अथ पञ्चमोऽङ्कः।
( नेपथ्ये )। भोः भोः सैनिकाः जातं जातमवलम्बनमस्माकम्। ( क ) –
नन्वेष त्वरितसुमन्त्रनुद्यमान-
व्यावल्गत्प्रजवनवाजिना रथेन।
उद्घातप्रचलितकोविदारकेतुः
श्रुत्वा वः प्रधनमुपैति चन्द्रकेतुः॥ १॥
(क)भोः भोः सैनिकाः,-योद्धृवर्गाः, अस्माकं-सैनिकानाम्, अवलम्बनम्-आश्रयः, सुसहाय इति यावत्, जातं-सम्पन्नं, लब्धमित्यर्थः। लवेन निहन्यमानानाम् अस्माकं सेनासमूहानां रक्षणार्थं सेनानी चन्द्रकेतुः त्वरितमेव समायाति, अतो न युष्माभिः भेतव्यमिति भावः।
अथ रक्षिसैनिकानामधिनायकस्य चन्द्रकेतोः त्वरितमेव युद्धस्थलसमानागमनप्रकारमाह, नन्वेष इति। -ननु भोः सैनिकाः , एषः पुरत एव दृश्यमानः इत्यर्थः, चन्द्रकेतुः तदाख्यः अस्माकमधिनायकः सौमित्रितनयः वः युष्माकं, प्रधनं युद्धं, समाकर्ण्य श्रुत्वा, ऋषिकुमारैः सह संवृत्तं तुमुले युद्धमुपश्रुत्येत्यर्थः, त्वरितेति। - त्वरितेन त्वरान्वितेन, अत्युत्कण्ठितेनेत्यर्थः, समन्त्रेण तन्नाम्ना सारथिप्रवरेण, नुद्यमानाः प्रेर्य्यमाणाः, सञ्चाल्यमाना इत्यर्थः, व्यावल्गन्तः प्रधावन्तः, प्रजवनाः अतिवेगशालिनः, वाजिनः अश्वाः यस्य तथाविधेन, रथेन स्यन्दनेन करणेन, तादृश रथमारुह्येत्यर्थः, इद्घातेति। -उद्घातेन बन्धुरदेशेषु प्रतिघातेन, उन्नतावनतभूमिषु वेगेन सञ्चालनात् प्रतिहति प्रापितेन हेतुनेत्यर्थः, प्रचलितः भृशं विकम्पितः, कोविदारकेतुः कुद्दालध्वजः काञ्चनारकाष्टनिर्म्मितध्वजदण्ड इत्यर्थः, यस्य तथाविधः, ( ‘कोविदारे चमरिकः कुद्दालो युगपत्रकः’ इत्यमरः ) उपैति आगच्छति अस्माकं युद्धवार्त्तामुपश्रुत्य सत्वरं रणभूमिमेवागच्छति, तेन चास्माकमिदानीमवलम्बनं जातमिति भावः। ( अत्र प्रजवनत्वं प्रति व्यावल्गत्वस्य हेतुत्वेनोपन्यासात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः, तथोत्तरार्द्धे केतुः केतुरित्यचान्त्ययमकालङ्कारश्चेत्यनयोः नैरपेक्षेण स्थितः संसृष्टिः)। प्रहषिणो वृत्तम्,॥ १॥
( ततः प्रविशति समन्त्रसारथिना रथेन धनुष्पाणिः साद्भतहर्षसम्भ्रमश्चन्द्रकेतुः )
चन्द्र। आर्य्य सुमन्त्र पश्य –
मुनिजनशिशुरेकः सवतः सैन्यकाये
नव इव रघुवंशस्याप्रसिद्धःप्ररोहः।
दलितकरिकपोलग्रन्थिटङ्कारघोर
ज्वलितशरसहस्रः कौतुकं मे करोति॥२॥
‘नवः नूतनः, अचिरोद्गत इत्यर्थः, रघुवंशस्य रघुकुलस्य, अप्रसिद्धः अभिनवोदयात् सर्व्वथा परिचयाभावेन सर्व्वत्र प्रसिद्धिमनधिगत इत्यर्थः, प्ररोह इव अङ्कुर इव, एकः एकाकी, असहाय इत्यर्थः, मुनिजनशिशुः मुनिदारकः, प्रच्छन्नं रघुवंशीयं तेजः बिभ्रत् कश्चिदयमृषिकुमार इत्यर्थः, एतादृशालौकिकतेजसा रघुकुलादृते कुत्राप्यदर्शनादिति भावः, सर्व्वतः सर्व्वस्मिन्, सैन्यकाये सैन्यव्यूहे, हस्त्यश्वरथपादातरूपसेनासमुदाये इत्यर्थः, दलितेति। -दलितानां निर्म्मथितानां, करिकपोलानां हस्तिगण्डस्थलानाम् ये ग्रन्थतः सन्धिभागाः, तेषां टङ्कारेण शराघातजनितेन टमित्याकारकभीषणशब्देनं घोरं भयानकं यथा तथा, ज्वलितानि प्रदीपितानि, पाषाणसमकठोरकरिकुम्भेषु पतनात् अग्निज्वलायुकानीति यावत्, शराणामायुधानां, सहस्राणि यस्य तथाविधः सन्, निशितशरसहस्राणि विसृज्य मत्तेभकोटिभागान् विपाटयन् योद्धृवर्गांश्च तथाविधशरजालेन विह्वलीकुर्व्वन्नित्यर्थः, मे मम, कौतुकं कुतूहलं, करोति जनयति। रघुकुलसच्छायः कोऽयं हि मिनिबालकः सङ्ग्रामे अलौकिकशौर्य्यातिशयं प्रकटीकृत्य आयुधवर्षणेन करिकुलानि रक्षिवर्गांश्च व्याकुलीकुर्व्वन् मम विपुलां प्रीतिं जनयतीति समुदितार्थः। ( अत्राङ्कुरेण सार्द्धं मुनिजनशिशोरवैधर्म्म्यसाम्योपदेशात् उपमालङ्कारः )। मालिनी वृत्तम्॥२॥
किरतिकलितकिञ्चित्कोपरज्यन्मुखश्चौ-
रनवरतनिगुञ्जत्कोटिना कार्मुकेण ।
समरशिरसि चञ्चत्पञ्चचूडश्चमूनाम्
उपरि शर तुषारं कोऽप्ययं वीरपोतः॥ ३॥
भङ्ग्यन्तरेण बालकस्यास्य वीर्य्यातिशय्यं प्रकटीकरोति, किरतीति। -कलितेन समुद्भूतेन, किञ्चित्कोषेन ईषत्क्रोधेन, रज्यन्ती रक्तरागवती, लोहितायमानेति यावत्, मुखश्रीः वदनशोभा मुखमण्डलस्य रक्तिमरागः ज्ञेयः। अपि च, चञ्चन्त्यः रणकर्म्माणि समन्तात् मस्तकसञ्चालनेन इतस्ततः चलन्त्यः, पञ्चचूडाः पञ्चसङ्ख्याकाः शिखाः यस्य तथोक्तः, मस्तककम्पनात् चलितकाकपक्ष इत्यर्थः। ( एतेन ‘एकशिखस्त्रिशिखः पञ्चशिखो वा’ इति बौधायनस्मरणात् वृत्तचूडार्म्मणां रघुकुलसन्तानानां पञ्चशिखाधारेण कुलाचारः आसीदित्यनुमीयते इति ज्ञेयम्) ; कोऽपि अज्ञातनामधेय इत्यर्थः, अयं विरपोतः वीरशिशुः, समरशिरसि रणमूर्द्धनि, युद्धक्षेत्राग्रभागे अवस्थितः सन्नित्यर्थः, अनवरतेति। - अनवरतं निरन्तरं यथा तथा निगुञ्जन्त्यौ शब्दायमाने, कोटी अटन्यौ यस्य तथाविधेन, कार्म्मुकेण धनुषा, चमूनां सैनिकानाम्, उपरि सेनासमूहेष्वित्यर्थः, शरतुषारं बाणतुहिनं, किरन्ति वर्षति ; अतिक्षिप्रहस्ततया अजस्रबाणवर्षणात् कुमारनिक्षिप्तशरराजयः करकावर्षणानीव अन्वभूयन्त चन्द्रकेतुसैनिकैरिति भावः। (अत्र तुषारैः सह शराणां साम्योक्तेः लुप्तोपमाऽलङ्कारः, छेकानुप्रासवृत्त्यनुप्रासशब्दालङ्कारौ यथायोगं द्रष्टव्यौ। शराणामसङ्ख्येयत्वद्योतनाय तुषारस्यास्य प्रदर्शितं, तेन न परिमाणगतन्यूनत्वादनुचितार्शतादोषशङ्का कार्य्येति )। मालिनी वृत्तम्॥३॥
आश्चर्य्यमाश्चर्य्यम्
सुमन्त्रः। आयुष्मन् –
अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम्।
कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि॥ ४॥
अथ सुमन्त्रः कुमारे लवे शौर्य्येण शरीरलावण्येन च मुर्व्वथा राघवसाम्यं विनिर्द्दिशति, अतिशयितेति। -आयुष्मन् दीर्घायो चन्द्रकेतो , ‘आयुष्मन् रथिन सूतः’ इत्यालङ्कारिकवचनात्। अतिशयितः अतिक्रान्तः, सुराणां देवानाम्, असुराणादितिसुतानाञ्च, प्रभावः वीर्य्यं येन तथाभूतं, तवैव भवतु एव, तुल्यरूपं, समानाकारम्, आकारेण भवत्सदृशशौर्य्यशलिनमित्यर्थः, शिशुम् अमुं बालकम्, अवलोक्य दृष्ट्वा, कुशिकसुतस्य कुशिकनन्दनस्य विश्वामित्रस्य, मखद्विषा यज्ञविघात
कानां राक्षसानां, प्रमाथे संहारे, कौशिकक्रतुहन्तन् मारीचादिनिशाचरसमूहान् निहन्तुमित्यर्थः, धृतधनुषं कार्म्मुकधारिणं, रघुनन्दनं रामभद्रं, स्मरामि चिन्तयामि ; रणकर्म्मणि अस्य बालस्यालौकिकं विक्रमं निरुपमं लावण्यञ्च समवलोक्याहं विस्मयविवशो मन्ये, पुनः बालरूपीभवन् भगवान् रघुमणिः विश्वामित्रसत्रे क्रतुबिघातिनः राक्षसान् निहन्तुं सम्प्रवृत्तः किमु ? इति भावः। आकारेण पराक्रमेण चायं बालकः रामसदृश एव प्रतिभाति इत्याशयः।
(पुरा किल विश्वामित्रप्रार्थनया रामचन्द्रः सलक्ष्मणः राज्ञः दशरथस्यादेशात् तदीयं सत्रं गत्वा यज्ञद्रुहः राक्षसानवधीदिति रामायणी वार्त्ता। अत्र सदृशवस्त्वनुभवात् रघुनन्दनस्मृतेरुदयात् स्मरणालङ्कारः, तथा शिशो सुरासुरप्रभावातिषयित्वस्या सम्बन्धेऽपि तत्सम्बन्धोक्तेः असम्बन्धे सम्बन्धरूपातिशयोक्तिरलङ्कारः, अपि च तत्रैव तुल्यरूपमित्युक्तेरुपमा च, एषाञ्चान्योन्यसापेक्षतया स्थितेः सङ्करः)। पुष्पिताग्र व्रुत्तम्॥४॥
चन्द्र। इमन्त्वेकमुद्दिश्य भूयसामारम्भ इति हृदयमपत्रपते। ( ख )
अयं हि शिशुरेककः समरभारभूरिस्फुरत् –
करालकरकन्दलीकलितशस्त्रजालैर्बलैः।
क्वणत्कनककिङ्किणीझणझणायितस्कन्दनै-
रमन्दमददुर्दिनद्विरदवारिदैरावृतः॥ ५॥
( ख ) तु-किन्तु, एकम्-असहायम्, इमं-बालकम्, उद्दिश्य-अभिलक्ष्य, भूयसां-बहूनामस्मत्सैनिकानाम्, आरम्भः, -युद्धोपक्रमः, अभूदिति शेषः, इति-अस्माद्धेतोः, हृदयं-मानसम्, अपत्रपते-लज्जते ; एकेनानेन शिशुना सह सर्व्वेषामस्माकं रणोद्यमः सैन्यसमवायानाम् अशक्तिसूचकतया अतीव लज्जाजनक इति भावः।
अथ लवस्य शौर्य्यातिशय्यं विवृणोति, अयमिति। -अयं पुरतः दृश्यमानः, एकैकः एकाकी, शिशुः हि बाल एव, समरेति। -समरस्य युद्धस्य, भारे अतिशये, तुमुले एतस्मिन् सङ्ग्रामे इत्यर्थः, भूरि प्रभूतं यथा स्यात्तथा स्फुरन्ति देदिप्यमानानि, करालानि भोषणानि, कराः हस्ताः, कन्दल्यः इव गुल्मप्रभेदा इव, ( इत्युपमितसमासः) ताभिः, गुल्मविशेषसदृशसुविशालैः सुदृढैश्च कगैरित्यर्थः, ‘कराणा कन्दलीभिः प्ररोहैः शाखाभिः अङ्गुलाभिरित्यर्थः’ इति केषाञ्चित् व्याख्यानं न मनोरमं, कोषादौ प्ररोहार्थे कन्दलीशब्दस्य प्रयोगादर्शनात्, तथाहि,-
( ‘कन्दलन्त्रिषु कपालेऽप्युपरागे नवाङ्कुरे।
कलध्वनौ कन्दली तु मृगगुल्मप्रभेदयोः॥
‘इति मेदिनी)। कलितानि परिगृहीतानि, शस्त्रजालानि आयुधवृन्दानि यैः तथाविधैः, अपिच, क्वणन्तीभिः शब्दायमानाभिः, कनकस्य सुवर्णस्य, किङ्किणीभिः क्षुद्रघण्टिकाभिः, झणझणायिताः अझणझणाः झणझणाः भूताः, झणझणेत्यव्यक्तं शब्दं कुर्व्वन्तः इत्यर्थः, ( ‘अव्यक्तानुकरणाद्- ‘(५। ४। ५७ पा०) इति डाचि, ‘डाचि विवक्षिते- ‘(वा०) इति द्वित्वे च स्थितात् झणझणशब्दात् ‘लोहितादिडाज्भ्यः- ‘(३। १। १३ पा०) इति क्यषि कृते सिद्धस्य झणझणायेति नामधातोः कर्त्तरि निष्ठायां रूपमेतदिति ज्ञेयम् ) स्यन्दनाः रथाः येषां तैः, रथकिङ्किणीशब्दानां झणझणेत्याकारकाव्यक्तनिनादेन सर्व्वाः दिशः बधिरीकुर्व्वद्भिः इत्यर्थः, ये द्विरदाः हस्तिनः, ते एव वारिदाः मेघाः येषु तैः, वर्षास मेघाच्छन्नेषु अहःसु नवजलधराः यथा निरन्तरमेव जलानि वर्षन्ति, तथैवास्मद्विरदा हि दानवारिभिः भूमितलमभिषिञ्चन्तीति समुदितार्थः। अमन्दः, अनल्पः, मदः मदस्रावः, दुर्द्दिनं वर्षमिव येषां तादृशाः , द्विरदाः गजाः, वारिदा मेघा इव येषु तथोक्तैः इति वा विग्रहः। बलैः अस्मत्सैन्यैःम् आवृत्तः आच्छादितः, अभूदिति शेषः ; एकं हि बालकं पराभवितुं प्रभूतानामस्मत् सैनिकानामुपरोधः निरतिशयां मे लज्जां जनयतीति भावः।
( अत्र करैः सह कन्दलीनां तथा दुर्द्दिनैः सह द्विरदानाञ्च साम्योपदेशात् लुप्तोपमा, एवं द्विरदेषु मेघानामभेदाध्यासात् निरङ्गरूपकमलङ्कारः, एतेषान्तु नैरपेक्ष्येण संस्थितेः संसृष्टिः )। पृथ्वी वृत्तम्॥५॥
सुमन्त्रः। वत्स एभिः समस्तैरपि किमस्य ? किं पुनर्व्यस्तैः ? ( ग )
(ग) समस्तैरपि-निखिलैरपि, सम्मिलिततया स्थितेरपीत्यर्थः, एभिः,-सैनिकैः, अस्य-शिशोः लवस्य, किम्-अलम् ; एते सेनासमुदायाः सम्मिलिताः सन्तः युद्ध्यमाना अपि एकाकिनः अस्य शिशोः किमपि कर्त्तुं न शक्नुवन्तीति भावः। व्यस्तैः,-विभक्तैः, किं पुनः ?-विभज्य स्थितानां कथा दूरत एवास्तामिति भावः।
चन्द्र। आर्य्य त्वर्य्यताम् अनेन हि महानश्रितजनप्रमाथोऽस्माकमारब्धः। ( घ ) तथाहि
आगुञ्जद्गिरिकुञ्जकुञ्जरघटाविस्तीर्ण कर्णज्वरं
ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुज्जृम्भयन्।
वेल्लद्बैरवरुण्डमुण्डनिकरैर्वीरो विधत्ते भुवः
तृप्यत्कालकरालवक्त्रविधसव्याकीर्य्यमाणा इव॥ ६॥
(४)आर्य्य-पूज्य सुमन्त्र , त्वर्य्यता-त्वरा क्रियतां, त्वयेति शेषः, सत्वरं रथः चाल्यतामिति भावः। अनेन-एतेन शिशुना, महान्-अतिशयः, आश्रितजनानाम्-उपजीविसेनासमूहानां, प्रमाथः, -ध्वंसः, आरब्धः,-अनुष्ठितः ; क्षयोन्मुखानामस्मत्सैनिकानां संरक्षणाय मया सत्वरं युद्धस्थलं गन्तव्यम्, अतो भवता तूर्णं सवेगं रथः नीयतामित्याशयः।
अथ बालकस्यालौकिक युद्धपाटवं व्याचष्टे, आगुञ्जदिति। -आगुञ्जन्त्यः ज्यानिर्घोषश्रवणेन प्राणभयात् अतीव गबीरं वृहितध्वनिं कुर्व्वन्त्यः, गिरीणां पर्व्वतानां, ये कुञ्जाः लतागृहाः, तेषु याः कुञ्जराणां हस्तिनां, घटाः घटनाः, समुदायाः इत्यर्थः, ( ‘करिणां घटना घटा’ इत्यमरः) तासां विस्तीर्णः भूयस्तया उत्पादितः, कर्णानां श्रवणानां, ज्वरः पीडेति यावत्, येन तथाविधं, मौर्व्वीटङ्कारमुपश्रुत्य प्राणभयात् समन्तात् वृहितं कुर्वतां गिरिचराणां नागानामपि श्रवणेन्द्रियपीडां जनयन्तमित्यर्थः ’ आगुञ्जतां सम्यक्तया गर्ज्जतां, गिरिकुञ्जकुञ्जराणां पर्व्वतनिकुञ्जचराणां हस्तिनां, घटाभ्यः समूहेभ्यः, विस्तीर्णः प्रदत्तः, कर्णज्वरः कर्णव्यथा येन तथोक्तम् इति वा विग्रहः, निभृतस्थानप्रियेभ्यः वन्यगजेभ्योऽपि दुःश्रवरवेण श्रवणपीडां संयच्छन्तमित्यर्थः, अमन्दैः अनल्पैः, गम्भीरैरित्यर्थः, दुन्दुभीनां, रणवाद्यविशेषाणां, रवैः शब्दैः, आध्मातं परिपूर्णं, प्रवर्द्धितमिति यावत्, ज्यानिर्घोषं शिञ्जिनीनिनादम्, उज्जृम्भयन् आविष्कृर्वन्, उत्पादयन्निति यावत्, वीरः शूरः लवः, वेल्लद्मैरवेति। -वेल्लताम् विचेष्टमानानां, समन्तात् चलतामित्यर्थः, भैरवाणां भिषणानां, रुण्डानां कबन्धानाम्, अपमूर्द्धक्रियायुक्तकलेवराणामित्यर्थः, ( ‘कबन्धः कथ्यते रुण्डः’ इति हलायुधः) ये मुण्डनिकराः शिरःसमूहाः, आयुधसमूहैः निकृन्ताः, सन्तः स्वदेहात् विभिन्नस्थानपतिताः मस्तकनिवहाः इत्यर्थः। तैः,
(यद्यपि मुण्डविरहितक्रियाकुलकलेवराणामेव रुण्डशब्दवाच्यतया रुण्डेषु मुण्डयोगो न घटते इति शङ्कते तथापि येषां योद्धृशरीराणामायुधादिभिः क्लिन्नेषु कनन्धभावो जनितः, तेषान्तु मृतदेहानां पिशाचोपहतानामिव अधुना कबन्धभावमापन्नत्वात् तत्र प्राक्तनमुण्डयोगमभिप्रेत्य ‘रुण्डमुण्डनिकरैः’ इत्युक्तमिति ज्ञेयम्)
भुवः रणभूमीः, तृप्यदिति। -तृप्यतः प्रभूतभक्ष्यभक्षणेन तृप्तिमापन्नस्य, कालस्य कृतान्तस्य, यत् करालं भीषणं, वक्त्रं मुखं, तस्य विधसैः भूक्तावशिष्टैः, ( ‘अमृतं विधसो यज्ञशेषभोजनशषयोः’ इत्यमरः ) व्याकीर्य्यमाणाः इव समाच्छाद्यमानाः इव, व्याप्यमाना इवेत्यर्थः, विधत्ते करीति॥ जगद्गसितमभुद्यतस्य कृतान्तस्य यथेच्छमुपभोगात् परितृप्ततया भयङ्करात् तदाननविवरात् विगलितैः अस्मत्सैन्यानां शिरोभिः रणभूमिरियं समाच्छन्नेव प्रतीयते इति भावः। अहो सुसहानस्मत्सैन्यसङ्क्षयः क्रियते वीरेणानेन, तत् त्वरितमेव मया यातव्यम् एतेषामस्मत्सैनिकानां संरक्षणायेति तात्पर्य्यम्। -अत्र कुञ्जरघटानां कर्णज्वरासम्बन्धेऽपि तत्सम्बन्धोक्तेः असम्बन्धे सम्बन्धरूपातिशयोक्तिरलङ्कारः, तथा भुवः व्याकीय्य््रअमाणत्वस्य सम्भावनय्त्कीर्त्तनादुत्कटैककोटिकसंशयसमुदयेन वाच्या क्रियोत्प्रेक्षाऽलङ्कारः, एतयोश्च नैरपेक्ष्येण स्थितेः संसृष्टिः। गुञ्जतः भ्रमररुतार्थकतया प्रसिद्धेः कुञ्जरध्वनौ तथा प्रसिद्धेरभावात् तत्र तत्प्रयोगकृतः ख्यातिविरुद्धतादोषः ‘आगुञ्जाद्गरि’ इत्यत्र ‘आवृहद्गिरि’ इति पाठेन समाधेयः, ‘वृहि शब्दे च’ इति भौवादिकवृहिधातुना सिद्धेः, ‘बृंहितं करिगर्ज्ज्तम् ‘इत्यमरोक्तेश्चेति ज्ञेयम् )। शार्दूलविक्रीडितं वृत्तम्॥६॥
सुमन्त्रः। ( स्वगतम् )। कथमीदृशेन सह वत्सस्य चन्द्रकेतोर्द्वन्द्वसम्प्रहारमनुजानीयाम् ? ( विचिन्त्य ) अथवा इक्ष्वाकुगृहवृद्धाः खलु वयं ; प्रत्युपस्थिते च का गतिः ? ( ङ )
कथं-केन प्रकारेण, ईदृशेन-अद्भुतशौर्यशालिना अमुना लवेन इत्यर्थः, वत्सस्य-आयुष्मतः, द्वन्द्वसम्प्रहारं-द्वन्द्वस्य-एतयोः द्वयोरित्यर्थः, सम्प्रहारः,-युद्धः तं, द्वन्द्वयुद्धमिति यावत्, अनुजानीयाम्?-अनुमोदयामि ? अनुमन्येयेत्यर्थः ; अमितपराक्रमशालीनाऽनेन सह युद्धे यदि काऽपि चन्द्रकेतोः क्षतिः स्यात् तर्हि महाननर्थः उत्पद्येतेति भावः। इक्ष्वाकुगृहवृद्धाः,-इक्ष्वाकूणाम्-इक्ष्वाकुवंशीयानां, गृहे-भवने, वृद्धाः-वृद्धत्वं गताः, अत्र स्थित्वा वर्षीयांसः सम्भूताः इत्यर्थः, प्रत्युपस्थिते-सम्मुखमापतिते अस्मिन् सङ्ग्रामे इति•वत्, का गतिः ?-कः अभ्युपायः ? युद्धकारणात् कथममुं निवारयामः ? यतः निखिल सैन्यसंहारकारिणा अनेन सह युद्धोपदेशं विना कोऽप्यन्यः विधिरतः न दृश्यते इत्यर्थः, वयमाशैशवात् इक्ष्वाकूणां भवने स्थित्वा सदैव सङ्ग्रामानिवर्तनरूप तेषां कुलधर्मं पश्यामः, एवञ्च यद्भावि तद्भवतु एव, तत्सदाचाराक्षतये अवश्यमेव कुलधर्मं विजानता मया चन्द्रकेतवे समरकरणपदेशः प्रदातव्यः इति भावः।
चन्द्र। ( सविस्मयलज्जासम्भ्रमम् )। धिक् ; प्रतिनिवृत्तानि सर्वतः सैन्यानि मम (च )
सुमन्त्रः। ( रथवेगमभिनीय )। आयुष्मन् स एष वाग्विषयीभूतस्ते प्रवीरः। ( छ )
चन्द्र। ( विस्मृतिमभिनीय )। आर्य्य किं तन्नामधेयमाख्यातमाख्यायकैः ? ( ज )
(च) सविस्मयलज्जासम्भ्रमं-लवस्यासामान्यं युद्धकौशलं दृष्टा विस्मयः, एकाकिना लवेन सह युद्धं कर्तुमसमर्थानां स्वसैनिकानां विमुखीभावं दृष्ट्वा लज्जा, अपि च स्वयमुपस्थाय युद्धे तेषां सहाय्यं कर्तुं सम्भ्रमः,-त्वरा, तैः सह वर्तमानं यथा तथेत्यर्थः, आहेति शेषः। सर्वतः,-सर्वाभ्यः दिग्भ्यः, सर्वतोभावेनेत्यर्थो वा, प्रतिनिवृत्तानि-विमुखीभूतानि, सर्वासु दिक्षु पलाय्य गतानीत्यर्थो वा, सैन्यानि-बलानि, धिक्-निन्दामीत्यर्थः, एकाकिना अमुना वीरेण पराजितान् रणभूमेश्च परावर्तिनः अम्मदीर्पुरुषान् शतशः तिरस्करोमीति भावः ; युद्धभूमौ सत्ववियाणां पृष्ठप्रदर्शनस्य घृणाकरत्वादित्याशयः।
(छ) रथवेगं-स्वकलितस्यन्दनस्य जवम्, अभिनीय-नाटयित्वा, आहेति शेषः। आयुष्मन् -चिरजीविन् , स एषः, पुरतऽयं दृश्यमानः इत्यर्थः, एतावन्तं कालं यद्विषयिणी कथामावां कथयावः इति यावत्, प्रवीरः,-महायोद्धा लवः, वाग्विषयोभूतः,-वाचां -संलापानां, विषयीभूतः,-गोचरीभूतः ; तव कथोपकथनयोग्यस्यलवती वीरोऽवमिदानीं सञ्चातः, अतोऽमना सहाधुना त्वं यथेछमालपितं शक्रोषीति भावः।
(ज) विस्मितिं-लवस्यालौकिकं युद्धकौशलं विलोक्य तत्परिचयविस्मरणम्, अभिनीय-नाटयित्वा, आहेति शेषः। आर्य-पूज्य , समत्व इति यावत्, तनाम, वेयम्-एतस्य वीरस्य नाम, किम् आख्यातं-कथितम् ? आख्यायकैः,-सन्देशहारिभिः, दूर्तैरित्यर्थः ; चरैः युद्धारभसमये एतस्यार्भकस्य किं नामाभिहितं तत्तु अहं विस्मरामि, स्मरसि चेत् तत् कतयेति भावः। एतेन दर्मयुद्धसमये दूताः स्वपरपक्षीयाणां युद्धपुङ्गवानां परिचयं सम्प्रददुरिति प्राचीना पथा आसीदित्यनुमीयते।
सुमन्त्रः। वत्स लव इति। ( झ )
लवः। भो भो लव महाबाहो किमेभिस्तव सैनिकैः।
एषोऽहमेहि मामेव; तेजस्तेजसि शाम्यतु॥ ७॥
(झ) वत्स आयुष्मान् , लव इति-लव इत्याकारकं, लवेत्यानुपूर्ववच्छितमित्यर्थः, अस्य बालकस्य नामधेयमिति शेषः।
अथादौ लवं ससमानं सम्बोध्य संवर्ध्य च तेन सह वीरजनानुरूपं युद्धं कर्तुं प्रार्थयते, भो भो लवेति। -भो भो महाबाहो लव आजानुलम्बितभुज लव , तव एभिः सैनिकैः मदीयैः, किम् ? अलम्, एभिः सामान्यसैनिकपुरुसह महावीरस्य तव युद्धं न शोभते इत्यर्थः ; सामान्यसैनिकावमर्दनात् विरमतु इत्याशयः। एषोऽहम् अयमहं तव समकक्षः प्रतियोद्धेत्यर्थः, मामेव एहि मामेव आगच्छ, मया सह युद्धस्वेत्यर्थः। अथ फलितमाह, तेजः इति। -तेजः त्वदीयं शौर्यं, तेजसि मदीये अमिते भावे प्रभावे, शाम्यतु निर्वाणमविगच्छतु, यथा अकिञ्चित्करं वाङ्ग्ज्योतिः महति तपनतेजसि शमयेति, तथैव ते तेजः त्वदीये महति तेजसि क्षिणोत्विति भावः। एतेन स्वस्याधिकबलत्वं व्यक्तीकृतमिति ज्ञेयम्। (अतः तेजः पदार्थस्य श्लिष्टतया वह्यर्थकत्वात् वन्हिपराक्रमतोर्भेदेऽपि अभेदाध्यवसायमूलाऽतिशयोक्तिरलङ्कारः)। पथ्यावक्तं वृतम्॥७॥
सुमन्त्रः। कुमार पश्य पश्य। –
व्यपवर्तत एष बलवीरः पृतनानिर्मथनात्त्वयोपहूतः।
स्तनयित्नुरवादिभावलीनामवमर्दादिव दृप्तसिंहशावः॥ ८॥
अथ युद्धाद्विरभ्य लवः वाक्यानुसारतः स्वेषामन्तिकमागच्छतीत्याह, व्यपवर्तत इति। -एषः अयं पुरतः स्थितः बालवीरः असितपराक्रमसम्पन्नः शिशुः, लवः इत्यर्थः, त्वया उपहतःपूर्वोक्तप्रकारेण आकारितः सन्, दृप्तसिंहशावः मदोद्धतः केशरिशिशुः, स्तनयितुरवात् मेघगर्जनात्, मेघध्वनिमाकस्येत्यर्थः, ( ‘ल्यवनोपे ‘च’ (वा०) इति पञ्चमी) अभावलीनां हस्ति यूथानाम् , अवमर्द्दादिव अननादिव, पृतनानिर्मथनात पृतनानां, निर्मथनात् सङ्क्षयात्, सैन्यसङ्घविनाशादित्यर्थः, व्यपवर्तते विरमति, सैन्यनाशं परिहृत्य इत एवागच्छतीत्यर्थः ; यथा गर्वितः सिंहशिशुः घनध्वनिमुओअश्रुत्य गजकुलमक्षयोद्योगं परिहृत्य ततोऽप्यधिकबलं मत्वा मेघं समाक्रमितुकामः क्रममनुबध्नाति, तथैवायं शौर्योद्दीपः वीरपोतः भवतः श्रुतिदृप्त समाह्वानमाकर्ण्य इत एवाभिवर्तते इति समुदितार्थः। (अत दृप्तसिंहशिवेन सह बालवीरस्यावैधर्म्यसाम्योपदेशात् उपसाऽलङ्कारः)। मालभारिणौ वृत्तम् ;- ‘विषमे ससजा यदा गुरु ‘– सभरा वेन तु मालभारनीयम्। ‘इति लक्षणात्। औषच्छन्दसकन्तु अस्यैव वृत्तस्य नामान्तरमिति ज्ञेयम्।
( ततः प्रविशति त्वरितोद्धतक्रमो ( ञ ) लवः )।
(ञ) त्वरितोङ्घातक्रमः,-त्वरितः,-सत्वरः, उङ्घतः,-गर्वितश्च, क्रमः,-पदविक्षेपः यस्य तथाभूतः सन्, अव समकक्षवीरलाभजनितौत्मुक्यात् त्वरा, स्ववीय्यातिशय्याय औङ्घत्यं क्रमस्येति ज्ञेयम्।
लवः। साधु ; राजपुत्र साधु ; सत्यमैक्ष्वाकः खल्वसि। तदयं परागत एवाऽस्मि। ( ट )
( नेपथ्ये महान् कलकलः )
लवः। ( सोवेगं परावृत्य )। कथम् इदानीं भग्ना अपि प्रतिनिवृत्य युद्धाभिसारिणः पर्य्यवष्टभ्य निघ्नन्ति मां चमूपतयः धिग् जाल्मान्। ( ठ )-
(ट) राजपुत्र -राजकुमार , चन्द्रकेतो , साधु साधु-समीचीनम्, अभिहितं भवतेति शेषः ; समबलेनैव वीरेण योद्धव्यमित्यभिप्रेत्य यदुक्तं तत् सुशोभनमेवेति भावः ; (हर्षे द्विर्वचनम्)। सत्यं-यथार्थम्, क्ष्वाकः,-इक्ष्वाकु कुलसम्भूतः, खलु-निश्चितम्, असि-भवसि ; इक्ष्वाकुवंशीयानां वीराणामनुरूपवीय्यभूयिष्ठवाचा व्याहरणादिति भावः। तत्-तस्मात्, इक्ष्वाकुवंशीयस्य प्रतिपक्षः वीरस्य भवतः त्वाभादित्यर्थः, अयम्-एषोऽहमित्यर्थः, परागतः,- प्रतिनिवृत्तः, भवत्समीपमुपस्थित इति यावत्, अस्मि-भवामि, अतो मया सह यथेप्सितं युद्ध्यस्वेत्याशयः।
(ठ) सावेगं-सोत्कण्ठं, परावृत्य-पराङ्मुखोभूय, भूयः सैन्यानामभिमुखः भूत्वेत्यर्थः, आहेति शेषः। कथं-किम् इदानीम्-अधुना मया अपि-मया निर्ज्जिताः सन्तः युद्धभूमेः पलायनपरा अपि, चमूपतयः,-सेनान्यः, प्रतिनिवृत्य-पुनः युद्धस्थलमुपगम्य, मम युद्धविरतिं दृष्ट्वा पुनः प्रत्यावर्तनं कृत्वेत्यर्थः, युद्धाभिसारिणः,-समराभिलाषिणः, भूयःयोद्धुमभीप्लवः इति यावत्, पर्यवष्टभ्य-वेष्टयित्वा परिवाय्येत्यर्थः, मम समन्तात् सदर्पमवस्थायेति भावः ; मां निघ्नन्ति-प्रहरन्ति, मामभिलक्ष्य बाणान् विकिरन्ति इति यावत। जालान्-मूर्खान्, अतिनीचान् सेनान्य इति भावः। धिक्-निन्दामि ; पराजयात् परमपि पुनः योद्धुमभिमनसः असमीक्ष्यकारिणः निर्लज्जान् वीरापसदानेतान् शतशो निन्दामीति भावः।
अयं शैलाघातक्षुभितबडवावक्त्रहुतभुक्
प्रचण्डक्रोधार्चिर्निचयकवलत्वं व्रजतु मे।
समन्तादुत्सर्पन् घनतुमुलसेनाकलकलः
पयोराशेरोघः प्रलयपवनाऽऽस्फालित इव॥ ९॥
( इति परिक्रामति )।
अथ सेनासमूहानां दुर्व्यवहारमभिसमीक्ष्य तत्सङ्क्षयामीप्मुः सकोपमाह अयमिति। -समन्तात् परितः, सर्वा दिशः अभिव्याप्येत्यर्थः,उत्सर्पन् उद्गच्छन्, अयं श्रूयमाण इत्यर्थः, घनेति- घनः निविडः, तुमुलः, सङ्कुलः, भयावहः इत्यर्थः, सेनाकलकलः सैन्यानां कोलाहलः, प्राप्येति-प्रलयपवनेन कल्यान्तवायुना, क्षयकालोत्थसण्हारपवनेनेत्यर्थः ; आस्फालितः आलीडितः, उद्वेलितः इत्यर्थः, पयोराशेः समुद्रस्य, ओघ इव प्रवाह इव मे मम, शैलेति। -शैलानां पर्वतानां, समुद्रान्तर्वर्तिनामिति यावत्, आघातेन सङ्घर्षण, जलमग्नशैलसङ्घप्रतिघातेनेत्यर्थः, क्षुमितः उद्दीपितः, यः बडवावत्कुहुतभुक् अश्वावदन- विनिर्गतवह्लि , बाडवाग्निरिति यावत्, वहत् प्रचण्डः भयावहः, यः क्रोधार्च्चिर्निचयः कोपानलशिखासमूहः, तस्य कवलत्वं ग्रासत्वं, व्रजत प्राप्नोतु ; समुद्रगर्भस्थशैलैः प्रतिघात प्राप्य प्रवर्घितः बाडवाग्निः यथा प्रलयकालोदितसंहारवायुसञ्चालिततया वीचिमालाकुलं प्रायोचितलिलराशि विशोषयति, तथैव मदीयः क्रोधः क्षणेनैव प्रोग्घताममीषां सैनिकानां समन्तात् श्रूयमाणमेतं कलकलनादं समूलमेवोपशमयतु इति भावः।
एतेन सर्वानेवैतान् नीवान् सैनिकानचिरादेव हनिष्यामीत्यर्थः स्पष्टिकृत इति ज्ञेयम्।
(पुरा किलं और्वस्य महर्षेः समूहतः नन्हिं सवाण्णि नगन्ति दुग्धं प्रववृते, तदृष्ट्वा भगवान् ब्रह्मा तं बडवामुखे संस्थाप्य तस्य समुद्रसलिलभक्ष्यत्वं प्रकल्पितवान्, तदवध्यसौ पारावारान्तरवस्थाय प्रवद्भिर्जितजलराशि विशोषयतीति पौराणिकौ वार्ता, तथा च मत्स्यपुराणे,-
बडबामुखोऽस्य वसतिः समुद्रे वै भविष्यति।
एषोऽग्निरन्तकाले तु सलिलाशी मया कृतः॥
‘इत्याद्यनुसन्धेयम्। अत पयोराशसेवेन सहासिनाकलस्यावैधर्म्यसाध्योपदेशादुपमाऽलङ्कारः, तथा हुतभुजा सह प्रचण्डक्रोधार्चिषां साम्यात् लुप्तोपमा च, इत्यनयोः निरपेक्षतया स्थितः संसिष्ठिः)। शिखरिणी वृत्तम्॥६॥
चन्द्र। भोः भोः कुमार –
अत्यद्भुतादसि गुणातिशयात् प्रियो मे ;
तस्मात् सखा त्वमसि ; यन्मम तत्तवैव।
तत् किं निजे परिजने कदनं करोषि ?
नन्वेष दर्पनिकष्तव चन्द्रकेतुः॥ १०॥
अथास्यालौकिक शौर्यं विलोक्य परितुष्यन् चन्द्रकेतुः सामवादेन तथौङ्घत्यभूयिष्ठं व्यवहारं परिहर्तुसमुं प्रणीदयति, अत्यद्भुतादिति। -अत्यभुतात् अतिविस्मयकरात्, एकाकिना बाणेन असङ्ख्यातानां योद्धुपुरुषाणां पराभवजननादिति भावः, गुणातिशयात् शौर्यातिरिक्तात्, मे मम, प्रियः अतिवल्लभः, असि भवसि, तस्मात् प्रियत्वादेव, त्वं सखा निवस, असि भवसि ; यद्यपि भवानस्मत्पक्षीयसिअन्यानां वृथा सङ्क्षयकरणात् शत्रुभूत एव भवति, तथाऽपि मया वीरेण वीरत्वगौरवरिरक्षिषुणा, तं वीय्यातिशव्यञ्च पश्यता परितुष्टेन सता, भवान् प्रियसख इत्यभिमन्यते इति भावः। अत एव यत् वस्तु, मम मत्सम्बद्दं, तत् वस्तु, तवैव भवत्संसृष्टमेव ; सखिभावस्य संस्थापनात् त्वां साञ्चान्तरा कियतोऽपि पृथक्तस्यामेवादिति भावः। तत् तस्माद्देतोः, मम त्वदीयत्वेन हेतुनेत्यर्थः, किं कथं, निजे स्वीये, परिजने परिवारे, अतोवान्तरङ्रजने इत्यर्थः, कदनं विमर्दनं, हननमित्यर्थः, करोषि विदधासि, स्वपक्षानेव निहसीत्यर्थः, स्वाश्रितपरिजनानां निर्हसनं भवादृशानां महाबलानां सर्वथैवानिचितमिति भावः। प्रागतिविनीतञ्चविहारेण कथञ्चित् परितोष्येदानीं वीरोचितभावं प्रदर्शयन्नाह, नन्वेष इति। -ननु भो तव एष चन्द्रकेतुः चन्द्रकेतनामाहं, तव भयतः दर्पनिकषः दर्पस्य वीरत्वगर्वस्य, निकषः परीक्षास्थानमित्यर्थः ; निकषप्रस्तरे यथा गुणज्ञैः सवर्णस्य सारासारवत्वस्य परीक्षां क्रियते, तया अहनीव तव वीरत्वातिशयस्य सारता सर्वथा सम्प्ररोक्षिष्ये, तदेहि, निष्फलसैन्यसङ्क्षयात् विरम्य मया युध्यस्व, अत्रैव ते रणकण्डूया निर्वापिता भविष्यतीति भावः (अथ चन्द्रकोतौ दर्पनिकषत्वस्याभेदारोपात् निरङ्गं रूपकमलङ्करः)। वसन्ततिलक वृत्तम्॥१०॥
लवः। ( सहर्षसम्भ्रमं परावृत्य )। अहो महानुभावस्य प्रसन्नकर्कशा वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य। तत् किमेभिः ? एनमेव तावत् सम्भावयामि। ( ड )
( पुनर्नेपथ्ये कलकलः )।
लवः। ( सक्रोधनिर्वेदम् )। आः कदर्थितोऽहमेभिर्वारं वारं वीरसंवारविघ्नकारिभिः। ( तदभिमुखं परिक्रामति )। ( ढ )
(ड) प्रतिपक्षवीरस्य लाभात् हर्षः, युद्धौत्सुक्यात् सम्भ्रमः,-त्वरा, ताभ्यां सह वर्तमानं यथा तथा, परावृत्य-चन्द्रकेतोरभिमुखीभूय, आहेति शेषः। अहो-इति विस्मये, महानुभावस्य -महान्-विपुलः, अनुभवः,-महत्वं यस्य तथाविध्अस्व, महामहिमशालिन इत्यर्थः। विकर्तनकुलस्य-मूर्यवंशस्य, कुमारस्य-सन्तानस्य, चन्द्रकेतोरित्यर्थः। प्रसन्नकर्कशा-प्रसन्ना-निर्मला, धीरस्निग्धा इत्यर्थः, कर्कशा-पुरुषा च, महावंशप्रसूततया अस्य वचनानां स्वतः सङ्घमेव कोमलत्वं, शौर्यभूयिष्ठभूषिततया स्वाभाविकमेव औड्यत्वसम्पृक्तत्वञ्चेति ज्ञेयम्। वीरवचनप्रयुक्तिः,-वीरस्य-शूरस्य, याति वचनानि-वाक्यानि, तेश्आं प्रयुक्तः,-प्रयोगः ; वीरा हि यथा सदा वीरत्वव्यञ्जकानि वचांसि समुदीरयन्ति, तथैवाक्यं श्रवणानभिरमां वाचं व्याचष्टे इति भावः। तत्-तस्मात्, समबलयोद्धुलाभादित्यर्थः, एभिः,-नीचैः रक्षिसैनिकैः किम् ?-अलम् ; एतेषां दुर्बलानां सैन्यानां कदनं विफलमिति भावः। एनमेव-अमुं वीरं लवमेव, सम्भावयामि-सम्मानयामि, तावदिति-वाक्यालङ्कारः। वीरेण सह वीरोचितं संयुध्य वीरगौरवरक्षां करमि, रणपिपासाञ्च अमुष्य निवर्तयामि इति भावः।
(ढ) क्रोधेन-कोपेन, निर्वेदेन-स्वावमाननया च सह वर्तमानं यथा तथेत्यर्थः, आहेति शेषः ; पुनः पुनः निर्जितानामपि सैनिकानामपि सिअनिकानां युद्धप्रवृत्तिदर्शनात् क्रोधः, तेषां वराकाणामत्यर्थसङ्क्षयकरणेऽपि तत्तसामान्यसैनिकवृतस्वनिर्यातनप्रयासदर्शनात् आत्मनि कथञ्चित् घृणया उदयात् निर्वेद इति ज्ञेयम्। आः,-इति कोपसूचकमव्ययम्, ( ‘आस्तु स्यात् कोपपीडयोः’ इत्यमरः)। वीरसंवारविघ्नकारिमि,-वीरेण शूरेण, चन्द्रकेतुना सह, या संवादः,-सङ्ग्रामकालोचितःसंलापः इत्यर्थः, तस्य विघ्नं-प्रतिअबन्धं कुर्वन्ति ये तैः ; वृथा युद्धकोलाहलं कृत्वा वीरेण चन्द्रकेतुना सह सङ्ग्रामे मम निरन्तरं वाधामुत्पादयद्भिरिति भावः। एभिः,-सैनिकैः, वीरापसदैरित्यर्थः। कदर्थितः,-उत्पीडितः, (कु कुत्सितः, अथः प्रयोजनमिति ‘कोः कत्तत्पुरुषेऽर्चि’ (६/३/१०१ पा०) इति कुशब्दस्य कदादेशः, कदथेः कृतः इति ‘तत्करोति ‘‘(ग०) इति णिचि निष्ठायां रूपम्) लाच्छित इति यावत्, अस्मीति शेषः ; एते पामराः सेनासमूहाः मम वीरत्वप्रकाशने भावः। तदभिमुखं-तेषां क्षुद्राणामन्तरायकारिणां सैन्यानां सम्मुखं, परिक्रानति-धावति।
चन्द्र। आर्य्य दृश्यतामेतद्दृष्टव्यम्। ( ण ) –
दर्पेण कौतुकता मयि बद्धलक्ष्यः
पश्चाद्बलैरनुसृतोऽयमुदीर्णधन्वा।
द्वेधासमुद्धतमरुत्तरलस्य धत्ते
मेघस्य माघवतचापधरस्य मक्ष्मीम्॥ ११॥
(ण) आर्ये -पूज्य सुमन्त , दृश्यताम्-अवलोक्यताम्, एतत्-पुरोवर्ति, द्रष्टव्यं-दर्शनयोग्यं वस्तु लवस्यात्मसैनिकसङ्क्षयार्थ समन्तात् केशरसुतवदभिधावनमित्यर्थः।
अथ रणभूमिषु प्रकटीकृतां लवस्य तामेव विस्मयावहां चेष्टां विशदीकृत्य व्याचष्टे, दर्पेणेति। -कौतुकतया अतिविस्मयकरेण, दर्पेण गर्वेण, मयि ममोपरि, बद्धलक्ष्यः बद्धं निविष्टं, लक्ष्यं दृष्टिविक्षेपः येन तथाविधः, अतिविस्मयावहदर्पेण सार्द्धं मयि विहितदिष्टिः सन् सदभिमुखनभिधावित इत्यर्थः ; यद्वा,-चन्द्रकेतोः कीदृक् शौर्यमस्तीति ज्ञातुं यत् कौतुकं स्वकीयं कौतूहलं तदस्यास्तीति तेन , दर्पेण वीरत्वगर्वण हेतुना, अपरेषां वीर्यज्ञानार्थं यत् कौतुकं तत्सहितस्य स्वकीयासानान्यवीरत्वदर्पस्य सत्वादित्यर्थः, बद्धलक्ष्यः कृतदृष्टिपातः, महोरत्वदर्शनौत्सुक्यात् सदर्प मयि कटाक्षं विनिक्षिपन्नित्यर्थः, पश्चात् पृष्टतः, बलैः सैन्यैरस्मदीयैः, अनुसृतः अनुधावितः, उदीर्णम् उड्डितं, शरनिक्षेपाय उत्तोलितमिति यावत्, धनुः कार्मुकं येन तथाविधः, मदोद्धतानामस्मत्सैनिकानां सक्षयार्थं शरासने शरं समारोपयन्नित्यर्थः, अयं वीरः लवः, द्वेधा द्विप्रकारेण, पुरतः पश्चाच्चेत्यर्थः, समुद्धतेन प्रचण्ड प्रवहता, कदाचित् पुरतः कदाचित् पश्चाच्चेत्वेवं पर्याकुलं चलतेत्यर्थः, मरुता वायुना, तरलस्य चपलस्य, चालितस्येत्यर्थः ; वात्यया उभयतो नीयमानस्येति भावः ; माघवतचापधरस्य माघवतस्य न्द्रस्य, चापस्य धनुषः, धरस्य धारकस्य, मेघस्य वारिवाहस्य, लक्ष्मी शोभां, धत्ते धारयति ; इन्द्रधनुभृत् बलाहकः यथा प्रतिकूलवायुना कदाचित् पुरतः कदाचित् पश्चाच्चाभिताडितः रम्यां शोभां विधत्ते, तथैवायं जलदश्यामवपुः बालकः मारुतसमैरस्मह्बलैः विताडितः न्द्रशरासनवड्भीषणं कार्मुकं वहन् सदर्पं मयि निहितकटाक्षः सन् क्षणं मामेवाक्रमितुकामः, पुरतः परिक्रमान् क्षणश्च निर्यातनैषिणः मत्सैनिकान् तर्ज्जयितुं पश्चादभिघातान् परितः प्रसृतामनिर्वचनीयां नैसर्गिकीं श्रियं भिभर्तीति सरलार्थः।
(अत एकस्य लक्ष्मीमपरः कथं वहतीत्यसम्भवती वस्तुसम्बन्धस्य बिम्बानुबिम्बभावेन तत्सदृशलक्षणाः धारणेन सामञ्जस्यात् निदर्शनाऽलङ्कारः, मेघमाघेति छेकानुप्रासश्चेत्यनयोः संसृष्टिः)। वसन्ततिलक वृत्तम्॥११॥
सुमन्त्रः। कुमार एवैनं दृष्टमपि जानाति ; वयन्तु केवलं परवन्तो विस्मयेन। ( त )
चन्द्र। भोः भोः रजानः –
(त) कुमार एव-भवानिव, नापरे इत्येवशब्दार्थः, एनं-लवं, दृष्टुमपि-सम्यक् समीक्ष्यावधारयितमपि, का कथा यथोचितवद्गुणादिपरीक्ष्याप्रयासनामित्यपिकारार्थः ; वीरा एव हि वीरान् परीक्षितुं शक्नुवन्ति, नान्ये इत्याशयः। तु-किन्तु, वयम्-अस्मादृशाः उदासीनाः जनाः इत्यर्थः, विस्मयेन-आश्चर्येण, अस्य बालस्याङ्गुतरणकर्मदर्शनेनेत्यर्थः, परवन्तः,-पराधीनाः, सञ्जाताः इति शेषः ; एकश्चन्द्रकेतुरेवैतस्य वीरत्वाधिकं विनिर्णेतुं शक्नोति, वयन्तु केवलमस्याभूतपूर्वं विक्रमं विलोक्य विस्मयविवशाः सञ्जाता इति भावः।
सङ्ख्यातीतैर्द्विरदतुरगस्यन्दनस्थैःपदाता-
वत्रैकस्मिन् कवचनिचितैर्मेध्यचर्मोत्तरीये।
कालज्येष्ठैरचरमवयः काम्यकाये भवद्भि-
र्योऽयं बद्धो युधि परिकर्स्तेज वो धिग् धिगस्मान्॥ १२॥
अथ पदातिनम् एकं बलं पराभवितुं भूयसा आयासेन सम्प्रवर्तमानान् अगणितान् सामन्तनृपतीनवलोक्य घृणया शतशं एतान् धिक्करति, सङ्ख्यातीतैरिति। -सङ्ख्यां परिमाणम्, अतीतैः अतिक्रान्तैः, ( ‘हितीयाश्रितातीत ‘‘(२/१/२८ पा०) इति द्वितीयासमाप्तः) अगणनैरित्यर्थः, द्विरदेत्यादि। द्विरदेषु हस्तिषु, तुरङ्गेषु वागिषु, तथा स्यन्दनेषु रथेषु च तिष्ठन्ति ये तैः, निषादिभिः अश्वारोहिभिः रथचारिभिश्चेत्यर्थः, अपि च कवचैः वर्मभिः, निचितैः आवृतैः, सदृढवारबाणासंरक्षितशरीरैरिति यावत्, कालज्येष्ठैः कालेन वयसा, ज्येष्ठैः वृद्धतमैः, अतिवर्षीयोभिरित्यर्थः, भवद्भिः युष्माभिः, पदातौ पादचारिणि, पदातिके इत्यर्थः, एकस्मिन्, असहाये, मेध्य पवित्रं चर्म अजिनम्, उत्तरीयन् उत्तरासङ्गः यस्य तस्मान्, कोमलमृगत्वगाच्छादितगावो इत्यर्थः ; सम्पूर्णतया असंरक्षितकलेवरे इति भावः, अचरमेण अभिनवेन, नूतनेन इत्यर्थः, ( ‘‘अचरम’ इत्यत्र ‘अभिनव’ इति पाठान्तरम्) ; वयसा बाल्येन, काम्यः रमणीयः, कायः कलेवरः यस्य तथाविधे, अत्र अस्मिन् कुमारि लवे, युधि समरे, योऽयं परिकरः कटिबन्धः, रणव्यापारे अव्याग्रह इत्यर्थः, बद्धः धृतः, तेन हेतुना, वः युष्मान्, धिक् निन्दामि, अस्मान्, अपीति शेषः, धिक् निन्दामि चेत्यर्थः, एवं विधमस्मदीयसीनानां जुगुप्सितं सङ्ग्रामकर्म विलोक्य एतासां नेतृत्वेन वृताः वयमपि अत्यधिकं विलज्जिताः जाता इति भावः। पदातिना सह अश्वाद्यारोहिणाम्, असंवृताङ्गेन सह कवचिनां, तथा बालेन सह प्रवयसां सङ्ग्रामक्रिया अतीव घृणाकरोति तात्पर्यम्। (अत विरूपाणामेव वस्तूनामेकतं सङ्घटनात् विषमालङ्कारः)। मन्दाक्रान्ता वृत्तम्॥१२॥
लवः। ( सक्षोभम् )। कथम् ; अनुकम्पते नाम ? ( विचिन्त्य ) भवतु ; कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत् सैन्यानि संस्तम्भयामि। ( इति ध्यानं नाटयति )। ( थ )
(थ) क्षोभेण-चित्तचाञ्चल्येन, मानसव्यथयेति यावत्, सह वर्तमानं यथा तथा, आहेति शेषः। चन्द्रकेतो प्राकृदयार्द्रवचसां श्रवणात् चित्तसङ्क्षोभः ज्ञेयः। कथं-किम्, अनुकम्पते-दृश्यते, नाम-कोपे ; मां किमु असमर्थं विभाव्य चन्द्रकेतुः ईदृशं सदयभावं प्रदर्शयति ? तनु दुःसहम् इति भावः। विचिन्त्य-क्षणं विभाव्य, पुनराहेति शेषः। भवतु-एवमस्तु इत्यर्थः। कालहरणप्रतिषेधाय-कालस्य -समयम्य, यत् हरणं-क्षेपण, तस्य प्रतिषेधाय-निराकरणाय, वृथा-कालक्षेपविनिवृत्तये इत्यर्थः ; अल्पवीर्यैः एभिः सैनिकैः सह युद्धेन वृथा कालक्षेपस्य वारणायेति भावः। जृम्भकास्त्रेण-जृम्भकाख्यास्वविशेषस्य प्रयोगेणेत्यर्थः, सैन्यानि-सर्वाणि बलानि, संस्थम्भयामि-सम्मोहयामि, विचेतनानि करोमीत्यर्थः। ध्यानं-मन्त्रैः जृम्भकास्त्रप्रयोगचिन्तनं, नाटयति-अभिनयति।
सुमन्त्रः। तत्किम् अकस्मात् अस्मत्सैन्यघोषः प्रशाम्यति ? ( द )
लवः। पश्यामेनमधुना प्रगल्भम् । ( ध )
सुमन्त्रः। ( ससम्भ्रमम् )। वत्स मन्ये ; कुमारेणानेन जृम्भकास्त्रमामन्त्रितम्। ( न )
चन्द्रः। अत्र कः सन्देहः ? –
य्वतिकर इह भीमस्तामसो वैद्युतश्च
प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति।
अथ लिखितमिवैतत् सैन्यमस्पन्दमास्ते
नियतममितवीर्यं जृम्भते जृम्भकास्त्रम्॥ १३॥
(द) तत् किम् -किमेतत् इत्यर्थः, अकस्मात्-सहसा, अस्मत्सैन्यघोषः,-मदीयसैन्यानां कलकलध्वनिः, प्रशाम्यति ?-निर्वाति ? , आश्चर्यम् सहसा सेनाकलकलः कथं निवृत्तः ? कश्चित् अभिनवः अन्तरायः सैन्येषु समुदितः किम् ? इति भावः ?
(ध) एनं चन्द्रकेतुं, सप्रगल्भं-प्रगल्भं,-प्रगल्भता, अत लक्षणया धर्मपरत्वादिति ज्ञेयं, गर्व इत्यर्थः, तेन सह वर्तमानः तम्, अतिदृष्टमित्यर्थः ; (यद्यपि ‘प्रगल्भः प्रतिभान्विते’ इत्यमरोक्तेः प्रगल्भशब्दस्य विशेषणत्वात् तेन सह बहुर्वीहिर्नोपपद्यते इति मन्यते, तथाऽप्यस्य लक्षणया प्रगल्भत्वरुपधर्मपरत्वमङ्गीकृत्य प्रोक्तसमासः सङ्गमनीयः इति ज्ञेयम्। अत एव कुत्रचित् ‘सुप्रगल्भं, ‘प्रगल्भं’ इति च पाठान्तरं दृश्यते, अर्थस्तु तत्पक्षे सुगम एवेत्यवधेयम् ) पश्यामि-अवलोकयामि ; स्वप्रभावातिशयप्रतिपादकानां प्रागुक्तवचसा प्रयोगेण अमुमतिगर्वितं मन्ये, तदिदानीमस्य गर्वमपनोदयामि इति भावः।
(न) ससम्भ्रमं-सत्वरं, सोत्कण्ठमित्यर्थः, आहेति शेषः, अनेन कुमारेण-एतेन मुनिबालकेन, जृम्भकास्त्रं-जृम्भकनामधेयं कृशाश्वतनयभूतं समन्त्रकमायुधम्, आमन्त्रितं-मन्त्रोच्चारणपूर्वकं समाहूतं, प्रयुक्तमित्यर्थः, मन्ये-सम्भावयामि ; नो चेदेवं तर्हि कथमकस्मात् सेनाकलकलविनिद्वात्तरित्याशयः।
अथ चन्द्रकेतुः स्वयमपि सैन्यमण्डलानाम्वस्थावर्णनमुखेन जृम्भकास्त्रेण प्रयोगं समर्थयन् तत्प्रभावं विशिष्य व्याचष्टे, व्यतिकर इति-तामसः तमः सम्बन्धो, वेद्यतश्च विद्युत्सबन्धी च, भ्ॐअः भयङ्करः, व्यतिकरः सम्पर्कः, वुद्युतां तमसाञ्च सर्वप्राणि
भयङ्करः युगपत् समवायः इत्यर्थः, पिण्डोभूता सौदामनीतमः सन्ततिः इति यावत्, इह अस्मिन् सैन्यसमुदाये, प्राणिहितमपि सप्रणिधानं समीक्षितुं नियोजितमपि ; किमर्थं मदीयाः सैनिकाः सहसा नीरवाः सञ्जाताः इति परीक्षितं समन्तात् विनिपातितमपीति भावः ; चक्षुः मदीयं नयनं, ग्रस्तमुक्तम् तमः सम्बन्धेन आदौ ग्रस्तं वुद्युत्सबन्धेन च पश्चात् मुक्तं परित्यक्तम्, प्रथमतः प्रगाढतमोभिः समावृतं पश्चात् विद्युज्जोतिर्भिः विमुक्तोकृतमित्यर्थः।
अथ अनन्तरं, सान्धकारज्योतिःपुञ्जप्रकाशात् परमेवेत्यर्थः, यद्वा,-अथशब्दोऽव समुञ्चयार्थकः, किञ्चेत्यर्थः
‘अथाथो संशये स्यातामधिकारे च मङ्गले।
विकल्पानन्तरप्रश्नकात्मरम्भसमुच्चये॥’ इति मेदिनी)
एतत्सैन्यम् अस्मद्बलसमुदायः, लिखितमिव विचित्रमिव, चित्रपटार्पितमिवेत्यर्थः, अस्पन्दं स्पन्दरहितं, निश्चेष्टं सदित्यर्थः, आस्ते वर्तते, अत एव नियतं निश्चितम्, अमितवीर्यम् अपरिमितसामर्थ्यम्, अपौरुषेयः शक्तिकमित्यर्थः, जृम्भकास्त्रं जृम्भकाख्य क्वशाश्वतनयभूतं समन्त्रप्रयोगसंहारम् आयुधं, जृम्भते स्फुरति, समुदेतीत्यर्थः ; मन्ये, नूनं जृम्भकास्त्राणि प्रादुरभूवन्नितिं, अन्यथा कथमस्मच्चक्षुषां क्षणमुपरोधः, कियत्कालात्परं प्रकाशश्च समजनि ? सैनिकसङ्घश्च चिवार्पितारम्भ इवावतिष्ठते ? इति भावः।
(अत सैन्यानां लिखितवदवस्थानस्य सम्भावनया उत्कटैककोटिकसंशयसमुदायादुत्प्रेक्षाऽलङ्कारः, अपिच सैन्यानां समूहेषु जृम्भकास्त्रकृतनिष्पन्दीभावादेः सत्वात् तद्वस्त्रजविकारादेरनुनुमानात्, तथा विच्छित्तिवशात् साधनीभूतसैन्यगतवुक्रियाभी साध्योभूतस्य जृम्भकास्त्रप्रादुर्भावस्य ज्ञानाच्च अनुमानालङ्कारः, एअतयोरङ्गाङ्गिभावेन स्थितेः सङ्करः)। मालिनी वृत्तम्॥ १३॥
आश्चर्य्यमाश्चर्य्यम् –
पातालोदरकुञ्जपुञ्जितः श्यामैर्नभो जृम्भकै-
रुत्तप्तस्फुरदारकूटकपिलज्ज्योतिर्ज्ज्वलद्दीप्तिभिः।
कल्पाक्षेपकठोरभैरवमरुद्व्यस्तैरवाकीर्यते
मीलन्मेघतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव॥ १४॥
अथ तदस्त्राणां प्रसारं प्रभावञ्च विशदीकृत्य प्रतिपादयति, पातालोदरेति। -पातालस्य अधोभुवनस्य, साहसिकधनान्धकारसमावृतस्येत्यर्थः, उदरेअभ्यन्तरे, मध्यदेशे इत्यर्थः, ये कुञ्जाः लताप्रतानावृतस्थानानि, लतागृहाः इत्यर्थः, तेषु पुञ्जितानि पञ्चीभूय मस्थितानि, घनीभूतानीत्यर्थः, यानि तमांसि अन्धकाराः, तैरिव श्यामैः अतिकृष्णवर्णैः ; अन्धकाराणामतितीव्रत्वप्रतिपादनार्थं पातालोदरकुञ्जस्योपादनं ज्ञेयम् ; अपिच, उत्तप्तं दृढतरवन्हिसंयोगात् पावकसमवर्णतां सम्प्राप्तमित्यर्थः , अत एव स्फुरत् दीप्यमानं, प्रभातरलज्योतिर्मयमिति यावत्, यत् आरकूटं पित्तलं, ( ‘रीतिः स्त्रियामारकूटम्’ इत्यमरः) तस्य यानि कपिलानि पिङ्गलवर्णानि, ज्योतिषिप्रभाः, तद्वत् ज्वलन्त्यः देदीप्यमानाः, दीप्तयः प्रभाः येषां तथा विधैः अनलतापेन द्रवीभूतपित्तलानां तरलप्रभाभास्वररैरित्यर्थः ; एतत्तु विद्युद्विलासप्रकटीकरणार्थमिति ज्ञेयम् ; कल्पेत्यादि-कल्पस्य ब्रह्मणो दिवसस्य, ( ‘‘कल्पः शात्रे विधौ न्यवि संवर्ते ब्रह्मणे दिने’ इति मेदिनी) युगरुपस्येत्यर्थः, आक्षेपः क्षयः, अवसानमिति यावत्, यस्मिन् तथाभूते काले, युगान्तसमये इत्यर्थः, कल्पावसाने इति यावत्, ये कठोराः दारुणाः, दुर्निवारा इत्यर्थः, भैरवाः भयङ्कराः मरुतः समवेतोदिताः ऊनपञ्चाशत् वायवः, तैः व्यस्तैः विक्षिप्तैः, विन्ध्याद्रिगात्रात् उत्पाट्य स्थानान्तरं नीतैरित्यर्थः, मीलन्तः सन्ततमेव संसजन्तः, मेघाः पयोवहाः येषु तथाविधाः, अत एव तडिद्भिः तदीयविद्युद्भिः, कडाराणि पिङ्गलवर्णानि, ( ‘‘कडारः कपिलः पिङ्गापिशङ्गौ कद्रुपिङ्गलौ’ इत्यमरः) कुहराणि गुहा येषां ते, ततः सीलन्मेघाश्च ते वडित्कडारकुहराश्चेति (विशेषणकर्मधारयः) तैः तादृशैः, विन्ध्यादिकूटैरिव विन्ध्यादिशिखरैरिव, जृभकैः जृम्भकाख्याअत्रविशेषैः, नभः गगनम्, अवाकीर्यते व्याप्यते, सर्वतः, समाच्छन्नं क्रियते इत्यर्थः ; निविडान्धतमसाच्छन्ने महाप्रलयसमये समुदितैः संवर्तकाभिः प्रचण्डपवनैः निद्वयं समाहतानि विच्छिन्नमूलानि विन्ध्यागिरिशिखराणि समन्तात् समुड्डिय यथा प्रचण्डः तथा विधमेधाघातं सम्प्राप्य विद्युन्मालाः परितः प्रकिरन्ति सन्ति जगज्जीवानां सङ्क्षयं साधयन्ति, तथैव किलामूनि जृम्भकाख्याणि अस्मद्वलसमुदायेषु समुदितानीति भावः।
(अत प्रलयपवनेन छिन्नतया समुत्क्षिप्तैः विन्ध्याद्रिकूटैः सार्धं जृम्भकास्त्राणामेवैधर्म्य साम्योपदेशात् उपनाऽलङ्कारः एव, नोत्प्रेक्षा, प्रलयसमये सृष्टिविलोपस्य शात्रसिद्धत्वेन तात्विकतया, विन्ध्याद्रिकूटानामपि प्राक्तरूपतया बणनायत्वस्य सुसङ्गततया सुसिद्धत्वात् अकाल्पनिकत्वाच्च कथञ्चिदप्यता विषये सम्भावनाया अभावादिति ज्ञेयम् )। शार्दूलविक्रीडितं वृत्तम्॥ १४॥
सुमन्त्रः। कुतः पुनरस्य जृम्भकाणामागमः स्यात् ? ( प )
चन्द्रः। भगवतः प्राचेतसादिति मन्यामहे। ( फ )
सुमन्त्रः। नास्य व्यवहारोऽस्त्रेषु ; विशेषतो जृम्भकेषु। ( ब )
यतः ; —
क्वशाश्वतनया ह्येते क्वशाश्वात् कौशिकं गताः।
अथ तत्सम्प्रदायेन रामभद्रे स्थिता इति॥ १५॥
(प) कुतः,-कस्मात् पुरुषात्, अस्य-लवस्य, ( ‘‘शेषे विभाषा’ (वा०) इति कर्तरी षष्ठी वैकल्पिकी, ‘केचिदविशेषेण विभाषामिच्छन्ति’ इति दौक्षितवाचनात् )। जृम्भकाणाम्-एतेषां दैवानामायुधानाम्, ( ‘‘उभयप्रप्तौ कर्मणि’ (२/३/६६ पा०) इति कर्मणि षष्ठी)। आगमः,-लाभः, प्राप्तिरित्यर्थः, स्यात् ?-भवेत् ? ; भगवान् रामस्तु महर्षेः शिश्यत्वादित्याशयः।
(ब) अस्य-महर्षेः वाल्मीकेः, ओषु-आयुधेषु, व्यवहारः,-स्वेनैव प्रयोगः, शिष्येभ्यो वा उपदेशः इति यावत्, न-नास्तीत्यर्थः ; यद्यपि महर्षिः सर्वज्ञतया निखिलं वेत्ति, तथाऽप्ययं केषाञ्चिदप्यत्राणां स्वयं सम्प्रयोगं न करोति, शिष्येभ्यश्च वएतत् नोपदिशति इति भावः ; विशेषतः,-विशेषेण, जृम्भकेषु-कृशाश्चतनयभूतेषु ओषु व्यवहार इति शेषः ; सामान्यतः अस्त्रव्यवहाराणामदर्शनात् जृम्भकास्त्राणान्तु कर्हैव नास्तीति भावः।
अथैतेषां जृम्भकास्त्राणां सम्प्रदायं विवृणोति, कृशाश्चेति। -एते जृम्भकाख्याः अस्त्रविशेषाः, हि इति सम्भ्रमार्थकमव्ययम् ; महौजसः प्रजापतिः कृशाश्वस्य तनयत्वादेव जृम्भकाणामादरातिशयप्रकटनार्थमत हि शब्दप्रयोगः बोध्यः। ( ‘‘हि पादपूरणे हेतौ, विशेषेऽप्यवधारणे। प्रश्ने हेत्वपदेशे च सम्भ्रमासूययोरपि॥ ‘इति मेदिनी) कृशाश्वतनयाः कृशाश्वेन प्रजापतिना सृष्टाः इत्यर्थः, कृशाश्वानां पूर्वतनानां गुरुणां तपसां तेजोभ्यः सम्भूताः इति यावत् ; कृशाश्वात् तस्मादेव महापुरुषात्, तस्यैव तपस्तोजोभ्यः समुत्पद्येति भावः ; कौशिकं महर्षि विश्वामित्रं, गताः सम्भ्रान्ताः ; गुरुपरम्पराक्रमेण कौशिकं महर्षिमुपाश्रिताः इति भावः ; अथ अनन्तरं, तत्सम्प्रदायेन तेषामस्त्राणां गुरुपारम्पर्यक्रमादुपदेशेनेत्यर्थः, कौशिकोपदेशेनेति यावत्, रामभद्रे श्रीरामचन्द्रे, स्थिताः सङ्क्रान्ताः, रामभद्रमुपाशिता इत्यर्थः, इतीति वाक्यसमाप्तौ ; ( ‘‘व्यवस्थिताः’ इति पाठान्तरम्)। इत्थं हि एतेषामस्त्राणां गुरुपरम्परासंस्थितिः सुप्रसिद्धा, एतेभ्योऽन्यव नास्त्येतेषां समधिगतिः,अतो वाल्मीकौ महर्षी तस्य उपसङ्गमः न हि सम्भवतीति तात्पर्यम्।
(अत जृभकास्त्राणामनेकेषु सङ्क्रमणात् पर्यायालङ्कारः ; तथा तच्छब्देनैव कृशाश्वस्य उपस्थितिसम्भवे पुनः कृशाश्वप्रदीपादानात् कथितपदत्वदोषः, स च ‘कृशाश्वात्’ इत्यत्र ‘वस्याच्च’ इति पाठे समाधेयः इति )॥१५॥
चन्द्रः। अपरेऽपि परमोपचीयमानसत्यप्रकाशाः स्वयं हि मन्त्रदृशः पश्यन्ति। ( भ )
सुमन्त्रः। वत्स सावधानो भव परागतः प्रवीरः। ( म )
कुमारौ। ( अन्योन्यं प्रति )। अहो प्रियदर्शनः कुमारः । ( सस्नेहानुरागं निर्वर्ण्य ) । ( य ) —
(भ) अपरेऽपि-कृशाश्वादिभ्यः अन्येऽपि, परमपचीयमानसत्वप्रकाशः,- परम्- अत्यर्थम्, उपचीयमानः,-परिवर्त्यमानः, सत्वस्य-सत्वगुणस्य, प्रकाशः, -अविभावः येषु ते, विशुद्धसत्वगुणोद्रेकात् समुद्भासिततेजसः इत्यर्थः , यद्वा,-परमं-सातिशयम्, उपचीयमानः,-परिवर्ध्यमानः, सत्वस्य-बलस्य, आर्षस्य तेजसः इति यावत्, प्रकाशः-उदयः येषां ते, मन्वदृशः,-मन्त्रसाक्षात्कर्तारः ऋषयः, उग्रेण तपसा श्रुतीनां प्रत्यक्षीकर्तार इत्यर्थः, स्वयं हि-अन्योपदेशं विनैर्नेत्यर्थः, पश्यन्ति-जृम्भकादीन् जानन्ति इत्यर्थः, ज्ञानचक्षुषा सर्वं विज्ञाय दिव्यास्त्राणि लब्धुं शक्नुवन्ति इति यावत् ; अतः मन्ये कृशाश्वादिव्यतिरिक्तेभ्यः प्राचेतसादिभ्यः महर्षिभ्योऽपि एतादृशास्त्राणां लवेन लाभः सम्भवेदिति भावः।
(म) सावधानो भव-आत्मरक्षणाय अप्रसतो भव, लवस्याक्रमणं प्रति मनः सन्निधेहीत्यर्थः, प्रवीरः,-प्रकृष्टः वीरः, लव इत्यर्थः, परागतः,-समुपस्थितः ; यतोऽयं शूरः आक्रामितुकामः इति एव सत्वरं समाख्याति, अतस्त्वया इदानीमनलसेन सता स्थातव्यमिति भावः।
(य) अन्योन्यं प्रति-परस्परमवलोक्य, प्राहतुरिति शेषः। अहो -इति विस्मयार्थकमव्ययम् ; प्रियदर्शनः,-प्रियं-मनोज्ञं-अवलोकनं यस्य सः, स्ॐयमूर्तिरित्यर्थः, कुमारः-लवः चन्द्रकेतुश्च। सस्नेहानुरागं-स्नेहेन-प्ररणा, अनुरागेण-अत्यन्ताशक्त्या च सह वर्तमानं तथा, निर्वर्ण्य- दृष्ट्वा, आहतुरिति शेषः, उभयोः प्रियदर्शनत्वादेव अन्योऽन्यं प््रित स्नेहः, समवयस्कत्वेन सखित्वादेव चानुराग इति ज्ञेयम्।
यदृच्छा संवादः किमु ? किमु गुणानामतिशयः
पुराणो वा जन्मान्तरनिविडबन्धः परिचयः।
निजो वा सम्बन्धः किमु विधिवशात् कोऽप्यविदितः ?
ममैतस्मिन् दृष्टे हृदयमवधानं रचयति॥ १६॥
अथान्योन्यं प्रति स्निह्यन्तौ अनुरज्यन्तौ च कुमारौ विविधं तत्कारणमनुसन्दधति, यदृच्छि्व्त। -यदृच्छया हेतुं विनाऽपि, अकस्मादित्यर्थः, संवादः समागमः, किमु ? किम् ; दैववशादेव आवयोः य एषः समागमः सञ्चातः, स एव किमेतस्मिन् ह्रदयावधानरचनायां हेतुः, तव किमपि अन्यत् कारणं नास्ति किम् ? इति भावः ; गुणानां शौर्यगम्भीर्य सौजन्यादिगुणसमूहानाम्, अतिशयः आधिक्यम्, उत्कर्षं इत्यर्थः, किमु ? किम्, ईदृशासामन्यगुणनिचयानां प्रभावस्यात् सत्वादेव तद्बलात् एवं किं समजनीति भावः, गुणाधिके स्वत एव प्रीतिः समुत्पद्यते इत्याशयः ; वा अथवा, जन्मान्तरे अन्यस्मिन् जन्मनि निविडः दृढः, बन्धः स्नेहमयं बन्धनं यस्य तादृशः, पूर्वस्मिन् जन्मनि सदृढं स्नेहमयपाशेन संयमिततया संस्थित इत्यर्थः, पुराणः प्राक्तनः, परिचयः भ्रातृत्वबन्धुत्वादिरूपः सम्बन्धः, किम् ? इति शेषः ; जन्मान्तरीयसुदृढमैत्रादिबन्धनं किमु एतस्मिन् जन्मनि एवं जनयति ? इति भावः ; वा अथवा विधिवशात् भाग्यवशात्, अदृष्टविवर्तनादित्यर्थः, अविदितः अविज्ञातः, कोऽपि अनिर्वचनीयः, निजः स्वीयः, सम्बन्धः भ्रातृत्वादिरूपः सम्पर्कः, किमु ? किम्, अस्मिन् मे भ्रातृत्वादिरूपात् कस्माच्चित् सम्बन्धादेव ईदृशः किमु साहजिकः प्रीतिभावः समुदितः ? यो हि सम्बन्धः दुर्दैवप्रभावादेव इदानीं सम्यक्तया नावबुध्यते इति भावः ; दृष्टे अवलोकिते, एतस्मिन् प्रियदर्शने कुमारे, मम ह्रदयं मानसम्, अवधानम् काग््रयं, प्रीतिप्रवणतामित्यर्थः, रचयति गमयति, प्रणयविह्वलतामासादयतीत्यर्थः ; नूनमनेन बालकेन सह मे कश्चित् जन्मान्तरीयः स्वजनसम्पर्कः आसीत्, यत्प्रभावादेव मम चेतः सहसा ईदृक् विकलं सञ्चातमिति भावः।
(अत परस्परावलोकनात् परं स्वस्वह्रदयावधानं प्रति प्रतिभावशेन विविधानां हेतूनामुपन्यस्तानां तुल्यबलतया एकतरविनिश्चयाभावात् शुद्धः सन्देहाङ्कुरः, अपि च, चतुर्थपदस्यवाक्यार्थं प्रति पादत्रितयानां हेतुत्वेनोपन्यासात्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः, एतयोरङ्गाग्ङिभावतया स्थितेः सङ्करः)। शिखरिणी वृत्तम्॥१६॥
सुमन्त्रः। भूयसा जीविधर्म एषः ; यद्रसमयी कस्यचित् क्वचित् प्रीतिः ; यत्न लौकिकानामुपचारस्तारमैत्रकं वा चक्षूराग इति ; तमप्रतिसङ्ख्येयमनिबन्धनं प्रेमाणमामनन्ति। ( र ) —
(र) भूयसा-बाहुल्येन, प्रायश इत्यर्थः, एषः,-वक्ष्यमाणप्रकार इत्यर्थः, जीविधर्मः,-जीविनां-प्राणिनां, धर्मः,-स्वभावः ; किं तदिति प्रश्ने आह, यदिति। -यत् कस्यचित्-जनस्य, क्वचित्-कुत्रचित् जनविशेषे, रसमयी-अनुरागात्मिका, प्रीतिः,-स्नेहः, जायते इति शेषः ; कञ्चित् जनं दृष्ट्वैव नैसर्गिकप्रीतेरुदयात् कस्यचिज्जनस्य चित्तं यत् समाकृष्टं भवतीति दृश्यते, स एव जीवधर्मः इति भावः। कथमेतज्जायते तव लौकिकोक्तिमाह, यत्रेति। -यत्र-यस्यां प्रीतौ, लौकिकानां-लोकाचाराभिज्ञानां जनानाम्, उपचारः,-व्यवहारः, मानवसमूहाः तद्विषये एवं हि व्यावहरन्तीत्यर्थः ; ( ‘‘उपचारः’ इत्यव ‘व्यवहारः’ इति पाठान्तरम्)। तारामैवकं-ताराणाम्-अक्षिकनीनिकानां, सैवकं-मित्रत्वम्, अक्षिसन्निकर्षात्परमेव परस्परतारकातेजः सम्पर्कजनितम् अकृत्रिमं सख्यं हि भवति इत्यर्थः ; नयनरागभरादेव ओतुकः केषाञ्चित् सुदृढः प्रणयः इह जगति दृश्यते इति भावः ; यद्वा,-ताराणाम्-उभयेषां दृष्टणां जमतारकादीनां, मैवमेव मैवकम्, (आदरे कप्रत्ययः)। परस्परेषां जन्मताराती गगने यव मिवामिवतारकादिक भवति, स एव प्रेमाप्रेमादिहेतुरिति भावः ; वा-पक्षान्तरे, चक्षुरागः,-चक्षुषां-नयनानां, रागः,-अनुरागः, वुशुद्धं हि प्रेमकिमपिनिमित्तान्तरमनपेक्षैव समुदीय अन्योऽन्यावलोकनमात्रं द्वयोरेव मानसमावर्जयति स्नेहप्रवणञ्च करोतीति भावः ; एष हि वङ्गभाषया ‘चखेर देखा’ इत्याम्नायते, ईदृशानुरागस्य केवलं ताराचक्षुर्भिरेव प्राधान्येन निष्पाद्यतया, तारामैवकसञ्ज्ञया चक्षुरागसञ्ज्ञया वाऽयं निर्दिश्यते लोकैरिति ज्ञेयम् ; तं -तादृशम्, इह लोके तारामैवकादिनाम्ना उपचरितमित्यर्थः, प्रेमाणां-प्रणयं, सखिभावमिति यावत्, ( ‘‘प्रेमाना वासवे वाते प्रेमास्ती स्नेहनर्मणीः’ इति मेदिनी)। अप्रतिसङ्ख्येयं-प्रतिसङ्ख्यातुम्-इयत्तया अवधारायितुमशक्यम्, अतिगभीरतया अप्रतिमेयस्वरूपमित्यर्थः, अनिबन्धनं-नास्ति निबन्धनं-किमपि कारणं यस्य तथोक्तम्, ओतुकमित्यर्थः, आमनन्ति-कथयन्ति ; निबन्धनं-किमपि कारणं यस्य तथोक्तम्, ओतुकमित्यर्थः, आमनन्ति-कथयन्ति ; भवता ईदृशाकस्मिकप्रीतिभावस्य प्राक् यानि कानि करणानि आशङ्कितानि, तेभ्यः विनाऽपि लोके केवलम् ईश्वरेच्छयैव निर्निमित्तस्य एतादृश्रणस्य समुदयो दृश्यते तं त्त्वदर्शिभिः परोक्षकैः इति भावः।
ओतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया।
स हि स्नेहात्मकस्तन्तुरन्तर्मर्माणि सीव्यति॥ १७॥
एतेषान्तु निर्हेतुकानां प्रेरणास्वरूपं फलञ्च विशदौक्तत्य विवृणोति ओतुरिति। ओतुः निर्निमित्तः, प्रागुक्तभ्रातृत्वादिसम्बन्धविशेषविनिमुक इत्यर्थः, कमपि कारणविशेषमनपेक्ष्य एव जायमानः इति यावत्, यः पक्षपातः पक्षे पातः, परस्परं प्रति आसक्तिविशेष इति यावत्तस्य प्रतिक्रिया प्रतीकारः निवृत्तिकारकः कोऽप्यभ्युपायः इत्यर्थः, नास्ति न वर्तते; तस्य साहजीकतया आवृत्तिमत्वादित्याशयः; उपकारादिरुपकारणजन्यस्य तुकृत्रिमतया तद्रूपकारणादिरसमवधानदशायान्तु स्थायित्वादर्शनात्, सहजस्य तु प्रणयस्य सर्वस्मिन्काले समभावेनैव सत्त्वम्, इत्येतावानेवानयोर्भूत् इति ज्ञेयम्। स्वरूपमुपवर्ण्य तत्फलमिदानीं विवृणोति, सः इति। हि यस्मात् , सः तादृशः सहजपक्षपातरूपः अतिविशुद्धः प्रणयः इत्यर्थः, स्नेहात्मकः स्नेह एवं आत्मस्वरूपं यस्य तादृशः, स्नेहमयः इत्यर्थः , तन्तुः सूत्रं , प्रणयसूत्रसन्तानः इति यावत्, अन्तर्मर्माणि हृदयादिमर्मस्थलानि, उभयोरेव अन्तःकरणमित्यर्थः, सोख्यति-ग्रथ्नाति, सुहृदबध्नातीत्यर्थः, सौचिकः वस्वद्वयं सूक्ष्मसूत्रेण यथा सीव्यति, तथा कोऽप्यविज्ञातपूर्वः कारणविशेषः प्रणयिनाः अन्तःकरणद्वयं करणद्वयं दुश्चेद्यप्रणयतन्तु नाग्रथित्वा एकीकरोतीति भावः। (अत्र कारणेन काव्यसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः, अपिच, स्नेहेतन्तोरभेदारोपात्रूपकमलङ्कारः, अनयोरङ्गाङ्गिभावेसङ्करः)॥१७॥
कुमारी। ( अन्योन्यं प्रति ) –
एतस्मिन् मसृणितराजपट्टकान्ते मोक्तव्याः कथमिव सायकाः शरीरे।
कुमारो। (अन्ययम्प्रति) –
एतस्मिन्मस्मृणितेराजपट्टकान्ते मक्तव्याःकथमिवसायकाःशरीरे॥
यत्प्राप्तौ मम परिरम्भणाभिलाषात् उन्मीलत्पुलककदम्बमङ्गमास्ते॥ १८ ॥
अथ परस्परं प्रत्यनुरक्तौकुमारौस्वस्वहृदयभावं प्रकटयतः, एतस्मिन्निति। - मसृणाः कृत्ः मसृणितः( ‘‘तत्करोति -(ग०) इति णिचि कर्मणि क्तः) संस्कारेण चिक्कणीकृतः योराजपट्टः कान्तपाषाणा-परम्पर्य्ययः मणिविशेषः, यद्वा-पट्टेषु वस्त्रेषु राजाराजापट्टः(राजदन्तादिक्तपूर्वनिपातः) विचित्रं रम्यं वस्त्रं कान्तं मनोहरं तस्मिन्, सौम्यदर्शने इत्यर्थः, एतस्मिन्पुरावर्तिनि शारिरे देहे, कथमिव केन वा प्रकारेण,सायकाः बाणः, मोक्तव्याः,? त्यक्तव्याः,प्रहाराय निक्षेप्तव्याः इत्यर्थः, मयेति शेषः, एतस्मिन्मृदूनिकमनीये च शरीरे कठोराः शराः केनापि प्रकारेण मया हननायनिक्षेप्तुं नशक्यन्ते इति भावः, यत्प्रात्पौयस्य शरीरस्य, प्राप्तौलाभे सति, परिरम्भणाभिलाषात्परिरम्भणस्य समालिङ्गनस्य, अभिलाषात्स्पृहावषात् आलिङ्गितुम् अत्यधिकवासनोदयेन हेतुनेत्यर्थः, मम अङ्गम् अवश्यम् उन्मोलत् उद्गच्छत्, पुलकानां रोमाञ्चनां, कद्मबं समूहः यस्मिन्तथाविधं, यद्वाउन्मोलन्तः उद्यन्तः, पुलकाः रोमाञ्चाः, कदम्बानि इव कदम्बकुसुमानीव यस्मिन्तथाविधम्,अस्ति वर्त्तते, यतः एतच्छरीरस्य परिष्वङ्गायमदीयशरीरं पुलकाञ्चितं भवति, अतः कथमेतस्मिन्सुतीक्ष्णान्शरान्निपातयेयम् इति भावः तथाच एतदतिकमनीयं वपुः शरनिक्षेपस्य नितरामेवानर्हम् इति फलितम्। (अत्र पूर्वार्द्धागतवाक्यस्थितं शरीरे सायकाविमोचनं प्रतिपरार्द्धगतवाक्यस्थस्य पुलकोद्गमजनितालिङ्गनाभिलाषस्य हेतुतया उपन्यासात्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः, तथा पक्षान्तरव्याख्याने पुलकेन सह कदम्बकुसुमानां साम्योपदेशाच्च लुप्तोपमाऽलङ्कारः, इत्यनयोरङ्गाङ्गिभावेन सङ्करः)। प्रहर्षिणौवृत्तम्॥१८॥
किन्त्वाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना ?
शस्त्रेणापि हि तेन किं ; न विषयो जायेत यस्येदृशः ?।
किं वक्ष्यत्ययमेवमद्य विमुखं मामुद्यतेऽप्यायुधे
वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते॥ १९॥
अथ निरतिशयप्रमदोदयात् अन्योऽन्यं प्रति स्निह्यन्तौ कुमारौ परस्परकमनीयाङ्गेषु शरसन्वानस्य नितान्तानर्हतां प्रतिपादवन्तावपि वीरजनसमाचारवशात्सायकसम्प्रयोगस्यापरिहार्य्यतां व्याचक्षते, किन्त्विति। - किन्त्वितिपक्षान्तरे, परन्तु इत्यर्थः, यद्यपि एतस्मिन्कमनीये वपूषि शरान्सन्धातुं कियत्यपि इच्छा न विद्यते, तथाऽपीति भावः आक्रान्तकठोरतेजसि आक्रान्तं प्रतिपन्नं, कठोरम्, उग्रस, अतिदुःखहमित्यर्थः, तेजः शौर्य्यं येन तस्मिन्; एकत्र हयमेवीयाश्वग्रहणात्प्रतिपक्षभ्रते, अपरत्र च (मम रभूमौसगर्व्वं मामाह्वयमने इति भावः, लवे चन्द्रकेतौ चेत्याशयः, शस्त्रं विना आयुधप्रयोगाट्टते, समरक्रियान्तरेणेति यावत्, का नाम गतिः? को हि उपायः सम्भवति? ; उपायान्तरं नास्तीति सम्भाव्यते इति भावः। शरिरसौभाग्यं परोक्ष्य शस्त्रक्रियाकरणे शस्त्रशिक्षावैफल्यमेवेत्वाह, शस्त्रेणेति। - यस्य शस्त्रस्य इदृशः एवंविधः महाबलः वीरः, विषयः प्रयोगगोचरः, परोक्षास्थानमित्यर्थः, न जाये तत्नभवेत्, तेन शस्त्रेणापि आयुधेनापि, हि नूनं, किम्? किं फलम्? लभ्यते इति शेषः; यदि ईदृशलोकाविशायिवीर्य्यशालिनावीरेण साकं न युध्ये, तर्हि मम एतादृशशास्त्रशिक्षाकौशलं विफलमेव सञ्जातमिति भावः। अथ युद्वात्वीरस्य सामेवाभिहन्तुं समुत्क्षिप्तेऽपिनके वलं युद्धाय कृतक्रमे, अपितु शौर्य्यं परोक्षितुं प्रहर्त्तुकामेऽपि, इत्यपिरथैः ,युध्दविमुखं रणकर्मणः निवर्तमानं, सङ्गामपरान्मुखमित्यर्थः; स्नेहप्रवणमपि इत्याशयः; माम् अयमेव एष मत्प्रतिपक्षभूतः वीरपीत एवेत्यर्थः, का कथा अन्येषामिति भावः; किम्वक्ष्यति? किङ्कथयिष्यति? दुर्भलत्वेन कापुरुषत्वेन वा भयात्सङ्गामवीरतिमनुमाय मम युध्दापाटवमेवा भिधास्यति इति भावः। अतः प्रेमप्रदर्शनस्य नायमवसर इति समाधत्ते, वीराणामिति। - दारुणरसः दारुणः निष्ठुरः, भयङ्करः, इत्यर्थः, रसः क्रौर्य्यरूपम् आस्वाद्यमानं वस्तु यस्य तथाविधः, अतिकठोर इत्यर्थः, वीराणं शूराण्णां, समयः आचारः, (‘समयाः शपथाचारकालसिद्धान्तसंविदः। ‘इत्यमरः) वीररसः इत्यर्थः, परस्परनिदारुणरणकर्म्मरूपः व्यवहार इति यावत्, स्नेहक्रमं स्नेहप्रसरं, प्रणयानुवृत्तिमिति यावत्, बाधते हि रुणद्धि खलु; युद्धे समुद्यतैः वीरैः स्नेहः प्रकाशयितुं न शक्यते इति भावः।
(अत्र सामान्येन वीराणां समयरूपेण वस्तूनां विशेषस्य स्वकीयसमाचाररूपस्य वस्तूनः समर्थनात्, सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासालङ्कारः, किञ्ज यच्चात्र यच्छब्दस्यान्थेप्रयोगात्विधेयाविमर्षदोषः, तथाहि शब्दस्य पादपूरणमात्रार्थकत्वान्निरर्थकत्वदोषश्च इति केषाञ्चिन्मतं, तत्रास्माकमेवमभिमतः यत्,-यत्तदोः नित्यसम्बन्धात्प्राकि्नर्द्धिष्टेनदूरान्वितेनापितच्छब्देनान्वायबलात्पश्चादपात्तस्यापि यच्छब्दस्याकाङ्क्षायाः सहजत एव विनिवृत्तेः, यत्तच्छब्द द्वयघटितवाक्यद्वितयस्य अर्थप्रतीतेः तदृशविघाताकारणात्नात्रयच्छब्दस्यप्रगनिर्द्देशकृततद्दोषावसरः, एवं हि शब्दस्यापि निश्चितार्थकतया नतदुपादानकृतनिरर्थकत्वदोष इति ज्ञेयम्)। शार्दूलविक्रीडितं वृत्तम्॥१९॥
सुमन्त्रः। ( लवं निर्वर्ण्य सास्त्रमात्मगतम् )। हृदय किमन्यथा परिकल्प्यसे ? ( ल ) —
मनोरथस्य यद्बीजं तद्दैवेनाऽऽदितो हतम्।
लतायां पूर्वलूनायां प्रसूनस्याऽऽगमः कुतः॥ २०॥
चन्द्रः। अवतरामि अहमार्य्य सुमन्त्र स्यन्दनात्। ( व )
(ल) निर्वर्ण्य- निरूप्य, सविशेषंविलोक्येत्यर्थः, सास्त्रम्- ओण- बाष्पेण सहवर्त्तमानं यथातथा, अश्रूणिविमुच्येत्यर्थः, (‘अस्त्रः काणेकचेपुंसिकोवमश्रुणिशोणिते। ‘इति मेदिनि) आत्मगतं- स्वगतम्, आहितिशेषः। हृदय -चेतः, किं- कथम्, अन्यथा- अन्यविधं, नायमृषिकुमारः, परंरामचन्द्रस्यैव इत्येवंरूपमित्यर्थः, परिकल्पसे? -वितर्कयसि, चिन्तयसीत्यर्थः ;एतस्मिन् ऋषिकुमाररामचन्द्रस्य भूयः साधर्म्यां विलोक्य रघुमणिसुतत्वेनामुं कथं विभावयसि? सर्व्वथैवासनम्भवात् ईदृशी परिकल्पनां त्वया न कार्य्येति भावः।
रामभद्रस्य प्रत्यवयवसाम्यमेतस्मिन्कुमारे विलोक्यतत्सुतोऽयं किमु? इति प्राक्समाशङ्क्य पश्चात्तथाविधाशङ्कायाः अमूलकत्वमाह, मनोरथस्येति। - मनोरथस्य अयं वीरपीतः सीतागर्भसन्भूतः भगवतो रामचन्द्रस्यैव तनयः एवंविधाभिलाषस्येत्यर्थः, यतः ओजं मूलं कारणं, सीतारूपं निदानमित्यर्थः, तत्त्सीतारूपं विजमिति यावत्, दैवेन प्रतिकूलादृष्टेन, आदितः प्रथमत एव, हतं विनाशितम्; एकाकिन्याः गर्भभारमन्थरायाः वैदेह्याः श्वापदसङ्कुले सर्व्वप्राणिभयङ्करे जनस्थाने निर्वासनात्परं चणमपितस्याजीवनस्थित्यसम्भवात्दुरदृष्टेन तथाविधाऽऽशासमूलमेचोत्पाटिता इति भावः। एतदेव व्यतिरेकदृष्टान्ते न विशदी करोति, लतायामिति। - लतायां व्रतत्यां, पूर्व्वलूनायां पूर्व्वं प्राक्, प्रथमत एवेत्यर्थः, लूनायां च्छिन्नायं सत्यां प्रसूनस्य कुसुमस्य आगमः समुत्पत्तिः, कुतः? कस्मदिव हेतोः भवेत्? नैव कथप्येतत्सम्भवतीत्यर्थः, विलूनायां वल्प्यां यथा कुसुमानिकदाऽपि न उत्पद्यन्ते, एवमेव निर्वासनात्परं दण्डकारण्ये श्वापदभक्षितायाः सीतायाः सुतोत्पत्तिपरिकल्पना सुदूरपराहतैवेति भावः। (अत्र गर्भभारलसायाः सीतायाः विनाशात्परमपि, तस्या तनयं तनयः अवयवसाम्यात्प्रतिभाति, इत्थं हि परिकल्पनं, च्छिन्नमूलायालतायाः कुसुमोत्पत्तिः यथा न सम्भवति, तथैवासम्भवमेवेति व्यतिरेकेणवोजभूतया सीतया सहलूनलतायाः, मनोरथे न च सह प्रसूनस्य बिम्बप्रतिबिम्बभावावबोधात्वै धर्मेण दृष्टान्तालङ्कारः)॥२०॥
(व) आर्य्य-पूज्य, सुमन्त्र,-भोः सुमन्त्राख्व सारथे, स्यन्दनात्- रथात्, अवतरामि- अवरीहामि। सुमन्त्राभिमतग्रजणार्थमुक्त्तिरियं चन्द्रकेतोः।
सुमन्त्रः। तत्कस्य हेतोः ? ( श )
चन्द्रः। यतस्तावदयं वीरपुरुषः पूजितो भवति। अपिच खलु आर्य्य क्षात्रधर्मः परिपालितो भवति। न रथिनः पादचारमायोधयन्तीति शास्त्रविदः परिभाषन्ते। ( ष )
(श) तत्-अवतरणं, कस्य हेतोः, ?-किमर्थम्? ; तुमुले एतस्मिन्सङ्ग्रामे कस्मै कार्य्यायत्वं पदातिः भवितुमिच्छसीति भावः। (अत्र ‘सर्व्वनाम्नस्तृतीया च ‘(१। ३। २७पा०) इति सूत्रेण पाक्षिकषष्ठी विज्ञेया)।
(ष) यतः,-यस्मात्कारणात्भूमावरोहणरूपादित्यर्थः, अयं-पुरोवर्त्तमानः, पादचारीत्यर्थः, वीरपुरुषः,-अलौकिकवीर्य्यविभूषितः कुमारोलवः, पूजितो भवति-सत्कृतो भवति; यतोऽयं पादचारी, अतः पदातिनैव सता मया अनेन सह योद्धव्यं, तेन हि मे विनयः प्रकटीकृतः भवेत्, अयञ्च महावीरः यथायोग्यं सत्कृतोऽपि स्यादिति भावः। कारणान्तरमाह, अपिचेति। - अपिच- अन्यच्च, खलु- निश्चितं, क्षात्रधर्म्मः,-क्षत्त्राणामयं क्षात्रः,स चासौ धर्मश्चेति, क्षत्त्रियजातिनियम इत्यर्थः, युद्धनीतिरिति यावत्, परिपालितः,-संरक्षितः, विधिवदनुसृत इति यावत्, भवति-सम्दद्यते; रथावतरणे न सुक्षत्त्रियणां सन्दाचरोऽपि यथायोग्यं समादृतः भवेदिति भावः। अत्र शास्त्राभिमतमाह, नेति। रथिनः,-रथचारिणाः, स्यन्दनारूढायोधाः इत्यर्थः, पादचारं- पादिनचारः,-भ्रमणं यस्य तं पदाति, न आयोधयन्ति- न अभियुञ्जते, न सङ्ग्रामयन्तीत्यर्थः, इति-एवं, शास्त्रविदः,-शास्त्राभिज्ञाः, क्षत्रधर्मानुशासितारः मन्वादयः इत्यर्थः, परिभाषन्ति-ब्रुवन्ति, आमनन्तीत्यर्थः। नच हन्यात्स्थलारुढं न क्लीवं न कृताञ्जलिम्। ‘इति मनुः। स्वयं रथस्थोरथं त्यक्त्वा स्थलारूढं न हन्यात्‘इति च तद्व्याख्याने कुल्लूकभट्टः। अत्र सुस्फुटमाह चतुर्वर्गचिन्तामणिः, यथा-रथी च रथिनासाद्वे पदातिश्च पदातिना। कुञ्जरस्थीगजस्थेन योद्धव्योभृगुनन्दन॥‘इति।
सुमन्त्रः। ( स्वगतम् )। कष्टं वतानुप्रपन्नोऽस्मि। ( स ) –
(स) वत-खेदे, अव्ययमिदम्। कष्टं-कृच्छ्रम्,अनुप्रपन्नः,-प्राप्तः, अस्मि- भवामि, इदानीं कर्त्तव्यं निर्णेत्तुमपारयन् अतिव्याकुलः संव्वत्तोऽस्मीति भावः।
कथं न्याय्यमनुष्ठानं मादृशः प्रतिषेधतु ?।
कथं वाप्यनुजानातु साहसैकरसां क्रियाम्॥ २१॥
अथ कष्टहेतुविनिर्दिशति, कथमिति। - मादृशः युद्धनीतितत्त्वज्ञः रघुकुलः स्थित्यमिज्ञश्चातिद्वधोजनः इत्यर्थः, न्याय्यं न्यायादनपेतं, शास्त्रविहितमिति यावत्, अनुष्ठानम् आचरणं, रथावतरणरूपं सुक्षत्त्रियोचितं व्यवहारमिति यावत्, कथं केन प्रकारेण, प्रतिषेधतु? निवारयतु; मद्विधजनानां शास्त्त्रविरुद्धकार्यानुष्ठानोपदेशनमतीवविगर्हितमिति भावः। पक्षान्तरमाह, कथमिति। कथं वाऽपि केन प्रकारेण च, कया युक्त्यवेत्यर्थः, साहसैकरसां साहसम् अविमृष्य कारित्वं, वीरेणानेन सह पादचारिभूत्वा युद्धकरणरूपमिति यावत्, एकः केवलः, रसः रागः युद्धप्रवर्तकोरागविशेषः इति यावत्, यत्र तादृशि, क्रियां कर्मपादचारयुद्धमिति यावत्, अनुजानातु? अनुमोदयतु, अनुनन्तुं शक्नुयादित्यर्थः; रथादवतीर्य्यानेन वीरबालकेन सहास्मिन्युद्धे चन्द्रकेतोः भविनीं महतीं विपदं समाशङ्कमानोप्यहं रघुकुलस्थितिपरम्परां क्षत्रियाचारञ्चाभिजानान्कथममुं स्वकुलाचारपालनाभिलाशिणं कुमारं धर्मयुद्धानि्नवर्तयुतुमुपदिशामि इति भृशं चिन्ताकुलः विषयमायां दशायां समापतितोऽस्मी इति भावः॥२१॥
चन्द्रः। यदा तातमिश्रा अपि पितुः प्रियसखं धर्मार्थसंशयेषु आर्य्यमेव पृच्छन्ति ; तत्किमार्य्यो विमृशति ? ( ह )
(ह) यदा- यतः, तातमिश्राह अपि- पूज्यपादाः पितरः रामचन्द्रादयोऽपीत्यर्थः, अतीवनयविधः विचक्षणाः मद्गुरवोऽपि इत्यपि शब्दार्थः, धर्मार्थसंशयेषु धर्मश्च अर्थश्च तौ धर्मार्थौ, तयोः संशयेषु- ‘अत्र धर्मशास्त्राणुशिष्टः पन्थाः कीदृशः?‘‘किमुचात्र सन्धिग्धे वस्तुनि कर्तव्यम् ? कथं वा अत्र प्रवर्तिताव्यम्? ‘ईदृशेषु धर्मसन्देहेषु कर्तव्यविशयसंशयेषु चं समुपस्थितेषु इत्यर्थः, पितुः प्रियसखं तेषां जनकस्य दशरथस्य परमं मित्रम्, आर्यमेव- पूज्यते भवन्तमेव, पृच्छन्ति-जिज्ञासन्ते, कर्तव्यावधारणाय भवतोऽभिमतिं प्रार्थयन्ते इत्यर्थः; सर्वत्र, विशेषतः सांशयिकविषयेषु तत्र भवतो निरतिशयप्राविण्यदिति भावः; तत्-ततः, पिर्तादीनामपि संशयापनोदकत्वेन भवतः अतिविचक्षणत्वादित्यर्थः, किं ;कथम्, आर्यः,- तत्र भवान्भवानित्यर्थः, विमृशति? -विचिन्तयति।
सुमन्त्रः। आयुष्मन् एवं यथाधर्ममभिमन्यसे। ( क ) —
एष साङ्क्रामिको न्याय एष धर्मः सनातनः।
इयं हि रघु सिंहानांवीरचारित्रपद्धतिः॥ २२॥
(क) आयुष्मन्-दीर्घायो, एवम्-इत्थं, रथादवतीर्य्य क्रियमाणमायोधनम् इत्यर्थः, यथाधर्मं- यथाशास्त्रं, धर्मशास्त्रानुमोदितमिति यावत्, अभिमन्यसे- अवबुद्ध्यसे; रथादवतीर्य्यैव युद्धमुचितमिति यदिच्छसि तत्समीचीनमेवेति भावः।
भवदभीप्सितं जन्यं हि धर्मशास्त्रानुमतमेव, एवं हि रघुभिरेतत्सुचिरमनुपाल्यते इत्युक्त्वा समर्थयति, एष इति। - एषः भवतोऽभीप्सितः पदातिर्भूत्वापदातिना सहसङ्ग्राम इत्यर्थः, साङ्ग्रमिभवः, युद्धशास्त्रसम्मतः इत्यर्थः, न्यायः नियमः, एषः सनातनः चिरन्तनः, धार्म्मिकैः महावीरैः सुचिरमनुपालित इत्यर्थः, धर्म्मः आचारः, शश्वदेवासङ्कुचितचेतसा अनुसृतः पन्था इति यावत्। न केवलमन्येयोधाः एवमनुसरन्ति, परन्तुभवतः पूर्व्वपुरुषाः अपि सततमेव मनुसृतवन्तः इत्याह, इयमिति। - इयं हि निश्चितं, रघुसिंहानां (रघवः सिंहा इवेत्युपमितसमासात्) रघुश्रेष्ठाः इत्यर्थः, तेषां, रघुत्त्मानाः शूराणामिति यावत्, वीरचारित्रस्य वीरोचिताचारस्य, पद्धतिः पन्थाः; ईदृशेनैव सदाचारपथेन रघुपुङ्गवा अनिशं समचरन्त, इयमेव तेषामनुमता आसीदिति भावः॥२२॥
चन्द्रः। प्रतिरूपं वचनमार्य्यस्य। ( ख )
इतिहासं पुराणञ्च धर्मप्रवचनानि च।
भवन्त एव जानन्ति रघूणाञ्च कुलस्थितिम्॥ २३॥
(ख) आर्य्यस्य- पूज्यस्य भवतः, वचनं- पूर्वीक्क्तम्वाक्यं, प्रतिरूपम्- अनुरूपं, विधिसङ्गतमित्यर्थः; भवादृशाः धार्म्मिकाः धर्म्मशास्त्रसङ्गतमेव वचनं सततमभिभाषन्ते इति भावः।
अथ स्वकुलक्रमागतसारथेः सुमन्त्रस्य न्याय्यवचनप्रयोगे हेतुं प्रतिपादयति, इतिहासमिति। - भवन्त एव भवादृशाः विज्ञा एव; नान्ये साधारणपुमांस इति भावः; इतिहासं पुरावृत्तं, ‘धर्म्मार्थकाममोक्षाणामुपदेशसमन्वितम्। पुरावृत्तकथायुक्तमितिहासं प्रचक्षते॥‘इत्युक्तलक्षणां पारम्पर्य्योपदेशेन अतीतघटनावलीप्रकाशकं ग्रन्थविशेषमिति यावत्, पुराणञ्च पञ्चलक्षणान्वितं शास्त्रविशेषञ्च, ‘सर्गश्च प्रतिसर्गश्च वंशोमन्वन्तराणि च। वंशानुचरितञ्चैव पुराणं पञ्जलक्षणं॥’ इत्युक्तलक्षणसमन्वितं ग्रन्थविशेषमित्यर्थः, धर्म्मप्रवचनानिचवर्णाश्रमाणां कर्त्तव्यादिविधायकानि मन्वादिधर्मशास्त्राणि च, तथा, रघूणां रघुकुलसन्तानानां, कुलस्थितिं वंशमर्य्यादाञ्च, चिरानुशीलितसदाचारपद्धतिमित्यर्थः, जानन्ति; विन्दन्ति; इह भुवि भवादृशाः विज्ञतमाः अतिविरला एवेति भावः।
(अत्र प्रस्तुताप्रस्तुतपदार्थानामेकयैव जानन्ति इति क्रियया अभिसम्बन्धात्दोपकालङ्कारः, उपात्तवाक्यस्य जानन्तीति क्रियया परिसमाप्तावपि रघूणाञ्चेत्यनेन पुनरूपात्तत्वात्समाप्तपुनरात्तताऽऽख्यो दोषः ‘कुलस्थितिं रघूणाञ्च भवन्त एव जानते ‘इत्यनेन समाधातव्यः॥२३॥
सुमन्त्रः। ( सस्नेहास्त्रं परिष्वज्य )। ( ग )-
जातस्य ते पितुरपीन्द्रजितो निहन्तु
र्वत्सस्य वत्स कति नाम दिनान्यमूनि।
तस्याप्यपत्यमनुगच्छति वीरवृत्तं
दिष्ट्यागतं दशरथस्य कुलं प्रतिष्ठाम्॥ २४॥
(गः) स्नेहेन- वात्सल्येन, ओण- आनन्दाश्रुणा च सह वर्त्तमानं यथा स्यात्तथेत्यर्थः, परिष्वज्य- अलिङ्ग्य, अहिति शेषः।
अथ चन्द्रकेतोः वीरोचितां प्रवृत्ति विलोक्यप्रीतः सुमन्त्रः तं सस्नेहप्रीतिवचसा परितोषयति, जातस्येति। - वत्स आयुष्मन्चन्द्रकेतो इन्द्रजितः सङ्ग्रामे देवराजस्यापि विजयिनः मेघनादनाम्नः रावणपुत्रस्य, निहन्तुः- निसूदनस्य, (‘निहन्तुः‘इत्यत्र‘विजेतुः‘इति पाठान्तरम्) वत्सस्यनिरतिशयस्नेहास्पदस्यः, ते पितुरपि तव जनकस्य लक्ष्मणस्यापि, जातस्य समुत्पन्नस्य सतः, अमूनि एतानि, जन्मत आरभ्य अद्यप्रर्य्यन्तानीत्यर्थः, कति नाम क्रियन्ति एव म्नासेति सम्भावनायां, दिनानि दिवसाः, संवृत्तानोति शेषः, स्नेहास्पदस्य सौमित्रेः जन्मतः प्रबृति अत्यल्पसङ्ख्यकानि खलु दिनानि समतीतानीत्यर्थः; एतस्य तु वयः एतावदेव अल्पोयः, यदस्माभिः इतः किञ्चित्पूर्व्वमेवं तत्परिदृष्टमित्यनुमीयते, सोऽपि वृत्रहन्तृविजयिनं वीरप्रकाण्डं मेघनादविनाशितवानिति अतीवाश्चर्य्यम् इति भावः; तस्यापि एतादृगत्यल्पवयसः शिशोर्लक्ष्मणस्यापीत्यर्थः, अपत्यं तनयः, शिशोरपि शिशुभवान्चन्द्रकेतुरित्यर्थः, वीरवृत्तं वीरपुरुषाचारम्, अनुगच्छति अनुसरति, परिपालयतीत्यर्थः, दिष्ट्या भाग्येन, आह्नादसूचकमव्ययमेतत्, (‘दिष्ट्याहर्षेमङ्गले च‘इति मेदिनी) दशरथस्य कुलं वंशः, प्रतिष्ठां स्थितिं, गतं प्राप्त, सगौरवावस्थितिं लब्धमित्यर्थः; अहो सुदिवसः अस्माकं समुदितः, यद्धशरथस्य महाराजस्य कुलस्थितिः, सुयोग्येणापत्येन सततमनुष्ठितवीराचारेण त्वया अविज्ञातभावेन सुसंरक्ष्यते, तेनैव हेतुना जगति चायं वंशः अविच्छिन्नां ख्यातिं समधिगतवानिति भावः।
(अत्रचतुर्थपादगतवाक्यार्थं प्रतिपूर्व्वोक्तपादत्रितयस्य स्थवाक्यार्थानां हेतुर्भूततयो- मन्वासात्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः) वसन्ततिलकं वृत्तम्॥२४॥
चन्द्रः। ( सकष्टम् )। –
अप्रतिष्ठे रघुज्येष्ठे का प्रतिष्ठा कुलस्य नः।
इति दुःखेन तप्यन्ते त्रयो नः पितरोऽपरो॥ २५॥
सुमन्त्रः। अहह हृदयमर्मदारणानि एतानि चन्द्रकेतोर्वचनानि। ( घ ) लवः। हन्त मिश्रीकृतो रसक्रमो वर्तते। ( ङ ) — अथ रघुकुललक्ष्मणाः सीतायाः पूर्णगर्भायाः निर्व्वासनात्पवमत्यथे मनुतप्तानां स्वपितृणां दुःखायमानं मानसमनुभवन्नितरां निर्विणाचन्द्रकेतुः तदभावादेव स्वकुलस्थितेरकिञ्चित्करतामाह, अप्रतिष्ठे इति। - रघुज्येष्ठे रघुकुलोदृहे, रामचन्द्रे इत्यर्थः, अप्रतिष्ठे प्रतिष्ठामनधिगतवति सति, अपत्याभवे शरक्षायाः अभावात्कुलस्थितिमलभमाने सतीत्यर्थः, नः अस्माकं, कुलस्य वंशस्य, प्रतिष्ठा स्थितिः, का? कीदृशी, भवेदिति शेषः, सर्वगुणविभूषिते ज्येष्ठे रामचन्द्रे सन्ततिविरहिते अस्मद्रूपाणां सन्तानानां सतामपि असद्रूपत्वमेवेति भावः; इति अस्माद्धितोः, अनेनैवेत्यर्थः, दुःखेन शोकेन, नः अस्माकम्, अपरे अन्ये, रामचन्द्रभिन्नाः इत्यर्थः, वयः पितरः विसङ्ख्यकाः पितृपादाः, भरतलक्ष्मणशत्रुघ्ना इत्यर्थः, तप्यन्ते दह्यन्ते, मम मे व्यथामनुमवन्तीत्यर्थः। (अत्र करुणो रसः रामविषयकरतिभावस्याङ्गमिति रसवदलङ्कारः)॥२४॥
(घ) अहह- इति खेदसूचकमव्ययम्। एतानि- इतः प्रागेवोक्तानि इत्यर्थः, चन्द्रकेतोः वचनानि- लक्ष्मणात्मजस्य वाक्यानि, हृदयमर्मदारणानि- हृदयस्य- अन्तःकरणस्य, मर्मणां-जीवस्थानानाञ्च; यद्यपि ‘सप्तोत्तरं मर्मशतमायुर्वेदविदो भाषन्ते, तेष्वस्ति हृदयशिरांसिवीणिप्रधानमर्माणि ‘इति वैद्यकीय्यामर्मशब्देनैवहृदयं लभ्यते, तथाऽपि मर्मान्तरापेक्षया विशेषेणदारणद्योतनार्थं तस्य पृथगुपादानम्; यहा,-हृदयम्-अन्तःकरणरूपं, मर्म तस्य; यद्वा,-हृदयस्य मर्मणां- सन्धिस्थानानां, दारणानि-दार्य्यन्ते-विपाट्यन्ते एभिरिति तथोक्तानि, भवन्तोति शेषः, चन्द्रकेतोः वचांसि अस्माकं मर्माणि विदारयन्तीत्यर्थः।
(ङ) हन्त-इति हर्षे, (‘हन्तं हर्षेऽनुकम्पायाम्‘इत्यमरः) मिश्रीकृतः,-अमिश्रः मिश्रः कृतः,-रसान्तरेणासन्भिनन्नीकृतः, स्वविरूद्धैः रसैः एकीभावमापादितः इत्यर्थः, रसक्रमः,-रसयोः,-वत्सल्यवीरयोः शृङ्गारवीरयोर्वा, क्रमः,-पर्य्यायः,
परस्परविरुद्धरसद्वयमिति यावत्, वर्त्तते-विद्यते; अमुं वीरमवलोक्य मम यथा हि स्नेहाधिक्यात्वात्सल्यरसातिरेकः सञ्जायते, तथैव अमुष्य वीरस्य मया सह युद्धे अत्यधिकोत्माहदर्शनात्वीररससमुद्रे कश्च भवतीति दृश्यते इति भावः।
यथेन्दावानन्दं व्रजति समुपोदे कुमुदिनी
तथैवास्मिन् दृष्टिर्मम; कलहकामः पुनरयम्।
भणत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनु-
र्धृतप्रेमा बाहुर्विकचविकरालोल्वणरसः॥ २६॥
अथ रत्युत्साहस्थायिभावयोः शृङ्गारवीररसयोः एकत्र समये स्वस्मिन्कथं हि सम्मिश्रणभावः समुदितः, तदेव विशदीकृत्य विवृणोति, यथेति। -इन्द्रौ चन्द्रे, समुपीढे ममुदिते सति, कुमुदिनी कैरविणो यथा यद्यत्, आनन्दं, हर्षं, विकाशमित्यर्थः, व्रजति प्राप्नोति, अस्मिन्पुरोवर्त्तिनि, कुमारे चन्द्रकेतौ इति यावत्, मम दृष्टिः नेत्रं , तथैव तादृगेव, आनन्दं व्रजति इत्यन्वयः, प्रीतिप्रफुल्लतां यातीत्यर्थः, कुमारमिममवलोक्य हर्षातिशय्योदयात्मदीये नयने अनिर्व्वचनीयमानन्दमनुभवत इति भावः। इत्थं शृङ्गाररसाविर्भावमुपवर्ण्य, वीररसोद्रेकमाह, कलहेति। - पुनः किन्तु, कलहकामः कलहम् अनेन चन्द्रकेतुना सहसङ्ग्रामं, कामयते अभिलषति यस्तथोक्तः, समराभिलाषुक इत्यर्थः, अयं वाहुः एष मदीयः भुजः, झणदिति। - झणत्कारेणझणझणोत्कारकाव्यक्तध्वनिना, क्रूरम् अतिकर्कशं यथा स्यात्तथा, क्वणितः शब्दितः, यो गुणाः मौर्वी, यहा,- झणत्कारं झणत्काररूपं झणझणोत्याकारकमव्यक्तमित्यर्थः, क्रूरम् अतिकठोकरं, क्वणितं निनादः यस्य तथाविधः, यो गुणः ज्या, तेन गुञ्जत्शब्दायमानं, गुरुमहत्, धनुः कार्मुकं तस्मिन्धृतं बद्धं म्प्रेमप्रणयः, ग्रहणाभिलाष इति यावत्, येन तथोक्तः सन्, भीषणनिनाद्धेन शरासनस्य ज्यान्निरन्तरसास्फालयितुमभिलाषुकः सन्नित्यर्थः, विकचविकरलोल्वणरसः विकचः सव्यक्तः, विकरालः अतिभीषणः, अतिभयावहः इति यावत्, (‘करालोदन्तुरेतुङ्गेभीषणेचाभिधेयवत्। ‘इति मेदिनी) उल्बणरसः। उद्धतरसः, वीररसः इति यावत्यस्मिन्यथाविधः, सञ्जात इति शेषः; यद्यपि इमं सौम्यदर्शनं कुमारमवलोक्य सपदि मे नेत्रद्वयं प्रीतिविस्फारितं भवति, तथाऽपि पुरतः महावीरमेतमाताद्य योद्धुमनामदीयोवाहुः; ज्यायाः टङ्कारेणदिशंविदिशञ्चापूर्य्यशरान्विमोचयितुमभिलषतीत्यर्थः विरुद्धयोः द्वयोरेव रसयोरेकत्र विचित्रसमावेशः इति परं विस्मितोऽस्मीति भावः।
(अत्र परस्परविरुद्धयोः स्नेहवैरयोरेकत्र सङ्घटनातः विषमालङ्कारः, तथा कुमुदिन्या सह अवैधर्म्यासाम्योपदेशाच्च श्रौतोप्मालङ्कारः, इत्यनयोरङ्गाङ्गिभावेन सङ्करः। किञ्च एतस्मिन्रस्य स्वशब्देनैवाभिधानात्स्वशब्दोक्तिनिबन्धनो दोषः, ‘रसर्योक्त्तिः स्वशब्देनस्थायिसञ्चरिणोरपि’ इति दर्पणोक्त्तेः। एवमेव गुञ्जनस्य भ्रमररुते एव प्रसिद्धत्वात्तदन्यवधनुर्निस्वनादौ तथा प्रसिद्धिविरहेण ख्यातिविरुद्धता दोषश्च‘गुञ्जत्‘इत्यत्र‘गज्जत्‘इत्यादिशब्दप्रयोगेण परीहारः करणीय इति। श्लोकस्यास्य पूर्व्वार्द्धेरतिस्थायिभावकः शृङ्गारो रसः प्रसादो गुणः, कैशिकोरीतिश्च, उत्तरार्द्धेतु उत्साहस्थायिभावको वीरो रसः, ओजो गुणः, आरभटोचरीतिः, इत्युभयोः रसयोरेकत्र समावेशात्सम्मिश्रणमिति ज्ञेयम्)। शिखरिणीवृत्तम्॥२६॥
चन्द्रः। ( अवतरणं सूचयन् )। आर्य्य सावित्रश्चन्द्रकेतुः अभिवादयते। ( च )
सुमन्त्रः। अजितं पुण्यमोजस्वि काकुत्स्थस्येव ते महः।
श्रेयसे शाश्वतो देवो वराहः परिकल्पताम्॥ २७॥
(च) आर्य्य -पूज्य सुमन्त्र , सावित्रः ,-सावितुः ,-सूर्य्यस्यापपत्यं पुमान्, सवितृकुलसम्भूतः इत्यर्थः, चन्द्रकेतुः,-तदाख्यः लक्षणात्मजः, अभिवादयत- प्रणनति, भवन्तमिति शेषः; ‘नामग्राहृमभिवादयेत् ‘इत्यादिस्मृतेः स्वनामग्रहणपूर्वकाभिवादनः कृतमिति ज्ञेयम्।
अथ कुलक्रमागतसारथिः सुमन्त्रः आभवादयमानं कुमारं समुचितेन आशिषा संवर्द्धयति, अजितमिति। - शाश्वतः नित्यः, उत्पत्तिविनाशरहितः इत्यर्थः, देवः द्योतमानः, भगवानित्यर्थः, वराहः शूकररूपेणावतीर्णः, स्वीकृतवराहशरीरः भगवान्नारायण इत्यर्थः, काकुत्स्थस्येव ककुत्स्थगोत्रसम्भूतस्य जगत्पतेः रामभद्रस्येवेत्यथेः, ते तव, अजितं परैरनभिभूतं, पुण्यं पवित्रम्, ओजस्वि अतिप्रबलं, सर्वत्राप्रतिहतमित्यर्थः, महः तेजः, श्रेयसे शुभाय, विजयमङ्गलायेति यावत्, परिकल्पतां सम्पादयतु, सर्वतो भावेन विदधातु इत्यर्थः। (‘कृपिसम्पद्यमानेच ‘(वा०) इति चतुर्थी; केचित्तु ‘तादर्य्ये चतुर्थी वाच्या ‘(वा०) इति सूत्रेण चतुर्थीमनुशासति। पुराभीषणसङ्ग्रामे आदिदैत्यस्य हिरण्याक्षस्य निहन्तुः आदिवराहमूर्तिधरस्य भगवतो नारायणस्य अपौरुषेयप्रभावं संस्मृत्यसुमन्त्रः कुमारस्य उपस्थिते सङ्ग्रामे तस्मादेव भगवतो विजयाशिषसम्प्रार्थितवानिति ज्ञेयम्पुरा हि त्रेतायां
देवासुरयुद्धे भगवतो नारायणस्य तेजसा आप्यायितः पुरञ्जयो नामसूर्य्य वंशीयः कश्चित्पराक्रान्तः नरपतिः इन्द्रादिभिः देवसङ्घैः भृशमभिप्रथितः वृषभरूपधारिणः इन्द्रस्य ककुदमास्थाय सर्व्वमेवासुरबलं निजधान, तेन चासौ ककुत्स्थसञ्ज्ञामवापितिककुत्स्थशब्दप्रवृत्तिनिमित्तभूतापौराणिकी कथा अत्रानुसन्धेयेति)॥२७॥
अपि च-
देवस्त्वां सविता धिनोतु समरे गोत्रस्य यत्ने पिता
त्वां मैत्रावरुणोऽपि नन्दतु गुरुर्यस्ते गुरूणामपि।
ऐन्द्रं वैष्णवमाग्निमारुतमथो सौपर्णमोजोऽस्तु ते
देयादेव च रामलक्ष्मणधनुर्ज्याघोषमन्त्रोदयम्॥ २८॥
भङ्गान्तरेणविजयाशिषाकुमारं पुनः संवर्द्धयति, देवस्त्वामिति। - देवः द्योतमानः, सविताभागवान्सूर्य्यः, समरे सङ्घ्रामे त्वां भवन्तं धिनोतु प्रीणयतु , असामान्यं तेजः सम्प्रदायत्वां संवर्द्धयत्वित्यर्थः, (‘धिविप्रीणने‘इति धातोः लटि रूपम्)। यः भगवान्सविता, ते तव, गोत्रस्य वंशस्य, पिता जनयिता, प्रवर्त्तकः इत्यर्थः, आदिपुरुष इति यावत्, मैत्रावरूणोऽपि वशिष्ठोऽपि, (मित्रश्च वरुणश्चेति द्वन्द्वे मित्रावरुणाविति पदात्‘देवताद्वन्द्वेच ‘(६। ३। १६पा०) इत्यानङि्वधानात्, ततः तयोरपत्यं पुमानित्यर्थे शैषिकः अण्प्रत्ययः, ‘शिवादिभ्योऽण् ‘(४११२पा०) इति वा अण्प्रत्ययः, शिवादेराकृतिगणत्वादिति ज्ञेयम्। अत्र‘अत इञ् ‘(४। १। ९५पा०) इति इञ्प्रत्ययस्य विधानात्‘मैवावरुणिः‘इत्येवभवितुं युक्क्तमित्युत्पश्यामः)। एकस्मिन्कल्पे मित्रस्य कल्पान्तरे च वरुणस्य पुत्रत्वेनास्य ईदृशीसञ्ज्ञासम्प्रवृत्तेति ज्ञेयम्। त्वां भवन्तं, नन्दतु विजयाशिषा प्रीणयतु, यः मैत्रावरुणः, ते तव, गुरूणामपि पित्रादीनामपि, गुरुः पूजनीयः, भवतीति शेषः, ऐन्द्रम् इन्द्रस्येदम्, इन्द्रसम्बन्धीत्यर्थः, वैष्णवं विष्णोरिदं, विष्णुसम्बन्धीत्यर्थः, आग्निमारुतम् अग्निमरुतोरिदम्, अग्निसम्बन्धि मरुत्सम्बन्धि चेत्यर्थः, वैश्वानरं वायव्यञ्चेति यावत्, (‘देवता द्वन्द्वे च ‘(७। ३। २१पा०) इति पूर्वोत्तरपदवृद्धिः। ‘इद्वृद्धौ ‘(६। ३। २८पा०) इति अग्नेरिदादेशश्च)। अथो अपिच,
(‘अथाथो संशये स्यातामधिकारे च मङ्गले।
विकल्पानन्तरप्रश्नकात्स््नर्यारम्भसमुच्चये॥‘इति मेदिनी)
सौपर्णं सुपर्णस्य गरुडस्येदं, गरुडसम्बन्धीत्यर्थः, ओजः तेजः, ते तव, अस्तु भवतु, इन्द्रादीनां देवानां सदृशं भवतः तेजः भवत्वित्यर्थः, समेति। -रामलक्ष्मणयोः रघवसौमित्र्योः, धनुषः शरासनस्य, याज्यामौर्वो, तस्याः घोषः टङ्कारध्वनिः, स एव मन्त्रः ब्रह्मास्त्रप्रयोगार्थम् आम्नायसमुदाय इत्यर्थः, जयं सङ्ग्रामेऽस्मिन्विजयलक्ष्मीमिति यावत्, देवदेव च ददात्वेव; अमितविक्रमौ रामलक्ष्मणौ यथा सङ्ग्रामे भीषणकार्मुकस्य ज्याशब्देनैव सर्वान्रिपून्समूलमुन्मूल्यविजयलक्ष्म्यानियतं शुशुभाते, एवमेव भवानेतस्मिन्सङ्ग्रामे जयश्रियं लभतामिति भावः।
(अत्रान्येषातेजः कथमन्योवहत्वितिवस्तु सम्बन्धः सर्व्वथा असम्भवन्नपि बिम्बप्रतिबिम्बिभावेन इन्द्रादीनां तेजः सदृशमेव तेजोऽस्वित्येवावगमयतीत्यतोऽसम्भवदृस्तुसम्बन्धरूपो निदर्शनालङ्कारः। इह पूर्वार्द्दस्थितयच्छब्दयोः तच्छब्देन तादृशापेक्षाविरहादेव न विधेयाविमर्षाख्यो दोषः इत्यवधेयम्। देयादेवेत्यत्र एवकारस्य स्वायोगव्यवच्छेदकार्थकतया नियमेन नियतसम्बन्धस्यैवावबोधनान्न अनियमे नियमख्यदोषः इत्यवधेयम्। शार्दूलविक्रीडितं वृत्तम्॥२८॥
लवः । कुमार अति हि नाम शोभसे रथस्थ एव ; कृतं कृतमत्यादरेण। ( छ )
चन्द्र। तर्हि महाभाग्योऽप्यन्यं रथमलङ्करोतु। ( ज )
लवः। ( सुमन्त्रं प्रति ) आर्य्य प्रत्यारोपय रथोपरि राजपुत्रम्। ( झ )
(छ) रथस्य एव- स्यन्दनाधिरूढ एवेत्यर्थः, अत्र हि- अत्यर्थमेव, न्यूनमिति यावत्, शोभसे-राजसे, शोभन्वितो भवसीत्यर्थः, नाम-सम्भावनायान्, इत्यहं सम्भावयामीत्यर्थः; अतः अत्यादरेण- रथावतरणरूपबहुमानप्रदर्शनेनेति यावत्, कृतं कृतम्-अलमलम्; (सम्भ्रमे द्विर्वचनम्) अधुना रथादवतीर्य त्वया सम्मानप्रदर्शनं न करणीयमिति भावः।
(ज) तर्हि-तदा, मयि रथस्थे सतीत्यर्थः, महाभागोऽपि-महान्-अत्यधिक; भागः,-भाग्य, वीरत्वसौभाग्यमिति यावत्यस्य तथाविधः, भवानपीत्यर्थः, अन्यं रथम्-अपरं स्यन्दनम्, अलङ्करोतु-भूषयतु, आरोहणेनेति शेषः;भवति महावीरे पादचारिणि मम रथारोहणं न युज्यते इति भावः।
(झ) आर्य्य-मान्य सुमन्त्र ; चन्द्रकेतौ मैत्रीसंस्थापनात्तत्कृतं सुमन्त्रे बहुमानं विलोक्यैव स्वयमपि तस्मिन्नत्यादरं प्रदर्शितवानिति ज्ञेयम्। रथोपरि-रथस्य-स्यन्दनस्य, उपरि-ऊर्द्धं, स्यन्दने इत्यर्थः, राजपुत्रं-कुमारं चन्द्रकेतुं, प्रत्यारोप्य- आरोहय।
सुमन्त्रः। त्वमप्यनुरुद्ध्यस्व चन्द्रकेतोर्वचनम्। ( ञ )
लवः। को विचारः स्वेषु उपकरणेषु ? किन्तु अरण्यसदो वयमनभ्यस्तरथचर्याः। ( ट )
सुमन्त्रः। जानासि वत्स दर्पसौजन्ययोर्यथोचितमीरयितुम् ; यदि पुनरीदृशं त्वामैक्ष्वाको रामभद्रः पश्येत् ; तदा अस्य स्नेहेन हृदयमभिष्यन्देत। ( ठ )
(ञ) त्वमपि-भावनपि, चन्द्रकेतोः;-कुमारस्य, वचनं-वाक्यं, त्वयि रथारोहणप्रार्थनामित्यर्थः,-अनुरुध्यस्व-अनुपालय; रथारोहणेन एतन्मनोरथं प्रपूरयेति भावः।
(ट) को विचारः?-कः विवेकः, को वितर्क इति यावत्, स्वेषु-स्वकीयेषु, आत्मभूतष्विति यावत्; एतास्मिन्कुमारे मैत्रीसंस्थापनात् अमुष्य एव द्रव्यं मदीयमेव सञ्जातम्, अतः स्वद्रव्यमिव एतद्द्रव्यमपि एते च्छमेवयतद्द्रव्यमपि मया ग्रहणीयं, नहि केनचित्कियानपिसंशयःस्वद्रव्यव्यवहारेक्रियतेइतिभावः; यहा,-स्वेषु- निजप्रयोजनीयेषु, उपकरणेषु-उपकारसाधनीभूतवस्तुषु, सङ्ग्रामोपयोगिरथादिषु इति यावत्, किन्तु-परन्तु, अरण्यसदः,-अरण्ये-वने, सीदन्ति-निवसन्ति ये तथोक्ताः, वनवसिनः इत्यर्थः, वयम्-अहमित्यर्थः, (अस्मदः एकत्वेबहुत्वप्रयोगादिति) अनभ्यस्तरथचर्य्याः,-अनभ्यस्ता-नशिक्षिता, रथेना, रथेन-स्यन्दनेन, चर्य्या- सञ्जरणं यैस्तथोक्ताः, अविज्ञातरथारोहणादिव्यवहारा इत्यर्थः, भवाम इति शेषः; अहं हि आरण्यकः, तेन इतः प्राक्कदापिरथन्नरोहयमतोऽधुना रथमारुह्य हि योद्धन्नाभिलषामि इति भावः।
(ठ) जानासि-वेत्सि, वत्स-आयुष्मन्लव, दर्पसौजन्ययोः,-अहङ्कारविनययोः, यथोचितम्-उचितमनतिक्रम्य(इत्यव्ययीभावः) यथोपयुक्तमित्यर्थः, औचित्यस्यापरिहारपूर्वकमिति यावत्; ईरयितुम्- अभिधातुं, व्यवहर्त्तुमित्यर्थः; यादृशेनवाग्विन्यासेन ओजस्वितासुजनता च व्यक्तौ भवति, तादृशीं वाचमभिधातुं त्वं सम्यगभिज्ञी भवसीति भावः; स्वेषामरण्यनिवासित्वाद्यभिधानेन वन्योऽप्यहं पदातिर्भित्वैवरथचारिणा भवता सह योत्स्येत्वत्तः ईषदपि न बिभेमि, इत्थमात्मनः निर्भीकतायाः तेजस्वितायाश्च प्रकठीकरणात्स्वकीयगर्वभावः कियद्धिव्यक्तीभूतोऽभूत, एवमेवचन्द्रकेतोः रथे‘स्वेषूपकरणेषु ‘इत्युक्त्या आत्मीयत्वप्रतिपादनात्स्वस्यातिः
लवः। मान्य सुजनः सः राजर्षिः श्रूयते। ( ड )
( सलज्जमिव )। ( ढ )-
वयमपि न खल्वेवम्प्रायाः क्रतुप्रविघातिनः
न इह च गुणैस्तं राजानं वा बहु मन्यते ?।
तदपि खलु मे स व्याहारस्तुरङ्गमरक्षिणां
विकृतिमखिलक्षत्राक्षेपप्रचण्डतयाऽकरोत्॥२९॥
विनयित्वञ्च सम्यक्त्या स्फुठीभूतममूदित्य्वधेयम्। यदि पुनः,-चेद्धि ईदृशं-शौर्य्यसौजन्यादिगुणगणवीभूषितमित्यर्थः, सर्वगुणाकरमिति यावत्, त्वां-भवन्तम्, ऐक्ष्वाकः,-इक्ष्वाकुवंशसम्भूतः, इक्ष्वाकुकुलालङ्कारः, इत्यर्थः, रामभद्रः,-रामचन्द्रः, पश्येत्-अवलोकयेत्, तदा-तर्हि, अवलोकनसमकालमेवेतियावत्, अस्य-रामभद्रस्य, स्नेहेन-प्रेम्णा, वात्मल्येनेत्यर्थः, हृदयं-मानसम्, अभिष्यन्देत-द्रवीभूतम्भवेत्; गुणग्राहीभगवन्रघुमणिः सर्वगुणविभूषितं त्वां विलोक्य नूनम् अभूतपूर्वां प्रीतिमापद्येतेति भावः।
(ड) नान्य-पूज्यसुमन्त्र, सुजनः,-सज्जनः, साधुरित्यर्थः; विनयित्वादिगुणशतविभूषितन्त्वादितिभावः; सराजार्षः,-राजश्रेष्ठः,-राजाचासौॠषिश्रेतिविग्रहेण, निखिलराजगुणविभूषितोऽप्यसौरघुमणिः रामः दमनियमादिगुणयोगात् ॠषिकल्प एव भवतीति भावः; श्रुयते-आकर्ण्यते।
(ढ) सलज्जमिव-लज्जयासहवर्त्त्मानं यथास्यात्त्थेव, ईषद्धिलज्जितः सन्निव इत्यर्थः, आहेति शेषः।
ननु सुजवश्चेत्तत्र वान्रामचन्द्रः भवतामभिमतः, तर्हि कथं तत्क्रतुविघातायं यज्ञीयाश्वमपहृत्य इत्यमसौजन्यमनुतिष्ठसि? इत्याशङ्कामपनेतुमाह, वयमपीति। - वयमपि अस्मद्विधाजना अपि, अहमपि इत्यर्थो वा, (अविशेषणयुष्मदस्मदोः एकत्वेऽपि वहुत्वे प्रयोगदर्शनात्) एवस्प्रायाः प्रायेण बाहुल्येन एवम् (इति विग्रहे‘सहमुपा ‘(२। १। ४पा०) इति समासः) ईदृशा इत्यर्थः, क्रतुप्रविघातिनः क्रतुं यज्ञं, प्रविघ्नन्ति प्रविणश्यन्ति ये तथोक्ताः, यज्ञहन्तारः इत्यर्थः, नखलुनैव; यथासराजर्षिः सजनः, तथा वयमपि, नहि मेध्याश्वापहरणादिक्रियाभिः दुर्वृत्तयः क्रतुविध्वंसकराक्षसप्रायाः वयं भवामः इति भावः। तर्हि किमुरामस्यासौजन्यमवलोक्य विद्धेषवशात्तन्मखाश्वम्बलाद्ग्रहीतुमिच्छसि? तदपि नित्याह, क इहेति। -इह च अस्मिन्जगति पुनः, कः को जनः, गुणैः शौर्य्यौदार्य्यसौजन्यादिभिः हेतुभिः, अशेषगुणविभूषितत्वादिति भावः, तं राजानं सम्राजममुं रामचन्द्रं, न बहुमन्यते वा? नाद्रियते वा? नसत्करोतिवेत्यर्थः; अपितु सर्व एव विपुलगुणविशोभितं रामं तद्गुणात्कष्टहृदयाः सन्तः नियतं प्रशंसन्ति, वयमपि तथैव भवामः, क्रतुविधातकाः रामविहेषिणश्च न इति भावः। युष्माकं सदाचारवत्त्वेसम्राजः रामस्य च बहुसम्मानास्पदीभूतत्वे कथमीदृशः विरोधः सञ्जातः? इत्याशङ्कामपनयति, तदपीति। - तदपि तथाऽपि, तस्मिन्बहुमानसत्त्वेऽपीत्यर्थः, खलु नूनं, तुरङ्गमरक्षिणाम् अश्वमेधीयाश्वरक्षकाणां, सव्याहारः तादृशी उक्तिः, ‘अयमश्वः पताकेयम्‘इत्यादिरामानुमोदितं सगर्वमभिधानमित्यर्थः। अखिलेति। - अखिलानां सर्व्वेषां, क्षत्राणां गजन्यानाम्, आक्षेपेण तिरस्कारेण, वीरत्वापहत्वारुपावनाननेनेति यावत्, प्रचण्डतया अत्युग्रतया, अतिदुःसहत्वेन हेतुनेति यावत्, मे मम, राधवानुज्ञातां सर्वेषां, वीराणां तादृशीमवज्ञां सोढुमपारयतः इत्यर्थः, विकृतिं विकारं, क्रोधमित्यर्थः, अश्वधारणप्रवृत्तिरूपं चेतसोऽन्यथाभावमिति यावत्, अकरोत् उत्पादयामास; निखिलवीराणां निन्दाकरं रक्षिजनानां वचनं निशम्यक्रोधेनैवाह मश्वमिमभवरूद्धवान्, नविजयप्रेप्सया, नवादौर्ज्जन्येनेतिमन्तव्यमित्याशयः। (अत्राप्रस्तुतेन‘कः‘इति पदोपस्थाप्यसामान्यार्थेन प्रस्तुतस्य विशेषस्य वक्तुः लवस्य प्रतीतेरप्रस्तुतप्रशंसाऽलङ्कारः)। हरिणीवृत्तम्॥२९॥
चन्द्र। ( सस्मितम् )। किन्नु ; भवतस्तातप्रतापोत्कर्षेऽप्यमर्षः ? ( ण )
(ण) सस्मितम्-ईषद्धास्य सहितम्, आहितिशेषः। भवतः,-तव, तातप्रतापोत्कर्षेऽपि- तातस्य- पितृस्थानीयस्य रामचन्द्रस्य,प्रतापः,-प्रभावः, कोषदण्डनं तेज इत्यर्थः,तस्य य उत्कर्षः,-अतिशयः, अतिरेक इतियावत्तस्मिन्नपि, अमर्षः,-असहनम्, असहिश्णुतेति यावत्, किन्नु?-किमुखलु ;यद्येपिमहावीरस्यभवतः साधारणजनानां वितथासगर्वोक्तिः मर्म्माणि निकृन्तति, तथाऽपि पितृवत्पूज्यस्य तत्र भवतो महारथस्य रघुपतेः राक्षसकुलोच्छेदकस्य ईदृशीतात्त्विकीशौर्य्योक्तः गुणग्राहिणः गुरुजनानुमतस्य भावादृशस्य चेतः प्रमथातीत्यर्थः अतीवहास्य वरं निरतिशयविस्मय जनकञ्चैतदित्याशयः।
लवः। अस्त्वमर्षः ; मा भूद्वा एतत् पृच्छामि दान्तं हि राघवं राजानं शृणुमः ; स किल नाऽऽत्मना दृप्यति ; नाप्यस्य प्रजा ईद्शो जायन्ते ; तत्किमस्य मनुष्या राक्षसीं वाचं वदन्ति ? ( त ) –
(त) अमर्षः,-असहनं, परगुणासहिष्णुतेत्यर्थः, अस्तु- भवतु, माभूत्वा- न भवतु वा, रामप्रतापोत्कर्षश्रवणविषये कियदपि मे असहेन वर्तते न वेति तद्विषयकःप्रश्नावतरणमिदानीं न युज्यते इति भावः; तु-किन्तु, एतत्-इदं, वक्ष्यमाणं विषयजातमित्यर्थः, पृच्छामि- जिज्ञासे, भवन्तमिति शेषः; किमितितदेवाह, दान्तमित्यादि। -दान्तं-दमादिसम्पन्नं, जितेन्द्रियमित्यर्थः, अनुद्वतभाषिणमिति यावत्, हि- निश्वितं, राघवं- रामं, राजानं- निखिलप्रजापालकं, शृणुमः,-आकर्णयामः; सर्वेहिजनाः सततं रघुमणिं निरहङ्कारं वशिनञ्चामनन्तीति अभीक्ष्णमनुश्रूयते इति भावः; सः,-राघवः, किलं-इति वार्त्तायां, (‘वार्त्तासम्भाव्ययोः किल‘इत्यमरः) आत्मना- स्वयं, नदृप्यति-नाहङ्करोति, अस्य- रामस्य, प्रजाः अपि-प्रकृतयोऽपि, ईदृश्यः ,-एवंविधाः, गर्व्वता इत्यर्थः, न जायन्ते- न भवन्ति; विनेतुः राज्ञः अतिविनयित्वात्विनेयानां प्रजानां विनीतत्वन्तु सुतरामेव सम्पन्नमिति भावः; तत्-तस्मात्, राज्ञः प्रजानाञ्चा दृप्तत्वादित्यर्थः; सर्व्वेषामेव सौशील्यश्रवणादिति भावः; यद्वा,-तत्-तर्हि, स्वयं राज्ञः प्राजानाञ्च दर्पाभावेसत्यपीत्यर्थः, किं- कथम्, अस्य-राज्ञः रामस्य, मनुष्याः-अधिकृताः पुरुषाः, सैनिकजनाः इत्यर्थः, राक्षसी-राक्षससम्बन्धिनीं, दर्पोद्वतामित्यर्थः, वाच-वाक्य, वदन्ति?-भाषन्ते; सुविचक्षणस्यति विनयिनः, नरपतेः अधिकृतजनानामीदृशभाषणमतीवलज्जाव्यञ्जकमितिभावः।
ऋषयो रक्षसीमाहुर्वाचमुन्मत्त दृप्तयोः।
सा योनिः सर्ववैराणां सा हि लोकस्य निरृतिः॥ ३०॥
का खलु राक्षसी वाक्, किञ्चतस्या अपकारित्वम् इति विवृणोति, ॠषय इति। - ॠषयः मन्वादयः धर्म्मशास्त्रकाराः, उन्मत्तदृप्तयोः उन्मत्तस्य उन्मादरोगग्रस्तस्य आसवादिपानेनविभ्रान्तचित्तस्य वेत्यर्थः, दृप्तस्यगर्व्वितस्य च, आत्मश्लाघानिरतस्येत्यर्थः, वाचं वचनम्राक्षसीं राक्षसजनोचिताम् अतिक्रूरामित्यर्थः, परुषाक्षरभूयिष्ठतया अतिबीभत्सामिति यावत्, आहुः ब्रुवन्ति। तपोघनाः एवं वदन्ति चेत्वदन्तु नाम, तेनास्माकं का क्षतिः? इत्याक्षेपेतस्या अनिष्टोत्पादकतामाह, सेति। - सावाक्, सर्वेषां सर्वप्रकाराणां, वैराणां विरोधानां, शत्रुभावानामिति यावत्, योनिः कारणम्, उत्पादहेतुरित्यर्थः, साहितादृशीवागेवेत्यर्थः, लोकस्य जनस्य, तादृशमदोद्धतानां वचसां प्रयोक्तुरित्यर्थः, निर्जितिः निर्गता ॠतिः कल्याणां यस्याः तादृशी, (‘ॠतिः कल्याणवर्त्मनीः‘इति मेदिनी) अलक्ष्मीः इत्यर्थः, (‘स्यादलक्ष्मीस्तुनिर्रत्तिः‘इत्यमरः) अलक्ष्मीर्यथा दुरदृष्टवतः पुरुषस्य विविधनि अशुभानि उत्पादयति, एवमेव क्रुद्धानां जनानां गर्विता वाक् अनिशमेवाशुभं प्रसूते इति भावः। (अत्र निॠतौराक्षस्यावाचः अभेदारोपात्निरङ्गम्रूपकमलङ्कारः)॥३०॥
इति ह स्म तां निन्दन्ति ; अथेतरामभिष्टुवन्ति। ( थ ) –
कामान् दुग्धे विप्रकर्षत्यलक्षीं कीर्तिं सूते ; दुष्कृतं या हिनस्ति।
ताञ्चाप्येतां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः॥३१॥
(थ) इति ह- परम्पर्य्योपदेशः(‘पारम्पर्य्योपदेशेस्यादैतिह्यमिति हाव्ययम्। ‘इत्यमरः) लोकपरम्परयैतदनुश्रुयते इति भावः। किमिति? एतदेवाह, तां निन्दन्तिस्मेति। - तां-पूर्वोक्तां राक्षसीं वाचं, निन्दतिस्म- तिरस्कुर्वन्तिस्म, अथ-अपिच, वाक्यान्तरारम्भार्थकोऽयमथशब्दः, इतराम्-अपरां, सौजन्यविनयादिगुणभूषितां वाचमित्यर्थः, अभिष्टुवन्तिस्म- प्रशंसन्तिस्म, ॠषय इति शेषः; जघन्यां वाचं विहाय सदासाध्वीं वाचं समुदीरयतः जनान्प्राचीनाः महाजनाः आद्रियन्ते स्म इत्यस्माकं पारम्पर्योपदेशः इति भावः।
इत्थं राक्षसीं वाचं विनिन्द्येदानीं सूनृतां वाचमभिष्टौति, कामानिति। - या सूनृता वाक्, कामान्मनोऽभिलषितानर्थान्, दुग्धे प्रपूरयति, आनीय ददातीत्यर्थः; यां सूनृतां वाचमुपश्रुत्य हि परितुष्टाः महान्तः प्रवक्तुभ्यः यथेष्टमभिलषितानि वस्तूनि प्रददतीति भावः; अलक्ष्मीं निऋतिम् अशुभाधिष्टात्रीं देवीमित्यर्थः, विप्रकर्षति निरस्यति, दूरीकरोतीत्यर्थः; या च समीरितासती अमङ्गलं सर्व्वथानिवारयतीति भावः; कीर्त्तिं यशः, सूते जनयति; सन्तो हि तादृशीं वाचं सदैव प्रशंसन्ति, तेन च तद्वाक्यप्रयोक्त्तुः कीर्त्तिः सर्व्वत्र सुप्रथिताभवतीति भावः; दुष्कृतं पापं, हिनस्ति नाशयति; निरन्तरमभिधीयमानासा हि अतिपावनीवाक्प्रवक्त्रूणां प्राक्तनं पापं समूलमेव उन्मूलयतीति भावः; तां निखिलकल्याणप्रदत्वेन सुप्रसिद्धाम्, अत एव मङ्गलानां शुभानां, मातरं प्रसवित्रीं, सर्वमङ्गलनिदानभूतामित्यर्थः, एतां प्रस्तूयमानामित्यर्थः, सूनृतां सत्यां प्रियाञ्चेत्यर्थः, (‘सूनृतं प्रिये। सत्येइत्यमरः, सूनृतं मङ्गलेऽपि स्यात्प्रियसत्ये वचस्यपि। ‘इत्यजयोऽपि) वाचञ्च वाक्यन्तु, भीराः विद्वांसः, पण्डिताः इत्यर्थः, धेनुमपि कामधेनुसदृशीमपि, कामदुघामित्यर्थः, सर्वाभिष्टपूरयित्रीमिति यावत्, आहुः ब्रुवन्ति चकारोऽत्र समुच्चयार्थकः, तथा चः, उन्मत्तदृप्तयोः वचनं राक्षसीमाहुः, सूनृतां वाचञ्च धेनुमप्याहुरित्यर्थः; कामधेनुतिवसूनृतावाणी अभिघातृभ्यः वाञ्छितफलानि प्रयच्छतीति भावः। (अत्र ‘दुग्धे ‘इत्यादिक्रियापदानामेकेनैव कर्त्तृपदेनान्वयात्दीपकमलङ्कारः, तथा धेन्वा सह वाचः अभेदारोपात्निरङ्गरूपकञ्चेत्यनयोरङ्गाङ्गिभावेनसङ्करः)॥३१॥
सुमन्त्रः। परिपूतस्वभावोऽयं कुमारः प्राचेतसान्तेवासी वदति अभिसम्पन्नमार्षेण संस्कारेण। ( द )
लवः। यत् पुनश्चन्द्रकेतो वदसि ; ‘किन्नु भवतस्तातप्रतापोत्कर्षेऽप्ययमर्षः ‘इति ; तत् पृच्छामि ; किं व्यवस्थितविषयाः क्षत्रधर्मा इति ?। ( ध )
(द) परिपूतस्वभावः,-परिपूतः,-अतिपवित्रः, स्वभावः, प्रकृतिः यस्य तथाभूतः, अतिपवित्रचरित्र इत्यर्थः, प्राचेतसान्तेवासी-प्राचेतसस्य-वाल्मीकेः, अन्तेवासी-शिष्यः, अयं कुमार,-एषः लवः, आर्षेण-ॠषीणामयमित्यार्षः तादृशेन, ॠषिसम्बन्धिनेत्यर्थः, संस्कातेण-ज्ञानेन, अभिसम्पन्नम्-अभिसम्बद्धम्, अनुगतं यथातथेत्यर्थः, वदति-भाषते; ॠषयः; खलु यथा अलौकिकज्ञानालोकसमुद्भासितां वाचमुदीरयन्ति, एवमेवासौ कुमारः सुशिक्षिततया सुसंस्कृतं स्वराद्यहीनञ्च यथातथा अभिदधातीत्यर्थः।
(ध) हेचन्द्रकेतो भो कुमार पुनः- किन्तु, यत्वदसि-यहाक्यं कथयसि; किमिति? तदेवाह, किन्न्विति। - किन्नु किमु भोः, प्रश्नार्थकमव्ययम्; भवतः,- तव, तातप्रतापोत्कर्षे-तातस्य-पितृत्वानीयस्य, पितृत्वम्पूजनीयस्यरामस्येत्यर्थः, यः प्रतापः,-प्रभावः, कोषदण्डीतं तेजःइत्यर्थः, तस्य उत्कर्षेऽपि-आधिक्येऽपि, पितृकल्पन्यरामस्य जगत्प्रसिद्धप्रभाववृद्दावपीत्यर्थः, अमर्ह्षः?-क्रोधः, असहनमित्यर्थः, इति, यत्वदसि इत्यनेनान्वयः; तत्-तच्छेत्यर्थः, तद्विषये इति यावत्, पृच्छामि- जिज्ञासे, भवन्तमिति शेषः, किं?-किमु, प्रश्नार्थकमव्ययम्; व्यवस्ठितविषयाः,-व्यवस्थितः,-निर्द्दिष्टः, नियमितः इत्यर्थः, विषयः,-आश्रयः, वृत्तिरितियावत्, येषां ते, निर्द्धारितार्था इत्यर्थः, केवलं रामचन्द्रनियतवृत्तय इत्याशयः; क्षत्रधर्म्माः-क्षत्रस्य-राजन्यस्य, क्षत्त्रियजातेरित्यर्थः, धर्म्माः,-शौर्य्यादिगुणानिचयाः; क्षत्रियजातेः विशिष्टाः गुणाः केवलं व्यक्तिविशेषेमहावीरे रामचन्द्र एव पर्य्याप्ताः सन्तः आसते, नान्येषु केषुचिदपि महावीरेषु? इत्याशयः; एवं नहि कदाचिदपि सम्भवति यत्गुणानां प्रतिनियतपुरुषवृत्तित्वमिति तात्पर्य्यम्।
सुमन्त्रः। नैव खलु जानासि तं देवमैक्ष्वाकं ; यदेवं वदसि ; तद्विरम्यतामतिप्रसङ्गात्। ( न ) –
सैनिकानां प्रमाथेन सत्यमोजायितं त्वया।
जामदग्न्यस्य दमने नैवं निर्वक्तुमर्हसि॥ ३२॥
(न) ऐक्ष्वाकम्- इक्ष्वाकुवंशतिलकं, देवं-सम्राजं, तं-रामचन्द्रं, नैवखलुजानासि- निश्वितमेवनवेत्सि, यत्- यस्मात्, कारणात् एवम्-इत्थं, प्रागुक्त्तरूपमित्यर्थः, वदसि-कथयसि, तत्- तस्माद्रघुमणेरलौकिकशौर्य्याधारत्वविषये तव निरतिशयानभिज्ञत्वादित्यर्थः, विरम्यतां- निवर्त्त्यताम्; (‘विरमविरम‘इति पाठे-विरम-निवर्त्तस्व, सम्भ्रमे द्विर्वचनम्) अतिप्रसङ्गात्-सावज्ञपरिभाषणात्, रघुपतेरवमाननासूचकसमुद्धतवाक्यप्रयोगादित्यर्थः; यदित्वमपूर्वशौर्य्यसौजन्यादिगुणाग्रामविभूषितं रघुमणिं कदाऽपि प्राक्प्रत्यक्षीकुर्य्याः तर्हि एवं सगर्व्वमभिधातुं नोत्सहेथाः, अतो महाजनलाघवसूचकं सम्भाषणं सर्व्वथैवपरिहर इति भावः; लोकोत्तरगुणशालिनितादृशिमहावीरे रामचन्द्रे एवं सावलेपवचनं न शोभते, अतः तूर्णमेतस्मात्निवर्त्त्यतामिति समुदिताशयः।
रामलवयोर्विक्रमवैषम्यप्रदर्शनेन लवप्रदर्शितदर्पोद्धतभावस्य अज्ञानविजृम्भितत्वमेव समर्थयमान आह, सैनिकानामिति। - त्वया भवता, लवेनेत्यर्थः, सैनिकानाम् अस्मत्सेनासमवेतविराणामित्यर्थः, प्रमाथेन विमर्दृनेन, विक्लवीकरणेनेत्यर्थः,पराभवेणेति यावत्, सत्यं यथाथेमेवेत्यथः, वस्तुत एवेति यावत्, ओजायितम् ओजस्विवदाचरितमित्यर्थः, विक्रमविशेषप्रदर्शनेन स्वस्य वीरत्वं प्रमाणीकृतमिति यावत्; (ओजायितमिति ओजसा इव आचरितमिति विग्रहे ओजः शब्दस्य‘ओजःशब्दोवृत्तिविषये तद्धिति ‘इति दीक्षितवचनात् ओजस्विबोधकतया ओजस्विवदाचरितमित्यर्थःलभ्यते, तथा च तदर्थकौचः शब्दात् आचारार्थे ‘कर्तुःक्यङ्सलोपश्च’ (३। ३। ११पा०) इति क्यङि‘ओजससरसोर्नित्यमितरेषां विभाषा ‘(वा०) इति नित्यं सलोपे ओजायनामधातोर्भावे निष्ठाप्रत्ययेन सिद्धम्) अनन्यजनसहायेनैव त्वया असाधारणं साहसं विक्रमञ्च प्रदर्श्य वीरविक्रमोद्धता असङ्ख्येया अपि अस्मत्सैनिकासुदूरं विद्राव्यसावहेलं विजिग्यिरे, प्रत्यक्षपरिदृष्टे तस्मिन्नास्त्यस्माकं कोऽपि विसंवाद इति भावः। एवञ्चेत्तर्हि कथं मदुक्तावतिप्रसङ्गः सम्भवितः?इत्यत्राह, जामदग्न्यास्येति। -किन्तु जामदग्न्यस्य जमदग्निपुत्रस्य परशुरामस्येत्यर्थः, (जमदग्नेरपत्यं पुमानिति विग्रहे, जमदग्निशब्दात्‘गर्गादिभ्योयञ् ‘(४। १। १०५पा०) इति यञ्) दमने दर्पहारिणि, पराभवितरिरामे इत्यर्थः, (दमयतीतिदमनः, दमयतेः‘नन्दिग्रहिपचादि- ‘(३। १। १। ३४पा०)इति कर्त्तरी ल्युः) इदम् इत्थं, वीरत्वादिक्षत्त्रधर्म्माः किं राम एव व्यवस्थिताः, इत्त्येवमौद्धद्याभिव्यञ्जकं वचनमित्यर्थः, निर्वक्त्तुं निश्चयेन कभयितुमित्यर्थः, नार्हसिनप्रभवसीत्यर्थः; त्वया एकाकिनैव यद्यप्य स्मत्मेनासमवेतवीराणां हेलया विद्रावणेन स्वकीयं वीरत्वगौरवमस्मत्ममक्षमेव प्रकटीकृतं, तथाऽपि विःसप्तकृत्वः क्षत्त्रियवंशध्वंसकारिणस्त्रिभुवनैकवीरस्य परशुरामस्यापि पराभवितुः रघुपतेः सर्वातिशायिविक्रमेऽपि तव अयममर्षः कदाऽपि न शोभते इति निष्कृष्टार्थः। (अत्र ओजायितमितिक्यङ्प्रत्ययेन लवस्य ओजस्विपुरुषेण सार्द्धमवैधर्म्यसाम्यप्रतिपादनादुपमाऽलङ्कारः)। पथ्यावक्त्रंवृत्तम्॥३२॥
लवः। ( सहासम् )। आर्य्य जामदग्न्यस्यापि दमनः स राजा इति कोऽयमुच्चैर्वादः । ( प ) –
सिद्धं ह्येतद्वाचि वीर्यं द्विजानां बाह्वोर्वीर्य्यं यत्तु तत् क्षत्रियाणाम्।
शस्त्रग्राहि ब्राह्मणो जामदग्न्यस्तस्मिन् दान्ते का स्तुतिस्तस्य राज्ञः ?॥ ३३॥
(प) सहास-सुमन्त्रवाक्यस्य असङ्गतत्वबोदुच्चैर्हाससहितं यथातथेत्यर्थः, आहेति शेषः; मत्तोऽपियुष्मत्प्रभोः रामचन्द्रस्य विक्रमाधिक्ये प्रदर्शितायायुक्त्तिर्भवद्धिर्बलीयसीतिमन्यते, सामयानैवयुक्त्तिमध्येपरिगण्यते इति हासहेतुर्बोध्यः। सः,-असौभवतां प्रभुरित्यर्थः, राजा-भूपतीरामचन्द्र इत्यर्थः, जामदग्न्यस्यापि- जमदग्निपुत्रस्य परशुरामस्यपि, का कथा अन्येषामिति अपिकारार्थः, दमनः,-पराभविता, इत्ययम्-एवम्प्रकारः एषः इत्यर्थः, कः उच्चैर्वादः-किम् असीमवीरत्वमाहात्माद्योतकं प्रशंसावचनमित्यर्थः; अपि न किमपीति भावः।
विरत्वकीर्त्तिमतः परशुरामस्य विजायित्वोत्कीर्तनेन यत्रामस्य त्रिभुवनैकवीरत्वं समर्थितं तदस्माभिर्न युत्किमध्ये परिगणितमित्युक्तम्, इदानीं तत्र हेतुं प्रदर्शयन्नाह, सिद्धमिति। -एतत् इदं वक्ष्यमाणरूपं ब्राह्मणक्षत्त्रिययोवीर्य्यस्थाननिरूपणामित्यर्थः, सिद्धं प्रसिद्धं, सर्व्वजनविदितमित्यर्थः, यत्द्विजानां ब्राह्मणानामित्यर्थः, (द्विर्ज्जयते इति व्युत्पत्त्याद्विशब्दोपपदात्जनधातोर्ङः, वृत्तिविषये चात्र सङ्ख्यामात्रवाचकस्यापि द्विशब्दस्य वारार्थत्वं बोध्यम्। ननु‘जन्मना जायतेशूद्रः संस्कार्रै द्विज उच्यते‘इति वचनेन द्विजत्वप्रापकस्य उपनयवसंस्कारस्य ब्राह्मणादिवर्णतत्रयसाधारणतया कथं द्विजपदेनात्र ब्राह्मणमात्रपरिग्रह इति चेन्न, अनुपदमेव द्विजविशेषः क्षत्त्रियाणां वीर्य्यस्य अन्प्रथा व्याख्यानेन, अत्र सामान्यशब्दस्य विशेषपरत्वन्ययः, सामान्यवाचिनोऽपि द्विजशब्दस्य द्विजविशेषब्राह्मणवाचकत्वान्नकश्चिद्दोषोवकाशः इत्यवधेयम्) वीर्य्यं पराक्रमः, परपरिभवसामर्थ्यमिति यावत्, वाचिहिवाक्ये एवेत्यर्थः, प्रतिष्ठितमिति शेषः,
(अत्र हि शब्दः अन्ययोगव्यवच्छेदरूप एवकारर्थेप्रयुक्तः, तेन ब्राह्मणानां वाचि एव वीर्य्यं, नतु क्षत्त्रियाणामिव बाह्वोरित्यर्थोलभ्यते। ब्राह्मणानां वाक्ये एव वीर्य्यस्थितौ प्रमाणां यथा ताण्ड्यब्राह्मणे,-‘तस्माद्ब्राह्मणोमुखेनवीर्य्यं करोति मुखतो हि सृष्टः-‘इति)
तु किन्तु, बाह्वोः भुजयोः, यत्वीर्य्यम्पराक्रमः, सामर्थ्यमित्यर्थः तत्क्षत्त्रियाणां ब्रह्मभुजोत्पन्नानां राजन्यानामेवेत्यर्थः। भवतु तावदेवं, तेन प्रकृते कस्तावदुपयोगः? इत्यत्राह, शस्त्रग्राहीति। - ब्राह्मणः ब्रह्मसुखोत्पन्नः द्विज इत्यर्थः, (एतेनास्य निसर्गदौर्बल्यं सूचितम्) जामदग्न्यः जमदग्निमुनेस्तनयः परशुरामः, शस्त्रग्राहीतपः कृशेनातिदुर्बलेन हस्तेन शस्त्रधारीत्यर्थः; सहितपस्वीब्राह्मणः तपोदुर्बलाभ्यां भुजाभ्यां शास्त्रमगृह्यादिति कुतस्तस्मात्यस्य कस्यचिदपि क्षत्रियस्य पराजयसम्भावनेति भावः; तस्मिन्परशुरामे इत्यर्थः, दान्ते रामेण विजिते सतित्यर्थः, तस्य विजेतुरित्यर्थः, राज्ञः नृपतेः, रामस्येति यावत्, कास्तुतिः? कः प्रशंसावादः?, न कापीत्यर्थः; ब्रह्मणा हि नियतं तपः क्लेशेन अनशन क्लेशेन च कर्षितकलेवराः स्वतः एव दैहिकसामर्थ्यपरिहीनाः केवलं कठोरतपः प्रभावेण वाक्साफल्यमधिगच्छन्तः शापबलेनैव द्वेष्यानभिभवन्तीति ब्रह्ममुखसमुत्पन्नानां ब्राह्मणानां मुखे एव सामर्थ्यं, तद्भुजयुगलसमुत्थानां क्षत्रियाणान्तु भुजयोः, इति भुजबलोल्लेखावसरे रामस्य ब्राह्मणपरशुराममथनकथोपन्यासेन वीरत्वमाहत्म्यव्याख्यापनं न कथमपि सङ्गच्छते इति भावः; निजभुजबलपराक्रान्तं कञ्चिदन्यं क्षत्रवीरं यदि रामः कदाचित्पराभवीष्यत्, तदैवासौ वीरत्वेन प्रशंसाभाजनमभवीष्यदितिहृदयम्।
(अत्र क्षत्रियाणामेव बाह्वोर्व्विर्य्यमिति कथनेन‘ब्राह्मणानां न‘इत्यस्य अर्थबललभ्यत्वात्, कथितात्वस्तुनःक्षत्रियात्तादृशान्यस्य ब्राह्मणस्य व्यपोहनात् आर्थीपरिसङ्ख्याऽलङ्कारः, सा च परशुरामदमने नापि रामस्य प्रशंसाया अभावं प्रतिब्राह्मणेतिजामदग्न्यविशेषणपदस्य हेतुतयोपन्यासात्कव्यलिङ्गेनसमृज्यते)। शालिनीवृत्तम्॥३३॥
चन्द्रः। ( सोन्माथमिव ) आर्य्य आर्य्य कृतमुत्तरोत्तरेण। ( फ ) –
कोऽप्येष सम्प्रति नवः पुरुषावतारो
वीरो न यस्य भगवान् भृगुनन्दनोऽपि।
पर्य्याप्तसप्तभुवनाभयदक्षिणानि
पुण्यानितातचरितानि च यो न वेद॥ ३४॥
(फ) सोन्माथमिव- उन्माथेन-अत्यन्तमर्म्मयातनया सह वर्त्तमानं यथा स्यात्तथेत्यर्थः, सक्षीभमिति यावत्, (विलोकपूज्यस्य तातस्य रामस्यापि अवज्ञा सूचकवचनस्य स्वकरणेन श्रवणमेव एवं मर्म्मवेदनाहेतुरिह बोध्यः)। (‘उन्माथः कूटयन्त्रेस्यात्मारणे घातके पुमान्‘इति मेदिनी)। आर्य्य-मान्य (इति सुमन्त्रस्यामन्त्रणपदम्। अत्र सुमन्त्रस्य लवोक्तिप्रत्युत्तरप्रदानप्रतिबन्धकताऽऽचरणार्थं सम्भ्रमेद्विरुक्तिर्बोध्या) उत्तरोत्तरेण-उत्तरस्य-वाक्यस्य, उत्तरेण-प्रत्युत्तरेण इत्यर्थः। कृतम्-अलम्; अयोग्यत्वादीदृशवाक्यस्य उत्तरदानं नविधेयमिति भावः।
रामस्य जामदग्नाविजयित्वेन सर्ववादिसम्मतमपि विभुवनैकवीरत्वमस्वीकुर्वतः सुतरामवीवेकिनोलवस्योक्तेः प्रत्युत्तरदानस्यापि अनौचित्यमुपादयितुं सर्व्वथातस्या र्वाचीनत्वं प्रमापयन्नाह, कोऽपीति। - सम्प्रतिइदानीं कोऽपि अविज्ञातमाहात्म्य इत्यर्थः, अदृष्टाश्रुतपूर्वतयाः अनिर्वचनीय इति यावत्, नवः नूतनः, अपूर्व इत्यर्थः, एषः, अयं लवरूप इत्यर्थः, पुरुषावतारः, नररूपेणाञ्च पृथिव्यामाविर्भूत इत्यर्थः, जात इतिशेषः, (पुरुषस्यावतारः, पुरुषरूपेण वा अवतारः इति पुरुषावतारः। अवतारः इति अवपूर्वात्तरर्तेभावे‘अवेतृस्त्रोर्घञ् ‘(३। ३। १२०पा०) इतिघञ्; यद्यप्यस्य सूत्रस्य सञ्ज्ञायां तथा करणाधिकरणयोरेव वाच्ययो र्विषयः, तथाऽपि ‘प्रायानुवृत्तेरसज्ञादावपि भवति‘इति काशिकावचनात् अत्रापि विषयस्वोपपत्तिर्बोध्या) नन्वस्य अभिनवत्वेकिं वीजम्? इत्यत्राह, विर इति। - भागवान् ऐश्वर्य्यादिषङ्गुणासम्पन्नतया अलौकिकसामर्थ्यशालीत्यर्थः, भृगुनन्दनः जमदग्निपुत्रः, अपित्रिः सप्तकृत्वोजगतीपतीनां निहन्थापरशुरामोऽपीत्यर्थः; का कथा अपरेषामिति भावः; यस्य अपूर्व्वपुरुषावतारस्य सम्बन्धे इत्यर्थः, नवीरः नशूरः, विरपदवाच्यतयानगणानीय इत्यर्थः, (‘वीरः‘इत्यत्र‘श्लघ्यः‘इत्यपि क्वचित्पाठः) यश्वपर्य्याप्ता सम्पन्ना, सर्वतोभावेनपूर्णा इत्यर्थः, सप्तानां भूरादिसप्तसङ्ख्यकानां, (भूरादि
सप्तलोका यथा-‘भूर्भुवःस्वार्महश्चैव जनश्चतप एव च। सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः॥‘इति) भुवनानालोकानाम्, अभयस्य राक्षसादिविघ्नव्यहविनाशात् अभयदानस्येत्यर्थः, दक्षिणाप्रतिष्ठा येभ्यः तानि, (दक्षिणायाः कर्म्मप्रतिष्ठापकतया अत्रप्रतिष्ठा एव दक्षिणाशब्दार्थोबोध्यः) यहा,-पर्य्यप्ते प्रभूते, सप्तानां भूवनानाम् अभयेरक्षाकर्म्माणि, दक्षिणानि अनुकूलानीत्यर्थः; अथवा,-पर्य्याप्ता सम्पूर्णा, सप्तभुवनस्य अभयमेव दक्षिणादानं येषु तानि, (यज्ञादिवैधिकर्म्मसाङ्गतार्थः याजकेभ्यो दीयमानस्य धनरत्नादिकस्यैव दक्षिणाशब्दवाच्यतया अत्र दावरूपोऽर्थः लक्षणया बोध्यः। सप्तभुवनामिति सप्तानां भुवनानां समाहार इति विग्रहे समाहारद्विगौभुवनशब्दस्य पात्राद्यन्तर्गतत्वात्न स्त्रियां ङीप्) पुण्यानि दोषरहितानि, अतिविशुद्धानीत्यर्थः, तातस्य पूज्यस्य, ज्येष्ठतातस्य रामचन्द्रस्येत्यर्थः, चतितानि अनुष्ठानानि, कृतकर्माणीति यावत्, नवेदनवेत्ति, नावगच्छतीत्यर्थः; येनहि अनन्यसहायेन निजभुजबलेनैवत्रिः सप्तवारान्भुवनगतानशेषानपि क्षत्रवीरानुन्मूलयताजगदिदं निःक्षत्रियमकारि, त्रिलोकविदितालौकिककीर्तिः सोऽपि वीरतया यस्य गणनापदवीं नारीदुमर्हति, तथा स्तबलेववशीकृतदेवासुरनरस्यविलोकतापिनोऽतिशक्तिमतोराक्षसराजस्यापि वंशं समूलमुन्मूलयती जगदेकवीरस्य रघुवंशावतं सम्यापिचरितेषुचयस्यनबहुमानं, सोऽयमलौकिकविक्रमोपेतः अपूर्वः कोऽपि पदार्थः कस्माच्चिद ज्ञातदेशात्पुतुषरूपेण अत्रावतीर्णाः, नोचेत्नूनमेवैतयोः कीर्तिकलापमयमशृणोदितिनिष्कृष्टार्थः। (अत्र यद्यपिद्वितीयचतुर्थपादयोर्थच्छब्दस्य उत्तरवाक्यगतत्वेन‘आत्माजानातियत्पापम्‘इत्यादिवत्तच्छब्दस्यानपेक्षितत्वान्नविधेयाविमर्षदोषावकाशः, तथाऽपि चतुर्थपादे चकारस्य ‘यः‘इति कर्त्तृपदोत्तरमेव योजनीयतया‘हितान्नयः संशृणुतैसकिम्प्रभुः‘इत्यादिवत् अस्थानस्थापदता दोषः स्फुट एवास्ति, स च चतुर्थपादं‘पुण्यानितातचरितानिनवेदयश्च‘इत्येवं परिवर्त्त्यसमाधातुं शक्यः। इह विवक्षणीययोः लवस्य साहङ्कारत्वानभिज्ञत्वयोर्भङ्ग्यन्तरेणकथनात्पर्य्यायोक्तमलङ्कारः, तथा तृतीयपादे तृतीयक्ल्पोक्तव्याख्याने, निरपद्भवविषयेः अभये दक्षिणातादात्म्याध्यासात्रूपकञ्चेत्यनयोरलङ्कारयोः परस्परनिरपेक्षतया संसृष्टिः)। वसन्ततिलकं वृत्तम्॥३४॥
लवः। को हि रघुपतेश्चरितं महिमानञ्च न जानाति ? यदि नाम किञ्चिद्वक्तव्यमस्ति ; अथवा शान्तम्। ब ) –
(ब) त्रिलोकविश्रुते तातचरितेऽप्यमनभिज्ञइति चन्द्रकेतोः सावज्ञं सोल्लण्ठनवचनमाकर्ण्यातिक्षुब्धः लवः तत्रापि स्वाभिज्ञताप्रदर्शनपूर्वकं प्रत्युत्तरमाह, क इति। -को हि के एववेत्यर्थः। रघुपतेः,-रघुवंशावतंसस्यरामचन्द्रस्येत्यर्थः। चरितम् अनुष्ठितं, कार्य्यमित्यर्थः। महिमानं-माहात्म्यम्। न जानाति?- न वेत्ति?, अपितु सर्व एवं जानातित्यर्थः; अलौकिकरामचरितस्य सर्वज्ञानविषयत्वात्मयाऽपि तत्सम्यगेवज्ञातमिति न तच्चरितावभिज्ञतया तथोक्तमिति भावः। ननु जानासि चेत्तदा कथमेवं प्रलपसि? इत्याशङ्क्याह, यदीति। - यदि-इतिपक्षान्तरे अव्ययम्। (‘पक्षान्तरेचेद्यदिच‘इत्यमरः) नाम- इति कुत्सायाम्। (‘नाम कोपेऽभ्यपगमे विस्मये स्मरणेऽपि च। सम्भाव्यकुत्साप्राकाश्यविकल्पेऽपि च दृश्यते॥‘इति मेदिनी) किञ्चित्-किमपि। वक्तव्यं-कथनीयं, पर्य्यालोचयितव्यमित्यर्थः; यथाऽस्य चरिते एकतः माहात्म्यख्यापि कादृश्यते भूयसी घटनावलौ, तथैव कुत्सापक्षेऽप्यस्य कार्य्यपरम्परानैव दुर्लभेतिसमुदिततात्पर्य्यम्। कुत्सापक्षीयवक्तव्यं वक्तुमुपक्रममाण एवं परनिन्दाया अवाच्यत्वबुद्या पुनः पक्षान्तरमाह अथवेति। -शान्तं-विरतम्, अस्तु तदिति शेषः, तत्कीर्त्तनेनालमित्यर्थः।
(अत्र वक्तुभिष्टस्य रामनिन्दारूपस्य वस्तुनः अतिगुरुत्वरूपविशेषप्रतिपत्त्यथेनिषेधम्यआभासनादाक्षेपोनामअलङ्कारः, -‘वस्तुनो वक्तुमिष्टस्य विशेषप्रतिपत्तये। निषेधाभास आक्षेपोवक्ष्यमाणोक्तगो द्विधा॥‘इति दर्पणकृदुक्तलक्षणात्)।
वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु किं वर्ण्यते ?
सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोकं महान्तो हि ते।
यानि त्रीण्यपराङ्मुखान्यपिपदान्यासन् खराऽऽयोधने
यद्वा कौशल्मिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः॥ ३५॥
नन्वस्तिचेत् अतिविशुद्धेसर्ववादिसम्मतेऽपि रामचरिते किञ्चिदालोचनौयं, तदातदालोच्यतामेव, किमुपरमेण? इत्याशङ्क्याह, वृद्धा, इति। - वृद्धाः वर्षीयांसः, वयोज्येष्ठा इत्यर्थः, ते प्रसिद्धारामादय इत्यर्थः, विचारणीयचरिताः विचरणीयं मत् असत्वेतिविवेचनीयं, चरितम् आचरणम्, अनुष्ठितं कर्म्मत्यर्थः, येषां तथोत्काः? समालोचनीयकर्म्माण इत्यर्थः, न, भवन्तीति शेषः, केवलं वयसा गौरवास्पदानां तेषामनुष्ठितेषु गुणदोषविचारोबालकै स्माभिर्नविक्षेय इतिभावः; ततः तिष्ठन्तु अविचारितचरिता एव वर्त्तन्तामित्यर्थः। कुत एतत् इत्याह, किमिति। - किं वर्ण्यते? व्याख्यातव्यं किमस्ति? इत्यर्थः; वर्ण्यमाने सति दोषबाहुल्यात्तच्चरितस्य दोषोद्घाटनमेव भविष्यतीति ततो विरतिरेव श्रेयसीति भावः, तदाङ्गितद्वारेण ज्ञापयति, सुन्देति। -
सुन्दम्यजन्मपुत्रस्य, तदाख्यासुरविशेषस्य इत्यर्थः, स्त्रियाः पत्न्याः, ताडकायाः इत्यर्थः, स्वभावदुर्बलायाः शिशुसाध्यहत्याया अपि कस्याश्चित् अबलाया इति यावत्, दमनेऽपि विनाशे अनष्ठितेऽपि इत्यर्थः, रमणीबधनिमित्तके महापातके कृते सत्यप्रीति यावत्, अखण्डम् अक्षुण्णम्, परिपूर्णमित्यर्थः, यशः कीर्तिः, माहात्माख्यातिरित्यर्थः, येषां ते तथोक्ताः, अक्षुणामहिमान इत्यर्थः, (‘अखण्डयशसःइत्यत्र‘अकुण्ठयशसः‘इति पाठेऽपि स एवार्थः‘) ते रामाः, (अत्र गौरवेबहुत्वमवगन्तव्यम्। ) लोके भुवने, (‘लोकस्तुभुवनेजने‘इत्यमरः) महान्तो हि महानुभावा एव, सर्व्वजनपूज्या एवेत्यर्थः, स्वभावदुर्बलायाः अबलायाः ताडकायाः बधसाधनेन शास्त्रन्यायविरुद्धमति विगर्हितं कापुरुषोचितं पापं कर्म्मसमाचरतोऽपि रघुपते त्रिलोकविश्रुतं यशोनाशतोऽपि कलुषितं, परमसौविलोकोलोकैः माहात्मावत्त्वेन सम्पूज्यत एवेति सोत्प्रासोक्तिरियम्।
(स्त्री हत्यायाः पापजनकतामाहयाज्ञवल्क्याः, -शरणागतबालस्त्रीहिंसकान्सवसेन्नतु चीर्णव्रतानपि सदाकृतघ्नमहितानिमान्॥‘इति। तथा तिथितत्त्वेऽपि-
अबध्याञ्च स्त्रियप्राहुस्तिर्य्यगद्योनिगतेष्वपि। ‘इति।
वस्तुतस्तु राजधर्म्ममनुतिष्ठतो रामस्य ताडकाबधेऽपि न पातकमिति रामायणे तद्वधप्रकरणे आदिकाण्डे पञ्जविंशसर्गे,-
नहि तेस्तोबधकृतेष्ठणाकार्य्यानरोत्तम
चातुर्व्वर्ण्य हितार्थहिकर्त्तव्यं राजसूननां॥
नृशंसमनृशंसवाप्रजां रक्षणकारणात् पातकं वासदोषं वाकर्त्तव्यं राजसूनुना॥
नृशंसमनृशंसं वा प्रजारक्षणकारणात्।
पातकं वा स दोषं वा कर्त्तव्यं रक्षता सदा॥
राज्यभारनियुक्तानामेष धर्माः सनातनः।
अधर्म्यां जहिकाकुत्स्य धर्म्मोह्यस्वां न विद्यते॥‘
इति। ताडकाबधकथाऽपि तत्र वषडि्ंवशमर्गे, ‘इत्युक्तः सतुतांयक्षीसश्मवृष्ठ्याभिवर्षिणीम्। दर्शयन्सब्दाबेधित्वं तां रूरोधससायकैः॥
सारुद्धाबाणजालेन मायाब्लसमन्विता।
अभिदुद्रायकाकुत्स्यं लक्ष्मणञ्च विनेदुषी॥
तामाप्तन्तोवेगेनविक्रान्तामशनीमिव।
शर्णोरसिविव्याधपपातच्ममारच।
तां हतां भीमसङ्काशां दृष्वासुरपतिस्तदा।
साधुसाध्वितिकाकुत्स्थसुराश्वाप्यभिपूजयन्॥‘इति)
तथा खरस्य खराख्यराक्षसविशेषस्य, आयोधने तेन सह युद्धे, (‘जन्यमायोधनं युद्धं प्रधनं प्रविदारणम। ‘इत्यमरः) यानि त्रिणि अपरा….खाणि अपि पश्वाद्देपाः, अस्त्रप्रातभयेव अविमुखान्येव पश्वात् अतिनिवृत्तपदविक्षेपा इत्यर्थः; यद्वा,-पदानिव्यवसायाः, (पदं व्यवसितित्राणस्थावलक्ष्म…………. इत्यमरः) चापवर्मच्छेदसर्वावयववेवनानन्तरं प्रतिहतशक्तिरोषव्याकुलतथादुःखादयाः ते ते सामयिकचेष्टाव्यापाराः इत्यर्थः, युध्यमानखरी हि रामस्य धनुश्छेदं कवचपातनं सर्वाङ्गवेधनपूर्वकरूधिरप्रातनं कृतवान् इति-त्रीणि पदानि‘लक्ष्योकृत्य एवमुक्तिः इति। आसन् अभवन्, (‘अपराङ्मुखानि‘इत्यत्र‘अकुतोभयानि‘इति पाठे,-नास्ति कुतः कस्मादपि, भयं भीतिप्रकाशोयेषु तानि, कथमप्यप्रकाशितभौतिसूचकभावानीत्यर्थः; नहि पलायितस्य कुतश्चिदपि भयसम्भावनाऽस्तीति भावः। खराहवेरामस्य पृष्ठतः पादत्रयापसर्पणकथा यथा रामायणे त्रिशंसर्गे,-
‘विकलः सकृतो बाणैः खरोरामेण संयुगे।
मत्तोरुधिरगन्धेन तमेवाभ्यद्रवत्द्रुतम्॥तमापतन्तंसङ्क्रु…. कृतास्त्रोरुधिराप्लतम्।
अपासर्पत्द्वित्रिपदं किञ्चित्त्वरितविक्रमः॥…….
…..रामेण धनुरानस्य खरस्योः रसिचापतत्॥
स पपात खरो भूमौ दह्यमानः शराग्निना।
रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथाऽन्धकः॥‘
इत्यादि। प्रतिद्वन्द्विनि अतिप्रत्यासन्ने अन्तरवकाशाभावात्धनुषि शरसयोगोऽप्यसुकर इति वेगेनस्वाभिमुखमापतन्तखरमालीक्य रामः पुरतः किञ्चिदवक्काशसम्पत्तये द्वित्राणि पदानि अपससार, लवेन तु तदेव अपसरणां भीत्या आत्मरक्षार्थे मन्यमानेन एवं कटाक्षःकृतो बोध्यः। युद्धे क्षत्रियकृतपृष्ठप्रदर्शनस्य अघर्म्महेत्वमाहमनुः,-समोत्तमाधमैः राजात्वाहूतः पालयन्प्रजाः। ननिवर्त्तितसङ्ग्रामात्क्षात्रधर्म्ममनुस्मरन्॥‘इति)।
अपरङ्मुखानोतिसीपहासीक्तिर्बोध्या। वा अथवा, इन्द्रसूनोरिन्द्रपुत्रस्य बालिनः इत्यर्थः, निधने बधे, यत्कौशलं युद्धकार्य्यदक्षेता आसीदिति शेषः; सुग्रीवेणसहयुध्यमानं बालिनं प्रति। प्रच्छन्नभावेन बाणक्षेपात्युद्धनीति विरुद्दम् अतिजघन्यं यत् अशक्तिपटनमिति निष्कष्टार्थः, तत्रापि तस्मिन्नपि, अपिशब्दात्तेषु सर्वेष्वित्यर्थः, जनः त्रिभुघनगतः सर्वोलोकः, अभिज्ञः ज्ञानवान, सर्वे एवं तत्सर्वेजानन्तीत्यर्थः; जगद्वासिनी जनाः रघुपते श्वरितमाहात्म्यंव केवलं दशानन हननाद्य लौकिककर्मविचित्रं जानन्ति, अपितु नारीबधरूपेण बीभत्मकर्मणा, प्रतिभटनकृताक्रमणात्रणे पृष्ठप्रदर्शनेन, तथा कपटयुद्धेन बालिबधाच्च कलुषीकृतमपि जानन्तीति भावः।
(बालिनः कपट्बधवृत्तान्तो यथारामायणे किष्किन्ध्याकाण्डे त्रयोदशादिसर्गे, –
‘ततस्तुरामानुजराम………….. प्रगृह्यशस्त्राण्युदितो ग्रतेजसः।
पुरीं सुरेशात्मजवीर्य्यपालितां बधायशत्रोः पुनरागतास्त्विह॥
………सर्वे ते त्वरितं गत्वा किष्किन्ध्यां बालिनः पुरीम्।
वृक्षैरात्मावमवृत्यव्यतिष्ठन्गहने वने॥
…. होयमावमथापश्यत्सुग्रीवं वानरे श्वरम्।
प्रेक्षमाणं दिशश्वैव राघवः समुहुर्मुहुः॥
ततो रामो महातेजा अत्ति दृष्ट्वा हरीश्वरम्।
सशरं वीरो बालिनो बधकाङ्मया॥
ततो धनुषि सन्धाय शरमाशीविषोपमम्।
पूरयामास तच्चापं कालचक्रमिवान्तकः॥
निर्घोषःप्रदीप्ताशनिसन्निभः।
राघवेण महावाणो बालिवक्षसि पातितः।
ततः शरेणाभिहतो रामेणारणकर्कशः।
पपात सहसा बालीनिकृत्त इव पादपः॥‘इत्यादि)।
(क्वचित्पुस्तके च प्रथम चणरस्य‘किंवर्ण्यते‘इत्यत्र‘हुं वर्त्तते‘इति पाठे दृश्यते, तत्र हुमिति स्मरणार्थकमव्ययम्, सत्यं तेषाम् अमाहात्म्यसूचकचरितं वर्तते इत्येवार्थं स्मारणे नदरयति-सुन्दत्यादि। )
(अत्र लवेन गर्व्वातितेक्जनितसम्भ्रमात्पूजनीयस्यापि रामस्य दोषसमालोचनेन प्रदर्शितः पूज्यपूजाव्यतिक्रम ..पोद्रवोगुरुव्यतिक्रान्तिः शोकविगर्वगादिसम्भवा ‘इति। तथा वक्तुमिष्टस्य रामचरितमाहात्म्यापकर्षस्य गुरुत्वरुपविशेषप्रतिपत्त्यर्थं ‘किं वर्ण्यते‘इत्यनेननिषेधस्य आपाततः प्रतौयमानत्वात्प्रथमभेदान्तर्गतः आक्षेपोनामअलङ्कारः, स चरामादीनामविचारणीयचरितत्त्वे‘व….‘इति विशेषणपदस्य हेतविधया उपन्यासात्काव्यलिङ्गालङ्कारेणान्योन्यानरपेक्षतया संसृज्यते इति बोध्यम्)
शार्दूलविक्रीडितं वृत्तम्॥३६॥
•चन्द्रकेतुः। आः तातापवादभिन्नमर्यादः अति हि नाम प्रगल्भसे। ( भ )
(भ) आः-इति कोपसूचकमव्ययम्। (‘आस्तुस्यात्कोपपीडयोः‘इत्यमरः) सर्वातिशयिशौर्य्यशालिनः ज्येष्ठतातस्य अतुलनीयमाहात्म्येऽपि दोषार्पणमेवास्य कोपहेतुर्बोव्यः। तातापवादभिन्नमर्य्याद – तातस्य -ज्येष्ठतातस्य , रामस्येत्यर्थः, अपवादेन-निन्दया, तिरस्कारेणेत्यर्थः, भिन्ना-भग्ना, लङ्घितेति यावत्, मर्य्यादा सदाचारः, सदाचार अपद्धतिरित्यर्थः, येन सः, तत्सम्बोधनम्; (‘तातापवादभिन्नमर्य्याद ‘इत्यत्र‘तातापाभिन्न भिन्नमर्य्याद ‘इति पृथगामन्त्रणाप्रदद्वयात्मके पाठान्तरेऽप्यथे स्तुत्यत्र एवेति बोध्यम् ) त्रिलोकौ लोकसम्मानितस्य रघुपतेः कथायाबालकेन विनीतेनैव वर्त्तितव्यमिति स गर्ववचनेन तदुल्लङ्घनात्त्वयान्यायपथातिक्रेमः कृत इति भावः। अतिद्वि-निरातशयमेव, अत्र हि शब्दोऽवधारणायकः। (हि हेताववधारणेन इत्यमरवचनात्) प्रगल्भसे-धार्ष्ट्यं प्रकाशयसि, रामस्य अयथानिन्दवादं न स्वमिन्गर्वं प्रदर्शय…त्यर्थः। अत्र नाम-इत्यपि क्रोधव्यञ्जकमेव बोध्यम्। (‘नाम कोपेऽभ्युपगमे विस्मये स्मरणेऽपि च। ‘इति मेदिनी)।
लवः। अये मय्येव भ्रुकुटीधरः संवृत्तः। ( म )
सुमन्त्रः। स्फुरितमनयोः क्रोधेन। ( य ) तथाहि । –
(म) अये-इति क्रोधव्यञ्जकम् अनादृतामन्त्रणाथेकं वा अव्ययम्। (‘अये क्रोधविषादे च सम्भ्रमे स्माणेऽपि च। ‘इति मेदिनी। ‘अये‘इत्यत्र‘आः‘ कथम्‘इत्यपि पाठान्तरं दृश्यते) मयि एव- अनतिचिरमेव एतत्समक्षमसङ्ख्यसैनिकविद्रवणेन प्रदर्शितपराक्रमे एवेत्यर्थः। भ्रुकुटोधरः,-स….त्पादितभ्रुभङ्गः, चन्द्रकेतुकृताधिक्षेपजकोपेन भ्रुभङ्गोपेतवदन इत्यर्थः। (भ्रुवोःकुटो इति भ्रुकुटो, ‘अभ्रुकुंसादोनाम्(वा०) इति…स्वस्यवैकल्पिकविधनात्भ्रुकुटेति पदान्तरम्। ‘अकारोऽनेन विधीयते इति व्याख्यान्तरम् ‘इति दीक्षितवचनात्भ्रुकोटोत्यपि स्यात्। धरतीति धरः,धृधातोः कर्त्तरि‘नन्दिग्रहिपचादिभ्योल्वुणिन्यच ‘(३। १। १। ३४पा०) इति पचादित्वादच, ततश्वभ्रुकुट्याधरः इति षष्ठीसमासः; द्वितीयान्तोपपदसमासे‘कर्म्मण्यण ‘(३। २। १पा०) इत्यस्यबाधाभावात्‘प्रायोऽण्विषये च ‘(वा०) इति अच्प्रत्ययान्तेनोपपदसमास इति पद्मनाभः)। संवृत्तः,-वीर्य्यादिनारमस्यमद्पेक्षया अल्पत्वसूचनात्मयिकोपप्रकटनमनुचितमिति भावः।
(य) अनयोः,-एतयोः, चन्द्रकेतोर्लवस्य चेत्यर्थः। क्रोधेन-कोपेन, परस्परस्पर्द्धासम्धूते नरोषेमेति यावत्। (स्फुरितमिति क्रियापदस्य कर्त्तुपदमिदम्)। स्फुरितम्-आविर्भूतम्, कुमारयोः क्रोधः सञ्जात इति समुदितार्थः। (स्फुरितमितिस्फुरतेर्भावे निष्ठाः)
चूडामण्डलबन्धनं तरलयत्याकूतजो वेपथुः
किञ्चित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः।
धत्ते कान्तिमकाण्डताण्डवितयोर्भङ्गेन वक्त्रं भ्रुवो-
श्चन्द्रस्योत्कटलाच्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च॥ ३६॥
अन्योन्यस्पर्द्धया समुपजातरोषयोः कुमारयोः तदानीन्तनाय स्थावर्णान मुखेन कोपोत्पत्तिमुपपादयन्नाह, चूडेति। - आकूतं प्रतिद्वन्द्विपराभवविषयकोऽभिप्रायः, (‘आकूतं स्यादभिप्रायः‘इति हलायुधः) तस्मात्जायते यः यथोक्तः, परस्परदमनेच्छाजनितक्रोधसमुत्थ इत्यर्थः, (आकूतोपपदात्जनेः कर्त्तरि डः) वेपथुः कम्पः, (वेपधातीर्भावे अथुच्) चूडामण्डलस्य शिखासमूहस्य, (रघुवंशीयानां क्षत्रियाणां पञ्जचूडतयाचूडायां मण्डलत्वोक्तिः सङ्गच्छते) बन्धनं संयमनं, संयतकेशपाशसमूहमित्यर्थः, तरलयति विधूवयति,किञ्जित्शिथिलयतीति वा, प्रबलकोपोदेकेण शिरःकम्पात्संयतोऽपि कुन्तलभारः सम्न्त्तो विस्रंसते इत्यर्थः, (तरलं करोतीतितरलयति, नरलशब्दात्तत्करोतीत्यर्थे‘तत्करोति तदाचष्टे ‘(ग०) इति णिच्, ततः तरलीति नामधातुः कर्त्तरिलट्। क्वचित्प्रथमः पादः ‘क्रोधेनोद्वतधतकुन्तलभरःसर्वाङ्गनो वेपथुः‘इत्येवपठितो दृश्यते, तत्र सुगम एवार्थः। स्वयम् आत्मना, एवेत्यर्थः, (अत्र स्वयमिति तृतीयान्तमव्ययं, ‘प्रकृत्यादिभ्य उपसङ्ख्यानम् ‘(वा०) इति तृतीयां) कीकनदच्छदस्य रक्तमलदलस्य, (अत्र सदृशशब्दयोगात्‘तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्या(२। ३। ७। २पा०) इति वैकल्पिकी षष्ठी। ‘-अथ रक्त्तसरीरुहेसक्तोत्पलं कीकनदम्‘इत्यमरः। कोकान्चक्रवाकान्नदति अन्तर्भूतण्यर्थतया नादयती भवतः, यः तर्होक्त्तः, इति कोकीपपदान्नदतेः कर्त्तरि अच्) किञ्चित् ईषत, सदृशे समाने, प्रकृत्येवईषल्लोहितायमनि इत्यर्थः, नेत्रे नयने, रज्यतः लोहिती भवतः, इदानीं क्रोधोद्रेकात्सम्पूर्णरूपेण रक्तवर्णतामाप्नुतः इत्यर्थः; यद्वा,-कोकनदच्छदस्य किञ्चित्सदृशे नेत्रे स्वयं रज्यत इत्यन्वयः, (रज्यत इति‘रनूनरागे‘इति दैवादिकरनूनधातोर्लटि रूपम्, ‘अनिदितां हलउपाधायाः….ङिति ‘(६। ४। २४पा०) इति नलोपः) तथा वक्तम् अनयोर्मुखमण्डलं, कर्त्तृ।
(अत्र कुमारयोर्द्वित्वेऽपि ‘नेत्रे ‘इत्यत्र ‘मुखम् ‘इत्यत्र च यथाक्रमं द्विवचनैकवचनतया ‘नेत्रे ‘इत्यत्र द्विवचनद्वयस्य बोधो बोध्यः। उच्चते अनेनेति व्युत्पत्त्या वचधातोःकरणे त्र प्रत्यये न वक्त्तमिति सिद्धम्) अकाण्डे अनवसरे, अकस्मादित्यर्थः, ताण्डवितयोः नृत्यन्त्योः, पुनः पुनरुद्धीवः प्रचलितयोरिति यावत्,
(ताण्डनितयोरिति, ताण्डनातन्नाममुर्निविशेषेण्प्रोक्तमनुष्ठानमिति व्युत्पत्त्यातण्डुशब्दादुक्तार्थे अण्प्रत्ययेन सिद्धात्ताण्डवशब्दात्तत्सञ्जातमनयोरित्यर्थे‘तदस्यसञ्जातं तारकादिभ्य इतच् ‘(…। २। ३६पा०) इति इतच्। ‘…नृत्यताण्डवं प्रोक्तं स्त्रोनृत्यं लास्यमुच्यते‘इति वचनात्म्रुवीः कम्पने ताण्डवशब्दप्रयोगः तत्र निरतिशयौत्कट्यसूचको बोध्यः)
भ्रुवीः भ्रूयगलस्य भङ्गेन कौटिल्येन, भीषणभ्रूभङ्गविभ्रमेणेत्यर्थः उत्कटलाच्छनस्य सुपरिश्फुटकलङ्कस्य, (उत्कटं लाच्छनं यस्येति बहुव्रीहिः चन्द्रस्य हिमांशोः, च तथा, उद्भान्ता उपरिभ्रमन्तः, भृङ्गाः भ्रमरायस्य तथोक्तस्य, समन्तादुपरिसञ्चरदलिकुलस्येत्यर्थः, कमलस्य सरसिजस्य, कान्तिशोभा, साम्यमितियावत्, धत्ते धारयति, परिपूर्णचन्द्रस्फुरितारविन्दयारनुरूपमं तदनयोरावननद्वयं समभिव्यक्तक्रोधलक्षणतया भीषणभ्रूभङ्गेन सुधां शुसङ्गतकलङ्कस्य प्रफुल्लकमलीतपतदलिपटलस्य च श्रियमनुकरोतीति पर्य्यवसितार्थः; एभिः शिरः कम्पनेयलौहित्यभीषणभ्रूमङ्गादिभिर्लिङ्गैरेतयोन्यक्रोधाविर्भावानुमानात्मन्ये अनतिविलम्बेनैवानयोः समरसमारम्भः सम्भवतीति भावः।
(अत्र वदने तादृशचन्द्रकमलयोः शोभासम्बन्धस्य असम्भवत्वेन उपमायां पत्य्यवसानान्निदर्शनानाम् अलङ्कारः, तदुत्थितवैचित्रावशेनशिरः कम्पने वलौहित्यादिभिर्लिङ्गैः कोपस्यानुमानात् अलुमावालङ्कारः व्यज्यते , इति अलङ्कारेणालङ्कारध्वनिः)। शार्दूलविक्रीडितं वृत्तम्॥३६॥
कुमारौ। तदितो विमर्दक्षमां भूमिमवतरावः। ( र )
( इति निष्क्रान्ताः सर्वे )।
इति कुमारविक्रमो नाम पञ्चमोऽङ्कः। ( ल )
(र) तत्-तस्मात्, ईदृशौद्वत्यस्य नितान्तमसहनीयत्वादित्यर्थः। इतः,- अस्मात्। विमर्दृक्षमां-विमर्दृस्य-युद्धव्यापारस्य, क्षमां-योग्यां, युद्धव्यापारोपयोगिवीमित्यर्थः। भूमिं-भूवम्। अवतरावः,-गच्छावः।
(ल) इति-समाप्तावव्ययम्। (‘इति हेतुप्रकरण्प्रकाशादिसमाप्तिषु‘इत्यमरः) कुमारविक्रमोनाम-कुमारविक्रम इतिनाम्नाप्रसिद्धः। (कुमारस्योर्विक्रमोयत्रेति बहुव्रीहिः)-पञ्चमः,-पञ्चसङ्ख्यापूरणीभूतः। अङ्कः,-नाटकीयपारिच्छेदः।
सङ्क्षेपः
पञ्जमाङ्कस्यसङ्क्षेपः।
अथ नेपथ्ये, विपन्नानामस्माकं साहायकार्थं द्रुतं कुमारश्चन्द्रकेतुः सुमन्त्रेण सारथिनानुद्यमानः प्रजाविभिर्वाजिभिर्वाहितेन रथेन प्रधनस्थलं समुपैतीति समु…घोष्याश्वरक्षापुतुषाः स्वावलम्बनलाभात्सहर्षं विनेदुः।
कुमारश्चन्द्रकेतुस्तु समरभूमौवीरबालकस्यालौकिकं रणकौशलं विलोक्ययरं मुमुदे, रघुकुलाङ्कुरेणेवामुनासुनिशिशुनानिक्षिप्तानिकुञ्जरकुलकपोलस्थलेषु सदृदेषु परिपत्यज्वालामालाकुलानिशरसहस्राणिविलोक्यपरं कौतुकमवाप च।
सुमन्त्रस्त्वलौकिकशौर्य्यशालिनमिमं बालं, कौशिकमखेनिशचरनिकरहननोद्यतं साक्षाद्रघुमणिमिवाहं मन्ये इत्याह।
चन्द्रकेतुस्तु तदावीरशिशुमेकं पराभवितुं भूयसां शस्त्रजालकरालकराणां रथिनां वारिदसन्निभद्विरदारोहिणाञ्चस्वबलानां युगपत्प्रयासं समवलोक्य नितरामत्र तपते। सुमन्त्रोऽपि, समवेता अपि एते सैनिकाः किमप्यस्य कर्त्तुवशक्त्ताः किं पुनर्विमज्यस्थिताः? इत्यमन्यत।
चन्द्रकेतुराह, आर्य्य त्वर्य्यतां त्वर्य्यताम्, अयं वीरः ज्यानिर्घोषेणपलाय्यगिरिकुञ्जमध्यलौनानां कुञ्जराणमपि कर्णव्यथां जनयन्तुमुलं युध्यते, रणे निहतानां मदीयसेनानां कालकवलात्भुक्त्तोद्वान्तैरिव मुण्डैः कबन्धैश्वरणभूमिं समाच्छादयति च।
तदाकर्ण्य सुमन्त्रः कथमहममुनिवीरेण सह चन्द्रकेतुं योद्धुम् उपदिशामि इत्येवं क्षणं स्वगतमनुदध्यौ, सपदि स्थिरीचकार च इक्ष्वाकुकुलाचारः खलु ईदृशः सङ्ग्रामः, तदधुना अमुना वीरेण सहसङ्ग्रामं वीनानान्यं कमपि पन्थानं पश्यामीति।
तदा चन्द्रकेतुः रणात्प्रतिनिवृत्तानिस्वसैन्यानिशतशः धिक्कृतवान्, स्वयञ्ज नितरां ललज्जे, विस्मयविवशश्व बभूव। सुमन्त्रस्तु त्वरितमेव रथं चालयन् एष हि वीरोलवः पुरत एव अभिवर्त्तते इति चन्द्रकेतुमग्यधात्।
विस्मृतः सन्निवचन्द्रकेतुः पप्रच्छ सुमन्त्रम्, आख्यायकाः किं नामधेयमस्याभिहितवन्तः? इति। सुमन्त्रः लव इत्याह। ततः चन्द्रकेतुः कुमारं सम्बुध्याह, भो लव सैनिकैरेभिः? सह युद्धं किम्? मया सहयुध्यस्व, तेजः तेजस्यवशाम्यत्विति। सुमन्त्रस्तु तदा कुमारमाह, एष बालवीरः त्वया सवाहूतः सन्भवत्सैनिकनिर्मथनं परित्यज्य घनगर्ज्जनमुपश्रुत्य इभावलिभर्द्दनविरतः दृप्रप्तसिंहशिशुरिव इत एवाभिवर्त्तते इति। अचान्तरेत्वारतोद्वतपदविक्षेपेणलवः प्रविश्य कुमारमाह, भो राजपुत्र सत्यं त्वमिक्ष्वाकुकुलालङ्कारभूतोऽसि, अयमहमागच्छामिति।
ततः नेपथ्ये महान्कोलाहलः प्रादुरासित्। कथमिदानीं पराङ्मुखीभूता अपि चमूपतयः पुनः प्रतिनिवृत्य मां प्रहर्त्तुमभ्युद्यताः धिगेतान्नीचान्। अहन्तु, महाप्रलये पवनीद्वेलितः समुद्रप्रवाहः यथा सागरगर्भस्थपर्वताघातसङ्क्षुब्धाभिः बाडवाग्निशिखाभिः सपदि विशीष्यते , तथैव कोपाग्निनाक्षणादेनान्विमदृयिष्यामीत्युक्ता लवः परितः सगर्वपरिक्रमितुमारेभे। ततः कुमारश्चन्द्रकेतुरपि सगर्वमधुरञ्च लवमाह , भोः कुमार तवालौकिकं गुणातिशयं विलोक्याहमतीवप्रीतः भवामि, अतस्त्वं मे सखा, सखित्वात्यत्मदीयं , तत्त्वदीयमेव, सख्युः परिजनेकदनं विफलमेव, अहमेव ते वीरदर्पस्य परीक्षास्थलमिति। लवस्तु सहर्षसम्भ्रमं प्रत्यावृत्यस्वगतमाह, अहो दिवाकरकुलकुमारस्य सुमधुराऽपि वीर्य्यगाम्भीर्य्यपूर्णां वाक्प्रयोगचातुरी , तदेतान्परित्यज्येममेव वीरं सम्भावयामिति।
पुनरपि कलरवः समजनि। लवस्तु, पापैरिभिः महीर्य्यवीघ्नकारिभिः सैनिकैः मृशङ्कदर्थित एवास्मीति सक्रोधनिर्वेदमुक्तातदभिमिखमेव पर्य्यक्रामत्। चन्द्रकेतुस्तु तदा सुमन्त्रमाह, आर्य्य द्रष्टव्यमेतदवलोकय, दर्पात्कौतुकाच्चैष वीरः का………. परितः परिक्रामन्मदीयसैन्यैरनुभावितः सन्, प्रतिकूलवायुनायर्याकुलः इन्द्रधनुः सुशोभितः नबेनिग्द इव कीदृशीरम्बां शीभांविस्मयविवशाः संवृत्ता इत्याह।
अथ चन्द्रकेतुः सामन्तान्सम्बुध्याह, भो भो राजानः वस्मभृतोऽसङ्ख्येयाः वर्षोयांसः यूयं दुरगेषु द्विरदेषु रथेषु च समारूढाः सन्तः पादचारिणैकेन चर्म्मोत्तरीय भृताबालकेन सहसङ्ग्रामे बद्धपरिकराः संवृत्ताः धिग्युष्मावस्माश्विति। ततः चन्द्रकेतोरेवंविधं वचनमाकर्ण्य लवः सक्षीभमाह, किं मासेषोऽनुकम्पते नामेति। ततः क्षणं विचिन्त्य स्वगतमाह, भवतु, वृथा कालक्षयं वारयितुं……. सैन्यान्येतानि संस्तम्भयामीति। अथासौ…..कास्त्राणि निध्यातुमारभत, अकस्माच्च सैन्यसद्धोषः प्रशान्तोऽभूत। समये चैतस्मिन्सुमन्त्रः ससम्भ्रमं कुमारमाह, वत्स वीरपोतेनामुना जृम्भकास्त्रमभिप्रयुक्तमिति। चन्द्रकेतुस्तु, सत्यमेवैतत्, यतः ममापि चक्षुः वैद्युताग्निसम्मिश्रिते घोरेऽन्धतमसे निपतितमिव शक्तिविहीनं सतक्षण्णं विकाशतामिति, सैन्यसमूहश्वचित्रलिखितारम्भइव निस्पन्दनास्ते; नूनममितवीर्यं जृम्भकास्त्रं जृम्भते एव; आश्रर्य्यमिदं, पातालगर्भास्थितेषु निकुञ्जेषु तमोरिव श्यामायमानैरपि पावकोत्तापविगलितपित्तलद्रववङ्मास्वरज्योतिर्भिः जृम्भकास्त्रैः कल्पान्तकाले उद्दामोनपञ्चाशत्पवनविक्षिप्तेः पुञ्जीभूतजलदनालैः विद्युत्पुञ्जप्रीद्दीपितकन्दरैः विध्यगिरिशिखरैरिव परिदृश्यमानैः समन्तात्विमानतलं समाच्छाद्यते इत्याह। कुतः खलु जृम्भकास्त्रमधिगतवान्लवः? इति सुमन्त्रे पृष्टे प्रत्याह चन्द्रकेतुः, भगवतः प्राचेतसादेवेति मन्यामहे इति। नह्ययं महर्षिः शिष्येभ्योऽस्त्रविद्यामुपदिशति, विशेषतम्तुजृम्भकास्त्राणि, यत श्वैतानिकृशाश्वात्प्रादुर्भूनि इत्याह सुमन्त्रः। अपदेऽपि महर्षयः प्राचेतससदृशाः तपस्तेनसाजृम्भकास्त्राणि लब्धुं शक्नुवम्तीति विभावयामीत्याह चन्द्रकेतुः। अथ सुमन्त्रः आह, वत्स सावभानो भव, वीरश्वैष समागच्छतीति। अथालोकनमात्रमेव कुमारावन्योऽन्यं प्रतिस्नेहप्रदर्शनं कर्त्तुमादेभाते; कथं हि अमुं दृष्टा हृदयं मे सपदि विगलितं भवति, कश्चिदविज्ञातः सम्बन्धः किमु एतस्मिन्नस्ति इत्यादिकं बहुधा समालोचयामास तु श्व। तदाकर्ण्य सुमन्त्र आह, जीवानामेष हि धर्म्मः, यतः कस्यचितक्वचित्याप्रीतिरन्योऽन्यमनुरागभरात्सहसैव सञ्जायते, परस्परनयनपातसमकालमेव तस्याः सम्पद्यमावत्वात्तारामैचकञ्चक्षूरागेवा इति सञ्ज्ञयानामुपचरन्तिलोकाः, ईदृशं हि प्रेमाणामहेतुकमेवामनन्ति च। यो हि ओतुकः आसक्तिविशेषः, तस्य कोऽपि निवर्त्तको न दृश्यत, यदसायुभयोरेवान्तर्मर्म्माणि स्यूत्वा किल तिष्ठतीति। अथ कुमारावपि परस्परमनुदध्यतुः, कथं हि सचिक्कणराजपट्टसन्निभे एतस्मिन्शरीरे शरान्विमोचयामीति; क्षणं निध्याय च, वीराचारवशान्निदारुणस्य मे स्नेहप्रवृत्तिः कुतः? श्स्त्रशिक्षायाः वा किं फलं लभे? यद्यनेन सह न युध्ये, रणपराङ्मुखं मामसौभयादेवविनिवृत्तं वासंस्यते इति बहुधा विकल्पयामासतुश्च।
सुमन्त्रस्तु तदा लवभवलोक्य सास्त्रं स्वगतमेवेत्थं बहुधा विललाप, हृदय कथं विविधं पर्य्यालोचयसि? नासौ रघुमणि तनयः, तस्य तु मूलं कारणं वैदेही दुर्दैववशादेवास्माकं विनष्टा। च्छिव्वायां हि लतायां किम्प्रसूनोत्पत्तिः सम्भवतीति। ततश्चन्द्रकेतुः सुमन्त्रमपृच्छत, आर्य्य रथादधुनाऽवतरामीति। कस्य हेतोरिति तु समन्त्रः तमाह। तदुत्तरे चन्द्रकेतुराह, बौरोऽयं पदातिः भूत्वैव युध्यते, पादचारिणा पदातिः सन्नेव युध्येतेति धर्म्मशास्त्रविदः आमनन्ति, तेनैवाहमवतरितुमिच्छामीति। सुमन्त्रस्तु तदाकर्ण्य, कथमहमेवं न्यायं कर्म्मकर्त्तुं प्रतिषेधामि, कथं वाऽमुना वीरेण सह पादचारिणां कुमारं योद्धुमुपदिशामीति मृशं व्यचिन्तयत्। आर्य्य दर्म्मार्थमशयिते वस्तुनि गुरवोऽपि समाधानाय सततं भवन्तमेवापृच्छन्, तत्कथं भवानिदानीं विमृशतीत्याह चन्द्रकेतुः। तदाकर्ण्य सुमन्त्र आह, आयुष्मन् यथा धर्म्ममेव भवानभिभाषते। एष हि साङ्ग्रामिकोन्यायः रघुसिंहास्तु इमामेव पद्वतिं चिरमनुपालयामामुरिति। चन्द्रकेतुरप्याह, भवन्त एव रघुशीयानां कुलस्थितिं धर्म्मशास्त्रमितिहासञ्च सम्यक्तयाजानन्तीति। सुमन्त्रस्तु तदा कुमारं सस्नेहास्रं परिष्वज्याह, अत्यल्पवयसोऽपि इन्द्रजिद्विजयिनः कुमारलक्ष्मणस्यापत्यं भवान्वीरवृत्तमनुसरति, दिष्ट्याराज्ञः दशरथस्य कुलं प्रतिष्ठामनधिगतवति सति,। अस्माभिरधन्यैः का हि नाम रघुवंशप्रधाने रामभद्रे प्रतिष्ठासनभिगतवति सति,। आस्माभिरधन्यैः का हि नाम रघुकुलस्य स्थितिः? ते न च त्रयः पितरः निरन्तरमेव दुःखयन्ते। तदाकर्ण्य सुमन्त्र आह, आहह हृदयमर्म्मविदारकाणि चन्द्रकेतोः वचनानि भवन्तीति।
लवस्तु तदा, कुमुदबान्धवे कुमुदिनीव मे दृष्टिः कथं हि एतस्मिन्नितरामाभरनति? कथं वा मदीयोऽयं सुमन्त्रं ससम्भ्रममाह, आर्य्य त्वामहमभिवन्दे इति। सुमन्त्रस्तु भगवान्वराहरुपीतश्रेयः विदधातु, भवद्गुरु इव भवान्सर्व्वं च विजये लक्ष्मीं लभतामित्याशौः प्रददौ। रथस्थ एव भवानतीव शोभते, अतः आत्यादरप्रदर्शनं माकृत इति लवेनोक्तः, तर्हि महामतिरपि रथमन्यमलङ्करोतु इति चन्द्रकेतुरभिदभे… तदा लवः सुमन्त्र माह, आर्य्य रथे राजपुत्रं समारोहयेति। त्वमपि कुमारवचनमनुपालयेति सुमन्त्रोऽपि लवमभिहितवान्। स्वं हि द्रव्यं यथेच्छमेवापमुज्यते जनैरिति स्वेषां रथानामारोहणे नास्ति दोषः यद्यपि वयं रथारोहणे सम्यगनभ्यस्ततया सपदि स्वीकर्त्तुमेतन्नाभिलषामः। तद्वचनं श्रुत्वा सुमन्त्र आह, दर्पसौजन्ययोः यथायथमभिधातुं भवान्जानाति , भगवान्रधुमणिः त्वामेवाविधं पश्येत् यदि, तदा तस्य दृदयं नूनद्रवीमूतं स्यादिति। तच्छ्रुत्वा लवं आह, स हि राजर्षिः अतीवसृजनः श्रूयते, वयमपि यज्ञविघातकाः न भवामः, गुणवन्तं तं राजानं वयं समाद्रियामहे एव, परन्तु तुरङ्गरक्षिणां निखिलराजन्याक्षेपसूचिकां सुदुःसहां प्रोद्धतां वाचमाकर्ण्यै वहिनिकृतिमधिगता इति। तदाकर्ण्य सविस्मयमाह चन्द्रकेतुः, गुरुजनानां प्रतापोत्कर्षमुपश्रुत्यापि भवन्तः किमुदुःखायमानमानसाः संवृत्ताः? इति। तत्र मेऽमर्षः अस्ति, नास्ति वेति तादृशप्रश्नस्य नायमवसरः, परन्त्वेतत्पृच्छामि यत्, स हि राजर्षिः तदीयाः प्रकृतयश्च अतीवदान्ता इति श्रूयते, तर्हि कथमेते मनुष्याः राक्षसीं वाचमभिदधति? यतो हि तादृशी वाक्सर्व्ववैराणां प्रसूतिः, अलक्ष्याश्च निदानम्; प्रियसत्यां हि वाचं सर्व्व एवाभिष्टुवन्ति, कौर्त्तिञ्चैषा जनयति, अलक्ष्मौञ्च हिनस्ति तेन हि इमां कामदुघेति मनीषिण आमवव्तीति लवोऽब्रवीत्। सुमन्त्रस्तु तदाकर्ण्याह, विशुद्धसंस्कारसम्पन्नवाचमयमुदोरयतीति।
अथ लवः ‘किन्नभवतस्तातप्रतापोत्कर्षेऽप्यमर्षः?‘इति प्रागुक्तस्य चन्द्रकेतो र्वचनस्य, क्षत्रधर्मा नहि व्यक्तिविशेषे पर्याप्ताः इति कृत्वाप्रत्युत्तरमभिदधे। तच्छ्रुत्वा सुमन्त्र आह, भवान्देवमैक्ष्वाकं नाभिजानाति, तेन चेत्थं तन्मर्य्यादाविघातकरं वचनमर्भिदधाति, अस्मत्सैनिकान्प्रमथ्यतु भवान्सत्यं स्वविक्रमं प्रदर्शितवान्परन्तु जामदग्न्यदमने भगवति रामभद्रे इत्थमभिधातुं कदापि नार्हतीति। तदाकर्ण्य लवः सहासमाह, असौ राजा जामदग्न्यदमन इति प्रशंसावादः वह्युच्चैः समुद्वीषयितव्यः, यतः द्विजातां वीर्य्यं वाचि एव सिद्धं, न बाहौ तत्र तु क्षत्रियाणामवसिव्यति, यद्यप्यसौ ब्राह्मणाः जामदग्न्यः शस्त्रग्राही आसीत्, तथाऽपि ब्राह्मं अत या प्रकृत्या दान्तस्य तस्य दमने का हि भवतां राज्ञः प्रशंसानामेति। तदाकर्ण्य चन्द्रकेतुः सव्यथं सुमन्त्रमाह, आर्य्य किमत्रोत्तरप्रत्युत्तरेण? सोऽयं भवति नवः वीरावतारः येन भगवान्भार्गवोऽपि वीरत्वेन न गण्यते, ये च तातपादाः सप्तभुवनायाभयदक्षिणां प्रददुः, तेऽपि न ज्ञायन्ते एवानेनेति। एतदाकर्ण्य लवः आह, रघुपतेः महिमानं को हि नाम न जानाति? वृद्धानां तेषां चरितमविचारस्वरेण सहसमरेत्रीणिपदानिपरावृत्यासीमं युद्धकौशलमसौव्यतानीत। वानरराजेन सह रणे तु सुतरामेवेति। तदाकर्ण्य चन्द्रकेतुराह, आः गुरुजनमर्य्यादाविलङ्गन इति। लवस्तु तदा प्रत्युवाच, अये मर्य्यव, कोपकषायितनेवो भवतीति। ततः उभावेव कुमारौ क्रोधेन कोकन दसच्छायनयनौ भ्रमङ्गृङ्गारविन्दायमानुमुखौ च भूत्वा युयुत्सया युद्धान्कूलाम्भूमि मधिशिश्रियतुरिति।
इत्यशेषशस्ताटवीसञ्चरणापञ्चाननकुलपतिकल्प‘वी, ए‘इत्युपनामक
श्रीमज्जीवानन्दविद्यासागरभट्टाचार्य्याविरचितायां, तदात्मनाभ्यां
श्रीमदाशुबोधविद्याभूषण-श्रीमान्नत्यबोधविद्यारत्नाभ्यां
परिवर्त्तित-परिवर्द्धितायांसुखबोधिनीसमा
ख्यायाम्उत्तररामचरितव्याख्यायां
पञ्चमोऽङ्कः॥५॥