अथ षष्ठोऽङ्कः।
( ततः प्रविशति विमानेनोज्ज्वलेन विद्याधरमिथुनम् ) । ( क )
विद्याधरः। अहो खलु अनयोर्विकर्तनकुलकुमारयोः अकाण्डकलहप्रचण्डयोः उद्योतितक्षात्रलक्ष्मीकयोः अद्भुतोद्भ्रान्तदेवासुराणि विक्रान्तचरितानि । तथाहि प्रिये पश्य पश्य। ( ख ) –
(क) दर्पणोक्त-नाटकीयाङ्कलक्षणे-‘दूराह्वानंवधोयुद्धंराज्यदेशान्दिविप्लवः‘-इत्यादिना युद्धस्य वर्ज्जनीयमध्ये परिगणनात्तत्विष्कम्भकान्तर्वर्तितया वर्णयितुं सुपक्रममाण आह, तत इति। - उज्ज्वलेन- भास्वरेण, नानाऽलङ्कारपरिशोभिततया देदीप्यमानेन इत्यर्थः। विमानेन-व्यामयानेन। (‘विमानंव्योमयामेचसार्वभौमगृहाऽपिच‘इतिमेदिनी। ‘विमानेनोज्ज्वलेन‘इत्यत्र‘विमानोज्ज्वलम् ‘इति ‘विमानेनोज्ज्वलम् ‘इति च पाठद्वयं दृश्यते ) विद्याधरमिथुनं-देवयोनिविशेषदम्यति। ( विद्याधरी च दिद्याधरश्च इति विद्याधरौ ‘पुमान्स्त्रिया ‘(१। २। ३७पा०) इति स्त्रियां पुंसी द्वन्द्वे पुलिङ्गैकशेषः) प्रविशति-आगच्छति, तङ्गालयमितिशेषः।
(ख) कुमारयोः अलौकिक-समर-कौशल-सन्दर्शन-विस्मितो विद्याधरः स्वीयां प्रेयसीं तत्सन्दर्भं दर्शयन्नाह , अहो इति। - अहो-इति विस्मयय्वञ्जकमव्ययम्। खलु- वाक्यभूषायाम्। अकाण्ड-कलह-प्रचण्डयोः,-अकाण्डे-अनवसरे, अकस्मिक- विवाद-भूषणयोरित्यर्थः। (अत्र‘अकाण्डप्रचण्डकलहयोः ‘इति विद्यासागरकृतपाठे अकाण्डः,-आकस्मिकः, प्रचण्डः,-भीषणः, कलहः ययोः तादृशयोरित्यर्थः ) उद्योतितेक्षात्रलङ्क्ष्मीकयोः,-उद्यीतिता-प्रकटोकृता उद्दीपिता वा , क्षात्रलक्ष्मीः,-क्षात्रियश्रीः, (क्षत्राणामियमितिक्षात्री, सा चासौ लक्ष्मीश्वेति क्षत्रलक्ष्मीः, ‘पुवत्कर्म्मधारयजातीयदेशीयेषु ‘(६। ३। ४२पा०) इतिपुंवद्भावः) याभ्यां तयोः, प्रकाशित राजन्योचितभुजवीर्य्यसम्पदोरित्यर्थः। (‘नधृतश्च ‘(५। ४। १२३पा०) इति समासान्तः कप्। अत्र‘उद्योतितक्षात्रलक्ष्मौकाणि‘इतिपाठे-विक्रान्तचरितानौत्यस्य विशेषणतया व्याख्येयम् ) अनयोः,-पुरतः परिदृश्यमानयोरित्यर्थः। विकर्त्तन-कुल-कुमारयोः,-विकर्त्तनस्य-सूर्य्यस्य , (‘विकर्त्तनार्क-मार्त्तण्डमिहिरारुणपूषणः। ‘इति सूर्य्यपर्य्याये अमरः) यत्कुलम्-अन्ववायः, तस्य कुमारी-तत्सम्भतौबालकावित्यर्थः, तयोः लवचन्द्रकेत्वोरित्यर्थः। अङ्गुती…न्तदेवासुराणि-आ…तेन-आश्चर्येण, विस्मयरसेनेत्यर्थः, उ,,,न्ताः,-विमूढाः, न्यानाधिकात्वनिर्णयाक्षमा इत्यर्थः, देवासुराः,-सुरदानवाः यैः तानि, विस्मयविह्नलीकृतसुरासुराणीति यावत्। विक्रान्त-चरितानि-निक्रम-विलसितानि, विक्रम-सूचकानि समरकर्माणि वा ; अन्तरीक्षविहारिणो देवदानवा अपि प्रकटिता लौकिकाभिनवभुजवीर्य्ययोरनयोः समरकौशलमालोक्य…….स्मयपारवश्यमधिजग्मुरिति समुदितार्थः। तथाहि-तमेव विस्मयकरं समरव्यापारमवगच्छेत्यर्थः। (पश्यपश्येति विस्मये द्विवेचनम् )।
झणज्झणितकङ्कणक्वाणितकिङ्किणीकं धनु-
र्ध्वनुद्गुरुगुणाटनीकृतकरालकोलाहलम्।
वितत्य किरतोः शरानविरतस्फुरच्चूडयो
र्विचित्रमभिवर्धते भुवनभीममायोधनम्॥ १॥
विपुलविक्रमेणयुद्धमारभमाणयोः कुमारयोः समरकौशलस्य विस्मयकरत्वमेव प्रदर्शयन्नाह, …णदिति। - ……णितानि……….. इत्यव्यक्तं शब्दाकुर्वन्ति (…….. शब्दः जातः एषामिति विग्रहे ……. श्ब्दात्‘तदस्यसञ्जातं तारकादिभ्य इतच्‘) (५। २। ३६पा०) इति इतच् ) यानिक…णानिकरभूषणविशेषाः, तानि वकृणिताः शब्दायमानाः, किङ्किण्यः क्षुद्रघाणृका यत्र तत् , (‘नद्यृतश्चा ‘(५। ४। १५३पा०) इति समासान्तः कप्प्रत्ययः। ‘क…णक्रभूषणम् ‘इति ‘कि……णोक्षुद्रङ्घण्टिका ‘इति चामरः) यहा- …………… यानिक….ंआनि, तेषामिव क्वणितं रणितं यासां ताः………………, (इति उपमानपूर्व्वपदोत्तरबहुर्विहिः उत्तरपदलोपश्च ) तादृश्यः कि…ण्यः यत्र तदिति , (‘……. ………-‘इत्यत्र‘………….-‘इति पाठे-………… इत्याकारकं, यत्कङ्कणस्य क्वणितं यासां तादृश्यः …… यस्मिन्तदित्यर्थः )। (उष्ट्रमुखवत्समासः। अत्र इतौ परे………. (दित्यव्यक्तानुकरणशब्दात् ‘अव्यक्तादुकरणस्यातः इतौ ‘(३। १। …. पा०) इति पररूपैकादेशेन…….. पदं सिद्धम् ) तथागुणेन मौर्व्या, …टनीभ्यां
कोटिभ्यां, ध्नुषः प्रान्तमार्ग्गाभ्यामित्यर्थः, (‘कोटोरस्याटनौइत्यमरः) कृतः सम्पादितः, करालः भीषणः, अतिमनानित्यर्थः, कोलाहलः शब्दविशेषः यस्य तादृशम्, अत एवं ध्वनत्शब्दायमानं, गुरु अन्यदुर्वहं, (धनुरित्यस्यविशेषणम्) अथवा-व्यनताटङ्कुर्वता, गुतुणा दृढेन, गुणेनशिञ्जिन्या अटनीभ्यां कोटिभ्याञ्च, कृतः जनितः, करालः विकटः, कोलाहलः कलकलः, यस्य तत्, मौर्व्याकर्षणोत्थविकटटङ्कारमुखरितप्रान्तभागद्वयमित्यर्थः; यहा,-ध्वनन् आकर्षणेन टङ्कारशब्दं कुर्वन्, गुतुः कठिनः, गुणो….. ययोःएवम्भते, ये अटन्यौ अग्रभागौ, ताभ्यां कृतः जानतः, करालो भीषणः, कोलाहलो गभीरशब्दो येन तादृशं, धनुः शरासनं, वितत्यविस्फार्य्य, प्रसार्य्येत्यर्थः, ( विपूर्वाततनीतः ल्यपि‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो……. क्ङिति (६। ४। ३७पा०) इत्यनुनासिकलोपे‘…स्वस्य पितिकृतितुक् ‘(६। १। ७१पा०) इति तुकासिद्धम्) शरान्बाणान्किरतोः निरन्तरप्रक्षिपतोः, वर्षतोः इत्यर्थः, अविरतम् अविश्रान्तं, निरन्तरं यथास्यात्तथेत्यर्थः, स्फुरन्त्यः इतः शरौरमुञ्चालनात्निरम्यरप्रचलाच्छिखयोरित्यर्थः, एतयोः कुमारयोरिति शेषः, भुवनानां लोकानां, जगत्रयस्येत्यर्थः, भीमभयानकं, त्रिभुवनभीतिविधायकमित्यर्थः, विचित्रंविस्मयावहम्, अभिनवकौशलवत्तया अत्याश्चर्य्यजनकभितिः यावत्, आयोधनं युद्धं, (आयुध्यते अस्मिन्निति आयुधेरधिकरणेल्युट् ) अभिव…ते प्रसरति, उत्तरोत्तरमुपचितं भवतीत्यर्थः; (‘अभिवर्द्धते ‘इत्यत्र‘अभिवर्द्धते इति पाठान्तरे सुगमोऽर्थः) समर-भूमाववतार्णावेतौ विकर्त्तनकुलनन्दनौ संयुज्यमहदपि शरासनम् अनायासेनैव आस्फालयन् अत्यद्भुत-समर-कौशलेन विलोक्य लोकं विस्मापयतः इति भावः। (अत्र प्रथमपादे कङ्कणाक्वणितेत्यत्र समासे औपस्य वाचनोलोपात्लुप्तोपमा, तथां अनयोः कुमारयोः कविमात्रस्य वेद्यचष्टा…रूपयोः यथा वर्णनात्स्वभावीक्ताश्वालङ्कारः, एवञ्जानयोः परस्परनिरपेक्ष संसृष्टिः ) पृथ्वौवृत्तं, तल्लक्षणं यथा,-‘जसौजसयलावसुग्रसयातश्वपृथ्वीगुरुः इति॥१॥
विजृम्भितञ्च दिव्यस्य मङ्गलाय द्वयोरपि।
स्तनयित्नोरिवाऽऽमन्द्रं दुन्दुभेर्दुन्दुमायितम्॥ २॥
कुमारयोरनयोरलौकिकसमरकौशलमामोकयतां देवानामपि दुन्दुभिध्वानेनोत्साह-प्रदर्शन्नाह, विजृम्भितमिति- द्वयोरपि उभयोरपि, लवचन्द्रकेत्वोरित्यर्थः, मङ्गलाय कल्याणाय, समरोत्साहवर्द्धनार्थमित्यर्थः, स्तनयित्नोः ध्वनतो जलदस्येत्यर्थः, (स्तनयतीति विग्रहे स्तनयतेः कर्त्तरि इत्रुः) इव, आमन्द्रं निरतिशयगुरुगम्भीरमित्यर्थः, (‘मन्द्रस्त्तुगम्भीरे ‘इत्यमरः) दिव्यस्य स्वर्गीयस्य, ( दिविभवः इति विग्रहे दिव्शब्दात् ‘तत्रभवः ‘(४। ३। ५३पा०) इति ष्यञा दिव्यमिति ) दुन्दुभेः भेर्य्याः, तन्नाम वाद्यविशेषस्येत्यर्थः, (‘भेरीस्त्रीदुन्दुभिःपुमान्‘इत्यमरः। दुम्दुम् इति शब्देन भाति इति दुन्दुभिरित्यमरव्याख्याने महेश्वरः ) दुन्दुमायितं दुन्दुमित्याकारक्वाणितं, (दुन्दुमायितमिति दुमित्यव्यक्तानुकरणशब्दात् ‘अव्यक्तानुकरणा…………. डाच् ‘(५। ४। ५७पा०) इति डाच्, ततः‘डाचि विवक्षिते द्वे बहुलम् ‘(वा०) इति द्वित्वे दुन्दुमा इत्यस्मात् ‘लोहितादिडाज्भ्यःक्यष् ‘(३। २। १३पा०) इति क्यषि दुन्दुमाय इति नामधातोर्भावे निष्ठा ) विजृम्भितञ्च सर्वासदिक्षुव्यासृतञ्चेत्यर्थः; (चकारः समुच्चयार्थः, पूर्वश्लोकस्थे‘अभिवर्त्तते‘इति क्रियापदेनेदं समुच्चीयते इति बोध्यम् ) अतीव विस्मयकरमिदं रणनैपुण्यमालोक्य परितुष्य …र्दिविषङ्गिरपरिक्रतः अयं गम्भीर भेरीनिनादः कुमारयोरनयोः समरानुरागं सम्यक्विवर्द्वयतीति समुदितार्थः। (‘विजृब्मितञ्च दिव्यस्य ‘इत्यत्र ‘विजृम्भितञ्च दिव्यास्त्रम् ‘इति पाठान्तरं क्वचिदृश्यते , तत्रायमर्थः,-द्वयोरपि कुमारयोः दिव्यास्त्रं स्वर्गीयं प्रहरणं , विजृम्भितं समाकीणे , परस्परप्रहितेनायुधेन युद्धक्षेत्रं परिव्याप्तमित्यर्थः। एवं द्वयोरपि मङ्गलाय स्तनयित्नोरिव आमन्द्रदुन्दुभे दुन्दुमायितञ्च विजृम्भितम् आविर्भूतमित्यर्थः। उक्तोभयपाठ एव स्तनयित्नुना सह दुन्दुभेरवैधर्म्यसाम्यकथनादुपमाऽलङ्कारः)। पथ्यावक्तंवृत्तम्॥२॥
तत् प्रवर्त्य्यताम् अनयोः प्रवीरयोः अनवरतम् अविरल-ललित-विकन्द-कनक-कमलकमनीय-संहतिः अमरतरुतरुण-मणि-मुकुल-निकर-मकरन्द-सुन्दरः पुष्पनिपातः। ( ग )
(ग) तत्-तस्मात्, भेरीवादनादिना अमरैरपि रणोत्साहविवर्द्धनादित्यर्थः। प्रवीरयोः,-सप्रकर्षवीरत्ववतीरित्यर्थः। (प्रकृष्टौ वीरौ इति प्रवीरौ तयोरिति प्रादिसमासः)। अनयोः,-एतयोर्लवचन्द्रकेत्वोरित्यर्थः, शिरसोरिति शेषः। अविरलेत्यादि। - अविरलैः,-निरन्तरैः, सान्द्रसन्निविष्टौरित्यर्थः, ललितैः,-रुचिरैः, नयनमनोरञ्जनैरिति यावत्, विकचैः,-विकस्वरैः, सुपरिस्फुटैरित्यर्थः, कनककमलैः,-मिवर्णसेरसिजैः, कमनीया-मनीनीहिनीत्यर्थः, संहतिः,-समवायः, राशिरिति यावत्, यस्य स अथोक्तः। (अविरलललित- ‘इत्यत्र‘अविरललुलितविकचकनक
।
मयकमलकमनौयसन्ततिः‘इति पाठे,-अविरलं-निरन्तरं यथा तथा, ललितानां-चलितानां, पतितानामिति यावत्, विकचकनकमयकमलानां-प्रस्फुटितस्वर्गमयपद्मानां, कमनीया-मनोहरा, सन्ततिः -विस्तृतिः यस्मिन्स तथोक्तः इत्यर्थः) अमरेत्यादि। - अमरतरुणां- कल्पपारिजातप्रभृतिदेवपादपानां, तरुणानि-नवोद्गतानि , सद्यः समुत्पन्नानीति यावत्, यानि मणिमयानि-रत्नात्मिकानि, मुकुलानि-विकासोन्मुखकु…लानि, तेषां नितरस्य- सन्ततेः, मकरन्दैः,-मधुभिः; घ्राणतर्पणैरिति भावः; सुन्दरः,-मनोरमः, सुरभिरिति यावत्। पुष्पनिपातः,-कुसुमवृष्टिरित्यर्थः। प्रवर्त्त्यतां-समारभ्यताम्, आवाभ्यामिति शेषः। ( प्रवृतेर्णिजन्तात्कर्म्मणि लोट्। अत्र ‘प्रवर्त्त्ताम् ‘इति पाठे-भवतु इत्यर्थः, पुष्पनिपातः इति तु अस्मिन्दृश्यकाव्ये सदृशवचनात्मकवाक्ये सुदीर्घसमासनिबन्धस्य अभिनये अत्यन्तप्रतिकूलत्याकवेर्द्दोषापादकतैव प्रतिभातीति बोध्यम्।
विद्याधरी। ता किं त्ति उण अआण्डबिप्फ्रिदतडिच्छडाकडारं बिअ अम्बरं झत्ति सम्बुत्तं ? ( घ )
तत् किमिति पुनरकाण्डविस्फुरिततडिच्छटाकडारमिव अम्बरं झटिति संवृत्तम् ?
(घ) इह वक्तृनामोल्लेखावसरे निद्येति नामैकदेशग्रहणे स्त्रीपुंसयोर्विशेषग्रहो न स्यादिति सम्पूर्णतया विद्याधरीति उक्तम्। तत्किमिति-प्रश्नार्थकमेकमव्ययम्। झटिति-सहसा। अम्बरम्-आकाशं, गगनतलमिति यावत्। अकार्ण्डेति। - अकाण्डे- अनवसरे, अकस्मादित्यर्थः, किस्फुरितानां-प्रस्फुरितानां , विलसितानामित्यर्थः, तडितां -विद्युतां , छटाभिः,-दीप्तिभिः, तडित्परम्परया इत्यर्थः, कडारं- विङ्गलवर्णमिवेत्युत्प्रेक्षा। (अत्र‘अ आण्डतण्शविदुद्दण्डतरलिदतडिच्छडाकडारं‘इति पाठान्तरस्य- ‘अकाण्डताण्डवीतो-द्दण्डतरलिततडिच्छटाकडारम्‘इति संस्कृतानुवादे अयमर्थः, तथाहि- अकाण्डेताण्डविता-अकस्मात्विच्छरितां, तथा उद्दण्डम्- उद्भटं यथा तथा, तरलिता-तरङ्गायिता, या तडिच्छटातयाकडारं-पिशङ्गमिति। अस्मिन्पाठे तु उत्प्रेक्षाद्योतके व शब्दो नास्तीति बोध्यम् )। संवृत्त-सञ्जातम्। यदा-तत्-इति प्रसिद्धार्थे, किमिति -इति प्रश्नार्थे अव्ययम्; तथाच, तत्- भास्वरतयाऽतिप्रसिद्धम्, अम्बरं किमिति-पुनः, अकाण्डविस्फुरिततडिच्छटाकडारमिवसंवृत्तमित्यन्वयः।
विद्याधरः। तत्किन्नु खलु अद्य। ( ङ ) –
त्वाष्ट्रयन्त्रभ्रमिभ्रान्तमार्त्तण्डज्ज्योतिरुज्ज्वलः।
पुटभेदो ललाटस्थनीललोहितचक्षुषः॥ ३॥
विनिश्चेतुमशक्नुवन्। वितर्कयति। तदिति। -तत्- इति प्रसिद्ध्यर्थद्योतकम् अव्ययम्। किन्नु- इति वितर्के। खलु- वाक्यालङ्कारे। अद्य- अस्मिन्नहनि, इदानीमित्यर्थः। (एतेषाञ्च पदानां वक्ष्यमाणश्लोकेनान्वयो बोध्यः।
आकस्मिकगगनपिशङ्गाता दर्शनेन विस्मितः विद्याधरः तन्निदानं वितर्कयन्नाह, त्वाष्ट्रेति। - त्वाष्ट्रेन्यविश्वकर्म्मसम्बन्धी इत्यर्थः, (त्वक्षतीति त्वाष्ट्रा, ‘त्वक्षूतनूकरणे ‘इति धातोः कर्त्तरि तृच्, त्वाष्ट्ररि द्यमिति त्वाष्ट्र, त्वाष्ट्रश्ब्दात् ‘तस्येदम् (४। ३। १२०पा०) इत्यण् ) यन्त्रस्य शाणभेदस्येत्यर्थः, भमिनाधनपदार्थविशेषस्येति यावत्, भ्रमिभिः आवर्तनैः, भ्रान्तस्य आवर्त्तितस्य, मुहुर्घूर्णितस्येत्यर्थः, मार्त्तण्डस्य…उष्णरश्मेः, अत ज्योतिः पुनः पुनरावर्त्तनात्तडिच्छटावत्परितः। प्रसृतं तेज इत्यर्थः, तदिव उज्ज्वलः देदीप्यमानः; (‘उपमानानिसामान्यवचनैः ‘(२। १। ५५पा०) इति उपमानवाचक ज्योतिः पदेन सामान्यधर्म्मवाचकोज्ज्वलशब्दस्य समासः। इह विग्रहवाक्ये उपमानपदस्य तत्सदृशे लाक्षणिकत्वज्ञापनार्थम् इवादि शब्दः प्रयुज्यते ) ललाटस्य भालगतं, (ललाटे तिष्ठति यदितिललाटोपपदातिष्ठतेः‘सपिस्थ ‘(३। २। पा०) इति कः) नीललोहितस्य महादेवस्य, (नीलश्वासौ लोहितश्चेति विग्रहे नीललोहित इति विशेषणसमासः। कण्ठावच्छेदेन नीलतया, नटावच्छेदेन लोहिततश्च अस्य नीललोहितेति सञ्ज्ञा। स्कन्दपुराणे तु अस्य तन्नामधेयत्वे प्रकारान्तरमुक्त्वं यथा,-‘नीलं येवममाङ्गन्तुरसोक्तं लोहितं त्विषा। नीललोहित इत्येव ततोऽहं परिकीर्त्तितः॥‘इति ) यत्चक्षुः तृतीयं नयनमित्यर्थः), तस्य, यटयोः वर्त्मनोः, आवरणयोरित्यर्थः, मेदः विघटनं, ससुन्मीलवमिति यावत्, किन्नु अद्य नातः? इति शेषः। विश्वकर्म्मणा तेजः सङ्कोचनार्थंशाणमारोपितस्य त्विषाम्पतेरत्युग्रतेजोवत्भास्वरं सृष्टिसंहारोद्यतस्य भगवतो धूर्ज्जटेः तृतीयनयनसमुत्थं प्रसिद्धं तेजोऽद्याप्रसृतं किम् ? इति निष्कृष्टार्थः। पुराकिल विश्वकर्म्मा स्वमर्त्तुर्दिवाकरस्य अत्युर्ग्रं तेजोऽसहमानायादुहितुर्वाक्यात्जामातुस्तेजखर्व्वता सम्पादनाय तं; विकर्त्तनदेवं शाणमागेपयन्पुनः पुनः भ्रामणेन तस्य तेजो हासमकार्षो द्वितिपौराणिककथायां मार्कण्डेयपुराणे वैसप्रः॥
संस्मृतं मे ब्रह्मणो वाक्यं यदि ते देव रोचते॥
रूपं निवर्त्य तवकान्तं दिवस्पते ‘॥
इति विश्वकर्म्मणि उक्त्तेमार्कण्डेय उवाच,-
‘यतोहि भास्वतो रूपं प्रागामित परिमण्डलम्।
ततस्तथेति तं प्राह त्वष्टारं भगवान्रविः॥
विश्वकर्म्मात्वनुज्ञातः शाकद्वीपे विवस्वता ।
भ्रमिमारोप्य तत्तेजः शातनायोपचक्रमे॥ ‘इत्यादि।
सूर्य्यस्य मार्त्तण्डनाम्नः कारणमुक्त्तं मार्कण्डेयपुराणे-
‘ततस्तां कश्यपः प्राह किञ्वित्कापप्लताक्षरम्।
किं मारयसि गर्भाण्डमिति नित्योपवासिनी ?॥
साचतं प्राह गर्भाण्डमेतत्पश्यसि कोपेन।
न मारितं विपक्षाणां तद्भविष्यति॥…
….. अथान्तरीक्षादाभाष्यकश्यपं मुनिसत्तमम्।
सतोयमेघगम्भीरवागुवाचाशरीरिणी॥
मारिततेयतः प्रोक्तमेतदण्डत्वया मुने ।
तस्मान्मुने सुतस्तेऽयं मार्त्तण्डाख्यो भवीष्यति॥ ‘इति।
(अत्र प्रथमाद्वे‘त्वाष्ट्रयन्त्रमार्त्तण्डज्योतिः किम्? उपललाटस्थनीललोहितचक्षुषः पुटभेदोन? इति पृयग्बाक्यद्वयरूपेण अन्वयः कार्य्यः)।
(इह प्रकृतस्य दिव्यास्त्रतेजसः नीललोहितः, तृतीयनेत्रपुटभेदसम्भवत्वेन संशयात्। शुद्धः सन्देहोऽलङ्कारः, स च पूर्वार्द्धगतया लुप्तीपमयासङ्कीर्णः)। पथ्यावक्त्रंवृत्तम्॥३॥
( विचिन्त्य )। ( च ) आम् ज्ञातं ; वत्सेन चन्द्रकेतुना प्रयुक्तमस्त्रमाग्नेयं ;
(च) विचिन्त्य- विमृश्य, सप्रणिधानमवधानमवधार्य्येत्यर्थः, आहेति शेषः।
(छ) आम्- इति निश्वयार्थकमव्ययम्। (‘आमेवम्‘इत्यमरः। ‘द्वेनिश्चये‘इति तट्टीकायां महेश्वरः। ‘आं ज्ञानविनिश्चये‘इति वीपालितश्च) ज्ञातं- शुद्ध, निर्णीतमित्यर्थः, यथाऽवस्थितं वस्त्विति शेषः; किमेतत्सम्भूतं, तत्मयासम्यक् अबुध्यतेति भावः। तदेव दर्शयति, वत्सेनेति। - वत्सेन- पुत्रकेण, अतीव स्नेहास्पदेनेत्यर्थः, (‘वत्सः पुत्रादिवर्षयोः। तर्णकेनोरसिक्वोवम्‘इति मेदिनी) चन्द्रकेतुना- लक्ष्मणतनयेन। ……… ‘(वा०) इति ढक्)‘। समन्ताद्विसारिवहिश्खमित्यर्थः। अस्त्रम् आयुधम्। यस्य- अस्त्रस्य। अयं- परिदृश्यमानः इत्यर्थः। सग्नीति। - अग्नीनाम्- अनलानां, छटानां- प्रभाणां, सम्पातः,-उट्गमः, वह्निप्रभाप्रसर इत्यर्थः, प्ररितः परिदृश्यते इति शेषः। हि- यतः, अत एवेत्यर्थः। सम्प्रति- इदानीं, वक्ष्यमाणश्लोकेनान्वयः।
अवदग्धकर्बुरितकेतुचामरै-रपयातम्व हि विमानमण्डलैः।
दधति ध्वजाङ्कुशपटाञ्चलेष्विमाः क्षणकुङ्कुमच्छुरणविभ्रमं शिखाः॥ ४॥
युद्धे वीरेण चन्द्रकेतुना प्रयुक्तानामाग्रेयास्त्राणां विलास एवायमिति विनिश्वन्वन् तत्प्रयुक्रां विभीषिकां तेषां विशेषतीव्रभ्रमप्रकारञ्चाह, अवदग्धेति। - अवदग्धाः प्रायेण प्लुष्टाः, अस्त्रानलशिखासंयोगात्प्रारब्धादाहा इत्यर्थः, अत एव कर्बुरिताः शुवलिताः, सञ्जातचित्रवर्णां इत्यर्थः, व…पभयारक्त्वात्वात्धूमेन क्वष्णात्वात्स्वभावतः श्वेतत्वाच्चास्य चित्रवर्णत्वं ज्ञेयम्; (कर्बुरा एषां सञ्जाता इत्यर्थः‘तदस्य सञ्जातं तारकासिभ्यःइतच् ‘(५। २। ३६पा०) इति इतच्प्रत्ययः) यहा,-कर्बुराः कृताः इत्यर्थे (‘तेत्करीतितदाचष्टे ‘(ग०) इति णिचि कर्म्मणि क्तः) केतवः ध्वजाः, चामराणि च येषां ते, अस्त्रानलशिखासंयोगात्प्रायशः दग्धीभूततया विचित्रध्वजचामरोपहितैरित्यर्थः, विमानमण्डलैः व्योमयाननिकरैः, हि इति सम्भ्रमार्थकमव्ययम्; तथाच, ससम्भ्रमं यथास्यात्तथेत्यर्थः, (‘हि पादपूरणे हेतौ विशेषेऽप्यवधारणे। प्रश्नेहेत्वपदेशेचसम्भ्रमासययोरपि॥‘इति मेदिनी) अपयातमेवपलायितमेव; (अपपूर्वकात्यातेः‘नपुंसकेभावेक्त्तं ‘(३। ३। ११४पा०) इति भावे क्त्तः) समरदर्शनीयात्मकानां देवानां विमानानि भस्मीभवनभयात्दूरङ्गतानीतिभावः; यतोहि, इमाः शिखाः आग्नियास्त्राणाम् अच्चिषः , ध्वजानां केतुदण्डानामित्यर्थः, ये अङ्कुशाः मृणायाः, पताकावलस्वनार्थं दण्डाग्रे स्थापिताङ्कुशाकारपदाथविशेषा इत्यर्थः, तेषां, पटाञ्चलेषु वसनप्रान्तेषु, (‘वस्त्रस्यान्तीमतीऽञ्चलः‘इति हलायुधः) यजा,-अङ्कशशब्दस्य हस्तिचालनार्हलोहास्त्रभेदार्थकत्वेऽपि अत्र लक्षणाया सामान्यदण्डपरत्वं ज्ञेयम्; तथाच, ध्वजाङ्कुशानां ध्वजदण्डानामिति तदर्थः। (कुत्रचित्‘ध्वजाशुकप्रटाञ्चलेषु‘इति पाठोदृश्यते, तथात्वेध्वजां शुकेषु ध्वजसंलग्नवसनेषु, पटाञ्चलेषु वीरजनपरिहितवमनप्रान्तेषु इति तदर्थो ज्ञेयः)
क्षणेति। - क्षणं मुहूर्त्तं व्याष्येत्यर्थः, कु…मेवकाश्मीरराजन्मना, (अथकुङ्कुमम्। कश्मीरजन्माऽग्नि, शिखम्-‘इत्यमरः) यतछुरणं रञ्जनं, तस्य विभ्रमं शेभां, सादृश्यमिति यावत्; यद्वा-यस्य विभ्रमं भ्रान्तिं, दधति विभ्रति, धारयन्तीत्यर्थः, (‘शोभार्थेऽपिप्रयन्यन्तेजक्ष्मीद्यीकान्तिविभ्रमाः। ‘इति हलायुधः। ‘विभ्रमोभ्रान्तिहावयोः‘इति च मेदनी) ध्वजवसनाञ्चलभागाः अस्त्राग्निप्रभाभिः कुङ्कुमरागरञ्जिता इव विभ्रान्ति इति भावः।
(अत्र एवस्य कुङ्कुमस्य विभ्रमस्य अपराभिः ध्वजपटसंसक्तशिखाभिः धारणं विरतिशयमसम्भवदपि कुङ्कुमसदृशविभ्रमधारणेन सामञ्जस्यादसम्भक्द्वस्तुसम्बन्धरूपो निदर्शनाऽलङ्कारः, अपि चपलायनपराणां प्रायशः अदग्धत्वेन सामान्यतः दाहसम्बन्धरहितानामपि केतुचामराणां साकल्येन दाहसम्बन्धकथनात्जायमानेन असम्बन्धेसम्बन्धरूपातिशयोक्त्यलङ्कारेणासौसङ्कीर्य्यते। इह हि शब्दस्य सम्भ्रमार्थे प्रयुज्यमानतया पलायने त्वराऽऽतिशय्यद्योतनात्नकैश्चिदाशङ्कितस्य निरर्थकत्वदूषणस्यावकाशः)।
मञ्जभाषिणौवृत्तम्; ‘सजसाजगौचयदिमञ्जुभाषिणी‘इति लक्षणात्॥४॥
आश्चर्य्यम् प्रवृत्त एवायम् उच्चण्डवज्रखण्डावस्फोटपटुः उत्सर्पिस्फुलिङ्गगुरुः उत्ताल-तुमुललेलिहानं ज्वालासम्भारभैरवः भगवान् उषर्बुधः। प्रचण्डश्चास्य सर्वतः सन्तापः ; तत् प्रियामङ्गेनाच्छाद्य दूरमपसरामि। ( ज ) ( तथा करोति )।
(ज) आश्चर्य्यम्-अतीवविस्मयकरमेतदित्यर्थः। उच्चण्डेति। उच्चण्डानाम्- अतिभीषणानाम्, अत्युज्ज्वलानांवा, वज्रखण्डानाम्- अशनिशकलानां, हीरकच्छेदानांवा, यः अदस्फोटः,-आविर्भावः, विदारणंवा, तहत्पटुः,- अमन्दः, प्रवलः इत्यर्थः, तीक्ष्णो वा; अशनिसम्पातवदतीव भयानकः, हीरकखण्डादपि वा अधिकद्युतिमानिति भावः। (‘दक्षामन्दागदेषुतु। पटुः‘इत्यमरः। ‘पटुस्तीक्षणेस्फुटेदक्षेनिष्ठरेनिर्दृयेऽपिच‘। इति रुद्रः) उत्मार्पिभिः,-उट्गच्छद्भिः, समन्तात्विसरङ्गिरित्यर्थः, स्फुलिङ्गैः,-वह्निकणैः, गुरुः,-महान्, स्वयं लघुरपि सर्व्वतीविसारिव…कणैः महौयस्तया प्रतीयमान इत्यर्थः। उत्तालेन- अत्युन्न्तेन, लुमुलेन- अतिसङ्कुलेन, सर्व्वत्रव्याप्लुवतेत्यर्थः, लेलिहानेन्- जगत्ग्रसितुमुद्यता, समन्तात्प्रसरतेत्यर्थः, (लेढेः आदादिकस्य यङि शानचि पृषोदरादित्वात्यङ्लोपे रूपम् ) ज्वालानां -शिखानां सम्भारेण- समूहेन, भैरवः,-भीषणः, सर्व्वतीव्याप्तैरतीव भयावहैः जगश्चर्य्यशालौ। उषर्वुधः,-अग्निः, (‘शोचिष्केशउषर्बुधः‘इत्यग्निपर्यायेअमरः) उषसि-सन्ध्यायाम्, (‘उषः प्रभाते सन्ध्यायाम् ‘इति विश्वः) बुध्यते- प्रकाशतेः यतः आहिताग्नियो हि अग्निसुकसिप्रादुष्कर्व्वन्ति, इति व्युत्पव्या, (उषउपपदात्बुध्यते इत्यम्य, ‘इगुपध- ‘(३। १। १३५पा०) इति कर्त्तति कः, ‘अहरादीवाम्पन्यादिषुवःरेफः ‘(वा०) इति रेफश्च) अस्य- अग्नेः। सर्व्वतः,-समन्तात्। प्रचण्डः, भीषणः, सुदिः सहः इत्यर्थः। सन्तापः,-दाहकारकः उष्मराशिः, प्रसरतीतिशेषः। तत्- तस्मात्, दाहकारकत्वादित्यर्थः; दग्धीभवनभयादिति भावः। प्रियां-पत्नीं विद्याधरीन्। ओन- स्वदेहेन। आच्छाद्य- आवृत्य, गोपायित्वेति यावत्। दुगं विप्रकृष्टप्रदेशं, सन्तापविरहितं स्थानमिति यावत्। अपसरामि- यामि; यथाऽयं प्रबलः तापः प्रियायाः कोमलं गात्रं स्पृष्टुं न शक्नोति, तथा करोति इति भावः ; तूर्णम्पलाय्यस्थानान्तरं यामीत्याशयः।
दिष्ट्या एतेन-विमल-मौक्तिक-फल-शीतल-स्निग्धमसृणसोपान-मांसलेननाथ-देहस्पर्शेन-आनन्दमन्दमुकुलितघूर्णल्लोचनायामे अन्तरित एव सन्तापः।
विद्याधरी। दिट्टिआ एदेण विमलमोत्तिअफलसीदलसिहिद्धमसिणसोबाणमंसलेण णाहदेहप्फंसेण आणन्दमन्दमुउलिदघुणन्तलो अणाए मे अदरिदो ज्जेब सदाबो। ( झ )
विद्याधरः। अयि किमत्र मया कृतम् ? ( ञ ) अथवा –
दिष्ट्या एतेन विमलमौक्तिकफलशीतलस्निग्धमसृणसोपानमांसलेन नाथदेहस्पर्शेन आनन्दमन्दमुकुलितघूर्णल्लोचनया मे अन्तरित एव सन्तापः।
(झ) विमलेति। - (मौक्तिक- मुक्ता एवेत्यर्थेस्वार्थेठक्तच्चफलमिवेति उपमितसमासः) विमलं- विशुद्धं, यतो मौक्तिकफलं-मुक्ताफलं, तहतशीतलः,-शैत्यजनकः, स्निग्धः, स्नेहयुक्त्तः, सुखस्पर्श इत्यर्थः, मसृणः,-श्लक्ष्णः, चिक्कण इत्यर्थः, सोपानमासलश्च- सोपानम्- आरोहणसाधनं, तहत्मांसलः,-बलवान्, दृढ इत्यर्थः, (‘बलवान्मासलोऽसलः‘इत्यमरः) प्रस्तरादिमयसोपानसमदृढ इत्यर्थः, तेन; तहदनुभूयमानेनेति भावः। (‘उपमानानिसामान्यवचनैः ‘(२। १। ५५पा०) इति उपमानसमासः) नाथस्य- प्रियतमस्य, देहस्य- शरीरस्य, स्पर्शेन- समाश्लोषेणेति यावत्। आनन्देन-हर्षेण, मन्दम्-ईषत्यथास्यात्तथा, मुकुलिते-मुद्रिते, घूर्णती- परिभ्राम्यती, समन्तात्प्रचलिते इत्यर्थः लोचने-नयने अस्याः तथाविधायाः, आनन्दापभोगवशात् अत्यल्पविकसितविलोलविलोचनाया इत्यर्थः, सन्तापः,-अग्निनःसं….र इत्यर्थः, अन्तरितः,-दूरीकृतः। (अन्तरशब्दात्‘तत्कारीति- ‘(ग०) इति णिचि कर्म्मणि क्तः।
(ञ) अयि-इति कोमलसम्बीधने। अत्र- सन्ताप्रशेमदिधौ। मया किं कृतम्?-न किमप्यनुतिष्ठसित्यर्थः ;केवलं त्वया नितुपमप्रेरणा इत्यमनिर्व्वचनीयं सर्व्वमनुभूय ते इति भावः।
अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥ ५॥
विद्याधरी। कहं अबिरलबिलोलघुणतबिज्जुल्लदाबिलासमण्डिदेहि मत्तमोरकण्ठसामलेहिं ओत्थरीअदि णहत्थलं जलहरेहिं ?। ( ट ) विद्याधरः। हन्त हन्त कुमारलवप्रयुक्तवारुणास्त्रप्रभावः खलु अयम्। कथमविरलप्रवृत्तवारिधारासहस्रसम्पातैः प्रशान्तं पावकास्त्रम् ( ठ ) कथमविरल-विलोल-घूर्णद्विद्युल्लताविलास-मण्डितैर्मत्त-मयूर-कण्ठ-श्यामलैरास्तीर्य्य-तेनभस्तलञ्जलधरैः? आकिञ्चिदिति। - द्वितीयेऽङ्के १६३ पृष्ठायां श्लोकोऽयं व्याख्यातः॥५॥
(ट) अवितलेति। - आविरल- सततं, विलोलानां- चञ्चलानां, घूर्णन्तीनां- कुवचित्स्थैर्य्यमलभमानानां, विद्युल्लतानां- तडिद्दाम्नां, विलासेन- विकासेन, मण्डितैः,-भूषितैः, सततं स्फुरितैः चपलैः निद्युद्दामभिरूपशोभितैरित्यर्थः। मत्तानां- मदीन्मादितानां, यवीयसामित्यर्थः, सयूराणां- वर्हिणां, कण्ठा इव- ग्रीवाभागाः इव, श्यामलाः,-मेचकाः, नीलचर्णाः इत्यर्थः, तैः। जलधरैः,-मेघपटलैः, विद्युदिकाशयुक्तनीलनिविडवारिदसमूहैरिति समुदितार्थः। नभस्तलङ्गगनम्। आस्तौर्य्यते- आच्छाद्यते। कथं हि अकाले समुदयमानाः विद्युद्दामदेदीप्यमानाः तीयदावियदावृण्वन्तीति समुदितवाक्यार्थः।
(ठ) हन्त- हर्षार्थकमव्ययम्, (आनन्दाऽऽतिशयद्योतनाय, द्विरावृत्तम्)। कुमारेति। - चन्द्रकेतुप्रयुक्तस्य आग्नेयास्त्रस्य समूलमुपघातायेति भावः; वरुणास्त्रस्य- वरुणदेवताकस्य आयुधविशेषस्य, प्रभावः,-सामर्थ्यं, प्रसर इत्यर्थः; अयं हि नवजलधरपटलप्रतीकाशानां लवास्त्राणां विकाशः परिलक्ष्यते इति भावः। अविरलेति। – अविरलम्- अनारतं, प्रवृत्तानाम्-उत्सर्ज्जननिरतानामित्यर्थः वारिधारासहस्राणां- सङ्ख्यातुमशक्यानां वर्षणप्रवाहाणां, सम्पातैः,-प्रपतनैः, मोचनैरित्यर्थः; असङ्ख्येयैः प्रवृष्टाम्बुभितिति भावः। प्रावकास्त्रम्- आग्नेयमस्त्रं, चन्द्रकेतोरिति भावः। प्रशान्तं निवारितम्; वारुणास्त्रसम्भूतवारिधाराभिः सपदि तत्निर्व्वापितमिति भावः।
विद्याधरी। पिअं मे पिअं मे । ( ड )
विद्याधरः। हन्त हन्त भोः भोः सर्वमतिमात्रं दोषाय ; यत् प्रबलवातावलिक्षोभगम्भीरगुणगुणायमानमेघमेदुरान्धकारनीरन्ध्रनिबद्धम् एकवारविश्वग्रसनविकटविकरालकालकण्ठमुखकन्दरविवर्तमानमिव युगान्तयोगनिद्रानिरुद्धसर्वद्वारनारायणोदरनिविष्टमिव भूतजातं प्रवेपते। साधु वत्स चन्द्रकेतो साधु ; स्थाने वायव्यास्त्रमीरितम् । ( ढ ) यतः
‘ प्रियम्मेप्रियम्मे।
(ड) प्रियं- प्रीतिकरम्; निखिलजगत्सन्तापनिवारकतया ममापि च दाहजक्वेशोपशमकतया निरतिशयहर्षसन्निधायकम् एतत्पावकास्त्रमिति भावः। (आनन्दातिशयाद्योतनाय द्विभावः)।
(ढ) अथवारुणास्त्रेण पावकप्रसरोपसोधेऽपि तत्प्रयोगकृतकल्पान्तवलाहकाऽऽर्विर्भावकालिकभीषणान्धतमसीदयेन जगज्जनोपपीडनमाशङ्क्य नितरां व्याथितचेताः तात्कालिकीं जागतिकोसमवस्थां विशिष्योपवर्णयति, हन्तेति। - हन्त- इति खेदे अव्ययम्; (भीतिजनितसम्भ्रमातिशयद्योतनाय द्विरुक्तिः)। अतिमात्रम्- अतिशयितम्, (अतिक्रान्तीमात्रामिति विग्रहे, ‘अत्यादयःक्रान्ताध्यर्थे द्वितीयया ‘(वा०) इति द्वितीयासमासः) सर्वंहिप्रमाणाधिकं वस्तुदोषाय सम्पद्यते इति भावः; ‘सर्व्वमत्यन्त…र्हतम् ‘इत्यादिवचमादित्याशयः। तदेवोपवृणोति, यदिति- यत्- यतः। प्रबलानाम्- उच्छृङ्खलं प्रवहन्तीनां, भयावहानामित्यर्थः, वातावलीनां-वात्यानां, मारुतसमूहानामित्यर्थः, क्षोभेण- अभिघातेन, समन्तात्सञ्चालनेनेति यावत्, गम्भीरमन्द्रयथास्यार्त्तया, गुणगुणायमानाः,-गुणागुण इति अव्यक्त्तं भीष्मं निनादं कुर्व्वन्तः, (‘अव्यक्तानुकरणात् ‘(५। ४। ५७पा०) इति गुणशब्दात्डाचि, ‘डाचि विवक्षिते द्वे ‘(वा०) इति द्वित्वे, अगुणां गुणां कुर्व्वन्त इत्यर्थे, गुणगुणा इति स्वरूपात् ‘लोहितादि डाज्भ्यः क्यष् ‘(३। १। १३पा०) इति अभूततद्भावार्थे क्यषि गुणगुणा इति नामधातोः शानाचि सिद्धम्) ये मेघाः,-पर्योधराः तैः मेदुरः,-स्निग्धः, निविड इत्यर्थः, यः अन्धकारः,-ध्वान्तं, तेन नीरग्ध्रं-निरवकाशं यथास्यात्तथा, निरुद्धं- निबद्धम्, आवृत्तमित्यर्थः। तद्धौदानीमुत्प्रेक्ष्यते, एकेति। - एकेनवारेण- एकदैवेत्यर्थः, एकेनैव प्रयत्नेनेति यावत्, विश्वस्य- जगतः यत्ग्रसनं- ग्रासः, कवलीकरणमित्यर्थः, तस्मै तस्मिन्वाविकटः, तदर्थंविस्फारितः इत्यर्थः, (‘विकच‘इति पाठान्तरम्) विकरालः,-भयङ्करः, कालकण्ठस्य- नीलकण्ठस्य, जगत्यां हर्त्तुमुद्यतस्य महेश्वरस्येत्यर्थः, यः मुखकन्दरः,-मुखगह्नरं, (‘मुख‘इत्यत्र‘कण्ठ‘इति पाठान्तरम्) तस्मिन्विवर्त्तमानामिव- विचेष्टमानमिवनिविशमानमिवेत्यर्थः; जगत्सञ्जिहीर्षोः व्यात्तवदनस्य शङ्करस्य मुखविवरमधिशयानमिवानुभूयमानम् इति भावः। अपि चोत्प्रेक्षयते, युगन्तेति। -
युगान्ते- कल्पक्षये, प्रलये इत्यर्थः, यः योगः,-चित्तैकाग्रता, सनिद्रा इव मनसः विषयान्तरव्यावृत्तिरूपः स्वाप इव; (इत्युपमितसमासः) तदानीं ;बहिरिन्त्रियवृत्तेरूपरोधादित्याशयः; तया निरुद्धानि- निगृहीतानि, सर्वाणि द्वाराणि- विषयग्रहीपायभूतानि इन्द्रियाणि येन तादृशस्य, नारायणस्य- भगवतः विष्णोः, उदरे-कुक्षौ, निविष्टमिव- प्रविष्टमिव, महाप्रलये योगनिद्राभिभूते भगवति भावः। भूतनात्-प्राणिसमूहम्। प्रवेप्रते-कम्पते; वारुणास्त्राणां ब्रह्माण्डविनाशोद्यमदर्शनभियेति भावः। वाताविक्षुब्धमेदुरमम्बरमवलोक्यभूतनातं हि किन्नु शङ्करः पुनः जगत्संहर्त्तुमुद्यतः उतभगवतः नारायणस्य योगनिद्रासमयोऽयं समुपस्थितः इति विभावयतः नितरामुहिज ते इति समुदितवाक्यार्थः। अत्येदानीं वायव्यास्त्रसम्प्रयोगदर्शनेन समरकुशलिनं चन्द्रकेतुः प्रशंसति, साध्विति। - साधु- समीचीनमनुष्ठितमिति भावः। (हर्षातिशये द्विर्वचनम्)। स्थाने-युक्त्तम्। (‘युक्तेहेसाम्प्रतंस्थाने‘इत्यमरः)। वायव्यास्त्रं-वायुदैवतमायुधम्। ईरितं-प्रयुक्तम्; जगत्क्षयभ्युदतस्य निरसनार्थमिति भावः।
विद्याकल्पेन मरुतां मेघानां भूयसामपि।
ब्रह्मणीव विवर्तानां क्वापि विप्रलयः कृतः॥ ६॥
जगद्वाधामपनेतुमभ्यद्यतस्य चन्द्रकेतोः वायव्यास्त्रप्रयोगकौशलमुपवृणीति, दिद्यते। - विद्याकल्पेनब्रह्नज्ञानसदृशेन, ‘विद्ययाऽसृतमश्नुते ‘(ईशोपनिषत्११श्लो०) मरुताचन्द्रकेतुप्रयुक्तवायव्यास्त्रेणेत्यर्थः, अत्र मरुत्पदं समान्येवप्रयुक्तमपिलक्षणया विशेषपरत्वमवसेयम्, वायव्यास्त्रप्रवर्त्तितवायुना वा, भयसमापि बहुतराणामपि, असङ्ख्येयानामपीत्यर्थः, मेघनां वारुणास्त्रप्रवर्त्तितवायुना वा, भूयसामपि बहुतराणामपि, दोषवशात्विलक्षणाकारेण मायाकार्य्याणां प्रपञ्चानां, भ्रमभूतानां जगतामित्यर्थः, कारणात्विषमसत्ताकतया उत्पाद्यमानं कार्य्यं हिविवर्त्त‘, इति वैदान्तिकाः,
बालान्प्रतिविवर्त्तोऽयं ब्रह्नणां सकलं जगत्।
अविवर्त्तिनमानन्दमास्थिताः क्वतिनःमदा॥‘
इति (वेदान्तासिद्धान्तमुक्तावली३२२पृ०) ब्रह्मणि इव अहितीयेचिन्मयेपरमात्मानि इव, ‘यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसविशन्ति, तहि जिज्ञासस्वतद्ब्रह्म ‘इति श्रुतेः; क्वापि कुत्रापि, अलक्षितप्रदेशे इत्यर्थः; अकस्मात्सम्भूतत्या किं वृत्तमितिकैरपि अलक्ष्यमाणत्वादितिभावः; विप्रलयः ध्वंसः, कृतः सम्पादितः, अचितादेव तेषां नाशः संसाधित इत्यर्थः; यथा हि ब्रह्मैवसत्यं तद्व्यतिरिक्तञ्च सर्व्वमसत्यमित्याकारकं तत्वाज्ञानं उपनिषच्छास्त्राध्ययनेन समुदितं सत्सपद्येव घटपटादिनिश्वप्रपञ्चान्ब्रह्मणिविलाययति, ब्रह्मविद्याया ब्रह्मज्ञस्य जगत्प्रपञ्चज्ञानस्य सर्व्वथैव निराकरणात्केवलाच्च सर्व्वत्र ब्रह्ममयत्वज्ञास्यैवोपदेशात्, तथैव वायव्यास्त्रविलासस्या विर्भावेण वारुणास्त्रविलसितं त्वरितमे वदूरैभूतमभूदितिभावः। (अत्र विवर्त्तैः सहमेघानामवैधर्म्यमाम्याक्त्तेः श्रौतीउपमाऽलङ्कारःवि द्याकल्पेनेत्यार्थ्या उपमयासङ्कीर्य्यते)॥६॥
विद्याधरी। णाह को दाणिं एसो ससभमुक्वतकरब्भमिदपट्टकञ्चलो दूरदो ज्जेब महुरबअणपडिसिद्धजुज्झबाबारो एदाणं कमाराणं अन्तरम्मि बिमाणबरं ओदरावेदि ? ( ण )
नाथ क इदानीमेष ससम्भ्रमोत्क्षिप्तप्रकरभ्रमितपट्तकाञ्चलो दूरत एव मधुरवचनप्रतिषिद्धयुद्धव्यापार एतयोः कुमारयोः अन्तरे विमानवरमवतारयति ?
(ण) ससम्भ्रमेति। - ससम्भ्रमं- सत्वरम्, उत्क्षिप्तः,-ऊर्द्ध्वनीतः, यः करः,-हस्तः, तेन भ्रमितः,-विघूर्णितः, परितः सञ्चालितः इत्यर्थः, पट्टकस्य=क्षौमप्रावारकस्य अञ्चलः,-प्रान्तभागः येन तथोक्त्तः, अतिदूरदेशात्सङ्केतेन युद्धक्रियानिवारणाय कुमारयोर्दृष्ट्याकर्षणार्थं सव्यग्रमुत्क्षिप्तेनबाहुनावसनाञ्चलमूर्द्धङ्घूर्णयन् इत्यर्थः। अपिचदूरतः एव-चिप्रकृष्टदेशादेव। मधुरवचनैः,-प्रेमपूर्णाभिः हृदयग्राहिणीभिश्च वाग्भिः, प्रतिषिद्धः,-निवारितः, युद्धव्यापारः,-कुमारयोः सङ्ग्रामक्रिया येन तथाविधः; मधुरैः वचिभिरेव प्रबलसङ्ग्रामस्य प्रतिषेद्धा इति भावः। क एषः,- कोऽयं महापुरुषः। इदानीम्-अधुना। कुमारयोः,-लवचन्द्रकेत्वोः। अन्तरे-मध्यदेशे विमानवरं-पुष्पकाख्यव्योमयानश्रेष्ठम्। अवतास्यति- अवरीपयाति, स्थापयतीत्यर्थः।
विद्याध्रः। ( दृष्ट्वा ) । एष शम्बूकबधात् प्रतिनिवृत्तो रघुपतिः। ( त )-
शब्दं महापुरुषसंविहितं निशम्य तद्गौरवात् समुपसंहृतसम्प्रहारः।
शान्तो लवः ; प्रणत एव च चन्द्रकेतुः कल्याणमस्तु सुतसङ्गमनेनराज्ञः॥ ७॥
( इति निष्क्रान्तौ। विष्कम्भकः )। ( थ )
(त) शम्बूकेति। - शम्बूकस्य- तदाख्यस्य जनस्थाने तपस्यतः वृषलस्य, बघात्- विनाशात्, तद्धननं संसाध्येत्यर्थः। (‘ल्यव्लोपेकर्म्मण्यधिकणे च ‘(वा०) इति पञ्चमी) प्रतिनिवृत्तः,-प्रत्यागतः। रघुपतिः एषः,-रघुश्रेष्ठः रामभद्रः खल्वयम्।
अत्येदानीं पूज्येष्वनुरागात्प्रह्नयोः कुमारयोः युद्धविरतिमुपवर्णयन्, शुभाशंसनपुरः सरंस्वकथामुपसंहरति, शब्दमिति। - महतागुणग्रामविभूषितेनेत्यर्थः, पुरुषेण पुंसा, रामेणेत्यर्थः, संविहितं प्रयुक्तं समुच्चरितमित्यर्थः, ( सविदधातेः प्रयोगात्युवाविरमतमित्येवं निषेधकवचनं , निशस्यसमाकर्ण्य, तद्गौरवात्तस्मिन्गुरौरामेसमधिकादरात्, रामवाक्ये ममाधिकश्रद्धावशात् इत्यर्थः, समुपसंहृतः सम्यक्तया परित्यक्त्तः, सम्प्रहारः समरव्यापारः येन तथाविधः, युद्धव्यवसाय हि निवृत्तः इत्यर्थः, लवः शान्तः शममाश्रितः, चन्द्रकेतुश्च प्रणत एव प्रणामक्रियायां प्रवृत्त एव अधुना, सतसङ्गमनेन सुतयोः कुशलवयोः समागमेन, ताभ्यां सह सम्मेलनेनेत्यर्थः, राज्ञः रामस्य, कल्याणं शुभम्, अस्तु भवतु। (अत्र लवचन्द्रकेत्वोः युद्धकालिकक्रोधौद्वत्यादेः प्रशमेन रामविषयकरतिभावस्योदयात्समाहितालङ्कारः)। वसन्ततिलकं वृत्तम्॥७॥
(थ) मध्यमाभ्यां पात्राभ्यां विद्याधरजायापतीभ्यां सम्प्रयोजितत्वेनास्यविष्कम्भकस्य शुद्धत्वं ज्ञेयम्; वृत्तानां समरव्यापाराणं वर्त्तिष्यमाणानाञ्च सुतसमागमरूपाणां कथाशान्नां सङ्क्षेपतश्चात्राङ्कादावेव निर्द्दिष्टत्वात् अस्य तल्लक्षणाक्रान्तात्वम् इति, तदुक्त्तं दर्पणकृता- वृत्तवर्त्तिष्यमाणानां कथांशानां निदर्शकः। सङ्क्षिप्तार्थस्तु विष्वम्भः आदावङ्कस्य दर्शितः। मध्येनसध्यमाम्यां वा पात्राभ्यां सम्प्रयोजितः। शुद्धः स्यात्- ‘इति।
( ततः प्रविशति रामो लवः प्रणतश्चन्द्रकेतुश्च ) ।
रामः। ( पुष्पकादवतरन् )। –
दिनकरकुलचन्द्र चन्द्रकेतो सरभसमोहि दृढं परिश्वजस्व।
तुहिनशकलशीतलैस्तवाङ्गैः शममुपयातु ममापि चित्तदाहः॥ ८॥
अथवात्सल्यनिधिः भगवान्रामभद्रः पुष्पकविमानादवतीर्य्यैव पुत्रप्रतिमस्य चन्द्रकेतोः समाश्लेषेण सुचिरसौताविरहनिर्दग्घं स्वमानसं ……..ग्घोकर्त्तुमभिप्रेत्य आह, दिनकरेति। - दिनकरस्य सूर्य्यस्य, कुलं वंशः, तस्य चन्द्र इव चन्द्र सदृशः आह्लादकर इत्यर्थः, तत्सम्बोधनेः, हिमांशुः यथा सुधामयैः किरणैः प्रचण्डतापसन्तप्तानिजतन्तिसुस्निग्धानि करोति, तथात्वमपि सुचिराऽऽधिसन्तप्तस्य वैवस्वतकुलस्य सन्तर्पयिता असीति भावः; सूर्य्यवंशानन्दवर्द्धन इति फलितम्; चन्द्रकेतो सरभसंरभसेनवेगेन सह वर्त्तमानं यथा तथा, सत्वरमिति यावत्, (रभसो बेगहर्षयोः‘इति विश्वः) एहि आगच्छ, दृढं कठोरं, निर्द्दयमिति यावत्, परिष्वजस्वसमालिङ्ग, मामिति शेषः, तुहिनस्य तुषारस्य, यानि शकलानि खण्डानि, तहत्शीतलानि स्निग्धानि, सन्तापहारकाणीत्यर्थः, तैः तवाङ्गैः तव शरीरैः, चन्द्रसाम्यसुसङ्गतार्थं तुहिनशकलसखायमानत्वमङ्गानामुक्तमिति ज्ञेयम्; पुत्रिणी हि तथैव पुत्राङ्गसंश्लेषनसुखमनुभवन्तीत्याशायात्; ममापि चित्तदाहः चित्तस्य हृदयस्य, दाहः सन्तापः; सदीर्घसीताविरहकृतः इति भावः; शमं शान्तिम्, उपयातु प्राप्नोतु, साकल्येन निर्वात्वित्यर्थः, येन सीताविरहनदुःखस्य कुत्रापि शान्तिर्न लब्धा, तादृशस्य निदारुणसन्तप्तस्यापि इत्यपिकारार्थः; यद्वा- न केवलं मम त्वं चित्तदाहहारकोऽसि, अत एव ननु तदीयाङ्गसंश्पर्शेन ममसीताविरहनिबन्धनः निरातिशयः सन्तापः सर्वथैवापनीतः भविष्यतीति निगूढाशयः; यहा- अपि भिन्नक्रमे, चित्तदाहोऽपित्यन्वयः; यथा तवाङ्गसंस्पर्शेन शरीरदाहः सर्वथैव निर्वाणतामधिगच्छति, चित्तदाहोऽपि तथैव उपशाम्यतु, इत्यपिकारलभ्यपर्य्यवसितार्थः।
(अत्र शरीरमात्रसम्तापहारकउपमानभूतात्चन्द्रात् उपमेयभूतस्य चन्द्रकेतोः चित्तशरीरोभयदाहप्रशामकतया आधिक्यप्रतीतः व्यतिरेकालङ्कारः, तद्गतञ्चौपम्यमत्र समासगततया आर्यम् इति ज्ञेयम्, अपि च दिनकरस्य कुले चन्द्रोदयस्यायोगेनाहेतुकस्य तत्र तत्सम्बन्धस्योत्कीर्त्तनात्विभावनाऽलङ्कारः प्रोक्तव्यतिरेकेणाङ्गाङ्गिभावतया सस्थितेः सङ्किर्य्यते, किञ्च, ‘चन्द्रचन्द्र‘इत्यत्र मुख्यतरस्य प्रातिपदिकांशद्योत्यधार्म्मरूपस्य चन्द्रस्य अभिन्नार्थत्वात्लाटानुप्रासालङ्कारः प्रोक्त्ताभ्यामर्थालङ्काराभ्यां निरपेक्षतया संस्थितेः संसृज्यते )। पुष्पिताग्रावृत्तम्॥८॥
चन्द्रकेतुः। अभिवादये।
रामः। ( उत्थाय सस्नेहास्त्रं परिष्वज्य ) । अपि नाम कुशलं तव दिव्यास्त्रधरदेहस्य ? ( द )
चन्द्रकेतुः। कुशलमत्यद्भुतक्रियस्य प्रियदर्शनस्य लवस्य लाभाभ्युदयेन। तद्विज्ञापयामि ; मामिव अविशेषेण मत्तः शिवतरेण चक्षुषा पश्यतु अमुं महावीरप्रकाण्डं तातः। ( ध )
(द) उत्थाप्य- प्रणतं चन्द्रकेतुमुत्तोल्येत्यर्थः। सस्नेहास्नं- स्नेहजनितं-वात्सल्यातिरेकात्समुद्भूतं, यत् अस्त्रम्- अश्रु, नेत्रसलिलमित्यर्थः, तेन सह वर्त्तमानं यथास्यात्तथा; यहा-स्नेहेन सहवर्त्तमानं यत्तत्सस्नेहं, तथाभूतम् अस्त्रं यस्मिन्कर्म्मणिरदयथास्यात्तथा, वात्सल्याविर्भावविवशहृदयतया अनियतधाराभिः आनन्दजाश्रुविमोकपुरःसरमित्यर्थः। परिष्वज्य-सुदृढं समालिङ्ग्य। अपि-प्रश्ने। नाम-सम्भावनायाम्। दिव्येति। - धरतीतिधरः, (पचाद्यच्) दिव्यानि यानि अस्त्राणि, तेषां धरः,-धारकः, देहः यस्य तथोक्तस्य, अलौकिकास्तपञ्जीपशीभिशरीरस्येत्यर्थः। तव कुशलम्?-शुभं ते? इत्याशीर्वचनम्। (‘चतुर्थोचारिष्य- ‘(२। ३। ७३पा०) इति पाक्षिकषष्ठी)।
(ध) अत्यद्भुता-अलौकिको, क्रिया-युद्धव्यापारः यस्य तस्य, एकेव बालकेन अनेकैः वीरैः सह युगपतयुद्धकरणात् अतिविस्मयावहसङ्ग्रामव्यायारस्येत्यर्थः। प्रियं- प्रीतिकरं, दर्शनं-वीक्षणं यस्य तस्य, निसर्गसौम्यमूर्तेरित्यर्थः। लाभः एव प्राप्तिरेव एतेन सह समागम एवेत्यर्थः, अभ्युदयः,-सम्पततेन। कुशलं वर्त्तते ममेति शेषः; सौभाग्यवशात् अत एव। विज्ञाययामि-प्रार्थये। मत्तः अनिशेषेण-मत्तः अपृथक्तया, मदनधिकतया इत्यर्थो वा। (मत्तः इति पञ्चम्यास्यसिल्‘पञ्चमीविभक्तेः ‘(२। ३। ४२पा०) इति पञ्चमी। अविशेषेणेति ‘प्रकृत्यादिभ्यउपसङ्ख्यानम् ‘(वा०) इति तृतीया)। शिवतरेण-निरतिशयशुभेन, स्नेहप्रचुरेणेत्यर्थः।
चक्षुषा वीक्षणेन, दृष्टिपातेनेत्यर्थः। (‘मामिव अविशेषेण मत्तः शिवतरेण चक्षुषा‘) इत्यत्र ‘मामिव विशेषेण वामत्तः शिवेन चक्षुषा ‘इति पाठान्तरम्)। महावीरप्रकाण्डं- महान्तः ये वीराः तेषु प्रकाण्डं- प्रकाण्डं- प्रधानं, महावीरशिरः शेखरायमाणमित्यर्थः। (निर्द्धारे सप्तमीसमासः। यहा- प्रशस्तोमहावीरः इत्यर्थकविग्रहे महावीरप्रकाण्डं ‘प्रशंसावचनैश्च ‘(२। १। ६६पा०) इति नित्यसमासः। ननु प्रकाण्डशब्दास्य अमरमते नित्यनपुंसकत्वेन ‘अमुम् ‘इति विशेषणस्य ‘अदः ‘इत्येवमेव भवितव्यमित्युक्तम्, एवाञ्चास्यानुशासनहीनतया अत्र च्युतसंस्कारताऽऽख्यदोष इति; तथाहि अमरः,-‘मतल्लिकामचर्च्चिकाप्रकाण्डमुद्वतल्लजौ ‘इति; अत एव अन्योन्यलोङ्गेन सामानाधिकरण्येऽपि माघेनास्य स्वलिङ्गतान् परित्यक्त्ता, तथाहि- ‘ऐक्षिष्टविष्णुर्दनुजप्रकाङ्डम्‘इति चेन्न; मेदिनीकारेण तु अस्य पुंस्त्वस्यापि उद्वोधित्वात्, तथाहि- ‘प्रकाण्डोमस्त्रीविटपेमूलशाखान्तरेतरोः। शस्ते ‘इति। एवं रभसेनापि ‘अस्त्रीप्रकाण्डोमस्त्रीविटपेतरुस्कन्धप्रशस्तयोः। ‘इति। शाश्वतस्तु केवलं पुंस्त्वमेवास्याभिहितवान्तथाहि- ‘प्रकाण्डोविटपेशस्तेमूलस्कन्धान्तरेतरोः। ‘इति। अत एव भट्टिना‘विररक्षप्रकाण्डकौ‘इत्युक्त्त्वमिति दिक्। अन्ये तु अमरमतेऽपि अमुमिति पदं विशेष्यतया स्वीकृत्य महावीरप्रकाण्डञ्च निशेषणतया परिगृह्य प्रोक्तदाषोद्वार इति वदन्ति, तथाऽपि विशेषणस्य सर्वनाम्नः विशेष्यपदसन्निधाने विशेष्यविधया भाणन्नितान्तमेवासङ्गतमिति मन्यामहे।
रामः। ( लवं निरूप्य ) । दिष्ट्या अतिकल्याणाकृतिरयं वयस्यो वत्सस्य। ( न ) -त्रातुं लोकानिव परिणतः कायवानस्त्रवेदः
क्षात्रो धर्मः श्रित इव तनुं ब्रह्मको ( घो ) षस्य गुप्त्यै।
(न) अतीति। - अतिकल्याणी- अतीव शुभावहा, आकृतिः,-मूर्त्तिः यस्य सः, निरतिशयमङ्गलमूर्त्तिरित्यर्थः। बालस्य लवस्य मङ्गलमूर्त्तिमयत्वं विशिष्योपपादयति, त्रातुमिति। - लोकान्जगन्ति, चातुं रक्षितुं, कायवान्शरीरी, शरीरिरूपेणेत्यर्थः, परिणतः अवस्थान्तरं गतः, भयेभ्यः लोकान्संरक्षितुं कृतमूर्त्तिपरिग्रहः इत्यर्थः, अस्त्रवेद इव धनुर्वेद इव, धनुर्विद्यालोकसंरक्षणायैवेदानीं मूर्त्तिं परिगृह्यसमुदिता इवेत्युत्प्रेक्षा; तथा ब्रह्म एव वेद एवम्ब्रह्मण एव वा, कोषः रत्नौघः तस्य गुप्त्यैरक्षणाय ; यहा- ब्रह्म एव कोषः रत्नागारः, तस्य गुप्त्यै, वेदार्थराशिरूपरत्नौघरक्षायै, वेदरूपामूल्य
सामर्थ्यानामिव समुदयः सञ्चयो वा गुणानाम्
आविर्भूयस्थित इव जगत्पुण्यनिर्माणराशिः॥ ९॥
रत्नभाण्डाररक्षणाय वा, तनुं शरीरं, श्रितः आश्रितः, अङ्गीकृत इत्यर्थः, क्षात्रः क्षत्रियजातिसम्बन्धो, धर्म्मः इव शौर्य्यदिगुणगणः इव, वेदरूपरत्नभाण्डार्राणां ब्राह्मणानां स्नातकानां वा तदुपघातकपामरजनेभ्यः रक्षायै एव गृहीतविग्रहाक्षत्रियत्वजातिरेवायमित्युत्प्रेक्षा; तथा सामर्थ्यानां वीरधर्म्माणां विक्रमाणां, समुदयः इव राशिरिव, गुणानां दयादाक्षिण्यादीनां, सञ्चयोवसमवाय इव, वा शब्दश्रात्र इवार्थे, (‘इववत्वाययाशब्दौ‘इत्युक्तेः) तथा आविर्भूयमूर्त्तिमाश्रित्य, स्थितः विद्यमानः, मूर्त्तिमानित्यर्थः, जगतः त्रिलोक्याः पुण्यानां विधिवदनुष्ठितशुभावहकर्म्मफलभूतानां धर्म्माणां, निर्म्माणानिसृष्टयः तेषाम्, अस्य भावप्रधाननिर्द्देशात्निर्म्मितपुण्यानामित्यर्थः, कृदभिहितेती भावः द्रव्यवत्प्रकाशते इति न्यायात्; राशिरिव सङ्घात इव, ‘अयम् ‘इति चूर्णकस्थेनाभ्यान्वायः; जगज्जनैः अनुष्ठितानां शुभावहकर्म्मणां यानि पुण्यफलानि, तान्येवैकत्र सङ्घीभूय समुदित इवेत्यत्प्रेक्षा, प्रागुपातोत्प्रेक्षा चयेणास्य निरतिशयवीर्य्यशालित्वम् अप्रधृष्यत्वञ्च, अन्तिमोत्प्रिक्षाद्वयेन चगुणग्रामविभूषितत्वं धार्म्मिकत्वञ्च प्रतिपादितमिति ज्ञेयम्।
(अत्रोपमेयभूतस्य चूर्णकस्थेदं शब्दप्रतिपाद्यस्य लवस्य उपमानभूतास्त्रवेदक्षात्रधर्म्मसामर्थ्यसमुदयगुणसञ्चयपुण्यनिर्म्माणरशिरूपत्वेनसम्भावनात्पञ्चोत्प्रेक्षाऽलङ्काराः, सजातीयानाञ्चैतासां परस्परसापेक्षतया संस्थितेः सङ्करः )। मन्दाक्रान्तावृत्तम्॥९॥
लवः। अहो पुण्यानुभावदर्शनोऽयं ( प ) महापुरुषः। –
आश्वासस्नेहभक्तीनामेकमालम्बनं महत्।
प्रकृष्टस्येव धर्मस्य प्रमादो मूर्तिमञ्जरः॥ १०॥
(प) पुण्येति। - पुण्यः,-पवित्रः, अनुभावः,-तेजोविशेषः, दर्शनम्-अवलोकनञ्जयस्यसः, पवित्रतेजः पुञ्जधरस्यास्य महापुरुषस्य दर्शनेन सर्वेषामेवपुण्यं स्ञ्जायते इति भावः।
पुण्यभूर्त्तित्वमेवविशिष्य उपपादयति, आश्वासेति। - आश्वासः समाश्वासनं, वियन्नेभ्यः अभयदानमिति यावत्, स्नेहः वात्सल्यं, भाक्तिः पूज्येषु अनुरागः, तासामेकम् अहितीयम्, अप्रतिममिति यावत्, मह्त्सर्व्वतोऽधिकम्, आलम्बलम् आश्रयः, पत्रमित्यर्थः, अयं महापुरुषः इति चूर्णकेनान्वयः, अस्मिन्महापुरुषे दयावात्मणाभक्तिप्रभृतयः गुणनिचयाः पूर्णतयाविद्यन्ते इति भावः; निसर्गसौम्येनाकारेण महापुरुषाय दर्शकानामनांसि प्रीत्यार्द्राणिभत्किविनम्राणि च कुर्वन् आश्वस्तानि करोति, विपन्नानामाश्रयप्रदः आश्रितानाञ्च परिरक्षकः, गुरुजनसेवकश्वायमिति निसर्गसौभ्यमूर्त्तिरेवास्य सूचयतीति वा तात्पर्य्यम्। अतः, प्रकृष्टस्य सर्व्वोत्तमस्य, धर्म्मस्य पुण्यस्य, मूर्त्त्यशरीरेण, सञ्चरते भ्रमति यः तादृशः मूर्त्तिमानिति भावः; प्रसादः इव प्रसन्नभावः इव, अनुग्रह इव इत्युत्प्रेक्षा, स्थित इति शेषः; शरीरोप्रसन्नः प्रकृष्टः धर्म्म इवायमिति भावः; विशुद्धधर्म्मफलं वा शरीरं स्वीकृत्यैवात्र समुदितामिवेति तात्पर्य्यम्। (अत्र अमुष्य महापुरुषस्य प्रकृतस्य धर्म्मप्रसादरुपतया सम्भवनात् उत्प्रेक्षाऽलङ्कारः)॥१०॥
आश्चर्य्यम् –
विरोधो विश्रान्तः ; प्रसरति रसो निर्वृतिघन-
स्तदौद्धत्यं क्वापि व्रजति ; विनयः प्रह्वयति माम्।
झटित्यस्मिन् दृष्टे किमपि परवानस्मियदि वा
महाघस्तीर्थानामिव हि महतां कोऽप्यतिशयः॥ ११॥
अथ प्रोक्तोत्प्रेक्षितार्थेविनिगमनां प्रदर्शयितुं तत्फलं विशिष्य विवृणोति, विरोध इति। - अस्मिन्महापुरुषे, दृष्टे नयनपभमापतिति सति, झटिति सहसा, विरोधः वैरं, विद्वेषः इति यावत्, विश्रान्तः निवृत्तः, दूरीभूतः अभूदिव्यर्थः, प्रत्युत निर्वृत्या आनन्देन, घनः सान्द्रः, प्रीतिपूर्ण इति यावत्, रसः अनुरागः, प्रसरति आविर्भवति, तत्तथाविधम्। औद्धत्यगर्व्वावेशजनितं चापल्यं, क्वापिकुत्रापि, व्रजति गच्छति, प्रलीयते इत्यर्थः, विनयः प्रश्रयः, विनीतत्वमित्यर्थः, गुरुजनसन्निधौस्वाप्रकर्षविधायिकानमतति यावत्, मां प्रह्वयति अवनमयति; मां भक्त्तिविनम्रभूर्त्तिङ्करोतीति भावः, तेन हि, किमपि कुताऽपि कारणात्, आनिर्वचनीय इति वा, परवान्पराघीनः, अस्मि भवामि; महात्मानममुं दृष्टा अनिर्देश्य कारणेनाहमिदानीं नात्मनि प्रभवामि इति भावः; यदि वा अथवा तीर्थानामिव पुण्यक्षेत्राणामिव, महता महानुभावानां, कोऽपि अनिर्व्वचनीयस्वरूपः, महार्घः बहुमूल्यः, सामान्यजनैरुपलब्धुमशक्य इत्यर्थः, महनीयः इति यावत्, अतिशयः उत्कर्षः, महिसातिरेक इति यावत्, हि खलु; अलौकिकमहिमां महीयसामहत्त्वातिरेकः मादृशाम् अनिर्व्वचनीयः एव, यद्वशात्विरोधिनामपिविरोधभावः शममुपैति, प्रत्युत तानन्तरा च शान्तिरसः प्रवाहः प्रवहति इति भावः। (अत्र महापुरुषस्य रामस्य महत्त्वप्रतिपादने एकस्मिन्विरोधोपशमरुपे कारणे सत्यपिनिर्वृतिघनरसप्रसारादीनां हेत्वन्तराणामुपादानात्समुच्चयालङ्कारः, तथा तीर्थानामवैधर्म्यसाग्याक्तेरुपसाऽलङ्कारः, किञ्च महापुरुषमहिमातिशयरूपेण सामान्येनार्थेन विरोधोपशमादिरूपस्य विशेषार्थस्य सोपपत्तिकत्वकरणादर्थान्तरन्यासालङ्कारश्च, एतेषाञ्च त्रयाणामन्योऽन्याङ्गाङ्गिभावतयासंस्थितेःसङ्करः)। शिखरिणीवृत्तम्॥११॥
रामः। तत् किमेकपद एव दुःखविश्रमां ददाति उपस्नेहयति च कुतोऽपि निमित्तदन्तरात्मानम् ; अथवा स्नेहश्च निमित्तसव्यपेक्षः इति विप्रतिषिद्धमेतत्। ( फ) –
व्यतिषजति पदार्थानान्तरः कोऽपि हेतुः
न खलु वहिरुपाधीन् प्रीतयः संश्रयन्ते।
विकसति हि पतङ्गस्योदये पुण्डरीकं
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः॥ १२॥
(फ) तदिति। - तत्- एतदित्यर्थः। किं- कथम्? एकपद एव- सद्य एव- सद्य एव, दर्शनसमकालमेवेति यावत्। (‘तत्क्षणैकपदेतुल्येसद्यःसपदिचस्मृते। ‘इतिहलायुधः) दुःखानां- सीताविरहजनितानां शोकमन्ततीनां, विश्रामम्- उपशमम्। ददाति- अर्पयाति, मह्यमितिशेषः; सपद्येवममसाकल्येनदुःखोपघातं विदधातीति भावः। तथा, कुतोऽपि अविज्ञातात्, निर्व्वक्त्तुमशक्यादित्यर्थः। निमित्तात्- कारणात्। अन्तरात्मानम्- अन्तःकरणं, मानसमित्यर्थः, ममेति शेषः। उपस्नेहयति- आर्द्रं करोति, वात्सल्यवशं विदधातीत्यर्थः, बालोऽयमिति शेषः। अत्र यत् इति पदमध्याहार्य्यम्; तेन च, दुःखविश्रामं ददाति, अन्तरात्मानमुपस्नेहयति च इति यत्तदेतत्कथमित्यर्थः॥
अथस्नेहः अनिज्ञातकारणादपि जायते इति पक्षान्तरमाह, अथवेति। - अथवा- पक्षान्तरे। स्नेहश्च- प्रणयः अपि, चकारः समुच्चये। व्यपेक्षया-अपेक्षया, सम्बन्धेनेति यावत्, सहवर्त्तते यः सः सव्यपेक्षः- ससम्बन्धः, निमित्तेन- कारणेन, सव्यपेक्षः,-ससम्बन्धः, कारणमापेक्ष इत्यर्थः. नह्ययम्। (कारणनिरपेक्षइतियावत्; कुतश्चित्कारणदेव कस्यचित्कस्मिश्चित्स्नेहः सञ्जायते इति भावः। इति- एतद्वचनम्। विप्रतिषिद्धं- तुल्यबलविरुद्धम्, पक्षद्वयं समानमिति यावत्; कस्यचित्जनस्य कस्मिंश्चित्जनेस्नेहप्रवृत्तिरहेतुकैवदृश्यते, साहितत्रकिमपिवाक्यं निमितान्तरं नापेक्षते इत्याशयः।
स्नेहस्य वा ह्यकारणानपेक्षित्वम अर्थान्तरन्यासेन सोपपत्तिकं करोति, व्यतिषजतीति। - आन्तरः अन्तर्वर्त्ती, कोऽपि अविज्ञातः, अनिर्वाच्य इत्यर्थः हेतुः कारणं किमपि अवाह्यं निमित्तमित्यर्थः पदार्थान्वस्तूनि, व्यातिषजति स्नेहसूत्रेणं परस्परं निबन्धाति, प्रीतयः स्नेहाः, वहिरूपाधीनवाह्यधर्म्मान्, जन्यजनकभावदाम्पत्यादीन्सम्बन्धानित्यर्थः, न खलु नैव हि, संश्रयन्ते अवलम्बन्ते, वाह्यधर्म्मानाश्रित्य नैव प्रवर्त्तन्ते स्नेहा इति भावः। एतदेव समर्थयत, विकसतीति। - हि यतः, पुण्डरीकं पद्मं, पतङ्गस्य सूर्य्यस्य (‘पतङ्गौपक्षिसूर्य्यौच‘इत्यमरः) उदये आविर्भावे, प्रकाशतीत्यर्थः, विकसति प्रस्फुटति, चन्द्रकान्तश्च तदाख्यमणिविशेषोऽपि, हिमरश्म औतुहिनकिरणे, चन्द्रे इत्यर्थः, उद्गते उदिते सति, द्रवति निष्यन्दते, जललवं विमुञ्चतीत्यर्थः; यथा हि निखिलजगत्तायकृत्तपनोदयसमकालमेवपरमकोमलवपूंषि अपि पद्मानि हसन्ति, चन्द्रोदयमात्रत एव अतिकठिनश्चन्द्रकान्तमणिः अपि द्रवीभवति, तत्र किमपिवाह्यं कारणं नावलोक्यते, आन्तरञ्चकिञ्चिदस्तीति अनुमीयते, तथा ममापि वहिः सम्पर्के असत्त्वेऽपि कुमारलवावलोकन मात्रतः चित्तद्रवीभवने किमपि अव्यक्तमान्तरं निमित्तमस्तीति सन्देह्मि इति भावः।
(अत्र पद्मद्रवीकाशचन्द्रकान्तदवीभावरूपविशेषार्थद्वयेन आन्तरपदार्थव्यतिषङ्गभावरूपसामान्यार्थस्य सोपपत्तिकत्वकरणात् अर्थान्तरन्यासावलङ्कारौ, तयोरन्योऽन्यसायेक्षतया संस्थितेः सजातीयसङ्करः)। मालिनीवृत्तम्॥१२॥
लवः। चन्द्रकेतो क एते ? ( ब )
चन्द्रकेतुः। प्रियवयस्य ननु तातपादा एते। ( भ )
लवः। ममापि तर्हि धर्मतस्तथैव ; यतः प्रियवयस्य इत्यात्थ ; किन्तु चत्वारः खलु भवतामेवंव्यपदेशभागिनः तत्रभवन्तो रामायनकथापुरुषाः ; तद्विशेषं ब्रूहि। ( म )
(ब) के एते- किमाख्योऽयं महापुरुष इत्यर्थः। (गौरवातिबहुत्वम्)।
(भ) तातपादाः,-पूज्यतमाः ज्येष्ठपितरः इत्यर्थः ; पादशब्दः पूज्यतमत्वातिशय्यव्यञ्जकः। (अत्रापि बहुत्वं गौरवात्)।
(म) तर्हि- तदा, तव पितृस्थानीयत्वे इत्यर्थः। ममापि- न केवलं तव इत्यपिशब्दार्थः। धर्म्मतः,-धर्म्मेण, लोकाचारानुसारेणेत्यर्थः। (‘धर्म्माःपुण्ययमन्यायस्वभावाचारसोमप। ‘इत्यमरः। ‘प्रकृत्यादिभ्य उपसङ्ख्यानम् ‘(वा०) इति तृतीया ,वतस्तसिल्)। तथैव- तातपादा एवेत्यर्थः। यतः- यस्मात्कारणात्। प्रियवयस्य इति- प्रियसख इत्येवम्। आत्थ- ब्रवीषि, मामिति शेषः; भवता सह सौहार्द्दात्भवत्सम्बन्धीयाः सर्वे एवेदानीं मत्सम्बद्वाः मञ्जाताः इति भावः। भवतां- युष्माकम्। एवम्- इत्यं, व्यपदेशं- समाख्यां, तातपादरूपमित्यर्थः, भजन्ते- आश्रयन्ति ये तथोक्त्ताः, (भजतः‘सम्पृचानु- ‘(३। १। १४२पा०) इति घिनुण्) तातपादपदवाच्या इत्यर्थः। ते च भवन्तः,-पूज्याः। (‘त्रिषुतत्रभवानचभवान्पूज्यश्चतादृशः। ‘इति कोषः) रामायणस्य कथा- इति वृत्तभागः, तस्याः पुरुषाः,-नायकाः। तत्- तस्मात्, तेषां चतुष्टयत्वादित्यर्थः। विशेषम्- इतरव्यावर्त्तक, नामधेयमित्यर्थः। ब्रूहि- कथय; रामायणकथासु चत्वारः एव भवतां तातपादाः महापुरुषाः श्रूयन्ते तेन हि तेषु कतमोऽयं भवतीति सविशेषं कथयेति भावः।
चन्द्रकेतुः। ननु ज्येष्ठतातपादा इति अवेहि । ( य )
लवः। ( सोल्लासम् )। कथं रघुनाथ एषः दिष्ट्या सुप्रभातमद्य ; यदयं देवो दृष्टः। ( सविनयकौतुकं निर्वर्ण्य ) । तात प्राचेतसान्तेवासी लवोऽभिवादयते। ( र )
रामः। ( सस्नेहम् ) । आयुश्मन् एह्येहि ( सस्नेहं परिष्वज्य ) । अयि वत्स कृतं कृतमतिविनयेन ; अनेकवारमपरिश्लथं परिष्वजस्व। ( ल )-
(य) ननु- भोलव। ज्येष्ठतातपादाः,-ज्येष्ठपितरः, भगवान्रामभद्रः इत्यर्थः। इति- इदम्। अयेहि- जानीहि।
(र) सोल्लासं- सहर्षम्, आहेतिशेषः। सुप्रभातं- शोभनं दिनमुखं, समुदितमिति शेषः। यत्- यस्मात्, सौभाग्येनपुण्यदिवससमुदयादिति यावत्। देवः,-भगवान्रघुपतिः। दृष्टः,-नयनथमायातः। सविनयकौतुकं- सप्रश्रयं सकौतूहलञ्चेत्यर्थः। निर्वर्ण्य निरीक्ष्य। प्राचेतसान्तेवासी- वाल्मीकिशिष्यः। अभिवादयते- प्रणमति, भवन्तमिति शेषः।
(ल) सस्नेहं- मवात्सल्यम्, आहेति शेषः। आयुष्मन् -दीर्घजीविन् अयि- कोमलसम्बोधने। वत्स -निरतिशयकल्याणस्पद। अतिविनयेन- अत्यधिकप्रश्रयप्रदर्शनेन। कृतम्- अलम्, (‘कृतंयुगेऽलमर्थेऽपिविहितेहिंसतेत्रिषु। ‘इति मेदिनी) अतिविनयेन साध्यं नास्तीत्यर्थः। (गम्यमानाक्रियायोगात्करणेतृतीया, अन्येतुवारणार्थकशब्द योगात्तृतीया इत्याहुः। सम्भ्रमे द्विर्व्वचनम्) अनेकवारं भृशं, पुनःपुनरित्यर्थः। अपरि….थ- सदृढम्, अशिथिलमिति यावत्। परिष्वजस्व- आलिङ्ग; सीताविरहजतापीपशमाय ते सुकोमलाङ्गैःमानिर्द्दयमाश्लिष्य इति भावः।
परिणतकठोरपुष्करगर्भच्छदपीनमसृणसुकुमारः।
नन्दयतिचन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः॥ १३॥
सुकुमराङ्गसश्लेषस्य निरतिशासन्तापहरत्वं प्रतिपादयति, परिणतेति। - परिणतमुविकसितं, कठोरं प्राप्तपूर्णावस्थं, सर्वाङ्गसम्पूर्णमिति यावत्, यत्पुष्करं पद्मं, तस्यगर्भच्छद इव अभ्यन्तरगतं दलमिव, पीनः स्थूलः, कोमल इत्यर्थः, मसृणाः श्लक्ष्णः, सुकुमारः अभिनवः, प्रफुल्लकमलप्रतूनान्तर्गतपलाशासदृशसुकोमल इत्यर्थः, (‘उपमानानिसामान्यवचनैः ‘(२। १। ५५पा०) इति उपमानसमासः) चन्द्रः हिमकरः, चन्द्रनस्य च निष्यन्दः द्रव इत्यर्थः; यहा- चन्द्रः कर्परः, चन्द्रनस्य चरसः, तहत्जडः शीतलः, तवस्पर्शः त्वच्छरीरम्पर्शः, त्वदङ्गसंश्लेषजं सुखमिति यावत्, नन्दयति प्रीणयति, मामिति शेषः; मम विरहतापोपशान्तये हितवनिरवद्यं कोमलमेतदङ्गं सर्व्वथैव प्रभवति, तेन निर्भरं मामालिङ्गेति प्रार्थये इत्याशयः। (अत्र समासगतत्वेन आर्थी उपमाऽलङ्कारः)। आर्य्याजातिः॥१३॥
लवः। ( स्वगतम् ) ईदृशोऽस्मादृशान् प्रति अमीषामकारणस्नेहः ; मया पुनरेभ्य एव अभिद्रुग्धमज्ञेन ; यदायुधपरिग्रहं यावत् अत्यारूढो दुर्योगः। ( प्रकाशम् ) । मृष्यन्तु इदानीं लवस्य बालिशतां तातपादाः। ( व )
(व) ईदृशः एतादृशाः, अनिर्व्वचनीय इत्यर्थः। अस्मादृशान्प्रति- मां प्रति इति यावत्। अमौषां- रघुपतिप्रमुखाणामेषाम्। अकारणस्नेहः,-ओतुकवात्सल्यम्; सम्बन्धवीरहितेऽपि मयि एतं महापुरुषाः निरतिशयं स्निह्यन्ति, अहो महानुभवत्वमेतषामिति भावः। अज्ञेन- अतिमूढेन। एभ्यः एव- एतादृशेभ्यः दयावात्मल्यनिधिभ्यः एवेति यावत्। (‘कधद्रहोरूपदृष्टयोःकर्म्म ‘(१। ४। ३८पा०) इत्यनुशासनेन सोपसर्गयोः क्रुधद्रुहोः यं प्रतिकोपस्तत्कारकस्य कर्म्मसञ्ज्ञत्वनिधानात्, अत्र ददुल्लङ्घनेन च्युतसंस्कारताऽऽख्यदोषः। यदि हि उपसर्गत्वं नाङ्गीक्रियते, (‘वीप्साया- वृक्षं वृक्षं प्रति पर्य्येनु वा सिञ्चति; अत्रोपसर्गत्वाभावान्न षत्वम् ‘इति दीक्षितोक्ति चत्, तदाद्रुहेरूपदृष्टत्वाभावेन‘क्रुधद्रुहेर्ष्या- ‘(१। ४। ३७पा०) इति चतुर्थीस्यात्। तथा च न प्रोक्त्तदोषावसर इति ज्ञेयम्। अन्ये तु‘क्रिया- ‘(२। ३। १४पा०) इति चतुर्थीमाहुः, तत्तु न सम्यक्, प्रोक्त्तकम्मेत्वाविधानस्यापवादविषयत्वेन बलीयस्त्वादिति)। अभिद्रुग्धं- वैरायितं जिघांसितमित्यर्थः; स्नेहप्रवणेषु महावुमवेष्वेतेषु निरर्थकं विरोधित्वमनुष्ठितमिति भावः। (अभिपूर्व्वकात्द्रह्यतेः भावे क्त्तः)। यत्- यतः। आयुधस्य- अस्त्रस्य, परिग्रहः,-स्वीकारः, ग्रहणामित्यर्थः, तं, यावत्- अस्त्रग्रहणमारभ्येत्यर्थः।
(अत्र यावच्छब्दयोगात्द्वितीया। ‘यावत्तावच्चसाङ्कल्यऽवधौमानेऽवधारणे। ‘इत्यमरः) अत्यारूढः,-प्रकर्षङ्गतः, प्रच्चलीभूतः इत्यर्थः, दुर्य्योगः,-विवादः, द्रोहः इति यावत्। मृष्यन्तु-क्षाम्यन्तु। बालिशता- मूखताम्, अविमृष्यकारितामिति यावत्। तातपादाः,-पितरः, पूज्यतमाः भवन्त इत्यर्थः; पितृस्थानीयेषु पितृषु वा भवत्सु मोहात्मयाजिघासुनाय अतीव विगर्हितं वैरमनुष्ठितं, तत्भवद्भिः महानुभावैः स्वकारुण्यगुणे न क्षन्तव्यमिति भावः।
रामः। किमपराद्धं वत्सेन ?
चन्द्रकेतुः। अश्वानुयात्रिकेभ्यः तातप्रतापाविष्करणमुपश्रुत्य वीरयितमनेन। ( श )
रामः। ननु अयमलङ्कारः क्षत्रस्य। ( ष ) –
(श) अश्वेत। - अश्वस्य- अश्वमेधीयस्य वाजिनः, अनुयात्रिकाः,-अनुचराः, रक्षका इत्यर्थः, तभ्यः। (अनुपश्चात्, यात्रायानं, प्रयोजनमेषामित्यर्थः, ‘प्रयोजनम् ‘(५। १। १०९पा०) इति ठञ्। अपादाने पञ्चमी। अपरेत- ‘श्रुत्यर्थानांश्रावयिता‘इति पञ्चमी इत्याहुः) तातस्य- पितृस्थानीयस्य भवतः, प्रतापस्य- प्रभावस्य, आविष्करणं- प्रख्यापणं, समन्ताद…षणमिति यावत्। उपश्रुत्य- आकर्ण्य। वीरायितं- वीरेणेवाचरितम्; वीराय परगुणप्रकार्षं विसीदमशक्नुवन्तः स्वस्य ततोऽधिकगुणवत्तामावेदयितुं तद्गुणोपघातका भवन्ति, तथैवासावपिभवतोवौरत्वख्यातिं श्रोतुमपारयन्नवविग्रनव्यापारेण तथा चान्तरायः सञ्जातः इति भावः। (वीरशब्दादाचारार्थे‘कर्त्तुःक्यङ्सलोपश्च ‘(३। १। ११पा०) इति क्यङि भावे क्तः)।
(ष) ननु- अवधारणे। अयमलङ्कारः,-इदं वीरत्वप्रकटनभूषणमेव, न तु दूषणमिति भावः। क्षत्रस्य-क्षत्रियजातेरित्यर्थः; पौरुषाविष्करणां हि क्षत्त्रियजातेः न दोषायकमिति भावः। ब्रह्मचारिणि लवे मौर्व्वमेखलादिदर्शनात्क्षत्तियत्वमवधार्य्यैवमुक्त्तमिति ज्ञेयम्।
न तेजस्तेजस्वी प्रसृतमपरेषां प्रसहने
स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः।
मयूखैरश्रान्तं तपति यदि देवो दिनकरः
किमाग्नेयग्रावा निकृत इव तेजांसि वपति॥ १४॥
तेजस्विनामन्यतेजोऽसहमानत्वं प्रशस्य तस्य स्वाभाविकत्वमेवैतदित्युपपादयति, नेति। - तेजस्वीवीरः, अपरेषां, प्रसृतं समन्तादभिव्याप्तं, प्रदीप्तमित्यर्थः, मर्व्वतोविसारितया सर्वेषामेवाभिमवितृ इति यावत्, तेजः प्रभावं, न प्रसहते न मर्षयति, न क्षमते इत्यर्थः; प्रत्युत तदभिभवितुमेव उदयुङ्क्ते इत्याशयः। किं तर्हि स अन्यविद्वेष्टा? तन्नेत्याह, स इति। - सः असहनमित्यर्थः, (विधेयप्राघान्यात्पुंस्त्वम्) तस्य तेजास्विनः, प्रकृतिनियतत्वात्स्वभावेन नियन्त्रितत्वात्, निसर्गसिद्धत्वादिति यावत्; स्वभावबलादेव सञ्जायमानत्वादिति भावः; अक्वतकः अक्वञ्जिमः , अविकृत इति यावत् ; स्वः स्वकीयः भावः धर्म्मः; नह्ययमीर्ष्यया असूयया वा परेषां तेजसामुप्ररोद्वेति भावः। एतदेवसयुक्तिकं सोपपत्तीकरोति, मयूखैरति। - देवः द्युतिमान्, दिनकरः दिवाकरः, मूर्य्य इत्यर्थः, यदि चेत्, मयूखैः किरणैः, अश्रन्तम् अविश्रमम्, अविरतमिति यावत्, तपति सन्तापं ददाति, जगत्तापकरान्किरणान्समन्तात्विकिरति इत्यर्थः, तर्हीति शेषः, आग्नेयग्रावावह्युत्पादकशिलाविशेषः, सूर्य्यकान्तमणिरिति यावत्, निकृत इव परिभूत इव; जगदुत्तापकरणावसरे आग्नेयग्राव्णामपिसन्तापकत्वादित्याशयः; तेजांसि अग्नीन्, किं कथं, वसति? उद्गिरति?, विसृजतीत्यर्थः; नह्ययं सूर्य्यकान्तमणिः सूर्य्यतेजोभिरभितप्यमान एव वह्निज्वालान्विसुञ्जति, किन्तुस्वभावादेव तस्मात्वह्निराविर्भवति इति भावः; सूर्य्यसम्पर्केण वह्निज्ज्वलनं सूर्य्यकान्तमणेः प्रसिद्धमेव। अचेतनः मणिरपियदिसूर्य्यप्रभावमसहमानः तत्तेजः पराभवितुं स्वस्मात्वह्निशिखाः समन्तात्विस्तारयति, यदाकाकथाअभिमानधनानांसचेतनानान्तेजस्विनाम्? इति विशदार्थः।
(अत्र सामान्येनापात्तस्य तेजस्विनः परतेजः सहनाभावसविशेषेणाग्नेयग्राव्णाः तेजोवमनेन सोपपत्तिकीकरणात्विशेषेणसामान्यसमर्थनरूपोऽर्थान्तरन्यासालङ्कारः, अपि च निकृतनेति सम्म्भावनयोत्कीर्त्तनात्जायमानयाक्रियोत्प्रेक्षयाचासौसङ्कीर्य्यते। भ्रमतेरिह गौणार्थेप्रयोगात्नग्राम्यत्वदोषः, तथाहि दण्डो,-निष्ट्यूतीद्गीर्णवान्तादिगौणवृत्तिव्यपाश्रयम्। अतिसुन्दरमन्यत्रग्राम्यकक्षां विगाहते॥‘इति)॥१४॥
चन्द्रकेतुः। तातः अमर्षोऽप्यस्य शोभते वीरस्य ; पश्यतु हि तातः प्रियवयस्य विनियुक्तजृम्भकास्त्रनिष्कम्पस्तम्भितानि सर्वतः सैन्यानि। ( स )
रामः। ( विलोक्य ) वत्स लव संह्रियन्तामस्त्राणि । त्वमपि चन्द्रकेतो निर्व्यापारविलक्षितानि सान्त्वय बलानि। ( ह )
लवः। यथा आज्ञापयति तातः।
( इति प्रणिधानं नाटयति )। ( क )
चन्दर्केतुः। यथाऽऽदिष्टम्। ( इति निष्क्रान्तः )।
लवः। प्रशान्तमस्त्रम्।
(स) ततिति। - तात-पितः पितृस्थानीय इत्यर्थः, पूज्यतम इति यावत्। अस्य वीरस्य- अमुष्य सूरस्य लवस्य। अमर्षेऽपि- अक्षमाऽपि, परोत्कर्षासहिष्णुत्वमपीति यावत्। शोभते- भाति, युज्यते इत्यर्थः। प्रियवयस्येन- प्रियसहृदालवेन, विनियुक्त्तं- निक्षिप्तं, प्रेरितमिति यावत्, यत्जृम्भकास्त्रं- तदाख्यं ब्रह्मादीनां तपः प्रभावसम्भऊतमायुधं, तेन निष्कम्पे- निश्चलं यथा तथा, स्तम्भितानि- जडीकृतानि, स्तम्भवन्निर्व्यापारीकृतानि इत्यर्थः। सर्व्वतः,-समन्तात्। सैन्यानि- बलानि; महाप्रभावस्यास्य लवस्य जृम्भकास्त्रप्रभावेणसम्मोहितानि अस्मद्बलानिसमन्तात्चित्रार्पितारम्भाणीवावतिष्ठन्ते, अतो निरतिशयवीर्य्यस्यास्यामर्षोऽपि स्थाने एवेति भावः।
(ह) संह्रियन्तां- संयम्यन्ताम्, उपसङ्गृह्यन्तामित्यथेः, प्रयुक्तान्यप्येतानिजृम्भकास्ताणिसमन्त्रकाणिसपदिसमाकृष्यन्तामिति यावत्। निर्व्यापारविलक्षितानि- व्यापारस्याभावः निर्व्य्यापारम् (इत्यव्ययोभावः) तेन हेतुना विलक्षितानि- विस्मयान्वितानि, (‘विलक्षोविस्मयान्विते‘इत्यमरः) निश्चेष्टमवस्थिततया समधिकं विलज्जितानीत्यर्थः, बालस्यैकस्य सकाशेतदुपमरुत्मूनाम् असङ्ख्येयानां स्वपक्षीययो…णांस्तम्भवदवस्थानस्य अतीवलज्जाजनकत्वादिति भावः। सान्त्वय- मधुरवाग्भिः समाश्वासय।
(क) प्रणिधानं- चित्तैकाग्रताम् ;उपसंहारकारकेण रहस्येन जृम्भकास्त्राणामुपरीचायेति भावः। नाटयति- अभिनयेन प्रदर्शयति।
रामः। वत्स सरहस्यप्रयोगसंहरणानि अस्त्राणि आम्नायवन्ति। ( ख ) –
ब्रह्मादयो ब्रह्महिताय तप्त्वा परः सहस्राः शरदस्तपांसि।
एतान्यपश्यन् गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि॥ १५॥
अथैतन्मन्त्रपारायणोपनिषदम्भगवान् कृशाश्वः परःसहस्रपरिवत्सरान्तेवासिने कौशिकाय विश्वामित्राय प्रोवाच ; स तु भगवान् मह्यमित्येष तु पूर्वानुक्रमः। कुमारस्य पुनः कुतः सम्प्रदाय इति पृच्छामि। ( ग ) (ख) सघस्यप्रयोगसंहरणानि- सरहस्ये- समन्त्रके, प्रयोगसंहरणे- निक्षेपप्रशमने येषां तानि;येषां हि अस्त्राणां विमोकः संहारश्च केवलं मन्त्रेणैव साध्यते, तानि इति भावः। अस्त्राणि- जृम्भकादीनि आयुधानि। आम्नायवन्ति- सम्प्रदायागतानि, गुरुपरम्यरोपदेशासापेक्षाणि इत्यर्थः, भवन्तीति शेषः; सम्प्रदायसिद्धतया गुरुपदेशं विना दुर्ल्लभानीति भावः। (‘अथाम्नायःसम्प्रदायः‘इत्यमरः) अथैतेषां जृम्भकास्त्राणां गुरुपरम्पराभ्यः समधिगमं सविशेषमुपदर्णयितुं प्राक्तेषां ब्रह्मादि ब्रह्मर्षिगणतपस्तेजोमयत्वमाह, ब्रह्मेति। - श्लोकश्चैष प्रथमाङ्के ४२ पृष्ठे व्याख्यातः॥१५॥
(ग) कीदृशी हि एतेषां जम्भकाणां गुरुपरम्परासंस्थितिरासीत्, तदेवेदानीं विवृणोति, अथेत्यादिना। - एतेषां मन्त्राणां- जृम्भकास्त्रप्रयोगसंहारसाधकानामित्यर्थः, पारस्य- अन्तस्य, यत् अयनं- गमनं, समग्रास्त्राभ्यासजनितं ज्ञानमित्यर्थः, तद्रूपाया उपनिषत्- गृह्यविद्यातां, जृम्भकास्त्रप्रयोगसंहारकुशलसमग्रविद्यामिति यावत्। कृशाश्चः,-कौशिकपितामहः। परः सहस्रेति। - सहस्रात्परेइति परः सहस्राः( ‘‘पारस्करप्रभृतीनि- ‘ ‘(६। १। १५७पा०) इतिससुट्कः समासः निपात्यते) दशशतसंवत्सरापदप्यधिकाः इत्यर्थः, ये परिवत्सराः,-हायिनाः तान्व्याप्य अन्तेवासिने शिष्यभूतिय, ( ‘‘अत्यन्तसंयोगेच ‘ ‘(२। १। २… पा०) इति द्वितीयासमासः) सहस्राधिकमपिवत्सारान्व्याप्यगुरुशुश्रूषारतायेति भावः। कौशिकाय- कुशिकनन्दनाय। प्रोवाच- उपदिदेश, उपदेशेनददौ इत्यर्थः। पूर्वेषां,-पूर्व्वतनानाम्, आदिमानामुपाध्यायानामित्यर्थः, अनुक्रमः,-पर्य्यायः, अस्तीतिशेषः; एवं हि एतदश्त्रोपदेशकगुरुपरम्परास्थितिः इति भावः। कुमारस्य- शिशोस्तवेति यावत्। कुतः,-कस्मात् आचार्य्यादित्यर्थः। सम्प्रदायः.-पारम्पर्य्योपदेशः, आयातः इति शेषः ;कीदृशी हि भवतां जृम्भकास्त्रोपदेशकगुरुकुलस्थितिरिति भावः। इति पृच्छामि- एतत्तु जिज्ञासे; मत्तः भवतां किञ्चित्गुरुकुलवैषम्यमस्ति नवैति तत्त्वतः ज्ञातुमिच्छामि इति विशदार्थः।
लवः। स्वतः प्रकाशानि ( घ ) आवयोरस्त्राणि।
रामः। ( विचिन्त्य ) प्रकृष्टपुण्यपरिपाकोपादानः कोऽपि महिमा स्यात् ; द्विवचनन्तु कथम् ? ( ङ )
लवः। भातरौ आवां यमजौ। ( च )
रामः। स तर्हि द्वितीयः कः ? ( छ )
(घ) स्वतः प्रकाशानि- स्वतः,-स्वेनैव, उपदेशमन्तरेणैवेति यावत्, प्रकाशः,-आविर्भावः येषां तानि; निसर्गसिद्धानिति भावः।
(ङ) प्रकृष्टेति। - प्रकृष्टं- प्रकर्षङ्गतं, सर्व्वातिशायीत्यर्थः, यत्पुण्यं- शुभादृष्ट, तस्ययः परिपाकः,-परिणामः, स एव उपादानं- निमित्तं यस्य सः, पुण्यप्रचयप्रकर्षवशादेवसमुत्पद्यमान इत्यर्थः। कोऽपि अनिर्व्वचनीयः एवेति भावः। महिमा- महात्म्यम्। स्यात्- भवेत्; अपरिज्ञातपुण्यातिरेकप्रभाववशेन एतज्जृम्भकास्त्रलाभरूपाभ्युदयोऽपि भवितुमर्हतीति भावः। द्विवचनम्- ‘‘आवयोः ‘‘इति द्विवचनप्रयोगः इति यावत्। कथं?-केन हेतुना कृतासित्यर्थः;एकस्मिन्नेव परिदृश्यमाने त्वयि कथं द्विवचनमनुप्रयुज्यते इति भावः; तर्हि भवतोऽपि अन्यःकश्चिदेतादृशः अस्ति किमु? इत्याशङ्कितोऽर्थः।
(च) यमनौ- यमौभूत्वा जातौ युगपदेव मातुः द्वौसम्भूतावित्यर्थः ;एतेन ममापरः एकः सहोदरः अस्तीति विज्ञापितमित्यवघेयम्।
(छ) तर्हि- तदा। द्वितीयः,-अपरः, भवतः अन्यः इत्यर्थः। क्व?-कुत्र? आस्ते इति शेषः; यदि भवन्तौ द्वौ भ्रातरौ, तदा अपरश्वेदानीं कुत्र वर्त्तते? इति चूर्णकतात्पर्य्यम्।
( नेपथ्ये )। भाण्डायन भाण्डायन ( ज ) –
आयुष्मतः खलु लवस्य नरेन्द्रसैन्यै-
रायोधनं ननु किमात्थ सखे तथेति।
अद्यास्तमेतु भुवनेष्वधिराजशब्दः
क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु॥ १६॥
(ज) भाण्डायन-भगवत्प्राचतसशिष्यस्य कस्य चित्सुनिकुमारविशेषस्य आमन्त्रणमिदम्। (सम्भ्रमे द्विर्भावः) अधस्तान्न्यस्तेन श्लोकेन सहास्यान्वयः।
भगवद्भरताश्रमं रामायणकथाभागं नीत्वा ततः प्रत्यावर्त्तमानः कुमारः कुशः पथिलवकृतरघुकुलविरोधमाकर्णयन्स्वस्य वीर्य्यातिशयवत्तयापरेषां वीर्य्यातिरेकमसहिष्णुः स्वकीयाप्रोद्धतक्षत्तकुलोपक्षयेप्साव्यक्तीकरोति, आयुष्मत इति। - आयुष्मतः दीर्घजीविनः, अमुष्य कनीयस्तयावात्सल्येन तथात्वोक्त्तिरिति ज्ञेयम्; लवस्य तदाख्यस्य स्वानुजस्य, नरेन्द्रसैन्यैः नरपतैः रामस्य सैनिकैः सहेत्यर्थः, आयोधवं युद्धं, प्रवृत्तमिति शेषः, किल इति वार्त्तायाम्; तथाव- नरपतिसैन्यै सह दीर्घायुषो लवस्य युद्धवार्तायां परम्परा शृणोमि, तत्तथ्यं किम्? इति भाण्डायनं प्रतिनेपथ्ये कुशस्य प्रश्न्ः; ननु भोः सखे मित्र भाण्डायन इति यावत्, किमात्थ? किं ब्रवीषि? तथेति? यत्त्वयाश्रुतं, तत्सन्यमेव, इति ब्रवीषि किम्? इत्यर्थः; ‘‘तथा ‘‘इति नेपथ्यस्थितेन भाण्डायनेनोक्तस्य प्रतिध्वनिरूपेणकुशस्यैव पुनरुक्तिरियमिति बोध्यम्; यहा- तथाकिलतहदेव हि, स्त्यमेवेत्यर्थः; किलेति निश्चये, इति इत्थम्, एवम्प्रकारमिति यावत्, किमात्थ? ब्रवीषि किमु? यदिसत्यं हि जन्वं स्यात्, ततः किं भवेदित्याशङ्कायां तत्फलमाह, ओति। - अद्य इदानीं, भुवनेषु जगत्सु, अधिकोराजा इति अधिराजः (‘‘राजाहसखिभ्यष्टच् ‘ ‘(५। ४। ९१पा०) इति टच्)। स एव शब्दः सङ्केतः, समाट्सञ्ज्ञेत्यर्थः, अस्तविलयम् एतु गच्छतु, न केवलमधिराजशब्दलाच्छित्तं पुमांसं विनाशयामि, अपितु तच्छब्दमेव जगतः विलोपयामित्याशयः; सर्वेषामेव राजन्यानां विलवकरणेव वाच्याभावात्वाचकशब्दाभ्यापिविलोपसाधनमिति भावः; अपि च अद्य क्षत्रस्य क्षत्रियजातेः शस्त्रशिखिनः शस्त्राणि एव शिखिनाः अग्नय; शस्त्रानलाः इत्यर्थः, शमं निर्व्वणां यान्तु गच्छन्तु, आवयोः रणकर्म्मणेति शेषः; इदानिमेकस्य रघुकुलस्यापराधेन सर्वेषामेव क्षत्राणां विलोपो भविष्यति, का कथा केवलमधिराजशब्दस्येति भावः। (अत्र मम सेनशस्त्रेषु शिखिनामभेदारोपात्समासगतं निरङ्गरूपकमलङारः)। वसन्ततिलकं वृत्तम्॥१६॥
रामः। अथकोऽयमिन्द्रमणिमेचकच्छति
र्ध्वनिनैव दत्तपुलकं करोति माम्।
नवनीलनीरधरधीरगर्जित-
क्षणबद्धकुद्मलकदम्बडम्बरम्॥ १७॥
अथ अवुज्ञातपुत्रसमागमेनापि समुदितवात्सल्यविवशचेताः रघुमणिः हर्षातिरेकात् उद्गतपलकाम्म्वीयां शारीरिकोसबस्थामुपवर्णयति, अथेति। - अथप्रश्ने, ( ‘‘मङ्गालानन्तरारम्भप्रश्नकात्स््नयेष्वथो अथ। ‘‘इत्यमरः) इन्द्रमणिः इन्द्रनीलमणिश्यामलमेचकाः। ‘‘इत्यमरः) छविरिवछविः कान्तिः यस्य सः , इन्द्रनीलमणिश्यामलरुचिरकलेवर इत्यर्थेः, तदुक्त्तं मणिपरीक्षायां- क्षीरमध्येक्षिपेन्नीलं क्षीरञ्जेत्नीलतां व्रजेत्। इन्द्रनीलमिति प्रोक्तम्- ‘‘इति; कोऽयं कुमारः, ध्वनिनैव मेघगर्ज्जनगम्भीरेण केवलं कण्ठेस्वरेणैव; नत्वालिङ्गनादिभिरिति भावः; दत्तः समर्पितः, पुलकः रोमाञ्चः; हर्षातिशयावेशजनितः इति भावः; यस्मै तथाविधम्; यहा- दत्तः उत्पादित इत्यर्थः, पुलकोयस्य तथाविधं, माम्म्नवेति। - नवानां नूतनानां, नीलानां श्यामलानां, नीरधराणानलधराणा, धीरगर्ज्जितस्य क्षणेकाले, वर्षाकाले इत्यर्थः; क्षणं सुहर्त्तमभिव्याप्येत्यर्थो वा, बद्धाः समुद्भूताः, विकसिता इत्यर्थः; मेघगर्ज्जनीदयसमकालमेवविकसिता इत्यर्थो वा; यद्यपिवर्षासुप्रायशः कदम्बाः सुकुलिताभवन्तीति दृश्यते, तथाप्यचकुमारकुशशब्दसमाकर्णनानन्तरमेव भगवद्रामभद्रस्य सर्वेषु गात्रेषु कदम्बकोरकसमपुलकिद्गमदर्शनात्मेघध्वनिसमुत्पत्त्यनन्तरमेव कदम्बभुकुलोदयवर्णनेन साम्यसुसंरक्षितमिति ज्ञेयम्; यहा- नवनीलनीरधराणां धीरेण गम्भीरेण, गर्ज्जितेन निनादेन, यः क्षणः उत्सवः, तनबद्धाः, उद्भिन्नाः इत्यर्थेः, कुद्मलाः कोरकाः यस्य तथाविधः, यः कदम्बः नीपतरुः , तस्य डम्बरः समारम्भः, सादृश्यं वा यस्मिन्तथोक्तं प्रावृट्प्रोद्भिज्ञकोरककदम्बवृक्षकान्तिमित्यर्थः, करोति विदधाति? कोऽयं हि केवलमधुरवारिभरेव हर्षातिशय्यं विदधत्कदम्बकु…लप्रफुल्लकलेव रमामकस्माद्रेव करोति? इति समुदितार्थः। (अत्र कुशशरीरे इन्द्रनीलमणेरवैधर्म्यसाम्योप्रदेशात्समासगता, एवं रामशरीरेण च सह कदम्बकुद्मलसाम्योत्कोर्त्तनात्वाज्या उपमाऽलङ्गारः, तयोर्मिथः नैरपेक्ष्येण संस्थितः संसृष्टिः ; लवः। अयमसौ मम ज्यायान् आर्य्यः कुशो नाम भरताश्रमात् प्रतिनिवृत्तः। ( झ ) नकाररकोरयोयासकृत्साम्यात्वृत्त्यनुप्रासेनचतेसंसृज्येते। मञ्जुभाषिणीवृत्तम्॥१७॥
रामः। ( सकौतुकम् )। वत्स इत एव आह्वयैनमप्यायुष्मन्तम्। ( ञ )
लवः। एवम्। ( इति परिक्रामति )।
( ततः प्रविशति कुशः )।
कुशः। ( साद्भुतहर्षधैर्य्यं धनुरास्फालयन् )। ( ट )
दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादा मनो –
र्दृप्तानां दहनाय दीपितनिजक्षत्रप्रतापाग्निभिः।
आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत् ततो
दीप्रास्त्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः॥ १८॥
(झ) ज्यायान- वर्षोयान् अग्रजः इत्यर्थः। (वृद्धशब्दादीयसुनी ‘‘ज्यायादीयसः ‘ ‘(६। ४। १६०पा०) भरतस्य- भगवतः नाट्यशास्त्रकृतः मुनिविशेषस्य, आश्रमात्- आचासात्। प्रतिनिवृत्तः,-प्रत्यागतः।
(ञ) सक्वौतुकं- कुमारस्य कुशस्य दर्शनाभिलाषजनितं यदौत्सुक्यं, तेन सह वर्त्तमानं यथा तथा। आयुष्मन्तं- प्रभूतायुषं, चिरजीविनमिति यावत्। (आयुः शब्दात् ‘‘भूसनिन्दाप्रशंसाम्- ‘ ‘(वा०) इति भूमार्थे मतुप्प्रत्ययः)।
(ट) आद्भुतं- विस्मयः, हर्षः,-आह्लादः, धैर्य्यं- धीरता, तैः सह वर्त्तमानं यथा तथा; अत्र आकास्मिकयुद्धव्यापारदर्शनेन विस्मयस्य, सूर्य्यवंशीयप्रविपक्षवीरलामेन हर्षस्य, तथा युद्धावसरे वीरस्वभावमुलभस्य धैर्य्यस्य चसमुद्भवीऽभूदिति ज्ञेयम्। धनुः,-कार्म्मुकम्। आस्फालयन्- समाकर्षन्, प्राहेते शेषः।
अथेदानीं प्रतिपक्षवीरलाभेनस्वग्यस्तास्त्रकिद्यायाः साफल्यलाभभिव्यञ्जयति, दत्तेन्द्राभयेति। - भगवतः षडैश्वर्य्यशालिनः, विवस्वतः सूर्य्यस्य अपत्यं पुमान्वैवस्वतः तस्मात्, सूर्य्यवशप्रतिष्ठापकादित्यर्थः, असौ हि सूर्य्यवंश्यानां राज्ञां प्रथमः वैवस्वताऽऽख्यः सप्तमः मनुः आसीत्; मनोः सप्तमात्मन्वन्तराधिपात्, आवैवस्वतं मनुमारभ्येत्यर्थः, ( ‘‘आड्मर्य्यदावचने ‘ ‘(१। ४। ८९पा०) इति कर्म्मप्रवचनीयत्वेन, तत्र तु वचनग्रहणादभिविधावर्थे ‘‘पञ्चम्यपाङ्परिभिः ‘ ‘(२। ३। १०पा०) इति आङ्योगात्पञ्चमी)। दत्ता समर्पिता, इन्द्राय देवराजाय, अभयदक्षिणा असुरापद्रवरूपविपत्प्रतिकारात्मकम् अभयदानं यैः तथा विधैः, देवेन्द्रसखैरित्यर्थः, तथा दृप्तानां मदगर्व्वितानां, दुर्वृत्तानामिति यावत्, दहनाय भस्मीकरणाय, समूलमुपघातयेति यावत्; अनम्राणामुन्मूलनायेति भावः; दौपितः प्रज्वालतः, निजः स्वकीयः क्षत्रप्रतापः क्षत्रतेजः, क्षत्रियप्रभाव इत्यर्थः; एव अग्निः अनलः यैः तथाभूतैः; हिन्नाकाणां विनाशायैव सततं प्रकटितपराक्रमैरिति भावः; आदित्यैः आदित्यस्यापत्यानि पुमांसः तैः, सूर्य्यवंशीयैरित्यर्थः, नृपतिभिः राजामिः सार्द्धमित्यर्थः, यदि चेत्, विग्रहः विवादः, स्यादिति शेषः, ततः तदा, महाबलैः गुणवीर्य्यपरीक्षकैरेतैः सहवीवादे सतीत्त्यर्थेः, (तच्छब्दात्सप्तम्यां तसिल् ) दीप्राणाभाखराणां, जाज्वल्यमानाभिरित्यर्थः, अस्त्राणां प्रहरणानां, स्फुरन्तीभिः, विलसन्तीभिः, देदीप्यमानाभिरित्यर्थः, उग्राभिः भयावहाभिः, भीषणाभिरित्यर्थः, दौधितिशिखाभिः मरीचिज्वालाभिः, मयूखरूपहेतिततिभिरिति यावत्, नीराजिता आरविकरूपमाङ्गलिकक्रियाभिः सत्कृता, (निः पूर्व्वकात्राजतेः णिचि कर्म्मणि क्त्तः) ज्यामौर्व्वीयस्य तत्; यथा हि दीपादिभिः माङ्गलिकीपचारैः देवतादयः समभ्यर्च्च्य समलङ्कियन्ते, तथैव दीप्तास्त्रशिखाभिः तस्य धनुषः ज्यातदानीम् अलमक्रियतेति भावः; मम एतत्धनुः कार्म्मुकं, धन्यं श्लाव्यं, प्रशस्यमित्यर्थः, भवेदिति शेषः; सन्वन्ववाय शेखरायमाणैः असुरविजेतृभिः परन्तपैः गुणपक्षस्यविविधनिशितास्त्रप्रयोगशिक्षाकौशलं फलवदभवेदिति भावः; गुणवद्भिः विवादोऽपि श्रेयसेभवतीति हृदयम्। ज्यायां क्षत्रप्रतापे अग्नेरभेदारोपात्निरङ्गंरूपकमलङ्कारः, नीराजितशब्दशक्त्या ज्यायादेवतात्वारोपोऽपि व्यज्यते इति रूपकालङ्कारध्वनिः। ) शार्दूलविक्रीडितं वृत्तम्॥१८॥
( विकटं परिक्रामति )।
रामः। कोऽप्यन्यस्मिन् क्षत्रियपोतके पौरुषातिरेकः ( ठ ) –
धीरोद्धता नमयतीव गतिर्धरित्रीम्।
कौमारकेऽपि गिरिवद्गुरुतां दधानो
वीरो रमः किमयमेत्युत दर्प एव॥ १९॥
(ठ) कोऽपि- अनिर्व्वचतीयः, अगन्यसाधारण इत्यर्थः। अस्मिन्- पुरतः दृश्यमाने। क्षत्रियपोतके- क्षत्त्रियशिशौ, कुशे इति यावत्। पौरुषस्य,-प्रभावस्य, दृष्टिस्तृणीकृतजगत्रयसत्वमारातेजसः इत्यर्थः, अतिरेकः अतिशयः, आथिक्यमिति यावत्; अयं हि क्षत्त्रियाशिशुः निरतिशयं पौरुषं विभर्त्तीति दृश्यते इति भावः।
बालस्यामृष्य असामान्यवीर्य्ययोगात्पौरुषविशेषशोभिनीमाकृतिं गतिञ्च विशदिकृत्य व्यनक्त्ति, दृष्टिरिति। - दृष्टिः विलोकनम्, अस्य क्षत्त्रियपोतकस्येति शेषः, तृणोकृतः अतृणां तृणं यथा सम्पद्यतेत तथाकृतः, तृणवद्विगणित इत्यर्थः, जगत्त्रयस्य त्रिभुवनस्य, सत्त्वसारः बलोत्कर्षः यथा तथा भृता, भवतीति शेषः; अयं हि तेजः पुर्णदृष्टिविक्षेपैः प्राणिसद्धानां तेजांसि परिभवन्त्रिलोकीमपि तृणाय मन्यते इत्यनुमीयते इति भावः; तथा धीरागाम्भीर्य्यवती, अचलञ्चेत्यर्थः, अपि च उद्धतादृप्तां, शौर्य्यभूयिष्ठेत्यर्थः, गतिः यदक्षेपः, धरित्रीं पृथिवीं, अपि अधोगता भवतीवेति विभाव्यते; कौमारकेऽपि अतिवाल्येऽपि, का कथा यौवनस्येत्यपि शब्दार्थः, गिरिवत्गिरिङ्गुल्यं, ( ‘‘तेनतुल्यङ्क्रियाचेहतिः ‘ ‘(५। १। ११५पा०) इति तुल्यार्थे वतिप्रत्ययः) गुरुतां गुरुतां गौरवं, भारवत्त्वमित्यर्थः, अप्रतिहतभावमिति यावत्, दधानः धारयन्, ( ‘‘ताच्छील्यवयोवचमशक्त्तिषुचानश ‘ ‘(३। २। १२९पा०) इति शक्त्तौ वयसि वा चानश्)। गिरयो हि उत्पात्तिकालमारभ्यैव गुरुत्वभाजः भवन्तीति विभाव्यम्, अयं कुमारः वीरोरसः किम्? सक्षात्वीरोरसः किमु? मूर्त्तिमान्वीररसस्य स्थायिभावः उत्माहः किमित्यर्थः, उत अथवा, दर्प एव अन्तःसारसम्भूतः अहङ्कार एव विग्रहवान्वीरत्वगर्व्व एवेत्यर्थः; तत्तन्मूर्त्तिमयः मन्नेवेति भावः; एति आगच्छति; शैशवेऽपि अतिशौर्य्यविभूषितोऽयं किमु वीररसस्य दर्षस्य वारूपं परिगृह्य विचरति? ( ‘‘ऐति ‘‘इति पाठान्तरम्) नायं हि क्षत्रियपोतः, अपि तु मूर्त्तिमान्वीररसः दर्पो वा अयमिति भावः।
(अत्र गत्त्याधरित्याः अत्रमितत्वेऽपि नामितत्वोक्त्तेः उत्कष्टैककोटिकसंशयोत्त्या वाच्याक्रियोत्प्रेक्षाऽलङ्कारः तथा प्रथमपदे दृष्ट्या सत्त्वसारस्याणीकृतत्वेऽपितृणीकृतर्त्वोक्त्तेः तथैव संशयोदयात्प्रतीयमाक्रियोत्प्रक्षाऽलङ्कारः, अपिचातीपमेयभूते कुमारे कुश उपसानभूतयौः वीररसदर्पयोः संशयात् एव तरस्यानिश्चयाच्चशुद्धसन्देहालङ्कारः,
कुमारेगिरेः साम्योत्कीर्त्तनादुपमाऽलङ्कारश्च, एतेषाञ्च तुर्णाम्मियः नैरपेक्ष्येण संस्थितेः संसृष्टिः। अत्र हि वीरोरसः, तथाहि, भगवान्रघुमणिरेव आलम्बनविभावः तस्य तु जगत्त्रयविश्रुतः सत्त्वसार एवा च उद्दीपनवीभावः, कुमारस्य लवस्यान्वेषणमेवानुभावः, कुमारस्य कुशस्य धीरोद्धतगतौ अभिव्यक्त्तौ धृतिगर्व्वौ अत्रसञ्चारिभावौ, एतैरभिव्यक्त्तः उत्माहरूपस्थायुमाव एवात्र वीररसरूपरामेति इति ज्ञेयम्। श्लोकेऽस्मिन्वीररसस्य तथा तत्सञ्चारिभावस्य दर्पस्य स्वशब्देनोल्लेखादत्र स दोष इति ज्ञेयं,- ‘‘रसस्योक्त्तिःस्वशब्देनस्थायिसञ्चारिणेरपि ‘‘। इति दर्पणाकृल्लक्षणात्)। वसन्ततिलकं वृत्तम्॥१९॥
लवः। ( उपसृत्य ) जयति आर्य्यः ।
कुशः। नन्वायुष्मन् किमियं वार्ता युद्धं युद्धमिति ? ( ड )
लवः। यत्किञ्चिदेतत्। उरुट्टप्तभावमुत्सृज्यार्य्योऽस्मिन् विनयेन वर्तताम्। ( ढ )
कुशः। किमर्थम् ?
लवः। अत्र देवो रघुपतिस्तिष्ठति ; स च स्निह्यति आवयोः उत्कण्ठते च युष्मत्सन्निकर्षस्य। ( ण )
(ड) आयुष्मन्- चिरञ्जीविन्। युद्धं युद्धमिति- युद्धं युद्धमित्याकारिका, (वीप्सायां द्वित्वम्) इयं वार्त्ता- ईदृशी कथा। किम्?-कथम्? अनुश्रूयते इति शेषः; किमर्थं हि युद्धं युद्धमिति वार्त्ता विरन्तरमाकर्ण्यतेऽस्माभिरिति भावः; केन सह कुत्र कथं सद्घटितमिति पृच्छ्यते इति तु हृदयम्।
(ढ) यत्किञ्चिदेतत्- युद्धं युद्धमिति यदनुश्रूयते, तत्तु न किमपीत्यर्थः; तत्तु श्रुतं वस्तु अतितुच्छमिति बुद्ध्याभवाद्विः परिहातव्यमिति भावः। उरुदृप्तभावं- महागर्व्वितभावम्, अतीवौ…त्यमिति यावत्। ( ‘‘उरुदृप्रभावम् ‘‘इत्यत्र ‘‘दृप्रभावम् ‘‘इत्येव पाठो- बहुपुस्तकेषु दृश्यते) उत्सृज्य- विहाय। आर्य्यः,-तत्र भवान्भावन्। अस्मिन्- भगवति रघुमणौ रामभद्रे। विनयेन- अदृप्ततया अनौद्धत्येन इत्यर्थः, भक्त्तिनम्रतयेति यावत्। वर्त्ततां- तिष्ठतु; इदानीं वीरभावं विहाय पुरोवर्त्तिनि अस्मिन्भगवति रघुमणौ प्रश्रयविनम्रमूर्त्तिभाक्भवतु भवामिति भावः।
(ण) अत्र- अस्मिन्स्थाने, युद्धमूमावित्यर्थेः। देवः,-महाराजः रघुपतिः,-रघुकुलनायकः भगवान्रामभद्रः। तिष्ठति वर्त्तते। स च- रघुमणिश्च। आवयोः,-त्वयि मयि चेत्यर्थः। स्निह्यति- निरतिशयं वात्सल्यं विधत्ते। युष्मत्मन्निकर्षस्य- भवत्सन्निधानस्य, तव सामीप्यमिति यावत्। उत्कण्ठते- औत्सुक्येन स्मरति, आका…ते इत्यर्थः, अत्युत्कण्ठितः सन्भवद्दर्षनमिवाच्छतीति यावत्; उभयोरप्यावयोः सातिशयां प्रीतिं प्रकाशयति, भवतश्चेदानीमप्यप्राप्यत्वात् तल्लाभाय नितरामुत्सुकाय ते इति भावः। ( ‘‘युष्मत्सन्निकर्षस्य ‘‘इत्यत्र ‘‘षष्ठीशेषे ‘ ‘(२। ३। ५०पा०) इति सम्बन्धमात्रविवक्षायां षष्ठी, ‘‘भजेशम्भोश्चरणयोः ‘‘इतिवत् इति ज्ञेयम्। उत्पूर्व्वकस्य भौवादिकस्य कठे र्लटि रूपम्)।
कुशः। ( सतर्कम् ) स रामायणकथानायको ब्रह्मघोषस्य गोपायिता ? ( त )
लवः। अथ किम् ?
कुशः। आशंसनीयपुण्यदर्शनः स महात्मा ; किन्तु कथमस्माभिरुपगन्तव्य इति न सम्प्रधारयामि। ( थ )
(त) सतर्कं- तर्केण- अयं रामायणकथानायकौनवेत्याकारकसंशयेन सह वर्त्तमानं यथा तथा, सुसन्दिग्धामति यावत्। रामायणकथानायकः,-रामायणमहाकाव्यस्याश्रयभूतः महापुरुष इत्यर्थः। ब्रह्म घुष्यते- स्तूयते अस्मिन्निति)कर्म्मणि घञ्) ब्रह्मघोषः,-वेदः तस्य। ( ‘‘ब्रह्मकोषस्य ‘‘इति पाठान्तरम्) गोपायिता- रक्षकः) (गोपायतेः शीलार्थतृच्) राज्ञः वर्णाश्रमधर्म्मसंरक्षकतया, वेदानामपि तन्मूलकतया परस्परया तद्रक्षकत्वं ज्ञेयम्; अथवा प्रलयपयोधिनिमग्नेषु वेदेषु पुराभगवान्मीनरूपमास्थाय तानुद्वधार इतिपौराणिकाः आमनन्ति, अस्यापि भगवतः वेदाविद्वेषिणां राक्षसादीनां निहन्तुः तदेशसम्भूततया तथाभूतत्वमित्यपि समाधेयम्।
(थ) आशंसनीयेति। - आशमनीयं- प्रार्थनीय, सततमाकाङ्क्षणीयमिति यावत्, पुण्य- पवित्रं, निरतिशयपावनमित्यर्थः, दर्शनम्- अवलोकनं यस्य सः। समहात्मा- महामनारघुमणिरित्यर्थः। कथं- केन प्रकारेण, कीदृशोपचारेणेति यावत्। उपगन्तव्यः,-उपसेवितव्यः, सत्कत्तव्य इत्यर्थः। सम्प्रधारयासि- निश्चिनोमि; कीदृशेनोपचारेण असौ महापुरुषः अस्माभिरूपसर्पणीय इतीदानीं तनस्थिरिकर्त्तुं शक्नोमि इति भावः।
लवः। यथा गुरुस्तथोपचारेण। ( द )
कुशः। अपि कथं नामैतत् ?
लवः। अत्युदात्तः सुजनश्चन्द्रकेतुः और्मिलेयः प्रियवयस्य इति सख्येन मामुपतिष्ठते ; तेन तत्सम्बन्धेन च धर्म्मतात एवायं राजर्षिरिति। ( ध )
कुशः। सम्प्रति करणीयो राजन्येऽपि प्रश्रयः। ( न )
(द) यथा- यादृशेनोपचारेण। गुरुः,-पित्रादिरूपः महागुरुजनः इत्यर्थः, उपसेव्यते इति शेषः। तथोपचारेण- तादृशेनैव सत्कारेण; तस्मादविशेषेणैव उपचारेण पितृभ्योनौयः महापुरुषोऽसौ अस्माभिः समभ्यर्च्चनीय इति भावः; प्रश्रयविनम्रमूर्त्तिधृक्भावन्तत्समीप्रमुपगच्छत्विति तात्पर्य्यम्।
(ध) अत्युन्दात्तः,-अत्युदारचेताः, महामना इत्यर्थः। सुजनः- निरतिशयसौजन्याधारः। और्म्मिलेयः,-ऊर्म्मिलायाः अपत्यं पुमानित्यर्थे (ऊर्म्मिलायाः ‘‘स्त्रौभ्याढक् ‘ ‘(४। २। १२०पा०) इति ढक्) ऊर्म्मिलानन्दन इत्यर्थः। (अतिस्नेहचताद्योतानार्थम्मातृनामाल्लेखः) प्रियवयस्य इति- प्रियबन्धुरिति सूम्भाषणेनेति यावत्। सङ्ख्येन- मैत्र्या, सौहार्द्येनेति यावत्। ( ‘‘उपाददेवपूजामैत्रीकरणा- ‘ ‘(वा०) इत्यात्मनेपदम्) तेन तस्मात्; अमुना सह मैत्रीविधानादिति भावः। तत्सम्बन्धेन- तस्य- चन्द्रकेतोः, सम्बन्धेन- ज्येष्ठपितृत्वरूपसम्पर्केण; यतोऽपि शमादिगुणशतयोगात् ऋषिसन्निभः अयं रघुमणिः। (राजाचासौॠषिश्चेतिकर्म्मधारयः)। धर्म्मतातः,-धर्मेण- लोकाचारानुसारेणेति यावत्, तातः- पितापितृस्थानीय इति भावः; तेन हिः पितृवदेवासौ सबहुमानमस्माभिरूपसेवनीय इति निगूढाशयः।
(न) सम्पति- अधुना, धर्म्मतातत्वसम्पर्कात्सम्प्रहारदशयामपीति यावत्। राजन्येऽपि- क्षत्रियेऽपि; जात्या आवयोः समे एतस्मिन्महापुरुषे रघुमणौ ततोऽप्यधिकपितृत्वसम्बन्धयोगादित्यापिकाराशयः। प्रश्रयः,-प्रणयः, विनयः इति यावत्; अनौद्वत्येनोपचार इति भावः। ( ‘‘प्रश्रयप्रणयौसमौ ‘‘इत्यमरः) करणीयह्,-विधातव्य; क्षत्रियस्यापि वे अतीवपूज्यतमेक्षत्तियेपितृस्थानीयेविनयित्वप्रदर्शनं समुचितमेवेति भावः। ( ‘‘करणीयः ‘‘इत्यत्र ‘‘अवचनीयः ‘‘इति पाठान्तरं दृश्यते, तत्र अवचनीयः,-अनिन्दनीयः इत्यर्थः; क्षत्तियत्वसाम्येऽपि गौरववत्त्वात्विनयित्वप्रदर्शनमेनदोषायेति भावः)।
लवः। पश्यतु एनम् आकारानुभाव-गाम्भीर्य्य-सम्भाव्यमान-विविध-लोकोत्तर-चरितातिशयमार्य्यो महापुरुषम्। ( प )
कुशः। ( निर्वर्ण्य ) –
अहो प्राम्दिकं रूपमनुभावश्च पावनः।
स्थाने रामायणकविर्देवीं वाचं व्यवीवृणत्॥ २०॥
(प) आकारेति। - आकारेण- सौम्यमूर्त्त्या, अनुभावेन- प्रभावेण, तथा गाम्भीर्येण-अनभिज्ञैरविज्ञायमाननिगूढहद्गतभावेन च, सम्भाव्यमानः,-अनुमीयमानः, विविधः,-अनेकविधः, प्रभूत इत्यर्थः, लोकोत्तरः,-अलौकिकः, सर्वातिशायीं इति यावत्, चरितातिशयः,-चारित्योत्कर्षः, हरधनुर्भङ्गाहल्यामुक्त्तिसेतुबन्धनरावणवधादरूप इत्यर्थः, यस्य तं, महापुरुषं- प्रधानं पुमांसम्; निसर्गसौम्येनः आकारेणसर्वतेजोऽभिभाविना प्रभाविणा चायं महापुरुषःह रधनुर्भङ्गप्रभृतिलोकोत्तरकार्य्यजातं सम्पादयितुमेव भूलोकमवतीर्ण इति सुस्फुटमेव प्रतीयते इति भावः; यत्राकृतिस्तत्र गुणावसन्ति ‘‘इति सामुद्रिकवचमादिर्याशयः। अत्यरघुमणौ सर्वलोकनिस्मयकरं रूपं प्रसमीक्ष्वं महामुनेःप्राचेतसस्य यथायथं तत्प्रभाववर्णनानुगुणानां वाचाप्राक्तत्तः विधिवत्स्वौरधीतानां सम्यक्त्तां निरपवादत्वञ्चनिशिष्यप्रतिपादयति अहि इत्यदिना- अहो- अतीवविस्मयकरम्; प्राक्कदाऽपि एवं विधस्यं रूपस्य नयनपथेषु अपरिपतनादिति भावः; प्रामोदिकं निरतिशयहर्षसं विधायकं, रूपं लावण्यम्; सस्मिन्मोहनीयरूपेनयनपथे समापतिते एव कुतश्चिदेव देशात् अप्रज्ञातः अननुभूतपूर्वश्च असृतायमानः आनन्दसन्दोहः शोकनिर्दृग्धमरुमयेऽप्रिमानसपथे समुदेतीति भावः। ( ‘‘प्राम्मोदिकम् ‘‘इत्यत्र ‘‘प्रासादिकम् ‘‘इति पाठान्तरं दृश्यते, प्रसादगुणपरिचायकमिति तदर्थः, प्रसादो हि विशिद्धिः अनुग्रहप्रवणता वा, तथा च एतादृशनवद्यरूपवानयं ननु निरतिशयविशुद्धचित्तः कृपालुहृदयो वा भवेदिति तु तात्पर्य्यम्)। अपि च पाववः पवितश्च, अनुभावः प्रभावः; आर्त्तत्राणाथैवशस्त्राणां परिग्रहात्कदाचिदपि अनागासामपरिपीडकत्वाच्च, सततविपन्नोद्धारवद्धपरिकरस्य महाप्राणस्यास्य तेजोऽपि निरतिशयपवित्रताऽऽधायकमवेति भावः; अतः रामायणकविः रामायणमहाकाव्यस्य रचयिता महर्षिः भगवान्प्राचेतसः स्थाने योग्यपात्रे; स्वस्य हि वाचां यथा पावनत्वं, तथैव स्वप्रतिपाद्यवस्तुनः समधिकपवित्रत्वादित्याशयः; यहा- स्थाने सम्यक्, युक्त्तमेवेत्यर्थः; समीचीनस्य विषयस्योपवर्णनात्, सयोग्यनिषयोपचर्णनेन स्वकाव्यप्रणयनप्रयासस्य साफल्योदयादिति भावः; देवीं वाचं वाग्देवीं, स्वस्य निर्णिक्त्तां भारतीमिति यावत्; व्यवीवृणात्- विवृतवान्, व्यग्रथ्रादित्यर्थः; कृतिनः महामुनेः वाग्विगुस्फनं धीरोदात्तनायकरूपविशुद्धविषयलाभात्सातिशयं हृद्यमभूदिति भावः। (वृणोतः तानादिकात्धातोः णिचि लुङि रूपं , ‘‘व्यवीवर्णत् ‘ ‘इत्यप्यस्यात्र पदान्तरं भवतीति विभाव्यम्। अत्र तु ‘ ‘व्यवीवृतत् ‘ ‘इति पाठान्तरं दृश्यते , तदापि स एवार्थः। अत्र भगवतो रघुमणेः प्रभाववर्णने एकस्मिन्प्रामोदिकरूपकारणे सत्यपि पावनानुभावरूपस्य हेत्वन्तरस्योपादानात्समुच्चयोऽलङ्कारः; अपि च परार्द्धप्रतिपूर्वार्द्धस्य हेतुतयोपन्यासात्वाक्यार्थः हेतुकं काव्यलिङ्गमलङ्कारः, एतयोः साये क्षतयासंस्थितेः सङ्करः)। पथ्यावक्त्तंवृत्तम्॥२०॥
( उपसृत्य ) । तात प्राचेतसान्तेवासी कुशोऽभिवादयते। ( फ )
रामः। एहि आयुष्मन् –
अमृताध्मातजीमूतस्निग्धसंहननस्य ते।
परिष्वङ्गस्य वात्सल्यादयमुत्कण्ठते जनः॥ २१॥
(फ) उपसृत्य-उपग्रम्य, रामस्यान्तिकमागम्येत्यर्थः, तात-पितः अनिज्ञातसम्बन्धस्य कुशस्यैतत्सम्बोधनं चन्द्रकेतुना सह भ्रातुर्लवस्य मैत्री
स्थापनकृतमिति ज्ञेयम्। प्राचेतसस्य- वाल्मीकेः अन्तेवासी- शिष्यः। अभिवादयते- नमस्यति। (अभिपूर्वकोवदधातुः णिचि नमस्कारे वर्त्तते, फलवत्कर्त्तते, फ्लवत्कर्त्तरि आत्मनेपदम्)।
अथेदानीं रघुमणिरप्रज्ञातसुस्बन्धोऽपि स्वपुत्रिकुशे नैसर्गिकवात्मल्योदयात्तदङ्गसंश्लेषवं मुखं समनुभवितुसौत्सुक्यमावेदयति, अमृतेति। - अयं जनः रामरूपोऽहम् इत्यर्थः, वात्सय्पान्स्नेहात्, त्वां दृष्ट्वा अकस्मात्समुद्भूतस्नेहविवशकायः सन्नित्यर्थः, अमृतेन जलेन, (अमृतयज्ञशेषेस्यात्पीयूषेसलिलेघृते। ‘‘इति मेदिनी) आध्मातः परिपूर्णं सजलनवजलधरस्यातीव स्निग्धकरत्वादित्याशयः; यहा- अमृतं पीयूषमयमित्यर्थः, आध्मातं शब्दितं ध्वनिरिति यावत्, यस्य तथाभूतः, ( ‘‘आध्मातःशब्दितेदग्धेवातरुग्भेदसंयुते। ‘‘इति मेदिनी) स्निग्धगम्मौरनिर्धोष इति भावः; यः जीमूतः मेघः, (जीवनं जलं तत्मूतं बद्धमनेनेति विग्रहे पृषोदरादित्वात्साधु; यहा- जिनातातिजौः जराजीर्णः इत्यर्थः, तेन मूयतबध्यते असौ इति व्युत्पत्त्या,
जिनतिः क्र्त्तारक्विपि, मवतः चौरादिकस्य कर्म्मणिनिष्ठायां रूपम् इति जीमूतशब्द सिद्धिः; अथवा- जीवस्य मूतः पटबन्ध इव इति विग्रहः)। तहत्स्निग्धं मसृणं, सुखस्पर्शमिति यावत्( ‘‘उपमानामिसामान्यवचनैः ‘ ‘(२। १। ५५पा०) इति उपमितसमासः) नवजलधरसुशीतलकोमलकलेवरस्येति भावः; तेतष, (कृदयोगात्कर्म्मणि षष्ठी) परिष्वङ्गस्य समालिङ्गनस्य, ( ‘‘षष्ठीशेषे ‘ ‘(२। ३। ५०पा०) इति सम्बन्धमात्र विवक्षायां षष्ठी। ‘‘परिष्वङ्गाय ‘‘इति पाठे तु- परिष्वङ्गायसमाश्लेषाय, त्वां परिष्वङ्त्तुमित्यर्थः, ‘‘तुमर्थाच्चभाववचनात् ‘ ‘(२। ३। १५पा०) इति चतुर्थी) उत्कण्ठते समुत्सुको भवति, व्याकुलीभवतीत्यर्थः, ‘‘सर्व्वेन्द्रियसखास्वादोयत्रास्तीत्यभिमन्यते। तत्प्राप्तीच्छासु सङ्कल्पामुत्कण्ठां कवयो विदुः॥ ‘‘इत्युत्कण्ठालक्षणात्। तथा चैवमभिलाषुको भवतीति वा भावः। (अत्र समासेन जीमूतेन सह संहननस्यावैधर्म्यसाम्योपदेशात्समासगतोप्रसाऽलङ्कारः)। पथ्यावक्त्तंवृत्तम्॥२१॥
( परिष्वज्य स्वगतम् ) । तत् किमपत्यमयं दारकः ? ( ब ) –
अङ्गादङ्गात् स्रुत इव निजः स्नेहजो देहसारः
प्रादुर्भूय स्थित इव वहिश्चेतनाधातुरेव।
सान्द्रानन्दक्षुभितहृदयप्रस्रवेणेव सृष्टो
गात्रं श्लेषे यदमृतरसस्रोतसा सिञ्चतीव॥ २२॥
लवः। तात ललाटन्तपो धर्मदीधितिः ; तदत्र सालच्छाये मुहूर्तमासनपरिग्रहं करोतु तातः। ( भ )
(ब) तत्- तर्हि। अयं दारकः,-बालकः, कुशः इत्यर्थः। किमपत्यम्?-मम औरसः तनयः किमु? ; मोने देवं, तदा अस्य समालिङ्गने एतादृशानिर्वचनीयसुखमस्योदयासम्भवादिति भावः।
अथ स्वस्य अपत्यसमालिङ्गनसदृशानिर्वचनीयसुखसमुद्भूतिप्रकारमाह, अङ्गादिति। - निजः स्चकोयः, मदीय इति यावत्, स्नेहनः वात्सल्यातिरेकात्समुङ्गूतः, देहसारः देहम्यशरीरस्य, सारः स्थिराशः; यहा- देहेमांसपिण्डमये निरुपमरूपावारे अस्मिन्शरीरे, यः सारः लावण्यराशिः एवेत्यर्थः, अङ्गात् अङ्गात्प्रत्यवयवात्, सर्वेभ्यः ओभ्यः इत्यर्थः, स्त्रुतः इव क्षरित इव, संस्थितोऽयमित्यन्वयः; मम शरीरस्य संरक्षकः प्रवर्द्धक श्च आन्तरः सारसमुदायः विमलितोभवन्झटिति अभ्यन्तर प्रदेशात्वहिर्निमृत्यपिण्डीभूतः दारकरूपेणसंस्थित इवेति मन्ये इति भावः; अमुष्य बालस्य समाश्लेष मम कालं हि मम शरीरोपादामकः सारसमुदायः बूर्णन्द्रवीभूयवहिर्विगलितोभवतीवेति मन्ये, तत्क्षणे शरीरस्यसपदिविव शभावोदयात् इति ज्ञेयम्; अङ्गादङ्गात्सम्भवसिहृदयादभिजायहे ‘‘इत्यादि श्रुतौ पुत्रस्य स्वशरीराभिन्नत्वीत्वीर्त्तनादित्यं द्रव्योत्प्रेक्षेति विभाव्यम्; चेतनाचैतन्यं, ज्ञानमित्यर्थः, स एव धातुः शरीरः धारकवातपित्तदिवस्तुनिचयः, तत्तहस्तुनिचयानामविकृतिभावेन सत्तायामेव चैतन्यस्य सत्त्वात्तत्र तदभेदारोप इत्यवधेयम्; स एव प्रादुर्भूय आविर्भूय, शरीराभ्यन्तरात्निः सृत्येत्यर्थः, वहिः वहिर्देशे, स्थित इव वर्त्तमान इव, अयं दारक इत्यन्वयः; अयं पूर्त्तिमान्मेचैतन्यपदार्थे इव प्रतिर्भाति, अन्यथा कथं हि समालिङ्गनसमये तदद्भूतसुखोपभोगसमकालं चैतन्यलोपः सञ्जायते इत्यवधेयम्; यत्यतः, सान्द्रः प्रगाढः, यः आनन्दः हर्षः, तेन क्षुभितम् आलिडितं, यत्हृदयम्अन्तःकरणं, स एव प्रस्रवः प्रस्रवणं, निर्झरः इत्यर्थः, तेन; निविडानन्दोदयात्स्वतः सङ्क्षुब्धेन हृदयोत्सेनेति भावः; सृष्टः इव निर्म्मित इव, अयं दारकः इति प्रागुक्त्तेनान्वयः; अन्तःसङ्क्षुभ्यमाणस्य निर्झरस्य वहिः प्रकटीभाववत्तत्समये सह साचञ्चलीभूतस्य हृदयस्यापि अभ्यन्तरदेशात्दारकरूपतया वहिःप्रकटनमुत्प्रेक्षितमिति वेदितव्यम्। श्लेषे एतस्य समालिङ्गनावसरे, गात्रं मदीयं सकलमेवाङ्गम्, अमृतरसस्त्रोतसासतिप्रभूते न पीयूषरसप्रवाहेण, सिञ्चतैव अभिवर्षतीव; प्रतिप्रतीकमेवासामान्यसुखोदयादिति भावः; अस्य दारकस्य परिष्वङ्गसमये एवं हि मे अननुभुतपूर्वेण हर्षातिशयेन समुद्भूयते, यदसौदारकः मे शरीरमारं वहिर्विगलितमिव कुर्वन्, चेतनामपि सर्वथैव विलोपयन्, अकस्मात्निर्म्मलानन्दसन्दोहं प्रस्नवणरूपेण वहिःसम्यगाविर्भावयंश्चमोहविवशानिसदङ्गानिसुधारसधारासुनिमज्जयतीवेति मन्ये इति समुदित तात्पर्य्यम्। (अत्र दारकस्य स्त्रुतस्नेहसाररूपत्वेन तथाधातुरूपत्वेन चोत्कीर्त्तनात्द्रव्योत्प्रेक्षाऽलङ्कारः, अपि च अमृतरसस्नोतसा सेचनासत्त्वेऽपि सेचनोत्कीर्त्तनात्क्रियोत्प्रेक्षऽलङ्कारः, चेतनायां धातोरभेदाध्यासाच्च रूपकमलङ्कारः, इत्येषां चतुर्णां परस्परमापेक्षतया संस्थितेः सङ्कर इति ज्ञेयम्। ‘‘स्नेहनोदेहसारः ‘‘इत्यत्र ‘‘देहनः स्नेहसारः ‘‘इति पाठान्तरं दृश्यते, तत्रापि नास्ति कश्चित् अर्थगतो विशेष इति ज्ञेयम्) मन्दाक्रान्तावृत्तम्॥२२॥
(भ) ललाटन्तपः,-भालदेशसन्तापकरः, अतिप्रदीप्तः इत्यर्थः। (ललाटं तपतीति व्युत्पत्त्या ‘‘अमूर्य्यललाटयोर्दृशितपोः ‘ ‘(३। २। ३६पा०) इति खश्प्रत्ययः)। वर्माः,-उष्णाः, दोधितयः,-क्रियणःय स्येति घर्मदोधितिः,-सूर्य्यः। सालस्य- वृक्षविशेषस्य, छाया इतिसालच्छायं तस्मिन्( ‘‘विभाषासेनासुरा- ‘ ‘(२। ४। २५पा०) इति पाक्षिकं क्लोवत्वम्) सर्ज्जतरूतले। सु…र्त्त- कियन्तं कालमित्यर्थः। ( ‘‘कालाध्वनो- ‘ ‘(२। ३। ५पा०) इति व्याप्तार्थै द्वितीया)। आसनस्य परिग्रहः,-स्वीकारः तम् उपयेशनमित्यर्थः। क ओतु- विदधातु।
रामः। यदभिरुचितं वत्साय। ( म )
सर्वे । ( परिक्रम्य उपविशन्ति )।
रामः। ( स्वगतम् )-
अहो प्रश्रययोगेऽपि गतिस्थित्यासनादयः।
साम्राज्यशमिनो भावाः कुशस्य च लवस्य च॥ २३॥
(म) यत्- यादृशं कर्मेत्यर्थः। अभिरुचितं- रुचेः विधायकं, रोचते इत्यर्थः। वत्साय- स्नेहास्पदाय, आयुष्मातेतुभ्यं यदेवाभिरोचते, तदेवक्रियते मयेत्यर्थः। ( ‘‘रूच्यर्थानाम्प्रीयमाणः ‘ ‘(१। ४। ३३पा०) इति चतुर्थी। वत्सस्यप्रीयमाणत्वात्सम्प््रदानत्वम्)।
अथ कुमारयोः विनम्नमूर्ति धरयोः चक्रवर्त्ति लक्षं अयोगं समालोक्य तत्र सार्वभौमपदभाक्त्तं वितर्कयति, अहो इति। - प्रश्रयस्य विनयस्य, योगेऽपि सम्बन्धेऽपि यद्यप्येतौ मुनिवत्प्रशान्तिचेतसौ दृश्येते तथाऽपीत्यथेः, कुशस्य चलवस्य च तदाख्ययोरेतयोः बालयोः गतिः गमनं, पादविक्षेपादिकमित्यर्थः, तथा स्थितिः अवस्थानं, निर्व्यापारतया अवस्थितिरित्यथेः, अपि च आसनम् उपवेशनं, तानि एव आदयं येषां ते तथा भूताः, आदिशब्दात्भाषणविक्षणादेः परिग्रहः; भावाः अवस्थाः; आरीरसम्पाद्यक्रियासमूहा इतिभावः; सामाञ्ज्यशमसिनः राज्यलक्ष्मीलाभसंसूचकाः, भवन्तीति शेषः; तथाहि सामुद्रके- अकर्म्मकठिनौहस्तौपादावध्वनिकोमलौ। यस्य पाणितलौरक्तौ तस्य राज्यंविनिर्द्दिशेत॥ ‘‘इति। यद्यप्यतौमुनिभालकाविवतपोवननिवाससुलभं गमनमुपवेशनादिकञ्च बिमृतः, तथाऽप्येतौ न हि ब्राह्मणतनयौ, क्षत्त्रियोचितौद्वत्यादेरसत्त्वेऽपि एतयोः बहुशः तेजोविशेषविभावितराजलक्ष्मीलाभ निज्ञापकानिचिह्नानिदृश्यन्ते, अतः राजन्यवंशसम्भूतौ एतौ इति तर्कयामि इति तु समुदितार्थः॥२३॥
वपुरविहितसिद्धा एव लक्ष्मीर्विलासाः
प्रतिजनकमनीयं कान्तिमत् केतयन्ति।
अमलिनमिव रत्नं रश्मयस्ते मनोज्ञाः
विकसितमिव पद्मं बिन्दवो माकरन्दाः॥ २४॥
अपि च प्रकारान्तारेण भानिसाम्नाज्यलक्ष्मीलाभसूचकान्भावविशेषान्विवृणोति, विपरित्यादि। - तप्रसिद्धाः, मनोज्ञाः हृदयग्राहिणः, रश्मयःदीधितयः, अमलिनंसमुज्ज्वलं, रत्नमिवभास्वरमणिविशेषमिव; मकरन्दः पुष्परसः, तस्य इमे माकरन्दाः पुष्परससम्बन्धिन इत्यर्थः, (मकरन्दशब्दात्तत्सम्बन्धार्थेअण्) बिन्दवः कणाः, विकसितं प्रस्फुटितं, पद्ममिव कमलमिव; यथाहि मनोहररश्मिजयः सुविशुद्धरत्नं समधि तं विभूषयन्ति, यथा वा पुष्परसलवाः प्रफुल्लपद्मप्रसूनं सातिशयं समल….न्ति, तथैवेत्यर्थः, अनिहितसिद्धाः नास्ति विहितं विधानं, प्रयत्नः इति यावत्, यस्मिन्कर्म्मणि तदयथा स्यात्तथा, सिद्धाः स्वयमुत्पन्नाः, कमपि प्रयत्नः विनैव समुद्भूता इति यावत्, लक्ष्म्याः सौन्दर्य्यस्य, विलासाः विलसितानि, स्फुरणानि इति यावत्, लक्ष्मीविलासा एव सौन्दर्य्यस्फुरणानि एव, लावण्यसम्पत्तय एव इति यावत्, प्रतिजनकमनीयं सर्व्वजनमनोहरं, कान्तिमतसौन्दर्य्यपूर्णं, वपुः शरीरं, कुशलवयोरिति शेषः, केतयन्ति अलङ्कुर्व्वन्ति, निरुपमस्वाभाविकरूपराशयः मनोहरमेतच्छरीरं सुशोभयन्ति इत्यर्थः; असामान्यलावण्यपरिस्फूर्त्तिः स्वाभाविकसौन्दर्य्याकरं बालयोरेतयोरेतत्कलेवरं नहि विजहाति, प्रत्यतरश्मयः रत्नमिवसकरन्दविन्दवः पद्ममिव च एतयोः शरीरं नितरां सुशोभयति, निसर्गसौन्दर्य्यस्य कदाऽप्यनपायात् इति भावः; तथा च न नमेतौसाम्राज्यलक्ष्मीधरौ अचिरादेव भमिष्यत इति विभाव्यते इत्याशयः।
(धातूनामनेकार्थत्वात्चौरादिकस्यामन्त्रणार्थकस्यापि केत धातोः भूषणार्थे लटि रूपम्। अत्र लक्ष्मीविलासानां रश्मिभिः मकरम्दबिन्दुभिश्च सार्द्धमवैधर्म्यसाम्योपदेशादुपमेऽलङ्कारौनिरपेक्षतया स्थितत्वेन संसृष्टौ)। मालिनीवृत्तम्॥२४॥
भूयिष्ठाञ्च रघुकुलकुमारछायामनयोः पश्यामि। ( य ) –
कठोरपारावतकण्ठमेचकं वपुर्वृषस्कन्धमबन्धुरांशकम्।
प्रसन्नसिंहास्तिमितञ्च वीक्षितं ध्वनिञ्च माङ्गल्यमृदङमांसलः॥ २५॥
(य) भूयिष्ठां- बहुलाम्। (बहुशब्दात् इष्ठनि ‘‘इष्ठस्य यिष्ट्च ‘ ‘(६। ४। १२९पा०) इति बहीर्भूरादेशः इष्ठस्य लोपः यिडागमश्च)। रघुकुलस्य- रघुवंशस्य, यः कुमारः,-बालकः, तस्य छायां- प्रतिबिम्ब, सादृश्यामित्यर्थः। ( ‘‘छायासूर्य्यप्रियाकान्तिप्रतिबिम्बसनातपः। ‘‘इत्यमरः) रघुवंशाय कुमाराया शरीरशोभा बिभ्रति, सैवाविमंवादिनीशोभा एतयोः परिदृश्याते इति भावः।
अथेदानीं तत्सादृश्यं स्फुटीकृत्योपपादयति, कठोरिति। - वपुः शरीरम्, एतयोः बालयोरिति शेषः, कठोरः परिपुष्टाङ्कः, तरुण इति यावत्, यः पारावतः कपोतः, तस्य कण्ठः इव गलदेश इव, मेचकश्यामलं, पूर्णावयवपारावतकण्ठदेशसदृशं श्यामभास्वरमित्यर्थः, अपिच वृषस्य स्कन्ध इव स्कन्धौ भुजशिरसीयस्मिन्तत्तथोक्त्तं, स्थूलस्कन्धामित्यर्थः, तथा अबन्धुराः अनुन्नतानताः, समाः इत्यर्थः, मासला इति यावत्, अशाः, अवयवाः यस्यतत्, सर्वोवयवानवद्यमित्यर्थः, ( ‘‘शेषाद्विभाषा ‘ ‘(५। ४। १५४पा०) इति बहुव्रीही कप्) दृश्यते इति शेषः, ( ‘‘अबन्धुरां सकम् ‘‘इति पाठे- अबन्धुरौ असौ भुजोपरिभागौ यत्र तादृशम्; अस्मिन्पक्षे ‘‘वृषस्कन्धम् ‘‘इत्यत्र स्कन्धशब्देन भुजशिरसः उपरिभागोग्रीवैकदेशो बोध्यः) अपिच वीक्षितम् अवलोकनं, प्रसन्नञ्च तत्सिंहवत्स्तिमितञ्च इति प्रसन्नसिंहस्तिमितं (विशेषणकर्म्मधारयः) प्रसन्नं निर्म्मलं, प्रसादगुणभूयिष्ठत्वानु…जकमित्यर्थः, तथा सिंहवत्स्तिमितञ्च निश्चलञ्च, सिंहस्य दृष्टिः यथा प्रशन्तं निर्भयं गाम्भीर्य्यव्यञ्जकञ्ज दृश्यते, तथा एतयोरपीति भावः; तथाध्वनिश्च निनादश्च, कण्टस्वरश्चेत्यर्थः, माङ्गल्यस्य मङ्गलसूचकस्य, अनुद्धतं विराविणः इत्यर्थः, मृदङ्गस्येववाद्यभेदस्येव, मासलः मन्द्रः, कर्णसन्तर्पणः इत्यर्थ; स्निग्धगम्भीरः इति भावः; (मांसशब्दात् अस्त्यर्थे लच्प्रत्ययः) अनुभूयते इति शेषः। (अत्र सिंहस्येव स्तिमितं, मृदङ्गस्येवचमांसलः इति विग्रहेण प्रोक्त्तस्थलद्वये ‘‘उपमानानिसामान्य- ‘ ‘(२। १। ५५पा०) इति उपमानसमासः, उपमेयभूतयोः बालयोः उपमानतया उपन्यासादिति ज्ञेयम्; यतोहि रघुकुलसम्तानानामिव एतयोः बालकयोः शरीरं नवजलधरश्यामरुचिरं मांसलंस्थूलं बलिष्ठञ्च दृश्यते, वीक्षणमपि धीरम् अनुद्वेगकरं, तथा कण्ठस्वरोऽपि गम्भीरः सुमभुअश्चप्रतीयते, ततः नूनमेतौ रघुकुलाङ्कुरौ भवत इति मन्ये इति भावः।
(अत्र समासेन पारावतकण्ठेन सह वपुषः, वृषस्कन्धेन सह स्कन्धस्य, सिंह वीक्षणेन सह विक्षणस्य, तथा मृदङ्गध्वनिना सह कण्ठध्वनेः अवैधर्म्यसाम्योत्कीर्त्तनात्, समासगतालुप्ताः चतस्र उपमाः अलङ्काराः, तासाञ्च नैरपेक्ष्येण संस्थितेः सम्मृष्टिरिति ज्ञेयम्। अत्रसिंहस्येव स्तिमितमेतयोः वीक्षितं, तथामृदङ्गस्येवैतयोः ध्वनिः मांसलः इति उपमावसमासाश्वयणात्, उपमानोपमेयभावमहिस्नैवसिंहवीक्षणसदृसस्तिमितवीक्षणस्य मृदङ्गध्वनिसदृशमांसलध्वनेः अर्थवंशसम्पन्नतया लाभेतलक्षणं विनाऽप्युपपत्तेः ‘‘कमलेचरणाघातं मुखसुमुखि ते करोत् ‘ ‘इत्यत्र यथा मुखस्य चरणयोः सर्व्वयैवासम्भवात्स्फुटतरार्थमङ्गतये चरणाघात शब्दस्य निर्जितत्वाथेकत्वमङ्गीकृत्य अशक्त्तिकृता हि लक्षणा स्वीकृता, तथैव रूढिप्रयोजनविगाकृतलक्ष्यार् थेप्रकाशनरूपनेयार्थत्वदोषः नाशङ्कनीय इत्यवधेयम्)। वंशस्थविलंवत्तम्॥२५॥
( सूक्ष्मं निरूप्य )। अये न केवलमस्मदङ्गसंवादेनी आकृतिः। ( र)
अपि जनकसुतायास्तच्च तच्चनुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति।
ननु पुनरिव तन्मे गोचरीभूतमक्षो-
रभिनवशतपत्रश्रीमदास्य प्रियायाः॥२६॥
(र) सूक्ष्मं विरुप्य- सविशेषमवलोक्य, निपुणतरं विभाव्येत्यर्थः। अस्मदङ्ग- मदीयावयवं, सवदति- अनुकरोति या तथाविधा अस्मदङ्गसंवादिनी- मदङ्गान्रूपा, अनयोराकृतिर्न केवलं मदाकृतिसौसादृश्यशालिनीत्यर्थः।
अत्र बालकद्वयेन केवलं मदवयवसाम्यम्, अपितु वैदेह्याः सौसादृश्यं दृश्यते इत्याह, अपीति। इह अत्र, शिशुयुग्मबालकद्वये, नैपुणेन निपुणतया, उन्नेयं ज्ञायमान, प्रणिधानगम्यनित्यर्थः, तच्च तच्च प्रसिद्ध, मया प्राक्सततमेव परिलक्षितमित्यर्थः, जनकसुताया अपि वैदेह्या अपि, पत्प्राणसमायाः सीताया अपीत्यर्थः, अनुरूपं सौसादृश्यं, (रूपस्य योग्यम् इत्यानुरूप्येऽव्ययीभावः) स्फुटं सुव्यक्त्तम्, अस्ति विद्यते; न केवलं मम, अपि तु सीतायाः अङ्गलावण्यं वाङ्माधुर्य्यदृष्टिविक्षेपादिकञ्चसर्व्वमेवात्राविरुद्धभावेनैवास्तीति दृश्यते इति भावः। एतदेव प्रमाणयितं सीतायाः पुनः प्रत्यक्षाय मनतामाह, नन्विति। - ननु वितर्के, तत्प्राक्बहुशोदृष्टमित्यर्थः, अभिनवंसद्यः प्रस्फुटितं, यत्शतपत्रं पद्मं, तदिवश्रीमत्रमणीयनयनयोः, मोचरीभूतमिवविषयो भूतमिव, नयनपथमापतितमिवेत्यर्थः; धुवम्, इदानीमेवाहं तत्मेप्रियामुखं पुनः पश्यामीति भावः। (अत्राक्ष्णोरगोचरिभूतेऽपि तदास्येतद्गोचरीभूतत्वोत्कीर्त्तनेन उत्कटैककोटिकसंशयोदयात् उत्प्रेक्षाऽलङ्कारः, समासेन शतपत्रश्रिया अवेधर्म्यसाम्योक्त्तेश्चोपमासमासगतासादृश्यदर्शनेन सीतामुखस्मरणोदयाच्चस्मरणालङ्कारः, एतेषाञ्चान्योऽन्यसापेक्षतया स्थितेः सङ्करः)। मालिनीवृत्तम्॥२६॥
मुक्ताच्छदन्तच्छविदन्तुरेयं सैवौष्ठमुद्रा स च कर्णपाशः।
नेत्रे पुनर्यद्यपि रक्तनीले तथाऽपि सौभाग्यगुणः स एव॥ २७॥
सीतयाः सौसादृश्यपुनरपि विशदीकृत्य प्रदर्शयति, सुक्त्तोति। - मुक्त्ता इव मौक्त्तिकानीव, अच्छाः विशदाः, ये दन्ताः दशनाः, तेषां याछविः कान्तिः, तया दन्तुरा उन्नता नता; आलापसमये मुक्त्ताफलधवलदन्तकान्तीनां समन्तात्विसरणशीलतयासर्व्वत्र समभावेन अपरिपतनात्बन्धुरवत्प्रतीयमानेति त्रिषु। ‘‘इति मेदिनी। ‘‘मुक्त्ताच्छदन्तच्छविसुन्दरी ‘‘इति तु कुत्रचित्पाठः, तदर्थस्तुस्फुट एव)। इयं प्रत्यक्षं दृश्यमानां, शिशुयुग्मसम्बव्धिनो इत्यर्थः, ओष्ठमुद्रा ओष्ठयोः मुद्रा आवरणम्, ओष्ठाधरावितियावत्भावः; सचसीतासम्बन्धी एव, कर्णपाशः शोभनार्थात्वं ज्ञेयं, तथा च मेदिनी ‘‘पाशः केशादिपूर्व्वः स्यात्तत्सङ्घेकर्णपूर्व्वकः। सुकर्णेच ‘ ‘इत्यादि। ‘‘प्रशंसावचनैश्च ‘ ‘(२। १। ६६पा०) इति ममासाः)। पुनः किन्तु, यद्यपि, नेत्रे नयने, एतयोर्बालयोरिति शेषः, रक्त्तनीलेप्रान्तेलोहिते तारकायाञ्च श्यमे, नीललोहिते इति यावत्; पितुर्विलोचनानुकारित्वादित्याशयः; ( ‘‘वर्णोवर्णेन ‘ ‘(२। १। ६९पा०) इति समासः)। तथाऽपि एवं सीतानयनवैषम्येविद्यमानेऽपिति भावः; स एव सीताऽनुरूप एव, सौभाग्यगुणः सौन्दर्य्यलक्ष्मीविलासः, पुंस्त्वयोगात्सक्त्तिमांशेसम्यक्तत्साम्याभावेऽपि नीलिमांशेसौसादृश्यमस्त्येवेति शङ्कान हि सपदि मानसपथात्साकल्येनापसरतीति हृदयम्। पुरुषाणां नेत्रयोः रक्त्तिमा नीलिमा च यथा शुभलक्षणं स्त्रीणान्तु न तथा, इति सामुद्रिका आमनन्ति। (कथं हि अन्यदन्तच्छविमपरः धारयेदिति बिम्बानुबिम्बभावमुद्रया तद्दन्तच्छविसादृश्यप्रतीतिः असम्भवद्वस्तु सम्बन्धरूपो निदर्शनाऽलङ्कारः, समासेन मुक्त्ता नान्दन्तसाधर्म्योत्कीर्त्तनाच्च समासगतोपमेति सङ्करः, सीतायाश्चै ताभ्यां बालकाभ्यां तदेतत् प्राचेतसाध्युषितमरण्यं ; यत्र किल देवी परित्यक्ता। इयञ्च अनयोराकृतिवपुश्च। यदपि स्वतः प्रकाशानि अस्त्राणोति ; तत्र विमृशामि ; अपि खलु तच्चित्रदर्शनप्रासङ्गिकमस्त्राभ्यनुज्ञानमुद्भूतं स्यात् ? न हि असाम्प्रदायिकानि अस्त्राणीति पूर्वेषामपि अनुशुश्रुम। अयञ्च सम्प्लवमानमात्मानं सुखातिशयो हृदयस्य मे विस्त्रम्भयते। भूयिष्ठञ्च मया द्विधा प्रतिपन्नो देव्या गर्भभार आसीत्।
नेत्ररक्त्तिमांशे न्यूनत्वप्रतीतेः व्यतिरेकालङ्कारश्च व्यज्यते, इत्यलङ्कारध्वनिः)। वृत्तमुपजातिः॥२७॥
( ल ) ( सास्त्रम् )। –
पुराऽऽरूढे स्नेहे परिचयविकासादुपचिते
रहो विस्रब्धाया अपि सहजलज्जाजडदृशः।
मयैवादौ ज्ञातः करतलपरामर्शकलया
द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया॥ २८॥
(ल) एतत्- पुरोदृश्यमानमित्यर्थः। प्राचेतसेन- वाल्मीकिना, अध्युषितम्- अधिष्ठितम्। तत् अरण्यं- वनं, जनस्थानमिति यावत्; वाल्मीकेराश्रमपदमिति भावः। यत्र किल- यस्मिन्नेवारण्ये। देवी- जानकी। परित्यक्त्ता- निर्वासिता, कुमारलक्ष्मणेनेति शेषः। इयञ्च- सीतासदृशी इत्यर्थः। अनयोः,-बालयोः। आकृतिः,-शरीरसङ्घटनपद्वतिः। वपुश्च- शरीरञ्च। यदपि- यच्च, उक्त्तं प्राक्लवेनेति शेषः। स्वतः,-स्वेनैव, गुरुपदेशमन्तरैवेत्यर्थः, प्रकाशः,-आविर्भावः येषां तानि। अस्त्राणि- जृम्भकाऽऽख्यानि। तत्र- जृम्भकास्त्राणां स्वतः प्रकाशे; तेषां साजन्मसंसिद्धाविति भावः। विमृशामि- अवधारयामि। अपिखलु- किमु एतदित्यर्थः। वित्रदर्शनप्रासङ्गिकं- सीतायै चित्रपटप्रदर्शनावसरे सयाप्रस्तावक्रमेणेक्त्तम्। अस्त्राभ्य ज्ञानं- जृम्भकास्त्राणां मया स्वतप्रकाशानुमोदनम्, आलेख्यप्रदर्शनसमये ‘‘सर्व्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति ‘ ‘इति मया अनुमोदितमित्यर्थः। उद्भूतं- लवज्जातमित्यर्थः। स्यात्? -भवेत्; मदभ्यनुज्ञावशेशेनैवैतेषामत्र समुदयः समजनीति भावः। कुतः एवं तर्क्यते, तदेव सोपपत्तीकरोति नहोति। - सम्प्रदायः,-गुरुपरम्परा, तं विना समुद्भूतानि अमाम्प्रदायिकानि- गुरुपारम्पर्य्योपदेशादृते अनधिगमनीयानीत्यर्थः। पूर्वेषां- पूर्व्वतनानां, ब्रह्मकृशाश्चादीनामित्यर्थः। अस्त्राणि- आयुधानि, जृम्भकास्त्राणित्यर्थः। नहि अमुशुश्रुम- नैव आकर्णितवन्तः; पूर्वैरपि कैश्चित्गुरूपदेशाद्विना एतादृशानि अस्त्राणि लब्धानीति कदाचिदप्यस्मार्नाकर्णितमिति भावः। शृणोतेः लिटि रूपं, केचित्तु लिटि उत्तमपुरुषप्रयोगस्य कुत्रचिदप्य दर्शनात् असमीचीनतामाहुः, सत्यप्येवमेकत्वप्रयोगस्य प्रथमपुरुषैकत्वाभिन्नतया तथात्वेऽपि अत्र बहुत्वे प्रयोगस्य तु तथाभूतत्वाभावात्तथात्वोक्त्तिरिति ज्ञेयम्)। अयञ्च मे हृदयस्य सुखारिशयः,-आनन्दातिरेकः, कुशलवयोरवलोकननिबन्धनः सुखसन्तान इत्यर्थः। सम्प्लवमानं- निमज्जन्तम्; आनन्दप्रवाहे इति भावः। आत्मानं विस्तम्भयते- प्रत्याययति, ‘‘तवैव एतौ तनुजौ ‘‘इति प्रतीतिमुत्पाद्य आश्वासयतीत्यर्थः; अन्यथाबालयोरेतयोर्दर्शनानन्तरमेव कथमियान्मेसुखातिरेकः इति भाव। (अत्र ‘‘आत्माविस्राम्भते ‘‘इति अणिकर्त्तुरात्मनः चित्तवत्कर्तृकत्वाभावात्, ‘‘अणावकर्म्मका- ‘ ‘(१। ३। ९९पा०) इत्यनुशासनेन परस्मैपदत्वं नाशङ्कनीयम्)। ‘‘भूयिष्ठिञ्च- बहुशश्च। द्विधाप्रतिपन्नः,-द्वितयत्वेनाभिज्ञतः, भ्रूणद्वयमस्मिन्गर्भेविद्यते इत्थमनुमितः इत्यर्थः। देव्याः,-सीतायाः। गर्भभारः,-भारभूतमुदरसंश्थानमितियावत्। आसीत्- अभूत्; सीतायाःजठराभ्यन्तरेयमौ एव बालौविराजेते इत्यसकृदेवाह प्राक्हस्तेनसंवाहनाद्यवहाऽन्वभवमिति भावः।
एतौ यमौ एव बालौ सीतागर्भसम्भूताविति प्रत्याययितुं प्रोक्त्तमेवार्थंस्वयं विशदीकृत्य व्यनक्त्ति, परोति। - पुरापूर्व्वम्; उद्वाहात्परमिति भावः; आरूढेसमुत्पन्ने, प्रथमसहावस्थानावसरे ईषन्मुकुलिते इति यावत्, स्नेहे प्रणये, परिचयस्यदीर्घकालं व्याप्यसाहचर्य्यस्य, विकासात्प्रभावात्, उपचिते विवर्द्धिते सति; यदाहि तदीयं प्रेमनिरतिशयं विवर्द्धतमासीत्तदेति भावः; रहः निर्ज्जने, विस्रब्धायाः विश्वस्तायाः, अपि; अहमत्र ईदृशौकैरपिनवीक्षिताभवेयमिति असङ्कुचितायाःअपि इति भावः; सहजया स्वाभाविक्या लज्जयात्रपया, जडेनिर्व्यापारे, निमीलिते इत्यर्थः, दृशौ चक्षुषीयस्याः तस्याह्; तस्यामुग्धवधूत्वादिति यावत्, मयैवनतुतयेति भावः; (अन्ययोगव्यवच्छेदकोऽयमेवकारः) आदौप्राक्; सीतायाः अपि अभिज्ञानात्पूर्व्वमिति भावः; करतलेनपाणितलेन, यः परामर्शः संवाहनक्रिया, तस्य कलयां कलनया, विधानेनेत्यर्थः, चातुर्य्येणेति यावत्; हस्तेनमृदुपरिवाहणावसरे इति भावः; यहा- परामर्श एवकलाशिल्पंशिल्पकौशलविशेषइतियावत्, ( ‘‘कलास्यात्मूलरैवृद्धौशिल्पादावंशमात्रके। षोडशांशे च चन्द्रस्यकलनाकालमानयोः॥ ‘‘इति मेदिनी) अधिकतयाकौशलविशेषव्यतिरिक्त्ततया वा परामर्शने कृते अतिशालौनाजानकीहस्तमपसा अयतीति तथ्यनिर्णयः अशक्यः स्यात् इति कलाशब्दप्रयोगोऽचबोध्यः; द्विधाहितयत्वेन, द्विधाविभक्त्तत्वेनेतियावत्, ज्ञातः विदितः, तदनुतत्पश्चात्; मदभिज्ञानात्परमितिभावः; कैरपिदिवसैःकैश्चिदेवाहोभिः(करणैः) तयासीतया, ज्ञातइतिपूर्वेणान्वयः; मद्दर्शनात्परंहिसुस्फिटेगर्भे सञ्जातेयमरूपोऽपमितिस्वयमपिसमवेदिइतिभावः; तथाचेमौबालौनूनंसीतासुतौभविष्यतःइत्याशङ्कितार्थः। (अत्र प्रस्तुतयोरेव कर्त्रोः सीतारामयोः एव ज्ञातरूपक्रियाऽभिसम्बन्धात्तुल्ययोगिताऽलङ्कारः)। शिखरिणिवृत्तम्॥२८॥
( रुदित्वा )। तत्किमेतौ पृच्छामि केनापि उपायेन ? ( व )
लवः। तात किमेतत् ? ‘
वाष्पवर्षेण नीतं वो जगन्मङ्गलमाननम्।
अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम्॥ २९॥
(व) रुदित्वा- सीतानिर्वासनमनुस्मृत्य सोकवेगं विसोदुमशक्नुवन्सुचिरं वाष्पं विमुच्येत्यर्थः। तत्- तर्हि, एतयोः सीतासु तत्वसंशये इत्यर्थः। एतौ- कुमारौ। केनापि उपायेन- कमपि च्याजमनुसृत्येत्यर्थः। किं पृच्छामि?-किं जिज्ञासे; ‘‘भवन्तौ कौकस्य सुतौच? ‘‘इत्यादिकमिति भावः।
रोदनकरणं किमिति पृच्छति, वाष्पेति। - जगन्मङ्गलं त्रिलोकं शुप्रकरं, विलोकितं स तु जगतां निरतिशयशुभाधायकमित्यर्थः, वः युष्माकम्, आननं मुख, वाष्पवर्षेण अविरलधारमश्रुविमोचनेन, अवश्यायेन नीहारेण, ( ‘‘अवश्यायस्तु नीहारस्तुषारस्तुहिनंहिमम्। ‘‘इत्यमरः) अवसिक्त्तस्य आर्द्रीकृतस्य, अभ्युक्षितस्येत्यर्थः, पुण्डरीकस्य पद्मस्य, चारुतां रमणीयतां, नीतं प्रापितम्, एतत्? किम्? इति चूर्णकस्थवाक्येनान्वयः; तव प्रफुल्लपुण्डरीकसन्निभेमुखे कथं हि नियतं नीहारराशिप्रतीकाशः वाष्पासारविमोकः दृश्यते इति भावः; इन्द्रीवरकल्पं भगवतो राघवस्य आननं तदानीं विरहविपाण्डुरतया पुण्डरीकोपममभूदिति ध्येयम्।
(अत्र एकस्य चारुतामपरः कथं हि प्राप्तं शुक्नुयात् इति वस्तुसम्बन्धे असम्भवत्यपि बिम्बप्रतिबिम्बभावमुद्रया तच्चारुतासदृशचारुताबोधस्य आसञ्जनेनोपपादनात् असम्भववस्तुसम्बन्धरूपोनिदर्शनाभेदः)। पथ्यावक्त्तंवृत्तम्॥२९॥
कुशः। अयि वत्स –
विन सीतादेव्या किमिव हि न दुःखं रघुपतेः ?
प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति।
स च स्नेहस्तावानयमपि वियोगो निरवधिः
किमित्येवं पृच्छस्यनधिगतरामायण इव ?॥ ३०॥
दुर्वहसीताविप्रयोगममुत्थ एवैष वाष्पनिर्म्मोक इत्युक्त्त्वा रामायणतत्त्वार्थानभिज्ञत्वेन लवं स निकारमाह, विनेति। - सीतादेव्या देवीस्वतूपया वैदेह्या, विनाॠते; तर्हि प्रयुक्त्तस्येतिभावः; रघुपतेः रघुनायकस्य रामचन्द्रस्य, किमिव हि त्रिलोकीस्थितं किमपि वस्तु हि, नदुः खनदुः खकरम्? इह जगति निखिलसुखसंसाधकंराजैश्वर्य्यादिकवस्तुजातं समासाद्याप्यसौ रघुमणिः केवलं सीताविराहितः सततमेवदुःखाय ते इति भावः; अतः सीताविरह एव ईदृशस्य वाष्पविसर्गस्य हेतुः इत्याशयः। एतदेव सामान्याकारेणोपपादयति, प्रियेति। - प्रियायाः प्रियतमायाः पत्न्याः, नाशे वियोगे सति; यहा- प्रियाणां प्रेमास्पदीभूतानां विषयाणाम्, आसम्यक्, नाशे अदर्शने, निधने सतीत्यर्थः, मनसोऽभीष्टवस्तूनां सर्वथा अप्राप्तौ मत्यामिति यावत्, कृत्स्नं किलसमग्रमेव; न तु अंशविशेष इति भावः; जगत्निखिलप्राणिपूर्णवैतत्भूमण्डलम्, अरण्यवनकल्पं, भवति हि सम्पद्यते एव; प्रियाविय्रयोगे हि सर्वन्द्रव्यजातपूर्णमपि जगदरण्यप्रायं शून्यमेव प्रायशो विरहिभिरनुभूयते इति भावः। दुःखिनः जगति बहवः सन्ति, न हि भवन्ति ते एवं विह्वलाः इति शङ्कामपनेतुम् अस्य तु तदसामान्यम् इत्येतदेव विशदीकृत्य विवृणोति, स चेति। - स च तादृशः, अन्यत्र कुत्राप्यदृष्टः इत्यर्थः, तावान्तत्परिमितः, अपरिमेय इत्यर्थः, स्नेहः प्रणयः, उभयोरासीदिति शेषः, अयमपि इदानीमनुभूयमानश्च, निरवधिः असीमः, आजीवनं स्थायितया अपार इति यावत्, वियोगः विरहः; यत्र हि प्राकि्नरतिशयासुखसन्ततिः व्यराजत, तत्र चेदिदानीम् अनन्तः विरहजक्लेशः विलसति, तदा असौ नितरां ससहनीय एव भवति इति भावः; प्राक्सीतासनिधेतया सार्द्धंसततं विमलं सुखमुपेयुषः रघुपणेः इदानीं समापतिते कथञ्चिदपि अविषहणीये तद्विरहेन हि भवति विस्मयकरः निच्छाये कमलप्राये तदीये मुखे तुषारपातप्रतिमः अश्रुसेकः इति भवति विस्मयकरः निच्छाये कमलप्राये तदीये मुखे तुषारपातप्रतिमः अश्रुसेकः इति तु गर्भिताशयः। कथं हि रामभद्रः मुचितं विरहजं क्लेशमनुभूय वाष्पसेकैः सर्व्वामपि वनस्थलीमभ्यषिञ्चत्, तत्तुकरुणरसाकरे रामयणे तदध्येत्रुर्भिरनिशमेव दृश्यते, ते न हि त्वत्पश्नः विफल एवेत्याह, किमिति। - अनधिगतम् अपठितं, रामायणं येन तादृशः, रामायणतत्त्वानभिज्ञः जन इवेत्यर्थः, किमिति कथं हि, एवम् इत्थं, ‘‘किमेतत् ‘‘इत्यादिकमिति यावत्, प्टुच्छसि? जिज्ञाससे? महामुनेः वाल्मीकेः समोपेसमग्रं रामायणमधीतवतः तव नैषः प्रश्नः युज्यते इति भावः। (अत्र पूर्व्वार्द्धेप्रियानाशजनितजगदरण्यानुभवरूपसामान्यार्थेन सीताविरहकृतदुःखोपभोगरूपविशेषार्थस्य समर्थनात्सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासालङ्कारः, अपिच जगति अरण्यस्य तादात्म्याध्यासात्निरङ्गरूपकञ्चालङ्कारः, तृतीयपादेन च एकत्र विरुद्धयोः तादृशस्नेहवियोगयोः सङ्घटनात्विरुपसङ्घटनारूपो विषमालङ्कारः, चतुर्थपादेन तु अनधिगतरामायणेन पुरुषेण सार्द्धंलवस्यावैधर्म्यसाम्योत्कीर्त्तनादुपमाऽलङ्कारश्च एषां चतुर्णां परस्परसापेक्षतया स्थिते सङ्करः इति ज्ञेयम्)। शिखरिणीवृत्तम्॥३०॥
रामः। ( स्वगतम् ) अये तटस्थित आलापः ; कृतं प्रश्नेन। दग्धहृदयः कोऽयमाकस्मिकस्ते स्नेहपरिप्लवो विकारः ? एवञ्च निर्भिन्नहृदयावेगः शिशुजननेनाप्यनुकम्पितोऽस्मि ; भवतु तावत् ; अन्तरयामि। ( प्रकाशम् ) वत्सौ रामायणमिति श्रूयते भगवतो वाल्मीकेः मरस्वतीनिष्यन्दः प्रशस्तिरादित्यवंशस्य ; तत्र कौतूहलेन यत्किञ्चिच्छ्रोतुमिच्छामि। ( श )
(श) तटे- समीपे, श्थितः,-समासीनः, सीतासम्ब…कथायाः मध्यसप्रवीश्यैव तदुपान्ते वर्त्तमान इत्यर्थः, उदासीनपुरुषाभ्यामिव प्रवर्त्तित इति यावत्। आलापः,-अनयोः भ्रात्रोः मातृत्वसम्बन्धाल्लेखरहितं सिथः भाषणम्; संलापेनैतेन स्फुटं परिजायते, यन्नैतौ सीतासुतौ इति, तथात्वे कथं हि कुशः ‘‘सीतादेव्याः ’ इत्यत्र ‘‘जनन्याः ‘‘इत्यादिकं नाभिदध्यादिति हृदयम्। प्रश्नेन- सीतारामौ युवयोः मातापितरौ इत्येवं परिपृच्छयेति यावत्। कृतम्- अलम्। दग्धहृदय-हतचेतः; सीतासुतावेवैतौ इति प्राक्कृताऽऽशयाः सर्व्वथेदानीं वैफल्ये दयैननिर्दग्धीभूतस्यास्य नाशप्रायत्वमाशङ्क्यानास्थयैवैषा सम्बुद्धिः कृतेति ज्ञेयम्। आकस्मिकः,-अकस्मादुद्भूतः, ओतुक इति यावत्। स्नेहपरिप्लवः,-स्नेहेन- वात्सल्येन, परिप्लवः,-चञ्चलः, वात्सल्याविवशतया समधिकमस्थिर इति यावत्। विकारः,-अन्यथाभावः, स्नेहाधिक्योदयात्निरतिशयवाञ्चल्यमिति यावत्। एवञ्च- इत्यञ्च; अश्रुप्रवाह- वर्षणादिति भावः। निर्भीन्नः- प्रकटोभूतः, दृदयस्य- चेतसः, आवेगः,-वाञ्चल्यं, दुःखसङ्क्षोभ इति यावत्, यस्य तथाभूतः, अहमिति शेषः। शिशुजनेन- बालकजनेन। अनुकम्पितः,-अनुगृहीतः, कृपापात्रीकृत इत्यर्थः। अस्मि- भवामि; स्वभावधीरस्य मे एतादृशमधैर्य्यंसर्व्वथैवानुपपन्नमिति भावः। भवतु तावत्- अस्त्विवमित्यर्थः। किं तत्? तदेवाह, अन्तरेति। - अन्तरयामि- आपतितं शोकावेगं विषयान्तरसञ्चारणेन अपनयामि, (अन्तरङ्करोमित्यर्थे ‘‘तत्करोति- ‘ ‘ (ग०) इति णिचि लटि रूपम्) सरस्वत्याः,-वाचः, ( ‘‘गीर्वाग्वाणीसरस्वती ‘‘इत्यमरः) निष्यन्दः,-प्रवाहः, विरचनमित्यर्थः, वाक्यस्तोम इति यावत्। आदित्यवाशस्य सूर्य्यवंशस्य। प्रशस्तिः,-प्रशंसा, चरितकीर्त्तनामित्यर्थः। तत्र- प्रशस्तौ। कौतूहलेन- औत्सुक्येन, तच्छ्रवणेतर्षातिरेकोदयेनेत्यर्थः। यत्किञ्चित्- कञ्चिदंशनिशेषमिति यावत्। श्रोतुमिच्छामि- आकर्णितुमभिलषामि।
कुशः। स कृत्स्न एव सन्दर्भोऽस्माभिरावृत्तः ; स्मृत्युपस्थितौ तावदिमौ बालचरितस्यान्तेऽध्याये द्वौ श्लोकौ। ( ष )
रामः। उदीरयतु वत्सः। ( स )
कुशः। —
प्रकृत्यैव प्रिया सीता रामस्यासीन्महात्मनः।
प्रियभावः स तु तया स्वगुणैरेव वर्द्धितः॥ ३१॥
(ष) कृत्स्न एव- समग्र एव। सन्दर्भः,-रामायणग्रन्थः। आवृत्तः,-अधीतः। स्मृत्युपस्थितौ- स्मरणपथमातितौ। बालचरितस्य- पूर्वचरितस्य, प्रथमस्य बालकाण्डस्येत्यर्थः। अन्त्ये- चरमे। अध्याये- परिच्छेदे। द्वौश्लोकौ- द्वे पद्ये; अधीतनिखिलरामायणप्रबन्धोऽपि अहं केवलमिदानीमनयोः श्लोकयोः स्मरामि, तेन हि भवत्कौतुकविनिकृत्तये तावेवपठितुं शक्नोमि इति भावः।
(स) उदीरयतु- अभिदधातु। वत्सः,-स्तिस्नेहास्पदं भवानित्यर्थः। तौ एव श्लोकौ इदानीं क्रमेणाभिधत्ते, प्रकृत्यैवेति। - सीता वैदेही, महात्मनः सहोदारचेतसः, रामस्य रघुमणेः, प्रकृत्यैव स्वभावेनैव; मतुकृत्रिमतयेति भावः; प्रिया प्रौतिकरी, आसीत् अभूत्; महामनाः राघवः जानक्यां तत्त्वत एव प्रणयो आसीत्, नह्यसौ अस्यां मनागपि कपटप्रणयं व्यधत्त इति भावः। कालक्रमेण तत्प्रणयस्य अन्यथात्वशङ्कां निरस्यति, प्रियभाव इति। - तया सीतया, स तु प्रियभावः तथाविधः अनिर्वचनीयः प्रणयः इत्यर्थः, स्वगुणैरेव स्वकीयपातिव्रत्यादिगुणसङ्घरेव, वर्द्धितः वृद्धिनीतः, महात्मारघुप्रवरः सीतायाः केवलमनुपमं लावण्यमभिसमीक्ष्य नतस्यामतिप्रणयी अभूत, नवा कृपासीन्धुः रघुमणिः महौदार्य्येण तस्यां वात्सल्यवानासीत्, यत्तत्प्रियभावे कृत्रिमता आशङ्केत, असौ तया स्वकीयविनयाऽऽर्ज्जवादिगुणगरिम्णौवोप्रार्ज्जितः, तेन हि महात्मनोरेतयोरतिविशुद्धः सुधाऽवदातः तादृशः प्रियभावः अन्यत्र दुर्लभ एवेती भावः; एतादृशः प्रियभावः निर्वासनावसरे कथं हि ततः सपदि विलुप्तोऽभूत , तदतीव विस्मयकरमिति तु हृदयम्। पथ्यावक्त्त्रं वृत्तम्॥३१॥
तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत्।
हृदयं त्वेव जानाति प्रीतियोगं परस्परम्॥ ३२॥ इति।
रामः। कष्टम् अतिदारुणो हृदयमर्मोपघातः। हा देवि एवं किल तदाऽऽसीत् । अहो निरन्वयविपर्य्यासविरमवृत्तयो विप्रलम्भपर्यवसायिनस्तापयन्ति संसरवृत्तान्ताः। ( ह ) —
सीताया अपि अकपटः तथैव प्रियभावः रघुमणौ आसीदित्यावेदयति, तथैवेति। - तथैव सीता यथा रामस्य आसीत्तद्वदेवेत्यर्थः, सीतायाः वैदेह्याः, रामः रघुद्वहः, प्राणेभ्योऽपि स्वजीवनादपि, प्रियः प्रीत्यास्पदम्, अभवत् आसीत्; रामवत्सीता अपि नहि रामे कृत्रिमप्रणयवती बभूवेति भावः। कीदृशं तत्? इति प्रश्ने तस्यानुपमत्वमाह, हृदयमिति। - हृदयमेव तयोरुभयोः मानसमेव, परस्परम् अन्योऽन्यगतं, प्रीतियोगन्तु प्रणयसम्बन्धं पुनः, इतरेतरगतम् अतिविशुद्धं हार्द्दमिति यावत्, जानाति वेत्ति; तयोरुभयोः परस्परहृदयं विना अन्यस्य कस्यापि तत तादृशं प्रीतियोगं नाभिजानाति, अन्यत्र तादृशप्रेमादर्शनात्दृष्टान्तस्य सौलभ्यविरहादिति भावः। एतादृशे परम्परसदृढप्रणये सति कथं हि तयोरेवम् अरुन्तुदः वियोगः उदपादि, तद्विषयकविस्मयस्य भगवति रामभद्रे समुत्पादनार्थं श्लोकयोरेतयोरवतारण इत्यवधेयम्। (श्लोकावेतौ अस्मद्देशीये वाल्मीकीये रामायणे बालकाण्डान्तिमाध्याये न दृश्येते, एतदनुरूपौ हि अवलोक्येते, तेन तत्प्रतिच्छायामबलम्ब्यकं विना अभिनवावेवैतौश्लोकौ विरचिताविति विभावयामः। तच्छ्लोकौ यथा,- ‘‘प्रिया तु सीता रामस्य दाराः पितृकृता इति। गुणाद्रूपगुणाच्चापि प्रीतिर्भूयो विवर्द्धते॥ तस्याश्चभर्त्ताद्विगुणं हृदये परिवर्त्तते। अन्तर्गतमपिव्यक्त्तमाख्याति हृदयं हृदा॥ ‘‘इति)। पथ्यावक्त्तंवृत्तम्॥३२॥
(ह) कष्टम्- अतीव क्लेशकरम्, अतिदुःखप्रदमित्यर्थः। अतिदारुणः,-अतिभयङ्करः, कथमपि सोढुमशक्य इत्यर्थः। हृदयमर्म्मोपघातः,-हृदयस्य- अन्तःकरणस्य, मर्माणि- शिरास्नायुस्थिसन्धिप्रभृतीनां सन्निपातस्थानानि, तेषामुपघातः,-ताडनं, सङ्क्षोभः इति यावत्; यहा- हृदयमर्म्मणाः,-अन्तःकरणरूपमर्मस्थलस्य, उपघातः,-विदारणम्; बालस्यैतत्भाषणं समुहुद्धपूर्व्वस्मृतेर्मे हृदयं सर्व्वथानिकृन्ततीति भावः। ( ‘‘उहातः ‘‘इति पाठान्तरम्) अथ स्मृतेरभ्युदयेन अतिविषमं तथाविधं शोकं सोढुमपारयन् अधीरतया विमप्रति, हा देवीति। - तदा- बाल्ये वयसि। एवं किल-इत्थमेव। आसीत्- अवर्त्तिष्ट; आवयोः प्रीतियोगः आयुष्मता कुशेन महर्षिविवर्ं इतः यथा उक्त्तः, स तथैव तत्त्वतः आसीदिति भावः। निरन्वयेति। - निः,-नास्ति, अन्वयः,-सम्बन्धः हेतुर्वायस्मिन्तथाभूतः, आकस्मिक इति यावत्, यः विपर्य्यासः,-विपरिणामः, पूर्वावस्थाया अन्यथाभावः इत्यर्थः, तेन विरसाः,-अहृद्याः, वृत्तयः,-व्यापाराः येषां तथाभूताः, ओतुकदशाविपर्य्ययोपपादकतया सुतरां मर्म्मपीडका इति भावः। विप्रेति। - विप्रलम्भे- वियोगोद्भूते शोके, पर्य्यवस्यन्ति- परिणमन्तिये तथाभूताः; सन्तापोदको इति भावः। संसारस्य- सृष्टेः, एतज्जगत इति यावत्, वृत्तान्ताः,-वृत्तवस्तूनि, कर्म्मनिचयाः इत्यर्थः। सन्तापयन्ति- व्यथयन्ति; वियोगबहुले इह जगति मर्म्मोपपीडकाः व्यापारनिवहाः सततं हिसं सारिणां मानसानिव्याकुलः कुर्वन्ति, नास्ति क्रिया नापि इह सुखलेश इति भावः।
क्व तावानानन्दो निरतिशयविस्रम्भबहुलः ?
क्व तेऽन्योन्यं यत्नाः ? क्व च नु गहनाः कौतुकरसाः ?॥
सुखे वा दुःखे वा क्वनु खलु तदैक्यं हृदययोः ? तथाऽप्येष प्राणः स्फुरति न तु पापो विरमति ॥ ३३॥
प्रोक्त्तं हिसां सारिकं विपर्य्यासमिदानीं स्वस्मिन्नेव निशदीकृत्य विवृणोति, क्वेति। - निः नास्ति, अतिशयः आतिशय्यं यस्मात्तथाभूतः, लोकोत्तरः इत्यर्थः, यः विस्रम्भः विश्वासः, प्रीतिप्रवणतेति यावत्, तव वहलह्घनः; असीमप्रणयपरिपूर्णः इति भावः; तावान्तत्परिमितः, आनन्दः हर्षः, क्व कुत्र? अधुनाप्रागनुभूतातादृशीप्रेमगर्भसुखसन्ततिधारा कुत्र विलुप्तेति भावः; अन्योऽन्यम् इतरेतरम्, अधिश्रिताः इति शेषः, ते तथानिधाः, अकपटाः इति यावत्, यत्राः सुखाधायकाः चेष्टाविशेषाः क्व कुत्र? विलुप्ताः इति शेषः; ते हि इदानीं नानुभूयन्ते इत्याशयः; गहनाः निविडाः, निर्भरा इत्याहुः तर्हि, कौतुकेषु कौतूहलोत्पादकेषु विषयेषु इति यावत्; नर्म्महाप्तादिकेषु वा, रसाः रागाः, क्वचनु? कुत्र हि अपसृत्य गता इत्यर्थः; प्रागिव वयमिदानीं कौतुकोद्दीपकविषयव्यापृतानभवेन इति भावः; सुखे वा आनन्दे वा, दुःखे वा विषादे वा, तत्प्रागवस्थितं, तथाविधामित्यर्थः, हृदययोः सीतायाः मम च मानसयोः, ऐक्यम् एको भावः, सुखदुःखयोरभिन्नानुभूतिरिति यावत्, क्वनु खलु? कुत्र हि विलुप्तं सत्गतमित्यर्थः; पुराहि पतिव्रता सीता यथा मम सुखे सुखिनी दुःखे च दुःखिनी आसीत्, तथैवाहमपि आसम्, उभौ हि आवां समसुखदुःखौ आस्व, इदानीन्तु तादृशभावः कथं हि सपदि आदृश्यतां गतः, इत्यहो विचित्राः संसारगतयः इति भावः; तथाऽपि पूर्व्वमेवम्भूते अकपटे प्रणये उपभुक्त्ते अधुना तु दुर्व्विषहेतस्याविरहे समुदिते अपीत्यर्थः, एषः मदीयः इति भावः; पापः दारुणदुःखदायकतया दुरदृष्टफ्लभूत इत्यर्थः, दग्ध इति यावत्, प्राणः हृदयस्थवायुविशेषः, प्राणवायुरिति यावत्, ( ‘‘प्राणोहृन्मारुते वोलेकाव्यजीवेऽनले बले। ‘‘इति मोदिनि। अत्र प्राणस्य आन्तरवायुविशेषार्थकतया एव तत्वमवधेयम्) ; स्फुरति स्पन्दते, इदानीमपि निश्वसिमि इति यावत्, नतु विरमति नश्वसमकर्म्मणः निवर्त्तते, नाहं म्रिये इत्यर्थः; सम्प्रति प्राणविहानमेवमेवरमित्याशयः। ( ‘‘व्याङ्परिभ्योरमः ‘ ‘(१। ३। ८६पा०) इति परस्मैपदम्। अत्र प्राणनाशकरकठोरदुःखकारणसत्त्वेऽपि प्राणवियोगरूपफलोदयस्याभावात्विशेषोक्यलङ्कारः)। शिखरिणीवृत्तम्॥३३॥
भोः कष्टम् । –
प्रियागुणसहस्राणामेकोल्मीलनपेशलः।
य एव दुःस्मरः कालस्तमेव स्मारिता वयम्॥ ३४॥
अथ स्वेषां शैशवसमयस्य कुशेन महर्षिभारत्या स्मृतिपथमापादितस्य सातिशयदुःखदायकत्वमाह, प्रियेति। - प्रियायाः सीतायाः, गुणसहस्त्राणाम् असङ्ख्यानां सारल्यपादतिव्रत्यादिगुणानाम्, एकेन असाधारणेन, उन्मोलनेन उदयेन, पेशलः मनोरमः; वैदेह्याः ये ये हि श्रेष्ठाः गुणसद्धामयायस्मिन्काले प्रागनुभूताः तेषां तेषां हि विभिन्नकालिकानां सर्वेषाम् एव गुणानां युगपत् एतस्मिन्नेव काले स्मृतिपथे समुदयात् अतीव रमणीयतमः इति भावः; यहा- प्रियागुणसहस्त्राणाम् एकोन्मीलने असाधारणोन्मेषे, सम्पूर्णतया स्मृतिविषयीभूतसम्पादने इत्यर्थः, पेशलः दक्षः, निपुण इत्यर्थः; ( ‘‘चारौदक्षेचपेशलः ‘‘इत्यमरः) प्रियायाः असङ्ख्येयगुणावलीनामतिशयेन स्मारक इति समुदितार्थः, य एव यो हि, कालः पूर्व्वतनः सुखकरः समयः, दुःखरः सर्व्वथा दुःखदायकतया अघुना स्मर्त्तुमशक्यः; इदानीन्तनवियोगसमयस्य सुखकरकालोत्तरवार्त्ततया स्वत एव दुर्व्विषयत्वेन प्रागनुभूतसुखसमयः स्मृतिपथमापतितः सुतरामेवासहनीयो भवतीति भावः; तमेव तादृशं कालमेव, वयं स्मारिताः स्मृतिपथमापादिताः; सीता गुणसम्पृक्त्तस्य पूर्व्वतनसुखसमयस्य अधुना स्मरणात्शोकः नितरामेव मर्म्माणि पीडयतीति भावः। (वयमित्यस्य ‘‘गतिबुद्धि- ‘ ‘(१। ४। ५२पा०) इत्यादिना अणि कर्त्तुः कर्म्मत्वेन उक्त्ते कर्म्मणि प्रथमा ज्ञेया। अत्र ‘‘स्मारिताः ‘ ‘इत्यस्य ज्ञानसामान्यार्थपरत्वेन व्याख्याने स्मृतिरूपज्ञानविशेषार्थकतया च अव्याख्याने प्रदर्शितसूत्रस्य ज्ञानसामान्यार्थकत्वेन विषयतया प्रोक्त्तार्थसङ्गतिरित्यवधेयम्। तथा च ‘‘दृशेश्च ‘‘इति वार्त्तिकसूत्रे दीक्षिताः,-सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं, न तु तद्विशेषार्थानामित्यनेन ज्ञाप्यते, तेन स्मरतिजिघ्रतीत्यादीनां न स्मारयति घ्रापयति वा देवदत्तेन ‘ ‘इति। अन्येतु दर्शनरूपज्ञानविशेषार्थकदृशिघातोरेवार्णिकर्त्तुः कर्मत्वस्य वैकल्पिकत्वं, ज्ञानसामान्यार्थकानान्तु नित्यत्वं विदधति, तथा च तन्मते न कश्चिद्दोषः, इत्यलमनल्पजल्पनेन इति)। पथ्यावक्क्तवृत्तम्॥३४॥
तदा किञ्चित् किञ्चित् कृतपदमहोभिः कतिपयै-
स्तदीषद्विस्तारि स्तनयुगलमासीन्मृगदृशः।
वयः स्नेहाकूतव्यतिकरघनो यत्र मदनः
प्रगल्भव्यापारः स्मरति हृदि मुग्धश्च वपुषि॥ ३५॥
तादृशरमणीयतरः कालः कथम्भूत एवासीत्, यो हि इदानीं सर्वथादुःस्मरणिय इत्युच्यते, तमेवाभिधत्त, तदेति। - तदाबाल्ये वयसि, विवाहात्, परत एवेत्यर्थः; प्रागेवस्तनिद्भेदकालात् उप्रयमनदिधेः प्राशस्तिकत्वादित्याशयः; सृगदृशः कुरङ्गजयनायाः प्रियायाः सीताया इत्यर्थः, स्तनयुगलं कुचयुगलम्, किञ्चित्किञ्चित् ईषदीषत्, कृतपदं लब्धस्थानं, क्रमेण मुकुलमिवकियत्लब्धोदयं सदित्यर्थः, कतिपयैः कतिभिः, अहोभिः दिवसैः, कियद्दिनाम्यन्तर एवेत्यर्थः, (अपवर्गे तृतीया) तत्स्तनयुगलम्, ईषद्विस्तारिस्तोकविकाशि, स्वल्पविस्तृतमिति यावत्, आसीत् आभूत; यौवनोद्गमात्क्रमशः तत्कालोचितं स्थौल्यमधिगन्तुमारेभे इति भावः; यत्र यस्यामवस्थायां, वयसः यौवनस्य, स्नेहस्य प्रणयस्य, आकूतस्य अभिप्रायस्य च, व्यतिकरेण सम्पर्केण, घनः निविडः, निरतिशयं परिप््रष्टः इति यावत्, मदनः कामः, हृदिमानसे, प्रगल्भः पौढः, व्यापारः क्रिया यस्य सः, सम्यगुहुद्धः सन् इत्यर्थः, स्फुरति विकाशते, वपुषि शरीरे, वहिराकारे इति यावत्, सुग्धश्च मृदुश्च, लज्जावशात्नातिप्रबल इत्यर्थः, तादृशश्च सन्, स्फुरति इत्यन्वयः; तथा च तदानीं कामः वयसा प्रेरणाअभिप्रायविशेषेण च नितरां प्रवर्द्धितः सम्हृदये समुत्कटः, शरीरे सौम्यदर्शनः समजनि इति भावः। (अत्र एकस्यैव मदनस्य हृदयदेहस्थलहयगोचरत्वेन पर्य्यायालङ्कारः, अपिच प्रगल्भत्वमुधत्वयोर्विरूद्धयोः एव तदीयवपुषि अविरुद्धतया समावेशेन विरोधाभासोऽलङ्कारः, इत्युभयोरङ्गाङ्गिभावेन सङ्करः)। शिखरिणीवृत्तम्। ३५॥
कुशः। अयञ्च मन्दाकिनीचित्रकूटवनविहारे सीतादेवीमुद्दिश्य रघुपतेः श्लोकः। ( क ) –
त्वदथमिव विन्यस्तः शिलापट्टोयमग्रतः।
यस्यायमभितः पुष्पैः प्रवृष्ट इव केशरः॥ ३६॥
(क) मन्दाकिनी- चित्रकूटोपान्तचारिणी काचित्गितिणदी, गाङ्गा इति केचित्, तथाच रघौ कालिदासः,- ‘‘मन्दाकिनी भाति नगोपकण्ठे सुक्त्तावली कण्ठगते वभूमेः। ‘‘इति ;चित्रकूटश्च- तदाख्यः पर्व्वतविशेषः, तत्र यानि वनानि- अरण्यानि, तेषु विहारः,-क्रीडा तस्मिन्, तत्र तत्र विहारावसरे इत्यर्थः। सीतादेवीं- वैदेहीम्। उद्दिश्य- सम्बोध्य। रघुपतेः श्लोकः,-रघुपतिना एषः वक्ष्यमाणः श्लोकः आभ्यधायि इत्यर्थः।
अथ विहारकालिकतमेव श्लोकमिदानीमभिधत्ते, त्वदथेमिवेति। - अग्रतः पुरतः, अयं परिदृश्यमानः, शिलापट्टः शिलाखण्डरूपमासनं, त्वदर्थमिव तदीयवेशनार्थमिव, विन्यस्तः स्थापितः, यस्य शिलापट्टस्य, अभितः सर्व्वतः, अयं केशरः वकुलपादपः, स्वकुसुमानिशिलातलेषु सन्न्यस्य तव सुखशय्यां विरचयितुं प्रवृत्त इव प्रतीयते इति भावः। (अत्र ‘‘यस्य ‘‘इत्यत्र अभितः शब्दयोगात्द्वितीयाप्रसत्तेः ‘‘अभितःपरितः- ‘ ‘(वा०) इत्याद्यनुशासनोल्लङ्घनेन षष्ठीप्रयोगात्च्युतसंस्कारताऽऽख्यः दोषः। श्लोकश्चैष रामायणे न दृश्यते इति कविकृतोऽमिति विभावयामः। अत्र स्वाभाविकशिलाविन्यासपुष्पप्रवर्षणयोः सीतासङ्गतत्वार्थकत्वाभावेऽपि तदर्थगतत्वेनाभिधाने न उत्कटैककोटिकसंशयसमुदयात्क्रियोत्प्रेक्षे अलङ्कारौ, तयोश्चान्योऽन्यसापेक्षत्वात्सजातीयसङ्करः; एतेन सुखकरविहारस्थानमेतदिति च गम्यते इत्यलङ्कारेण वस्तुध्वनिः)। पथ्यावक्त्तं वृत्तम्॥३६॥
रामः। ( सलज्जितस्नेहकरुणम् )। अतिनामायं मुग्धः शिशुजनः ; विशेषतस्त्वरण्यचरः । हा देवि स्मरसि वा तस्य प्रदेशस्य तत्समयविस्रम्भातिशयप्रसङ्गसाक्षिणः ? कष्टं भोः कष्टम्। ( ख ) –
श्रमाम्बुशिशिरीभवत् प्रसृतमन्दमन्दाकिनी –
मरुत्तरलितालकाकुलललाटचन्द्रद्युति।
(ख) लज्जितं- लज्जा ;प्रियासङ्गतस्य गोप्यविषयस्य वहिः प्रकाशनादिति ज्ञेयम्, स्नेहः,-सीतागतः प्रणयः, पुत्त्रत्वबोधाहतत्रशिशुजने वात्सल्यं, करुणश्च- सीताविरहकृतः शोकश्च, तैः सहवर्त्तमानं यथातथा, आहेति शेषः। अतिनाम- अत्यथेमेव। अयं शिशुजनः,-बालः कुश इत्यर्थः। मुग्धः,-सरलभावसम्पन्नः। विशेषतः,-विशेषेण। अरण्यचरः,-आरण्यकः; बालजनः स्वभावत एव चातुर्य्यलेशरहितः भवति, वनवासिबालस्तु सुतरामेवेतिभावः। अथ तत्प्रदेशस्य स्मृत्युदयात्विलपति, हेति। - देवि-सीते। स्मरसि?-स्मृतिविषयतां नयसि? इत्यर्थः। तस्यप्रदेशस्य- शिलापट्टादिसमर्थः तं देशमित्यर्थः। ( ‘‘अधीगर्थदयेशाम्- ‘ ‘(२। ३। ५२पा०) इति स्मृत्यर्थयोगात्कर्म्मणि षष्ठी) तत्समये- वनविहारकाले, यः विस्रम्भाति शयः,-विश्वासबाहुल्यम्; तत्तद्देशानां निरुपद्रवत्वात्तत्रमिथः सम्भाषणादेरनायासेनैवजायमानत्वादित्याशयः; तस्य प्रसङ्गः,-व्यापारः, अनुष्ठानमिति यावत्, तस्य साक्षी- द्रष्टा तस्य, आवयोः विश्वस्तालापविहरणादिक्रियाणां परिदर्शकस्येत्यर्थः; यत्र हि आवां सुखेन प्रागवसाव, तं देशमिति भावः। कष्टं भोः कष्टं- दुर्विषहस्य दुःखस्य जनकमेतदिति भावः।
अथ तत्तद्देशानां स्मृत्यासपदिसीतामुखप्रत्यभिज्ञानोदयात्तस्य तस्य वस्तुनः नितरां दुर्विषहतामाह, श्रमेति। - श्रमाम्बुभिः श्रमजनितैः जलैः, धर्म्मोदबिन्दुभिरिति यावत्; सर्व्वत्रवनोद्देशेपादाभ्यां विहरणादिति भावः; शिशिरीभवत्शीतलीभावमापद्यमानम्, अपिच प्रसृतेन उच्चलितेन, मन्देन मृदुना, मन्दाकिनीमरूतामन्दाकिनीसलिलसम्पृक्त्तवायुना, तरलितैः चञ्चलतामापादितैः, अलकैः चूर्णकुन्तलैः, आकुलातिरोहिता, ललाटचन्द्रस्य भालरूपशशधरस्य, द्युतिः दीप्तिः, शोभेति यावत्, यस्मिन्तत्, (कर्म्मधरये कृते ‘‘श्रम….द्युति ‘‘पर्य्यन्तमेकपदम् इति केचित्) कुङ्कुमेन कलङ्कितौचि….तौ, रञ्जितौ इति यावत्, कुङ्कुमकलङ्कितौ, ( ‘‘कलङ्काङ्कौलाच्छनञ्चचिह्नलक्ष्मचलक्षणम् ‘‘इत्यमरः) नकुङ्कुमकलङ्कितौ अकुङ्कुमकलङ्कितौ कुङ्कुमरागरहितौ इति यावत्, तथाऽपि उज्ज्वलौ दीप्यमानौ,
अकुङ्कमकलङ्कितोज्ज्वलकपोलमुत्प्रेक्षते
निराभरणसुन्दरश्रवणपाशसौम्यं मुखम्॥ ३७॥
स्वत एव मनो अरावित्यर्थः, कपोलौ गण्डौ यस्मिन्तथाविधम्, अपिच निराभरणौ अनलङ्कृतौ, तथाऽपि सुन्दरौ रमणीयौ, यौ श्रवणपाशौ प्रशस्तौ कर्णौ, निसर्गरमणीयौ कर्णैवित्यर्थः, ( ‘‘पाशः केशादिपूर्वः स्यात्तत्सङ्घेकर्णपूर्वकः। सुकर्णे च ‘‘इति मेदिनी) ताभ्यां सौम्यं रुचिरं, रमणीयमिति यावत्, मुखं सीतावदनम्, उत्प्रेक्ष्यते दृश्यते, सततमनुध्यानेन तव तादृशं मुखं विलप्तदर्शनमपि इदानीं दृग्विषयतामासाद्यते इवेत्यर्थः; अहो पुरा वनविहारजनितघर्म्मबिन्दुसशोभितं मृदुशीतलमारुतान्दोलितकुन्तलराजिरञ्चितभालशोभामुन्दरं कपोलरागरूचिरं सुमनोहरकर्णयुगलविमण्डितं ते मुखं कियद्धिस्मर्त्तुमिदानीं कथमपि शक्नोमीति भावः। (अत्र तथाविधसीतामुखस्यानुत्प्रेक्षितत्वेऽपि सम्भावनया तथात्वेनोत्प्रेक्षणात्, वाचके वादिशब्दस्य च गम्यमानत्वात्प्रतीयमानक्रियोत्प्रेक्षाऽलङ्कारः, चन्द्रेण सह ललाटस्य च अभेदाध्यासात्निरङ्गरूपकमलङ्कारः, अपिच कुङ्कुमरूपरञ्जनसाधनाद्यभावेऽपि तथा श्रवणप्रसाधनाद्यभावेऽपि च ओतुकसौन्दर्य्योदयदर्शनात्विनाहेतुककार्य्योत्पत्तिरूपविभावनाऽलङ्कारश्च, इत्येतेषामन्याऽन्यसापेक्षतया संस्थितेः सङ्करः )। पृथ्वीवृत्तं- ‘‘जसौजसयलावसुग्रहयतिश्चपृथ्वीगुरुः ‘‘इति लक्षणात्॥३७॥
( स्तम्भित इव स्थित्व सकरुणम् )। अहो न खलु भोः ( ग ) –
चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः
प्रवासेऽप्याश्वासं न खलु न करोति प्रियजनः।
जगज्जीर्णारण्यं भवति हि विकल्पव्युपरमे
कुकूलानां राशौ तदनु हृदयं पच्यत इव॥ ३८॥
(ग) स्तम्भित इव- शोकावेगेन नितरां जडोभूतः इव, पिशाचोपहत इव निर्व्यापारतया संस्थित इवेत्यर्थः। सकरुणां- सखेदम्। अहोनुखलुभोः,-अहोवत, निरतिशयशोकसङ्कुलमेतदित्यर्थः।
तदेव शोककारणं विशेषेणं विवृणोति, चिरमिति। - चिरं सुदीर्घकालं, ध्यात्वा ध्यात्वा अभीक्ष्णचिन्तयित्वा, (वीप्सायां द्विः) नियतं तद्रूपानुधयानेनेत्यर्थः, निर्म्मायसृष्ट्वा, पुरतः अग्रतः, निहित इव स्थापित इव; सततचिन्तनमहिम्नाकाल्पनिकचित्रं वनयोः पुरतः आनीय संस्थापित इवेति भावः; प्रियजनः प्रीत्यास्पदीभूतो जनः, प्रवासेऽपि देशान्तरेऽपि, दीर्घविप्रयोगावसरेऽपि इति यावत्, आश्वासं सान्त्वनाम्; विरहिणं तद्विरहदग्धहृदयस्येति भावः; न खलु करोतिनैव विदधाति, इति न,
( नेपथ्ये )। –
वसिष्ठो वाल्मीकिर्दशरथमहिष्योथ जनकः
सहैवारुन्धत्या शिशुकलहमाकर्ण्य सभयाः।
जराग्रस्तैर्गात्रैरथ खलु विदूराश्रमतया
चिरेणागच्छन्ति त्वरितमनसोपि श्रमजडाः॥ ३९॥
अपि तु करोत्येवेत्यर्थः, विकल्पस्य तादृशानुध्यानस्य, व्युपरमे निवृतौ, (सति) जगद्भूमण्डल, जीर्णारण्यं पुरातनतया पत्रपुष्पादिपरिशून्यशुष्कशाखापादपादिप्रतिभयं वनमिव सर्वथा अशोभनं, केवलं शोकदुःखादिसङ्कुलमिति यावत्, भवति हि सम्पद्यते एव; सर्वं सुशोभनमपि सर्वथा अशोभनमिव प्रतिभाति इति यावत्; तदारम्याण्यरम्याणिप्रियाः शल्यं तदाऽसवः। तदैकाकी सबन्धुः सन् इष्टेन रहितो यदा॥ ‘‘इति भावः; तदनु तत्पश्चाच्चेत्यर्थः, हृदयं चेतः, विरहिजनस्येति शेषः, कुकूलानां तुषाग्नोनां ( ‘‘कुकूलं शङ्कुभिः कीर्णोश्वभ्रेनातुतषानले। ‘‘इत्यमरः) राशौ प्रचये, पच्यते इव दह्यते इव; आदौ चेतः उदासीनं कत्वापश्चात्नितरां तेनाऽऽधिवाभस्मीक्रियते इवेति भावः; निरन्तरानुचिन्तनवशात्यद्यपि प्रियजनप्रतिकृतिः मानसपटे समुदीय कथञ्चित्मानसं नितरां दन्दह्यते इत्यहो प्रियजनविप्रयोगस्य दुर्विषहतेति सङ्क्षेपः। (अत्र प्रियजनप्रतिकृतेः पुरतः अनिहितत्वेऽपि सम्भावनया तथात्वोत्कीर्त्तनात्, अपिच हृदयस्य पचनाद्यभावेऽपि सम्भावनया तथात्वेन सम्भावनात्द्योतके वादेश्चासत्त्वात्प्रतीयमानोत्प्रेक्षाऽलङ्कारः, अपिच जगति जीर्णारण्यतादात्म्याध्यासाच्चनिरङ्गंरूपकमलङ्कारः, इत्येतेषां चतुर्णां परस्परनैरपेक्ष्येण संस्थितेः सङ्करः)। शिख्नरिणीवृत्तम्॥३८॥
अथ एतदङ्के विशेषतो विवृतस्य रामभद्रीयापारशोकस्य सपदि प्रस्तावान्तरोप्रक्षेपणेन विपर्य्यस्तभावमुपपादयितुमिदानीं नेपथ्यभाषणेन लवचन्द्रकेत्वोः युद्धवार्त्ताश्रवणात्सभयानां भगवद्वशिष्टादीनां कौशल्यायाश्चयुद्धक्षेत्रागमनमुपवर्णयति, वशिष्ठ इति। - वशिष्ठः तदाख्यः रघुकुलगुरुः, वाल्मीकिः भगवान्प्राचेतसः, दशरथस्य महिष्यः कृताभिषेकापत्नौकौशल्या इत्यर्थः; (एकत्वेऽपि गौरवात्बहुवचनम्। केचित्तु ‘‘महिष्यः ‘ ‘इति बहुवचनदर्शनात्सर्वासामेव दशरथपत्नौनामागमनमामनन्ति तन्न, यतः तस्या एव अस्या एवात्रागतत्वात्, उपरिष्टात्र वचसैतत्विवृतिमेष्यतीति ज्ञेयम्) अथ जनकः विदेहराजोऽपि; एते सर्वे इति भावः; अथ शब्दोऽत्र समुच्चयार्थकः; अरुन्धत्या वशिष्ठपत्न्या, सहैव सार्द्धमेव, शिश्वोः लवचन्द्रकेत्वोः, कलहं सङ्ग्रामम्, आकर्ण्य श्रुत्वा, सभयाः कलहायमानयोः समानसम्बन्धयोः बालयोः अनिष्टापातमाशङ्क्य वित्रस्ताः, सञ्जाता इति शेषः, अथ अनन्तरं, विदूरः अतिदूरवर्त्ती, असन्निकृष्टः इति यावत्, आश्रमः येषां तेषां भावः, तत्तातया; तेषामाश्रमस्य अतीवदरवर्त्तिस्वादिति भावः; श्रमेण पथिभ्रमणक्तान्त्या, जडाः कातराः सन्तः, श्लथगमनाभूत्वा इति यावत्, त्वरितं त्वरायुक्त्तं, सोत्कण्ठमित्यर्थः, मनः येषां तथाभूताः सन्तोऽपि, जरया वार्द्धकेन, ग्रस्तैः आयत्तीकृतैः वार्द्धकोदयात्सामर्थ्यहीनैरिति यावत्, गात्रैः देहैः उपलक्षिताः, ( ‘‘प्रकृत्यादिभ्यः ‘ ‘(वा०) इति तृतीया) चितेन विलम्बेन, आगच्छन्ति खलु आयान्ति खलु; खलुशब्दोऽत्र वाक्यालङ्कारे सान्त्वनायां वा , ( ‘‘खलु स्यात्वाक्यभूषायां जिज्ञासायाञ्च सान्त्वने ‘ ‘। इति मेदिनी ) लवचन्द्रकेत्वोः समरदर्शनेन तयोरनिष्टाशङ्कया नितराम् उत्कण्ठितानामाश्रमवासीनां केषाञ्चित् परिसान्त्वनार्थः कस्यचिन्मुनेः उक्त्तिरियमिति बोध्यम्; रघुकुलहितैषिणः भगवन्तः वशिष्ठादयः बालयोः सङ्ग्राममाकर्ण्य सत्वरं युद्धव्यवसायात्वारयितुमे तौ अभिलषन्तोऽपि आश्रमस्यातीवसुदूरस्थितत्वात्स्वेषाञ्च जराजीर्णगात्रतया त्वरान्वितमनसोऽपि पथि श्रमाभिभूततया क्लाम्यन्तः अत्वरितपदविक्षेपमागच्छन्तीति भावः। ( अत्र चिरेणागमनं प्रतिजराग्रस्तगात्रत्वम्यश्रमजडत्वस्य च हेतुगर्भत्वेनोपत्यासात्पदार्थहेतुकं काव्यलिङ्गसंलङ्कारः)। शिखरिणीवृत्तम्॥३९॥
रामः। कथं भगवन्तौ अरुन्धतीवशिष्ठौ अम्बा जनकश्चात्रैव खलु एते द्रष्टव्याः ? ( सकरुणं विलोक्य ) अहह तातजनकस्तु दैवादत्रैवायात इति वज्रेणैव ताडितोऽस्मि मन्दभाग्यः। ( घ ) (घ) भगवन्तौ- माहात्म्यवन्तौ। अरुन्धतीवशिष्ठौ- गुरुपत्नी गुरुश्च एतावित्यर्थः। अम्बा- माता कौशल्या। जनकश्च- विदेहराजः श्वशुरश्च। एते- सर्वे॥अत्रैव खलु- अस्मिन्सीतानिर्वासनस्थाने जनस्थाने एवेत्यर्थः, उपस्थिता इति शेषः। कथं- केन प्रकारेण। द्रष्ट व्याः,-अवलोकयितव्याः; एतेषां पुरतः दुर्दैव
विवशचेताश्वहं कथमपि स्वमुखं दर्शयितुं न शक्ष्यामीति भावः। विशेषतो जनकदर्शनस्य दुःषह दुःखदायकत्वमाह, अहहेति। - अहह-हा कष्टमेतदित्यर्थः। तातजनकस्तु- पितृतुल्यविदेहराजोऽपि। दैवात्- मम दुर्दैवविलससात्हेतोः। अत्रैव- अस्मिन्सीतानिर्वासनस्थाने एव। आयातः,-उपस्थितः। इति- अस्मात्हेतोः। वज्रेणैव- अतिकठोरकुलिशनैव। तडितः,-अभिहतः। अस्मि- भवामि। मन्दभाग्यः,-हृतदैवः; सीतायानिर्वासनात् अतिशुचः मां प्रति कुपितस्य च तज्जनकस्य जनकस्य साक्षात्करणं वज्रहननवत्मेनितरां पीडाजननमिति भावः।
सम्बन्धस्पृहणीयताग्रमुदितैर्जुष्टे वशिष्ठादिभिः
दृष्ट्वाऽपत्यविवाहमङलमहे तत् तातयोः सङ्गतम्।
पश्यन्नीदृशमीदृशे पितृसखं वृत्ते महावैशसे
दीर्य्ये किं न सहस्रधाऽहमथवा रामेण कीं दुष्करम् ?॥ ४०॥
अथेदानीं राजर्षेः जनकस्य सन्दर्शनेन पुनर्नवीभूतस्य शोकस्य तीव्रतायां हेतुं प्रदर्शयति, सम्बन्धेति। - सम्बन्धस्यवैवाहिकसम्पर्कस्य; विदेहवंशीयैः सह रघुवंशीयानामिति भावः; स्पृहणीयतया वाञ्छनीयतया, श्लाघनीयतयेत्यर्थः, प्रमुदितैः प्रहर्षपुलकितैः, वशिष्ठादिभिः वशिष्ठप्रभृतिभिः रघुकुलहितैषिभिः सुनिभिः, जुष्टे सेविते, स्वोपस्थित्यापूर्णतां प्रापिते इत्यर्थः, अपत्यानां सीतारामादीनां, विवाहः परिणयः, स एव मङ्गलः माङ्गलीकः, शुभकर इत्यर्थः, महह् उत्सवः तस्मिन्, ( ‘‘मह उद्वव उत्सवः ‘‘इत्यमरः) तातयोः पितुः दशरथस्य विदेहराजस्य च, तत्तथाविधम्, अतीव आनन्दविधायकमित्यर्थः, सङ्गतं पुरातनं समागमं, दृष्ट्वाप्राक् अवलोक्य, अधुना ईदृशे एवं विधे, दुर्विषहे इति यावत्, महावैशसेनिर्व्वासनेन सीताहत्यारूपे अतिक्रूरे कर्म्मणि, वृत्ते सङ्घटिते, सम्पादिते सति इत्यर्थः, ईदृशं शोकसंविग्रं, पितुः दशरथस्य, सखायं परममित्रं, राजर्षिजनकमित्यर्थः, ( ‘‘राजाहःसखिभ्यष्टच् ‘ ‘(५। ४। ९१पा०) इति समासान्तः टच्प्रत्ययः), पश्यन् अवलोकयन्, अहं, किं कथं, सहस्रधा सहस्रप्रकारं, सह्स्रकाण्डेनेति यावत्, नदीर्य्ये? नविदीर्णो भवामि? शोकक्रकचेन कथं नाहं दशशतधाविपाटितो भवामीति भावः; इदानीं मे निधानमेवोचितमित्याशयः। (दीर्य्यतेः दैवादिकस्य परस्मैपदित्वेऽपि वैवक्षिकं कर्त्तरि आत्मनेपदम्, अथवा कर्म्मकर्त्तर्य्ययं प्रयोगः)। अथवा किं वा; अन्यत्किमु अत्र वक्त्तव्यमिति भावः; रामेण अतीवा
( नेपथ्ये )। कष्टं भोः कष्टम् । –
अनुभावमात्रसमुपस्थितश्रियं सहसैव वीक्ष्य रघुनाथमीदृशम्।
प्रथमप्रमूढजनकप्रबोधनाद् विधुराः प्रमोहमुपयान्ति मातरः॥ ४१॥
रामः। हा तातः हा मातरः हा जनकः — धन्येन मया इत्यर्थः; स्वनामग्रहणेन स्वस्या विमृष्यकारित्वं निस्नेहत्वञ्च व्यक्त्तीकृतमिति ज्ञेयम्; किं दुष्करम्? किमिह दुःसाध्यमस्ति? सर्व्वमप्येतेन जनेन कर्त्तुं योग्यं सहनीयञ्चेत्यर्थः; येन निरपराधापरिव्रतासीतापरित्यक्त्ता तस्य किमप्यकार्य्ये नास्तीतिभावः। ( अत्र रामस्य सर्व्वकार्य्यकरणसमर्थत्वरूपकारणेन, दारुणशोकसमयेऽपि अविदारणरूपकार्य्यस्य समर्थनात्कारणेन कार्य्यसमर्थनरूपोऽर्थान्तरन्यासालङ्कारः)। शार्द्दूलविक्रीडितं वृत्तम्॥४०॥
अथेदानीं सीताशोकविकलेन्द्रियस्य रघुमणेः तथाभूतं शोकोच्छासं प्रस्तावान्तराक्षेपेणोपसंहर्त्तुं शोर्णदेहं रामभद्रमवलोक्य शोकात्विमूच्छितानां गुरुजनानां प्रमोहं नेपथ्यभाषणेनावतारयति, अनुमानेति। - अनुभावमात्रेण केवलेन नैसर्गिकशारीरिकतेजोविशेषण, समुपस्थिता विद्यमाना, श्रीः कान्तिः यस्य तथोक्त्तं, लावण्यमात्रावशेषं नतु पूर्व्ववत्दैहिकपीनत्वादियुक्त्तमित्यर्थः, ईदृशम् एवंविधं, सीतावियोगेन नितरां शीर्णकायमिति यावत्, रघुनाथं रामं, सहसैव अकस्मादेव, वीक्ष्य अवलोक्य, प्रथमं प्रागेव, प्रमूढस्य विलुप्तचैतन्यस्य, जनकस्य विदेहराजस्य, प्रबोदनात्चैतन्यलाभात्, अनन्तरमिति शेषः, विधुराः विवशाः, मातरः रामजनन्यः, कौशल्येत्यर्थः; विलापावसरे राघवेण केवलं कौशल्याया एव नामग्रहणेन तस्या एवात्रागमस्य सूचितत्वात्; (अत्र गौरवात्बहुत्वं ज्ञेयम्) ; प्रमोहं पूर्च्छाम्, उपयान्ति गच्छन्ति; तत्तत्स्थानेषु तावत्कालं पर्य्यटतः श्रीरामचन्द्रस्य सीतायाः कृते दुर्विषहशोकसमुदयात्छायामात्रावशेषं शरीरकार्श्यं समजनि दूरादेव तदृष्टा प्राक्राजर्षिः जनकः मोहमुपागतः, कथञ्चिच्च तस्मिन्सञ्ज्ञामुपगमिते राममाता कौशल्याऽपि विमूर्च्छिता अभूदिति तु समुदितवाक्यार्थः। (अत्र अनुभावनात्रेत्याद्युक्त्त्या गम्यार्थस्य सीताशोकविधुरस्य रामचन्द्रस्य शोकाधिक्यस्य भङ्याप्रतिपादनात्पर्य्याप्य्क्त्तमलङ्कारः)। मञ्चुभाषिणीवृत्तम्॥४१॥
जनकानां रघूणाञ्च यत् कृत्स्नं गोत्रमङ्गलम्।
तस्मिन्नकरणे पापे वृथा वः करुणा मयि॥४२॥
यावत् सम्भावयामि। ( ङ ) ( इति उत्तिष्ठति )।
कुशलवौ। इत इतस्तातः। ( च )
( सकरुणं परिक्रम्य निष्क्रान्ताः सर्वे )। ( छ )
इति कुमारप्रत्यभिज्ञानो नाम षष्ठोऽङ्कः॥ ६॥
अथ वृथाऽपवादभयादत्र घुकुललक्ष्मीभूतायां सीतायामन्याय्यमाचरितं अतीवाधन्ये स्वस्मिन्कृपापात्रत्वाभावमुपदर्शयति, जनकानामिति। - जवकानां जनकवंशीयाणां रघूणाञ्च रघुवंशीयानाञ्च, यत् सीतारुपं वस्तु, कृत्स्नं समग्रं, गोत्रयोः वंशयोः रघुजनककुलयोरित्यर्थः, मङ्गलं शुभं, ययैव हि सदाजनकाः रघवश्च मङ्गलवन्तः अभवन इत्यर्थः, तस्मिन्रघुजनककलयोः सर्व्वमङ्गलनिदाने सीतारूपे वस्तुनि, अकरूणे निर्द्दये, अतिनृशम्मकर्म्मचारिणि इति यावत्; पूर्णगर्भावस्थायां विनापराधं तस्याः हिंसकमङ्कुले वने निर्व्वासनादिति भावः; अत एव पापे पापकारिणि, …ण्ये इत्यर्थः, मयि रामे वः युष्माकं, करुणा दया, वृथा विष्फला; ईदृशक्रूरकर्म्मविधायिजनी नहि भवति भवतामनुकम्पाभाजनमिति भावः। (यतोहि अहम् अकरुणः पापश्च, अतो मयि वः करुणवृथा इति करुणाभावं प्रति अकरुणत्वस्य पापत्वस्य च हेतभूततया उपन्यासात्पदार्थहेतुकं काव्यलिङ्गमलङ्कारः, अपिच यत्पदोपस्थाप्ये सीतारूपे वस्तुनि गोत्रमङ्गलत्वस्य अभेदाध्यासात्निरङ्गंरूपामित्यनयोः तिलतण्डलवत्संसृष्टिः)। पथ्यवक्त्तं वृत्तम्॥४२॥
(ङ) यावत्- वाक्यालङ्कारे। सम्भावयामि- स्वयं गत्वा समागतान्गुरुजनान्प्रणिपातादिनासवर्द्धयामि, शोकविमूर्च्छितान्मातृप्रभृतीन्प्रीणयामीति वा भावः। (अत्र भविष्यदर्थे ‘‘यावत्पुराड ‘ ‘(३। ३। ४पा०) इति लट्)।
(च) तातः,-पितृवत्पूजनीयः भवानित्यर्थः। ( ‘‘पुत्रे पितरि पूज्ये च तातशब्दः प्रयुज्यते ‘‘इति नियमात्) इतः इतः,-अस्मिन्नेव पथि, पथाऽनेनेत्यर्थः, समागच्छत इति शेषः।
(छ) सकरुणं- सशोकम्। परिक्रम्य- परिभ्रम्य, कियत्मृदुपादविक्षेपं कृत्वेत्यर्थः। निष्कान्ताः,-गताः, रङ्गात्प्रचलित। इत्यर्थः।
अथ षष्ठाङ्कस्य समाप्तः।
विष्कम्भके विद्याधरमिथुनं दिव्यं विमानमधिरुह्य रङ्गमाजगाम। विद्याधरस्तु स्वां प्रियां रणप्रचण्डयोः कुमारयोः भीषणमायोधनं प्रदर्शयितुमारेभे। दिवि च देवाः कुमारयोः श्रेयसे दुन्दुभिं विनेदुः। निपेतुश्च तदा तयोः शिरसि अनवरतमेव मकरन्दरम्याणि कुसुमानि। अथ विद्याधरी प्राह, कथं हि सहसा अम्बरतलं तडित्प्रभापिङ्गलमाभाति? इति। विद्याधरस्तु प्रत्याह, समारोपितः किमु अद्यत्वे ष्ट्वाशाणयन्ते मार्त्तण्डः उत वा समुन्मीलयति जगत्संहारार्थं तृतीयं लोचनं भगवान्नीललोहितः येन हि अलौकिकः तेजसां राशिः नभोमण्डलं समुद्भासयतीति। क्षणं विचिन्त्य पुनराह, आञ्ज्ञातं, वत्सेन चन्द्रकेतुना आग्नेयास्त्रमभिप्रयुक्त्तं, तस्मादेवैषा पावकप्रभासमाविर्भवतीति, यतोहि तदस्त्रप्रभाभिः कर्बुरितकायैः वैमानिकानां विमानमण्डलैः दाहभयाद्रुतं पलायितमेव, अहमपि प्रचण्डाग्निज्वालातः स्वप्रियामात्मानञ्च संरक्षितुं सुदूरमपसरामीति उक्त्त्वा तथा अकरोत्। तदा पत्युः सुशौतलाङ्कसंस्पर्शेन प्रशमिता नलसन्तापा विद्याधरी प्राह, कथं हि विद्यहिलासपरिशोभितैः श्यामलैः नवजलधरैः नभस्तलं सहसा समास्तीर्य्यते ? इति। तदाकर्ण्य विद्याधरः आह , हो कुमारलवेन वारुणास्त्रं सम्प्रयुज्य पावकास्त्रं प्रशमितमिति। पुनश्चाह , हन्तभोः प्रगाढान्धकारनिमग्नमिव भूतजातमिदानीं प्रवेपते , यतोहि कुमारचन्द्रकेतुनावायव्यास्त्रमीरितं, तेन च मरुता, ब्रह्मविद्यया ब्रह्मणि विवर्त्तानामिव, भूयसां मेघानां सहसा विलयः सञ्जनित इति। अत्रान्तरे अपृच्छत्विद्याधरी, को हि महापुरुष इदानीं दूरत एव युद्धव्यापारविरतिमुपदिशन्कुमारावन्तराविमानमवतारयति? इति। तद्दृष्टा विद्याधरः आह, भगवान्रघुपतिः शम्बूकबधादिदानीं प्रतिनिवृत्तः; तेन हि तद्गौरवात्कुमारौ युद्धकर्म्मणः त्वरितमेव व्यरं सिष्टाम्। अधुनासुतसमागमेन राज्ञः रामभद्रस्य शुभं भूयादित्युक्त्त्वा शुभमनुध्यायम्विद्याधरः पत्न्या सह रङ्गान्निश्चक्रामेति।
अथ पुष्पकविमानादवतीर्य्य रामः चन्द्रकेतुमाह वत्स द्रुतमागत्य मां सुदृढं परिष्वजस्व, तवमुशीतलाङ्गानां संस्पर्शेन मम चित्तदाहः प्रशममुपगच्छत्विति। ततः , आर्य्य अभिवादये इत्यभिधाय राममभिवन्दे चन्द्रकेतुः। आपि कुशलं दिव्यास्त्रधारिणः तव देहस्य? इति पृष्टवति रामे, अत्यद्भुतकर्म्मणः लवस्य लाभादेव मे कुशलं, तेन हि मामिवेमं वीरमपि भवान्सस्नेहं पश्यत्विति चन्द्रकेतुराह। कुमारं लवमवलोक्य राम आह, अहो जगद्रक्षितुमेवावतीर्णः मूर्त्तिमानस्त्रं वेद इव, वेदनिधिरक्षायै धृतकायः क्षात्त्रधर्म्म इव, सामर्थ्यसमुदाय इव, गुणनिचय इव, पुण्यराशिरिव चायं वीरपोत इति। अथं लव आह, पुण्यदर्शनोऽयं महापुरुषः, स्नेहभक्त्तीनामेकाधारभूतः मूर्त्तिमान्धर्म्मप्रकर्ष इवेति। आश्चर्य्यम् इदानीं विरोधः कुचैवापसृतः, निर्वृतिघनरसश्च प्रसरति, औद्वत्यञ्च सदूरपराहतमेव, अवनमयति च मां विनयनम्रभावः, महापुरुषमिमञ्चदृष्ट्वा आत्मनि नाहं प्रभवामि, अहो पुण्यक्षेत्राणामिव महतामलौकिकं माहात्म्यमिति। अथ रामः आह, कथं मे सहसा सर्वाण्येव दुःखानि विलुप्तानि? स्नेहश्च मेऽन्तरात्मानं विद्रावयति? एष हि कारणान्तरजन्यः इति लोकोक्त्तिः अलोके वेति यतः सूर्य्यौदये कमलमेव विकाशमेति, चन्द्रोदये च चन्द्रकान्तमणि र्विगलति, के वापितु आन्तरेण हेतुना इमे पदार्थाः परस्परं स्नेहपाशसंयताः भवन्ति, किञ्चिदपि कारणं तेषां नाभिज्ञायते, यतः हि स्नेहाः वाह्यानि कारणानि न समाश्रयन्तीति।
लवस्तु चन्द्रकेतोर्वचनात्ज्येष्ठतातपादा इमे इति विदित्वा, अहो सुप्रभातमद्य, यतः देवो रघुमणिः दृष्ट इति कथयित्वा सविनयं पुनराह, तात लवो भवन्तमभिवादयते इति। ततः रामः सस्नेहमाह, आयुष्मन् एह्येहि, मां मुदृढ परिष्वजस्व, चन्दनसाररसुकुमारस्तेऽङ्गसंस्पर्शः मां नितरां नन्दयतु। तदाकर्ण्य लवः पुवाभिदधे, अश्वरक्षिणां मुखात्तत्र भवतां वीरत्वगात्यामुपश्रुत्य स्ववीरत्वप्रदर्शनजनितां मेवालिशतां मृष्यन्त्विति। नन्वयमलङ्कार एव क्षत्त्रस्य, यथा सूर्य्यकान्तमणिः दिनकरकिरणैः समुत्तापितः तेजांसि वसति, तथैव महान्तः तेजास्विनः स्वभावादेव परेषां तेजः वविषहन्ते इत्यभिधाय, जृम्भकास्त्रप्रभावेण चित्रलिखितानीवावस्थितानि स्वसैन्यानि विलोक्यरामः तदस्त्रजातमुपसंहर्त्तुं लवमादिदेश। स तु तथैवाकरोत्।
अथ रामः जृम्भकास्त्राणां स्वसम्प्रदायमुपवर्ण्य लवं तत्सम्प्रदायमपृच्छत्, तनु खात्तदस्त्राणां स्वत एव प्रकाशमधिगत्या सामान्यपुण्यप्रभावादेव एतेषां सम्भवोऽपि भवितुं शक्नुयादिति कियत्कालमनुदध्यौ। ततः प्रसङ्गक्रमेण तौ तु यमजौ विदित्वा, को हि नामायं द्वितीयो भवतीति अजिज्ञासत। अपि च नेयथ्ये कुशस्य भाण्डायनं प्रति क्षत्त्रवीर्य्यप्रकर्षसंशूचिकां सगर्वोक्त्तिं समाकर्ण्य आह, को हि नामायं वीरपोतः नवजलधरगम्भीरध्वनिना सहर्षं समुत्पादयति? इति। ततः लवमुखादिमञ्ज्यायांसम्भ्रातरङ्कुशम्भरताश्रमात्प्रतिनिवृत्तमाकर्ण्यपुनराह, आयुष्मन्तमितह्समाह्वयेति।
अत्रान्ततेकुशः महनीयकीर्त्तिभिरादित्यवंशीयैः नृपतिभिः विग्रहं स्वगौरवसूचकमभिमन्यधनुरास्फालयितुमारेभे। रामस्तु धीरोद्धतगतिसमलङ्कृतं तदीयमसामान्यं वीर्य्यंविलोख्यपरं मुमुदे। तदा लवस्तु कुशस्य समीपमागत्यरघुमणेः तद्दर्शनेच्छा तं विज्ञापितवान्। कुशस्तु रामायणकथापुरुषं वेदगोपायितारं पुण्यदर्शनं रघुमणिमवलोक्यपरं पिप्राय, चन्द्रकेतौ भ्रात्रा सखिभावसंस्थापनात्तत्सम्पर्केण धर्म्मतातवदमुं राघवं संवर्द्धितवाश्च। रामस्तु तं निर्भरं परिष्वज्य पुत्रसमालिङ्गनवत्परां निर्वृतिमधिजगाम। ततश्च सर्वेकियत्कालं प्रच्छाया बहुले शालतले समुपविश्य गाष्ठीसुखमनुबभूवुरिति।
अथ रामः राजलक्ष्मीविलाससुशोभितं कुशलवयोः निसर्गकान्तं कलेवरं वीक्ष्य, रघुकुलकुमारवदेतयोः प्रसन्नसिंहस्तिमितवीक्षणं मङ्गलमृदङ्गगम्मीरध्वनिश्चभवतीति विभाव्य, स्वशरीरसंवादिनीमाकृतिं जनकसुताऽनुरूपामङ्गसङ्घटनाञ्च समवलोक्य, तदासीतायाः श्रीमदङ्गलावण्यं पुनः प्रत्यक्षीकृतवानिवेत्यमन्यत; किञ्च एतद्धि सीता निर्वासनस्थानं स्वतः प्रकाशानि चैतयोः जम्भकास्त्राणि, प्राक्स्वयं समीक्षितं द्विधाप्रतिपन्नं सीतायाः गर्भभारमित्यादिकतदामनदासमालोच्यविह्वलः सन्भृशंरूरोदच। तदा लवः रामस्य नैशावश्यायसिक्त्तं पुण्डरीकमिवाश्रुसलिलाप्लुतमननमवलोक्यविस्मयान्वितो बभुव, तात किमेतदित्यपृच्छच्चतदाकर्ण्यकुशः आह, वत्स रामायणं सम्यगधीत्यापि कथमेवमनभिज्ञ इव जिज्ञाससे? देवीं सीतां विना रघुपतेः किमपीह सुखकरं नास्ति, तादृशप्रणयात्परममुं दुर्विषह एतादृक्वियोगो जगत्जीर्णरण्यप्रायमनुभावयतीति।
अथ रघुपतिः वाल्मीकिसरस्वती निस्यन्दभूतां रामायणकथां श्रोतुमभिललाष। ततः कुशमुखात्बालचरितस्यान्तिमौद्वौश्लोकौसमाकर्ण्यात्यधिकां मर्म्मव्यथामापत। हा वैदेहि तदाकिलत्वमेव मेवासीरित्यु क्त्त्वासमधिकं विलपितवान्। कुशास्तु तदा पुनः मन्दाकिनी चित्रकूटवनविहारावसरे देवीं सीताप्रतिरघुपतेः श्लोकान्तरमपठत्। सुग्धस्यारण्यचरस्य शिशोर्सुखात्तदाकर्ण्यरामः सीतां संस्कृत्यविललाप, सवष्पगद्गदम् उवाच च, हा देवि स्मरसि किमुतस्य देशस्य? यत्र तुम्न्दाकिनी सरूता तव श्रमाम्बूणिनिः शेषमेव विशोषमुपगतानि, अलकजालकानि च कुङ्कुमरागवन्निसर्गरस्येत्वन्मुखचन्द्रे परिपत्यक्षणं तदीयां प्रभां पर्य्याकुलामकरोदिति। अपिचाह, अहो सुचिरमनुध्यानात्प्रवासेऽपि प्रियजनेन कल्पनाप्रसूतेन सतापुरतः स्थीयते इवेत्यभिमन्यते विरहि जनः, विकल्पे विनिवृत्ते च ते न पुनः जगत्जीर्णारण्यप्रायमनुभूयते , हृदयञ्च तस्य तुषानलेन विदहृते इवेति।
अथ नेपथ्ये वशिष्ठादयः महर्षयः देव्या कौशल्याया अरुन्धत्या च सह शिशुकलहंसमाकर्ण्य त्वरितमागन्तुमभिलषन्तोऽपि जराग्रस्ततया सुचिरेणेव कालेनात्र समायान्तीति कलरवमाकर्ण्य राघवः प्राह, कष्टं भोः कष्ट, गुरुजनाः विशेषतस्तु तातजनकोऽपि सीताविवासनदेशे सममेवद्रष्टव्यः इति मृशं वज्रेणाभिताडितोऽस्मिमन्दभाग्यः। इत्यमभिदधदेवासौपुनः, अहो प्राक्वैवाहिकसम्बन्धप्रमुदितानाविशिष्ठादीनां जनकादीनाञ्च विवाहमङ्गलमहोत्सवे समागमं पश्यन्निदानीं पितृसखस्य जनकस्यातिनिर्विणस्य सीताविवासनस्थले ईदृशीं शोचनीयामवस्थामवलोकयन्नहं हतदैवः कथं सहस्रधानविदीर्य्ये? इत्युक्त्त्वा बहुधाव्यलपत्। अथ सितावियोगपरिकृशस्य रघुपतेरीदृशीमनुर्भावमात्रैकगम्यां सरीरश्रियं विलोक्य विधुराः मातरः गुरुजनाय सपदिप्रमोहमुपगताः इति नेपथ्यभाषितमाकर्ण्यरामः, हा तात हा मातरः हा जनक एतस्मिन्पापे जनकरघुकुललक्ष्मीपरिहारके मयि भवतां करुणावृथैवेति समाश्वासनार्थं तदन्तिकमगात्।
इत्यशेषशास्त्राटवीसञ्च रणपञ्चानन- कुलपतिकल्प- ‘‘वि, ए ‘‘इत्युपनामक
श्रीमज्जीवानन्दविद्यासागर- भट्टाचार्य्यविरचितायां, तदात्मजाभ्यां
श्रीमदाशुबोधविद्याभूषण- श्रीमन्नित्यबोधविद्यारत्नाभ्यां
परिवर्त्तित- परिवर्द्धितायां सुखबोधिनी समा
ख्यायाम् उत्तररामचरित अव्याख्यायां
षष्ठोऽङ्कः॥६॥