवा निज- चापलताशङ्कितेन स्वयं मन्मथेनैवेति।” ↩︎
-
“अये अलीकजल्पिनि इदानीं तव परिसरं परिहृत्यान्यत्र गामिष्यामि।” ↩︎
-
“अहो, विकसितपेशलोत्पलोत्पलाशपुङ्खश्यामलो महेशसौम्यशेखरस्फुरत्सोमकोमलः। लतागृहे कोऽयमनङ्गरूपखण्डनो विलोचनयोर्ददाति मे सुखं शिखण्डमण्डनः॥” ↩︎
-
“अयि पिबतं लोचने प्रियजनवदनारविन्दमकरन्दम्। अयि तरले विचारयतं पुनः क्व युवां क्कायं च॥” ↩︎
-
“अपि लोचने बद्धषट्पदे ननु सुखोपश्रुतिरियम्।” ↩︎
-
“भर्तृदारिके, भट्टिनीभिराज्ञप्तास्मि। यत्किल वत्सा जानकी झटितिगृहमानीय विचित्राभरणैर्मण्ड्यताम्। येन तस्याः सानन्दं वदनारविन्दंं विलोकयामः।” ↩︎
-
“हण्डे, कथं स्नेहमुग्धा ममाम्बाः।” ↩︎
-
“भर्तृदारिके, कथं न मुग्धास्तवाम्बाः।” ↩︎
-
“कथं पुनर्मुग्धा ममाम्बाः।” ↩︎
-
“यास्त्वां निसर्गलावण्यचन्द्रलेखां नेपथ्यलक्ष्मीलाञ्छनेनालंकर्तुमिच्छन्ति।तथा च। अयि तव मुखलेखा चन्द्रबिम्बे सस्नेहा दशनकिरणलक्ष्मीरच्छज्योत्स्नासदृक्षा। कुवलयदलद्रोणीकंदरायां वहन्ती तरलबद्दलमिष्टा दुग्धधारेव दृष्टिः॥ तदागच्छ। गच्छामो निजगृहमेव।” ↩︎
-
“अहो अङ्गानां मे तुङ्गत्वम्। अपि नामेदृशैरङ्गैरत्रसंचारता मया द्वारशिखरं भज्यते। तत्कुब्जो भूत्वा संचरिष्यामि।” ↩︎
-
“वयस्य वामनक, इदानीं सकलगुणसंयुक्तोऽसि त्वम् ।” ↩︎
-
“कथमिव।” ↩︎
-
“प्रथममेव वामन इदानीं पुनः कुब्जत्वं प्राप्तः।” ↩︎
-
“अये मूर्ख, कथमात्मनः कुब्जत्वं परस्मिन्नारोपयसि। ननु त्वमेवकुब्जकः। मया पुनर्द्वारशिखरभङ्गशङ्कितेनात्मनि कुब्जत्वमारोपितम्।” ↩︎
-
“कथं वितस्तिमात्रेण तवाङ्गेन द्वारशिखरं भङ्क्ष्यते। अरे अलीकवाचाल, केन तव कथितमहं कुब्जक इति।” ↩︎
-
“नन्वनेनैव दृप्तवृषभककुदसदृशेन पृष्ठस्थितेन मांसस्तबकेनोद्वाहितेन।” ↩︎
-
“किमस्य महर्षेर्होमाग्निधूमश्यामलितलोचनस्य हरचापदर्शनेन। तत्तर्कयामि क्षत्रियब्राह्मणोऽयमिति।” ↩︎
-
“कथं तनुरिव मतिरपि ते वक्रा यदेवं तर्कयसि। सत्यं क्षत्रियब्राह्मणोऽयमिति।” ↩︎
-
“तत्कोऽप्यनर्थः संभाव्यते यत्किल चिरतपस्याकर्षितोऽयं तीव्रं प्रेक्षमाणःक्षत्रियव्राह्मण ऋजुमतेरस्माकं राजर्षे राज्यं ग्रहीतुमागत इति।” ↩︎
-
“शान्तं पापम्। ईदृशं मा जल्प। अयं हि चिरतपस्यापरितोषितस्यब्रह्मणो वाचा क्षत्रियत्वं परिहृत्य ब्राह्मणत्वं प्राप्तः।” ↩︎
-
“कथं तनुरिव मतिरपि तव वामनी यदीदृशालीकलोकवृत्तान्तेऽपि प्रत्याय्यते।यदि कस्यापि वाचा क्षत्रियो ब्राह्मणो भवति तर्हि मम वाचा त्वमपि ब्राह्मणो भवसि।” ↩︎
-
“अरे बालिश, कथं तव गोमुखस्य भगवतश्चतुर्मुखस्यापि नास्त्यन्तरम्,” ↩︎
-
“यद्ययं शुद्धब्राह्मणस्तत्किमस्य चापचिन्तया।” ↩︎
-
“अस्ति कारणम्। तस्य पार्श्वे तत एव गृहीतचापविद्यौ द्वौ क्षत्रियकुमारौ वर्तते। ताभ्यां दर्शयिष्यति चापमिति।” ↩︎
-
“तच्छुद्धाशयोऽयम्।” ↩︎
-
“अथ किम्।” ↩︎
-
“तत्कथय तावदस्मिन्नलीकदूषणारोपेण ननु मम पापमुत्पन्नं न वेति,” ↩︎
-
“पापमिति किं भण्यते। ननु महापापमुत्पन्नम्।” ↩︎
-
“अरे मूर्ख, न जानासि धर्मस्य तत्त्वम्। संबन्धिजने परिहासवचनानिन खलु पापकारणानि।” ↩︎
-
“कथं पुनरयं तव संबन्धिजनः।” ↩︎
-
“अरे, न जानासि। अस्यापि द्वौ कुमारौ अस्माकमपि द्वे कुमार्यौतत्तर्कयामि संबन्धिजनो भविष्यतीति।” ↩︎
-
“कथमस्माकमीदृशं पुण्यम्।” ↩︎
-
“अहो, या खलु सकललोकभीषणा राक्षसी ताटकेति श्रूयते सानेनयदि ताडिता तदमिन्हरचापारोपणमपि संभाव्यते। तदेहि। इमं कर्णसुधारसंभट्टिनीभ्यः समर्पयामः।” ↩︎
-
“जयतु जयतु देवः। कोऽपि ब्राह्मणो देवस्य दर्शनार्थी द्वारदेशे तिष्ठति।तत्किं प्रवेश्यताम्।” ↩︎
-
“आर्य, पश्य पश्य कौतुकम्। सीतारामाभ्यां मिलित्वा पुनर्हरचापरोपणंसमग्रीक्रियते।” ↩︎
-
“त्रैलोक्यं लङ्घ्यन्गिरिगभीरगुहासुप्तजाग्रत्सिंह- स्फारोन्मीलत्कण्ठस्तनितप्रतिरवोद्गारपूर्यमाणे। ब्रह्माण्डे भज्यमाने बहुविकटकटत्कारप्राग्भारभीमो- ऽहो भयचण्डीश्वरघनुष्टणत्कार उद्गच्छति॥” ↩︎
-
“मणिमयमङ्गलदीपो जनकनरेन्द्रस्य मण्डपे ज्वलति। चण्डानिलोऽपि प्राप्तो यस्मिन्विमलागमो भवति॥” ↩︎
-
“भगवति, समाश्वसिहि समाश्वसिहि। नन्वेतैरेव गुणैरशोचनीयोऽसौ राजा।” ↩︎
-
“अपि नाम रामलक्ष्मणयोरपि कोऽपि संवादः संवृत्तः।” ↩︎
-
“अपि नाम तस्मिन्समये सीतापि किमपि शिक्षिता बन्धुजनेन।” ↩︎
-
“कः पुनः सोऽवसरः सुरमुरजशब्दस्य।” ↩︎
-
“कथं पुनः स राजा युष्माभिः प्रशंस्यते येन तादृशोऽपि तनयस्तृणमिव मुक्तः।” ↩︎
-
“अपि नाम भरतस्य नानुमतमिदम्।” ↩︎
-
“हा धिक् हा धिक्। तत्र हि लङ्केश्वरभगिनी क्षणेन प्रमत्ता शूर्पणखा नाम राक्षसी परिभ्रमति।” ↩︎
-
“अपि नाम तदेव भविष्यति यत्किल हंसेन नावगतम्।” ↩︎
-
“का पुनरिमानि सूचीशलाका विद्धानि मम नखान्यलक्तकरसेन सिश्वति।” ↩︎
-
" इदानीं चन्दनचण्डातपलिप्यमान पार्श्वयुगला वर्ते।" ↩︎
-
“तव सुभग उत्क्षिपन्ती तरङ्गसितचामरं रघुमृगाङ्क। धवलकमलातपत्रं धारयति गोदानदी स्वहस्तेन॥” ↩︎
-
“हा धिक् हा धिक्। अन्यादृशो मे जीवलोको गोदानदी। क सा, नीलोत्पलश्यामलः क्व रामः, लङ्का क्क, क वा हा धिक् रामैकजीविता सीता” ↩︎
-
“कथं प्रियसखी मे त्रिजटा।” ↩︎
-
“अस्तीदानीं हि मया स्वप्ने स्वयं गोदानद्या स्वहस्तकलिततरङ्गचामरधवलकमलातपत्रया परिचर्यमाण आर्यपुत्रो दृष्टः” ↩︎
-
" कीदृशो मे रामैकचित्तायाः स्वमे विश्वासः।" ↩︎
-
“किं पुनरचुम्बितम्।” ↩︎
-
“यन्न खलु संभाव्यते तदपि हला अस्त्यत्र लोके। यज्जीवति जनकसुता अनालोकयन्त्यपि रामचन्द्रमुखम् ॥ तत्किमनेन स्वप्नेन जीवितेन वा। उपेक्षितास्म्यार्यपुत्रेण।” ↩︎
-
“अथवा किमिति हरमुकुटमृगाङ्के कलङ्कमारोपयिष्ये। जानाम्यार्यपुत्रोद्यायकलितवृत्तान्तो मे।” ↩︎
-
“कथम्। वाचालेनापि कथिता नादं नाथस्य नेपुररवेण। अथवा विधिविधुरबलात्तेनापि मूकत्वं प्राप्तम्॥” ↩︎
-
“कथं पुनः सह महीधरेण वेपत इवाशोकवनम्।” ↩︎
-
“अपि नाम पुनरपि रामचन्द्रमुखचन्द्रं विलोकयिष्ये।” ↩︎
-
“अपुण्येनेति भण।” ↩︎
-
“कथं पुनस्तदपुण्यं न भवति यत्किल रामचन्द्रविरहतापनिर्वापण्या चन्द्रहासधारयोपेक्षितास्मि। तत्किमनेन जीवितेन। इह दारुसंचयेऽग्निं प्रज्वालय यत्रेमान्यङ्गानि शीतलयामि।” ↩︎
-
“हला, किमनेनालीकजल्पितेन। सर्वमेवानलप्रवेशेन व्यवसितास्मि। तदुपनय मेऽङ्गारखण्डकम्।” ↩︎
-
“हला, पश्य पश्य। निपतितं तावदस्य शिखरादङ्गारखण्डकम्।” ↩︎
-
“कथं ममापुण्येनाग्निरपि शीतलः संवृत्तः। अये, अङ्गारखण्डकं न खल्वेतत्। अपि पुनः पद्मरागरत्नखण्डम्।” ↩︎
-
“कथं सेयं रत्नमुद्रिका।” ↩︎
-
“अये रत्नाङ्गुलीयक, अपि तावत्कुशलं सलक्ष्मणयो रामचन्द्रचरणयोः।” ↩︎
-
“अमृतमुख, कोऽसि त्वम्।” ↩︎
-
“अयि भद्रमुख, कः पुनरयं तारापतिः।” ↩︎
-
“केन पुनर्नरवानराणामीदृशं सखित्वं निर्मितम्।” ↩︎
-
“कथय तावत्। अपि नाम मम मन्दभागिन्याः कृते दुर्बल इदानीं किमपि रघुनाथः।” ↩︎
-
“इदानीं किमप्युज्जीवितास्मि।” ↩︎
-
“अय्यकारणस्निग्ध, प्रतिगते त्वयि पुनरपि को मम कथयिष्यति रघुनाथस्य प्रवृत्तिम्।” ↩︎
- ↩︎
-
“अये पवननन्दनं, अनायासेनेनं दुर्निशाचरसागरमतिक्रमख।” ↩︎
-
“इला त्रिजटे, खेचरी भूत्वा प्रेक्षख तावदस्य वृत्तान्तम्।” ↩︎
-
“हला त्रिजटे, अवतीर्णासि महीतलम्। तत्प्रियंवदायास्तवालिङ्गयाम्यङ्गानि।” ↩︎
-
“जयतु जयतु देवः।” ↩︎
-
“परित्रायतु मामार्यपुत्रः। एषा निमग्नास्मि शोकतिमिरे।” ↩︎
-
“अये, आश्चर्यम्। समरसंरम्भविलोकन विस्मयस्तिमितमिदं विद्याधरमिथुनं किमपि मन्त्रयति। तेन ह्यार्यपुत्रस्य विजयार्थमहमपि निजकुलदेवता अर्चितुं गच्छामि।” ↩︎
-
“आर्यपुत्र, कोऽयं रणरभसविलसत्पुलकभरकुशलितभुजवनः कपिचमूचक्रमभिवर्तते।” ↩︎
-
“कः पुनरयमञ्जनपुञ्जच्छविशरीरः कपिवीरस्तस्य संमुखं परावर्तते।” ↩︎
-
“कः पुनरयं निशाचरेन्द्रेण समं समरसाहसमङ्गीकृत्य तिष्ठति।” ↩︎
-
“अथ किं तस्याः।” ↩︎
-
“कथं सुग्रीवेण समाश्वास्यते रामचन्द्रः। तत्किमिदानीमालपिष्यति।” ↩︎
-
“वक्रतर इति भणितव्यम्। इदं पश्य। नन्वयं वानर एवं कोऽपि लङ्केश्वरकृतसंधानः करकलितशैलशिखरो रामसंमुखमेव परिवर्तते।” ↩︎
-
“कथं पुनरपि रामरणकौतूहलफुलगुजमण्डलो निशाचराखण्डलः परापतित एव।” ↩︎
-
“कथं पुनः सकललोकवीरस्य रामचन्द्रस्यानेकवीरपरिभूतस्य रावणस्य तुलाधरोहो वीरलक्ष्म्या भविष्यति।” ↩︎
-
“कथं पुना रथस्थितेन रावणेन समं भूमिस्थितस्य राघवस्य समरो नविष्यति।” ↩︎
-
“पश्य पश्य। इतः शरान्धकारं विस्तारयता विशामुखायितं दशमुखेन।” ↩︎
-
“आकर्णयतु तावत्किमिदानीं भणति रावणः” ↩︎
-
“किमपीदानीं जल्पिष्यति रावणः।” ↩︎
-
“वचनमात्रमिदानीम्।” ↩︎
-
“कथमद्यापि निशाचरेन्द्र बन्दीकृत सुरसुन्दरीणां दर्शनं दुर्लभं यदस्य शीर्षाणि पुनः पुनरप्युन्मीलन्ति।” ↩︎
-
“तदिदानीमेव जनकनन्दिनी रामचन्द्रेण समं संगमिष्यति।” ↩︎
-
“पश्य पश्य। अयमसमसमर कदर्थितं प्रदेशमवतरति रामचन्द्रः।” ↩︎
-
“अये सुलक्षण लक्ष्मण, स पुनरिदानीं क्क रघुकुलकुटुम्बसंतापशमनचन्दनः पवननन्दनः ।” ↩︎
-
“तदस्माभिः किमिति विलम्ब्यते।” ↩︎
-
“अहह कलिन्दनन्दिनि, सत्यप्रसादासि यत्पुनरपि निजकुटुम्बस्य दत्तदर्शनासि।” ↩︎