०४ कौशल्याजनकयोगः

चतुर्थोऽङ्कः एकः। सौधातके दृश्यतामद्य भूयिष्ठसन्निधापितातिथिजनस्य समधिकारम्भरमणीयता भगवतो वाल्मीकेराश्रमपदस्य।

एक इति। -उपस्थितयोस्तापसयोरन्यतरः , आहेति शेषः। उपस्थितयोः प्रथमत एव नामापरिज्ञानात् एकप्रभृतिशब्देन उल्लेखः। सौधातके-एतत्तु सहागतस्य नामतः सम्बोधनम्, ( सुधातुरपत्यं पुमान् इति सौधातकिः, सुधातृशब्दात् अपत्यर्थे ‘सुधातुरकङ् च’ (४। १। ९७ पा०) इति अकङ्, चकारात् इञ् च )। भूयिष्ठत्यादि। -भूयिष्ठं-बाहुल्येन ( इदमेषामतिशयेन बहु इत्यर्थो बहुशब्दात् ‘अतिशयेन तमबिष्ठनौ ‘(५। ३। ४४ पा०) इति इष्ठन्, ततश्च ‘बहोर्लोपो भू च बहोः’ (६। ४। १५८ पा०) इति बहोर्भूरादेशः, ततश्च ‘इष्ठस्य यिट् च’ (६। ४। १५९ पा०) इति बहोः परस्य इष्ठस्य लोपः यिडागमश्च इति भूयिष्ठपदे सिद्धम् ) सन्निधापिताः निमन्त्रणेन जनरवेण च समुपस्थापिता अतिथिजना यस्मिन् तस्य तथोक्तस्य अनेकाभगतजनसनाथस्येत्यर्थः। भगवतः ,-ऐश्वर्य्यशालिनः, (एतेन वनवासी तपस्वी अपि वाल्मीकिः समागतातिथीनामातिथ्ये शक्तिमानित्यर्थो व्यज्यते )। आश्रमपदस्य-आश्रमस्थानस्य, तापसावासस्येत्यर्थः, ( ‘पदं शब्दे च वाक्ये च व्यवसायप्रदेशयोः। पादतच्चिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः’ इति मेदिनी )। समधिकारम्भरमणीयता-समधिकारम्भेण प्रचुरतररूपेण अतिथिसत्कारानुष्ठानेन अतिथिसेवार्थं बहुतरस्थान्सनपानभोजनपरिवेशनादिकार्य्यगौरवेणेत्यर्थः, रमणीयता चारुता, सुदृश्यत्वमित्यर्थः। दृश्यतां-साक्षात्क्रियताम्। तथाहि-तमेवार्थम् अवगच्छ।
तथाहि; (क)- नीवारीदनमण्डमुष्णमधुरं सद्यः प्रसूताप्रिया- पीतादभ्यधिकं तपोवनमृगः पर्याप्तमाचामति।
गन्धेन स्फुरता मनागनुसृतो भक्तस्य सर्पिष्मतः कर्कन्धूफलमिश्रणाकपचनामोदः परिस्तोयते॥ १॥

सामान्यतः यदेतद् आश्रमपदस्य आतिथ्यसम्पादनायोजनरामणीयकमुक्तं तदेव समर्थयमान आह, नीवारेति। -तपोवनमृगः आश्वमहरिणः एतेन तपोवने मुनिभिः सस्नेहं संवर्द्धिततया अतिविश्वस्त इति बहुलोकसमागमेऽपि निर्भीक इत्यर्थो व्यज्यते )सद्यःप्रसूतया अचिरमुक्तगर्भया प्रियया स्वपत्न्या पीताता ( समाने अह्नि इति सद्यः, पृषोदरादित्वात् साधुः। सद्यः प्रसूता इति सद्यःप्रसूता, ‘सह सुपा’ (२। १। ४ पा०) इति समासः। इह सद्योग्रहणं मृग्याः सातिशयतृष्णावत्त्वद्योतनार्थम्। प्रसूतेति कर्त्तरि क्तः। सा चासौ प्रिया चेति सद्यःप्रसूताप्रिया, तया पीतम् इति सद्यःप्रसूताप्रियापीतं तस्मात्। च्युतसंस्कृतिदोषदुष्टतया नायं पाठः समीचीनतया प्रतिभाति, ‘प्रसूताप्रिया’ इत्यंशे प्रसूताशब्दे प्रप्तस्य पुंवद्भावस्य अभावात्। न च ‘स्त्रियाः पुंवत्- ‘(६। ३। ३४ पा०) इत्यनेन पूरणीप्रियादिषु परेषु पुंवद्भावस्य प्रतिषेधात् कथमत्र पुंवद्भावप्राप्तिरिति वाच्यम्, अस्य सूत्रस्य बहुव्रीहिसमासविषयतया कर्मधारये ‘पुंवत्कर्मधारयजातीयदेशीयेषु’ (६। ३। ४२ पा०) इत्यनेन सामान्यतः प्राप्तस्य पुंवद्भावस्य कथमपि प्रतिषेद्धुमशक्यत्वात् ; अत एव केचनात्र ‘सद्यः प्रसूतप्रियापीतात्’ इति पाठान्तरं कल्पयन्ति इति सुधिया स्वधिया विभाव्यम् ) अभ्यविकम् अतिरिक्तं पीतावशिष्टमित्यर्थः, (एतेन तिर्य्यग्योनिरपि अयं मृगः स्वप्रियाप्रणयपरवशः स्वस्य बुभुक्षापिपासयाविद्यमानत्वेऽपि प्रेयस्यामात्यनुरगेण सद्यः प्रसूततया तस्याः पिपासायाः प्राबल्यं जानानः तामादौ आपरितोषं पाययित्वा, तद्भुक्तावशिष्टं पिबतीत्यर्थो व्यज्यते। ) उष्णं मधुरञ्च सुखाद्यमित्यर्थः, (उष्णञ्च मधुरञ्च इति उष्णमधुरं, नीललोहितादिवद्विशेषणसमासः। अचिरमुक्तगर्भाया हि उष्णद्रव्यपानम् आशु यन्त्रणोपशमकमिति उष्णत्वोक्तिः प्रकृतोपयोगितामापद्यते ) नीवारोदनमण्डं तृणधान्यान्नमण्डं, पर्य्याप्तं यथेष्टं यथा आचामति पिबति; (आङ्पूर्वात् चमतेर्लटि आचामति इति सिद्धम् ‘आङि चमः इति वक्तव्यम्’ (वा०) इति दीर्घः, अन्यत्र चमति विचमति इत्यादि। अत्र मण्डस्य पर्य्याप्तपानकथन्न आश्रमे अमितातिथिजनभोजनोपयोगिप्रचुरान्नाद्यायोजनं, तथा प्रियापीतावशिष्टे मण्डे प्रियोच्छिष्टतया अस्य समयिकसमादरश्च ध्वन्यते इति बोध्यम् ) मण्डस्य बहुलत्वात् सद्यःप्रसूताऽपि मृगी न समस्तं मण्डं पाक्तुं शशाक, अवशिष्टेन मृगस्यापि पर्य्याप्त आहारोऽभूदित्यर्थः। किञ्च सर्पिष्मतः सघृतस्यम् घृतपक्वस्येत्यर्थः, भक्तस्य अन्नस्य ( ‘पोलाओ’ इति भाषा) स्फुरता उद्गच्छता गन्धेन सौरभेण मनाक् ईषत्, ( ‘मनागत्यल्पमन्दयोः’ इति मेदिनी) अनुसृतः अनुगतः मिश्रितः इत्यर्थः, कर्कन्धाः कोल्याः फलैः मिश्रणां शाकानां वास्तूकादीनां पचनादुत्थित आमोदः घृतपक्वभक्तामोदसहितः कोलिफलासम्मिश्रशाकपाकादम्लगन्धविशेष इत्यर्थः, परिस्तीर्यते सर्वतो व्याप्नोति। ( परिस्तीर्य्यते इति कर्म्मकर्तरि प्रयोगः ; यद्वा-कर्म्माणि एवायं प्रयोगः, वायुना इति कर्त्तृपदम् एतत्कल्पे ऊहनीयम्। अत्र स्वभावोक्तिरलङ्कारः, तथा च दर्पणः,- ‘स्वभावोक्तिर्दुरुहार्थस्वक्रियारुषवर्णनम्’ इति )। शार्दूलविक्रीडितं वृत्तम्॥१॥

सौघातकिः। आअदं अणज्झाअकारणं सबिसेसबूदं अज्ज जिणकुज्जाणम्। ( ख ) प्रथमः। ( विहस्य ) अपूर्वः कोऽपि ते बहुमानहेतुर्गुरुषु सौघातके ( ग ) आगतमनध्यायकारणं सविशेषभूतमद्य जीर्णकूर्चानाम्।
(ख) जीर्णाकूर्चानां-जीर्णं वार्द्धकेन शुक्लीभूतं कूर्चं श्मश्रु येषां तेषां पक्वश्मश्रूणामतिवृद्धानामित्यर्थः। यद्वा-जीर्णं शिथिलं कूर्चं भूद्वयान्तर्वर्तिस्थानं येषां तेषां, वार्द्धके हि भ्रुवोर्मध्यदेशः श्लथीभवति इति सिद्धम्। ( ‘कूर्चमस्त्री भ्रुवोर्मध्ये कठिनश्मश्रुकैतवे’ इति मेदिनी)। आगतम्-आगमनम्, उषस्थितिरिति यावत्। सविशेषभूतं-विशेषरूपम्, केनापि उपायेन उपेक्षितुमशक्यमित्यर्थः। ( विशेषेण सह वर्तमानं सविशेषं, ततश्च सविशेषं भूतम् इति सविशेषभूतं ‘सह सुपा’ (२। १। ४ पा०) इति समासः द्वितीयातत्पुरुषो वा। वसिष्ठादेः शिष्टत्वस्य असन्दिग्धतया अध्ययननिषेधः, साधारणातिथेस्तु न तथेति सविशेषपदतात्पर्यम्)। अनध्यायकारणम्-अनध्यायस्य स्वाध्यायाभावस्य कारणं, शिष्टसमागमरूप इत्यर्थः। - ‘अनध्यायं प्रकुर्वीत शिष्टे च गृहमागते’ इति वचनात् शिष्टसमादरानध्यायः शास्त्रसम्मत एव इति बोध्यम्। सोपहासवचनमिदम्।
(ग) विहस्य-विकृतहास्यं विशेषहास्यं वा कृत्वा, ग्राम्यस्य कूर्चशब्दस्य तादृससर्वजनमान्येषु वसिष्ठादिषु प्रयुक्तत्वादस्य विकृतहास्यं विशेषहास्यं वा ज्ञेयम्। गुरुषु-पूज्येषु, अभ्यागतेषु -वसिष्ठादिषु, अभ्यागतस्य गुरुत्वे प्रमाणं यथा, ‘गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः। पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः॥ ‘इति। अपूर्वः,-अभिनवः। कोऽपि-असाधारणः इत्यर्थः। बहुमानहेतुः,-बहुमानस्य विशिष्टगौरवस्य हेतुः कारणं, वर्तते इति शेषः ; विशिष्टगौरवपात्रेषु एतेषु तव सम्मानप्रदर्शनमेव उचितं, त्वया तु पात्रापात्रे अविविच्यैव पूज्येष्वप्येतेषु परिहासव्यञ्जकः शब्दः प्रयुक्त इत्ययुक्तमेवाचरितमिति भावः। यद्वा सौधातकिं प्रति प्रथमतापसस्य इयं सोल्लुण्ठनोक्तिरिति ध्येयम्।
सौघातकिः। भो भाण्डायण किण्णामधेयो एसो महन्तस्म त्थबिरसत्थ्यस्म धुरन्धरो अज्ज चीरधारओ अदिधी आअदो ? ( घ ) भाण्डायनः। धिक् प्रहसनम्। नन्वयमृष्यश्रङ्गाश्रमात् अरुन्धतीपुरस्कृतान् महाराजदशरथस्य दारानधिष्ठाय भगवान् वसिष्ठः प्राप्तः; तत् किमेवं प्रलपसि ? ( ड ) भो भाण्डायन किन्नामधेय एषः महतः स्थविरसार्थस्य धुरन्धरोऽद्य चीरधारकोऽतिथिरागतः ? (घ) भाण्डायन -इदन्तु प्रथमतापसस्य नाम्ना सम्भोधनम् ( भण्डस्य महर्षेर्युवाऽपत्त्यमिति भाण्डायनः, भण्डशब्दात् ‘गार्ग्यादिभ्यो यञ्’ (४। १। १०५ पा०) इति यञ्, ततः ‘यञिञोश्च’ (४। १। १०१ पा०) इति फक् )। स्थविर सार्थस्य-वृद्धसमूहस्य, धुरन्धरः,-श्रेष्ठः ( धुरं धरति इति धुरन्धरः, धुर् शब्दात् धरतेः खच् प्रत्ययेन निपातनात् सिद्धम् )। चीरधारकः,-जीर्णवसनधारीत्यर्थः। किं नाम धेयः,-किं नामधेयम् आख्या यस्य सः, किमाख्य इति यावत्। स्थविरधुरन्धर इति हास्यकरः प्रयोगः।
(ङ) प्रहसनं-गुरुजनानिति उपहासम्-असम्मानसूचकवाक्यप्रयोगम् इत्यर्थः। धिक्-निन्दायाम्, एवं परिहासः शिष्टविगर्हिततया सर्व्वथैव अयुक्त इत्यर्थः, ( प्रहसनमित्यत्र धिक् शब्दयोगे द्वितीया )। ‘स्थविरसार्थस्य धुरन्धरः’ इति ‘चीरधारकः’ इति च प्रयोगः परिहासव्यञ्जकः। नन्विति सम्बोधने अरुन्धती पुरस्कृता-अरुन्धत्या तन्नाम वसिष्ठपत्न्या पुरस्कृताः, यद्वा-अरुन्धती पुरस्कृता अग्रेसरी येषां तान् तथोक्तान्। दारान्-भार्यां, कौशल्यामित्यर्थः। अधिष्ठाय-तेषां नायको भूत्वेत्यर्थः। प्राप्तः,-समागतः, अतिथिः सन्नुपस्थित इत्यर्थः। तत्-तस्मात्। किं-कथम्। एवम्-उक्तरूपेण। प्रलपसि-निरर्थकं कथयसि , उपहससीत्यर्थः, नैतद् युज्यते इति भावः।
‘तेन परापतितेनैव सा वराकिका कल्याणिका मडमडायिता।
सौघा। हुं बसिट्ठो। ( च भाण्डा। अथ किम् ? ( छ ) (च) हुमिति प्रश्ने ( ‘हुं वितर्के परिप्रश्ने’ इत्यमरः)।
(छ) अथ किम् ? ( सम्मतिसूचकपदमिदम् अव्ययम् ‘और् क्या?’ इति हिन्दी भाषा ) अयं वसिष्ठ एवेत्यर्थः।
सौघा। मए उण जाणिदं ; बग्धो बा बिओ ब एसोत्ति ’ ( ज ) भाण्डा। आः किमुक्तं भवति ? ( झ ) सौघा। तेण पराबडिदेण ज्जेब सा बराइआ कल्लाणिआ मडमडाइआ। ‘( ञ ) हुं वसिष्ठः’ मया पुनर्ज्ञातं व्याघ्रो वा वृको वा एष इति।
(ज) पुनः,-किन्तु। ज्ञातम्-विदितम्। किं ज्ञातव्यमित्याह, एष इति। एषः,-जीर्णकूर्चादिमान् समागतः,-अभ्यागतः। व्याघ्रः,-द्वीपी। वृकः,-कुक्कुराकारव्याघ्रभेदः। वाकारद्वयं वितर्के , (वा स्याद् विकल्पोपमयोर्वितर्कपादपूरणे’ इति मेदिनी ‘कोकस्त्वीहामृगो वृकः’ इत्यमरः ) व्याघ्रवृकादिवद् बहुरोमपूर्णसर्वशरीरत्वात् अस्य तत्त्वेन वितर्कः। सोपहासोक्तिरियम्।
(झ) आः इति-सविरक्ति क्रोधव्यञ्जकमव्ययम् ( ‘आ प्रगृह्यं स्मृतौ वाक्येऽप्यास्तु स्यात् कोपपीडयोः’ इत्यमरः )। उक्तं-कथितं, त्वयेति शेषः, किमेतत् अयुक्तं भणसीति समुदितार्थः ; महान् दोषावहस्ते अनुचित वाक् प्रयोग इति भावः। यद्वा-श्रेष्ठ-ज्येष्ठञ्च वसिष्ठमेवमुपहससि इत्ययुक्तमेव।
(ञ) परापतितेनैव-आगतमात्रेणैव व्याघ्रादिवदित्यर्थः। सा-अस्मात् परिचिता। वराकिका-दीना, स्वयमात्मत्राणसामर्थ्यत्वेन शोच्येत्यर्थः। कल्याणिका-वत्सतरी ( ‘कल्लोडिका’ इति पाठे स एवार्थः)। मडमडायिता-मडमडेति शब्देन चर्वयित्वा भक्षिता। मडमडेति अस्थिचर्वणकालीनोऽव्यक्तानुकरण शब्दः। ( ताद्रुशाच्च अनुकरणशब्दात् ‘अव्यक्तानुकरणाद् द्व्याजवरार्द्धादनितौ डाच्’ (५। ४। ५७ पा०) इति डाच्, ततश्च मडमडा करोति इत्यर्थे ‘लोहितादिडाज्भ्यः क्यष्’ (३। १। १३ पा०) इति क्यषि मडमडाय इति नामधातोः कर्मणि क्तः, स्त्रियां मडमडायिता )। व्याघ्रादिर्यथा सहसा अगत्यैव इयं किञ्चिदाहत्य अस्थ्नां चर्वणे आत्मानं नियोजयति। तथा अयमपि इति ; तत् कथं न भणामि ‘व्याघ्रो व वृको वा’ इत्यादि इति भावः।
भाण्डा। समांसो मधुपर्क इति आम्नायं बहुमन्यमानाः श्रोत्रियायाऽभ्यागताय वत्सतरीं महोक्षं वा महाजं वा निर्वपन्ति गृहमेधिनः ; तं हि धर्मसूत्रकाराः समामनन्ति। ( ट ) (ट) ‘समांसो मधुपर्कः’ इत्याख्यायमाणमुपन्यस्य वसिष्ठस्य वत्सतरीमांसभक्षणे प्रत्यवायं निरस्यन्नाह, समांस इति। -मांसेन सह वर्तमानः इति समांसः, पलसहित इत्यर्थः। मधुपर्कः,- अतिथ्यादिपूजपचारभेदः, (मधुना पृच्यतेऽसौ इति मधुपर्कः,-मधु ’ पृच् ’ घञ् )। मधुपर्कमाह कालिकापुराणं,-दधि सर्पिः जलं क्षौद्रं सितैताभिस्तु पञ्चभिः। प्रोच्यते मधुपर्कस्तु सर्वदेवौघतुष्टये॥ ‘इति। इति-एवम्, उक्तरूपानुपूर्विकमित्यर्थः। आम्नायं-वेदवचनम् (आम्नायते अभ्यस्यते इत्याम्नायः वेदः। आङ्पूर्वात् म्नाधातोः घञ् प्रत्ययः)। बहुमन्यमानाः,-असन्दिग्धप्रमाणत्वेन आद्रियमाणाः गृहमेधिनः,- गृहैर्दारैर्मेधन्ते सङ्गच्छन्ते इति गृहमेधिनः गृहश्रमस्थाः। अभ्यागताय-गृहागताय अतिथये इत्यर्थः। श्रित्रियाय अधीतवेदाय ब्राह्मणाय, ( छन्दोऽधीत इति छप्रत्ययेन श्रोत्रियः सिद्धः ) श्रोत्रियलक्षणमाह देवलः,- ‘एकां शाखां सकल्पां वा षडि्भरङ्गैरधीत्य वा। षट् कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित्॥ ‘इति। तथा च शाङ्करभाष्यम्- ‘जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते। विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते॥ ‘इति। वत्सतरीम्-अल्पवयस्कां गोवत्सां, द्विहायनीमित्यर्थः। ( वत्सशब्दात् अतिबाल्यार्थे ‘वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे’ (५। ३। ९१ पा०) इत् तरप्, ततश्च स्त्रियां ङीष् ) महीक्षं-महावृषभं, ( महांश्चासौ उक्षा चेति विग्रहे ‘अचतुर विचतुर- ‘(५। ४। ७७ पा०) इति अच् प्रत्ययान्तो निपातः )। महाजं-वृहच्छागम्। निर्वपन्ति-भोजनार्थं ददति, घ्नन्ति इत्यर्थः। ननु ‘समांसो मधुपर्कः’ इति श्रुतेः देवोद्देशकमधुपर्कपरतया श्रोत्रियाय तदर्पणं न युज्यते इत्याह, तमिति। तं-श्रोत्रियब्राह्मणोद्देश्यक वत्सतरी

महोक्षमहाजनानाम् अन्यतमनिर्वापरूपमित्यर्थः। धर्मसूत्रकाराः,-धर्मशिक्षार्थं विधिनिषेधात्मकोपदेशसूत्ररचयितारः, धर्मशास्त्रप्रणेतारः मन्वादयः इत्यर्थः। समामनन्ति-समुपदिशन्ति। हि शब्दो निश्चयवाचकः। तदनुसारेणैव अद्य परमश्रोत्रियाय वसिष्ठाय कल्याणिका दत्तेति भावः।
सौघा। भो णिग्गिहीदोसि। ( ठ ) भाण्डा। कथमिह ? सौघा। जेण आओसु बसिष्ठमिस्सेसु बच्छदरी बिससिदा ; अज्ज ज्जेब पच्चागदस्म राएसिणो जणअस्म भअबदा बम्मीएण बि दहिमहुहिं ज्जेब णिब्बत्तिदो महुबक्को ; बच्छदरी उण बिसज्जिदा। ’ ( ड ) भो निगृहितोऽसि ।
’ येन आगतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता ; अद्य एव पर्यागतस्य राजर्षिर्जनकस्य भगवता वाल्मिकीनाऽपि दधिमधुभिरेव निर्वर्तितः मधुपर्कः ; वत्सतरी पुनः विसर्जिता।
(ठ) निगृहीतः,-पराभूतः, स्वपक्षसमर्थनेऽसमर्थत्वात्, मयेति शेषः अनेन सौधातकिः भाण्डायनस्य ज्ञानवत्वमुपहसति। मधुपर्कस्य जीवहिंसासमेतस्य शास्त्रार्थत्वे सर्वत्रैव तदनुष्ठानं स्यात्, तत्तु न भवतीति त्वम् अनर्थकं कथयसीति भावः।
(ड) मधुपर्कानुरोधेन जीवहिंसा न शास्त्रार्थः, तच्च तस्याः नियतत्त्वे औव वाल्मीकिना जनकाय दत्ते मधुपर्केऽपि वत्सतरी दत्ता स्यादिति युक्त्या भाण्डायनोक्तेः अयौक्तिकत्वं द्रढयति, येनेति। -येन-हेतुना। वसिष्ठमिश्रेषु-महामान्येषु वसिष्ठषु ( गौरवे बहुत्वम्, अत्र मिश्रशब्दः पूज्यत्वबोधकः ) आगतेषु-अभ्यागतरूपेण उपस्थितेषु सत्सु। वत्सतरी-द्विहायनी गौरित्यर्थः। विशसिता-मारिता, (व्यापादनार्थकात् विपूर्वात् शसतेः कर्मणि क्तः, स्त्रियां टाप्, (एवकारेण दिनान्तरव्यवच्छेदः, तेन च सद्यःसंवृत्ततया न विस्मृतिसम्भावनेत्याशयो द्योत्यते )। पर्यागतस्य-समुपस्थितस्य। राजर्षेः, राज्यस्वामिनः तपस्विनः, अभ्यर्थनाथमिति शेषः, ( एतेन विशेषणेन तदुद्देश्यकमधुपर्के नाङ्गहानिसम्भवः इति व्यज्यते )। वाल्मिकिनाऽपि-सर्वशास्त्रज्ञेन महर्षिणा प्राचेतसेनापि इत्यर्थः। अत्र शास्त्रज्ञानविरहितस्य तु अज्ञतया कदाचित् प्रमादसम्भवेऽपि साङ्गवेदविद्यापारदर्शिनो वाल्मीकेस्तु सर्वथा तदसम्भवः इत्यपिकारार्थः। दधिमधुभिरेव-विक्ततदुग्ध क्षौद्रप्रभृतिभिरेवेत्यर्थः, एवकारेण वत्सतरोव्यवच्छेदः। निर्वर्तितः-सम्पदितः। पुनः,-किन्तु। विसर्जिता -परित्याजिता, न तु मधुपर्कघटकपदार्थपूरणाय आलब्धेत्यर्थः। अत्रायं भावः,- ‘समांसो मधुपर्कः’ इति श्रुतेर्यदि अभ्यागतसाधारणमधुपर्कपरता स्यात्, स्यादपि वाल्मीकेर्जनकोद्देश्यकमधुपर्के वत्सतरीविशसनम्, अतः श्रुते देवोद्देश्यकमधुपर्कपरतैव सामान्यतो मधुपर्कस्य दधिघृतमधुशर्कराम्बुविहितत्वात्। उक्तञ्च,- ‘दधि सर्पिर्जलं क्षौद्रं सिता वैतैश्च पञ्चभिः। प्रोच्यते मधुपर्कस्तु क्वचिदन्यविधोऽपि च॥ ‘इति॥

भाण्डा। अनिवृत्तमांसानामेव कल्पमृषयो मन्यन्ते ; निवृत्तमांसस्तु तत्र भवान् जनकः। ( ढ ) (ढ) भाण्डायनः सौधातकि शास्त्रस्य प्रकृतार्थनिर्णये भ्रान्तमालोक्य सम्प्रति मधुपर्को समांसत्वामांसत्वयोरधिकारिभेदेन व्यवस्थां प्रदर्श्य तस्य भ्रमनिरासपुरःसरं स्वमतमेव द्रढयति, अनिवृत्तेति। -ऋषयः,-धर्मशास्त्रप्रणेतारः मुनयः। अनिवृत्तमांसानाम्-अपरित्यक्तमांसभजनानां, मांसभक्षणशीलानामित्यर्थः, ( निवृत्तं मांसं येषां ते निवृत्तमांसाः, न निवृत्तमांसाः इति अनिवृत्तमांसाः तेषामिति विग्रहः। अत्र मांसपदेन लक्षणया मांसभोजनं बोध्यते)। एवं- ‘समांसो मधुपर्कः’ इति श्रुतिसिद्धं मधुपर्के मांसदानरूपम्। कल्पं-विधम्। मन्यते-स्मरन्ति। नन्वेवञ्चेत् कथं तर्हि वेदविदामग्रेसरेणापि वाल्मीकिना तन्नानुसृतमित्याह, निवृत्तेति। -तु किन्तु। तत्रभवान्-पूज्यः, ( ‘त्रिषु तत्रभवान् पूज्यस्तथैवात्रभवानपि’ इति वैजयन्ती )। जनकः, -तन्नामा राजर्षिः। निवृत्तमांसः,-मांसभक्षणात् विरतः, अत एव तस्मिन् आगते विसर्ज्जिता, अनिवृत्तमांसे पुनर्वसिष्ठे उपस्थिते प्रथमकल्पभूता वत्सतरी दत्तेति भावः। नन्वेवं मधुपर्के मांसदानस्य अनिवृत्तमांसस्थले शास्त्रीयत्वेन दातुः तथा कर्तव्यत्वेऽपि पलितकेशस्य वर्षीयसो वसिष्ठस्य तद्भोजनन्तु अयुक्तमेवेति चेन्न, मधुपर्के प्रदत्तमांसस्य अभोजने प्रत्यवायश्रवणात् वसिष्ठेन तन्नापेक्षितम् ; तथाच मनुः,-नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः। स प्रेत्य पशुतां याति सम्भवानेकविंशतिम्॥

‘न मांसभक्षणे दोषो न मद्ये न च मैथुने।
प्रवृत्तेरेषा भूतानां निवृत्तिस्तु महाफला॥ ‘ इति। न चैवं सति रजर्षे जनकस्य प्रत्यवायभागित्वमिति शङ्कां, तस्य वैखानसव्रतावलम्बित्वेन निरामिषाशित्वात्, तथा च यमः, ‘भक्षयेत् प्रोक्षितं मांसं सकृद्ब्राह्मणकाम्यया। दैवे नियुक्तः श्राद्धे वा नियमे च विवर्जयेत्॥ ‘इति सर्वे सुधीभिर्वभाव्यम्।
सौघा। किं णिमित्तं ? ( ण ) भाण्डा। स तदैव देव्याः सीतायाः तादृशं दैवदुर्विपाकमुपश्रुत्य वैखानसः संवृत्तः ; तथास्य कतिपये संवत्सरास्चन्द्रद्वीपवने तपस्तप्यमानस्य। ( त ) किं निमित्तम् ? (ण) किं निमित्तं-किं कारणम् ? जनकस्य निवृत्तमांसत्त्वे को हेतुरित्यर्थः।
(त) सौधातकिना पृष्टो भाण्डायनः जनकस्य मांसनिवृत्तौ हेतुमाह, स इति। -सः,-जनकः। तदैव-सीतायाः निर्वासनवार्ताश्रवणाव्यवहितोत्तरमेव। तादृशं-तथाविधम् अतिभीषणमित्यर्थः। दैवदुर्विपाकं-दैवं पूर्वजन्मार्जितं कर्म, ‘पूर्वजन्मार्जितं कर्म तद्देवमिति कथ्यते’ तथा,- ‘प्राग्जन्मनि कृतं कर्म शुभं वा यदि वाऽशुभम्। दैवशब्देन निर्दिष्टमिह जन्मनि तद् बुधैः॥ ‘इति। पूर्वजन्म च वर्तमानजन्मकालस्य प्राक्काल इति बोध्यम्। शरीरस्य प्रतिक्षणध्वंसित्वात् प्राग्वर्तिशरीरस्य च परकालेऽनवस्थानात् कर्म च अपरशरीरकृतमपीति बोध्यम्। तस्य दुर्विपाकः दुष्टः परिणामः कुफलमिति यावत् ( विपच्यते इति विपाकः, विपूर्वात् पचतेः भावे घञ् ) तं दुर्भाग्यदुर्विलसितमिदमित्यर्थः। वैखानसः,-वानप्रस्थः ( विशेषेण खनति विदारयति धर्मार्थम् आत्मानं क्लेशयति इति वैखानसः। वि’ खन’ डः अन-असुन् कर्म० स्वार्थे अण् ) वानप्रस्थाश्रममाह याज्ञवल्क्यः,-वानप्रस्थाश्रमं वक्ष्ये तत् शृण्वन्तु महर्षयः। पुत्रेषु भार्या निक्षिप्य वनं गच्छेत् सहैव वा॥ ‘इत्यादि। वानप्रस्थस्य धर्मो यथा गारुडे एकोनपञ्चाशत्तमेऽध्याये ‘भूस्था मूलफलाशित्वं स्वाध्यायस्तप एव च। सविभागो यथान्यायं धर्मोऽयं वनवासिनः॥ ‘इत्यादि। तस्य च मांसवर्ज्जनमाह कूर्मपुराणं-पुरोडाशं चरुञ्चैव विधिवन्निर्वपेत् पृथक्। देवताभ्यश्च तद्ध्त्वा वन्यं मेध्यतरं हविः॥ शेषं समुपभुञ्जीत लवणश्च स्वयं कृतम्। वर्जयेन्मधुमांसादि भौमानि कवकानि च॥ ‘इत्यादि। संवृत्तः,-जातः, गृहस्थधर्मं परिहाय वनवासी सन् वृक्षमूलमाश्रितः इत्यर्थः। तथा-एवंविधावस्थयावानप्रस्थरूपेणेत्यर्थः। अस्य-जनकस्य। कतिपये-कियन्तः ( कतिपयशब्दस्य ‘प्रथमचरमतयाल्पार्द्ध- ‘(१। १। ३३ पा०) इति सर्वनामत्वे जसः श्यादेशः )। संवत्सराः,- शब्दाः, अतीता इति शेषः। चन्द्रद्वीपतपोवने-चन्द्रद्दीपस्य तदाख्यस्य कस्यचित् स्थानस्य तपोवने आश्रमे। तपस्तप्यमानस्य-तपस्यामनुतिष्ठतः, (अत्र ‘तपःस्तपःकर्मकस्यैव’ (३। १। ८८ पा०) इत्यनेन तप् धातोरात्मनेपदम् यक् च )।
सैघा। तदो किं त्ति आअदो ? ( थ ) भाण्डा। चिरन्तनप्रियसुहृदं प्राचेतसं द्रष्टुम्। ( द ) सौघा। अबि अज्ज सम्बन्धिणीहिं समं सम्बुत्तं से दसणं णबत्ति। ’ ( ध ) भाण्डा। सम्प्रत्येव भगवता वसिष्ठेन देव्याः कौशल्यायाः सकाशं भगवती अरुन्धती प्रहिता ; यत् स्वयमुपेत्य वैदेहो द्रष्टव्य इति। ( न ) ततः किमिति आगतः।
अपि अद्य सम्बन्धिनीभिः समं संवृत्तमस्य दर्शनं न वेति।
(थ) ततः,-तस्मात् चन्द्रद्वीपतपोवनादित्यर्थः। किमिति-कथम्। आगतः,-इहोपस्थितः।
(द) चिरन्तनेति। -चिरन्तनः,-चिरकालीनः, प्रियसुहृत्-प्रेमास्पदमिव, तं-प्राचीनबन्धुमित्यर्थः, (अत्र चिरं भवः इत्यर्थे चिरमित्यव्ययात् ‘सायञ्चिरं प्राह्णे प्रगे- ‘(४। ३। २३ पा०) इति ट्युल्, तुट् च )। प्राचेतसं-वाल्मीकिम्। ट्रष्टुं-साक्षात्कर्तुं, पुर्वोक्तसौधातकिवाक्यस्थेन ‘आगतः’ इत्यनेन अन्वयः।
(ध) अत्र अपि शब्दः प्रश्नार्थकः। सम्बन्धिनीभिः,-कुटुम्बिनीभिः कौशल्या प्रभृतिभिः। समं-सह, ( ‘साकं सार्धं समं सह’ इत्यमरः)। अस्य-जनकस्य। दर्शनं-साक्षात्कारः। संवृत्तं-सञ्जातम्, (अत्र- ‘अद्य सम्बन्धिनीभिः समम् अस्य दर्शनं संवृत्तं न वेति अपि ज्ञायते?’ इत्येवमन्वयः कार्यः, अन्यथा नवेत्यत्र विकल्पबोधकं वा शब्देनैव जिज्ञासाया अपि अर्थत एव बोधनात् अपेर्निरर्थकत्वापत्तिः स्यद् इति ध्येयम् )।
(न) प्रहिता-प्रेरिता। वक्ष्यमाणसंवादं वक्तुमिति शेषः। किमर्थमित्याह, यदिति। स्वयम्-आत्मना, न तु प्रत्तिनिधिनेत्यर्थः। स्वयमनुपस्थितौ वैवाहिके समादरशैथिल्यप्रकाशः सम्भवेदिति भावः। उपेत्य-उपस्थाय। वैदेहः,-विदेहाधिपतिर्जनकः, ( विदेहस्य ईश्वरः इति वैदेहः ‘तस्येश्वरः’ (५। १। ४२ पा०) इति विदेहशब्दात् अण् )। द्रष्टव्यः,-साक्षात्कर्तव्यः ; तथा च इदानीमपि कुटुम्बिनीभिः समं साक्षात्कारो नाभूत्, कौशल्यायाः तत्रानुपस्थितत्वादिति तात्पर्यम्।
सौघा। जघा एदे त्थबिरा परप्परं मिलिदा ; तधा अन्हे बि बटुएहि समं मिलिअ अणज्झाअमहसबं खेलन्ता सम्भाबेम्ह। ( प ) ( इति परिक्रामतः ) भाण्डा। तदयं ब्रह्मवादी पुराणरजर्षिर्जनकः प्राचेतसवसिष्ठावुपास्य सम्प्रति आश्रमबहिर्वृक्षमूलमधितिष्ठति ; य एषः ( फ ) यथा एते स्थविराः परस्परमिलिताः तथा आवामपि वटुभिस्समं मिलित्वा अनध्यायमहोत्सवं खेलन्तौ सम्भावयावः।
(प) स्थविराः,-वृद्धाः। परस्परमिलिताः,-अन्योन्यमेकत्र समवेताः। आवां-सौधातकि-भाण्डयनौ। वटभिः,-अल्पवयस्कैः ब्राह्मणैः। खेलन्तौ-क्रीडन्तौ, खेलनेत्यर्थः, ( ‘लक्षणहेत्वोः क्रियायाः’ (३। २। १२६ पा०) इति क्रियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृ-शानच-विधानात् अत्र खेलतेः हेत्वर्थे शतृप्रत्ययः) अनध्यायमहोत्सवं-पाठविघ्नरूपमानन्दजनकव्यापारम्। सम्भावयावः,-सम्भानयावः, क्रीडया उपभुञ्जावहे इत्यर्थः।
(फ) तत्-तस्मात्, कौशल्यया सममिदानीमपि साक्षात्काराभावादित्यर्थः। अयं-पुरतः परिद्रुश्यमानः। ब्रह्मवादी-वेदोपदेष्टा, अधीतवेदवेदान्त इत्यर्थः, (ब्रह्म वदितुं शीलमस्य इति ब्रह्मशब्दपूर्वात् वदतेः शीलार्थे णिन् प्रत्ययः ) प्राचेतसवसिष्ठौ-वाल्मीकिवसिष्ठौ। उपास्य-आराध्य, दर्शनसंलापादिकं कृत्वेत्यर्थः। वृक्षमूलम्-आश्रमतरोरधोदेशम् ( वृक्षमूलमिति ‘अधिशीङ्स्थासां कर्म’ (१। ४। ४६ पा०) इत्यधितिष्ठतेरधिकरणस्य कर्मत्वम् )। य एष इति अव्यवहितेन श्लोकस्थेन ‘तप्यतेइति क्रियापदेनान्वयः।
हृदि नित्यानुषक्तेन सीताशोकेन तप्यते।
अन्तःप्रसृप्तदहनो ज्वलन्निव वनस्पतिः॥ २॥

( निष्क्रान्तौ ) इति विष्कम्भकः। ( ब ) प्राणेभ्योऽपि प्रियतमायाः दुहितुः सीतायाः सापवादपरित्यागेन अन्तर्निखातशल्यं विदेहनाथं तरुतलासौनमालोक्य भाण्डायनः तस्य तदानीन्तनीमवस्थां वर्णयन्नाहम् हृदीति। -हृदि अन्तःकरणे नित्यानुषक्तेन सततावस्थितेन सीताशोकेन सीतावियोगदुःखेन, अन्तर्मध्ये प्रसृतः उद्वेल्लितः, ( प्रसुप्त इति पाठे-निहितः, प्रदीप्त इति पाठे तु-प्रज्बालितः इत्यर्थः ) दहनो वह्निर्यस्य सः ( सीताशोक दहन इवेति ध्वनिः) तथाभूतः अभ्यन्तरलीनपावक इत्यर्थः, ज्वलन् ज्वलिष्यमाणः इत्यर्थः, वनस्पतिः शमीवृक्ष इव तप्यते तापमनुभवति, जनक इति शेषः। ( अत्र-उपमानामालङ्कारः, सा च-इवशब्दवाच्यतया श्रौती। एवं वनस्पतिसाधारण्ये अन्तर्लीनपावकत्वस्य असम्भवतया सामान्यशब्दस्य विशेषपरतानियममङ्गीकृत्यैव शमीरूपवनस्पतिविशेषबोधनेऽपि वक्तुमुचितस्य शमीरूपस्य वनस्पतेर्विशेषतोऽकथनात् विशेषेऽविशेषरूपो दोषश्चिन्त्यः )। पथ्यावक्वं वृत्तम्॥२॥

(ब) विष्कम्भकस्य लक्षणादिकन्तु पूर्वमुक्तम् ; सम्प्रति शुद्ध-सङ्कीर्णभेदेन भिन्नयोस्तयोः कतरोऽयमिति विचार्यते ; तथाहि- ‘मध्येन मध्यमाभ्यां वा पात्राभ्यां सम्प्रयोजितः। शुद्धः स्यात् स तु सङ्कीर्णो नीचमध्यमकल्पितः॥ ‘इति दर्पणवचनात् भाण्डायन सौधातकि रूपाभ्यां नीचमध्यमपात्राभ्यां सम्प्रयोजिततया अयं सङ्कीर्णरूप एव भेदेऽन्तर्भवति। न चैतयोरुभयोरेव मुनिशिष्यतया मध्यमपात्रत्वमिति तादृशाभ्यां ताभ्यां सम्प्रयोजितस्यास्य शुद्धताया एव उचितत्वात् कथं सङ्कीर्णरूपत्वमिति वाच्यम्, एतयोरेकस्य सौधातकेर्मध्यमपात्रत्वाभावेन तथात्वात्। अथ किं नाम नीचत्वं मध्यमत्वयोर्निकृष्टलक्षणमिति चेत् शृणु, संस्कृतभाषाभाषित्वमेव मध्यमत्वं, प्राकृतादिभाषाभाषित्वञ्च नीचत्वमिति ब्रूमः, तथा च सौधातिकैरसंस्कृतभाषितया नीचलक्षणान्तर्गतत्वाद् अस्य सङ्कीर्णरूपत्वमेवेति सुधीभिर्विभाव्यम्। एवं ‘स तदैव देव्याः सीतायास्तादृशं दैवदुर्विपाकम्’ इत्यादिना भाण्डायनवाक्येन वृत्तानां, तथा ‘सम्प्रत्येव भगवता वसिष्ठेन देव्याः कौशल्यायाः’ इत्यादिना च भाण्डायनवाक्येन वर्तिष्यमाणानां कथांशानां निदर्शनतया विष्कम्भकलक्षणसङ्गतिर्बोध्या।
( ततः प्रविशति जनकः। ) जनकः। - अपत्ये यत् तादृग् दुरितमभवत् त्न महता विषक्तस्तीव्रेण व्रणितहृदयेन व्यथयता।
पटुर्धारावाही नव इव चिरेणाऽपि हि न मे निकृन्तन् मर्माणि क्रकच इव मन्युर्विरमति॥ ३॥

प्राणेभ्योऽपि प्रियतमायाः आसन्नप्रसवायाः असहायाः सीतायाः पूतस्वभावायाः अपि सापवादनिर्वासनवार्त्ताश्रवणात् प्रभृति दुःसहशोकावेगेनान्तर्दूयमानः जनकः विलपति, अपत्य इति। -अपत्ये दुहितरि सीतायां तादृक् तथाविधम् अतिशोकावहतया अनिर्वचनीयमित्यर्थः, यद्वा दुरितम् आसन्नप्रसवावस्थायां वननिर्वासनरूपं दुर्गतं दुरवस्थेति यावत्, अभवत् जातं, महता विपुलेन तीव्रेण उग्रेण, अत्यन्तदुःसहेनेत्यर्थः, व्यथयता दुःखयता ( णिजन्तात् व्यथधातोः मित्वात् शतृप्रत्यये कृते ‘मितां ह्रस्वः(६। ४। ९२ पा०) इति ह्रस्वः ) तथा व्रणितं क्षतं, सञ्जातव्रणमिति यावत्, (व्रणं सञ्जातमस्य इति व्रणितं, व्रणशब्दात् ‘तदस्य सञ्जातं तारकादिभ्य इतच्’ (५। २। ३६ पा०) इति इतच् ) हृदयं येन तेन तथोक्तेन तेन दुरितेन विषक्तः हृदि दृढतरं निहितः नव इव नूतन इव, कालातिपातेऽपि अमन्दीभूत इत्यर्थः, अत एव पटुः कुशलः, त्यागिनोऽपि मम हृदयाद्वेल्लने समर्थ इत्यर्थः, पक्षे- छेदनपटुः, अतितीक्ष्णत्वात् छेदनकुशलः इति यावत् , धारावाही धारया सातत्येन, निरन्तरमित्यर्थः, वहति सञ्चरतीति धारावाही निरन्तरस्थायी, अनिवृत्त इति यावत्, पक्षे-धारया कर्तनसाधनाग्रभागेन वहति पुनः पुनः निर्गमोद्गमय्यां सरतीति तथोक्तः, मर्माणि अन्तःसन्धिस्थानानि निकृन्तन् विदारयन्, पक्षे-छिन्दन्, अत एव क्रकचः करपत्रमिव ( ‘क्र’ इति अत्यक्तशब्दं कचति शब्दायते इति क्रकचः करपत्रं, क्र-शब्दपूर्वात् कचतेः पचाद्यच्) मे मम मन्युः सीतानिर्वासनजनितः शोकः ( ‘क्रकचोऽस्त्री करपत्रम्’ इति ‘मन्युः दैन्ये क्रतौ क्रुधि’ इति चामरः ) चिरेणापि कालातिक्रमेणापि न विरमति न शाम्यति। ( रमधातोरात्मनेपदित्वेऽपि अत्र विपूर्वात् रमतेः ‘व्याङ्परिभ्यो रमः’ (१। ३। ८३ पा०) इति परस्मैपदम् ) सीतानिर्वासनं मामतिशयं व्यथयतीति भावः। (अत्र उपमानामालङ्कारः, सा च उपमानोपमेयगतसाधारणधर्मस्य औपम्यवाचकपदस्य च वाच्यतया पूर्णः ; सा च उपमानोपमेयगतसाधारणधर्मस्य औपम्यवाचकपदस्य च वाच्यतया पूर्णा ; तथा ‘नव इव’ इत्यत्र उत्प्रेक्षा चेत्यनयोरङ्गाङ्गिभावेन सङ्करः )। शिखरिणी वृत्तम्॥३॥

कष्टम् एवं नाम जरसा दुःखेन च दुरासदेन भूयः पराक-सान्तपन प्रभृतिभिस्तपोभिरात्तरसधातुः अनुपयुज्यमानो न अद्यापि मे दग्धदेहः पतति अन्धतामिस्रा हि असूर्य्या नाम ते लोकास्तेभ्यः प्रतिविधीयन्ते ये आत्मघातिन इत्येवमृषयो मन्यन्ते ; अनेकसंवत्सरातिक्रमेऽपि च प्रतिक्षणपरिभावनास्पष्टनिर्भासः प्रत्यग्र इव दारुणो न मे दुःखसंवेगः प्रशाम्यति। अयि मातर्देवयजनसम्भवे देवि सीते ईदृशस्ते निर्माणभागः परिणतः ; येन लज्जया स्वच्छन्दमाक्रन्दितुमपि न शक्यते। हा हा पुत्रि ( भ ) ‘ (भ) कष्तमित्यतिदुःसहदुःखसूचकमव्ययम्। एवम्-इत्थं, साम्प्रतमनुभूयमानेनेत्यर्थः। जरसा-वार्द्धकेन। दुरासदेन-दुःसहेन। दुःखेन-सीतानिर्वासनसमुत्थेन शोकेन। पराकेत्यादि। पराकः द्वादशदिवसं व्याप्य उपवाससाध्यः प्रायश्चित्तरूपः व्रतविशेषः, तथा च मनुः,- ‘यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम्। पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः॥ ‘इति। बृहस्पतिश्च ‘जपहोमरतः कुर्याद् द्वादशाहमभोजनम्। पराक एष विख्यातः सर्व्वपापप्रणाशनः॥ ‘इति च। सान्तपनं-पञ्चगव्यकुशोदकपानेनैकदिनम् उपवसिन चैकदिनमिति द्वैदिवसिकव्रतभेदः, ( सन्तापयति इति ल्युट्, ततः स्वार्थे अण् ) तथा च मनुः- ‘गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्। एकरात्रोपवासश्च कृच्छ्रं मान्तपनं स्मृतम्॥ ‘इति। याज्ञवल्क्यश्च- ‘गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् जग्ध्वा परेऽह्न्युपवसेत् कृच्छ्रं सान्तपनं चरन्। ‘पृथक् सान्तपमद्रव्यैः षडहः सोमवासकः। सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः॥ ‘इति। पराकश्च सान्तपनञ्च ते परकसान्तपने, ते प्रभृतिनी आदिनी येषां तैः। ( अत्र प्रभृतिशब्देन- ‘एकैकं ह्रासयेत् पिण्डं कृष्णे शुल्के च वर्द्धयेत्। उपस्पृशंस्तिषर्वणमेतच्चान्द्रायणं स्मृतम्॥ ‘इति मनूक्तलक्षणकचान्द्रायणादिपरिग्रहो बोध्यः )। तपोभिः,-क्लेशसम्पाधैः व्रतैः कायशोषकनियमविशेषैरिति यावत्। भूयः,-बाहुल्येन। आत्त रसधातुः,-आत्ताः गृहीताः, विशोषिता इति यावत्, रसाः रक्तप्रभृतयः द्रवपदार्थाः धातवः,-रसासृङ्मांसप्रभृतयो यस्य स तथोक्तः, अत्र शरीरान्तर्वर्तिद्रवमात्रमेव रसशब्दवाच्यम्, तदन्यो धातुरिति बोद्धव्यम्। यद्वा-रसा एव धातवः देहधातवः रसासृङ्मांसमेदोऽस्थिमज्जशुक्रस्वरूपा यस्य सः, (रसो गन्धो रसः स्वादे तिक्तादौ विषगगयोः। शृङ्गारादौ द्रवे वीर्य्ये देहधावम्बुपारदे॥ ‘इति मेदिनी ) अत एव अनुपयुज्यमानः,- अन्नपानादिना असेव्यमानः, अन्नपानादिजन्यां पुष्टिमनधिगच्छन्नित्यर्थः ; यद्वा-न उपयुज्यते कार्य्यम् इति अनुपयुज्यमानः, जरसा दुःसहेन सीताविवासनक्लेशेन तथा शरीरशोषकैर्वैधक्लेशैश्च नितान्तक्षीणादुर्बलतया कायिकमानसिकसर्वविधव्यापारे सम्यगपटुरित्यर्थः। दग्धदेहः,-दग्धपदार्थवत् सारशून्यः कायः। न पतति-न विशीर्यते न भूमिसात् भवतीति यावत् यथा स्वसंसृष्टेनाग्निना दग्धस्थूणो गृहादिः अन्तःसारशून्यत्वेऽपि कदाचित् प्रत्यवतिष्ठते ; तथा सततमन्तर्ज्वलता सीताशोकाग्निना दग्धीभूतोऽपि मे कायः नाद्यापि पततीति मे दुर्भाग्यमेव अत्र निदानमिति भावः। ननु यद्येवं दुःसहक्लेशदग्धस्यापि ते देहस्य न स्वतः पातः, तदा त्वयैव भृगुपातादिना त्यज्यतामयमित्याह, अन्धेति। -अन्धतामिस्राः,-अन्धम् अन्धकरणं तामिस्रं तमः संहतिः प्रगाढं तम इत्यर्थः, यत्र अतिभीषणदुःखोत्पदका इत्यर्थः। (अन्धयति इति अन्धं ‘नान्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ (३। १। १३४ पा०) इति पचाद्यच्। नरकं कालसूत्रञ्च महानरकमेव च॥ ‘इत्यादिना मनुना गणितेषु एकविंशतिनरकभेदेषु द्वितीये नरके बोध्यः। असूर्य्याः,-नास्ति सूर्यः सूर्यकरः येषु ते सूर्यरश्मिरहिताः आलोकमात्राहिताः इत्यर्थः, ( अत्र ‘असुर्याः’ इति ह्रस्वमध्योऽपि पाठः परिदृश्यते, तच्च असुराणामिमे इत्यसुर्याः असुरसम्बन्धिनः पातालादय इत्यर्थः। तत्वतो विचार्यमाणे तु अयमेव पाठः साधीयान्, तथाहि- ‘असुर्य्या नाम ते लोकाः’ इति कविवाक्यांशो हि ‘असुर्या नाम ते लोका अन्धेन तमसावृताः।
तांस्ते प्रेत्याभि गच्छन्ति ये के चात्महनो जनाः॥ ‘ इति वाजसनेयिसंहितावचनस्यैव पूर्वप्रतीकः, तथा च तत्र ह्रस्वमध्यपाठस्यैव सत्वात् अत्रापि ह्रस्वमध्य एव पाठो युक्तः। न च तत्रापि ह्रस्वमध्यत्वे किं प्रमाणमिति वाच्यम्, ‘असुराणामिमे इत्यसुर्य्याः’ इति तद्भाष्यव्याख्यादर्शनात्, परञ्च ‘अन्धेन तमसावृताः’ इति विशेषणेनैव गतार्थत्वे सूर्यालोकाभावबोधकस्य दीर्घमध्यस्य ‘असुर्याः’ इति विशेषणस्य वैयर्थ्याच्च। उक्तसंहितायाम् उद्धृतमन्त्रस्य आध्यात्मिकभाष्यव्याख्यादर्शने तु मूलपाठस्य व्याख्या अन्यथैव प्रतीयते, तथा च भाष्यम्- ‘अथ काम्यकर्मपरान् निन्दति। ये के च ये केचित् नराः आत्महनः आत्मानं घ्नन्तीत्यात्महनः अविद्वांसः काम्यकर्मपराः विद्यमानस्य अजरामरणस्य आत्मनोऽविद्यादोषेण तिरस्करणादात्महन्तारः ते प्रेत्य मृत्वा देहं त्यक्त्वा तान् लोकान् जन्मानि स्थावरान्तानि अपिगच्छन्ति प्राप्नुवन्ति। तान् कान् ?-नाम प्रसिद्धं, ते ये यत्तदोर्व्यत्ययः, ये लोकाः लोक्यन्ते दृश्यन्ते भुज्यन्ते कर्मफलानि यत्रेति लोका जन्मानि, असुर्याः असुराणामिमे असुर्याः, असुषु प्राणेषु रमन्ते असुराः प्राणपोषणपराः औतमपेक्ष्य देवा अपि असुराः। कीदृशाः लोकाः ?-अन्धेन तमसा अदर्शनात्मकेनाज्ञानेन आवृताः आच्छादिताः। अनात्मज्ञाः पुनर्जायन्ते म्रियन्ते चेत्यर्थः। ‘इति एवञ्च भाष्यकारमते अस्यांशस्य व्याख्या भाष्येणैव गतार्थेति न पुनस्तदर्थं प्रयासः कृत इति सुधीभिर्विभाव्यम् ) लोकाः,-अतिगोरनरकस्थानविशेषाः। तेभ्यः,-आत्मघातिभ्यः तेषां शास्त्यर्थमित्यर्थः, ( ‘तेभ्यः’ इत्यत्र- ‘कर्मणा यमभिप्रैति स सम्प्रदानम्’ (१। ४। ३२ पा०) इति सम्प्रदानतया चतुर्थी )। प्रतिविधीयन्ते-निर्दिश्यन्ते। तच्च प्रमाणं यथा,- ‘अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः ‘इति श्रुतिः।

ननु नरकभितेरात्महत्या मा भूत् कालप्रतीक्षा तु कर्तुं शक्यते एव, काले सर्वस्यैव विलयदर्शनात् अस्यापि दुःखस्य अवसानं सम्भवीत्याह, अनेकेति। -अनेकेषां बहूनां संवत्सराणाम् अब्दानाम् अतिक्रमेऽपि अपगमेऽपि। प्रतिक्षणेति। -प्रतिक्षणं परिभावनया परिचिन्तया स्पष्टः परिस्फुटो निर्भासः प्रकाशः यस्य स तथोक्तः, प्रतिक्षणं मनसि वर्तमानम् इत्यर्थः। ( ‘स्पष्टः ‘इति पदं णिजन्तस्य स्पश् धातोः क्तप्रत्ययेन ‘वा दान्तशान्तपूर्णा- ‘(७। २। २७ पा०) इति निपातनात् पक्षे सिद्धम्,) अत एव प्रत्यग्र इव-चिन्तात्यागेन अलुप्तत्वात् नूतन इव प्रतीयमान इत्यर्थः। दारुण,-हृदयविदारणः। दुःखसंवेगः,-शोकप्राबल्यम्। मातः -यज्ञभूमिसमुद्भूततया अतिपवित्रत्वात् मातृसम ( एतेन एवं पविचायास्ते ईदृक् परिणामः विरुद्ध एवेति व्यज्यते )। ईदृशः-एवम्प्रकारः सापवादनिर्वासनरूपः। निर्माणभागः,-सृष्टेः परिणामः इत्यर्थः। येन-असत्परिणामेन हेतुना। लज्जया-सापवादनिर्वासननिमित्तया त्रपया। स्वच्छन्दं-छन्दानुरूपं, यथेच्छमित्यर्थः। आक्रन्दितुपमपि-उच्चैः रोदितुमपि ; तादृक् चरित्रदोषापवादेन निर्वासितां त्वामुद्दिश्य मयि रुदति लोकाः मां दुश्चरिततनयाशोकविह्वलमालोक्य निन्दिष्यन्तीति भावः।
प्रियजनविरहे हि जगतस्तन्मयतया नियततदवस्थापरिभावनया च तन्मूर्तिः सततमेव भावयितुर्मनसि जागर्तीति प्राणेभ्योऽपि प्रियतमां नयनमनोरमां सीतां तद्गतेन

अनियतरुदितस्मितं विराजत् कतिपयकोमलदन्तकुद्मलाग्रम्।
वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमञ्ज जल्पितं ते॥ ४॥

भगवति वसुन्धरे सत्यमतिदृढाऽसि । ( म ) मनसा सम्प्रत्यविरतमनुचिन्तयन् जनकः स्मृतिपथसमारूढां तदीयां शैशवावस्थामुपवर्णयन्नाह, अनियतेति। -अनियतं विषयसम्बन्धरहितम्, ओतुकमिति यावत्, रुदितं रोदनं स्मितं मृदुहसितञ्च यस्मिन् तत् तथोक्त विराजन्ति विकासमानानि कतिपयानि शिशुत्वात् अल्पसङ्ख्याकानिम् त्रिचतुराणीति यावत्, कोमलानि सुकुमाराणि ( ‘कचि’ इति भाषा) दन्तकुड्मलानां दशनमुकुलानाम् अग्राणि पुरोभागा यस्मिन् तत् तथोक्तं, कुड्मलसदृशकोमलविरलदन्तवदित्यर्थः, तथा स्खलत् पतत् सर्ववर्णानुच्चारणात् न परिस्फुटमुच्चरदित्यर्थः, असमञ्जसं न कर्तृकर्मक्रियादिसमन्वयसूचकयथोचितविभक्तदिसमन्वितं, मञ्जु ललितं सुस्वरत्वा सुश्राव्यमिति भावः, जल्पितं भाषितं वचनमिति यावत्, यस्मिन् तत् तथोक्तं, शिशोः बालिकायाः ते तव वदनं कमलमिव वदनकमलम् अल्पं वदनकमलम् इति वदनकमलकं, शिशुकालिकम् अरविन्दसुन्दरमाननमित्यर्थः, यद्वा-मञ्जु इति च्छेदः, जल्पितस्य विशेषणम्। तथात्वे स्मित-मुख-वाक्यानीति क्व गतेति, तथापि आशैशवं विभिन्नाकारेण नियतपरिक्षिता ते कुसुमसुकुमारा मूर्तिः सततं स्मृतिपथसारूढां मामाकुलीकरोतीति भावः। (अत्र रुदितहसितपदानुरोधात् मुखकमलमित्युपमितसमासः, रुदितहसितयोः मुख एव सम्भवात् मुखस्य प्राधान्यं, तच्च उपमितसमासेनैव भवतीति उपमायाः साधकसद्भावेन उपमाऽलङ्कार एव, रूपके सति प्रधानीभीते वदनरूपे कमले रुदितस्मितयोर्विशेषणविधया अन्वयाऽसम्भवात्। सा च समासे उपमावाचकस्य इवशब्दस्य लोपात् लुप्ताः ; तथा स्वभावोक्तिश्चेत्यनयोः परम्परनिरपेक्षतया तिलतण्डुलवत् संसृष्टिः )। अभिज्ञानशाकुन्तलेऽपि अस्यानुरूपः श्लोकोऽयं परिदृश्यते ; यथा,- ‘आलक्ष्यदन्तमुकुलान्निमित्तहासैरव्यक्तवर्णरमणीयवचःप्रवृत्तीन्। अङ्काश्रयप्रणयिनस्तनयान् वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति॥ ‘इति पुष्पिताग्रा वृत्तम्॥४॥

(म) भगवति-माहात्माशालिनि प्रतीकारसमर्थे इत्यर्थः। वसुन्धरे-रत्नाधिष्ठात्रि इत्यर्थः। ( अत्र वसूनामधिष्ठातृतया तवान्तःकरणस्य एतावत् काठिन्यं जातं, यद् एतादृशीं देवदुर्लभामपि तनयां पुरतो नश्यन्तीमालोक्य न कोऽपि प्रतीकारः कृतः इति तिरस्कारो व्यज्यते। सत्यं-निश्चितमेवम् नास्त्यत्र कोऽपि संशय इति यावत्। अतिदृढाऽसि-अतिकठिनहृदयाऽसीत्यर्थः, कन्यायास्तथाविधपरित्यागरूपदुःखदर्शनादिति भावः।
‘-त्वं वह्निर्मुनयो वसिष्ठगृहिणी गङ्गा च यस्या विदु- र्माहात्म्यं यदि वा रघोः कुलगुरुर्देवः स्वयं भास्करः।
सीताम् अतिपूतां विदित्वाऽपि केवलं राजधर्मानुसारेण तां निर्वासयता रघुपतिना अतिदृढत्वमवलम्बितं, वसुन्धरायास्तु तदानीं तादृग् दृढताऽवलम्बने कस्यापि न्याय्यहेतोरसद्भावात् तया न युक्तमाचरितमित्याशयवान् मिथिलापतिरस्या दृढत्वमेव ख्यापयति, त्वमिति। -त्वं पूर्वोक्तसम्बोधनोद्देश्या पृथिवी, वह्निरग्निः, मुनयो तपः प्रभावात् त्रिकालविदः वसिष्ठवाल्मीकिप्रभृतयः वसिष्ठगृहिणी वसिष्ठपत्नी अरुन्धतीत्यर्थः, गङ्गा पतितपावनी सुरधुनी च, यदि वा तथा रघोः रघुवंशीयानामित्यर्थः, कुलगुरुः कुलमूलत्वेन पूजनीय इत्यर्थः, यद्वा-वंशस्य आदिपुरिषः स्वयं साक्षादित्यर्थः, ( अत्र स्वयमिति तृतीयान्तमात्मबोधकमव्ययम् ‘प्रकृत्यादिभ्य उपसङ्ख्यानम्’ (वा०) इति तृतीया ) भास्करः सूर्यश्चेत्यर्थः, यस्याः सीताया माहात्म्यं महिमानं सच्चरित्रत्वपातिव्रत्यादिकमिति यावत्, विदुः जानन्ति ( विद् धातोर्लटः प्रथमपुरुषस्य बहुवचने रूपं ‘विदो लटो वा’ (३। ४। ८३ पा०) इति झेरुसादेशः।
न च ‘तेषां परः क्रियाकालैकत्त्वे’ इति क्रमदीश्वरकृतसूत्रेण नामयुष्मादस्मत्सु वाच्येषु तेषां यः परः, स एव भवति, तथाच-स च त्वञ्च अहञ्च गच्छामः, च च त्वञ्च गच्छथः, अहञ्च त्वञ्च स च गच्छामः, इति नियमात् अत्र युष्मत्समभिव्याहृतनामकर्तृकत्वेऽपि ‘विदुः’ इति क्रियायां कथं प्रथमपुरुषविभक्तिरिति वाच्यं ; नामयुष्मदस्मदां परं परं प्रधानमिति नियमस्य प्रायुकत्वात्। न च तत्रापि किं प्रमाणमिति वाच्यम्, ‘हं वा कुम्भकार्णो वा त्वं वा भ्राता विभीषणः।
इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम्॥ ‘ इत्यत्र बहधातोर्नामयुष्मदस्मत्कर्तृकत्वेऽपि प्रथमपुरुषप्रयोगदर्शनात्। केचित्तु ‘विदुः’ इति न क्रियैकशेषः, तथा सति पृथिव्यादीनां सर्वेषामेव अन्यानपेक्षप्रमाणत्वप्रतीतिर्न भवति, अपितु कर्तृपदेषु ‘मुनयः इत्यस्य बहुत्वमादाय नामविभक्तिः प्रयुक्ता ; अन्यत्र तु यथायोग्य विभक्तिपरिणामेन सङ्गतिः कार्या, तथा च त्वं यस्या माहात्म्यं वेत्थम् वह्निर्वेद, मुनयो विदु रित्येवमन्वयः इत्याहुः) विद्यां वागिव यामसूत भवती ; शुद्धि गतायाः पुर- स्तस्यास्त्वं दुहितुस्तथा विशसनं किं दारुणेऽमृष्यथाः॥ ५॥

(नेपथ्ये। ) इत इतो भगवतीमहादेव्यौ। ( य ) भवती त्वं यां सीतां वाक् सरस्वती देवी विद्यामिव ज्ञानमिव, अथवा-वाग् उपनिषद्रूपा वाणी विद्यामिव तत्त्वविद्यामिव असूत जनयामास, वाक् यथा विद्याम् उद्गिरति तद्वत् त्वं निर्दोषां याम् उद्भावयामासिथेत्यर्थः, हे दारणे कठिनहृदये पुरः तव आग्रतः एव जगद्व्यापिस्वरूपतया अग्निपरीक्षाक्षेत्रे लङ्कायामपि तदानीं तवास्तित्वसत्वादिति भावः; शुद्धि शोधनं, निर्द्दोषत्वमिति यावत्, गतायाः प्राप्तायाः अग्निपरीक्षायां निर्दोषत्वेन ज्ञाताया अदुष्टया इत्यर्थः, ( ‘शुद्धि गतायाः पुरः’ इत्यत्र ‘तद्वत्तु या दैवतम्’ इत्यापि पाठो दृश्यते, तत्रायमर्थः,-तद्वत् वह्निगङ्गाभास्करवत् या जानकी दैवतं देवतारूपतया माननीयेत्यर्थः, अत्र विधेयप्राधान्यात् क्लीबत्वम् ; देवता एव इति दैवतं स्वार्थे अण्, माल्यादिशब्दवत् क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते इति स्त्रीलिङ्गस्यापि देवताशब्दस्य स्वार्थिकप्रत्ययान्तस्य क्लीबत्वम् ) तस्याः तद्रूपाया मूर्तिमत् पवित्रता स्वरूपाया इत्यर्थः, दुहितुः स्वकन्याया अपि सीतायाः तथा तेन प्रकारेण अनाथायाः यथा प्रतिघातिनं किं कथं केन प्रकारेणेत्यर्थः, अमृष्यथाः सोढवती ; सीता यदि यथार्थत एव दुश्चरिता स्यात्, तदा शास्त्रतः कृतापराधायाः तस्या एवं निर्वासने तदा आनूकूल्यं तस्यां कथमपि न सम्भवेत्, परन्तु स्वसमक्षमग्नौ परीक्षितविशुद्धभावायाः आसन्नप्रसवायाः स्वसृताया निरपराधत्वं चरित्रोत्कर्षञ्च तत्त्वतो विदित्वाऽपि दृष्ट्वाऽपि च पुरत एव ईदृगतिभीषणम् औतुकं परिणामं न कथमपि प्रतिविदधिथ इत्यहो भवत्याः नैष्ठुर्यम् इति भावः। ( अत्र प्रस्तुतायाः पृथिव्याः अप्रस्तुतानां वह्न्यादीनाञ्च सर्वेषामेव एकयै वेदनक्रियया अन्वयात् दीपकालङ्कारः, तल्लक्षणं यथा दर्पणे,- ‘अप्रस्तुतप्रस्तुतयोर्दीपकन्तु निगद्यते। अथ कारकमेकं स्यादनेकासु क्रियासु चेत्॥ ‘इति, तथा ‘विद्यां वागिव’ इत्यंशे श्रौती उपमेत्यनयोः परस्परनिरपेक्षतया संसृष्टः, ‘गङ्गा च यस्या विदुः’ इत्यंशे समुच्चयालङ्कारश्च व्यज्यते )। शार्दूलविक्रीडितं वृत्तम्॥ ५॥

(य) सौघातकिकृतप्रश्नोत्तरावसरे भाण्डायनेन ‘स्वयमुपेत्य वैदेहो द्रष्टव्यः’ इति कोशल्यां वक्तुं वसिष्ठेन प्रहिता भगवत्यरुन्धतीति यत् कथितं, सम्प्रति इत एवा जनकः। ( दृष्ट्वा। ) अये गृष्टिनोपदिश्यमानमार्गा भगवती अरुन्धती। ( उत्थाय। ) कां पुनर्महादेवीत्याह। ( निरूप्य। ) हा कथं महाराजदशरथस्य धर्मपत्नी प्रियसखी मे कौशल्या ? क एवं प्रत्येति सैवेयमिति। ( र )

गच्छन्तीं कौशल्योपेतां तामेवारुन्धतीं कञ्चुकी गन्तव्यपथं दर्शयन् नेपथ्यादाह, इत इति। -इत इतः,-एतस्मिन् एतस्मिन् अध्वनि ; अथवा,-इतः एतस्मिन् अध्वनि इतः आगच्छतः ( इण् धातोः लट् तस् )। भगवतीमहादेव्यौ-अरुन्धतीकौशल्ये इत्यर्थः, चलतामिति शेषः।
(र) अये इति सम्भ्रमसूचकमव्ययम्, ( ‘अये क्रोधे विषादे च सम्भ्रमे स्मरणेऽपि च’ इति मेदीनी )। गृष्टिना-तदाख्येन कञ्चुकिना। उपदिश्यमानमार्गा-प्रदर्श्यमानपथा। महादेवीति। - ‘भगवतीमहादेव्यौ’ इति नेपथ्योक्तवाक्यान्तर्गतमहादेवीशब्दः। निरुप्य-पर्यवेक्ष्य, हेतुभिर्विचार्य वा। हा कथमिति। -अत्र हाशब्दो विषादसूचकः। धर्मपत्नी-सहधर्मचारिणी ( धर्मस्य पत्नी इति धर्मपत्नी, अश्वघासादिवत् तादर्थ्ये षष्ठीसमासः )। प्रत्येति-विश्वसिति। येयं कौशल्या प्राक् परमानन्दसन्दोहमनुभवन्ती वहन्ती च किमप्यनिर्वचनीयरामणीयकं कृतिरिति तां सेयमिति प्रत्यभिज्ञातुमपि न पारयामीति भावः।
‘आसिदियं दशरथस्य गृहे यथा श्रीः श्रीरेव वा किमुपमानपदेन ; सैषा।
कष्टं वतान्यदिव दैववशेन जाता दुःखात्मकं किमपि भूतमहो विपाकः॥ ६॥

प्रत्यभिज्ञानायोग्यत्वं दर्शयति, आसिदिति। -इयं परिदृश्यमाना परन्तु अप्रत्यभिज्ञातव्या कौशल्या इत्यर्थः, दशरथस्य सार्वभौमायोध्याऽधिपतेः गृहे श्रीर्यथा लक्ष्मीरिव आसीत्, रामवनगमनदशरथमरणादेः प्राक् साक्षात् राजलक्ष्मीरिव तत्रातिष्ठदित्यर्थः। औपम्यवाचकस्य यथाशब्दस्य प्रयोगे हि, तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्वरूपस्य मेदगर्भस्य सादृश्यस्यावबोधात् राजलक्ष्म्या सह अस्याः उपमानपदेन औपम्यवाचकयथाशब्दप्रयोगे किम् ? उपमाद्योतकयथाशब्देनालमित्वर्थः, उपमानभूतया श्रिया अस्या अभेदत्वात् भेदगर्भ्यौपम्यवाचकपदप्रयोगे निरर्थक इति भावः। सा लक्ष्मीसदृशी लक्ष्मीभूता वा एषा कौशल्या, बत हा , कष्टं दुःखम् ( अत्र दुखातिशय्यद्योतनार्थः ‘बत’ ‘कष्टम्’ इति समानार्थकपदद्वयप्रयोगः ) दैववशेन विधिवशेन अननुकूलभाग्येनेत्यर्थः, दुःखात्मकं दुःखस्वभावं, दुःखरूपेण उपादानेन निर्मितमिति यावत्, (दुःखमेव आत्मा स्वभावो यस्य तत् दुःखात्मकं ‘शषाद्विभाषा’ (५। ४। १५४ पा०) इति समासान्तः कप्रत्ययः। ‘आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि’ इति विश्वः ) अन्यत् अपरं मनुष्यातिरिक्तमित्यर्थः, किमपि अज्ञाताश्रुतपूर्वं किञ्चिद् भूतं जीवविशेषः जाता सम्पन्ना।
( उद्देश्यविधेयस्थले हि प्रयशः विधेयप्राधान्यस्य सिद्धान्तितत्वेऽपि ‘उद्देश्यविधेययोरुद्देश्यवचनत्वमाख्यातस्य’ इति काशिका वचनात् आख्यातपदेन प्रधानक्रियाया बाधाच्च अत्र आख्याते उद्देश्यप्राधान्यस्वीकारेण जातेत्यत्र स्त्रीत्वमिति बोध्यम् )।
अहो विपाकः दशापरिणामः ; अस्या एवम्भूतं शोचनीयपरिणामं न कोऽपि मनसा अपि अचिन्तयदिति भावः। ( अत्र प्रथमपादे उपमाऽलङ्कारः, सा च यथाशब्दध्योतिततया श्रौती। द्वितीयपादे च रूपकं, प्रतिषेधशून्ये कौश्ल्यारूपे उपमेय् श्रीरूपस्य उपमानस्य तादात्म्यारोपात्। न चात्र श्रीरुपेण विषयिणा अभेदाध्यवसानेन कौशल्यारूपस्य विषयस्य अधःकरणात् अतिशयोक्तिरेव युक्तेति वाच्यं, रूपकातिशयोक्त्योः अन्योन्यभेदव्यवस्थापनार्थं, हि रूपकलक्षणान्तर्गतविषयदले वाच्यत्वविशेषणस्य आवश्यकत्वम् , अन्यथा ‘लतामूले लीनो हरिणापरिहीणो हिमकरः स्वयं हाराकारा गलति जलधराकुवलयात्। धुनीते बन्धूकं तिलकुसुमजन्मा हि पवनो वह्निर्हारे पुष्पं परिणमति कस्यापि कृतिनः॥ ‘अत्र अतिशयोक्तिस्थले रूपकलक्षणस्यातिव्याप्तिः, निरपह्नवविषये मुखादौ निष्कलङ्कचन्द्राद्युपमानतादात्म्यारोपात्। रूपकलक्षणे विषये वाच्यत्वविशेषणपदाने तु अत्र विषयस्य मुखादेरवाच्यतया न रूपकलक्षणस्य अतिव्याप्तिराशङ्गाऽपि।
एवञ्च प्रकृते ‘इयम् ‘इत्यनेन आरोपविषयस्य शब्दतः उक्तत्वात् नातिशयोक्तिः ; अपि तु रूपकमेवेति सुधिया पर्यालोचनीयम्। एवमत्र वक्तुमिष्टस्य कौशल्यायाः दशरथगृहे सकलकल्याणनिदानत्वस्य वैलक्षण्यप्रतिपादनार्थं ‘श्रीरिव वा’ इत्यनेन पूर्वोक्तश्रीसादृश्यस्य निषिद्धवदाभासमानतया आक्षेपश्च ; तथा ‘कष्ट वतान्यदिव’ इत्यत्र भावाभिमानिन्युत्प्रेक्षा च इत्येषामलङ्काराणां मिथो निरपेक्षतया संसृष्टिः )। वसन्ततिलकं वृत्तम्॥६॥

अयमपरप्रायो दशाविपर्य्यासः। ( ल ) य एव मे जनः पूर्व्वमासीन्मूर्तो मूर्तो महोत्सवः।
क्षते क्षारमिवासह्यं जातं तस्यैव दर्शनम्॥ ७॥

(ल) अयम्-अनुभूयमानः, कौशल्यया सह साक्षात्काररूपः। अपरप्रायः,-बाहुल्येन अपरः अन्यथाभावप्राप्तः इति यावत्। ( ‘अपरः प्रायः’ इति पाठे-अपरभावं गत इत्यर्थः, प्रपूर्वात् गत्यर्थात् इण् धातोरच्। ‘अपरः पापः’ इति च पाठे-पापः जन्मान्तरीणपापकारणकः अधर्मजन्यः इत्यर्थः, अयं पुनरपरः पापहेतुकः अवस्थान्तरोपपातः इत्यर्थः, जातः ममेति शेषः ; इतः पूर्वं केवलमहं सीतायाः सापवादनिर्वासनवृत्तान्तश्रवणेन नियतमन्तर्दाहं दग्धः, साम्प्रतन्तु आवयोः परस्परसन्दर्शनेन समुद्बोधितपूर्वस्मृतितया भीषणदावदाहसदृशोऽयमपरविधोऽन्तर्दाहः समुत्पन्न इति भावः।
उक्तमवस्थाविपर्यासमेव कथयति, य इति। य एव कौशल्यारूपः जनः पूर्वं सीतायाः निर्वासनात् तथा प्रियसखस्य दशरथस्य परलोकगमनाच्च प्रागित्यर्थः, मे मम सम्बन्धे मूर्तः शरीरी दर्शनादिना अतिशयानन्दजनकत्वात् मूर्त्तिमानित्यर्थः, महोत्सवः परमानन्दसन्दोह इवेत्यर्थः, आसिद् बभूव, रामेण दुःसाध्ये धनुर्भङ्गे साधिते सर्वगुणगणवरेण्याय धन्याय तस्मै स्वसुतां पणभूतां सीतां समर्प्य दशरथकोशल्यादिभिः वैवाहिकादिसम्बन्धेन मिलितो जनकः सांसारिकसुखसम्पदः परां कोटिमुपभुञ्जानः यस्याः कौशल्यायाः दर्शनं महोत्सवमिवाजीगणदिति भावः। तस्य एवं प्रियदर्शनस्य जनस्य दर्शनं साक्षात्कारः क्षते शरीरस्य निकृत्तस्थाने स्फुटितव्रणादौ वा क्षारं लवणमिव ( ‘क्षारो रसान्तरे धूर्ते लवणो काचभस्मनोः’ इति मेदिनी ) असह्यं अत्यन्तदुःखजनकत्वात् सोढुमशक्ये ( सह्यते यत् तत् सह्यं, न सह्यं ‘शकिसहोश्च’ (३। १। ९९ पा०) इति सहेर्यप्रत्ययः ) जातं संवृत्तम्। ( अत्र प्रथमार्द्धे निरपह्नवविषये कौशल्यारूपे जने महोत्सवतादात्म्याध्यासात् रूपकम्, तत्रापि अत्यन्तासम्भवस्य मूर्तत्वरूपस्य वैशिष्ट्यस्य आरोहणात् अधिकरूढवैशिष्ट्यरूपकम् ; तथा द्वितीयार्द्धे उपमा चेत्यनयोः परस्परनिरपेक्षतया संसृष्टिः। केचित्तु अत्र विरूपयोः सङ्घटनात् विषमालङ्कारोऽपीत्याहुः )। अनुष्टुप् वृत्तम्॥ ७॥

( ततः प्रविशति अरुन्धती कौशल्या कञ्चुकी च ) अरु। ननु ब्रवीमि ; दृष्टव्यः स्वयमुपेत्य वैदेह इत्येष वः कुलगुरोरादेशः ; अत एवाहं प्रेषिता ; ततः कोऽयं पदे पदे महान् अन ध्यवसायः ? ( व ) कञ्चुकी। देवि संस्तम्भयात्मानम्। अनुरुध्यस्व भगवतो वसिष्ठस्यादेशमिति विज्ञापयामि। ( श ) (व) ननु-भोः, कौशल्यामुद्दिश्य एतदामन्त्रणम्। स्वयम्-आत्मना, न तु प्रतिनिधिप्रेरणेनेत्यर्थः। उपेत्य-उपगम्य। वैदेहः,-विदेहराजो जनकः इत्यर्थः। द्रष्टव्यः,-साक्षात्कर्तव्यः। कुलगुरोः-विसिष्ठस्य। आदेशः,- आज्ञा। अत एव-स्वयं गत्वा साक्षात्कर्तव्यत्वादेव। अहम्-अरुन्धती, ( स्ववाक्ये अस्मच्छब्दप्रयोगेण आह्वायकस्य गुरुत्वं सूचितम् )। प्रेषिता-प्रेरिता युष्मत्कुलगुरुणेति शेषः ; असहायायाः कुलबध्वास्तव अन्यसाहचर्यमन्तरेण यच्च कुत्रापि गमनानौचित्यात् त्वत्साहचर्यसम्पादनार्थं भर्तृप्रेषिताऽहमागतेति भावः। ततः,-कुलगुरोरादेशस्य अनुपेक्षणीयत्वादित्यर्थः। पदे पदे-प्रतिपादविक्षेपम् ( अत्र ‘नित्यवीप्सयोः’ (८। १। ४ पा०) इति वीप्सायां द्विर्वचनम् )। महान्-अतिशयः, स्थेयानिति यावत्। अन्यध्यवसायः,-अनुद्यमः, वैवाहिकदर्शने महती अनभिमतिरिति यावत् , ( अत्र ‘महानध्यवसायः’ इति पाठे-अस्मासु स्थिास्वेव तत्कन्याया एवं दशापरिणामात् कथं तस्य अग्रतः वर्तिष्ये इति पदे पदे एव अवस्थानोद्योगः इत्यर्थः, यद्वा- ‘महानध्यवसायः’ इत्येकं समस्तपदं वैदेहदर्शने अत्यन्तानिश्चय इत्यर्थः )।
(श) आत्मानं-मनः, हृदयमिति यावत्, ( ‘आत्मा पुंसि स्वभावे च प्रयत्नमनसोरपि’ इति मेदिनी)। संस्तम्भय-धैर्यावलम्बनेन स्थिरीकुरु। अनुरुध्यस्व-अनुसर, आत्मानं निगृह्य वसिष्ठस्य आदेशं प्रतिपालयेत्यर्थः, स्वयमुपेत्य वैदेहं पश्यन्ती तत् सम्भावयेति यावत्। दशरथान्तःपुरचारिणः गृष्टिनामधेयस्य कञ्चुकिनः वचनमिदम्। कञ्चुकिलक्षणं यथा- ‘अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः। सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते। जरावैक्लव्ययुक्तेन विशेद गात्रेण कञ्चुकी॥ ‘इति।
कौशल्या। ईदिसे काले मिहिलाधिबो दट्टब्बो त्ति समं ज्जेब सब्बाइं दुक्खाइं समुब्भबन्ति। ण सक्कणोमि उब्बत्तमाणमूलबन्धणं हिअअं अबत्थाबिदम्। ( ष ) अरु। अत्र कः सन्देहः ? ( स ) ‘- सन्तानवाहीन्यपि मानुषाणां दुःखानि सद्बन्धुवियोगजानि।
दृष्टे जने प्रेयसि दुःसहानि स्रोतः सहस्रैरिव सम्प्लवन्ते॥ ८॥

(ष) स्वस्यां जीवन्त्यामेव तत्सुतायाः सर्वजनसमक्षमेवं सापवादनिर्वासनेन स्वां सापराधामिव मन्यमाना कौशल्या स्वगमने पदे पदे अनध्यवसायनिदानं स्वयं विवृणोति, ईदृशी इति। -ईदृशी-रामारण्यवास-पतिनाशास्नुषाविवासनादिभिरतिदारुणे। सममेव-दुःखकारणानां पौर्वापर्येऽपि युगपदेव। दुःखानि-रामारण्यवासादीनि कष्टानि। समुद्भवन्ति-उद्वेल्लन्ति, समुद्भूय मे मर्म पीडयन्तीति यावत्। उद्वर्तमानमित्यादि। -उद्वर्तमानम् उत्पाटितं मूलबन्धनं यथास्थानावस्थितिहेतुभूतं प्रधानबन्धनं यस्य तत् तथोक्तम् ; दुःसहदुःखघटिकासंवेगाच्छिन्नबन्धनमिति यावत्। हृदयं-मनः। अवस्थापयितुं-यथायथं संस्थापयितुमित्यर्थः। न शक्नोमि-न प्रभवामि, न समर्थोऽस्मीत्यर्थः। ( उद्वर्तमानेत्यत्र उद्घट्टमानेति पाठे-उद्घट्टते उद्वेल्लतीति उद्घट्टमानं उद्वेल्लत् वेगादुच्चलितमित्यर्थः )।
(स) अत्र-अस्मिन्, प्रेयसि जने दृष्टे सकलक्लेशोद्भवरूपे विषये इत्यर्थः। कः सन्देहः,-का विप्रतिपत्तिः, त्वदुक्तं यथार्थमेव- ‘स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते’ इति भावः।
सम्प्रति स्वोक्तं निःसन्देहत्वमेव विवृणोतो, सन्तानेति। -मानुषाणां मानवानां ( मनोरपत्यानि इति मानुषाः, मनुशब्दात् ‘मनोर्जातावञ्यतौ षुक् च’ (४। १। १६१ पा०) इति ढञ्प्रत्ययः षुगागमश्च, पक्षे मनुष्याः) सन्तानेन धारावदविच्छेदेन वृहन्ति प्रवर्तन्त इति सन्तानवाहीनि धारावाहीणि अविरतमन्तःकरणे प्रवहमाणानीति यावत्, सतः आट्टतस्य परमप्रेमास्पदस्येति यावत्, ( सन्निति शतृप्रत्ययान्तस्य अस् धातोः रूपम्। बन्धौ सद्विशेषदानेन असद्बन्धुवियोगे दुःखाभावः सूचितः। ‘सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सन्’ इत्यमरः ) बन्धोरात्मीयजनस्य पुत्रबध्वादेः कौशल्या। कहं बच्छाए बहूए एब्बं गदे तस्म राएसिणो मुहं दंसेह्म ? ( ह ) कथं वत्साया बध्वा एवं गते तस्य राजर्षेः सुखं दर्शयामः ? ( संश्चासौ बन्धुश्चेति सद्बन्धुः तस्येति विग्रहे ‘सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः’ (२। १। ६१ पा०) इति कर्मधारयः समासः। बध्नाति मनः स्नेहादिनेति बन्ध् धातोः औणादिकेन उप्रत्ययेन बन्धुरितिपदं सिद्धम् ) विच्छेदाद् जायन्ते उत्पद्यन्ते यानि तथोक्तानि प्रियजनविप्रयोगजन्मानि दुःसहानि असह्यानि दुःखानि कृच्छ्राणि प्रेयसि प्रेमनिलये आत्मीये इत्यर्थः, ( अयमनयोरतिशयेन प्रियः इति विग्रहे प्रियशब्दात् द्वयोरेकोत्कर्षे ‘द्विवचनविभज्योपपदे तरबीयसुनौ’ (५। ३। ५७ पा०) इति ईयसुन्, ततश्च ‘प्रियस्थिरस्फिरोरुबहुल- ‘(६। ४। १५७) इति प्रियस्य प्रादेशः, एकस्वरत्वात् अकारलोपाभावश्च ) जने दृष्ट साक्षाकृते सति स्त्रीतः सहस्रैरिव सहस्रधाराभिरिव सम्प्लवन्ते उच्चलन्ति सीमानमतिक्राम्य ऊर्द्धं चलन्तीत्यर्थः, हृदयमाच्छाद्य शोकस्य प्रादुर्भावो भवतीति भावः। अस्यानुरूपोक्तिर्यथा कुमारसम्भवे- ‘स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते’ इति। ( अत्र प्रकृतं धारावाहिकदुःखावेगे प्रवाहसहस्रमप्लवसम्भावनात् उत्प्रेक्षा नाम अलङ्कारः, सा च इवशब्दापिततया वाच्या, तथा सम्प्लवात्मकक्रियारूपभावप्रदार्थसम्भावनात् भावाभिमानिनी चेति ; एवं सन्तानवाहिन्यापि’ इत्यत्र अपिशब्देन उत्थापितः विरोधालङ्कारश्च ; तथाहि सुदुःसहमपि दुःखादिकं धारावाहिकरूपेण अनुभूयते चेत्, तदा कालेन तत् सुषहमेव जायते इति हि स्वभावः; अत्र तु दुःखानां सन्तानवहित्वेऽपि दुःसहत्वकथनाद् विरोधः। स च चिरानुभूतदुःखस्य सुषहत्वेऽपि प्रियजनसमागमे पुनर्नवीभूततया दुःसहत्वात् अपनेतुं शक्यते। एवञ्च- ‘अत्र समुच्चयरूपप्रयोजनस्य असत्वेऽपि अपिशब्दप्रयोगाद् अधिकपदत्वदोषः’ इति प्रत्युक्तं, तस्यात्र विरोधद्योतकतया सार्थकत्वादिति विभावनीयम् )। इन्द्रवज्रा वृत्तम्॥८॥

ईदृशे काले मिथुलाधिपो दृष्टव्यः इति सममेव सर्वाणि दुःखानि समुद्भवन्ति। न शक्नोमि उद्वर्तमानमूलबन्धनं हृदयमवस्थापयितुम्।
(ह) वत्सायाः, -स्निग्धायाः इत्यर्थः। बध्वाः,-स्नुषायाः। एवम्-इत्थम्। गते-प्रत्पे, एवम्भूतायाम् अतिदारुणायां दशायामुपस्थितायां सत्यामित्यर्थः। राजर्षेः,-मुनिव्रतावलम्बिनः नरप्रतेर्जनकस्य, ( अत्र ‘कर्मणा यमभिप्रैति स सम्प्रदानम्’ (१। ४। ३२ पा०) इति चतुर्थीप्राप्तौ सम्बन्धमात्रविवक्षया षष्ठी )। कथं मुखं दर्शयामः,- स्वात्मानं प्रकाशयामः ? निष्कारणं सहधर्मिणीं विवासयतो रामस्य माता सह तस्या एव पितुः समक्षम् आत्मानं प्रकाशयितुं सम्प्रति नितरां लज्जे इति भावः।
अरु। एष वः श्लाघ्यसम्बन्धी जनकानां कुलोद्भवः।
याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ॥ ९॥

कौशल्या। एसो सो महाराअस्म हिअआणन्दो बच्छाए एषः सः महाराजस्य हृदयानन्दो वत्सायाः बध्वाः पिता राजर्षिः कौशल्याकञ्चुकिभ्यामुपेता जनकसमीपमायान्ती अरुन्धती तरुमूलसमासीनं जनकं दूरतः साङ्गुलिनिर्देशं दर्शयन्ती आह, एष इति। -एषः पुरोवर्त्ती वो युष्माकं श्लाघ्यः अतिप्रशस्यः सम्बन्धी बन्धुः वैवाहिकसम्बन्धवानित्यर्थः, ( श्लाघ्यश्चासौ सम्बन्धी चेति श्लाघ्यसम्बन्धीति नीललोहितवादिवत् विशेषसमासः ) जनकानां जनकवंशीयानां कुलस्य वंशस्य उद्वहः प्रवर्तकः, कुलश्रेष्ठः इत्यर्थः, तन्नाम्नैव वंशस्य प्रवर्तितत्वादिति भावः, वर्तते इति शेषः ; ( उत् ऊर्द्ध्वं वहति प्रापयति इति व्युत्पत्या उद्वहस्य श्रेष्ठार्थवत्वम्। पचादित्वाद् अच् प्रत्ययः ) यस्मै अस्मै जनकाय यं जनकम् अभिप्रेत्य इत्यर्थः ( अत्र कर्म्मणा यमभिप्रैति स सम्प्रदानम् ‘(१। ४। ३२ पा०) इति सम्प्रदाने चतुर्थी ) याज्ञवल्क्यो याज्ञवल्क्य इति नाम्ना प्रसिद्धः सहिताकारः मुनिः ‘दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः। वीतरागभयक्रोधः स्थिरधीर्मुनिरुच्यते॥ ‘इत्युक्तलक्षणः तपस्वी, परम् अयनं प्रतिपाद्यमिति परायणं, तदेव इति पारायणं ( स्वार्थे अण्प्रत्ययः) ब्रह्म ईश्वरः एव पारायणं प्रधानप्रतिपाद्यं यस्य शास्त्रस्य तत् , वेदमित्यर्थः, जगौ कथयामास, उपदिदेश इति यावत् ; यद्वा-ब्रह्म वेदम् इति द्वितीयान्तं पदम् ; पारे अयनं गमनं यस्मिन् कर्मणि तद् यथा स्यात् तथा समाप्तिपर्यन्तमित्यर्थः, जगौ कथयामास इत्यन्वयः। अथवा -पारं समाप्तिम् अयते अनेनेति पारायणं समस्तांशः ब्रह्मणो वेदस्य पारायणं सकलं वेदमित्यर्थः, पूर्ववत् जगावित्यनेनान्वयः। जनकयाज्ञवल्क्यसंवादः यथा बृहदरण्यकोपनिषदः पञ्चमाध्यायस्य प्रथमतः एव- ‘जनको वैदेहो बहुदक्षिणेन यज्ञेनेजे तत्र ह कुरुपाञ्चालानां ब्राह्मणा अभिसमेता बभूवुस्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव, कः स्विदेषां ब्राह्मणानामनूचानतम इति स ह गवां सहस्रमवरुरोध दश दश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः। तान् होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति। ते ह ब्राह्मणा न दधृषुरथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाच एताः सौम्योदज सामश्रवा इति’ इति। अनुष्टुब वृत्तम्॥९॥

बहूए पिदा राअसो हद्दी हद्दी सम्भाबिद म्हि अणुबट्टिदमह्रस्बे दिओ। हा देब्ब सब्बं ज्जेबं तं णत्थि।
( क ) जनकः। ( उपसृत्य )। भगवति अरुन्धति वैदेहः सौरध्वजोऽभ्वादयते। ( ख ) ‘यया पूतम्मन्यो निधिरपि पवित्रस्य महसः पतिस्ते पूर्वेषामपि खलु गुरूणां गुरुतमः।
हा धिक् हा धिक् सम्भाविता अस्मि अनुपस्थितमहोत्सवे दिवसे ; हा देव सर्वमेव तन्नास्ति।
(क) महाराजस्य-स्वामिनो दशरथस्य। हृदयानन्दः,-चित्ताह्लादहेतुः, (हृदयमानन्दयति यः सः हृदयानन्दः आनन्दयते पचाद्यच् )। बध्वा ;-स्नुषायाः सीतायाः। अनुपस्थितमहोत्सवे-सीतापरित्यागेन अनुपस्थितः विलयं गतः, महोत्सवो यस्मिन् तादृशे काले। सम्भाविता-स्वयमुपस्थिता साक्षात्करणात् सम्मानिता ; सीतायाः पुत्रप्रसवात् परमुपस्थितमहोत्सवे दिवसे अनेनाहम् आगमनाऽदिना सम्भाविता भविष्यामीति विपुलाऽशया वर्द्धिताऽहं सम्प्रति शोकजनकव्यापारात् परं दुःखमये दिवसे अतिस्निग्धेनैवामुना राजर्षिणा दर्शनादिना जनितगौरवाऽस्मीति भावः। सर्वमेव तन्नास्ति-आह्लादकरं सर्वमेव मे वध्ः नास्ति, रामादिरपि शोकसम्भिन्नहृदयः नात्र वर्तते, तत् कुतो मे एवंविधायाः सम्भावनमित्यर्थः।
( ख ) वैदेहः,-विदेहदेशाधिपतिः। सीरध्वजः,-सीरः लाङ्गलं, ध्वजे यस्य स तथोक्तः, लाङ्गललाञ्छितध्वजइत्यर्थः, ( ‘सीरोऽर्कहलयोः पुंसि’ इति मेदिनी )। अभिवादयते-नमस्करोति, त्वामिति शेषः।
अथारुन्धत्याः पातिव्रत्यादिधर्मयोगात् सातिसयपूतस्वभावतया त्रिभुवनवन्दनीयत्वमावेदयति, ययेति। -पवित्रस्य अतिविशुद्धस्य, त्रिलोकीपावनस्येत्यर्थः, महसः तेजसः, ब्रह्मतेजसः इत्यर्थः, तपःसिद्धेरिति यावत्, निधिरपि आस्पदमपि, तथा, पूर्वेषां पूर्वतनानाम्, आद्यानामिति यावत्, गुरूणां श्रेष्ठानां, सप्तर्षीणामित्यभिप्रायः, अपि गुरुतमः प्रधानतमः, प्रधानगुरुत्वेनाभिमतः, (सप्तर्षिमण्डलेषु अस्यैव महर्षेः वसिष्ठस्य प्राधान्यमावेदितमिति ज्ञेयम्) ते तव पतिः स्वामी, वसिष्ठ इत्यर्थः , यया भवत्या, पूतम्मन्यः आत्मानं पूतम् मन्यते, ( ‘आत्ममाने ‘(३। २। ८३ पा०) इति खश्। ‘अरुर्द्विषद्- ‘(६। ३। ६७ पा०) इति मुमागमश्च ) खलु नूनम्, त्रिलोकीमङ्गल्यामवनितल लोलेन सिरसा जगद्वन्द्यां देवीमुषसमिव वन्दे भगवतीम्॥ १०॥

सप्तर्षिषु प्रवरस्य महर्षिवासिष्ठस्य पूततमत्वं त्वयैव सुसम्पन्नम्मिति भावः। त्रिलोकेति। -त्रयाणां लोकानां समाहारः त्रिलोकी, तस्याः मङ्गल्यां मङ्गलाय हिता, (मङ्गलात् हितार्थे यत्प्रत्ययः ) त्रिभुवनमङ्गलकारिणीमित्यर्थः, जगद्वन्द्या सर्वलोकपूज्याम् ; विशेषणद्वयमेतदृषस्यापि योज्यम्। भगवतीं षडैश्वर्यशालिनीं, भवतीमिति शेषः, देवीम् उषसमिव प्रतःसन्ध्याऽधिष्ठात्रीं देवतामिव, ( ननु उषःशब्दस्य नित्यक्लीबत्वं मेदिन्याममरे च दृश्यते, ‘उषस् प्रत्युषसि क्लीबम्’ इति मेदिनी, ‘प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि’ इत्यमरः, तथा च कथमत्र स्त्रीत्वमिति चेदत्रोच्यते-उषःशब्दस्य कालमात्रावाचित्वे तु क्लीबत्वं, प्रातराद्यधिष्ठातृदेवतावाचित्वे तु स्त्रीत्वमिति, उषाः प्रातरधिष्ठात्री देवता इति दीक्षितः,- ‘प्रतिपदापद्विषत्सम्पच्चरत्संसत्परिषदुषः संवित्क्षुत्पुन्मुत्समिधः। ‘उषः प्रत्युषसि क्लीबं पितृप्रस्वाञ्च योषिति’ इत्यमरटीका च। वाचस्पत्येपि स्त्रीत्वमस्याऽऽम्नातमित्यवधेयम् ) अवनितललोलेन-अवनेः भूमेः, तले पृष्ठे, लोलेन चञ्चलेनम् लुठितेनेत्यर्थः, भूतलनमितेन इति यावत्, शिरसा मूर्द्ध्वा, वन्दे प्रणमामि। उषःपक्षे,-महसः निधिः सूर्य इति प्रत्येतव्यम् , अन्यत् समानम्। (उषादेवीं यथा भूमितलम्पर्शिशिरसा सर्वेऽभवादयन्ते, तथा जगद्वन्द्यां भगवतीमपीति देव्या उषसा सद्वारुन्धत्या अवैधर्मासाम्योपदेशात् श्लेषानुप्राणितां पूर्णोपमाऽलङ्कारः )। शिखरिणी वृत्तम्॥१०॥

अरु। परं ज्योतिस्ते प्रकाशताम् ; अयं स त्वां पुनातु देवः परोरजाः ; य एष तपति। ( ग ) ( ग )परं-प्रधानं, ज्योतिः, -ब्रह्माख्यं तेजः, परब्रह्मेत्यर्थः, ते-तव, प्रकाशताम्-आविर्भवतु ; ब्रह्मज्योतिःसाक्षात्कारस्ते भूयादिति भावः। अयं-प्रयक्षीभूत इत्यर्थः, सः,-प्रसिद्धः, देवः,-सूर्यः इति यावत् ; परोरजाः,-रजसः,-रजोगुणात्म् परः,-अतीतः। ( राजदन्तादित्वात् परशब्दस्य पूर्वनिपातः, पारस्करादित्वात् सुट् च निपात्यते ) रजोगुणेनास्पृष्ठः, विशुद्धसवगुणसम्पन्नः इति यावत्। त्वां-भवन्तं, पुनातु-पवित्रीकरोतु, (आशिषि लोट्)। य एषः,-सर्वप्रत्यक्षगोचरः इत्यभिप्रायः, तपति-तापनेन जगत् पवित्रीकरोति, अपूतस्य ब्रह्मज्ञानोदयासम्भवादित्यभिप्रायः। ‘य एवासौ तपति, तमुद्गीथमुपासीत’ (छान्दो०-१ अध्यायः, ३ खण्डः०। १ मन्त्रः) इति छान्दोग्ये उद्गीथरूपतया आदित्यस्यैवोपासना विहितेति ज्ञेयम्।
जनकः। आर्य्य गृष्टे अपि कुशलमस्याः प्रजापालस्य मातुः ? ( घ ) कञ्चुकी। ( स्वगतम् )। निर्विशेषमतिनिष्ठुरमुपालब्धाः स्मः।
( प्रकाशम् ) राजर्षे अनेनैव मन्युना अचिरपरित्यक्तरामभद्रमुखचन्द्रदर्शनां नार्हसि त्वं दुःखयितुमतिदुःखितां देवीम्। रामभद्रस्यापि दैवदुर्नियोगः कोऽपि ;यत् किल

( घ ) ३२७ घ टीका नास्ति ३२७ ड टीका नास्ति मित्यर्थः। यत्-यस्मात्म्, दुर्द्देवनियोगादिति यावत्।
समन्तात् प्रवृत्तबोभत्सकिंवदन्तीकाः पौरजानपदा नाग्निपरिशुद्धिमप्यल्पकाः प्रतियन्ति ; इत्यतो दारुणमनुष्ठितम्। ( ड ) जनकः। आः कोऽयमग्निर्नाम अस्मत्प्रसूतिपरिशोधने कष्टम् एवंवादिना जनेन रामपरिभूता अपि वयम् पुनः परिभूयामहे ( च ) अरु। ( निश्वस्य )। एवमेतत् ; अग्निरिति वत्सां प्रति परिलघुनि अक्षराणि ; सीतेत्येव पर्याप्तम्। हा वत्से ( छ) समन्तात्-सर्वत्र। प्रवृत्तेति। -प्रवृत्ता प्रचरिता, बीभत्सा जुगुप्सिता, किंवदन्ती जनापवादः, कौलीनमिति यावत्, येभ्यः ते। ( ‘नद्यृतश्च’ (५। ४। १५३ पा०) इति कप् प्रत्ययः ) सीताऽलीकापवादजल्पका इत्यर्थः। अल्पकाः,-नीचाऽऽशयाःम् पौरजनपदाः,-पुरवासिनः अयोध्याप्रदेशवासिनश्च। अग्निपरिशुद्धिमपि-अग्निना विशोधनमपि, अग्निपरीक्षया प्रमाणितनिर्दोषतामपीति यावत्। न प्रतियन्ति-न विश्वसन्ति, सुदूरलङ्कापुरे एतस्यानुष्ठानादित्यभिप्रायः। अतः,-अनेनैव हेतुना, दारुणं -भीषणं, निर्वासनरूपं मर्मभेदि कर्मेति यावत्, अनुष्ठितम्-आचरितं, रामभद्रेणेति शेषः। अतः दुर्द्दैवविलासं विभाव्य मन्युं परिहरति वाक्यार्थः।
(च) आः -इति अमर्षसूचकमव्ययम्। ( ‘आः स्यात् कोपप्रपीडयोः’ इत्यमरः) कोऽयं-न शक्तिमानित्यर्थः ; पावनताविधाने अस्मात्प्रसूतिसमीपे सोऽतिलघुरिति भावः। एवंवादिना- ‘अग्नौ सीतायाः शुद्धिः’ इत्येवं वाक्यं वदतेत्यर्थः, जनेन-कञ्चुकिना, अयोध्यावासिना च नीचलोकेनेति यावत्। रामपरिभूताः,-रामेण परिभूताः, चारित्रादोषापवादेन सीताया निर्वासनात् अवमानिताः इत्यर्थः। परिभूयामहे-परिभूताः स्मः। सीतायास्त्यागात् विशेषस्तु सापवादत्यागादत्यन्तमवमानिता वयं रामेण, सम्प्रति प्रसूतिपरिशोधनरूपमेवम् असह्यं वाक्यं वदता जनेन पुनरपि विशेषतः लाञ्छिता भवामः, इति तु समुदितार्थः।
(छ) एवमेतत्-भवता यदुदीरितं, तत् सर्वथैव सत्यमिति भावः। स्वयमपि प्रागुक्तवाक्यस्य सत्यतां प्रमाणीकरोति, अग्निरित्यादिना। -वत्सां प्रति-वत्सायाः सीतायाः सम्बन्धे, तया सह तुलनयेति यावत् ; अग्निरिति-अग्निर्नाम, परिलघूनि-अतिक्षुद्राणि ; अक्षराणि-भावाभिव्यञ्जकवर्णः। अग्निरिति वर्णमात्रोच्चारणा न्येव भवन्ति, न तु अर्थप्रकाशकानि भवन्ति, महातेजसः समीपे अल्पतेजस इव तत्र अग्नेस्तेज् न स्फुरन्ति, अतः परिशुद्धिविषये सीतासमीपे अग्निरिति नामापि न कर्तव्यं, सीतायास्तस्य हीनत्वादिति भावः। सीतेत्येव पर्य्याप्तं-तेन हि शुद्धिविषये सीतेति वर्णोच्चारणेनैव सम्यक्, एवञ्च सीता इति वर्णानामुच्चारणेनैव सर्वं पवित्रं स्यात्, कस्तस्याः सामान्यपावनान्तरेण शुद्धिः ? इति भावः। हा वत्से -हे सीते (वक्ष्यमाणश्लोकेनान्वयः) ‘शिशुर्वा शिष्या वा यदसि मम तत् तिष्ठतु तथा विशुद्धेरुत्कर्षस्त्वयि तु मम भक्ति दृढयति।
शिशुत्वं स्त्रैणं वा भवतु ननु वन्द्याऽसि जगतो गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः॥ ११॥

अथ जातिवयोगुणेषु गुणानामेव प्राधान्यमभिधाय सीतायाः शुद्धिमत्तमत्वं प्रतिपादयति, शिशुर्वेति। -त्वं शिशुर्वा अल्पवयस्का बालिका वा, मम शिष्या वा अन्तेवासिनी वा, सदसतोः उपदेष्टव्या वेत्यर्थः, असि भवसि, यत् यादृशी एव, भवसि इति शेषः, तत् शिशुत्वं शिष्यत्वं वा, तथा तादृगेव, तिष्ठतु वर्त्तताम् ; त्वं मत्समीपे प्राक् यादृशी आसीः, इदानीमपि तथैव तिष्ठेः, नाहमधुना तव शिशुत्वविधौ शिष्यत्वविषये वा कमपि विपर्ययं साधयितुमिच्छामह, विषुद्धेरिति। -विशुद्धेः पवित्रतायाः, निर्द्दोषतायाः इति यावत्, उत्कर्षस्तु अतिरेक एव, स्वतःशुद्धिरूप इति यावत्, त्वयि भवत्यां, मम मे, भक्तिम् अनुरागं, द्रढयति सुदृढां करोति, वर्द्धयतीत्यर्थः, कनीयस्यां शिष्यायामपि पतिव्रताकुलशेखरभूतायां त्वयि समधिकां पवित्रतां विलोक्य विह्वलीभूतायाः ज्यायस्याः गुरुपत्न्याः अपि मे अकपटा भक्तिः समुदेतीति समुदित्यर्थः। न केवलं मम, अपि तु युगपदेव सर्वेषां निरवद्या भक्तिः त्वयि समजनि इत्याह, शिशुत्वमिति। -शिशुत्वं शैशवं, स्त्रैणं वा स्त्रीत्वं वा, भवतु अस्तु, तवेति शेषः, एतावता न हि ते पूज्यात्वहानिः भवितुमर्हतीति भावः। ननु खलु, निश्चितमेवेत्यर्थः। स्त्री अपि शिशुरपि, कथं जगद्वन्द्याऽसि ? इत्येतत् प्रदर्शयितुमर्थान्तरं न्यस्यति, गुणा इति। -गुणाः पातिव्रत्यशालीनत्वादिधर्माः पूजास्थानं पूजायाः अर्चायाःम् समादरस्येति यावत्, स्थानम् आस्पदं, गुणा हि पूज्यात्वविधायकाः भवन्तीति भावः ; गुणिषु तत्तद्गुणसमन्वितेषु, लिङ्गं स्त्रीत्वपुंस्त्वादिकं चिह्नं, न च नहि, वयः-बाल्यकौमारादिकम्, अल्पवयस्त्वं प्रवयस्त्वं वेत्यर्थः, न च नैव, पूजास्थानं भवेदिति शेषः। पुंस्त्वजरापलितत्वादिभिरेव केवलं जनाः पूजां न लेभिरे, सर्व्वत्र युगानामेव पूज्यत्वप्रयोजकतया, त्वं पातिव्रत्यादिगुणमहिमाभिः सर्व्वेषां प्रपूजनीया भवसीति भावः। ( अत्र चकरद्वयेन नञ् द्वयेन च प्रत्येकं लिङ्गस्य वयसश्च समुदियोश्च तयोः पूजास्थानत्वं प्रतिषिद्धमिति ज्ञेयम्। अत्र सामान्येन गुणानां पूज्यत्वविधायकेन वस्तुना, विशेषस्य सीतायाः जगद्वन्द्यत्वरूपवस्तुनः सोपपतीकरणात् सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासालङ्कारः ; अपि च लिङ्गवयसोः पूज्यताहेतुत्वनिरासात् शब्दो परिसङ्ख्यालङ्कारः, एतयोः परस्परमङ्गाङ्गिभावतया संस्थितेः सङ्करः )। शिखरिणी वृत्तम्॥११॥

कौशल्या। अम्भो उम्मीलन्ति बेअणाओ। ( ज ) ( इति मूर्छति ) ( झ )।
जनकः। हा कष्टम् किमेतत् ? ( ञ ) अरु। राजर्षे किमन्यत् ? ( ट ) अहो उन्मीलन्ति वेदनाः।
(ज) अहो -हा अतिक्लेशकरमित्यर्थः ; वेदनाः,-शोकसमुद्भूतव्यथासमूहाः, उन्मीलन्ती-उद्गच्छन्ति, नवीभावमासाद्य मा नितरां व्यथयन्तीति यावत् ; सीतायाः गुणग्राममाकर्ण्य संस्मृत्य च विवशो मां तद्विरहशोकः पुनः नितरां विह्वली करोतीति भावः।
(झ) इति मूर्च्छति-एतावदुक्ता कौशल्या स्वमोहभावमभिनयतीत्यर्थः।
(ञ) हा कष्टम् -अहो निरतिशयं हृदयविदारकमिति यावत्, एतत्-कौशल्याया मूर्च्छितत्वं, किम् ?-कथमभूदिति भावः ; किमर्थं हि द्वयं मूर्च्छिता भवति तत् न जाने इत्याशयः।
(ट) किमन्यत् ?-अपरं किमप्यत्र मूर्च्छाऽगमे कारणं नास्तीति भावः ; दारुण शोकसङ्क्रोभं सोढुमपारयन्ती कुसुममृदुला इयं कौशल्या सहसा मूर्च्छिताभूदित्यभिप्रायः।
स राजा तस्यौख्यं स च शिशुजनस्ते च दिवसाः स्मृतावाविर्भूतं त्वयि सुहृदि दृष्टे तदखिलम्।
विपाके घोरेऽस्मिन्नथ खलु विमूढा तव सखी पुरन्ध्रीणां चित्तं कुसुमसुकुमारं हि भवति॥ १२॥

अथ मूर्च्छाऽगमहेतुं विशेषेण विवृणोति, स राजेति। -सुहृदे प्रियसखे, त्वयि भवतिम् जनके इत्यर्थः, दृष्टे अवलोकिते सति, भवत्साक्षात्कारसमकालमेवेत्यर्थः, सः प्रसिद्धः, राजा दशरथः, तत् अनिर्वचनीयं, सौख्यं सुखसमूहः, स च पसिद्धः, शिशुजनः सीतारामचन्द्रादिबालकसमूदायः, ते च प्रसिद्धाः महाऽनन्दपूर्णा इति यावत्, दिवसाः दिनानि, तदखिलम् एतत्मव्वेमेव, दशरथादिसुखमयदिवसपर्य्यन्तं वस्तुजातमित्यर्थः, स्मृतौ स्मरणपथे, आविर्भूतम्, आयातम्, (चाविर्भवतः कर्तति क्त प्रत्ययः )। अथ अनन्तः , पूर्ववृत्तान्तजातस्मरणात् परमेवेत्यर्थः, अस्मिन् अनुभूयमाने, घोरे भीषणे, विपाके विपदिम् दशाविपरिणामे इति यावत्, स्मृते सति इत्यर्थः ; तस्य राज्ञः दशरथस्य मृतत्वेन, रामस्य प्रसुत्वात् सीतात्यागकर्तृत्वेन च हेतुना, तत्कालेन सह एतत्कालस्य सुमहत् वैषम्यमवलोक्येति भावः, तव सखी स्निग्धमिवभूता कौशल्येत्यर्थः, विमूढा खलु विगतचेतना जातेति शेषः। एतदेवार्थान्तरन्यसनेन विशदीकरोतिम् पुरन्ध्रीणामिति। -हि यस्मात् कारणात्म् पुरन्ध्रीणां कुलस्त्रीणां, चित्तं मानसं, कुसुमसुकुमारं पुष्पमिव कोमलं, स्वल्पेनैव सन्तापेन निम्नायमानमिति यावत्, भवति अस्ति ; यतश्चेतसामतिकोमलं चेतः कियन्तमपि सन्तपमसहिष्णु भवति, तस्मादेवेयं कौशल्या सहसा विमूर्च्छिताः जातेति वाक्यार्थः। ( अत्र सामान्येन पुरन्ध्रीचित्तेन सार्द्धं विशेषस्य कौशल्याचेतसः कुसुमसुकुमारतया सोपपत्तीकरणात्, सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासालङ्कारः ; अपि च तद्राजसंस्मरणरूपैकेन कारणेन कौशल्याया विमूढीभवनस्य सम्पद्यमानत्वेऽपि तत्सौख्यरूपाणां कारणान्तराणां खलेकपोतिकन्यायात् तत्साधकत्वेन समावेशात् समुच्चयालङ्कारः ; कुसुमेन साकं चित्तस्य समासेन अवैधर्मासाम्योपदेशाच्च लुप्तोपमाऽलङ्कारः ; एतेषान्तु परस्परसापेक्षतया संस्थितेः सङ्करः )। शिखरिणी वृत्तम्॥१२॥

जनकः। कष्टं सर्वथा नृशंसोऽस्मि ; यच्चिरस्य दृष्टान् प्रियसुहृदः प्रियान् दारान् न स्निग्धं पश्यामि। ( ठ ) (ठ) कष्टम्-अतिदुःखप्रदमित्यर्थः, सर्वथा-सर्वप्रकारेण, निरतिशयमिति यावत्, नृशंसः,-निर्द्दयः, अस्मि-भवामि, यत्-यस्मात् कारणात्, चिरस्य दृष्टान्-बहुकालात् परम् अवलोकितान्, प्रियसुहृदः,-अतिस्निग्धस्य सख्युः दशरथस्य प्रियान्-प्रेमाऽऽस्पदीभूतान्-स्त्रियं कौशल्यां, स्निग्धं-सस्नेहं , सप्रणयमिति यावत्, न पश्यामि-न अवलोकयामि ; दुहितुः सीतायाः निर्वासनशोकेन इत्थमेवेदानीं खिन्नमनसः विकलश्च भवामि, यत् स्निग्धमित्रस्य राज्ञः दशरथस्य प्रियां भार्य्यां बहोः कालात् परं दृष्टामपि नाहमिदानीं सप्रणयमवलोकयामि, अपि तु तां शत्रुभूतामेव मन्ये अतो नास्ति मत्तः अधिकः कश्चित् क्रूर इति भावः।
स सम्बन्धी श्लाघ्यः ; प्रियसुहृदसौ ; तच्च हृदयं ; स चानन्दः साक्षादपि च निखिलं जीवितफलम्।
शरीरं ; जीवी वा ; तदधिकमतो वा प्रियतमो महाराजः श्रीमान् किमिव मम नाऽऽसीद्दशरथः ?॥ १३॥

अथ राजनि दशरथे प्राक्तनं स्वप्रेमाऽतिशय्यं स्फुटीकृत्य प्रतिपादयति स सम्बन्धीति। -सः प्रसिद्धः, राजा दशरथः इत्यर्थः, श्लाघ्यः महाकुलसम्भूतत्वात् प्रशंसनीयः, सम्बन्धी स्वदुहित्रा सह रामस्य परिणयात् वैवाहिकसम्बन्धवान्, असौ दशरथः, प्रियसुहृत् प्रियः प्रीतिमान्, शोभनं हृदयं यस्य असौ सुहृत्, ( ‘सुहृद्दुर्हृदौ मित्रामित्रयोः’ (५। ४। १५० पा०) इति हृदयशब्दस्य हृदादेशः ) सुष्ठुहृदयवांश्च, स्निग्धमुखः इत्यर्थः ; तच्च हृदयं स हि दशरथः, असौ तु मम द्वितीयं हृदयमिव अभूदिति भावः, (अत्र तच्छब्दस्य विधेयप्राधान्यात् क्लीबत्वं ज्ञेयम् ) ; स दशरथः, साक्षात् प्रत्यक्षः, आनन्दः हर्षः, ममेति शेषः, अपि च किञ्च निखिलं समग्रं, जीवितफलं प्राणधारणप्रयोजनभूतम्, असौ इति शेषः, इह जन्मनि मज्जीवनस्य यद् यद्धि प्रार्थनीयम् आसीत्, तत् सर्वमेवासौ अभूदिति भावः। प्रोक्तजातेनापरितुष्यन् पुनः तस्य परमाऽत्मीयत्वम्म् संस्थापयति, शरीरमिति। -तथा शरीरं देहभूतः, जीवो वा स्वप्राणस्वरूपो वा, तदधिकम् एतस्मात्-जीवनादधिकं यदि वा किञ्चित् प्रीतिकरं वस्तु स्यात्, असौ तु मे तत्स्वरूप एवाऽऽसीदिति भावः, अतः अस्मात् कारणादेव, प्रियतमः निरतिशयमेव प्रीत्यास्पतीभूतः, महाराजः सम्राट्, श्रीमान् राजलक्ष्म्याः आश्रयः, दशरथः, मम किमिव नाऽऽसीत् ? ( इवशब्दो वाक्यालङ्कारे )। इह जगति प्रोक्तविषयेभ्यः अधिकं किं हि वस्तु विद्यते, यदसौ मम नाभूदिति भावः, तेनैव केवलं विरहितः अहं सर्वं शून्यमिव पश्यामि, नास्ति मे अधुना किञ्चिदपि इति विभावयामि इत्याशयः। अत्र आसीत् इति क्रियापदं पूर्व्वावाक्यषट्केऽपि योजनीयम्। ( अत्र एकस्मिन्नेव दशरथे हृदयजीवितफलशरीरजीवत्वानां तादात्म्येनाभेदाध्यासादेव निरङ्गं मालारूपकमलङ्कारः ; अपि च आनन्दस्य मूर्त्तत्वासम्बन्धेऽपि साक्षाच्छब्देन तथात्वोक्तेः, असम्बन्धे सम्बन्धरूपातिशयोक्तिरलङ्कारः ; अपि च शरीरात् हृदयात् जीवनाधिकप्रियवस्तुनः अभावात् तदसम्बन्धेऽपि तत्सम्बन्धोक्तेः तथैवातिशयोक्तिश्च ; एवं किमिव नाऽऽसीदिति वाक्यार्थं प्रति प्रागुपात्तवाक्यार्थानां हेतुसततयोपन्यासात् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ; आनन्दजनकस्य दशरथस्य आनन्दरूपतया अभिधानात् हेतोः हेतुमता सह अभेदोक्तेः अभिधाहेतुरलङ्कारश्च, एषां परस्परसापेक्षतया संस्थितेः सङ्करः)। शिखरिणी वृत्तम्॥१३॥

कष्टम् इयमेव सा कौशल्या – यदस्याः पत्युर्वा रहसि परमं दूषितमभूदभूवं दम्पत्योः पृथगहमुपालम्भविषयः।
प्रसादे कोपे वा तदनु मदधीनो विधिरभू दलं वा तत् स्मृत्वा दहति यदवस्कन्द्य हृदयम्॥ १४॥

अथैतयोः कौशल्यादशरथयोः स्वस्यातीवान्तरङ्गत्वं प्रदर्श्य, शोकस्य दुर्भरत्वं विवृणोति, यदस्या इति। -अस्याः कौशल्यायाः, पत्युः वा अस्याः स्वामिनः राज्ञः दशरथस्य वा, रहसि निर्ज्जने, परमम् अत्यर्थं, यत् दूषितं प्रणयापराधः, अन्योऽन्यकृतः प्रणयकलहः इत्यर्थः, अभूत् आसीत्, कौशल्यादशरथौ पुरा रहसि यत् परस्परं कृतकं प्रणयकोपमकुरुतामिति वाक्यार्थः ; दम्पत्योः जायापत्योः कौशल्यादशरथयोः, पृथक् विभिन्नं, जायायाः पत्युश्च परस्परनैरपेक्ष्येणेति यावत्, अहम् उपालम्भस्य तिरस्कारस्य, प्राक् प्रणयकोपावसरे राज्ञी कौशल्या मामित्थमुवाच, यत् तव प्रियसखः मयि एवमन्याय्यमाचरितवान्, भवदनुरोधादेवाहं सर्व्वमसहिषिं, नातः परं कदाऽपि तत् सहिष्ये इति, एवमेवासावपि सततमुवाचेत्येवंरूपस्य विषयः आस्पदम्, अभूवम् आसं, तत्र पुरेति शेषः ; तदनु तत्पश्चात्, कृतकप्रणयकलहोत्पादनान्तरमेवेत्यर्थः, प्रसादे उभयोः प्रसन्नतासपादनविषये, कोपे वा क्रोधोत्पादने वा, मदधीनः ममाऽयत्तः, विधिः व्यवस्था, अभूत् आसीत्, तौ च दम्पती प्रसादयितुं कोपयितुं वा, एकः अहमेव समर्थोऽभवमित्यर्थः ; वा अथवा, तत् पूर्ववृत्तं, स्मृत्वा अलम्, ( ‘अलङ्खल्वोः प्रतिषेधयोः प्राचां क्ष्वा’ (३। ४। १८ पा०) इत्यलंयोगात् क्त्वाप्रत्ययः) तथाविधपूर्ववृत्तान्तस्मरणमधुना निष्प्रयोजनमित्यर्थः, यत् पूर्व्ववृत्तवृन्दं, हृदयं मानसम्,, अवस्कन्द्य आक्रम्य, शोषयित्वेत्यर्थः, दहति भस्मीकरोति ; तत्तद्वृत्तं संस्मृत्य इदानीं हृदयमेव केवलं शोकाऽऽकुलं भवति, तेन तदालोचना अधुना परिहरणीयेति भावः।
( अत्र दूषितत्वरूपकारणस्य दम्पत्योः स्थितत्वेन उपालम्भरूपकार्यस्य च जनकगतत्वेन कार्य्यकारणयोर्भिन्नदेशगतत्वात् असङ्गत्यलङ्करः )। शिखरिणी वृत्तम्। १४॥

अरु। हा कष्टम् अतिचिरनिरुद्धनिखासनिष्ठुरं हृदयमस्याः। ( ड ) जनकः। हा प्रियसखि ( ढ ) ( इति कमण्डलूदकेन सिञ्चति )। ( ण ) कञ्चुकी। सुहृदिव प्रकटय्य सुखप्रदः प्रथममेकरसामनुकूलताम्।
पुनरकाण्डविवर्तनदारुणो विधिरहो विशिनष्टि मनोरुजम्॥ १५॥

(ड) अतिचिरेत्यादि। -अतिचिरं-सुदीर्घं कालं व्याप्येत्यर्थः, निरुद्धः,-स्तम्भितः, यः निश्वासः,-श्वासमारुतः, तेन निष्ठुरं-कठोरं, श्वासनिरोधेन निश्चलमिति यावत् ; ( ‘कठोर निष्ठुरं दृढम्’ इत्यमरः) ; अस्याः,-कौशल्यायाः, हदयं-वक्षस्थलम्, अनुभूयते इति शेषः ; तथा च वक्षःस्थलमस्याः निस्पन्दमनुभूयते, तत् किमियं शोकाऽवेगं सोढुमपरयन्ती गतजीवनाऽमृदिति भावः।
(ढ) हा-खेदे, प्रियसखि -कौशल्ये , त्वमधुना कीदृशीं दशां गताऽसीति शेषः।
(ण) कमण्डलूदकेन-कमण्डलुसलिलेन, सिञ्चति-उक्षति, सुशीतलीकरोति, इति यावत् ; मोहापसारणार्थं कौशल्यायाः इति शेषः।
अथ कञ्चुकी राज्ञ्याः कौशल्यायाः ईदृशीं दशां विलोक्य, विधातुः कदाचित् प्रियसखवत् आनुकूल्यारित्वं कदाचिच्चामित्रवत् आधिप्रदायकत्वं वाचा व्यक्तीकृत्य नितरामनुशोचति, सुहृदेवेति। -विधिः विधाता, सुहृदिव मित्रमिव, प्रथमम् आदौ, बाल्यात्प्रभृति रामवनवासं यावदित्याशयः, एकरसाम्-एकः एकविधः, रसान्तरेणाविमिश्रः इति यावत्, रसः आस्वादः यस्याः तथाविधाम्, ( ‘रसो गन्धे रसः स्वादे तिक्ताऽऽदौ विषरागयोः’ इति मेदिनी) दुःखाविमिश्रानियतसुखप्रवाहिणीमिति यावत्, अनुकूलताम् आनुकूल्यं, हितैषितामित्यर्थः, अस्याः कौशल्यायाः इति शेषः ; प्रकटय्य प्रकाश्य, दर्शयित्वेति यावत्, सुखप्रदः सन् सुखदायको भूत्वा, पुनः भूयः, पश्चादित्यर्थः, अकाण्डविवर्तनदरुणः,-अकाण्डे अनवसरे, सहसेति यावत्, विवर्तनेन परिवर्तनेन, प्रतिकूलताविधानेनेत्यर्थः, दारुणः भीषणः सन्, दुर्हृदिव अकस्मात् दुर्विषहदुःखप्रदो भूत्वेति यावत् ; अहो अतिदुःखक्रूरमित्येतदित्यर्थः, मनोरुजं मानसव्यथां, विशिनष्टि प्रददाति, दारुणं दुःख मुत्पाद्य नियतं मानसं प्रमथातीत्यर्थः ; प्राक् इयं महिषी कौशल्या कीदृशी आसीत्, अधुना दुर्दैवप्रभावात् कीदृशी जातेति पश्य, इत्याहो दैवगतिः दुर्वितर्कैवेत्याशयः। ( अत्र दैवेन विरूपयोः सुखदुःखयोः एकत्र सङ्घटना प्रदर्शितेति विषमालङ्कारः ; अपि चैकस्य विधेः अनुकूलतायाः मनोरुजश्च जनकत्वेन एजस्यानेकगोचरतया पर्य्यायालङ्कारः, सुहृदिवेत्युपमाऽलङ्कारश्च, एतेषां परस्परसापेक्षतया स्थितेः सङ्करः )। द्रुतविलम्बितं वृत्तम्॥ १५॥

कौशल्या। ( सञ्ज्ञां लब्ध्वा )। हा वच्छ जाणइ कहिं सि ? सुमरामि दे बिआहलच्छीपरिग्गहेक्कमण्डणं पप्फुरन्तसुद्धहसिदमुद्धमुहपुण्डरीअं ;आप्फुरन्तकोमुद चन्दचन्दिआसुन्दरेहिं ओहिं उल्लासेहि ; जादे पुणोबि उज्जोएहि उच्छङ्गं ; सब्बदा महाराओ भणादि ; एसा रहुअलमहत्तराणं बहू ; अम्हाणं उण जणअसम्बन्धेण दुहिदिआ एब्ब। ( त ) हा वत्से जानकि क्वासि ? स्मरामि ते विवाहलक्ष्मौपरिग्रहैकमण्डानं प्रस्फुरच्छुद्धहसितमुग्धमुखपुण्डरीकम् ; आस्फुरत्कौमुदचन्द्रचन्द्रिकासुन्दरैरङ्गैरुल्लासय ; जाते पुनरप्युद्योतयोत्सङ्गं ; सर्वदा महाराजो भणति ;– एषा रघुकुलमहत्तराणां वधूः ; अस्माकं पुनर्जनकसम्बन्धेन दुहिता एव।
(त) क्वासि ?-कुत्र वर्तसे ? ते- तव विवाहेत्यादि। -विवाहस्य-परिणयस्य, या लक्ष्मीः,-शोभा, सीमन्तसिन्दूरादिधारणैः विवाहकालसम्भूता या अनिर्वचनीया सुषमेति यावत् , तस्याः परिग्रहः,-स्वीकारः एव , एकम्-अद्वितीयं, मण्डनं-भूषणं यस्य तथाविधम् ; आहार्यशोभां विनैव वैवाहिकशोभया अतिरमणीयमित्यर्थः। प्रस्फुरदिति। -प्रस्फुरत्-विलसत्, शुद्धं-निर्मलं, हसितं-स्मितं यस्मिन् तथाविधम्, अत एव मुग्धं-मनोहरं, सुखं-वदनं, पण्डरीकामेव-कमलमिव, ( इत्युपमितसमासः ; मृदुहसितेन। आस्फुरत्यादि। -आ-सर्व्वतोभावेन, स्फुरन्ती-प्रकाशमाना, दिशां विदिशाञ्चान्तरालमपि समुद्भासयन्तीत्यर्थः, कौमुदस्य-कर्त्तिकमासस्य, शरत्कालस्येति यावत्, कालान्तरात् एतत्कालस्य सुधाधवलाभिः कौमुदीभिः समधिकसमुद्भासिततया तथा व्यवहारः इति ज्ञेयम्। चन्द्रस्य-शशदरस्य, या चन्द्रिका-ज्योत्स्ना, तद्वत् सुन्दरैः,-मनोरमैः, सुखस्पर्शैरिति यावत्, औः,-अवयवैः, उल्लासय-आनन्दस्य, मच्छरीरं स्निग्धस्पर्शैः तवाङ्गकैः सुशीतलं कुरु इति समुदितार्थः। जाते -हे वत्से पुनरपि-भूयोऽपि, उत्साहं-मदीयं क्रीडम्, उद्योतय-प्रकाशय, सुशोभितं कुरु उपवेशनेनेति यावत्, सर्व्वदा-सर्व्वस्मिन्नेव काले, महाराजः,-दशरथः, भणति-कथयति। ( अत्र अतीते लटः प्रयोगः तात्कालिकत्वाभिप्रायेण, महाकविप्रयुक्तत्वाद्वा अविरुद्धं एवेति ज्ञेयम् )। रघ्वित्यादि। रघुकुलस्य-रघुवंशस्य, महत्तराणाम्-अतिमहतां, भगवन्मनुप्रभृतीनामतिमहिमशालिनामस्मत्पूर्व्वपुरुषाणामित्यर्थः, वधूः-स्नुषा, पुनः, -किन्तु, जनकसम्बान्धेन-राजर्षिजनकेन सह मित्रत्वसम्बन्धात्, दुहिता एव- कन्यैव; जनकेन सह मैत्र्या तस्य या कन्या सा ममापीति भावः।
कञ्चुकी। यथाऽऽह देवी। – पञ्च प्रसूतेरपि राज्ञ आसीत् प्रियो विशेषेण सुबाहुशत्रुः।
वधूचतुष्केऽपि यथैव शान्ता प्रिया तनूजाऽस्य तथैव सीता॥ १६॥

अथ तदुक्ति यथार्थत्वेन समर्थयति कञ्चुकी, पञ्चेति। -पञ्च प्रसूतयः अपत्यानि यस्य, तथाविधस्यापि, एका कन्या शान्ता, चत्वारः पुत्राः रामादयः इति मिलित्वा दशरथस्य पञ्चापत्यानि इति ज्ञेयम् ; राज्ञः दशरथस्य, सुबाहुशत्रुः,-सुबाहुर्नाम रावणानुचरो राक्षसविशेषः, तस्य शत्रुः निहन्ता, रामः इत्यर्थः , विशेषेण अन्येभ्यः आधिक्येन, प्रियः प्रेमाऽऽस्पदीभूतः, आसीत् अभूत् ; पञ्चभ्यश्चापत्येभ्यः राममेव महाराजः दशरथः निरतिशयं पिप्रायेति भावः ; तनूजा कन्या, शान्ता महर्षेः ऋष्यशृङ्गस्य पत्नी अस्य राज्ञः दशरथस्य, यथैव यादृगेव, प्रिया प्रीतिभाजनम्, आसीदिति शेषः , वधूचतुष्केऽपि-वधूनां सीतोर्मिलाश्रुतकिर्तिमाण्डवीनां, चतुष्कोऽपि चतुष्तयोऽपि, चतसृषु सीताऽदिषु स्नुषासु इत्यर्थः, ( निर्द्धारणे सप्तमी। यद्यपि सर्वत्र निर्द्धारणार्थे बहुत्वस्यैव व्यवस्था भूयस्तया दृश्यते इति विभाव्यते, तथाऽप्यत्र एकवचनानुसारेणेऽपि बहुत्वस्यार्थगतत्वेन सामञ्जस्यात् निरपवादमेवैतदिति ज्ञेयम् )। सीता जानकी, तथैव तादृशी एव, शान्तविदेत्यर्थः, प्रिया प्रीतिकरी, आसीत् इति शेषः ; सत्यमेतत्,-अपत्येषु रामे इव वधूषु सीतायामेवासौ राजा सातिशयं प्रीतिमान् बभुवेति भावः। ( अत्र सीतारामरूपयोः प्रस्तुतयोः पदार्थयोरेकयैव आसीदिति क्रियया अभिसम्बन्धात् तुल्ययोगितालङ्कारः ; शान्तया सह सीतायाश्च अवैधर्म्यसाम्योपदेशादुपमा च, इत्येतयोः परस्परसापेक्षतया स्थितेः सङ्करः )। उपजाति वृत्तम्॥ १६॥

जनकः। हा प्रियसख महाराज दशरथ एवमसि सर्वप्रकारहृदयङ्गमः कथं विस्मर्य्यसे ? (थ) – कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं सम्बन्धे विपरीतमेव तदभूदारधनं ते मयि।
त्वं कालेन तथाविधोऽप्यपहृतः सम्बन्धबीजन्तु तद् घोरेऽस्मिन् मम जीवलोकनरके पापस्य धिग्जीवितम्॥ १७॥

(थ) प्रियसख -प्रियबन्धो एवमसि-इत्थम्भूत एव भवसि। किम्भूतोऽसि एतदेवाऽऽह, सर्व्वेति। -सर्व्वप्रकारेण-सर्व्वथा, हृदयङ्गमः ,-हृदयं गच्छतीति ( ‘गमेः सुप्युपसङ्ख्यानम्’ (वा०) इति खच् प्रत्ययः) हृद्यः, प्रणयास्पदमित्यर्थः. त्वमिति शेषः, सत्यं हि अस्माकं स्निग्धया मैत्र्या हृदयाऽऽकर्षक एव भवसीत्यर्थः ; कथं-केन प्रकारेण, विस्मर्य्यसे ?-मानसात् दूरीकर्त्तुं शक्यसे ; त्वमेवं हि मम परममिवभूतः अभवः, यत् बहुतिथे काले व्यतीतेऽपि त्वामधुनाऽपि नाहं विस्मर्तुं पारयामीति भावः।
अथ तादृशप्रियबन्धुवियोगात् स्वजीवने नितरामनास्थां प्रकटयति, कन्याया इति। -कन्यायाः तनयायाः, वधूभूताया इति यावत्, पितरः पितृपितामहाऽऽदयः, जामातुः वरस्य, परिणेतुरित्यर्थः, आप्तं जनम् आत्मीयं लोकं, पितृपितृव्यादिस्वजनसमुदायमिति यावत्, पूजयन्ति संवर्द्धयन्ति, सत्कारेण आद्रियन्ते इत्यर्थः। किञ्च इति प्रसिद्धौ। सम्बन्धे पारिणाय्यसम्पर्के, संस्थापिते सतीति शेषः, रामाऽदिभिः सह सीताऽऽदीनां परिणयेव रघुकुलनिमिकुलयोः सख्यबन्धने सम्पन्ने सतीति भावः ; ते तव मयि जनके, तत् लोकप्रसिद्धं, जामातृस्वजनेषु कन्यागुरुजनकृतमित्यर्थः, आराधनं संवर्द्धनं, विपरीतमेव अन्यथाभूतमेव, सामाजिकरीतत्यननुरूपमेवेत्यर्थः, अभूत् आसीत् ; लोकं हि कन्यागुरुजनाः जामातुः स्वजनान् संवर्द्धयन्ति इति दृश्यते, परन्तु जामातणां रामाऽऽदीनां गुरुभूताः अपि भवन्तः कन्याजनानां सीतोर्मिलाऽदीनां गुरुभूतान् अस्मान् जनकाऽऽदीन् सततमेव सौहार्द्दात् अपुपूजन्, इत्यहो सखिभावात् सौदर्य्याच्च भावन्तः स्वगौरवलाघवसूचकं व्यवहारमपि पराजिहित इति भावः ; तथाविधोऽपि तादृशोऽपि, सौजन्यैकनिधिरपीत्यर्थः, त्वं भवान्, कालेन कृतान्तेन, अपहृतः लोकान्तरं नीतः, अस्मत्सकाशात् बलाद् गृहीतः इत्यर्थः, अहो निर्द्दयत्वं कालस्येति भावः ; तत् तथाविधं, सीतारूपमिति यावत्, सम्बन्धस्य वैवाहिकसंसर्गस्य, बीजं तु निदनमपि, अपहतमिति लिङ्गविपरिणामेनान्वयः ; न केवल निखिलगुणनिलयं प्रणयनिधि भवन्तमपहत्य कालोऽप्रीणात्, अपि तु तेन वैवाहिकसम्बन्धहेतुभूतां सीतामपि बलात् हत्वा निःशेषमस्मत्सम्बन्धमूलमुच्छिद्य सातिशयं स्वपैशुन्यं व्यक्तीकृतमित्यहो कारुण्यलेश विवर्जितत्वं कालस्येति तात्पर्यम्। घोरे भयङ्करे, सातिशयक्लेशसङ्गुले इत्यर्थः, अस्मिन् दृश्यमाने, जीवलोकनरके निरयभूते संसारे, पापस्य अपुण्यकृतः, दुराचारस्येत्यर्थः, ममजनकस्य, जीवितं प्राणान्, जीवनधारणमित्यर्थः, धिक् निन्दामि, निन्दनीयमेतदिति यावत् ; भवादृशि सुहृदि विपन्ने ; दुहितुश्च ईदृश्यामचिन्तितायां विषमायां दशाया समापितायां, वृथैवाहमिदानीं जीवनमुद्वहामि, अधुना मरणमेव मे श्रेयः इति भावः। ( अत्र जीवलोके नरकस्याभेदाध्यासात् निरङ्गं रूपकमलङ्कारः)। शार्दूलविक्रीडितं वृत्तम्॥१७॥

कौशल्या। जादे जाणइ किं करोमि ? दढबज्जलेबघडिअबन्धणिच्चलं ज्जेब हदजोबिदं मं मन्दमाइणीं ण परिच्च अइ। ( द ) जाते जानकि किं करोमि ? दृढवज्रलेपघटितबन्धनिश्चलमेव हतजीवितं मां मन्दभागिनीं न परित्यजति।
(द) जाते -वत्से , जानकि -सीते किं करोमि-किमनुतिष्ठामि ; तद्वियोगे जीवनविसर्ज्जनमेव मे सर्वदुःखप्रतीकारोपायभूततया साधीयः, किन्तु यत् न सम्भवति, तर्हि किमनुतिष्ठेयमहमधुनेति भावः। दृढत्यादि। -दृढेन-कठोरेण, सुदीर्घकालस्थायिनेत्यर्थः, वज्जलेपेन-कुलिशमयदुर्भेद्यबन्धनेन, घटितः,-योजितः, सम्वादित इति यावत्, बन्धः,-बन्धनं यस्य तथाविधम्, अत एव निश्चलं-स्थिरम्, एतद्देहं विहायान्यच्च तन्तुमसमर्थमिति भावः। हतजीवितं-दग्धप्राणाः, मन्दभागिनीं-हतभागधेयां, मां-कौशल्यां, न परित्यजति-न विजहाति ; यद्यपि त्वद्वियोगः शोकविधुराऽहं नियतमेव जीवनं विस्रष्टुं यते, तथाऽपि दृढबद्धाः मे प्राणाः एतद्देहं परित्यज्य गन्तुं न शक्नुवन्ति, सर्व्वविधः मे प्राणपर्त्यागप्रयासः सर्व्वथैव निष्फलतामेतीति भावः।
अरु। आश्वसिहि राजपुत्रि वाष्पविश्रामोप्यन्तराले कर्तव्य एव ; अन्यच्च ‘किं न स्मरसि-यदवोचदृष्यश्रङ्गाऽश्रमे युष्माकं कुलगुरुः ? तदुपजातमेव ; किन्तु कल्याणोदर्कं भविष्यति। ( ध ) कौशल्या। भअबदि अदिक्कन्तो मणोरहो। ( न ) अरु। तत् किं मन्यसे राजपुत्रि मृषोद्यं तदिति ? नहोदं सुक्षत्रिये अन्यथा मन्तव्यं ;भवितव्यमेव तेन। ( प ) – भगवती अतिक्रान्तो मनोरथः।
(ध) राजपुत्रि -कौशल्ये आश्वसिहि-समाश्वन्ता भव, त्वमिति शेषः बाष्पाणाम्-अश्रूणां, विश्रामः, परिहारः, अन्तराले-अभ्यन्तरे, अन्तराऽन्तरेत्यर्थः, कर्तव्य एव-विधातव्य एव; इत्थं निर्भरमनियतं शोकावेगात् मा रुदिहीति भावः। रोदनविरतौ हेतुं निर्द्धिशति, अन्यच्चेति। -अन्यच्च-अपरञ्च ; दुःखकारणात् भिन्नञ्चेत्यर्थः, सुखकारणमिति यावत्, किं न स्मरसि-किमधुना न चिन्तयसि ; किमिति तदियाह यदिति। -युष्माकं-भवतीनां, कुलगुरुः, कुलपुरोहितः, महर्षिः वसिष्ठ इत्यर्थः , ऋष्यशृङ्गस्य-जामातुः, आश्रमे-तपोवने, यदवोचत्-यदकथयत्, भद्रे पूत्रपूर्णोत्मङ्गमेव वधूं दक्ष्यसीति वचनं यददीरयदिति भावः। तदुपजातमेव-तादृशं वाक्यं सम्पन्नप्रायमेव, नात्र संशयलेशोऽसीति एवशब्दार्थः, ऋषिवचसामन्यथा भवितुमनर्हत्वादित्याशयः। कल्याणोदकं-कल्याणं-शुभमेव, उदर्कः,-भावि फलं यस्य तत् शुभपरिणाममित्यर्थः, भविष्यति-सम्पत्स्यते। अचिरादेवं भवती सीतासुतौ कुशलवौ निरीक्षिष्यसे, अतः महाऽऽनन्दकरे वस्तुनि समापत्स्यमाने शोकं विमुञ्च, अन्यथा रोदनस्याशुभकरत्वात् सहनानर्थाऽऽपातो भविष्यतीति भावः।
(न) मनोरथः-अभिलाषः, सीतासमागमविषयक इति यावत्, अतिक्रान्तः,-विलुत्पः, विनष्ट इत्यर्थः ; श्वापदसङ्कुलेऽरण्ये जनस्थाने विवासितायाः सीतायाः जीवन्त्याः सर्व्वथैवासम्भवितत्वात्, तत्पुत्रदर्शनाऽऽशा सुतरामेव सुदूरं गतेति भावः।
(प) राजपुत्रि हे नृपसुते कौशल्ये तत्-तर्हि, किं मन्यसे-किमवगच्छसि ? सम्भावयसीत्यर्थः ; तत्-कुलगुरोः वसिष्ठस्य वचनं, मृषोद्यं-मिथ्याभूतम् , ( मृषा मिथ्या, उद्यते कथ्यते इत्यर्थे मृषोपपदात् वदतेः ‘राजसूयसूर्यमृषोद्य- ‘(३। १। ११४ पा०) इति क्यप् निपातितः)। सुक्षत्रिये -सत्क्षत्रवंशसम्भूते ( क्षतः विपदः त्रायते इति क्षत्रः, तस्यापत्यमित्यर्थे ‘क्षत्रादघः(४। १। १३८ पा०) इति घप्रत्यये-क्षत्रियः, तज्जातीया स्त्री इत्यर्थे ‘अर्यक्षत्रियाभ्याः- ‘(वा०) इति सूत्रेण अनुगागमे ङीषि च क्षत्रियाणी, पक्षे क्षत्रिया च सिद्धं पुंयोगे तु क्षत्रिया इत्यपि ज्ञेयम् )। इदं-प्रोक्तं गुरुवचनम्। त्वयेति शेषः। तेन-गुरुवचनेन, भवित्यव्यमेव-अवश्यभाव्यमेव ; युष्मद्गुरुवचसामव्यर्थतया त्वं नूनमचिरादेव पुत्रसुशोभितोत्सङ्गां वधूं जानकीं द्रक्ष्यसीति भावः।
आविर्भूतज्ज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयो भूत्।
भद्रा ह्येषां वाचि लक्ष्मीर्निषक्ता नैते वाचं विप्लुतां व्याहरन्ति॥ १८॥

( नेपथ्ये कलकलः। सर्वे आकर्णयन्ति ) अथ प्रज्ञाचक्षुषामृषीणां वचसामविथतां प्रतिपादयति, आविर्भूतेति। -आविर्भूतं स्वयं प्रकाशितं, बुद्धिवृत्तौ प्रस्फुरितमिति यावत्, ज्योतिः तेजः, ब्रह्मत्तत्वरूपमित्यर्थः, येषां तेषां, कृतब्रह्मसाक्षात्काराणामिति भावः ; ब्राह्मणानाम् ऋषीणां वसिष्ठप्रभृतीनां, ये व्याहाराः-उक्तयः, तेषु व्याहारेषु, ( अत्र बहुवचनं सर्वेषामेव वचसां सत्यताप्रतिपादनार्थमेति ज्ञेयम् ); संशयः सन्देहः, मिथ्यात्वशङ्केत्यर्थः, मा भूत् न अस्तु, तवेति शेषः, हि यतः एषाम् ऋषीणां, वाचि वचसि, भद्रा उत्तमा, ( ‘भद्रो वाच्यवच्छ्रेष्ठसाधुनोः’ इति विश्वः) अव्याहतेति यावत्, लक्ष्मीः सिद्धिः, अविक्षतार्थसम्पत्तिरित्यर्थः, निषक्ता संलग्ना, नित्यानुबद्धा इति यावत्, अस्तीति शेषः ; तेन हि, एते ब्राह्मणाः, विप्लुतां मिथ्याभूतां, विफलमित्यर्थः, वाचं वाक्यं, न व्याहरन्ति न भाषन्ते, ब्रह्मविदां ब्राह्मणानां सत्यभाषितया नूनं तत् फलवत् भविष्यतीति भावः। ( अत्र तथाविधब्राह्मणानां व्याहृतेषु असंशयितत्वरूपकार्यस्य तद्गताविप्लुतत्वरूपकारणेनसमर्थनात्, कारणेन कार्य्यसमर्थनरूपोऽर्थान्तरन्यासालङ्कारः)। शालिनी वृत्तम्॥१८॥

जनकः। अद्य खलु शिष्टानध्याय इत्युद्धतं खेलतां वटूनां कलकलः। ( फ ) कौशल्या। सुलहसोख्यं दाब बालत्तणं होदि। ( निरूप्य ) अम्महे एदाणं मज्झे को एसो रामबद्दलच्छोपरिसोहिदेहिं साबट्टम्भमुद्दललिदेहिं ओहिं अम्हाणं बि लोअणाइं सीदलाबेदि ? ( ब ) सुलभसौख्यं तावद् बालत्वं भवति। अहो एतेषां मध्ये क एषः रामभद्रलक्षीपरिशोभितः सावष्टम्भमुग्धललितैरङ्गैरस्माकमपिलोचनानि शीतलयति।
(फ) अथ वटूनां कोलाहले हेतुमुपन्यस्यति, ओति। -अद्य खलु-अस्मिन्नहनि एव्, शिष्टानां-सदाचारानुवर्त्तिनां, वेदविदां ब्राह्मणानामित्यर्थः, तथा चोक्तं वसिष्ठेन षष्ठाध्यायावसाने,- ‘पारम्पर्य्याऽऽगते येषां, वेदः सपरुबृंहणः। ते शिष्टा ब्राह्मणो ज्ञेयाः श्रुतिप्रत्यक्षहेतवः॥ ‘इति। अन्यध्यायः,-वेदाध्ययनवर्ज्जनम् ; तथा च स्मृतिः,- ‘अनध्यायश्च कर्त्तव्यः शिष्टे च गृहमागते’ इति। जनसमागमे अनध्यायमाह भगवान् मनुरपि- ‘अनध्यायो रुद्यमाने समवाये जनस्य च’ इति (चतुर्थाध्याये १०८ सङ्ख्याकश्लोकार्द्धे )। सदाचारानुपालकानां वसिष्ठप्रभृतीनामागमनात् भगवतावाल्मीकिना तेषामुपचारकरणार्थे सम्माननाप्रदर्शनार्थञ्च वटूनां वेदाध्ययनाद्विरामः प्रदत्त इति भावः। इति-अस्मात् हेतोः, अध्ययनात् विरामलाभादित्यर्थः, उद्घतम्-अनियन्त्रितम्, उच्छृङ्खलमिति। यावत्, खेलतां-परिक्रीडमानानां, वटूनां-ब्राह्मणबालकानां, कलकलः,-कोलाहलः, समुद्भूत इति शेषः।
(ब) बालत्वं-शैशवम्। सुलभेति। - सुलभम्-ओशलभ्यं, सौख्यम्-आनन्दः, सुखसन्तानः इति यावत्, यस्मिन् तथाभूतं, बाल्ये वयसि हि वैशयिकविविधचिन्तानामनुदयात् चित्तोद्वेजककारणविरह्वाच्च कोमलमतयः शिशवः येन केनापि च वस्तुना विमलं सुखमुपभुञ्चते, सदा सुखेन कालं नयन्ति चेति भावः। निरूप्य-साग्रहमवलोक्य। रामभद्रेति। -रामभद्रेति। -रामभद्रस्य-रामचन्द्रस्य, या लक्ष्मी,-शरीरशोभा, तदङ्गसुषमासदृससुषमेति यावत्, ( अत एव निदर्शनाऽलङ्कारः ) तया परिशोभितैः,-अलङ्कृतैः ; अवष्टम्भेन-सौष्ठवेन सह वर्त्तमानानि, सावष्टम्भानि, सर्वेषां सुघटिततया निरर्गरम्याणीत्यर्थः, ( ‘सौष्ठवं स्यादवष्टम्भः’ इति हलायुधः) अरु। ( अपवार्य सहर्षोत्कण्ठं स्वगतम् )। इदं नाम तद्भागीरथौ निवेदितरहस्यं कर्णामृतं ; न त्वेवं विद्मः कतरोऽयमायुष्मतोःकुशलवयोरिति। ( भ ) अत एव मुग्धानि-ह्रुदयाकर्षकाणि, मनोहराणीति यावत्, ललितानि-सुकुमाराणि, विन्यासमाधुर्यसमन्वितानि इति यावत्, तैः ; तथा चोक्तं उज्वलनीलमाणां,-विन्यासभङ्गिरङ्गाणां, भूविलासमनोहारिणी सुकुमारा भवेत् यथा ललितं तदुदीरितम्॥ ‘इति। औः,-अवयवैः, अस्माकमपि-कौशल्यादीनां, शोकविकलेन्द्रियाणामित्यपिकारार्थः। लोचनानि-नयनानि शीतलयति-प्रीणयति, रञ्जयतीत्यर्थः।
(म) अपवार्य-कौशल्यादयः प्रस्तुतरहस्यं यथा न शृण्वन्ति तथा पराङ्मुखीभूय प्रकाश्येत्यर्थः, तद्भवेदपवारितम्। ‘रहस्यन्तु यदन्यस्य परावृत्या प्रकाशति ‘इति दर्पणात्। हर्षः,-आनन्दः, उत्कण्ठः-औत्सुकञ्च, ताभ्यां सह वर्तमानं यथा तथा स्वगतम्-आत्मगतम्, आहेति शेषः। भागीरथ्या-गङ्गया, निवेदितं-मां प्रति कथितं, रहस्यं-गोप्यं, जन्मावस्थित्यादिकम् इत्यर्थः। यस्य तत्, कर्णामृतं-कर्णयोः,-श्रवणयोः, अमृतं-सुधा, तदिव सुखकरमित्यर्थः। इदं नाम तत्-कर्णसुखजनकलवकुशाख्यसीतापुत्रद्वयरूपं, वस्त्वित्यर्थः। पुरा भागीरथी श्रवणसन्तर्पणं सीतासुतद्वयविषयकां यद्वचनमस्मभ्यमुवाच, मन्ये तद्वाक्यविषयभूतः सीतासुतः क्रीडितुं बालकेषु कश्चित् भविष्यतीति भावः। अनुमाय सामान्यतः ज्ञातुं शक्यत्वेऽपि विशिष्य ज्ञानासम्भवमाह, न त्वेवमिति। -तु -किन्तु, एवं-इत्थं, न विद्मः,-न जानीमः, ( अतः बहुवचनप्रयोगस्तु परमसुखजनकरामभद्रतनयावलोकनेन स्वस्मिन् माहात्म्यं द्योतयति इति विभाव्यम् )। आयुष्मती,-दीर्घजीविनी अयं कतरः,-कुशो लवो वेत्यर्थः।
जनकः।
कुवलयदलश्यामसिग्धः शिखण्डकमण्डनो वटुपरिषदं पुण्यश्लोकः श्रियेव सभाजयन्।
पुनरिव शिशुर्भूत्वा वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम्॥ १९॥

अथ रामचन्द्रस्याङ्गसौष्ठवसाम्यात् वटुष्वेकं सीतासुतं प्रत्यभिज्ञाय सातिशयात् हर्षमनुभवति, कुवलयेति। -कुवलयस्य नीलोत्पलस्य, दलानीव पताणीव, श्यामाङ्गाद्वा रोचकः, स्निग्धः मसृणश्च, इन्दीवरकुसुममिव श्यामलसौम्यमूर्तिरित्यर्थः ; शिखण्डक काकपक्षाः एव, मण्डनं भूषणं यस्य सः, काकपक्षधरः इति यावत्। पुण्या पवित्रा, श्रीः शोभा, यस्य सः, ( ‘शेषाद्विभाषा’ (५। ४। १५४ पा०) इति समासान्तः वैभाषिकः कप्प्रत्ययः, ) पवित्रलक्ष्मीकः इत्यर्थः ‘वटूनां विप्रबालकानां, परिषदं, समाजं, श्रिया शरीरलावण्येन, सभाजयन् इव भूषयन् इव, ( ‘सभाज प्रीतिदर्शनयोः’ इति (चु० उ० सक० से०) धातोर्णिचि शत्रन्तस्य रूपम् ) स्थित इति शेषः, स वत्सः आयुष्मान्, रघुनन्दनः रामचन्द्रः, पुनः भूयः शिशुः बालः, भूत्वा इव सम्भूयेव, बालरूपतामापन्न इवेत्यर्थः, दृष्टः अवलोकितः, शिशुरूपी भूत्वा मे नेत्रपथमापतितः इति यावत् ; अयं पुरतः स्थितः, कः शिशुः, झटिति सत्वरमेव, दृशोः मम नयनयोः, अमृताञ्जनम् अमृतस्य सुधायाः, अञ्जनम् अमृता स्राविण्या वर्त्त्या विलेपनं, कुरुत विधातीव, शिशुः रघुनन्दनसादृश्यात् बालकोऽयं तदपत्यताधियमेव समुत्पादयति इति भावः। ( अत्र कुवलयदलेनावैधर्म्यसाम्योपदेशात् समासगताः लुप्तोपमाऽलङ्कारः ; सभाजयन्निवेति शुशिर्मूत्वेवेति च वाच्या क्रियोत्प्रेक्षाद्वयम्। अमृताञ्जनं कुरुते इत्यत्र तु प्रतीयमाना क्रियोत्प्रेक्षाऽलङ्कारः, एतेषां परस्परनैरपेक्ष्येण स्थितेः संसृष्टिः )। हरिणी वृत्तम्॥१९॥

कञ्चुकी। नूनं क्षत्रियब्रह्मचारी दारकोऽयमिति मन्ये। ( म ) जनकः। एवमेव। तथाहि ; — चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम्।
मौर्व्या मेखलया नियन्त्रितमधोवासश्च माञ्जिष्ठिकं पाणौ कार्मुकमक्षसूत्रबलयं दण्ड तथा पैप्पलम्॥ २०॥

(म) ब्रह्म-वेदं, चरति-अधीते यः सः, ब्रह्मचारी-उपनयनात् परं गुरुसमुध्युष्य वेदमधीयमानः बालकः, क्षत्रियश्चासौ ब्रह्मचारी चेति ; जात्या क्षत्रियः वेदध्येता इत्यर्थः , अयं-पुरतः दृश्यमानः इति यावत्, दारुकः-शिशुः, माणवकः इति यावत्, इति मन्ये-इत्थं सम्भावयामि ; मौञ्जीवसनादिलक्षणैरिति भावः।
ब्रह्म च विधृतविशेषलक्षणैः बालस्यास्य क्षत्रियत्वमेव प्रतिपादयति, चूडेति। -पृष्ठतः पृष्ठदेशम्, अभितः उभयतः, पृष्ठस्य उभयोः पार्श्वयोः इत्यर्थः, ( ‘अभितःपरितःसमया- ‘(वा०) इति द्वितीया, तसिलः सार्व्वविभक्तिकत्वेन द्वितीयास्थाने तसिल् प्रत्ययः इति ज्ञेयम् )। चूडाचुम्बितकङ्कपत्रं-चूडाभिः शिखाभिः, चुम्बितानि संस्पृष्टमान, कङ्कस्य पक्षिविशेषस्य, ‘हाडगिला’ इति वङ्गभाषाप्रसिद्धस्य, पत्राणि उदस्थिताः पक्षाः यस्य तथाविधं, तूणीद्वयम् इषुधियुगलं, लम्बमानशिखा .सायकग्रं बाणधारयुगलमित्यर्थः, (तूणोपासङ्गतुणीरनिसङ्ग इषुधिर्द्वयोः तूण्याम्’ इत्यमरः) ; तथा भस्मनां विभूतीनां, स्तोकेन अल्पपरिमाणेन, स्वल्पभस्मनेत्यर्थः ; यद्वा-स्तोकं स्वल्पं भस्म तेन, ( ‘पोटायुवतिस्तोका- ‘(२। १। ६५ पा०) उतु समासात् स्तोकशब्दस्य परनिपातः। ‘भस्मस्तोक- ‘इत्येत्र ‘भस्मस्तोम- ‘इति पाठे,-भस्मनां स्तोमः समूहः तेनेत्यर्थः,) पवित्रं पूतं, लाञ्छनं चिह्नं यस्य तत्, मेध्यभूतिभूषितमित्यर्थः, उरः वक्षःस्थलम्, अपि च रौरवीं रुरुमृगसम्बन्धीयां, त्वचं चर्म्म, उत्तरीयमित्यर्थः, धत्ते धारयति, अयं दारक इति शेषः। अपि च मूर्वीं लताविशेषः, तस्या इयं मैर्वीं तया, मूर्व्वालतातन्तुनिर्म्मितयेत्यर्थः, मेखलया कटिसूत्रेण, नियन्त्रितं संयमितं, माञ्जीष्ठिकं मञ्जिष्ठया तन्नाम्ना रञ्जकद्रव्येण रक्तं, मञ्जिष्ठारागरञ्जितमित्यर्थः, ( माञ्जिष्ठिकम् इति ‘लाक्षारोचनठ्ठक्’ (४। २। २ पा०) इत्यतिदेसबलात् शैषिकेन वा ठक्। वस्तुतस्तु ‘माञ्जिष्ठकम्’ इति पाठः समीचीनः ‘तेन रक्तं रागात्’ तथा तद्वत् ; पाणौ हस्ते, कार्म्मुकं शरासनम्, अक्षसूत्रवलयं वलयाकारमक्षसूत्रं, जपमालामित्यर्थः, पिप्पलः अश्वत्थः, तच्छाखानिर्म्मितं पैप्पलं, दण्डं ललाटपरिमितां यष्टि,ं धत्ते इत्यनुषङ्गेणान्वयः। एतैः क्षत्रियब्रह्मचारिलक्षणैः नूनमेव क्षत्रियब्रह्मचारी भवतीति भावः।
ब्रह्मक्षत्रविशां ब्रह्मचारिणां धारणीयद्रव्यमाह भगवान् मनुर्यथा, – कार्णारौरववासानि चर्म्माणि ब्रह्मचारिणः।
वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च।
भौञ्जी त्रिवित् समा श्लष्णा कार्य्या विप्रस्य मेखला।
क्षत्रियस्य तु मौर्वीं ज्यां वैश्यस्य शणतान्तवी॥ . कार्पासमुपवीतं स्याद्विप्रस्योर्द्धवृत्तं त्रिवृत्।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्॥

ब्राह्मणो वैल्वपालाशौ क्षत्रियो वाटखादिरौ।
पैलवोम्बरौ वैश्यो दण्डानर्हन्ति धर्म्मतः॥

‘इति द्वितीयाध्याये ४१-४५ श्लोकाः। दण्डप्रमाणमाह तत्रैव, – कोशान्तिको ब्राह्मणस्य दण्डः कार्य्यः प्रमाणतः।
ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः॥ ‘इति ४६ श्लोकः।
( अत्र त्वचः प्रभृति दण्डं अनेकेषां प्रस्तुतानां पदार्थानाम् एकया धत्ते इति क्रियया अभिसम्बन्धा तुल्ययोगताऽलङ्कारः ; स च रौरववासः प्रभृतिभिर्विशिष्टैर्हेतुभिः क्षत्रियब्रह्मचात्वरूपसाध्यस्यानुभूयमानत्वेन जायमानानुमानालङ्कारसङ्कीर्णः। दण्डिमते तु,- ‘जातिक्रियागुणद्रव्यवाचिनैकत्रवार्तिना। सर्व्ववाक्योपचारश्चेत्तमाहुर्दीपकं यथा॥ ‘लक्षणात् क्रियादीपकालङ्कारः )। शार्दूलविक्रीडितं वृत्तम्॥२०॥

भगवति अरुन्धति किमुत्प्रेक्षसे कुतस्त्योऽयमिति ? ( य ) अरु। औव वयमप्यागताः। ( र ) जनकः। आर्य्य गृष्टे अतीव मे कौतुकं वर्तते। तद्भगवन्तं वाल्मीकिमेव गत्वा पृच्छ ; इमञ्च बालकं ब्रूहि ;कोऽप्येते प्रवयसस्त्वां दिदृक्षव इति। ( ल ) कञ्चुकी। यदाज्ञापसि। ( इति निष्क्रान्तः)।
कौशल्या। किं भणध ? एब्बं भणिदो आगमिस्मदित्ति ? ( व ) अरु। भिद्यते किं सद्वृत्तमीदृशस्य निर्माणस्य ? ( श ) किं भणथ ? एवं भणित आगमिष्यन्तीति।
(य) अयम्-एषः पुरतो दृश्यमानः बालकः, कुतस्त्वः,-कस्मात् भवः, कस्मात् पितुः मातुश्चायं प्रसूत इत्यर्थः। ( ‘पञ्चम्यास्तसिल्’ (५। ३। ७ पा०) इति तसिल् प्रत्यये, ‘कु तिहोः’ (७। २। १०४ पा०) इति किमः कुरादेशः ; ‘अव्ययात् त्यप्’ (४। २। १०४ पा०) इति त्यप् प्रत्ययश्च )। इति-अत्र विषये, कुमुत्प्रेक्षसे-किं मन्यसे, किमनुमिनोषि इत्यर्थः, तद् ब्रूहीति शेषः।
(र) वयमपि-यूयं यथा तथैव इत्यपिशब्दार्थः, आगताः-अत्र समुपस्थिताः ; अतः सम्यक् न विद्मः इति भावः।
(ल) आर्य्य -मान्य। गृष्टे कञ्चुकिन् ? गृष्टिरिति कञ्चुकिनी नामैतदिति ज्ञेयम्। केऽपि एते-तवापरिचिता इमे जना इत्यर्थः, प्रवयसः,-प्रकृष्ठं-समधिकमित्यर्थः, वयः,-जीवनकालो येषां ते तथोक्ताः, अतिवृद्धाः इत्यर्थः, दिदृक्षवः,-द्रष्टुमिच्छवः, सञ्जाताः इति शेषः। समागताः वृद्धाः अतिथयः त्वां द्रष्टुमिच्छन्ति, अतः तत्समीपं गत्वा तेशामाशां परिपूरय इति बालकं ब्रूहीति समुदितार्थः।
(व) किं भणथ ?-किं कथयथ ? एवम्-इत्थं, भणितः,-कथितः सन्, आगमिष्यति-आयास्यति, इति-एतत्। युष्माकमाह्वानश्रवणमात्रमेवासौ बालकः सप्रश्रयं सत्वरमेवाऽऽगमिष्यति, इति किं वदथेति भावः।
(श) ईदृशस्य-एवंविधस्य अलौकिकशौर्य्यगाम्भीर्यादिसम्पन्नस्येत्यर्थः, निर्माणस्य-निर्म्मितस्य वस्तुनः,- ‘कृदभिहितो भावोः, द्रव्यवत् प्रकाशते ‘इति न्यायात्, लोकोत्तरधीसम्पन्नस्यामुष्य बालकस्येति यावत्। सद्वृत्तं-साधुशीलं , सदाचरणमिति यावत्म् किं भिद्यते ? किं विलुप्येत ? स्वयमेव किं नश्येत ? इत्यर्थः। ( कर्म्मकर्त्तरि चायं प्रयोगः,) ‘यत्राऽऽकृतिस्तत्र गुणा वसन्ति’ इति न्यायात् ; न ह्याकृतिः सुसदृशं विजहाति वृत्तम्’ इति भावः।
कौशल्या। ( निरूप्य )। कहं सबिणअं णिसामिदगिट्टिबअणो बिसज्जिदइसदारओ इदो अहिमुहं पसरिदो ज्जेब सो वच्छो। ( ष ) जनकः। ( चिरं निर्वर्ण्य )।
महिम्नामेतस्मिन् विनयशिशुतामौग्ध्यमसृणो विदग्धैर्निर्ग्राह्यो न पुनरविदग्धैरतिशयः।
(ष) निरूप्य-सविशेषमवलोक्य। निशामितेत्थादि। -निशामितं-श्रुतं, गृष्टेः,-तदाख्यस्य कञ्चुकिनः, वचनं-वाक्यं येन तथोक्तः। विसर्ज्जतेत्यादि। -विसर्ज्जिताः,-परित्यक्ताः, ऋषीणां-मुनीनां, दारुकाः,-बालकाः येन सः, इतः,-अस्मिन् देशे, अभिमुखम्-अस्माकं सम्मुखं, प्रसृतः एव-प्रस्थितः एव, वत्सः,-बालकः ; अस्मदीयगौरवात् असौ शिशुः कञ्जुकिवचनं श्रुत्वैव सर्व्वान् बालकान् परिहाय अस्मदभिमुखमिति एवाभिवर्त्तते इति दृश्यते इति भावः।
अथ शिशौ महिमाऽतिशयं दृष्ट्वा आत्मनः विह्वलीभावं विवृणोति, महिम्नामिति। -एतस्मिन् पुरतः दृश्यमाने अस्मिन् शुशावित्यर्थः, अवस्थित इति शेषः। विनयेत्यादि। -विनयेन नम्रतया शैशवेन, तथा मौग्ध्येन सौन्दर्येण च, मसृणः कोमलः, महिम्नां महत्त्वानां, शौर्य्यगाम्भीर्य्याऽऽदिभूषिततेजसामिति यावत्, अतिशयः आधिक्यं, विदग्धैः सुधीभिः, निर्ग्राह्यः निःशेषेणैव ग्रहीतुं शक्यः, सुबोध्यः इति यावत्, न पुनरविदग्धैः अपण्डितैः, निर्ग्राह्यः इत्यनेनान्वयः। एतस्मिन् बालके भूयांस एव विनयशिशुतासौन्दर्य्यविमिश्रिताः महिमानचयाः विद्यन्ते, तान् तु सुधियः विना अन्ये केऽपि सहसा ज्ञातुं न शक्नुवन्तीति भावः।
मनो मे सम्मोहः स्थिरमपि हरत्येव बलवान् अयोधातुं यद्वत् परिलघुरयस्कान्तशकलः॥ २१॥

मनो मे इति। -यद्वत् यथा, परिलघुः अत्यल्पोऽपि, अयस्कान्तस्य लोहाऽऽकर्षकमणिविशेषस्य, शकलः खण्डः, अयोधातुं लोहं हरति आकर्षति, तद्वदिति शेषः, मे मम, बलवान्, अतिप्रबलः, सम्मोहः मुग्धता, बालस्यास्यलोकसामन्यं महिमानमवलोक्य विस्मयविवशतेति यावत्, स्थिरमपि निश्चलमपि, निर्व्विकारमपोत्यर्थः, मनः चेतः, हतत्येव आकर्षत्येव ; सततं वेदान्तशास्त्रादिसमालोचनेन तपःसमाध्यनुष्ठानेन च सुस्थिरमपि चेतः मे इदानीं धैर्य्यं धारयितुं न शक्नोतीति भावः। ( ‘सम्मोहः’ इत्यत्र ‘सम्मोदः’ इति पाठान्तरं दृश्यते, एतद्दर्शनजनितः आनन्दातिशयः इति तु तदर्थः)। मादृशामपि चेतसामाकर्षणात् मन्ये, अयं कोऽपि महामहिमशाली बालको भविष्यति इत्याशयः। ( अत्र महिमाऽऽतिशय्यसम्पादने विनयादिगुणसङ्घानां तत्करत्वेन समावेशात् समुच्चयालङ्कारः ; एवमयस्कान्तशकलेन सह बालकस्यास्यावैधर्म्मसाम्योपदेशाच्च श्रौती उपमाऽलङ्कारः। एतेषामलङ्कारत्रयाणां परस्परनिरपेक्षतया स्थितेः संसृष्टिः )। शिखरिणी वृत्तम्।
लवः। ( प्रविश्य स्वगतम् ) । अज्ञातनामक्रमाभिजनान् पूज्यानपि नः स्वतः कथमभिवादयिष्ये ? ( विचिन्त्य ) अयं पुनरविरुद्धः प्रकार इति वृद्धेभ्यः श्रूयते। ( सविनयमुपसृत्य ) एष वो लवस्य प्रणामपर्य्यायः। ( स ) (स) अज्ञातेत्यादि। -नाम-नामधेयः, क्रमः-यथायोग्यम् अभिवादनपौर्व्वापर्यम्, अभिजनः,-वंशश्च, ते अज्ञाताः,- अविदिताः येषां तथोक्तान्, अभ्यागतनामेतेषां वृद्धानां नाम जातिं वंशञ्चाहं किमपि नाभिजानामीति भावः। नः,-अस्माकं, पूज्यान्-पूजनीयानपि, संवर्द्धनायोग्यानपीत्यर्थः, स्वतः,-स्वयं, कथं-केन प्रकारेण, अभिवादयिष्ये ?-संवर्द्धयिष्ये ? नमस्करिष्यामीत्यर्थः, विचिन्त्य-क्षणं विभाव्य। अयं पुनः,-एष एव हि, अधुना स्मृतिपथे समुदित इत्यर्थः, अविरुद्धः,-अविगीतः, लोकतः शास्त्रतः धर्म्मतश्च अनिन्दितः इति यावत्, प्रकारः,-विधिः, भवतीति शेषः, इति-एवं, वृद्धेभ्यः,-प्राचीनगुरुभ्यः, वः, -युष्मभ्यं, लवस्य-मे, प्रणामानां-नमस्काराणां, पर्य्यायः,-क्रमः, प्रणामपरम्परेत्यर्थः, अहन्तु युगपत् सर्व्वानेवाभिवादये, तत्रभवतां नामजात्यादिविशेषविज्ञानाभावात्, तत्तु कृपया युगपत् महान्तः स्वयमेव पौर्व्वापर्य्यक्रमेण गृह्णन्तु इत्याशयः।
अरुन्धतीजनकौ। कल्याणिन् आयुष्मान् भूयाः। ( ह ) कौशल्या। जाद मे चिरं जीव।
अरु। एहि वत्स ( इति लवमुत्सङ्गं कृत्वा स्वगतम् )। दिष्ट्या न केवलमुत्सङ्गः ; चिरात् मनोरथो मे सम्पूर्णः। ( क ) कौशल्या। जाद इदो बि दाब एहि । ( उत्सङ्गे कृत्वा )। अम्महे ण केअलं दरबिअसन्तणौलुप्पलसामलुणदेण देह बन्धेण कबलिदारबिन्दकेसरकसाअकण्ठकलहंसाणिणाददीहरदीहरेण सरेण अ रामभद्दमणुहरदि ; णं कठिणकमलगब्भपक्वलो सरीअप्फं सोबि तादिसो ज्जेब बच्छस्म जाद पे। क्वामि दाव दे सुहम्। ( चिबुकमुन्नुमय्य निरूप्य सबाष्पाकूतम् )। राएसि किं ण पेक्वसि ; णिउणं णिरुबिज्जमाणं से मुहं बच्छाए बहूए मुहचन्द्रेण सम्बददि ज्जेब ? ’ ( ख ) जात मे चिरं जीव।
’ जात इतोऽपि तावदेहि। अहो न केवलं दरविकसन्नीलोत्पलश्यामलोन्नतेन देहबन्धेन कवलितारविन्दकेसरकषायकण्ठकलहंसनिनाददीर्घदीर्घेण स्वरेण च रामभद्रमनुहरति ; ननु कठिणकमलगर्भपक्ष्मलः शरीरस्पर्शोऽपि तादृश एव वत्सस्य जात प्रेक्षे तावत् ते सुखम्। राजर्षे किं न प्रेक्षसे ; निपुणं निरूप्यमानं अस्य सुखं वत्साया बध्वा मुखचन्द्रेण सम्बदति एव ? (ह) कल्याणिन्- शुभया आयुष्मान्-दीर्घायुः, भूयाः-स्थेयाः, सुदीर्घं जीवनं लप्सीष्ठाः इत्यर्थः।
(क) वत्स -स्नेहाऽस्पद एहि-मत्समीपमागच्छ। उत्सङ्गे-क्रोडे, कृत्वा-संस्थाप्य, स्वगतम्-आत्मगतम्, आहेति शेषः। दिष्ट्या-भाग्येन, उत्सङ्गः,-क्रोडदेशः, केवलम्-एकमात्रं, न सम्पूर्णः, न परिपूर्णाताङ्गतः, चिरात्-बहुकालात् परम्, अपि तु मनोरथः,-सीतायाः सुतं स्वक्रोडे धारयिष्यामीत्यभिलाषः, सम्पूर्णः इत्यन्वयः।
(ख) जात -वत्स इतोऽपि-अस्मिन् ममापि उत्सङ्गदेशे, एहि-आगच्छ ; भगवत्याः अरुन्धत्या इव ममापि उत्सङ्गदेशमलङ्कुरु इत्यर्थः। दरेत्यादि। -दरम्-ईषत्, विकसितं-प्रस्फुटत, यत् नीलोत्पलम्-इन्दीवरं, तद्वत् श्यामलः,-श्यामवर्णः, समुज्ज्वल इत्यर्थः, उन्नतश्च-सुदीर्घश्च तेन ; देहबन्धेन-शरीरसंस्थानेन। कवलितेत्यादि -कवलितः,- भक्षितः, यः अरविन्दानां-पद्मानां, केसरः-किञ्जल्कः, ( ‘किञ्जल्कः केसरोऽस्त्रियाम्’ इत्यमरः), तेन कषायः,-रक्तः, सुमधुर इत्यर्थः, कण्ठः-कण्ठस्वरः यस्य तादृशः, यः कलहंसः, -राजहंसः, तस्य निनादः इव-ध्वनिरिव, दीर्घदीर्घः, दीर्घप्रकारः इत्यर्थः ( प्रकारे गुणवचनस्य (६। १। १२ पा०) इति द्विर्भावः), सुदीर्घः इति यावत् तेन ; स्वरेण च-ध्वनिना च, रामभद्रं-रामचन्द्रम्, अनुहरति-अनुकरोति ; अस्य बालस्य देहः यथा रामचन्द्रसदृशः सुनीलः समुन्नतश्च, तथा अस्य कण्ठस्वरोऽपि इति निष्कर्षः। ( ‘हरतेर्गतताच्छील्ये’ (वा०) इत्यनेन अनुपूर्व्वकात् हरतेः गत्यनुकारे एव आत्मनेपदमनुशिष्टम्, अत्र तु स्वरानुकरणार्थकत्वात् नाऽऽत्मनेपदमिति ज्ञेयम् )। अपि चास्य देहस्पर्शोऽपि रमचन्द्रस्पर्शवदतिसुखकर एवेत्यावेदयति, नन्विति। -कठिनस्य-कठोरस्य, परिपूर्णावयवस्येत्यर्थः, कमलस्य-पद्मस्य, यो गर्भः,-अभ्यन्तरभागः, तद्वत् पक्ष्मलः,-सुकुमारः, ( पञ्चशब्दात् मत्वर्थीयो लज् प्रत्ययः) ; शरिरस्पर्शोऽपि-देहस्पर्शोऽपि, तादृश एव-रामभद्रस्पर्शानुरूप एव, वत्सस्य-अस्य बालकस्य। जात -वत्स प्रेक्षे-पश्यामि, ते मुखं-तव वदनम्। चिबुकम्-अधरनिम्रभागम्, उन्नतस्य-उत्तोल्य मुखनिरीक्षणार्थमिति भावः, निरूप्य-सविशेषं दृष्ट्वा ; सबाष्पाऽऽकूतं-बाष्पं-हर्षजनिताश्च, आकूतम्-अभिप्रायश्च, ताभ्यां सह वर्त्तमानं यथा तथा, आहेति शेषः, सीतासुतोऽयमिति विभाव्य वक्ष्यमाणमेतद्वचनमाहेति भावः। राजर्षे -जनक किं न प्रेक्षसे ?-न पश्यसि किम् ? निपुणं-सावधानं, पुङ्खानुपुङ्खम् इत्यर्थः, निरूप्यमाणं-निरीक्ष्यमाणम् , अस्य मुखं-बालकस्य वदनं, वत्सायाः वध्वाः-स्नुषायाः सीतायाः, मुखचन्द्रेण-वदनेन्दुना, संवदति एव-अनुकरोति एव, साम्यं प्रकटयत्येव इत्यर्थः।
जनकः। पश्यामि सखि पश्यामि।
कौशल्या। अम्भा उम्मत्तीभूदं बिअ मे हिअथ किम्पि चिन्तअन्तो बहु बिप्पलबदि। ( ग ) अहो उन्मत्तेभूतमिव मे हृदयं किमपि चिन्तयत् बहु विप्रलपति।
(ग) अहो -आश्चर्यम् उन्मत्तीभूतमिव-विभ्रान्तमिव, एतस्मिन् बालके सीतारामप्रतिकृतिं दृष्ट्वा विह्वलीभूतमिवेत्यर्थः, मे-मम, हृदयं-मानसं, किमपि-अचिन्तितं वस्तु, चिन्तयत् भावयत्, बहु-नानाविधं, विप्रलपति-परिदेवयति, विविधं तर्कयति इत्यर्थः ; सीतासुतोऽयमिति समाशङ्क्य मद्धृदयं नितरां विवशमेति भावः।
जनकः। ( निरूप्य )।
वत्सायाश्च रक्षायाश्च रघूद्वहस्य च शिशावस्मिन्नभिव्यज्यते सम्पूर्णप्रतिबिम्बितैव निखिला सैवाऽऽकृतिः सा द्युतिः।
सा वाणी विनयः स एव सहजः पण्यानुभावोऽप्यसौ ; हा हा देव किमुत्पथैर्मम मनः पारिप्लवं धावति॥२२॥

अथ वालके चैतस्मिन् सीतारामयोः, सर्व्वथा शरीरव्यवहारादीनां साम्यं प्रकटयति, वत्सायाश्चेति। -अस्मान् शिशौ कुमारे, वत्सायाः, सीतायाश्च, रघूद्वहस्य रघूणामपत्यानि पुमांसः रघवः, ( ‘जनपदशब्दात् क्षत्रियादञ्’ (४। १। १९८ पा०) इत्यञ्, ‘तद्राजस्य बहुषु तेनैवास्त्रियाम्’ (२। ४। ६२ पा०) इत्यञो लुक् बहुत्वञ्च ) ; तेषामुद्वह्वः धुरन्धरः तस्य, रामस्य चेत्यर्थः, निखिला समया, सैव तादृश्येव, आकृतिः अवयवसंस्थानं, सा द्युतिः तथाभूतैव कान्तिः ( अत्र तच्छब्दस्य प्रसिद्धार्थकतया यच्छब्दस्यापेक्षा नास्तीति ज्ञेयम्); सम्पूर्णां समयम्, अविकलं यथा तथेत्यर्थः, प्रतिबिम्बिता एव प्रतिफलिता एव ; ( प्रतिबिम्बमस्याः सञ्जातमित्यर्थे ‘तदस्य सञ्जातम्’ -(५। २। ३६ पा०) इति इतचि टाप् चेति ज्ञेयम् )। अभिव्यज्यते लक्ष्यते ; सीतायाः रामस्य च शरीरलावण्ययोः सर्व्वथैव साम्यमेतस्मिन् बालके परिलक्ष्यते इति भावः। अपि च नैसर्गिकाः गुणाः अपि दर्पणादौ छायापात इवास्मिन् शिशौ सङ्क्रान्ता इति प्रदर्शयति, सेति। -सा वाणी तत्सदृशमेव वचनं, स एव विनयः तदनुरूप -एव प्रदर्शयति, सेति। -सा वाणी तत्सदृशमेव वचनं, स एव विनयः तदनुरूप एव नम्रभावः, असावपि सहजः स्वाभाविकः , अक्रृत्रिमः इति यावत्, पुण्यानुभावः पवित्रः प्रभावः, अभिव्यज्यते, इत्यनेनान्वयः। अथवा दुराकाङ्क्षा प्रतारित एवाहमित्यर्थं तर्कयामि इत्यनुशोचति, हा हेति। -हा हा दैव अहो भागधेय पारिप्लव चञ्चलं, सीतारामयोः आक्रुतिसाम्यमवलोक्य तयोरेवायं पुत्रो न वा इति निर्णेतुमसमर्थतया अतीव व्याकुलमिति यावत्, मम मनः चेतः, किं कथम्, उत्पथैः विपूरितमार्गे, असम्भवकल्पनापथैरित्यर्थः, ( उच्छृङ्खलाः पन्थानः इति विग्रहे ‘ऋक्पूरब्धूः पथामानक्षे’ (५। ४। ७४ पा०) इति समासान्तः अप्रत्ययः ) ; धावति ? द्रुतं गच्छति ? सीतायाः असत्व्न तदपत्योत्पत्तिरतीवासम्भवितत्वात् केवलं तदाकृतिसौसादृश्येन तत्सुत एवायमिति विभाव्य मानसं मे कथं हि नियतं पर्य्याकुलीभवतीति न जाने इति भावः। रघौ एतदनुरूपः शोकः दृश्यते, यथा- ‘रूपं तदोजस्वि तदेव वीर्य्यं तदेव नैसर्गिकमुन्नतत्त्वम्।
अतः कारणात् स्यादबिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात्’ ॥ इति॥

(अत्र आकत्यादीनां सर्व्वथा भेदेऽपि तद्रूपत्वेनाभेदाध्यवसायात् भेदे अभेदरूपोऽतिशयोक्तिरलङ्कारः। अभिव्यज्यते इत्येकयैव क्रियया सर्वेषां प्रस्तुतानामाकृत्यादीनामतिसम्बन्धात् तुल्ययोगिताऽलङ्कारः। अपि-चोत्पथधावति इत्यनेन भङ्ग्या आशङ्कितसीताऽभावरूपार्थस्य गम्यस्य वस्तुनः अभिधानात् पर्य्यायोक्तिरलङ्कारः। एतेषां च परम्परमापेक्षतया स्थितेः सङ्करः )। शार्द्दूलविक्रीडितं वृत्तम्॥२२॥

कौशल्या। अत्थि दे मादा ? सुमरसि बा ताढं ? ( घ ) लवः। न हि न हि ( ङ ) कौशल्याः। तदो कस्म तुमं ? ’ ( च )।
लवः। भगवतो वाल्मीकेः। ( छ ) कौशल्या। अइ जाद कहिदब्बं कहेहि। ‘( ज ) अत्ति ते माता ? स्मरसि वा तातम् ? ’ ततः कस्य त्वम् ? ‘अयि जात कथयितव्यं कथय।
(घ)तातं -जनकं वा स्मरति ?-जानासि ? तव मातापित्रोः किं नामधेयम् ? इति भावः तयोर्नामाभिज्ञानेन स्वसन्देहनिरासो भविष्यति इत्यभिप्रायः।
(ङ)न हि न हि-मातरः पिरञ्चाह नाभिजानासीत्यर्थः। ज्ञानाऽऽविर्भावात् प्रभृत्येव वाल्मीकेराश्रमे अवस्थानात्, बालकस्यास्य पित्रोः विशेषतो विज्ञानं नास्तीति विभाव्यम्।
(च)ततः-तस्मात् कारणात्, मातापित्रोरसन्निधानादेवेति भावः। कस्य-कस्य जनस्य तत्त्वावधानेनेत्यर्थः, त्वं, वर्त्तसे इति शेषः।
(छ)भगवतः वाल्मीकेः,-भगवतो वल्मीकेः यत्नादेवाह संवर्द्धितः संरक्षितश्च भवसीति भावः।
(ज)कथयिव्यं-कथनीयं, कथयं-ब्रूहि ; यदेवात्माभिस्त्वमभिपृच्छसे, यदि जानासि, तर्हि तत् यथातथमेवाभिदेहि, मां तत् कपटवचनेन सङ्गोपायेति भावः।
लवः। एतावदेव जानामि। ( झ ) ( नेपथ्ये ) । भोः भोः सैनिकाः एष खलु कुमारश्चन्द्रकेतुराज्ञापयति ; न केनचिदाश्रमाभ्यर्णभूमिराक्रमितव्येति। ( ञ ) अरुन्धतीजनकौ। अये मेध्याश्वरक्षाप्रसङ्गादुपागतो वत्सश्चन्द्रकेतुरद्य द्रष्टव्य इत्यहो सुदिवसः। ( ट ) कौशल्या। बच्छलक्वणस्म पुत्तओ आणबेदित्ति अमिअबिन्दुसुन्दराइं अक्वराइं सुणीअन्ति। ( ठ ) लवः। आर्य्य क एष चन्द्रकेतुर्नाम ? (ड) वत्स लक्ष्मणस्य पुत्रक आज्ञापयतीत्यमृतबिन्दुसुन्दराण्यक्षराणि श्रूयन्ते।

(झ)एतावदेव-एतत्पर्यन्तमेव, जानामि-वेद्मि ; बाल्मीकेरन्यत् किमपि मातापित्रादिविषयकं वृत्तान्तजातं नाहमवगच्छामीति भावः।
(ञ)सैनिकाः -सेनासमवेताः पुरुषाः, सेनामूढ्वा इत्यर्थः। चन्दकेतुः,-लक्ष्मणाऽऽत्मजः, आज्ञापयति-आदिशति। केनचित्-युष्मत्सु केनापि सैकिनेन, आश्रमाभ्यर्णभूमिः,-आश्रमस्य-आल्मीकितपोवनस्य, अभ्यर्णा-निकटवर्त्तिनौ, (अभिपूर्वकादर्दतेः निष्ठायां रूपम् ) ; या भूमिः,-प्रदेशः, तपोवनोपान्तभूमिभागः इत्यर्थः, न आक्रमितव्या-न निरोद्धव्या ; आश्रमसमीपं गत्वा तरुलताऽऽदीनां छेदनेन तत्र काऽपि बाधा न जननीया, मुनीनां गौरवात् तत्र शान्तिश्च सर्व्वथा संरक्षणियेति भावः।
(ट)मेध्येत्यादि। मेध्यस्य-पवित्रस्य, अश्वमेधीयस्येत्यर्थः, संरक्षितुमित्यर्थः, उपागतः,-अत्र देशे समुपस्थितः, वत्सः,-आयुष्मान्, चन्द्रकेतुः,-लक्ष्मणाऽऽत्मजः, द्र्ष्टव्यः,-आलोकितव्यः। अहो सुदेवसः-शोभनं दिनम्, आपतित इति शेषः। सौभाग्योदयात् सुप्रभातमिदं समुदितमिति भावः।
(ठ)अमृतबिन्दुसुन्दराणि-अमृतस्य-पीयूषस्य, ये बिन्दवः,-पृषताः, ते इव सुन्दराणि-रम्याणि, श्रवणसन्तर्पणावीत्यर्थः। अक्षराणि-वर्णसमुदायाः, आज्ञापर्यतीत्यन्तवाक्यघटकवर्णसमष्टयः इत्यर्थः, श्रूयन्ते-आकर्ण्यन्ते; पौत्राणां गौरवसूचकानि वचनानि पुत्रिभिः नितरां सुमधुरतयैवाऽऽस्वाद्यन्ते इति भावः।
(ड)चन्द्रकेतुर्नाम-चन्द्रकेतुरित्यादिरित्याख्या प्रसिद्धिः, कः एषः?-कस्य मुनेः कं देशं वाऽयमलङ्करोतीति भावः।
जनकः। जानासि रामलक्ष्मणौ दाशरथा ? (ढ ) लवः। एतावेव रामायणकथापुरुषौ ? ( ण ) जनकः। अथ किम् ? ( त ) लवः। तौ कथं न जानामि ? ( थ ) जनकः। तस्य लक्ष्मणस्यायमात्मजश्चन्द्रकेतुः। ( द ) लवः। ऊर्मिलापुत्रः ; तर्हि मैथिलस्य राजर्षेः दौहित्रः ? ( ध ) अरु। ( व्विहस्य ) आविष्कृतं कथाप्रावीण्यं वत्सेन। ( न ) जनकः। ( विचिन्त्य ) यदि त्वमीदृशः कथायामभिज्ञः ; तद्ब्रूहि तावत् ; प्रच्छामः ; तेषां दशरथात्मजानां किन्नामधेयानि अपत्यानि केषु केषु दारेषु प्रसूतानि ? ( प ) ( ढ )जानासि ?-वेत्सि ? दाशरथी-राज्ञः दशरथस्य तनुवौ।
(ण)रामायणकथापुरुषौ-महर्षिवाल्मीकिप्रणीतरामायणाऽऽख्यमहाकाव्यस्य प्रधानपात्रभूतौ, एतावेव-भवदुक्तौ वीरौ रामलक्ष्मणावेव , भवतः किम् ? इति शेषः।
(त)अथ किं-यदीवोक्तं भवता, एतत्तु तदेवेत्यर्थः, एतावेव रामायणकथानायकौ इत्याशयः।
(थ)तौ-रामायणकथापुरुषौ, कथं न जानामि ?-किं न वेद्मि ? अधीतरामायणास्य मे एतयोर्नामसविज्ञानं विशेषतश्चास्तीति भावः।
(द)तस्य-रामायणकथाप्रसिद्धस्येत्यर्थः, लक्ष्मणस्य-सौमित्रेः, आत्मजः,-तनयः, चन्द्रकेतुः,-तदाख्यः, कुमारः, भवतीति शेषः।
(ध)तर्हि-तथात्वे, चन्द्रकेतोर्लक्ष्मणाऽत्मजत्वे इत्यर्थः, ऊर्म्मिलापुत्रः,-तन्नाम्नाः लक्ष्मणपत्न्याः तनयः, मैथिलस्य-मिथिलाऽधिपस्य, राजर्षेः,-जनकस्य, दौहित्रः,-दुहितुः तनयः।
(न)चाविष्कृतं-प्रकटीकृतं, कथाप्रावीण्यं-रामायणकथायाम् आत्मनः अभिज्ञत्वं चन्द्रकेतोः रामायणनिबद्धयोः मातृमातामहयोः नामसमुल्लेखदिति भावः।
(प) कथायां-रामायणाऽख्याने, ईदृशः,-जिज्ञासामहे, तेषां-प्रसिद्धानां दशरथाऽऽत्मजानां-रामादीनाम्, ( अत्र शेषे षष्ठी, अपत्यानीत्यनेनाभिसम्बन्धात् ), किन्नामधेयानि-किमख्यानि, अपत्यानि-सुताः, रामादीनां के के पुत्रा इति तु तदर्थः, केषु केषु दारेषु-पत्नीषु, प्रसूतानि-सञ्जातानि, किमाख्यप्नीगमसम्भूतानीत्यर्थः, रामादीनां के हि सुताः किमाख्यासु पत्नीषु समभवन् इति स्पष्टार्थः। ( सुतेः सकर्म्मकत्वेऽपि अकर्म्मकत्वविवक्षया कर्त्तरि निष्ठेति ज्ञेयम् ) लवः। नाऽयं कथाप्रविभागोऽस्माभिरन्येन वा श्रुतपूर्वः। (फ) जनकः। किं न प्रणीत एव कविना ? ( ब ) लवः। प्रणीतः ; न तु प्रकाशितः। तस्येव कोऽप्येकदेशः सन्दर्भान्तरेण रसवानभिनेत्राय कृतः। तञ्च स्वहस्तल्खितं मुनिर्भगवान् व्यसृजद्भरतस्य मुनेस्तौर्य्यत्रिकसूत्रकारस्य । ( भ ) (फ) कथाप्रविभागः,-भवत्यष्टेतिवृत्तस्य अंशविशेषः, अन्येन-सद्भिन्नेन केनापीव्यत्यर्थः, श्रुतपूर्व्वः, ( पूर्व्वं श्रुतः,- ‘सुपा(२। १। ४ पा०) इति समासः पूर्व्वनिपातश्च ), इतः प्रागाकर्णितः इत्यर्थः, यदंशे भगवता वाल्मीकिना राघवादीनामपत्योत्पत्तिविवरणसुपनिबद्धं, तदंशोऽस्माभिरन्धेन वा इदानीमपि न आकर्णित इति भावः।
(भ) प्रणीतः,-विरचितः, न तु प्रकाशितः,-किन्तु अस्माकं श्रुतिगोचरतां न नीतः। तस्यैव-दशरथेसुतानामपत्यविवरणांशस्यैव एकदेशः,-भागविशेषः, सन्दर्भान्तरेण-अन्येन केनचित् प्रबन्धेन, दृश्यकाव्यरूपेणेत्यर्थः, रसवान्-करुणविप्रलम्भाऽऽख्यरसयुक्तः, अभिनेयार्थः,-अभिनेयः,-अभिनयेन प्रयोज्यः, नटाद्यैरनुकरणादिना प्रकाश्य इत्यर्थः, अर्थः,-इतिवृत्तरूपं वस्तु यस्य तथाविधः ;-भवेदभिनयोऽवस्थाऽनुकारः स चतुर्विधः। आङ्गिको वाचिकश्चैवमाहर्यः सात्त्विकस्तथा॥ ‘इति दर्पणः। कृतः,-रचितः ; तद्भागमवलम्ब्य किमप्येकं दृश्यकाव्यं विरचितमिति भावः, तत्तु नाटकस्यैतस्य सप्तमाङ्कविवृतं वस्त्वेवेति ज्ञेयम्। मुनिः,-वाल्मीकिः। व्यसृजत्-प्रेषितवान्, अभिनेतुमित्यर्थः। भरतस्य मुनेः,-तदाख्यस्य ऋषेः, तौर्य्यत्रिकसूत्रकारस्य-नृत्यगीतवाद्यादिविध्यात्मकस्य नाट्यशास्त्रेत्याख्यस्य ग्रन्थविशेषस्य लक्षणकृतः,-नाट्यशास्त्रनामधेयेन ग्रन्थविशेषेण नृत्यादीनां नियमसमुदायानां प्रवृत्तयितुरित्यर्थः, ( ‘तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्’ इत्यमरः)।
(‘तूर्य्यं-सुरजादि, तत्र भवं तौर्य्यं, त्रयः अंशा अस्येति त्रिकं, तौर्य्योपलक्षितं त्रिकमिति तौर्य्यत्रिकम्’ इत्यमरटीकायां महेश्वरः )।
जनकः। किमर्थम् ? ( म ) लवः। स किल भगवान् भरतस्तमप्सरोभिः प्रयोजयिष्यतीति। ( य ) जनकः। तत् सर्वमस्माकमिदमाकूतकरम्। ( र ) लवः। महती तस्मिन् भगवतो वाल्मीकेरास्था ; केषाञ्चिदन्तेवासिनां हस्तेन तत् पुस्तकं भरताश्रमं प्रति प्रेषितम्। तेषामानुयात्रिकश्चापपाणिरप्रमादार्थ्यमस्मद्भ्राता प्रेषितः। ( ल ) कौशल्याः। जाद भादा बिदे अत्थि ? जात भ्राताऽपि तेऽस्ति।
(म) किमर्थं-कस्मै इदम् ( इति नित्यसमासः ), कथं हि तं सन्दर्भं भरतस्य व्यसृजत् मुनिरित्यर्थः।
(य) तं-सन्दर्भम्, अप्सरोभिः,-अभिनेत्रीभिः उर्व्वशीप्रभृतिभिः, ( प्रयोज्यकर्त्रीभिः ) प्रयोजयिष्यति-अभिनाययिष्यति।
(र) तदिदं सर्व्वं-भवदुक्तं ‘प्रणीतः, न तु प्रकाशितः ’ इत्यादि ‘अप्सरोभिः प्रयोजयिष्यतीति’ इत्यन्तं वृत्तान्तजातमित्यर्थः, आकूतकरं-कौतूहलजनकमित्यर्थः। अत्र कस्यापि आश्चर्यजनकव्यापारस्य निगूढं विद्यमानत्वादित्याशयः।
(ल) तस्मिन्-अभिनेयसन्दर्भे, आस्था-यत्नः, आदरातिशय इत्यर्थः, अन्तेवासिनाम्-अन्ते-गुरुसमीपे, वसन्ति ये तेषां, शिष्याणामित्यर्थः, तत्पुस्तकम्-अभिनेतव्यं वस्तु इति यावत्, प्रेषितं-प्रेरितम्। तेषाम्-अन्तेवासिनाम्, आनुयात्रिकः,- अनु पश्चात्, यात्रा प्रयाणम्, प्रयोजनमस्येति ( ‘प्रयोजनम्’ (५। १। १०९ पा०) इति ठञ्), अनुयायीत्यर्थः, चापपाणिः,-कार्म्मुकहस्तः, अप्रमादार्थम्-अप्रमादम्,- प्रमादस्य- अनवधानतायाः, अभावः, (इत्यव्ययीभावः), सावधानतेत्यर्थः, तदर्थम्, अनवधानताजन्यविपत्तेः निरासार्थमिति यावत्। प्रेषितः,-प्रेरितः, वाल्मीकिनेति शेषः।
लवः। अस्मि आर्य्यः कुशो नाम।
कौशल्या। जेट्ठो त्ति भणिदं होदि ? (व ) लवः। एवमेतत् ; प्रसवक्रमेण स किल ज्यायान् इति।
जनकः। किं यमजावायुष्मन्तौ ? ( ष ) लवः। अथ किम् । ( स ) ज्येष्ठ इति भणितं भवति ? ( व ) ज्येष्ठ ,-ज्यायान् भ्राता , भणितं भवति-उक्तं भवति , आर्य्य इति कथनेन भ्रातुः ज्येष्ठत्वप्रतीतेरिति भावः।
(श) एवमेतत्-भवत्या ज्येष्ठ इति यदुक्तं , तत्सत्यमेवेत्यर्थः ; प्रसवक्रमेण-मातृतः उत्पत्तिक्रमेण, ज्यायान्-ज्येष्ठः ( वृद्धशब्दात् ईयसुनि ‘वृद्धस्य च’ (५। ३। ९२ पा०) इति ज्याऽऽदेशः। यमजयोः प्राक्प्रसूतत्वे एव ज्येष्ठत्वम् ; तथा हि देवलः,- ‘बहिर्वर्णेषु चारित्रात् यमयोः पूर्व्वजन्मतः।
यस्य जातस्य यमयोः पश्यन्ति प्रथमं सुखम्।
सन्तानः पितरश्चैव तस्मिन् ज्येष्ठा प्रतिष्ठितम्॥ इति।
अपि च भगवान् मनुः,- ‘यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता मता। ‘इति। ‘जन्मप्राथम्यादेव ज्येष्ठा यमजयोः, न तु निषेकप्राथम्यात्’ इति तु स्मार्ताः।
(ष) आयुष्मन्तौ-कल्याणिनौ, युवामिति शेषः, किं-यमजौ ?- युग्मजातौ ? भवत इति शेषः, यतः प्रसवक्रमेण ज्येष्ठत्वम् अभिदधासि इति भावः।
(स) अथ किम्-एवमेतदित्यर्थः, इति तु स्वीकारार्थकमव्ययं ज्ञेयम्। कुशलवाविति नाम्नः कारणं यमजत्वञ्चोक्तं रामायणे यथा – ‘यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः।
निर्म्मार्ज्जनीयस्तु तदा कुश इत्यस्य नाम तत्॥

यथावरो भवेत्ताभ्यां लवेन सुसमाहितः।
निर्म्मार्ज्जनीयो वृद्धाभिर्लवेति च स नामतः॥

एवं कुशलवौ नाम्ना तावुभौ यमजातकौ।
मत्कृताभ्याञ्च नामभ्यां ख्यातियुक्तौ भविष्यतः॥ ‘ इति (वा०. रा०. उ०. का०. ७८ सर्गः ७-९ श्लोकाः) जनकः। कथय ; कथाप्रबन्धस्य कीदृशः पर्यन्तः ? ( ह ) लवः। अलीकपौरप्रवादोद्दिग्देन राज्ञा निर्वासितां दैवजनसम्भवां सीतदेवीमासन्नप्रसववेदनामेकाकिनीमरण्ये परित्यज्य लक्ष्मणः प्रतिनिवृत्त इति। ( क ) कौशल्या। हा हा बच्छे मुद्दचन्दमुहि को दाणिं दे कुसुमभूदस्म सरीरस्म देब्बदुब्बिलासपरिणामो एआइणीए णिबडिदो ( ख ) हा हा वत्से मुग्धचन्द्रमुखि क इदानीं ते कुसुमभूतस्य शरीरस्य दैवदुर्विलासपरिणाम एकाकिन्या निपतितः (ह) कथय-अभिधेहि, कथाप्रबन्धस्य-रामायणाऽऽख्यसन्दर्भविशेषस्य, कीदृशः,-किम्प्रकारः, पर्य्यन्तः,-शेषभागः ; यदि रामायणकथायाः अन्ते सीताविषयिका कथा कियत्यपि महर्षिणा उपनिबद्धा भवेत्, तदा सा इदानीं कीदृशी वर्त्तते, तस्या अपत्यं जातं न वा, जातञ्चेत् केन वा परिरक्षितम्, अयञ्च तत्सुतो न वा इत्याद्यवश्यज्ञातव्यविषयोऽप्यस्माभिः साकल्येन परिगृहीतो भवेदिति तु प्रष्टुराशयः।
(क) अलीकेति। -अलीकः,-मिथ्याभूतः, यः पौराणां-पुरवासिनां, प्रवादः,-कौलीनं, चारित्र्यापवादं इति यावत्, तेन उद्विग्नः, व्याकुलः तेन, अयथार्थपौरापवादेन किल विवेकशून्यमनसेत्यर्थः, राज्ञा-रामचन्द्रेण, निर्वासितां-परिवर्ज्जिताम् ; देवयजनसम्भवां-देवाः इज्यन्ते अस्मिन्निति देवयजनं-यज्ञभूमिः, तस्मात् सम्भवः,-उत्पत्तिः यस्याः तां, यज्ञभूमिसमुत्थितामित्यर्थः ; आसन्नप्रसववेदनाम्-आसन्ना-समीपवर्त्तिनी, प्रसवस्य-गर्भविमोचनस्य, वेदना-यातना यस्याः तां, पूर्णगर्भतया समधिककातरामिति यावत्, एकाकिनीम्-असहायां, सीतादेवीं-जानकीम्, अरण्ये-जनस्थानाऽऽखे वने, परित्यज्य-रथादवतार्य्य, निर्व्वास्येत्यर्थः, प्रतिनिवृत्तः,-प्रेत्यायातः, अयोध्यामिति शेषः। इति-इत्यन्तः एव कथाप्रविभाग इति भावः।
(ख) मुग्धचन्द्रमुखि -मुग्धः,-मनोहरः, यः चन्द्रः,-शशधरः, स इव मुखं-वदनं यस्याः तस्याः सम्बोधने, हा राकाशशाङ्कसौम्याऽऽनने इत्यर्थः। कुसुमभूतस्य-कुसुमैः,-पुष्पैः, भूतस्य-तुल्यस्य, अतिकोमलस्येत्यर्थः, ( ‘युक्ते क्ष्मादावृतेऽभूतं प्राण्यतीते समे त्रिषु’ इत्यमरः) शरीरस्य-देहस्य, कः, अनिर्वचनीयः, अतिभयाऽऽवह इत्यर्थः, दैवदुर्विलासपरिणामः,-दैवस्य-मार्ग्यस्य, दुः-दुष्टः, अशुभफलोत्पादानुकूलः इति यावत्, यः विलासः,-व्यापारः, क्रीडेति यावत्, तस्य परिणामः,-परिपाकः, एकाकिन्याः,-असहायायाः, ते- तव, निपतितः-सञ्जातः, कुसुमसुकुमारशरीरायाः सहायशून्यायाश्च तव निर्ज्जनारण्ये ईदृक् दुर्द्दैवविलासप्रसूतः असम्भावितः विषमः परिणामः नितरां दुर्व्विषह एवेति निष्कर्षः।
जनकः। हा वत्से – नूनं त्वया परिभवञ्च नवञ्च घोर ताञ्च व्यथा प््रसवकालकृतामवाप्य।
क्रव्याद्गणेषु परितः परिवारयत्सु सन्त्रस्तया शरणमित्यसकृत् स्मृतोऽस्मि॥ २३॥

अथ सहायहीनायाः सीतायाः तत्कालसम्भूतां तादृशीं घोरां विपत्ति संस्मृत्यात्यर्थमनुशोचति, नूनमिति। -हा वत्से आयुष्मति सीते नूनं निश्चितं, त्वया भवत्या, एवञ्च अननुभूतपूर्वञ्च, इति प्राक् ईदृश्याः दुर्गतेः कदाऽप्यननुभूतत्वादित्याशयः, घोरञ्च दुर्विषञ्च, परिभवं तिरस्कारं, चारित्रदोषापवादेन अकारणानिर्वासनजनितां विमाननामित्यर्थः, स्त्रीणां चारित्रापवादात् अन्यत् भयङ्करं दूषणं किमपि नास्तीति ज्ञेयम्। प्रसवकालकृतां प्रसवक्षणसम्भूतां, तां तादृशीम्, उत्कटामित्यर्थः, व्यथाञ्च वेदनाञ्च, अवाप्य लब्ध्वा, क्रव्याद्गणेषु आममासभोजिषु श्वापदजन्तुसमूहेषु इति यावत्, परितः समन्तात्, परिवारयत्सु परिवेष्टमानेषु सत्सु, सन्त्रस्तया अतिभयाऽऽर्त्तया, त्वया सीतया, शरणमिति रक्षिता रक्षितेत्युक्ता, ‘तात अशरणां रक्ष माम्’ इति कृत्वा इति यावत्, असकृत् वारं वारं, स्मृतः आहूतः इत्यर्थः, अस्मि भवामि, अहमिति शेषः। जनशून्ये वने समुत्कटां प्रसववेदनानुभवन्तीं त्वं श्वापदभयाऽऽकुलां सती रक्षितारं मामनिशं सम्बोध्य नूनं भृशं क्रन्दितवत्यसीः, इत्यहो धिक् सामधन्यं तादृशत्वद्दुःखनिराकरणापटीयासमिति भावः। यद्यपि स्त्रीजनः प्रायशः विपत्तौ समुपस्थितायां-पितरमिव मातरमप्यनुस्मरतीति प्रसिद्धिः, तथाऽप्यत्र तु दुहितरि वात्सल्याऽऽधिक्यसत्त्वादेव जनकः स्वनामोत्किर्तनपुरःसरमेवासौ भृशं रुरोदेति, वितर्कितवानिति ज्ञेयम्। (अवाचाप्यैत्येकयैव क्रियया प्रस्तुतयोः व्यथापरिभवरूपयोः पदार्थयोरभिसम्बन्धात् तुल्ययोगिताऽलङ्कारः ; न तु ‘सृतोऽस्मि’ इत्यनेन सम्भावितत्वेनाभीप्सितार्तस्य स्मर्य्यमाणत्वरूपतयोत्कीर्त्तनात् प्रकृतसम्भावनाचिरहादेव नूनमिति पदसत्त्वेऽपि उत्प्रेक्षाऽलङ्कारः इति ज्ञेयम् ) वसन्ततिलकं वृत्तम्॥२३॥

लवः। ( अरुन्धतीं प्रति )। आर्य्ये कावेतौ ? ( ग ) अरु। इयं कौशल्या ; अयं जनकः।
लवः। ( सबहुमानखेदकौतुकं पश्यति ) जनकः। अहो दुर्मर्य्यादता दुरात्मनां पौराणाम्। अहो रामस्य राज्ञः क्षिप्रकारिता ( ड ) ‘एतद्वैशमघारवज्रपतनं शश्वन्ममोत्पश्यतः क्रोधस्य ज्वलितुं धगित्यवमरश्चापेन शापेन वा। –॥ २४॥

(ग) आर्य्य -पूज्य एतौ-मम पुरतः स्थितौ सीताकृत निर्भरं विलपन्तौ मयि च सातिशयं स्निह्यन्तावित्यर्थः, कौ-किन्नामधेयौ, भवतः इति शेषः।
(घ) सबहुमानखेदकौतुकं-महापुरुषस्य रामस्य मातुः श्वशुरस्य च दर्शनात् तत्र बहुमानः, तयोश्च शाकविवशभावमवलोक्य स्वस्य खेदः ; प्राक् गुरुसकाशात् समधीतयोः रामायणकथाऽऽश्रितयोः तयोः साक्षाद्दर्शनादेव आत्मनः कौतुकं, तैः सह वर्त्तमानं यथा तथा ; पश्यति-अवलोकयति, ताविति शेषः।
(ङ) दुरात्मना। - दुर्वृत्तानां, वृथाऽपवादकारितया पापदूषितचेतसामित्यर्थः , पौराणाम्-अयोध्यावासिजनानां, मुर्म्मर्य्यादता-दुष्टा मर्य्यादा येषां तेषां भावः तत्ता, मर्यादातिक्रमः इत्यर्थः, सदाचारोल्लङ्घनात् न्याय्यपथविच्युतिरिति यावत् ; यतो हि ते महामान्यानां वाल्मीकिप्रभृतीनां वचांसि अविगणय्य निर्द्दोषायामपि सीतायाम् अलीकदोशमुद्भाव्यानर्थजातमेवं सङ्कटयामासुरित्याशयः। रामस्य राज्ञः,-प्रजापालकस्य ; जनोऽयं सापराधो निरपराधो वा इति विशेषं विमृश्यैव तत्र निहितदण्डस्येत्यर्थः, क्षिप्रकारिता-क्षिप्रं-सहसा , अविविच्येत्यर्थः, कर्त्तुं शीलं यस्य तस्य भावः तत्ता, अविमृष्यालीकतां जानन्नपि केवलं निखिलप्रजारञ्जनमननुसृत्य कतिपयानां दुर्ज्जनानां वचांसि चाविगणय्य वृद्धैरमात्यवर्गैः सह परामर्शं कृत्वा कार्य्यमकरिष्यत्, तदा नूनमिदमनर्थजातं नोदपत्स्यतेति भावः।
अथाविमृष्यकारिणां रामादीनां पौराणाञ्च तथाविधान्याय्याऽऽचरणस्य प्रतिकरकरणौचित्यमाह, एतदिति। -एतत् सीतानिर्व्व्वासनरूपं, वैशसघोरवज्रपतनं-विशसति हिनस्ति यः स विशसः घातकः, तस्य यत् कर्म्म तत् वैशसं हिंसनमित्यर्थः, तदेव घोरं भीषणं, वज्रपतनम् असनिसम्पातः तत्, तीक्ष्णाकुलिशपतनतुल्यमतीव भयाऽऽवहं-सीतानिर्व्वासनरूपं क्रूरं कर्म्म इत्यर्थः, सिताविवासनं हि हत्याकाण्डवत् दारूणानुष्ठानमित्याशयः, शश्वत् निरन्तरम्, उत्पश्यतः आलोकयतः, मुहुर्मुहुः चिन्तयत इत्यर्थः, मम जनकस्य, क्रोधस्य कोपानलस्य, चापेन धनुषा, शापेन वा अभिसम्पातेनं वा, धगिति धिग् धिग् इत्यव्यक्तानुकरणं शब्दं कृत्वा, ज्वलितुं दहनार्थं प्रज्ज्वलीभवितुमित्यर्थः, अवसरः समयः, समुपस्थित इति भावः, ( ‘कालसमयवेलासु तुमुन्’ (३। ३। १६७ पा०) इति तुमुन् प्रत्ययः )। एतत् निर्व्वासनरूपं घोरं दौरात्मा क्षत्रियस्य मम कोपानलः ज्वालामालाऽऽकुलः सन् प्रथमतः प्राक्परिशीलितेन चापेनम् पश्चाच्च राजर्षेः मे नियततपोऽनुष्ठानजनितप्रभावात् शापेन सरामामेतान् पौरजनान् सहसा दग्धीकर्त्तुमग्रेसरतीति भावः। ( अत्र एतद्वैशसे वज्रपतनत्वाभेदाऽऽरोपात् निरङ्गं रूपकमलङ्कारः; क्रोधस्य ज्वलनासम्बन्धेऽपि तत्सम्बन्धत्वेनात्कीर्त्तनादसम्बन्धे सम्बन्धरूपातिशयोक्तिरलङ्कारश्च। एतत्तु श्लोकस्य पूर्व्वार्द्धं, परार्द्धञ्चाग्रे द्रष्टव्यमिति॥ २४॥

कौशल्याः। भअबदि परित्ताहि परित्तहि ; पसादेहि कुबिदं राएसिम्। ( च ) अरु। एतद्धि परिभूतानां प्रायश्चित्तं मनस्विनाम्।
राजन् अपत्यं रामस्ते पाल्याश्च कृपणाः प्रजाः॥ २५॥

भगवति परित्रायस्व परित्रायस्व ; प्रसादय कुपितं राजर्षिम्।
(च) भगवति -ऐश्वर्य्यवति अरुन्धति इति शेषः, परित्रायस्व -रक्ष, राजर्षेः कोपानलात् सर्व्वान् प्रकृतिजनानिति शेषः, ( सम्भ्रमे द्विरुक्तः)। प्रसादय-परिसान्त्वय, कुपितं-क्रुद्धं, राजर्षिं-जनकम् ; अन्यथा कुपितोऽयं राजर्षिः जनकः चापेन शापेन वा सर्व्वेषां नूनं सङ्क्षयतीति भावः।
अथ प्राक् पापिनां दण्डविधानस्यौचित्यं कथञ्चित् समर्थ्यं, पश्चात् अपत्यभूतेषु दीनेषु च जनेषु तस्य परीहारं प्रार्थयमाना अरुन्धती राजर्षेः कोपमुपशमयितुं प्रयतते, एतद्धीति। -परिभितानां तिरस्कृतानाम्, अन्यैरेवमानितानामित्यर्थः, सनस्विना प्रशस्तमनसाम्, उदारचैतसामित्यर्थः, हि निश्चितम्, एतत् चापग्रहणं शापदानं वा, चापशापादिभिः दण्डविधानैः वैरनिर्य्यातनमिति यावत्, प्रायश्चित्तं प्रापक्षयमात्रसाधनं, स्वावमाननाप्रतिकारसाधनमिति यावत्, भवतीति शेषः।
सत्यं हि मानिनः भवादृशाः पापप्रसरम् असहमानाः दुर्वृत्तानां यथायोग्यं दण्डं विधाय दुर्वृत्तिप्रवाहानुपशमनं नयन्ति, स्वयञ्च प्रसादं लभन्ते इति भावः। सत्यप्येवं तस्य स्थलविषये परीहारस्य न्याय्यत्वं प्रतिपादयति, राजन्निति। -राजन् हे रजर्षे जनकः रामः ते अपत्यं पुत्रभूत एव, जामातृत्वात् सुहृतत्वाच्चेति भावः ; कृपणाः दीनाः, सततं हि दयार्हाः इत्यर्थः, प्रजाः प्रकृतयः, पाल्याश्च रक्षणीयाश्च, स्नेहाऽऽस्पदीभूतेषु वराकेषु च हि अपराधिष्वपि मनस्विनः अपराधशतानि सहन्ते, अतो नायं ते क्रोधस्यावसरः, परिहरणीयः खल्वेवासावित्याशयः।
यद्वा,-परिभूतानाम् अवमानितानां, मनस्विनां मानधनानां, चित्तं मनः, प्रायः बाहुल्येन, एतत् ईदृशं, भवति ; मानिनो हि तिरस्कृताः सन्तः प्रायेणेत्थं प्रतिविधानं कर्त्तुं यतन्ते इति भावः, अथवा,-मनस्विनां धीराणां, परिभूतानाम् अवमानितानां, कथञ्चित् प्रमादेन असत्कार्यकरणात् परं लोकैः निर्भर्त्सितानां सतामित्यर्थः, एतद्धि एतदेव, भवदुक्तप्रकारनिर्भर्त्सनमित्यर्थः, गुरुजनकृततिरस्कारवचनमिति यावत्, प्रायश्चित्तं पापक्षयकारणं,- ‘प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते।
तपो निश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम्॥‘ इत्युक्तलक्षणां निखिलतत्कृतदोषक्षयकारकं विधिबोधितं कर्म्म इति यावत् ; यदि हि कश्चित् मनस्वी भ्रमेण किञ्चित् पापमनुतिष्ठति, ततः परं गुरुजनाः यदि तं तत्कृते तिरस्कुर्वन्ति, तदा तेनैव तिरस्कारेण तस्य सर्व्वपापसङ्क्षयो भवति, अतः रामेण दैवात् सीतानिर्व्वासनरूपं यत् अन्याय्यम् आचरितं, तस्य भवत्कृतैतन्निर्भर्त्सनेन समुचितः दण्डः सञ्जात एव, अतः अस्मात्परं किमपि न विधातव्यमिति भावः।
अन्ये तु, सुखदुःखानि जनाः स्वकृतप्राक्तनकर्म्मफलमूतान्येवानुभवन्ति इत्यभिप्रायेण व्याचक्षते ; यथा ,-हि यतः, परिभूतानां परैः पराभवं गमितानां, मनस्विनां धीराणां , दुःखं स्वीयदुरदृष्टफलभूतमेवेति जानतामित्याशयः, एतत् सीतानिर्व्वासनरूपवज्रपतनेन जनापवादादिना च मानसदुःखानुभवनमेव, प्रायश्चित्तं पाक्कृतदुरदृष्टनिवर्तकम् ; भवान् हि जन्मान्तरीयदुरदृष्टानां फलभूतं सीतानिर्व्वासनजन्यदुःखमनुभवति, रामस्तु प्रायश्चित्तदातृतया उपलक्षभूत एव ; तथा च, प्राक्तनदुरदृष्टफलभोक्ता एव भवान् निरपराधे केवलं कारणभूते रामे वृथा कोपं विजहातु, सर्व्वे मनस्विनः हि दुःखं स्वकृतकर्म्मफलमिति जानन्तः अन्यस्मिन् कोपं न कुर्वन्ति, एतद्विभाव्याऽऽत्मनः स्थैर्य्यं सम्पादय इति भावः। अन्यत्तु समानमेव।
( अत्राप्रस्तुतात् मनस्विसामान्यात् प्रस्तुतस्य जनकस्य, व्याख्यानान्तरेण तु रामस्य प्रतीतेरप्रस्तुतप्रशंसाऽलङ्कारः ; अपि च एतत्पदप्रतिपाद्यवस्तुना सह प्रायश्चित्तस्याभेदाऽऽरोपादेव निरङ्गं रूपकमलङ्कारः ; परार्द्धस्य तु हेतुभूततयोपन्यासात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारश्च ; एषां परस्परसापेक्षतया स्थितेः सङ्करः )॥ २५॥

जनकः। – शान्तं वा रघुनन्दने तदुभयं तत्पुत्र भाण्डं हि मे।
भूयिष्टद्द्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः॥ २६॥

वटवः। ( प्रविश्य सम्भ्रान्ताः ) कुमार अश्वोऽश्व इतिपशुसमाम्नायिकः कोऽपि भूतविशेषः जनपदेषु श्रूयते ; ; सोऽयमधुनाऽस्माभिः प्रत्यक्षीकृतः। ( छ ) अथ परार्द्धेन जनकः, स्वकीयकोपोशम पक्षान्तरेणाऽऽह, शान्तमिति। -वा पक्षान्तरे, तदुभय चापधाराणां शापदानञ्च, रघुनन्दने रामे, शान्तम् उपरतं, निवृत्तमित्यर्थः, भवतु इति शेषः, रामे तदुभयोरेकोऽपि न प्रयोज्य इति भावः ; हि यतः तत् रघुनन्दन इत्यर्थः, ( विधेयप्राधान्यात् क्लीबत्वम् ) मे मम, पुत्रभाण्डं पुत्ररूपमूलधनं; मूलधनरूपतया यन्तत एव रक्षणीयमिति भावः। ( ‘स्याद्भाण्डमश्वाऽऽभरणेऽमत्रे मूलवणिग्धने’ इत्यमरः)। पुत्रस्नेहभाजनं वा, पुत्रः यथा अकृतकस्नेहपात्रं भवति, तथा रामोऽपि विज्ञेय इति भावः। एवमेव पौरादीनामप्युपरिकोपोपशमे हेतुं निर्दिशति, भूयिष्ठेति। -भूयिष्ठाः अतिबहवः, द्विजाः ब्राह्मणाः, बालाः शिशवः, वृद्धाः प्रवयसः, विकलाः हस्तपादाद्यवयवहीनाः, काणखञ्जादय इत्यर्थः, स्त्रैणानि स्त्रीजनसमूहाय यस्मिन् तथाभृतः, पारो जनः पुरवासिवर्गः, भवतीति शेषः ; बालवृद्धादीनामबध्यत्वात् पौरजनस्य तद्वहुलतया सोऽपि अबध्य एव, तेनाहमधुना चापग्रहणात् शापदानाच्च विरतो भवामीति भावः। ( अत्र चापादिग्रहणोपशमं प्रति पौरजनेषु द्विजादिभूयिष्ठत्वस्य हेतुत्वोक्तीर्त्तनात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः )। शार्द्दूलविक्रीडतं वृत्तम्॥ २६ (छ) सम्भ्रान्ताः -सत्वराः, व्यग्रा इत्यर्थः, वटवः,-विप्रकुमाराः, प्रविश्य-रङ्गभूमिमागत्य, आहुरिति शेषः। अश्वोऽश्व इति-घोटक इति समाख्यायां प्रसिद्धः, (वीप्सायां द्विरुक्तिः )। पशुसमाम्नायिकः-पशुसमाम्नाये पशुशास्त्रे पशुद्रव्यकयागप्रतिपादकवेदभागे वा विवर्णितः, लक्षणादिनिर्द्देशपुरःसरं तत्तच्छास्त्रे समधिकतया व्युत्पादित इत्यर्थः, कोऽपि-अस्माभिरदृष्टपूर्वः, भूतविशेषः,-प्राणिविशेषः, जनपदेषु-देशेषु, ग्रामनगराऽऽदिप्रदेशेषु इत्यर्थः, न तु वनेषु इत्यभिप्रायः, श्रूयते-आकर्ण्यते ; अश्वा नाम ग्राम्याः केचित् पशवः सन्तीति पठ्यते इत्यर्थः। अश्वानां योग्यपशुत्वप्रतिपादकं पैठीनसिवचनं यथा,- ‘गौरविरजोऽश्वोऽश्चतुरो गर्द्दभो मनुष्यश्चेति सप्तग्राम्याः पशवः’ इति। सोऽयं-तादृशोऽश्वः इत्यर्थः। प्रत्यक्षीकृतः,-प्रत्यवलोकितः स्वचक्षुषैवेति भावः।
लवः। अश्वोऽश्व इति पशुसमाम्नाये साङ्क्रामिके च पठ्यते ; तद्ब्रूत कीदृशः( ज ) वटवः। श्रूयताम्।
(ज) पशुसमाम्नाये-आम्नायते अम्यस्यते इति आम्नायः,-वेदः, ( ‘श्रुतिः स्त्री वेद आम्नायः’ इत्यमरः) पशूनां समाम्नायस्तस्मिन्, यद्वा, -आम्नायः,-उपदेशः ( ‘आम्नायः कुल आगमे। उपदेशे च’ इति हैमः) गुरुपरम्परक्रमेण समुपदिष्टे पशुनामसङ्ग्रहशास्त्रे इत्यर्थः, पठ्यते-अधीयते ; एतेनास्य युद्धशास्त्रे विशेषाभिज्ञतं प्रतीयते। कीदृशः,-किम््रपकारः ? असाविति शेषः ; यद्यपि वन्या वयं ग्रामीणान् पशून् सर्वथा न जानीमः, तथाऽपि वेदादिषु शास्त्रेषु तत्तत्सरूपनिरूपणदर्शनादेव तेषां लक्षणाभिज्ञा अपि तत्स्वरूपमिदानीं ज्ञातुमिच्छामः, अपश्यत चेत् वदत इति निष्कृष्टार्थः।
‘पश्चात् पुच्छं वहति विपुलं तच्च धूनोत्यजस्रं दीर्घग्रीवः स भवति खुरास्तस्य चत्वार एव।
शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्रमात्रान् किं वाख्यातैर्व्रजति स दूरमेह्येहि यामः॥ २७॥

अथ दर्शनानुसरतः अश्वलक्षणं यथासम्भवम् उत्कीर्त्तयति, पश्वादिति-पश्चात् शरीरादर्वाक्, देहचरमभागे इत्यर्थः, विपुलं प्रचुरं, स्थूलमिति यावत् पुच्छं लाङ्गूलं, वहति धारयति, तच्च पुच्छम्, अजस्रं निरन्तरं, धूनोति कम्पयति, सः अश्वः, दीर्घग्रीवः दीर्घा आयतर, ग्रीवा गलदेशः यस्य तथाविधः, आयतकण्ठः इत्यर्थः, भवति ; तस्य अश्वस्य, खुराः शफाः, चत्वार एव चतुःसङ्ख्याका एव, नातोऽधिका इत्यर्थः, न हि गवादिवत् द्विधा विभिन्नतया चतुःसङ्ख्यातोऽघ्रिका इति भावः, शष्पाणि बालतृणानि, ( ‘शष्पं बालतृणम्’ इत्यमरः) अत्ति भक्षयति, आममात्रान् चूतफलपरिमित्रान्, शक्तत्पिण्डकान् पुरीषखण्डान्, प्रकिरति त्यजति, वा अथवा आख्यातैः स्वरूपकथनैः, तदाकारावर्णनाभिरित्यर्थः, किम् अलम् ? अधुना तत्स्वरूपवर्णनं निष्पयोजनमिति भावः। ( अत्र वारणार्थककिंशब्दयोगात् तृतीया ज्ञेया) एह्येहि आगच्छ आगच्छ। ( सम्भ्रमे द्विर्वचनम् )। यामः गच्छामः, त द्रष्टुं वयमिति शेषः, पुनः किन्तु सः अश्वः, दूरं विप्रकृष्टदेश, व्रजति गच्छति ; तस्य द्रुतगतिमत्तया अस्माकं त्वरितगमनाभावे तद्दर्शनं न भवेदित्याशयः। ( अत्राश्वरूपैककर्त्तृकारकेण सह वहतिप्रभृतीनामनेकासां क्रियाणामभिसम्बन्धात् दीपकालङ्कारः ; अपि चाऽऽम्रफलेन साकं शकृत्पिण्डानां साम्यस्य प्रतिपादनात् उपमाऽलङ्कारः, यथायथमश्वस्वरूपवर्णनाच्च म्वभावोक्तिरलङ्कारः, इत्येषां परस्परसापेक्षतया स्थितेः सङ्करः। सर्वत्र तच्छब्दोपात्तकर्त्तरि लटः प्रयोगदर्शनात् ‘खुरास्तस्य चत्वार एव’ इत्यत्र तु तदन्यथाकरणात् प्रक्रमभङ्गदोष इति ज्ञेयम्)। मन्दाक्रान्ता वृत्तम्॥ २७॥

( इति उपसृत्याऽजिने हस्तयोश्वाऽऽकर्षन्ति )। ( झ ) लवः। ( सकौतुकोपरोधविनयम् )। आर्य्याः पश्यत पश्यत ; एभिर्नीतोऽस्मि। ( इति त्वरितं परिक्रामति )। ( ञ ) अरुन्धतीजनकौ। पश्यतु कुतूहलं वत्सः। (ट ) कौशल्या। भअबदि जाणामि ; एदं उणालोअअन्तो ण जीआमि बि अ ; अदो अणदो भबिअ पेक्वम्ह दाब गच्छमाणं दीआउ। ( ठ ) भगवति जानामि ; एतमनालोकयन्ती न जीवामीव ; अतोऽन्यतो भूत्वा पश्यामस्तावद्गच्छन्तं दीर्घायुषम्।
(झ) इति-इत्थमुक्त्वेत्यर्थः, उपसृत्य-लवसमीपं गत्वा, अजिने-उत्तरीयभूतकृष्णासारमृगत्वचि, हस्तयोश्च-करयोश्चं, ग्रहणपूर्व्वकमिति शेषः, आकर्षन्ति, लवं वटवः इति शेषः।
(ञ) कौतुकम्-अश्वदर्शनकौतूहलम्, उपरोधः,-वयस्यानामत्याग्रहः, विनयः,-नम्रता, तैः सह अर्त्तमानं यथा तथेत्यर्थः। आर्य्याः -भोः मान्याः , जनकादयः पूज्यजना इत्यर्थः। पश्यत पश्यत-अवलोकयत, ( सम्भ्रमे द्विरुक्तिः)। यूयमिति शेषः। एभिः,-वटुभिः, नीतः-स्थानान्तरं प्रापितः, अस्मि-भवामि, अहमिति शेषः। युष्मान् विहाय नाह गन्तुमिच्छामि, किन्तु एते बलात् मां नयन्ति, अत्र किं कर्त्तव्यमिति भावः। त्वरितं-सत्वरं, परिक्रामति-भ्राम्यति, दर्शनोत्कण्ठावशादिति भावः।
(ट) कुतूहलं-कौतुकम्, अश्वावलोकनौत्सुक्यमित्यर्थः, पूरयतु-समापयन्तु, यदि अश्वं द्रष्टुमिच्छामि, तदा एभिः सह गच्छेति भावः।
(ठ) एतम्-इमं बालकम्, अनालोक्यन्ती-अपश्यन्ती, न जीवामीव प्राणान् न धारयामीव, जानामि-मन्ये, अहमिति शेषः। अतः-अस्मात् कारणतः, अन्यतः,-अन्यस्मिन् स्थाने, भूत्वा-अवस्थायेत्यर्थः, अन्यत्र गता सतीति भावः, गच्छन्तं-वटुभिः सार्द्धं यान्तं, दीर्घायुषम्-आयुष्मन्तं, लवमित्यर्थः, पश्यामः,-अवलोकयामः।
अरु। अतिजवेन दूरमतिक्रान्तः स चपलः ; कथं दृश्यते ? ( ड ) कञ्चुकी। ( प्रविश्य )। भगवान् वाल्मीकिराह ;– ‘ज्ञातव्यमेतदवसरे भवद्भिः ‘इति। ( ढ ) जनकः। अतिगम्भीरमेतत् किमपि भविष्यति। भगवति अरुन्धति सखि कौशल्ये आर्य्य गृष्टे स्वयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः। ( ण ) ( इति निष्क्रान्तो वृद्धवर्गः ) (ड) अतिजवेन-अतिवेगेन, दूरं-विप्रकृष्टं देशम्, अतिक्रान्तः,-गतः, चपलः,-चञ्चलमतिः, सः-बालकः लवः ; बालत्वात् स्वत एव चञ्चलप्रकृतिरसौ सुदूरं स्थानं प्रस्थित इति भावः। कथं-केन प्रकारेण, दृश्यते ?-अवलोक्यते, चक्षुर्विषयातिक्रमात् न ह्यसौ द्रष्टुं शक्यते त्वयेति भावः।
(ढ) एतत्-युष्माभिः जिज्ञासितं बृत्तं,-बालकस्यास्य इतिवृत्तमिति यावत्, अवसरे यथासमये, भवद्भिः-युष्माभिः, ज्ञातव्यं-वेदितव्यम्। कालान्तरे यूयं सर्व्वमेव विवरणं मत्तः श्रोष्यथ, इदानीं न वक्तव्यमिति भावः।
(ण) एतत्-अस्मज्जिज्ञासितं बालस्यास्य विवरणमित्यर्थः, किमपि-अनिर्व्वचनीयमेव, अत एव अस्तिगम्भीरं-दुरागाहम्, अतिगोपनीयमित्यर्थः, अलौकिकघटनापूर्णतया मादृशजनैः सहसा भेत्तुमशक्यमिति यावत्। भविष्यति-सम्पत्स्यते। भगवति अरुन्धति -पूज्यतमे वशिष्ठपत्नि एतस्यां गौरवप्रदर्शनर्थं भगवतीत्युकम्। सखि कौशल्ये -सहचरि प्रियदशरथगृहिणि परमात्मीयतद्योतनार्थं सखीति सम्बुद्धम्। आर्य्य गृष्टे -माननीय कञ्चुकिन् अस्य श्रद्धास्थानत्वशब्दार्थः, तथात्वे महर्षेर्गौरवहानिः स्यादिति भावः। प्राचेतसं-वाल्मीकिं, पश्यामः,-अवलोकयामः। नो चेदेवं तर्हि एतद्दृतमासु ज्ञातुं न शक्नुमः इति भावः।
वटवः। पश्यतु हि कुमारस्तदाश्चर्य्यम्। ( त ) लवः। दृष्टमवगतञ्च ; नूनमाश्वमेधिकोऽयमश्व इति। ( थ ) वटवः। कथं ज्ञायते ? ( द ) लवः। ननु मूर्खाः पठितमेव युष्माभिस्तत्काण्डे ; किं न पश्यथ ; प्रत्येकं शतमङ्खाः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः ; तत्प्रायमेववेदमपि दृश्यते ? यदि इह न प्रत्ययः ; तद्गत्वा पृच्छत। ( ध ) (त) पश्यत हि-अवलोकयत्वेव, हिशब्दोऽवधारणार्थकः। कुमारः-लवः, तत्-अश्वरूपं वस्तु, आश्चर्यं-विस्मयकरम् ; वटुभिरदृष्टपूर्व्वत्वेन अश्वोऽयं विस्मयकरवस्तुविधया उल्लिखितः इति ज्ञेयम्।
(थ) दृष्टः-प्रत्यक्षीकृतम्, अवगतञ्च-अवबुद्धञ्च, दृष्टैव कोऽयं भवतीति सम्यक् निर्णीतमित्यर्थः ; नूनं-निश्चितम्, आश्वमेधिकः,-हयमेधयज्ञीयः, ( अश्वमेधः प्रयोजनमस्येत्यर्थे अश्वमेधशब्दात् ठञ् प्रत्ययः ) अयमश्वः,-पुरो दृश्यमानः वाजी, भवतीति शेषः।
(द) कथं-केन लक्षणेनेत्यर्थः, ज्ञायते?-अवधार्य्यते ? अश्वमेधयज्ञस्यायमश्वो भवतीति केन प्रमाणेन स्थिरीक्रियते इति भावः।
(ध) ननु-भोः मूर्खाः-अज्ञाः, वटवः इति शेषः, पठितमेव-अधीतमेव, तत्काण्डे-अश्वमेधाध्याये रामायणस्येत्यर्थः, अश्वमेधसङ्क्रान्तप्रकरणे इति यावत् ; किं न पश्यथ ?-अश्वमेधप्रकरणोक्तं वस्तुजातमत्र यथायथं सम्बद्धमस्तीति किं न यूयमवलोकयत ? इत्यर्थः। किं परिदृश्यते? तदेवाह, प्रत्येकमिति। प्रत्येकम्-( एकम् एकं प्रतीत्यवयीभावः ) सर्व्वस्मिन्नेव भागे इत्यर्थः, शतसङ्ख्याः,-शतम् सङ्ख्या येषां तथोक्ताः, सर्व्वत्र सङ्ख्याशतमन्विता इत्यर्थः, कवचिनः-कवचवन्तः, वर्म्मधारिणः इत्यर्थः ; दण्डिनः,-दण्डायुधाः, यष्टिधारिण इति यावत्, निषङ्गिणश्च-तूष्णीरवन्तश्च, रक्षितारः,-अश्वरक्षकाः सैनिकाः, तत्प्रायं-तेषां-कवचिप्रभृतीनां सैन्यानां, प्रायः,-बाहुल्यं यस्मिन् तथाविधं, शतशतकवचिदण्डिनिषङ्गिसैनिकसुरक्षितमित्यर्थः। इदमपि-अश्वरूपवस्तु अपि, दृश्यते-अवलोक्यते, अश्वं रक्षितुमेव शतं शतं कवचिनः अन्ये च योद्धारः परिक्राम्यन्तीति दृश्यते ; यदि -चेत्, इह- मदीयवचसि; प्रत्ययः,-विश्वासः, न, क्रियेरन्निति शेषः। तत्-तर्हि, गत्वा-रक्षिजनानां समीपमार्गस्येत्यर्थः, पृच्छति-जिज्ञासध्वम् ; अश्वरक्षिणां वचसैव यूयं हयमेधीयोऽयमश्व इति ज्ञास्यथेति भावः।
वटवः। भोः भोः किम्प्रयोजनोऽयमश्वः परिवृतः पर्य्यटति ? ( न ) लवः। ( सस्पृहमात्मगतम् ) अये अश्वमेध इति विश्वविजयिनां क्षत्रियाणामूर्जस्वलः सर्वक्षत्रियपरिभावी महान् उत्कर्षनिकषः। ( ष ) ( नेपथ्ये )।
अयमश्वः पताकेयमथवा वीरघोषणा।
सप्तलोकैकवीरस्य दशकण्ठकुलद्विषः॥२८॥

(न) भोः भोः , सैनिकाः इति शेषः। किम्प्रयोजनः,-किं प्रयोजनम्-उद्देश्यं यस्य सः, किम्फलकः इत्यर्थः, अयमश्वः, परिवृतः,-परिवेष्टितः, रक्षिसङ्घैरिति शेषः, पर्य्यटति -विहरति ; कस्मै कार्य्याय इमे सैनिकाः अस्याश्वस्य समन्तात् धृतायुधाः सन्तः सञ्चरन्तीति भावः।
(प) सस्पृहं-साग्रहम्, आत्मगतं-स्वगतम्, आहेति शेषः, अश्वमेध इति-अश्वमेधनामकः यज्ञः हि, विश्वविजयिनां-विश्वं-जगत्, विजेतुं-प्रभावेण न्यक्कर्तुं शीलं येषां तेषां, त्रोलोकीपरिभाविणामित्यर्थः, क्षत्रियाणां-राजन्यसङ्घानां, ऊर्ज्जस्वलः,-ऊर्ज्जः,-बलमस्यास्तीति ( ‘ज्योत्स्नातमिस्रा- ‘(५। २। ११४ पा०) इति मत्वर्थः निपातः) बलवान्, सर्वातिशायी इति यावत्, सर्व्वक्षत्रियपरिभावी-सर्वान् क्षत्रियान् परिभवितुं शीलं यस्य तादृशः, राजन्यवृन्दतिरस्कारकारकः इत्यर्थः, महान्-बलवत्तरः, उत्कर्षनिकषः,-उत्कर्षस्य-सर्व्वप्राधान्यस्य, गौरवस्येत्यर्थः, निकषः,-स्वर्णादिधातूनां सारत्वनिर्णायकः प्रस्तरविशेषः, प्रकृते तु तद्वत् सारत्वादेः परीक्षास्थानामित्यर्थः ; अश्वमेधयज्ञस्य केवलं सम्राडि्भरेवानुष्ठीयमानतया सातिशयगौरवाधायकत्वमेतस्य निकषायमाणस्य क्षत्रियाणामिति विज्ञेयम्। अतः सक्षत्रियेण लवेन सातिशयः आदरः एतस्मिन्नकारीत्यपि द्रष्टव्यम् ; ‘राजा सार्व्वभौमीऽश्वमेधेन यजेत, नाष्यसार्व्वभौमः। ‘इत्यापस्तम्बोक्तिः।
अथ नेपथ्यभाषितेन रक्षिणः अश्वस्याश्वमेधीयत्वं भगवतो रामस्य विजयगौरवञ्च ख्यापयितुं विज्ञापयन्ति, अयमश्व इति। -सप्तलोकैकवीरस्य सप्तसु भूप्रभृतिषु लोकेषु, भूर्भुवः स्वर्महश्चैव जनश्च तप एव च।
सत्यलोकश्च सप्त ते लोकास्तु परिकीर्त्तिताः॥

‘इत्यग्निपराणाम्। एकः अद्वितीयः, वीरः शूरः तस्य, दशकण्ठस्य रावणस्य, कुलं वंशं, द्वेष्टि यस्तस्य, रावणवंशान्तकस्य, रमस्येत्यर्थः, अयमश्वः एषः दृश्यमानः अश्वमेधीयः हयः, अथवा किंवा, इयं पताका वैजयन्ती, वीरघोषणा वीरत्वप्रख्यापणं, जगदेकवीरत्वख्यातेः प्रतिष्ठापयित्री इत्यर्थः ; इयञ्च विजयपताका अयञ्च अश्वमेधाश्वः एतौ द्वारेव महाराजस्य रामस्य सर्व्वत्राधिराजत्वकीर्त्तेः प्रचारार्थमेव उत्सृष्टौ इत्यभीप्रायकं नेपथ्यभाषणं ‘भोः भोः किम्प्रयोजनोऽयमश्वः’ इत्यादिवटुक्तीनामुत्तरार्थमेवोपन्यस्तमित्यवधेयम्। ( सप्तन्यादिविशेषणद्वयस्य साभिप्रायकत्वेनोपन्यस्तत्वात् परिकरालङ्कारः, तथा अश्वेन पताकया च सार्द्धं वीरघोषणायाः अभेदारोपात् निरङ्गं रूपकमलङ्कारः, एतयोरन्योन्यनैरपेक्ष्येण स्थितेः संसृष्टिरिति )। पथ्यावक्तं वृत्तम्॥ २८॥

लवः। ( सव्यथमिव )। अहो सन्दीपनानि अक्षराणि। ( फ ) वटवः। किम् उच्यते ? प्राज्ञः खलु कुमारः। ( ब ) लवः। ( सव्यथमिव )। अहो सन्दीपनानि अक्षराणि। ( फ ) वटवः। किम् उच्यते ? प्राज्ञः खलु कुमारः। ( ब ) (फ) सव्यथमिव-व्यथया-परोत्कर्षश्रवनजनितया पीडया सह वर्त्तमानं यथा तथेव, ससन्तापमिवेत्यर्थः, आहेति शेषः। अहो-इत्यसूयासूचकमव्ययम्, ( ‘अहो धिगर्थे शोके च करुणार्थविषादयोः। सम्बोधने प्रशंसायां विस्मये पदपूरणे॥ असूयायां वितर्के स्यात्’ इति मेदिनी ) सन्दीपनानि-समुत्तेजकानि, क्रोधोत्साहसंवर्द्धकानीति यावत्, अक्षराणि-वर्णराजयः, श्लोकस्यैतस्य उद्धतभावगर्भतया नितरां दुःश्रवत्वमेवेति भावः।
(ब) किमुच्यते ?-किमभिधीयते, एभिः रक्षिपुरुषैरिति शेषः ; नेपथ्यभाषितेन इमे रक्षिणः किमूचुः, तेषां याथार्थ्यं वयं सम्यक्तया अवबोद्धुं न शक्नुमः इति भावः। यद्वा,-किमत्रास्माभिर्वक्तव्यं, तन्न सहसा स्थिरीकर्त्तुं शक्यते इति भावः। प्राज्ञः खलु कुमारः-कुमारः,-लवः, खलु-निश्चितमेव, प्राज्ञ,-प्रतिभासम्पन्नः ; अतो नूनमसौ रक्षिवचसां तात्पर्य्यं सर्व्वथा अधिगन्तुं शक्ष्यतिति भावः। अत्रायमाशयः;-प्राक् वयमिममश्वमवलोक्य किमप्यवधारयितुं नाशक्नुम, कुमारः लवस्तु दर्शनमात्रेणैव आश्वमेधिकोऽयमश्व इति निरणैषीत्, तेन हि मन्यामहे, ‘अयमश्वः- ‘इत्यादिकं नेपथ्यभाषणमप्यसौ झटित्येवावभीत्स्यते इति ; यद्यपि अनभिज्ञा वयमेतद्वचसा तात्पर्य्यग्रहणे, तथाऽप्यस्मासु विशेषाभिज्ञः लव एव सम्यगवबुध्य समुचितमेवात्राभिधास्यति इति वा भावः।
लवः। भोः भोः तत् किमक्षत्रिया पृथ्वी -यदेवमुद्दतमुद्घोष्यते ? ( भ ) ( नेपथ्ये )। ओ महाराजं प्रति कुतः क्षत्रियाः ? ( म ) लवः। धिग् जाल्मान्। ( य ) –

(भ) भोः भोः , रक्षिण इति शेषः, तत्-तर्हि, रामस्य एकवीरत्वे इति भावः। पृथ्वी इयं भूमिः, किम् अक्षत्रिया ? क्षत्रियजातिशून्या, एतस्यां भूम्याः किमु एकोऽपि क्षत्रियो नास्ति, यः खलु वीरपदभाक् भवेत् ? इत्यर्थः ; यत्-यतः, एवम्-इत्थम्, उद्धतं-सगर्व्वम्, उद्घोष्यते-उत्कीर्त्यते, युष्माभिः रामस्य विरत्वख्यातिरिति शेषः। अधुना हि पृथिवी निर्वीरा न जाता, येन यूयं रामानुचराः एवं रामस्य वीरत्वगाथां गायथ, तेन हि एवमुद्धतभाषणात् विरमध्वमिति भावः।
(म) ओ-इति सावज्ञसम्बोधने। महाराजं-रामचन्द्रं, प्रति-लक्ष्यीकृत्येत्यर्थः, रामचन्द्रसमीपे इति यावत्, क्षत्रियाः,-राजन्यवर्गः, कुतः ?-कुत्र वर्त्तन्ते ? इत्यर्थः ; सम्राजः राघवस्य दशाननरिपोरन्तिके अन्ये क्षत्रियाः वीर्य्यविषये किमु स्थातुं शक्नुवन्ति? इति भावः। तथा च रावणनिर्ज्जितानां क्षत्रियाणां क्षत्रियत्वाभिमानं रावणविद्विषः पुरतः अत्तिलज्जाकरमेवेति तात्पर्यम्।
(य) जाल्मान्-अविवेकान्, पामरानित्यर्थः ( ‘जाल्मः स्यात् पामरे क्रूरेऽसमीक्ष्यकारिणि त्रिषु’ इति मेदिनी )। युष्मान् इति शेषः, धिक्-निन्दामि, यतो यूयमीदृशघोषणया वीरवत्याः भूमेः वीरत्वगौरवं निहन्तुमुद्यताः, अतः समुद्धतान् युष्मान् सततं भर्त्सयामि इति भावः।
यदि ते सन्ति सन्त्वेव ;केयमन्या विभीषिका।
किमुक्तैः ; शरसम्बाधां पताकां वो हराम्यहम्॥ २९॥

अथ राघवगौरवकारिणः रक्षिगणान् अधिक्षिपन्नाहं, यदीति। ते भवत्स्वामिनः रावणविजयिनः रामचन्द्रा इत्यर्थः, (गौरवाद् बहुवचनम्) यदि चेत्, सन्ति विद्यन्ते, त्वदुक्तप्रकारा भवन्तीत्यर्थः, सन्त्वेव तर्हि तथैव तिष्ठन्तु तावत्, तेषामस्थितौ स्थितौ वा का नः क्षतिः उपकृतिर्वा ? इति भावः। किन्तु अन्या अपरा, ‘महाराजं प्रति’ इत्यादिरूपेत्यर्थः, केयं विभीषिका ? भयप्रदर्शनं, क्रियते इति शेषः, रामस्य वीरत्वगौरवं पुरतः प्रख्याप्य अस्मद्भीतिप्रदर्शनेन किमपि फलं न भविष्यतीति भावः। उक्तैः वाग्विन्यासैः, किम् ? अलम्, वृथा वागाडम्बरः निष्प्रयोजन एवेति भावः। अहं लवः, वः युष्माकं, पताकां वैजयन्तीं वीरत्वघोषणाभृतामित्यर्थः, शरसम्बाधां शरैः पत्रिभिः, सम्बाधं समाच्छादनं यस्याः तां, कार्म्मुकनिक्षिप्तशरसङ्कुलां कृत्वेत्यर्थः, हरामि बालात् नयामि ; चेत् यूयं समर्थाः भवेत्, तर्हि एतत्प्रतिकारं कुरुतेति भावः। यद्वा-शरेण तृणविशेषेण, बाणेन वा, सम्बधा मिलनं यस्याः तां शराग्रबद्धाम् अतितुच्छामित्यर्थः। अन्यत् समानम्। ‘शरसम्बाधाम्’ इत्यत्र ‘सन्निपत्यैव’ इति पाठो बहुषु पुस्तकेषु दृश्यते, तदर्थस्तु सन्निपत्यैव वेगेन धावित्वैव, न तु किञ्चित् विविच्यैवेत्यर्थः। ( अत्र समुदितवाक्यार्थेन, यदि युष्माकं शक्तिः स्यात्, तदा रक्षतेमा पताकामित्यादिरूपार्थान्तरागमदर्शनात् अर्थापत्तिरलङ्कारः)॥२९॥

भोः भोः वटवः परिवृत्य लोष्टैरभिघ्नन्तः नयत एनमश्वम् ; एष रोहितानां मध्ये वराकश्चरतु। ( र ) पुरुषः। ( सक्रोधदर्पः प्रविश्य )। धिक् चापलम् किमुक्तवानसि ? तीक्षनीरसा ह्यायुधीयश्रेणयःशिरोरपि न दृप्तां वाचमनुसहन्ते ; राजपुत्रश्चन्द्रकेतुराकृष्टशरासनः सोऽप्यपूर्वारण्यदर्शनकौतूहलाऽऽक्षिप्तहृदयो न परापतति अद्यापि ; तत् त्वरितमपसर्पतानेन तरुगहनेन। ( ल ) र) भोः भोः वटवः ऋषिकुमाराः परिवृत्य वेष्टयित्वा, लोष्टैः,-मृत्पिण्डैः, शिलाशकलैर्वा, अभिघ्नन्तः,-एनमश्वम्-अश्वमेधीयमिमं वाजिनं, नयत-प्रापयत, आश्रममिति शेषः। एष वराकः,-दयार्हः, दीनोऽयमश्व इत्यर्थः, रोहितानां-मृगविशेषाणाम्, आश्रमस्थानामित्यर्थः, ( ‘रोहितं कुङ्कुमे रक्ते ऋजुशक्रशराशने। पुंसि स्यान्मीनमृगयोर्भेदे रोहितकद्रुमे॥ ‘इति मेदिनी)। मध्ये-अभ्यन्तरे, चरतु-भ्राम्यतु, आश्रममृग इव अत्रैव तिष्ठत्वित्यर्थः।
(ल) सक्रोधदर्पः-क्रोधेन कोपेन, दर्पेण-अहङ्कारेण च सह वर्त्तमानः, कुपितः अतिगर्व्वितश्चेत्यर्थः, पुरुषः,-कश्चित् दूतविशेष इति यावत्, प्रविश्य-वटुसमाजमागम्य, प्राहेति शेषः। चापलं-बालस्वभावसुलभां चपलताम्, अविमृष्यकारित्वमिति यावत्, धिक्-निन्दामि, यूयं मा एवं चपला भवतेत्यर्थः, किमुक्तवानसि ?- ‘यदि ते सन्तु’ इत्यादिकं किमसम्बद्धं वचनमभिहितवानसीत्यर्थः, मैवं कदापि पुनर्वाच्यमित्वाशयः। तथाकरणे दोषमुत्कीर्त्याधुना समीचीनमुपायमुपदिशति, तीक्ष्णीति। -तीक्ष्णनीरसाः,-निष्प्रेमाणश्च, अतिनिर्द्दयाश्चेत्यर्थः ( इति विशेषणकर्म्मधारयः )। आयुधीयश्रेणयः,-आयुधेन चरन्ति ये ते आयुधीयाः,-( ‘आयुधात् छ च’ (४। ४। १४ पा०) इति छप्रत्ययः ) योद्धारः, तेषां श्रेण्यः,-समूहाः, अतिभीमनिष्कृपशस्त्रघारिसङ्घाः इत्यर्थः, शिशोरपि-बालकस्यापि, का कथा अन्येषां प्रवयमामिति भावः, दृप्तां-गर्व्वितां, मदोद्धतामित्यर्थः, वाचं- वचनं, नानुसहन्ते-न क्षमन्ते, तव ईदृशीं समुद्धातामित्यर्थः, वाचं-वचनं, नानुसहन्ते-न क्षमन्ते, तव ईदृशीं समुद्धतां वाचं श्रुत्वा नूनं गर्व्विताः रक्षिणः प्रकुप्य समायास्यन्त्येव, सुतरां तद्धस्तात् बालकानामपि युष्माकं कथमपि मुक्तिर्न भविष्यतीति भावः। राजपुत्रः,-नृपकुमारः, चन्द्रकेतुः,-तदाख्यः सौमित्रितनयः, आकृष्टशरासनः,-आकृष्टं-गृहीतं, शरासनं-धनुर्येन तथोक्तः, अधिज्यधन्वा इत्यर्थः, सोऽपि-चन्द्रकेतुरपि, न केवलमसौ रजकुमारः अस्माकं सेनानीः एकाकी समायाति, अपि तु असङ्ख्याताः सैनिकाश्च तत्पृष्ठतः समायान्ति इत्यापिशब्दार्थः; अपूर्व्वारण्यदर्शनकौतूहलाक्षिप्तहृदयः,- अपूर्व्वस्य-अदृष्टपूर्व्वस्य, अनिर्वचनीयस्येति यावत्, अरण्यस्य-तपोवनश्रियः, यद्दर्शनम्-अवलोकनं, तस्य यत् कौतूहलम्-औत्सुक्यं, परमानन्दः इति यावत्, तेन आक्षिप्तं-समाकृष्टं, हृदयं-मानसं यस्य तथोक्तः, रम्यां नैसर्गिकीं तपोवनलक्ष्मीं समवलोक्य निर्भरानन्दोदयात् अतिप्रफुल्लमनसः इत्यर्थः, अद्यापि-इदानीमपि, स्वभावसुन्दरवनस्थलीशोभासन्दर्शनेन विवशभावोदयादिति भावः। न परापतति-न समागच्छति, तत्तद्देशनध्यास्ते इति भावः। तत् -तस्मात्, तदागमनात् प्रागेवेत्यर्थः, त्वरितं-द्रुतम्,अपसर्पत-प्रयात, प्रलायध्वमित्यर्थः, अनेन-पुरोवर्त्तिना, तरुगहनेन-निविडवनभागिनि ; यावदस्माकं सेनानीः समागत्य युष्माकं दुर्व्यवहारं न पश्यति, तावत् अनेन वनभागेन सत्वरं गम्यतां, नो चेत् महाननर्थः सम्पद्येतेति भावः।
वटवः। कुमार कृतमनेनाश्वेन ; तर्जयन्ति विस्फरितशाखाः कुमारमायुधीयश्रेणयः ; दूरे चाऽऽश्रमपदमितः ; तदेहि ; हरिणप्लुतैः पलायामहे। ( व ) (व) कुमार -लव , कृतम्-अलम्, अनेनाश्वेन-अश्वमेधीयवाजिना, एतद्ग्रहणे अस्माकं प्रयोजनं नास्तीति भावः। कथमित्याह, तर्ज्जेति। -तर्ज्जयन्ति-भर्त्सयन्ति, सगर्व्वसधिक्षिपन्तीत्यर्थः, विस्फुरितशस्त्राः,-विस्फुरितानि-विलसन्ति, समुत्तोलनावसरे निशिततया समधिकमुज्ज्वलन्ति इति भावः, लवः। ( स्मितं कृत्वा )। किं नाम विस्फुरन्ति शस्त्राणि ? ( श ) ( धनुरारोपयन् )। ( ष ) –

शस्त्राणि-आयुधानि येषां तथोक्ताः, आयुधीयश्रेणयः,-आयुधीयानां-शस्त्रधारियोद्धृपुरुषाणां, श्रेणयः,-सङ्घाः। इतः-अस्मात् स्थलात्, दूरे-विप्रकृष्टदेशे च, आश्रमपदं-तपोवनभूमिः, वयमाश्रमादतिदूरदेशं समायाता इत्यर्थः। तत्-तस्मात्, आश्रमस्यातिदूरवर्त्तित्वादित्यर्थः, एहि-आगच्छ, भोः कुमार त्वमिति शेषः, हरिणप्लुतैः,-मृगवद्द्रम्फणैः, वातमजाः मृगाः यथा उद्रम्फा द्रुतं धावन्ति, तद्वदिति भावः। पलायामहे-अपसरामः, स्थानमेतत् विहाय त्वरितं धावामः, वयमपि शेषः, एतस्मिन् स्थाने क्षणमपि न स्थास्याम इत्याशयः।
(श) स्मितम्-ईषद्धास्यं, कृत्वा-विधाय, मृदु हसित्वेत्यर्थः। शस्त्राणि-सैनिकानामायुधानि, किमिति-प्रश्ने, नामेति-कोपे, विस्फुरन्ति ? -विलसन्ति, रणोन्मत्ताः सेनासमूहाः बलादस्मत्तः अश्वमपहर्त्तुं योद्धुञ्च सज्जा भवन्ति किमु ? तर्हि न भेतव्यं, तूणमेव मया तत्प्रतिविधानं क्रियते इत्याशयः।
(ष) धनुरारोपयन्-शरासने मौर्व्वीं समारोपयन्, युद्धाय कृतमतिः सज्यं कार्म्मुकं कुर्व्वन्नित्यर्थः, आहेति शेषः।
ज्याजिह्वया बलयितोत्कटकोटिदंष्ट्र- मुद्गारि घोरघनघर्घरघोषमेतत्।
ग्रामप्रसक्तहसदन्तकवक्त्रयत्न जृम्भाविडम्बिविकटोदरमस्तु चापम् ॥३०॥

( इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे )।
इति कौशल्याजनकयोगो नाम चतुर्थोऽङ्कः।
अथ लवः अश्वरक्षिसैनिकान् धृतनिशितायुधान् युद्धाय सत्वरान् समवलोक्य, तान् तृणाय विगणय्य स्वशौर्य्यवत्तां चापशिक्षाकौशलञ्च प्रकटीकर्त्तुं हेलया जगन्ति न्यक्करोति, ज्याजिह्वेति। -ज्या शिञ्जिनी, जिह्वा रसना इव ( ‘उपमितं व्याघ्रादिभिः,- ‘(२। १। ५६ पा०) इत्युपामितसमासः) तया, जिह्वाकारया ज्ययेत्यर्थः, बलयितेत्यादि। -वलयिते वलयाकारं प्रापिते, उत्कटे उग्रे, भीषणे इति यावत्, कोटी अटन्यौ, अये इत्यर्थः, दंष्ट्रे विकटौ दन्तौ इव यस्य तत्, कल्पान्ते जगद्ध्वंसलोलुपस्य कृतान्तस्य सुदीर्घा रसना यथा विशालौ दन्तौ मृशं स्पृशति, तथा ममेयं चापस्य ज्याऽपि कोटिद्वयं सततं स्पृशतु इति भावः, उद्गारीत्यादि। -उद्गारी उद्गच्छन्, घोरः भयङ्करः, घनस्य मेघस्यैव, घर्घरः तथाविधाऽव्यक्तः, घोषः ध्वनिः यस्य तथोक्तम्, अथवा, घोरं भयावहं, घनवत् संवर्तातिमेघवत्, घर्घरघोषं घर्घरशब्दम्, उद्गारि उद्गारयिष्यत्, कल्पान्तमेघ इव निरन्तरं सर्व्वप्राणिभयप्रदं घोरं निनादं करिष्यदित्यर्थः, अत्र पक्षे ( ‘ओनोर्भविष्य- ‘(२। ३। ७० पा०) इति कर्म्मणि षष्ठीप्रतिषेधः )। एतत् चापं मदीयं धनुः, ( ‘अथास्त्रियौ धनुश्चापौ। ‘इत्यमरः। अस्त्रियावित्युक्तेः पुंसि प्रयोगस्य बाहुल्येन सर्वैरादृतत्वेऽप्यत्र ‘भयामृतसकृद्धस्त्रचापाभरणलाञ्छनम्’ इति नपुंसकशेषोक्तेः चापशब्दस्य क्लीबप्रयुक्तमिति ज्ञेयम् )।
ग्रासेत्यादि। -ग्रासाय जगतः कवलीकरणाय, प्रसक्तं व्ययं, हसत् भक्षणाह्लादेन विकटहास्यं कुर्व्वत ; यत् अन्तकस्य कृतान्तस्य वक्त्रयन्त्रं यत्नाकारं वक्त्रं, तस्य या जुम्भा व्यादानं, तद्धिडम्बि तदनुकारि, अत एव विकटं विशालम्, उदरम् अभ्यन्तरं यस्य तादृशम्, अस्तु भवतु। लोकसङ्क्षयं कर्त्तुं प्रवृत्तस्य कृतान्तस्य वदनं यथा प्रलयसमये प्रचुरभक्ष्यलाभानन्देन साट्टहासं व्यात्तं भवति, तथैव मम चापं विकटां जुम्भां विधाय निखिलं रिपुसैन्यं सपदि निहन्त्वित्यर्थः। ( अत्र जिह्वया सह ज्यायाः, दंष्ट्रया सह कोष्ट्याः, घनेन सह चापघोषस्य, यन्त्रेण सह वक्त्रस्य, जुम्भया सह चापविजृम्भणस्य अवैधर्म्यसाम्यानामुपदेशात् पञ्चोपमा अलङ्काराः, तेषाञ्च परस्परसापेक्षत्वात् सजातीयसङ्करः, अपि चान्तकवक्त्रस्य जगद्ध्रासकालिकहास्यस्यासम्बन्धेन तत्सम्बन्धोक्तेरतिशयोक्तिरलङ्कारः, एतेन सह प्रोक्तोपमानां नैरपेक्ष्येण स्थितेः संसृष्टिः, किञ्च एक एवाहं युष्माकं सर्वेषां रक्षिसैनिकानां सपदि सङ्क्षयं करिष्यामि इति च वस्तु व्यज्यते, इत्यलङ्कारेण वस्तुध्वनिः।
शब्दालङ्काराः छेकानुप्रासवृत्यनुप्रासाश्च यथायोगं ज्ञेयाः। संयुक्तादिवर्णानां श्रुतिदुःखदायकत्वेन दुःश्रवत्वदोषाहकूलत्वेऽपि अत्र वीररसानुकूलत्वेन पुनर्गुणत्वमेवेति ज्ञेयं,- ‘वक्तरि क्रोधसंयुक्ते वाच्येऽत्यन्तं समुद्यते।
रौद्रादौ तु रसेऽत्यन्तदुःश्रवत्वं गुणो भवेत्॥

‘इति दर्पणात्। अत्र वीरो रसः, ओजोगुणः गौडी च रीतिर्ज्ञेया )। वसन्ततिलकं वृत्तम्॥ ३०॥

सङ्क्षेपः

चतुर्थाङ्कस्य सङ्क्षेपः।
अथाङ्केऽस्मिन् प्रथमत एव रङ्गालयप्रविष्टयोः सौधातकिभाण्डायननामधेययोः परस्परमालपतोर्द्द्वयोर्वाल्मीकिशिष्ययोरन्यतरेण, समागतातिथिसत्कारारम्भरमाणीयं तपोवनदहरिणपरिपीयमाणोष्णविमण्डितम् इतस्ततः सघृतान्नव्यञ्जनसम्भारसौरमामोदितमाष्रमपदमालोक्य सानन्दं विज्ञापितोऽपरः सौधातकिः शिष्टानध्यायसम्भावनया परां प्रीतिमधिगच्छन् सोपहासं तेषां वर्षिष्ठस्य परिचयमपृच्छत्। तेन चैवं पृष्टो विरक्तश्चास्य सोपहासवचनेन, भाण्डायनः सपरिचयमेषामागमनकारणं व्यजिज्ञपत् न्यषेधच्च तमेवं वृथाप्रलापिनं चापल्यात्। सौधातकिरपि सहचरमुखात् तस्य वशिष्ठेति नामकर्ण्य वत्सतरीसहितमधुपर्कग्रहणादमुं वृकादित्वेन सम्भावयन् पुनरप्युपाहसत्।
अथ श्रुतिप्रमाणेन मधुपर्कस्य समांसत्वं प्रमाणयन् भाण्डायनः सौधातकिना पुनरपि विदेहनायके जनके तद्व्यभिचारमापूच्छामनः निवृत्तानिवृत्तमासभदेन तत् व्यवस्थापयन्नपि, पुनरपि सहचारेण तेन विदेहपतेर्निवृत्तमांसत्वं कथमित्यपृच्छत। तद्धेतुमाचक्षाणश्चासौ सुतायाः सीतायाः निष्कारणनिर्वासनदुर्विपाकश्रवणोत्थमस्य वैखानसवृत्तावलम्बनमेव तत्कारणमचीकथयत्, अवदच्च सुहृत्साक्षात्कारमेव आगमनकारणम्। अथ कौशल्यादिभिरस्य साक्षात्कारः सुवृत्तो न वेति सौधातकिना पृष्टो भाण्डायनः वैवाहिकेन साक्षात्कारार्थं कौशल्यामानेतुं तत्समीपे वसिष्ठेनारुन्धत्याः प्रेषणवृत्तान्तमकथयत्। ततः श्रुताखिलवृत्तान्तः सौधातकिरपि सहचरैः सम्भूय क्रीडया अनध्यायमहोत्सवमनुष्ठातुमियेष। भाण्डायनोऽपि प्रचेतसाश्रमबहिर्भूतं तरुमूलमधितिष्ठन्तं जनकमालोकयन् साक्षेपं सह सहचरेण अन्तर्दधे। इति विष्कम्भसङ्क्षेपः।

अथ चिन्तामात्रसनाथः विदेहनाथः सन्ततमन्तर्ज्वलताऽतिमहता निखिलवासनाविदाहिना शोकाग्निना दन्दह्यमानमानसः, प्रखरकरपत्रवदतिदुःसहं मर्म्मविदारकं शोकावेगमसहमानः, समवगच्छन् दारुणदुःखदग्धस्यापि देहस्य स्वतः पाताभावं, विभावयन् आत्मघातस्य चिराय घोरनरकोत्पादकत्वं, विलपन् तामेव निष्कारणनिर्वासितां स्वसुतां सीतमुद्दिश्य वारंवा, संस्मरंश्चानियतामितस्मितोद्भासितं शैशवसम्भूतविरलदशनराजिविराजतं तदीयमनलं मुखकमलं म्रियमाणः वसिष्ठारुन्धतीगङ्गावह्निभास्करादिभिः सर्वैः स्वयञ्च विदितविशुद्धभावां स्वसमक्षमेवमतिविषमां दशां गमितां सीतामालोक्यापि तदानीमप्रतिकुर्व्वतीं दारुणाप्रकृतिं तत्प्रसूतिं भागवतीं वसुमतीं विस्तरेणासौ तिरश्चकार।
अथ नपथ्यादुत्थितम् ‘इत इतो भगवतीमहादेव्यौ’ इति कञ्चुकिवाक्यमाकर्ण्य दूरप्रसारितदृष्टिगृष्टिप्रदर्षितमार्गा केवलामरुन्धतीमागच्छन्तीमालोक्य, पर्य्यालोच्य च क्षणं महादेवीशब्दप्रतिपाद्यां प्रबलविषादजातविकृतिं क्षीणदीनमलिनाकृतिम् अन्तर्विरुढशोकशल्यां कौशल्यामिति कथमपि निश्चिन्वन् तदालोकनसमुद्बोधिताखिलपूर्वस्मृतिः मूर्त्तिमदानन्दरूपाया अपि तस्याः साम्प्रतमीदृशमतिभीषणमाकृतिपरिणाममालोकयन् अतिकातरः तामेव उद्दिश्य भृशं विललाप।
कौशल्याऽपि स्वामपराधवतीं मत्वा तपापरवशा सहसा वैवाहिकसमीपं यातुमनीहमाना स्वयं कृतानुशयं हृदयं विकृतावस्थामपि स्वस्थं विधाय, कञ्चुक्यारुन्धतीभ्यां सम्मारितानिजकर्तव्यां कथमपि शनैरनुसर्त्तुमारेभे। तद्दुःखक्षिप्तहृदया वशिष्ठजायाऽपि एवमतिनिर्विण्णां तां सान्त्वयन्ती दूरत एव विपुलविटपिमूलनिषण्णमतिविषण्णं मिथिलानायकं जनकं दर्शयामास। दूराद्दृष्ट्वा चेममतिविषमसुताशोकक्षोभमलिनं राजानमसौ स्वकीयं पूर्व्वकृतदुष्कृतसमवायसृष्ट्मतिनिकृष्टमदृष्टमेव शुशोच।
जनकोऽपि कञ्चुकिकौशल्योपेतामरुन्धतीमागच्छन्तीमालोक्य, स्वयमुपसृत्य प्रथमं त्रिलोकलोकवन्द्याम् अवनितललोलेन शिरसा समभिवन्द्य, समधिगम्य च सकलकल्याणनिदानमाशीर्वचनं तस्याः, पुरास्थितं कञ्चुकिनमामन्त्र्या, प्रजापालमातृत्वेन कौशल्यामध्यक्षिपत्, अपृच्छच्च तमेव तस्याः कुशलवार्त्ताम्। कौशल्यापरिचये प्रजापालमातृत्वकथानात् अन्तर्निगूढार्थं जनककृतमधिक्षेपमनुचिन्तयन् दुःखितान्तःकरणः गृष्टिरपिम् निष्करुणे सीताविवासने कौशल्यायाः सर्वथा निर्द्दोषत्वं प्रतिपादयन्, समर्थयमानश्च रामकृतस्यापि दारुणारुन्तुदकर्म्मणः अपरिहार्य्यनियतिनिमित्तकत्वं, सीताशोकक्लिष्टामपि तामधिक्षिपन्तं राजानमनुनीय ततो न्यवर्त्तयत।
नर्म्मनिहितदुःखशल्या कौशल्याऽपि इत्थं दुःसहशोकसन्तापतप्तं हृदयविदारणं जनकवचनं क्षते क्षारमिवातिदुःसहं मन्यमाना मुमोह। गृष्टिना चैवं प्रतिबोधितो विदेहनाथोऽपि सततम्। सीताशोकेनातिदुःखितामपि तां दारुणवचनैः पुनरपि दुःखयन्ननुशुशोच, विललाप चानुस्मृताखिलपूर्ववृत्तान्तः, तमेवातिप्रियं द्वितीयमिव हृदयं सुहृदं दशरथमनुस्मरन्नतिमात्रम्। ततो मोहविलुप्तचेतनां कौशल्यां निश्वासनिरोधात् म्रियमाणामिवालोक्य जनकेन कमण्डलूदकेनाभिषिच्य प्रत्यबोधयत्।
एवं प्रतिबोधिता चासौ सततमानन्दितायाः सीतायाः स्मितविकसितमनिन्द्यं वदनारविन्दमनुस्मरन्ती निष्कारणनिर्वासितामतिपूतां तामुद्देशेनामन्त्रा कथमपि प्राणैरवियुक्ता भृशं विललाप। तमेवं विलपन्तीमालोक्य समधिकक्रोशवती कृपापरवती अरुन्धती ऋष्यशृङ्गाश्रमे कुलगुरुणाऽभिहितं सत्यं तथ्यमनुस्मारयन्ती कथमपि तां हताशामाश्वासयामास।
अथाश्रमसमीपे सहसा शिशूनां समपनीतहृद्यविषादं कलकलनादमाकर्ण्य सर्व्वेषु कथमयं, कुतस्त्यो वेति निपुणं निरूपयत्सु जनकः शिष्टानध्यायात् क्रीडतां वटूनाम् अयं कोलाहल इत्यकथयत्। अथ कौशल्या दूरादेव तेषु वटुषु कञ्चिदतिमधुरतराकारं सर्व्वथाऽनुकृताभिराममुखाकृतिं लोचनलोभनीयं बालकमालोक्य सातिशयं विस्मयमुपागमत्। ततश्चारुन्धत्याऽपि तथैव सम्बावितोऽसौ बालकः कञ्चुकिना लक्षिताखिललक्षणेन क्षत्रियब्रह्मचारीति निरणायि। ततो जनकेनास्य परिचयं पृष्टया अरुन्धत्याऽपि कुतस्त्योयमिति निर्णेतुं नाशक्यत। जनकस्तु अतीवकौतूहलाऽऽक्षिप्तहृदयः शिशुमिममाह्वातुम्, अस्य परिचयञ्च विज्ञातुं तमेव कञ्चुकिनं वाल्मीक्याश्रमं प्रेषयामास। कञ्चुकिना समाहतोऽपि नायं क्रीडामपहाय अत्राऽऽगमिष्यतीति विसिष्मिये। मिथिलाधिपोऽपि शिशोरस्य सन्दर्शनमात्रमत्याकृष्टचित्तः कमप्यमन्दमानन्दसन्दोहमवाप।
विहितव्यवहारपटुर्वटुरपि सविनयमुपसृत्य, नमस्कृत्य चातिविनीतः सर्व्वान् अर्चनीयान् पर्य्यायक्रमेण, समधिगम्य च तेभ्यः अवितथान् शुभाशीराशीन्, अरुन्धत्या उत्सङ्गे गृहीतः पुनः कौशल्योत्सङ्गमलञ्चकार। कौशाल्याऽपि तमुत्सङ्गे कृत्वा चिर्राभ्यस्तरामस्पर्शानुरूपमतिकोमलस्पर्शमनुभूय, निरूप्य च निपुणं न केवलं रामभद्रस्य, अपि तु सीतायाश्च प्रकृत्याकृत्योः सविशेषं सौसादृश्यमस्मिन्नतिविस्मिता तदेव वैवाहिकमदर्शयत्। विदेहाधिपतिनाऽपि सर्वं सुनिपुणामालोक्य सविषादं तथैवेति समर्थितम्। अथाकृतिगतसौसादृश्यसन्दर्शनेन प्रबलाशाक्षिप्तहृदया मनसा सौतासुतत्वेन बालकममुमाशङ्कमाना, कुतस्त्यस्त्वमिति तन्मुखादेव आकर्णयितुमिच्छुरस्य जननी जनकश्चास्ति न वेति समपृच्छत्, अवागच्छच्च तं बालकमविज्ञातपितृपरिचयं केवलमाशैशवं वाल्मीकिस्वामिकमिति।
परस्परमेवमालपद्भिः तैः सर्वैः सहसा नेपथ्योत्थिता चन्द्रकेतोरादेशघोषणां समश्रावि, निरणायि च तच्छ्रवणात् जनकारुन्धतीभ्यां रामाश्वमेधाश्वपरिरक्षणार्थमागतश्चन्द्रकेतुरिति। शिशुरसौ कोऽयं चन्द्रकेतुरिति विज्ञातुमशक्तो जनकमपृच्छत्, समदर्शयच्च विदेहपतिमुखात् लक्ष्मणात्मजत्वेन तस्य परिचयं विज्ञाय स्वस्य रामायणकथाप्रावीण्यं विस्तरत्। जनकोऽपि तं तथा कथाऽभिज्ञं विज्ञाय, दशरथात्मजानां कति सुताः केषु केषु च दारेषु अजायन्तेत्यपृच्छत्। तेनैवं पृष्टोऽसौ बालकोऽपि कविना प्रणीतस्यापि तत्कथांशस्य सर्व्वथाऽप्रकाशितत्वेन तस्मिन् स्वस्यानभिज्ञत्वमचिख्यपत्, व्यजिज्ञपच्च ज्यायसा कुशेन परिरक्षितस्य तद्भागस्य अभिनयार्थं भरताश्रमप्रेरणवृत्तान्तम्। एतावताऽप्यपरितृप्तेन मिथिलेशेन प्रकाशितभागस्यैव अवधिभागं पुनः पृष्टोऽसौ बालकः आसन्नप्रसवायाः निर्व्वासितायाः सीतायाः लक्ष्मणकर्तृकं निर्ज्जने वने परित्यागमेव प्रकाशितभागस्य अवधिमकथयत्।
तच्चाकर्ण्य तामतिदुःखितामुद्दिश्य सर्वेषु भृशं प्रविश्य तत्स्वरूपवर्णनपुरःसरं तदेवाद्भुतमालोकयितुं लवमप्याचकर्षुः। लवोऽपि स्वां सहचरकृतासवस्थां विज्ञाप्य तैर्मान्यैः कथमपि अनुमतः सत्वरं तत्रोपस्थाय, समवलोक्य च तमश्वमतिनिपुणम् , आश्वमेधिकोऽयमिति निरणयत्। सहचरास्तु तद्वचसि अप्रतीता अश्वपालानुद्दिश्य ‘किमर्थोऽयमश्वः’ इति पृच्छन्तः ‘अयमश्वः पताकेयम्’ इत्यादिकमतिगर्वितमुत्तरमश्रौषुः। लवोऽपि तदाकर्ण्य, साटोपम् अश्वपालानाहूय सावज्ञमधिचिक्षेप। तेन चातिक्रुद्धः कश्चित्सदर्पसैनिकः समागत्य लवमतिमाचमधर्षयत्। अथ कोपप्रस्फुरितान्निर्वर्त्तितु मुहुरनुरुद्धः क्रुद्धश्चातिमात्रं सातोपसैनिकवचसा, विप्रकृतः सिंहशावकः इवातिदृप्तो लवः सशरशरासनाकर्षणेन निजवचनानुरूपं शौर्य्यातिशयं प्रदर्शयन् वृथाभीषितान् सहचरानाश्वासयामासेति।
इत्यशेषशास्त्राटवीसञ्चानन-कुलपतिकल्प- ‘वि,ए’ इत्युपनामक श्रीमज्जिवानन्दविद्यासागर-भट्टाचार्य्यविरचितायां, तदात्मजाभं श्रीमधासुबोधविद्यामूषन-श्रीमन्नित्यबोधविद्यारत्नाभं परिवर्तितपरिवर्द्धितायां सुकबोधिनीसमाख्यायाम् उत्तररामचरितव्याख्यायां चतुर्थोऽङ्कः॥४॥