[[मैथिली-कल्याणम् Source: EB]]
[
माणिकचन्द-दिगम्बरजैनग्रन्थमाला, पञ्चम पुष्प।
——————————————————
उभयभाषाकविचक्रवर्ति–श्रीहस्तिमल्लविरचितं
मैथिली–कल्याणम्
नाटकम्।
<MISSING_FIG href="../books_images/U-IMG-1722159741करकतरकरतकरतकक.jpg"/>
पाढमनिवासि पण्डित–मनोहरलालशास्त्रिणा
संशोधितम्
<MISSING_FIG href="../books_images/U-IMG-1722159945hkhlksljhshksh.jpg"/>
प्रकाशिका—
माणिकचन्द–दिगम्बरजैनग्रन्थमालासमितिः
——————
श्रावण, वीर नि. संवत् २४४२।
——————
विक्रमाब्द १९७३॥
<MISSING_FIG href="../books_images/U-IMG-1722161213hkhlksljhshksh22.jpg"/>
<MISSING_FIG href="../books_images/U-IMG-1722161364hkhlksljhshksh23.jpg"/>
हस्तिमल्लकवेः परिचयः।
<MISSING_FIG href="../books_images/U-IMG-1722161398hkhlksljhshksh24.jpg"/>
सोऽयं समस्तजगदूर्जितचारुकीर्तिः
स्याद्वादशासनरमाश्रितशुद्धकीर्तिः।
जीयादशेषकविराजकचक्रवर्ती
श्रीहस्तिमल्ल इति विश्रुतपुण्यमूर्तिः॥ ( अय्यपार्यः )
एतद्ग्रंथकर्तुर्हस्तिमल्लेति नाम प्रथितमासीत्। अयं च गोविंदभट्टाख्यविदुषसूनुर्दाक्षिणात्य आसीत्। गोविंदभट्टो वत्सगोत्रीयोब्रह्मणः पूर्वमजैन आसीत्, पश्चाद्भगवत्समंतभद्रविरचितदेवागमसूत्राध्ययनेन जैनो जातः। ग्रंथस्यास्य द्वितीयपृष्टे हस्तिमल्लेन सूत्रधारमुखेनाख्यापितः “सरस्वतीविस्मयनीयोपायनस्य भद्यरगोविंदस्वामिसूनुना अंजनापवनंजयप्रमुखाणामपि रूपकाणां प्रवर्तकेन विरचितं हस्तिमल्लेन। अस्मिन् तेन कविना स्त्रपितृनाम्ना साकं यत्’भट्टार’ ‘स्वामी’ इत्येतत्पदद्वयं योजितं ताभ्यां प्रतीयते कदाचित् गोविंदभट्टःतदानीं साधुर्भट्टारको वा प्रथितः स्यात्। अन्यच्च विक्रांतकौरथीयप्रशस्तौ वीरसेन-ज्जिनसेन गुणभद्राद्याचार्यपरंपराया उल्लेखं कृत्वा लिखितं।
तच्छिश्यानुक्रमे यातेऽसंख्येये विश्रुतो भुवि।
गोविंदभट्ट इत्यासीद्विद्वान मिथ्यात्ववर्जितः॥
तस्यां यत् गोविंदभट्टोगुणभद्रादिशिष्यपरंपरायां निरूपितः अनेनापीति प्रतीयते यद् गोविंदभट्टोगृही नासीत् साधुर्भट्टारको यास्यात्।
अस्ति गोविंदभट्टो दक्षिणदेशनिवासी। तत्र स्वर्णयक्षी नाम्नी काचिद्देवी सताराधिता जाता। तत्प्रसादेन तस्य एतत्षट्पुत्रप्राप्तिः संजाता–१ श्रीकुमार, २ सत्यवाक्य, ३ देवरवल्लभ, ४ उदयभूषण, ५ हस्तिमल्ल६ वर्द्धमानश्च। एते षडपि
कवयो विद्वांसश्च बभूवुः। हस्तिमल्लेन एतन्मैथिलीकल्याणनाटकस्य प्रस्तावनायांनिजाप्रजः सत्यवाक्य. श्रीमतीकल्याण xxतेप्रयानांकर्ताप्ररूपितःवरं सत्यवाक्यस्येदानींतनपर्यन्तंकोपि ग्रंथो नोपलब्धः। एतेषु कुमारकविनिर्मित आत्मप्रबोधाख्यो लघुग्रंथो ईद्धराख्यपुरस्य सरस्वतीभवने अस्ति। स हस्तिमल्लभ्रातृश्रीकुमारस्यैव वान्यस्य कस्यापीति न प्रतीयते।
‘राजावली’ कथातः ज्ञायते यत् हस्तिमल्लस्य पार्श्वपंडितादयः पुत्रा आसन् लोकपालार्याख्य एकः शिष्यश्च। अवश्यमेव तेपि विद्वांसः कवयश्चभविष्यति किंतु तेषां विषये नाद्यापि पर्यन्तं किञ्चिद् ज्ञातम्।
हस्तिमल्लकवेरनुजस्यवर्धमानकवेर्विषये जनानामयं विश्वासोस्तियत्स गणरस्तमहोदधि-नामकव्याकरणविषयग्रन्थस्य कर्त्ता, परमयं भ्रमः। ततो गणरत्नकर्ता विक्रमसंवत् ११९७ अनुमिते अर्थात् हस्तिमल्लसमयात् सार्धशतवर्षपूर्वमासीत्। किंच स गोविंदसूरेः शिष्य आसीत् अयं च गोविंदभट्टस्य सूनुः। अन्यच्च स साधुरयं च गृहस्थः। अपरं च स श्वेतांवाराम्नायी प्रतीयते अयं तु दिगंबरसंप्रदायानुगोस्ति।
गणरत्नमहोदधिकर्ता श्वेतांबर आसीत्। अस्मिन् विषयेऽनेकानि प्रमाणानि संति। पूर्वंतु तेन स्वकीयग्रन्थेयत् शतश उदाहरणानि दत्तानि तानि सर्वाणि अजैनानां श्वेतांबरग्रन्थकर्तृणामेव दिगंबराणामेकमपि न दत्तं। द्वितीयं पूर्वोक्तोदाहरणेषु द्वौश्लोकाचेतादृशौययोः श्वेतांबराणांप्रशंसा दिगंबराणां च निंदा कृतासीत्।
यथा वीराचार्यणम्—
**युक्तं सितांबराणां तुम्बग्रहणं कुटुंबपरिहरणं।
कथमन्यथा तरीतुं शक्यः संसारतोयनिधिः॥ **
यथा श्रीसागरचंद्रस्य— (गणरत्नमहोदधिः, पृष्ठ २२)
अकल्पितप्राणसमासमागमा मन्त्रीमतांगा धृतभैक्षवृत्तयः।
निर्ग्रंथतां त्वत्परिपंथिनो गता जगत्पते किं त्वजिनावलंबिनः॥
( गणर. पृष्ठ १६४ )
गणरत्नमहोदधिकर्तृनिर्मितं किमपि सिद्धराजवर्णनाख्यं काव्यं वर्तते तस्मिन् चौलुक्य- नरेशसिद्धराजस्य वर्णनमस्ति। एतत्काव्यस्यानेके श्लोका गणरत्नमहोदधा वुदाहरणस्वरूपेणोद्धृता। अणहिल्लपुर (पाटण) नरेशस्य सिद्धराजस्य श्वेतांबरजैनसंप्रदाये महती कृपासीत्। अनेन प्रतीयते यत् गणरत्नमहोदधेः कर्ता गुर्जरदेशसन्निकटस्थः श्वेतांबरश्च स्यात्।सिद्धराजाणहिल्लपुरप्रशंसायां कश्विदपि दिगंबराम्नायी श्रेयो लिखिष्यतीति न किंचित्संभावना प्रतीयते।
सारांश इत्येव यत् हस्तिमल्लस्य भ्रातुर्वर्धमानकवेःगणरत्नमहोदधिकर्तुश्चनामसाम्यं विहाय नान्यः कोपि संबंधः। अस्मिंश्च विषयेऽनेकानि प्रमाणानि निरूपयितुं शक्यानि।
हस्तिमल्लोमहान् प्रख्यातकविः प्रतीयते। तस्य विरुदावत्याःप्रशंसासूचकपदेभ्य एतत् सूचितं भवति। विक्रांतकौरवेस स्वंसरस्वतीस्वयंवरवल्लभ, महाकवितल्लजेति निरूपितवान्। ग्रंथस्यास्यांते स स्वीयं नाम ‘सूक्तिरत्नाकरेति प्रथयामास। तस्याग्रजेन सत्यवाक्येन स ‘कवितासाम्राज्यलक्ष्मीपतिः’ इति कथयित्वा संबोधितः।
अनेन प्रतीयते हस्तिमल्लइति कवेरिदं वास्तविकनामधेयं नास्ति किंत्विदं तद्गुणविशेषेणैव निक्षिप्तं। अस्मिन् विषये अय्यैपार्यनामकविदुषा1विरचिते जिनेंद्रकल्याणाभ्युदयनाम्निग्रंथे श्लोको दत्तः—
सम्यक्त्वंसुपरीक्षितं मदगजे मुक्तं सरण्यापुरे
चास्मिन् पाणक्ष्यमहोश्वरेण कपटार्द्धर्तुं स्वमभ्यागते।
शैलूषं जिनमुद्रधारिणमपास्यासौ मदध्वंसिना
श्लोकेनापि मदेभमल्ल इति यः प्रख्यातवान् सूरिभिः॥१६॥
अनेन प्रतीयते यत् हस्तिमल्लेन हंतुमागतस्य मदमत्तहस्तिनो मदोदूरीकृतः कविजिनमुद्राधारी धूर्तश्चैकेन श्लोकेन निर्मदांकृतः। अतस्तस्य नाग मदेभमल्लो हस्तिमल्लो वा प्रथितं।
विक्रांतकरैवनाटकस्य प्रथमाकेपिश्लोकोवर्तते तस्मिन् कवेर्हस्तियुद्धे विजयप्राप्तेस्तन्निमित्तत्र पांड्यनरेश्वरद्वारा सत्कारप्रप्तेल्लेखोस्ति—
**श्रीवत्सगोत्रजनभूषणगोपभट्ट–
प्रेमैकधामतनुजो भुवि हस्तियुद्धात्।
नानाकलांबुनिधिपांड्यमहश्वरेण
श्लोकैःशतैरस्सदसि सत्कृतवान् बभूव॥४०॥ **
उपर्युक्तश्लोकद्वयेनांजनपत्रनंजयस्यनिम्नलिखितप्रशस्तिश्लोकेन प्रतीयते यत् इस्तिमल्लःपाण्ड्यदेशीयराज्ञः कृपापात्रोऽभूत् तद्राजधान्यां च स्वबन्धुभिः सह निवासं चकार–
श्रीमत्पाण्ड्यमहीश्वरे निजभुजादेद्बावलंवीकृते
कर्णाटावनिमंडलं पदनतानेकावनीशेऽवति।
तत्प्रीत्यानुसरन्स्वबंधुनिवहैर्विद्वद्भिराप्तैस्समं
जैनागारसमेतसंतरनमे(?) श्रीहस्लिमल्लोऽवसत्॥
द्रविडदेशसत्रिहितस्य मदुरा (दक्षिणमथुरा) याः समीपस्थप्रदेशानां पाण्ड्यदेश इति नाम आसीत्। कविस्थितिसमये तत्रत्यः पांड्यमहेश्वरो नृपोबभूव। अयं सुंदरपांड्य(प्रथम) स्योत्तराधिकारी स्यात्। तस्य राज्यकालः १३०७ वि० संवत्सरात्प्रारंभो भवति। एनं कवी राजाधिराजनानाकलांबुनिधीति लिखितवान् अयं कवेर्महदादरक्षकार।
कर्णाटककविचरितस्य कर्त्राहस्तिमल्लकविसमयः ई. सन्१२९० अर्थात् १३४७ विक्रमाब्दो निश्चितः। अयमेव चसम्यक् प्रतीयते यत अय्यपार्येन स्वीयजिनेन्द्रकल्याणाभ्युदयग्रन्थः१३७६ विक्रमाब्दे समाप्तिनीतः, तस्मिंश्च हस्तिमल्लस्योल्लेखःकृतः। स चोल्लेख एतादृशो येन हस्तिमल्लस्तत्ससमकालीनः तस्य कविना समं साक्षात्परिचयो वा प्रतीयेत।
हस्तिमल्लो गृहस्थ आसीत् न गृहत्यागी एतत्कथनस्योल्लेखो नेमिचंद्रकृतप्रतिष्ठातिलकस्यास्मिन् श्लोके कृतः—
परवाविहस्तिनां सिंहो हस्तिमल्लस्तदुद्भवः।
गृहाश्रमी बभूर्वाहच्छासनादिप्रभावकः॥१३॥
हस्तिमल्लोमहान् प्रसिद्धकविःप्रतीयते। तस्य प्रतिभा परं तन्नाटकेभ्य अनुमीयते। अधुनापर्यंतं तस्य केवलं नाटकप्रथाएवउपलब्धा तेष्वेकोविक्रांतकौरवःप्रकाशितः। द्वितीयोऽयं मैथिलीकल्याणरूपकग्रंथः प्रकाश्यते। तनीयः सुभद्राहरणः चतुर्थोऽजनापवनंजयश्चापि उपलब्धा आसन्, यXप्रकाशने प्रयत्नोविधास्यते। हस्तिमल्लस्यैकआदिपुराणः पुरुचरितं वा नाम ग्रंथः श्रीदौर्वलिशास्त्रिणां सरस्वतीभवने वर्ततेयस्मिन्नेकदृसानुमिताः श्लोकाः संति परं स अस्मदृष्टिपथे नायातः।
देवचंद्रकविः स्वीय’राजावलीकश्चायां’हस्तिमल्लमुभयभाषाकविचक्रवर्तीति लिखितवान्। अनेन प्रतीयते यत्स संस्कृतं विहाय कनडीभाषायाश्च कविरासीत् एतद्भाषायां चापि तेन रचना विहिता स्यात्। अस्य ग्रन्थस्थ संशोधनेऽस्माकं मित्रवर्येण श्रीयुतकुमारय्या इतिनाम्नाविदुषा सहायता कृतातस्तेभ्यीतःकरणेन शतशो धन्यवादं ददामीति। कृतं पल्लवनेनेतिशम्। *2
होदावाड़ी बम्बई नं. ४.
निवेदकः—
श्रावण कृष्ण त्रयोदशी.
मनोहरलाल–शास्त्री,
संवत् १९७३ वि०
<MISSING_FIG href=”../books_images/U-IMG-1722178534पपेकपरक्िक्ुक.jpg”/>
नमः परमात्मने।
अथ श्रीमदहस्तिमल्लकविविरचितं
मैथिलीकल्याणं
नाटकम्।
<MISSING_FIG href=”../books_images/U-IMG-1722178698पपेकपरक्िक्ुक11.jpg”/>
यः प्रस्तोता त्रिलोक्यां प्रतिहतविपदां संमतानां कृतीनां
यं च स्तोता स्वयं च स्तुतिशतपदवी वाग्वधुवल्लभानाम्।
कल्यः कल्याणभागिश्रियमनुपरमामाप्तवानामरूपः
सोऽयंभद्रंविधेयाद्दशरथतनयः साधु वो रामभद्रः॥१॥
( नांद्यते )
**सूत्रधारः—**अलमतिविस्तरेण। ( नेपथ्याभिमुखमवलोक्य ) आर्ये इतस्तावत्।
( प्रविश्य )
**नटी—**अज्ज इयम्मि3।
**सूत्रधारः—**गृह्यतां नेपथ्यरचना।
**नटी—**किं4 णु खु दाणिं अज्जोसविसेसं समूप्तुओ संगीआरंभे।4
**सूत्रधारः—**आर्ये साधु लक्षितं अद्यखलु वसंतोत्सवे सबहुमानमाहूयाज्ञापितोऽस्मि विशेषवेदिन्या गृहीतनाट्यशास्त्रोपनिषदा परिषदा, यथा मैथिलीकल्याणदर्शनोत्सुकः सकलोपि सामाजिकजनः, भवानेव तत्र निष्णातः तदिदानीं तदेव तावत् यावत्प्रयोक्तव्यमिति।
**नटी—**कुदोखु पेक्खआणं एअंतदो तहिं आसंघा।5
**सूत्रधारः—**आर्येकिं न जानीषे तत् खलु निखिलशास्त्रतीर्थावगाहपवित्रीकृतधिषणस्य मध्यमलोकधिषणस्य निःशेषनिःपीतधर्मामृतरसायनस्य सरस्वतीविस्मयनीयोपायनस्य भट्टारकगोविंदस्वामिनः सूनुना श्रीकुमारसत्यवाक्यदेवरवल्लभोदयभूषणानां सुभाषितरत्नभूषणानामनुजेन कवेर्वधमानस्याग्रजेनांजनापवनंजयप्रमुखाणामपि रूपकाणां प्रवर्तकेन विरचितं हस्तिमल्लेन।
**नटी—**तेणहि जुंजइ तदो एव खु अस्सवि तहिं बहुमाणो।6
**सूत्रधारः—**को वा न बहुमन्यते। एवं च खल्वसौ श्रीमतीकल्याणप्रभृतीनां कृतीनां कर्त्रासत्यवाक्येन सूक्तिरसावर्जितचेतसा ज्यायसा कनीयानप्युपश्लोकितः।
**किं वीणागुणरंकुतैः किमथवासांद्रैर्मधुस्यन्दिभि-
बिंभ्राम्यत्सहकारकोरकशिखाकर्णावतंसैरपि।
पर्याप्ताः श्रवणोत्सवाय कविता साम्राज्यलक्ष्मीपते
सत्यं नस्तव हस्तिमल्लसुभगास्तास्ताः सदा सूक्तयः॥२॥ **
**नटी—**वसीकरेइ खुकविअणं सुभासिदं।7
**सूत्रधारः—**साधूक्तंतथापि सज्जेषु तेषु तेष्वपि कालं परितः परिधेयेषु कविः सूक्तिभिरेवात्मानं काव्यव्यसने विनोदयति।
**नटी—**कविअण्णओ8 व खु कव्वपरिस्समाभिण्णो।8
**सूत्रधारः—**अगोचरः खल्वयं पृथग्जनस्य। कुतः।
नासाग्राहितलोचनो नियमिताशेषेंद्रियोपप्लवो
निःसंबाधविविक्तयासनिरतो ध्यानैकतानः कविः।
यत्स्यात्मन्यपरोपदेशविषयं वस्त्वंतरं केवलं
स्वेनांतःकरणेन पश्यति सुखी तत्केन वा ज्ञायते॥३॥
किंच—
अनादृत्य श्रुत्या चलयति शिरः कश्चन शनै-
र्यिजिह्माक्षःपश्यन् विहसति च पार्श्यस्थमपरः।
प्रसादं सूक्तीनामकृतसुकृतः कृत्रिमबुधः
किमीष्टे निर्वेष्टुं दुरधिगमभावा हि कवयः॥४॥
**नटी—**अज्ज सुट्टुभणिअं9।
**सूत्रधारः—**आर्ये तदिदानीं रंगप्रसाधनहेतोरिममेव मकरकेतनकीर्तिप्रसरसुकुमारचंद्रिका-भिरामंमलयपवनशिथिलितविरहिजनधैर्यग्रंथिंमदनमागधमधुपगानावमानितमानिनिमानग्रहमभ्यग्रविकसत्सहकारकोरकशिखापरिपूरितकुसुमशरशरधिरंध्रं संवर्धमानोत्कलिकासहस्रमज्जत्कामिलोकं वर्तमानरमणीयं वसंतसमयमधिकृत्य गीयतां तावत्।
नटी—अज्जतहा10। ( गायति )
वासंतिएहिं बहु महु, –धाराणिस्संदबिंदुसिसिरेहिं।
मंदाणिल्लेहिं रुणा होसंदि दिवो ससिसणाह11ो॥५॥
**सूत्रधारः—**आर्ये सुष्ठु गीतं। विहरतिं चक्रवाकमिथुनं सुखेन पुलिनां कणेषु सरसांरमयति पद्मिनीषु रमणीं सलीलमिह राजहंसरसिकः। मधुस–
मयावताररमणीयमेतदधुना मनांसि हरति प्रमदवनं विकासिसुकुमारxतकलिकाकलापसुभगम्।
नटी—अज्ज सुट्टुभणिअं। अज्जहि—12
सो अइरा आरामो कअलोहयंय महुरससुहाए।
सीदाए एदाए ओतिण्णवसंतलच्छीए॥६॥ 12
( नेपथ्ये )
साधु अवितथवादिनी भूयाः।
नटी—( श्रुत्वा सविस्मयं ) अंत्थ किं13 एयं।13
**सूत्रधारः—**आर्ये एष खलु दाशरथिर्मिथिलेश्वरतनयापरिणयनौपयिकमन्विच्छन्नार्यानिगदितं साधुकारेण प्रतीच्छिति।
** नटी—**अज्ज किंवा तस्स अप्पणोअत्थे मए मत्तिअं14।
**सूत्रधारः—**आर्येत्वया तावत् सोऽचिरात् आरामः कृतशोनयेव मधुरससुखया सीतया अवतीर्णवसंतलक्ष्म्या इतिनिगदितं। अनेन पुनः सः अपि राजा रामः कृतशोभ एवमधुरससुखया सीतया एतया अवतीर्णवसंतलक्ष्म्या इति गृहीतं।
नटी—( सविस्मयं ) जुंजइ अहो उभअस्सवि अत्यस्स सद्दाणं अविसंवादो15।
**सूत्रधारः—**आर्ये इतस्तावदावां नेपथ्यशेषे प्रोत्सहावहे।
( इति निष्क्रांतौ)
इति प्रस्तावना।
__________
प्रथमोऽङ्कः।
<MISSING_FIG href=”../books_images/U-IMG-1722181741पपेकपरक्िक्ुक12.jpg”/>
( ततः प्रविशति हृष्टो रामः )
**रामः—**अद्य खलु निर्विकल्पं17 संपूर्णकल्पा नः संकल्पाः18। कुतः।
उपनमति19 मनोरथास्पदं सपदि फलं सुलभेतरं च तत्।
श्रुतिपथसुखमित्थमुत्थितं यदसुलभश्रवणं वचः श्रुतं॥७॥
इयं च पुनरिदानीमलब्धदर्शनोत्सवानामप्यस्माकं वैदेहीसमागमाय समुचितदृष्टांतप्रत्ययात् प्रत्याशा प्रादुरभूत्। यथा—
दूरस्थमेतन्मिथुनं यदिष्ट्या
समानमिष्यत्यचिरादवश्यम्।
मिथः पृथग्भूतमिदं यथैव-
मर्थद्वयं संघटमानमास्ते॥८॥
( सहासं ) केयं कामिनःशैली। यदसौ—
श्रुतं यद्वा तद्वा नयति मदनोद्दीपनपदे
प्रकृत्या यच्चित्तं गणयति च तत्तापजननम्।
यदेदादौ वांछेत्तदनु तदपि द्वेष्टि सहसा
कथं पार्श्वग्राहो20 न हसति जनः कामुकजनम्॥९॥
किंचान्यत्—
संतापानां कांतानिबंधनं यैथ दुर्निवाराणाम्।
तामेव किलान्विच्छति तेषामिच्छन् प्रतीकारम्॥१०॥
( सस्मितं ) इत्थं कामिजनमुपालंभमानाः स्वयमपि तत एव निर्वृत्तिमलभमाना वयमेवात्रोदाहरणं। मा तावद्भीःअनीदृशि खल्वहमुपहासभूमिः प्रेक्षावतां। कुतः—
वैदेही सकृदप्यसौ मम दृशोर्नैवाभवत्संनिधौ
विस्रंभः क्व च नैव तिष्ठतु मिथः का संकथायाः21 कथा।
सा चास्मिन्मिथिलापुरे वयमितः पूर्वं ह्ययोध्यापुरे
श्रुत्यैव स्मरगोचरे विनिपतेत्को नाम मत्तः परः॥११॥
इदं च पुनरिहात्पाहितं।
अस्माद्दशं दुर्लभदर्शनाया-
मुत्कंठमानो जनकात्मजायाम्।
मानोपरोधादसमीक्ष्यकारि
कथं न जिह्वेम्यहमात्मनोपि॥१२॥
(विचिंत्य) अलममुना शोचनीयेन ममाद्वितीयस्य मेघोत्कंठासुलभेन संजल्पेन। येनैव सह सीतासंदर्शनोपायं विमृश्यन्नेनं संतापभरं लघूकरोमि। स चेदिदानीं चिरायति वयस्यगार्ग्यायणः।
( ततः प्रविशति विदूषकः )
**विदूषकः—**दाणिंखु मेसुलहदंसणिज्जदाए अओज्झाउरिए एअं मिहिलाउरिं पेक्खंतस्स णअणाणं णिव्वदी जादा। विसेसदो उण दाणि वसंतूसवसमाअमकुसुमिदुज्झाणदंसणकोदुएण महणाराहणकोदूहलेण पुण्फावचयकंखाए जलकेलिदोहलेण वसंतदोलारोहणसमूसूअदाए पढममउ-22
लिअसहत्थसंवड्डिअपमदवणद्दुमसंभावणसत्तुरदारएअ गहिअसोमारवासंतिअवेसेण इदो तदोसविब्भमंपरिव्मभत्तेण इत्थिआलोएण सह संचारिणा अ पेक्खअजणेण णिरेदिसअं सोहं उब्वहद्दमिहिलाउरी एवं च पुणो णआण-चावलादो गोवालउलमग्गेण विअ परिब्भमतेण मए वअस्सो विणिसरिदो एत्तिअंगुण वेलं मं अदक्खंतो अपरिचिददेससुलहाए तंदिए मण्णे मयिसमण्णू चिट्ठह। ता जाव वअस्सं एव समासिदेमि। (परिक्रम्यावलोक्य च ) एसो खुवअस्सो असहाओ जं एवं मं पडिवालंतो चिट्ठइ जाव उपसप्येमि23। (उपसृत्य) जेदु24 पिअवअस्सी।
रामः—(दृष्ट्वा xxx25) अहो अत्र xxxxxxxxxxxकालस्य स्मृतिपथे वयमतिवर्तिष्महि।
**विदूषकः—**मा खु मं तुमं असूएहि। अहं तु मिहिलाउरि वसंतूसवसिरिदंसणेण विम्महिओ तुए विणा तं पेक्खिदुं अक्खमो इदो आहिंडिओ।26
रामः—तेन हि वसंतोत्सव संवर्धितविभवां मिथिलापुरीमवलोकयंती वधमपि विलोचने विलोभयामः।
विदूषकः— तेण हि गच्छामः27।
** रामः—** गच्छाग्रतः।
** विदूषकः—** इदो28। (उभौ परिक्रमतः )
विदूषकः—(पुरो निर्दिश्य) वअस्स पेक्ख एसो खु सुहसमंचरंत29-
चंचरीअणिणदपणज्जअपर मदउरो सुदूरावडंतसुरहिपरिमलो पिद्वादयचुण्णवण्णअचित्तिअग-अणभित्तिओ सुमहुरसुणिज्जंतमहुपअखिलज्जंतगणिआजणगीअपेसलो जुवजणधीरखिलीकरणकबाडओ वेसवाडओ।
**रामः—**वयस्य सम्यगुपलक्षितम्।
आपादयंतो रतिलंपटानां
xxxxxxxxxxxxxxxxxx।
विलासिनीमाल्यविलेपगंधैः
स्त्यायांति सायंतनगंधवाहाः॥१३॥
(अग्रतोऽवलोक्य)
प्रत्यंगोद्भिद्यमानस्तनमुकुलकृतप्राभृतार्ध्यैरुरोभि-
र्दतोन्मेषीपहारैः प्रहसितवदनैर्लालनीयैर्वचोभिः।
विभ्रांतोत्फुल्लनेत्रा ललितभुजलतामंदविक्षेपलीलाः
कंदर्पंदर्पयंत्यो भृशमिह गणिका दारिकाः संचरंति॥१४॥
**विदूषकः—**वअस्स पेक्ख एत्थ महामदविब्भमवेसवहूणं30।
** रामः—**(निर्वर्ण्य)
अंलोपांतविलंबिकेशरचनास्विद्यत्कपोलास्फुर—
द्विबोष्ट्योमधुपानमंथरपदन्यासस्वनन्नूपुराः।
व्याकीर्णालकवासचूर्णकलुषा व्याधूर्णमानेक्षणा
लीना नृत्यरसेन वेशवनिता रथ्यामलंकुर्वते॥१५॥
(नेपथ्ये)
एषा खलु भर्तृदारिका सीता कामदेवायतनपर्यंतोपवनदोलागृहे वसंतदोलारोहणोपहारेण वसंतमाराधयितुमागमिष्यति। तदिदानीं।
इतस्तावत्सर्वाः परिजनवृत्ता वेशवनिता
वसंतार्हाहार्यद्विगुणितयसंतोत्सवगुणाः।
मरुन्मंदाक्षेणोच्चलितमकरांकध्वजपटं
मदोद्भेदस्थानं विशति रतिनाथस्य भवनम्॥१६॥
किं च।
मृदंगं वाद्यंतां मधुरमिदमार्दंगिकजनै—
र्ध्रुवं गेयं गेयं श्रवणसुभगं गातृभिरपि।
सलीलं नर्त्तक्यो विरचयत संगीतरचनां
कृतप्रेक्षोत्सुक्यो भवतु विटसाभाजिकजनः॥१७॥
रामः—(श्रुत्वा सहर्षं) वयस्य कामदेवभवनपर्यंते वसंतदोलारोहणं करिष्यति विदेहेश्वरदुहिते-त्युद्घोष्यते तदिदानीं तस्यैव मार्गमादर्शय येनाहं मैथिलीदर्शनेन चक्षुषी सफलीकरोमि।
** विदूषकः—**जंभवं आणवेदि। इदो इदो31
(उभौ परिक्रामतः )
** रामः—**(सोत्कंठं)
प्रारंभाभिमुखे पयोद्समये या चातकस्योक्तता
शीतांशौ निषधाचलांतिकगते हर्षश्चकोरस्य यः।
आश्वासो मधुपस्य चूतविटपे यो निष्कसत्कोरके
सीतादर्शनसन्निकर्षजनिता तादृग्समामासौ धृतिः॥१८॥
**विदूषकः—**वअस्स वरं कामदेवं वरअ32।
रामः—(निर्वर्ण्य) अहो निरतिशया लक्ष्मीः। इह हि—
वामेनाप्रवदीनचीनवसनश्लिष्यत्तुलाकोटिना
श्लिष्टार्द्धोरुकबद्धलक्ष्यवपुषा वामेतरेणांघ्रिणा।
आसृष्टस्तनपत्रभंगकपिशैः संव्यानकौशेयकैः
संवृण्वंति समंततस्तु वदना धैर्या यशः कामिनाम्॥१९॥
(अन्यतोऽवलोक्य) अहो भावानामपि रसांतरमास्कंधमाम्रेडितानि विलसितानि। तथाहि।
इयं व्रीडा व्रीडामनुभवति रम्यां मृगद्दशा–
मुदग्रामुत्कंठां भजति पुनरुत्कंठितमपि।
स्वयं लीला लीलांतरमुपगता माद्यति मदो
विलासैर्विभ्रांतं भवति मदनो जातमदनः॥२०॥
(नेपथ्ये)
वसत्थह33
**विदूषकः—**बअस्स ओसरणसद्दोसुणिअदि मण्णे आअच्छदि तत्तहोदी सीदा। किं अत्थ काअब्बं।34
रामः—(विलोक्य) वयस्य एष इदानीं कृतमकरध्वजपूजोपस्थानोदोलागृहाभिमुखो निर्गच्छति बारविलासिनीजनः तदनुपलक्षिता एव वयं विविक्ते कामदेवगृहाभ्यंतरे स्थास्यामः।
**विदूषकः—**एव्वं करेह्य।35
(तथा कुरुतः)
(ततः प्रविशति सपरिवारा सीता विनीता च )
**विनीताः—**इदो इदो भट्टिदारिआ।36
(सर्वाः परिक्रामंति)
विनीता—(पुरो निर्दिश्य) एअं खु कअपुप्फोपहारालंकारं रअणचुण्णणिव्वत्तिअवसंतपूआसमुदा-यारं समंतदो सज्जीकअं दोलाघरअं जाव पविसदु भट्टिदारिआ।37
**सीता—**ज पिअसद्दी भणादि।38
(सर्वाः प्रविशंति)
** विनीता—**(दोलां हस्तेन गृहीत्वा) एसां तुमं पडिवालेहरअणदोला जाव आरोहदु भट्टदारिआ।39
**सीता—**सहि तेण हि आरुहेमि देहि मे हत्थावलंश्चं।40
**विनीता—**जंभट्टिदारिआ आणवेदि।41 (तथा करोति)
सीता—(दोलामधिरोहति ) विनीता—(आकर्षणरज्जुमाक्षिपति )।
**सीता—**सहिओ जाव गाअम्म।42
** सख्यः—**जंपिअसही भणादि।43
(सर्वाः गायंति )
दस्सणसमूसुओ संपहपिअं पिआदंसिदसमाअमो पावह खु कोदुअं।44
**रामः—**वयस्य दोलागृहमुपागता न वा जानकीति कथं जानीमः।
**विदूषकः—**इदो ओसरिअअमुणा पक्खदुवारेण हं पेक्खेमि।45 (तथा कृत्वा) आरूढायेव तत्तहोदी दोलां।46
रामः—(सहर्षः) तेन हि सफलप्रयत्नाः स्मः। (उपसृत्य विलोक्य च सोत्कंठं)
उत्कंठानां बीजं मनोरथानां परिभ्रमस्थानम्।
हृदयस्य समुच्छ्वासितं तदिदं मम सपदि सन्निहितम्॥२१॥
**विदूषकः—**एसांसअं चेअ देवी लच्छित्ति समत्थेमि।47
रामः—(निर्वर्ण्य) अहो रूपानुरूपं वयः वयोनुरूपं लीला लीलानुरूपो विभ्रमो विभ्रमानुरूपं सौष्ठवं। किंच।
स्वयं सौंदर्यसर्वस्वमसाधारणसुंदरम्।
अनया लब्धतादात्म्यमात्मानं श्लाघते ध्रुवं॥२२॥
विनीता— भट्टदारिए जइ वसंतदोलारोहणं संमानिदुं इच्छसि तदो तुमं वि गाएहि।48
**सीता—**हला किं मं अतिमेत्तपसंसाए लहू करेसि। होदु ण दाव पिअसहिवअणं लंघेमि दस्सणसमूसु49 (इतिपूर्वोक्तमेव गायति)।
रामः—(श्रुत्वा सहर्षं स्वगतं) हंत मामिवोद्दिश्येदमुक्तं (प्रकाशं) अये इयमनवद्यवेषानुसरणसर-सामंदनिष्यंदमानमधुरसहितानुरागकंदलितकंदर्पकेलिर्वसंतविभ्रमभूषा कांभोजिभाषा (निर्वर्ण्य) अहो आभिजात्यं गीतस्य। पश्य।
सालंकारमनिष्ठुराक्षरपदं प्रव्यक्तवर्णक्रमं
पूर्णांगं सलयं कलानियमितं प्रस्पष्टतानश्रुतिः।
तत्कालोचितगेयवस्तुरचितां प्रासादकिं च द्रुवा-
माश्रित्यैव हि गीतमेतदधुना गीतं सुकंठ्यानया॥२३॥
अतिमात्रं च सा प्रसाधिता दोलारोहणेन। अस्याहि।
मृदुतररणत्कांचीदाम क्वणन्मणिनूपुरं
निकषदलकप्रांतक्लाम्यद्विशेषकवर्णकम्।
शिथिलकवरीबंधं स्विद्यत्कपोलतलं वपुः
श्रियमपि परां दोलारोहच्छालादधिरोहति॥२४॥
**विनीता—**सव्वं एदं सोहणं वसंतदोलारोहणं आरुहंतो स पिओ एव्व केवलं ण दिस्सई।50
**सख्यः—**हला सुडुभणिअं।51
सीता—(लज्जां नाटयंती स्वगतं) दुल्लहोखु सो कालो जस्सिं पिओ जणो दस्सणपहं पावदि जदो सवणेकगोअरे अयोज्झाउरिए तम्हिजणे चिरपरूढकोऊहलदुल्ललिअं एअं में हिअअं।52
**विनीता—**एवं च पुण अहं तक्केमि एदेण सोहणेण वसंतदोलारोहणेण समाराहिओ अइरेण इमिए दंसेदि पिअं वसंतोत्ति।53
**सख्यः—**संहि एवं।54
**रामः—**अहो वस्त्वन्तरसमवेता अपि गुणा युगपन्मयि संक्रामंति।अस्याहि—
नेत्राभ्यां सह विभ्रमव्यतिकरं मधंन शार्धक्रमं
हारेण स्खलितं सहैव भजते कंपं कुचाभ्यां सह।
स्रस्तं सामि सहस्तनांशुकशाप्रांतेन चाक्रुष्यते
चित्रं संप्रति दोलया सह पुनर्दोलायते मे मनः॥२५॥
विनीता—(आकर्णंरज्जुमाक्षिपंती उच्चैर्गायति)
जा आरुहर दोलं कंतेणचि वसंते।
सीसंमि खु जुवर्हणं सा जोव्वणवईणं55॥२६॥
सीता—(सविषादमात्मगतं) अयं उण जणो सुदूरुक्कंठदाए अकअदारिसभागदेओ।56
**विनीता—**भट्टदारिए किं तुमं ण हि गाअसि जाव गाएहि।57
**सीता—**हंज्जे अलं एतिएण दोलारोहण किलम्मंति खु मे अंगाइं।58
विनीता—(विनिरूप्य आत्मगतं) मण्णे एसा अहिगअगीअत्थाअप्पाणं अतहहूयं मण्णंती खिज्जइ। ता अत्थि किंवि इमाए एअंते ठिदं।59 (प्रकाश) तेणहि मं ओलंविअ अवरुहेहि।60
**सीता—**जं पिअसहि भणादि38 (अवरुह्य) हंला एहि गच्छम्म।61
(सर्वाः परिक्रामंति)
**विनीता—**हदो।62
विनीता—(अपवार्य) भट्टिदारिए एहि कामदेवधरअं पविसिअ अब्भत्थेमो तुह उक्कंठिअं।63
सीता—(साशंकमपवार्य) किं मएउक्कंठिअं।64
विनीता—(अपवार्य) किं महविपच्छदिअदि।65
सीता— (आत्मगतं) कहंगहिअमावम्हि पिअसाहिए।66 (अपवार्य) सहि कहं तुह पच्छदेमि। जइअहं अप्पणा पच्छादेमि तदा खु तुह पच्छादेमि।67
**विनीता—**सहिओ गच्छम्ह दाव कण्णअभवणं ता पुष्कावचअचावलादो परिब्भमदिसव्वं पिअसहिअणं गदुअ सहावेद।68
**सख्य—**जं पिअसहि भणादि।69
**विनीता—**भट्टिदारिए ओसरिदो सहिअणो जाव पुणो एसा पच्छागमिस्सदि ताव कामदेवं अब्भत्थेमो।70
**सीता—**तहा71
(परिक्रामतः)
**विनीता—**एदं कामदेवधरअं जाव पविसेम।72
(उभे प्रविशतः)
**विदूषकः—**वअस्स कहंइदं एव्वपविसंति ता मं वह्मणं पेक्खिअ तदाअहिवाहेइपरिअण्णो जाव अहं अण्णदो गच्छेमि।73 (निष्क्रांतः)
विनीता—(रामं दृष्ट्वा सविस्मयं) अह्योको एसो।74
सीता—(दृष्ट्वा समाध्यसं) अह्यो एसो खुसोम अणो।75
**विनीता—**भट्टिदारिए दिट्टिआ सो खु देवो पसण्णो ससरीरो एव चिट्ठह अग्गदो अणंगो \। ता इस्स दे उक्कंठं विण्णवेमो।76
सीता—(सलज्जमंजलिं बध्नाति)
**विनीता—**भअवं ससरीरमम्मह एअं मेपिअसहिं अणुरुवेण भरतुणा जोजेहि77
रामः—(सस्मितं सीतां प्रति) अयि सुंदरि।
श्रुत्वैव त्वांभजति पदवीं यो दृढोत्कंठितानां
दृष्ट्वाभूयो न भजति धृतिं यः सदा त्वामपश्यन्।
इत्थं चाद्यप्रणतशिरसा प्रार्थ्यते यो भवत्या
संप्राप्य त्वं कृतिनमचिरात् कामिनं तं रमेथाः॥२७॥
विनीता—(आत्मगतं) भावंतरगब्भिअं विअ से वअणं ण एस केवलं मम्महत्तेण वट्टह।78 (निरूप्य अपवार्य) भट्टिदारिए रामक्खरलच्छिअअंगुलिमुद्दिआ इमस्स हत्थे दिस्सर सुदं च मए आअको मिहिलिम्हि दासरही रामोति।79
सीता—(सहर्षात्मगतं) अम्होएसो खु सोरामो जो मए सुणिज्जएव पुव्वं उक्कंठं जणेदि दाणिं खंडिएत्थामेउक्कंठा।80
विनीता—(अपवार्य) भट्टिदारिए वंचिआ खु स्वमेह इमस्स रूवसोहरगेण।81
(नेपथ्ये।)
इदो इदो।82
** विनीता—**(कर्णं दत्वा) भट्टिदारिए समासण्णो सहिअणालाओ ताव गच्छम्म।83
सीता—(रामं प्रति) हंडाअम्हेदाणिं किं पुच्छेमो।84
**रामः—**पुनर्दर्शनाय।
**सीता—**अज्ज इमे भाअदेआ।85
**विनीता—**इदो इदो भट्टिदारिआ।86
(परिक्रम्य निष्कांता सीता विनीता च)
रामः—(सोत्कंठं) कथमेकपद एव वयमवस्थांतरमारोपिताः सीतया। तया हि—
**विचलितमणिहारं किंचिदानम्रमध्यं
क्वणितयलयमीषद्भृष्टसीमंतलेखम्।
अलसनयनमर्थस्त्रस्तकर्णावतंसं
युगपवुरसि बद्धं मन्मनश्चांजलिश्च॥२८॥ **
किंच—
**नीवीमुच्छ्वसितां मया सह मनाक् संलप्य नाभिर्ह्वदां
दोलारोहणविश्लयां रचयितुं व्यापारयंत्या करम्।
उत्कंपात्तरलोरुचारुचरणन्यासं व्रजंत्या तया
कामिन्या ननु काभदेवभवनात्कामाथ चास्म्यर्पितः॥२९॥ **
(नेपथ्ये)
इदो इदो पिअवअस्सो87
**रामः—**कथमाह्वयति वयस्यः।
(परिकम्य निष्कतिः)
इति श्री भट्टगोविंदस्वामिनः सूनुना हस्तिमल्लेन विरचिते
मैथिलीकल्याणनाम नाटके प्रथमोऽङ्कः॥१॥
__________
द्वितीयोऽङ्कः॥२॥
<MISSING_FIG href=”../books_images/U-IMG-1722234019तकक.jpg”/>
(ततः प्रविशति विदूषकः)
**विदूषकः—**पुव्वं88ताव अयोज्झाउरीं पहुदि तत्तहोदिंमिहिलेसरस्स पिअदुहिअरं सुण्णंतो एव्व सुददाणरज्जो विअ बह्मणो बलिअं उक्कंठिओ पिअवअस्सो। इदो पुण जदा दोलाघरए विट्ठा तत्तहोदी सीता तदो आरभिअ अण्णारिसहिअओ चिंतोवराअकलुसिअणअणो ण सअणे णिव्वुदिं लहेइण णिसासु णिद्दंपडिवज्जइ केवलं तं चेअ ज्झेउं पारेदि। मं पुण सीआविहारुद्देसदस्सणत्थंतहिं तहिं पेसंतो स्वणमेतंवि अण्पणो पासे विस्सद्धं ठावुं ण सहर, अहेच पुण पणठ्ठपहो विअ वच्छो इदो नदोसीअं अण्णेसंतो किपरीभमो अप्पाणं केवलं आआसेमि। एसा पुण सीदा दुस्साहिअ विअ देवदा ण कदाइ सणिहिं पडिवज्जइ( सनिर्वेदं) एवं च अणिवत्तिअमित्तजणोइदसक्कारदाए बद्धसोहत्थोणिव्विण्णो वाणिं अहं पिअवअस्संदट्ठंतहवि सिणेहपरिहीणो ण तेण विणा खणं पिं वट्टिडं स्वप्नेता दाणिं वअस्सस्स येव्व पासं गमिस्सं। (परिक्राम्यति)
(ततः प्रविशति सोत्कंठो रामः)
रामः—
उत्कंठितं हृदि यदात्मनि गोपयंत्या
तद्धीतितादिव तया करसंघटेन।
वद्धोजलिः किमपरं कथयामि तस्मै
बद्धोंजलिर्निर्भूतमंजलये मयापि॥१॥
अयं च पुनरत्र मन्मथस्यावष्टंभः। यत् किल।
सव्याजमर्थचलितानि निरीक्षितानि
स्रस्तस्तनांशुकदशंतथिकर्षणानि।
आसन्निसर्गमधुराणि सहैव संख्या-
मोघानि कान्यपि च मन्मथजल्पितानि॥२॥
(निःश्वस्य) अहो दुर्धरो मन्मथः। मम हि।
अंगेष्यनंगस्य शराशरव्ये-
व्यापुंखमन्नास्सफलास्तुदंति।
सीतार्थिनो मे विफलाश्च जाता
विश्वास्यमेषां न च सौमनस्यम्॥३॥
न खल्वसौ सतां मनः प्रीणयति मनसिजस्य प्रवृत्तिः। (आकाशे लक्ष्यंबध्द्वा)
असुलभफलप्रत्याशाभिः खलीकुरु नैबमां
घटय यदि वा त्यंकामिन्या तया रतिवल्लभ।
द्वयमपि भवान् स्वीकुर्वन कथं च न लज्जते
विघटितफलानम्रारंभा भयंति मनस्विनाम्॥४॥
( विभाव्य ) मा तावद्भीःअविषयप्रसक्तोऽयं परामर्शः। कुतः।
असौ दग्धोऽनंगः प्रभवति कथं मां व्यथयितुं
न चासौ दुर्दांतप्रकृतिसुलभो यौवनमदः।
उपालंभस्थानं न परमपि पश्यामि विमृशन्।
स्वयं सीता सैव प्रसभमिह मामुत्सुकयति॥५॥
** विदूषकः—**(पुरो विलोक्य) एसो खु पिअवअस्सो जाव उवसप्पामि।89 (उपसृत्य) जेदुपिअवअस्सो।24
**रामः—**अशृण्वन औत्सुक्यं खलु जनस्य सर्वथा पौरोभाग्याय। तथाहि—
कृत्यांतरविनिवृत्तः कविजनइव विजनमाश्रितो देशः।
अंतश्च किमपि जल्पन् विभामि चिंतां विनम्रमुखः॥६॥
विदूषकः—(आत्मगतं) कहं आगअंपि मं ण जाणइ अण्णचित्तो वअस्सो90 (पुनः प्रकाशं) जेदुपिअदअस्सो।24
रामः—(दृष्ट्वा) कथं वयस्य वयस्य उपविश्यतां।
**विदूषकः—**जंवअस्सो आणवेदि।91 (उपविशति)
**रामः—**वयस्य अपि संभाव्यते नस्समाश्वासः।
**विदूषकः—**एवं उच्छर्हते महकिं वा ण संभाविअदि।92
रामः—(सादरं) कथय क्वेदानीं द्रक्ष्यते सीता।
**विदूषकः—**झाणे93
**रामः—**किं तत्रापि भवानेव प्रार्थनीयः। पश्य।
तन्मया मम संकल्पास्तन्मयं मम चिंतितम्।
तन्मयानि ममाक्षाणि तन्मयं मम जीवितम्॥७॥
विदूषकः—(सोत्प्रासं) अण्णं ण पेक्खामि अहं तुह आतंकठाणं।94
**रामः—**यदि मदन्योसि तदा न पश्यसि वयस्य तिष्ठत्वेतत् किं भवानत्र मैथिलीं प्रति समर्थयते
**विदूषकः—**सुणाहि दाव एअं समाहिअं।95
**रामः—**समाहितमनसः स्मः।
**विदूषकः—**सुद एव्व दाव भवं कण्णपरंपराए समूसुएह जुवइजणं किं पुण कामदेवभवणे तह दिट्ठोतह अ णाम संभाविदो।96
**रामः—**तथैव हि भवतोक्तं।
**विदूषकः—**जह अ मोहं परिणमिस्सदि।97
**रामः—**भवांस्तु कामं सूवृतवचनः। सा पुनरस्माकं दुर्लभदर्शना।
**विदूषकः—**कहं दुल्लहदस्सणा लद्धपुव्वं खु ताए दस्सणं।98
** रामः—**
अपरिहृतविमर्दं संगमं न प्रतीक्ष्ये
प्रणयरसनिषिक्तं नैव संभाषितं च।
यदि भवति ममासौस्वैरमद्यापि दृश्या
किमिव मम कृतित्वे शिष्यतेऽन्विष्यते वा॥८॥
** विदूषकः—**(सस्मितं) अद्धीयेव्व केवलं तत्तहोदिदस्सणे तुह किदत्थदाए अवसेसो।99
**रामः—**किमिव।
**विदूषकः—**तह खु अहं उव्वाहसत्थिवाअणसक्कारं ण लंभिदो होमि।100
रामः—(सस्मितं) तेन हि मम कृतित्वमवशिष्यत इति साधूक्तमविकलमेव कृतित्वमनवलीढमास्त इति ब्रूहि।
**विदूषकः—**एव्वं एअं जह उब्वाहसात्थिवाअणोवहारसक्करेण समाराहिओ भविस्संत तह तुमपि अइरेण तत्तहोविपरिणअणकल्लाणं लहेहि।101
**रामः—**शिरसा प्रतिगृह्णीमहे।
**विदूषकः—**पुव्वं करेण महिस्ससि पुणो सिरेण।102
**रामः—**वयस्य साध्वीमिमामुक्तिं पश्य न तथा दयिता समन्मथा च तथा पातितमर्धं वीक्षितं मनसः परितोषणं यथा प्रियमित्रैःकथितं प्रियां प्रति।
**विदूषकः—**अणाराहिअवअस्सस्स मारिसस्स जणस्स केवलं लज्जाए होदि पअत्तो।103
**रामः—**अलमुद्वेगेन। कुतः। अनवाप्तफलो यथा वयस्यः प्रियमित्रस्य कृते कृतप्रयत्नः विवृणोति सुहृत्त्वमत्युदारं न तथाऽवाप्तफलो विना प्रयत्नात्।
**विदूषकः—**होदु एवं तहवि कलं विअ तुमं अप्पलहुअं एअं कालं अइवाहइस्सिसि।104
**रामः—**क्व नु खलु वयं दुरतिवाहमेनं कालमतिवाहयामः।
विदूषकः—(विचारयन्) सोदेसो तारिसोएसो देसो एरिसो105 (विभाव्य) आ वअस्स दिडो खु तुह विणोदणजोग्गो पएसो।106
**रामः—**कथय।
**विदूषकः—**अस्थि राजघरअस्स उत्तरदो माहविवणं णाम मणोबिलोहणं उबवणं तहिं दाव गच्छेमो।107
**रामः—**यत्राह भवान्।
**विदूषकः—**उट्ठेदु भवं।108
(उभावुतिष्ठतः)
** रामः—**वयस्य माधवीवनस्य मार्गमादेशय।
**विदूषकः—**इदो इदो।82
(उभौ परिक्रामतः)
रामः—(सवैचित्यं कामदेवभवनं प्रति गच्छति)
विदूषकः—(पृष्ठतो विलोक्य) कहंअण्णादो पत्थिदो वअस्सो109 (उपसृत्य हस्ते गृहीत्वा) वअस्स ण खलु एसो माहविवणमग्गो एसो णं कामदेवघरअमग्गो ता इदो एहि।110
रामः—(पदांतरे स्थित्वा) अहो ममास्थानामिनिवेशिता। (आत्मानं प्रति)
य एवाविश्रांती मदनधृगयुस्त्वां मृगयते
स चापस्त्वच्चेतो मृग मृगयया श्लाघितबलः।
मवन्यस्तस्यैवं भवनमभियातुं प्रयतता-
मनुन्मत्तः को वा तदलमलमात्मन्नित इतः॥९॥
अपरावर्तते।
**विदूषकः—**इदोइदो।111
(परिक्रामतः)
विदूषकः—(पुरो निर्दिश्य) वअस्स एदं तं माहविवणं।112
**रामः—**यावत्प्रविशामः।
(उभौ प्रविशतः)
रामः—(निर्वण्य) अहो माघविवनस्य परा माधवी लक्ष्मीः। अत्र हि**—**
मलयपवनतुन्नंपल्लवं देपमानं
वहति हृदयमंतर्मन्मथार्थो युदेव।
विसृजति मधुबिंदुच्छXXXXXXX
पुलकित इव मुग्धैः कोरकैरेषचूतः॥१०॥
अपि च।
कुसुमचषकोदरगतं सरसं रागोपवंशमधु पीत्वा।
मंथरगमना मधुरं गायंति मदोद्धताः मधुपाः॥११॥
**विदूषकः—**एवं खु विआसुम्मुहकुसुममंजरिभरभरिअसहआरमहीरुहसिहरपब्भारं महुरसलालस-परिब्भमंत सुलहमहुअरं आजुहागारं विअ लक्खिज्जह महुरवसिलीमुहरसिअस्स कुसुमाउहस्स।113
**रामः—**वयस्य सम्यगुपलक्षितं। इह हि।
उत्कंठयंति मधुपान् कलिकास्तरूणा-
मुन्निद्रयंति मुकुलानि बलाद्द्विरेफाः।
उत्तंसयति पवनाः सुमनःपरागा-
नुद्दीपयंति मदनं मरुतां विहाराः॥१२॥
( विचिंत्य ) इदमिह संप्रधार्यं येनास्य मनोभवस्य।
कोदंड किल कोमला सुमनसस्ता एव चित्रं शरा-
स्तन्न ब्रूम शिलीमुखैरथ कथं जीवा गुणः कल्पितः।
तद्विस्मृत्य सहामहे कथमिदं प्राक्षैरनुज्ञायतां
यद्दुर्लक्ष्यममुष्य वक्ति पृथिवीलक्ष्यं मनः कामिनाम्॥१३॥
**विदूषकः—**वअस्स जस्स दे मअण एव्व ईरिसिए अवस्थाए कारणं सो तुमं चेअ तं मअणं उबहसंतो दाणि उवहसणिज्जो।114
**रामः—**एवमेतत् इत्थं नाम प्रत्यक्षमपि कः पर्यालोचयेत्।
**विदूषकः—**भवं।115
रामः—(सस्मितं) कोऽन्यः।
**विदूषकः—**ण कोवि।116
**रामः—**वयस्य अलमुपालभ्य अनात्मज्ञत्वमप्युपालंभोपक्रममेव मन्मथव्यथायाः।
**विदूषकः—**विसेसदोदाव वसंते।117
**रामः—**विशेषतो रामे इति च ब्रूहि। कुतः।
शरसंधानचुम्बत्वं रामे रामासमुत्सुके।
यथा कुसुमवाणस्थ न तथाऽन्यत्र जातुचित्॥१४॥
**विदूषकः—**सब्बोवि खु कामुओ अप्पाणं एब्बंसमत्थेदि।118
**रामः—**तथा वास्तु।
**विदूषकः—**वअस्स दक्ख दक्ख एसो खु महुबिंदुसिहरच्छटादूसरदाए सिसिरसमाअमसंकं जणेइ दाणिं सहआरो।119
**रामः—**सम्यमुपलक्षितं। तथाहि।
मधुरसपृषतप्रवर्षिणि सुखशिशिराः समुदीक्ष्य मंजरीः।
शिशिरसमयशंकयाकुला न जहति कोटरमध्यकोकिलाः॥१५॥
यावदेतान् प्रतिबोधयामि।
त्यजत मधु सगंधाः कोकिला निर्विशंक
तरुबिटपकुटीराभ्यन्तरावा सभेदम्।
भजत सहचरीभिः सार्थमेतानिदीनी-
सुपवनसहकारानुल्लसन्मंजरीकान॥१६॥
विदूषकः—वअस्स इत् एव्वउवविसम्म।120
**रामः—**यथा भवानाह।
[ उपविशतः ]
** रामः—**( स्पर्शंरूपयित्वा )वयस्य कथमिवास्माभिरत्र क्षेमेण स्थीयते। इह हि—
उद्भेदोन्मुखकुड्मला विधुनुते वासंतिका मंजरी-
रागुजन्मधुपगमामुपवीXXXXXXXXX XXXXX।
क्रीडापद्मसरस्तरंगयति च प्रेंखोलितांभोरुहः
सोयं मामुपलभ्य किं न कुरुते लब्धास्पदं चेद्भृशम्॥१७॥
**विदूषकः—**अहो दुब्बहो मंमहो।121
रामः—( मदनावस्थां नाटयन् )
प्रियसख न शृणोषि त्वं किमेतानि शीघ्रं
श्रवणयुगमिदं मे गाढगाढं पिधेहि।
इह खलु सहकारोद्यानभूमौ वसंतान्
मदकलकलकंठी कंठनिष्कूजितानि॥१८॥
**विदूषकः—**वअस्स सब्बदो कूजंतेसु कोइलेसु केतिअं वा कालं पिहिअंति कण्णा।122
**रामः—**यावज्जीवितं रक्षितव्यं।
**विदूषकः—**अहं तेयत्थ उवाअं उवादिसिस्सं।123
**रामः—**किं सीतादर्शनोपायम्।
**विदूषकः—**णहि णहि कोइलकूजिअसद्दादिवाहणुव्वाअं।124
**रामः—**कथमिव।
**विदूषकः—**वअस्स सवणादोअण्णं इत्थीअं णएहि मणं जत्थ हु मणं पअट्टिअं अक्संवि सअं गहणादि।125
**रामः—**यथाह भवान् (परितो विलोकयन्सोद्वेगं) वयस्य न तदपि सा स्थित्ये। पश्य।
कलुषयति विकीर्णः कौसुमोऽयं परागो
नयनयुगमिदं मे पश्यतो दृश्यमानः।
तिरयति विचलंती मंजरी पल्लवानां
मदयति मधुवर्षी मन्मथं चैष चूतः॥१९॥
तदेतद्भवतोपि प्रतीकारचिंतामतिवर्तते। अथवा।
एता नूतनचूतकोरकशिखास्ताः कृंत निस्तंद्रितो
येन स्यान्मलयानिलस्य सुमहान् सौभाग्यदर्पोहृतः।
सद्यो मुद्रितकुंचिका च मदनज्या शृंगमाला भवेत्
क्षय्यः सोपि निरायुधश्च भवति प्रायेण पुष्पायुधः॥२०॥
अथवा मास्म तथा कृथाः येन मे प्रियाकर्णावतंसौचित्येन सहकारमंजरीषु सानुरागं मनः।
विदूषकः—(सस्मितं) अण्णाहाहि मए किल एदाओ कुदो विज्ञपणा।126
**रामः—**वयस्य किमत्र कर्तव्यं।
**विदूषकः—**धीरावलंबणं।127
**रामः—**वयस्य।
अवधीरितधैर्योहमधीराक्ष्या कृतस्तया।
धैर्यशब्दार्थबोधोपि दूरे क्वास्वावलंबनम्॥२१॥
**विदूषकः—**किं कादव्वदो दूसो चिट्ठ।128
रामः—(सोपहासं) साधूपदिष्टमौपयिकं।
**विदूषकः—**यत्तिअं में उपाअपरिण्णाणवैएवे129
रामः—(मदनावस्थां नाटयन्)
रचय कुसुमैः शय्यां स्वैरं विवेष्टनदायिनीं
सरसकदलीपत्रप्रांतानिलैरुपवीजय।
सबिसवलयान्मुक्ताहारान्मुहुर्मुहुरर्पयन्
गुरुतरमनुं संतापं मे वयस्य लघुकुरु॥२२॥
**विदूषकः—**वअस्स एदं खु चूदविडपारूढाए माहबिलदाए मलआणिलसंचालणपडिअकुसुमोक्कर-पट्टिअपुप्फतप्यं मणिकुट्टिमं एदे अ सिसिरोवआरत्थं आमुक्का पूवं चैव तुह मोत्ताहारा। दाणिं पुण एदुमिणीदो मुगालायि कअलीघरादो कअलीदलाई जाव आणेमि130 (निष्कम्य प्रविश्योपसृत्य च) अम्मो एदे कअलीपत्तणिहित्तआमुणाला सुमरार्वेति मं भोअणं।131
** रामः—**वयस्य साध्वानीतं यावच्छिशिरोपचारे प्रवर्तस्व।
**विदूषकः—**जं वअस्सो आणवेदि।132 (तथा करोति)
रामः—(सोद्वेगं) कृतं कृतमनेन।
समंतादंगं मे शयनकुसुमैस्तुद्यत इतः
परं चैतच्चेतश्चलति कदलीपत्रमरुता।
पतंतीतः प्लोपाद्विशिथिलगुणा मौक्तिक गुणाः
विसैःसार्धं वक्षः क्वथति मम गाढव्यथमितः॥२३॥
**विदूषकः—**एसो खु सो संतिकम्मणि भूदुप्पादो येण सिसिरोवआरो व्व संतापुत्थिए हेदू।133
**रामः—**वयस्य यत्सत्यमसौ शिशिरोपचारः शिरोपचारस्तेन मे शिरोवेदनामापादयति। तथाहि।
ऊष्मनिष्पादने सोष्मा स्वैरमंगेष्वसौ मम।
शैत्यापादनकृत्ये तु शीतला शीतलक्रिया॥२४॥
**विदूषकः—**सव्वं कअं सिसिरकम्मं जं जं मए जाणेअदि किं दाणि करिस्सं।134
रामः—
किं किं दुःशिशिरक्रियाव्यतिकरैरायासयस्यधनः
क्षोण्यां रूपय पुष्पतल्परचनां रंभादलं पारय।
छित्या विक्षिप दिक्षु मंक्षु चुटुकैराच्छिद्य मुक्तागुणान्
हस्ताभ्यां चमदाननिर्वयमनाः मुग्धा मृणालीलताः॥२५॥
**विदूषकः—**साहु णियुत्तं सिसिरकम्मं वअस्स एआरिसंपि सिसिरकम्मं ण वे सिसिरोवआरबुद्धिं जणेअत्ति अच्चाहिदं।135
रामः—( किंचिदात्मानमवस्थाप्य )
क्वविषयेषु विवेकसहं मनः
स्मृतिविमोहजड़ाः क्व च कामिनः।
वदसि मह्यमनात्मवते कथं
कथय तुभ्यमविप्लुतचेतसे॥२६॥
**विदूषकः—**वअस्स किं अण्णं सिसिरकम्मंकरिस्सं।136
**रामः—**किं मां पुनः पुनः प्रजल्पैरुत्पीडयसि क इव जानाति शिशिरोपचारमितरच्च।
**विदूषकः—**वअस्स एसा दाणिं पच्चाअआ एक्का दे अंतःकरणपउट्टि जाणइत्ति कहेमि।137
रामः—(सहर्षं) क्वासावेका ममान्तकप्रवृत्तिः जानकी। (उत्थातुमिच्छाते)।
**विदूषकः—**वअस्स एव्वं खु मए उदीरिअं एसा दे पञ्चागआ एक्का जाणइ सिसिंरोवआरं अंतःकरणपट्टित्ति।138
**रामः—**कथमन्यथा चिंतितं अन्यथा परिणतं। वयस्य।
याता मम तन्मयतामंतःकरणप्रवृत्तिरपि दूरे।
प्रत्यागमिष्यति तु सा प्रत्यागच्छेत्प्रिया यदि सा॥२७॥
(ततः प्रविशति सोत्कंठं सीता विवीताच )
**सीता—**पिअसहि विणीदे कर्हिएसा में सीसवेअणा उवसमिस्सिदि।139
**विनीता—**जत्थ सो दिस्सइ।140
**सीता—**को141
**विनीता—**जो दे इमाए हेदू।142
**सीता—**किं एसो मे अंगसंतायो।143
**विनीता—**जो तस्सवि हेदु144
**सीता—**को वा तस्य हेदू145
**विनीता—**जो तुए बद्धंजलिए अब्भस्थिओ।146
**सीता—**को वा अप्पणो सन्तावहेउंअव्भस्थेई147
**विनीता—**सोक्खहेउत्ति खु पत्थिओ संतावहेदू जादो।148
** सीता—**जइ संतापहेदू जादो कहं कीरिसो अज्ज सीसवेअणं अवणइस्सिदि।149
**विनीता—**अदिट्ठोखु संदावहेदू दिट्ठो उण सो सोक्खाअ महिए विअ पाउससमओ।150
**सीता—**तहवि तुए चेअ खु सो तदा अब्भत्थिओ ण उण मए।151
**विनीता—**बहिरंगापराद्धाअ सा मेवाआमेत्तेण पत्थणा तुए उण अंतरंगा अप्पत्थाअ पत्थणा किदा।152
**सीता—**सहि कामदेवोत्ति खु मए अंजलिबन्द्वो पत्थणा अ किदा।153
**विनीता—**होदु कामं कामो एत्थ ववदेसो णिग्गच्छत्तिए उण दे वेवमाआणं ऊरुखब्भाणं। किं भणासि।154
**सीता—**किं सो अपुव्वजणदस्सणसज्झसो ण हवे।155
**विनीता—**साहु कप्पिओ एत्थ वाजो।156
**सीता—**किंअदो वरं।157
**विनीता—**अणुरत्तविचिम्हणं ते लोआणं किं पडिवज्जह।158
**सीता—**दोलारोहणकिलंताप आहेअराइ णं मे लोआगाह।159
**विनीता—**तहवि मए उण णिग्गमणाणुरुद्वाएअंजलिणा सह विभुक्कधीराए मंमुहपाडिआणं मंमहपीडिआणं णिग्गमिदुं अणिच्छंतीणं दिट्ठिणं भावो कहं णिमूहिज्जहि।160
**सीता—**सहि अणुत्तरम्हि संउत्ता।161
**विनीता—**उरा तुमं अणुत्तरा अत्थिखुअदो उत्तरं ते पिअसमाअमणं।162
**सीता—**एवं खु सहिअणो मं चिंतेदि मंतेदि अ।163
** विनीता—**अणुभविस्सदि अ।164
सीता—(आत्मगतं) कुदो मे सा सुजंमवता165 (प्रकाशं) सहि तह होदु।166
** विनीता—**जइ मे दिट्ठिण भाअदेआ।167
**सीता—**हलाचिट्ठदु एदं कर्हिदाव गदुअ एदंसंदावं अदणेमो।168
**विनीता—**पच्चग्गमहुलच्छिमहुरं माहविवणं गच्छम्म ता इदोभट्टिदारिआ।169
(उभे परिक्रामतः)
सीता—(सखेदं) हला केतिअं वा गंतव्वं।170
**विनीता—**इणंआरामं गच्छेम्मो।171
**सीता—**कहिं खु सो रामो।172
विनीता— भट्टिदारिए णं आरामो अम्हेहिं मच्छिअदिति खु मए मणिअं।173
सीता—( सबिलक्ष्यस्मितं ) हला केइ खु दूरे सो आरामो।174
विनीता—( पुरो निर्दिश्य ) एअं खु तं माहविवणं जाव पविसह्य।175
सीता— तह।176
( उभे प्रविशतः )
हला अविण्णादहिअअं तं जणं उक्कंठंती तुहवि अहं हिरअमि मुहं देउं।177
** विनीता**—भट्टदारिए मा तह चिंतिअ तह णाम तुइ अणुरत्तदिट्ठिणिहाअणं खु सो सव्वहा उक्कंट्ठिओ भवे।178
सीता—हलाअओज्झाउरि एसो जणो ण खु इदो तस्य सट्ठिदी अवट्ठिदा।179
**विनीता—**तहवि तुमं दद्दू सो अपुण्णमणोरहो एअं देसं ण मुंबई।180
विदूषकः—वअस्स केत्तिअं वा कालं पडिवालेमि जस्सिं दे एसो संदावो समं णीआदि।181
रामः—वयस्य एष मे निर्णयः।
शीतांशुवदनां सीतां स्पृष्ट्ववस्पर्शशीतलाम्।
अपास्ततापमंगं मे शीतीभावमवाप्स्यति॥२८॥
विनीता—( कर्णं दत्वा ) भट्टिदारिए इदो जणालावो विअ सुणिअदि।182
सीता—सहि इमिणा माहविगुम्मेणंतरिदो दक्खम्म।183
** विनीता**—( तथा कृत्वा दृष्ट्वा च ) भट्टदारिए दिट्ठिआ वङ्कसि एसो दे हिअअवल्लहो।184
** सीता**—( दृष्ट्वा सहर्षं सानुरागं चात्मगतं ) हिअअ पडिअवठ्ठावइअप्पाणं किअत्थं खु दाणिं दे जम्मं185 ( साकारा संवरणं ) किं दाणिंएदं दक्खंतिए किंपि वेपइ में हिअअं ऊरुजुअलं च फुरइ वामच्छि अहरो अ सिथिली होइ णीविगंथि धीरं च किल्लम्मइ मणो सरीरं च।186
विनीता— जइ एव्वं भट्टदारिए इमस्स वि जणस्स विवित्तदेसे कोवि सेरालाओवट्टइ तं सुणिस्सह्य।187
**सीता—**जह पिअसहीए रोअदि।188
** विनीता**—( विलोक्य ) भट्टदारिए पेक्ख परिदो तिसिरोवआरपरिअरं।189
सीता—किं तेण मे।190
विनीता—भट्टदारिए तुए उक्कट्ठाए संदाविओ खु सो।191
**सीता—**कहं अज्झवस्ससि।192
**विनीता—**जइ मं ण पत्तिआअसि दाणिंचैञ एअं सेरालावं सुधिस्ससि।193
**विदूषकः—**वअस्स एअं अच्चाहिदं तुवंपि णाम ओहत्थिअसव्वसेअवत्थुओसंतावावणोदत्थं एक्कं सीअं मण्णेसित्ति।194
रामः—( सनिर्वेदं तूष्णीमास्ते )
**विनीता—**असंपडिपत्तिए किं दाणिं तुस्सिसि।195
**सीता—**हला एअं रीअं वत्थु अत्थिति खु भणिअं।
विनीता— हंत असंतुट्ठि।196
** विदूषकः**—वअस्स अवहित्तेण अ सीआं पजप्पंतेण तुए कुदो दाणिं वाहितेण सीआपसंगे ण दीअदि पच्चुत्ति।197
रामः—किं तया।
सीता—( श्रुत्वा सखेदमात्मगतं ) किं तए इति मं विहत्थेइ गआ मे मणोरहा।198
विनीता—( श्रुत्वात्मगतं ) कहं एस अण्णहिअओ संउत्तो।199
सीता—हंजेकिं दाणिं एत्थ ठीअदि दा गच्छम्म।200
विनीता—भट्टदारिए मा तुमं तुवरेहि पुणोवि एअं आलावं सुणिम्म।201
सीता—उम्मत्तिए किं अदो वरेपि सुणिअदि।202
विनीता—( आत्मगतं ) कहं अतिमेत्तंविसण्णा भट्टिदारिआ203।
सीता—( सनिर्वेदं ) हलांएहि गच्छम्म अहव कहिं मए गच्छिअदि204 ( इति मुह्यति )
विनीता—( ससंभ्रमं ) समस्सिसिहि भट्टिदारिए समस्ससिहि205।
रामः—( कर्णं दत्वा ) कथं स्त्रीजनसमाश्वासनशब्दः ( उत्थाय ससंभ्रममुपसर्पति )
विदूषकः—( श्रुत्वा ससंभ्रमं ) अविहा अविहा किं एदं206 ( उपश्रुत्य दृष्ट्वा च ) वअस्स एसा दे पाणवल्लहा207।
रामः—( दृष्ट्वा ) कथं सीता (उपसृत्य ) प्रिये समाश्वसिहि समाश्वसिहि।
सीता—( शनैश्शनैः समाश्वसिति )।
रामः—( निर्वर्ण्य )—
उन्मील्य नेत्रे मदनेन सार्ध–
मपांगशारीकृतकर्णपूरे।
समाश्वसित्याननमायत्याक्ष्याः
समुच्छसत्पंकजकोशकांतिः॥२९॥
किं च।
नयनयुगसितमध्यं
सितपर्यंतं विभाति शवलाक्ष्याः।
शितधारमंतरत्सक-
ज्यैत्रं मदनस्य वज्रमिव॥३०॥
** सीता—**( समाश्वास्य रामं दृष्ट्वासरोषं मुखं परावर्तयति। )
रामः—
इथं दरस्फुरदधरोष्ठपल्लवं
भुवौ समुन्नमयदनर्घ्यविभ्रमम्।
मुखं रुषा कलुषविजिह्मलोचनं
कुतस्त्वया सुमुखि पराङ्मुखीकृतम्॥३१॥
सीता—( गंतुमिच्छति )।
**विदूषकः—**को दाणिं अदिक्कमो को एसो विओओ208।
रामः—( हस्तेन गृहीत्वा ) XXक एष XXX (ह्यनुनयं)
कृतापराधः किमु दौर्दिदग्ध्या-
दयं जनो दासजनाभिन्नः।
यद्गंतुकामासि समाश्वलद्भयो
ममाद्य विम्वोष्ठि मनोरथेभ्यः॥३२॥
विदूषकः—( विनीतां प्रति) होदि किंणु खु तत्तहोदिए कोवकारणं209।
**विनीता—**सीधविसअं पच्चुत्तिं कुदोण देस्सिसित्ति तुए भणिदे किं दाएइत्तिभणिअं सुणिअ अप्पाणं विहत्थिअं जाणंती किल एसा णिव्विण्णा210।
रामः—( सस्मितं ) कथं मयैवापराद्धं ( सीतां प्रति ) अयि मुग्धे किं तया दुखापफलोपलिप्सया दुर्ललितया प्रत्युवत्येति खलु मया कथितं।
विदूषकः—( सहासं ) अम्हो अकालकोपणा अकारणकोपणा अ अत्तहोदी211।
सीता—( आत्मगतं ) कहंअण्णहा मए कहिअं212।
**विनीता—**कहं213 अण्णहागहीअं अम्हेहिं।213
**रामः—**किंच।
वचोयद्यपि निर्गच्छेन्मुग्धे स्वेच्छतरं मुखात्।
रामो बहिधरान् प्राणान् कथं हित्या विहस्तयेत्॥३३॥
अथवा सुमहदनेनोपकृतमकाण्डकोपकारिणा मौXन। कृतः।
प्रणयादपि मानिन्या मानग्रह एव रोचते मह्यम्।
ईर्ष्यायितमधुराणां येनाधिगमः कटाक्षाणाम्॥३४॥
( नेपध्ये )
अये प्राप्तः प्रदोपारंभः।
यतो वासर एष शोषितजरत्कासारगर्तदको
मार्तडस्य करैरकुंठितशिखैः साकं करीपंकपैः।
ये प्रातः प्रवलायिताः प्रतिदिशं प्रत्यागताः पत्रिण-
स्ते कांतासहिता विशंति निलयान् प्राप्तः प्रदोपोत्सवः॥३५॥
रामः—( श्रुत्वा सखेदं ) इदं पुनर्मिथुनं प्रविघटते।
**विनीता—**कहं उणवणपालआणं उग्धोसो भट्टिदारिए इदो गच्छम्म। 214
सीता—( आत्मगतं ) केवलं सरीरमेत्तेण।
विनीता— वो इवो भट्टदारिए।215
( परिक्रम्य निष्कांता सीता विनीता च )
रामः—( सौत्सुक्यं ) कथमसौन मुद्रयति कदाचिदभीप्सितफलावलेहिनोपि संकल्पयोनिः संकल्पात्। तथाहि**—**
दृष्ट्वैव सीता ननु दर्शनीया
स्पृष्टैव सा स्पर्शसुशीतलांगी।
२ निराकुर्यात्। ४ केवलं शरीरमात्रेण।
तथाप्यमीषां नुमनोरथानां
न शांतिरेषापि परं ममैव॥३६॥
**विदूषकः—**वअस्स अदिकामदिसंआ। अज्ज हि दिअहसिरिविरह-खेदविप्पमुक्कत्रहो चंदपादाभिधावभीदोविअ अवरं चेअ आसं अवलंबेदिपउट्ठाणराओ विअहणाहोता एहि गच्छम्म। 216
रामः—( विलोक्य) कथमिदानीमस्ताचलशिखरिशेखरस्वरश्रियं विद्धंबयति लंबमानो भगवान् गभस्तिमाली। ( स्पर्शं रूपयित्वा )
उन्मीलन्नयमालिकांतरगलत्सौरभ्यसंयासिताः
श्रांताया दिवसश्रियो हिमकणैर्धर्माम्बुकल्पैर्जडाः।
पेयाप्राणघटैः सुखेन नितरामालिंगनीया भुजै-
र्निश्यासा एव वांति मंदमधुना दाता वसंतश्रियः॥३७॥
**विदूषकः—**इदो इदो पिअवअस्सो। 217
( परिक्रम्य निष्क्रांतौ )
इति श्रीभट्टगोविंद स्वामिनः सूनुना हस्तिमल्लेन विरचिते
मैथिलीकल्याण नाम्निनाटके द्वितीयोऽङ्कः॥२॥
_______________
तृतीयोऽङ्कः॥३॥
<MISSING_FIG href=”../books_images/U-IMG-1722318174रुपरुरुरप.jpg”/>
( ततः प्रविशतिवामनः )
**वामनः—**शोभणं खु लोईआ भणंति णत्थि स सुज्जेवासले पईवस्स अवसलेति जेण दाणिं सोहगवक्खजालंतलपविट्ठेपमिट्ठक्ककंतसिलत्थलणिवटणपडिफलणदिउणपआसिअवासघलोदले पज्जलंतलअणकुट्ठि- मुट्ठिअकंचणसलाआसहस्सपडिहे दच्छिलस्सिपसले तिमिलोम्मूलणकुसले पसलंते वालाअवे अहगे मोहलअणपईवगहण महालाअस्स परसादो पलिसमाविअझेत्रासमए दिअसमुहम्मि णिग्गए। ( परिक्रामन् श्रमं नाटयित्वा)218 किलतोह्मउण्हच्छासेण कुत्थउण हि विस्समिस्सं (विचिंत्य )219 होदु घलं चेअगच्छेम \। केण खु ए मे गमणसल्लावलाहो भविझ्झादि।220
( ततः प्रविशति कुब्जः )
**कुब्जः—**अज्ज पच्चूसविअसंतघलदिग्धिआसलोलुहमउलोदलगलि-अबहुलमअलंदलसोल्लिए पविललोसाअज ललबजलीकए अद्दमत्तसीअलिकिअ-मोत्ताहलजालए अणकब्भत्थितालडंताणिले मंदाणिले वाअंदे णिवासंते221
अहगोवि लद्धविस्समावसले विमुकतालउंतगहणे णिम्मए महालाअस्स पस्सदो ता दाणि अप्पणो घलं गच्छेमि (परिक्रामति)।
वामनः—(दृष्ट्वा) अम्हो तालउतमाही पिअसहो दासेलए जाव एअं सद्दावेमि। लेले दासेलअ।222
कुब्जः—(आकर्ण्य दृष्ट्वा च) अम्होअददासि उल- लब्मए223 ( उपसर्पति )
वामनः—(निर्वर्ण्य) अले पिअवअस्सा दासेलआ तुम्हे बिलूव्वआ खु ओहसणिज्जा।224
**कुब्जः—**तह हि।225
हिडंति कलभा विअ एत्थ ण सअणंलहेति उत्ताणं।
ओऊहणं लइह्मिअ पिलंसलं यक्कहिअआओ॥१॥
(सहासं) अले उलंभआ कलभगमणं खु उत्तमाणं पुलिसाणं गमणंति पसस्सिआदि।226
वामनः—(सहासं) सिलोसिदे अहिलासो जं अण्णाहा मणिअंपि अण्णा वक्खाणेसि मए खु कलह एति सिंखल एवं भणिएज्झं ण उण विक्के अदो येव्वंखु णं दासेलए त्ति तुवं अंतेउले सद्दाविअसि।227
कुब्जः—(सहासं सेर्ष्यं) अले किं तुवं अप्प अप्पह्मितुह्मेहिं सुवामणेहिं।228
आसणसलिसटिईहि अत्थिअदो उत्थिअं पदंतेहिं।
चडुलणिउज्जंगेहिं गच्छियदिकच्छवेहि विञ॥२॥ 229
वामनः—(सहासं) हिमाणए सुट्ठुकए उवालंभस्स पलिउवालंभे पिअसहा म हु मज्झं असूहेइ जाव दाणि अहमे तुस्मे पसंसेषि सुच्याह दाव।230
पावंति लइम्मि दासिआओ
विढपलिलब्भजआलपुण्णआओ।
हिअअं वि सहावउण्णअंतं
सुमहंतं ण खु अत्थि अण्णभाणं॥३॥ 230
कुब्जः—(सहासं) साहु पसंसिअं पिअसह तेण हि अहंपि तुझे पसंसिस्सं होमि।231
देहाहिअउद्धपिट्ठिआ
णिहुवणचुंम्बिअणाहिक्क्रुविअX।
अंसेसु कअग्गहत्थअं
उवऊहांतिखु कोहिणीअणं॥४॥ 231
वामनः—(सहासं) साहु पसंसिअं।232
उभौ—(सहासं) अले सुसंगदं खु एअं णिउज्जं।233
कुब्जः—(उवहसेदि पसंसदि अ कुज्जं णिउज्जोति।)234
** वामनः—**अले दक्ख दाव अम्हालिसस्स लाअपलियालस्स।235
** कुब्जः—** अले236 विलूवपलिअणा खु वा ईसे सिलाहोंति चेअ पमहगणपलिआलणे इरसले चेअ पणं एत्य णिदस्सणं जल्लाअपलिवाले कुज्जो वामणो एX XXXवब्वलाXXX संXX।236
**बामनः—**अले237 मा खु अपला हि संति अ संढंपि ओहासेण कलुसेहि। स खु—237
इत्थेहिं पुलिसे विअ खेलवि पुलिसेहि इत्थिआ पध्य।
पुलिसेह्यि पुलिसेविअ इत्थेहिं इत्थिअं चेव॥५॥237
**कुब्जः—**अले238एवं एव्वंलक्खउदाहलणं। किलिबेभट्टिकारिआए मोहिलीएमहंतलीआ कलावई। सा खु—238
पअद्धिचउला कव्वेसु कलासु उत्तला अ सअलासु।
णेत्तविलोभणलुआ अणंगदोत्तम्हि अहिऊआ॥ ६॥ 238
वामनः—(विलोक्य) अले239 एसे खु से वलिसधले कलावई इद अभिवट्टइ इमिणा पुणा सल्लावचटलेण संढेण सज्ज विसत्ताणं अहमाणं महंते काले मच्छेइ। ता एहि अह्मोइदो सिग्धं धलं चिअ गच्छेमो।239
(उभेपरिक्राम्य निष्कांतौ)
प्रवेशकः।
(ततः प्रविशति षंढः)
षंढः— (यथोचितं परिक्रामन्) हंत भो विदेहेश्वरदुहितुः परांकोटिमधिरोहति मदनोन्मादः।
प्रततमखिलाः पश्यत्याशाः न किंचन पश्यति
स्तिमितमसकृत्सा संधत्ते दधातिच वेपथुम्।
न खलु भजते भद्रां निद्रां न च प्रतिबुध्यते
स्मरति न पुनः किंचित्तं च स्मरत्यधिकस्मरा॥७॥
अपि च। व्याजृंभमाणकुमुदकुड्मलकुहरचंक्रमणसंक्रांतसौरभावलिप्तमलयानिलानुलिप्तासु मंडलीकृतशरासनसंधीय-मानशरशतोत्क्षेपव्यापृतमन्मथासु कौमुदीविशदासु च क्षणदासु।
किं चंद्रातपवारणोत्सुकतया किं चंदनार्द्रच्छटा
चर्चपाकरणाय किंं शशिशिलानिष्पदसेकेर्ष्यया।
किं रंभादलवीजनं व्युदसितुं किं मन्मथं वंदितुं
शप्तुंवा स्वयमेव हस्तमबलाधिक्कृच्छ्रमुद्यच्छति॥८॥
एवं च मन्ये। “ज्वलतानेन कदाचिद्भिद्यता कालिकेन हृदयमिदं। इति किल तत्प्रतिकर्तुंसुश्लिष्टा स्तनतटा स्तस्याः” इत्यं च प्रतिक्षणमुपर्युपरि वर्धमानायामवधीरितप्रतिविधानायां मनसिजरुजायामद्य तु पुनः प्रमदवनमध्यवर्तिनि धारागृहे वर्तमाना सांद्रचंदनक्षोदचर्चितपल्लवास्तरनिस्सहविधृतशरीरा भर्तृदारिका सीता विहस्तयंतीवसखीजनोपपादितां शिशिरोपचारनियंत्रणां दीर्घमुष्णं च निश्वस्य निवेदयंतीव संतापं प्रकाशयंतीवांतर्गतं भावं किमप्युपालंभमानेव प्रार्थयमानेव च मां किंचिदिवोन्नमयंती भ्रूलताग्रभागंपक्षाग्रग्रथितबाष्पजललवलुलितां कातरकातरमाकेकरतारकां साकूतां मन्मुख एव दृष्टिं पातितवती। अहं च गृहीतहृदयतया तत्क्षणमेव कृतं
संदेहेन संपादयामि ते समीहितमित्यवचनमेव प्रेमगर्भेण दीक्षितेन समाश्वास्य सव्याजमुत्थाय दूत्याकारावलंबनेन निरबगमम्। तद्यावदिदार्नामवलंबितंरामचंद्रस्यैव पार्श्वं गच्छामि (परिक्रम्य) एवं च पुनरवोचदस्मत्कर्णोते भर्तृदारिका हृदयनिर्विशेषा गृहीतभावा विनीता ‘पिअसहि कलावर्द्दमाहविवणे खु णं भट्टिणा रामेण भट्टिदारिआ दिट्ठाता सोवि पदेसो तुए अण्णोसिदव्वोत्ति मण्णे सोवितहिं चेअ वट्टदि। कुदो।240
जत्थ खु पढमं दिण्णोअच्छीणं ऊसयो पिअजणेण।
उक्कंठिअं जणं पुण सोपि पयेसो विणोदेई॥९॥
ता जाब माहविवणं गच्छेमि। (परिक्रामति अग्रतो विलोक्य ससंभ्रमं) कहंएक्को विडो मं उवसप्पिअविहसिअमुहो भाणइ। जहहि।241
**बिटः—**अये केयं कन्यका कथं राजकन्यका। भद्रिके श्रूयतां। मुक्ताहारो नाभिं चुंगXXX XXXXXXXXXXX। नालं भारं सोढुं मध्यः सुतनुतनुरपि तव तयोः सकुंकुमपंकयोः तद्यावत्त्वां याचे लीलानिहितपदमनतिमुखरक्वणन्मणिनूपुरं मुक्तायासं मंदं मंदं श्रुतिसुभगरणितरशनं प्रयाहि नितंबिनी (इति सलज्जं असौ स्तनसंन्यस्तहस्ता अपक्रम्य विलोक्य च) अये अयमग्रतो देशवाटः। इह हि।
प्रौढांगनारुचिरकंठघनांगरागः
कस्तूरिकापरिमलस्पृहणीयगंधः।
सौभाग्यगर्वरसमंथर एव गत्या
चेतः प्रलोभयति नस्तरुणो नभस्वान्॥१०॥
(पुरो विलोक्य) का पुण एसा किंपि संकंती विअ पणंसूओगुंठिआ अ पावं अवहिरिअ दो अभिवट्टह242 (निरूप्य) कह बेसवहूहि रम्मई हला किं तुवे कंति विअ आअच्छसि। किं भणासि हला एत्थ बेसवाद्धमुहXXXXX XXX XXXX XXX XXXXXआअच्छेमित्ति। तेण हि भुज्जइ धुत्ता हु णाम।243
महिलंअपुष्यआमयि विस्सद्धं विअ कुणंति चाहूहिं।
तह तह वि णिवारिंता कहवि ण मुंचेदि पत्थेंता॥११॥ 243
(सलज्जं) हंजे एव्वं च अहं वि लज्जेमि तेण पहेण शंतुं ता गच्छ तुमं244 (विचिंत्य) जावअपि इमाए कुसुमायण्णवीहिआए गहुअ माहविवणं पवसेमि245 (परिक्रम्य) एसकुसुमवणवीहि246 (निर्वर्ण्य) एत्थ हु णिच्चंअआलकुसुमसमूहआहिअउनुगुणा सब्वजणूसुअत्तणकरी वसाह मञ्जुसरि।247 (पुनर्निर्वर्ण्य )
तामिह दक्षिणपवनो मृदुपरिरभते विकाशयति।
स्पृशति च जिघ्रति चुंबति पुलकयति त्ययमयमधुना॥१२॥
(अग्रतो विलोक्य) कथमसौ स्वोदवसितालिंदोपांतोपविष्टा नखमुखविपाटितानिसौगंधिककुसुमानि ग्रन्थाति स्मितेनैव समानयति मां वासंतिका। (उपेत्य) वासु वासंतिके।
क्रीणाति पुष्पाणि युवा त्वया य-
स्सल्लापसौख्येन विलोभ्यमानः।
पश्यामि तस्माच्च वरं स एव
क्रीणात्ययं त्वां कुसुमोपभागिनम्॥१३॥
किं व्रवीषिप्रियसखि संभाव्यतामसौ चिकुरमत्सनर्वणेन सोमधिकमालेति सकोपं कथमसौ कट्वदास्त्रियमित्र मां कदर्थयति तत्किमनया। इतो वयं ( परीक्ष्य विलोक्य च ) एतन्माधवीवनद्वारं यावत्प्रविशामि (प्रविश्य) अनेन खलु मया भर्तृदारिका दौत्यावलंबिना कालातिपातप्रमादिना न भवितव्यं। कुतः।
सैपा संप्रति नैव तावदवलाकालातिपातक्षमा
शांतं पापममंगलं प्रतिहतं तापः कथं कथ्यते।
का वार्ता स्तनभारमध्यपतिते मुग्धे मृणालांकुरे
हारास्तत्क्षणमेव वक्षसि यदा नीलोत्पलश्यामलाः॥१४॥
अपि च तस्याः खलु।
किसलयतल्पसमर्पित देहाया मदनदहनतत्तायाः।
हाराःस्वदेहनिहिता जनयंति स्फोटकाशंकाम्॥१५॥
एतच्च नः संप्रति दूत्ये त्वरयति। अद्य हि।
अस्माभिः शिशिरोपचारविधिना कृच्छात्समाश्वासिता
संकल्पाहितकांतसंनिधिसुखा मोहावसाने पुनः।
सा बाला विवशा प्रवालशयनादुस्थाय सप्रश्रयं
स्मेरा किंचिदधोमुखी सशनकैराकाशमलिंगति॥१६॥
(अन्यतो विलोक्य) कथमसौ माधवीवनपालिका गंधवती। भद्रे गंधवति विमुक्तमाधवीजनविहार-सुखा किमिति द्वारोपांत एव वर्तसे। किं व्रदीषि।
अज्झ अब्भंतरे वअस्ससहिदो दासरही वट्टइति युज्यते248 (आत्मगतं) सफलं नो दौत्यं (व्रीडां नाटयति) गंधवती तेणहि अहंपि लज्जेमि तस्स पासे विहरिदुं अण्णदो विहरिस्सं ति।249 कथं अपक्रम्य निष्क्रांतागंधवती। षंढः (निर्वर्ण्य) अहो रामणीयकं माधवीवनस्य। इह हि।
अयं खलु विलासिनीमुखसरोजगण्डूषितै-
र्विभाति मधुसीकरैरसमयेपि संभावितः।
मदांधमधुपांगनाजननिपीतकादंबरी-
रसप्रसरधूसरः प्रसवकेसरः केसरः॥१७॥
कहं सिंजअरवाअड्डा घटेंति मे तुलाकोडिकोडिसु उज्जाणदिग्धिआसु कलहंसिआ ता जह एदेण सिज्जंति मंजीरिआ तह एअं उद्देसं णिस्संद्दअण्णा संगच्छेम250 (तथा परिक्रम्य) यावदहं रामचंद्रमासाद्य दूत्यं संपादयामि (विचिंत्य सखेदं) अहवा किति अहं पिअसहिए सोअणिज्जं दसं णिवेदेमि भट्टिणो। सा खु।251
परितबइथणाणं मोहविण्णत्तणाणं
अकअतवगुणाणं तस्स आलिंगणाणं।
अह अ णिअरुआए अप्पबीआरदाए
ण हु मुणई सहीओ अप्पणोसा सहीओ॥१८॥
(उपवनं निर्वर्ण्य) अथवालंएभिः शोभनीयाक्षरैः।
अभ्यग्रपुष्यत्सहकारमेतत्
मंदानिलस्वैरविहारहृद्यम्।
उद्यानमुद्दाममनोभवं नः
करोति साहाय्यकमद्य दूत्ये॥१९॥
(पुरोवलोक्य) मन्ये स एव दाशरथिः परममित्रं गार्ग्यायणः यावदुपसर्पामि।
(ततः प्रविशति विदूषकः)
विदूषकः—(दृष्ट्वा) कहं एका एसा महणिज्जा इत्थिआ252 (उपसृत्य) होदि कुदो मं उवसप्पसि253।
**षंढः—**अज्झ किं वि पुच्छिदुं254।
**विदूषकः—**तेण हि पुच्छेसि ते समीहिअं255
**षंढः—**कहि दे पिअवअस्सो256।
**विदूषकः—**को मे पिअवअस्सो257।
**षंढः—**दासरहि258।
**विदूषकः—**किं तजाणासि259।
**षढः—**कहं सुज्जंहत्थेण ओआरोस260।
**विदूषकः—**किं तेण कज्जं261।
षंढः—किंपितस्स पणयिणि संदेसं आचक्खिउं262।
**विदूषकः—**कावा तस्स पणयिणि263।
**षंढः—**सीओ264।
विदूषकः—(सहर्षं) किं तुमं तस्सा सहि265।
**षंढः—**आम266।
विदूषकः—(सहर्षं) तेणहि विरमेमि इमादो परिब्भमादो267।
**षढः—**किंति खु पुब्वंपरिब्भमेसि268।
**विदूषकः—**तत्तहोदी सिसिरोवआरोवआरणाणि आणेतुं परिब्भमामि तुमं पुण दाणिं तस्स अणिरिसं सिसिरोवआरोवअरणं लहा ता एहि दाणिं सिग्धं वअस्सस्स पासं येव्व गमिस्सम्म269।
**षंढः—**तथा।
(परिक्रामतः)
(ततः प्रविशति रामः)
रामः—(सोत्कंठं) सा खलु।
श्लाघा विभ्रमलक्ष्या शृंगाररसाधिदेवता साक्षात्।
संचारिणी पदाभ्यां मूर्तिमती कैशिकी वृत्तिः॥२०॥
अहो दुर्वारा मानसी प्रवृत्तिः। अद्य हि।
स्पृशति मयि सा रुष्टालीकध्यलीककलंकिते
किमपि रुवति यन्मोहान्ते भयोच्छ्रितवेपथुः।
कमलकलिकाव्रातस्मेरा व्यलोकत सस्पृहं
स्फुरति हृदि तत्किंचित् व्रीडांचितं किलकिंचित्॥२१॥
किंच सुमहदिह वयं विस्मेराःयदुत विषयनुषंगकलुषितं जनं परिवदंतो वयमेव कामुकजनधैर्यामिषघस्मरेण स्मेरण खलीकृता स्मः। अथवा।
स्वच्छांतरात्मापि गुणेन मन्ये
न स्याद्वशेदर्पक शासनस्य।
तस्याः स्तनौ यन्नवकुंकुमाद्रौ
चाश्लिष्य हारोप्यनुरक्त आसीत्॥२२॥
(विचिंत्य) कथं नु भो तद्गुणचिंतादुस्थितं चेतः पर्यवस्थापयामि (बिभाव्य)
यत्र यत्र मया दृष्टा दृष्टिरस्या मृगेक्षणा।
विनोदयेयमात्मानं तं तमुद्देशमुद्दिशन्॥२३॥
(अवलोक्य सकौतुकं)।
अत्राकारणरूढकोपजनितां मूर्छां विषादोत्तरां
तत्कालोपनतेन निःसहतनुः कृच्छ्रान्मया मोचिता।
अग्रेमामथ वीक्ष्य सेर्य्यमकरोदन्नापसर्तुं मनः
सव्याजं नयनांतमत्र विधुरं यांती मयि प्राहिणोत्॥२४॥
(सखेदं) कथमेतदपि नालं विरहखेदापनोदनाय (सविस्मयं)।
चित्रं नः स्फुरतीदं हृदयमनेनापि विरहदहनेन।
कुसुमशरस्यापि शरा निर्मग्ना नैव दह्यंते॥२५॥
(विचिंत्य) क इवात्र समाधिः। वयस्य गार्ग्यायण (पार्श्वतोऽवलोक्य) कथं न संनिहितो वयस्यः अहो मे प्रमादः मयैव हि शिशिरोपचारसज्जीकरणाय प्रेषितो वयस्यः (पुरो विलोक्य) कथमेकया स्त्रिया सहितः प्रहृष्ट इव वयस्यः इहागच्छति। (निरूप्य) नहि नहि येन केन पुरुषेण (विभाव्य) कथमसौ तृतीया प्रकृतिः। कुतः खल्ययमनियुक्तकारी केनापि षंढेन सहागच्छति वैधवेयः।
विदूषकः—(उपसृत्य) जयदु पिअवअस्सो24।
**षंढः—**जयतु स्वामी।
** विदूषकः—**अम्हो270 पुव्वंइत्थिआ विअ मए संजप्पिअं वअस्सेण दाणिं पुरिसो विअ संभासदि।270
** रामः—XXX X**एषते XXXX।
** विदूषकः—**एसो खु तुहसिसिरोवआरो।271
** रामः—**न खलु यथावज्जानामि।
** विदूषकः—**एसो खु तत्तहोदिए सीदाए हुए संजावुक्कंठाए पहिदा दूई।272
** रामः—**(सादरं) आर्य स्वागतं इहोपविश्यतां।
** षंढः—**यथाज्ञापयति स्वामी।
** रामः—**वयस्य उपविश।
** विदूषकः—**जं भवं भण्णाति।273
(सर्वे उपविशंति)
** रामः—**(षंढं प्रति) सखे प्रियावृत्तांतनिवेदनेन विध्यापय विरहवन्हिं।
** षंढः—**शृणोतु स्वामी।
सख्यास्तावद्विरहविधुरं भावमाख्यातुकामः
प्रेमाक्रांतं हृदयमपि ते तादृशं तर्कयामि।
विस्रंभोऽयं मुखरयति मामंग तस्मादिदानी
भागंतव्यं त्वरिततरमित्येव विज्ञापयामि॥२६॥
** विदूषकः—**तहवि कहेहि तत्तहोदीए अवत्थं।274
** रामः—**सखे कथ्यताम्।
** षंढः—**
अंगाकर्णय सा हि मन्मथशरासारैकलक्षीकृता
नो मिथ्याकुरुते वचांसि विरहे वाला कधीनामपि।
किं वा संप्रति कथ्यते बहुतरं यत्सत्यमत्रांतरे
सर्वस्यापि सखीजनस्य भवतो नामैव नामाभवत्॥२७॥
** विदूषकः—** एकग्गचित्तदा275 खु वाअपि तह पवट्टावेदि।275
** षंढः—** न केवलं नाममात्रेण तस्याश्चेतोविपर्यासः। एवं च खल्वसौ सखीं वदति। यथा।
संकल्पैस्तु पुरःस्थितेत XXशस्तंविप्रलब्धासि ते
कांतेनेति शुधा निवारयसि मां प्रत्युत्थितां संप्रति।
याचे त्वामयमंजलिः प्रियसखि प्रत्यागते वल्लभे
साक्षादागतवानसाविति शनैः कर्णे तदा मे वद॥२८॥
** रामः—** अहो संकल्पानां दृढिमा।
** विदूषकः—**उभयं खुविरहिआणं पिअजणसमाअमसोक्खं जणेई संकप्पा णिद्दा अ।276
** षंढः—**कुतः खलु तस्या निद्रागमः। एवं तु पुनर्निद्रार्थिनी सखीं व्याहरति यथा।
निद्रायै प्रयते यथा पुरमहं त्वं चालिपार्श्वे स्थिता
त्वं स्वप्नागतमार्यपुत्रमुचितं विज्ञाय विज्ञापय।
स्वस्ति स्वागतमंग पश्य भवत कांतामिमामीदृशीं-
तद्यावद्भवनादतः परमितस्त्वं धीरमागा इति॥२९॥
** रामः—**अहो संभावनीयमेतन्मौग्ध्यं।
** विदूषकः—** कहं277 अतिमेत्तं किलंता मणोभवेण तत्तहोदी277
** षंढः—**अयि भो रामदेव।
किसलयलीलातरला विसवलयविलासकोमलच्छाया।
सा कुसुमत्राणवाणा सारेण सदा समाविद्धा॥३०॥
** विदूषकः—**(सविस्मयं) वअस्स278 एक्काए बाआए संकिअं पाउडं भाणइ एस वाआकुसलो अदोएव्वखु संलप्पिअदि इत्थिआ पुरिसो अ।278
** रामः**—(सस्मितं) साधूक्तं।
** विदूषकः—**अज्झ279पकिदं चेअ अणुसरिअवु।279
** षंढः—**तथास्तु।
** विदूषकः—** किं वा वण्णिअदि दिट्ठा चेअ खु सा मए वअस्सदसा। जं एसरमणिज्जंपिकोइलकूचिदादि उव्वेअणिज्जं मुणेइ।280
** षंढः—**युज्यत एतत्। इत्थमेव हि सा मन्मथार्ता सखींप्रार्थयते तथा।
मूकाशोकमवेक्ष्य मे प्रियसखी जाता स्वयं सारिका
कर्तव्यं त्विदमेव संप्रति सखि प्राप्तं तवावश्यकम्।
दत्वा विप्रलभस्व दाडिमफलं तं वावदूकं शुकं
तूर्णं चोत्कुरु कोकिलानुपवनात्कोकूयमानानिमान्॥३१॥
संभाव्यते एवैतत्।
** विदूषकः—**ऐआरिसं281 दसं अणुहवतीं तत्तहोदिं किं सिसिरोधआरेण पढिअवट्ठवेइ सहिअणो।281
** षंढः—**एवं सा मुग्धा सज्जीकृतशिशिरोपचारामपि सखीमुपालभते। यथा।
यत्स्वेदांबुचिनिग्रहाय सुतरां सज्जीकृतं मे त्वया
खिद्यत्यद्यहि मां शुपादनिहितं तश्चंद्रकांतस्थलम्।
तत्स्वेदप्रतिकारमस्य कुरु तैः कर्पूरचूर्णैर्मुहुः
शीतैः शीतलिकानिलैपि सखि प्रागेव तद्वीजय॥३२॥
**रामः—**अभिरूपोऽयमुपालंभः।
**विदूषकः—**वअस्स282 एअरिसिं तत्तहोदिं असमंसासेयंतो तुमं खुएत्थ उपालंभ अरुहेसि।282
** षंढः—**न खल्वसाXXXXXX। परंतु प्रशंसितव्यः।(रामंप्रति)
त्वं कल्याणिन् जगति कृतिनामेक एवाग्रगण्यः
संतापानामपि च न भवान् भाजनं तद्विधानाम्।
दिष्ट्या दृष्टं न खलु भवता यत्पुरः शोकसूकं
सख्याचक्रं सततरुदिताकेकरोच्छूनचित्रम्॥३३॥
** रामः—** (सस्मितं) सखि साधु त्वमुपालंभविमुखासि।
** विदूषकः—** एअरिसस्स283 संदावस्स कहं उचसमं करोदुंसहिअणो।283
**षंढः—**स्वयं पुनरसौ सखिकृतां शिशिरक्रियामसहमाना शिशिरसंविधानकमन्यदुपदिशति। यथा।
मामैवंसखि किं पुनः पुनरपि व्यर्थैः कियाकौशलैः
यक्ष्येहं शिशिरोपचारमपरं दत्तावधाना भव।
चंद्रं स्नापय चंद्रकांतसलिलैश्चंद्रातपं चंदन-
क्षोदेन क्षिप वीजयार्द्रकदलीपत्रेण चैत्रानिलान्॥३४॥
** रामः—**अहो अनीदृशं शिशिरकर्म।
** विदूषकः**—हद्धिहद्धि कि अ वरं पडिवज्जह सहि।284
** षंडः—** इत्थं तु सखि पुनरपि लपति। यथा।
वक्त्रं ते प्रतिविंबितं मरकतस्निग्धेम्बरे नो शशी
दंताशुर्विशदैरपांगकिरणैर्मिश्रो न चंद्रातपः।
निःश्वासाः प्रसरंति तापविषमा दीर्घंन मंदानिलाः
कष्टं किं प्रति संप्रति प्रियसखि त्वं विक्लवाक्लाम्यसि॥३५॥
**रामः—**समुचितोयमपलापः। सखिजनायत्तं खलु विरहिणीनां जीवितम्।
**विदूषकः—**कहं285इत्थंभूदंपि अप्पाणं समंसासेतं वअस्संतत्तहोदी समंसासइसिदित्ति विस्ससेदुं।285
**षंढः—**एवमेतत्। (रामं प्रति )
विरतस्त्वयि विश्वासः सख्याः शठ दुःसहोघनिःश्वासः।
न कुतोपि समुच्छ्वासः कथय कथं तावदाश्वासः॥३६॥
विदूषकः— को286 वा तिस्से आसासो जहसिसिरोवआरपि पढिदेसह।286
** षंढः—** न केवलं प्रतिद्वेष्टि इत्थं च सखीमनिच्छंती नियुंक्ते। यथा।
किं मामित्यमुपेक्ष्यसे सखि सुधा निर्व्याजमुत्थीयतां
सद्यो मुद्रय कैरवाणि मधुपान् कुत्रापि विद्रापय।
पाताले शशिनं निधेहि जलधौ ज्योत्स्नां समावर्जय
स्कंधे बंधय गंधसिंधुरपदस्तंभेषु मंदानिलान्॥३७॥
विदूषकः— ईरिसं287 तत्तहोदिं पञ्चकखं पेवरवंतो सहिअण्णो एवं ताए सोअणिज्जो।287
रामः— समसुखदुःखो हि सखीजनः।
** षंढः—**इत्थं खलु तस्याः सख्यः शोचंति। यथा।
अंगेषु प्रतिबिंबितस्तव शशी संख्यामसौ लंघते
ज्योत्स्नेयं तव दंतकुंदमुकुलच्छायाभिरास्रेदिता।
निश्वासैस्तववर्द्धिता सुरभयो वासंतिका वायवः
कष्टं भो कथमित्थमत्रभवतीमाश्वासयामो वयम्॥३८॥
विदूषकः— कहं अवत्थंतरं आरूढा तत्तहोदीए विरहावस्था।288
** षंढः—** (रामं प्रति )।
अत्रालं बहु विप्रलप्य विरहावस्थोचितास्ताः कथाः
कल्याणाभिनिवेशिता कृतमिदंकार्य्यं कृशांग्याः शृणु।
संवृत्तौ कठिनतरौस्तनतटौ कांत्यावशिष्टं वपुः
मध्यः कापि गतः प्रकोष्ठवलयं केयूरतामागतम्॥३९॥
विदूषकः— कहं दुस्सहं से उत्तं।289
**रामः—**अव्यपदेश्यां खलु दशामारोपिता सीता विरहिजनोत्पातधूमकेतुना मकरकेतुना।
षंढः— तच्च पृष्टतो मामुपसृत्य निर्गच्छंत्या प्रियसख्या विनीतया मह्यमुनीतं। सरसहरिचंदनक्षोद लिखितसंदेशवचनं केतकिकुसुमगर्भपत्रं दंतपत्रलीलापदेशेन मया समानीतं (इति कर्णादादायोपनयति)।
रामः— (सौत्सुक्यमादाय वाचयति)
दंसणमेत्तंकुरिओ सल्लावेहिं सदा अ पल्लविओ।
पस्ससुहेण कुसुमिओ अपि णाम फलेज्वई कुसुमसरो॥४०॥
पुनः पुनर्वाचयति (सोत्कंठमाकाशे लक्ष्यं बद्ध्वा) प्रिये जनकपुत्रि
अलमलं परितापपरिश्रमै-
स्तननिपीड्य मनः सुमनस्समम्।
स हि फलेदश्चिरात्कुसुमायुधो
यदि भवेत् सफलं मम जीवितम्॥४१॥
विदूषकः— किं290अवरं एत्थ विलंबिअदि अवलंविदं खु वअस्सेण तत्तहोदिंसमस्सासेदुं।गंतव्वं।290
** षंढः—**(रामं प्रति)।
यद्यपि गमिष्यति भवान् भवदागमनोत्सवप्रबोधाय।
स्पंदितुमपि न क्षमते वामाक्ष्या वाममप्यक्षि॥४२॥
** विदूषकः—**एदंपि उद्दीवणं तत्तहोदो गमणं तराए।291
षंढः—
संख्याः किं बहुना त्वमेव शरणं किं चान्यदाकर्ण्यतां
काले धीर विलंवसे किमपरां सोयं समीपस्तव।
स्त्यायच्चंदनपंकपंकिलबिसव्यामुग्धमुक्कालता-
लीलानिर्भरविभ्रमस्तनभराभोगोपभोगोत्सवः॥४३॥
रामः—(षंढ प्रति) ननु त्वदेकशरणोऽयं जनः तत्कथय किमत्रौपयिकं।
**षंढः—**स्वामिन्नस्यैव माधवीवनस्य दक्षिणतः पुष्पवाटिकामुत्तरेण पाश्चात्येन प्रमदवनपक्षद्वारेण प्रविश्य प्रदोषसमयेव तमालवीथिकया निभृतं भवद्भिश्चंद्रकांताधारागृहमासादनीयम्।
रामः— यदाह भवान्।
विदूषकः— जुत्तं आचक्रिवअं अज्जेण दाणिं पउत्तामज्झण्हसंझा अदिकामदि मोअणवेला ता जाव गच्छेम्मो।292
रामः— यद्भवते रोचते।
** षंढः—** यदाह भवान्।
(सर्वे उत्तिष्ठंति)
षंढः—(निर्वर्ण्य) अहो निर्जडिमतया जर्जरितजगज्जडो जरडातपस्तपनः। अद्य हि।
क्षपितजलदावलेपे नभःस्थले धर्मदीधितौ तपति।
धर्मजलमेव केवलमवशिष्टं निर्जले जगति॥४४॥
रामः—
द्विरेफमिथुनं तं कमलिनीदलानामधः
स्थितं भजति पंकजं रविकरैरसंतापितम्।
तमालतरुपादमूलमधिशेरते बर्हिणः
पिपासुरुपसेवते मृगगणोषि धारागृहम्॥४५॥
(निष्क्रांताः सर्वे )
इति श्रीभट्टगोविंदस्वामिनःसुनुमा हस्तिमल्लेन विरचिते
मैथिलीकल्याण नाम्नि नाटके तृतीयोऽङ्कः॥३॥
—————
चतुर्थोऽङ्कः॥४॥
<MISSING_FIG href=”../books_images/U-IMG-1722489475रपेकॆरपोकर.jpg”/>
(ततः प्रविशति चेटी)
** चेटी—**(निर्वर्ण्य) ^(१)अह्मोहमस्स सुहसेबिदामंदवाअत्थसीअलपदोसाणीलकअपरिरंभस्स पुणरुत्तविवकृ॑तपुष्पाउहसरंभस्स पदोसारंभस्स। दार्णि खु साअंतणधूविज्जंतकालाअरुधूवकसणा कसणकज्जलाधिवासिंदे विअ कव्वुरे अंबरे उदअराअकह्यायस्वोवसम्माणिदा पडिवालेदि रोहिणीपडिंतिमिरच्छढच्छणीलकोसेअओगुंठिएण णातिपरिफुडलक्खिज्जंततारागणमोत्तहारा पुव्वदिसा। ( विलोक्य) ^(२)एसो अ दाणिं उदिओ निरंतरुप्फुल्लरत्तकं-
_______________________________________________________________
१ महो अमुष्य सुखसेविता मंदवाता शीतलप्रदोषानिलकृतपरिरंभस्य पुनरुक्तविवृद्धपुष्पायुधसंरंभस्य प्रदोषारंभस्येदानीं खलु सायंतनधूमायमानकालागुरुधूपकृष्ण कृष्णकज्जलाधिवासिते इव कर्बुरेम्बरे उदयरागकाश्मीरक्षोदसंमानिता प्रतिपालयति रोहिणीपतिं तिमिरच्छटाच्छनीलकौशेयावगुंठितेन नातिपारस्फुटलक्ष्यतारागणमुक्तहारा पूर्वदि। २. एष चेदानीमृदितो निरंतराकुलरककं कलि- कुसुमस्तवकविश्रमो विरजिनथैयेनिः शैल निर्मोट नखंडाशनिसन्निभः विघटितमिथुन- मानप्रहजनितरोष रंजितवचनामिव मन्मथस्य सञ्जीकृत इवाधिक बाससौगंधिकमालाबंध ज्योत्स्नामधुरसपानशढानां चकोर मिथुनानां प्रतिष्ठितनि प्रमुखको तिलब्धशमातिशय इव मणिदर्पणरीत्या अमृतमथनरभ्रसभंगोत्थित इव मंदरगिरिशिखर स्थितसीकर विष्णुच कामणिकिरणवासनाद्रगुणशोणिमेव शेषफणिफणामंडलं। स्तर्नाशुकापवारित एक स्तन्ययाः इतर इव कुंकुमपंकपकिलो स्तनःज्योत्स्नायध्वः जलनिधितरंगविक्षिप्त इव प्रवालप्रभा पाटलितः शेखः दिनकरविरद्दपरितापितायाः स्तनांगरागाणित इव शिशिरोपचारकमलिनीपत्र गगन लक्ष्म्याः हरिचंदन तिलकमिव निपथगिरिगजवरस्य कीलाकंदुक इव निशीथिनीकन्यकाया अनंगविजय डिडिमपुष्कर- प्रवृसबर्तुलः पद्मनाभनाभिसरः प्ररूढभिव हेमपुष्करं कामुक जनमनोरथपरिवर्तनैकस्यागभूतः मकरध्वजचिजयरर्थाभूतः सिंधूरित इव ऐरावणकुंभःलावण्यरसविधानरत्न- कुंभ अंभोजिनीशत्रुः अथ हि कमलोदर गृहाभ्यंतरनिर्गता मुक्तिकलहंस नूपुरवा विष्कतिसारसरसना सीता प्रतिनवसमागमरसरस्रिका अभिसारयति तत्काल समुद्रसंत कुमुदाकरं लक्ष्मी।
केलिकुसुमथवअविब्भमो विरहिजणधीरसेलणिम्मोडणखंडासणिसणिहो। विहडअमिहुणमाण-गहजणिदरोसरंजिअवअणं विअ मम्महस्स सज्जीकओविअ अधिवाससोगंधिअमालबंधो ज्योण्हामहुरसपाणसुडाणं चओरमिहुणाणं पडिट्ठिअणिअमुहकंतिलद्धसोहादिसओ विअ मणिदपणो राईए अमअमहणरभसभंगुट्टिओ विअ मंदरगिरिसिहरट्रिओसीअरोबिहुचूडामणिकिरणवासणदि उणसोणिमं विअ सेसफणिफणामंबलं धणंसुओबारिकत्याणाए इदरो विअ कुंकुमपंकपंकिलोथणो जोहणावहुए जलणिहितरंग वि- क्खितो विअ पवालपहापाइलिओ संखवो दिणअरविरहपरिदाविदाएं थणंविअ सिसिरोवआरकम लिणिपत्तो गअणलच्छीए हरिचंदणतिलअं विश णिसहगिरिगअवरस्स। किल्लाकंदुओ विञ णिसिंहिकण्णअए अणंगविजअडिंडिमपोक्खरपवट्टबटुलो पदुमणाहणाहिसर परूढं विअ हेमपोक्खरं कामुअजणमणोरहपरिचट्टणेकर हंगभूदो मअरन्छ अविजहरहंगभूझे सिंधूरिओ विअ एरावणकुंभो। लावण्णरसणिहाणरअणकुंभो अंभोडणीस। अज्ज हिं कमलोअरघरब्भंतरणिग्गया मुद्दिअकलहंसणेजर रवा विसंतसारसरसणा रसीओ परिणवसमा अमरसरसिआ अभिसारे तकालसमुच्छसंतं कुमुदाअरं लच्छ (विचिंत्य) एअ293 च सव्वं मे उपआरअं सिसिरोअवआरकिरि- आए। जाव सज्जीकअसिसिरोवआरं सज्जिअं चंदअंतदारघरअं णिवेदेमि भट्टदारिआए कहिं खु दाणि सा वट्टह।
( ततः प्रविशत्यपरा चेटी )
**चेटी—**आणत्तहि294 भट्टिदारिआए सीदाए जह हंजे सुउमारिए चलवई खु में दाणिं सीसवेअणा को कालो अ चंडअंतदारादरअं सज्जीकाउं
गआए पिअसंहिए कोमुदीआए। ता तुए सिग्धंआणिअ आअंतव्वंति जाव तहिं गच्छेमि। (परिक्रामति )
प्रथमा—(विलोक्य) का295उण एसा इदो अभिवट्टर (निरूप्य) कहं296पिअसहि सुहुमारिआ।
** द्वितीया**—(दृष्ट्वा) कहं297पिअसहि कौमुदीआ।
प्रथमा—सहि298 कुदो आअच्छसि।
द्वितीया—हला299 कोमुवीर अहं खु इदो आअच्छाए तुमंचिराअसित्ति दाणिं दुभट्टदारिआए अम्मदो णिउत्ता। किं तुए सज्जीकअन्तं धाराघरअं।
प्रथमा— आम।300।”)
** द्वितीया**—हला301 चिट्ठदुएअं को णु एसो भट्टिदरिआए संदाओ जो सिसिरोवआरेहिंपि पञ्चहं वद्धेदि।
प्रथमा—रहस्से302 खु दाव अप्पाधि संकिदव्वो।
द्वितीया—एव्वं303 एवं तहवि रहस्सेति भणति। अहमेत्तं मं ऊसिएसि।
प्रथमा—कहं304 वा पिअसाहिए रहस्संरक्खेमि सुणाहि दाव।
द्वितीया—अवहिदह्मि।305
प्रथमा—हजे306 एवं ख अहं तुमं विअ पुणो णिव्बंधिअ पुच्छंति पिअसहीए मणिदम्हि कलावईए जह सहि कोमुदीए पुब्वं खुवसंतदोठारोहणदिणे कामदेवधरब्भंतेरदिट्ठोभट्टदारिआए भट्टा रामोपुणो अ माह- विवणे अप्पम्हि उक्कंठंतो दिट्ठो सो एव्व दाणिं भट्टिदारिआए संदावहउत्ति।
द्वितीया—हला307 जुंजइ।
प्रथमा—हला308 किं दाणिं अम्हे भट्टिदारिआपासं गच्छेमो आडु चंदअंतधाराघर एव पडिवालेमो ।
द्वितीया—एव्वं309खु अहं पिअसहिए भणिदह्मिविणीदाए जह साहि सुउमारिए बहुजणपलांवण सहइ सीसवेअणाविरेअदो भट्टिदारिआ ता सहिअणांपि सव्वं पमअवणदुवारे एव्व णिसिहेहित्ति ।
**प्रथमा—**तेण310ेहि तुमं तं णिओअं अणुचिट्ठ, अहं पि सज्जीकअ धाराघरअं भट्टिदारिआए णिवेदेमि।
द्वितीया—सहि311 तह।
(निष्कांते )
(ततः प्रविशति सीता विनीता चेटी च। )
**सीता—**हंजे312 कोमुदीए किं साहु सज्जिअं चंदअंतधाराखरअं।
**चेटी—**किं313 ण सज्जीकरेइ चंदअंतधाराघरअं कोमुदीआ।
**विनीता—**हला314 साहु भणिअं जाव तुमं गदुअ जह भट्टिदारिआ सीसदेअणं सुणिअ ण किलम्मइभट्टिणि वसुहा जहि तहि वा विहारावदेसणिवेदणेण अणिब्विण्णं करेहि।
**चेटी—**जं315 पिअसहि भणादि। (निष्क्रांता)
विनीता— इद316ोइदो भर्तृदारिका।
(उभे परिक्रामतः)
**विनीता—[]317**एअ317 पमदवणं जाव पविसम्ह।
(उभे प्रविशतः)
सीता— (विचिंत्य) पिअसहि318 किं इमो अम्हाणं उज्जोवी कदाअमोहो आयु हिअअरस एस मोहो।
**विनीता—**भट्टदारिअं319 एवं णिउज्जतो मअणो भट्टिणं तुखिं तुह पाहुडिओ कुणइ।
सीता— सहि320 दुस्सहं खु तवह चंदादवो जाव एअं परिहरतिअ इमाए
पच्छाआए बउलवालिआए च्छाहिं गच्छेमि (तथा परिक्रम्य) सहि321 सो एव्ववरं चंद्रादओ एत्थ खु उवरि णिवडंतेहिं कुसुमत्राणविजयवाणेहिं विज्झोद वउलकुसुमेहिं मे सरीरं।
विनीता—(अग्रतो निर्दिश्य) एअं322 चंदअंतधाराघरअं जाव पविसम्म
**सीता—**सहि तह311।
(प्रविशतः)
**विनीता—**भट्टिदारिए323 एअं सव्वदो सज्जीकअसिसिरोवआरं णिस्तंदर्जतधारासहंसं चंदअंतधाराघरअं एसा अ एत्थ तमालपल्लवसज्जा।जावइदं एव्व तुह संताओं अवणिज्जदु।
**सीता—**जं पिअसहि315 भणादि। (उपविश्य) हंजे324 विणीदे एताइ तमालदलाइ दलंतीव हिअअं उम्हाअताए।
**विनीता—**तेण325 हि इमाइ चंदणपल्लवरसेण सिंचेमि। (तथा करोति)
**सीता—**हजे326 णिपीडिदं विअ चंदणपल्लवेहिं सह मे हिअअं।
**विनीता—**जाव327 इमाए गंधणीहारेण सिंदाए जलंदाए वीजेमि। (तथा करोति)
सीता— हला328 गंधणीहारसेअदो सिण्णंमें सरीरं।
विनीता—(स्पृष्ट्वा) कहं329एसो गंधणीहारो से दुब्भेदो परिणदो जाव इमेहिं कप्पूरचुण्णेहिं पडीकरेमि। (तथा करोति)।
सीता—हंज330चुण्णेदि मेहिअअं कप्पूरचुण्णं।
विनीता—तेण331 हि इमिणा मोत्तापलक्खोदसल्लित्थेण केलिपत्तेण बीजामि (तथा करोति)
सीता—हला332 एअं मोत्तिअखोदधवलिअधारं केलिपत्तं असिपत्तं विअ अणंगस्स उल्लसंतं पेक्खंति माअदि मेआदा ता जाव तंअण्णदो विक्खिव अहव मा खु तं मुंच एसो खु जंताणिदृतचंद्रअंतणीसंदमंद- हुंकारमुच्छिदो मं दाणिं मंदाणिलहदवो जाव तेण कअलीपत्तेण एअं मलआणिलंपडिवीजंती अण्णदो ओसरेहि।
विनीता—कहं333एस णिवारिज्जह सदागई जावइमिणा चंदअंतणिस्संदपलाविदेण कल्लहारदलेण तुबं बीजेमि। (तथा करोति)
**सीता—**हंज334चंद अंतणिस्संदावदेसेण णिस्संदहि मे हिअअं जाव कम- लिणीपत्ताह समप्र्पति पडिवच्छावेदि।
विनीता—(तथाकुर्वती) कहं335मुणालिणीपत्ताइ अधिगमिअ अंगहत्थोवि मेउम्महाविज्जई। जावसंदावसुक्खपेरंताइसिंचेमि मुणालिणीपताइ ए-आदलरसेण। अहव ताइ सूखाइ मुणालिणीपत्ताइ परिचइअ चंद्रकलाकोमलाइ मुणालाई इभिए अंसेसुसमप्पेमि (तथाकरोति)
**सीता—**हला336 एआइ विसकंदाइसच्चै विसकंदाइ।
विनीता—किं दाणिं337 करेमि होदुजाव इमाए अंगेसु भरिआह एआइ सकुसुमाइ उप्पलकुसुमकंडाइ समप्पेमि। (तथा करोति)
सीता—हंजे338 एदे खु णं उप्पलकुसुमकंदा कुसुमश्रणस्स कंदा ता किं तुए करिअदि।
विनीता—कहं339 विदेहोवि सअं दxहुमम्महो दह अअं विदेहपुत्तिं संचितं) हं340किं करिस्सं होदु जाव एदाइ मोत्तिअसराह संतप्पेंती लघुकरेमि इमाए संदावं। (तथा करोति)।
सीता—हला341 विणीदे एदेखु सरा सरा एव्वमम्महस्स।
विनीता—भट्टदारिए342 पेक्ख दाव देक्खामहुरं कौमुदी गअणगंगंउडुवेणविअ अलंकरिज्जंतं उडुवेण।
**सीता—**हला343 इमस्सि अवारे चंदिकासमुद्दे मज्जतं अच्छतंअलद्धुच्छासं अप्पाणं धारेदुंपारेमि।
**विनीता—**हद्धि344 हद्धि।
** सीता—** सहि345 सव्वंवि सहिदुं सक्कत एस पुण अणण्णसाहारणं खु मोहेइ मं चंद्रमोहो।
विनीता—(सखेदं) कहं346 हरिणी वेधेण विअ चकोरिए चंडादवेण विअ चंदादवेण संधुक्खिदो इमाए संदावो।
सीता—(संतापमभिनीय) संदावस्स347तवति पडिआरो जहखु कोमुदीएव्व सहि भण्णए एत्थ अण्णएपडिआरो कोमुदी एव।
विनीता—भट्टिदारिए348 दक्ख एदं तु खु गअणगंमाए सुरदंतिदंतवलिहाघादेण अंताणुभिण्णा दीग्गवहं विअविभाइ पवट्टिकामुदीणिम्मलजलपवाहविक्खित्तणखतवुव्वुजालं अमअमऊखविंबं।
सीता—हला349 एअं चंदहदअं णिज्झाअंताएचंदअंतोवलं बिअ मे लोअणजुअल होलजलाविलं।
**विनीता—**तेण350 हि मुणालहारपत्तबंधं जलपेडलं अच्छिसुकपोलेसु थणेसु अ समेप्पति अदिवाहेहि परिदावं (उपनयति)।
** सीता—**(आदाय तथाक्कृत्वा) हलादाणिं खु मे अहिअं उग्गलति अच्छिणीवाहं वाहं च।351
** विनीता—**हद्धि352।
**सीता—**सहि353 तं करेहि मे सीसवेअण्णापडिकरिअं।353
**विनीता—**तेण हि चंदणललाडिअं रचयेमि।354 (तथा करोति)।
**सीता—**सहि सअं विअ सीसवेअणा एस गोसीसलेओ।355
**विनीता—**भट्टिदारिए एअं विसतंतुदुउलवासिणीं मुणालाभरणदारिणीं दिण्णचंदणचच्चकीं केसरकि अत्थासअं मालदिमालधारिणीं आमुक्कमल्लिआमउलभारं णोमालिआमालिआमेहलं चंदअंतपुत्तिअंआलिंगती संदावं ते उद्धणाहि।356
**सीता—**हला सुटु भणिअं357 (तथाकृत्वा) सहि चंदअंतपुत्तिए किं मइत्तोवि अहिअदरं तुइ णिद्दओ एस मम्महहदवो। जेण तुवं वि एवं णाम परिकरक्षिसिरोवआरा एआरिस संदावं उव्वहेसि।358
**विनीता—**भट्टिदारिए सिसिरोवआरो खुण दे सिसिरोवआरो मण्णे सिसिरोवआरमोअणं व दाणि सिसिरोवआरोति।359
** सीता—**हंजे360 किं करेमि सव्वदोवलग्गं मअणसरासरोसरधि विअ खु मे आदा कुसुमाउहस्स।360
**विनीता—**को361 अण्णो एसो आदा सरहि एव्व (इत्यर्धोक्ते)361
सीता— (सहर्षं) कहि कहिंअज्जउत्तो।362
विनीता— भट्टदारिए363 एवं खु अहं वत्तुकामोको अण्णो एसो आदा सरहि एव्वदे आउंस्वणिमग्गपुष्फाउहवाणसहस्सोत्ति।363
सीता—हंत364कुदो मे तारिसा भाअदेआ जेण दाणिं अज्जउत्तो सअं आअदुअ अच्छीणं मे ऊसवं देह।364
विनीता—भट्टिदारिए365 मा खु तह संतप्पिअ अवस्सं खु पिअसहि कलावईण दे अण्णहाभाणाइ त्ताएत्थ पविट्ठ एव्व जाणिहि भट्टिणिआ वइदो मुहुत्तअं पडिवालेम।366
(ततः प्रविशति रामो विदूषकश्च)
रामः—
तप्तव्योमा तपनकिरणैः वासरस्तु प्रकामं
संतापानां भवतु विषयो दुःसहानाममीषाम।
सः स्वात्तस्यां निशि च शशिनो ज्योत्स्नया शीतलायां
चित्रं जातो द्विगुणितगुणो हंत संताप एषः॥१॥
**विदूषकः—**भो वअस्स पेक्ख पेक्ख मअरुद्धअविजअरज्जाहिसेअसलिलप्पवाहस्स विअ सोहग्गं जोहणापूरस्स।367
रामः—(निर्वर्ण्य) हंत शोचनीयाः खलु विरहिणः। ते हि
प्रसर्पेतीं ज्योत्स्नां मदनविजयारंभरभसा
प्रमर्दोत्थां धूलिं किल वियति पश्यंति विधुराः।
किमन्यं मन्यंते मलयगिरिवांताश्च पवनान्
सकोपं प्रोन्मुक्तान्यममहिषशूत्कारमरुतः॥२॥
**विदूषकः—**वअस्स किं ण णिव्वापेदि तुह हिअअं एसा णीहारविंदुकोमला कंठावलंबिणी हारलदा।368
**रामः—**वयस्य मैवं पश्य।
न सोऽयं शीतांशुर्जरठतपतप्तोरविरसौ
न चैषा ज्योत्स्नाया शिखि सुहृदसावातपशिखा।
न चैते द्वारा यत्तरणिमणिमाला स्फुटमिमा
न चेदंगान्येयंप्रियसख तपेयुः कथमिव॥३॥
**विदूषकः—**हंतकहं एसो वड्डेदि संदावं वअस्सस्स वह्मबंधुकुमुदिणीबंधू।369
**रामः—**क्यस्य आदेशय मार्गंप्रमदवनस्य।
**विदूषकः—**एअं उत्तरदो माहविवणं एसा अ इमस्स दक्खिणदो पुप्फबाढिआ जाव इमाणं अंतरेण गच्छम्ह ता इदो पिअवअस्सो।370
(परिक्रामतः)
रामः—(मदनावस्थां नाटयन्)।
निःशेषानथ यूयं पिवत विनिपतच्चंद्रपादाश्चकोरा
हेराहो व्यात्तवक्रः सकलमपि गिल त्वं सुधासूतिर्विदम्।
वातानाचूषतैनान्मलयजफणिनश्चंदनामोक्सांद्रान
गृण्हीत ज्या द्विरेफा मधुपृषितमुचकौसुमान् कामबाणान्॥४॥
(विचिंत्य) अलमनया केवलमशोधितमूलया बहिर्जल्पलीलया। तदिदानीं मन्मथमेव मूलमनुशिष्मः। (आकाशे लक्ष्यं बद्धा )
मनसिज विषयांस्तांस्त्वं मनस्विप्रणिधान
जहिहि न हि गुणस्ते तेषु संसर्ग एषः।
न चरितमथवाहो तेऽन्यथा कर्तुमर्ह
भवति व मधुपानां यद्गणस्ते गुणाय॥५॥
**विदूषकः—**वअस्स एदं पमदवणपच्छिमदुवारअं।371
** रामः—**यावत्प्रविशावः।
( प्रविशतः )
**विदूषकः—**वंअस्स णिव्विसेहि एवं जोण्हापूरतरंगं मं विअ सुहसिसिरपरस्संपओसाणिलं372
रामः—
तामिस्र एष पवनो विरहिजनोत्पातपांशुवृष्टिरिव।
उत्फुल्लकैरवरजो धूसरितस्सत्त्वमपहरति॥ ६॥
**विदूषकः—**वअस्स एसा खु सा तमालवीहिआ।373
रामः—(निर्वर्ण्य) वयस्य पश्य।
प्रच्छायरम्यासु तमालवास-
यष्टिष्वसौ वर्हिगणः शयानः।
ज्योत्स्नालवैः पल्लवरंध्रदृष्टै-
र्विभाव्यते मेचकबर्हभारः॥७॥
विदूषकः—( निर्दिश्य ) वअस्स एअं खु तं परूढकअलिखभतारेणरमणिज्जं धाराधरेअदुवारअं।374
रामः—( निर्वर्ण्य सस्पृहं )
शीतः कपोलार्पणदानयोग्य-
श्चंद्रातपस्वच्छदुकूलवासी
प्रियोरुसाम्याद्विददाति रंभा-
स्तंभो ममासौ परिरंभवांछाम्॥८॥
**विदूषकः—**माँ तुवं उबमामेत्ते उक्कंठेहि उवमेअं चेअ दाणि लहसि।375
रामः— तथास्तु।
**विदूषकः—**वअस्स दक्ख दाव जोहणीसवण्णं परिसाणुमेअं चंदअंतणिस्संवपादं।376
रामः—वयस्य सम्यगुपलक्षितं। तथाहि।
चंद्रोपलानां शुचिचंद्रकांता
निर्याणधारा गृहहर्म्यपृष्टात्।
निर्याणधारा स्रवती प्रणाल्या
सुरस्रवंतीव हिमाचलाग्रात्॥९॥
विदूषकः— अहो से सिरिअं।377
**रामः—**वयस्य यावत्प्रविशावः।
विदूषकः—इदोदाव।378
( उभौ प्रविशतः )
विदूषकः—( दृष्ट्वा) वअस्स एसा खु अन्तहोदि सीदा विणीदासहिदा तुमं पडिवालेदि।379
रामः—( विलोक्य निर्वर्ण्य च )।
समन्मथा मत्प्रतिपालनोत्सुका
मनोरथानां कुरुते परांधृतिम्।
विवेष्टयंती परितापितां तनुं
तनूदरीयं तनुते शुधं च मे॥१०॥
**विदूषकः—**पिअवअस्स एहि उवसप्पम्म।380
**रामः—**वयस्य ममेदानीं तवसंख्याः सीतायाः मन्निबंधनं विविक्तसंजल्पं श्रोतुं च सकौतुकं चेतः।
**विदूषकः—**तेणहि एत्थ एव्व मुहुत्तअं चिट्ठेमो।381
**रामः—**सम्यगाह भवान्।
( उभौतथा कुरुतः )
सीता—( सनिर्वेदं ) हला विणीदे किं इमिणा अलद्धफलेण पडिवालणेण।382
**विनीता—**भट्टिदारिए मा तुषं सोइअ जह तुमं माहविवणे समस्सा-383
सिदा तक्कालसण्णिहिदेण भट्टिणा रामेण तह दाणिंवि सो तुमं सम स्सासइस्सिदि।
**सीता—**कोवा अदोवि परं समस्सासणकालो।384
** विनीता—**( आत्मगतं ) जाव भट्टाआअच्छेदिदाव भट्टिदारिअं अणुऊलेण कीलवदेसेण विणूदेमि385 (प्रकाशं) भट्टिदारिए जाव माहविवणउनंतं अमिणअंतीए कंपि वेलं अदिवाहेमो।386
**सीता—**हला साहु भणिअं।387
**विनीता—**तेणेहि अहं भट्टा रामोहोमि तुमं पुण भट्टिदारिआ चेअ होहि।388
**सीता—**हला जुत्तं आचक्खिअं।389
**विदूषकः—**कहंपुप्फगंधिआ पउत्ता।390
**रामः—**वयस्य निभृतमवलोकयामः।
विनीता—(रामभूमिकांगृहीत्वा मदनावस्थामभिनीय) अहो मकरकेतनस्य रणरणिकशालिता।391
**कुसुमवृष्टिरसौ कुसुमेषुना
कुसुमचापधरेण निपातिता
विजयिनः पुनरस्य निपातिता
कुसुमवृष्टिरभूज्जयशंसिनी॥११॥ **
** विदूषकः—**कहं इमाए कुंभदासीए जोरिओ वअस्सस्स सिणिद्धंधीरो सरो उदारंच सत्तं392।
**रामः—**संगीतकविदग्धा हि प्रायो राजकुलपरिचिता स्त्रियः।
** सीता—**(आकाशे) हला विणीदे अविदिअभावे तस्सिं जणे कहंण लज्जेदि मे उक्कंठा393। किं भणासि मा संतप्पिअ तंपि तुमं विअ उक्कंठं तं चेअ दक्खिस्सिस्सिति।
कृतकरामः—(आकाशे) वयस्य मार्ग्यायण किं व्रवीषि कियद्वातत्कालः प्रतिपालयितव्यः यस्मिन्नेव संतापः शाम्यति इति (सस्मितं) वयस्य न दुर्जातं व्रूयतां। शरदुत्पुको न तृप्यति कलहंसः शरदि विप्रकृष्टायां सीतार्थिनोपि ननु मे न धृतिस्तस्यामदृष्टायां।
** सीता—**हलाविणीदे किं भण्णसि दक्ख दाव एसो खु पुरदो मट्टा रामोत्तितेण हि कियट्ठंमे चक्खू394। (दृष्ट्वा) अम्हो अज्जउत्तो395।
कृतकरामः—(आकाशे) वयस्यकिं ब्रवीषि। इदमत्राश्चर्यं यदपहस्तिताखिलशिशिरोपचारस्य भवतस्तत्रभवति शैशिर्यमापादयतीति (सनिर्वेदं तूष्णीमास्ते )।
** सीता—**(आकाशे) हला किं भणासि किं दाणिं तुस्ससित्ति।396
** कृतकरामः—**(आकाशे) वयस्य किं ब्रवीषि अपृष्टेनापि त्वया सीतां प्रजल्पतः कुतः खलु पृष्टेनापि न सीताप्रसंगे दीयते प्रत्युक्तिरिति ( सनिर्वेदं ) किं तथा।
** सीता—**( श्रुत्वा सखेदमिव) हंत397 किं ताए इति मं विहत्थेइ। हंजे किं दाणि एत्थ र्थायदि ता गच्छम्ह अहवकहिं दाणि मए गच्छिअदि। ( मोहं नाटयति )।
** कृतकरामः–—**( कर्णं दत्वा ) कथं स्त्रीजनसमाश्वासशब्दः।
** रामः—**( सहसोपसृत्य संज्ञया विनीतां विनिवार्य ) प्रिये समाश्वसिहिसमाश्वसिहि।
** सीता—**( समाश्वास्य दृष्ट्वा च सहर्षं सलज्जं चात्मगतं ) कहंसअं चेअपरमत्थदो अज्जउत्तो।398 (गंतुमिच्छति)।
** रामः—**( हस्ते गृहीत्वा ) अयि मुग्धे।
**कुतव्यलीके प्रतिकूलया गिरा
मयि त्वया कोपरसोनुभावितः।
विकुंचितं भ्रुलतिकं तदीक्षणं
क्षिप स्मरस्येदमपश्चिमं शरम्॥ १२ ॥ **
** विनीता—**( विलोक्य) कहिं एअंबालचंदणतरुमूलालबालपरिपूरितवप्पं विलंघेइचंदअंतदवपूरो जाव अण्णदो एअं पवट्टेमि।399
** विदूषकः—**होदि सिग्धं संविहेअं खु तं जाव वालासोअमूले पवट्टेदव्वंअहं पिदे सहाओ होमि।
( निष्क्रान्ता विनीता विदूषकश्च)
**सीता—**कहं पिअसहिवि एक्काइणिं मं परिच्चइअ गआ।400
** रामः—**नन्वयमहं ते परिजननिर्विशेषः संनिहितः।
** सीता—**( लज्जां नाटयति, अन्यतो गंतुमिच्छति )
** रामः—**हस्ते गृहीत्वा निवारयन्।
चिरस्य कालस्य समागतं जने
तवाद्य XXX XXXXXXXXX।
प्रसिद्धयुक्तं विनिगूहनं न ते
सुनिर्दयं चंडि कुरूपगूहनम्॥ १३ ॥
** सीता—**( अवस्थोचितं नाटयति ) ।
** रामः—**( आत्मगतं ) असाधारणरमणीयं खलु नववधूविहृतं। तथाहि।
कथमपि परिरठधा यास्यतौ पश्यतो मे
मयि पुनरधरोष्ठं पातुकामे प्रसह्य।
सकरुणमुपलाल्यं निर्दयं चाशु पेयं
प्रथयति मुखमंतर्वाष्पजिह्माकुलाक्षम्॥ १४ ॥
** विनीता विदूषकश्च—**( सत्वरं प्रविश्योपसृत्य च ) आअच्छइ401 एत्थएक्का एत्थिआ ता किं करिदुं।401
** विनीता—**भट्टा402तुम्हेहि एत्थअंतरिदेहि होदव्वं।402
** रामः—**यथाह भवती।
( तथा तिष्ठतः )
( प्रविश्य )
** चेटी—**जेदु403भट्टिदारिआ403
** सीता—**सहि404 कोमुदिए कुदोआअच्छसि।404
** चेटी—**भट्टिदारिए405 एवं खु भट्टिणिए वसुहाए अहं आणत्ता जह होदि कोमुदीए को कालो पमदवणे विहारत्थं गआए वच्छाए सीदाए सीसिंवअएदि ण Xअंपरिणायो ता तुमं XX गदुअतं इद आणोहित्ति ताजहभट्टिणि ण किलम्महतह भट्टिदारिआ सिग्धं गंतव्वं।
** सीता—**हंसंकडे पडिअम्हि।406
** विनीता—**भट्टदारिए तेण ही सिग्धं गंतव्वं।407
** सीता—**( आत्मगतं ) हं अविणीदा खु विणीदा408 ( प्रकाशं )जं पिअसहि भणादि।315
** चेटी—**दोइदो भट्टिदारिआ।316
( परिक्रम्य निष्क्रांता सीता विनीता चेटी च)
** रामः—**( सोत्कंठं ) अहो दुस्सहता प्रियाविरहस्य। अग्र हि।
अच्छिन्नपंक्तिशरसंधिकृताभिसंधि
पुष्पायुधस्य परितोपि विनिःपतंति।
युंजत्फलानि विरहार्तविपत्फलानि
कुर्वन्त्यलं सुमनसो विमनस्कतांनः॥ १५ ॥
** विदूषकः—**वअस्स समासण्णोदिअहारंभोअज्ज खु वारुणिदिसं वो-409
लंवतो चओरवारणाणं दिअरी कसणवण्णां जोहणं मुंचंतो पश्चिमजलणिहिबेलाविहाररसिओ बिअवोलविज्जइ सीअंसु।
**रामः—**कथं विभातप्राया विभावरी। संप्रति हि।
XXXXXXXXXXXXXXX
मंदx विभिदन्नरविंदकोशान्।
आयाति वायुर्दिवसोत्सुकाना-
माश्वासनः कोककुटुंबिनीनाम्॥ १६ ॥
** विदूषकः—**वअस्स जाववअंपि गच्छेमो।410
** रामः—**यथा भवानाह ( परिक्रामन् )
भवत भवत सर्वे निर्वृताश्चक्रवाका
दिवसकरकराग्रैस्ता निरस्ता तमिस्राः।
भजत सह बधूभिः स्वैरसंभोगयोग्यान्
विकचदलकरंडानाशु तान् पद्मखंडान्॥ १७ ॥
** विदूषकः—**इदो पिअवअस्सो।411
(निष्कांतौ)
इति श्रीगोंविदस्वामिनः सूनुना हस्तिमल्लेन विरचिते मैथिलीकल्याणनाटके चतुर्थोऽङ्कः॥ ४ ॥
पंचमोऽङ्कः॥ ५ ॥
<MISSING_FIG href=”../books_images/U-IMG-1722405393k.jpg”/>
( ततः प्रविशति कंचुकी )
** कंचुकी—**( परिक्रम्य आत्मानं निर्वर्ण्य च ) अहो वार्धकंनाम गुणाय संपद्यते। अहं हि—
वैषम्यदोषमवनौ परिहृत्य यत्ना-
द्गच्छन् क्रमादविषमे पथि सावधानः।
दण्डेन चोचितनिदेशनिवेशितेन
बिभ्रत स्थितिं धरणिपालधुरं दधामि॥ १ ॥
अथवा का वा तत्र गुणगृह्यता श्लाघ्या। तथाहि।
रचयति जरा वाचं कंठंग्रहादिव गद्गदां
स्खलति चरणद्वंद्वं मूर्ध्नाप्यहस्खलतः खलु।
गलयति च वयस्तच्चागं मे विधून्वदिव स्वयं
चलति पलितं पाप्मा प्रागर्जितः फलितच्छलात्॥ २ ॥
( सस्मितं ) इयं पुनरपहता स्म दौर्जित्यसर्वस्वा जरत्कंचुकमात्रधारणं च न क्षमते तरुणजनसंमोहिनी जरापण्यांगना। ( निर्वण्य)
आगुल्फलंबाकुलवारवाणो
विश्लिष्टनिर्मोक इवास्मि भोगी।
आश्लिष्टसर्वांग हवान्वहं हि
सुविग्रहिण्या च जरागृहिण्या॥ ३ ॥
( विचिंत्य ) आस्तां तावदियमसंस्तुतकथा आज्ञापितोस्मि महाराजजनकेन। यथा—आर्य गुरुदत्त यत्तन्नभश्वरपरिपालितं दिव्यधनुर्यो हि नाम तदधिज्यं कुर्यादधिवलस्ततस्तेनैव वीर्यशुल्केन तस्मै वत्सा सीता प्रदातव्या।आहूताश्च तदर्थमेव सर्वेपि राजपुत्राः। तदिदानी मद्वचनादमात्य-
संघं ब्रूहि। यथा अय खलु वत्सायाः सीतायाः परिणयनसमयः अद्यैव च राज्ञां धनुर्गुणारोपणपरीक्षणं। तत्सज्जीक्रियतां सभाभूमिः प्रवर्त्यतां च राज्ञां सभाभूमिसमासादनाय समुद्घोषणा, नियोज्यतां च धनुरानयनायकिंकराः। इत्थं चादिश्यता भवतापि पुनस्तत्रैव निर्वर्त्य वस्तुनि व्यापृतात्मना भवितव्यमिति। अनुष्ठितश्चमया स्वामिनो निदेशः।अद्य हि यथाहं संपादितमंगलकर्मतयागृहीतप्रतिकर्मेव कार्मुककर्मठकृत्यादेशभूमिः सभाभूमिः। तथाहि।
एकांतवलद्रविणं प्रसाधिता सुलभयैव नोत्सेकम्।
प्रतिपालयतीXXXXX XXXXXभूमि ॐ ॥
आनीतं च नभश्वरारक्षितैस्ताद्दिव्यं धनुः। अद्य हि।
मध्यप्रतिष्ठापितदीर्घचाप—
दंडासभाभूमिरसौ विभर्ति।
अंतः समुज्जृंभितशेषभोग—
भीमस्य शोभां भुजगालयस्य॥ ५ ॥
( नेपथ्ये )
भो भो प्रौढवलावलेपगुरुताकंडूलवाह्वर्गला
राजानो नवयौवनोग्रमदिरास्वादपरोहन्मदाः।
वज्रावर्तमिदं धनुर्विषयद्वन्नं बलिक्ष्माभृतो
युष्मानाह्वयते बलस्य निकषग्रावापरीक्षाक्षमः॥ ६ ॥
** कंचुकी—**( कर्णं दत्वा ) इयमिदानीं राजपुत्रान् समाजयितुं नगराध्यक्ष्यैरुद्घोषणा क्रियते। (परितोऽवलोक्य)।
केचिद्वद्धमनोरथा रथवरानध्यासिता भूभृतः
केचिद्दिक्करिहस्तकर्कशकराः सेवाकरीन्द्रस्थिताः।
आरूढाश्चतुरंगजित्वरबलाः केचित्तुरंगोत्तमा—
नासीदंति दुरंतदुर्धममदा भूयस्सभाभूमिकाम्॥ ७ ॥
अहं तु पुनरित्थंसमर्थये।
यस्य स्याद्वाहुरेकोप्यचलपरिवृढं मंदरं XXXX
यस्य भ्रूक्षेपमात्रं क्षिपति जगदरिक्षत्रवित्रासदक्षम्।
रामेणारोप्यमाणं सभयमिव धनुस्तेन तत्स्यादधिज्यं
नोचेश्च स्यादधिज्यं ध्रुवमसहनसन्मानिभिर्वद्यमानैः॥८॥
( विलोक्य ) कौपुनरिमौ।
अन्योन्यमन्यूनमनोज्ञकांती
सह प्रयांताविव पुष्पदंतौ।
इंद्रप्रतींद्रायिव चावतीर्णो
नेत्रे इव द्वे जगतां वयस्य॥ ९ ॥
( निरूप्य )।
सोऽयं रामः समासन्नः सीतोद्वाहो रघूद्वहः।
सोऽयं प्रतिनिधिः कांत्यालक्ष्मणः शशलक्षणः॥ १० ॥
यावदिदानीमितस्तावदहं महाराजाय निर्वर्तितं नियोगं निवेदयामि।
( परिक्रम्य निष्कांतः )
——————
शुद्धविष्कंभः
<MISSING_FIG href=”../books_images/U-IMG-1722439617प.jpg”/>
( ततः प्रविशति रामो लक्ष्मणश्च )
रामः—( सौत्सुक्यमात्मगतं ) अहो प्रिया हि नाम जनस्य संमोहिनी विद्या।मम हि।
तद्विवाधरपानभीप्सितमुखं गात्रं तदाश्लेषणं
श्रोत्रे तद्वचनश्रुतौ व्यसनिते नेत्रे तदालोकने।
घ्राणं तद्वदनारविंदसरसा मोदाय चोत्कंठते
पंचाक्षव्यसनाय पंच हि शराः पंचेषुणा स्वीकृताः॥११॥
( प्रकाशं ) वत्स लक्ष्मण।
** लक्ष्मणः—**आज्ञापयत्वार्यः।
** रामः—**
अनर्घ्यरूपामपि यस्सतांनये
धनुर्गुणारोपणमाग्रशुल्कताम्।
रजतृणेन क्षितिभृत्सु कौसुभं
विमुह्य विक्रेतुमना भ्रुवेध्रुवम्॥ १२ ॥
** लक्ष्मणः—**आर्य त्वां प्रत्येतदेवं प्रतिभाति। कुतः।
अवलुप्तभुजंगलोकनाथ-
प्रियकांतास्तनपत्रभंगकांते।
गरुडस्य गरोद्गराद्गरीयान्
यक्ष वल्मीकभवः कियान् फणिः स्यात्॥ १३ ॥
** रामः—**वत्स कीदृशं वा तद्धनुः।
** लक्ष्मणः—**आर्य तत्खलु।
नभश्वरभुजावलेपहठलुंठनातस्करं
बलस्य तुलने तुला तुलितभूभृतो भूभृतः।
निशम्य तदिदं धनुस्तुवहवोनिवृत्ता नृपा
विशंति मदकर्कशाः कतिपये सभाभूमिकाम्॥ १४ ॥
** रामः—**वत्स आदेशय मार्गंसमाभूमिकायाः।
** लक्ष्मणः—**आर्य इत इतः।
( उभौ परिक्रामतः )
** लक्ष्मणः—**( पुरो विलोक्य सहासं) अहो मौग्ध्यममीषां क्षत्रबंधूनाम्। कुतः।
शैलेंद्रप्रतिपंथिबाहुशिखरे पंथानमस्मद्गिरा-
मुल्लंघ्यैव वहिःस्थिते बलवतामार्ये च धुर्ये स्थिते।
प्राप्ताः कर्तुमधिज्प्रमद्य तदमी चापं वराका नृपाः
के वा वारणकुंभपीठक्लने सिंहावृतेऽन्ये मृगाः॥ १५ ॥
** रामः—**( पुरो विलोक्य) कथं रथ्यांतरेषु निरुच्छ्वासो जनसंमर्दः।
नेच्छा धौरितमध्यसाविनियतैर्वामायुकैर्लभ्यते
नीयंते विशिखांतरेषु करिणस्तिर्यक्मुखा यन्तृभिः।
सूतैस्संहृतरश्मिभिर्नियमिता निस्पंदनाः स्यंदनाः
शस्त्राण्यूर्ध्वमुखानि विभ्रति भटा गंतुं कृतप्रेंखिताः॥ १६ ॥
** लक्ष्मणः—**( पुरो निर्दिश्य ) अयमसौ सभाभूमिः।
** रामः—**प्रविशाग्रतः।
** लक्ष्मणः—**यदाज्ञापयति आर्यः।
( उभौप्रविशतः )** **
** लक्ष्मणः—**( निर्वर्ण्य )।
उद्भूतां पटवासचूर्णसरणीं निष्ठ्यूतरसभां
व्यत्यासाहितशक्रचापविभवामाकृष्टभृगवलीम्।
बिभ्रत्संप्रति लक्ष्यते स्वयमपि व्यक्तं XXमंडपः
संरंभव्यसनीव किंचनधनुर्ज्यारोपणाडंबरे॥ १७ ॥
( हस्तेन निर्दिश्य ) आर्य परिकल्पितपूर्वोऽयं यथोचितमंचःयावदलंक्रियताम्।
** रामः—**यथाह वत्सः। ( उपविश्य ) वत्स उपविश्यताम्।
** लक्ष्मणः—**यथाज्ञापत्यार्यः। ( उपविशति )
** रामः—**( आत्मगतं )।
दपुर्दुरे वाचाभिदमयमनर्घ्योदरमणि-
र्न मूल्यं त्रैलोक्यं क्कच मम मुधोत्कंठितमिति।
मयि प्राक्प्रेयस्याः प्रणयघटनोपायकृपणे
कृपालुः प्राप्तोसौ सपदि धनुरारोपणपणः॥ १८ ॥
अतश्च पाणौ कृतमेव मन्ये विदेहराजात्मजां। येन मे—
शिथिला मिथिलाधिपात्मजायां।
प्रणयालाभजडा मनोरथाः प्राक्।
अधुना तु विशृंखलं प्रवृत्ता—
स्युतयंत्रा घटिता रथा यथैव॥ १९ ॥
आश्लेष्यैव भुजद्वयेन दयितामुत्संगरंगं बला-
दारोप्यैव समर्प्य तत्करतलं दत्वैव शैत्यं तृशीः।
आघ्रायैव कुचात्कुचंगतघृणं पीत्यैव विवाधरं
संपूर्यैव मनोरथांश्च शतशः सोच्छ्वासमस्मन्मनः॥ २० ॥
(प्रकाशं) वत्स लक्ष्मण किमत्र धनुर्गुणारोपणाय राजन्यकैः प्रतिपाल्यते।
** लक्ष्मणः—**आर्य प्रेक्षकागमनं।
** रामः—**कोसौ प्रेक्षकः।
** लक्ष्मणः—**आर्य मिथिलेश्वरः।
( प्रविश्य पटाक्षेपेण )
** विदूषकः—**जेदु पिअवअस्सो।24
** रामः—**कुतः खलु भवानियतीं वेलां चिरायितः।
** विदूषकः—किं412 अवरं412 संझोवासणप्यसंगेण।412
** रामः—( सस्मितं ) जाने तादृशी हि भवतो नियामानुष्ठानचुचुंता।
** विदूषकः—**जइ413जाणासि कुदो मं पुच्छसि।413
**रामः—**तिष्ठत्वेतत्। कुतो भवान् कुपितभुजंगोच्छ्वासघर्घरानायामिनस्तरंगितोपवीतसूत्रान्निर्मुंचति श्रमशंसिनो निश्वासान्।
** विदूषकः—**वअस्स414 अहं तु एत्थ एव्वआआच्छंतं महाराअजाणअं दक्खिअ असंवादेण पविसिदुंतरिअं आहिंडिओ।414
** रामः—**किमागच्छति विदेहेश्वरः।
** विदूषकः—**आम्266।
** लक्ष्मणः—**( पुरो निर्दिश्य ) आर्य एष विदेहेश्वरः। योसौ-
उत्सारणासंभ्रमसत्त्वरेण
परिष्कृतः XXXXXणेन
आयाति गंधद्विपखेलगामी
सभां हरिः शैलगुहां यथैव॥ २१ ॥
** रामः—**( दृष्ट्वा आत्मगतं )
हिमवानिव गंगाया लक्ष्म्या इव पयोनिधिः।
स एष खलु सीतायाः जनको जनको नृपः॥ २२ ॥
( ततः प्रविशति जनकः कंचुकी च )
** कंचुकी—**इत इतो महाराजः।
( उभौ परिक्रामतः )
दूरादम्बरचारिभिः परिहृतं यद्वीर्यशौण्डैर्धनु-
र्मर्त्यः कर्तुमधिज्यमद्य तदिदंको वा क्षमः स्यादिति।
दिष्ट्या ज्यामधिरोपयेद्धनुषि यस्तस्मै महाबाहवे
दातव्या दुहितेत्यनेन च मनः क्लिष्टं च हृष्टं च नः॥ २३ ॥
इयं च मे समर्थना।
धन्विप्रवीरानवधीर्य सर्वा-
नानम्रभावं च न जातु याति।
क्वेदं धनुस्तत्क्व चवज्रकांडं
शार्ङ्गं पिनाकं च धनुष्कथा नु॥ २४ ॥
** कंचुकी—**एतद्भद्रासनं। यावदलंकरोतु महाराजः।
** जनकः—**( उपविश्य ) आर्य गुरुदत्त को वात्रसंप्रति निर्वत्यश्चैष चापाधिज्यकरणाय प्रतिपालयति क्ष्माभुजो भुजसारद्रविणानिदं धनुः।
** कंचुकी—**अधुना प्रतिपालयंत्यमी नृपसिंहा अपि भर्तृदारिकां।
** जनकः—**आर्य गुरुदत्त तेन हि समानीयतामिहैव वत्सा सीता।
** कंचुकी—**यथाज्ञापयति महाराजः। (निष्क्रांतः)।
** विदूषकः—**( जनांतिकं ) वअस्स इदो एव्व आअमिस्सिदि तत्तहोदी दाणिं सफलो अम्हाणं पअंतो जेण लोउत्तरपरक्कम्मविहवस्स अत्तहोदो णकिंपि तेलोक्के दुक्करं नाम किं पुण एत्तिअमेत्तं चावाधिज्जीकरणं कम्मं।415
( ततः प्रविशति सीता विनीता कंचुकी च)
** कंचुकी—**इत इतो भर्तृदारिका।
** सीता—**( परिक्रामंती जनांतिकं ) हंजे416विणीदे किं सच्चं अज्जउत्तो तहिं आअच्छइ।416
** विनीता—**( जनांतिकं ) सो दाव अण्णूणसहअतारुण्णविक्कमो अम्मदो पविसई अण्णोपुण आअच्छेदि वा ण वा।417
** सीता—**हंजे418 अवि णाम अह्माणं मणोरहो सफलो भवे।418
** विनीता—**भट्टिदारिए419 किं तुवं साहारणमणुस्समज्झीए लहूकरेसि भट्टिणंपि रामं। सो खु सव्वहा माणुसरूपमेत्तधारि देवोत्ति समस्येहि ता ण खु तस्स एअंपि चावजीवारोपणं विकमसिलाहाए एज्जत्ति।419
** विदूषकः—**( दृष्ट्वा जनांतिकं ) वअस्स एसा खु अत्तहोदी420।
** रामः—**( दृष्ट्वा आत्मगतं )।
अस्या मदनधनुर्ज्या गुंजितमिव हंसखेलगमनायाः।
मंजरिसिंजित्तमिदं गाढोत्कंठं मनः कुरुते॥ २५ ॥
इत्थं मनोत्प्रेक्ष्य।
अनन्यतुल्योज्ज्वलरूपbeनया
कृता तुलाकोटिरसेत्कृतेः पदम्।
इति स्फुटं घोषयितुं तु बुध्यते
निजे तुलाकोटिरसौपदद्वये॥ २६ ॥
** विनीता—**( रामं दृष्ट्वाजनान्तिकं ) भट्टिदारिए एसो खु भट्टा रामो421।
** सीता—**( सहर्षं आत्मनि ) कहंआअदो एव्व422।
** कुंचुकी—**एष महाराजः यावदुपसर्पतु भर्तृदारिका।
** सीता—**( उपसर्पति )
** जनकः—**वत्से इहोपविश्यतां।
( सीता विनीता च यथोचितमुपविशतः )
** जनकः—**आर्य गुरुदत्त चापाधिज्यकरणाय भूमिपालमुख्यानावेदय।
** कंचुकी—**यथाज्ञापयति महाराजः ( हस्तमुत्क्षिप्य )
समायाता यूयं क्षितिपतिसुता विक्रमधना
धनुर्जाग्रञ्चेच्छेन्नृपवरभुजैर्जित्यविधये।
स्थितः प्रेक्षापेक्षः परिषदि महाराजजनको
बलक्रय्या प्राप्ता स्वयमपि विदेहेश्वरसुता॥ २७ ॥
तदिदानीं।
यस्य स्मृत्वापि सद्यश्चकितविगलितैः खेचराग्रेसराणां
श्रांतं कांताकपोले लिखितुमपि करैस्सत्रयं पत्रभंगान्।
तस्मिन्नारोप्य जीवां धनुषि नृपतयश्चापविद्याभियुक्ता
लोकांतं लोककांतं निजमपि च यशः स्वैरमारोपयंतु॥ २८ ॥
** लक्ष्मणः—**( पुरो विलोक्य ) अये कस्यचिद्वाहुशालिता नृपशार्दूलस्य। तथाहि।
आरोप्याग्रप्रकोष्टात्कटकमशिथिलं गाढमाबद्धकक्षो
मध्ये चारोप्य जानु क्षितिमपि चरणेनापरेणाधितिष्ठन्।
आरोप्य ज्यां निवृत्तः कथमपि विकटं चापदंडस्य कोटे-
र्नासौवाच्यः प्रकृत्या क इव हि विगुणः स्याद्गुणाधाननम्रः॥२९॥
** जनकः—**(निर्वर्ण्य ) अहो नु खल्वस्य धनुष्कस्थेमा। तथाहि।
गुणव्ययाश्रया वृत्तिर्गौणेति विगणय्यताम्।
स्थेयसा धनुषा वृत्तिरन्यतैव वर्तते॥ ३० ॥
** लक्ष्मणः—**आर्य पश्य पश्य।
कश्चित्प्राप्य निरुद्यमो धनुरिदं दृष्ट्वा परो निस्पृहः
स्पृष्ट्वान्योन्यवृत्पतदानि कतिचिद्विन्यस्य कोपि स्थितः।
उद्धृत्याप्यमुचत्सहैव गलता मानेन मानीतरः
प्रोत्थायैव परः स्थितो नृपपशुर्नैवोत्थितः कश्चन॥ ३१ ॥
** विदूषकः—**वअस्स किं अवरं सव्वहा तुह सज्जे चेअ एअंसज्जं होइ धणु423ं।
** लक्ष्मणः—**आर्य किमपरं विलंब्यते । यावदिदानीं।
आरोप्य मौर्वीमवरोप्यरूढान्
मानगृहान्मानवतां नृपाणाम्।
समं शिरोभिर्नमयत्वमीषां
XXXXXXX पुरुषप्रकांडः॥ ३२ ॥
** रामः—**यदाह वत्सः ( उत्थायोपसृत्य च धनुरुद्यम्य आत्मगतं )।
नमयति वदनंगः कौसुमीं चापयष्टिं
नमयति चयदेषा भ्रूधनुः पक्ष्मलाक्षी
तदुभयमपि विष्ट्या दृष्टसाफल्यमेत—
न्नमयति मयि कामं चापमारोपितज्यम्॥ ३३ ॥
( ज्यामारोप्य धनुर्नमयति )।
** सर्वे—**आश्चर्यं आश्चर्यम्।
** सीता—**( सहर्षमात्मगतं ) संपुण्णामे मणोरहा424।
** विनीता—**( जनांतिकं ) भट्टिदारिए दिट्ठिआ वड्ढेम425।
** लक्ष्मणः—**आर्य स्थीयतां मुहूर्तमनेनैव विभ्रमेण।
निर्निमेषमिमां शोभां विलोचनाविलोभनीम्।
पर्यंतस्यैरमार्यस्य प्रेक्षकास्संतुनिर्वृताः॥ ३४ ॥
** जनकः—**
अधुना धनुर्भुजवतां भुजसारग्लानिशंसिमंडलितम्।
वहति परिवेशकांतिं कांस्या शीतांशुरिव रामः॥ ३५ ॥
** रामः—**( ज्यामाकर्षे धनुभनक्ति आकाशे पुष्पवृष्टिः क्रियते )
** विदूषकः—**( ससंभ्रमं ) किं एअं426 (दृष्ट्वा ) कहंभग्गंधणु वअस्सेण427।
** सर्वे—**आश्चर्यम्।
** सीता—**( ससंभ्रमं जनांतिकं ) हला किं एअं428।
** विनीता—**भट्टदारिए भग्गं सु धणु भट्टिणा429।
** सीता—**अम्होलोउत्तरकोसलो उत्तरकोसलेसरो430।
** लक्ष्मणः—**अहो श्रुतिपथोन्मादी निर्घातनिर्घोषगंभीरो विह्ललितहरिद्गह्वरो धनुर्भेगघोषः।
दिव्यानां भवपूर्णमानशिरसां नो साधुकारध्वनिः
निर्यात्याननतो हनुष्ककरुणं संतावितानामिव।
नाद्यापि प्रभवंति मूर्छितधियः पुष्पाणि ते वर्षितुं
तेषां त्रासविधूनितेषु गलितं हस्तेषु पुष्पैः स्वयम्॥ ३६ ॥
** जनकः—**
दिग्नागा वृढमीलितेक्षणपुटाः शुष्यन्मवांसःप्लवा
विस्मृत्येव च कर्णतालनमपि त्रासान्मुहूर्त स्थिताः।
प्रत्यास्वस्य च कर्णपल्लवयुगं संताडयंतः पुनः
मन्ये श्रोतुमनीश्वराः कटुमिमं प्रोत्साहयंति ध्वनिम्॥२॥
आर्य गुरुदत्त प्रवर्त्यतां सीतापरिणयनोत्सव इति मद्वचनान्नियुज्यतां प्रकृतिः।
** कंचुकी—**यथाज्ञापयति महाराजः। ( प्रणम्य निष्क्रांतः )।
( नेपथ्ये कलकलानंतरं )
सज्जास्ते समराय युद्धरसिकाः सन्नद्धसैन्या नृपा
येषां चापवदेव संगरकथा पार्ष्णिगृहा पादुकैः।
किं भूयोपि विकत्थितैर्लघुतरैरेक्ष्वाकु शक्नोषि चे-
त्सीतायाः प्रवरोवरो भवरणं कृत्वास्व जित्वा च मः॥ ३८ ॥
** सीता—**( श्रुत्वा समयमपवार्य) हला किं एअं431।
** विनीता—**( जनांतिकं ) मुद्धेमा हअहि जारिसोतेसंधणुगुणारोपणसंरंभो तारिसं चेअ आहोपुरिसिआमेत्तं एअंपि अ समरसोडिरं जाण।432
रामः—( श्रुत्वा सकोपं )।
श्रुतं श्रवणयोः प्रियं किमपरं मया स्थीयते
प्रिया वसतुXXX XXXX सीता XX।
मदस्त्रहलकर्षणोपजनितां चसीताममी
नृपास्त्वरितमीति युधि वहंतु वक्षःस्थलैः॥३९॥
इति संरभते।
**लक्ष्मणः—**अलमलंसंरंभेण
नमयति धनुस्तच्चैवार्ये भयक्षुभितं जग-
न्नमयसि यदि भ्रूचापं त्वं रुषा विवशीकृतः।
न कुलगिरयो न त्रैलोक्यं न चाम्बुधयः क्षणा-
त्सकुलविधुतः कोपस्तस्मात्प्रसीद विधूयताम्॥४०॥
किं चान्यत्। न चैते क्षुद्राः क्षत्रिया शदो भवतः कोपस्य पर्याप्ताः। पश्य
कक्षात्कक्षं विविक्षुंशशशिशुमशनैरप्लुतं विप्लुताक्षं
किं दृष्ट्वाहंत हंतुं कलुषयति सुधा मानसं राजसिंहः।
यस्य क्रोधांधगंधद्विरदरवनद्वंद्वकंदांतराल-
स्थाली निर्मुक्तमुक्ताफलशकलशिलादंतुरा दंतपंक्तिः॥४६॥
जनकः—( सस्मितं )।
यैः स्पृष्टुं च न च क्षमे नृपसखैश्चापं निवृत्तं तदा
जीवारोपणचापला नृपतिभिर्वैलक्ष्यलक्षीकृतैः।
ते यूयं क हवाधुना युधि परं रामेण बद्धः क्रुधा
युष्मात्वेच मिषत्सु येन च धनुर्मुग्नंच भग्नंच तत्॥४२॥
किंच। उपालंभभूमिश्च भवतामयमारंभः। कुतः।
पर्जन्यं प्रति गर्जतां मदनदस्त्रोतोमुचां दंतिनां
संघर्षेण मुधैव यत्किल मुहुः प्रागर्जितं गर्जितम्।
तत्किं कर्तुमलं बलाद्गजरिपौ दंतार्पितांघ्रिद्वये
मस्तिष्काहरणाय मस्तकतटंस्वच्छंदमुच्छिंदति॥४३॥
( आकाशे )
श्लाघाभूमेर्बलस्य क्षपितरिपुबलं पश्यतास्यानुभावं
स्थैर्यारूढाहि तक्षितिधरपतयश्चाष्टमश्चैष रामः ।
पश्यंति ज्ञाननेत्रा वदनघमृषयश्चात्तचारित्रनिष्ठाः
कैवल्यं प्राप्तुकामा हितमिह तदिहामुत्र च ब्रह्मदृष्टम्॥४४॥
लक्ष्मणो जनकश्च—( श्रुत्वा ) कथमसौ चरमदेहधारी पुरुषोत्तमः।
( सर्वे प्रणमंति )
**लक्ष्मणः—**आर्य पश्य पश्य।
श्रुत्वा जगद्वस्मयनीयकीर्तेः
कीर्तिं सुरेन्द्रैस्तव कीर्त्यमानाम्।
भक्त्याभवंतं परितः स्तुवंतो
नमंति बद्धांजलयो नरेंद्राः॥४५॥
** जनकः—**भृंगारस्तावत् ।
विनीता—( उत्थाय नाट्येनादाय ) इदो सण्णिहिदो रअणभिंगारओ। ( उपनयति )
जनकः—( उत्थाय नाट्येन गृहीत्वा राममुपसृत्य ] भद्रे विनीते भद्रां सीतामिहैवानय।
विनीता—जं433 महाराओ आणवेदि।433 ( तथाकरोति )
जनकः—
उर्वींपालयितुं गुर्वीं सरत्नाकरमेखलाम्।
राम प्रभवते दत्ता सीतासौ भवते मया॥४६॥
रामस्य हस्ते धारामावर्जयति।
** विदूषकः—**[ सहर्षं ] सोहणं सोहणं434।
** रामः—**( आत्मगतं ) संपूर्णा मे मनोरथाः।
** सीता—**( आत्मगतं ) किअत्थं मे जम्म।435
( नेपत्थेवैतालिकौ)
** वैतालिकौ—**अहो नु खलु भो सीतापरिणयनोत्सवस्य वरा लक्ष्मीः।
** प्रथमः—**
जगदतितरां XXपिष्टातदौरनुरंजित
मरुदपि कुतो यंत्रोन्मुक्तैर्जलैः सुखशीतलः।
समभिलषितानर्थानेते समाददतेऽर्थिनो
न कृपणकथा क्वापि प्राप्तावकाशमिहोत्सवे॥४७॥
** द्वितीयः—**
जगति कृतिनी सीता श्लाघ्या भृशं कुलयोषिता
रघुपतिरभूद्यस्या लोकोत्तरः सदृशः पतिः।
किमकृत तपस्तस्या माता बधूवरमीक्षितुं
तदिति च मुदापौरस्त्रीणां भवंति मिथः कथाः॥४८॥
** जनकः—**महाभाग किं ते भूयः प्रियमुपहरामि।
** रामः—**
त्वया बांधवमस्माभिर्लब्धमद्य सुदुर्लभम्।
भूपेंद्र प्रियमस्माकमाशास्यं किमतः परम्॥४९॥
तथाप्येतद्भवतु।
श्रोतुं मां समुपाश्रितं सुकृतिनः स्वीकुर्वतां दर्शनं
ज्ञानं व्याप्रियतां सतामविहितं ज्ञेयेषु सर्वेष्वपि।
**साधूनां समताबलं विभवतादवृत्तं निवृत्ताक्षयं
सूक्तिस्सज्जतशंसनैकशरणा स्ययात्कवीथां चिरम्॥५६॥ **
**जनकः—**एवमस्तु।
( निष्क्रांताः सर्वे )।
इति श्री गोविंदस्वामिनः सुनुना हस्तिमल्लेन विरचिते
मैथिलीकल्याणनामनाटके पंचमोऽङ्कः॥५॥
—————
ग्रंथकर्तुः प्रशस्तिः।
<MISSING_FIG href=”../books_images/U-IMG-1722099945मममममममममममममममम.jpg”/>
कृतिरिद्यमभियुक्तैःस्वैरमास्वादनीया
रसमपरमपि स्वावर्तनेष्वाधाना।
विजितधिषणबुद्धेर्हस्तिमल्लस्य दिक्षु
प्रथितविमलकीर्तेः सूक्तिरत्नाकरस्य॥१॥
एतन्नाटकरत्नमुत्तमगुणं विभ्राजते मैथिली–
कल्याणं भृशमद्वितीयमपि सत्तेषु द्वितीयं मतम्।
सर्वत्र प्रथिताः प्रबंधमणयः श्रीसूक्तिरत्नाकर–
प्रख्यातापरनामधेयमहतः श्रीहस्तिमल्लस्य ये॥२॥
इति प्रशस्तिः।
| **समाप्तमिदं नाटकम् |
]
-
“अय्यपर्येण १३७६ विक्रमसंवत्सरे जिनेंद्रकल्याणाभ्युदयस्य रचना कृता।” ↩︎
-
“श्रीयुत नाथूरामप्रेमी - जैनहितैपि सम्गदकेन हिन्दी भाषायां लिखितस्य तस्यानुवादोऽयम्।” ↩︎
-
“आर्य इवमस्मि।” ↩︎
-
“किं नु खलु इदानीं आर्यः सविशेषं समुत्सुकः संगीतारंभे।” ↩︎ ↩︎
-
“कुतः खलु प्रेक्षकाणां एकांततः तस्मिनासक्तिः।” ↩︎
-
“तेन हि युज्यते तत एव खलु अस्यापि तस्मिन् बहुमानः।” ↩︎
-
“वशीकरोति खलु कविजनं सुभाषितं।” ↩︎
-
“आर्य सुष्ठु भणितम्।” ↩︎
-
“आर्य तथा।” ↩︎
-
“वासंतिकैर्बहु मधुधारानिष्पन्नबिंदुशिशिरैः। मंदानिलैराच्छादिता भविष्यंति दिवः शशिसनाधाः।” ↩︎
-
“आर्य सुष्ठु भणितं। अद्यहि–सः अचिरात् आरामः कृतशोभमेवमधुरससुखया। सीतया एतया अवतीर्णवसंतलक्ष्म्या” ↩︎ ↩︎
-
“आर्य किं वा तस्यात्मनोऽर्थे मया मंत्रितं।” ↩︎
-
“युज्यते अहो उभयस्यापि अर्थस्य शब्दानामविसंवादः।” ↩︎
-
“निःसंशयं।” ↩︎
-
“मनोरथाः।” ↩︎
-
“जनयति।” ↩︎
-
“समीपस्थः।” ↩︎
-
“संभाषणस्य।” ↩︎
-
“इदानीं खलु मे सुलभदर्शनीयतया अयोध्यापुर्याः एनां मिथिलापुरीं पश्यतः नयनानां निर्वृत्तिर्ज्जाता। विशेषतः पुनरिदानीं वसंतोत्सवसमागमकुसुमितोद्यानदर्शनकौतुकेन मदनाराधनकुतूहलेन पुष्पावचयकांक्षया जलकेलिदोहलेन वसंतदोलारोहणसमुत्सुकतया प्रथममुकुलितस्वहस्तसंवर्धितप्रमदवनद्रुमसंभावनसत्वरतथा च गृहीतसुकुमारवासंतिकवेषेण इतस्ततः सविभ्रमं परिभ्रमता स्त्रीलोकेन सह संचारिणा च प्रेक्षकजनेन निरतिशयां शोभामुद्वहति मिथिलापुरी। एवं च पुनर्नयनचापल्यात् गोवालकुमार्गेणैव परिभ्रमता मया वयस्यो विनिसृतः एतावतीं पुनः बेलं मामपश्यन् अपरिचितदेशसुलभया तंद्र्या मन्ये मयि समन्युस्तिष्ठति। तस्माद्यावद्वयस्यमेव यास्यामि।” ↩︎
-
“एष खलु वयस्योऽसहाय यदेवं मां प्रतिपालयन् तिष्ठति यावदुपसर्पामि।” ↩︎
-
“सतिरस्कारं।” ↩︎
-
“मा खलु मां त्वमसूययाहं खलु मिथिलापुरि वसंतोत्सवधीदर्शनेन विस्मितः त्वया विना तांप्रेक्षितुमक्षमः इत आगतः।” ↩︎
-
“तेन हि गच्छामः।” ↩︎
-
" इतः।” ↩︎
-
“वयस्य पश्य एष खलु सुखसमुच्चलच्चंचरीकनिनदप्रणर्तितपरः मयूरः सुदूरापतस्सुरभिपरिमलः पिष्टातकचूर्णवर्णकचित्रितगगनमित्तिकः। सुमधुरश्रूयमाणमधुपस्खलद्गणिकाजनगीतपेशलो युवजनधैर्यखिलीकरणकवाटको वेशवाटकः।” ↩︎
-
“वयस्य पश्यात्र महामदविभ्रमवेशबधूनाम्।” ↩︎
-
“यद्भवानाज्ञापयति। इतः इतः।” ↩︎
-
“वयस्य वरं कामदेवं वरय।” ↩︎
-
“अपसरत।” ↩︎
-
“वयस्य अपसरणशब्दः श्रूयते मन्ये आगच्छति तत्रभवती सीता किमत्र कर्तव्यं।” ↩︎
-
“इतइतः भर्तृदारिका।” ↩︎
-
“एतत्खलु कृतपुष्पोपहारालंकारं रत्नचूर्णनिर्वर्तितवसंतपूजासमुदाचारं समंतलःसज्जीकृतं दोलागृहं यावत् प्रविशतु भर्तृदारिका।” ↩︎
-
“एषा त्वां प्रतिपालयति रत्नदोला यावदारोहतु भर्तृदारिका।” ↩︎
-
“सखि तेन हि आरोहामि देहि मे हस्तावलंबनं।” ↩︎
-
“यद्भर्तृदारिका आज्ञापयति।” ↩︎
-
“सख्यः यावद्गायामः।” ↩︎
-
“सत्प्रियसखी भणति।” ↩︎
-
“दर्शनसमुत्सुकः संप्रति प्रिय प्रियदर्शितसमागमः प्राप्नोति खलु कौतुकः।” ↩︎
-
“इतोवसृत्यामुना पक्षद्वारेणाहं पश्यामि।” ↩︎
-
“आरूढैव तत्रभवती दोलाम्।” ↩︎
-
“एषा स्वयं चैव देवी लक्ष्मीति समर्थयामि।” ↩︎
-
“भर्तृदारिके यदि वसंतदोलारोहणंसंमानयितुमिच्छसि ततस्त्वमपि गायस्व।” ↩︎
-
“हे सखि किं मामतिमात्रप्रशंसयालघूकरोषि। भवतु न तावत् प्रियसखिवचनं लंघयामि, दर्शनसमुत्सुकः।” ↩︎
-
“सर्वमेतत् शोभनं वसंतदोलारोहणं आरोहतःस प्रिय एव केवलं न दृश्यते।” ↩︎
-
“सखि सुष्ठु भणितं।” ↩︎
-
“दुर्लभः खलु स कालो यस्मिन् प्रियो जनो दर्शनपथं प्राप्नोति यतः श्रवणैकगोचरेऽयोध्यापुर्य्यां तस्मिन् जने चिरप्ररूढकुतूद्दलदुर्ललित एतन्मे हृदयं।” ↩︎
-
“एवं च पुनरहं तर्कयामि एतेन शोभनेन वसंतदोलारोहणेन समाराधितेऽचिरेणैतस्याः दर्शयति प्रियं वसंत इति।” ↩︎
-
“सखि एवं।” ↩︎
-
“या आरोहति दोलां कांतेनापि वसंते शीर्षं खलु युवतानां सा यौवनवतीनां।” ↩︎
-
“अयं पुनर्जनः सुदूरोत्कंठतया अकृततादृशभागधेयः।” ↩︎
-
“भर्तृदारिके किं त्वं न हि गायसि यावद्गायस्व।” ↩︎
-
“सखि अलमेतावद्दोलारोहणेन क्लाम्यंति खलु मेंगानि।” ↩︎
-
“मन्ये एषाधिगतगीतार्थात्मानमतथाभूतं मन्यमाना खिद्यति। तस्मादस्ति किमपि एतस्या एकांतेस्थितं।” ↩︎
-
“तेन हि मामवलंव्यावरोहतु।” ↩︎
-
“सखि एहि गच्छामः।” ↩︎
-
“इतः” ↩︎
-
“भर्तृदारिके एहि कामदेवगृहं प्रविश्याभ्यर्थयामस्तवोत्कंठितं।” ↩︎
-
“किं मयोत्कंठितं।” ↩︎
-
“किं ममापि प्रच्छाद्यते।” ↩︎
-
“कथं गृहीतभावास्मि प्रियसख्या।” ↩︎
-
“सखि कथं तव प्रच्छादयामि यदि अहं आत्मनः प्रच्छादयामि तदा खलु तव प्रच्छादयामि।” ↩︎
-
“सख्यः गच्छामः तावत्कन्यकाभवनं तस्मात्पुष्पाचयचापल्यतःपरिभ्रमति। सर्वं प्रियसखिजनं गत्वा शब्दायते।” ↩︎
-
“यत्प्रियसखोभणति।” ↩︎
-
“भर्तृदारिके ऽपसृतः सखीजनःयावत्पुनरेष प्रत्यागमिष्यति तावत्कामदेवमभ्यर्थयामः।” ↩︎
-
“तथा।” ↩︎
-
“एतत्कामदेवगृहं यावत्प्रविशामः।” ↩︎
-
“वयस्य कथमिदमेव प्रविशति तस्मान्मां ब्राह्मणं प्रेक्ष्य तदातिवाहयति परिजनो यावदहमन्यतो गच्छामि।” ↩︎
-
“अहो क एषः।” ↩︎
-
" अहो एष खलु स मदनः" ↩︎
-
“भर्तृदारिके दिष्ट्या स खलु देवः प्रसन्नः सशरीर एव तिष्ठति अग्रतोऽनंगः। तस्मादस्य ते उत्कंठां विज्ञापयामः।” ↩︎
-
“भगवन् सशरीरमन्मथ एतां मे प्रियसखीमनुरूपेण भर्त्रा योजय।” ↩︎
-
“भावांतरगर्भितमिवास्य वचनं न एष केवलं मन्मथत्वेन वर्तते।” ↩︎
-
“भर्तृदारिके रामाक्षरलांछितांगुलिमुद्रिकास्य हस्तेदृश्यतेश्रुतं स मयागतो मिथिलायां दाशरथोराम इति।” ↩︎
-
“अहो एष खलु स रामो यो मया शृण्वशेव पूर्वमुत्कंठा जनयति इदानीं खंडितार्था मे उत्कंठा।” ↩︎
-
“भर्तृदारिके वंचिता खलु क्षमस्वास्य रूपसौभाग्येन।” ↩︎
-
“भर्तृदारिके समासन्नः सखिजनालापः तावद्गच्छामः।” ↩︎
-
“सखि वयमिदानीं किं पृच्छामः।” ↩︎
-
“आर्य इमानि भागधेयानि।” ↩︎
-
“इत इतो भर्तृदारिके।” ↩︎
-
“इल इतः प्रियवमस्यः।” ↩︎
-
“पूर्वं तावदयोध्यापुरी प्रभृति तत्रभवतीमिथिलेश्वरस्य प्रियदुहितरं शृष्वन्नेव श्रुतदानरराज्य इव ब्राह्मणो बलवदुत्कंठितो प्रियवयस्यः। इतः पुनर्यदा दोलागृहे दृष्टा तत्रभवती सीता तत आरभ्य अन्यादृशहृदयः चिंतोपरागकलुषितनयनो न शयने निर्वृतिं लभते न निशासु निद्रा प्रतिपद्यते केवलं तामेव ध्यातुं पारयति। मां पुनः सीताविहारोद्देशदर्शनार्थं तस्मिन् तस्मिन् प्रेषयन् क्षणमात्रमप्यात्मनः पार्श्वे विस्रब्धं स्थातुं न सहते अहं च पुनः प्रणष्टपट इव वत्सइतस्ततः सीतामन्वेषन् कृतपरिभ्रम आत्मानं केवलमायासयामि। एषा पुनः सीता दुस्साधिता इव देवता न कदापि संनिधि प्रतिपद्यते। एवं चानिवर्तितमित्रजनोचितसत्कारतया संध्यासौहार्दनिर्विण्ण इदानीमहं प्रियवयस्यदृष्टुंतथापि स्नेहपराधीनो न तेन विना क्षणमपि वर्तितुं क्षम तस्माद्रिदानी वयस्यस्यैवपार्श्वंगमिष्ये।” ↩︎
-
“एष खलु प्रियवयस्यः यावदुपसर्पामि।” ↩︎
-
“कथमागतमपि मां न जानाति अन्यचित्तो वयस्यः।” ↩︎
-
“यद्र्यस्य आज्ञापयति।” ↩︎
-
“एवमुत्सहाने मयि किं वा न संभाव्यते।” ↩︎
-
“ध्याने।” ↩︎
-
“अन्यन्न पश्यामि अहंसवातंकस्थानम्।” ↩︎
-
“शृणु तावदेतत् समाहितं।” ↩︎
-
" श्रुत एवं तावद्भवान् कर्णपरंपरया समुत्सुकयति सुधतिजन किं पुनः कामदेवभवने तथा दृष्टः तथा च नाम संभावितः।" ↩︎
-
" यदा मोहं परिणमिष्यति।" ↩︎
-
“कथं दुर्लभदर्शना लब्धपूर्वं खलु तस्या दर्शनं।” ↩︎
-
“अस्यैवकेवलं तत्रभवतिदर्शने तव कृतार्थतया अवशेषः।” ↩︎
-
“तथा खलु अहं उद्वाहस्वस्तिवाचकसत्कारंन लंभितो भबामि।” ↩︎
-
“एवमेतद्यथोद्वाहस्वस्तिकोपहारसत्कारेण समाराधितो भविष्यामि तथा त्वमपि अविरेण तत्रभवंतीपरिणयनकल्याणं लभत्व।” ↩︎
-
“पूर्वंकरेण गृहीष्यसि पुनः शिरसा।” ↩︎
-
“अनाराधितवयस्यस्य मादृशस्य जनस्य केवले लयायै भवति प्रयत्नः।” ↩︎
-
“भवत्वेवं तथापि कथमिव त्वमल्पलघुकं एवं कालं अतिवाहयिष्यसि।” ↩︎
-
“स देशस्तादृशः एष देश ईदृशः।” ↩︎
-
“आ वयस्य दृष्टः खलु तव विनोदयोग्यः प्रदेशः।” ↩︎
-
“अस्ति राजगृहस्योत्तरतः माधवीवनं नाम मनोविलोभनमुपवनं तस्मिन् तावद्गमिध्यावः।” ↩︎
-
“उतिष्ठतु भवान्।” ↩︎
-
“कथमन्यतः प्रस्थितो वयस्यः।” ↩︎
-
“वयस्य न खल्वेषो माधवीवनमार्गः एष ननु कामदेवगृहमार्गः तस्मादित एहि।” ↩︎
-
" इत इतः। " ↩︎
-
“वयस्य एतन्माधवीवनं।” ↩︎
-
“एतत्खलु विकाशोन्मुखमंज्जरिभरभरितसहकारमहीरुहशिखरप्राम्भारंमधुरसलालसपरिभ्रमत्सुलभ-मधुकरमायुधागारमिव लक्ष्यते मधुरवशिलीमुखरसिकस्य कुसुमायुधस्य।” ↩︎
-
“वयस्य यस्य ते मदन एवेदृशाया अवस्थायाः कारणं स त्वमेव तं मदनमुपहसन्निदानीमुपहसनीयः।” ↩︎
-
“भवान्।” ↩︎
-
" न कोपि।" ↩︎
-
" विशेषतस्तावद्वसंते।" ↩︎
-
“सर्वोपि खलु कामुक आत्मानमेव समर्थयते।” ↩︎
-
“वयस्य पश्य पश्यैयखलु मधुबिंदुसीकरच्छठाधूसरतया शिशिरसमागमशंका जनयतीदानीं सहकारः।” ↩︎
-
“वयस्य इत एवोपविशावः।” ↩︎
-
“अहो दुर्घहोमन्मथः।” ↩︎
-
“वयस्य सर्वतः कूजस्सु कोकिलेषु कियतं वा कालं पिधीयेते कर्णौ।” ↩︎
-
“अहं तवौवोपायमुपदिशामि।” ↩︎
-
“नहि नहि कोकिलकूजितशब्दातिवाहनोपाय।” ↩︎
-
“वयस्य श्रवणादन्यां स्त्रियं नय मनः यत्र खलु मनः प्रवर्तितं अक्षमपि स्वयं गृह्नाति।” ↩︎
-
“अन्यथा हि मया किलैताः कुतो विदीर्णाः।” ↩︎
-
“धैर्यावलंबनं।” ↩︎
-
“किंकर्तव्यता दूष्यः तिष्ठ।” ↩︎
-
“एतावन्मे उपायपरिज्ञानवैभवं।” ↩︎
-
“वयस्य एतत् खलु चूतविटपारुढायाः माधवीलताया मलयानिलसंचालनपतितकुसुमोत्करप्रवर्तितपुष्पतल्पं मणिकुट्टिममेते च शिशिरोपचारार्थमामुक्ताः पूर्वमेव तब मुक्ताहाराः। इदानीं पुनः पद्मिन्याः मृणालानि कदलीगृहात् कदलीदलानि यावदानयामि।” ↩︎
-
“अहो एते कदलीपत्रनिहिता मृणाला स्मारयंति मां भोजनं।” ↩︎
-
“यद्वयस्य आज्ञापयति।” ↩︎
-
“एषः खलु स शांतिकर्मणि भूतोत्पातः येन शिशिरेपचारयेव संतापोत्पस्यै हेतुः।” ↩︎
-
“सर्वं कृतं शिशिरकर्म यद्यद् मया ज्ञायते किमिदानीं करिष्ये।” ↩︎
-
“साधुनियुक्तं शिशिरकर्म वयस्यैतादृशमपि शिशिरकर्म न ते शिशिरोपचारबुद्धिं जनयतीत्यत्याहितं।” ↩︎
-
“वयस्य किमन्यच्छिशिरकर्म करिष्ये।” ↩︎
-
“वयस्यैषाइदानीं प्रत्यागतैका ते अंतःकरणप्रवृत्तिं जानातीति कथयामि।” ↩︎
-
“वयस्य एवं खलु मयोदोरितेमषा ते प्रत्यागता एका जानाति शिशिरोपचारमतः करणप्रवृत्तिरिति।” ↩︎
-
“प्रियसखि विनाते कस्मिन्नेषा मे शीर्षवेदनोपशमिष्यति।” ↩︎
-
“यत्र स दृश्यते।” ↩︎
-
“कः।” ↩︎
-
“यस्तेअस्याः हेतुः।” ↩︎
-
" किमेष मेऽङ्गसंतापः" ↩︎
-
“यस्तस्यापि हेतुः।” ↩︎
-
“को वा तस्य हेतुः।” ↩︎
-
“यस्त्वया बद्धोमल्याभ्यर्थितः।” ↩︎
-
“को वात्मनः सन्तापहेतुमभ्यर्थयते।” ↩︎
-
“सौख्यहेतुरिति खलु प्रार्थितः संतापहेतुर्जातः।” ↩︎
-
" यदि संतापहेतुर्जातः कथं कीदृशोऽद्य शीर्षवेदनामपनायिष्यति।" ↩︎
-
“अदृष्टःखलु संतापहेतुः दृष्टः पुनः सौख्याय मह्या इव प्रावृट्समयः।” ↩︎
-
“तथापि त्वयैव खलु स तदाभ्यर्थितः न पुनर्मया” ↩︎
-
“बहिरंगापराद्धा चसा मे वाचामात्रेण प्रार्थना त्वया पुनरंतरंगा आत्मार्था च प्रार्थना कृता।” ↩︎
-
“सखि कामदेव इति खलु मर्याजलिर्बद्धा प्रार्थना च कृता।” ↩︎
-
“भवतु कामं कामोत्र व्यपदेशः निर्गच्छंत्याःपुनस्ते वेपमानयोरुरुपस्तंभयोः किं भणसि।” ↩︎
-
“किं सोऽपूर्वजनदर्शनसाध्वसो न भवेत्।” ↩︎
-
“साधु कल्पितोत्र वाक्।” ↩︎
-
“किमतोबरं।” ↩︎
-
“अनुरक्तविजिञ्जतयोर्लोचनयोःकिं प्रतिपद्यते।” ↩︎
-
“दोलारोहणाक्लातायाः आकेकरे नतु मे लोचने।” ↩︎
-
“तथापि मया पुनः निर्गमनारुद्धयाजल्या सह विमुक्तधैर्यया मन्मुखपातितयोर्मन्मथपीडितयोर्निर्गंतुमनिच्छंत्योर्दृष्ट्योर्भावो कधं निगृह्यते।” ↩︎
-
“सखि अनुत्तरास्मि संवृता।” ↩︎
-
“पुरा त्वं अनुत्तरा असि खल्वतः उत्तरं ते प्रियसमागमनं।” ↩︎
-
“एवं खलु सखीजनो मांचिंतयते मंत्रयते च।” ↩︎
-
“अनुभविष्यति च।” ↩︎
-
“कुतो मे सा सुजन्मवता।” ↩︎
-
“सखितथा भवतु।” ↩︎
-
“यदि मे दृष्ट्योभार्गधेयः।” ↩︎
-
“सखि तिष्टतु एतत् कस्मिंस्तावद्गत्वैतं संतापमपनेष्यामः।” ↩︎
-
“प्रत्यप्रमधुलक्ष्मीमधुरं माधबिवनं गच्छावः तस्मादितो भर्तृदारिके।” ↩︎
-
“सखि कियद्वा गंतव्यं।” ↩︎
-
“एनमारामं गच्छामः।” ↩︎
-
“कस्मिन् खलु स रामः।” ↩︎
-
“भर्तृदारिके नन्वारामः आवाभ्यां गम्यतामिति खलु मया भणितं।” ↩︎
-
“सखि कियति खलु दूरे स आरामः।” ↩︎
-
“एतत्खलु तन्माधविवनं यावत्प्रविशामः।” ↩︎
-
“तथा” ↩︎
-
“सखि अविज्ञातहृदयं तं जनमुत्कंठमाना तवापि अहं जिहेभि मुखं दर्शयितुं।” ↩︎
-
“भर्तृदारिके मा तथा चितयित्वा तदा नाम स्वय्यनुरक्तदृष्टिनिधापनं खलु स सर्वथा उत्कंठितो भवेत्।” ↩︎
-
“सखि अयोध्यापुर्यांस जनः न खलु इतस्तस्य संस्थितिरवस्थिता।” ↩︎
-
“तथापि त्वां दृष्ट्वासोऽपूर्णमनोरथ एतद्देशं न मुंचति।” ↩︎
-
“वयस्य किमद्वा कालं प्रतिपालयामि यस्मिन् ते एष संतापः शमं नीयते।” ↩︎
-
“भर्तृदारिके इतो जनालाप इव श्रूयते।” ↩︎
-
“सखि अमुना माधवीगुल्मेनांतरिते पश्यामः।” ↩︎
-
“भर्तृदारिके दिष्टया वर्धसेएष ते हृदयवल्लभः।” ↩︎
-
“हृदय पर्यवस्थापय आत्मानं कृतार्थंखल्विदानीं ते जन्म।” ↩︎
-
“किं नु इदानीमेतं पश्यंस्याः किमपि वेपते मे हृदयमूरुयुगलं च स्फुरति वामाक्षि अधरश्च, शिथिली भवति नीविप्रथिः धैर्यंच क्लाम्यति मनः शरीरं च।” ↩︎
-
“यद्येषं भर्तृदारिके अस्यापि जनस्य विविक्तेदेशे कोपि स्वैरालापो वर्तते तं श्रोष्यावः।” ↩︎
-
“यथा प्रियसख्यै रोचते। " ↩︎
-
" भर्तृदारिके पश्य परितः शिशिरोपचारपरिकरं।” ↩︎
-
“किं तेन मे।” ↩︎
-
“भर्तृदारिके स्वय्युत्कंठया संतापितः खलु सः।” ↩︎
-
“कथमध्यवस्यसि।” ↩︎
-
“यदि मां प्रत्यापयसीदानीमेवैतं स्वैरालायं श्रोष्यसि।” ↩︎
-
“वयस्य एतदत्याहितं त्वमपि नामापहस्तित सर्वशीतवस्तुकः संतापापनोदार्थमेका सीतां मन्यसे इति।” ↩︎
-
“असंप्रतिपत्त्याःकिमिदानीं तुष्यसि। सखि एकं सीतं वस्त्वस्तीति खलु भणितं।” ↩︎
-
" हंतासंतुष्टिः।" ↩︎
-
“वयस्थ अव्याहतेन च सीताप्रजल्पता त्वया कुतः इदानीं व्याहतेन सीताप्रसंगे न दीयते प्रत्युक्तिः।” ↩︎
-
“किं तयेति मां विहस्तयति गता मे मनोरथाः।” ↩︎
-
“कथमेषो अन्यहृदयः संवृत्तः।” ↩︎
-
“सखि किमिदानीमत्र स्थीयते तावद्गच्छावः।” ↩︎
-
“भर्तृहरिके मा त्वं स्वरयपुनरप्येतमालापं शृणुवः।” ↩︎
-
“उन्मतिके किं अतः वरोपि श्रूयते।” ↩︎
-
“कथमतिमात्रं विषण्णा भर्तृदारिका।” ↩︎
-
“सखि एहि गच्छावोऽथवा कस्मिन् मया गम्यते।” ↩︎
-
“समाश्वसिहि भर्तृदारिके समाश्वसिहि।” ↩︎
-
“अविद अविद किमेतत्।” ↩︎
-
“वयस्य एषा ते प्राणवल्लभा।” ↩︎
-
“क इदानीमतिक्रमः क एष वियोगः।” ↩︎
-
“भवति किं नु खलु तत्रभवत्याः कोपकारणं।” ↩︎
-
“सीताविषयां प्रत्युक्तिं कुतो न दास्यसीति त्वया भणिते किं तयेति भणितं श्रुत्वात्मानं विहस्तितं जानंती किलैषा निर्विण्णा।” ↩︎
-
“अहो अकालकोपना अकारणकोपना चात्रभवती।” ↩︎
-
“कथमन्यथा मया कथितं।” ↩︎
-
“कथं पुनः वनपालकानाXXX भर्तृदारिकेइतोगच्छावः।” ↩︎
-
“हत इतोभर्तृदारिके।” ↩︎
-
“वयस्य अतिक्रामति संध्या। अद्यहि दिवसश्रीविरहखेदविप्रमुक्तप्रभः चन्द्रपादाभिघातभीत इवापरामेवाशामवलम्बते प्रवृद्धानुरागो दिवसनाथः। तस्मादेहि गच्छावः।” ↩︎
-
“इत इतः प्रियवयस्यः।” ↩︎
-
“शोभनं खलु लौकिका भणंति नास्ति स सूर्ये वासरे प्रदीपस्यावसर इति येनेदानींसौभगवाक्षजालांतरप्रविष्टे प्रमृष्टार्ककतशिलातलनिषतनप्रतिफलनाद्विगुणप्रकाशितवासगृहोदरे प्रज्वलद्रत्नकुट्टिमोत्थितकांचनशलाकासहस्रप्रतिमे दृक्षरश्मिप्रसरे तिमिरोन्मूलनकुशले प्रसरति बालातपे अहमपि मोघरत्नप्रदीपगृहेण महाराजस्य पाश्चात्यपरिसमाप्तितसेवा- समयदिवसमुखे निर्गतः।” ↩︎
-
“क्लान्तोस्मि उष्णोच्छ्वासेन कुत्र पुनर्हिविश्रमिष्ये।” ↩︎
-
“भवतुगृहमेव गच्छामि केन खल्विदानीं मे गमनसंलापलाभोभविष्यति।” ↩︎
-
“अद्य प्रत्यूषविकसंतगृहदीर्घिकासरोरुहमुकुलोदरगलितबहलमकरंदरसार्द्रितेप्रविरलावश्या यजललवजडीकृतेतिमात्रशीतलीकृतमुक्ताफलजालिके अनभ्यर्थिततालवृंतानिले मंदानिले वाति निवासांतेऽहमपि लब्धविश्रामावसरः विमुक्ततालवृत्तंप्रहणः निर्गतो महाराजस्य पार्श्वात् तस्मादिदानीमात्मनः गृहं गच्छामि।” ↩︎
-
“अहो तालवृंग्राही प्रियसखा दासेरकः यावदेतं शब्दापयामि। रे रे दासेरक " ↩︎
-
“अहो रत्नदीपग्राही प्रियसखा उरन्नकः।” ↩︎
-
“अरे प्रियवयस्था दासेरका यूयं विरूपका खलु उपहसनीयाः।” ↩︎
-
“तथाहि। गच्छंति करभा इवात्र न शयनं लभतयुत्तानंउपगूहनं रतौ च निरंतरं वक्रहृदयकाः। " ↩︎
-
“अरे उरस्रक कलभगमनं स्वच्छतमानां पुरुषाणां गमनमिति प्रशस्यते।” ↩︎
-
“श्लेषितेऽभिलाषः यस्मात् अन्यथा भणितमपि अन्यथा व्याख्यासि मयखलु कलभ इतिशृंखल एवं भणितं न पुनर्विके, अत एव खलु ननु दासेरक इति त्वमंतः पुरे शब्दापयसि।” ↩︎
-
“अरे किं त्वमात्मन्यंधोसि युष्माभिः खलु वामनैः।” ↩︎
-
“आसनसदृश स्थितिभिरर्थत अत्यतं पतद्भिः चटुलनिकुब्जांगैःगम्यते कच्छपैरिव।” ↩︎
-
“अहो सुष्ठु कृतमुपालंभस्य प्रत्युपालंभः प्रियसखे मा खलु मह्यमसूयय याददिदानीं महंयुष्मान् प्रशंसे शृणु तावत्। प्राप्नुवंति रतौ दास्यः दृढपरिरंभमुदारपुण्यकाः। हृदयमपि स्वभावोन्नतं सुमहत्वं न खल्वस्त्यन्येषाम्।” ↩︎ ↩︎
-
“साधु प्रशंसितंप्रियसखे तेन हि अहमपि युष्मान् प्रशंसितं भवामि। देहाधिकोर्ध्वपृष्ठकानिधुवनचुम्बितनाभिकूपिकाः। अंशेषु कचगृहार्थमुपगूहंति खलु कुट्टिनीजनं।” ↩︎ ↩︎
-
“साधु प्रशंसितं। " ↩︎
-
“अरे सुसंगतं खलु एते निकुंजं।” ↩︎
-
“उपहसति प्रशंसति चकुब्जं निकुञ्ज इति।” ↩︎
-
“अरे पश्य तावदस्मादृशस्य राजपरिवारस्य।” ↩︎
-
“अरे विरुपपरिजनाः खलु वा ईषत् श्लाघंतएव प्रमद्यगणपरिपालने ईश्वर इवनन्वत्र निदर्शनं यस्मात् राजपरिवबारे कुब्जा बामना एडा का मूका बर्वरा किरातास्तिष्ठंति।” ↩︎ ↩︎
-
“अरे मा खलु अपरा हि संति च पंढमपि उपहासेन कलुषय खलु स्त्रीभिः पुरुष इव खेलति पुरुषैःस्त्रिय इव पुरुषैः पुरुष इव स्त्रीभिः स्त्रियमिव। " ↩︎ ↩︎ ↩︎
-
“अरे एवमेतल्लक्षोदाहरणं क्लीवभर्तृदारिकाया मैथिल्या महत्तरीका कलाबती। सा खलु, प्रकृतिचतुरा काव्येषु कलासूत्तरा च सुकलासु नेत्रषिलोभनरूपाऽनंगदौत्यैरभिरूपा।” ↩︎ ↩︎ ↩︎
-
“अरे एषा खलु सा वर्षधरा कलावती इतोऽभिवर्ततेऽनेन पुनः रुल्लापचतुरेण षंठेन सद्यः विश्रांतयोरावयोर्महान् कालो गच्छति। तस्मात् एहि आवामितः शीघ्रं गृहमेव गच्छावः। " ↩︎ ↩︎
-
" प्रियसखीकलावती माधवीवने खलु ननु भर्तृणा रामेण भर्तृदारिका दृष्टा तस्मात्सोपि प्रदेशस्त्वयान्वेष्टव्यः इति मन्ये सोपं तस्मिन्नेव वर्तते। कुतः। यत्र खलु प्रथमं दत्तः अक्ष्णोः उत्सवः प्रियजनेन चत्कंठितंजनं पुनः सोपि प्रदेशो विनोदयति। तस्मान्माधविवनं गच्छामि। " ↩︎
-
“कथमेको विटो मामुपहस्य विकसित मुखो भण्यते।” ↩︎
-
“का पुनरेषा किमपि शंकमानेव स्तनांंशुकावगुंठिता। च पापमवधीर्येतोभिवर्तते।” ↩︎
-
“कथं वेश्यवधूभिः रम्यते सखि किं त्वं क्लांतेवागच्छसि। किं भणसि। सखि अत्र वेश्याकाटमुखमंढपवर्तनींधूर्तगोष्टिं परिहृस्यात्मानं निग्रहमाना आगच्छामि। तेन हि युज्यते धूर्ता खलु नाम। महिलामपूर्वामपि विश्रब्धामिवकुर्वंति चाट्ठभिः तथा तथापि निवारिता कथमपि न मुंचति प्रार्ध्यमाना। " ↩︎ ↩︎
-
“सखि एवं चाहमपि लज्जामि तेन पथेन गंतुं। तस्माद्गच्छ त्वं” ↩︎
-
“यावदहमपि अनया कुसुमाग्रणवीभ्यागत्वा माधवीवनं प्रविशामि।” ↩︎
-
“एषा खलु कुसुमवननीभिः।” ↩︎
-
“अत्र खलु नित्यमकालकुसुमसूहमाहितमानुगुणा सर्वमनोत्सुकरी मधुश्रीः।” ↩︎
-
“आर्य अभ्यंतरे वयस्य सहितो दशरथिः वर्गते इति।” ↩︎
-
“तेन हि अहमपि लज्जे तस्य पार्श्वे विहतुं तस्मादन्यतो विहरिष्यामि।” ↩︎
-
“कथ सिंजितरवाकृष्टा घटंते मेतुलाको टिकोटिषु उद्यानदीर्घिकासु कलहंसिका। तस्माद्यर्थैते न सिंजंति मंजरिकास्तथा एनमुद्देशं निष्पंदे अन्यान् संगच्छामि।” ↩︎
-
“अथवा कियतीत्यहं प्रियसख्याः शोचनीयांदशां निवेदयामि भर्तुः। सा खलु। परितपति स्तनयोर्मोश्चविज्ञातयोरकृततपगुणयोस्तस्यालिंगनयोः। अथ च निजरूपया अप्रतीकारतया नहिजानंति सख्यः आत्मसात्सोढाः।” ↩︎
-
“कथमेकैषा महनीया स्त्री।” ↩︎
-
“भवति कुतो मामुपसर्पसि।” ↩︎
-
“आर्य किमपि पृष्टुं।” ↩︎
-
“तेन हि पृच्छ ते समीहितं।” ↩︎
-
“कस्मिन् ते प्रियवयस्यः।” ↩︎
-
“कोऽयं प्रियसखः।” ↩︎
-
“दाशरथिः।” ↩︎
-
“किं तं न जानासि।” ↩︎
-
“कथं सूर्यं हस्तेनापवारयसि।” ↩︎
-
“किं तेन कार्यं।” ↩︎
-
“किमपि तस्य प्रणयिन्याः संदेशमाख्यातं।” ↩︎
-
“का वा तस्य प्रणयिनी।” ↩︎
-
“सीता।” ↩︎
-
“किं त्वं तस्याः सखी।” ↩︎
-
“तेन हि विरम्यते अस्मात् परिभ्रमात्।” ↩︎
-
“किमिति खलु पूर्वंपरिभ्रमसि।” ↩︎
-
“तत्रभवती शिशिरोपचारोपकरणान्यानेतुं परिभ्रमामि त्वं पुनरिदानी तस्यानीदृशं शिशिरोपचारोपकरणं लव्ध्वास्मादेहि इदानीं शीघ्रं वयस्यस्य पार्श्वमेव गमिष्यावः।” ↩︎
-
“अहो पूर्वं स्त्रीष मया संजल्पितं वयस्येनेदानीं पुरुष इव संभाषयति।” ↩︎ ↩︎
-
“एष खलु तब शिशिरोपचारः।” ↩︎
-
“एषा खलु तत्रभवत्या सीतया त्वयि संयोक्तुमुत्कंठतया प्रिहतादूती।” ↩︎
-
“यद्भवान् भणति।” ↩︎
-
“तथापि कथय तत्र भवत्य अवस्थाम्।” ↩︎
-
“उभयं खलु विरहवतीनां प्रियजनसमागमसौख्यं जनयति संकल्पा निश च।” ↩︎
-
“वयस्य एकयावाचा संस्कृतं प्राकृतं भणत्येष वाकुशलःअत एव खलु संलप्यते स्त्रीपुरुषश्च।” ↩︎ ↩︎
-
“किं वा वर्ण्यते दृष्टैवं खलु सा मया वयस्यदशा यदेष रमणीयमपि कोकिलकूजितादि उद्वेजनीयं जानाति। " ↩︎
-
“एतादृशीं दशामनुभवतीं तत्र-भवती किं शिशिरोपचारेण प्रत्यवस्थापयति सखीजनः।” ↩︎ ↩︎
-
“वयस्य एतादृशीं तत्रभवतीमसमाश्वासयन् त्वं खलु अत्रोपालंभमर्हसि।” ↩︎ ↩︎
-
“हा धिक् हाधिक किंमतः परं प्रतिपद्यते। " ↩︎
-
“कथं खलु इत्यंभूतमप्यात्मानं समाश्वासयंतं वयस्यं तत्रभवती समादशसतीति विश्वसितुं।” ↩︎ ↩︎
-
“ईदृशीं तत्रभवती प्रत्यक्षं पश्यन्सखीजनः एवं तथा शोचनीयः। " ↩︎ ↩︎
-
“कथमवस्थांतरमारूढातत्रभवत्या विरहावस्था।” ↩︎
-
“कथं दुःसहं अस्या वृत्तं।” ↩︎
-
“किमपरमत्रविलंव्यतेऽवलंबितं खलु वयस्येन तत्रभवतीसमाश्वासितुं तव्यं।” ↩︎ ↩︎
-
“एतदपि उद्दीपनं तत्रभवतो गमनं त्वरायाः।” ↩︎
-
“युक्तमाख्यातमार्येणेदानीं पुनः प्रवृत्ता मध्यह्णसंंध्यातिक्रामति भोजनवेला तस्माद्यादद्गच्छामः।” ↩︎
-
“एतश्चसर्वे मेउपकारकं शिशिरोपचारक्रियायाः यावत्सज्जीकृतशिशिरोपचारं सज्जितं चंद्रकांतदारागृहं निवेदयामि भट्टदारिकायाः। कस्मिन् खल्विदानोसा वर्तते।” ↩︎
-
“आज्ञाप्तास्मि भर्तृदारिकया सीतया यथा सुकुमारिके बलवती खलु में इदानीं शिरोवेदना कः कालश्च चंद्रकांता घारागृहं सज्जीकर्तुं गतायाः प्रियसख्याः कौमुदिकायाः। तस्मात्त्वया शीघ्रं ज्ञात्वागंतव्यमिति यावत्तस्मिन् गच्छामि।” ↩︎
-
“का पुनरेषा इतो अभिवर्तते।” ↩︎
-
“कथं प्रियसखी सुकुमारिका।” ↩︎
-
“कथं प्रियसखी कौमुदीका” ↩︎
-
" सखि कुत आगच्छसि।” ↩︎
-
“सखि कौमुदिके अहं खलु इत आगच्छत्यास्त्वं चिरायसीतीदानी तु भर्तृदारिकया अग्रतो नियुक्ता। किं त्वया सज्जीकृतं तद्धागृहं।” ↩︎
-
“ओम् (स्वीकारे ↩︎
-
“सखि तिष्ठत्वेतत् का तु एषो भर्तृदारिकायाः संतापो यः शिशिरोपचारैरपि प्रत्यहं” ↩︎
-
" रहस्ये खल्लतावदात्मापि शंकितव्यः। " ↩︎
-
“एवमेततथापि रहस्यमिति भणति। अतिमात्रं मामुत्सुकयसि।” ↩︎
-
“कथं वा प्रियसख्या रहस्यं रक्षामि शृणु तावत्।” ↩︎
-
“अवहितास्मि।” ↩︎
-
" सखि एवं खलु अहंत्वमिव पुनर्निबंध्य पृच्छंति प्रियसख्या भणितास्मि कलावत्या यथा सखि कौमुदिके पूर्वं खलु वसंतदोलारोहणदिने कामदेवगृहाभ्यंतरे दृष्ट्ये भर्तृदारिकायाः भर्तारामः। पुनश्च माधवीवने आत्मनि उत्कंठमानो दृष्टः सं एवेदानी भर्तृदारिकासंतापहेतुरिति। " ↩︎
-
“सखि युज्यते!” ↩︎
-
“सखि किमिदानीमावां भर्तृदारिकापार्श्वं गच्छाव अथवा चंद्रकांतधारागृहे प्रतिपालयावः।” ↩︎
-
“एवं खल्वाहं प्रियसख्या भणितास्मि विनीतया यथा सखि सुकुमारिके बहुजनप्रलापं न सहते शीर्षवेदनातिरेकतः भर्तृदारिका तस्मात्सखिजनमपि सर्वं प्रमदवनद्वारे निषेधयेति।” ↩︎
-
“तेन हि त्वं तं नियोगमनुतिष्ठ अहमपि सज्जीकृतं धारागृहं भर्तृदारिकाया निवेदयामि।” ↩︎
-
“सखि कौमुदिके किं साधु सज्जितं चंद्रकांताधारागृहं।” ↩︎
-
“किं न सज्जीकरोति चंद्रकांतधारागृहं कौमुदिका।” ↩︎
-
“हला साधुभणितं यावत्त्वं गत्वा यथा भर्तृदारिका शीर्षवेदनां श्रुत्वा न क्लाम्यति भट्टिनी वसुधा यत्र तत्र वा विहारप्रदेशनिवेदनेन अनिर्विण्णां कुरु।” ↩︎
-
“प्रियसखि किमियमस्माकद्योगः कदाचिदमोघो अथवा हृदयस्यैष मोहः।” ↩︎
-
“भर्तृदारिकामेवं नियुंजन् मदनः भर्तारमपि त्वरितं तव प्राघूर्णिकं करोति। " ↩︎
-
“सखि दुस्सहं खलु तपति चंद्रातपो यावदेनं परिहृत्य अस्याः पृच्छायाया बकुलवाटिकायाः छायां गच्छामि।” ↩︎
-
“सखि स एव वरं चंद्रातपः अत्र खलूपरिनिपतद्भिः कुसुमवाणविजयवाणैः विध्यते बकुलकुसुमैः मे शरीरं। " ↩︎
-
“एतच्चंद्रकांताधारागृहं यावत्प्रविशामः।” ↩︎
-
“भर्तृदारिकेएतत्सर्वतः सज्जीकृतं शिशिरोपचारं निष्यंदयन्, यंत्रधारासहस्रं चंद्रकांतधारागृहं एषा चात्र तमालपत्रशय्या। यावदित एवं तव संतापमपनयतु। " ↩︎
-
“हंजे विनीते एतानि तमालदलानि दलंतीवहृदयं औध्मलतया।” ↩︎
-
“तेन हि इदानीं चंदनपल्लवरसेन सेचयामि।” ↩︎
-
“हंजे निष्पीडितमिव चंदनपल्लवैस्सह मे हृदयं। " ↩︎
-
“यावदनया गंधनीहारेण स्निग्धया जलार्दया वीजयामि।” ↩︎
-
“हलागंधनीहारसेकात् शीर्णे मे शरीरं।” ↩︎
-
“कथमेष गंधनीहारः अस्या दुर्भेदः परिणतः यावदेभिः कर्पूरचूर्णैःप्रतिकरोमि।” ↩︎
-
“हंजे चूर्णवति मे हृदयं कर्पूरचूर्णं।” ↩︎
-
“तेन हि अनेन मुक्ताफलक्षोदसंलिप्तेन कदलीपत्रेण चीजयामि।” ↩︎
-
“हला मौक्तिकक्षोदधवलितधारं कदलिपत्रं असिपत्रपत्रमिवानगस्योल्लसत्पश्यंत्याःविभेत्यात्मा तस्माद्यावत्तदन्यतो विक्षिप। अथवा मा खलु तन्मुंच एष खलु यंत्रनिपत्तचंद्रकांतानिष्पंदमंदहुंकारमूर्च्छितो मूर्छयति मामिदानीं मंदानिलहतकः यावत्तेन कदलीपत्रेणैतं मलयानिलंप्रतिवीजंती अन्यतोऽपसारय।” ↩︎
-
“कथमेष निवार्यते सदागतिः यावदनेन चंद्रकांतनिष्यंदप्रक्षालनेन कल्हारदलेन त्वां बीजयामि।” ↩︎
-
“हंजे चंद्रकांतनिष्यदापदेशेन निष्यंदते मे हृदयं यावत्कमलिनीपत्राणि समर्पयती पर्यवस्थापय।” ↩︎
-
“कथं मृगालिनीपत्राणि अभिगम्यागृहस्तोपि मे ओष्मायते यावत्सन्तापशुष्कपर्येतानि सिंचयामि मृणालिनीपत्राणि एलादलरसेन। अथवा तानि शुष्काणि मृणालिनीपत्राणि परित्यज्य चंद्रकलाकोमलानि मृणालानि अस्याअंगेषु समर्पयामि।” ↩︎
-
“हला एतानि बिसकंदानि सत्यं विषकंदानि।” ↩︎
-
“किमिदानीं करोमि भवतु यावदस्या अंगेषु भरितानि एतानि सकुसुमानि उत्पलकुसुमकांडानिसमर्पयामि।” ↩︎
-
“हंजे एते खलु ननूत्पलकांडाः कुसुमवाणस्य कांडाः तस्मात्त्वया किं क्रियते।” ↩︎
-
“कथं विदेहोऽपि स्वयं दग्धमन्मथः दहत्ययं विदेहपुत्रीं। " ↩︎
-
“अहं किं करिष्यामि भवतु यावदेतान् मौक्तिकशरान् संतर्पयंती लघूकरोमि अस्याः संताप।” ↩︎
-
“हला विनीते एते खलु शराः शरा एवं मन्मथस्य।” ↩︎
-
“भर्तृदारिके पश्य तावत् प्रेक्षामधुरां कौमुदीं गगनगंगा उडुपेनेवालंक्रियमाणांउडुपेन।” ↩︎
-
“हला अस्मिन्नपारे चंद्रिकासमुद्रे मज्जंतमलब्धीच्छ्वासमात्मानं धर्तुं न पारयामि। " ↩︎
-
“हा धिक् हंत।” ↩︎
-
“सखिसर्वमपि सोढुं शक्यते एषपुनरनन्यसाधारणं खलु मोहयति मां चंद्रमयूखः।” ↩︎
-
“कथं हरिणी व्याधेनेव चकोर्याः चंडातपेनेव चंदातपेन संधुक्षितः अस्याः संतापः। " ↩︎
-
“संतापस्य तपति प्रतीकारी यदि खलु कौमुद्येवसखिभण्यतेऽत्र अन्यः प्रतीकारः कौमुद्येव।” ↩︎
-
“भर्तृदारिके पश्य एतच्चखलु गगनगंगायाः सुरदंतिदंतपरिषाघातेनांतरुद्भिन्नंछिदवृत्तमिव विभाति प्रवर्तितकौमुदीनिर्मलजल- प्रवाहविक्षिप्तनक्षत्रबुद्बुदजालममृतमयूखविवं।” ↩︎
-
“दला एतंचंद्रहतकं निघ्यायंत्याः।चंद्रकांतोपलमिव में लोचनयुगलं बहलजलाविलं” ↩︎
-
“तेन हि मृणालहारपत्रबंधजलपत्रकं अक्षिषु कपोलेषु स्तनेषु च समर्पयंती अतिवाहय परिताप।” ↩︎
-
“हला इदानीं खलुमेअधिकं दलंति अक्षिणीवादं वाष्पं च। " ↩︎
-
“हा धिक्।” ↩︎
-
“तेन हि चंदनललाटिकां रचयामि।” ↩︎
-
“सखि स्वयमिवशीर्षवेदनैषगोशीर्षलेपः।” ↩︎
-
“भर्तृदारिके एतां विसतंदुकूलवासिनी मृणालाभरणधारिणीं दत्तचंदनचर्चक्यांकेसरकृतस्यासका मालतीमालाधारिणीमामुक्तमल्लिकामुकुलभारो नवमालिकामालिकामेखलां चंद्रकांतपुत्रिकामालिंगंती संतापं ते उद्धर्तु। " ↩︎
-
“हला सुष्ठु भणितं।” ↩︎
-
“सखिचंद्रकांतपुत्रिके किं मत्तोपि अधिकतरं त्वयि निर्दयो मन्मयहतकः येन त्वमपि एवं नाम परिकृतशिशिरोपचारा एतादृशंसंतापमुद्वहसि।” ↩︎
-
“भर्तृदारिके शिशिरोपचारः खलु न ते शिशिरोपचारः मन्ये शिशिरोपचारमोचनमेवेदानींशिशिरोपचार इति।” ↩︎
-
“हंजे किं करोमि सर्वतोवलग्नं मदनशरासारः शरधिरिव खलु मे आत्मा कुसुमायुधस्य।” ↩︎ ↩︎
-
“कस्मिन् कस्मिन् आर्यपुत्रः। मायुधस्य।” ↩︎
-
“भर्तृदारिके एवं खल्वहं वक्तुकामा कोन्य एष आत्मा शरधिरेव ते आपुंखनिममपुष्पायुधमाणसहस्र इति।” ↩︎ ↩︎
-
“हंत कुतो मे तादशानि भागधेयानि येनेदानीमार्यपुत्रः स्वयमागत्य अक्ष्णोर्मे उत्सवंददाति।” ↩︎ ↩︎
-
" भर्तृदारिके मा खलु तथा संतप्य अवश्यं खलु प्रियसखिकलावती न तेऽन्यथा भणति तस्मादत्र प्रविष्ट एवजानीहि भहिन्या वदितो मुहूर्ते प्रतिपालयामः।” ↩︎
-
“भर्तृदारिके मा खलु तथा संतप्य अवश्यं खलु प्रियसखिकलावती न तेऽन्यथा भणति तस्मादत्र प्रविष्ट एवजानीहि भहिन्या वदितो मुहूर्ते प्रतिपालयामः।” ↩︎
-
“भो वयस्य पश्य पश्य मकरध्वजविजयराज्याभिषेकसलिलप्रवाहस्यैव सौभाग्यं जोत्स्नापूरस्य।” ↩︎
-
“वयस्य किं न निर्वापयति तव हृदयं एषा नीहारविंदुकोमला कंठावलंबिनी हारलता।” ↩︎
-
“हंत कथमेष वर्धयते संतापं वयस्यस्य ब्रह्मबंधुकुमुदिनीबंधुः। " ↩︎
-
“एतदुत्तरतो माधवीवनंएषा चास्य दक्षिणतो पुष्प वाटिका यावदनयोरंतरेण गच्छावः तस्मादितः प्रियवयस्यः।” ↩︎
-
“वयस्यै तत्प्रमदवनपविमद्वारं। " ↩︎
-
“वयस्यनिर्विश एवं ज्योत्स्नापूरतरंग मामिष मुखिशशिरस्पर्शं प्रदोषानिलं।” ↩︎
-
“वयस्य एषा खलु सा तमालवीथिका।” ↩︎
-
“वयस्य एतत्खलु तत्प्ररूढकदलिस्तंभतोरणरमणीयं धारागृहद्वारं” ↩︎
-
“मा त्वमुपमामात्रे उत्कंठस्व उपमेयमेवेदानीं लभसे।” ↩︎
-
“वयस्य पश्य तावत् ज्योत्स्नासवर्णं स्पर्शानुमेयं चंद्रकांतनिष्पंदपादम्।” ↩︎
-
“अहो अस्याः स्वैर्ये।” ↩︎
-
" इतस्तावत्” ↩︎
-
“वयस्य एषा खलु अत्रभवती सीता विनीतासंहिता त्वांप्रतिपालयति।” ↩︎
-
“प्रियवयस्य एहि उपसर्पावः।” ↩︎
-
“तेन द्दि अत्रैव मुहूर्ते तिष्ठावः।” ↩︎
-
“हला विनीते किमनेनालब्धफलेन प्रतिपालनेन।” ↩︎
-
“भर्तृदारिके मा त्वं शोषयित्वा यथा त्वंमाधवीवनेसमाश्वसिता तत्कालसन्निहितेन भर्त्रा रामेण तथेदानीमपि स त्वांसमाश्वासयिष्यति।” ↩︎
-
“को वा अतोपि परं समाश्वासनकालः।” ↩︎
-
“यावद्भर्तागच्छति तावद्भर्तृदारिकामनुकूलेन क्रीडापदेशेन विनोदयामि।” ↩︎
-
“भर्तृदारिके यावन्माधविवनवृत्ततमभिनयंत्यः कामपि वेलामतिवाहयामः।” ↩︎
-
“हला साधु भणितं।” ↩︎
-
“तेन हि अहं भर्ता रामो भवामि त्वं पुनर्भर्तृदारिकैच भव।” ↩︎
-
“हला युक्तमाव्यातं।” ↩︎
-
“कथं पुष्पगंधिका प्रवृत्ता।” ↩︎
-
“रणप्राचुर्यशालिता।” ↩︎
-
“कथमनया कुंभदास्या चोरितो वयस्यस्य स्निग्धो धैर्यः स्वर उदारं च सत्त्वं। " ↩︎
-
“हला विनीते अचिदितभावे तस्मिन् जने कथं न लज्जसे मे उत्कंठा। किं मणसि मा संतप्य तमपि त्वमिवोत्कंठमानमेव द्रक्ष्यसीति।” ↩︎
-
“हला विनीते किं भणसि पश्य तावत् एष खलु पुरतः भर्ता राम इति तेनं खलु कृतार्थं मे चक्षुः।” ↩︎
-
“अहो आर्यपुत्रः। " ↩︎
-
“हला किं भणसि किमिदानीं तुष्यसीति।” ↩︎
-
“हंत किं तयेति मां विहस्तयति। हंजे किमिदानीमत्र स्थीयते तस्माद्रच्छावः अथवा कस्मिन्निदानीं गम्यते।” ↩︎
-
“कथं स्वयमेव परमार्थतः आर्यपुत्रः। " ↩︎
-
“भवति शीघ्रं संविधेयं खलु तद्यावद्भालाशोकसूले प्रवर्तितव्यमहमि ते सहायो भवामि।” ↩︎
-
“कथं प्रियसखी मामेकाकिनीं परित्यज्य गता।” ↩︎
-
“भर्तृदारिके एवं खलु महिन्या वसुध माहमाज्ञप्ता यथा कौमुदिके कः कालः प्रमदवने विहारार्थं गतायाः सीताया वत्सायाः श्रीवेदना इति च श्रुतं मया परिज नात् तस्मात्त्वं शीघ्रं गत्वा तामिल आनयेति तस्माद्यथा भठ्ठिनी न क्लाम्यति तथा भर्तृवारिकया शीघ्रं गंतव्यं।” ↩︎
-
“अहं संकटे पतितास्मि।” ↩︎
-
“भर्तृदारिके तेन हि शीघ्रं गंतव्यं।” ↩︎
-
“अविनीता खलु विनीता।” ↩︎
-
“वयस्य समासत्रो दिवसारंभः अद्य खलु पाणीदेशमवलेवमानः चकोरवारणानां दिनकरी कृष्णवर्णा ज्योत्स्ना मुकन् पश्चिनजलनिधिवेलाविहाररसिक इवालंबते शीतांशुः।” ↩︎
-
“वयस्य यावद्वयमपि गच्छामः।” ↩︎
-
“इतः प्रियवयस्यः।” ↩︎
-
“वयस्याहंखलु अत्रैवागच्छतं महाराज जनकं उम्रा असंवादेन प्रवेशितुं त्वरितमाहिंडितः। " ↩︎ ↩︎
-
“वयस्य इत एवागमिष्यति तत्रभवतीदानीं खलु सफलयेस्माकं प्रयत्नः येन लोकोत्तरपराक्रमविभवस्यात्रभवतः न किमपि त्रैलोक्ये दुष्करं नाम किं पुनः एतानमात्र चापाधिज्यकरणं कर्म।” ↩︎
-
“सतावदन्यून सहज म्यविक्रमोऽग्रतः प्रविशति अन्यः पुनरागच्छति वा न वा?” ↩︎
-
“भर्तृदारिके किं त्वं साधारणमनुष्यमध्ये लघूकरोषि भर्तारमपि रामं। स खलु सर्वथा मनुष्यरूपमात्रधारी देव इति समर्थयस्व तस्मान्न खलु तस्यैतदपि चापजीदा रोपणं विक्रमश्वाषायाः पर्याप्तिः।” ↩︎ ↩︎
-
“वचस्य एषा खलु अत्रभवती।” ↩︎
-
“भर्तृदारिके एष खलु भर्ता रामः। " ↩︎
-
“कथमागत एव।” ↩︎
-
“वयस्य किमपरं सर्वथा त्वयि सजे एव एतत् सज्यं भवति धनुः।” ↩︎
-
“संपूर्णा मे मनोरथाः।” ↩︎
-
“भर्तृदारिके दिष्ट्या वर्च्छामहे।” ↩︎
-
“किमेतत्।” ↩︎
-
“कथं भग्नं धनुर्वयस्येन।” ↩︎
-
“हला किमतेन।” ↩︎
-
“भर्तृदारिके भग्नं खलु धनुर्भर्त्रा।” ↩︎
-
“अहो लोकोत्तरको शलः कौशलेश्वरः।” ↩︎
-
“हला किमेतत्। " ↩︎
-
“मुग्धे मा विभेहि यादृशस्तेषां धनुरारोपणसंरंभः दादृशमेवाहो पुरुषिक्यमात्रं एतदपि च समरशौजिर्मे जानीहि।” ↩︎
-
“शोभनं शोभनं। " ↩︎
-
“कृतार्थं मे जन्म।” ↩︎