अथ सप्तमोऽङ्कः
लक्ष्मणः। भोः भोः भगवता खलु वाल्मिकिना सब्रह्मक्षत्रपौरजानपदाः प्रजाः सहास्माभिराहूय कृत्स्न एव सदेवातिर्य्यगुरगनायकनिकायो जङ्गमः स्थावरश्च भूतग्रामः स्वप्रभावेण सन्निधापितः। आदिष्टश्चाहमचार्येण ; — ‘ ‘ ‘वत्स लक्ष्मण भगवता वाल्मीकिना स्वकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टुमुपनिमन्त्रिताः स्म। तद्गङ्गातीरमातोद्यस्थानमुपगम्यक्रियतां समाजसन्निवेश ‘ ‘ ‘इति। कृतञ्च मर्त्यामर्त्यस्य भूतग्रामस्य समुचितस्थानेषु समुपवेशनं मया। (क) अयन्तु ; —
अथ वियोगान्तनाटकोपवर्णनस्य आलङ्कारिकजनाचारविरुद्धतया तत्रभवान् भवभूतिः तन्मतं सर्व्वथाऽनुवर्त्तमानः वास्तविकवियोगान्तमपि रामचरितं काल्पनिकवृत्तोपन्यासेन मिलनान्तरूपतया समापयितुं विष्कम्भकरूपलक्ष्मणवाक्यमूलेन स्वोपस्थपितृवृत्तामवतारयति , भोः भोः, इति। -भो भो -इति स्वानुचराणां सम्बुद्ध्यर्थकमव्ययम्। सब्रह्मेति। -ब्रह्मभिः-ब्राह्मणैः, (‘ ‘ब्रह्मतत्त्वतपोवेदे न द्वयोः पुंसि वेधसि। ऋत्विग्योगभिदोर्विप्रे’ इति मेदिनी ) क्षत्रैः ,-क्षत्रियैः, पौरैः,-नागरिकैः, जानपदैः,-जनपदवासिभिश्च सह वर्त्तमानाः याः ताः , प्रजाः-प्रकृतिपुञ्जान्। अस्माभिः , मादृशैः राजपरिजनैरित्यर्थः। सह-सार्द्धम्। आह्वय-आमन्त्रय। कृत्स्न एव-समग्र एव। सदेवेति। -देवाः,-अमराः,-असुराः,-दितिसुताः, तथा तिर्य्यञ्चः,-पशवः पक्षिणश्च, उरगाः,-सर्पाश्च तेषां तेषु वा ये ये नायकाः,-मुख्याः, ( ‘ ‘ ‘‘नायको नेतरि श्रेष्ठे हारमध्यमणावपि। ‘ ‘ ‘इति वैजयन्ती ) तेषां निकायः-समूहः, ( ‘ ‘ ‘‘सङ्घे चानैत्तराधर्ये ‘‘’ (३। ३। ४२ पा०) इति घञन्तस्य चिनोतेः समूहार्थे कादेशः। ‘ ‘‘निकायस्तु पुमान् लक्ष्ये सुधर्म्मिप्राणिसंहतौ। समुच्चये संहतानां निलये परमात्मनि॥ ‘ ‘‘इति मेदिनी ) तेन सह वर्त्तमानः। जङ्गमः,-गमनशीलः, मनुषादिः इत्यर्थः। स्थावरश्च-स्थितिशीलश्च, पर्व्वतादिश्चेत्यर्थः। (एवम्भूतः) भूतग्रामः,- भूतानां-जङ्गमस्थावरात्मकजीवाजीवानां , ग्रामः,-समूहः। स्वप्रभावेण-स्वकीयतपोमहिम्ना। सन्निधापितः ,-संस्थापितः, एकत्र सन्निवेशित इत्यर्थः ; स्थावराणां सन्निधानन्तु तत्तदधिष्ठातणां सन्निधानेनेति ज्ञेयम्। आदिष्टश्च-आज्ञप्तश्च। आर्य्येण-पूज्येन, रामचन्द्रेणेत्यर्थः। स्वकृतिं-स्वस्य-आत्मनः, कृतिं-रचनां, दृश्यकाव्यविशेषरूपामित्यर्थः। अप्सरोभिः प्रयुज्यमानाम्-उर्व्वशीप्रभृतिभिरभिनीयमानाम्। उपनिमन्त्रिताः स्मः,-आहूता भवामः, वयमिति शेषः, भगवता वाल्मीकिना इत्यन्वयः। तत्-तस्मात्। गङ्गातीरं-सुरधुनीतटम्। आतोद्यस्थानं-चतुर्व्विधवाद्यविशेषस्थानं, रङ्गमित्यर्थः। ( ‘ ‘ ‘‘ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्। वंश्यादिकन्तु सुषिरं कांस्यतालादिकं घनम्॥ चतुर्विधमिदं वाद्यं वादिजातोद्यनामकम्॥ ‘ ‘‘इत्यमरः )। उपगम्य-प्राप्य। क्रियता-विधीयताम्। समाजसन्निवेशः,-समाजस्य-सदसः , सन्निवेशः,-संस्थापनम्, अभिनयं द्रष्टुं ममागतानां देवासुरानां देवासुरादिसामाजिकसङ्घानां सुखोपवेशनयोग्यं रमणीयं रङ्गविरचनमित्यर्थः। मर्त्त्यामर्त्त्यस्य-मर्त्यस्य-मरणधर्म्मवतः मनुष्यादेः, तथा अमर्त्यस्य-अमरस्य। भूतग्रामस्य-प्राणिनिचयस्य। समुचितस्थानेषु-यथायोग्यप्रदेशेषु, गुणगणग्रामविशेषगुम्फितां प्राचेतसकृतिं द्रष्टुं समागताः सर्वे एव प्रेक्षकाः मया यथायोग्यस्थानेषु गुरोराज्ञाऽनुसारतः सन्निवेशिता इति भावः।
राज्याश्रम निवासेऽपि प्राप्तकष्टमुनिव्रतः।
वाल्मीकिगौरवादार्य्य इत एवाभिवर्तते॥१॥
अथेदानीं भगवतो रघुमणेः स्ववंशप्रशस्तिं वाल्मीकिरचितां श्रोतुं तत्स्थलसमागममाह, राज्याश्रमेति। -राज्य प्रजापालनरूपं राजकर्म्म, स एव आश्रमः गार्हस्थाश्रम इत्यर्थः ; राज्यरूपः अतिविशालगृहस्थजनाश्रम इति भावः ; तत्र यः निवासः अवस्थानं तस्मिन्नपि ; गृहमेधिधर्म्मं यथाविध्यनुष्ठितः भगवतः रघुमणेः राजत्वात् तदनुपालितस्थलस्य तदीयाश्रमत्वेनाभेदारोपः कृत इति ज्ञेयम् ; गृहस्थजनोचिते स्थले निवासकृतवत्यपीति भावः ; प्राप्तकष्टमुनिव्रतः प्राप्त स्वीकृतं , कष्टं क्लेश्करं, मुनिव्रतं दारामेधिप्रवरोऽपि स्त्र्यान्तरपरिग्रहमकृत्वा मुनिवत् यमनियमाद्यवलम्बनपूर्व्वकं निर्विकारतया स्थित्वा केवलं राजधर्म्ममनुपालयन् आहारविहारादिविविधभोगसाधनसामग्रीतः सर्वथैव विनिवृत्ततया संस्थित इति भावः ; आर्य्यः रामः, वाल्मीकिगौरवात् वाल्मीकी यत् गौरवं सातिशयसमादरः तस्मात् ; तस्मिन् मुनिप्रवरे निरतिशयभक्तिमत्वादिति भावः ; इत एव अस्मिन्नेव स्थले, मद्विरचितरङ्गस्थाने इति यावत्, अभिवर्त्तते आगच्छति ; सर्वविषयवितृष्णोऽपि केवलं भगवति वाल्मीकौ बौमानात् अत्र रङ्गे समायाति, न तु अभिनयदर्शनकौतुकोपभोगार्थमिति भावः। ( अत्र गृहिणां मुनिजनोचिताश्रमानुपालनस्य असम्भवितत्वात् विरोधः, श्रीरामचन्द्रस्य अलौकिकमहिमवत्वेन तत्परिहारात् विरोधाभासोऽलङ्कारः )। पथ्यावक्त्रं वृत्तम्॥१॥
( ततः प्रविशति रामः )
रामः। वत्स लक्ष्मण अपि स्थिता रङ्गप्रेक्षकाः ? (ख)
लक्ष्मणः। अथ किम् ?
रामः। इमौ पुनर्वत्सौ लवकुशौ चन्द्रकेतुसदृशीं स्थानप्रतिपत्ति लम्भयितव्यौ। (ग )
लक्ष्मणः। प्रभुस्नेहप्रत्ययात् तथैव कृतम्। इदन्तु आस्तीर्णं राजासनमुपविशतु आर्य्यः। (घ)
(२)अपि-प्रश्ने। ( रज्यते अस्मिन्नित्यर्थे रजतेः अधिकरणे घञ्) रङ्गः,-नाट्यभूमिः, तस्य प्रेक्षकाः, दर्शकाः, सामाजिकजना इत्यर्थः। स्थिताः ?-यथा योग्यस्थलेषु सुसुग्वमवस्थिताः किम् ? इत्यर्थः।
(३) चन्द्रकेतुसदृशीं-चन्द्रकेतुसमानाम्। स्थानप्रतिपत्ति-स्थानस्य-समुपवेशनयोग्यस्य आसनस्य, प्रतिपत्ति-समादरं, यथायोग्यासनप्रदानेन गौरवमित्यर्थः। लम्भयितव्यौ-प्रापयितव्यौ, यादृशे आसने चन्द्रकेतुरुपविशति, तादृशे आसने इमौ वालकौ कुशलवौ अपि समुपवेशनीयावित्यर्थः। ( लभतेः णिचि ‘ ‘‘लभेश्च (७। १। ६४ पा०) इति नुमागमे कर्म्मणि तव्यप्रत्ययः, ‘ ‘‘लभेर्गत्यर्थत्वात् णिचि अणौ कर्त्तुः कर्म्मत्वाकर्म्मत्वे ‘‘’ (५ अधि० २ अ० ९ सू०) इति वामनोक्तौ प्राप्त्युपसर्ज्जनगत्त्यर्थत्वे तु अणिकर्त्तुः कर्म्मत्वमेव व्याख्यानरहस्यात् अत्र प्राप्त्युपसर्ज्जनगत्यर्थत्वात् अणिकर्तृभूतयोः कुशलवयोः कर्म्मत्वं, कर्म्मणि चोक्तत्वेत प्रथमा ज्ञेया )।
(४) प्रभवति। -प्रभोः,-जगत्पतेः भवतः, यः स्नेहः,-कुशे लवे च वात्सल्यं, तस्मिन् प्रत्ययः,-विश्वासः तस्मात्, कुशलवयोः भवतः तादृशं स्नेहं विलोक्येत्यर्थः। तथैव कृतं-भवत्कथनानुरूपम् अभिप्रायाभिज्ञेन मया प्रागेवानुष्ठितमित्यर्थः ; चन्द्रकेतुसदृशमेव आसनम् एताभ्यां प्रदत्तमिति भावः। आस्तीर्णम्-उपस्थापितम्, उपकल्पितमित्यर्थः। राजासनं-सिंहासनम्। उपविशतु-उपवेशनेनालङ्करोत्वित्यर्थः।
रामः। ( उपविशति। सर्वे चोपविशन्ति )।
रामः। प्रस्तूयतां भोः। ( ङ)
सूत्रधारः। ( प्रविश्य ) भोः भोः भगवान् भूतार्थवादी प्राचेतसः सजङ्गमस्थावरं जगदाज्ञापयति ,– ‘ ‘ ‘‘यदिदमस्माभिरार्षेण चक्षुषा समुद्दिश्य पावनकरुणाद्भुतरसं किञ्चिदुपनिबद्धं ;तत्र कार्य्यगौरवादवदातव्यम् ‘ ‘ ‘इति। ( च )
(५)प्रस्तूयतां-प्रारभ्यतां , नाटकीयं वस्तु अभिनीयतामित्यर्थः।
(६)सूत्रधारः,-सूत्रं-नाट्योपकरणादिकं, सप्तमाङ्कोदरप्रविष्टस्य गर्भाङ्कस्य इति शेषः, धारयति-प्रवर्त्तयति यस्तथोक्तः, ‘ ‘‘नाट्योपकरणादीनि सूत्रमित्यभिधीयते। सूत्रं धारयतीत्यर्थे सूत्रधारो निगद्यते॥ ‘ ‘‘इत्युक्तेः आमुखादिमतः गर्भाङ्करूपाभिनवनाटकीयवस्तुनः प्रवर्त्तकः नटविशेषः इति यावत् ; ‘ ‘‘अङ्कोदरप्रविष्टो यो रङ्गद्वाराऽऽमुखादिमान्। अङ्कोऽपरः स गर्भाङ्कः सबीजः फलवानपि॥ ‘ ‘‘इति दर्पणात्। भोः भोः -इति सामाजिकजनसम्बोधनं , हे प्रेक्षकसङ्घा इत्यर्थः। भूतेति। -भूताम्-ऋतं , सत्यमित्यर्थः, ( ‘ ‘ ‘‘युक्ते क्ष्मादावृतं भूतं प्राण्यतीते समे त्रिषु ‘‘’ इत्यमरः ) अर्थं-वस्तु, वदितुं-कथयितुं शीलमस्येति तथोक्तः, यथार्थभाषी इत्यर्थः। प्राचेतसः,-वाल्मीकिः। सेति। -जङ्गमैः,-गतिमद्भिः मनुष्यादिभिः, स्थावरैः-स्थितिशीलैः वृक्षलतादिभिश्च सह वर्त्तमानं यथा तथेत्यर्थः ; अचेतनेषु स्थावरेषु भगवतो वाल्मीकेः आज्ञापनं तत्तदधिष्ठातृषु ज्ञेयम् , अतो न विरोधः ; जगत्-सचराचरं विश्वम्। आज्ञापयति-आदिशति। किं तत् ? एतदेवाह, यदिति। -यत्-यस्मात् कारणात्। अस्माभि,-मयेत्यर्थः। ( अविशेषणत्वेनात्रास्मदः बहुत्वम् ) आर्षेण-ऋषिसम्बन्धिना, अतीन्द्रियेण इत्यर्थः ; भूतं भविष्यत् वर्त्तमानञ्च विषयजातं सममेव प्रत्यक्षीकृर्व्वतेति भावः। चक्षुषा-नेत्रेण ; योगजसन्निकर्षेण सर्व्वार्थदर्शिन ज्ञानमयेन वीक्षणेनेति भावः। समुदीक्ष्य-सम्यगवलोक्य ; यद् यद् दीक्षितं तत् सर्व्वमेव पूत निःसन्दिग्धं कलङ्कलेशविनिर्मुक्तञ्च ज्ञेयमित्याशयः। पावनेति। -पावनः,-अतिपवित्रः , दर्शनश्रवणादिनाऽन्येषामपि पवित्रताविधायक इत्यर्थः ,-विस्मयस्थायिभावकः, रसः,- आस्वाद्यमानं वस्तु यत्र तादृशम्, अतिपवित्रं वियोगबहुलं सातिशयविस्मयकरञ्चेत्यर्थः। ( ‘ ‘ ‘‘पावनं करुणाद्भुतरसञ्च ‘ ‘ ‘इत्यसमस्त
(७)पाठान्तरं ) किञ्चित्-रूपकमित्यर्थः। उपनिबद्धं-विरचितम्। तत्र-रूपके। कार्य्यगौरवात्-कार्य्यस्य-विवर्णितवस्तुनः , गौरवात्-बहुमानात्, तस्य अतीवादरणीयत्वादित्यर्थः। अवधातव्यं-मनः विषयान्तरात् विनिवर्त्त्य साग्रहं सन्निवेशयितव्यमित्यर्थः। इति-एवम्, आज्ञापयतीत्यनेनन्वयः। अस्य तात्विकोपनिबद्धतया एतादृशी प्रार्थना न दोषावहेति ज्ञेयम्।
रामः। एतदुक्तं भवति। साक्षात्कृतधर्माणः ऋषयः ; तेषाममृतसाराणि भगवतां परोरजांसि प्रज्ञानानि न क्वचित् व्याहन्यन्ते इत्यनभिशङ्कनीयानीति। (छ )
(८)एतत्-एवमित्यर्थः। उक्तं भवति-कथितं भवति, सुत्रधारेणेति शेषः ; सूत्रधारेण भगवतो सहर्षेः आशयः इत्थमेव व्यक्तीकृतः इति भावः। तस्य स्वयमेव निष्कृष्टार्थमभिदधाति, साक्षादिति। -साक्षात्कृतः-प्रत्यक्षीकृतः, धर्म्मः-अलौकिकश्रेयःसाधनरूपः यैः तथाभूताः योगजसन्निकर्षेण सर्व्वर्थदर्शिनः इत्यर्थः ; यद्वा-साक्षात्कृतः-आर्षेण चक्षुषा प्रत्यक्षवत् परिज्ञातः धर्म्मः-वस्तुतत्त्वं यैः ते तथोक्ताः। ( ‘ ‘‘धर्म्मादनिच् केवलात् ‘‘’ (५। ४। १२४ पा०) इति बहुव्रीहौ धर्म्मशब्दात् समासन्तः अनिच् प्रत्ययः)। अमृतसाराणि-अमृतस्येव-पीयूषरमस्येव, सारः,-उत्कर्षः येषां तानि, पीयूषरसवद्विमलानि इत्यर्थः ; यद्वा-अमृतस्य-मोक्षस्य, सारः,-स्थिरांशः येषु तानि, मोक्षलाभोपायभूतानि इति भावः ; ‘ ‘‘ज्ञानान्मुक्तिः ‘‘’ इति साङ्ख्यसिद्धान्तः। परोरजांसि-परम्-अतीतं , रजः-रजोगुणः येभ्यः तानि, रजोगुणासम्पृक्तानि, रजसः पराणि इति वा अर्थः। रज इति तमसोऽप्युपलक्षणं, तेन सत्त्वगुणप्रधानानि इति यावत्। ( राजदन्तादिवत् परनिपातः। ‘ ‘‘पारस्करप्रभृतीनि च सञ्ज्ञायाम् ‘ ‘ ‘(६। १। १५८ पा०) इति परशब्दात् सुट् निपात्यते )। क्वचित्-कुत्रापि, त्रिष्वपि कालेष्वित्यर्थः। न व्याहन्यन्ते-न प्रतिहतानि भवन्ति। इति-अस्मात् हेतोः ; एतेषां विशुद्धसत्त्वमयत्वादिति भावः। अनभिशङ्कनीयानि-न संशयितव्यानि ; महर्षिभिः विज्ञानमयेन चक्षुषा यानि यानि हि प्रत्यक्षीकृतानि, तानि हि तत्त्वानि कुत्रापि अयथार्थभूतानि भवितुं नार्हन्ति, अतः महर्षिणा वाल्मीकिना यद्धि उपनिबद्धं, तत् सर्वं निःसन्दिग्धचेतसा ग्रहीतव्यं , कुत्रापि संशयः कियानपि न कार्य्यः इति भावः।
( नेपथ्ये ) हा अज्जउत्त हा कुमार लक्खण एआइणीं मन्दभाइणीं असरणं अरस्मे आसस्मपसबबेअणं हदासं साबदा मं अहिलसन्ति ; साहं दाणिं मन्दभाइणी भाइरहीओ अत्ताणं निक्खिबेमि। (ज)
लक्ष्मणः। ( आत्मगतम् ) कष्टं वतान्यदेव किमपि। ( झ )
हा आर्य्यपुत्र हा कुमारलक्ष्मण एकाकिनीं मन्दभागिनीम् अशरणामरण्ये आसन्नप्रसववेदनां हताशां श्वापदा मामभिलषन्ति ; साऽहमिदानीं मन्दभागिनी भागीरथ्यामात्मानं निक्षिपामि।
(९)कुमारलक्ष्मणेन विजने वने वैदेह्याः निर्वासनानन्तरं तस्याः किं हि वृत्तं, तद्धि अभिनवभावेनोपवर्णयितुमिदानीं नेपथ्यभाषितमवतारयति, हेति। -हा आर्य्यपुत्र -हा प्राणसमयते रघुमणे हा कुमारलक्ष्मण -हा स्नेहास्पद सौमित्रे एकाकिनीं-द्वितीयरहितां, सहायहीनामित्यर्थः। मन्दभागिनीं-हतभाग्याम्। अशरणां-नास्ति शरणं-रक्षिता यस्याः तां, रक्षकहीनामित्यर्थः। आसन्ना-समुपस्थिता , प्रसवस्य-गर्भमोचनस्य, वेदना-व्यथा यस्याः ताम् आसन्नप्रसववेदनां-प्राप्तप्रसवयन्त्रणामित्यर्थः। हताशां-हता-विनष्टा , आशा-जीवनाद्याकाङ्क्षा यस्याः तां, जीवनप्रत्याशारहितामित्यर्थः। मां-वैदेहीमित्यर्थः। श्वापदाः,-शुनः पदानि इव पदानि येषां ते, हिंस्रजन्तव इत्यर्थः। अभिलषन्ति-भक्षयितुमिच्छन्ति। साऽहम्-इत्थं निरुपाया अहम्। इदानीम्-अधुना, ईदृशे विपत्सङ्कुले समये इत्यर्थः। भागीरथ्यां-गङ्गायाम्। आत्मानं -स्वदेहम्। निक्षिपामि-परित्यजामि ; अधुना जीवनरक्षाप्रत्याशाया अभावात् हिंस्रकवदने स्वशरीरमनिक्षिप्य मातुः भागीरथ्याः सलिले आत्मानं विसर्ज्जयामीति भावः।
(१०)कष्टम्-अतीव क्लेशकरमित्यर्थः। बत-खेदे ; अरुन्तुदमिदं नेपथ्यभाषणमिति भावः। अन्यदेव-अस्माकं चिन्तितविषयात् भिन्नमेव। किमपि-अनिर्व्वचनीयम् इत्यर्थः, एतद्वस्तु इति शेषः, मया यद्धि प्रागाकलितम्, एतत्तु तत् न भवतीत्यर्थः ; किमेतदभिनेतव्यमिल्यधुनाऽप्यस्माभिनिर्णेतुं न शक्यते, परन्तु अतिदुर्विषहमेतदिति विभावयाम इति भावः।
सूत्रधारः। – विश्वाम्भरात्मजा देवी राज्ञा त्यक्वा महावने।
प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति॥२॥
(इति सूत्रधारो निष्क्रान्तः ) नेपथ्यभाषितार्थं सूत्रधारः स्वयमेव विशदीकृत्य नाटकीयाऽऽमुखमुपसंहरति, विश्वेति। -रज्ञा नृपेण, रामेणेत्यर्थः, महावने भीषणे दण्डकारण्ये, त्यक्ता विसृष्टा, निर्वासितेत्यर्थः, विश्वम्भराऽऽत्मजा विश्वं निखिलं जगत्, बिभर्ति धारयति या सा विश्वम्भरा पृथिवी, ( ‘ ‘‘सञ्ज्ञायां भृतवृजि- ‘ ‘ ‘(३। २। ४६ पा० ) इति खच् प्रत्ययः )। तस्याः आत्मजा दुहिता, देवौ सीता, प्राप्तप्रसवं प्राप्तः उपस्थितः, प्रसवः गर्भविमोचनकालः यस्य तथाविधम्, आसन्नप्रसवकालम्, उपस्थितप्रसववेदनं वेत्यर्थः, आत्मानं स्वदेहम्, ( ‘ ‘‘आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि। ‘ ‘‘इति विश्वः ) गङ्गादेव्यां भागीरथीप्रवाहे, विमुञ्चति त्यज्यति ; हिंस्रकादिभ्यः स्वापमृत्युविनिवृत्तये मातृसमायाः जाह्नव्याः शरणमाप्नोति, तेन आत्महत्यादिकृतः दोषः नाशङ्कनीयः इति भावः। इदन्तु आमुखं प्रयोगातिशयरूपं ज्ञेयम्। पथ्यावक्त्रं वृत्तम्॥२॥
रामः। देवि क्षणमपेक्षस्व। (ञ)
लक्ष्मणः। आर्य्य नाटकमिदं नाटकमिदम्। ( ट )
(११)देवि -जानकि । क्षणं -कियत्कालम्। ( ‘ ‘‘कालाध्वनोरत्यन्तसंयोगे ‘‘’ (२। ३। ५ पा०) इति द्वितीया ) अपेक्षस्व-विलम्बस्व ; मां विहाय त्वमेकाकिनी कुत्रापि कदाऽपि नैव गता, अतः अधुनाऽपि त्वमेकाकिनी एव न गन्तुमर्हसि, यावत् अहमपि तवानुवर्त्ती भवामि, तावदपेक्षस्व इति भावः ; मयि जीवति इदानीं न हि त्वमशरणा सती जाह्नवीजले आत्मानं विनिक्षेप्तुमर्हसि, अहमेव ते शरणं सर्वथा भविष्यामीति वा भावः। नेपथ्यभाषणाश्रवणात् परं रामेणाप्येतत् व्यक्तीकृतं यदसौ प्राणसमां जानकीं मनसः न हि निर्वासितवानिति, तेन हि अनिशं तच्चिन्तया सादृशाभिनयश्रवणेन च इत्थं प्रलपितमित्यवधेयम्।
(१२)आर्य्य -पुज्य रघुमणे । इदं नाटकं-महर्षिवाल्मीकिविरचितं दृश्यकाव्यमेतत् ; न हि तात्त्विकतया वैदेही इदानीं गङ्गायाम् आत्मानं निक्षिपति, प्राक् यद्धि भूतं तदेवोपनिबद्धं वस्तु इदानीम् अभिनीयते, अतस्तदर्थं विलापः तदुद्धरणप्रयासो वा कर्त्तुं नोचित इति भावः। (अवधारणे द्विरुक्तः)।
रामः। हा देवि दण्डकारण्यवासप्रियसखि एष ते रामाद्दैवदुर्विपाकः। (ठ)
अक्ष्मणः। आर्य्य दृश्यतां तावत् प्रबन्धार्थः। (ड )
रामः। एष सज्जोऽस्मि वज्रमयः। ( ढ)
(ततः प्रविशत्युत्सङ्गितैकैकदारकाभ्यां पृथ्वीगङ्गाभ्यामवलम्बिता सीता )। ( ण )
रामः। वत्स लक्ष्मण असंविज्ञातमविबन्धनं तम इव प्रविशामि ; धारय माम्। ( त )
(१३)दण्डकारण्यवासप्रियसखि -दण्डकारण्ये-जनस्थानान्तर्गते जनशून्ये तदाख्य वने, यो वासः,-वसतिः, तत्र प्रियसखि -अनुकूलसहचरि , एकमात्रसहायभूते इत्यर्थः। ते-तव। एषः,-गङ्गायामात्मविसर्ज्जनरूप इत्यर्थः। दैवदुर्विपाकः,-दैवस्य-दुरदृष्टस्य, दुर्विपाकः,-विषमयः परिणामः। रामात्-अधन्यात् मत्त एवेत्यर्थः, समजनि इति शेषः ; या त्वं सदा मत्समसुखदुःखा आसीः , अहमेव तथाभूतायाः ते सर्व्वायाः विपत्तेः मूलम् , अतो मत्समो नास्ति अन्यः कृतघ्नः इति भावः।
(१४)दृश्यताम्-अवलोक्यताम्। प्रबन्धार्थः-प्रबन्धस्य-उपनिबद्धवस्तुनः, अर्थः,-विषयः इदानीं वृथाशोकं विजहीहि यद्धि वृत्तं वस्तु, तदेव अधुना अभिनीयते, अतस्तत्सर्वं धैर्य्यमवलम्ब्य पर्य्यवलोकय इति भावः।
(१५)वज्रमयः-कुलिशसमकठिनहृदयः, अतिनिष्कृप इत्यर्थः। एषः-अयम्, अहमिति शेषः। सज्जः अस्मि-श्रोतुमेव व्यापारितः भवामि ; यद्यहं वज्रसमकठिनकायः न स्यां, तदा कथमेतादृशकठोरव्यापारश्रवणात् परमेव न शतधा विचूर्णितकायः भवेयम् ? तत् नूनं मत्समः नृशंसः नास्तीह कुत्रापीति भावः।
(१६)उत्सङ्गितेति। -उत्सङ्गितः-क्रोडदेशे स्थापितः, एकैकः,-प्रत्येकमेकमात्र एवेत्यर्थः, दारकः,-बालकः याभ्यां ताभ्याम्, एकमेकं दारकं स्ववक्षसि संस्थाप्येत्यर्थः। पृथीगङ्गाभ्यां-वसुन्धराभागीरथीभ्याम्। अवलम्बिता-धृता। सीता प्रविशति-रङ्गस्थलमायातीत्यर्थः।
(१७)असविज्ञातम्-अननुभूतस्वरूपम्। अनिर्बन्धनम्-ओतुकम्, आकस्मिकमिति यावत्। तम् इव अन्धकारमिव। प्रविशामि-निमज्जामि, तमसः अभ्यन्तरं यामि इत्यर्थः ; अभिनयदर्शनेन एवमेव मोहमुपागतः यत्, निबिडान्धकारमध्ये निमज्जितः एवाहमस्मि इति मन्ये इति भावः। मा धारय-हस्ताभ्यां मच्छरीरम् अवलम्बस्वेत्यर्थः। ( ‘ ‘‘तमः ‘‘’ इत्यत्र ‘ ‘‘अन्धतमसम् ‘‘’ इति पाठे-अन्धयतीति अन्धं, तथाविधं तमः अन्धतमसं-गाढं ध्वान्तमित्यर्थः। ‘ ‘‘अवसमन्धेभ्यः तमसः ‘‘’ (५। ४। ७९ पा०) इति समासान्तः अच् प्रत्ययः )।
गङ्गा। – समाश्वसिहि कल्याणि दिष्ट्या वैदेहि वर्धसे।
अन्तर्जलं प्रसूताऽसि रघुवंशधरौ सुतौ॥ ३॥
सीता। ( समाश्वस्य ) दिट्टिआ दारए पसूदम्हि ; हा अज्ज उत्त (थ) ( इति मूर्च्छति ) लक्ष्मणः। ( पादयोर्निपत्य )। आर्य्य आर्य दिष्ट्या वर्धामहे ; कल्याणप्ररोहो रघुवंशः। ( विलोक्य )। हा हा कथं क्षुभितवाष्पोत्पीडनिर्भरः प्रमुग्ध एव आर्य्यः। (द) ( इति वीजयति ) दिष्ट्या दरकौ प्रसूताऽस्मि ; हा आर्य्यपुत्र अथ वियोगविधुरयाः सीतायाः भागीरथीकृतं समाश्वासनप्रकारमाह, समास्वसिहीति। -हे कल्याणि मङ्गलालये , हे वैदेहि सीते , समाश्वसिहि समाश्वस्ता भव, दैन्यं विजहिहि धैर्य्यञ्च धेहि इत्यर्थः, दिष्ट्या भाग्येन, वर्द्धसे वृद्धि गताऽसि, सौभाग्यवशेन पुत्रलाभाभ्युदयात् अधुना त्वं श्रेयस्विनी भवसीत्यर्थः, रघुंवशधरौ रघुकुलाङ्कुरावित्यर्थः, सुतौ पुत्रौ, अन्तर्जलं गङ्गाप्रवाहमध्ये इति यावत्, ( जलस्यान्तः इति विभक्त्यर्थेऽव्ययीभावः, ‘ ‘‘तृतीयासप्तम्योर्बहुलम् ‘‘’ (२। ४। ८४ पा० ) इति सप्तम्याः पाक्षिकः अम्भावः ज्ञेयः ) प्रसूताऽसि उत्पादितवती भवसि, पुत्रौ त्वया प्रसूतौ इत्यर्थः, यतस्त्वं पुत्रद्वयं प्रसूतवती, अतोऽतीव सौभग्यवती भवसीति भावः। ( अत्र आदिकर्म्मणि कर्त्तरि क्तप्रत्ययः )। पथ्यावक्त्रं वृत्तम्॥३॥
(१८)दिष्ट्या-भाग्येन। दारकौ-पुत्रौ। प्रसूताऽस्मि-उत्पादितवती भवामि ; पुत्रोत्पत्तिश्रवणसमकालमेव क्षणम् अनिर्व्वचनीयहर्षस्य समुदयोऽभवत् इति दिष्ट्येत्युक्तं, स्यादिति निरन्तरभावनया प्रियपतिविरहं संस्मृत्य तादृशपतिसमागमाभावजनितशोकेन मूर्च्छागमोऽभूदिति ज्ञेयम्।
(१९)वर्द्धामहे-वयमधुना सर्वे सौभाग्ययुक्ता भवाम इत्यर्थः। कल्याणप्ररोहः,
पृथ्वी। वत्से समाश्वसिहि समाश्वसिहि।
सीता। ( आश्वस्य )। भअबदि का तुमं इअं अ ?। ( ध )
पृथ्वी। इयन्ते श्वशुरकुलदेवता भागीरथी। (न )
सीता। भअबदि णमो दे णमो दे। ’
भागी। चारित्रोपचितां कल्ल्याणसम्पदमनुगच्छ। (प)
‘भगवति का त्वमियञ्च ?’
भगवति नमस्ते नमस्ते।
(२०)- कल्याणः-शुभकरः, प्ररोहः,-अङ्कुरी यस्य सः, मङ्गलप्रदाङ्कुरसमन्वित इत्यर्थः। रघुवंशः,-रघोः, वंश इव-वेणविशेषः इव, वंशः,-अन्ववायः, रघुकुलरक्षाकरः माङ्गलिकः अङ्कुरः सञ्जात इत्यर्थः ; सीतायाः तनयोत्पत्त्या रघुवंशः इदानीं प्रतिष्ठां गत इति भावः। ( अत्र कल्याणे स्वाभेदरोपकप्ररोहशब्दसाहचर्य्यात् वंशशब्दस्य श्लिष्टतया श्लिष्टपरम्परितरूपकालङ्कारः )। क्षुभितेति। -क्षुभितेन-अत्यर्थम् उद्द्वेलितेन, बाष्पाणाम्,-अश्रूणाम्, उत्पीडेन-पूरेण, निर्भरः,-प्रगाढः, प्रगाढतया आकुलः इत्यर्थः, अजस्रं बाष्पायमाणनयन इति यावत्। प्रमुग्ध एव-मूर्च्छित एव। आर्य्यः-रामः ; अकारणसीतानिर्व्वासनजनितस्वदोषं संस्मृत्य नियतम् अश्रूणि विमुञ्चन्नेव रघुमणिः स्ववंशरक्षाकरं सीतायाः दारकद्वयं प्रसूतमाकर्ण्य सहसा हर्षोदयात् धैर्य्यं धारयितुमपारयन् सपदि मोहमुपागात् इति भावः।
(२१)का त्वम् ?-अत्रभवती किन्नामधेया भवति ? इयञ्च-एषा अपरा भवत्सङ्गिनी च, का इत्यन्वयः ; किं हि नाम भवत्या अभ्याश्च इति विज्ञातुमिच्छामीति भावः ; भागीरथ्यां देहविसर्ज्जनसमये ते हि देव्यौ तदीयतपःप्रभावात् सहसा आविरभूतां, तत्तनयञ्च रक्षितवत्यौ, तत्सर्वं प्रसवकाले मूर्च्छिता सा किमपि नाजानात, अतः सविशेषविज्ञानर्थं परिचाययति इति ज्ञेयम्।
(२२)श्वशुरेति। -श्वशुरस्य-दशरथस्य, यत् कुल-वंशः, तस्य देवता-अधिष्ठात्री देवी ; महर्षिकपिलशापनिर्द्दग्ध नां सगरसन्ततीनां समुद्धारकारिणी भगवती भागीरथी रघुकुलानामधिदेवतात्वेन विशेषतः उपास्या आसीदिति ज्ञेयम्।
(प) चारित्रेति। -चारित्रेण पातिव्रत्यसंरक्षणरूपसच्चरित्रतया, उपचितां-विवर्द्धिताम्। कल्याणसम्पदं-शुभसम्पत्ति,ं मङ्गलसमृद्धिमित्यर्थः। अनुगच्छ-लभस्व इत्यर्थः ; त्वं यादृशसच्चारित्र्यवती भवसी, तदनुरूपकल्याणभाक् भवेति भावः। ( ‘ ‘‘अधिगच्छ ‘‘’ इति पाठान्तरम् )।
लक्ष्मणः। अनुगृहीताः स्मः। (फ)
भागी। इयन्तु जननी ते वसुन्धरा।
सीता। हा अम्ब इदीमी अहं तुए दिट्टा। ( ब)
पृथ्वी। एहि वत्से एहि पुत्रि
( इति सीतामालिङ्ग्य मूर्च्छति )
लक्ष्मणः। ( सहर्षम् ) दिष्ट्या पृथ्वीगङ्गाभ्यामभ्युपपन्ना आर्य्या। (भ )
रामः। ( अवलोक्य ) करुणतरं खलु एतद्वर्तते। (म )
भागी। विश्वम्भराऽपि नाम व्यथते इति जितमपत्यस्नेहेन ; यद्वा सर्वसाधारणो ह्येष मोहग्रन्थरन्तश्चरश्चेतनावतामनुपप्लवः संसारतन्तुः। वत्से वैदेहि देवि भूतधात्रि समाश्वसिहि समाश्वसिहि। (य )
हा अम्ब ईदृशो अहं त्वया दृष्टा।
(फ) अनुगृहीताः स्मः-अनुकम्पिताः भवामः ; भागीरथ्याः रघुकुललक्ष्मीभूतायां सीतायां शुभाशीर्व्वचसा वयं सर्वे एव मङ्गलभाजः भवामः इति भावः।
(ब) हा अम्ब -भो मातः वसुन्धरे ईदृशी-एवंविधा, विपन्ना इत्यर्थः, अलीकापवादभयात् स्वभर्त्रा निवासितेति यावत्। त्वया-अत्रभवत्या। दृष्टा-आलोकिता ; सर्व्वलोकसाक्षिभूतायां भवत्यां भगवत्यां विद्यमानायां निरागसः तद्दुहित्तुर्मे एवं वृथाऽपवादेन अयथानिकारः उदपादिः, न हि त्वया तत्प्रतिकारः कथमपि कर्त्तुं शक्तः इति भावः ; चारित्र्यपरिभूतायाः दुहितुः जनन्यादिगुरुजनदर्शनं निरतिशयलज्जाकरमिति वा भावः। मातृपरिचयश्रवणात् सखेदोक्तिरियमिति ज्ञेयम्।
(भ) अभ्युपपन्ना-अनुगृहीता। आर्य्या ,-सीता ; अशरणा सीता शरणं प्राप्तवती इति तु हर्षकारणं ज्ञेयम्।
(म) करुणतरम्। -अतिशोकोद्दीपकम्। एतत्-पृथ्वीगङ्गाभ्यां सीतायाः समाश्रयदानमित्यर्थः ; मयि निखिलप्रजापालके सम्राजि जीवति मत्पत्न्याः अन्यकृतरक्षणम् अतीव दुःखाकरमिति भावः।
(य) विश्वं-निखिलं जगदित्यर्थः, बिभर्ति या सा विश्वम्भराऽपि-
पृथिवी देवी अपि। व्यथते-दुहितः सीतायाः शोकेन दुःखमनुभवति। इति-अस्मात् हेतोः। अपत्यस्नेहेन-सन्ततिवात्सल्येन। जितं-सर्व्वोत्कर्षेण वृत्तमित्यर्थः ; यतो हि अपत्यस्नेहः स्थिरां धीरां सर्वंसहामपि विह्वलयति अतोऽयं सर्वपरिभावी, अन्येभ्यश्च स्नेहेभ्यः गरीयानिति भावः। सर्व्वसाधारणः ,-सर्वेषां प्राणिनां समानः ; कुत्रापि न वैषम्येण वर्त्तमान इति भावः। एषः-अयं परिदृश्यमान इत्यर्थः, मोहग्रन्थिः,-मोहः-अपत्यस्नेहादिरूपा माया, ग्रन्थिः यस्य तथोक्तः ; यतो हि ग्रन्थिबहुलः जालरूपः तन्तुः मौनादिनामिव सर्वेषां नितरां दुरुच्छदो भवतीति भावः। चेतनावतां-प्राणिनां सर्वेषामेव। अन्तश्चरः-अन्तः,-अन्तःकरणे चरति यस्तथोक्तः, अन्तःकरणवर्त्तीत्यर्थः। अनुपप्लवः-नास्ति उपप्लवः-उच्छेदः विनाशो वा यस्य तथोक्तः, उच्छेदरहितः इत्यर्थः। संसार एव तन्तुः,-जालम्, अनादिसृष्टिपरम्परेत्यर्थः ; यद्वा,-एषः,-अयमपत्यस्नेहरूप इत्यर्थः, मोहग्रन्थिः,-मोहरूपग्रन्थिः ; ममेत्याकारकज्ञानजनितबन्धनविशेषः इत्यर्थः, सर्वसाधारणः चेतनावतामन्तश्चरः अनुपप्तवः संसारतन्तुः,-संसारस्य-सृष्टिप्रवाहरूपस्य, तन्तुः-सुत्रम्म् योजकसूत्रमित्यर्थः, संसारघटक इति यावत् ; अनेनैव स्नेहात्मकेन आकर्षकसूत्रेण दृढाकृष्टाः प्राणिनः आकल्पं संसरन्तीति भावः। अस्मिन् विनश्वरे चराचरे सर्वे एव जीवा अपत्यादिमायापाशनियमिताः निरन्तरं विविधं क्लेशमनुभवन्ति, न हि क्लेशविनिर्म्मुक्ताशयः इह भुवि कोऽपि विद्यते इति तात्पर्यम्। भूतधात्रि -भूतानां प्राणिनां, धात्री-धारणकर्त्रीम् पोषयित्री वेत्यर्थः, तस्याः सम्बुद्धौ , हे वसुन्धरे इति यावत्। समाश्वसिहि-समाश्वस्ता भव। (सम्भ्रमे द्विर्वचनम्)।
पृथ्वी। – देवि सीतां प्रसूय कथमाश्वसिमि ? (र ) -एकश्चिरं राक्षसमध्यवासः साङ्ग् द्वितीयस्य सुदुश्रवोऽस्याः।
भागी। कू नाम पाकाभिमुखस्य जन्तुः द्वाराणि दैवस्य पिधातुमीष्टे ?॥४॥
अथ दुहितुः क्लेशपरम्परामवलोक्य स्वदुःखकारणं विवृणोति, एकश्चिरमिति। - अस्याः सीतायाः, एकः प्रथमः, चिरं सुदीर्घकालं व्याप्येत्यर्थः, राक्षसानां रावणेनापहरणानन्तरम् अशोकवने निर्य्यातनपरायणानां निशाचराणां, मध्ये
(र) देवि -भगवति भागीरथि सीतां-जानकीम्। प्रसूय-जनयित्वा। कथं-केन प्रकारेण। आश्वसिमि ?-आश्वस्ता भवामि ? यस्याः दुहिता एवं चिरं दुःखमनुभवति तस्याः जननी सत्यहं कथं हि समाश्वस्ता भवामीति भावः। अभ्यन्तरे, वासः वसतिः, अतिक्लेशेनावस्थानमिति यावत्, साङ्गः ओन अलीकेन पातिव्रत्यभङ्गरूपापवादेन स्वामिकृतपरित्यागस्य निदानभूतेनावयवेन सह वर्त्तमानः ; न केवलं तया राक्षसमध्ये सुचिरं वासकृतं दुःखमनुभूतम्, अपि तु वृथाकलङ्कोऽपि चिरमुपभुज्यते इति भावः ; यद्वा-साङ्गः औः अवान्तरैः बहुभिः क्लेशकरैः विषयैः मायामयरामनिधनवार्त्ताश्रावणरूपैः अवयवैः सह वर्त्तमानः ; सा हि तत्र लङ्कापुर्य्यां स्थित्वा इयतः विविधान् क्लेशान् उपभुक्तवतीत्येवमेव प्रथमदुःखहेतुरिति भावः ; द्वितीयश्च अपरश्च, अलीकापवादारोपेण भर्त्तृकृतपरित्यागरूपः अनिष्टापातश्चेत्यर्थः, सुदुःश्रवः न कथमपि श्रोतुं शक्यः ; पतिप्राणायाः अपांशुलातिकभूताया एतस्याः ईदृशः अपवादः कर्णेन कैरपि सद्भिः श्रोतुं न शक्यते, इत्येष एव द्वितीयदुःखहेतुः पूर्वदुःखहेतोरपि गरीयानित्याशयः। ( ‘ ‘‘सोढश्चिरं राक्षसमध्यवासः त्यागो द्वितीयश्च सुदुःसहोऽस्याः ‘‘’ इति पाठान्तरम् ) अथ तदाकर्ण्य भागीरथी दैवस्य निरुद्धगतिकत्वमुपवर्ण्यं वसुन्धरां कथञ्चित् समाश्वासयितुमारभते, को नामेति । -नाम सम्भावनायां, को नाम जन्तुः को हि जीव इत्यर्थः, फलोन्मुखनिरतस्येति यावत्, दैवस्य नियतेः, सुकृतदुष्कृतात्मकभाग्यस्येत्यर्थः, द्वाराणि प्रसरणमार्गान्, फलप्रकाशकरोपायानिति यावत्, पिधातुम् आवरितुं, निराकर्त्तुमित्यर्थः, ( ‘ ‘‘वष्टिभागुरिरल्लोपम्- ‘ ‘ ‘(का०) इत्यादिवचनात् पाक्षिकः अपेरकारस्य लोपः ) ईष्टे ? प्रभवति ? अपि तु न कोऽपीत्याशयः ; सर्वेषां हि जीवानां सुखदुःखादिपरम्परा नियतिकृता इति विभाव्य सीतायाः ईदृशे दुर्विषहदुःखापाते विलापे न कार्य्यः, दैवविलसितस्य दुर्वारत्वादिति भावः।
(अत्र दैवविलासरूपसामान्येन वस्तुना राक्षसमध्यवासादिरूपविशेषवस्तुनः उपपत्तीकरणात् सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासालङ्कारः )। इन्द्रवज्रा वृत्तम्॥४॥
पृथ्वी। भागीरथि सदृशमुक्तम्। युक्तमेतद्वा रामभद्रस्य ? (ल )–
न पमाणीकृतः पाणिर्बाल्ये बालेन पीडितः।
नाहं न जनको नाग्निर्नानुवृत्तिर्न सन्ततिः॥५॥
(ल) सदृशम्-उचितं , समीचीनमित्यर्थः। उक्तं-कथितम ; दैवस्य दूरूद्धगतिकतया दृरदृष्टवशादेव सीतायाः ईदृशी गतिः जाता इति स्वीकरोमीति भावः। यद्यपि तव वचनम् अतीव साधीयः, तथाऽपि रामभद्रेण सुष्ठु नाचरितमिति पक्षान्तरमाह, युक्तमिति। -रामभद्रस्य-रामचन्द्रस्य, एतत्-सीतायाः सर्व्वथैव मिथ्याभूताया दुश्चरित्रतायां विश्वससंस्थापनं निर्वासनञ्च। युक्तं वा ?-उचितं किम् ? वा शब्दः पक्षान्तरे। ( ‘ ‘‘वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये। ‘ ‘ ‘इति विश्वप्रकाशः )।
सीतानिर्वासनस्य अयुक्ततायां प्रमाणमुपन्यस्यति, नेति। -बाल्ये बालभावे, शैशवे इत्यर्थः, बालेन कुमारेण रामेण, पीडितः दारकर्म्मणि परिगृहीतः, पाणिः सीतायाः करः, न प्रमाणीकृतः युक्तायुक्तविचारे प्रमाणत्वेन न अवेक्षितः ; यथाशास्त्रः परिणीतायाः पत्न्याः केवलदुर्ज्जनकृतापवादात् सहसा परित्यागः लोकशास्त्रविगर्हिततया नितान्तमन्याय्य इति भावः ; अहं पृथिवी, न , प्रमाणीकृतेति लिङ्गविपरिणामेन अन्वयः, अहमपि विश्वास्यत्वेन न स्वीकृतेत्यर्थः ; मद्दुहिता कथं हि सतीधर्म्मात् विच्युता भविष्यति इत्यपि तेन न गणितं, तथा च एतेन मां प्रत्यपि तस्य अविश्वासः सूचितो भवतीति भावः ; जनकः राजर्षिर्विदेहाधिपोऽपि, न, प्रमाणीकृत इत्यन्वयः ; यस्याः पिता जीवन्मुक्तः , तत्कन्या कथं चरित्र्याहीना भविष्यति इत्यपि तेन न पर्य्यवेक्षितं, तथा च व्यवहारेणानेन सुप्रशस्तचरित्रः जनकोऽपि तेनावज्ञात इति भावः ; अग्निर्न, प्रमाणीकृत इत्यन्वयः ; सर्वलोकपावनः अग्निः विशोधनेन सीतायाः निर्द्दोषतापरिचायकः असीत्, सोऽपि विश्वस्तत्वेन न गणित इति भावः ; अनुवृत्तिः अनुवर्त्तनं, छायावत् पत्युः सर्व्वत्रानुसरणं, छन्दोऽनुवर्त्तनं वा, न, प्रमाणीकृता विश्वासास्पदं नाभूदित्यर्थः ; या हि स्वैरिणी भवति, सा तु कदाऽपि पत्युः छन्दोऽनुवर्त्तिनी न भवेदित्यपि न विवेचितमिति भावः ; तथा , न सन्ततिः अपत्यद्वयमपि न, प्रमाणीकृता इति शेषः ; गर्भवत्याः तस्याः निर्वासनेन स्वस्य वंशलोपोऽपि भवेत्, यतः अस्याः गर्भे निजतेजः स्ववंशस्याविच्छेदकारणं वर्त्तते, अतः आपन्नसत्त्वायाः अस्याः निर्व्वासनसतीवान्याय्यं , तथा भ्रूणहत्याहेतुत्वेन महापापजनकञ्च, अतः सन्तत्युनुरोधेनापि सा सर्वथैवापरित्याज्या आसीदेव, इत्यपि न विगणितमिति भावः ; प्रोक्तेष्वेतेषु अपरित्यागबीजभूतेषु सत्स्वप्यसौ तानि सर्वाणि अविचार्य्यैव प्राणसमां पत्नीं सहसा अत्याक्षीत्, तत् किं न अन्याय्यमाचरितमिति वक्तृतात्पर्य्यमिति ज्ञेयम्। (अत्र एकया प्रमाणीकृत इति क्रियाया प्रस्तुतानां सर्वेषां पाणिग्रहणादिरूपकर्म्मणामभिसम्बन्धात् तुल्ययोगिताऽलङ्कारः, तथा सीतानिर्वासनं प्रति बहूनां कारणानां तत्कार्य्यकरत्वेन समावेशात् समुच्चयोऽलङ्कारः, इत्यनयोः परस्परसापेक्षतया सङ्करः )। पथ्यावक्त्रं वृत्तम्॥५॥
सीता। अज्जउअतं सुमराबिदम्हि। (ब )
पृथ्वी। आः कस्तवार्य्यपुत्रः ? (श)
सीता। ( सलजास्त्रम् ) जहा बा अम्बा मणादि। ’ (ष )
रामः। अम्ब पृथ्वी ईदृशोऽस्मि । (स )
आर्यपुत्र स्मारितास्मि ’
यथा वा अम्बा भणति।
(व) आर्य्यपुत्रं-रामम्। स्मारिता -स्मृतिपथमापादिता। अस्मि-भवामि, अहं जनन्येति शेषः ; सुचिरकालवियोगेन तं विस्मरन्ती अहमिदानीं जनन्या तन्नामोच्चारणात् स्मारिता सती पुनर्नवीभूतेन तद्वियोगशोकेन नितरां विव्यथितहृदया भवामीति भावः।
(श) आः -इति वैरक्तौ, खेदे वा। तव-भवत्याः। आर्य्यपुत्रः,-पतिः। कः ?-न कोऽप्यस्तीति भावः ; जगत्पतिः रामभद्रः यदि तव पतिः स्यत्, तदा कथं तव ईदृशी दुर्गतिः भवेत्, पतिस्ते कोऽपि नास्तीति मन्ये, न हि ते वयम् आर्य्यपुत्र इति वृथावादं श्रोतुमिच्छामः इति विरक्तिगर्भं वचनमेतदिति ज्ञेयम्।
(ष) सलज्जास्रमिति। -पतिनिन्दां श्रुत्वा लज्जया पतिव्रता सीता बाष्पममुञ्चदिति भावः। वा-अथवा। यथा-यादृक्। अम्बा-जननी। भणति-कथयति ; तत् तथैवेति भावः ; इदानीं पतिपरित्यक्तया मया आर्य्यपुत्र हति कृत्वा विफलं विलपनं कर्त्तुं नोचितमित्याशयः ; अथवा-मज्जननी शोकात् यदेव वदितुमिच्छति तदेव वदतु, अहन्तु हतदैवा कर्त्तव्यपरायणमार्य्यपुत्रं विनिन्दितुं न प्रभवामीति भावः।
(स) ईदृशः ,-भवदुक्तप्रकारः। अस्मि-भवामि ; भवद्दुहितुः आर्य्यपुत्रपदवाच्यः न भवितुमर्हामीति भावः ; यद्यहमस्याः पतिः स्यां, तदा कथमेवं नृशंसोचितमकार्य्यं कृत्वा आत्मानं पातकिनं कुर्य्याम् ? अतः भवत्या यदुक्तं , तत्सर्वं सत्यमेवेति रामस्य सकरुणमात्मक्षोभकरं वचनमेतदिति ज्ञेयम्।
भागी। भगवति वसुन्धरे शरीरमसि संसारस्य ; तत् किमसंविदानेन जामात्रे क्रुध्यसि ? (ह ) –
(ह) ( ‘ ‘‘भगवति वसुन्धरे ‘‘’ इत्यत्र ‘ ‘‘प्रसीद भगवति वसुन्धरे ‘‘’ इत्यधिकः पाठः पुस्तकान्तरेषु दृश्यते)। शरीरमसि-देहभूता त्वं भवसि ; सर्वेषां प्राणिनां वक्षसि धारणात् स्वदेहरसेन च परिपोषणात् सर्वाणि तव शरीरमयाणि भवन्ति, कस्माच्चिदपि वस्तुनः ते पृथग्भावो नास्तीति भावः। संसारस्य-प्राणिपूर्णजगतः। तत्-तस्मात्, अधिष्ठानरुपतया तव सर्वेषां कलेवररूपत्वादित्यर्थः। किं-कथम्। असंविदाना इव-तत्त्वार्थमविजानती इव, अविदितवृत्तान्तेवेत्यर्थः ( वेत्तेः ‘ ‘‘विदिप्रच्छस्वरतीनामुपसङ्ख्यानम् ‘‘’ (वा०) इति अकर्म्मकत्वादत्रात्मनेपदं, तेन च शानच् ) जामात्रे-राघवाय। कुप्यसि ?-कृध्यसि ? किमर्थं राघवेण प्राणसमाऽपि सीता विवासिता, स्वकीयवृत्तान्तं स्वीया तनुरिव सर्वेषां शरीरभूता त्वं तत् सर्वं जानासि एव, प्रजारञ्जनस्य रघुकुलधर्म्मतया तदनुल्लङ्घनीयत्वात् तदनुरोधेनैव अवशेन रामचन्द्रेण सीता परित्यक्ता, तत्रास्य अपराधलेशोऽपि नास्ति, इति सीताविवासनविशेषज्ञाऽपि त्वं किमर्थं सीतापतये निरपराधाय रामाय वृथा कुप्यसि ? एतत्तु ते नोचितम् इति भावः। ( ‘ ‘‘जामात्रे ‘‘’ इति ‘ ‘ ‘क्रुधद्रुह- ‘ ‘ ‘(१। ४। ३७ पा० ) इति सम्प्रदानत्वेन चतुर्थी )। पृथिव्याः सर्ववृत्तान्ताभिज्ञत्वे प्रमाणं यथा- ‘ ‘‘आदित्यचन्द्रवनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च। अहश्च रात्रिश्च उभे च सन्ध्ये धर्म्मश्च जानाति नरस्य वृत्तम्॥ ‘ ‘‘इति।
घोरे लोके विततमयशो या च वन्हौ विशुद्धि-
लङ्काद्वीपे कथमिव जनस्तामिह श्रद्दधातुः ?।
एक्ष्वाकूणां कुलधनमिदं यत्समाराधनीयः।
कृत्स्नो लोकस्तदतिगहनं किं स वत्सः करोतु ?॥ ६॥
स्वकुलधर्म्मानुपालकेन रामेण कथमिदमतीवाकार्य्यमनुष्ठितं, तत्र बीजं प्रदर्शयितुमाह, घोरमिति। -लोके भुवने, घोरं दुःश्रवत्वात् अतिदारुणम्, अयशः निन्दा, सीतायाः चारित्र्यादूषणरूपेत्यर्थः, विततं विस्तीर्णं, व्याप्तमिति यावत्। ननु तादृशनिन्दाव्युदासार्थन्तु सीतायाः अग्नौ परीक्षा कृता, तत्कथं निन्दायाः सर्वत्र विततत्वमित्युच्यते ? इत्याशङ्कायामाह, येति। -( द्विर्गता आपो यत्र तत् द्विपम्, अस्य रूढित्वात् एतत्तु व्युत्पत्तिमत्रं ज्ञेयम्। ‘ ‘ ‘ऋक्पूरब्धूः पथामनक्ष्ये ‘ ‘ ‘( ५/४/७४ पा ०) इति समान्सान्तः अ प्रत्ययः , द्व्यन्तरुपसर्गेभोप ईत् ( ६/३/९७ पा०) इति ईदादेशः )। लङ्काद्वीपे , लङ्का एव द्वीपं तस्मिन् , सर्वतः समुद्रपरिवेष्टिते लङ्कानामि्नप्रदेशे, वह्नौ अनले, या च विशुद्धिः निर्दोषत्वपरीक्षा, सीताया आसीदिति शेषः, इह अस्मिन् अयोध्याप्रदेशे ; तत्तः अतीव सुदूरे देशे इति भावः ; जनः लोकः, तां विशुद्धि,ं कथमिव केन वा प्रकारेण, श्रद्दधातु ? विश्वसितु ? यो हि विषयः प्रत्यक्षीक्रियमाणोऽपि अत्यद्भुततया लोकैः न सहसा श्रद्धीयतेम् सुदूरदेशे वृत्ते हि तस्मिन् कथं साधारणजनानां श्रद्धा स्यत् ? इति भावः। भवतु तावत् वह्निपरीक्षायां साधारणप्रकृतीनामुत्तरकोशलवासिनामविश्वासः, परन्तु स्वचक्षुषा प्रत्यक्षीकृतनिखिलवृत्तान्तह् स्वयं रघुमणिः कथं हि तां निर्द्दोषां स्वपत्नीं साधारणजनवाक्यतः विवासितवातन् ? इत्याशङ्कायामाह, इक्ष्वाकूणामिति। -यत् यतः, कृत्स्नः लोकः सकला एव प्रजाः, समाराधनीयः अनुरञ्जनीयः, परितोषणीय इति यावत्, तत् ततः, अतिगहनम् अतीव दुष्करं कार्य्यमित्यर्थः, इदं प्रजानुरञ्जनम्, इक्ष्वाकूणाम् इक्ष्वाकुवंशीयानां कुलधनं कुलक्रमागतं धनं , व्रतमित्यर्थः ; यथा धनं लोकैः सयत्नं रक्ष्यते, तथैव इक्ष्वाकुभिः प्रजापालनं सयत्नं क्रियते इति भावः ; यद्वा,-कृत्स्नो लोकः समाराधनीयः, इति यत् इक्ष्वाकूणां कुलधनं, तत् इदं लोकाराधनरूपम्। कौलिकं व्रतम्, अतिगहनम्, इत्येवं योजनीयम् ; सः वत्सः वात्सल्याधारः रामः, किं करोतु ? दुर्ज्जनानां सुजनानाञ्च सर्वासां प्रजानाम् अनुरञ्जनात् ऋते कथं हि एकाकी वत्सः सीतापरित्यागमकृत्वा स्वकुलधर्म्ममनुपालयतु ? इत्यर्थः ; सीतादोषसम्भावनया विरक्तानां प्रजानामपि अनुरञ्जनं तस्य राजतया कुलधर्म्मतया च नियतमेव कर्त्तव्यमिति तस्य नास्ति अणीयानप्यत्र दोषः इति वक्तुराशयः। ( अत्र सीताविवासनकार्य्यस्य एकस्मिन् कारणे दुर्ज्जननिन्दारूपे सत्यपि लोकानुरञ्जनरूपकारणान्तरस्य खले कपोतिकान्यायेन तत्कार्य्यकारित्वेनोपन्यासनं समुच्चयालङ्कारः )। मन्दाक्रान्ता वृत्तम्॥६॥
लक्ष्मणः। अव्याहतान्तः प्रकाशा हि देवता भूतेषु ; विशेषेण गङ्गा ; तदयमञ्ज्लिस्ते। (क )
(क)भूतेषु-सर्वेषु प्राणिषु विषयेषु। अव्याहतान्तःप्रकाशा-अव्याहतः-अप्रतिबद्धः, केनचिदपि अनिवारित इत्यर्थः, अन्तःप्रकाशः-मानसिकवृत्तिविज्ञानं, सर्वेषां जीवानामन्तर्गतभावपरिज्ञानमित्यर्थः, यासां ताः ; देवा हि अन्तर्य्यामितया सर्वेषामेव जीवानां मनोगतभावं विदन्तीति भावः। विशेषेण-प्राधान्येन।
गङ्गा- भागीरथी ; भगवती गङ्गा तु सर्वेषामेव जीवानां मनोगतभावं विशेषतया वेत्ति, तस्याः किमप्यपरिज्ञानं नास्ति, अतः किमर्थं रघुमणिना सिता विवासिता इति स्वयं सर्वं तदाशयमन्तर्य्यामितया विदित्वैव सर्वलोकसमक्षं प्रोक्तार्थं सुस्फुटमुवाचेति भावः। तत्-तस्मात्, त्रिलोकीपूज्यत्वात् इत्यर्थः। ते-तुभ्यम्। अयमञ्जलिः ,-प्रणामार्थं करद्वयसंयोगः, मया क्रियते इति शेषः, त्वां प्रणमामि इत्यर्थः। ( ‘ ‘‘तदेष ते प्रणामाञ्जलिः ‘‘’ इति पाठान्तरम् )।
रामः। अम्ब अनुवृत्तस्तया भगीरथगृहे प्रसादः। (ख)
पृथ्वी। देवि नित्यं प्रसन्नास्मि वः कि न्तु आपातदुःसहस्नेहावेगेन ब्रवीमि। न पुनर न जानामि सीता स्नेहं रामभद्रस्य ?। ( ग ) –
दह्यमानेन मनसा दैवात् वत्सां विहाय सः।
लोकोत्तरेण सत्वेन प्रजापुण्यैश्च जीवति॥७॥
(ख)अम्ब -मातः । अनुवृत्तः-अविच्छेदेन प्रवर्त्तितः। भगीरथगृहे-भगीरथभवने, सूर्य्यकुलसन्ततिषु इत्यर्थः। प्रसादः-अनुग्रहः ; भगीरथवंशधरेषु सर्वेषु तवानुग्रहः अकृत्रिमः वर्त्तते एव, तेन त्वं स्वयमेवैवं मत्कृते पृथिवीं देवीमनुनयसीति भावः।
(ग)नित्यं-सततमेव। वः ,-युष्मान् प्रति। प्रसन्नाऽस्मि-सन्तुष्टा भवामि ; सर्वेषु भवत्पक्षेषु मे अकृत्रिमं वात्सल्यं विद्यते एवेत्यर्थः। किन्तु-परन्तु। आपातेति। -आपाते-तदात्वे, सीतायाः विपद्वार्त्ताश्रवणक्षणे एवेति यावत्, ( ‘ ‘‘तदात्वे पात आपातः ‘‘’ इति वैजयन्ती। ‘ ‘‘दर्शनक्षण आपातस्तथैवाकर्णनक्षणे। ‘ ‘‘इति कोषश्च ) यः दुःसहः,-सोढुमशक्यः , अप्रतिरोध्य इत्यर्थः, स्नेहावेगः,-सीतायां वात्सल्योदयप्रसरः तेन, सीतायां निरतिशयस्नेहप्राबल्येनेत्यर्थः। ( ‘ ‘‘किन्त्वापातदुःसहः शोकावेगोऽपत्यस्य, तेन ‘‘’ इति पाठान्तरम् )। एवम्-इत्थम्। ब्रवीमि-कथयामि, प्रोक्तरूपां राघवनिर्भर्त्सनां करोमि इति यावत्। पुनः,-किन्तु। रामभद्रस्य-राघवस्य। सीतास्नेहं-सीतायां वात्सल्यम्। न जानामि न-न वेद्मि इति न ; अपि तु कियान् हि स्नेहः सीतायां रामस्य वर्त्तते, तत् सर्वं सर्वथा अवगच्छामि एवेति भावः।
अथ स्वाभिज्ञानप्रकारं विशदीकृत्योपवर्णयितुं रामाशयं व्याचष्टे, दह्यमानेनेति। -दैवात् नियतिवशात्, अप्रतिरोध्यदैवस्य एकान्तायत्ततादित्यर्थः, वत्सां जानकीं, विहाय निर्वास्य, दह्यमानेन अपराधादृतेऽपि सीतां परित्यजामि इति दुःसहदुःखभाराक्रान्ततया सातिशयं सन्तप्यमानेन, मनसा चेतसा उपलक्षितः सन्, सः रामः, लोकोत्तरेण अलौकिकेन, असामान्येनेति यावत्, सत्त्वेन व्यवसायेन, धैर्य्येणेत्यर्थः, ( ‘ ‘‘द्रव्यासुव्यवसायेषु सत्त्त्वमस्त्री तु जन्तुषु। ‘ ‘‘इत्यमरः ) प्रजापुण्यैश्च प्रजानां प्रकृतीनां, पुण्यैश्च धर्म्मैश्च ; प्रजानां प्राक्कृतपुण्यैरेव एतादृशसर्वगुणसमन्वितस्य नरपतेर्लाभादित्याशयः ; जीवति प्राणिति ; रामः प्रकृतिरञ्जनार्थं प्राणसमां सीतां निर्वास्य तदीयशोकेन एवं हि विवशकायः समजनि, यत् यदि तस्य ताद्रुशमसामान्यं धैर्य्यं प्रकृतिपृञ्जानाञ्च सौभाग्यं नाऽऽस्तां, तदा नूनमसौ सीताशोकेन म्रियतेति सर्वमहं विजानामीति भावः।
( अत्र राघवजीवनं प्रति एकस्यासामान्यधैर्य्यरूपकारणस्य सत्त्वेऽपि पुनः तत्कारणरूपतया प्रजापुण्यस्योपादनात् समुच्चयालङ्कारः, अपि च , रामजीवनं प्रति प्रदर्शितद्वितीयकारणस्य प्रजासु विद्यमानत्वात्, कर्य्यभूतस्य जीवनस्य च रामे सत्त्वात् कार्य्यकारणयोः भिन्नदेशगतत्त्वेन असङ्गतिरलङ्कारः )। पथ्यावक्त्रं वृत्तम्॥७॥
रामः। सकरुणा हि गुरवोगर्भरूपेषु। (घ)
सीता। ( रुदतू कृताञ्जलिः ) णेदु मं अत्तणो अङ्गेसुं बिलअं अम्बा । (ङ)
रामः। किमन्यद्ब्रवीतु ? (च )
भागी। शान्तम् अविलीना वत्सरसहस्राणि भूयाः। (छ )
नयतु मामात्मनोऽङ्गेषु विलयमम्बा।
(घ)गुरुवः-गुरुजनाः। गर्भरूपेषु-सन्ततिषु। सकरुणाः-सदयाः , भवन्तीति शेषः ; पुत्रभूतानां शतेषु अपराधेषु सत्स्वपि गुरवः तन् नूनं न गृह्णन्ति, तेन हि सापराधाय मह्यं पृथिवी देवी नाभिक्रुध्यति इति भावः।
(५) आत्मनः,-स्वस्याः। ओषु-देहेषु। विलयं-विलोपं, मिश्रणेन एकीभावमित्यर्थः। नयतु-प्रापयतु, निजाङ्गे मां विलीनं कारयत्वित्यर्थः ; इतःपरं नाहं जीवितुमिच्छामीति भावः।
(६) अन्यत्-अपरं, मरणाद्भिन्नमित्यर्थः। किं ब्रवीतु ?-किं कथयतु ?इदानीं सर्वायाः आशायाः विनाशात् मरणं विना कथितव्यान्तरस्याभावादिति भावः।
(७)शान्त-निवृत्त, भवतु प्रोक्तवचनमिति शेषः, एवं मा वद इत्यर्थः।
पृथ्वी। वत्से अपि रक्षणीय ते पुत्रकौ। ( ज )
सीता। अणाधाम्हि । (झ)
रामः। हृदय व्ज््रिम्य्म्स्त। (ञ)
भागि । कथं त्वं सनाथाप्यना था ?
सीता। कीदसं मम अभब्बाए सणाधत्तणं ? ’ ( ट)
अनाथाऽस्मि।
’ कीदृशं ममाभव्यायाः सनाथत्वम्।
(८)( मान्तमव्ययमेतदिति कोषः )। वत्सरसहस्राणि-दशशताब्दान् व्याप्येत्यर्थः। ( कालाध्वनोरत्यन्तसंयोगे (२। ३। ५ पा०) इति द्वितीया )। अविलीना-अविलुप्ता, चिरजीविनी इत्यर्थः। भूयाः,-स्थेयाः ; कदाऽपि तव विनाशो न भवतु इति भावः।
(९)अपि-अवधारणे, अवश्यमेव इत्यर्थः। रक्षणीयौ-पालनीयौ। पुत्रकौ-तनयौ ; एतयोः बालयोः रक्षणार्थं त्वया अवश्यं जीवितव्यमिति मन्ये, मातुः स्तन्यपानादृते बालस्य जीवनरक्षायाः दुःसाध्यत्वादिति भावः। ( ‘ ‘‘अपि रक्षणीयौ ‘‘’ इत्यत्र ‘ ‘‘अवेक्षणीयौ ‘‘’ इति पाठान्तरम् )।
(१०)अनाथा-अशरणा। अस्मि-भवामि ; मम तु कोऽपि रक्षको नास्ति, तेन सहायशून्या निरूपाया स्त्री कथं हि बालयोः परिपालने समर्था भविष्यतीति भावः। ( ‘ ‘‘किं एदेहि ‘‘’ इत्यधिक पाठः क्वापि दृश्यते )।
(११)हृदय -चेतः वज्रमयं-कुलिशघटितम्। असि ?-भवसि ? ; एवंविधं विलापमाकर्ण्य यतस्त्वं न सहस्रधा विदीर्य्यसि, अतो नूनं वज्रसमसारं भवसि इत्यर्थः ; सार्व्वभौमस्य मे निरपराधायाः महिष्याः ईदृशः रक्षकहीनतासूचकं विलापभूयिष्ठं वचः श्रुत्वा तव सर्व्वथा विलयीभवनमेवोचितमिति भावः।
कथं-केन हेतुना। सनाथा अपि-नाथवती अपि, सभर्तृकाऽपीत्यर्थः। अनाथा-अशरणा, भवसीति शेषः ; जगत्पालके पतौ जीवति कथमपि त्वं रक्षकहीना न भविष्यसीति भावः ; जगतां नाथः यस्याः पतिः, तस्याः किं कथमपि अनाथत्वं सम्भवति ? इति वक्तुराशयः।
अभाव्यायाः-अकुशलायाः, दुर्भाग्यस्तत्वात् अमङ्गलास्पदीभूताया इत्यर्थः ; वृथाकलङ्कारोपेण निर्वासनात् नियत्या-अनन्तदुःखसागरनिमज्जिताया इति भावः। (भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्। ‘ ‘ ‘इत्यमरः। ‘ ‘‘मन्दभाइणीये ‘‘’ इति पाठभेदः )। कीदृशं-किम्प्रकारकम्। सनाथत्वम् ?-रक्षकवत्वम् ? रक्षकेण पत्या परित्यक्ता कथं सनाथा भवामीति भावः।
देव्यौ। जगन्मङ्गलमात्मानं कथं त्वमवमन्यसे।
आवयोरपि यत्सङ्गात् पवित्रत्वं प्रकृष्यते॥८॥
लक्ष्मणः। आर्य्य श्रुतम् ? (ठ )
रामः। शृणोयु लोकः। (ड)
नेपथ्ये। ( कलकलः)।
अथेदानीमतिनिर्वेदपरायणां सीतां प्रस्तुतवाक्यैः समाश्वासयति, जगन्मङ्गलमिति। -हे सीते इत्यमन्त्रणपदमध्याहार्य्यम् ; त्वं जगन्मङ्गलं त्रिभुवनकल्याणरम् अखिलजगतां मङ्गलनिदानभूतमित्यर्थः, आत्मानं स्वं, कथं केन हेतुना, किमर्थमित्यर्थः, अवमन्यसे ? अवजानासि? ; ‘ ‘‘अनाथाऽस्मि ‘‘’ इत्यादि खेदसूचकवाक्यैः वृथा निन्दसिति भावः ; इत्यसङ्गात् यस्याः तव, सङ्गात् संसर्गात्, आवयोरपि जगति पावनत्वेन प्रसिद्धयोः पृथिवीगङ्गयोरपि ; अपरेषां का कथा ? इति भावः ; पवित्रत्वं पूतत्वं पावनत्वं वा, प्रकृष्यते उत्कृष्यते ; यद्वा-प्रकृष्यते उत्कर्षतां गच्छति, ( कर्म्मकर्त्तरि प्रयोगोऽयम् )। त्वत्सम्बन्धादेव आवां जगति अतीव पवित्रतमे इति लोकैरुत्कीर्त्यते, इत्यतः वृथा आत्मनि घृणां विमुञ्चेति भावः ; त्वन्तु पतिरताशिरोमणिभृता एव भवसि इति तु तात्पर्यम्। (अत्र स्वत एव पूतयोः पृथिवीगङ्गयोः सीतासङ्गेन पवित्रताप्रकर्षासम्बन्धोऽपि तत्सम्बन्धोक्तेः असम्बन्धे सम्बन्धरूपाऽतिशयोक्तिरलङ्कारः )। पथ्यावक्त्रं वृत्तम्॥८॥
(१३)श्रुतम् ? आकर्णितम् ? सीतायाः पातिव्रत्यविषये पृथिवीगङ्गयोः अभिमतमिति शेषः ; आकर्ण्य सा हि कीदृशी पतिव्रताकुलधुरन्धरा तत् अवधार्य्येतामिति भावः। ( ‘ ‘‘श्रूयते ? ‘‘’ इति पाठान्तरम्)।
लोकः,-प्रकृतिवर्गः। ( जातावेकवचनम् )। शृणोतु-आकर्णयतु ; अहन्तु सीतापातिव्रत्यविधौ संशयितः नाऽऽसम् ; किन्तु प्रकृतिरञ्जनं हि स्वकुलधर्म्मः, इति तदनुरञ्जनार्थमेव प्राणसमामपि तां निर्वासितवान्, तेन च तच्छङ्काकुलाः प्रकृतयः एव वचनमेतत् श्रुण्वन्तु च तच्चारित्र्यगतं स्वसन्देहं निराकुर्व्वन्तु इत्याशयः।
रामः। अद्भततरं किमपि (ढ )
सीता। किन्त्ति अन्तरिक्खं पज्जलदि ? (ण )
देव्यौ। ज्ञातम्। -
क्वशाश्वः कौशिको रामैति येषां गुरुक्रमः।
आविर्भवन्ति तान्येव शस्त्राणि सह जृम्भकैः॥९॥
(१४)अद्भुततरम्-अतिविस्मयकरम्। किमपि-अनिर्वचनीयं वस्तु, समुदितं भवतीति शेषः ; नो चेदेवं तर्हि कथमेतादृशः कलकलोऽनुभूश्रूयते इति भावः।
(१५)किमिति-कथं हि। अन्तरीक्षं-गगनम्। प्रज्वलति ? देदीप्यमानं भवति ? अपूर्वज्योतिर्भिः सर्वा दिशः समुद्भासयतीति भावः। ( ‘ ‘‘पज्जाउलम् ‘‘’ इति पाठे-पर्य्याकुलं कलकलपूर्णम्)।
अथान्तरीक्षीज्ज्वल्यकारणं संस्मृत्यभिदधाते, क्वशाश्व इति। -कृशाश्वः विश्वामित्रपूर्वपुरुषः तन्नामकः कश्चित् मुनिविशेषः, कौशिकः कुशिकनन्दनः विश्वामित्रः, रामः स्वयं रघुमणिश्च, इति इत्थं, येषाम् अस्त्राणां, गुरुक्रमः आचार्य्यपरम्परा, एते तु येषामस्त्राणां प्रयोगसंहारोपदेशदातारः इति यावत् ; तथा हि आदौ कृशाश्वः, तस्मात् विश्वामित्रः तस्माच्च रामः यानि अस्त्राणि समधिगत्य तत्सम्प्रदायं प्रवर्तितवानिति भावः ; तान्येव शस्त्राणि आयुधविशेषाः, जृम्भकैः सह समन्त्रप्रयोगसंहारैः तदाख्यैरस्त्रैः सह, आविर्भवन्ति प्रकटीभवन्ति, गगनमण्डले प्रकाशन्ते इत्यर्थः ; प्राक् आलेख्यपरिदर्शनकालिकं वत्सस्य राघवस्यादेशमनुपालयितुं तत्सुतौ कुशलवौ समुपचरितुञ्चेदानीं तान्येतानि व्योमि्न समुदितानि भवन्ति , अत एव कोलाहलः श्रूयते, अन्तरीक्षञ्च प्रज्वलितं दृश्यते इति भावः। पथ्यावक्त्रं वृत्तम्॥९॥
( नेपथ्ये )-देवि सीते नम्स्तेस्तु गतिर्न पुत्रकौ हि ते।
आलेख्यदर्शने देवो यदाह रघुनन्दन॥१०॥
किमिति अन्तरीक्षं प्रज्वलति ? अथ भगवद्राघवस्य निदेशानुसारतः जृम्भकास्त्राणां सीतासुतयोः कुशलवयोः स्वेच्छाकृतमात्मसमर्पणं नेपथ्यभाषितेनाह, देवीति। -हे देवि सीते ते तुभ्यं , नमः प्रणतिः, अस्तु वर्त्ततां, वयं त्वां प्रणमाम इत्यर्थः, हि यतः , ते तव पुत्रकौ सुतौ, नः अस्माकं, गतिः आश्रयः, उपायभूतौ इत्यर्थः, भवतः इति शेषः, वयं तव सुतौ इदानीमाश्रयाम इत्यर्थः ; यतस्त्वमस्माकमाश्रयीभूतयोः कुशलवयोर्जननी, अतस्त्वां प्रणमाम इति भावः। कथमेवमभिधत्त ? तदेवोच्यते, आलेख्येति। -देवः रघुनन्दनः रघुमणिः आलेख्यस्य चित्रस्य, दर्शने विलोकनावसरे, यत् यादृक् वचनं, ‘ ‘‘सर्वथा इदानीं त्वत्प्रसूतिमुपस्थास्यन्ति ‘‘’ इत्थमाशीर्वचनमित्यर्थः, आह उवाच ; तथाभूतं तदादेशमनुपालयितुं वयमधुना त्वत्सुतावुपसेवामहे इति भावः। पथ्यावक्त्रं वृत्तम्॥१०॥
सीता। दिट्टिआ अत्थदेअदाओ परिस्फुरति। ( त )
लक्ष्मणः। उक्तमासीदार्य्येण ; — ‘ ‘सर्वदा इदानीं त्वत् प्रसूतिमुपस्थास्यन्ति ‘ ‘ ‘इति। (थ )
देव्यौ। –
नमो वः परमास्त्रेभ्यो राघवस्य परिग्रहात्।
अनुध्यातैरुपेतव्यं वत्सयोर्भद्रमस्तु वः॥११॥
दिष्ट्या अस्त्रदेवताः परिस्फुरन्ति।
(१६)दिष्ट्या-भाग्येन, पुत्रयोर्मे सौभाग्यवशादित्यर्थः। अस्त्रदेवताः-जृम्भकास्त्राणामधिष्ठात्र्यो देवताः। परिस्फुरन्ति-प्रकाशन्ते ; अस्त्रदेवताभिः पुत्रौ मे अनुगृहीतौ भवत इति भावः।
(१७)आर्य्येण-रामेण। उक्तमासीत्-प्रथमाङ्के चित्रपटदशनप्रस्तावे कथितमभूत्। सर्वथा-साकल्येन। इदानीम्-अधुना , तव पुत्रोत्पादानन्तरमेवेत्यर्थः। त्वत्प्रसूतिं-तव सन्ततिम्। उपस्थास्यन्ति-उपसेविष्यन्ते। इति-एवम्, उक्तमासीदित्यन्वयः, इत्थं हि आशीर्वचनं प्राक् रघुपतिः प्रदत्तवानित्यर्थः।
अथ पृथ्वीभागीरथ्यौ परमास्त्रवन्दनपुरःसरं सीतासुतयोः तदनुग्रहमभियाचेते, नम इति। -परमास्त्रेभ्यः उत्कृष्टजृम्भकास्त्राधिदेवताभ्यः , वः युष्मभ्यं, नमः प्रणतिः, अस्तु इति शेषः, राघवस्य रामस्य, परिग्रहात् स्वीकारात्, राघवकर्त्तृकलाभादित्यर्थः ; युष्माकं राघवस्य आज्ञाऽनुवर्त्तित्वादिति भावः ; अनुध्यातैः स्मृतैः सद्भिः, युष्माभिरिति शेषः, वत्सयोः पुत्रभूतयोः कुशलवयोः समीपे, उपेतव्यम् उपस्थातव्यम् ; कुशलवयोः स्मरणानन्तरमेव राघवाज्ञानुपालनार्थं भवद्भिः तत्समीपे आगन्तव्यमिताशयः ; वः युष्माकं, भद्रं कुशलम्, अस्तु भवतु। (श्लोकश्चैष पुस्तकान्तरेषु रामोक्तिरूपतया प्रदर्शितः, ‘ ‘‘राघवस्य परिग्रहात् ‘‘’ इत्यत्र ‘ ‘‘धन्याः स्मो वः परिग्रहात् ‘‘’ इति च पाठान्तरं नियोजितमस्ति ; तदर्थस्तु-वः युष्माकं, परिग्रहात् स्वीकारात्, लाभादित्यर्थः, धन्याः जगति प्रतिष्ठामुपेताः, कृतार्था इत्यर्थः, स्मः वयं जाता इत्यर्थः)। पथ्यावक्त्रं वृत्तम्॥११॥
रामः। –
क्षुभिताः कामपि दशां कुर्वन्ति मम साम्प्रतम्।
विस्मयानन्दसन्दर्भजर्जराः करुणर्मयः॥१२॥
देव्यौ। मन्यस्व वत्से रामभद्रतुल्यौ इदानीं ते पुत्रकौ संवृत्तौ। (द ) सीता। भअबदाआ को एदाणं क्खत्तिओचिदं कम्मकरिस्मदि ? (ध) भगवत्यौ क एतयोः क्षत्रियोर्चित्तं कर्म्म करिष्यति ? अथ रघुपतिः प्रोक्तार्थजातमवलोक्य आत्मनः विवशभावमाह, क्षुभिता इति। -साम्प्रतम् अधुना, विस्मयानन्दसन्दर्भजर्जराः विस्मयस्य अद्भुतवृत्तान्तदर्शनेन चेतसो विमुग्धीभावरूपावस्थाविशेषस्य ; पृथ्वीभागीरथीकृतसीतासमाश्वासन-जृम्भकास्त्राद्याविर्भावजनितस्येति भावः ; तथा आनन्दस्य पुत्रद्वयदर्शनजनितस्य हर्षस्य च , सन्दर्भेण ग्रन्थनेन, समावेशेनेत्यर्थः, जर्जराः विशीर्णाः, अत्यर्थमाकुलीभूता इत्यर्थः ; ऊर्म्मिशब्देनात्र करुणायाः जलधितुल्यमगाधत्वं व्यज्यते ; क्षुभिताः उद्वेलिताः विकृताः सन्तः इत्यर्थः, मम कामपि अनिर्वचनीयस्वरूपां, दशाम् अवस्थां, कुर्वन्ति विदधति ; अहमिदानीं विस्मयहर्षशोकैः युगलदाक्रान्ततया कामप्यनिर्वचनीयां दशां प्राप्तः किमपि नावधारयितुं शक्नोमीति भावः। ( अत्र अद्भूतो रसः हर्षाख्यभावस्य करुणरसस्याङ्गभूततया स्थितः, अतो रसवदलङ्कारः )। पथ्यावक्त्रं वृत्तम्॥१२॥
(१८)वत्से -कल्याणि सीते -मन्यस्व-जानीहि। ( ‘ ‘‘मन्यस्व वत्से ‘‘’ इत्यत्र ‘ ‘‘मोदस्व वत्से मोदस्व ‘‘’ इति पाठान्तरम्। मोदस्व-हृष्टा भव इत्यर्थः )। इदानीम्-अधुना। ते-तव। पुत्रकौ-तनयौ कुशलवौ। रामभद्रतुल्यौ-राघवास्य समौ। संवृत्तौ-जातौ ; जृम्भकास्त्रलाभात् पराक्रमेण रामचन्द्रतुलशौर्य्यशालिनौ भवत इति भावः।
भगवत्यौ -पृथ्वीभागीरथ्यौ एतयोः-मत्पुत्रयोः कुशलवयोः। क्षत्रियोचितं कर्म्म-क्षत्रियजात्यनुरूपं जातकर्म्मादिशास्त्रोक्तसंस्कारसमूहमिति यावत्। करिष्यति ?-सम्पादयिष्यति ? ( ‘ ‘‘करिष्यतीति ‘‘’ इति पाठे,-इति-एतत् , अहं चिन्तयामीति शेषः )।
रामः। –
एषां वशिष्ठगुप्तानां रघूणां वंशवर्धिनी।
सीताऽपि सुतयोः कष्टं संस्कर्तारं न विन्दति॥१३॥
देव्यौ। पुत्रि किं तवानया चिन्तया ? एतौ हि वत्सौ स्तन्यत्यागात्परेण भगवतो वाल्मीकेरर्पयिष्यावः; स एवैतयोः क्षत्रकृत्यं करिष्यति। (न) अथ रामः जीवति स्वस्मिन् वशिष्ठादौ च स्वपुत्रसंस्कर्त्तृत्वाभावमुपश्रुत्य नितस्समनुशोचति, एषामिति। -वशिष्ठेन ब्रह्मपुत्रेण तपोनिधिना, गुप्तानां रक्षितानां, कृतसंश्काराणां, शान्तिक्रियादिभिः विविधोपप्लवेभ्यः रक्षितानां वेति यावत् , एषाम् अस्मदियानाम्, ( ‘ ‘‘एषा ‘‘’ इति पाठान्तरे-एषा मत्प्राणसमा पत्नीत्यर्थः, सीता इत्यनेनान्वयः ) रघूणां रघुवंशीयानां, वंशवर्द्धिनी पुत्रप्रसवेन कुलवृद्ध्कारिणी, सीताऽपि जानकी अपि, सुतयोः पुत्रयोः कुशलवयोः, संस्कर्त्तारं जातकर्म्मादिशास्त्रीयक्रियासम्पादयितारं, न विन्दति न लभते, कष्टम् अहो अतीव क्लेशकरमेतदित्यर्थः ; ( ‘ ‘‘सीताऽपि सुतयोः कष्टम् ‘ ‘ ‘इत्यत्र ‘ ‘‘कष्टं सीताऽपि सुतयोः ‘‘’ इति पाठव्यतिक्रमः ) ; रघुवंशीयानां सकलसंस्कारक्रियासम्पादयितरि वशिष्ठादौ विद्यमानेऽपि रघुकुलाङ्कुरयोः संस्कर्तुरभावः समजनि, अहो धिक् कष्टोऽयमवस्थाविपर्य्यय इति भावः। पथ्यावक्त्रः वृत्तम्॥१३॥
(न) पुत्रि -तनयभूते सीते । तव अनया-एतया। चिन्तया-भावनया। किम् ?-अलम् ; आवयोः विद्यमानयोः सत्योः कः तव सुतयोः संस्कारं करिष्यतीति चिन्ता त्वया नैव करणीयेति भावः। हि-यस्मात्। एतौ वत्सौ-बालौ कुशलवौ। स्तन्यत्यागात्-स्तनदुग्धपानत्यागात्। परेण-अनतरमेव ; यदा एतौ स्तनदुग्धत्यागं करिष्यतः तदा इति भावः। ( अत्र दिक् शब्दवाचिपरशब्दयोगात् पञ्चमी, ‘ ‘‘अन्यारादितर्थे- ‘ ‘ ‘(२। ३। २९ पा०) इत् दिक्शब्दयोगात् पञ्चमीविधानात्, तथा हि दीक्षिताः- ‘ ‘‘दिशि दृष्टः शब्दो दिक्शब्दः ; तेन सम्प्रति देशकालवृत्तिना योगेऽपि भवति ‘ ‘ ‘इति )। भगवती वाल्मीकेः-महामुनेः प्राचेतसस्येत्यर्थः, ( अत्र मुख्यदानाभावात् न चतुर्थी, ‘ ‘‘रजकस्य वस्त्रं ददाति ‘‘’ इतिवत् शेषे षष्ठी ज्ञेया )।
यथा वशिष्ठाङ्गिरसावृषी प्राचेतसस्तथा।
रघूणां जनकानाञ्च वंशयोरुभयोर्गुरुः॥१४॥
अर्पयिष्यावः-दास्यावः। (अत्र ‘ ‘‘देव्यौ ‘‘’ इत्यत्र ‘ ‘‘भागीरथी ‘‘’ तथा ‘ ‘‘अर्पयिष्यावः ‘‘’ इत्यत्र ‘ ‘‘अर्पयिष्यामि ‘‘’ इति च पाठान्तरे )। स एव-असौ मुनिरेव। एतयोः-तव सुतयोः कुशलवयोः। क्षत्रकृत्यं-क्षत्रियजात्युचितं संस्कारम्। करिष्यति-विधास्यति।
महर्षिं वशिष्ठं विना जातकर्म्मादिक्रियायां सम्पादितायां कुलगुरुत्यगजनितमहाभिष्टापातो भविष्यति इत्याशङ्कामपनयति, यथेति। — वशिष्ठः तदाख्यः ब्रह्मणः मानसपुत्रः, आङ्गिरसः शतानन्दश्च, एतौ ऋषी, यथा रघूणां रघुवंशीयानां, जनकानाञ्च जनकवंश्यानाञ्च, गुरू इति शेषः, तथा प्राचेतसः वाल्मीकिरपि, उभयोः वंशयोः एतेषां द्वयोरेव कुलयोः, गुरुः आचार्य्यः, भवतीति शेषः ; यथा वशिष्ठः रघुंवशस्य शतानन्दश्च जनकवंशस्य गुरुर्भवति, तथा भगवान् वाल्मीकिरपि, ततः तेन सम्पादितः संस्कारविधिः न कथमपि परिहीनः भविष्यति , अतस्त्वया वृथा चिन्ता परिहरणीयेति भावः। पथ्यावक्त्रं वृत्तम्॥१४॥
रामः। सुविचिन्तितं भगवतीभ्याम् । ( फ)
लक्ष्मणः। आर्य्य सत्यं विज्ञापयामि ; तैस्तैरुपायैस्तौ कुशलवौ उत्प्रेक्षे। (ब) —
एतौ हि जन्मसिद्धास्त्रौ जातौ प्राचेतसान्मुनेः।
वीरौ सम्प्राप्तसंस्कारौ वयसा द्वादशाब्दिकौ॥१५॥
(फ) भगवतीभं-परमैश्वर्य्यशालिनीभ्यां पृथ्वीभागीरथीभ्याम्। ( ‘ ‘‘भगवत्या ‘‘’ इति पाठान्तरम्)। सुविचिन्ततं-सुष्ठु अवधारितम् ; कुशलवयोः संस्कर्त्ता वाल्मीकिरेव भविष्यति इति यत् विवेचितं , तत् समीचीनमेव कृतमिति भावः।
(ब) आर्य्य -पूज्य सत्यं-तथ्यं , यथाभूतमेव वस्तु इत्यर्थः। विज्ञापयामि-निवेदयामि। तैः तैः,-प्राक् प्रदर्शितैरित्यर्थः। उपायैः ,-हेतुभिः। वत्सौ कुशलवौ उत्प्रेक्षे-सीतासुतत्वेन सम्भावयामि ; तैरेव हेतुभिः वत्सौ कुशलवौ भवत्सुतावेव भवतः सत्यमिति मन्ये इति भावः।
प्रोक्तानुमितौ हेतूनुपन्यस्यति , एताविति। -हि यस्मात्, एतौ परिदृश्यमानौ द्वौ एव कुमारौ , जन्मसिद्धास्तौ जन्मनः उत्पत्तेः, सिद्धानि आयत्तीभूतानि, अधिगतानीत्यर्थः, अस्त्राणि जृम्भकाख्यानि आयुधानि ययोः तौ, जन्मनः प्रभृति एतयोः बालकयोः जृम्भकास्त्राणि स्वतःसिद्धयता आविर्भूतानि इत्यर्थः , तथा प्राचेतसात् वाल्मीकेः मुनेः तपोधनात्, सम्प्रात्पासंस्कारौ सम्प्राप्ताः लब्धाः, संस्कराः जातकर्म्मादयः याभ्यां तौ, एवं वीरौ भवत्सदृशपराक्रमौ, त्वत्तुल्यशौर्य्यसमन्विताविति यावत्, अपि च वयसा द्वादशाब्दिकौ द्वादशवार्षिकौ, जातौ सम्भूतौ, यमजयोरेतयोः बालयोरिदानीं द्वादशवर्षाणि वयः सम्भूतानीत्यर्थः ; ( ‘ ‘‘जातौ ‘‘’ इत्यत्र ‘ ‘‘उभौ ‘‘’ इति पाठान्तरम् )। यतो हि बालकावेतौ आजन्मन एव जृम्भकास्त्राणि समधिगतवन्तौ, भगवान् वाल्मीकिश्च स्वयमेव एतयोः संस्कारकर्म्माणि सम्पादितवान्,, द्वादशवर्षीयौ चैवेतौ भवतः, तेन नूनं सीतापुत्राविमौ इत्यनुमिनम इति भावः। पथ्यावक्त्रं वृत्तम्॥१५॥
रामः। वत्स परिप्लवमानहृदयः सन् मुग्धोऽस्मि। (भ )
पृथ्वी। एहि वत्से पवित्रीकुरु रसातलम्। (म)
रामः। हा प्रिये लोकान्तरमसि गता (य )
सीता। णेदु मं अत्तणो अङ्गेसु बिलयं अम्बा ; ण सक्कम्हि ईदिसं जीअलोअ-परिबत्तं अणुभबिदुम्। ( र )
नयतु मामात्मनोऽङ्गेषु विलयमम्बा ; न शक्ताऽस्मि ईदृशं जीवलोकपरिवर्त्तमनुभवितुम्।
(भ) इति-अस्मादेव हेतोः, सीतासुतत्वेनाशङ्कमानत्वादेवेत्यर्थः। परिप्लवमानहृदयः,-परिप्लवमानम्-आकुलं, संशयदोलाचलम् इति यावत्, हृदयं-चेतः यस्य सः, इमौ मत्सुतौ किम् ? न वेति कमपि पक्षं निर्णेतुमशक्नुवन् इत्यर्थः। अत एव मुग्धः,-मूढः, विवेकरहित इत्यर्थः। अस्मि-भवामि। ( ‘ ‘‘इत्येवाहं परिप्लवमानहृदयः प्रमुग्धोऽस्मि ‘‘’ इति पाठान्तरम् )।
(म) पवित्रीकुरु-स्वस्याः अधिष्ठानेन पुनीहि। रसातलम्-अधोभुवनम्।
(य) लोकान्तरम्-अन्यः लोकः (इति नित्यसमासः) मर्त्यलोकभिन्नं लोकं, पातालमित्यर्थः। गताऽसि-प्रस्थिता भवसि ; तव इहावस्थाने कदाचित् दर्शनं सम्भवितं स्यात्, तत्तु इदानीं मे विलुप्तमिति भावः।
(र) आत्मनः , स्वस्याः। ओषु -देहेषु। मां-दुहितरमित्यर्थः। विलयम्-एकीभवम् , अदर्शनम् इत्यर्थः। नयतु-प्रपयतु। अम्बा-जननी, वसुन्धरेत्यर्थः।
रामः। किमुत्तरं स्यात् ? (ल)
पृथ्वी। त्यागं स्तन्यस्य यावन्मन्नियोगतः पुत्रकयोरवेक्षस्व; परेण ते यथा रोचिष्यते। (व)
भागी। एवं नाम। ( श)
( ततो निष्क्रान्ताः गङ्गापृथ्वीसीताः )।
रामः। कथं विलय एव वैदेह्याः सम्पन्नः हा देवि दण्डकरण्यवसप्रियसखि हा चरित्रदेवते लोकान्तरं पर्यावसितासि ? (ष ) ( इति मुह्यति )।
ईदृशम्-एवंविधं, दुःसहमित्यर्थः। जीवेति। -जीवलोकस्य-भुवनस्य, परिवर्त्तम्-अन्यथाभावम्। अनुभवितुं-सोढुम्। न शक्ताऽस्मि -न हि समर्था भवामि ; रसातलमपि स्थितया हतदैवया मया ईदृशमेवानियतं दुःखमनुभवितव्यमतः इदानीं मे मृत्युरेव श्रेयान् इति ; मर्त्यवासोचिता अहं कथं रसातले स्थातुं शक्नोमि ? अतिघोरो दुर्विषहश्चायं दशाविपर्य्यय इति वा भावः।
(ल) किं-कीदृशम्। उत्त्रं-सीतावाक्यस्य प्रतिवचनम्। स्यात् ?-भवेत् ? सीतायाः प्रार्थनां श्रुत्वा पृथिवी किं वदेदिति श्रोतुं नितरां पर्य्याकुलोऽस्मीति भावः।
(व) पुत्रकयोः ,-सुतयोः कुशलवयोः। स्तन्यस्य-स्तनदुग्धस्य। त्यागं यावत्-परित्यागकालपर्य्यन्तमित्यर्थः। मन्नियोगतः,-ममादेशमनुपालयितुमिति यावत्-अवेक्षस्व-प्रतिपालय। परेण-स्तन्यत्यागात् परत एवेत्यर्थः। ते-तुभ्यम्। यथा -यादृक्। रोचिष्यते-रुचिविषयीभूतं भविष्यति, यत् त्वमभिलषिष्यसीति शेषः। ( ‘ ‘‘वत्से स्तन्यत्यागं यावत् मन्नियोगतः पुत्रकयोरपेक्षस्व ; परेण ते यथा रोचते , तथा करिषसि ‘‘’ इति पाठान्तरम् )।
(श) एवं नाम-इत्थं वसुन्धरया यदुक्तं तदेव भवतु ; पृथिव्युक्तप्रकारं कुरु इति भावः।
(ष) कथं-किम्। वैदेह्याः,-सीतायाः। विलयः , -तिरोधानं, लोकान्तरे प्रस्थानमिति यावत्। सम्पन्न एव -सम्भूत एव , सत्यमेव किं सीतया पातालादेराधिष्ठानं परिगृहीतमभूदित्यर्थः। दण्डकेति। -दण्डकारण्ये-तदाख्ये जनस्थानान्तर्गते वने, यो वासः ,-चतुर्द्दशवत्सरान् व्याप्य वसतिः, तत्र प्रियसखि-अनुकूलसहचरि। चारित्रदेवते-चरित्रमेव चारित्रं, तद्धि देवता इव विशुद्धेत्यर्थः, यस्याः तस्याः सम्बोधने ; यद्वा-चारित्रेण-पातिव्रत्यरूपसच्चरित्रतया, देवता-देवीभूता तत्सम्बोधने ; सच्चारित्रगुणयोगात् त्वमपि देवीवत् परिपूजनीया भवसीति भावः। लोकान्तरम्-अन्यं लोकं, पातालमिति यावत्। पर्य्यवसिताऽसि-प्रस्थिता भवसि ; स्तन्यत्यागं यावत् रसातलावस्थानस्य वसुन्धराभ्यनुज्ञातत्वात् द्वादशानां संवत्सराणां समतीतत्वाच्च लोकान्तरपर्य्यवसानं निश्चितमिति समाधातव्यम्। ( पर्य्ययपूर्व्वकात् दौवादिकात् स्यतेः गत्यर्थत्वात् कर्त्तरि क्तप्रत्ययः। ‘ ‘‘द्यतिस्यति- ‘ ‘‘(७। ४। ४० पा०) इति इकारोऽन्तादेशः)।
लक्ष्मणः। भगवन् वाल्मीके परित्रायस्व एष किं ते काव्यार्थः ? (स)
( नेपथ्ये )। अप्नीयतामातोद्यकम्। भो भोः सजङ्गमस्थावराः प्राणभृतो मर्त्यामर्त्याः पश्यत महर्षिणा भगवता वाल्मीकिना अनुज्ञातं पवित्रमाश्चर्य्यम्। (ह )
(स) परित्रयस्व-रक्ष, रामस्य विमूर्च्छितस्य जीवनसम्पादनेन अस्मान् परिपालयेत्यर्थः। एषः,- ईदृशः, मोहोत्पादनेन रामस्य जीवननाशकारकः इति यावत्। किं-किमु। ते-तव। काव्यार्थः,-उपनिबद्धस्य दृश्यकाव्यस्य प्रयोजनम् ; किं भवता रामस्य जीवनापनयनार्थमेव ईदृग्दृश्यकाव्याभिनयः प्रदर्श्यते ? नैतदुचितं ते इति लक्ष्मणस्य सखेदोक्तिरियमिति ज्ञेयम्।
(ह) अपनीयताम्-अपसार्य्यताम्। आतोद्यकं-ततानद्धसुषिरघनेत्याख्यं चतुर्विधं वाद्यम् ; यतोऽधुना अभिनयः पुनः प्रारभ्यते, अतो वीणादिवाद्यवादकाः विश्राम्यन्तु इति भावः। सेति। -जङ्गमैः,-गमनशीलैः पशुपक्ष्यादिभिः, स्थावरैः-स्थितिशीलैः तरुशैलादिभिश्च सह वर्त्तमानाः। प्राणामृतः,-प्राणिनः। मर्त्त्यामर्त्य्याः,-मर्त्याः-भूतलवासिनः मनुष्यादयः, अमर्त्याः,-तद्भिन्नाश्च देवासुरादयः सर्वे इत्यर्थः। पश्यत-अवलोकयत, यूयमिति शेषः। महर्षिणा-ऋषिप्रवरेण। भगवता वाल्मीकिना-प्राचेतसेन। अनुज्ञातम् -उपदिष्टं , दृश्यकाव्याकारेणोपनिबद्धमित्यर्थः। पवित्रं-निरतिशय्ं पूतमिति यावत्। आश्चर्य्यं-विस्मयकरं, भागीरथीपृथ्वीसहितायाः सीतायाः सलिलाभ्यन्तरात् समुदयरूपमित्यर्थः। एष हि सूत्रधारेण यवनिकान्तःस्थेनाभिहितत्वात् चूलिकाख्यः गर्भाङ्कस्यार्थोपक्षेपकविशेषः,- ‘ ‘‘अन्तर्यवनिकासंस्थैः सूचनाऽर्थस्य चूलिका ‘‘’ इति साहित्यदर्पणात्।
लक्ष्मणः। ( विलोक्य ) ।
‘मन्थादिव क्षुभ्यति गाङ्गमम्भो व्याप्तञ्च देवर्षिभिरन्तरीक्षम्।
आश्चर्य्यमार्य्या सह देवताभ्यां गङ्गामहीभ्यां सलिलादुदेति॥१६॥
प्रोक्तं विस्मयकरं वस्तु लक्ष्मणो विलोक्य स्फुटीकृत्य व्यनक्ति, मन्थादिवेति। -गाङ्गं गङ्गाया इदं, गङ्गासम्बन्धि इत्यर्थः, अम्भः जलं, मन्थादिव आलोडनादिव, अन्तर्निवेशितपर्व्वतादिरूपमन्थनदण्डजनितादिति यावत् , क्षुभ्यति उच्छलति, चञ्चलीभवतीत्यर्थः, देवर्षिभिः देवाः अमराः, ऋषयः मुनयश्च तैः, अन्तरीक्षं गगनं, व्याप्तञ्च आकीर्णञ्च, आश्चर्य्यदर्शनकौतुकात् देवाः ऋषयश्च सर्वे आकाशदेशे समवेता अभवन्नित्यर्थः, आश्चर्य्यं विस्मयकरमेतदित्यर्थः, आर्य्या सीता, गङ्गामहीभं भागीरथीपृथ्वीभ्यां, देवताभ्यां, सह सार्द्धं, सलिलात् गङ्गायाः जलात्, उदेति उद्गच्छति। ( अत्र मन्थनस्यासत्वेन सम्भावनया तदुत्कीर्त्तनात् हेतूत्प्रेक्षाऽलङ्कारः। श्लोकेऽस्मिन् क्षुभ्यतीति मुख्यक्रियामारभ्य उदेतीति तथाभूतक्रियया समापनात् अन्तरा च व्याप्तमिति विभिन्नक्रियायाः प्रयोगात् उपात्तक्रमभङ्गजनितः भग्नप्रक्त्रमताऽख्यदोषः, स च ‘ ‘‘देवर्षिसङ्घाश्च स्वमाप्नुवन्ति ‘‘’ इत्यनेन समाधेयः)। इन्द्रवज्रा वृत्तम्॥१६॥
( नेपथ्ये )। –
अरुन्धति जगद्वन्द्ये गङ्गापृथी भजस्व नौ।
अर्पितेयं तवाभ्यासे सीता पुण्यव्रता बधूः॥१७॥
अथ अरुन्धतीसमिपे पृथ्वीभागीरथीकृतमतिविस्मयकरं सीतायाः समर्पणमाह, अरुन्धतीति। -जगद्वन्द्ये जगतां त्रिलोकीनां , वन्द्ये पूजनीये ; पतिव्रताशिरोभूषणभूतत्वात् इति भावः ; अरुन्धति विशिष्ठपत्नि , नौ आवां, गङ्गापृथ्व्यौ भागीरथीपृथिव्यौ, भजस्व सेवस्व, आवयोरभिलाषानुरूपं कर्म्म कृत्वा नौ सन्तोषयेत्यर्थः, ( ‘ ‘‘जुषस्व ‘‘इति पाठान्तरम् ) तव भवत्याः, अभ्यासे समीपे, पुण्यव्रता पुण्यं पवित्रं, व्रतमाचरणं यस्याः सा, पूताचारा, साधुशीलेति यावत्, इयं वधूः स्नुषा सीता, अर्पिता न्यस्ता ; भवती एव पतिव्रतानां स्त्रीणां सम्मानसंरक्षयित्री, अतः सतीशेखरीभूतेयं सीता अतिविशुद्धेति जानतीभ्याम् आवाभं तव कर् समर्प्यते, त्वमेवास्याः संरक्षणेनालीकापवादं प्रक्षालय, रामपरिगृहीताञ्चेमां कुरु इति भावः। पथ्यावक्त्रं वृत्तम्॥१७॥
लक्ष्मणः। दिष्ट्या आश्चर्य्यमाश्चर्य्यम् आर्य्य पश्य पश्य । कष्टम् ; अद्यापि नोच्छसिति आर्य्यः । (क )
( ततः प्रविशति अरुन्धती सीता च ) ।
अरु। – त्वरस्व वत्से वैदेहि मुञ्च शालीनशीलताम्।
एहि जीवय मे वत्सं प्रियस्पर्शेन पाणिना॥१८॥
सीता। ( ससम्भ्रमं रामं स्पृशन्ती ) समस्मसिदु अज्जौत्तो। (ख )
समाश्वसितु आर्य्यपुत्रः।
(क)दिष्ठ्या-सौभाग्यसूचकम्। ( ‘ ‘‘दिष्ट्या ‘‘’ इत्यत्र ‘ ‘‘अहो ‘‘’ इति पाठान्तरम् )। आश्चर्यं-विस्मयकरमेतदित्यर्थः। ( विस्मये द्विर्भावः )। आर्य्य -राम । पश्य पश्य-अवलोकय। ( सम्भ्रमे द्विरुक्तिः ) कष्टं-दुखकरम्। अद्यापि-इदानीमपि। नोच्छ्वसिति-न प्राणिति, न समाश्वस्तो भवति इत्यर्थः। आर्य्यः ,-रामः ; भोः रघुकुलमणे देवी सीता अरुन्धत्या भवत्समाश्वासनार्थमेव पुनः परिगृह्यते इति विस्मयकरं वस्तु अवलोकय। किमद्यापि राघवः न सञ्ज्ञां प्रतिलभते । इति भोः कष्टमेतदिति भावः।
अथ देवी अरुन्धती मोहमुपागतस्य राघवस्य समाश्वासनार्थं सीतामुपदिशति, त्वरस्वेति। -वत्से हे शुभे वैदेहि सीते , त्वरस्व सत्वरा भव, शालीनशीलतां शालीनम् अधृष्टं, लज्जायुक्तमित्यर्थः, शीलं स्वभावः यस्याः तस्याः भावः तत्ता तां, लज्जाशीलतामित्यर्थः , ( ‘ ‘‘स्यादधृष्टे तु शालीनः ‘ ‘ ‘इत्यमरः) मुञ्च त्यज ; विपन्नस्य भर्त्तुः समाश्वासनार्थं साभाविकं मुग्धभावं विजहीहीति भावः ; गुरुजनाः विद्यन्ते कथं भर्त्तुः सकाशे यामि इति सङ्कोचस्य नायमवसरः इति ताप्तर्य्यम् ; एहि आगच्छ, प्रियस्पर्शेन प्रियः सुखकरः, स्पर्शः अङ्गपरामर्शनादिक्रिया यस्य तेन , पाणिना करेण, मे मम, वत्सं रामं, जीवय सम्प्रप्तजीवनं कुरु ; त्वं कोमलकरसंवाहनेन रुघुमणिं सर्व्वथा विगतखेदं विधेहीति भावः। पथ्यावक्त्रं वृत्तम्॥१८॥
(ख)ससम्भ्रमं-व्यग्रतासहितम्। रामं स्पृशन्ती-तद्देहं परामृशन्ती सती, उवाचेति शेषः। भर्त्तुः मोहं सपदि अपसारयितुमेवात्र त्वरा ज्ञेया। समाश्वसितु-समाश्वस्तः भवतु। आर्य्यपुत्रः,-स्वमी, राम इति यावत् ; मोहं परित्यजेति भावः।
रामः। ( समाश्वस्य सानन्दम् ) भोः किमेतत् ? ( दृष्ट्वा सहर्शाद्भुतम् )। कथं देवी ( सलज्ज्तस्मितम् )। अये अम्बा अरुन्धती ; सर्वे च प्रहर्षन्त ऋष्यश्रङ्गशान्तासमेता गुरवः (ग )
अरु। वत्स एषा भगवती भगीरथगृहदेवता सुप्रसन्ना गङ्गा। ( घ )
( नेपथ्ये ) जगत्पते रामभद्र स्मर्य्यतामालेख्यदर्शने मां प्रति आत्मनो वचनम् ; यथा ; — ‘ ‘ ‘सा त्वमम्ब सुषायाम् अरुन्धतीव सीतायां शिवानुध्यानपरा भव ‘ ‘ ‘इति। तत्रानृणाऽस्मि जाता। (ङ )
(ग)समाश्वस्य -सीतायाः पाणिस्पर्शेन सञ्ज्ञालाभान्तरं किञ्चित् समाश्वस्तो भूत्वेत्यर्थः। सानन्दं-सहर्षम्, आहेति शेषः। भोः किमेतत् ?-अहो कथमिदानीमेतत् सम्भूतमिति भावः। दृष्ट्वा-लोकान्तरप्रस्थितां सीतां स्वशुश्रूषापरायणामवलोक्य। सहर्षाद्भुतं-हर्षः ,-सीतायाः पुनर्लाभात् आनन्दः, अद्भुतम्-आशातीतस्य वस्तुनः कथं हि समधिगमः इति विस्मयः, ताभ्यां सह वर्त्तमानं यथा तथा, आहेति शेषः। कथं-किम्। कथं शब्दोऽत्र सहर्षविस्मयसूचको बोध्यः। देवी -सीता समुपस्थितेति भावः। सलज्जस्मितं-लज्जा-गुरुजनानाम् अरुन्धतीप्रभृतीनां दर्शनात् त्रपा, स्मितं-सीतायाः पुनः प्राप्तिजनितहर्षात् ईषद्धास्यञ्च , ताभ्यां सह वर्त्तमानं यथा तथा, आहेति शेषः। अम्बा-जननी। अरुन्धती-अस्मत्कुलगुरोः वशिष्ठस्य धर्म्मपत्नी। ऋष्यशृङ्गेति। - ऋष्यशृङ्गः,-तदाख्यमुनिविशेषः भगिनीपतिः, शान्ता-भगिनी, ताभ्यां समेताः,-युक्ताः। सर्वे गुरवः,-गुरुजनाः। प्रहृष्यन्तः,-आनन्दन्तः सन्तः, समुपस्थिता इति शेषः।
(घ)भगीरथेति। -भगीरथस्य-युष्मत्पूर्वपुरुषस्य गङ्गानयनकर्त्तुः, गृहं-कुलं, तस्य देवता-अधिष्ठात्री देवी। गङ्गा-जाह्नवी। सुप्रसन्ना-सदया, युष्मान् प्रति अनुग्रहं कृतवती इत्यर्थः।
(ङ)जगत्पते -जगतां-भुवनानां, पतिः,-पालकः, तत्सम्बोधने ; अस्य हि भगवतो नारायणस्य अंशसम्भूततया एवमभिहितमिति ज्ञेयम्। आलेख्यदर्शने-चित्रपतप्रदर्शनावसरे। मां प्रति आत्मनः वचनं स्मर्य्यतां-मामुद्दिश्य प्राक् त्वं यद्वचनमभ्यदधाः, तदिदानीं विचिन्त्यताम्। किं तत् ? तदेवाह, यथेति। -सा त्वं-
अरु । इयन्ते श्वश्रूर्भगवती वसुन्धरा। (च )
( नेपथ्ये ) उक्तञ्च पूर्वमायुष्मता वत्सात्यागे ; यथा ‘ ‘ ‘भगवति वसुन्धरे श्लाघ्यां दुहितरमवेक्षस्व जानकीम् ‘ ‘ ‘इति। तदधुना कृतवचनाऽस्मि प्रभोर्वत्सस्येति। (छ )
रामः। कथं कृतमहापराधो भगवतीभ्यामनुकम्पितः प्रणमामि वः। (ज )
(च)तादृशी भवती, सततमेवास्मत्कुलमङ्गलाभिलाषिणी भवतीति यावत्। स्नुषायां सीतायां-बध्वा, जानक्याम्। अरुन्धतीव-अस्माकं गुरुपत्नी यथा तथैवेत्यर्थः। शिवानुध्यानपरा-शिवस्य-शुभस्य यदनुध्यानं-परिचिन्तनं, तत्परा-तदासक्ता। भव-एधि ; सततमेव मङ्गलाभिलाषिणी सती तिष्ठेति भावः। तत्र-भवद्वचनपरिपालनविषये इत्यर्थः। अनृणा-नास्ति ऋणं यस्याः तथाभूता, ऋणमुक्ता, परिपालितवचनेति यावत्। अस्मि-भवामि ; घोरविपत्तिसमये देहपातव्यवसायपरायणा सीता संरक्ष्य जगत्पतेः भवतः आज्ञां सर्व्वथा सम्पादितवत्यस्मीति भावः।
(छ)श्वश्रूः ,-श्वशुरस्य पत्नी ; सीतायाः गर्भे धारणात् अस्याः तथात्वं ज्ञेयम्। वसुन्धरा-रत्नगर्भा पृथिवी ; यथा हि अमुया रत्नानि स्वगर्भे धृतानि, तथैव सतीकुलशेखरीभूतायाः सीतायाः गर्भे धारणात् इयमधुना स्वाभिधानस्य सार्थकतां सम्पादितवतीति भावः।
(ज)वत्सात्यागे -वत्सायाः ,-सीतायाः, त्यागे-निर्व्वासनावसरे। पूर्व्वं-प्राक्। आयुष्मता-दीर्घायुषा त्वया राघवेण। उक्तञ्च-कथितञ्च। किमिति ? तदेवाह, यथेति। -भगवति वसुन्धरे -हे रत्नगर्भे पृथ्वि । श्लाघ्यां-प्रशंसनीयाम्। दुहितरं-कन्याम्। जानकीं-सीताम्। अवेक्षस्व-पश्य, सततमेवास्याः पर्य्यवेक्षणं कुर्य्या इत्यर्थः। इति- इत्थम् , उक्तञ्चेत्यनेनान्वयः। तत्-तस्मात्। अधुना-इदानीम्। प्रभोः,-पालकस्य ; भूपतित्वादिति भावः। वत्सस्य-जामातृत्वात् आयुष्मतः तव राघवस्य। कृतवचना-कृतं-सम्पादितं, वचनं-वाक्यं यया तथाभूता, अनुष्ठिताऽऽदेशा इत्यर्थः। अस्मि -भवामि ; त्वदाज्ञां सम्यक् सम्पाद्य अनृणा सञ्जाताऽस्मीति भावः।
(झ)कृतमहाऽपराधः,-कृतः,-विहितः, महान्-विपलः, घोरः इत्यर्थः, अपराधः,-सीतानिर्वासनरूपः दोषः येन तथोक्तः, पापाशयः, अतिनृशंसः इत्यर्थः।
अरु। भो भोः पौरजानपदाः भगवतीभ्यां जान्हवीवसुन्धराभ्यामेवं प्रशस्यमाना ममारुन्धत्याः समर्पिता ; पूर्वञ्च भगवती वैश्वानरेण निर्णीतपुण्यचरित्रा ; सब्रह्मकैश्च दैवैः संस्तुता ; सावित्रकुलवधूर्देवयजनसम्भवा सीतादेवी परिगृह्यतामिति कथं भवन्तो मन्यन्ते ? (झ)
(ञ) भगवतीभ्यां-युवाभ्यां पृथ्वीभागीरथीभ्याम्। कथं-किम्। विस्मयसूचकमिदम्। अनुकम्पितः ?-अनुगृहीतः ; अहो कृतमहापातकेऽपि मयि भवत्योः सौजन्यम् अनुकम्पा चेत् भावः। वः,-युष्मान्। ( गौरवाद्बहुवनम् )। प्रणमामि-नमस्करोमि।
(ट)पौरजानपदाः -नगरवासिनः देशवासिनः देशवासिनश्च सर्वा प्रकृतयः इत्यर्थः। भगवतीभ्यां-परमैश्वर्य्यशालिनीस्याम्, अतिपवित्राभ्यामिति यावत्। जाह्नवीवसुचराभ्यां-गङ्गापृथ्वीभ्याम्। एवं-प्रोक्तरूपैः, ‘ ‘‘आवयोरपि यत्सङ्गात् ‘‘’ इत्यादिवचोभिः . यावत्। प्रशस्यमाना-संस्तूयमाना। मम अरुन्धत्याः-सतीकुलप्रधानाया वशिष्ठपत्न्याः। मे सकाशे इति यावत् ; ( ‘ ‘‘मम अरुन्धत्याः ‘‘’ इत्यनेन आत्मनः सतीत्वगौरवजनितं किञ्चित् गर्वाधिक्यं व्यज्यते )। समर्पिता-सन्न्यस्ता ; सीता चेत् असती स्यात्, तदा गङ्गापृथ्वीभ्यामन्तर्य्यामिनीभ्यां कथमपि न प्रशस्येत, न वा सतीशिरोमणितया विख्याताया ममारुन्धत्याः समीपे समर्प्येत इत्याशयः। पूर्वञ्च-प्रागपि ; रावणवधानन्तरं लङ्कापुर्य्यां पुनः सीतायाः स्वीकारसमये इति भावः। वैश्वानरेण-अग्निना। निर्णीतपुण्यचारित्र्या-निर्णीतं -स्थिरीकृतं , प्रमाणीकृतमित्यर्थः, पुण्यं-पवित्त्रं, चारित्र्यं-प्रकृतिः यस्याः सा, प्रमाणीकृतपातिव्रत्यधर्म्मा इत्यर्थः। सब्रह्मकैः, ब्रह्मणा-प्रजापतिना सह वर्त्तमानैः। देवैः-इन्द्रादिभिः त्रिदशसङ्घेः। संस्तुता-प्रशंसिता, पतिव्रताशिरोमणित्वेन समादृतेत्यर्थः ; यद्वा-संस्तुता-सतीशिरोमणित्वेन परिचिता, विज्ञाता इत्यर्थः, ( ‘ ‘‘संस्तवः स्यात् परिचयः ‘‘’ इत्यमरः)। सावित्रेति। -सवितुरिदं सावित्रं, यत् कुलं -वंशः सूर्य्यवंशः इत्यर्थः, तस्य वधूः,-स्नुषा। देवेति- देवयजनं-यज्ञभूमिः, तस्मात् सम्भवः,-उत्पत्तिः यस्याः सा, यज्ञक्षेत्रप्रसूतेत्यर्थः ; पवित्रक्षेत्रसम्भूतत्वादतिपवित्रा इति भावः। सीतादेवी-जानकी। परिगृह्यतां-स्वीक्रियतां , रामेणेति शेषः ; ( ‘ ‘‘परिगृह्यते ‘‘’ इति पाठान्तरम् ) ईदृशी सीता साध्वीकुलभूषणा राघवेण परिगृहीता भवतु इति अस्माभिः अनुमोद्यते इत्याशयः। इति-अस्मिन् विषये, सीतायाः पवित्रचारित्र्य
(ड)विधौ रामकृतपर्ग्रहविषये चेति यावत्। भवन्तः,-पौरजानपदाः सर्वे प्रकृतिसङ्घाः इत्यर्थः। कथं-किम्। मन्यते ?-विचारयन्ति ; युष्माकं किमभिमतम् ? इति भावः ; या हि विशुद्धस्वभावा इति मत्वा पृथ्वीभागीरथीभ्यां सतीकुलसम्मानरक्षिकायाः मम हस्ते समर्पिता, अग्नौ च परीक्षितपातिव्रत्यप्रभावा, देववृन्दैश्च शतशोऽभिवन्दिता, सूर्य्यवंशीयकुलबन्धूनामुज्ज्वलरत्नभूता, जनकस्य राजर्षेः यक्षक्षेत्रसम्भूता, सा सीता किमिति अपवित्रतया भवद्भिः पौरजनैरनुमोद्यते ? एषः विसदृशः संस्कारः भवद्भिः सर्वैरेव युगपत् स्वस्वमानसपथात् निरसनीय इति वक्तृतात्पर्य्यम्। अत्रसीतापर्ग्रहविषये पूर्वोक्तहेतुसमूहोपन्यासपुरःसरं प्रकृतिपुञ्जानामभिमतजिज्ञासया आरोपितालीकापवादानां तेषां धृष्टतायाः उत्कटस्तिरस्कारः सूचितो भवतीति ज्ञेयम्।
लक्ष्मणः। एवमार्य्यया अरुन्धत्या निर्भर्त्सिताः प्रजाः कृत्स्नश्च भूतग्रामः आर्य्यां नमस्करोति ; लोकपालाश्च सप्तर्षयश्च पुष्पवृष्टिभिरुपतिष्ठन्ते। ( ञ )
अरु। जगत्प्ते रामभद्र ‘
(ण)एवं -इत्थं, प्रोक्तरूपेणेत्यर्थः ; अतिपवित्रायाः सीतादेव्याः रामकृतपरिग्रहविषये सम्मतिप्रार्थनारूपसाधिक्षेपवचनेनेति भावः। निर्भर्त्सिताः,-तिरस्कृताः। प्रजाः,-प्रकृतयः। कृत्स्नः,-सर्व्वः। भूतग्रामः,-स्थावरङ्गमात्मकः चराचरः। आर्यां-सीताम्। नमस्करोति- प्रणमति ; दुर्मर्य्यादत्वेन प्राक् सीतायामपवादरोपादधुना लज्जिताः प्रजाः किमपि वक्तुमशक्नुवत्यः नमस्करिण तस्याः पवित्रत्वमङ्गीकरोतीति भावः। ( ‘ ‘‘उपपदविभक्तेः कारकविभक्तिर्बलीयसी ‘‘’ इति न्यायात् नमः शब्दयोगेऽपि द्वितीया ज्ञेया)। लोकपालाः ,-इन्द्रादयः देवाः। (तथा चामरः,- ‘ ‘‘इन्द्रो वह्निः पितृपतिः नैऋतो वरुणो मरुत्। कुबेरः ईशः पतयः पूर्वादीनाम् दिशां क्रमात् ‘‘॥इति )। सप्तर्षयः,- मरीच्यादयः। ( तथा चोक्तं- ‘ ‘‘मरीचिरत्निः पुलहः पुलस्त्यः क्रतुरङ्गिराः। वशिष्ठश्च सप्तऋषयः परिकीर्तिताः॥ ‘ ‘‘इति)। पुष्पवृष्टिभिः,-स्वर्गीयकुसुमानाम् वर्षणैः। उपतिष्ठन्ते-परिपूजयन्ति, संवर्धयन्तीत्यर्थः, भूतग्रामसहिताः सर्वे एव देवाः सीता परमपवित्रा इति समुहुष्य तां सर्व्वथा अभिनन्दयन्ति, अतः सीतायाः राज्ञित्वेन परिग्रहे नास्ति काऽप्यापत्तिः प्राजानामिति निष्कृष्टार्थः। ( ‘ ‘‘उपाद्देवपूजां ‘ ‘ ‘‘(वा-) इति उपपूर्वात्तिष्ठतेरात्मनेपदम्। एतेन भागीरथीप्रमुखाभिर्देवोभिः इन्द्रादिभिर्देवैः सप्तऋषिभिश्च संस्तूयमानत्वात् सीतायाः देवतात्वं व्यज्यते इति ज्ञेयम्)।
नियोजय यथा धर्मं प्रिया त्वं ब्रह्मचारिणीम्।
हिरण्मय्याः प्रतिकृतेः पुण्यप्रकृतिमध्वरे॥१९॥
अथारुन्धती हिरण्मयीं सीताप्रतिकृतिं विहाय अतिपवित्रां साक्षात् सीतामेव धर्मचारिणीं कृत्वा अश्वमेधाध्वरं सम्पादयितुं राममुपदिशति। , नियोजयेति। -हे जगत्पते पृथिवीपालक , रामभद्र रघुमणे , इति चूर्णकस्थमामन्तणपदमत्राकर्षणीयम् ; त्वं हिरण्मय्याः सुवर्ननिर्मितायाः, ( हिरण्यस्य विकारः इत्यर्थे मयटि ‘ ‘ ‘दाण्डिनायनहा- ‘ ‘‘(६। ४। १०४) इति सूत्रेण यलोपः निपात्यते, टित्वात् ङीप् च , तेन हिरण्मयीति सिद्धम्)। प्रतिकृतेः प्रतिमूर्तेः ; स्वर्णनिर्मिततादीयादर्शादपीति भावः ; पुण्या पवित्रा, प्रकृतिः आदर्शः स्वभावो वा यस्याः तां, पतिव्रताशेखरीभूतां त्वदुपान्ते वर्तमानां मूर्तिमतीं साक्षदिमामित्यर्थः ; यद्वा-हिरण्मय्याः प्रतिकृतेः प्रतिच्छायायाः , पुण्यप्रकृतिं पुण्या पवित्रा, सतीकुलप्रधानत्व्न सुवर्णप्रतिमाया आपि अतिविशुद्धा इति यावत्, प्रकृतिः मूलभूता ; यामवलम्ब्य प्रतिकृतिर्घटिता असौ सैवेत् भावः ; ताम् ; प्रियां वल्ल्भां सीताम्, अध्वरे अश्वमेधयज्ञे , धर्मचारिणीं धर्माचरणसहचरीं , यथाधर्म्मं धर्म्ममनुसृत्य , धर्मशास्रानुसारिणेत्यर्थः , नियोजय संस्थापय ; एतया साक्षात् सीतया सहितः अश्वमेधं निष्पादयेति भावः। ‘ ‘ ‘मुख्यालाभे प्रतिनिधिः शास्त्रार्थः ‘‘’ इति न्यायात्, मुख्याप्राप्तौ प्रतिनिधिविधानस्य शास्रीयत्वेन सीतायाः सुवर्णमयमादर्शं संस्थाप्य अश्वमेधाध्वरसम्पादनं हि साक्षात् सीतायाः प्राप्तावन्याय्यमेव, अतः सीतां स्वीकृत्य तया सह यज्ञं निष्पादयेति तात्पर्यम्। अत्र ‘ ‘‘पुण्यप्रकृतिम् ‘‘’ इत्यनेन ‘ ‘ ‘यस्य भार्य्या विदूरस्था पतिता दूषिताऽथवा। अनिच्छुः प्रतिकूला वा- ‘ ‘‘इत्यादि निषेधविधेर्व्युदासात् सीतया सार्धं यज्ञनिष्पादने फलभूयस्त्वं व्यज्यते। पथ्यावक्त्रं वृत्तम्॥१९॥
सीता। ( स्वगतम् ) जाणादि अज्जउत्तो सीदादुक्ख प्रमज्जिदुम्। (ट )
जानाति आर्य्यपुत्र सीता दुःखं प्रमार्जयितुम्। रामः। यथा भगवती आदिशति। ( ठ )
लक्ष्मणः। कृतर्थोऽस्मि। (ड )
सीता। जीबदम्हि। (ढ )
लक्ष्मणः। आर्य्ये एष निर्लज्जो लक्ष्मणः ; प्रणमति। (ण )
सीता। बच्छ ईदिसो बि चिरं जीब। ’ (त )
जीविताऽस्मि। ’
वत्स ईदृशोऽपि चिरं जीव।
(ट)आर्यपुत्रः,-रामः। सीतादुःखं-सीतायाः,- मम, दुःखं- क्लेशम्। प्रमार्ज्जयितुं,- शोधयितुम्, निराकर्तुमित्यर्थः। जानाति-वेत्ति ; अधुना मां पुनः स्वीकृत्य अकारणनिर्वासनजनितं मे खेदं समूलमुन्मूलयिष्यतीति, मम सुवर्णप्रतिकृतिं निर्माय तया सह यज्ञसमारम्भात्, सीताऽहम् अपवित्रा इति बुद्ध्या स्वामिना
(ठ) परित्यक्ताऽस्मि इति मे परित्यागलग्गाशूल्यं तेन समूलमुन्मूलितमिति वा भावः।
(ड)यथा-यादृक्। भगवती-भवती अरुन्धती इत्यर्थः। आदिशति-अज्ञापालयति, तथा करोमीति शेषः ; गुरुजनानुज्ञायाः अनुपेक्षणीयत्वात् पुनरप्यहं सीतां ग्रहीष्यामीति भावः।
(ढ)कृतार्थोऽस्मि-कृतकृत्यः भवामि ; सीतारामयोः पुनः समागमदर्शनेन सर्वेषामस्माकमपूर्वानन्दस्य सञ्जननादिति भावः।
(ण)जीविताऽस्मि- प्राप्तप्राणा भावमि; प्राणेभ्योऽपि प्रेयसः रामस्य विरहिणः एतावन्तं कालं मृतप्राया इव आसम्, इदानीं तल्लाभेन प्रत्युज्जीविता इव भवामीति भावः।
(त)निर्लज्जः,-निर्नास्ति लज्जा यस्य तथोक्तः, सीताविवासनरूपनैष्ठुय्याचरणात् निस्रपः इत्यर्थः; यो हि प्राक् ज्येष्ठदिशात् आपन्नसत्त्वामेकाकिनीं त्वां श्वापदसङ्कुले विजनेऽरण्ये निर्वासितवान्, नृशसः स कथं तव पुरतः दण्डायमानः निर्विकारचेता इव ते मुखं दर्शयति ? इत्यहो नैर्घृण्यं तस्येति भावः।
अरुन्धती। भगवन् वाल्मीके उपनीयेतामिमौ सीतागर्भसम्भूतौ रामभद्रस्य पुत्रकौ लवकुशौ। ( थ)( इति निष्क्रान्ताः )
(थ)वत्स -प्रेमास्पदभूत, आयुष्मन्नित्यर्थः। ईदृशः अपि-प्रोक्तरूपः सन्नपि, महिवासनेन निष्ठुरभावप्रकाशनात् लज्जाहीनः भवन्नपीत्यर्थः। चिरं- सुदीर्घं कालम्। जीव-प्राणिहि ; स्वेच्छायामस्त्यपि केवलं अग्रजस्यादेशानुपालनाय महिवासनरूपं यदन्याय्यमाचरितं, तव ते अणीयानपि दोषो नास्तीत्यहं जानामि, परं ज्येष्ठदेशानुपालनात् त्वं हि परप्रीतिभाजनमेव भवसि, किञ्च त्वज्जेवनं हि मे प्राणेभ्योऽपि गरीयः, तेन लज्जां परिह्रीय साततं सुखमास्तां पुरुषायुषाञ्चाप्नुहीति भावः।
रामलक्ष्मणौ। दिष्ट्या तथैव तत्। ( द )
सीता। ( सवाष्पाऽऽकुला ) । कहिं ते पुत्तआ मे ? ( ध )
( ततः प्रविशति वाल्मीकिः लवकुशौ च ) ।
वाल्मीकिः। वत्सौ कुश लवौ एष रघुपतिः पिता युवयोः ;
कुत्र तौ पुत्रकौ मे ?
(द)भगवन् वाल्मीके- इति नेपथ्यस्थितं वाल्मीकिमुद्दिश्य अरुन्धत्याः सम्बोधनम्। इमौ-त्वत्सकासे अवस्थितौ इत एव दृश्यमानौ। सीतागर्भसम्भू्तौ-जानकीगर्भजातौ। पुत्रकौ-तनयौ। उपनीयेतां-प्राप्येतां, सीतारामसीपे बालकद्वयमुपस्थाप्यतामित्यर्थः। इति निष्क्रान्ता-रङ्गालयात् बहिर्गता, अरुन्धतीति शेषः। अत्रैव गर्भाङ्कस्य परिसमाप्तिर्ज्ञेया। गर्भाङ्कलक्षणमुक्तं दर्पणे यथा- ‘ ‘‘अङ्कोदरप्रविष्टो यो रङ्गहारामुखादिमान्। अङ्कोऽपरः स गर्भाङ्कः सबीजः फलवानपि॥ ‘ ‘‘इति। बीजलक्षणमपि तत्रैव यथा,- ‘ ‘‘अल्पमात्रं समुद्दिष्टं बहुधा यत् विसर्पति। फलस्य प्रथमो हेत्र्बीजं तदभिधीयते॥ ‘ ‘‘इति। ‘ ‘‘साक्षं मन्दभाइणी भाइरहीए अत्ताणां णिक्किवेमि ‘‘’ इतेवात्र बीजम् ; यतश्चैतदेवात्र स्वल्पतया समुद्देशविषयीभूतं सतरुन्धतीसम्पाद्यसीतरामसमागमरूपफलं प्रति कारणम्। सीतारामसमागमरूपञ्चात्र फलं ज्ञेयम्। ‘ ‘‘प्रविश्य सूत्रधारः ‘‘’ इत्यारभ्य ‘ ‘‘विश्वम्भरा भगवती ‘‘’ इत्यादि श्लोकपर्य्यन्तमत्र रङ्गहारामुखादिकं ज्ञेयम्।
(ध)तत्-कुशलवसम्बद्धं वस्तुजातमित्यर्थः। तथैव-ताद्रुगेव; यथाऽस्माभिः प्राक् चिन्तितं तद्रूपमेवेति भावः।
(न)( ‘ ‘‘सवाष्पकुला ‘‘’ इत्यत्र ‘ ‘‘सवाष्पाकूतम् ‘‘’ इति पाठे-वाष्पेण-आनन्दाश्रुणा, आकूतेन- पुत्रदर्शनाभिप्रायेण च सह वर्त्तमानं यथा तथा)। तौ- स्तन्यत्यागादनन्तरं मया विच्छि्न्नौ इति यावत्। पुत्रकौ- कुशलवौ। कुत्र- कस्मिन् स्थाने इदानीं वर्तते? इत्यर्थः; यौ हिस्तन्यत्यागं यावत् मया पोषितौ, ताविदानीं कुत्र वर्तेते, यतस्तद्दर्शनेच्छा मां नित्रां विवशीकरोति इति भावः।
लक्ष्मणः कनिष्ठतातः ; सीतादेवी जननी ; एष राजर्षिर्जनको मातामहः। (न )
सीता। ( सहर्षकरुणाद्भुतं विलोक्य )। कहं तादो (प)
कुशलवौ। हा तात ह अम्ब हा मातामह (फ )
रामलक्ष्मणौ ( सहर्षमलिङ्ग्य )। ननु वत्सौ पुण्यैः प्राप्तौ स्तः। (ब )
सीता। एहि जाद कुस एहि जाद लब चिरस्म परिस्मजध पुणो ज्म्मन्तरगदं जणणिम्। ’ (भ )कथं तातः ’
एहि जात कुश एहि जात लव चिरस्य परिष्वजेथां पुनः जन्मान्तरगतां जननीम्।
(प)अथ भगवान् वाल्मीकिः कुशलवौ तद्गुरुजनान् परिचाययति, वत्साविति। -रघुपतिः,-रामचन्द्रः। युवयोः पिता-जनकः। कनिष्ठतातः,-पितृव्यः। मातामहः,-मातुः पिता। ( ‘ ‘‘मातृपित्रुभ्यां पितरि दामहच् ‘‘’ (वा) इति मातृशब्दात् डमहच् प्रत्ययः)। राजर्षिजनकस्तु अभिनयदर्शनार्थं महर्षेः वाल्मीकेराह्वानवशादिवात्र समागतः इति ज्ञेयम्।
(फ)सहर्षकरुणाहुतम्- आनन्दशोकाश्वय्यैः सह वर्तमानं यथा तथेत्यर्थः, आहेति शेषः। अत्र पितुः दर्शनात् हर्षः, स्वस्याः दुरवस्थां स्मृत्वा करुणः , अकस्मात्पितुरागमनदर्शनाच्च अद्भुतं सम्भूतमितिज्ञेयम्।
(ब)अत्र हाशब्दः विषादसहकृतहर्षद्योतकः ; पित्रादिदर्शानात् हर्षः, तेषां तथाभूतामवस्थां विलोक्य च विषादः इति ज्ञेयम्।
(भ)( ‘ ‘‘रामलक्ष्मणौ ‘‘’ इत्यत्र ‘ ‘‘रामः ‘‘’ इति मात्रपाठः क्वचिद्दृश्यते)। ननु-बोः। पुण्यः,- कृतसुकृतैः। प्राप्तौ स्थः,- लब्धौ भवथः, युवामिति शेषः ; पूर्व्वजन्मार्ज्जितपुण्यबलेनैव युवमस्माभिः लब्धाविति भावः।
कुमारौ। ( तथा कृत्वा )। धन्यौ स्वः। (म )
सीता। भअबं पणमामि । (य)
वल्मीकिः। वत्से ईदृश्येव चिरं भूयाः। (र)
सीता। अम्महे तादो ; कुलगुरु ;अज्जजणो ; सभत्तुआ अज्जा सन्तादेई ; सलक्खणा सुपसस्मा अज्जउत्तचलणा ; समं कुसलबाबि दीसन्ति ; ता णिब्भरम्हि आणन्दिण। ’ (ल)
भगवन् प्रणमामि।
’ आश्चर्य्यम् तातः ; कुलगुरुः ; अर्य्यजनः ;सभर्तृका आर्य्या शान्तादेवी ; सलक्ष्मणाः सुप्रसन्नाः आर्य्यपुत्रचरणाः ; समं कुशलवावपि दृश्यन्ते ; तन्निर्भराऽस्मि आनन्देन।
(म)चिरस्य- बहुकालं यावदित्यर्थः। (षष्ठ्यन्तप्रतिरूपकमव्ययमेतत्) परिष्वजेयाम्- आलिङ्गतं, युवामिति शेषः ; बहुकालात् पर्मुपागतस्य वस्त्नः स्वल्पकालं व्याप्योपभोगेन सम्यक्तया तृप्तिर्न भवर्त्र्ति भावः। जन्मान्तरगतां ; (य) पातालदेशत् पुनः भूतले समुदयादिति भावः; यद्वा- सुदीर्घकालं व्याप्य अनुभूतदारुनक्लेशस्य अधुनाऽपगमात् प्राप्तजननान्तभावामिवेति भावः।
(र)धनौ स्वः ,-सर्थकजन्मानौ भवामः ; लोकान्तरगतायः मातुः पुनर्लाभादिति भावः।
(ल)भगवन् परममाहात्म्यशालिन् , महर्षे वाल्मीके इत्यर्थः। प्रणमामि-अभिवादये, भवन्तमिति शेषः ; यतः भवत्प्रभावेणैवाहं स्वामिविरहकृतचिरदुःखभागिन्यपि पुनः तत्समामेनेदानीं विदुःखा भवामीति भावः।
( नेपथ्ये ) । ( कलकलः )।
वाल्मीकिः। ( उत्थायावलोक्य च )। उपहृतलवणो मधुरेश्वरः प्राप्तः। (व )
लक्ष्मणः। सानुषङ्गाणि कल्याणानि। (श )
रामः। सर्वमिदमनुभन्नपि न प्रत्येमि। यद्वा ; प्रकृतिरियमभ्युदयानाम्। (ष)
(व)ईदृश्येव- एवम्भूता एव, पत्यपत्ययोः चिरसंयोगवत्येवेत्यर्थः। भूयाः,- स्थेयाः इति यावत् ; न हि कदाऽपि प्रागिव पतिपुत्रवियोगविधुरा भवेदिति भावः।
(श)तातः,- पिता, राजर्षिः जनकः इत्यर्थः। कुलगुरुः,- वशिष्ठः। आर्य्याजनः,- कौशल्यादिश्वश्रूजनः। सभर्त्तृकाः-भर्त्रा ऋष्यशृङ्गेण सह वर्तमाना, पतिव्रती इत्यर्थः। आर्या- मान्या। शान्तादेवी-पूजनीया शान्तानाम्नो ननाना। सलक्ष्मणः,-सौमित्रिसहिताः। सुप्रसन्नाः,-आनन्दपूर्णाः, अधुना शोकक्षोभाद्यपगमात् आनन्दोज्ज्वला इति यावत्। आर्यपुत्रचरणाः,- पतिः रामभद्रः; पत्युः महागुरुत्वात् महागौरवप्रदर्शनार्थं तत्र चरणशब्दोपन्यासः। समं द्रुश्यन्ते- युगपदेवैते सर्वेऽपि मया अवलोक्यन्ते इत्यर्थः। तत-तस्मात्, सकलानां युगपदेव दर्शनादिति यावत्। आनन्देन-हर्षेण। निर्भरा-व्याप्ता, परिपूर्णेति यावत्। अस्मि- भवामि, आनन्दविवशह्रुदया भवामीत्यर्तथः।
(ष)उपहलवणः ,- उपहतः,-उत्खातः, निहतः इत्यर्थः, लवणः,- मधुदैत्यसुतः राक्षसविशेषः येन तथोक्तः। ( ‘ ‘‘उत्खातलवणः ‘‘’ इति पाठान्तरम्)। मधुरेश्वश्वरः,- मधुरा नाम लवनवधानन्तरं यमुनाकूलस्थे मधुदैत्याधिकृते मधुवने शवघ्न्न निर्मिता काचित् पुरौ, अधुना ‘ ‘‘मथुरा ‘‘इति प्रसिद्धा, तस्या ईश्वरः,- अधिपतिः, शत्रुघ्नः इत्यर्थः। प्राप्तः,- समायातः ; अतस्तत्मेनाया एवायं कलकलः श्रूयते इति भावः। लवणवधविवरणन्तु प्रागेव महर्षिणा वाल्मिकिना तपःप्रभावेण परिज्ञातमासीदिति ज्ञेयम्। कालिन्दीकूलस्थानां प्रशान्तचेतसां मुनीनामनिशमुत्पीडकं कुम्भीनगर्भसम्भूतं मधुसुतं लवणराक्षसं निहत्य भगवद्रामभद्रादेशात् शत्रुघ्नः तदधिकृते मधुवनप्रदेशे माधुरां नाम रम्यां पुरां सम्स्थाप्य शशासेति रामायणकथा अत्र अनुसन्धेया।
कल्याणानि -शुभानि। सानुषङ्गाणि- अनुषङ्गः,-अनुबन्धः, सहचरः इत्यर्थः। तेन सह वर्त्तमानानि यानि तथाभूतानि, दीर्घवियोगाननरं पुत्रकलत्रादिसम्मेलनरूपकल्याणानि प्रियानुजशत्रुघ्नसम्मेलनरूपकल्याणान्तरेण सानुबन्धानीत्यर्थः, भवन्तीति शेषः ; एकः अभ्युदयः अभुदयान्तरैरनुस्रियते, यतः सम्पत् सम्पदमेवानुबध्नाति विपच्च विपदामिति भावः।
इदं सर्वं-पुत्रकलत्रगुरुजनादिसमागमजनितसुखमित्यर्थः। अनुभवन्नपि-प्रत्यक्षीकुर्वन्नपि। न प्रत्येमि-न विश्वसिमि ; अघन्यस्य मे एतादृशलौकिकसुखसम्भोगस्यातीवामसम्भावितत्वादिति भावः। प्रत्यक्षानुभूतस्यापि अस्य विश्वसनीयत्वे संशयमाकलय्य किञ्चित् विमृश्य च प्रत्ययार्हत्वमपि भवितुमर्हति इति पक्षान्तरमाह, यद्वेति। -यद्वा- अथवा। अभ्युदयानां-मङ्गलानाम्। इयं खले कपोतकन्यात् यौगपद्येनाविर्भावरूपेति यावत्। प्रकृतिः,- स्वभावः ; तथा च अभ्युदयो हि अभ्युदयमेव प्रसूते इति नैसर्गिकनियमात् एतस्य विश्वसनीयताऽप्यत्र सङ्गच्छते इति भावः। भूयः,- पुनः, पुत्रकलत्रादिसमर्पणादित्यर्थः। प्रियं-प्रीतिकरं कार्य्यम्। उपकरोमि ?-संसाधयामि? ; किं ते समधुना उपकर्तव्यशेषमस्ति, तत् ब्रूहीति भावः।
वाल्मीकिः। रामभद्र उच्यतां ; किन्ते भूयः प्रियमुपकरोमि ? (स )
रामः। अतः परमपि प्रियमस्ति ? त्थाऽपीदमस्तु । (ह) –
पाप्मभ्यश्च पुनातु वर्द्धयतु च श्रेयांसि सेयं कथा
मङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च।
(स)अतः परमपि-एतस्मात् जायाऽपत्यादिसम्मेलनजनितप्रियानुष्ठानादधिकमपि। अपि- प्रश्ने। प्रियं-प्रीतिजननम्। अस्ति?-वर्तते किम्? , नास्त्येवेत्यर्थः। तथाऽपि एतदतिरिक्तप्रीतिकरविषयासत्त्वेऽपि। इदं-वक्ष्यमाणप्रकारं, भरतवाक्यमिति यावत्। अस्तु-भवतु।
अथ भरतवाक्यं प्रस्तौति, प्राप्नोति। - माता इव जननीव; माता यथा पुत्रादीनां मङ्गलविधात्री सुखदायिनी च भवति, तथेवेत्यर्थः, सर्वभूतधात्री निखिललोकपालयित्री महीव इत्यर्थो वा , तथा गङेव च भागीरथीव च, जगतः लोकस्य , सर्वेषां प्राणिनिचयानामित्यर्थः, मङ्गल्या च कल्यानजननी च , मनोहरा च रमणीया च, कौतुकोद्दीपकविविधाख्यायिकापूर्णत्वात् मनसः सुखदा च इत्यर्थः, सा इयं वाल्मीकीयचतुर्विंशतिसाहस्रिकानुसंवादिनौ सुप्रसिद्धा उत्तररामचरितरूपा, कथा प्रबन्धः, पाप्मभ्यश्च जननीपृथ्वीभागीरथीवत् पापेभ्यश्च, पुनातु पवित्रीकरोतु, जगदिति शेषः, श्रीयांसि च मङ्गलानि च , वर्द्धयतु जनयतु, सर्वेषां सामाजिकजनानामिति शेषः, प्रजानामपापवत्वे श्रेयोभूयस्त्वे च नृपस्यापि तत्फलभागित्वात् भवत्समीपे ममेयमर्थनेति भावः ; ‘ ‘‘वासुदेवकथा राजन् पुरुषांस्त्रीन् पुनाति हि। वक्तारं प्रेक्षकं श्रोतन् तत्पादसलिलं यथा॥ ‘ ‘‘इति श्रीमद्भागवतोक्तेःवासुदेवकथा यथा वक्त्रादीन् पुनाति, इयं रामकथा अपि तद्वत् इति तात्पर्यम्; इयन्तु रामकथा नानाविधनीतिविभूषिता धर्म्मशास्त्रसंवादिनी, विविधोपाख्यानपूर्णत्वात् कौतूहलोदीपिका च भवति, तेनैतस्याः मङ्गलसाधकत्वं मनोहरत्वञ्च ज्ञेयमित्याशयः। ( ‘ ‘‘पाप्मभ्यश्च पुनाति वर्द्धयति च श्रेयांसि येयं कथा ‘‘’ इति पाठान्तरम्)
तामेतां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः
शब्दब्रह्मविदः कवेः परेणतप्रज्ञस्य वाणीमिमाम्॥२०॥
( इति निष्क्रान्ताः सर्वे )
इति सम्मेलनं नाम सप्तमोऽङ्कः॥७॥ (क)
समाप्तमिदं महाकविभवभूतिविरचितमुत्तररामचरितं नाम नाटकम्।
ननु असेविता सती कथं सा पुनीयात्, कथं वा श्रेयांसि विदध्यात्? इत्यत्र आह, तामेतामिति। - बुधाः पण्डिताः, शब्दब्रह्मविदः शब्दरूपब्रह्म वेत्ति यस्तस्य, निखिलशब्दार्थतत्त्वाभिज्ञस्य इत्यर्थः ; निखिलवेदतत्वाभिज्ञस्येत्यर्थो वा, अपि च परिणतप्रज्ञस्य परिणता परिपाकं गता, समचाञ्चल्यादिदोषरहितेत्यर्थः, प्रज्ञा बुद्धिर्यस्य तस्य तथोक्तस्य, अलौकिकमनीषासमुद्भासितस्येत्यर्थः ; तदन्यथात्वे ईदृशं रसभावसमुज्ज्वलशब्दयोजनानैपुण्यं न सम्भवेदिति भावः; कवेर्वाल्मीकेः भवतः, तां प्रसिद्धां रामायणरूपाम्, अभिनयैः अधुना आङ्गिकादिभिश्चतुर्भिरवस्थाऽनुकारैः, ‘ ‘‘भवेदभिनयोऽवस्थाऽनुकारः स चतुर्विधः। आङ्गिकीवाचिकश्चैवमाहार्य्यः सात्त्विकस्तथा। ‘ ‘‘इति दर्पणात् ; विन्यस्तरूपां वि विशेषेण, न्यस्तं निहितं, रूपं शरीरं यस्याः तथोक्ता तां, प्रदर्शितप्रकारामित्यर्थः, सम्यगभिनीतामिति यावत्, एताम् अधुना सर्वसमक्षमभिनीयमानाम्, इमां भवद्रचितां , सचराचरैर्भूतग्रामैरिदानीमेव प्रत्यक्षदृष्टां, वाणीं रूपकाख्यां भारतीमित्यर्थः, रामचरितरूपामिति यावत्, परिभावयन्तु समालोचनया संवर्धयन्तु ; भगवद्वाल्मीकिविरचितरामायणानुगतत्वात् एतन्नाटकमपि लोके सुखकरं समादरणीयञ्च भवतु इति भावः। ( ‘ ‘‘वाल्मीकिः परिभावयन्त्वभिनयैः विन्यस्तरूपा ‘‘’ इति पाठान्तरम्)। (अत्र माङ्गल्यत्वमनोहरत्वरूपसाधर्म्यद्वयमन्तर्भाव्य मात्रा गङ्गया च साकमेतत्कथायाः अवैधर्म्यसाम्योक्तेः पूर्णोपमाऽलङ्कौ सजातीयसङ्कीर्णौ। किञ्च श्लोकेऽस्मिन् पुनातु वर्धयतु इति प्रार्थनायां लोटः विधानात् ‘ ‘‘चिरं जीवतु ते सूनुर्मार्कण्डेयमुनिर्यथा ‘‘’ इतिवत्कैश्चिदाशङ्कितस्य भग्नप्रक्रमतादोषस्य नावसरः, भरतवाक्ये हि सर्वत्र लोटः व्यवहारो दृश्यते, न लटः ; ‘ ‘‘चिरं जीवतु ‘‘’ इत्यस्य तु तथात्वाभावादिति विभाव्यम्)। शार्दूलविक्रीडितवृत्तम्।
३४७सम्मेलनं नाम-रामसीताकुशलवश्त्रुघ्नादीनां परस्परसमागमनात्मक इति नाम्ना प्रसिद्धः। सप्तमोऽङ्कः इति-समाप्तः इत्यर्थः , इति शब्दः समाप्तौ।
इति पण्डितकुलपतिना श्रीजीवानन्दविद्यासागरभट्टाचार्येन विरचिता सुखबोधिनी नामोत्तररामचरितटीका समाप्ता।
सङ्क्षेपः
अथ सप्तमाङ्कस्य सङ्क्षेपः।
अथ लक्ष्मणः रङ्गस्थलं प्रविश्य , अद्य खलु भगवता वाल्मिकिना स्वप्रभावेणात्र सदेवासुराः भूतग्रामाः सन्निधापिताः, तेनाहार्य्येणादिष्टः यत्, भगवान् वाल्मिकिरप्सरोभिः प्रयुज्यमानां स्वकृतिं द्रष्टुमस्मानुपनिमन्त्रितवान्, अतस्तं त्वरितं भागीरथीतीरे समाजसन्निवेशं विधेहि,किञ्च चन्द्रकेतुर्यादृशासने उपविशति। वत्सौ कुशलवावपि तादृशमासनमुपवेशयितव्यौ इति। तन्निदेशानुसारतः मया स्सर्वेषां समुपवेशनं समुचितस्थानेष्वेव कृतमिति; राज्याश्रममनुष्यापि मुनिव्रतः आर्यः राघवः वाल्मीकिगौरवादित एवाभिवर्त्तते इति च व्यजिज्ञपत्। रङ्गप्रेक्षकेषु सभास्थलमुपविष्टेषु रामोऽपि राजासनमलञ्चकार। ततः सूत्रधारः प्रविश्य , आर्षज्ञानमयेन चक्षुषा समुद्वीक्ष्य मया यथायथमुपनिबद्धं करुणाद्भुतरसमेतत् रामचरितं, कार्य्यगौरवात् भवद्भिरत्रावधातव्यमिति भगवतो वाल्मिकेः निदेशं विज्ञापयामास। एतदाकर्ण्य रामः, भगवतां प्रज्ञामयानि वचांसि अव्याहतानि भवन्तीत्युक्त्वा सूत्राधाराशयं विशदीकृत्याभिदधे।
अथ वैदेह्याः , हा आर्य्यपुत्र हा कुमार लक्ष्मण अशरणां मामरण्ये श्वापसा अभिलषन्ति, तेनाहमिदानीं मन्दभागिनी भागीरथ्यामात्मानं निक्षिपामि ; इति करुणां परिदेवनामाकर्ण्य,अहो दुर्विषदमेतद्वचनमिति निर्भ्रं करुणं च विलपिते लक्ष्मणे,देवी वैद्ही राज्ञा रामेण विजने वने पारित्यक्ता प्रसववेदनां सोढुमशक्नुवती भागीरथ्यामात्मानं विमुञ्चतीत्युक्त्वा सूत्रधारः निवर्तते।
तदाकर्ण्य विह्वलभूते रघुपतौ क्षणमपेक्षस्व देवि इत्युक्तवति सति, आर्य्ये नाटकमिदमित्युक्त्वा लक्ष्मणः तं समाश्वसितुमैहत। तदा रामः वज्रमयः खल्वस्मीत्युक्त्वा कथञ्चिदात्मानं विधृतवान्
अथ पृथ्वीभागीरथ्यौ दारकद्वयमुत्सङ्गे निधाय सीतया सह सभास्थलमाहग्मतुः, प्रसान्त्वयितुमारभाते च अन्तर्जलं दारकद्वयं प्रसूय पमूर्च्छितां सीताम्। किञ्चिदाश्वस्तीभूय च सा, हा आर्यपुत्र इति कन्दित्वा शोकवेगं विषोढुमपारयन्ती सती मुमूर्च्छ। तदा रघुवंशस्य कल्याणकरः प्ररोहः सञ्जातः इति कथामाकर्ण्य रामचरणयोर्निपतितो लक्ष्मणः तं प्रमुग्धं ज्ञात्वा जीवयितुमारभत। अथ ईषदाश्वस्ता सती सीता पृथ्वीतः प्रथमां स्वक्कुलाधिदेवतां भागीरथीं ज्ञात्वा तामवन्दत, ततो भागीरथीमुखात् द्वितीयां स्वजननीं वसुन्धरां विदित्वा क्रन्दितुमारभे, वसुन्धराऽपि विललाप।