[[धनुर्भङ्गम् Source: EB]]
[
॥ धनुर्भङ्गम् ॥
श्रीरामादर्शदाम्पत्यम् । सान्तत्यं भारतावनौ ।
धर्मार्थकाममोक्षालिम् । दद्यात्कीर्तिञ्च शाश्वतीम् ॥
(नान्द्यन्ते)
सूत्रधारः – अयि कुटुम्बिनि ! हञ्जे कुटुम्बिनि ! किं अवसितमण्डनाऽसि ?
नटी – (नेपथ्ये) आर्य ! अलङ्करोम्यात्मानम् । भवान् किञ्चित्कालं तिष्ठतु ।
सूत्रधारः – हञ्जे वेला अतिक्रान्ता क्षिप्रमेहि । स्वात्मनः अलङ्करणं विना नान्यदस्ति नारीणां जगति । एताः अलङ्करणसमये, स्वात्मानं आदर्शे विलोक्य विविध चेष्टादिकं कुर्वन्त्यः मर्कटायन्ते । (उद्वेगेन) हञ्जे ! कुटुम्बिनि !
नटी – (कर्णाभरणं अलङ्कुर्वन्ती) एषास्मि भोः (इति प्रविशति)
सूत्रधारः – तरुणि इतः पश्य । अद्य धनुर्भङ्गं नाम नाटकं प्रदर्शयितुं भारतीय परम्परानुयायिभिः आज्ञप्तोऽस्मि । तस्य कृते ते सहायमपेक्ष्यते ।
नटी – आर्य !नाटक प्रदर्शने सर्वदा मम सहायः भविष्यति ।
सूत्रधारः – प्रिये भवदीय सहकारेण प्रमुदितोऽस्मि ।
नटी – किं मया कर्तव्यं आज्ञापयतु भवान् ।
सूत्रधारः – भवती सङ्गीतराज्ञी । प्रथमतः वसन्तरागे वसन्त ऋतुमुद्दिश्य गायस्व यतः सामाजिकाः रसिकमनस्काः भूत्वा नाटक दर्शनोन्मुखाः भविष्यन्ति-
नटी – विचित्र पुष्पाभरणा धरित्री । हरीतचीरावसनं दधाना ।
पैकस्वरेणामधुरं लपन्ती । चैतन्यवन्तं कुरुते प्रपञ्चम् ॥
सूत्रधारः – प्रिये सुष्टुगीतं भवत्या । भवदीय वसन्तरागेण न केवलं वसन्तः वसन्तीकृतः किन्तु प्रेक्षकाः अपि वसन्तीकृताः ।
नटी – अनुग्रहीताऽस्मि । आर्य ! कविपरिचयं श्रोतुमिच्छामि ।
सूत्रधारः – परीक्षिन्नाटकचक्र कर्ता परीक्षित् शर्मा अयं महाकविः । अयं गीर्वाण प्रपञ्चे प्रथितयशाः । किम्बहुना ।
संस्कृतिर्जीवनं यस्य । संस्कृतं श्वसनं सदा ।
अभूत्तस्य ध्रुवं जन्म । सार्थक्यं मेदिनीतले ॥
नटी – आर्य अन्येषां आधुनिकानां कवीनां नाटकानि विहाय, अस्यकवेः नाटक प्रदर्शने कोविशेषः ।
सूत्रधारः – अयं प्रतिभाशाली । अयं जन्मना कविः । पश्य ।
द्राक्षागुलुच्छ स्वादिष्टम् । हृदयाह्लादकं परम् ।
अन्तर्बहिश्च तत्सर्वम् । कवित्वं रसनिर्भरम् ॥
नटी – अयं आधुनिक कवि मणिमालायां परं नायकायते । (आकर्ण्य) अयि भोः युवतीनां हसित प्रलापाः श्रूयन्ते कास्ताः ?
सूत्रधारः – (आकर्णनमभिनीय) एताः युक्त्यः सीतया सहिताः कन्दुक क्रीडार्यं इतः एव आगच्छन्ति । एहिगच्छावः । (इति निष्क्रान्तौ)
(ततः हसन्त्यः सीता मञ्जुला वकुला चम्पाः प्रविशन्ति)
वकुला – सीते त्वं अत्र आग्नेयमूले तिष्ठ । (इति सीतां निर्दिशति सीता गत्वा तथैव तिष्ठति)
चम्पा – सखि वकुले ! अहं कुत्र तिष्ठेयम् ?
मञ्जुला – चम्पे ! त्वं नैरुतिमूले तिष्ठ ।
वकुला – मञ्जुला कथनानुसारं त्वं नैरुति मूले तिष्ठ ।
(चम्पा गत्वा तथैव तिष्ठति)
मञ्जुला – सखि वकुले ! अहं कुत्र तिष्ठेयम् !
वकुला – त्वं वायव्यामूले तिष्ठ ।
(मञ्जुला तथाकरोति)
चम्पा – वकुले ! त्वं ईशान्यामूले तिष्ठ ।
वकुला – त्वदीरितं सत्यमेव परिशेषन्यायेन अहं तथैवकरिष्यामि ।
(इति तथाकरोति)
सीता – सख्यः वयं चतस्रः दिक्पालकानां सहधर्मचारिण्यः इवतिष्ठामः
वकुला – वयं मर्त्यलोकीयाः तथा न भविष्यामः ।
मञ्जुला – सखि ! स्थितस्यगतिः चिन्तनीया ।
वकुला – हां सत्यमेव । श्रुणुत कन्दुकः ममहस्ते विद्यते । महां, या रोचते तस्यै कन्दुकं अस्यामि । सा कन्दुकं गृहीत्वा तस्यै या रोचते तस्याः सकाशं अस्यति । एवं सर्वैरपि तथैव कर्तयं अव्यवधानेन ।
(इति वकुला कन्दुकं सीतां प्रति अस्यति)
(कन्दुकं गृहीत्वा मञ्जुलां प्रति अस्यति)
(तथा सर्वाः खेलनपराः भवन्ति)
(निमेषद्वयानन्तरं यदा कन्दुकं सीतायाः हस्ते भवति तदा)
सीता – सख्यः ! वयं एकैकशः हस्तेन भूमिकन्दुक ताडन खेलनं कुर्मः ।
सर्वाः – (तथैव) सीता हस्तेन भूमिकन्दुकताडनोत्पतन खेलनं कुर्वन्ती आस्ते ।
चम्पा – हञ्जे ! वकुले ! खेलनपरां सीतां पश्य एषातन्वी, खेलने सुरसुन्दरीव नवीनशोभां तनोति ।
वकुला – सत्यमेव खेलनसमये अस्याः हावभाव विलास लास्यादिकं पुरुषायित मग्न नाकविलासिनीव दिदृक्षूणां बुद्धिं जनयति ।
मञ्जुला – अन्यदाश्चर्याम्पश्य ! सीतां परितः पवित्रा काण्यभिरव्या चक्रभमणं करोति ।
वकुला – एषा अयोनिजाखलु, सर्वत्र चालने हसने, भणने दिव्यत्वमेवाभासते ।
सीता – सख्यः पश्यन्तु भवत्यः अहं कियत्कालं क्रीडासकताऽभवम् इति ।
चम्पा – सीते ! वयमपि तदेव भणामः ।
वकुला – अस्माभिः यद्दृश्यते यद् अनुभूयते तदेव वयं भणामः ।
मञ्जुला – सहजसौन्दर्यम्मुद्दिश्य यत्किमपि भाणितुं वयं स्वतन्त्राः ।
सीता – भवन्त्यः वक्रोक्तिभिः मां तुदन्ति ।
चम्पा – सीते तुदन्ति इति मावद । स्तुवन्ति इति कथय ।
वकुला – वयं असत्यं न भणामः । किन्तु सत्यकथने काबाधा ।
मञ्जुला – सरसगोष्टीं अन्तरेण नान्या सन्तोषदायिनी भवति ।
सीता – सख्यः इतः पश्यन्तु ।
एषाच कन्दुकक्रीडा । चित्तवृत्ति निरोधका ।
आह्लादं तनुते स्वान्ते । श्रमयोऽध्वस्त्त तन्द्रिता ॥
वकुला – सखि ! सत्यंश्लोकितं भवत्या ।
मञ्जुला – वकुले ! सीता मुग्धापि भावगोपने प्रौढा भाति ।
चम्पा – विलासिनीनां भावगोपनं सहजमण्डनं भवति ।
वकुला – सख्यः । पश्यन्तु भवत्यः ।
कन्दुकक्रीडया तन्वीम् । प्रविचालित कुण्डलाम् ।
पुरुषायितमग्नाङ्गीम् । रासिक्ये प्लाविनीं प्रियाम् ॥
सीता – सख्यः ! अहं परिश्रान्ता अनया कन्दुकक्रीडया । अधुनावयं उपविश्य कन्दुकक्रीडां खेलिष्यामः ।
सर्वाः – (तथैव इति उपविश्य कन्दुकक्रीडां खेलन्ति)
सीता – (सकोपं) कन्दुकं वकुलाम्प्रति अस्यति ।
वकुला – सखि ! सीते ! भवती मयि कृथ्यसि । तस्मात् वेगेन कन्दुकं मां ताडयितुमिव अस्यसि ।
सीता – वकुले ! तथा मया नकृतम् ।
(इति हसति)
वकुला – (कन्दुकुं सीतां अस्यति । सः कन्दुकः गच्छति तत्र विद्यमान धनुष्पेटिकामधोऽधः प्रविशति)
सीता – वकुले कन्दुकः पेटिकायाः निकटङ्गतः । अहं तं कन्दुकमानेतुं गच्छामि ।
(इति गच्छति)
चम्पा – सीते धनुष्पेटिकासमीपं त्वं मागच्छ ।
सीता – त्वं मां किमर्थं निवारयसि ।
चम्पा – सीते ! इयं धनुष्पेटिका बहुभारवती । तस्याः स्पर्शनमपि ते नयोग्यम् ।
सीता – सखि ! एतत् शिवधनुः कथं स्पर्शंयोग्यं न भवति ।
वकुला – सीते ! त्वं शिरीषमृद्वङ्गी इदं ते स्प्रष्टुं न योग्यमिति ।
सीता – सखि ! अहार्यनिश्चयाहम्, अवश्यं कन्दुकम् आनयेयम् ।
(इति धमुष्पेटिकासमीपं गच्छति शकटं द्वाभ्यां हस्ताभ्यां अपसारयति कन्दुकं आनयति)
सर्वाः – आहो (इतु साश्चर्यं गण्डस्थले हस्तान्ङ्गुलिं निधाय आश्चर्य मुद्रामभिनयन्ति)
वकुला – सीते त्वं शक्तिस्वरूपिणी ।
(इति तस्याः हस्तौ गृहीत्वा)
गीतम् (काफीरागे)
सखि सत्यं त्वं भागवती
भवति च नूनं वेदवती
नूनं सुमति तवभर्ता
भविता कोऽयं भणकर्ताम् ॥ सखि
(इति सीतां विसृजति)
मञ्जुला – सखि ! सीते (इति तस्याः हस्तौ गृहीत्वा)
गीतम् (सोहिनी)
भवसि च रूपे अबला
नूनं कर्मणि सबला
लोके भवती मातुला
सीते भवसि च प्रिय हला ॥ सखि
(इति सीतां विसृजति)
चम्पा – सीते (इति तस्याः हस्तौ गृहीत्वा)
गीतम् (दुर्गारागे)
कात्वं भण पिकवाणि
श्रावय किञ्चित् गीर्वाणि
कदा भविता त्वं कल्याणि
माविस्मर किसलय पाणि ॥ सखि
(इति सीतां विसृजति)
(सीतां मध्ये संस्थाप्य सर्वाः सख्यः मण्डलाकारं कुर्वन्ति । आनुनासिक्य स्वरैः बम्भरगुञ्जनैः, शब्दोत्पादनं कुर्वन्त्यः सविलासं, चक्रभमणं कुर्वन्त्यः सन्ति ।)
(यवनिका पतति)
*******************************************************************
.
द्वितीयं दृश्यम्
जनकः, पुरोहितः, शतानन्दः, मन्त्री च स्वीय आसनेषु अलङ्कृताः सन्ति ।
जनकः –मन्त्रिन् एतत् मम महत् आश्चर्यं भवति, यत् मे कन्या सीता अत्यन्तं भारभूतं शिवधनुश्शकटं अचालयत् इति ।
शतानन्दः – साबाला लौकिका नहि । केवलं दैवांश सम्भूता इति मन्ये ।
जनकः – सत्यं इयं मे नन्दिनी अयोनिजा । सर्वशक्तिसम्पन्ना । तस्मात् पुरुषश्रेष्ठः वरः द्रष्टव्यः अस्ति ।
मन्त्री – युक्तमेव राज्ञां गान्धर्वविधिना विवाहः ।
शतानन्दः – राजन् ! स्वयंवरविवाहः योग्यः ।
जनकः – वयमपि तमेव भावयामः ।
मन्त्री – तर्हि स्वयंवरार्थं प्रकटी कुर्वन्तु ।
जनकः – तमेवकर्तु व्यवसितावयम् ।
मन्त्री – स्वयंवरे पणनं किं विद्यते ।
जनकः – पणनं शिवधनुः अस्ति । श्रुण्वन्तु ।
यःकरोति धनुर्भङ्गम् । अद्यम्यैतन्महाबलः ।
तं वृणीते सती सीता । पुरुषं दैवसन्निभम् ॥
मन्त्री – अस्मिन् कर्मणि निरताः बहवः राजानः सन्ति । ते सर्वेऽपि स्वयंवरार्थं समागमिष्यन्ति ।
जनकः – शैवं धनुः न सर्वोऽपीभङ्क्ष्यति ।
शतानन्दः – यः कोपि दैवांश सम्भूतः शक्तः भविष्यति ।
जनकः – मे जानकी अयोनिजा दैवांशसम्भूता तस्मात् स्वयंवरार्थं पणनरूपेण राजानः समाहूयन्ते ।
मन्त्री – शुभस्य शीघ्रं अहं श्वः घोषणार्थं घोषकान् प्रेषयिष्य ग्राम ग्रामं नगरं नगरम् ।
शतानन्दः – आर्य ! आलस्यं अमृतं विषम् । तस्मात् अद्यैव घोषकान् घोषणार्थं प्रेषयतु भवान् ।
मन्त्री – भवद्भिः यत् निगदितं तत् योग्यम् इति मन्ये । अहं अद्यैव कारयेयम् ।
जनकः – कः कोऽत्रभोः ।
प्रतीहारी – (प्रविश्य) अयमस्मिभोः ।
जनकः – अरे लेखनतज्ञं प्रवेशय ।
प्रतीहारी – यथाज्ञापयति देवः ।
(इति नमस्कृत्य गच्छति)
लेखकः – (प्रविश्य) नमांसि महाराज ।
(इति नमस्करोति)
जनकः – अयि लेखक ! सीतास्वयंवरार्थं त्वं घोषणापत्रमेकं संसिद्धङ्कुरु ।
लेखकः – महाराज ! केकेविषयाः उल्लेखनीयाः सन्ति आज्ञापयन्तु भवन्तः ।
जनकः – महामात्य ! भवान् सविस्तरं कथयतु ।
मन्त्री – भोः लेखक ! श्रुणोतु भवान् । यः शिवधनुर्भङ्गम् करिष्यति तस्मै जनकमहाराजस्य दुहिता सीता जीवनसहभागिनी रूपेण प्रदीयते इति घोषणापत्रं विलिख्य तत्घोषयितुं नगरं नगरं ग्रामं ग्रामं घोषकान् प्रेषयतु ।
लेखकः – अवहितोऽस्मि (इति नमस्कृत्य गच्छति)
जनकः – महामात्य स्वयंवरार्थं सर्वसन्नाहं करोतु भवान् ।
शतानन्दः – महाराज ! विवाहसमये चतुर्वेद पारगान् ब्राह्मणान् दशग्रन्थि ब्राह्मणान् आशीर्वचनार्थं सम्भावनार्थं निमन्त्रणादिकं प्रेषयेयम् ।
जनकः – भवद्भिः यत् कर्तव्यं तत् सर्वं कुर्वन्तुभवन्तः ।
(नेपथ्ये घंटारावः)
मन्त्री – महाराज ! घण्टारावः श्रूयते ।
जनकः – कः कोऽत्रभोः ।
प्रतीहारी – (प्रविश्य) अहमस्मि भोः ।
जनकः – मार्गदर्शीभव । इति उत्तिष्ठति । (सर्वेऽपि उत्तिष्ठन्ति)
प्रतीहारी – यथाज्ञापयतिदेवः । इतः इतो देवः ।
(सर्वे तमनुसरन्ति)
(यवनिका पतति)
*****************************************************
.
तृतीयं दृश्यम्
(कल्याणिरागे शहनाई भवति)
| मञ्जुला वकुला चम्पाः प्रविशन्ति |
मञ्जुला – वकुले सीता स्वयंवरार्थं अस्माभिः स्वयं सर्वसन्नाहाः करणीयाः सन्ति ।
वकुला – हां जानाम्यहम् । सर्वं सुगन्धिलकुसुमनिचयं विलूय आनीतास्मि ।
मञ्जुला – चम्पे ! त्वं कर्पूरमिश्रितचन्न्दनं संसिद्धं कुरु । अहं गन्धिलजलं झरीपात्रेषु प्रपूर्य हरिद्राकुङ्कुमचूर्णादिकं, नागवल्लीदलयुक्त मुक्ताचूर्णं क्रमुकादिकं विविधपात्रेषु निक्षिपेयम् । अहं धूपादिकेन सर्वमपि कल्याणमण्डपं गन्धायितङ्कुर्याम् । (इति सर्वसन्नाहं कुर्वन्ती आस्ते ।)
(ततः प्रविशति सीता)
मञ्जुला – सीते एहि । त्रिपादिकापीठोऽपरि उपविशतु तत्र भवती ।
सीता – (लज्जया उपविशति)
मञ्जुला – सीते वयं त्वां स्वयंवरार्थं अलङ्कर्तुं उद्युक्ताः । तत्र भवती प्रशान्तभावेन अत्र उपविश ।
सीता – सख्यः ! मम स्वयंवरे तत्र भवत्यः दिवारात्रं कृतश्रमाः भवन्ति ।
चम्पा – सीते । अस्मद्भ्यः एतत् मण्डनादिकं पुनः भवत्याः कदाभविष्यति ।
सीता – स्वयंवरानन्तरं अस्माकं मेलनं न भवति किम् ?
मञ्जुला – कथं भविष्यति । अनुरूपेण वरेण ते मेलनं भवति । तदा वयं काः ?
सीता – युष्मान् अहं कथं विस्मरिष्यामि ।
चम्पा – मञ्जुले ! सर्वालङ्करणभूषितां सीतां द्रंष्टुं वः नेत्राणि अपर्याप्तानि भवन्ति ।
वकुला – एतैः नेत्रैः सीताभिन्नं द्रष्टुं वयमशक्नुमः ।
सीता – यूयं मामुद्दिश्य अतिशयोक्तिं कुर्वन्ति ।
चम्पा – स्वीय सौन्दर्यमाधुर्यं स्वयं नकोपि जानाति ।
वकुला – परे केवलं जानन्ति वस्तुसौन्दर्यं, नकदापि वस्तु ।
मञ्जुला – (आदर्शमानीय सीतायै ददाति) सीता आदर्शे सौन्दर्यं चित्रीकरोति ।
चम्पा – मञ्जुले ! सीता आत्मनः बिम्बं आदर्शे कथं पश्यतिवा निरीक्षरस्व ।
मञ्जुला – एषा स्व प्रतिबिम्बं आदर्शे विलोक्य तन्मयतां प्राप्नोति । सत्यं एषा मूर्तीकृत त्रिलोकसौन्दर्यमिव प्रतिभातिः
(ततः प्रविशति वेत्रवती)
वेत्रवती – अयि सख्यः ! यदि सीता अवसितमण्डना भवति तर्हि स्वयंवरमण्डपमानीतव्या इति जनकमहाराजस्यादेशः । (इति नमति)
सीता – हञ्जे ! सीता अवसितमण्डना अस्ति । अधुनैवागच्छति इति राज्ञे निवेदय ।
वेत्रवती – यथाज्ञापयति देवी ।
(इति गच्छति)
मञ्जुला – सखि सीते !
श्रुत्वा त्वां भुवि वीरमण्डलमहो
सौन्दर्यराशिः प्रिया ।
वकुला – अपिच
सीता नान्यतुला विभाति धरणीसौन्दर्यमूर्तीकृता ।
चम्पा – तस्मात् ।
इत्येवं सुविचार्यं वारणरथाश्वैश्चारुशोभायुतम् ॥
सर्वाः – प्राप्नोत्येव वरीतुमत्र महिते सीते नुते भुसुते ।
सीता – (लज्जया हस्ते विद्यमानपुष्पमालया सर्वाः ताडयन्ती विनीर्गता ।)
(सर्वाः अपि हसन्त्यः सीतामनुसरन्ति)
(यवनिका पतति)
*****************************************************
.
चतुर्थं दृश्यम्
राजा जनकः शतानन्देन सार्थं धनुर्भङ्ग दर्शनाय उपविष्टः अस्ति, तत्रपार्श्वे धनुष्पेटिका वर्तते । अङ्गदेशीयोराजा, वङ्गदेशीयोराजा, काश्मीराधिपतिश्च, उपविष्टाः सन्ति ॥
(वाचकः क्रमशः एकैकं राजानं नाम्ना आह्वयति ते सर्वे आगत्य धनुर्भङ्गकर्तुं असफलाः भूत्वा निर्गच्छन्ति ।)
वाचकः – अङ्गदेशीयाः सकलारि सम्मर्दनाः सिंहबलाः अनलोनाम राजानः आगच्छन्ति ।
(राजा उत्थाय बाहू प्रसार्य भुजास्फालनङ्कृत्वा धनुः उन्नमितुं प्रयतते अन्ततः अधःपतति, लज्जितः निर्गच्छति)
वाचकः – वङ्गदेशीयाः अष्ठैश्वर्यभूषिताः धनुर्विद्यापारङ्गताः आदित्य महाराजाः ।
(उत्थाय बाहूप्रसार्य पादौप्रसार्य श्मश्रु सम्मार्ज्यं वामहस्तेन उन्नमितुं प्रयतते, द्वाभ्यां हस्ताभ्यां उद्धर्तृम् असमर्थः भूत्वा निर्गतः)
वाचकः – गजरथतुरगचमूनाथाः काश्मीराधिपाः समरनाथाः । (सगर्वमागत्य धनुः उद्धरति । धनुर्भारेण कम्पितः धनुस्त्यागङ्कृत्वा निर्गच्छति)
जनकः – (चिन्ताक्रान्तः) शतानन्द किमिदमाश्चर्य एकोऽपि वीरः धनुरुद्यमितुं समर्थो न जातः ।
शतानन्दः – तथा माकथयन्तु । वीरमण्डलं एतावत्पर्यन्तं अत्र नागतमिति मे प्रतिभाति ।
जनकः – तथा यदिस्यात् सीता अविवाहिता भविता किम् ?
शतानन्दः – तथा नभवति ।
जनकः – अस्मिन् विषये विचारः कर्तव्यः एव । धनुरिदं अपसारितं सीतया । लोके सीतापेक्ष्या पुरुषेषु अबलाः सन्ति किम् ?
शतानन्दः – महाराज । सीता अयोनिजा देवांशसम्भूता । अस्मिन् कर्मणि अवश्यं दैवाशसम्भूताः भविष्यन्ति ।
जनकः – एतावत्पर्यन्तं नकोपि दैवांश सम्भूतो समागतः ।
शतानन्दः – राजन् !
सृष्ट्यां सर्वं यथायोग्यम् । सम्बद्धं भाति सर्वदा ।
तत्रास्ति योजको देवः । मास्तु चिन्ता कदापि भोः ॥
जनकः – शतानन्द ! सृष्टिकर्ता देवः । किन्तु योजकः अन्यः भवति येनकेनापि निमित्तेन ।
शतानन्दः – साधूक्तं भवद्भिः । अवश्यं तत्र भविता संयोजकः ।
जनकः – लोके सर्वदा योजकः दुर्लभः भवति ।
शतानन्दः – राजन् न विचारः कर्तव्यः । योजकः भविष्यति सर्वं यथोचितं मङ्गलान्तं भविष्यति ।
जनकः – अधुना माध्यान्हिका अनुष्ठानं निर्वर्त्य पुनः सायं स्वयंवरार्थं सभां उद्घटयिष्यामः ।
शतानन्दः – तथैव राजन् ! किन्तु मेमनसि एतादृशी भावना विद्युतायते ।
जनकः – कीदृशी ते भावना ।
शतानन्दः – सायंकाले शान्तवातानुकूले । सन्ध्यारागे दिव्यगोधूलिरम्ये ।
नूनम्भव्यं तद्धनुर्भङ्गमेतत् । भाव्यं राजन् श्रूयतांवच्मिसत्यम् ।
जनकः – तत्रभवन्तः शतानन्दाः भवतांवचनं सत्यं भविता नकोण्यत्रसन्देहः ।
शतानन्दः – राजन् गच्छावः एहि ।
(इति निष्क्रान्तौ)
(यवनिका पतति)
******************************************************************
.
पञ्चमं दृश्यम्
(ततः प्रविशति जनकः शतानन्देनसमं, जनकः सिंहासने उपविशति शतानन्दः विद्यमानपीठे उपविशति)
जनकः – शतानन्द ! भवतां ज्योतिष्यानुसारं सन्ध्यासमये सर्वं भविता ।
शतानन्दः – भविष्यतीति मे भावना । यतः
भविष्यमाणं जगति प्रजानाम् । छायानुरूपेण सदा चकास्ति ।
तपस्विनां तत्र भवत्यजस्रम् । सचित्ररूपं बहुधासमक्षम् ।
(ततः प्रविशति दौवारिकः)
दौवारिकः – महाराज कुशिकनन्दनः बालाभ्यां सहितः युष्मात् द्रष्ठुं द्वारि तिष्ठति ।
जनकः – क्षिप्रं प्रवेशय ।
दौवारिकः – यथाऽज्ञापयति देवः । (इति गच्छति)
शतानन्दः – अयं तपोधनः बालाभ्यां समागतः । कौतौ बालौ ?
जनकः – पश्यामः
(ततः प्रविशति रामलक्ष्मणाभ्यां कुशिकनन्दनः ।)
कुशिकनन्दनः – महाराज ! परिपूर्ण मनोरथो भवतु भवान् ।
जनकः – (उत्थाय) नमांसि भूयांसि कुशिकनन्दनाय । अत्रोऽपविशन्तु भवन्तः सशिष्याः ।
(इति पार्श्वस्य आसनानि दर्शयति)
कुशिकनन्दनः – (सशिष्यः तत्र यथानिर्दिष्ठं उपविशति)
जनकः – कुशिकनन्दन ! कथं भवान् अत्राऽगतोऽस्ति ।
महान्तः सततं लोके । नैव यान्ति निकेतनम् ।
परेषां यदि यास्यन्ति । तत्रस्यात्कारणं ध्रुवम् ।
कुशिकनन्दनः – (विहस्य) निर्वर्तितसत्रः क्षिप्रं अत्राऽगच्छामि ।
शतानन्दः – कौतौ तापसकुमारौ ।
कुशिकनन्दनः – एतौ तापसकुमारौ नहि ।
जनकः – कावेतौ ।
कुशिकनन्दनः – इमौ दशरथ तनयौ ।
जनकः – एतौ राजपुत्रौ ?
वर्चिष्मन्तौ प्रियावेतौ । काषायाम्बरधारिणौ ।
राजपुत्रौ विराजेते । पावकाऽवृत सामिधौ ।
शतानन्दः – एतौ भवतासार्थं कथम् ?
कुशिकनन्दनः –
एतौच बालौ बहुवीर्यवन्तौ । सुबाहुमारीच निशाचरादीन् ।
निहत्य पूतं मम यज्ञकार्यम् । ररक्षतुर्दानव घोरसङ्कटात् ॥
अहं अनयोः साहाय्येन अवसित सत्रोऽस्मि ।
जनकः – किं नाम धारिणौ ?
कुशिकनन्दनः – अयं नील मेघशामः रामः । अयं लक्ष्मणः (इति द्वावपि पर्शयति)
शतानन्दः – (विकसितवदनः) साधु महामुने साधु । कुमारयो नामश्रवणानन्तरं तयोः शौर्यंश्रवणानन्तरं जनकमहाराजस्य भावनाः सर्वाः पल्लविताः भवन्ति ।
जनकः – कथं तत्र भवन्तः अत्राऽगतवन्तः ।
कुशिकनन्दनः – (विहस्य) अवसित सत्रेमयि कापि घोषणा मे कर्णपथं प्राप्ता । तदर्थं शिष्याभ्यां अत्र समागतोऽस्मि । तां घोषणाम्प्रति सविस्तरं कथयन्तु भवन्तः ।
जनकः – (सहर्षं) पूज्यातिथयः किञ्चित्कालं विश्रान्तिसुखमनुभवन्तु ।
कुशिकनन्दनः – तपस्विनां विश्रान्तिः कुतः ।
जनकः – तथायदि श्रुण्वन्तु घोषणाम् । देवरात इति ख्यातः महीपतिः आसीत् । अयं न्यासः तस्य ।
कौशिकः – ततस्ततः ।
जनकः – दक्षयज्ञवधे कृद्धं रुद्रं देवाः प्रसारयन् । रुद्रः प्रीतः अभूत् । तदातस्य धनुःन्यासं आसीत् अस्मदीय पूर्वजानाङ्गृहे ।
कुशिकनन्दनः – ततस्ततः ।
जनकः – इयङ्कथा धनुषः ।
कुशिकनन्दनः – एषाकन्या कदासम्भूता ।
जनकः – एषाकन्या अयोनिजा ।
कुशिकनन्दनः – आश्चर्यम् । निवेदयन्तु सविस्तरम् ।
जनकः – क्षेत्रं कृषतः मे इयं कन्या लब्धा । तस्मात् सीता नाम्न बभूव ।
कुशिकनन्दनः – ततस्ततः ।
जनकः – इयं वीर्यपराक्रमशुल्का ।
कुशिकनन्दनः – ततस्ततः ।
जनकः – अस्मिन् विषये धनुर्ग्रहणमपि दुष्करं जातं वीर्यवताम् ।
दर्शयिष्यामि रम्यन्तत् । धनुर्भैमं महामुने ।
कुर्याद्यदि धनुर्भङ्गम् । तस्मै सीता प्रदीयते ॥
(इति उत्थाय धनुःदर्शयति, विश्वामित्ररामलक्ष्मणाः पश्यन्ति)
जनकः – श्वः धनुर्भङ्गार्थं बहवः राजानः समागमिष्यन्ति । तत्र महासभा भविष्यति । यूयं अतीव श्रान्ताः विश्रान्तिसुखमनुभवत ।
कुशिकनन्दनः – वयं अतीव प्रहृष्टास्म ।
(उत्थाय नमस्कुर्वन्ति गच्छन्तिच)
(जनकशतानन्दौ उत्थायगच्छतः)
(यवनिका पतति)
****************************************************
.
षष्ठं दृस्यम्
(वेदिकामध्ये जनक शतानन्द पुरोहिताः उपविशन्ति । एकत्र पार्श्वे सीता तस्या सख्यः पुष्पाक्षतसहित पुष्पहारनीराजनापात्रैः उपविष्ठाः सन्ति । अन्यत्र पार्श्वे विश्वामित्ररामलक्ष्मणाः उपविष्ठाः । जनकस्य पुरस्तात् किञ्चित् दूरे धनुष्पेटिका स्थापिता विद्यते । वाचकः रङ्गस्थलस्य एकस्यां दिशायां स्थित्वा नामानिवाचयति)
वाचकः – आन्ध्रदेशात् चतुरङ्ग बलसम्राट् चन्द्रचूडमहाराजाः ।
(महाराज शनैः धनुरुन्नमितुं अशक्तः भूमौ पतति, उत्थाय गच्छति)
महाराष्टदेशीयः दुर्गाधिपः रमाकान्तमहाराजाः । (आगत्य धनुरुद्यम्य अशक्तः भूमौपतति, उत्थाय गच्छति)
राजस्थानीयाः महाराजाः सङ्ग्रामकेसराः । (उत्थाय धनुरुद्यम्य भूमौपतति)
जनकः – (चिन्ताकुलः) बत नकोऽपिशक्तः धनुरुन्निमितुम् ।
शतानन्दनः – इदं महदाश्चर्यं विद्यते ।
जनकः – अबला सीता धनुष्पेटिकां अचालयत् नकेवलं धनुः । सीतापेक्ष्या लोके दुर्बलाः पुरुषेषु विद्यन्ते इति ज्ञातमधुना ।
मन्ये तस्मात् विरहीनम् । भारतं भाति सर्वथा ।
यतोऽत्र वीरपुत्रस्य । नाविर्भावः कृतः प्रियः ॥
कुशिकनन्दनः – (रामलक्ष्मणौ पश्यति)
लक्ष्मणः – (उत्थाय) अयि महाराज रघुवंशे जीवति सति तथाकथनं योग्यं न भवति ।
रामः – (उत्थाय) सोदर लक्ष्मण उपविश शान्तिं भज ।
लक्ष्मणः – महाराज ।
विशाले रघुवंशेऽस्मिन् । भ्राजति प्रियभारते ।
वीरहीनं कथं भाति । भारतं वद भूपते ॥
कुशिकनन्दनः – कुमार रामचन्द्र ।
रामः – (उत्तिष्ठति)
वाचकः – अयोध्याधिपतेः दशरथस्य पुत्रः श्रीरामचन्द्रः ।
रामः – (कुशिकनन्दनं नमस्करोति ।)
कुशिकनन्दनः – कल्याणमस्तु
रामः – (धनुस्सकाशङ्गत्वा प्रदक्षिणीकृत्य धनुःनमस्करोति)
जनकः – (शतानन्देन सार्थं) इयं विनयान्वितानां तेजस्विनां परम्परागतप्रवृत्तिः । एतादृशी पद्धतिः नावलोकिता इतः पूर्वमस्माभिः ।
रामः – (वामहस्तेन धनुरुद्यम्य दक्षिणहस्तेन ज्यावल्लीं आकर्णान्तं आकृत्य धनुर्भङ्गं करोति)
(सर्वे सहर्षं करतलध्वनिं कुर्वन्ति पुष्पवृष्टिः पतति)
जनकः – (सहर्षं उत्थाय) अयिभोः विश्वामित्रमहर्षे वयं भवता उपकृतास्मः । मे कन्यायाः अनुरूपोऽयंवरः । साक्षात् अयं विष्णोः अवतारः । इयं लक्ष्मीसमाना श्रीरामचन्द्रस्य सहधर्मचारिणी भविष्यति ।
कुशिकनन्दनः – जनक महाराज ! अयं दैव निर्णीतः विवाहः । यतः -
तेजस्येवहि सञ्जातम् । मेलनं तेजसा भुवि ।
प्रदानादान कार्येषु । भ्राजते पात्रता भृशम् ।
जनकः – वयं प्रसन्नात्मानः एवं आशास्महे ।
दरहसितविलासैर्जानकी क्ष्मातनूजा ।
करतलगतरम्यां रागकल्हारमालाम् ।
विसृजतु रतिभावा रामभद्रस्यकण्ठे ।
विलसतु भुविनित्यं चन्द्रिका चन्द्रसाम्या ॥
सीता – (त्रपया रामभद्रस्यकण्ठे पुष्पमालां निक्षिपति)
(सर्वे विविधपुष्पाणि अक्षतान्श्च विकिरन्ति)
(भैरवीरागे मङ्गलवाद्यानि श्रूयन्ते)
(यवनिका पतति)
*********************************************************
]