०३ छाया

तृतीयोऽङ्कः (ततः प्रविशति नदीद्वयं नमसा मुरला च)। (क) तमसा। सखि मुरले किमसि सम्भ्रान्तेव ? (ख) मुरला। भगवति तमसे प्रेषिताऽस्मि भगवतोऽगस्त्यस्य पत्न्या लोपामुद्रया सरिद्वरां गोदावरीमभिधातुं; जानास्येव यथा वधूत्यागात् प्रभृति; (ग) – अनिर्भिन्नो गभीरत्वादन्तर्गूढघनव्यथः।
पुटपाकप्रतीकाशो रामस्य करुणो रसः॥१॥

(क) ततः इति। -अत्र चेतनकर्तृकस्य प्रवेशस्य सलिलप्रवाहरूपाचेतननदीकर्तृकत्वासम्भवात् नदीद्वयपदेन नद्यधिष्ठातृदेवताद्वयमेवावगमनीयम्।
(ख) सम्भ्रान्तेव-व्याकुलेव, अस्थिरचित्तेवेति यावत्।
(ग) भगवतीति। -भगवति-ऐश्वर्यादिषड्गुणशालिनीत्यर्थः, तमसायास्तीर्थस्वरूपतया एवं सम्बोधनं प्रयुक्तम्। सरिद्वरां स्रोतस्वतीश्रेष्ठां, श्रेष्ठत्वं तु तस्या महात्म्यातिशयाद्बोध्यम्। अभिधातुं-वक्तुं, प्रेषितास्मीति पूर्वेणान्वयः। वधूत्यागात् प्रभृति-वध्वाः पुत्र्याः सीतायाः, त्यागात्प्रभृति-विवासनमुपक्रम्य, भार्यात्यागमारभ्येति यावत्, ( ‘वधूर्जाया स्नुषा स्त्री च’ इत्यमरः)। (वधूत्यागादित्यत्र प्रभृतिशब्दयोगे पञ्चमी)।
तमसया ससम्भ्रमप्रवेशकारणं पृष्टा मुरला भागीरथीं प्रति लोपामुद्रायाः वक्तव्यविज्ञापनप्रसङ्गेन रघुपतेस्तदानीन्तनमनोभावं विज्ञापयन्त्याह, अनिर्भिन्न इति। -गभीरत्वात् गाम्भीर्यात्, धैर्यातिशयवशादित्यर्थः, पक्षे-घनप्रलेपशालित्वात्, अत्यन्ताभ्यन्तरस्थितत्वादिति यावत्, अनिर्भिन्नः अप्रकाशितः, लोकलोचनबहिर्भूतः इत्यर्थः, पक्षे-पात्रान्निर्भेदं न प्राप्तः, अविदीर्ण इति यावत् ; अत एव अन्तः अन्तःकरणे गूढा प्रकाशं स्थिता घना गाढा, अतिशयितेति यावत्, व्यथा वेदना यस्य स तथोक्तः, पक्षे-अन्तर्मध्ये गूढा गुप्ता घना प्रगाढा व्यथा सन्तापः यस्य सः तथोक्तः, रामस्य करुणो रसः सीताविरहसमुत्थः शोकः इत्यर्थः, पक्षे-रसः पारदः, पुटे बहिर्मृद्विलेपावरुद्धपर्णादिनिर्मितपात्र- विशेषे यः पाकः औषधादीनां सन्तापनं तत् प्रतीकाशः तत्तुल्यः प्रतिभातीति शेषः; (‘इकः काशे ‘(६। ३। १२३पा०) इति दीर्घता) ; यथा वहिःप्रगाढतरमृत्प्रलेपावरुद्धस्य पुटस्याभ्यन्तरवर्त्तिनी नितरां सन्तप्यमानस्य भेषजस्य सन्तापः कथमपि वहिर्नोपलक्ष्यते, तथा स्वयङ्कृतमीताविवासनसमुत्थः शोकसम्भारो नितरां दुःसहोऽपि रघुपतेर्निसर्गधीरतया कथमप्यन्तर्निगृहीतो वहिर्न प्रकाशत इति भावः। पुटपाकश्चोक्त्तः परिभाषाप्रदीपे- ‘पुटपङ्क्वस्य द्रव्यस्य स्वरसो गृह्यते यतः।
अतोऽयं पुटपाकः स्यात् विधानं तस्य कथ्यते॥

द्रव्यमापोथितं जम्बू-वटपत्रादिसम्पुटे।
वेष्टयित्वा ततो बद्धा दृढं रज्ज्वादिना तथा॥

मृल्लेपं द्व्यङ्गुलं कुर्य्यादथवाऽलिमाचकम्।
दहेत् पुटान्तरादग्नौ यावल्लेपस्य रक्त्तता॥‘इति।
(अत्र करुणविप्रलम्भाख्योरसः स्वशब्देनोक्त्तः- ‘तामुद्वीक्ष्य कुरङ्गाक्षीं रसो न कोऽप्यजायत‘इत्यादिवत् दोषमावहतीत्यापाततः प्रतिभाति‘रसस्योक्त्तिः स्वशब्देन‘इति रसः खशब्देन वाच्यः स्यात् तत्रैवासौ दोषपदवीमारीहेत्; इह तु केवलं रामस्य तदानीन्तनावस्थावर्णनमुखेन रसशब्दोल्लेखात् नकापि दोषशङ्केति ध्येयम्। इह उपमानामालङ्कारः, सा च सामान्यधर्मादीनां वाच्यतया पूर्णा, श्रुतिमात्रेणैवोपमेयोपमानगतसादृश्यलक्षणसम्बन्धाबोधकतया प्रतीकाशशब्दार्थानुसन्धानसपेक्षतया चार्थीति)। अनुष्टुप्वृत्तम्॥१॥

तेन च तथाविधेष्टजन-कष्टपात-जन्मना (घ) प्रकर्षगतेन दीर्घशोकसन्तानेन (ङ) सम्प्रति अतितरां परिक्षीणो रामभद्रः; (घ) तेनेति। - तेन-पुटपाकप्रतीकाशेनेत्यर्थः। तथाविधेति। - तथाविधस्तादृशः निर्व्वासनसमुत्थः इत्यर्थः, इष्टजने प्रियजने, जनकतनयारूपे इति यावत्, यः कष्टस्य अनिष्टस्य, पातः पतनं, सङ्घट्टनमिति यावत्, तस्मात् जन्म उत्पत्तिर्यस्य तेन सीतानिर्वासनसम्भवेनेत्यर्थः।
(ङ) प्रकर्षेति। - प्रकर्षमातिशय्यं, गतेन प्राप्तेन, निरतिशयेनेत्यर्थः। दीर्घशोकेति। - दीर्घेण बहुकालव्यापिना, निरवधिनेत्यर्थः, शोकसन्तानेन दुःखप्रवाहेण, निरवच्छिन्नशोकपरम्परयेत्यर्थः।
तमवलोकस्य कम्पितमिति (च) मे हृदयम्। अधुना च प्रतिनिवर्तमानेन रामभद्रेण नियतमेव पञ्चवटीवने बधूसहनिवासविश्रम्भसाक्षिणः (छ) प्रदेशा द्रष्टव्याः ; तेषु च निरर्गधिरस्यापि एवंविधायामवस्थायाम् अतिगम्भीराभोगशोकक्षोभसंवेगात् (ज) पदे पदे महान्ति प्रमादस्थानानि सङ्कनीयानि रामभद्रस्य ; तद्भगवति गोदावरि तत्र त्वया सावधानया भवितव्यम्; (झ)- (च) सम्प्रतीति। - सम्प्रति- इदानीं, सीतानिर्व्वासनतः परमित्यर्थः। अतितराम्- अत्यर्थम्। परिक्षीणः, -अत्यन्तं कार्श्यमापन्नः। तं तादृशं कार्श्यमापन्नं रामभद्रमित्यर्थः (सर्वत्र ल्यबन्तक्रियायाः समापिकया क्रियया सहैककर्त्तृकत्वमावश्यकम्, इह तु‘अवलोक्य‘इत्यनन्तरं स्थितादिपदाध्याहारेण तत् समाधेयम्)। कम्पितमिव-रामभद्रस्य भविष्यदनिष्टापातभीत्या सातिशयमस्थिरमिवेत्यर्थः।
(छ) प्रतिनिवर्त्तमानेनेति। - अगस्त्याश्रमादश्वमेधमनुष्ठातुमयोध्यां प्रति गच्छता। नियतमेव-अवश्यमेव। बधूसहेति। - बध्वा सीतया सह सार्द्धं निवासे एकत्रावस्थाने ये विश्रम्भाः स्वच्छन्दविहरणादिविश्वस्तव्यापाराः तेषां साक्षिणः साक्षाद्द्रष्टारः, निर्जनत्वात् सीतारामयोः परस्परमसङ्कुचितचेष्टितानि यत्र अभवस्तादृशाः इति यावत्।
(ज) भवन्तु ते द्रष्टव्याः, का क्षतिस्तेन रामचन्द्रस्येत्याह, तेष्विति। - तेषु- प्रदेशेषु, प्रकृत्यातिरमणीयेष्विति यावत्। निसर्गधीरस्यापि- प्रकृत्यातिगम्भीरस्यपि, का कथा चपलचेतसामिति भावः। एवंविधायां- सीतावियोगजशोकेनातिविषमायामित्यर्थः। अवस्थायां- दशायाम्। अतिगम्भीरेति। - अतिगम्भीरः प्रगाढः, दुःसह इति यावत्, आभोगः, प्रसरो यस्य तादृशीयः शोकः प्रियाविरहजं दुःखं, तेन यः क्षोभः प्रकृतिविपर्य्ययः, मर्म्मण्याघात इति यावत्, तस्य संवेगात् प्राबल्यात्।
(झ) पदे इति। - पदे पदे- प्रदिपदं, इतस्ततः सर्व्वत्रैवेत्यर्थः। महान्ति- घोराणि। प्रमादस्थानानि- प्रमादः अनवधानता, कर्त्तव्याकर्त्तव्यबुद्धिविपर्य्ययजं महदनिष्टमिति यावत्, तस्य स्थानानि उत्पत्तिस्थानानि कारणानीति यावत्। शङ्कनीयानि- सम्भावनीयानि। रामस्य महान्ति अनिष्टानि सम्भविष्यन्तीत्यनुमन्यामहे इति भावः। तत्-तस्मात्, तेषु तेषु स्थानेषु सततविरहोद्दीपकवस्तुसन्दर्शनेनाकस्मिकविपदापातसम्भवादित्यर्थः। तत्र-तादृशेषु अतिभीषणेषु स्थानेष्विति यावत्। सावधानया- अप्रमत्तया सम्भावितापत्प्रतिकाराय नियतमाविष्टयेत्यर्थः।

ननु समर्थस्यैव कर्मणि विनियोगो युज्यते, नाममर्थस्येति गोदावर्य्याः सलिलस्वरूपतया तयेदानीमवहितयापि रामस्य कीदृगुपकारसम्भावनेत्यपेक्षायां सलिलस्वरूपाया अप्यवधानप्रकारमुपदर्शयन्त्याह, वीचीति। - शीकराणामम्बुकणानां(‘शीकरोऽम्बुकणः स्मृतः‘इत्यमरः) क्षोदेन चूर्णसम्पर्केण(‘चूर्णे क्षोदः‘इत्यमरः) शीतैः सीतलैः शीतलजलकणवाहिभिरित्यर्थः, पद्मकिञ्जल्कगन्धान् कमलकेशरसौरभाणि आकर्षद्भिः आकृष्य वहद्भि, निरतिशयघ्राणतर्पणैरित्यर्थः, स्वैरं स्वरं मन्दं मन्दं यथास्यात् तथा प्रेषितैः प्रेरितैः(एभिर्विशेषणैर्वायौ क्रमशः शैत्यं सौगन्ध्यं मान्द्यञ्च दर्शितम्) तव वीचिवातैस्तरङ्गसम्पृक्त्तवायुभिः रामचन्द्रस्य जीवं जीवनं मोहे मोहे प्रतिमुग्धावस्थायां तर्पय पोषय। रामो हि यदा यदा दुःसहशोकसन्तापेन समाकुलितः मूर्छामधिगच्छेत्, तदा तदैव त्वमवहिता मन्दस्निग्धसुरभिसमीरणसञ्चालनेन तस्य मूर्च्छामपनयेरिति भावः। (मोहलक्षणं यथा साहित्यदर्पणे,-‘मोहो विचित्तता भीति दुःखवेगानुचिन्तनैः। मूर्च्छनाज्ञानपतनभ्रमणादर्शनादिकृत्॥‘इति। तर्पयेत्यत्र विध्यर्थे‘विधिनिमन्त्रणामन्त्रण- ‘(३। ३। १६१पा०) इति लोट्। इतीति। - मुरलासुखेन अभिहितस्य अगस्त्यपत्न्या वाक्यजातस्य समाप्तिसूचकमव्ययम्। तच्च‘गोदावरीमभिधातुं प्रेषितास्मि‘इति पूर्वेण अन्वेति। शालिनीनामवृत्तम्, तल्लक्षणं यथा- ‘मात् तौ गौ चेच्छालिनी वेदलोकैः‘इति। एकादशाक्षरपादच्छन्दसः २८९ तमे प्रस्तारे शालिन्यन्तर्भावः॥२॥

वीचीवातैः शीकेक्षोदशीतै-राकर्षद्भिः पद्मकिञ्जल्कगन्धान्।
मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरम्प्रेषितैस्तर्पयेति॥२॥

तमसा। उचितमेव दाक्षिण्यं स्नेहस्य ; सञ्जीवनोपायस्तु मौलिक एव रामभद्रस्याद्य सन्निहितः। (ञ) (ञ) उचितमिति। - योग्यमित्यर्थः, दाक्षिण्यम्- आनुकूल्यम्। स्नेहस्य- वात्सल्यस्य, रामं प्रति परमवत्सला लोपामुद्रा तस्य भविश्यदत्याहितमाशङ्कमाना इदानीं यत् आनुकूल्यं दर्शयति, तदयुक्त्तमेव, परन्तु सम्प्रति नास्ति तस्य किमपि आवश्यकमिति समुदिताभिप्रायः। कुतः एवम्? इत्याह, सञ्जीवनेत्यादि। - तु- किन्तु। सञ्जीवनोपायः,-मूर्च्छितस्य रामस्य सञ्ज्ञाप्रतिपत्तिहेतुः। मौलिकः,-मूलीभूतः, रामस्यैतादृशशोकमोहादेः यत् मूलं कारणं, तदेव अद्य शोकमोहादेरपनोदनकारणं रामस्य निकटवर्त्तीत्यर्थः, सीता अद्य रामस्य अतिनिकटे वर्त्तते इति भावः।
मुरला। कथमिव ? (ट) तमसा। श्रूयताम्। - पुरा किल वाल्मीकितपोवनोपकण्ठात् परित्यज्य गते लक्ष्मणे ; सीतादेवी प्राप्तप्रसववेदना आत्मानम् अतिदुःखसंवेगाद्गङ्गाप्रवाहे निक्षिप्तवती ; तदैव तत्र दरकद्वयं प्रसूता; भगवतीभ्यां पृथ्वीभागीरथीभ्याम् अभ्युपपन्ना रसातलञ्च नीता; स्तन्यत्यागात् परेण च तद्दारकद्वयं तस्याः; प्राचेतसस्य महर्षेर्गङ्गादेवी स्वयमर्पितवती। (ठ) (ट) कथमिवेति। - रामस्य सञ्जीवनोपायः सन्निहितः इत्युक्त्तं, स उपायः कीदृशः? इति मुरलाप्रश्नाभिप्रायः।
(ठ) श्रूयतामिति। - इदं हि वृत्तव्यापारकथनरूपं विष्कम्भाङ्गं,-‘वृत्तवर्त्तिष्यमाणानां कथांशानां विदर्शकः‘इति साहित्यदर्पणवचनात्। वाल्मीकीत्यादि। - वाल्मीकेः तपोवनस्य आश्रमस्य उपकण्ठात् समीपात्। परित्यज्य- विहाय, सीतामिति शेषः। प्राप्तेत्यादि। - प्राप्ता- आसादिता, प्रसववेदना- प्रसवकालीनयन्त्रणा यया सा तथोक्ताः, असहनीयप्रसववेदनया निरतिशयं क्लेशमापन्नेत्यर्थः। आत्मानं- स्वदेहम्, (‘आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि‘इति कोषः)। अतिदुःखसंवेगात्- दुःसहक्लेशातिशय्यादित्यर्थः। तदैव-निक्षेपाव्यवहितानन्तरमेव। तत्र-गङ्गाप्रवाहे। दारकद्वयं- शिशुद्वयं(‘दारको बालकेऽपिस्यात्‘इति मेदिनी) प्रसूता- प्रसूतवती(प्रसूता इत्यत्र कर्त्तरी निष्ठा)। अभ्युपपन्ना- धृता, अनुगृहीता वा(‘अभ्युपपत्तिरनुग्रहः‘इत्यमरः) रसातलं-पातालम्। नीता च-प्रापिता च। स्तन्यत्यागात्- स्तन्यस्य मातुः स्तनसम्भूतस्य पयसः त्यागात् परिहारात्। परेण- अनन्तरमित्यर्थः(‘परेण‘इति न एनबन्तपदं, तथा सति तेन योगे‘एनपा द्वितीया च ‘(२। ३। ३१पा०) इत्यनेन द्वितीया विधानात्‘स्तन्यत्यागात्‘इत्यत्र पञ्चमीविधानमयुक्त्तं स्यात्; वस्तुतस्तु अत्र अपवर्गे तृतीयेति) तस्याः,-सीतायाः। प्राचेतसस्य- वाल्मीकेः(वाल्मीकेरित्यत्र परस्वत्वोत्पादकत्यागाभावात् न सम्प्रदानता, अपि तु क्रियासम्बन्धमात्रविवक्षया षष्ठी) स्वयम्- आत्मना, स्वयं गत्वा दत्तवती, न त्वन्येनेत्वर्थः। (स्वयं शब्दप्रयोगात् शिशुद्वयं प्रति गङ्गादेव्याः स्नेहातिशयं सूचितम्)।
मुरला। (सविस्मयम्)। - ईदृशानां विपाकोऽपि जायते परमाद्भुतः।
यत्रोपकारणीभावमायात्येवंविधो जनः॥३॥

तमसया वर्णितं सीतावृत्तान्तमाकर्ण्य मुरला स्वं यद् विस्मितमिवादर्शयत्, तदेव विस्मयकारणमुपदर्शयन्त्याह, ईदृशानामिति। - ईदृशानां रामसदृशपरमाद्भुतचरितानामित्यर्थः, विपाकोऽपि दशाविपर्य्ययोऽपि, सम्पदः का कथा विपदपीत्यर्थः, परमाद्भुतः अत्यर्थं विस्मयजनकः, असाधारण इत्यर्थः, जायते भवतीत्यर्थः। यत्र विपाके एवंविधः पृथ्वी भागीरथी वाल्मीकिसदृशी जनः उपकरणीभावम् उपकारित्वम् आयाति प्राप्नोति, उपकरणार्थं सहायो भवतीत्यर्थः। येषां क्षणिकं दर्शनं सततसमाराधनतत्परैः अपि न सुघटं तेऽपि एवं विधानां विपाके स्वतः एव उपकर्त्तुं यतन्ते इति परमाद्भुतत्वं विपाकस्येति भावः। (अत्र विपाकस्य परमाद्भुतत्वं प्रति उत्तरार्द्धवाक्यार्थस्य हेतुतयोपन्यासात् लाव्यलिङ्गमलङ्कारः)। अनुष्टुप्वृत्तम्॥३॥

तमसा। इदानीन्तु शम्बूकवृत्तान्तेनानेन सम्भावितजनस्थानागमनं रामभद्रं सरयूमुखादुपश्रुत्य भगवती भागीरथी; यदेव भगवत्या लोपामुद्रया स्नेहादाशङ्कितं तदेवाशङ्क्य सीतासमेता; केनचिदिव गृहाचारव्यपदेशेन (ड) गोदावरीं विलोकयितुमागता।
(ड) शम्बूकेति। - शम्बूकस्य वृत्तान्तः शिरश्र्छेदनविधानात्मको व्यापारः तेन। सम्भावितेति। - सम्भावितम् उत्प्रेक्षितं जनस्थाने आगमनम् उपस्थितिः यस्य स तम्। सरयूमुखात्- सरयूः अयोध्यासमीपवर्त्तिनी काचित् नदी तस्याः मुखात्। उपश्रुत्य- समाकर्ण्य, ज्ञात्वेत्यर्थः। (अत्र रामभद्रस्य श्रावणप्रत्यक्षकर्म्मतासम्भवेन‘रामभद्रमुपश्रुत्य‘इत्यस्य कथं सङ्गतिः? इति नाशङ्कनीयम्; श्रुधातोः शाब्दबोधवाचितया रामभद्रे तत्कर्म्मत्वसम्भवादिति चिन्त्यम्) यदेव-रामस्य अत्याहितमेव। सीतासमेता- सीतया जानक्या सह समेता सङ्गता, मिलिता सतीत्यर्थः। गृहाचारेति। - गृहस्य यः आचारः कुलक्रमागतो व्यवहारः तस्य व्यपदेशेन व्याजेन, कुलोचितानुष्ठानच्छलेनेत्यर्थः। (गृहाचारव्यपदेशेनेत्यत्र प्रकृतोपयोगिच्छलग्रहणरूपम् अभूताहरणं नाम सन्ध्यङ्गमुक्त्तं- ‘तत्र व्याजाश्रयं वाक्यमभूताहरणं मतम्‘इति साहित्यदर्पणः)।
मुरला। सुविचिन्तितं भगवत्या; भागीरथ्या। राजधानीस्थितस्य खलु तैस्तैर्जगतामाभ्युदयिकैः कार्यैर्व्यापृतस्य रामभद्रस्य नियताश्चित्तविक्षेपाः ; अव्यग्रस्य पुनरस्य (ढ) शोकमात्रद्वितीयस्य पञ्चवटीप्रवेशो महाननर्थ इति ; तत् कथमिदानीं सीतादेव्या रामभद्र आश्वसनीयः स्यात् ? (ण) तमसा। उक्तमेव भगवत्या भागीरथीदेव्या;- ‘वत्से देवयजनसम्भवे सीते अद्य खलु आयुष्मतोः कुशलबयोर्द्वादशजन्मसंवत्सरस्य सङ्ख्यामङ्गलग्रन्थिरभिबध्यते (त) (ढ) सुविचिन्तितं- साधु विवेचितम्। भगवत्या- ऐश्वर्य्यादिषड्गुणशालिन्या इत्यर्थः, सततशोकोद्दीपकवस्तुसन्दर्शनेन रामस्यावश्यम्भाविनि विपत्पाते सीतामेव सान्त्वनोपायत्वेनावधार्य्य भागीरथ्या युक्त्तियुक्त्तमाचरितमिति भावः। राजधानीस्थितस्य-राजधान्याम् अयोध्यायां वर्त्तमानस्य, आभ्यदयिकैः,-उन्नतिसाधकैः बहुभिः प्रजाहितकरव्यापारैरित्यर्थः। चित्तविक्षेपाः,-चित्तस्य विक्षेपाः विविधदिक्षु क्षेपाः। नियताः,-नियन्त्रिताः, रुद्धप्रसारा इति यावत्, भवन्तीति शेषः; अतः शोकस्य न अवकाश इति भावः। अव्यग्रस्य पुनः,-सम्प्रति अविक्षिप्तचित्तस्य व्यापारान्तरासक्त्तिशून्यस्येत्यर्थः।
(ण) शोकमात्रेति। - शोकः एव इति शोकमात्रं केवलः शोकः इत्यर्थः, तत् द्वितीयं यस्य तथोक्त्तस्य, सीताविरहजदुःखैकसहचरस्येत्यर्थः। अनर्थः,-अनिष्टहेतुरित्यर्थः। (अत्र‘अनर्थः‘इत्यस्य कार्य्यकारणभावसम्बन्धेन लक्षणया‘आयुर्घृतम्‘इतिवत् अनर्थहेतुरूपोऽर्थो बोध्यः। एवञ्च पञ्चवटीप्रवेशो रामस्य अत्यन्तानिष्टसम्पादनरूपकार्य्ये अव्यभिचारीहेतुरिति सूच्यते। तत्- तस्मात्। आश्वासनीयः,-आश्वासयितुं शक्यः इत्यर्थः।
(त) उक्त्तमेव- कथितमेव(अत्र एव शब्दः स्वायोगं व्यवच्छिनत्ति इति बोध्यम्, उक्त्तमेवेत्यस्य‘किं पुनर्मर्त्त्या इति‘इति वक्ष्यमाणेनान्वयः)। आयुश्मतीः,-दीर्घजीविनोरित्यर्थः, (आयुः जीवनकालः, स प्रशस्ततया विद्यते ययोः तौ आयुष्मन्तौ तयोः, अत्र प्राशस्त्यार्थे मतुप्, ‘भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने। संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः॥‘इत्यनुशासनात्)। द्वादशेति। - जन्मसंवत्सरादारभ्य द्वाधिकदशपूरणीभूतस्य वत्सरस्येत्यर्थः(द्वादशानां पूरणः इति द्वादशः‘तस्य

पूरणे डट् ‘(५। २। ४८पा०) इति डट्प्रत्ययः, स चासौ जन्मसंवत्सरश्वेति तस्य)। सङ्ख्येति। - वयःकालनिरुपणार्थः मङ्गलार्थश्च हस्ते धारणीये सूत्रे ग्रन्थिरित्यर्थः, (प्रतिवर्षं जन्मतिथौ गणपतिं दिनपतिञ्च सम्पूज्य मात्रादिभिः बालकानां मङ्गलाय करे सूत्रमभिबध्यते इति आचारः; तच्च सूत्रं जन्मग्रन्थिरित्यभिधीयते। तदुक्त्तं कृत्यचिन्तामणौ- ‘गुडदुग्धतिलानद्याज्जन्मग्रन्थेश्च बन्धनम्। गुग्गुलं निम्बसिद्धार्थ-दूर्वा-गोरोचनान्वितम्। सम्पूज्य भानुविघ्नेशौ महर्षिं प्रार्थयेदिदम्॥‘इति)। अभिबध्यते- सन्नह्यते, वाल्मीकिनेति शेषः।
तदात्मनः पुराण-श्वशुरम् एतावतो मानवस्य राजर्षिवंशस्य प्रसवितारं सवितारमपहतपाप्मानं देवं स्वहस्तावचितैः पुष्पैरुपतिष्ठस्व। (थ) न च त्वामवनिपूष्ठवर्तिनीमस्मत्प्रभावाद्वनदेवता अपि द्रक्ष्यन्ति; (थ) अथ तयोर्वाल्मीक्याश्रमस्थितत्वेन असमीपवर्त्तितया मया किमपरमिदानीमनुष्ठेयम् ? इत्याह, तदिति। - तत्- तस्मात्, पुत्रस्य जन्मतिथौ जननीनां कस्यचित् मङ्गलाचरणस्य अवश्यकर्त्तव्यत्वादित्यर्थः। पुराणश्च शुरं- आदिमं श्वशुरं, श्वशुरवंशस्य आदिपुरुषमिति यावत्। (सीतायाः श्वशुरवंशस्य सूर्यादाविर्भूततया तदुपासनायां अस्याः फलावश्यग्भाव इति सूचनाय सवितुः पुराणश्वशुरत्वविशेषणं बोध्यम्)। एतावतः इयत्सङ्ख्यकस्य। मानवस्य-वैवस्वतमनुसम्बन्धिनः तदपत्यस्येत्यर्थः। (अत्र सवितुर्वैवस्वतो नाम मनुः, ततः इक्ष्वाकुः, ततः रघुरित्येवं वंशप्रवर्तकानामेषां वंशः समजनीति ज्ञेयम्)। प्रसवितारम्- उत्पादयितारम्। अपहतेति। - अपहतः विनाशितः, पाप्मा- पापं येन तं, स्वमहिम्ना निरस्तसमस्तपापतया सर्वैराराधनीयमिति भावः। सवितारं- देवं, सूर्य्यदेवमित्यर्थः। स्वहस्तेति। - स्वहस्तेन स्वकरेण अवचितैः अवलूनैः, स्वयं सङ्गसीतैरिति यावत्। (तेन च पूजायां फलातिशय्यसम्भावना सूचिता;-‘समित्पुष्पकुशादीनि श्रोत्रियः स्वयमाहरेत्‘इति यद्मपुरासीयवचने श्रोत्रियपदस्य उपलक्षणतया सर्वस्यैव पूजाधिकारिणः स्वयमुपचितकुसुमादिभिरर्च्चनायाः विहितत्वात्)। उपतिष्ठस्व-सेवस्व। (अत्र‘उपाद्देवपूजा- ‘इति वार्तिकसूत्रेण देवपूजायाम् उपात् तिष्ठतेरात्मनेपदम्)।
किं पुनर्मर्त्याः‘इति। अहञ्च आज्ञापिता;- ‘तमसे त्वयि प्रकृष्टप्रेमैव बधूर्वत्सा जानकीति ; अतस्त्वमेवास्याः प्रत्यनन्तरीभव‘इति। सहामधुना यथादिष्टमनुतिष्ठामि। (द) मुरला। अहमप्यमुं वृत्तान्तम्भगवत्यै लोपामुद्रायै निवेदयामि। रामभद्रोऽप्यागत एवेति तर्कयामि। (ध)तमसा। तदियं गोदावरीह्रदान्निष्क्रम्य (न)- (द) स्वयं कुसुमचयनार्थमितस्ततः पर्य्यटन्ती कदाचिच्चेदहं साधारणजननयनपथपथिका भवेयं तदालोकालापपरम्परातः श्रुतमदागमनवृत्तान्तः आर्य्ययुत्रो नूनमत्यन्तमनर्थमुत्पादयिष्यतीति सीताशङ्कमाशङ्कमाना भागीरथी तां पूर्वत एव निरस्यति, न चेति। - अस्य च‘द्रक्ष्यन्ति‘इति परेणान्वयः। अवनिपृष्ठवर्त्तिनीं -पृथिवीतलस्थिता, (‘गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही‘इत्यमरः) अस्मत्प्रभावात्- अस्माकं वरमहिम्णा इति यावत्। (अस्माकं प्रभावः अस्मत्प्रभावः, अत्र बहुवचनप्रयोगस्तु‘अस्मदोद्वयोश्च ‘(१। २। ५८पा०) इत्यनेन सूत्रेण समर्थनीयः)। द्रक्ष्यन्ति- द्रष्टुं शक्ष्यन्तीत्यर्थः। ‘वनदेवता अपि‘इत्यत्र अपिकारव्यवच्छेद्यं दर्शयति, किमिति। - मर्त्त्याः,-मर्त्ते पृथिव्यां भावः इति मर्त्त्याः, मानवा इत्यर्थः। (‘मनुष्या मानुषा मर्त्त्या मनुजा मानवा नराः‘इत्यमरः) मम माहात्म्यादलौकिकशक्त्तिशालिनीभिर्वनदेवताभिरपि द्रष्टुमशक्यां त्वां मानवाः पुनर्न द्रक्ष्यन्तीत्यत्र किमु वक्त्तव्यम्? इति भावः। अहं- तमसा। प्रकृष्टप्रेमा- प्रकृष्टं सातिशयं प्रेम प्रीतिर्यस्याः सा तथोक्त्ता, समधिकप्रणयशालिनीति यावत्। बधूः,-स्नुषा, (‘बन्धूः स्त्री सारिवौषधौ। स्नुषाशटीनवोढासु। भार्य्यापृक्काङ्गनासु च॥‘इति मेदिनी। अत्र स्वकीयपूर्वपुरुषभगीरथेनानीततया भागीरथी रामस्य मातृस्थानीयेति सा सीतां बधूरित्यभिहितवतीत्यवधेयम्) प्रत्यनन्तरीभव-अप्रत्यनन्तरा प्रत्यनन्तरा भव इति प्रत्यनन्तरीभव-सन्निहिता भव, सततं सीतासाहचर्य्यमुपगता, तदानुकूल्यं विधेहिति यावत्। यथादिष्टम्- आदिष्टम् आदेशाः, तदनतिक्रम्य इति यथादिष्टम्, आदेशानुरूपमित्यर्थः।
(ध)( अमुं वृत्तान्तमिति। - तमसामुखाच्छ्रुतं सीतासहिताया भागीरथ्या आगमनरूपं व्यापारम्। तर्कयामि- सम्भावयामि।
(न) तत्- तस्मात्, रामस्य अचिरादेव अत्रागमनसम्भावदित्यर्थः। इयं- परिदृश्यमाना, श्लोकस्थेन‘जानकी‘इत्यनेनान्वयः। विष्क्रम्य- निर्य्याय, उत्थायेतियावत्; ‘वनमेति‘इति श्लोकाशेनान्वयः।
परिपाण्डदुर्बलकपोलसिन्दरं दधती बिलोलकवरीकमाननम्।
करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथेव वनमेति जानकी॥४॥

मुरला। इयं हि सा। - सहजसौन्दर्य्यातिशयवशान्मधुरतराकृतिरपि सम्प्रत्यहरहरसहविरहवेदनाऽतिदूनाक्षीणाप्यतितरां कामप्यभिनवामतिरमणीयामभिख्यामधिगता सतीकुलललामभूता सीता सर्वेषामेव समवेदनाभाजनं जातेति वर्णयन्त्याह, परिपाण्डित्यादि। -परिपाण्डू दुर्भरप्रियपरित्यागशोकाभिभवात् पाण्डुवर्णौ दुर्बलौ क्षीणौ च कपोलौ गण्डौ यस्मिन् तत् तथोक्त्तं, तथापि सुन्दरं मनोहरं, तथा विलोला संस्काराभावात् श्लथलम्बिनी कवरी केशपाशः यस्मिन् तत् तथोक्त्तम् (‘कवरी केशवेशोऽथ धम्मिल्लः संयताः कचाः‘इत्यमरः) आननं मुखं दधती धारयन्ती जानकी जनकनन्दिनी सीता करूणस्य शोकस्य मूर्त्तिः आकृतिरिव, मूर्त्तिमान् शोक इवेत्यर्थः, अथवा शरीरिणी मूर्त्तिमती ; विरहव्यथेव रामवियोगवेदनेव, वनम् अरण्यम्, एति आगच्छति, (‘मूर्त्तिरथवा‘इत्यत्र ‘मूर्त्तिरिव वा‘इति पाठेऽपि सुस्पष्ट एवार्थः)। सततं प्रियतमविरहशोकसन्तप्ता चिन्ताक्षीणमाननमादधानापि सहजसौन्दर्यातिशयवशात् सम्प्रत्यपि निरुपमरमणीयाकृतिरियं दृश्यते इति भावः। पतिव्रतायाः लक्षणमाह आङ्गिराः, – ‘आर्त्तार्त्ते मुदिता हृष्टे प्रोषिते मलिना कृशा।
मृते मि्नयेत या पत्यौ सा स्त्री ज्ञेया परिव्रता॥‘ अस्यानुरूपः कश्चित् श्लोकः यथाशाकुन्तले – ‘वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः।
अतिनिष्करूणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्त्ति॥‘ प्रकृतेनायं निरपेक्षं समालोच्यते चेत् तदा सुललितशब्दसम्पत्त्यार्थसम्पत्त्यालङ्कारसम्पत्त्या च सुकुमारचेतसां चेतसि विच्छित्तिविशेषाधायकतया इतः प्रकृतस्यैव गौरवातिशय्यदर्शनादनिच्छद्भिरप्यस्माभिः प्रकृतस्यैव साधीयस्त्वं वाच्यमिति सुधीभिर्विचारणीयम्। (सर्व्वत्र कपोलयोः पाण्डुता क्षीणता च सौन्दर्य्यहीनकारणतयैव प्रसिद्धा, इह तु तयोर्विद्यमानतायामपि सौन्दर्य्योत्पत्तिकथनात् प्रथमपादे विषमालङ्कारः ; तथा तृतीयचतुर्थपादयोर्भावाभिमानि वाच्योत्प्रेक्षाद्वयञ्चेत्येतेषां परस्परनिरपेक्षतया संसृष्टिः)। मञ्जुभाषिणीवृत्तं, तल्लक्षणं यथा-‘सजसा जगौ च यदि मञ्जुभाषिणी‘इति॥४॥

किसलयमिव मुग्धं बन्धनाद् विप्रलूनं हृदयकुसुमशोषी दाररुणो दीर्घशोकः।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदज इव घर्मः केतकीगर्भपत्रम्॥५॥

सहजतः कुसुमसुकुमाराकृतिं लोकलोचनानन्दविधायिनीं जनकनन्दिनीमिदानीमतितरां प्रियविरहकातरामवलोक्य सातिशयमन्तर्दूथमाना मुरला तदीयां परिदृश्यमानामवस्थामुपवर्णयन्ती आह, किसलयमिति। - शरदिजः शरत्कालभवः (अनेन धर्म्मस्य अतितापहेतुता व्यज्यते। ‘शग्दिजः‘इत्यत्र शरदिजायते यः इति ‘सप्तम्यां जनेर्डः ‘(३। २। ९७पा०) इति डप्रत्ययः, ततः ‘प्रावृट् शरत्कालदिवाञ्ज ‘(६। ३। २५पा०) इति सप्तम्याः अलुक्च) घर्म्मः आतपः (‘धर्म्मः स्यादातपे ग्रीष्मेऽप्युष्मस्वेदाम्भस्दोरपि‘इति मेदिनी)। केतकस्य पुष्पम् (‘अवयवे च प्राण्यौषधिवृक्षेभ्यः ‘(४। ३। १३५पा०) इत्यण्, ततः ‘पुष्पमूलेषु बहुलम्‘वा० इति तद्धितलुकि हरीतक्यादित्वात् स्त्रीत्वम्) (‘द्विहीनं प्रसवे सर्व्वं हरीतक्यादयः स्त्रियाम्‘इत्यमरोक्त्तेः) तस्याः केतककुसुमस्य गर्भपत्रं कुसुममध्यगतदलमिव, (अत्र गर्भशब्दग्रहणेन मृदुतातिशय्यं पाण्डुता च व्यज्यते) हृदयं सुकुमारतया कुसुमम् इव (अत्र व्याघ्रादेराकृतिगणत्वात् ‘उपमितं व्याघ्रादिभिः ‘(२। १। ५६पा०) इत्यनेन उपमितसमासः। ) तत् शोषयति यः स तथोक्त्तः ; निरतिशयसुकुमारतया कुसुमसदृशमेतस्याहृदयमयमतितरां तापयतीति भावः। दारुणः विषमः, दुःसह इत्यर्थः, (तपनातपविरहतापयोरयमेव विशेषो यदेतयोरादिमः स्वेन प्रखरतप्रभावेण लापयन्नितरपरार्थान् हतप्रभान् करोति अन्तिमस्तु स्नापयन्नपि वियोगिनः केनाप्यभिनवेनानुभवैकगम्येन शोभाऽऽतिशय्येन पुनरलङ्करोतीत्ययमतिदारुणोऽप्यदारुण एवेत्यवगम्यते। ) दीर्घः सुचिरकालव्यापी नरवधिरिति यावत्, यः शोकः प्रियविरहजः सन्तापः, मुग्धं मनोहरं, बन्धेनात् वृत्तात् (‘वृक्षादीनां फलं शस्यं वृन्तं प्रसवबन्धनम्‘इत्यमरः) विप्रलूनं प्रसह्य विच्छिन्नं किसलयं नवपल्लवमिव, अस्याः सीतायाः परिपाण्डुपरितः पाण्डुवर्णं, वियोगमलिनमिति यावत्, क्षामं कृशं (‘क्षामम्‘इति पदं क्षैधातोः क्त्तप्रत्ययेन सिद्धम् ; ‘क्षायोमः ‘(८। २। ५३पा०) इति सूत्रेण क्तस्य मकारादेशः) शरीरं, म्लपयति म्लानिं प्रापयति। यथा प्रचण्डतरैर्दिवाकरकरनिकरैः शनैः शुष्यमाणः कोमलकुसुममुकुमारः किसलयसम्भारः सहृदयहृदयदाहं जनयति, तथा दुर्वहप्रियविरहशोकसन्तापैस्तप्यमाने यं जानकी नियतमनुशोचनीयतया मामातितरां दूनोतीति भावः। (अत्र किसलयेन शरीरस्य, कुसुमेन हृदयस्य, धर्म्मेण च शोकस्य साधर्म्यकथनादुपमानामालङ्कारः ; सा च इवशब्दवाच्यतया श्रौती। अत्र लिङ्गादभ्यूहनरूपम् अनुमानं नाम सन्ध्यङ्गमुक्त्तम्)। वृत्तं मालिनी॥५॥

(इति परिक्रम्य निष्क्रान्ते)। (प) इति विष्कम्भकः। (फ) (प) इतीति। -इति इत्थमालपन्त्यौ इति शेषः। निष्क्रान्ते-तमसामुरले इति शेषः।
(फ) विष्कम्भक इति। -विष्कम्भकस्य लक्षणादिकं विस्तरतः द्वितीयाङ्कप्रारम्भे उक्त्तमिति नात्र पुनरुच्यते। अत्रापि ‘प्रेषितास्मि भगवतोऽगस्त्यस्य पत्न्यालोपामुद्रया‘इत्यादिना मुरलाकथितवाक्येन, तथा ‘श्रूयतां युराकिल‘इत्यादिना तमसा कथितवाक्येन च अतीतकथांशानां निदर्शनं, तथा ‘अहञ्चाज्ञापिता, तमसे। त्वयि प्रकृष्टप्रेमैव‘इत्यादिना तमसा कथितवाक्येन च वर्त्तिष्यमाणकथांशानां निदर्शनं वेदितव्यम्। तस्य च शुद्धसङ्कीर्णरूपत्वेन द्वैविध्यं, प्रकृतस्य तु तमसा मुरलारूपाभ्यां मध्यमाभ्यां पात्राभ्यां सम्प्रयोजितत्वात् शुद्धरूपत्वमेव, ‘मध्येन मध्यमाभ्यां वा पात्राभ्यां सम्प्रयोजितः। शुद्धस्यात् स तु सङ्कीर्णो नीचमध्यमकल्पितः॥‘इति साहित्यदर्पणकृद्वचनात्।
अत्रेदं चिन्त्यते ;-इह हि सकलकाव्यकलाऽऽलोचनलोललोचनानाम् अधुनातनानां मनसि समुद्भवत्यभिनवः कश्चित् संशयः,-यत् सरसकवितारसप्ररवशमतिना कविकुलपतिना भवभूतिना विरचिते सुपरिचितेऽस्मिन्नुत्तरतामचरिते कथमनल्पकल्पना प्रसूतः सद्भावपूतः समुपनिबद्धोऽयं तृतीयोऽङ्कः?-तथा हि, सत्यप्यभिनवे कवेर्नवनवभावोद्भावनपाटवे प्रयोजनमनुयुज्य चेन्न लभ्यते सदुत्तरं किञ्चित्, तदा व्यर्थपदार्थसमावेशशङ्का पङ्ककलङ्कितचेतसां चेतसि नैवोपजायते कियानपि परितोषलेशः, इत्येतेषाम् अत्यद्भुतं संशयाकूतं विज्ञाय यदि च तूश्णीम्भावम् एव साधीयस्त्वेन मन्यामहे, तथापि ‘तुष्यतु दुर्ज्जनः‘इति न्यायेन साम्प्रतमेव ब्रूमः ; तथा हि-अनितरसाधारणाः कल्पनैकधनाः कवयो हि कुटिलसमालोचकलोकलोचनपथमतिवर्तमानाः स्वातन्त्र्येणैवोपनिबध्नन्ति काव्यजातम्। तत्र च सरसकाव्यरसास्वादवञ्चितानां समालोचकानां कुटिलकटाक्षपातस्तैरूपेक्षापक्षनिक्षिप्त एव भवति।
परमार्थतस्तु विचार्य्यमाणे नह्येवंविधाः कविकुलललामभूताः कालिदासभवभूतिप्रमुखाः नियतं भावपारतन्त्र्येणास्वतन्त्रा अपि किमपि प्रयोजनमननुसन्दधानाः कुत्राप्युपनिबन्धन्ति किञ्चिदित्येव ब्रूमः। इहापि चेदतिनिपुणधियाऽतिसूक्ष्ममीक्ष्यते प्रयोजनं किञ्चित् तदाऽस्माकमपि लोचनपथमुपैति प्रयोजनत्रितयमेवापाततः ; प्रथमतस्तत्र तावदलोकसाधारणपूतचरितायाः सतीकुलललामभृतायाः सीताया अलौकिकपातिव्रत्यप्रदर्शनं, तथाहि प्रचुरतरप्रमाणावगतविशुद्धभावां सीताम् अतिशुद्धपूतचरितां विदित्वाऽपि अन्तरेणैव निर्वासनसाधकं कञ्चिदपराधं केवलं लोकानुरञ्जनार्थं विजनकानने विवासयितरि भर्त्तरि रामचन्द्रे धर्म्मतः सापराधेऽपि कथमप्यनभिव्यञ्चयन्ती लेशतोऽपि विरागं, प्रकटयन्ती च प्रतिपदमैवावर्णनोयं कातरताऽऽतिशय्यं मुहुर्मोहमापन्ने भर्त्तरि सीतासमदर्शयत् सम्प्रत्यपि परां कोटिं पातिव्रत्यधर्म्मस्य। द्वितीयतस्तावद्वासन्त्या सहालापावसरे राजकीयकठोरकर्त्तव्यपारतन्त्र्येणैवानिच्छताऽपि रामेण निरपराधा निर्वासितासीतेति समन्तात् विज्ञापनम्। तथा तृतीयतः सर्वान्तर्यामिणा जगत्स्वामिना रामेण निर्द्दयं निर्वासिता सीता भर्त्त्रैवमवमता वनवाससहचरिणां वासन्त्यादीनां समक्षं मुखमपि दर्शयितुं लज्जमाना सम्प्रति तत्तत्सखीसमक्षमेवार्य्यपुत्त्रमुखात् ‘अस्ति चाश्वमेधाय हिरण्मयी सीताप्रतिकृतिः‘इत्यादिकमाकर्णयन्ती जानकीपरित्यक्त्तवत्यात्मन्यवज्ञा जातमिति प्रख्यापनञ्चेति सुधीभिर्विभाव्यम्।
(नेपथ्ये) प्रमागः प्रमादः (ब) (ततः प्रविशति पुष्पावबयव्यग्रहस्ता सकरुणौत्सुक्यम् आकर्णयन्ती सीता)। (भ) (ब) प्रमाद इति। -प्रमादः,-महान् अनिष्टापातः इत्यर्थः, (यदि च प्रमादशब्दस्य अनवधानतारुपोऽर्थः कोषप्रसिद्धः, तथापि अनिष्टापातरुपार्थेऽपि बहुतरप्रयोगदर्शनात् तत्रापि अयं भाक्तः इत्यवधेयम्)।
(भ) पुष्पेत्यादि। -पुष्पाणां कुसमानाम् अवचये सञ्चयनकार्य्ये व्यग्रो व्यापृतो हस्तो यस्याः सा तथोक्ता। सकरुणेत्यादि। -करुणा सहसा पूर्व्वपरिचितपञ्चवट्यादिदर्शनसमुद्बुद्धपूर्व्वस्मृतिजन्यः शोकः, औत्सुक्यं पूर्व्वसुहृदामेतेषां पुनः पुनर्दर्शनार्थम् उत्कण्ठा, ताभ्यां सहितं यथा स्यात् तथेत्यर्थः। आकर्णयन्ती-श्रुण्वन्ती नेपथ्योक्तं प्रमादशब्दमिति शेषः।
सीता। अह्महे जाणामि पिअसही मेबासन्दी बाहरदि त्ति। (म) पुन्रनेपथ्ये। - सीतादेव्याः स्वकरकलितैः शल्लकीपल्लवाग्रै- रग्रे लोलः करिकरभको यः पोषितोऽभूत्।
सीता। किं तस्म ?’ अहो जानामि प्रियसखी मे वासन्ती व्याहरतीति। ’ किं तस्य ? (म) अहो इति। -(अहो इति विस्मयसूचकमव्ययम्)। अकस्माद्वासन्तीकण्ठस्वरश्रवणं विस्मयकारणम्। जानामि-मन्ये। व्याहरति-कथयन्ति ; परिचितपूर्व्वतत्कण्ठस्वरत्वेन प्रतीयमानत्वादिति भावः।
‘प्रमादः प्रमादः‘इति नेपथ्योक्तावचनानवसान एव प्रविशन्त्यां जनकनन्दिन्यां तद्वासन्तीव्याहारत्वेनाशङ्कमानायाम् अन्तरान्तरा सीतोक्त्तिव्यवहितं नेपथ्योक्त्तावशिष्टे नेपथ्यतः पुनरप्यर्द्धशः श्लोकेन व्याहरति, सीतादेव्या इत्यादि। पुरा पूर्वस्मिन् काले, रामस्य अरण्यवाससमये इत्यर्थः, अग्रे सीतायाः सम्मुखे इति शेषः, लोलः पल्लवग्रहणार्थं चञ्चलः (‘लोलश्चलसतृणयोः‘इत्यमरः) यः करिकरभकः हस्तिशावकः, (अत्र यद्यपि करभशब्दस्यैव करिशावकार्थकत्वेन पुनः करिपदसमभिव्याहारः अधिकपदतादोषदुष्टत्वशङ्कामुत्थापयति, तथापि ‘विशिष्टवाचकपदानां सति विशेषणपदसमभिव्याहारे विशेष्यमात्रपरत्वं करिकलभादिशब्दवत्‘इति वामनसूचादत्र करमशब्दस्य करिरूपविशेषणशब्दसमभिव्याहृतत्वेन सामान्यतः शावकमात्रपरतया न कापि दोषशङ्केति, अत एव कलभशब्दार्थप्रदर्शनप्रसङ्गे ‘शावकमात्रपरित्वेन करिकलभकरमृदिततमालकिशलया मेदिनी‘इति वाचस्पत्यभिधानलेखो दृश्यते इत्यवधेयम्। ‘करभकः‘इत्यत्र करभशब्दादनुकम्पायां कन्प्रत्ययः)। सीतादेव्याः जनकनन्दिन्याः स्वकरेण स्वहस्तेन कलितैः धृतैः अवचितैर्वा, नत्वन्येन केनचित् धृतैः सङ्गृहीतैर्वेति भावः (एतेन सीतायास्तस्मिन्नतिशयस्नेहप्रवणता सूचिता) शल्लकीनां तदाख्यानां गजप्रियाणां वृक्षविशेषाणां पल्लवाग्रैः अग्रकिशलयैरित्यर्थः, योषितः पालितः अभूत्, सोऽयं करिकरभकः बध्वा निजस्त्रिया करेणुकया इत्यर्थः, पुनर्नेपत्ये। - बध्वा सार्धं पयसि विहरन् सोऽयमन्येन वेगा- दुद्दामेन द्विरदपिताना सन्निपत्याभियुक्ताः॥६॥

सार्द्धं सह पयसि जले विहरन् क्रीडन्, जलकेलिं कुर्वन्नित्यर्थः, अन्येन अपरेण केनचित् उद्दामेन उच्छृङ्खलेन मत्तेनेत्यर्थः, (‘उद्दामो बन्धरहिते स्वतन्त्रे च प्रचेतसि‘इति मेदिनी) द्विरदपदिना गजपतिना, अतिमहतेति भावः, वेगात् जवेन, (दर्पादिति पाठे-बलगर्वात् इत्यर्थः, ) सन्निपत्य कुतोऽपि समागत्य, अभियुक्त्तः आक्रान्तः। अपत्यस्नेहाकृष्टा जानकी स्वकरावचितैः पल्लवैर्यमपत्यनिर्विशेषं पुपोष, स एवायं करिशावकः सम्प्रत्यपरेण केनचिदाक्रान्तोऽशरणो विपद्यते, इति तं परिचायस्वेति समुदिताकूतम्। मन्दाक्रान्ता वृत्तम्॥६॥

सीता। (ससम्भ्रमं कतिवित्पदानि गत्वा) अज्जउत्त परित्ताआहि परित्ताआहि मम तं पुत्तअम्। (स्मृतिमभिनीय सवैक्लव्यम्)। हद्दी हद्दी ताइं ज्जेब विरपरिविदाइं अक्खराइं पञ्चबटीदंसणेण मं मन्दभाइणीं अणुरुन्धन्ति ; (य) हा अज्जउत्त – (इति मूर्च्छति) आर्यपुत्र परित्रायस्व परित्रायस्व मम तं पुत्रकम्। हा धिक् हा धिक् तन्येव चिरपरिचितानि अक्षराणि पञ्चवटीदर्शनेन मां मन्दभागिनीमनुरुन्धन्ति; हा आर्यपुत्र (य) ससम्भ्रमिति। -सचकितं, ससाध्वसम् इत्यर्थः, सहसा पुत्रकाभिभवश्रवणादिति भावः। (‘सम्भ्रमः साध्वसेऽपि स्यात् सवेगादरयोरपि‘इति मेदिनी)। कतिचित्-कियन्ति, पादानि-पादन्यासानित्यर्थः किञ्चिदग्रसरीभूय इति यावत्। पुत्त्रकं-पुत्रनिर्व्विशेषेण पालितं, पुत्रप्रतिकृतिमित्यर्थः, (अत्र ‘इवे प्रतिकृतौ ‘(५। ३। ९६पा०) इति सूत्रेण कन्पत्ययः)। स्मृतिमभिनीय-पूर्ववृत्तान्तस्मरणा सूचकं भावन् अभिनयेन दर्शयित्वा। सवैत्कव्यं-व्याकुलतासहितम्, आहेति शेषः। चिरपरिचितानि-चिराभ्यस्तानि, पूर्वां पुनः पुनः कथनादिति भावः। अक्षराणि मन्मुखोच्चरितानि पदानि, ‘आर्य्यपुत्र‘इत्येवंरूपा वर्णाः इत्यर्थः, मन्दभागिनीं मन्दो भागः, सोऽस्या अस्तीति मन्दभागिनी तां, हतभाग्याम्। (अत्र यद्यपि ‘न कर्म्मधारयान्मत्वर्थीयः‘इत्यनुशासनेन कर्म्मधारयान्मत्वर्थीय इनिप्रत्ययस्यासाधुत्वमेवापाततः प्रतिभाति तथापि-‘भूमनिन्दाप्रशंसासु‘इत्यादिना मत्वर्थीयप्रत्ययानाम् अस्त्यर्थव्यतिरिक्तप्राशस्त्यादिरूपाधिकार्थबोधकतया केवलं बहुव्रीह्यादिना तद्बोधकतया च अतिरिक्तस्य प्राशस्त्यार्थस्य विवक्षितत्वेन कर्म्मधारयादिनिप्रत्ययः कृतः ; तेन च अत्यन्तमन्दभाग्यवत्त्वरूपार्थो लभ्यते इत्येवं समाधेयम् ; यद्वा-मन्दं भजत इति घिनुणान्तात् स्त्रियां सिद्धम्)। अनुरुन्धन्ति-अनुसरन्ति अभ्यासवशात् अधुनाऽपि मन्मुखात् उच्चरन्ति इति यावत्।
तमसा। (प्रविश्य) वत्से समाश्वसिहि समाश्वसिहि।
(नेपथ्ये) विमानराज अत्रैव स्थीयताम्। (र) सीता। (समाश्वस्य समाध्वसोत्कम्पोल्लासम्) अह्महे जलभरिदमेहत्थणिदगम्भीरमंसलो कुदो णु एसो भारदीणिग्घोसो भरन्तकणबिबरं मं पि मन्दभाइणीं झत्ति उस्साबेदि ? (ल) अहो जलभृतमेघस्तनितगम्भीरमांसलः कुतो नु एष भारतीनिर्घोषः भ्रियमाणकर्णविवरां मामपि मन्दभागिनीं झटिति उच्छ्वासयति ? (र) विमानराज इति। -विमानेषु व्योमयानेषु रथेषु इत्यर्थः, राजाश्रेष्ठः इति विमानराजः तत्सम्बुद्धौ ; ) पुष्पकविमानस्य सम्बोधनम्। रामचन्द्रस्योक्त्तिरियम्)। स्थीयतां-निवृत्यतां, त्वयेति शेषः। (पुष्पकादेः स्वर्गीयविमानत्वेन तस्मिंश्चेतनवद्व्यवहारः)।
(ल) ससाध्वसेत्यादि। -साध्वसेन भयेन, उत्कम्पेन सात्त्विकभावरूपेण वेपथुना, उल्लासेन आनन्देन च सहितं यथास्यात् तथा, आहेति शेषः। (अत्र सहसा भर्त्तृकण्ठस्वराकर्णनेन स्त्रीस्वभावसुलभं साध्वसं, सुचिरकालानन्तरं लेशतोऽप्यसम्भावितं भर्त्तृकण्ठस्वरमाकर्ण्य पुनः प्रियस्मरणतः सात्त्विकभावोदयादुत्कम्पः, तथा यद्ययं तत्त्वत एव आर्य्यपुत्रकण्ठस्वरः स्यात्, यदा भाग्यादद्य पुनरपि प्रियसमागमसम्भावनेति पतित्रतायाः सीतायाः पतिदर्शनलालसया उल्लासः इति बोध्यम्)। जलभृतस्य जलपूर्णस्य मेघस्य स्तनितमिव गर्जितमिव, (‘स्तनितं गर्ज्जितं मेघनिर्घोषे रसितादि च‘इत्यमरोक्त्तेः ‘मेघस्तनित‘शब्दस्य प्रयोगे मेघशब्दस्य वैयर्थ्यं न दोषाय इत्यादिविवेचितमस्माभिः ‘करिकरभ‘शब्दे पूर्व्वत्र १९६ पृष्ठे १८ पड्क्त्तौ) गम्भीरो धीरोमांसलो वीर्य्यवान् एष श्रूयमाणः, भारतीनिर्घोषः वाक्यध्वनिरित्यर्थः, सजलजलदनासदृशधीरपुष्टः वाक्शब्द इति यावत्। नु इति वितर्के, पृच्छायां वा, (‘- नु वितर्कोपमानयोः। विकल्पानुनयातीति प्रश्ने हेत्वपदेशयोः‘इति मेदिनी)। कुतः,-कस्मात् जनात् उत्पन्न इत्यर्थः। भ्रीयमाणेत्यादि। -भ्रियमाणं पूर्य्यमाणं कर्णयोर्विवरं रन्ध्रं यस्याः तां तथोक्त्तां चिराकाङ्क्षितरवश्रवणपरितृप्तकर्णकुहरामिति यावत्। मामपीति। -का कथा अन्यासाम् ? इत्यर्थः। भर्त्त्रा लोकापवादात् चिराय निर्वासिततया निरतिशयदुर्भाग्यवत्तया च कथमपि पुनः प्रियतमसमागमासम्भवान्नियतं भ्रियमाणाया मम पुनरार्य्यपुत्रचरणदर्शनाशा दूरापास्तैवेति अपिकाराशयः। झटिति-शीघ्रम्, उच्छ्वासयति-जीवयति, रामदर्शने आशां जनयतीति भावः।
तमसा। (सस्मितास्रम्) अयि वत्से (व)- किमव्यक्तेऽसि निनदे कुतस्त्येऽपि त्वमीदृशी।
स्तनयित्नोर्मयूरीव चकितोत्कण्ठिता स्थिता ?॥७॥

(व) सस्मितेति। -अहो सुचिरपरिचितेऽप्यस्मिन्पतिकण्ठस्वरेऽस्याः सन्देहः इति चिन्तया स्मितम्। विरागहेतावपि पतिव्रतेयं पुनः पतिदर्शनाकाङ्क्षया हृष्यति, परन्तु एतयोः परस्परसाक्षात्कारो न स्यादिति चिन्तया अस्रं, ताभ्यां सहितं यथास्यात् तथा आहेति शेषः।
विदितसकलवृत्तान्ता अपि तमसा सखीसकाशां भावगुप्त्यर्थं सम्प्रत्यनभिज्ञेवाह, किमिति। -स्तनयित्नोर्मेघस्य, (स्तनयति यः सः स्तनयुत्नुरिति अदन्तचुर्वलाहकः‘इत्यमरः) निनदे शब्दे (अत्रापि ‘निनदे‘इति पूर्व्वार्द्धादनुषञ्जनीयम्) मयूरी इव (मह्यां पृथिव्यां रौति या सा मयूरी (मही ’ रू ’ क ) पृषोदरादित्वात् साधुः) शिखिनीव, कुतस्त्ये (कुतो भवः इति कुतस्त्यः ‘अव्ययात् यप् ‘(४। २। १०४पा०) इत्यनेन त्यप् प्रत्ययः) कस्मादपरिज्ञातस्थानादागतेऽपि ; शब्दोत्पत्तिस्थानविशेषविज्ञाने हि शब्दानुसारेण पुरुषविशेषविज्ञानमपि सम्भवति, अत्र तु ‘कुतोऽयमागतः शब्दः‘इति अनिरूपणाद्व्यक्त्तिनिरूपणमसम्भवीति भावः। अव्यक्त्ते अपरिस्फुटे, कस्यायमिति तत्त्वतः अनिश्चिते इत्यर्थः, निनदे ‘विमानराज अत्रैव स्थीयताम्‘इत्येवं रूपे शब्दे सति इत्यर्थः, किं कथम् ईदृशी एतादृशी, चकिता चञ्चला उत्कण्ठिता उत्सुका च सती स्थिता असि? वर्त्तसे इत्यर्थः। (‘चकितोत्कण्ठितम्‘इत्यपि क्वचित्पाठः, स्थितेत्यस्याः क्रियाया विशेषणत्वेनान्वयादर्थः सुस्पष्ट एव। अत्र सहसा पतिकण्ठस्वराकर्णनात् स्त्रीस्वभावसुलभा चकितता, तथा सुचिरकालानन्तरं पुनः पतिसमागमपददर्शनसम्भावनात् उत्कण्ठितता चेति बोध्यम्। उत्कण्ठालक्षणं यथा-‘रागे त्वलब्धविषये वेदना महती तु या। संशोषणी तु गात्राणां तामुत्कण्ठां विदुर्बुधाः॥‘इति। अत्र उपमा नामालङ्कारः, सा च इव शब्दवाच्यतया, श्रौती। तथात्र ‘असि‘इति क्रियापदस्य उपमानभूतया मयूर्य्या अन्वये ‘अस्ति‘विपरिणामस्यावश्यकतया ‘लतेव राजसे तन्वि‘इति साहित्यदर्पणधृतोदाहरणवत् उपमागतभग्नप्रक्रमतारूपालङ्कारदोषो बोध्यः ; स च ‘निनदे कथमव्यक्त्ते‘इति ‘किमव्यक्त्ते नु निनदे‘इति वा पाठान्तरं कल्पयित्वा समाधातुं शक्यते इति चिन्त्यम्)। पथ्यावक्त्तं वृत्तम्॥७॥

सीता। मअबदि किं भणासि अपरिप्फुडं त्ति? मए उण स्मरसञ्जोएण पच्चभिआणिदं; अज्जउत्तो ज्जेब ब्बाहरदि त्ति। (श) तम। श्रूयते; तपस्यतः किल शूद्रस्य दण्डधारणार्थमैक्ष्वाको राजा जनस्थानमागत इति। (ष) भगवति किं भणसि अपरिस्फुटेति ? मया पुनः स्वरसंयोगेन प्रत्यभिज्ञातम्; आर्य्यपुत्र एव व्याहरतीति।
(श) भगवतीति। -तमसे इत्यर्थः। अपरिस्फुटेति। -अविस्पष्टेत्यर्थः। (पूर्व्वं ‘किमव्यक्त्तेऽसि‘इति श्लोके तमसया अव्यक्त्तेति शब्दो व्यवहृतः, अत्र सीतावाक्ये तमसा वाक्यप्रतीकत्वेन ‘अपरिस्फुटेति‘इत्थमुल्लेखः तद्वाक्यार्थमात्रग्रहणेन, न तु स्वरूपत इति बोध्यम्)। स्वरसं योगेन-श्रुतौ कण्ठरवसम्बन्धेनेत्यर्थः। प्रत्याभिज्ञा तं-स एवायमिति ज्ञातं, (अनुभूतस्य उद्बोधकसहभावेन पुनः स्मरणं प्रत्याभिज्ञा, इति तार्किकाः)। व्याहरति-कथयति।
(ष) श्रूयते इति। -लोकपरम्परया इति शेषः। अस्य च-‘आगत इति‘इति वक्ष्यमाणेतिशब्देन अन्वयः। तपस्यत, ;-तपश्चरतः, (तपश्चरतीत्यर्थे ‘कर्म्मणे रोमन्थतपोभ्यां वर्त्तिचरोः ‘(३। १। १५पा०) इत्यनेन क्यङ्, तथा ‘तपसः परस्मैपदञ्च (वा०) इत्यनेन च परस्मैपदमिति शतृप्रत्ययः) शूद्रस्य-शम्बूकस्य। दण्डघूरणर्थं-दण्डविधानाय इत्यर्थः, (दण्डधारणाय इदम् इति दण्डधारणार्थम् ‘अर्थेन सह नित्यसमासः विशेष्यलिङ्गता च ‘(वा०) इति।
नित्यसमासः ) ऐक्ष्वाकः,-इक्ष्वाकुकुलोत्पन्नः ( ऐक्ष्वाक इति , इक्ष्वाकोः गोत्रापत्यं पुमान् इति व्युत्पत्या ‘दाण्डिनायन-(६। ४। १७४ पा०) इत्यनेन निपात्यते)।
सीता। दिट्टिआ अपरिहीणरोधम्मो क्खु सो राआ। (स) (नेपत्थ्ये)-यत्र द्रुमा अपि मृगा बन्धवो मे यानि प्रियासहचरश्चिरमध्यवात्सम्।
एतानि तानि बहुनिर्झरकन्दराणि गोदावरीपरिसरस्य गिरेस्तटानि॥८॥

दिष्ट्या अपरिहीणराजधर्मः खलु स राजा।
(स) दिष्ट्या-भाग्येन, ( दिष्ट्या इति तृतीयान्तप्रतिरूपकमव्ययम् ) अपरिह्रीणः अपरित्यक्तः राजधर्मि येन स तथोक्तः यथाशास्त्रमनुष्ठितराजकार्य्यः, दैववशात् विरहविधुरोऽपि राजधर्मात् न विचलित इत्यर्थः।
सम्प्रत्यगस्त्याश्रमादयोध्यां प्रतिनिवर्त्तमानो रामचन्द्रः पथि पञ्चवटीमनुप्रविश्य सुचिरसहवाससुहृद्द्रुममृगाद्यमितपदार्थावलोकनात् तानेवेदानीं पूर्व्वं सुहृत्त्वेन प्रत्यभिजानन् नेपथ्यतः प्राह, यतेति। -यच्च येषु तटेषु द्रुमा वृक्षा अपि, तथा मृगाः अपि पशवोऽपि, ( ‘मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः’ इति मेदिनी) मे मम बन्धवः बहुकालमेकत्रावस्थानात् त्यागासहिष्णवः प्रणयिनः, तथा यानि तटानि, (अत्र ‘उपान्वध्याङ्वसः’ (१। ४। ४८ पा०) इति सूत्रेण अधिपूर्व्ववसतेरधिकरणस्य कर्म्मत्वेन द्वितीया। ) प्रियया जनकनन्दिन्या सह चरति यः सः तथोक्तः, प्रियया सीतया सहेत्यर्थः, चिरं बहुकालम् अध्यवात्सम् अध्युषितवान् ; पूर्व्वमरण्यवासकाले प्रियतमया सहात्रैकचावस्थानादमितानन्दसम्पादकतया अस्माकमतिप्रियाण्येतानि तटानीति भावः। बहवो निर्झरा जलप्रवाहा येषु ते तथोक्ताः, कन्दरा गर्त्ता येषु तानि तथोक्तानि ( ‘उत्सः प्रस्रवणं वारि प्रवाहो निर्झरो झरः’ इति ‘दरी तु कन्दरो वा स्त्री देवखातविले गुहा’ इति चामरः)। एतानि परिदृश्यमानानि, तानि पूर्वपरिचितानीत्यर्थः, गोदावर्य्या नद्याः परिसरस्य प्रान्तवर्त्तिन इत्यर्थः, गिरेः पर्वतस्य प्रस्रवणस्येति यावत्, तटानि प्रदेशाः, वर्त्तन्ते इति शेषः। (यत्रातिचिरसहवासेन चेतनाचेतनसाधारणाः पादपमृगादयोऽपि सुहृद्भावमुपगताः, का कथा तत्र गुणपक्षपातिनामतिकरुणानां सदारापत्य तपोधनानामित्येतस्यार्थस्य दण्डापूपिकया लाभादर्थापत्तिर्नामालङ्कारः। तल्लक्षणं यथा दर्पणे,- ‘दण्डापूपिकयाऽन्यर्थागमोऽर्थापत्तिरिष्यते’ इति )। वसन्ततिलकं वृत्तम्॥ ८॥

सीता। (दृष्टा) हा कधं पहादचन्दमण्डलाबण्डुरपरिक्खामदुब्बलेण आआरेण अअं सोम्मगम्भीराणुभाबमेत्तपच्चभिआणिदो अज्जउत्तो ज्जेब; ता मं धारेहि। (ह) (इति तमसामाश्लिश्य मूर्च्छति) तमसा। (धारयन्ती) वत्से समाश्वसिहि समाश्वसिहि।
(नेपत्थ्ये) अनेन पञ्चवटीदर्शनेन।
हा कथं प्रभातचन्द्रमण्डलापाण्डरपरिक्षामदुर्बलेनाकारेण अयं सौम्यगम्भीरानुभावमात्रप्रत्यभिज्ञात आर्यपुत्र एव; तन्मां धारय।
(ह) हा कथमिति। -हा इति विषादे ( ‘हा विषादशुगर्त्तिषु’ इत्यमरः) कथमिति सम्भावनायाम्। प्रभातेत्यादि। -प्रभाते प्रत्यूषे यत् चन्द्रमण्डलं सुधाकरबिम्बं तदिव आ समन्तात् पाण्डुरः विरहसन्तापातिरेकाद् धूम्रवर्णः, अतिम्लानः इति यावत्, परिक्षामोऽतिकृशस्तथा दुर्बलं शक्तिहीनत्वेन प्रतीयमानश्च यः आकरः आकृतिस्तेन उपलक्षित इत्यर्थः, ( अत्र ‘इत्थम्भूतलक्षणे’ (२। ३। २१ पा०) इति उपलक्षणे तृतीया )। सौम्येत्यादि। -सौम्येन प्रशान्तेन गम्भीरेण धीरेण च अनुभावमात्रेण केवलेन प्रभावेण, केवलाकृतिगतसहजतेजोमहिम्नेति यावत्, प्रत्यभिज्ञातः पूर्व्वसंस्कारवशादुद्बोधकसहभावेन ‘स एवायमार्य्यपुत्रः’ इति कथमपि ज्ञातः इत्यर्थः। चिरविरहसन्तापेनातिक्षीणमलिनाकृतिरयमार्य्यपुत्रः पूर्व्वाकारविपर्य्यात् ‘स एवायं न वा ?’ इति संशयमस्माकमुत्पादयन्नपि स्वकीयप्रसन्नगम्भीरस्वभावप्रभावेण स्वयमेव ‘स एवायम्’ इति निर्णाययतीति भावः। तत्-तस्मात्, आर्य्यपुत्रस्यैतादृशदुःस्थावस्थावलोकनेनाचिरमेव मम मोहसम्भवादित्यर्थः। धारय -अवलम्बस्व, इतरथा मूर्च्छया भूमौ पतने मम गुरुतराघातसम्भवः, तस्मिन् सति चीत्कारादात्मप्रकाशसम्भावनां, यदृच्छया समागतस्य आर्य्यपुत्रस्य चरणकमलसन्दर्शनजनितसुखलाभसहितापुर्व्वधर्मप्राप्तिविरहश्चेति भावः।
अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः।
उत्पीड इव धुमस्य मोहः प्रागावृणोति माम्॥९॥

अथ गच्छन् पथि पञ्चवटीशोभासमृद्धिमवलोकयन्नेवंविधैर्विविधैरुद्बोधकैः स्मृतातीतवृत्तान्तजातो जानकीनाथो मुहुर्मुह्यमानः साधिक्षेपमाह, अन्तरिति। -अन्तः अन्तःकरणे, लीनस्य गूढं स्थितस्य, उद्दामं शोकोद्दीपकदण्डकादिदर्शनेन अत्यन्तमधिकं सर्वमाच्छाद्य धग्धगिति, घोररावमिति यावत्, ज्वलिष्यतः देदीपिष्यतः, दुःखाग्नेः शोकानलस्य, धूमस्योत्पीड इव घनीभूतः धूमराशिरिव, मोहः मूर्च्छा, अद्य अधुना, मां मम चैतन्यमित्यर्थः, प्राक् दुःखाग्नेः प्रज्वलनस्य पूर्वमित्यर्थः, आवृणोति आच्छादयति, अतिशयेन शोकाभिभूतोऽस्मीति भावः; यथा क्वचित् सूक्ष्मभावेणावतिष्ठमानोऽनलः कदाचित् तृणराशिसम्पर्कादत्यन्तघनीभूतेन धूमपटलेन सूचयत्येतदव्यवहितोत्तरक्षणभाविभीषप्रज्वलनं स्वस्य, तथा ममापि प्रियावियोगजः शोकावेगः कार्य्यान्तरव्यापृततया प्रागन्तर्निगूढोऽपि सम्प्रत्यतैरेवोद्बोधकैर्नवीभूतः मोहहारेण मम भविष्यदत्याहितमेवावेदयतीति समुदिताशयः। ( अत्र पूर्व्वार्द्धं ‘दुःखाग्नेः’ इत्यत्र ‘दुःखमग्निरिव’ इत्युपमितिसमासात् लुप्तोपमा, परार्द्ध चासौ श्रौतीत्युभयोः परम्परमङ्गाङ्गिभावेन सङ्करः। केचित्तु ‘दुःखाग्नेः’ इत्यत्र भविष्यज्ज्वलनसम्पर्कात् निरङ्गरूपकमाहुस्तदसमीचीनतया नास्मभ्य रोचते, परार्द्धगतोपमयैकवाक्यताया एव युक्तत्वादिवधेयम् )। अनुष्टुप् वृत्तम्॥९॥

हा प्रिये जानकि (क) तमसा। (स्वगतम्) इदं तदाशङ्कितं गुरुजनेनापि। (ख) सीता। (समाश्वस्य) हा कधं एदं हा कथमिदम् (क) हा प्रिये इति। - कुत्र इदानीं वर्त्तसे इति शेषः।
(ख) इदमिति। -तदिदं-रामस्य शोकाभिभूतिमोहपतनादिकं, सम्प्रत्युपस्थितमिति यावत्। गुरुजनेन-भागीरथीलोपामुद्राप्रभृतिनेत्यर्थः। आशङ्कितं-सम्भावितं, यद्धि गुरुजनेनावश्यम्भावितया सम्भावितं कार्य्यतस्तदेवेदानीं दृश्यते इति भावः।
(पुनर्नेपथ्ये) हा देवि दण्डकारण्यवासप्रियसखि हा विदेहराजपुत्रि (ग) (इति मीर्च्छति) सीता। हद्दी हद्दी मं मन्दभाइणीं ब्बाहरिअ आमीलन्तणेत्तणीलुप्पलो मुच्छिदो ज्जेब अज्जउत्तो हा हा कधं धरणीपिट्ठे णिरुस्माहणीसहं बिपल्हत्थो ? भअबदि तमसे परित्ताआहि परित्ताआहि; जीआबेहि अज्जउत्तम्। (घ) (इति पादयोः पतति) हा धिक् हा धिक् मां मन्दबागिनीं व्याहृत्य आमीलन्नेत्रनीलोत्पलोमूर्च्छित एव आर्यपुत्रः; हा हा कथं धरणीपृष्ठे निरुत्साहनिःसहं विपर्यस्तः ? भगवति तमसे परित्रायस्व परित्रायस्व; जीवय आर्यपुत्रम्।
(ग) दण्डकेत्यादि। -दण्डकारण्ये जनस्थाने वासः, तत्र प्रियसखी इति दण्डकारण्यवासप्रियसखी, पूर्वं जनस्थानावस्थानकाले सहायरूपेण विशेषतो नाना प्रकारोपकारकरणादिति भावः।
(घ) मामिति। -मां सीतामित्यर्थः। मन्दभागिनीं-हतभाग्याम्। व्याहृत्य-उद्देशेन उच्चार्य, भाग्यहीनां मामेव नामतः उल्लिख्य इति यावत्। ( ‘व्याहृत्य’ इत्यत्र ‘उद्दिश्य’ इति पाठे-उद्देशेन मन्नाम उच्चार्य’ इत्यर्थो बोध्यः)। आमीलदिति। -आमीलन्ती ईषन्मुद्रिते नेत्रे नयने नीलोत्पले नीलेन्दीवरे इव यस्य सः तथोक्तः, ईषन्मुद्रितनयनकमलः इत्यर्थः। ( अत्र लुप्तोपमानामालङ्कारः)। निरुत्साहात् निरतिशयशोकावेगेन उत्साहभ्रशात् वैक्लव्यवशात् निःसहम् अक्षममवशमित्यर्थः, यथा स्यात् तथा, ( ‘निरुत्साहनिःसहम्’ इत्यत्र ‘निरुद्धनिश्वासनिःसहम्’ इति पाठे- ‘निरुद्धः व्याहतः निश्वासो यस्मिन् कर्म्मणि, तद् यथा स्यात् तथा, निःसहम् अक्षमं विवशमिति यावत्, यथा स्यात् तथा विपर्य्यस्तः’ इत्यर्थो बोध्यः)। धरणीपृष्ठे-धरण्याः पृथिव्याः पृष्ठमुपरिभागः तस्मिन्, भूतले इत्यर्थः, विपर्य्यस्तः,-निपतितः। ‘हा धिक् हा धिक्’ इत्यत्र ‘परित्रायस्व परित्रायस्व’ इत्यत्र च आभीक्ष्ण्ये द्विरुक्तिः न दोषपदवीमारोहति,- ‘विवादे विस्मये हर्षे खेदे दैन्यावधारणे। प्रसादने सम्भ्रमे च द्विस्त्रिरुक्तिर्न दुष्यति॥ ‘इति वचनात्।
तमसा। त्वमेव ननु कल्याणि सञ्जीवय जगत्पतिम्।
प्रियस्पर्शो हि पाणिस्ते तत्रैव नियता भव॥१०॥

जनकनन्दिन्या नामग्राहं विलपन्तं जानकीजीवनमकस्मान्मुह्यमानमवलोक्य सम्भविष्यद्विपद्भीतिकातरया सपादग्रहमावेदिता पतिव्रतासमाचारपरिरक्षणकामा तमसा तामेव जगज्जीवनजीवनसाधनत्वेन निरुपयन्ती वक्ति, त्वमिति। -ननु भोः कल्याणि शुभे ( अत्र ननु इति आमन्त्रणार्थकमव्ययम् ( ‘प्रश्नावधारणानुज्ञाऽनुनयामन्त्रणे ननु’ इत्यमरः) एवंविधे चिरनिर्व्वसनेऽपि भाग्यादद्य ते प्रियतमस्पर्शलाभः इति सूचनाय ‘कल्याणि’ इति सम्बोधनम् )। त्वमेव जगत्पतिं लोकनाथं, राममिति शेषः, सञ्जीवय करस्पर्शादिना सचैतन्यं कुरु; ( अत्र एवशब्दस्य अन्ययोगव्यवच्छेदार्थकतया ‘एष रामरुक्प्रतीकारस्त्वयैव साध्यो नान्यया’ इत्यर्थो लभ्यते)। कथं मयैव साध्यो न च त्वया ? इत्याशङ्क्याह,-प्रियस्पर्श इति। -हि यतः, ते तव पाणिः करः, प्रियः स्पर्शो यस्य स तथोक्तः, रामाभिज्ञातत्वात् त्वत्पाणिस्पर्श एव त्वद्वियोगार्त्तस्य तस्य अव्यभिचारितया चैतन्यसम्पादक इति भावः। तस्मादित्यूह्यं, त्वत्पाणिस्पर्शव्यतिरेकेणान्यस्य चैतन्यसम्पादकहेतोरभावादिति तदर्थः ; इति पाठे-तत्र तस्मिन्नेव तव पाणिस्पर्शे, भवः सञ्जीवनं रामस्येति भावः। तथा ‘तत्रैष निरतो जनः’ इति पाठे-तत्र तस्मिन्नेव तव पाणिस्पर्शे एष जनः राम इत्यर्थः, निरतः नितराम् अभ्यस्तः, सततानुध्यानशील इत्यर्थः, यदर्थमेष एतादृशः सोत्कण्ठः, सम्प्रति करस्पर्शेन तामनुभूय निःसंशयं पुनरुज्जीविष्यतीति भावः,-इत्यर्थो बोध्यः। अत्र परार्द्धस्थवाक्यार्थस्य पूर्वार्द्धगतवाक्यार्थं प्रति हेतुतया उपन्यासात् वाक्यार्थहेतुकं काव्यलिङ्गं नामालङ्कारः। तल्लक्षणं यथा दर्पणे,- ‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते’ इति)। अनुष्टुप् वृत्तम्॥१०॥

सीता। जं भोदु तं भोदु; जधा भअबदी भणादि। (ङ) (इति ससम्भ्रमं निष्क्रान्तः) यद्भवतु तद्भवतु यथा भगवती भणति।
(ङ) यदिति। -इष्टमनिष्टं वा इत्यर्थः। आर्य्यपुरेणाननुमतश्चेदिदानीमहं तदङ्गं स्पृशामि तदा ममाङ्गसङ्गात् पुनः प्राप्तजीवितो मयि रुष्टस्तुष्टो वा भवतु,नायमवसरस्तद्विचारणायाः ; परन्त्वविचार्यैव मम भविष्यदिष्टमनिष्टं वा अनतिचिरमेवानुष्ठेयो मया आर्य्यपुत्रस्य पुनर्ज्जीवनोपाय इति भगवत्योपदिष्टमेवानुष्ठामीति भावः।
(ततः प्रविशति भूमौ निपतितः सास्रया सीतया स्पृश्यमानः साह्लादोच्छ्वासो रामभद्रः )। (च) सीता। (कश्चित् सहर्षम् आत्मगतम्) (छ) जाणे पुणो बि पच्चागदं बिअ जीबिदं तेल्लोअणाहस्म।
(ज) जाने पुनरपि प्रत्यागतमिव जीवितं त्रिलोकनाथस्य।
(च) ततः इति। -भूमौ निपतितः,-मूर्च्छितः सन् भूतले शयितः। सास्रया-अश्रु मुञ्चत्या, प्रेयाम सहसा मूर्च्छितमवलोक्य गलदश्रुलोचनया इति यावत्। स्पृश्यमानः,-परामृश्यमानः। साह्लादोच्छ्वासः,-आह्लादेन सहसा प्रियतमाङ्गसङ्गजेन आनन्देन, उच्छ्वासेन पुनः सञ्ज्ञालाभात् निश्वाससञ्चारेण च सहेत्यर्थः।
(छ) किञ्चिदिति। -न पूर्णतयेति यावत्। सहर्षं-सानन्दम्। इदानीं श्वाससञ्चारेऽपि पुनर्वाक्यस्फूर्त्तिमन्तरा नास्य पुनर्जीवने सम्पूर्णो विश्वासः इति नाह्लादस्य पूर्णता, अपि तु पूर्व्वावस्थातो वर्त्तमानावस्थायाः किञ्चिदुत्कर्षदर्शनात् किञ्चिदानन्दो जात इति आशयः। आत्मगतं-स्वगतमित्यर्थः, आह इति शेषः ; पाठकपरिज्ञानार्थमेव हि तस्य नाटके लेखनं, वस्तुतस्तु मनोगतो भावः। स च भावः अभिनयकाले मन्दमुच्चारणीयः। तथा हि- ‘आश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम्’ इति दर्पणः।
(ज) जाने इति। -मन्ये इत्यर्थः। ( ज्ञाधातोः परस्मैपदित्वेऽपि अत्र अकर्म्मकत्वविवक्षातः ‘अकर्म्मकाच्च’ (१। ३। ४५ पा०) इत्यनेनात्मनेपदम्। अत्र केचित् ‘पुनरपि’ इत्यादिवाक्यार्थं ज्ञाधातोः कर्म्मत्वेन मन्यमानाः ‘जानासि’ इत्येवमेवं पाठमाहुः) प्रत्यागतमिव-परावृत्त्य आगतमिवेत्यर्थः। ( अत्रोत्प्रेक्षया तावदेवमवगम्यते यत्, यद्यपि गतजीवितस्य पुनर्ज्जीवनमसम्भवीति मयाऽवगम्यते, तथापि आर्य्यपुत्रस्य तादृगचेतनावस्थादर्शनेन कृततज्जीवनापगमशङ्कया मया सम्प्रति पुनः श्वाससञ्चारदर्शनेन पुनः प्राप्तजीवित इवायं मन्यते इति) त्रिलोकनाथस्य-त्रिभुवनस्वामिनः रामचन्द्रस्य। ( त्रयाणां लोकानां नथः तस्य, ‘तद्धितार्थोत्तरपदसमाहारे’ (२। १। ५१ पा०) इति उत्तरपदसमासः। ‘त्रयाणां लोकानां समाहारः इति त्रिलोकं तस्य नाथः’ इति तु न समीचीनम्, समाहारद्विगौ ‘द्विगोः’ (४। १। २१ पा०) इति सूत्रेण ‘ङीप्प्रत्ययावश्यम्भावात्। क्वचित्तु पुस्तके ‘त्रैलोक्यनाथस्य’ इत्यपि पाठो दृश्यते, एवन्तु न कापि दोषशङ्का इति बोध्यम् )।
रामः। हन्त भो किमेतत् ? (झ)- प्रश्च्योतनं तु हरिचन्दनपल्लवानां निष्पीडितेन्दुकरकन्दलजो नु सेकः।
आतप्तजीवनमनःपरितर्पणो मे सञ्जीवनौषधिरसो नु हृदि प्रसिक्तः॥११॥

(झ) हन्तति। -हन्त इति हर्षसूचकमव्ययम्। ( ‘हन्त वाक्यारम्भखेदविषादहर्षसम्भ्रमः’ इति मेदिनी)। सुचिरपर्चितपादपपर्व्वतादिदर्शनोद्बोधितपूर्व्वस्मृतिरयं मोहाद्विलुप्तचेतनोऽपि सहसा चिराभ्यस्तहस्तविमर्शात् शनैः प्राप्तसञ्ज्ञः सीतापतिः किमप्यनवलोकयन्नग्रतः सञ्ज्ञासाधनं, वक्ष्यमाणरूपेण संशेष्यमाण आह, किमेतदिति। -अस्य च श्लोकस्थेन ‘प्रश्च्योतनम्’ इत्यनेन अन्वयः।
संशयप्रकारमाह, प्रश्च्योतनमिति। -नु इति सर्वत्रैव वितर्के। ( ‘नु वितर्कापमानयोः। विकल्पानुनयातीते प्रश्ने हेत्वपदेशयोः’ इति मेदिनी ) किमेतदिति पूर्वेणान्वयः। किं नु एतद् हरिचन्दनपल्लवानां सुरतरुपल्लवानां, तन्नामवृक्षविशेषस्य किसलयानामिति यावत्, ( ‘पञ्चैते देवतरवः मन्दारः पारिजातकः। सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्’ इत्यमरः) ( अत्र अङ्गुलिस्पर्शद्योतनार्थे शैत्यातिशय्यद्योतनार्थञ्च पल्लवपदग्रहणम् ) प्रश्च्योतनं द्रवः, क्षरितो रस इति यावत्, अलौकिककारणव्यतिरेकेण कुतोऽयमलौकिकसुखसम्भव इति भावः। वृक्षविशेषपल्लवरसाद वा कथमेवं सुखोत्पादनसम्भावनेत्याह, निष्पीडितेति। -निष्पीडितः रसार्थे करेण आमर्दितः यः इन्दुकरकन्दलः सुधाकरकरकलापः तस्माज्जायते यः स तथोक्तः, सेकः रसधारापतनं नु ? मन्ये सुधांशुकिरणानि एकत्र कृत्वा केनचिदामर्द्य रसोऽयं निःसारितः अन्यथा अत्र अमृतस्य कुतः सम्भवः? इति भावः। आतप्तयोः सन्तापदग्धयोर्जीवनमनसोः आत्मचितसोः परितर्पणः सम्यक् सुखदः, ( अत्र ‘आतप्तजीविततरोः’ इत्यपि पाठो दृश्यते, तस्यायमर्थः,-आ समन्तात् तप्तस्य जीवितरूपस्य तरोर्वृक्षस्य परितर्पणः इत्यनेनान्वयः) सञ्जीवयतीति सञ्जीवनः ( ‘परितर्पणः, सञ्जीवनः’ इत्यादिकं ‘नन्दिग्रहिपचादिभ्योल्युणिन्यचः’ (३। १। १३४ पा०) इत्यनेन नन्द्यादित्वात् कर्त्तरि ल्युप्रत्ययेन सिद्धम्) ओषधेः कस्याश्चित् फलपाकान्तायाः लतायाः रसः द्रवः, (ओषध्यः फलपाकान्ताः’ इत्यमरः) हृदि हृदये, प्रसिक्तः प्रलिप्तो नु ? अन्यथा व्यथापगमात् कुत इयं दग्धजीविते सुखोत्पत्तिरिति भावः। ( अत्र ‘स्पर्शः पुरा परिचितो नियतं स एषः’ इत्यादिपरश्लोकोक्तवचनेनाविशेषतः स्पर्शविषयकज्ञानस्य अनुभवितरि सत्त्वप्रमापणात्, प्रकृते च स्पर्शे प्रश्च्योतनादीनां ‘स संशयो मतिर्या स्यादेकत्राभावभावयोः’ इत्युक्तलक्षणकभावाभावोभयकोटिकसंशयस्य कविप्रौढोक्तिसिद्धतया निःसन्देहः सन्देहालङ्कारः। तस्य च संशयपर्य्यवसिततया शुद्धत्वं, तथा च दर्पणः,- ‘सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः। शुद्धो निश्चयगर्भोऽसौ निश्चयान्त इति त्रिधा॥ ‘इति। केचित्तु अत्र प्रकृते स्पर्शे प्रश्च्योतनादीनामप्रकृतानां सम्भावनां मन्यमानाः उत्प्रेक्षाऽलङ्कारमाहुस्तच्चिन्त्यम्। तथात्र ‘निष्पीडितेन्दु- ‘इत्यादौ प्रकृतस्पर्षरूपविषयनिगरणेन तादृशसेकादेरभेदप्रतिपत्तेरतिसयोक्तिश्चेत्यनयोरङ्गाङ्गिभावेन सङ्करः)। वसन्ततिलकं वृत्तम्॥११॥

स्पर्शः पुरा परिचितो नियतं स एष सञ्जीवनश्च मनसः परिमोहणश्च।
सन्तापजां सपदि यः प्रतिहत्य मूर्च्छा- मानन्दनेन जाडतां पुनरातनोति॥१२॥

पूर्व्वमुक्तरूपेण संशय्य सम्प्रति प्रकृतस्य सुचिरपरिचितस्पर्शरूपत्वमेव निश्चिनोति, स्पर्श इति। -पुरा पूर्वस्मिन् काले, सीतया सार्द्धमेकत्रावस्थानदशायामिति यावत्, नियतम् अभीक्ष्णा यथा स्यात् तथा परिचितः अभ्यस्तः, मनसः चेतसः, (अत्र ‘सञ्जीवनः’ इति कृदनक्रियायाः कर्म्मणि ‘कर्त्तृकर्म्मणोः कृति’ (२। ३। ६५ पा०) इति सूत्रेण षष्ठी) सञ्जीवनः उत्साहप्रदः, विषादापनोदनेन परितोषण इति यावत्, परिमाहणश्च आनन्दसम्भारात् मोहोत्पादकः, चित्तद्रुतिकारकः इत्यर्थः, ( ‘परिमोहणः’ इत्यत्र ‘शेषे विभाषा अकखादावषन्त उपदेशे’ (८। ४। १८ पा०) इत्यनेन वैकल्पिकं णत्वम्। अत एव क्वचिद्दन्त्यान्तोऽपि पाठः दृश्यते ) एष सम्प्रत्यनुभूयमानः, स स्पर्शः, यः स्पर्शः सन्तापजां सीतावियोगजन्यां मूर्च्छां मोहं सपदिं तत्क्षणात्, झटितीत्यर्थः, प्रतिहत्य निवार्य्य, पुनः भूय आनन्दनेन सुखोप्तपादनेन, जडतां मुखजां विह्वलतामित्यर्थः, आतनोति विस्तारयत्, करोतीत्यर्थः। (अत्र तच्छब्दसहकृतयच्छब्दस्य उत्तरार्द्धगतत्वेन अविमृष्टविधेयांशत्वरूपो दोषो बोध्यः। स च प्रथमपादस्य ‘स्पर्शः पुरा परिचितो नियतं सुकान्तः’ इत्येवं पाठपरिवर्त्तनेन समाधेयः, केवलयच्छब्दस्य उत्तरवाक्यगतत्वेऽपि दोषाभावात् ‘आत्मा जानाति यत्पापं’ इतिवत् ; तथा च दर्पणः,- ‘यच्छब्दस्य उत्तरवाक्यगतत्वेन उपादाने सामर्थ्यात् पूर्व्ववाक्ये तच्छब्दस्यार्थत्वम्’ इति। अथवा परार्द्धं प्रथमं पठित्वाऽसौ निर्ब्बाधं समाधेयः। अत्र परार्द्धं ‘मूर्च्छां प्रतिहाय जडतां तनोति’ इत्येवं विरुद्धार्थाभिधानात् विरोधालङ्कारः, तथा च ‘विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः’ इति काव्यप्रकाशः। स च विरोधः जडताशब्दस्य आनन्दविह्वलतारूपार्थसम्पादनेन परिहरणीयः। तथाऽत्र निश्चयालङ्कारमपि केचिदाहुस्तन्न समीचीनं प्रतिभाति, तथाहि- ‘अन्यन्निषिध्यप्रकृतस्थापनं निश्चयः पुनः’ इति लक्षणे निश्चयान्तसन्देहादस्य भेदकथनावसरे संशयनिश्चययोरेकाधिकरणावस्थानानवस्थानाभ्यां निश्चयान्तसन्देहनिश्चययोर्भेदस्य दर्शितत्वात्, प्रकृते च एकाधिकरणकसंशयनिर्णयदर्शनान्न तावल्लशतोऽपि निश्चयालङ्कारसम्भवः इति सुधीभिर्विभाव्यम्)। वसन्ततिलकं वृत्तम्॥१२॥

सीता। (ससाध्वसोत्कम्पमपसृत्य (ञ)) एत्तिअं ज्जेब दाणिं मेबहुदरम्। (ट) रामः। (उपविश्य) न खलु वत्सलया सीतादेव्या अभ्युपपन्नोऽस्मि। (ठ) एतावदेव इदानीं मे बहुतरम्।
(ञ) समाध्वसोत्कम्पमिति। -साध्वसेन अननुमतसन्निधानवशाद् भयेन यः उत्कम्पः शरीरचाञ्चल्यं तेन सहितं यथा स्यात् तथेत्यर्थः। ( ससाध्वसकरुणमिति पाठे-भयशोकसहितम् )।
(ट) एतावदिति। -एतावदेव-मदीयस्पर्शस्य निरतिशयानन्दहेतुत्वज्ञानपर्य्यन्तमेव। इदानीं-वियोगसमये। बहुतरं-सातिशयशान्तिजनकमिति यावत् ; लोकापवादाच्चिराय निर्व्वासितायाः मम पुनरार्यपुत्रसङ्गादिसुखसम्भावनायाः मूलतः समुत्पाटिततया सम्प्रति मत्स्पर्शजसुखानुभूतिस्वीकारः एव पर्य्याप्तत्वेन मन्यते इति भावः।
(ठ) न खल्विति। - खल्विति-प्रश्ने निश्चये वा, ( ‘खलु स्याद् वाक्यभूषायां जिज्ञासायाञ्च सान्त्वेन’ इति मेदिनी)। वत्सलया-स्नेहशिलया, मया निर्द्दयं निर्वासिताऽपि ममेदृशीं दशामवलोक्य स्नेहादिदानीमपि सन्निहितेति भावः। अभ्युपपन्नः,-प्राप्तः, अनुगृहीतः इत्यर्थः ; मदीयदोषं सहमानया तया स्नेहादहं नानुगृहीतश्च तदा कथमेतादृगनन्यसाधारणसुखस्पर्शसम्भव इति भावः। सीतासमागमस्येदानीमसम्भाव्यमानतया अनुभूतस्पर्सस्यानन्यसाधारणतया च रघुपतेरियं विस्मयविकल्पिता पृच्छेति बोध्यम्। (एतदिष्टजनाभिसन्धानरूपमधिबलं नाम सन्ध्यङ्गमुक्तं, तथा च- ‘यद्वेष्टजनसन्धान् बुधा अधिबलं विदुः’ इति )।
सीता। हद्दी हद्दी किं त्ति मं अज्जउत्तो मग्गिस्मिदि। (ड) रामः। भवतु; पश्यामि। (इति समन्तादवलोकयति) (ढ) सीता। भअबदि तमसे ओसरह्म; जइ दाब मं पेक्खिस्मदि; तदो अणब्भणुणादसणिधाणेण अहिअं पि मम महाराओ कुबिस्मदि। ’ (ण) हा धिक्। हा धिक्। किमिति मामार्यपुत्रो मार्गिष्यति।
’ भगवति तमसे अपसरामः; यदि तावन्मां प्रेक्षिष्यते; तदा अनभ्यनुज्ञातसन्निधानेन अधिकमपि मह्यं महाराजः कोपिष्यति।
ड) हा धिगिति। -हा इति शोके, ( ‘हा विषादशुगर्त्तिषु’ इत्यमरः) धिगिति आत्ममर्त्सनायां, ( ‘धिक् भर्त्सने च निन्दायां) तथा च-यस्याहं सततसहचारिणी प्रणयिनी आसं स एवेदानीं मम मन्दभागिन्या अन्वेषणार्थं यतिष्यमाणो दृश्यते इति महद्दुःखमापतितमिति भावः। मार्गिष्यति-अन्वेषिष्यति। रामस्य तदानीन्तनीं चेष्टामवलोक्य सीता तत्कर्तृकभविष्यदन्वेषणं सम्भावितवतीति बोध्यम्।
(ढ) भवत्विति। -अस्या अभ्युपपत्ते हेतुभूता सीता अन्या वा भवत्वित्यर्थः। पश्यामि-इतस्ततोऽन्वेषणेन तत्त्वतो निरूपयामीत्यर्थः।
(ण) भगवतीति। -अपसरामः,-इतोऽपसृत्य अन्यत्र यामः इत्यर्थः, (अत्र सीतातमसयोर्द्द्वित्वेऽपि ‘अस्मदो द्वयोश्च’ (१। २। ५९) इति सूत्रेण बहुवचनप्रयोगः। ‘अपसरावः’ इत्यपि पाठः क्वचित् पुस्तके दृश्यते ) अनभ्यनुज्ञातेत्यादि। -न अभ्यनुज्ञातम् अनुमोदितमिति अनभ्यनुज्ञातं, इदानीं मत्समीपवर्त्तिनी सती मां परिचरेत्येवं नानुमतमिति यावत्, यत् सन्निधानं समीपावस्थानं, तेन हेतुना इत्यर्थः। अधिकं-अतिशयं, ‘लोकसमक्षं पतिसान्निध्यमेव प्रगल्भतासूचकतया पत्युरुद्द्वेगकरं, किमुत लोकापवादाच्चिरनिर्व्वासितायाः समवज्ञातायाः पुनरननुमोदिताया मम सान्निध्यमिति ‘अयमत्राधिकपदस्य तात्पर्य्यार्थः।
मह्यं-सीतायै, ( अत्र ‘क्रुधद्रुहेर्ष्यासूयार्थानां यम्प्रतिकोपः’ (१। ४। ३७ पा०) इत्यनेन चतुर्थी)। महाराजः,-अयोध्यानाथः रामचन्द्रः, ( पूर्व्वं हि मयि सातिष्यमनुरक्तस्यार्य्यपुत्रस्य क्षमा मयि सापराधायामपि सम्भावनीयासीत्, सम्प्रति तु राजधर्मैकनिष्ठादार्य्यपुत्रात् क्षमाधिगमाशा सुदूरपराहतेति अत्र ‘महाराजपदप्रयोगाशयो बोध्यः)।
तमसा। अयि वत्से भागीरथिवरप्रभावात् वनदेवतानामपि अदृश्या संवृत्तासि। (त) सीता। आं; अत्थि एदम्। (थ) रामः। हा प्रिये जानकि ननु प्रिये जानकि सीता। (समन्युगदङ्गदम्) अज्जउत्त असरिसं क्खु एदं बअणं इमस्म बुत्तन्तस्म। (सास्रम्) अहबा किं त्ति बज्जमइं जम्मन्तरेसु बि पुणा असम्भाबिददुल्लहदंसणं मं ज्जेबमन्दभाइणीं उद्दिसिअ बच्छलस्म एबम्बदिणो अज्जउत्तस्म उबरि णिरणुकोसा भबिस्मम्। अहं एदस्म हिअअं अणामि मम बि एसो त्ति। ’ (द) आं अस्ति एतत्।
’ आर्यपुत्र असदृशं खलु एतद्वचनमस्य वृत्तान्तस्य। अथवा किमिति वज्रमयीं जन्मान्तरेषु अपि पुनरसम्भावितदुर्लभदर्शनां मामेव मन्दभागिनीमुद्दिश्य वत्सलस्य एवंवादिन आर्यपुत्रस्य उपरि निरनुक्रोशा भविष्यामि। अहमेतस्य हृदयं जानामि ममापि एष इति।
(त) अयीति। -अयीति कीमलसम्बोधने अव्ययम्। भागीरथीवरप्रभावात्-जाह्नवीदत्तवरमाहात्म्यात्। वनदेवतानामपि-अरण्याधिष्ठातृदेवीनामपि, दैवीदर्शनशक्तिरपि यदालोकने व्याहत्ता, का कथा तत्र मानुषस्य रामस्येति अनावश्यकमितोऽपसरणमिति भावः।
(थ) आमिति। -पूर्व्ववृत्तान्तस्मरणासूचकमिदमव्ययम्। अस्ति-इदमपि स्वीकारबोधकमव्ययम्। एतत्-जाह्नवीवरमाहात्म्याद् वनदेवतानामपि अदृश्यत्वरूपं वस्त्वित्यर्थः ; त्वया यदुच्यते तद्विस्मृतमपीदानीं प्रत्यभिजानामीति समुदितार्थः। ( अत्र ‘अस्ति खल्वेतत्’ इत्यपि क्वचित् पाठः)।
(द) समन्युगद्गदमिति। -मन्युः प्रणयसम्भूतः कोपः, गद्गदः शोकातिरेकेण बाष्पवरुद्धकण्ठतया वैस्वर्य्येण अस्पष्टोच्चारणं, ताभ्यां सहितं यथा स्यात् तथा, आहेति शेषः। (- ‘मन्युः पुमान् क्रुधि। दैन्ये शोके च यज्ञे च’ इति मेदिनी, ‘मदस्मदपीडाद्यैर्वैस्वर्य्य गद्गदं विदुः’ इति दर्पणः)। आर्य्यपुत्रेति। - आर्य्यपुत्र -स्वामिन्। एतद्वचनं- ‘हा प्रिये जानकि’ इति सस्नेहसम्भाषणम्। अस्य वृत्तान्तस्य-अनले परीक्षितविशुद्धभावाया अपि पौरजनापवादान्निर्व्वासितां प्रति कठोरमामन्त्रणमेवोचितं, न तु ‘प्रिये’ इत्यनुराजातिरेकसूचकमिति भावः। सुचिरं रक्षोगृहवासेऽपि लेशतोऽपि नाविश्वस्तोऽयमार्य्यपुत्रो मयि निरतिशयमनुरक्तोऽपि केवलं राजधर्म्म इति प्रजानुरञ्जनार्थं कथमपि मां विवासितवानिति समुपयुज्यते नायमनुयोगः इति पक्षान्तरमाह, अथवेति। -अथवा-पक्षान्तरे। वज्रमयीं-वज्रनिर्मितां, वज्रसदृशकठिनामित्यर्थः, अन्यथा कथं निर्वासनानन्तरमपि न मृतास्मीति भावः। जन्मान्तरेष्वपि-परजन्मस्वपि। पुनरसम्भावितेति। -पुनरसम्भावितम् अनाशंसितं दुर्लभं दर्शनं रामदर्शनं यस्याः तां तथोक्तेः ; अस्मिंस्तु जन्मनि चिराय निर्व्वासिताया अपि भागीरथोवरप्रभावाद् अदृश्यतया भाग्यात् सान्निध्येऽपि अदर्शनं जातमिति जन्मान्तरे तत्सम्भावनं सुतरामसम्भवीति भावः। मन्दभागिनीं-पतिविवासिततया सौभाग्यविरहिताम्। ममेव-सीतामेव, न त्वन्यामित्यर्थः, जानकीति नामतः आमन्त्रणादिति भावः। उद्दिश्य-लक्ष्यीकृत्य। वत्सलस्य-स्नेहवतः। एवंवादिनः,- ‘प्रिये जानकि’ इत्यादिवचनेन शोकं कुर्व्वत इत्यर्थः। निरनुक्रोशा-निर्दया, कठोरेति यावत् ; न मयैवमिदानीं वक्तव्यमिति भावः। ( ‘कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथोहसः’ इत्यमरः) (अत्र ‘अनुक्रोश’ -शब्देन ‘मद्वियोगातिदूनस्यार्य्यपुत्रस्य ईदृशीमतिदुःसहामवस्थामवलोक्य मया मुक्तकण्ठं रोदितव्यं तत् किमहमेवं कठोरा भवामि ‘इति व्यज्यते, अनुक्रोशपर्य्यायकथनावसरे अनुक्रोश शब्दस्य ‘अनुक्रोशति मुक्तकण्ठं रोदित्यनेन इति अनुक्रोशः’ इत्यमरव्याख्यादर्शनात्। ‘अथवा किमिति वज्रमयी जन्मान्तरेष्वपि पुनरसम्भावितदुर्लभदर्शनस्य’ इत्यपि पाठः क्वचित् दृश्यते, तदर्थस्तु-वज्रमयी-निरतिशयकठिनहृदयाऽपि अहं, ‘निर्रनुक्राशा भविष्यामि’ इति परेण अन्वयः। असम्भावितदुर्लभदर्शनस्येति- ‘आर्य्यपुत्रस्य’ इत्यस्य विशेषणं, अस्यार्थस्तु स्पष्ट एव)।
रामः। (सर्वतो विलिख्य सनिर्वेदसम्) हा न कावित् अत्र (ध) (ध) सर्वतः इति। -सर्वतः,-सर्वासु दिक्षु। सनिर्वेदं-निर्वेदःस्वावमानना, तेन सह वर्त्तमानं यथा स्यात् तथा, आहेति शेषः ;-निर्वेदः नैराश्यं तेन सहितमिति वा तदर्थः। (तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमानना’ इति दर्पणः) सीतामुद्दिश्य वृथा विलप्य परितोऽन्विष्य च अनधिगततया इयमात्मावज्ञारामस्येति बोध्यम्। न काचिदिति-यतोऽत्र कोऽपि जनो नास्ति, सुतरां कुतः सीतासत्तासम्भव इति तात्पर्य्यार्थः।
सीता। भअबदि तमसे तहा णिक्कारणपरिच्चाइणो बि एदस्म एदिणा एबम्बिधेण दंसणेण कीदिसो मे हिअआणुबन्धोत्ति ण आणामि ण आणामि। (न) तमसा। जानामि वत्से जानामि। - तटस्थं नैराश्यादपि च कलुषं विप्रियवशात् वियोगे दीर्घेऽस्मिन् झटिति घटनोत्तम्भितमिव।
प्रसन्नं सौजन्यादपि तु करुणैर्गाढकरुणं द्रवीभूतं प्रेम्णा तव हृदयमस्मिन् क्षण इव॥१३॥

भगवति तमसे तथा निष्कारणपरित्यागिनोऽप्येतस्य एतेन एवंविधेन दर्शनेन कीदृशो मे हृदयानिबन्ध इति न जानामि न जानामि।
(न) भगवतीति। -तथा-अग्निपरीक्षया मदीयविशुद्धताज्ञाने सत्यपीत्यर्थः। निष्कारणपरित्याग्नोऽपि-न्याय्यं कञ्चिन्निर्वासनहेतुमन्तरेणैव मां निर्वासितवतोऽपि। एतस्य-आर्य्यपुत्रस्य। एतेन-परिदृश्यमानेन। एवंविधेन-मद्वियोगकातरताव्यञ्जकेनेत्यर्थः। हृदयानुबन्धः,-हृदयस्य मनसः अनुबन्धः अवस्थाविशेषः, मनोवृत्तिरिति यावत्। न जानामि-निश्चयेन अवगन्तमर्हामीत्यर्थः, न जानामि न जानामीति द्विर्वचनं दीनतातिरेकसूचकं, दैन्ये द्विरुक्तिस्तु न दोषाय इति बोध्यम् ; ममान्तर्य्यामितया अनलपरीक्षया च विदित्वाप्यतिविशुद्धभावं मे चरित्रस्य, केवलं प्रजानुरञ्जजार्थं चिराय मे निर्जनारण्यवासो व्यवस्थापित इति सत्यपि प्रभूततरे विरागहेतौ सम्प्रत्येवमिमं मामकशोककातरमवलोक्यातिदूनास्मि संवृत्तेति भावः। दुःसहविरहकातरं प्रियतममवलोक्यातिदूनाया अप्यनिर्व्वचनीयमनोभावं वचसा विवरीतुमक्षमाया जनकतनयायाः तदानीन्तनीमवस्थां तत्त्वतः पर्य्यालोच्य सम्प्रति तामेव विवृण्वन्त्याह, तटस्थमिति। -तव हृदयं मनः, नैराश्यात् पुनः समागमसम्भावनाविरहात्, तटस्थमुदासीनम्, ( एतेन ‘तान्येव चिरपरिचितान्यक्षराणि पञ्चवटीदर्शनेन मां मन्दभागिनीम् अनुरुन्धन्दि’ इति वाक्येनाभिमता सीताऽवस्था प्रतिपादिता ) ; अपि च किञ्च, विप्रयवशात् निष्कारणनिर्वासनरूपाप्रियकार्य्यवशात् कलषं मलिनं कोपाकलम् इति यावत्, (अनेन ‘असदृशं खल्वेतद्वचनम् अस्य वृत्तान्तस्य’ इत्यनेनाभिमता ) दीर्घे दीर्घकालव्यापिनि, अस्मिन् वियोगे विरहे, झटिति अकस्मात्, घटनया मिलनेन असम्भावितसन्दर्शनेन स्तम्भे यावत्, उत्तम्भितमिव स्तब्धप्रायं, सातिशयविस्मयवशात् किं कर्त्तव्यविमूढमिवेति यावत्, ( अत्र ‘उदः स्थास्तम्भोः पूर्वस्य’ (८। ४। ६१ पा०) इत्यनेन स्तम्भे सकारलोपः। अत्र ‘झटितिघटनात् स्तम्भितमिव’ इत्यपि क्वचित् पाठः। झटितिघटनात् आकस्मिक सङ्घटनात्, स्तम्भितमिव विस्मयस्तिमितमिव इति तदर्थः। ( एतेन ‘प्रभातचन्द्रमण्डलापाण्डरेत्यादिना विवक्षितावस्था प्रतिपादिता) ; सौजन्यात् सुजनताज्ञापनात्, स्नेहानुरागव्यञ्जकवाक्यादिना रामस्य निर्देषत्वावगमादित्यर्थः, प्रसन्नं प्रीतम्, ( अनेन ‘अथवा किमिति वज्रमयीं जन्मान्तरेष्वपि पुनरसम्भावितदुर्लभदर्शनाम्’ इत्यादिनाऽभिहितावस्था दर्शिता) अपि तु तथा, करुणैः शोकव्यञ्जकैः रामस्य वाक् चेष्टितादिभिः, गाढः घनीभूतः करुणः शोको यस्य यस्मिन् वा तत् तथोक्तम्,अत एव अस्मिन् क्षणे अधुना, प्रेम्णा दयितं प्रतिप्रीत्या, द्रवीभृतमिव द्रवत्वमाप्तमिव, अवशमिवेत्यर्थः, जातमिति शेषः ; निष्कारणनिर्वासनादप्रसन्नमपि ते हृदयं सम्प्रति त्वन्नामग्रहणपुरःसरमस्य सकरुणपरिदेवनमाकर्ण्य पुनःप्रसन्नं सद्विगलितमिवेति भावः। ( अत्र प्रथमपादे एकस्मिन्नेव हृदयधर्म्मिणि औदासीन्य-कालुष्यरूपविरुद्धपदार्थद्वयसमावेशाद्विरोधालङ्कारः स च कालविशेषमन्तर्भाव्य समाधातं शक्यते ; तथा द्वितीये चतुर्थे च पादे क्रियोत्प्रेक्षाद्वयं, तच्च भावाभिमानि, इवशब्दोत्थार्पिततया च वाच्यमिति सुधीभिर्विभाव्यम् )। शिखरिणी वृत्तं, तल्लक्षणं यथा- ‘रसै रुद्रैश्छिन्ना यमनसभलागः शिखरिणी’ इति॥१३॥

रामः। देवि- प्रसाद इव मूर्तस्ते स्पर्शः स्नेहार्द्रिशीतलः।
अद्याप्यानन्दयति मां त्वं पुनः क्वासि नन्दिनि ॥१४॥

पूर्व्वं नियतमनुभूततयाऽतिचिरपरिचितोऽयं जानकीकरस्पर्शो यदि च वैजात्यवशेन सीतास्तित्वमिह प्रमापयति, तदपि परितोऽन्विष्य तामलभमानो रामचन्द्रो विलपति, प्रसाद इति। -स्नेहेन स्नेहरसेन आर्द्रः सिक्तः अत एव शीतलः सन्तापहारक इत्यर्थः, ते स्पर्शः मूर्त्ते मूर्त्तिमान् प्रसाद इव अनुग्रह इव, साकारा प्रसन्नता इवेत्यर्थः, ( ‘मम नैष्ठुर्य्येऽपि अभग्नस्ते प्रणयः’ इति आदरातिशयात् प्रणयेऽपि प्रसादत्वोपचारः)। अद्यापि निर्वासनादिनिर्दयव्यवहारानन्तरमपि, यद्वा-अद्यापि स्पर्शाभावक्षणोऽपि, का कथा स्पर्शक्षणे ? इति भावः ; माम् आनन्दयति सुखयति। ( नन्दयति या सा नन्दिनी, ग्रहादित्वात् णिनिः ) हे नन्दिनि आनन्ददायिनि त्वं पुनः क्व कुत्र असि भवसि ? न दृश्यसे इति यावत्। ( अत्र प्रथमपादे प्रकृते स्पर्शेऽप्रकृतस्य मूर्त्तिमत्प्रसादस्य सम्भावनाद् भावाभिमानिनी वाच्योत्प्रोक्षानामलङ्कारः ; तथा कारणोऽप्ति केचित्। तल्लक्षणं यथा- ‘विभावना विना हेतुं कार्य्योत्पत्तिर्यदुच्यते’ इति )। अनुष्टुप् वृत्तम्॥१४॥

सीता। एदे दे अगाधदंसिदसिणेहसाम्भारा आणन्दणिस्सन्दिणो सुदा मए अज्जउत्तस्स उल्लाबा; जाणं पच्चएण णिक्कारणपरिच्चाअसल्लिदो बि बहुमदो मे जम्मलाहो। (प) एते ते अगाधदर्शितस्नेहसम्भारा आनन्दनिष्यन्दिनः श्रुता मया आर्यपुत्रस्य उल्लापाः; येषां प्रत्ययेन निष्कारणपरित्यागशल्यितोऽपि बहुमतो मे जन्मलाभः।
(प) मयि अदृश्यमानायामपि सुचिरोपभोगसम्भूतसंस्कारवशात् करस्पर्शमिमं मदीयमिति निश्चित्य मन्नामोल्लेखपूर्व्वं बहुविलपन्नसावार्य्यपुत्रः परितो मामन्विष्यतीत्यालोचनयाऽनया जनकतनया निष्कारणनिर्वासिताऽप्यात्मप्रसादमधिकतरमुपलभमाना दुःखाकरमपि जीवनं सार्थकं मन्यमाना आह, एत इति। -एते-श्रूयमाणाः। ते-पूर्व्वपरिचिताः। अगाधेत्यादि। -अगाधमधिकं यथा स्यात् तथा दर्शितः स्नेहसम्भारः प्रणयातिशय्यं येषु ते तथोक्ताः प्रकटितामितप्रणयातिरेका इति यावत्। आनन्दनिष्यन्दिनः,-परमानन्दजनकाः। उल्लापाः,-उच्चैर्विलापाः। येषाम्-उल्लापानाम्। प्रत्ययेन-श्रावणेन अनुभवेन। निष्कारणेत्यादि। -निष्कारणम् ओतुकं यः परित्यागी निर्वासनं स एव शल्यं शङ्कः तज्जातमस्य इति स तथोक्तः, ( अत्र रूपकमलङ्कारः) अकारणनिर्वासनजनितकलङ्कपङ्किलतया निखातकीलक इव दुःसहक्लेशबहुल इत्यर्थः। (शल्यित इत्यत्र ‘तदस्य सञ्जातं तारकादिभ्य इतच्’ (५। २। ३६ पा०) इति इतच्प्रत्ययः)। बहुमतः-श्लाघ्यः; सम्प्रति सकरुणमेवं विलपन्तमार्य्यपुत्रमवलोक-यन्त्यकारणपरित्यागिनोऽपि तस्य निर्द्दोषतामवगत्य जीवनं बहुमन्ये इति भावः।
रामः। अथवा कुतः पुनः प्रियतमा; नूनं सङ्कल्पाभ्यासपाटवोपादान एष रामस्य भ्रमः। (फ) (नेपथ्ये। प्रमादः प्रमादः। ‘सीतादेव्याः स्वकरकलितैः’ इत्यर्थं पठ्यते) रामः। (सकरुणौत्सुक्यम्) किं तस्य ? (फ) हिंस्रश्वापदशङ्कुलेऽतिभीषणे वने निर्वासितायाः सीतायाः एतावता कालेन मरणस्यैवावश्यम्भावितया तस्याः कुतः पुनरिहसमागमसम्भव इति समुपजातविवेको जानकीजीवनः पुनराह, अथवेति। -कुतः,-कस्मात्कारणात्। पुनः-भूयः, सुचिरवनवासेन तस्याः मरणस्यैव अवश्यम्भावादिति भावः। प्रियतमा-प्रेमपत्नी सीता, सम्भवेदिति शेषः। तत्समागमासम्भवे कथं तर्हि तत्पाणिस्पर्शोऽनुभूतः? इत्याह-नूनमिति। सङ्कल्पेत्यादि। -सङ्कल्पानां ‘सीता मामाह्वयति, मयि सानुरागा प्रियं वक्ति’ इत्यादिरूपमानसव्यापाराणां ( ‘सङ्कल्पः कर्म्ममानसम् ‘इत्यमरः) अभ्यासेन पौनःपुन्येन यत् पाटवं नैपुण्यं तदेव उपादानम् उत्पत्तिकारणं यस्य सः तथोक्तः। एषः,-अस्य स्पर्शस्य सीतासम्बन्धित्वेन अनुभवः। भ्रमः,-भ्रान्तिः ; यथा जाग्रदवस्थायां नियतमनुभूयमानोऽर्थः सुप्तिदशायामुत्स्वप्नायमानस्याविकलमेव पुनरनुभूयमानत्वेन स्फुरति, तथा सङ्गतावस्थायां जानकीकृततत्तद्व्यवहाराणामिदानीमाभीक्ष्णेन सङ्कल्पनादतदीयेऽपि अस्मिन् स्पर्शे मम तदीयत्वभ्रमः समुत्पन्न इति भावः। ( अत्र रामस्य स्वोक्तावधि ‘रामस्य’ इति नामतः कथनात् सर्वज्ञत्वादिसकलगुर्णगणनिलयोऽप्यहं सम्प्रति सुदुःसहविरहतापात् प्राकृत इव भ्रमान्धो जात इति वस्तु व्यज्यते )।
(पुनर्नेपथ्ये। ‘बध्वा सार्ध्दम्’ इत्युत्तरार्धं पठ्यते) सीता। को दाणीं अहिउज्जिस्मादि ? (ब) क इदानीमभियोक्ष्यते ? (ब) क इति। -इदानीं-ईदृङि्नःसहायदशायामित्यर्थः। अभियोक्ष्यते-मया पुत्रत्वेन पोषितस्य करिकरभकस्य साहाय्यार्थं कस्तं करिराजं अभियास्यतीत्यर्थः ; इदानीमसहाया भवामीति बलवता पीड्यमानं तं परिरक्षितुमसमर्थास्मीति मे महद्दुःखमिति भावः।
रामः। क्वासौ क्वासौ दुरात्मा यः प्रियायाः पुत्रकं बधद्वितीयमभिभवति ? (इति उत्तिष्ठति) (भ) (प्रविश्य सम्भ्रान्ता वासन्ती) कथं देवो रघुनन्दनः ? (म) सीता। कहं पिअसही मे बासन्दी ? वासन्ती। जयति जयति देवः।
रामः। (निष्क्रम्य) कथं देव्याः प्रियसखी वासन्ती ? वासन्ती। देव त्वर्य्यतां त्वर्यताम् इतो जटायुगिरिशिखरस्य दक्षिणेन सीतातीर्थेन गोदावरीमवतीर्य सम्भावयतु (य) देव्याः पुत्रकं देवः।
कथं प्रियसखी मेवासन्ती ? (भ) क्वेति। -असौ-प्रियापुत्रक्ताभिभावकः। दुरात्मा-दुष्टस्वभावः, ( ‘आत्मा यत्नो दृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च’ इत्यमरः)। क्व-कुत्र, वर्त्तते इति शेषः। ( अत्र ‘क्वासौ क्वासौ’ इति द्विरुक्तिः,- ‘विवादे विस्मये हर्षे खेदे दैन्यावधारणे। प्रसादने सम्भ्रमे च द्विस्त्रिरुक्तिर्न दुष्यति॥ ‘इति नियमान्न दोषाय)। प्रियायाः ,-मम प्रणयिन्याः जनकनन्दिन्याः। पुत्रक-कृत्रिमं पुत्रम्। ( अत्र ‘इवे प्रतिकृतौ’ (५। ३। ९६ पा०) इति कन् प्रत्ययः। एतेन तस्मिन् स्नेहातिशय्येनावश्यरक्षणीयत्वं सूचितम् )। वधूर्द्वितीयं-वधूर्जाया द्वितीया सहचरी यस्य स तथोक्तम्, प्रियया करेणकया समं विहरन्तमिति यावत्। अभिभवति-आक्रम्य पराजयते ; नूनमिदानीमेव अहं यथोचितप्रतिविधानेन तं शिक्षयामीति भावः। उत्तिष्ठति-एतस्य प्रतिविधानाय सत्वरम् आसनादुद्गच्छतीत्यर्थः। ( ‘उदोऽनूर्ध्वकर्म्मणि’ (१। ३। २४ पा०) इत्यनेन उत्पूर्वकतिष्ठतेरनूर्ध्वचेष्टायामेव आत्मनेपदविधानात्, अत्र च ऊर्द्ध्वगमनार्थकत्वान्नात्मनेपदमिति बोध्यम् )।
(म) सम्भ्रान्तेति। -बलवतो द्विरदपतेराक्रमणात् प्रियसहचर्य्याः सीतायाः पुत्रकं रक्षयितुं कस्याचिद्रक्षकस्यान्वेषणाय अतिशयव्यग्रचित्ता इति यावत्। ( अत्र कथमिति विस्मयबोधकमव्ययम्; ) तथाच साम्प्रतमीदृगापद्दशायां निःसंशयं विपत्प्रतीकारक्षमः कथमप्यसम्भावितदर्शनो रघुनन्दन एवं दृश्यते इति महान् विस्मयहेतुरिति तात्पर्य्यार्थः।
सीता। हा ताद जटाओ सुणं तुए बिण जणट्ठाणम् (र) रामः। अहह हृदयमर्मच्छिदः खलु अमी कथोद्धाताः (ल) हा तात जटायो शुन्यं त्वया विना जनस्थानम् (य) देवेति। -त्वर्य्यतां-त्वरया गम्यतामित्यर्थः, (अत्रापि सम्भ्रमे द्विर्वचनम्) अन्यथा कालातिपाते विपदापातसम्भव इति भावः। सत्वरेण मया क्व गन्तव्यं किं वा कर्त्तव्यमित्याकाङ्क्षायामाह, इत इति। -अस्मात् स्थानात्। जटायिु्गरिशिखरस्य-जटायुना तन्नामकेन गृध्रराजेन अध्युषितो गिरिरिति जटायुगिरिः , (शाकपार्थिवादित्वात् उत्तरपदलोपी समासः) तस्य शिखरं शृङ्गं तस्य (जटायुना अध्युषितत्वात् पर्व्वतस्यास्य ‘जटायुगिरिः’ इति सञ्ज्ञा बोध्या ) ( ‘एनपा द्वितीया’ (२। ३। ३१ पा०) अत्र एनपेति योगविभागात् षष्ठी)। दक्षिणेन-दक्षिणास्यां दिशि इत्यर्थः, स्थितेन इति शेषः। सीतातीर्थेन-सीतायास्तीर्थं जलावतारः घट्टप्रदेशः तेन, सीता येन घट्टेन प्रत्यहं गोदावरीमवतरति स्म तेन घट्टेन इत्यर्थः। ( ‘तीर्थं योनौ जलावतारे च’ इति विश्वः। ) गोदावरीं-तन्नाम्नीं नदीम्। अवतीर्य्य-अवरुह्य, प्रविश्येत्यर्थः। सम्भावयतु-रक्षतु, बलवतः आक्रमणात् परित्राणेन अनुगृह्णातु इत्यर्थः। देव्याः,-जनकनन्दिन्याः। पुत्रकं-कृतकतनयं, करिकरभकमिति यावत्। देवः,-भवान्। ( अत्र ‘जटायुगिरिशिखरस्य दक्षिणेन’ इत्यत्र- ‘जटायुगिरिशिखरस्य हस्तदक्षिणेन’ इति ‘जटायुगिरिदक्षिणेन इति च पाठान्तरद्वयं वर्त्तते। आद्ये,-जटायुगिरिशिखरस्य-जटायुपर्व्वतशृङ्गस्य, हस्तदक्षिणेन-दक्षिणहस्तदेशस्थितेन इत्यर्थः। अन्तिमे तु सुस्पष्ट एवार्थः )।
(र) वासन्तीवाक्ये जटायुगिरिशब्दश्रवणात् समुद्बोधितपूर्व्वस्मृतिः सीता विलपन्ती आह, हा तातेति। -तात-मान्य श्वसुरसुहृत्वेन जटायुषः तातेति सम्बोधनम्। शून्यं-शून्यवत् प्रतीयमानम्, अनाथमिति यावत्।
(ल) हृदयेत्यादि। -हृदयस्य अन्तःकरणस्य मर्म्माणि जीवनस्थानानि क्विन्दन्ति ये ते तथोक्ताः तत्तत्पूर्व्वचरितघटिततया निरतिशयहृदयविदारका इति यावत्। कथोद्घाताः,-कथानां पूर्ववृत्तान्तघटितानां जटायुगिरिगोदावरीसीतातीर्थप्रभृतीनां वचनानाम् उद्घाता आरम्भाः, उच्चारणानि इति यावत्, ( ‘स्यादभ्यादानमुद्घात आरम्भः’ इत्यमरः)। विपन्नां सीतामुद्धर्तुं जटायुषः प्राणपातः, तथा सीताहरणम् एवमादयः पूर्व्ववृत्तान्ताः सम्प्रति त्वदीयवाक्यसमुद्बोधिताः सन्तः मदीयं मर्म्म विदारयन्तीति भावः।
वासन्ती। इत इतो देवः।
सीता। भअबदि सच्चअं एब्ब बणदेबदा बि मं ण पेक्खदि ? (व) तमसा। अयि वत्से सर्वदेवताभ्यः प्रकृष्टमैश्वर्यं भागीरथीदेव्याः तत् किमाशङ्कसे ? (श) भगवति सत्यमेव वनदेवतापि मां न प्रेक्षते ? (व) पुर्व्वं रामदर्शनभीता सीता तमसया ‘भागीरथीवरप्रभावाद्वनदेवतानामप्यदृश्या संवृत्ताऽसि’ इत्येवमाश्वासिता कार्य्यतश्च स्वस्य मर्त्यानामदृश्यतां परीक्षितवती, सम्प्रति तु दैवशक्तिसम्पन्नानां वासन्तीप्रभृतिवनदेवतानामपि अदृश्यतायां सन्दिग्धा पृच्छति, भगवतीति। -वनदेवता-वासन्तीप्रभृतिः वनाधिष्ठात्री देवी। सत्यमेव-यथार्थं किं , नो चेत् तदास्माकमेतयोरनुसरणं न युज्यते इति भावः।
(श) अयीति। -सर्व्वदेवताभ्यः,-सकलाभ्यो देवीभ्यः। ( अत्र ‘पञ्चमी विभक्ते’ (२। ३। ४२ पा०) इति सूत्रेण निर्द्धार्य्यमाणभेदे पञ्चमी )। प्रकृष्टं-प्राप्तप्रकर्षं प्रबलमिति यावत्। ऐश्वर्य्यं-अणिमाद्यष्टसिद्धिः, निखिलदेवताभ्यः प्रकृष्टशक्तिमत्याः भागीरथ्याः वरप्रभावेण तवादृश्यता जातेति साधारणदैवशक्तिर्मतीनां वासन्त्यादिवनदेवतानामदर्शनीयतायामसंशयं विजहीहि संशयमिति भावः। अणिमाद्यैश्वर्य्यं यथा- ‘अणिमा लघिमा प्राप्तिः प्रकाम्यं महिमा तथा।
ईशित्वञ्च वशित्वञ्च तथा कामावसायिता॥ ‘इति।
अत्र ‘अणीमा-अणुभावः, यतः शिलामपि प्रविशति। लघिमा-लघुभावः, यतः सूर्य्यमरीचीनवलम्ब्य सूर्य्यलोकं याति। प्राप्तिः,-अङ्गुल्यग्रेण स्पृशति चन्द्रम्। प्राकाम्यम्-इच्छानभिघातः, यतो भूमावुन्मज्जति निमज्जति-यथोदके। महिमा-महतो भावः, यतो महान् भवति। ईशित्वं-यतः भूतभौतिकानां प्रभवस्थितिमीष्टे। वशित्वं-यतः भुतभौतिकं वशीभवत्यवश्यम्। यच्च कामावसायित्वं सा सत्यसङ्कल्पता, यथाऽस्य सङ्कल्पो भवति भूतेषु, तथैव भूतानि भवन्ति। ‘इति तत्त्वकौमुद्यां अहो ईदृश एष संवृत्तः वाचस्पतिमिश्रलेखः। प्रकृते तु कामावसायुत्वरूपैश्वर्य्यप्रभावेण सीताया अदृश्यत्वं सम्पादितमिति बोध्यम्।
सीता। तदो अणुसरह्म। (ष) (इति परिक्रामतः) रामः। (परिक्रम्य) भगवति गोदावरि नमस्ते।
वासन्ती। (निरूप्य) देव देव मोदस्व विजयिना बधूद्वितीयेन देव्याः पुत्रकेण। (स) रामः। विजयतामायुष्मान्।
सीता। अह्महे ईदिसो सो सम्बुत्तो ’ (ह) रामः। देवि दिष्ट्या वर्धसे। (क)- ततोऽनुसरामः।
(ष) तत इति। -यतः सत्यमेवाहं वासन्त्या अप्यदर्शनीया संवृत्ताऽस्मि तत इतर्थः। अनुसरामः,-पश्चात् यामः, आर्य्यपुत्रवासन्त्योरिति शेषः। परिक्रामतः,-परिभ्राम्यतः, सीतातमसे इति शेषः।
(स) निरूप्येति। -विशेषतोऽवलोक्य। ( ‘देव देव’ इति हर्षे द्विरुक्तिः,) ‘विवादे विस्मये हर्षे’ इत्यादिनियमात्। मोदस्व-प्रहृष्य, मनो विनोदयेत्यर्थः। विजयिना-उन्मदद्विरदविजयकारिणा। यस्य पराभवमाशङ्कमानानामस्माकमेतावान् प्रयासः, सोऽयं कालेनातिबलः स्वयमेव दुर्द्दान्तद्विरदराजं विजित्य पयसि प्रियया समं विहरतीति पश्यन् प्रीणात्विति भावः।
(ह) अहो इति। -( अहो इत्याश्चर्य्यबोधकमव्ययम् )। एषः, दृश्यमानः, मया पुत्रत्वेन परिपोषितः करिकरभक इति यावत्। ईदृशः,-उन्मदद्विरदविजयसमर्थः प्रबलबलशाली। संवृत्तः,-जातः। इयताल्पकालेन मम कृतकतनयोऽसौ करिशावकः एवं बलीयान् जात इति महदाश्चर्य्यमिति भावः।
(क) देवीति। -एतत्तु सीतामुद्दिश्य सम्बोधनम्। दिष्ट्या-भाग्येनेत्यर्थः, ( तृतीयान्तप्रतिरूपकमव्ययमिदम्)। वर्द्धसे-वृद्धि नीताऽसि, भाग्येनैव तवायं कृतकतनयः आनन्दवर्द्धनो जात इति भावः। सहसा सीतापुत्रकाभिभवश्रवणकातरो रघुवरः कृतत्वरस्तदन्तिकमुपेतस्तं स्वबलावलेपाद् दारुणवारणराजविजयिनं विल्यातिप्रीतस्तदानीन्तनतदवस्थोपवर्णनमुखेन सीतायाः सौभाग्यहेतुमुपदर्शयन्नाह, येनेति। - हे सुतनु सुन्दरि ( सु शोभना तनूर्यस्याः सा सुतनूः, तत् सम्बुद्धौ। ‘अम्भार्थनद्योर्ह्रस्वः’ (७। ३। १०७ पा०) इति ह्रस्वः)। ( ‘स्त्रियां मूर्त्तिस्तनुस्तनूः’ इत्यमरः)। उद्गच्छत् उत्तिष्ठत्, नवोद्भिन्नमित्यर्थः, यत् विसकिसलयं मृणालपल्लवं, मृणालाग्रमिति यावत्, तदिव स्निग्धः कोमलः दन्ताङ्कुरः अचिरोद्गतदन्तः यस्य तेन तथोक्तेन, येन करिशावकेनेत्यर्थः, ते तव कर्णपूरात् कर्णाभरणात् लवलीपल्लवनिर्मितादित्यर्थः, ( कर्णमूलादिति पाठे तु श्रवणमूलभागादित्यर्थः ) लवलीपल्लवः लवलीवृक्षविशेषः ( ‘नोयाड’ इति भाषा) तस्याः पल्लवः किसलयं कर्णावतंसीकृत इति यावत्, व्याकृष्टः करेण आकृष्य गृहीतः। मदमुचां मदस्राविणां, मत्तानामित्यर्थः, वारणानां हस्तिनां विजेता परिभावकः, सोऽयं तव पुत्रः पुत्रीकृतः स करिशावक इत्यर्थः, तरुणे वयसि यौवने यत् कल्याणं मङ्गलम् अतिशयितबलशौर्य्यादिकं तस्य भाजनं पात्रं जातः।
येनोद्गच्छद्विमसकिसलयस्निग्धदन्ताङ्कुरेषु व्याकृष्टस्ते सुतनु लवलीपल्लवः कर्णपूरात्।
सोयं पुत्रस्तव मदमुचां वारणानां विजेत यत् कल्याणम वयसि तरुणे भाजनं तस्य जातः॥१५॥

( ‘उद्देश्यमस्मदीयारण्यवासदशायां योऽयमतिकिशोरवया स्त्वया तनयीकृतः करिशावकः स्निग्धकोमलकिसलयादानप्रदानेनाविरतं क्रीडितः, सम्प्रत्यतावताल्पीयसा कालेन तमिमं मत्तमातङ्गभङ्गक्षम बलीयसामुत्तमं समं प्रियतमया विहरन्तमालोक्य त्वदीयभाग्यवत्तामेव सम्भावयामीति भावः। (अत्र शैशवेऽपि तरुणवयःसमुचितकल्याणोत्पत्तिरूपचतुर्थपादार्थं प्रति मदमुग्वारणविजेतृत्वरूपतृतीयपादगतवाक्यार्थस्य हेतुविधयोपन्यासात् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः, तथा ‘उद्गच्छद्विसकिसलय’ इत्यादौ लुप्तोपमा चेत्यनयोरङ्गाङ्गिभावेन सङ्करः)। मन्दाक्रन्ता वृत्तम्॥१५॥

सीता। अबिउत्तो दाणीं अअ दीहाऊ इमाए सोम्मदंसणाए होदु। (ख) रामः। सखि वासन्ति पश्य पश्य कान्तानुवृत्तिचातुर्यमपि शिक्षितं वत्सेन। (ग)- लीलोत्खातमृणालकाण्डकवलच्छेदेषु सम्पादिताः पुष्पवत्पुष्करवासितस्य पयसो गण्डूषसङ्क्रान्तयः।
अवियुक्त इदानीमयं दीर्घायुरनया सौम्यदर्शनया भवतु।
सेकः शिकरिणा करेण विहितः कामं विरामे पुन- र्यत् स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम्॥१६॥

(ख) स्वसुतहिताभिलाषिणी विजनवनवासिनी जनकराजनन्दिनी सुचिरमनुभवन्ती अतिदारुणां प्रियविरहवेदनां, स्वयमवलोकयन्ती चातिविषमां दशां जीवितनाथस्य, जगतीह विरहमेव दम्पत्योः सर्वतोऽधिकतया क्लेशदं मन्यमाना एतयोर्भाविविरहशङ्काऽऽतङ्किता सत्स्वप्यनेकविधेष्वाशीर्वचनेषु अनयोरन्योऽन्यमविच्छेदमेव चिराय कामयमाना आह, अवियुक्त इति। -मिलित इत्यर्थः। अयं-दृश्यमानः, प्रियया समं पयसि विहरन्नित्यर्थः। दीर्घायुः,-चिरजीवी मम पुत्रक इति शेषः। अनया-पुरोवर्त्तिन्या। सौम्यदर्शनया-कमनीयकृत्या सुदर्शनया इति यावत्।
(ग) कान्तानुवृत्तिचातुर्य्यमिति। -कान्तायाः प्रियायाः करेणुकायाः अनुवृत्तौ चित्तानुरञ्जने चातुर्य्यं चतुरता, नैपुण्यमिति यावत् ; (अत्र ‘पश्य पश्य’ इति विस्मये द्विर्वचनम् ) न केवलं शिशुरयं शक्तिमत्तया तरुणोचितमाचरति, अपि तु कान्तानुवर्त्तननिपुणतयाऽपीति भावः।
प्रियतमया करेणुकया समं सलिलविहारसुखमनुभवन्तममुं करिशावकमालोक्य यदिदमुक्तम् ‘कान्तानुवृत्तिचातुर्य्यम्’ इत्यादि, सम्प्रति तदेव तत्कार्य्येण समर्थयन् सीतापतिराह, लीलोत्खातेति। -यत् यस्मात् हेतोः स्नेहात् अनुरागवशात्, प्रणयातिशय्यादित्यर्थः, लीलया क्रीडया, ओशेनेति यावत्, ( ‘काण्डः स्तम्बे तरुस्कन्धे वाणेऽवसरयोरपि’ इति मेदिनी ) तेषां ये कवलच्छेदा ग्रासर्थखण्डाः, करेणुकाया आस्याभ्यन्तरवर्त्तिनः मृणालखण्डा इति यावत्, तेषु (इति अधिकरणे सप्तमी) यद्वा,-लीलया उत्खाताः ये मृणालाकाण्डाः त एव कवलाः ग्रासाः तेषां छेदेषु अवसानेषु सत्सु ( इति भावे सप्तमी) ( ‘ग्रासस्तु कवलः पुमान्’ इत्यमरः) पुष्प्यद्भिः विकसद्भिः पुष्करैः पद्मैः, ( ‘विसप्रसून्राजीवपुष्कराम्भोरुहाणि च’ इत्यमरः) वासितस्य सुरभितस्य, पयसः जलस्य, गण्डूषाणां मुखपूरितांशानामित्यर्थः, ( ‘गण्डूषी मुखपूर्त्तीमपुष्करप्रसृतोन्मिते’ इति मेदिनी) सङ्क्रान्तयः सञ्चाराः सम्पादिताः कृताः। करेणुकया कवलीकृतेषु आस्याभ्यन्तरवर्त्तिषु मृणालदलखण्डेषु स्ववदनपरिपूरितं सलिलं प्रणयातिरेकात् वेगेन परितो विक्षिप्तमिति समुदितार्थः ; ( ‘पुष्प्यत्पुष्करवासितस्य’ इत्यत्र ‘पुष्यत्पुष्करवासितस्य’ इति पाठेऽपि स एवार्थः। तथा ‘सम्पादिताः’ इत्यत्र ‘सम्पातिताः’ इति पाठे-गण्डूषधाराः सम्पातिताः विक्षिप्ताः इत्यर्थः) तथा, शीकरिणा शीकराः जलकणाः सन्ति यस्मिन् तेन जलकणस्राविणेति यावत्, ( ‘शीकरोऽम्बुकणाः स्मृतः’ इत्यमरः) करेण शुण्डेन, ( ‘करो वर्षोपले रश्मौ पाणौ प्रत्ययशुण्डयोः ‘इति मेदिनी ) कामं पर्य्याप्तं यथा तथा सेकः सेचनं विहितः सम्पादितः; सलिलकेलिरतायाः करेणुकायाः सन्तापोपशान्तये तस्याः सर्व्वशरीरेषु शुण्डादण्डेन सलिलकणोविक्षिप्त इत्यर्थः ; ( ‘कामं प्रकामं पर्य्याप्त निकामेष्ट यथेसितम्’ इत्यमरः) विरामे पुनः सलिलसेकावसाने तु सेकानन्तरञ्जत्यर्थः, अनरालम् अवक्रं, सरलमिति यावत्, नालं मृणालं यस्य तादृशं यन्नलिनीपत्रं पद्मपत्रं तदेव आतपत्रम् आतपवारणं छत्रमित्यर्थः, ( ‘अरालं कुटिलं वक्रम्’ इत्यमरः) (आतपात् त्रायते यत् तत् आतपत्रम् (आतप’ त्रै-कः)) धृतं करिण्या आतपनिवारणार्थं मस्तकोपरि विततमित्यर्थः। ( अत्र स्वरूपतः करभदम्पत्योस्तदानीन्तनावस्थावर्णनात् स्वभावोक्तिरलङ्कारः, तथा नलिनीपत्रस्य आतपत्रस्वरूपतयोपवर्णनात् निरङ्गकेवलरूपकञ्चेत्यनोरङ्गाङ्गिभावेन सङ्करः। अत्र प्रियतमया करेणुकया समं करिशावकस्य तादृशसलिलविहारादिरूपसम्भोगविशेषोपवर्णनात्- ‘दर्शनस्पर्शनादीनि निषेवेते विलासिनौ। यत्रानुरक्तावन्योऽन्यं सम्भोगोऽयमुदाहृतः॥ ‘इत्युक्तलक्षणसम्भोगाख्याशृङ्गाररसः स्फुट एव; परन्तु- ‘मल्लीमतल्लीषु वनान्तरेषु वल्ल्यन्तरे वल्लभमाह्वयन्ती। चञ्चद्विपञ्चीकलनादभङ्गीसङ्गीतमङ्गीकुरुते स्म भृङ्गी॥ ‘इत्यादिदर्पणकृदुदाहरणवद् इह तस्य तिर्य्यग्गततया- ‘अनौचित्यप्रवृत्तत्वे आभासो रसभावयोः’ इति ‘प्रतिनायकनिष्ठत्वे तद्वदधमपात्रतिर्य्यगादिगते। शृङ्गारेऽनौचित्यं, रौद्रौ गुर्वादिगतकोपे॥ ‘इति च दर्पणकृल्लक्षणेन आभासमध्ये परिगणनात् अत्र सम्भोगशृङ्गाररसाभास एव न तु विशुद्धः शृङ्गाररस इति सुधीभिर्विभाव्यम्)। वृत्तं शार्दूलविक्रीडितम्॥१६॥

सीता। भअबदि तमसे अअं दाब ईदिसो जादो; देउण ण आणामि कुसलबा एत्तएण कालेण कीदिसा विअ होन्ति। (घ) तमसा। यादृशोऽयं तादृशौ तावपि। (ङ) सीता। ईदिसी अहं मन्दभाइणी; जाए ण केअलं णिरन्तरं अज्जउत्तबिरहो पुत्तबिरहो बि। ’ (च) भगवति तमसे अयं तावदीदृशो जातः; तौ पुनर्न जानामि कुशलवौ एतावता कालेन कीदृशौ इव भवतः।
’ ईदृशी अहं मन्दभागिनी; यस्या न केवलं निरन्तरमार्यपुत्रविरहः पुत्रविरहोऽपि।
(घ) भगवतीति। -अयं-मया पुत्रत्वेन पालितः इत्यर्थः। तावदिति-वाक्यालङ्कारे। ईदृशः,-युवकोचितशक्तिवृद्ध्यादियुक्तः। तौ-मत्पुत्रौ। पुनः,-किन्तु। एतावता-इयता, रावणकृतस्वहरणतद्वधोत्तरायोध्यागमनपुनर्वनवासादिसङ्घटनोचितेनेत्यर्थः। कालेन-समयेन, एभिर्वर्षैरिति यावत् ( अत्र ‘अपवर्गे तृतीया’ (२। ३। ६ पा०) इति तृतीया )। कीदृशी-तादृशशक्त्यादियुक्तौ तदयुक्तौ वा इत्यर्थः। ( अत्र- ‘पुनः तौ कुशलवौ एतावता कालेन कीदृशाविव भवतः इति न जानामि’ इति अन्वयः ; तथा च ‘तौ पुनः कुशलवौ’ इति वाक्यं ‘न जानामि’ इत्यनेन व्यवहितमपि प्रियपुत्रकदर्शन-कुशलव-स्मरणजनिताह्लादेन ससम्भ्रममुक्ततया न गर्भितपदतादोषमावहतीति विभाव्यम् )।
(ङ) यादृश इति। -अयं-परिदृश्यमानः करिशावकः। यादृशः,-तरुणोचितशक्तिवृद्ध्यादिसम्पन्नः। तौ-कुशलवौ। तादृशौ-एतत्सदृशशक्तिवृद्ध्यादिशालिनौ, भवतः इति शेषः। (अत्र करिशावकापेक्षया कुशलवयोः वयःकनिष्ठत्वेन समानशक्त्याद्यसम्भवेऽपि केवलं सीतामनस्तुष्टिसम्पादनाय साम्याभिधानं, न तु तत्त्वतः इति बोध्यम् )।
(च) ईदृशीति। -मन्दभागिनी-दुर्भाग्यशालिनी। निरन्तरं-नास्ति अन्तरं व्यवधानं यस्मिन् तत्, अविरतमित्यर्थः ( अत्र ‘क्रियाविशेषणानां कर्मत्वम्’ इति वार्त्तिकेन क्रियाविशेषणे द्वितीया ) आर्य्यपुत्रविरहः,-आर्य्यपुत्रस्य भर्तुः रामचन्द्रस्य विरहः विच्छेदः। पुत्रविरहोऽपि-पुत्रयोः कुशलवयोः विरहः विच्छेदोऽपीत्यर्थः। दुर्भाग्यवशादार्य्यपुत्रपरित्यक्ताऽपि अहं यदि पुत्रमुखदर्शनेन सुखमुपलभेय तदाऽपि मे काचित् सान्त्वना स्यात्, आजन्मनस्तदपि न मया लभ्यते इति मे महतीयं दुर्भाग्यपरम्परेति भावः।
तमसा। भवितव्यता इयमीदृशी। (छ) सीता। किं बा मए पसूदाए; जेण तादिसं बि मम पुत्तकाणं ईसिबिरलकोमलधवलदसणुज्जलकबोलं अणुबद्धमुद्धकाअलीबिहसिदं णिबद्धकाअसिहण्डअं अमलमुहपुण्डरीअजुअलं ण परिचुम्बिदं अज्जउत्तेण। (ज) किं वा मया प्रसूतया येन तादृशमपि मम पुत्रयोरीषद्विरलकोमलधवलदशनोज्वलकपोलमनुबद्धमुग्धकाकलीविहसितं निबद्धकाकशिखण्डकममलमुखपुण्डरीकयुगलं न परिचुम्बितमार्यपुत्रेण।
(छ) भवितव्यता- पदार्थानामवश्यम्भावित्वं, नियतिरिति यावत्, ( भवितव्यस्य भावः इति भवितव्यता, भवितव्यमिति तु ‘कृत्यल्युटो बहुलम्’ (३। ३। ११३ पा०) इति भवतेः कर्त्तरि तव्यप्रत्ययः )। इयं-त्वया इदानीमनुभूयमाना। ईदृशीं-एवंविधा, पतिपुत्राभ्यां सह चिरविरहकारिणीत्यर्थः। दुर्भाग्यादेव तवेयं दृर्द्दशा, न त्विच्छाकृतेति नानुशोचनीयमिति भावः।
(ज) पत्यौ पुत्त्रमुखचुम्बनादिना प्रीतिमापन्ने हि प्रसवस्य सार्थकता जायते, मम तु मन्दभागिन्याः प्रसवानन्तरं नावलोकितमप्यार्य्यपुत्रेण कदाचित् तादृशं सुतमुखकमलयुगलमिति व्यर्थ एव मे तनययुगलप्रसवक्लेशः इत्याशयवती जनकनन्दिनी सखेदमाह, किं वेति। -प्रसूतया-प्रसवकारिण्या ( अत्र प्रसूतं प्रसवः, (प्र’ सू’ भावे क्तः) तद्विद्यते यस्याः सा प्रसूता, ‘अर्श आदिभ्योऽच्’ (५। २। १२७ पा०) इति अच्प्रत्ययः ; अथवा-अकर्म्मकत्वविवक्षातः सूधतोरत्राकर्म्मकत्वात् ‘गत्यर्थाकर्म्मक- ‘(३। ४। ७२ पा०) इति कर्त्तरि क्तः)। मया-सीतया ( अत्र अलमर्थककिंशब्दयोगे तृतीया ; यद्वा,-गम्यामानसाधनक्रियापेक्षया करणत्वात् ‘गम्यमानापि क्रिया विभक्तौ प्रयोजिका’ (वा०) इति तृतीया )। येन-हेतुना। तादृशमपि-मयाऽनुभूतं निरतिशयरमणीयमपीत्यर्थः। मम पुत्रयोः,-मम तनययोः, कुशलवयोरिति यावत्। (अत्र ‘पुत्रकयोः’ इत्यपि क्वचित् पाठो दृश्यते, तदर्थस्तु-अनुकम्पितौ पुत्रौ इति पुत्रकौ तयोः ‘अनुकम्पायाम्’ (५। ३। ७६ पा०) इति कन्प्रत्ययः, स्नेहास्पदतनययोरित्यर्थः)। ईषद्विरलेत्यादि। -ईशद्विरला अनतिघनाः कोमलाः सुकुमाराः धवलाः श्वेताश्च ये दशनाः दन्ताः तैः उज्ज्वलौ कान्तिपूर्णौ कपोलौ गण्डौ यस्मिन् तत् तथोक्तम्, नातिसंश्लिष्टसुकुमारशुभ्ररदराजिदीप्यमानगण्दस्थलमित्यर्थः ; ( ‘रदना दशना दन्ताः’ इत्यमरः ) (अत्र स्वभावतः सुन्दरयोः कपोलयोः प्रकृत्या रक्तत्वेऽपि धवलदशनोज्ज्वलप्रभाभिरापादितश्वेतिप्ततया स्वकीयरक्तिमगुणत्यागेन अन्यदीयोज्ज्वलधवलिमग्रहणात् तद्गुणालङ्कारः,- ‘तद्गुणः स्वगुणत्यागादत्युत्कृष्टगुणग्रहः’ इति तल्लक्षणात् )। अनुबद्धेत्यादि। -अनुबद्धे नियते मुग्धे मनोहरे काकलीविहसिते काकली मृदुमधुरास्फुटशब्दः ( कु ईषत् कलः इति काकली ‘ईषदर्थे- ‘(६। ३। १०५ पा०) इति कुशब्दस्य स्थाने ‘का’ आदेशः, ततः ‘षिद्गौरादिभ्यश्च’ (४। १। ४१ पा०) इति ङीप् ) विहसितं मधुरहास्यञ्च ते यस्मिन् तत् तथोक्तम्, ( ‘काकली तु कले सूक्ष्मे’ इत्यमरः। ‘मधुरस्वरं विहसितम्’ इति च साहित्यदर्पणः)। निबद्धेत्यादि। -निबद्धौ धृतौ काकशिखण्डकौ काकपक्षौ येन तत् तथोक्तम् ; (यद्यपि ‘काकशब्दो निरर्थकस्तथापि इह करिकलभादिशब्दवत् प्रयोगान्नदोष इति बोध्यम् )। अमलमुखपुण्डरीके इति अमलमुखपुण्डरीके तयोः ‘उपमितं व्याघ्रादिभिः’ (२। १। ५६ पा०) इति उपमितसमासः। अत्र उपमा नामाऽलङ्कारो बोध्यः )। युगलम् द्वन्द्वम्, अतिसुन्दरवदनकमलयुगलमित्यर्थः। आर्य्यपुत्रेण-पत्या रामेण। न परिचुम्बितम्-न सम्यक् चुम्बनं कृतमित्यर्थः। विफलं पुत्रयोर्जन्म मम च मन्दभागिन्या गर्भधारणमिति भावः।
तमसा। अस्तु देवताप्रसादात्। (झ) सीता। भअबदि तमसे एदिणा अपच्चसंसुमरणेण उस्म- (झ) देवताप्रसादात्-दैवानुग्रहवशादित्यर्थः। अस्तु-पत्या रामेण तव तनययोर्मुखपुण्डरीकयुगलं परिचुम्बितं भवत्वित्यर्थः। ममाशीर्वादात् त्वमचिरादेव पतिपुत्रसङ्गता भविष्यसीति भावः।
सिदपण्हुदत्थणी ताण अ पिदुणो सणिधाणेण खन्मेत्तं संसारिणा ह्मि सबुत्ता। (ञ) तमसा। किमत्र उच्यते ? प्रसवः खलु प्रकर्षपर्यन्तः स्नेहस्य। परञ्चैतदन्योन्यसंश्लेषणं पित्रोः। (ट) – भगवति तमसे एतेन अपत्यसंस्मरणेन उच्छ्वसितप्रस्रुतस्तनी तयाश्च पितुः सन्निधानेन क्षणमात्रं संसारिणी अस्मि संवृत्ता।
(ञ) अपत्यसंस्मरणेन-अपत्ययोः पुत्रयोः संस्मरणेन सञ्चिन्तनेन पुत्रविषयकचिन्तया, स्मृतिपथारूढेन पुत्रवृत्तान्तेन इति यावत्। उच्छासितप्रस्नुतस्तनी-उच्छूसितौ दुग्धागमात् स्फीतौ प्रस्नुतौ स्तनौ यस्याः सा तथोक्ता पुत्रस्मरणजपयःस्फीतस्रवत्पयोधरा इति यावत् ; एतदेव हि यथार्थं लक्षणं जनन्यास्तनयं प्रति स्नेहप्रकर्षस्य। तयोः,-पुत्रयोः, कुशलवयोरित्यर्थः। पितुः,-जनकस्य, आर्य्यपुत्रस्य रामस्येति यावत्, (चिराय पतिपुत्रविरहकातरा जानकी गभीरविषादेन राममार्य्यपुत्रादिशब्देन अभिधातुमपि क्लिश्यमाना ‘तयोः पितुः’ इत्येवम् अभिहितवतीति बोध्यम् )। सन्निधानेन-समीपावस्थानेन। क्षणमात्रं-मुहूर्त्तमात्रम्, ( अत्र ‘कालाध्वनोरत्यन्तसंयोगे च’ (२। ३। ५ पा०) इति द्वितीया )। संसारिणौ-गृहस्थोचितसौभाग्यवती, दैवात् स्वामिसन्निधानात् इवेति यावत्। संवृत्ता-जाता। अस्मि-भवामि, अहमिति शेषः। आपामरसाधारणोपभोग्यं गार्हस्थ्यफलं सत्स्वपि पतिपुत्रादिषु मया नोपभुक्तमिति भावः।

ट) जानकी यदिदमुक्तवती- ‘अपत्यसंस्मरणेन उच्छूसितप्रस्नुतस्तनी’ इति, तमसा सम्प्रति तदेव समर्थयन्ती आह, किमिति। -अत्र-अस्मिन् पुत्रस्नेहविषये। किमुच्यते -किं कथ्यते ? नात्र किमपि वक्तव्यमिति भावः। प्रसवः,-अप्पत्यं, (प्रसूयतेऽसौ इति प्रसवः, कर्म्मणि अप् प्रत्ययः)। ( ‘-प्रसवो गर्भमोचने। उत्पादे स्यादपत्येऽपि फले च कुसुमेऽपि च॥ ‘इति मेदिनी )। खलु-निश्चितम्। स्नेहस्य-अनुरागस्य। प्रकर्षपर्य्यन्तः,-प्रकर्षस्य आतिशय्यस्य पर्य्यन्तश्चरमसीमा पराकाष्ठेति यावत्, अपत्यजन्मनैव द्वन्द्वयोरनुरागस्य परमोत्कर्षो भवति नातः परमस्य उत्कर्षः सम्भाव्यते इति भावः। परञ्च-अपरञ्च, कथयामीति शेषः। एतत्-एष प्रसव इत्यर्थः, ( अत्र विधेयप्राधान्यात् क्लीबत्वम् )। पित्रोः,-जननीजनकयोः, (माता च पिता च इति पितरौ तयोः ‘पिता मात्रा’ (१। २। ७० पा०) इति वैकल्पिकः एकशेषः, पक्षे मातापितराविति )। अन्योऽन्यसंश्लेषणम्-अन्योऽन्यस्य परस्परस्य संश्लेषणं बन्धनं संयोजनग्रन्थिरिति यावत् ; आपामरसाधारणजीवनमनः- परितर्पणं न खल्वेतदपत्यम्, अपि तु मातापित्रोः संसारसुखसम्भोगार्थिनोरन्तःकरनयोरन्योऽन्यासंश्लेषसङ्घटनशक्तः सम्बन्धविशेष इति भावः।
अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात्।
आनन्दग्रन्थिरेकोऽयमपत्यमिति बध्यते॥१७॥

पूर्व्वं यदिदमुक्तं ‘परञ्चैतदन्योऽन्यसंश्लेषणं पित्रोः’ इति सम्प्रति तदेव द्रढयन्ती आह, अन्तरिति। -दम्पत्योः पतिपत्न्योः ( जाया च पतिश्च तौ दम्पती ‘जायायाः दम्भावो जम्भावश्च वा निपात्यते’ (वा०) इति जायाशब्दस्य दमादेशो निपातनात् ) अन्तःकरणतत्त्वस्य मनःसारस्य गूढनिहितस्य अन्तःकरणसारभूतस्य पदार्थस्य इत्यर्थः, चतुर्विंशतितत्त्वान्तर्गतस्य मनसः इति वा, (साङ्ख्यानां हि चतुर्विंशति तत्त्वानि, अन्तःकरणं हि तदन्तर्गतमेकं तत्त्वं, तच्च व्यापारभेदेन त्रिधा भिद्यते, तथा च साङ्ख्यतत्त्वकौमुदी, – ‘अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम्।
साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्॥ ‘ अन्तःकरणं त्रिविधं बुद्धिरहङ्कारो मन इति शरीराभ्यन्तरवृत्तित्वादन्तःकरणम्’ इति। शङ्करमतानुयायिनो वेदान्तिकास्तु-अस्य चतुर्विधत्वम् मन्यन्ते, तद्यथा, – ‘मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरम्।
संशयो निश्चयो गर्व्वः स्मरणं विषया अमी’ ॥ इति।
हसंश्रयात् उभयोरेव प्रगाढवात्सल्यस्य एकास्पदत्वादित्यर्थः, अपत्यमिति सन्ततिरूपः ( न पतति भ्रंश्यति कुलम् अनेन इति अपत्यम् (नञ्’ पत-यत्) ) एकः अद्वितीयः आनन्दग्रन्थिः उभयोः स्नेहसम्मिलनादानन्दमयं बन्धनमित्यर्थः, बध्यते सन्नह्यते बध्यते इति भावः। यथा स्वतन्त्राधिकरणावस्थितयोः सजातीययोरपि पदार्थयोः सम्बन्धाभावान्न कदाऽपि कथमपि ऐक्यं सम्भवति, अथ कथमपि तयोः सामानाधिकरण्ये जाते पुनस्तावेव परम्परमिलितौ एकीभृतौ राजेते, तथा नियतमन्याऽन्यानुरागप्रवणमपि जायापत्योरन्तःकरणयुगलं पृथगाश्रयाश्रिततया पूर्वं न तथा संश्लिष्टमपि परं भाग्यातिशयात् स्नेहद्वारेण सन्तति-रूपकमेवाधिकरणमधिगतं चिरायाच्छेद्यबन्धनेन बध्यते इत्ययं विशदार्थः। ( यथा केनचित् भ्रंशभयात् स्वशरीरं कुत्रचिद् दृढं बध्यते, तथा गृहस्थैः स्नेहसूत्रेण अपत्ये आत्मा बध्यते इति ध्वनिः। अत्र आनन्दमयग्रन्थिरूपारोप्यमाणविषयस्य दम्पत्योरन्योऽन्यवात्सल्यप्रकर्षापादकत्वेन अपत्यस्वरूपारोपविषयात्मतया परिणमनात् परिणामो नाम अलङ्कारः )। अनुष्टुप् वृत्तम्॥१७॥

वासन्ती। इतोऽपि देवः पश्यतु। (ठ)- अतरुणमदताण्डवोत्सवान्ते खयमचिरोद्गतमुग्धलोलवर्हः।
मणिमकुट इवोच्छिखः कदम्बे नदति स एष बधूसखः शिखण्डी॥१८॥

(ठ) इत इति। -देवः,-भवान्, रामचन्द्र इत्यर्थः। इतोऽपि-अस्यामपि दिशि। पश्यतु-अवलोकयतु, ‘शिखण्डी नदतीति’ वक्ष्यमाणाश्लोकांशेनान्वयः।
पुराऽरण्यवासकाले प्रियतमया परिपोषितं करिकरभकमिदानीं कालवशात् तरुणोचितकौशलेन उन्मदद्विरददर्पदमनक्षममालेक्य विस्मितं सीतानाथं वासन्ती पुनरपि जानकीपरिपोषितमपरं कलापिनमेकं दर्शयन्ती आह, अतरुणेति। -अचिरम् उद्गतम् उत्पन्नं मुग्धं मनोहरं लोलं चञ्चलञ्च वर्हं पिच्छं यस्य स तथोक्तः, नवप्ररूढरमणीयचलत्कलापः इत्यर्थः, ( एतेन मयूरस्याति व्यज्यते ) ( ‘लोलश्चलसतृष्णयोः’ इति ‘पिच्छवर्हे नपुंसके’ इति चामरः) अचिरजातयौवन इति भावः ; अत एव उत् उद्गता शिखा चूडा यस्य सः तथोक्तः, उन्नतचूड इति यावत्, उद्गतप्रभाजालः इति वा, मणिमयं मुकुटं यस्य स तथोक्तः ( शाकपार्थिवादित्वात् उत्तरपदलोपी समासः )। मणिमुकुटः मणिमयः शिरोवेष्टकः इव प्रतीयमानः नानावर्णविचित्रपिच्छचन्द्रककलापानां विसृमरोज्ज्वलप्रभापटलैः परितो विच्छुरिततया मरकतेन्द्रनीलपद्मरागादिमणिनिखचितः किरीट इव विराजमान इत्यर्थः। ( ‘मण्डनञ्चाथ मुकुट किरीटं पुन्नपुंसकम्’ इत्यमरः) वधूसखः वधूद्वितीयः सन्नित्यर्थः, ( बध्वाः स्वभार्य्यायाः सखा इति वधूसखः, ‘राजाहःसखिभ्यष्टच्’ (५। ४। ९१ पा०) इति समासान्तः टच् प्रत्ययः ) सः सीताया पुरा पोषित इत्यर्थः, एषः सम्प्रति अस्मत्पुरोवर्त्तिकदम्बशाखायां परिदृश्यमानः इति यावत्, शिखण्डी मयूरः ( ‘शिखण्डी ना कलापे स्यात् गाङ्गेयारिमयूरयोः’ इति मेदिनी) अतरुणेन अनल्पेन, महतेति यावत्, मदेन हर्षेण हेतुना यः ताण्डवोत्सवः नृत्योत्सवस्तस्यान्ते अवसाने कदम्बे•कदम्बवृक्षे स्वयम् आत्मना अनन्यप्रणोदित इत्यर्थः, नदति शब्दायते, केकारवं करोतीत्यर्थः। ( ‘अनुदिवसमवर्द्धयत् प्रिया ते यमचिरनिर्गतमुग्धलोलर्वहम्’ इत्यपि क्वचित् पाठः। तस्यायमर्थः,-अचिरनिर्गतमुग्धलोलवर्हं प्रत्यग्रोत्पन्नसुन्दरचलत्पिच्छं यं शिखण्डिनं ते तव प्रिया जानकी अनुदिवसं प्रतिदिनम् अवर्द्धयत् वर्द्धितवती, स एष इति परेणान्वयः, इति)। योऽयं शैशवे जनकतनयया नियतम् अपत्यस्नेहेन परिपोषितः शैशवस्लभसारल्यादिभिर्भवन्मानसमभ्यनन्दयत्, सोऽयं सम्प्रति अभिनवोद्भिन्नयौवनतया नवीभावमापन्नः प्रियतमया समेतः प्रलम्बकदम्बशाखामाश्रित्य केलिपरस्ताण्डवोत्सवमुपभुञ्जानः कलापी केकारवं विदधतीति भावः। ( अत्र उपमा नाम अलङ्कारः। यथा रूढिप्रयोजनाभावात् अशक्तिकृतलक्ष्यार्थप्रकाशकतया ‘कमले चरणाघातं मुखं समुखि तेऽकरोत्’ इत्यत्र नेयाथत्वदोषः, तथा ‘अतरुणमदः’ इत्यत्र तरुणशब्दस्य यौवनवती रूढतया, इह अल्पार्थे रूढिप्रयोजनाभावेऽपि लक्षणया अल्पार्थबोधनात् नेयार्थत्वदोषो बोध्यः)। पुष्पिताग्रा वृत्तम् ; तल्लक्षणं यथा- ‘अयुजि नयुगरेफतो यकारो, युजि च नजौ जरगाश्च पुष्पिताग्रा’ इति॥१८॥

(ड) एष इति। -अस्माभिः परिदृश्यमानः। सः,-मया पूर्वं सस्नेहं परिवर्द्धितः शिखण्डी इत्यर्थः। (अत्रापि ‘विवादे विस्मये हर्षे इति नियमात् हर्षे द्विर्वचनं न दोषाय )।
(ढ) वत्स इति । -तात मयूर इत्यर्थः। मोदस्व-आनन्दं लभस्व। तत्र हेतुमाह. वयमिति। -अहं सीतासखी वासन्ती च इत्यर्थः, ( अत्र ‘अस्मदो द्वयोश्च’ (१। २। ५९ पा०) इति सूत्रेण द्वयोरपि बहुवचनं साध्विति बोध्यम् )। वर्त्तामहे-पुनरुपस्थिता भवामः, सुखदुःखयोर्हि समचेदकस्वजनसमागम एव पूर्णता जायत् इति भावः।
सीता। (सकौतुकास्रम्) एसो सो एसो सो। (ड) रामः। वत्स मोदस्व; वयमद्य वर्तामहे। (ढ) सीता। एब्बं भोदु। ’ (ण) एषः सः एषः सः। ’ एवं भवतु।
(ण) एवमिति। -एतदीयानन्दप्रकाशसमये सहसा आर्य्यपुत्रसान्निध्येन अस्य अत्यन्तः प्रमोदः जायतामित्यर्थः।
रामः। भ्रमिषु कृतपुटान्तर्मण्डलावृत्ति चक्षुः प्रचलितचतुरभ्रूताण्डवैर्मण्डयन्त्या।
करकिसलयतालैर्मुग्धया नर्त्यमानं सुतमिव मनसा त्वां वत्सले स्मरामि॥१९॥

हन्त तिर्यञ्चोऽपि परिचयमनुरुध्यन्ते। (त)- सम्प्रति कदम्बशाखासमारूढं केलिपरं प्रियासङ्गयुजं भूजङ्गभूजमालोक्य समुद्बोधितपूर्वस्मृतिर्जानकीपतिः खिद्यमान आह, भ्रमिष्विति। -भ्रमिषु सञ्चरणेषु सिखण्डिनः चक्रसदृशभ्रमणेषु सत्स्वित्यर्थः, कृता पुटयोर्नेत्रावरणयोरन्तः अभ्यन्तरे मण्डलावृत्तिः वर्त्तुलाकारभ्रमणं येन तत् तथाभूतं चक्षुः सीतासम्बन्धिनयनं प्रचलितयोः चञ्चलयोः चतुरयोः सविलासयोः सङ्केतसूचकाकारप्रदर्शनकुशलवोरिति यावत्, भ्रुवोस्ताण्डवैर्नृत्यैः इतस्ततः पुनःपुनःसञ्चारैरिति यावत्, मण्डयन्त्या भूषयन्त्या स्वयं ताण्डवचातुर्य्यं शिक्षयितुमितस्ततो भ्रम्यमाणस्यास्य शिखिनः सञ्चारानुसारेणैव स्वचक्षुरितस्ततः प्रसारयन्त्येति यावत्, मुग्धया तदानीं नवयौवनसम्पन्नतया अतिमनोरमया सीतयेति शेषः। (मुग्धालक्षणं यथा साहित्यदर्पणे- ‘प्रथमावतीर्णयौवनमदनविकारा रतौ रामा। कथिता मृदुश्च माने समधिकलज्जावती मुग्धा॥’ इति) करकिसलयाभ्यां करपल्लवाभ्यां सम्पादितैः तालैः कालक्रियापरिमाणैः करतलसंयोगजशब्दसूचितैः कालपरिमाणैरिति यावत्, ( ‘तालः कालक्रियामानम्’ इत्यमरः ) नर्त्त्यमानं सम्पाद्यमानताण्ड्वं त्वां सुतमिव वत्सलेन स्नेहमयेन मनसा स्मरामि। पुरा कुतुकपरवशया प्रियतमया करपल्लवतालैर्नियतं नर्त्तितः सोऽयं शिखिशावकः कालेनान्यथा परिणततया प्रियायाः पुत्रक इत्यतिवत्सलं मां स्वकीयां पुरातनीं दशामिदानीं स्मारयतीति भावः। ( अत्र स्वभावोक्तिरलङ्कारः, तथा ‘करकिसलयः’ इत्यत्र लुप्तोपमा, चतुर्थपादे च श्रीती उपमा, इत्येषां परस्परमङ्गाङ्गिभावेन सङ्करः। केचुत्त्वत्र स्मरणालङ्कारमप्याहुः )। अत्र मालिनी वृत्तम्, तल्लक्षणं यथा- ‘ननमयययुतेयं मालिनी भोगिलोकैः’ इति ; प्रस्तारादिकन्तु पूर्व्वमुक्तम्॥१९॥

(त) हन्तेति हर्षसूचकमव्ययं, ( ‘हन्तवाक्यारम्भखेदविषादहर्षसम्भ्रमे’ इति मेदिनी )। तिर्य्यञ्चोऽपि-तिर्यग्जातयः पक्षिणोऽपि। परिचयं-संस्तवं, विशेषतो ज्ञानमित्यर्थः। अनुरुध्यन्ते-अनुसरन्ति, स्मरन्ति इत्यर्थः। ( दैवादिकस्य रुधधातो रूपमिदम् ) तिर्य्यग्योनिसम्भावोऽप्ययं शिखिशावकः वनवासकालोचितमस्मदीयपर्चयं साम्प्रतमपि अनुस्मरन् साधुतरव्यवहारेणास्मान् सुखयतीति महदाश्चर्य्यमिति भावः।
करिपयकुसुमोद्गमः कदम्बः प्रियतमया परिवर्धितो य आसीत्।
सीता। (निरूप्य सास्रम्) सुट्टु पच्चभिआणिदं अज्जउत्तेण । (थ) रामः। स्मरति गिरिमयूर एक्ष देव्याः।
स्वजन इवात्र यतः प्रमोदमेति॥२०॥

सुष्ठु प्रत्यभिज्ञातमार्यपुत्रेण।
(थ) निरूप्य-स एवायं कदम्बो नवेति तत्त्वतो निश्चित्य। सास्रम्-अश्रुसहितमित्यर्थः, पूर्वपरिचितकदम्बपादपदर्शनेन समुद्बोधितपूर्ववृत्तान्तायाः सीतायाः शोकोदयात् अश्रुपातः इति बोध्यम्। सुष्ठु-सम्यक्। प्रत्यभिज्ञातम्-उद्बोधकसहभावेन सम्म्मतम् ; स एवायं कदम्बतरुरिति सत्यमेव इति भावः।
मानवेतरजातीयानां तिरश्चामपि पूर्वपरिचयानुसारणारूपं यदिदं पूर्वमुक्तम् ; तदेव सम्प्रति समर्थयमान आह, कतिपयेति। -कतिपयानां कियतां, स्वल्पानामित्यर्थः, कुसुमानां पुष्पाणाम् उद्गमः उद्भवः यस्मिन् स तथोक्तः, विरलकुसुमालङ्कृतः इत्यर्थः, स्वल्पावयवत्वादिति भावः, यः कदम्बः तदाख्यः वृक्षविशेषः, प्रियतमया सीतया परिवर्द्धितः जलसेचनादिना वृद्धि नीतः, परिपालितः इति यावत्, आसीत्, एष पुरतः परिदृश्यमानः, गिरिमयूरः गिरिचरः गिरिप्रियो वा मयूरः इति गिरिमयूरः पर्वतविहारी शिखण्डीत्यर्थः, (अत्र शाकपार्थिवादित्वादुत्तरपदलोपी समासः। इह मयूरमात्रकथनेनैवार्थसिद्धौ गिरिमयूर इति कथनात्- ‘भूधरशिखराणामत्युन्नतानां प्रियतरजलधरान्तिकावस्थिततया निरुपप्लवतया च अतिप्रियत्वात् तत्र नियतमवस्थितोऽपि आशैशवम् एकत्र एकयैव जनकतनयया संवर्द्धिततया बाल्यसुहृदमेतं कदम्बपादपमाश्रितः ततोऽपि अधिकतरं सुखमधिगच्छति’ इत्यर्थो व्यज्यते )। देव्याः सीतायास्तं कदम्बतरुमिति शेषः, स्मरति इदानीमपि प्रत्यभिजानातीत्यर्थः ; अथवा-एष गिरिमयूरः देव्याः सीतायाः स्मरति देवीं सीतां सरतीत्यर्थः, ( देव्या इत्यत्र ‘अधीगर्थदयेशां कर्म्मणि’ (२। ३। ५२ पा०) इति कर्म्मणि वैकल्पिकी षष्ठी ) बाल्ये पुत्रवत् परिपोषणेन मातृतुल्यायाः सीतादेव्याः स्मरणं विना कथं तत्परिवर्द्धितोऽस्मिन् कदम्बपादपेऽस्य ईदृगानन्दलाभः ? इति भावः।
ननु कथं त्वयैवं सम्भावयते ? इत्याह,-यतः यस्मात् हेतोः अत्र कदम्बतरौ स्वजन् इव स्वमातृतुल्यसीतापरिवर्द्धितत्त्वात् आत्मीयलोके इव, यद्वा- ‘स्मरति गिरिमयूर एषः’ इत्येकं वाक्यं, तथा ‘देव्याः स्वजन इवात्र यतः प्रमोदमेति’ इत्यपरं वाक्यम् ; तथाच ‘एष गिरिमयूरः तं कदम्बवृक्षं स्मरति, यतः अत्र देव्याः स्वजनः इव प्रमोदमेति’ इत्येवमन्वयः। प्रमोदम् आनन्दम् एति प्राप्नोति, अनुभवतीति यावत्। पूर्वं वनवासदशायां सीतादेवीं यमिमं शिखिशावकं कदम्बपादपञ्च सममेव स्वेच्छाहारपानदानादिभिः सलिलसेचनादिना च अपत्यनिर्विशेषं पुपोष, यौ च चिरमेकत्रावस्थानसम्भूतभ्रातृभावाविव परमानन्दमनुभवन्तौ कालं निन्यतुः , तयोरयं शिखीशावकः सम्प्रति विहाय अपरान् सुखसम्भोगोचितान् पादपपर्वतादीन् प्राक्तनप्रणयवशेनाकृष्टः तमेव कदम्बपादपमाश्रितः सुहृत्समागमसुखमनुभवन्निव नन्दतीति समुदितार्थः। ( अत्र तृतीयपादगतवाक्यार्थं प्रति चतुर्थपादगतवाक्यार्थस्य हेतुतयोपन्यासात् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः, तथा ‘स्वजन इव’ इत्यत्र उपमा च, इत्यनयोः परस्परनिरपेक्षतया संसृष्टिः )। पुष्पिताग्रा वृत्तम्॥२०॥

वासन्ती। अत्र तावदासनपरिग्रहं करोतु देवः। (द)- एतत् तदेव कदलीवनमध्यवर्ति कान्तासखस्य शयनीयशिलातलं ते।
अत्र स्थिता तृणमदाद् बहुशो यदेभ्यः सीता; ततो हरिणकैर्न विमुच्यते स्म॥२१॥

(द) अत्रेति। -एतस्मिन् परिदृश्यमाने शिलातले इत्यर्थः। तावत्-अवधारणे, एतस्मिन्नेव इत्यर्थः, ( ‘तावन्मानेऽवधारणे’ इति मेदिनी )। देवः,-भवान् रामचन्द्र इति यावत्। आसनपरिग्रहं करोतु-उपविशतु इत्यर्थः।
अथ वासन्ती रामस्य उपवेशनार्थं यदेव शिलातलं निर्द्दिदेश, तत्रैवोपवेशनस्य हेतुप्रदर्शनपुरःसरं सम्प्रति तदेव शिलातलं विवृणोति, तथा रामेण तिरश्चामपि पूर्वपरिचयस्मरणरूपं यदुक्तं तदपि द्रढयति,, एतदिति। -कान्तासखस्य प्रियासहचरस्य सीतासङ्गतस्येत्यर्थः, ते तव एतत् परिदृश्यमानं तदेव पूर्वाभ्यस्तमेव प्रागध्युषितमेवेति यावत्, कदलीवनमध्यवर्त्ति रम्भाकाननपरिवृतमित्यर्थः, (कदलीनां वनस्य मध्ये वर्त्तते यत् तदिति विग्रहः ) शयनीयशिलातलं शय्याभूतः शिलाखण्डः वर्त्तते इति शेषः, ( अत्र शेते अस्मिन् इति शयनीयम् ‘कृत्यल्युटो बहुलम्’ (३। ३। ११३ पा०) इति शीङः अधिकरणे अनीयर् )। पूर्वं प्रियासङ्गतावस्थायां भवान् यत्र शयानो वनवासजमपि दुःखं विसस्मार, सम्प्रति तस्मिन्नेव उपविष्टः क्षणं पूर्ववृत्तस्मरणसुखमनुभवंस्तृप्ति लभतामिति भावः। ननु तदेवैतदस्मदध्युषितं शिलातलमिति कथं त्वया परिचीयते ? इत्याह, यदिति। -यत् यस्मात् सीता जानकी अत्र अस्मिन् शिलातले स्थिता उपविष्टा सती एभ्यः पुरोवर्त्तिभ्यो हरिणकेभ्यः इति यावत्, बहुशः बहुवारं, ( ‘बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्’ (५। ४। ४२ पा०) इति शस्प्रत्ययः ) तृणं शष्पम् अदात् दत्तवती, भक्षणार्थमिति शेषः, ततः तस्मात् कारणात् हरिणकैः कुरङ्गकैः इदानीमपि सीताप्रदत्तशष्पलाभाशया उपस्थितैरिति यावत्, एतत् शिलातलमिति शेषः, न विमुच्यते अद्यापि न परित्यज्यते। (अत्र स्म इति पादपूरणे ‘तु हि च स्म ह वै पादपूरणे-’ इत्यमरोक्तेः। प्रकृते अस्य अतीतत्वबोधकत्वन्तु न युज्यते, इदमः प्रत्यक्षरूपतया परिदृश्यमानानामेव मृगाणामपरित्यागकथनादिति ध्येयम् )। वसन्ततिलकं वृत्तम्। लक्षणादिकन्तूक्तं प्राक्॥२१॥

रामः। इदं तावदशक्यमेव द्रष्टुम्। (ध) (इति अन्यतो रुदन्नुपविषति) (न)

(ध) इदम्-पुरतः परिदृश्यमानं शिलातलम्। तावत्-वाक्यालङ्कृतौ, साकल्य वा। द्रष्टुमशक्यम्-सीतया सह कृतानां तत्तद्रहःक्रीडादीनां स्मारकतया दुःसहशोकोद्दीपकत्वात् दर्शनायोग्यमिति यावत्।
(न) इति-अतो हेतोः। अन्यतः,-अन्यस्मिन् प्रदेशे ; तादृशशोकोद्दीपकत्वेन द्रष्टुमप्यशक्येऽस्मिन् शिलातले उपवेशनस्य अयुक्ततया ततोऽपरस्मिन् एव उपवेशनं युज्यते इति भावः।
सीता। सहि बासन्दि किं तुए किदं अज्जउत्तस्म मम अ एदं दंसअन्तीए ? हद्दी हद्दी सो ज्जेब अज्जउत्तो; तं ज्जेब पञ्चबटीबणं; सा ज्जेब पिअसही बासन्दी;ते ज्जेब बिबिहबिस्सम्भसाक्खिणो गोदाबरीकाणणुद्देसा; ते ज्जेब जादणिब्बसेसा मिअपक्खिपादबा; सा ज्जेब चाहं; मम उण मन्दभाइणीए सखि वासन्ति किं त्वया कृतमार्यपुत्रस्य मम च एतद्दर्शयन्त्या ? हा धिक् हा धिक् स एव आर्यपुत्रः; तदेव पञ्चवटीवनं; सैव प्रियसखी वासन्ती; त एव विविधविस्रम्भसाक्षिणो गोदावरीकाननोद्देशाः; त एव जातनिर्विशेषादीसन्तं पि सब्बं ज्जेब एदं णित्थि त्ति; ता ईदिसो जीअलोअस्म परिबत्तो। (प) मृगपक्षिपादपाः; सैव चाहं; मम पुनर्मन्दभागिन्याः दृश्यमानमपि सर्वमेवैतत् नास्ती; तदीदृशो जीवलोकस्य परिवर्तः।
(प) त्वया-भवत्या। किं कृतम्-किमनुष्ठितम् ? एकपदत्वे कुत्सितं कृतमिति। आर्य्यपुत्रस्य-स्वामिनः रामचन्द्रस्य , मम-सीतायाश्च ( उभयत्र सम्बन्धमात्रविवक्षया षष्ठी ) एतत्-शिलातलम् ; शिलातलप्रदर्शनेन आवयोः शोकमुद्दीपयन्त्या त्वया महदनिष्टमनुष्ठितमिति भावः। विविधविस्रम्भसाक्षिणः,-विविधानां नानाप्रकारकाणां विस्रम्भाणाम् असङ्कुचिताहारविहारादिव्यापाराणां साक्षिणः साक्षाद्द्रष्टारः। गोदावरीकाननोद्देशाः,-गोदावर्य्याः तन्नामसरितः काननोद्देशाः वनभूमयः। जातनिर्विशेषाः,-जातेभ्यः पुत्रेभ्यः निः नास्ति विशेषः प्रभेदो येषां ते तथोक्ताः, पुत्रतुल्यानन्दजनका इत्यर्थः। मृगपक्षिपादपाः,-मृगाः पशवः ( मृग्यन्ते अन्विष्यन्ते ये ते मृगाः इति व्युत्पत्या पशुमात्रे मृगशब्दः प्रयुज्यते ; तथाच ‘मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः’ इति मेदिनी ) पक्षिणः खगाः पादपाः वृक्षाश्च, सन्तीति शेषः। पुनः-किन्तु। मन्दभागिन्याः,-हतभाग्यायाः, मम सम्बन्धे इत्यर्थः। दृश्यमानमपि-चक्षुर्विषयभूतमपि। एतत्-पुरोवर्त्ति। सर्वमेव-सकलमेव, पञ्चवटीगोदावरीप्रभृतिकमित्यर्थः। नास्ति-सुखोत्पादकत्वरूपेण न वर्त्तते इवेत्यर्थः। स्वरूपतः सदप्येतत् पञ्चवटीगोदावरीप्रभृतिकं प्रागिव इदानीम् आनन्दाऽजनकतया असद्वदेव प्रतिभातीति भावः। अथेत्थं विलपन्ती जनकनन्दिनी सुखदुःखयोः चक्रनेमिक्रमेण क्षणपरिवर्त्तितारूपं जगत्तत्वं मनसा पर्य्यालोच्य आत्मानं सान्त्वयन्ती आह, तदिति। -तत्-तस्मात् पूर्वमत्यानन्दप्रदानामपि एषां सम्प्रति आनन्दाऽनुत्पादकत्वादित्यर्थः। ईदृशः,-एतादृशः। जीवलोकस्य-भुवनस्य। परिवर्त्तः,-दशाविपर्यासः, स्वकीयदशाविपर्य्ययेण इव जगतामपि गुणविपर्य्यय इति भावः। ( अत्र पूर्वमपारानन्दसन्दोहजनकतया तद्धेतुत्वेन सुपरिचितानामप्येतेषां वन नदीप्रभृतीनाम् इदानीं तदजनकत्वात् विशेषोक्तिरलङ्कारः, तथा तेषां प्रत्यक्षपरिदृश्यमानतया स्वरूपतः सत्त्वेऽपि सम्प्रति पूर्ववदानन्दोत्पादनरूपकार्य्यकारित्वाभावात् ‘नास्तीति’ इत्यनेन असत्तया सम्भावनाद् उत्प्रेक्षा, सा च इवादिशब्दाऽवाच्यतया प्रतीयमाना इति ध्येयम् )।
वासन्ती। सखि सीते कथं न पश्यामि रामस्य अवस्थाम् ? (फ)- कुवलयदलस्निग्धैरङ्गैर्ददौनयनोत्सवं सततमपि ते स्वेच्छादृश्यो नवं नवमेव यः।
विकलकरणः पाण्डुः सोऽयं शुचा परिदुर्बलः कथमपि स इत्युन्नेतव्यस्तथापि दृशां प्रियः॥२२॥

(फ) अवस्थाम्-दशाम्। त्वदर्थमेवं सकरुणं विलपन्तमिमं रामचन्द्रं यदि पश्येः तदा नूनं त्वमप्यात्मानं बहु मन्यमाना एनं सान्त्वयितुमात्मानं नियोजयेरिति भावः। सीतां दृष्ट्वा नैषा वासन्त्योक्तिः, किन्तु तामुद्दिश्यैव, भागीरथीवरात् रामवद् वासन्त्या अपि सीतादर्शनासामर्थ्यादिति तु उक्तप्रायम्।
वासन्ती जनकतनयामुद्दिश्य यदिदमुक्तवती ‘कथं न पश्यसि रामस्यावस्थाम् ‘इति , सम्प्रति तामेव प्रियाविरहमलिनामतिशोचनीयां रामस्य अवस्थामुपवर्णयन्ती आह, कुवलयेति। -सततमनुवेलं निर्बाधमित्यर्थः, ते तव ( अत्र ‘नः’ इति पाठे-अस्माकमित्यर्थः ) स्वेच्छया इच्छामात्रेण दृश्योऽपि द्रष्टुं शक्योऽपि यथावस्थं दृश्यमानोऽपीत्यर्थः, यो रामः कुवलयदलस्निग्धैः नीलोत्पलदलकोमलैः औरवयवैः नवं नवमेव अननुभूतपूर्वमेव, ( नवं नवमित्यत्र वीप्सायां द्विर्भावः ) नयनयोः नेत्रयोः उत्सवम् आनन्दं ददौ विततार। ( अत्र ‘ददन्नयनोत्सवम्’ इति पाठे-नयनोत्सवं ददत् यः सततमपि ते स्वेच्छादृश्य आसीदिति अन्वयो बोध्यः, ‘लटः शतृशानचावप्रथमासमानाधिकरणे’ (३। २। १२४ पा०) इति शतृप्रत्ययश्च वेदितव्यः। ) एवम्भूतमधुरमूर्तिः यः आसीदिति यावत्। आकाङ्क्षामात्रेणैव सुलभदर्शनतया मुहुरवलोक्यमानोऽपि सहजालौकिकसौन्दर्य्यातिशयवशेन प्रतिदर्शनम् अभिनवत्वेन प्रतीयमानतया नित्यं नूतनमेव नयनमोदमाततानेति विशदार्थः। स तादृशो मधुरमूर्त्तिरित्यर्थः, अयं पुरोवर्त्ती रामः शुचा त्वद्विरहशोकेन (इदन्तु देहलीदीपन्यायेन ‘विकलकरणः’ इत्यादिषु त्रिष्वेव हेतुविधया अन्वेति ) विकलकरणः विवशेन्द्रियः पाण्डुः धूसरवर्णः मलिनकान्तिरित्यर्थः, ( ‘पाण्डुः सोऽयम्’ इत्यत्र ‘पाण्डुच्छायः’ इत्यपि पाठो दृश्यते, तत्रापि मल्नकान्तिरित्येवार्थः, ‘छाया सूर्य्यप्रिया कान्तिः प्रतिबिम्बमनातपः’ इत्यमरः ) परिदुर्बलः अत्यन्तं कृशः, स इति स एवायमिति कथमपि कथञ्चित् अतिकष्टेनेत्यर्थः, उन्नेतव्यः अभिज्ञातव्यः, तथापि ईदृक्प्रबलवशोकसन्तापेन क्षीणमलिनाकृतिरपि दुशां चक्षुषां ( अत्र ‘दृशोः’ इति पाठे-नयनयोरित्यर्थः, चक्षुरादिशब्दानां द्वित्वावच्छिन्नजातितया इह द्विवचनं बोध्यम् ) प्रियः प्रीतिकरः। एव-

मलोकसाधारणमधुराकृतिरयं रघुनन्दनः, दुःसहविरहतापक्षीणमलिनोऽपि लोकोत्तरमधुराकृतितया सर्वास्वेवास्थासु प्रियदर्शनः लोकलोचनानन्दमुत्पादयन् ‘उदेति सविता ताम्रः ताम्र एवास्तमेति च। सम्पत्तौ च विपत्तौ च महतामेकरूपता॥ ‘इति सत्यं प्रमापयतीति भावः। ( अत्र मलिनकान्तिकृशतादिकारणानां सत्त्वेऽपि दृशामप्रियत्वरूपकार्य्यस्याऽभावात् विशेषोक्तिः ; अथवा पाण्डुच्छायाकृशताद्यभावरूपकारणाभावसत्त्वेऽपि प्रियदर्शनत्वरूपकार्य्यस्य उत्पत्तिकथनात् विभावना ; एवं विभावनाविशेषोक्तिमूलकः सन्देहसङ्करो नामाऽलङ्कारः, तथा ‘कुवलयदलस्निग्धैः’ इत्यत्र लुप्तोपमा चेति सुधीभिर्विभाव्यम् )। हरिणी वृत्तम्। तल्लक्षणं यथा- ‘नसमरसला गः षड्वेदैर्हयैर्हरिणी मता’ इति। ‘वितरति गुरुः’ इति श्लोके प्रस्तारादिकं द्रष्टव्यम्॥२२॥

सीता। पेक्खामि सहि पेक्खामि। (ब) तमसा। पुत्रि पश्यन्ती प्रियं भूयाः। (भ) सीता। हा देब्ब एसो मए बिणा; अहम्पि एदेण बिणा त्ति सिबिणे बि केण सम्भाबिदं आसी। ता मुहुत्तकं पि जम्मन्तरादो बिअ अणुलद्धदंसणा बाहसलिलन्तरेसु पेक्खामि दाब बच्छलं अज्जउत्तम्। ’ (इति सतृणं पश्यामि) (म) प्रेक्षे सखि प्रेक्षे ’ हा दैव एष मया विना; अहमप्येतेन विनेति स्वप्नेऽपि केन सम्भावितमासीत्। तन्मुहूर्तकमपि जन्मान्तरत इव अनुलब्धदर्शना बाष्पसलिलान्तरेषु प्रेक्षे तावद्वत्सलमार्यपुत्रम्।
(ब) सीता ‘सखि सीते कथं न पश्यसि ?’ इत्यादि वासन्तीवचन्य प्रत्युत्तरमाह, प्रेक्षे इति। - प्रेक्षे-पश्यामि (अत्र द्विरुक्त्या प्रेक्षणे निश्चयो बोध्यते प्रेक्षे एव इति तदर्थः ) आर्य्यपुत्रस्य ईदृशीं दुरवस्थां पश्याम्येव, किन्तु प्रतीकारासमर्थया मया दृष्टाऽपि किमनुष्ठेयम् ? इति भावः।
(भ) पुत्रि -हे तनये वत्से इत्यर्थः। प्रियं-रामम्। पश्यन्ती-प्रेक्षमाणा। भूयाः-भव, निरन्तरं प्रियं प्रेक्षस्व, पुनस्तव प्रियेण समागमो भवतु इति भावः। ( अत्र ‘पश्य प्रियं भूयः’ इति पाठे-भूयः,-पुनःपुनरित्यर्थः। प्रियं-राममित्यर्थः )।
(म) हेति। -हा इति विषादे। ( ‘हा विषादे च शोके च कुत्सादुःखार्थयो-

रपि’ इति मेदिनी )। दैव -विधातः एषः,-आर्य्यपुत्रः रामः। मया विना-मम साहचर्य्यम् ऋते, अवतिष्ठेति इति शेषः। अहम्-सीता आपि। एतेन विना-आर्य्यपुत्रविरहिता इत्यर्थः, अवतिष्ठेयेति शेषः। इति-इत्थम्। केन-जनेनेत्यर्थः। स्वप्नेऽपि-सुप्तिदशायामपि। सम्भावितम्-उत्प्रेक्षितम् ? न केनापि इत्यर्थः। स्वप्ने हि सामर्थ्यादसम्भवदपि वस्तु अनुभवविषयतामापद्यते, आवयोस्तु ज्वतोर्विरहसम्भावना केनचित् सुप्तिदशायामपि न कृता, तदहो दैवदुर्विपाकात् स्वप्नेऽप्यसम्भवत् तदेव आवयोः सम्प्रति सञ्जातमिति भावः। तत्- तस्मात्, चिरविरहानन्तरं भाग्यात् साक्षात्कारलाभादित्यर्थः। मुहूर्त्तकमपि-अल्पक्षणमपि व्याप्तेत्यर्थः, भाग्यविपर्य्ययात् सुचिरावलोकनाऽसम्भवादिति भावः। ( अल्पो मुहूर्त्तः इति मुहूर्त्तकः तम् ‘अल्पे’ (५। ३। ८५ पा०) इति मुहूर्त्तादल्पार्थे कन्, ततः ‘कालाध्वनोरत्यन्तसंयोगे’ (२। ३। ५ पा०) इति द्वितीया )। जन्मान्तरत इव-अन्यस्मिन् जन्मनि इव इत्यर्थः, ( अन्यत् जन्म इति जन्मान्तरं तस्मिन् ‘आद्यादिभ्य उपसङ्ख्यानम्’ (वा०) इति सप्तम्यास्तसिः। अत्र ‘जन्मान्तरात्’ इत्यपि पाठो दृश्यते, जन्मान्तरं प्राप्य इति तदर्थः, तत्र ‘ल्यब्लोपे कर्म्मण्यधिकरणे च’ (वा०) इति ल्यब्लोपे पञ्चमी )। अनुलब्धदर्शना-पुनःप्राप्तसाक्षात्कारा, अहमिति शेषः। ( अनुलब्धं दर्शनं यया सा इति विग्रहः। अत्र ‘लब्धदर्शनम्’ इति पाठे-लब्धं दर्शनं यस्य तथोक्तम् इति विग्रहेण एतत् ‘आर्य्यपुत्रम्’ इत्यस्य विशेषणम् )। बाष्पसलिलान्तरेषु-बाष्पसलिलानां नयनजलानाम् अन्तरेषु पतनोद्गमनयोरवकाशेषु। वत्सलम्-मयि नितरामनुरागिणम्। प्रेक्षे-पश्यामि। का कथा समागमस्य ? क्षणिकदर्शनस्यापि अतिदुर्लभतया, भाग्यलब्धेन तेनैव सम्प्रति आत्मानं तर्पयामीति भावः। इति-इत्थं निश्चित्य। सतृणम्-साग्रहम् ; यथा पिपासाऽऽकुलकण्ठः पानीयमधिगतः साग्रहं तत् पिबति, तथा सीताऽपि चिरविरहकातरतया भाग्याल्लब्धं तं प्राणप्रियतमं सादरमवेक्षते इति तात्पर्यम्।
तमसा। (सस्नेहास्रं परिष्वज्य) (य)- (य) सस्नेहास्रम्-स्नेहेन सीतां प्रति वात्सल्येन यद् अस्रं नयनाम्बु तेन सहितं यथा स्यात् तथा। परिष्वज्य-आलिङ्ग्य, ( परिपूर्वात् स्वजतेर्ल्यप्, ततः ‘उपसर्गात् सुनोतिसुवतिस्यति- ‘(८। ३। ६५ पा०) इति षत्वम् )।
विलुलितमतिपूरैर्वाष्पमानन्दशोक- प्रमवमवसृजन्ती तृष्णयोत्तानदीर्घा।
स्नपयति हृदयेशं स्नेहनिष्यन्दिनी ते धवलबहलमुग्धा दुग्धकुल्येव दृष्टिः॥२३॥

चिरविरहकातरामतितरापतिध्यानपरां जानकीं सुचिरकालात् परमद्य स्वामिसाक्षात्कारलाभादनन्यमनसा तदेकबद्धदृष्टिमालोक्य तमसा तदीयां तदानीन्तनीमवस्थाम् उपवर्णयन्ती आह, विलुलितेति। -आनन्दशोकप्रभवं स्वामिसन्दर्शजनितात् आनन्दात्, विरहजनितात् तथा पुनर्मिलनाभावसम्भावनसमुत्थात् शोकाच्च प्रभवः उत्पत्तिर्यस्य तं तथोक्तं, युगपदानन्ददुःखसमुत्थमिति यावत् ; यद्वा-प्रभवति अस्मादिति प्रभवः कारणम्, आनन्दशोकौ प्रभवः कारणं यस्य तं तथोक्तम्, अतिपूरैः प्रवाहवेगैः विलुलितं विगलितं बाष्पमश्रु अवसृजन्ती अभिवर्षन्ती, तृष्णया प्रबलदर्शनेच्छया हेतुनाम् उत्ताना विस्फारिता अत एव दीर्घा च दूरविलम्बिता च , निश्चलत्वाद्दीर्घेव प्रतीयमाना इत्यर्थः, स्नेहनिष्यन्दिनी स्नेहसूचिका धवलबहुला अञ्जनराहित्यात् अतिश्यशुभ्रा मुग्धा मनोहारिणी च अत एव दुग्धकुल्येव पयःपूरितकृत्रिमाल्पसरिदिव प्रतीयमाना ( ‘कुल्याल्पा कृत्रिमा सरित्’ इत्यमरः) ते तव दृष्टिः दर्शनं, हृदयेशं जीवितेश्वरं रामं स्नपयति अभिषिञ्चति। ( ‘दुग्धकुल्यव’ इत्यत्र प्रकृतायाः दृष्टेः शुभ्रताऽतिशयसाम्यात् पयःपूरितकृत्रिमाल्पसरिद्रूपेण सम्भावनादुत्प्रेक्षानामालङ्कारः ; एवं यथा काचित् कञ्चित् स्नपनार्थं स्नेहद्रव्येण समभिलिप्य जलं वर्षति तद्वत् तव दृष्टिः रामं स्नेहेन संयोज्यं नेत्रजलं वर्षतीति दृष्ट्यां कञ्चित् पुमांसं स्नपनकर्त्तृत्वासम्बन्धेऽपि तत्सम्बन्धकथनादतिषयोक्तिश्चेत्येतेषां परस्परमङ्गाङ्गिभावेन सङ्करः )। मालिनी वृत्तम्॥ २३॥

वासन्ती। ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्च्युतः स्फुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः।
कलमविरलं रत्युत्कण्ठाः क्वणन्तु शकुन्तयः पुनरिदमयं देवो रामः स्वयं वनमागतः॥२४॥

अस्या वनभूमेरधिष्ठात्री देवी वासन्ती सुचिरकालानन्तरं प्रियसहचरं स्वभवनमिव वनभूमिमागत प्रियातिथिं सीतापतिं सत्कर्त्तुं निदेशवर्त्तिनः अनुचरानिव पादपपवनादीन् उचितमातिथ्यमुपकल्पयितुं यथाक्रममादिशति, ददत्विति। -तरवो वृक्षाः, मधुश्च्योतन्ती मधुश्चुतः ( यद्यपि क्षरणार्थकस्य श्च्युतधातोरकर्म्मकत्वं सिद्धं, तथापि क्वचित् सकर्म्मकता अस्य कविभिरङ्गीकृता ; तथा च ‘रक्तमश्ज्योतिषुः क्षमाः’ इति भट्टौ (१५। ५१) , मालतीमाधवे च- ‘निश्च्योतन्ते सुतनु कवरीबिन्दवो यावदेते इति। अतः ‘मधु श्च्योतति एभ्यः’ इति व्युत्पत्तिः साधीयसी इति ) मधुस्राविणः सन्तः, ( एतेन मधुपर्ककल्पनमपि सूच्यते ) पुष्पैः स्वोत्पन्नैः कुसुमैः फलैश्च करणेरर्घ्यं पूजासाधनं, मधुयुतानि पुष्पाणि फलानि चेत्यर्थः, ददतु रामायेति शेषः। स्फुटितानां विकसितानां कमलानां पद्मानाम् आमोदस्य सौरभस्य प्रायो बाहुल्यं येषु ते तथोक्ताः ( एतेन वायौ सौरभातिशय्यं दर्शितम् ) ( ‘आमोदः सोऽतिनिर्हारी’ इति ‘प्रायो भूम्न्यन्तगमने’ इति मेदिनी ) ( एतेन सौत्यमप्युक्तम् ) प्रवान्तु प्रकृष्टं सुखकरं, मन्दमिति यावत्, वहन्तु रामस्य शरीरसन्तापमपनेत्मविश्रान्तं धीरसञ्चारेण एनं वीजन्त्वित्यर्थः। रत्या प्रियागमनसमुद्भूतेन अनुरागभरेण उत्कण्ठाः उन्नमितग्रीवा इत्यर्थः, ( उत् ऊर्द्ध्वगताः कण्ठा येषां ते तथोक्ताः इति विग्रहः ) यद्वा-रत्यां क्रीडायां सुरते वा उत्कण्ठा औत्मुक्यं येषां ते तथोक्ताः, कालवशात् परस्परं कामक्रीडासक्ता इति यावत्, (एतेन सुमधुरध्वनित्वं व्यज्यते ) शकुन्तयः पक्षिणः ( ‘शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः’ इत्यमरः ) अविरलम् अविश्रान्तं कलं मधुरं यथा तथा क्वणन्तु गायन्तु, स्वकीयास्फुटमधुरध्वनिना गृहागतं महाराजं स्तुतिपठका इव स्तुतिगीतिमङ्गलैः तोषयन्तु इति भावः। कुतः ? इत्याह। -देवो भगवान् रामः स्वयं आत्मना, पञ्चवटीवसतिसुखलाभाय सम्प्रति स्वप्रवृत्तिपरिचालितः इति यावत्, ( ‘प्रकृत्यादिभ्य उपसङ्ख्यानम्’ (वा०) इति तृतीया ) पुनः भूयः इदं वनमागतः। राज्ञो रामास्य सम्माननार्थं तरवः अर्ध्यभाजनधारिणः, सरोवरवाताः व्यजनकारिणः, पक्षिणश्च वैतालिका भवन्त्विति भावः। वनाधिदेवतात्वात् वासन्त्या कथितमेतद् युक्तमेव ( यथा कश्चिन्नरपतिः स्वभवनमागतमतिथिभूतमपरं कञ्चन नरनाथं स्वागतवचनैरर्भ्यर्थ्य फलजलकुसुमादिविरचितमर्घ्यपात्रमधुपर्कमुपकल्प्य शीतसुरभिव्यजनैर्मन्दमुपवेज्य मागधैस्तत्कीर्तिकलापं घोषयस्तोंषयति, तथा इयमपि वनाधिष्ठात्री देवी वासन्ती, इति शब्दशक्तिमूलो वस्तुध्वनिः। अत्र पूर्वपादत्रितयगतवाक्यबोधितान् अर्घ्यदानादीन् प्रति रामागमनरूपचतुर्थपादगतवाक्यार्थस्य हेतुत्वेन निर्द्देशात् काव्यलिङ्गमलङ्कारः )। हरिणी वृत्तम्॥२४॥

रामः। एहि सखि वास्नती। नन्वितः स्थीयताम्। (र) वासन्ती। (उपविश्य सास्रम्) महाराज अपि कुशलं कुमारलक्ष्मणस्य ? (ल) रामः। (अश्रुतिमभिनीय) (व)- करकमलवितीर्णैरम्बुनीवरशष्पै- स्तरुशकुनिकरङ्गान् मैथिली यानपुष्यत्।
भवति मम विकारस्तेषु दृष्टेषु कोऽपि द्रव इव हृदयस्य प्रस्तरोद्भेदयोग्यः॥२५॥

(र) सखि -सहचरि एहि-इत आगच्छ। ‘ननु’ इति-अनुज्ञायाम् अनुनये वा ( ‘ननु प्रश्ने परकृतावधिकारे च सम्भ्रमे। आमन्त्रणेऽप्यनुनये प्रश्नानुज्ञाऽवधारणे॥ ‘इति मेदिनी )। इतः,-अस्मिन्, पुरोवर्त्तिनि स्थाने इत्यर्थः। स्थीयताम्-उपविश्यताम्।
(ल) सास्रम्-सनयनजलम् , पूर्ववृत्तान्तस्मरणेन वासन्त्या अश्रुपातः। अत्र अपिशब्दः प्रश्नबोधकः, ( ‘अपि सम्भावनाप्रश्न-शङ्कागर्हासमुच्चये’ इति मेदिनी )। ‘महाराज ’ इति वासन्त्या निष्प्रणयमारुन्त्रणपदम्। (सुचिरमेकत्र वासेन एतयोरुभयोः निरतिशयप्रणयसद्भावेऽपि सम्प्रति वासन्ती प्राणाधिकप्रियतमायाः सहचर्य्याः सीतायाः अकारणनिर्वासनवृत्तान्तश्रवणेन अतिदुःखिता उदासीना इव प्रणयपात्रेऽपि ईदृक्कठोरमामन्त्रणमभिहितवतीति बोध्यम् )। कुशलम् -क्षेमम्। कुमारलक्ष्मणस्य-कुमारस्य सौनित्रेः, (पूर्वमरण्यवासकाले ससीतालक्ष्मणेन रामेण परिचये प्रणये च जातेऽपि सर्वतोऽधिकप्रेमास्पदायाः सीतायाः कुशलप्रश्नं पूर्वमकृत्वा केवललक्ष्मणस्य कुशलप्रश्नकरणेन वासन्ती ‘एतावता कालेन निर्वासितायाः सीतायाः मरणावश्यम्भावात् तत्कुशलप्रश्नो वासन्ती एव’ इति स्वमनोभावं व्यनक्तीति। वनमध्ये एकाकिनीं सीतां परित्यक्तवतः लक्ष्मणस्य कुशलप्रश्नः वासन्त्याः तिरस्कारगर्भा सोल्लुण्ठनोक्तिर्वेति बोध्यम् )।
(व) अश्रुतिम्-अनाकर्णनम्। अभिनीय-अभिनयेन प्रकाश्य, वासन्तीकथितं सोत्प्रासवचनं श्रुत्त्वाऽपि अश्रुत्वा इवेत्यर्थः, आह इति शेषः।
अभिन्नहृदयायाः प्रियसहचर्य्याः सीतायाः निष्कारणनिर्वासनवार्त्ताश्रवणकातराया वासन्त्याः सोत्प्रासप्रश्नाश्रवणहेतुभूतं स्वमनसोऽन्यासक्तत्वमाख्यातुं विषयान्तरमुपन्यस्यति, करकमलेति। -मैथिलस्य मिथिलाऽधिपतेर्जनकस्य् अपत्यः स्त्री इति मैथिली जानकी ( मिथिलाया ईश्वरः इति मैथिलः ‘तस्येदम्’ (४। ३। १२० पा०) इति अण्प्रत्ययः, ततः मैथिलस्य अपत्यं स्त्री इति मैथिली ‘अत इञ्’ (४। १। ५५ पा०) इति अपत्यार्थे इञ् , ततश्च ‘इतो मनुष्यजातेः’ (४। १। ६५ पा०) इति ङीष् ) करः कमलमिव निरतिशयकोमलतया रक्तवर्णतया च पद्ममिव तेन वितीर्णेर्दत्तैः अम्बुनीवारशष्पः जलतृणधान्यनवोद्गततृणैः करणैः ( ‘तृणधान्यानि नीवराः’ इति ‘शष्पं बालतृणम्’ इति चामरः) यान् तरुशकुनिकुरङ्गान् वृक्षपक्षिहरिणान्, यथासङ्ख्यम् अन्वयः-सलिलसेकैः पादपान्, तरुणशकुनिकुरुङ्गेषु दृष्टेषु सत्सु, मयेति शेषः, प्रस्तरस्य पाषाणस्य उद्भेदे उद्भिद्य द्रवीकरणे योग्यः समर्थः द्रव इव कोऽपि अनिर्वचनीय इत्यर्थः, मम हृदयस्य चित्तस्य विकारः शोकादिजन्यविकृतिर्बवति ; अनेन विकारेण पाषाणा अपि द्रवीभवन्ति किं पुनर्मांसामृगस्थिसञ्चयोऽयं देह इति भावः। ( अत्र प्रथमोद्दिष्टानामम्बुनीवारशश्पाणामनन्तरं यथाक्रमं तरुशकुनिकुरङ्गाणामुद्देशात् यथासङ्ख्यमलङ्कारः, ‘यथासङ्ख्यमनूद्देश उद्दिष्टानां क्रमेण यत्’ इति दर्पणकृल्लक्षणात्। स च ‘प्रस्तरोद्भेदयोग्यः द्रव इव’ इत्युत्प्रेक्षया, तथा ‘करकमलवितीर्णैः’ इत्यत्र करः कमलमिवेति समासगतया उपमया च संसृज्यते। एवमत्र ‘प्रस्तरोद्भेदयोग्यः’ इति विशेषणप्रक्षेपात् हृदये प्रस्तरवदतिकाठिन्यविद्योतनेन उपमालङ्कारश्चान्यो ध्वन्यते इति बोध्यम् )। मालिनी वृत्तम्॥२५॥

वासन्ती। महाराज ननु पृच्छामि; अपि कुशलं कुमारलक्ष्मणस्य ? (श) रामः। (स्वगतम्) अये महाराजेति निष्पुण्यमामन्त्रणपदं; सौमित्रिमात्रे च वाष्पस्खलिताक्षरः कुशलप्रश्नः; तथा मन्ये विदितसीतावृत्तान्तेयमिति। (प्रकाशम्) आं कुशलं कुमारस्य। (ष) (इति रोदिति) (श) वासन्ती पूर्वोक्तं स्ववचनं रामो न श्रुतवानिति निश्चित्य ‘ननु पृच्छामि’ इत्यनेन अन्यासाक्तमानसं तं स्ववचसि अवधानपरं विधाय भूयोऽप्याह, अपीति। अन्यत् सर्वं पूर्वं व्याख्यातम्।
(ष) निष्प्रणयम्-प्रणायाभावसूचकम् ( निर्गतः प्रणयो यस्मादिति तत् निष्प्रणयम् इति विगहः ) आमन्त्रणपदं-सम्बोधनपदम्। सौमित्रिमात्रे च-केवले लक्ष्मणे च, लक्ष्मणमात्रविषयः, न तु सीताविषय इत्यर्थः, ( सुमित्रायाः अपत्यं पुमान् इति सौमित्रिः, ‘बाह्वादिभ्यश्च’ (४। १। ४५ पा०) इति सुमित्राशब्दात् इञ् प्रत्ययः, सौमित्रिरेव इति सौमित्रिमात्रं तस्मिन् ‘मयूरव्यंसकादयश्च’ (२। १। ७२ पा०) इति समासः, ततः विषयाधिकरणे ‘सप्तम्यधिकरणे च’ (२। ३। ३६ पा०) इति सप्तमी )। कुशलप्रश्नः-मङ्गलजिज्ञासा। बाष्पस्खलिताक्षरः,-बाष्पेण बाष्पभरावरुद्धकण्ठतयेत्यर्थः, स्खलितानि अस्पष्टोच्चारितानि अक्षराणि यस्मिन् स तथोक्तः। तथा-तेन हेतुना। मन्ये-सम्भावयामि। विदितसीतावृत्तान्ता,-विदितः ज्ञातः सीतावृत्तान्तः सीतानिर्वासनव्यापारः यया सा तथोक्ता। इयं सीतानिर्वासनवृत्तान्तं ज्ञातवतीत्यर्थः अन्यथा सीताया अपि कुशलं पृच्छेदिति भावः। ( अत्र ‘सीतायाः त्यागरूपो वृत्तान्तः इति सीतावृत्तान्तः’ इत्यत्र त्यागपदाकथनेन रामस्य त्यागशब्दोच्चारणे क्लेशोद्दीपकतया असामर्थ्यमेव द्योत्यते, तथा च न्यूनपदता न दोषाय, अपि तु रसस्य पोषायैव जातेति बोध्यम् ) आम्-एवं, लक्ष्मणस्य कुशलमेवेत्यर्थः, ( आमिति स्वीकारसूचकमव्ययम् )।
वासन्ती। अयि देव किमिति दारुणो दारुणः खल्वसि ? (स) सीता। सहि बासन्दि किं तुमं सि एब्बम्बादिणी; पिआरहो क्खु सब्बस्स अज्जउत्तो; बिसेसदो मम पिअसईए। (ह) सखि वासन्ति किं त्वमसि एवंवादिणि; प्रियार्हः खलु सर्वस्य आर्यपुत्रः; विशेषतो मम प्रियसख्याः।
(स) रामस्य प्रत्युत्तरमाकर्ण्य वासन्ती स्वकृतप्रश्नाभिप्रायो रामेण सम्यगधिगतः इति निश्चित्य आह, अयीति। -किमिति-कथम्। दारुणो दारुणः,-अतिदारुणः, अतिकठोरः इत्यर्थः ( अत्र आतिशय्ये द्विरुक्तिः ) ; अन्यथा को जनः निष्कारणं निरपराधां प्रियतमा सहधर्मिणीं निर्वासतीति भावः।
(ह) सीताविषयिणीं वार्त्तामधिकृत्य रामं तिरस्कुर्वत्यां वासन्त्यां सीता तदाकर्ण्यान्तर्द्दूना इव वासन्तीं ततो निवर्त्तयति, सखीति। -किम्-कथम्। एवं वादिनी- ‘दारुणो दारुणः’ इत्येवङ्कठोरभाषिणी। तत्र को दोषः ? इत्याह, प्रियार्हः इति। -प्रियवचनार्हः इत्यर्थः। विशेषतः,-विशेषेण ( ‘प्रकृत्यादिभ्य उपसङ्ख्यानम्’ (व०) इति तृतीया। ततः ‘इतराभ्योऽपि दृश्यन्ते’ (५। ३। १४ पा०) इति-तृतीयायास्तसिः )। प्रियसख्याः,-प्रियसहचरीजनस्येत्यर्थः, यतः आर्य्यपुत्रः मम प्राणेभ्योऽपि प्रेयान्, अतः मम प्रियसहचरीभिरपि तस्मिन् साधारणापेक्षया अधिकतरा प्रीतिः दर्शनीयेति भावः।
वासन्ती। त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव; शान्तमथवा किमिहोत्तरेण ?॥२६॥

(इति मूर्च्छति) वासन्ती ‘दारुणो दारुणः’ इति यदभिहितवती, सम्प्रति तदेव युक्त्या समर्थयमाना आह, त्वमिति। -त्वं मे मम जिवितं प्राणाः, जीवितवत् प्रियतमेत्यर्थः, असीति शेषः, त्वां विना नाहं जीवामिति भावः ; त्वं मे मम द्वितीयं हृदयम् असि भवसि, सर्वविषयेष्वेव परस्परमेकात्मतया अपरम् अन्तःकरणमिवेत्यर्थः, त्वदज्ञातं मे किमपि रहस्यं नास्तीति भावः। त्वं मे नयनयोः नेत्रयोः कौमुदी ज्योत्स्ना, कौमुदीव स्निग्धकरी प्रीतिजनिका च इत्यर्थः, ( ‘कौ मेदन्ते जना यस्वां तेनासौ कौमुदी मता’ इति कौमुदीपदनिरुक्तेः), न मे चक्षुषस्त्वया विना तृप्तिरिति भावः। त्वं मे ओ अमृतं पीयूषं सुधावदनिर्वचनीयसुखोत्पादिनीत्यर्थः, त्वदधिकं सुखकारणं मे किमपि नास्तीति भावः। इत्यादिभिः एवमादिभिः प्रियशतैः अमितैः प्रियवचनैः श्रुतिसुखकरचाटुभिरिति यावत्। (अत्र शतशब्दोऽपरिमितत्वबोधकः ‘शतं सहस्रमयुतं सर्वमानन्त्यवाचकम्’ इत्युक्तेः,) मुग्धां ‘प्रथमावतीर्णयौवनमदनविकारा रतौ वामा। कथिता मृदुश्च माने समधिकलज्जावती मुग्धा॥ ‘इत्युक्तलक्षणां सरलहृदयां बालाम् अनुरुध्य प्रीणयित्वा ; सीता यदि एवं सरलहृदयतया त्वयि निरतिशयं विश्वस्ता नाभविष्यत्, तदा त्वम् एवंविधैरमितैश्चाटुवचनैः तां कथमपि प्रतारयितुं न प्राभविष्य इति भावः ; तामेव निरतिशयविश्वस्तहृदयां त्वदेकमात्रजीवितामित्यर्थः, निर्वासितवानिति वाक्यशेषः, वासन्त्या निश्वाबाष्पावरोधशोकसम्भारद्योतनार्थं कविना न कृतः, तदुच्चारणाशक्तेर्वासन्त्याः तत्रैव विश्राम इत्याशयः। अथ सा कथञ्चित् आत्मानं संयम्य असम्पूर्णां निजोक्तिमिदानीं समापयितुम् उद्युक्ताऽपि तादृशनिर्म्ममचेतसः पाषाणोपमस्य रामस्य भ्रमप्रदर्शनेन पुनः करुणासम्पादनप्रयासो विफल एवेति मन्यमाना आह, शान्तमिति। -अथवा किङ्का शान्तम् असह्यत्वात् अप्रतिकार्य्यत्वाच्च पुनः किमपि न कथनीयम्, एतदवलम्ब्य भवन्तमुपालभ्य न किमपि फलं भविष्यतीति भावः। इह अस्मिन् सीताविषये उत्तरेण वाक्येन, सितायास्तादृशदशाविपर्य्यासात् परेण वाग्विन्यासेन किम्? किं प्रयोजनम् ? अधुना तत् सर्वथैव निष्प्रयोजनमिति भावः। ( इह ‘त्वं जीवितम्’ इत्यत्र ‘त्वं कौमुदी नयनयोरमृतं त्वमङ्गे’ इत्यत्र च युष्मत्पदवाच्ये जीवित कौमुदीसुधातादात्म्यारोपात् रूपकम् ; तच्च सर्वत्र केवलस्यैव रुपणात् मालारूपं निरङ्गम्। एवं ‘त्वमसि मे हृदयं द्वितीयम्’ इत्यत्र एकस्य जनस्य हृदयद्वयासम्बन्धेऽपि तत्सम्बन्धकथनात् असम्बन्धे सम्बन्धकथनरूपाऽतिशयोक्तिः, तथा ‘तामेव’ इत्यनन्तरं विवक्षितस्य ‘निर्वासितवान्’ इति वाक्यसमापकांशस्य ‘निष्करुणे त्वयि इतोऽधिकमनर्थकम्’ इत्येवं विशेषप्रतिपत्तये निषेधवदाभासनात् आक्षेपनामकश्चालङ्कारः ; इत्येषां परस्परं निरपेक्षतया संसृष्टिः)। वसन्ततिलकं वृत्तम्॥२६॥

रामः। स्थाने खलु वाक्यनिवृत्तिर्मोहश्च। सखि समाश्चसिहि। (क) वासन्ती। (समाश्वस्य) तत् किमिदमकार्यमनुष्ठितं देवेन ? (ख) सीता। सहि बासन्दि बिरम बिरम। (ग) रामः। लोको न मृष्तीति। (घ) वासन्ती। तत् कस्य हेतोः ? (ङ) सखि वासन्ति विरम विरम।
(क) वाक्यनिवृत्तिः,-वासन्त्या वाग्विरामः। मोहश्च-मूर्च्छा च। स्थाने खलु-युज्यते एव, इदं द्वयमपि सीतायाः प्रियसख्याः तव युक्तमेवेत्यर्थः, ( ‘युक्ते हे साम्प्रतं स्थाने’ इत्यमरः) अतिशयितशोकोद्दीपकत्वादस्याः निर्वासनजन्यस्य वासन्तीहृद्गतभागस्येति भावः।
(ख) तत्-तस्मात्, यदि मम वाक्यनिवृत्तेर्मोहस्य च युक्तत्वं मन्यसे तदेत्यर्थः। किमिति-कथम्। अकार्य्यम्-अनुचितं कार्य्यम्।
(ग) विरम-ईदृशकठोरवाक्यकथनात् विरता भवेत्यर्थः ; (अत्र सम्भ्रमे द्विरुक्तिः,- ‘विवादे विस्मये हर्षे- ‘इत्याद्युक्तेः )।
(घ) लोकः,-प्रकृतिवर्गः, राज्याधिवासी जन इत्यर्थः। न मृष्यति-न तितिक्षते, सीतायाः गृहावस्थानमिति शेषः, तत्र प्रकृतिवर्गस्य वाञ्छितमित्यर्थः। इति-अस्माद्धेतोः, इदमकार्य्यमप्यनुष्ठितं मयेति शेषः। मम प्रकृतिवर्गः सीतायाः विशुद्धि प्रति सन्दिहानः तस्याः राजगृहावस्थानं न बहु मन्यते इति वामनिच्छन्नपि निर्वासितवानस्मीति भावः।
(ङ) तत्-लोकस्य अमर्षणम्। कस्य हेतोः,-केन हेतुना ? कस्मात् कारणात् लोको न मृष्यतीत्यर्थः। ( अत्र ‘षष्ठी हेतुप्रयोगे’ (२। ३। २६ पा०) इति षष्ठी )।
रामः। स एव जानाति किमपि। (च) तमसा। उचितस्तदुपालभ्यः। (छ) वासन्ती। अयि कठोर यशः किल ते प्रियम् किमयशो ननु घोरमतः परम् ?।
किमभवद्विपिने हरिणोदृशः कथय नाथ कथं वत मन्यते ?॥२७॥

(च) स एव-पुरवासी जन एव, न्यान्या मादृशः कश्चिदिति एवकारार्थः। किमपि-अनिर्व्वचनीयम्, अस्माभिर्ज्ञातुमशक्यं, निमित्तमिति शेषः। तादृशज्ञानस्य प्रकृतकारणाभावात् न मया न वा अन्येन बुद्धिमता ज्ञातव्यमिति भावः। सर्वथा अज्ञा निष्करुणाश्च लोकाः, लोकानुरञ्जनञ्च मे कर्त्तव्यं, तत् किं मया क्रियतां सीतापरित्यागादन्यत् इति फलितार्थः।
(छ) तदुपालम्भः,-तस्य लोकस्य उपालम्भः ( घञि कृते ‘लभेश्च’ (७। १। ६४ पा०) इति सूत्रेण नुमागमः ) तिरस्कारः। उचितः,-न्याय्यः, आसीदिति शेषः, ( ‘अभ्यस्तेऽप्युचितं न्याय्यम्’ इति कोषः )। अतिपवित्रचरित्राया जनकसुताया निर्निमित्तकापवादविघोषणात् कृतापराधः पौरजनः एव दण्डनीयः, न तु लेशतोऽपि कञ्चिदपराधमकुर्वाणा सीता दण्डार्हेति भावः।
पौरजनामर्षणमेव निरपराधाया अपि सिताया निर्वासने हेतुरिति यद् रामेणोक्तं, तत्राह, अयीति। -अयि कठोर हे कठिनहृदय ते तव यशः कीर्त्तिः प्रकृतिकृतगुणानुकीर्त्तनमिति यावत्, प्रियम् आदरणीयं, किलेति प्रसिद्धौ, निर्द्धारणे वा। निरपराधायाः प्राणेभ्योऽपि प्रियतमायाः सीतायाः निर्वासनेनापि प्रकृतीनां मनो रञ्जयता त्वया यशसः एव श्रेष्ठत्वमङ्गीकृतमिति भावः। किं तेन ? इत्याह, किमिति। -ननु भोः देवि अतः अस्मात्, अतिपवित्रचरित्रां निरपराधां सीतां निर्द्दयं निर्वासयता यदयशः सञ्चितमित्यस्मादित्यर्थः, परम् अधिकम् अयशः अकीर्त्तिः लोकापवाद इति यावत्, किं स्यात् ? यशोधनत्वेन भुवि विख्यातस्यापि तव प्राणप्रियतमायाः निरपराधायाः आसन्नप्रसवायाः धर्म्मपत्न्या निर्ज्जनवननिर्व्वासनसमुत्थमिदमयशः तव सर्व्वं यशोऽपाकरोतीति भावः। ननु को मे इदृशस्य अयशसो हेतुः ? इत्याह, किमिति। -नाथ हे प्रभो हरिणीदृशः मृगलोचनायाः असहायाया इति यावत्, ( एतेन निर्ज्जन अरण्ये एकाकिन्याः परित्यागात् रमणीजनसुलभेन भयेन तदा हरिण्या इव तस्याः नयने चञ्चले जाते इत्यर्थो व्यज्यते ) सीतायाः इति शेषः, विपिने हिंस्रश्वापदसङ्कुले वन् किम् अभवत् कीदृशी अवस्था जाता, कथय ब्रूहि, तदिति शेषः। बत खेदे, ( ‘वतामन्त्रणसन्तोष-खेदानुक्रोशविस्मये’ इति मेदिनी )। कथं किम्प्रकारं मन्यसे भावयसि ? अथवा-कथं मन्यसे कुमुपेक्षसे, सर्वं विचिन्त्य किं निर्णीतवानिति कथयेत्यर्थः ; अहो ते अविविकित्वं चित्तकाठिन्यञ्चेति भावः। ( अत्र रामो राजधर्म्मानुसारात् पौरचित्तानुरञ्जनद्वारेण यशोलाभाशया सीतां निर्वासितवान्, फलतस्तु तद्वैपरीत्येन प्राणप्रियायाः आसन्नप्रसवायाः निरपराधायाः जनकतनयाया निर्वासनाल्लोकापवाद एव अजनीति ‘यद्वाऽऽरब्धस्य वैफल्यमनर्थस्य च सम्भवः’ इत्युक्तलक्षणको विषमो नाम अलङ्कारः ; तथा ‘हरिणीदृशः’ इत्यत्र समासगता लुप्तोपमा चेत्यनयोः संसृष्टिः )। द्रुतविलम्बितं वृत्तम् ; ‘द्रुतविलम्बितमाह नभौ भरौ’ इति लक्षणात्। इदं हि १४६४ तम प्रस्तारान्तर्भूतं वृत्तम्॥२७॥

सीता। तुमं जेब्ब सहि बासन्दि दारुणा कठोरा अ; जा एब्बं अज्जउत्तं पदित्तं पदीबेसि। (ज) तमसा। प्रणय एवेदं ब्याहरति शोकश्च। (झ) रामः। सखि किमत्र मन्तव्यम् ? (ञ)- त्वमेव सखि वासन्ति दारुणा करुणा च; या एवम् आर्यपुत्रं प्रदीप्तं प्रदीपयसि।
(ज) त्वमेवेति। -तत्र एवशब्देन अन्ययोगं व्यवच्छिनत्ति, नान्या इत्यर्थः। दारुणा-भीषणस्वभावा। कठोरा-निर्द्दया च। एवं-परिदृश्यमानरूपेण। प्रदीप्त-शोकावेगेन तातप्यमानम्। प्रदीपयसि-सन्तापयसि, एवंविधनिर्द्दयव्यवहारेण मद्वियोगशोकसन्तप्तमपि आर्य्यपुत्रं पुनर्नितरां शोकाभिभूतं करोषीत्यर्थः। ( अत्र ‘एब्बं बिलबन्ती पदीबेसि’ इति पाठे- ‘एवं विलपन्ती प्रदीपयसि’ इत्यनुवादः )।
(झ) प्रणयः,-रामं प्रति अनुराग। शोकः,-त्वन्निर्वासनजनितो दुःखातिशयश्च। इदं-पूर्वोक्तप्रकारम्, अयि कठोरेत्यादि वासन्तीकथितमुपालम्भवचनम्। व्याहरति-कथयति। शोको मोहश्च एतामेवंवादिनी करोति, अतो नास्याः दोषः इत्यर्थः।
(ञ) वासन्त्या पूर्वं श्लोकशेषेण ‘कथं बत मन्यसे’ इति पृष्टो रामः सम्प्रति प्रतिवक्ति, सखीति। -सखि-सङ्गिनि। अत्र-अस्मिन्, सीताविषये इत्यर्थः।
त्रस्तैकहायनकुरङ्गविलोलदृष्टे- स्तस्याः परिस्फुरितगर्भभरालसायाः।
ज्योत्स्नामयी च मृदुबालमृणालकल्पा क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता॥२८॥

किं मन्तव्यम्-अपरं किं विभावनीयम् ? ननु सा मृतेति किमप्यन्यत् नास्ति चिन्तनीयमिति भावः।
असहायायाः निर्जनवननिर्वासितायाः सीतायाः मरणादन्यत् न किञ्चिदस्ति सम्भावनीयमिति यदुक्तं, तदेव समर्थयमानः आह, त्रस्तैकेति। -त्रस्तस्य भीतस्य एकहायनस्य एकवर्षवयस्कस्य ( एकः हायनः वर्षं यस्य स एकहायनः ‘हायनो न स्त्रियां वर्षे पुंस्यर्चिर्वीहिभेदयोः ? इति मेदिनी ) कुरङ्गस्य हरिणस्येव विलोला चपला दृष्टिः नयनं यस्याः तथोक्तायाः भीतिविह्वलहरिणशावकवच्चपलायतदृशः इत्यर्थः ; कुरङ्गदृष्टिः स्वभावत एव चञ्चला, तत्रापि त्रस्तस्य एकहायनस्येति च विशेषणद्वयं चाञ्चल्यातिशय्यद्योतनार्थं, भीतत्वात् शिशुत्वाच्चाधिकचञ्चला हि हरिणदृष्टिर्भवतीति प्रसिद्धिः। परिस्फुरितस्य भयादतिकम्पितस्य गर्भस्य भरेण भारेण अलसायाः मन्थरायाः, भीतिहेतोः आत्मत्राणासमर्थाया इति यावत्, तस्याः सीतायाः ज्योत्स्नामयी चन्द्रिकामयी चन्द्रिकावत् स्नेहलावण्यमयी इत्यर्थः ; ( अत्र ज्योत्स्नामयीति विशेषणेन क्रव्याद्भ्यः आत्मगोपनमपि न सम्भाव्यमिति द्योत्यते। ‘ज्योत्स्नामयीव’ इति पाठे-ज्योत्स्नात्मिकेव ज्योत्स्नावत् स्नेहलावण्यमयी कार्कश्यादिदोषरहिता चेत्यर्थः ) मृदु कोमलम् अपरिनतमिति यावत्, यत् बालमृणालम् अचिरोद्गतः विसदण्डः तस्मादीषदूना इति मृदुबालमृणालकल्पा च कोमलमृणालङ्कुरनिभा अतिपेलवा स्पर्शभङ्गुरा च इत्यर्तः, ( ‘ईषदसमाप्तौ कल्पब्देश्यदेशीयरः’ (५। ३। ६७ पा०) इति ईषदसमाप्त्यर्थे कल्पप् प्रत्ययः ) अङ्गलतिका देहलता ( अल्पा लता इति लतिका ‘अल्पे च ‘(५। ३। ८५ पा०) इति लताशब्दात् अल्पार्थे कप्रत्ययः, ततः ‘केऽण’ (७। ४। १३ पा०) इति ह्रस्वः ; ततः ‘प्रथयस्थात् कात् पुर्व्वस्यातः,- ‘(७। ३। ४४ पा० ) इति अकारस्य इत् ) नियतं निश्चितं, क्रव्यम् आममांसन् अदन्तीति क्रव्यादः ( ‘क्रव्ये च’ (३। २। ६९ पा०) इति सूत्रेण विट्प्रत्ययः )। तैस्तथोक्तैर्मांसलोलुपैः वनचरैः श्वापदैर्विलुप्ता भक्षितेत्यर्थः। (इह ‘त्रस्तैकहायन- ‘इत्यत्र, तथा ‘मृदुबालमृणालकल्पा’ इत्यत्र च समासगता उपमा। एवम् ‘अङ्गलतिका’ इत्यत्र रूपकञ्चेत्येतय्योः सङ्करः। अत्र ‘मृदुबालमृणालकल्पा’ इत्यनन्तरं पठितुमुचितस्य चकारस्य ‘ज्योत्स्नामयी’ इत्यनन्तरं पाठात् अस्थानपदता दोषः ; स च ‘मृदुलबालमृणालकल्पा’ इति पाठं कल्पयित्वा समाधेयः )। वसन्ततिलकं वृत्तम्॥२८॥

सीता। अज्जउत्त धरामि एसा धरामि। (ट) रामः। हा प्रिये जानकि क्वासि (ठ) सीता। हद्दी हद्दी अज्जउत्तो बि प्पसिक्ककण्ठं रोइदि ’ (ड) तमसा। वत्से साम्प्रतिकमेवैतत्; कर्तव्यानि दुःखितैर्दुःखनिर्वापणानि। यतः; (ढ)- आर्यपुत्र ध्रिये एषा ध्रिये।
’ हा धिक् हा धिक् आर्यपुत्रोऽपि प्रमुक्तकण्ठं रोदिति (ट) आर्य्यपुत्र-स्वामिन् एषा-मूर्त्तिमत्येव परिदृश्यमानेत्यर्थः, अहमिति शेषः। ध्रिये-जीवामि, मैवं भैषीः, नाहमद्यापि मन्दभागिनी क्रव्यात्कवलनिपतितेति भावः। ( ‘ध्रिये’ इति तौदादिकात् अवस्थानवाचिनो धृधातोः कर्त्तरि लटि रूपम्। अत्र सम्भ्रमे द्विर्वचनम् )। रामस्य दुःखातिशय्यमसहमानायाः विस्मृतात्मनः सीताया हठोक्तिरियम्।
(ठ) रामः स्वयं ‘क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता’ इति कथयन् विवृद्धसीतावियोगशोकः सम्प्रत्युच्चैर्विलपन्नाह, हा प्रिये इति। -क्व-कुत्र ? अस्मिन् लोके, स्वर्लोके वेत्यर्थः।
(ड) आर्य्यपुत्रोऽपि-सहजतश्चपलचेतसां प्राकृतानां का कथा, लोकातिरेकिधैर्य्यगाम्भीर्य्यादिगुणगणोपेतः स्वामी रामचन्द्रोऽपीत्यर्थः। प्रमुक्तकण्ठम्-उच्चैःस्वरमित्यर्थः। (प्रमुक्तः कण्ठो यस्मिन् रोदने तत् यथा तथा)। रोदिति-विलपतीत्यर्थः। अलौकिकधैर्य्यशालिनोऽप्येवं प्राकृतवदुच्चैर्विलापः असहनीयम् अस्य शोकसंवेगं व्यनक्तीति भावः।
(ढ) वत्से-सिते एतत्-उच्चैःस्वरं रोदनं, रामस्य इति शेषः। साम्प्रतिकमेव-उचितमेव, ( ‘युक्ते द्वे साम्प्रतं स्थाने’ इत्यमरः)। दुःखितैः,-शोकार्त्तैः, जनैरिति शेषः। दुःखनिर्वापणानि-शोकापशमनानि, विलापरोदनादीनीत्यर्थः। कर्त्तव्यानि-विधेयानि। यतः,-यस्मात् कारणात् ; वक्ष्यमाणश्लोकेनास्य अन्वयः।
पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया शोकक्षेभे च हृदयं प्रलापैरेव धार्यते॥२९॥

प्रबलदुःखोपहतचेतसां प्रलापादन्यः कोऽपि दुःखोपशमहेतुर्नास्तीति यदुक्तं, तदेव समर्थयमाना आह, पूरोत्पीडे इति। -तडागस्य जलाशयविशेषस्य ( ‘पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः’ इत्यमरः) पूरोत्पीडे पूरस्य तीरचतुष्टयमध्यवर्त्तिजलभागस्य उत्पीडे अत्यन्तविवृद्धौ जलवृद्धिजन्ये निर्गमोद्धाते सतीत्यर्थः, परीवाहः प्रणाल्या प्रवृद्धजलांशनिःसारणं, ( अत्र परिपूर्व्वात् वहतेर्वञि ‘उपसर्गस्य घञामनुष्ये बहुलम् ‘(६। ३। १२२ पा०) इति उपसर्गस्य दीर्घता ) प्रतिक्रिया प्रतीकारः समीपस्थभूमज्जनादिदोषोत्पत्तेरिति भावः ; च तथा शोकक्षेत्रे प्रबहुलदुःखावेगे सति, यद्वा-शोकेन प्रबलेष्टवियोगजन्यदुःखेन क्षोभे अत्यन्तमस्थैर्य्ये जाते सति, हृदयं चित्तं प्रलापैः प्रमुक्तकण्ठरुदितैः धार्य्यते पुनर्व्यवस्थाप्यते ; यथा जलवृद्धौ कयाचित्प्रणाल्या जलनिःसारणं तडागादिरक्षणोपायः, तथा शोकवृद्धौ तद्बहिष्काररूपसप्रलापरोदनमेव आत्मत्राणोपाय इति भावः। ( अत्र पूरोत्पीडेन शोकक्षोभस्य, तडागेन हृदयस्य, परीवाहेण प्रलापानां, प्रणिधानगम्यसाम्यतया दृष्टान्तो नामालङ्कारः ; तथा च दर्पणः,- ‘दृष्टान्तस्तु सधर्म्मस्य वस्तुनः प्रतिबिम्बनम्’ इति ) । पथ्यावक्त्रं वृत्तम्॥२९॥

विशेषतो रामभद्रस्य बहुतरप्रकारकष्टो जीवलोकः। (ण)- इदं विश्वं पाल्यं विधिवदमियुक्तेन मनसा प्रियाशोको जीवं कुसुममिव घर्मः क्लमयति।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ- स्तदद्याप्युच्छासो भवति ननु लाभो हि रुदितम्॥३०॥

(ण) विशेषतः,-अन्यापेक्षया विशेषेण। बहुतरप्रकारकष्टः,-नानाविधक्लेशपूर्णः, ( बहुतरः प्रकारो येषां, तथोक्तानि कष्टानि यस्मिन् (जीवलोके) स तथोक्तः इति विग्रहः )। जीवलोकः,-संसारः। सामान्यतः क्लेशबहुलेऽप्यस्मिन् संसारे नियतं राज्यशासनाद्यतिभारक्लिष्टेऽस्य मनसि त्वद्विरहक्लेशो दुःसहो जात इति युज्यते एवास्य मुक्तकण्ठ विलाप इति भावः।
रामसम्बन्धे जीवलोकय यद् बहुतरप्रकारकष्टत्वमुक्तं, सम्प्रति तदेव विवृण्वती आह, इदमिति। -अभियुक्तेन निरन्तरमवहितेन, अविक्षिप्तेनेत्यर्थः, इतरथा विक्षिप्तचेतसा कृतमपि राजकार्य्यं नानवद्यं स्यादिति भावः ; मनसा चेतसा इदं परिदृश्यमानं विश्वं जगत् विधिवत् यथाविधानं, शास्त्रविधिमानतिक्रम्येत्यर्थः, ( विधिमर्हति इति विधिवत्, विधिशब्दात् ‘तदर्हम्’ (५। १। ११७ पा०) इति अर्हार्थे वतिप्रत्ययः ) पाल्यं रक्षणीयम्, अन्यथा प्रजापालनव्रतानां क्षत्रियाणां स्वधर्म्मपालननिबन्धनः पापस्पर्शः सम्भवेदिति भावः ; तच्च राज्यपालनमेकमतीव कष्टकरमित्यभिप्रायः। धर्मः आतपः कुसुममिव कुसुमं यथा तथा प्रियाशोकः सीताविच्छेदजनितं दुःखं जीवं जीवनं क्लमयति ग्लपयति ; यथा प्रखरदिवाकरतापः निरतिशयसुकुमारं कुसुमभारम अहरहः सन्तापयन् समूलशोषं शोषयति, तथाऽयं प्रियावियोगजः शोकः सम्प्रति सातिशयं वर्द्धमानः विशालराज्यपालनक्लिष्ट मामकं जीवनमाततरामवसादयतीति विशदार्थः ; एतदपि कष्टात् कष्टतरमिति भावः। ननु दुःखातिशय्ये विलाप एवैको विनोदोपायः, अतः तेनैव किं न विनोदयसि चेतः ? इत्यत्र आह, स्वयमिति। -स्वयम् आत्मनैव त्यागं प्रियापरिवर्जनं कृत्वा विलपनविनोदोऽपि विलपनेन पश्चात् रोदनादिना विनोदोऽपि शोकापनोदनचेष्टाऽपि, अथवा-विलपनमेव विनोदः , स्वयमेवं निरपराधमर्द्धाङ्गभागिनीं सहधर्म्मिणीं विवास्य अविवेकिवत् पुनस्तदर्थं रारुद्यमानं मां सर्व्वे निन्दिष्यन्तीति आशङ्कैव मम विलपनविनोदेऽपि प्रत्यूह इति भावः। शोकापनोदनचेष्टाऽपि न कर्त्तुं शक्या इत्येतदपि अपरं महत् कष्टकरम् इति आशयः। पूर्वोक्तप्रकारेण कदाचिदपि रामस्य न दुःखावेगप्रकाशावसरे इति महांस्तस्य क्लेशः। अत्र ‘असम्भवः’ इत्यनुक्त्वा ‘असुलभः’ इति कथनात् ‘इदानीमिव कदाचित् निर्ज्जने तु विलापः सम्भवत्येव’ इत्यर्थो लभ्यते। ननु यदि प्रकाशं विलप्य विनोदमाप्तुं न शक्यते, तदा किमिदानीं कादाचित्कविलापेन ? इत्याह, तदिति। -तत् तदपिम् तादृशविनोदालाभेऽपि, रुदितं मुक्तकण्ठो विलापः लाभो हि लाभ एव, ननु यतः अद्यापि सम्प्रत्यपि एतावद्दीर्घकालात् परमपीत्यर्थः, उच्छ्वासः जीवनधारणं ( ‘उच्छ्वासः प्राणनेऽपि च। आख्यायिकापरिच्छेदेऽप्याश्वासेऽपि पुप्तानयम् ‘इति मेदिनी ) भवति, अन्तरान्तरा रहसि मुक्तकण्ठरोदनं सीतावियोगदुःखानपनोदकमपि न विफलम्, अपि तु अस्य प्राणधारणनिदानतया निरतिशयोपकारकत्वमेवेति भावः। ( अत्र कष्टरूपे एकस्मिन् कार्य्ये विश्वपालनप्रियाशोकविलापाभावरूपाणां कारणानां खलेकपोतकान्यायेन युगपदुपस्थितत्वात् समुच्चयो नामालङ्कारः, स च ‘कुसुममिव धर्म्मः’ इत्युक्तया उपमया सङ्कीर्य्यते ; तथेह ‘असुलभः’ इत्यत्र नञः ‘अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता। प्रसज्य-प्रैतिषेधोऽसौ क्रियया सह यत्र नञ्॥ ‘इत्युक्तलक्षणकप्रसज्यप्रतिषेधार्थकतया प्रधानतया प्रयोगो युक्तः, इह तु तस्य समासे गुणीभूततया अविमृष्टविधेयांशस्वरूपो दोषश्चिन्त्यः )। शिखरिणी वृत्तम्॥३०॥

रामः। कष्टं भो कष्टम्। - दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम्।
ज्वलुति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम्॥३१॥

नियतमतिदुःसहोऽपि सीताविरहक्लेशः कथमप्यन्तर्निगृहीतः सम्प्रति वासन्तीकथितकठोरवचसा नवीभूतः सातिशयं पीडयतीति तं कथमप्यसहमानः सीतापतिर्युदुक्तवान् ‘कष्टं भोः कष्टम्’ इति, सम्प्रति तदेव महद्दुःखं विवृण्वन्नाह, दलतीति। -गाढोद्वेगं प्रगाढशोकसम्भारः हृदयं दलति विदारयति इत्यर्थः। मूलोक्तात् नायं साधीयान् पाठः, यतः अस्मिन् पाठे प्रक्रमभङ्गदोषः सम्भवति, तथाहि द्वितीय-तृतीय-चतुर्थपादेषु द्वयोः क्रिययोरेक एव कर्त्ता प्रक्रान्तः, इह तु ‘दलति’ इत्यस्य कर्त्ता ‘गाढोद्वेगः’ इति, तथा ’ भिद्यते’ इत्यस्य कर्त्ता ‘हृदयम्’ इति, मूलधृतपाठे तु न तद्दोषशङ्का इति विभाव्यम् )। तथापि तु किन्तु तत् हृदयं द्विधा द्विखण्डीभूय न भिद्यते विदीर्णं न भवतीत्यर्थः ; ( ‘भिद्यते’ इति भिदेः कर्मकर्तृवाच्ये प्रयोगः ) हृदये विदीर्णे सति आश्रयापायात् क्लेशोऽपि न स्यादिति आशयः। विकलः विवशः दुःसहशोकावेगेन प्रक्षीण इत्यर्थः, कायः देहः ( काय इति चिधातोः ‘निवासचितिशरीरोपसमाधानेष्वादेश्चकः’ (३। ३। ४१ पा०) इति घञ्, चकारस्य च ककारः ) मोहं दुःसहशोकसम्भारात् अचेतनभावं वहति धारयति, चेतनां सञ्ज्ञां च न मुञ्चति न सम्पूर्णरूपेण परित्यजति, क्षणे क्षणे चैतन्यञ्च भवतीत्यर्थः ; चिरमोहरूपमृत्यौ सति दुःखज्ञानसम्भावात् सर्व एव शोको निर्वापितः स्यादिति भावः। अन्तर्दाहः मनस्तापः तनूं शरीरं ( ‘स्त्रियां मूर्त्तिस्तनूस्तनूः’ इत्यमरः) ज्वलयति सन्तापयति ( ज्वलयतीति ज्वलतेर्णिजन्तय रूपम् ; ‘ज्वलह्वल- ‘(घटा० ग०) इति अमुपसृष्टस्य ज्वलतेः पाक्षिकी मित्सञ्ज्ञा, ततश्च ‘मितां ह्रस्वः’ (६। ४। ९२ पा०) इति ह्रस्वः। पक्षे-ज्वालयति ) न च तां भस्मसात् भस्मावशेषां ( कात्स््नर्येन भस्म सम्पद्यते इति भस्मसात् भवति ‘विभाषा साति कात्स््नर्ये’ (५। ४। ५२ पा०) इति भस्मशब्दात् सातिप्रत्ययः ) करोति ; तथा सति न मे दुःखं स्यादिति भावः। विधिर्विधाता ( ‘विधिर्विधाने दैवे च’ इत्यमरः ) मर्माणि च्छेत्तुं शीलमस्य इति मर्मच्छदी मर्मस्थानच्छेदनशीलः प्रहरति मामिति शेषः, बलात् मम मर्माणि छिनत्तीत्यर्थः, जीवितं प्राणान् न कृन्तति न छिनत्ति, न हन्तीत्यर्थः ; तथा सति मे सकलदुःखावसानं स्यात्, अन्यथा दैवदुर्विपाक इति भावः। ( इह कर्त्तृविहितप्रत्ययान्तक्रियाप्रदर्शनप्रकमे ‘भिद्यते’ इति क्रियायाः कर्म्मकर्त्तरि प्रयोगः प्रक्रमभङ्गदोषमावहति। अत्र यद्धलति तन्न भिद्यते, यन्मुह्यति तन्न चेतनां मुञ्चति, यज्ज्वलयति तन्न भस्मीकरोति, यच्च प्रहरति तन्न हन्तीति प्रतिपादं क्रिययोर्मिथोविरुद्धवदाभासमानतया विरोधाभासो नामालङ्कारः ; केचित्तु हृदयदलनादिरूपात् कथिताद् वस्तुनः स्वसदृशस्य भेदनस्य व्यपोहनात् परिसङ्ख्यामाहुः। अत्र मनःसमुत्पन्नः खेदो नाम विमर्शसन्धिः प्रदर्शितः ; तल्लक्षणं यथा दर्पणे,- ‘मनश्चेष्टासमुत्पन्नः श्रमः खेद इति स्मृतः’ इति )। हरिणी वृत्तम्॥३१॥

सीता। एबणेदम्। (त) रामः। हे भवन्तः पौरजानपदाः – न किल भवतां स्थानं देव्या गृहेऽभिमतं तत- सदतणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता।
एवं न्विदम्।
चिरपरिचितास्ते ते भावाः परिद्रवयन्ति मां इदमशरणैरद्याप्येवं प्रसीदत रुद्यते॥३२॥

(त) स्वयमन्तरनुभूयमानया स्वकीयावस्थया रामवर्णितावस्थायाः याथार्थ्यं स्वीकुर्वाणा जानकी रामोक्ति समर्थयमाना आह, एवमिति। -इदं-पूर्वोक्तं रामवानम्। एवम्-इत्थमेव, यथाकथितरूपमेवेत्यर्थः। नु सम्भावयामीत्यर्थः। अहमपि उक्तरूपां दशामनुभवन्ती त्वदुक्तियाथार्थ्ये साक्षीभूतेति भावः।
सीताविप्रयोगो नियतमन्तरनुभूयमानानाम् एतासामतिविषमावस्थानां मूलं, तत्रापि पौरजानपदापरितोषः इति प्रियतमावियोगविक्षिप्तमतिः सीतापतिस्तानेवोद्दिश्य सम्प्रति सविलापमाह, नेति। -देव्याः सीताया गृहे मदीये भवने, राजधान्यामित्यर्थः, स्थानमवस्थानं , वास इत्यर्थः, भवतां युष्माकं न अभिमतम् अनुमोदितम् आसीदिति शेषः ; किलेति निश्चये। सुचिरं रक्षोगृहावस्थानात् सीतायाः सदोषत्वमाशङ्कमानैर्भवद्भिस्तस्याः पुनर्ग्रहणं नानुमन्यते इति दुर्मुखमुखात् मया ज्ञातमिति भावः। ततस्तस्मात् कारणात् देव्या गृहावस्थानस्य युष्मदनभिप्रेतत्वादित्यर्थः, सा देवीति शेषः, तृणमिव अनादृतघासादिवत् शून्ये विजने, निराश्रये इत्यर्थः, वने अरण्ये त्यक्ता विसृष्टा निर्वासितेति यावत्, न चापि सा अनुशोचिता निरपराधां तां पवित्राम् विदित्वाऽपि केवलं युष्मदनुरञ्जनार्थं निर्वासितां तामुद्दिश्य कदाचिदनुतापोऽपि न कृत इत्यर्थः, ( अत्र ‘न वाऽप्यनुशोचिता’ इत्यपि क्वचित् पाठः) मया इति शेषः। चिरपरिचिताः सीतया सह सुचिरमेकत्र वासेन पुरा चिरमनुभूताः ते ते भावाः पदार्थाः शाखिशिखिशिलातलादयः इत्यर्थः, अद्यापि अधुनाऽपि बहुतिथे काले गतेऽपीत्यर्थः, मां परिद्रवयन्ति परिद्रववन्तं कुर्वन्ति, सर्वथा व्याकुलीकुर्वन्तीत्यर्थः, ( परिपूर्वात् द्रववच्छब्दात् तत्करोतीत्यर्थे ‘तत्करोति तदाचष्टे’ (ग०) इति णिच्, इष्ठवद्भावात् मतुब्लोपे टिलोपे च इदं रूपम्। ‘परिभ्रमयन्ति’ इत्यपि क्वचित् पाठः, तत्र-विचेतनीकुर्वन्तीत्यर्थः )। इदम् अस्मात् कारणात्, ( अत्र अस्मादित्यर्थे इदमित्यव्ययम् ) नास्ति शरणं रक्षकः येषां तैः अशरणैरनवलम्बैः, यद्वा-अस्मिन् विषये अशरणा इति इदमशरणाः तैः एतस्मिन् विषये उपायहीनैरित्यर्थः, अस्माभिरिति शेषः, ( ‘शरणं गृहरक्षित्रोर्बधरक्षणयोरपि’ इति मेदिनी) एवम् इत्थं रुद्यते विलप्यते ; प्रसीदतम् यूयमिति शेषः। ( रुद्यत इत्यत्र याच्यत इति पाठान्तरम् ; तत्र अशरणैः इदं याच्यते प्रार्थ्यते यत् अधुना बहुक्लेशस्वीकारात् इदानीमपि यूयं प्रसीदत मयि सुप्रसन्ना भवेत्यर्थः )। भवतामनुरञ्जनार्थमेव मया पूर्वोक्तानि दुष्कराणि कृतानि भवद्भिस्तु मदर्थं न किमपि कृतमिति पौरजानपदानद्दिश्य रामस्य शोकः। भवताम् असन्तोषमपाकर्त्तुमेव सर्वथा निरपराधां सीताम् अतिपवित्रां विदित्वाऽपि विजने वने तृणमिव विसर्ज्जयता, तथा तदर्थं क्षणमपि पश्चात्तापमकुर्वता मया युष्मत् कृते किं किं दुष्करं न कृतम् ? साम्प्रतन्तु एभिश्चिरपरिचितपादपपर्वतादिभिरुद्बोधितपूर्वस्मृतिर्निरवलम्बोऽस्मि जात इति मयि प्रसादपरवशैर्भवद्भिरद्याप्यनुमन्यते चेत्, तदा निरपराधां तां पुनर्गृहमानीय दुःसहोऽयं शोकावेगोऽपाकर्त्तुं शक्यते इति निर्गलितार्थः। ( अत्र यद्यपि ‘मां परिद्रवयन्ति’ इत्यत्र अस्मच्छब्दे एकवचनमुक्त्वा पुनः ‘अशरणैरस्माभिः’ इत्यत्र बहुवचनप्रयोगो न युज्यते, तथाप्येवं निर्द्देशः रामस्य चित्तविक्षेपसूचकतया विप्रलम्भाख्यशृङ्गारं पुष्णातीति न कोऽपि दोषः। अत्र पश्चात्तापं प्रति सीतात्यागस्य हेतुतया, तत्सत्वेऽपि पश्चात्तापरूपफलादर्शनात् विशेषोक्तिरलङ्कारः ; तथा ‘तृणमिव’ इत्यत्र उपमा चेत्यनयोः परस्परनिरपेक्षतया संसृष्टिः। एवं ‘हंसीव धवलश्चन्द्रः’ ‘छायेव तां भूपतिरन्वगच्छत्’ इत्यादिवत् उपमानोपमेययोर्लिङ्गभेदेऽपि न क्षतिरिति विभाव्यम् )। हरिणी वृत्तम्॥३२॥

तमसा। अतिगम्भीरमापूरणं शोकसागरस्य। (थ) वासन्ती। देव अतिक्रान्ते धैर्यमवलम्ब्यताम्। (द) रामः। सखि किमुच्यते धैर्यमिति (ध) – देव्या शून्यस्य जगतो द्वादश परिवत्सरः।
प्रनष्टमिव नामापि न च रामो न जीवति॥३३॥

(थ) शोकसागरस्य-शोक एव सागरः दुरुत्तीर्णतया जलधिः इति शोकसागरः दुःखरूपार्णवः तस्य। ( अत्र शोके सागराभेदारोपात् रूपकालङ्कारः )। अति गम्भीरम्-अतिगूढमित्यर्थः। आपूरणं-पूर्णता। ( अवगूरणमिति पाठे-अवगूरणम्-आवर्त्तः )।
(द) अतिक्रान्ते-अतीतविषये सीतावियोगरूपे, धैर्य्यम् अवलम्ब्यतां, गतस्य शोचना निष्फला तत्र धैर्य्यावलम्बनमेव श्रेयस्करम् इति भावः।
(ध) किमुच्यते धैर्य्यमिति -मत्प्रदर्शितात् परमपि धैर्य्यमस्ति ? इति साक्षेपोक्तिः। धैर्य्यस्य विषयः कः कथ्यते भवत्या ? मया हि धैर्य्यस्य परा काष्ठा प्रदर्शितेति भावः।
वासन्त्या धैर्य्यावलम्बनार्थमुपदिष्टो जानकीनाथस्तां धैर्य्यस्य परां कोटिमहं दर्शितवानिति बोधयन् तदेव दर्शयति, देव्येति। -देव्या सीतया शुन्यस्य विरहितस्य, तादृशे विजने वने एकाकिन्याः तस्या निर्वासनेन मरणावश्यम्भावादिति भावः ; जगतो लोकस्य द्वादशः द्वादशानां पूरणीभूतः ( द्वादशानां पूरणः इति द्वादशः ‘तस्य पूरणे डट्’ (५। २। ४८ पा०) इति डट् ) परिवत्सरः संवत्सरः प्रवर्त्तते इति शेषः, तस्याः सीतायाः इत्यूह्यं, नामापि प्रनष्टमिव विलुप्तमिव, एतावता कालेन न केवलं सा मृता, अपि तु सुदीर्घकालात्ययवशादधुना तस्याः नामापि केनचिन्नोच्चार्यते इत्यर्थः, च अथच रामो न जीवति इति न, अपि तु जीवत्येव ; रामरूपेण पाषाणमयोऽहमद्यापि वर्त्तमानोऽस्मि, अतः प्रियतमाविरहेऽपि यन्मम जीवनधारणं तद्धि परा काष्ठा धैर्य्यस्येति भावः। ( इह ‘प्रनष्टमिव नामापि’ इत्यत्र सुदीर्घकालात्ययात् नामानि प्रनष्तत्वसम्भावनादुत्प्रेक्षानामालङ्कारः )। पथ्यावक्त्रं वृत्तम्॥३३॥

सीता। मोहिदह्मि अज्जउत्तस्स एदेहं बअणोहिम्। (न) तमसा। एवं वत्से (प)- नैताः प्रियतमा वाचः स्नेहार्द्राः शोकदारुणाः।
एतस्ता मधुनो धाराः श्च्योतन्ति सविषास्त्वयि॥३४॥

मोहितास्मि आर्यपुत्रस्य एतैर्वचनैः।
(न) आर्य्यपुत्रस्य-स्वामिनः रामचन्द्रस्य। एतैः,-पूर्वोक्तरूपैः मयि प्रगाढप्रेमव्यञ्जकैरित्यर्थः। मोहिता-मोहं प्रापिता, निरतिशयानन्दविह्वलेत्यर्थः। मां निष्करुणं परित्यजतोऽपि सम्प्रति मदर्थमेवं विलपतः आर्य्यपुत्रस्य प्रणयातिरेकसूचकवचनश्रवणेन आनन्दविह्वलापि अस्य वियोगदुःखदर्शनेन मूर्च्छया समाविष्तास्मीति भावः। ( ‘मोहिताऽस्मि एतैः आर्य्यपुत्रवचनैः’ इति पाठेऽपि तुल्य एवार्थः )।
(प) एवम्-इत्थं, त्वया यदुच्यते तत् तथैवेत्यर्थः।
पत्युः प्रणयातिरेकसूचकवचनेष्वपि दुःसहवियोगकातरतादर्शनेन प्रियसखीं प्रायेण मूर्च्छितामालोक्य तमसा समवेदनाप्रदर्शनपुरःसरं तद्वचनमेव समर्थयमानाऽऽह, नेति। -स्वेहेन प्रणयेन आर्द्राः शीतलाः अनुरागबहुला इत्यर्थः, तथा शोकेन दुःसहवियोगदुःखेन हेतुना दारुणाः निष्ठुराः एताः रामेण इतःपूर्व्वमुच्चारिताः वाचः वचनानि न प्रियतमाः न एकान्ततः अभीष्टाः, भवन्तीति शेषः ; निरतिशयप्रेमाभिव्यञ्जकतया प्रिया अपि दुःसहवियोगदुखरूक्षतया न एकान्ततः प्रियत्वमावहन्तीति भावः ; यतः ताः पुर्व्वकथिताः एताः वाचः मधुनः क्षौद्रस्य सविषाः गरलसम्पृक्ताः धाराः प्रपाताः त्वयि श्च्योतन्ति क्षरन्ति। यद्वा-प्रियतमाः स्नेहार्द्राः शोकदारुणाः एताः वाचो न, अपि तु ताः एताः सविषाः मधुनो धाराः त्वयि श्च्योतन्ति स्रवन्तीत्यर्थः। सुधासमाकारा मकरन्दधारा यथा सरसास्वादमधुरतया परमपरितोषकारिण्यपि दारुणगरलसम्पृक्ता चेत्, अपहरति चेतनामास्वादकस्य, तथेयं गभीरानुरागप्रकटनमधुरा स्वामिनो वचनधारा प्रगाढशोकक्षीभव्यञ्जकतया नैकान्ततः प्रीणाति ते चतः इति भावः। ( अत्र एकस्मिन् एव रामवचसि स्नेहार्द्रत्वशोकदारुणत्वरूपविरुद्धधर्म्मद्वयसम्बन्धकथनात् विरोधाभासो नामालङ्कारः ; तथा सीतायां सविषमधुधाराक्षरणस्य असम्भवत्तया मधुधाराभिः रामवचनानाम् उपमानोपमेयभावबोधनात् असम्भवद्वस्तुसम्बन्धरूपा निदर्शना, तथा चानयोरङ्गाङ्गिभावेन सङ्करः। यद्वा कल्पे तु-उपमेयरूपाः प्रकृताः वाचः प्रतिषिध्य उपमानरूपाणां सविषमधुधाराणां सत्यतया स्थापनात् ‘नेदं नभोमण्दलमम्बुराशिः’ इति दर्पणकृदुदाहरणवदत्रापि अपह्नुतिरलङ्कारः )। अनुष्टुप् वृत्तम्॥३४॥

रामः। अयि वासन्ति मया खलु (फ)- यथा तिरश्चीनमलातशल्यं प्रत्युप्तमन्तः सविषश्च दंशः।
तथैव तीव्रो हृदि शोकशङ्कु-र्मर्माणि कृन्तन्नपि किं न सोढः ?॥३५॥

(फ) रामः ‘अतिक्रान्ते धैर्य्यमवलम्ब्यताम्’ इति वासन्त्या अनुयोगं ‘देव्या शून्यस्य’ इत्यादिना धैर्य्यपराकाष्ठाप्रदर्शनपुरंसरं निरस्यापि पुनरपि विशेषतः स्वस्य धीरत्वं प्रमापयितुमाह, अयीति। -मया-रामेण, ‘किं न सोढः’ इति श्लोकांशेनान्वयः। खल्विति वाक्यभूषायाम्।
कीदृशं तद्धैर्य्यम् ? इत्याह, यथेति। -अन्तः हृदये प्रत्युप्तं विद्धं ( प्रतिपूर्वात् वपतेर्निष्ठाप्रत्ययस्य रूपम्) तिरश्चीनं तिर्य्यग्भावापन्नं, तिर्य्यग्भावेण विद्धस्य सहसा निःसारयितुमशक्यत्वात् निरतिशययातनाप्रदमिति भावः ; ( तिरोऽञ्चति इति विग्रहे तिरस् शब्दपूर्वादञ्चतेः क्विन् इति तिर्य्यच् ‘तिरसस्तिर्य्यलोपे’ (६। ३। ९४ पा०) इत्यनेन तिरसः ‘तिरि’ आदेशः, ततश्च तिर्य्यगेव इति स्वार्थे ‘विभाषाञ्चेरदिक् स्त्रियाम्’ (५। ४। ८ पा) इति खप्रत्ययः ) अलातशल्यं यथा ज्वलदङ्गारमयशङ्कुरिव ( ‘अङ्गारोऽलातमुल्मुकम् ‘इत्यमरः ) च एवं सविषो विषात्मको दंशः दन्तप्रवेशः यथा, तथैव तद्वदेव तीव्रस्तीक्ष्णः नितरां दुःसह इत्यर्थः, हृदि अन्तःकरणे निहितः इति शेषः , शोकशङ्कुः शोककीलः शाणितलौहकीलवदतिभीषणः प्रियावियोगशोकः इत्यर्थः ( ‘वा पुंसि शल्यं शङ्कुर्ना’ इत्यमरः ) मर्माणि जीवनस्थानानि कृन्तन् छिन्दन्नपि किं न सोढः ? न व्यसह्यत किम् ? अपि तु सोढः एव, मयेति शेषः। ( सहतेः कर्म्मणि निष्ठाप्रत्ययः, पक्षे सहितः इति ) तत् किमपरं करिष्यामि धैर्य्यावलम्बने तद्वदेवेति भावः। ( अत्र प्रथमार्द्धे शोकरूपोपमेयस्य अलातशल्यदंशरूपानेकोपमानदर्शनात् मालोपमाऽलङ्कारः ; तथा ‘शोकशङ्कुः’ इत्यत्र कृन्तमरूपसाधकसमभिव्याहारवशात् उपमाया बाधेन केवलं निरङ्गरूपकञ्चेत्यनयोरङ्गाङ्गिभावेन सङ्करः )। इन्द्रवज्रोपेन्द्रवज्रयोः सङ्कररूपा उपजातिः वृत्तम्। सा हि उपजातिप्रस्तारस्य चतुर्दशविधस्य ‘हंसी’ नामा षष्ठः प्रस्तरः॥३५॥

सीता। एबं ह्मि मन्दभाइणी पुणो बि आआसआरिणी अज्जुउत्तस्म। (ब) रामः। एवमतिनिष्कम्पस्तम्भितान्तःकरणस्यापि मे संस्तुतबहुतरप्रियदर्शनादुद्दामोऽयमावेगः। (भ) तथाहि; – (ब) मन्दभागिनी-निरतिशयभाग्यहीना, अहमिति शेषः। पुनरपि-भूयोऽपि, पूर्वमकदा दशाननकृतहरणव्यापारेण तथा आयासकारणत्वात् पुनःप्रदम्। एवम्-इत्थम्, अतिदारुणारूपेण इत्यर्थः। आयासकारिणी-दुःखहेतुभूता ; हतभागिन्या ममैव विरहशोकेनायमेवं क्लेशमनुभवतीति अहमेवास्य क्लेशस्य निदानमिति मां धिगिति भावः।
(भ) ननु यद्येवम् अरुन्तुदमपि शोकशङ्कुं विषह्य त्वया धीरतायाः पराकाष्ठा दर्शिता, तदा सम्प्रति कथमेवं त्वं शोकविह्वलः नितान्तमधीर इव विलपसीत्याक्षेपमाशङ्क्य सीतापतिराह, एवमिति। - एवम्-उक्तप्रकारेण। अतिनिष्कम्पेत्यादि। -अतिनिष्कम्पम् अतिनिश्चलं यथा तथा स्तम्भितं स्थिरीकृतम् अन्तःकरणं येन तस्य तथोक्तस्य यत्नेन धैर्य्यमालम्ब्य स्थितस्येत्यर्थः। मे-मम। अयं-सम्प्रत्यनुभूयमानः। आवेगः,-प्रियतमावियोगसम्भूतः शोकप्रवाहः। संस्तुतेत्यादि-संस्तुतानां पूर्वपरिचितानां ( ‘संस्तवः स्यात् परिचयः’ इत्यमरः ) बहुतराणां प्रियाणां जनानां पादपपर्वतकुरङ्गविहङ्गमादिवस्तूनाञ्च दर्शनात्। उद्दामः,-अतिभूमिं गतः। परिचितवस्तुदर्शनात् तु सहसोद्भूतोऽयं वेगः कष्टेनापि न निवर्त्तनीय इति भावः।
लोलोल्लोलक्षुभितकरुणोज्जृम्भस्तम्भनार्थं यो यो यत्नः कथमपि मयाऽऽधीयते तं तमन्तः।
एवमस्मि मन्दभागिनी पुनरप्यायासकारिणी आर्यपुत्रस्य।
भित्वा भित्वा प्रसरतिबलात् कोऽपि चेतोविकार- स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः॥३६॥

सम्प्रति शोकावेगस्य उद्दामत्वमेव दर्शयति, लोलेति। -लोलादपि चञ्चलादपि उल्लोलम् अतिचञ्चलमिति यावत्, तद् यथा तथा क्षुभितस्य उद्देलस्य वेगभुयस्त्वेन क्षोभमापन्नस्येत्यर्थः, करुणस्य प्रियजनवियोगप्रभवस्य शोकस्य ( करणस्येति पाठे-करणस्य इन्द्रियस्य ) अदुज्जृम्भणम् उद्रेकः, अतिवृद्धिरिति यावत्, तस्य स्तम्भनार्थं प्रतिरोधार्थम् ; यद्वा-लोलाः चञ्चलाः ये उल्लोलाः महीम्मयः तद्वत् क्षुभितः आलोडितः ( ‘उपमानानि सामान्यवचनैः’ (२। १। ५५ पा०) इति समासः ) यः करुणः शोकस्थायिभावो रसः तस्य तत् उज्जृम्भणम् अतिवृद्धिः तस्य स्तम्भनार्थं प्रतिरोधार्थमित्यर्थः, ( ‘-अथोर्म्मिषु। महत्सूल्लोलकल्लोलौ ‘इत्यमरः )। मया यो यो यत्नः याद्रुशो यादृशः प्रयासः इत्यर्थः, कथमपि कृच्छ्रेण आधीयते आश्रीयते क्रियते इत्यर्थः, कोऽपि अननुभूतपूर्वः अनिर्वचनीय इति यावत्, चेतीविकारः चित्तवैक्लव्यं तोयस्य जलस्य अप्रतिहतरयः अनिरुद्धवेगः ओघः प्रवाहः, राशिरित्यर्थः, सैकतं सिकतामयं, बालुकानिर्म्मितमिति यावत्, ( सिकताभिर्निर्म्मितमिति सैकतम् ‘सिकताशर्कराभ्याञ्च’ (५। २। १०४ पा०) इति सिकताशब्दात् अण्, तथा ‘आपः सुमनसो वर्षाः अप्सरःसिकताः समाः। एताः स्त्रियां बहुत्वे स्युरेकत्वेऽपि क्विचिन्मताः॥ ‘इति सिकताशब्दस्य बहुवचनान्तता ) सेतुम् आलिमिव ( ‘सेतुरालौ स्त्रियां पुमान्’ इत्यमरः ) तं तं पूर्वोक्तं यत्नमिति शेषः, भित्वा भित्वा पुनः पुनः भङ्त्वा, मोघीकृत्येत्यर्थः, ( ‘यो यः, तं तं, भित्त्वा’ इत्येतेषु स्थलेषु ‘नित्यवीप्सयोः’ (८। १। ४ पा०) इति यथासम्भवं नित्यवीप्सार्थयोर्द्विर्वचनम् ) बलात् प्रसह्य वेगेनेत्यर्थः, ( बलादित्यत्र ‘ल्यब्लोपे कर्म्मण्यधिकरणे च’ (वा०) इति पञ्चमी, ‘विभषा गुणेऽस्त्रियाम्’ (२। ३। २५ पा०) इति वा पञ्चमी ) अन्तः मनसि प्रसरति प्रसारमापद्यते, प्रविशतीति वा ; यथा अतिप्रयत्नसम्पादितोऽपि भङ्गुरः सिकता सेतुबन्धः उत्तालकल्लोलाप्रतिहतं वेगं निरोद्धुं न कथमप्यर्हति, तथा मया यथाशक्ति समुत्पादितोऽप्युद्यमः दुःसहमिमं प्रियावियोगसम्भूतं शोकावेगम् अपनेतुं नार्हतीति, तत् किमेवं पुनरुपदिश्यते भवत्या ? इति भावः। ( अत्र चतुर्थपादे एकस्मिन्नेव वाक्ये जलप्रवाह-चित्तविकारयोरुपमानोपमेयभावकथनात् उपमा नामालङ्कारः ; सा च इवशब्दोत्थापिततया श्रौती। प्रथमपादे च लोलोल्लोलेत्यादिवर्णनाम् ओजःप्रकाशकतया करुणरसस्य प्रतिकूलत्वात् अत्र प्रतिकूलवर्णत्वदोष इति केचित् )। मन्दाक्रान्ता वृत्तम्॥३६॥

सीता। एदिणा अज्जउत्तस्स दुब्बारदारुणारम्भेण दुक्खसङ्क्खोहेण पफ्फुरिदणिेदुक्खं बिअ आकम्पिदं मे हिअअम्। (म) एतेन आर्यपुत्रस्य दुर्वारदारुणारम्भेण दुःखसङ्क्षोभेण प्रस्फुरितनिजदुःखमिवाकम्पितं मे हृदयम्।
(म) एतेन-साक्षात्परिदृश्यमानेन। दुर्वारदारुणारम्भेण-दुर्वारः निरोद्धु-

मशक्यः अत एव दारुणः भीषणः आरम्भः प्रक्रमो यस्य तेन तथोक्तेन। आर्य्यपुत्रस्य-स्वामिनो रामस्य। दुःखसङ्क्षोभेण-शोकसंवेगेन। प्रस्फुरितेत्यादि। -प्रस्फुरितम् उद्रिक्तं निजं स्वकीयं दुःखं शोकः यस्मिन् तत् तथोक्तम्। मे हृदयं-मदीयं चेतः। आकम्पितमिव-कम्पाकुलमिवेत्यर्थः। शोककारणस्य वियोगस्य उभयत्रैव समानत्वादिति भावः। ( ‘आकम्पितमिव’ इत्यत्र क्रियोत्प्रेक्षाऽलङ्कारः, सा च इवशब्दोत्थापिततया वाच्या)।
वासन्ती। (स्वगतम्) कष्टमभ्यापन्नो देवः; तदन्यतः क्षिपामि तावत्। (प्रकाशम्) चिरपरिचितानामेतेषां जनस्थानभागानामवलोकनेन आत्मानमानन्दयतु देवः। (य) रामः। एवमस्तु। (र) (इति उत्थाय परिक्रामति) (ल) सीता। सन्दीबणाओ ज्जेब दुक्खस्स पिअसहीबिणोदणोबाआ त्ति मणेदि। (व) सन्दीपना एव दुःखस्य प्रियसखीविनीदनोपाया इति मन्यते।
(य) कष्टमिति-दुःखसूचकमव्ययम्। अभ्यापन्नः,-अभि अभितः आपन्नः दुःसहशोकावेगेन निरतिशयं विपत्प्राप्तः, निरतिशयशोकाकुलः इत्यर्थः। यद्वा-कष्टं-दुःखम्, अभ्यापन्नः,-प्राप्तः इत्यर्थः। देवः,-रामः। तत्-तस्मात्, एभिः शोकसन्दीपकवाक्यैः एतस्य दुःसहदुःखसम्भावादित्यर्थः। अन्यतः,-अन्यस्मिन् विषये। क्षिपामि-आकर्षामि, अस्य चित्तं विषयान्तरे सञ्चारयामीत्यर्थः। तावदिति-वाक्यालङ्कृतौ। चिरपरिचितानां-पूर्वं प्रियतमया समं बहुकालमवस्थानात् चिराभ्यस्तानाम्। एतेषां-परिदृश्यमानानाम् ( इदानीमिति पाठे- ‘अवलोकनेन’ इति ‘आनन्दयतु’ इत्यनेन वा परेणान्वयः )। जनस्थानभागानाम्-जनस्थानस्य भागः अंशविशेषाः तेषाम्। ( ‘अवलोकनेन’ इत्यस्य कर्म्मणि ‘कर्तृकर्म्मणोः कृति’ (२। ३। ६५ पा०) इति षष्ठी )। अवलोकनेन-दर्शनेन। आत्मानं -चित्तम्, ( ‘आत्मा पुंसि स्वभावे च प्रयन्तमनसोरपि’ इति मेदिनी )। आनन्दयतु-विनोदयतु।
(र) एवम्-इत्थं, त्वया कथितमेवेत्यर्थः। अस्तु-भवतु, त्वया यदुक्तं तदेव करोमीत्यर्थः।
(ल) परिक्रामति-परितः पादसञ्चारेण भ्रमतीत्यर्थः।
(व) प्रियसखी-प्रियसहचरी वासन्ती। दुःखस्य-विरहक्लेशस्य। सन्दीपनाः एव-पुर्व्वस्मृतिसमुद्बाधकतया उत्तेजका एव, उद्दीपनाहेतवः एवेत्यर्थः। विनोदनोपायाः,-शोकापनोदनसाधनानीत्यर्थः। इति-इत्थम्। मन्येति-निश्चिनोति। पूर्वकथितानां निजवचनानाम् अतिदुःखहेतुतां मन्यमाना वासन्ती आर्य्यपुत्रस्य चित्तमन्यासक्तं विधातुकामा रामं यत् जनस्थानभागानवलोकयितुम् उपदिदेश, तन्न युक्तं, तेषामप्यधिकतया पूर्ववृत्तस्मारकत्वेन दुःखहेतुत्वादिति भावः। ( अत्र वोनोदनहेतुत्वेन निर्दिष्टस्य जनस्थानभागदर्शनस्य तत्कार्य्यं प्रति विरुद्धतया विरुद्धकार्य्यकारननिर्देशाद्विषमालङ्कारः )।
वासन्ती। देव देव – अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद्गोदावरीरोधसि।
आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुद्मलनिभो मुग्धः प्रणामाञ्जलिः॥३७॥

स्ववचसा पूर्वस्मृतिमुद्बोधात् रममतिक्लिष्टमालोक्य वासन्ती तम् अन्यासक्तमनसं विधाय विनोदयितुकामा आह, अस्मिन्निति। -अस्मिन्नेव पुरोवर्त्तिन् इत्यर्थः, लतागृहे निकुञ्जे त्वं तस्याः सीतायाः मार्गे प्रत्यागमनवर्त्मनि दत्ते ईक्षणे येन सन्तथोक्तः, प्रभवः आसीःगोदावरीं गतायाः सीतायाः प्रत्यागमनविलम्बनात् तदागमनपथे सतृणादृष्टिक्षेपं प्रतीक्षमाणः आसिरित्यर्थः, सा सीता गोदावर्य्याः रोधसि तिरे ( रुणद्धि जलमिति रोधः, इति रुधेरसुन्प्रत्ययः ) ( ‘कूलं रोधश्च तीरञ्च प्रतीरञ्च तटं त्रिषु’ इत्यमरः ) ( ‘गोदावरीसैकते’ इति पाठेऽपि तुल्यः एवार्थः ) चिरं बहुक्षणं हंशैः कृतमहितं कौतुकं दर्शनाभिलाषः यस्याः सा तथोक्ता ( ‘कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्’ इत्यमरः ) अभूत् बभूव। आयान्त्या गोदावरीतटात् प्रतिनिवर्त्तमानयेत्यर्थः, ( आयाति या सा आयान्ती तया, आङ्पूर्वात् याधातोः शतृप्रत्ययः, ततश्च स्त्रियां ङीषि कृते ‘आच्छीनद्योर्नुम्’ (७। १। ८० पा०) इति पाक्षिकः नुम्प्रत्ययः, पक्षे आयात्या ) तया सीतया त्वां भवन्तं परिदुर्मनायितमिव कालविलम्बान्नितरामुत्कण्ठितहृदयमिव ( परि परितः दुर् दुःस्थं मनो यस्य स परिदुर्मनाः, अपरिदुर्मनाः परिदुर्म्मनाभूतः इत्यर्थे परिदुर्म्मनःशब्दात् ‘भृशादिभ्योभुव्यच्वोर्लोपश्च हलः ‘(३। १। १२ पा०) इति क्यचि सलोपे च कृते ‘अकृत्सार्वधातुकयोर्द्दीर्घः’ (७। ४। २५ पा०) इति दीर्घे ततश्च क्तप्रत्यये कृते पदमेतत् निष्पन्नम् ) विक्ष्य दृष्ट्वा कातर्य्यात् त्वत्कोपसम्भावनाजनितव्याकुलतया त्रासात् ( ईषत् तरति या सा कातरा ‘ईषदर्थे’ (६। ३। १०५ पा०) इति कोः कादेशः, ततश्च कातराया भावः इत्यर्थे ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च’ (५। १। १२४ पा०) इति ष्यञ्प्रत्ययः ) अरविन्दकुद्मलनिभः कलकोरकसदृशः ( अरविन्दस्य कुद्मलेन सदृशः इति अस्वपदविग्रहनित्यसमासे अरविन्दकुद्मलनिभः इति पदं सिद्धम्, ‘स्युरुत्तरपदे त्वमी। निभसङ्काशनीकाशप्रतीकाशोपमादयः’ इत्यमरोक्तेः। ‘कुद्मलो मुकुले पुंसि न द्वयोर्नरकान्तरे’ इति मेदिनी) मुग्धः मनोहरः प्रणामस्य अञ्जलिः त्वां प्रसादयितुं युक्तपाणिरित्यर्थः, ( अत्र-प्रणामाय अञ्जलिरित्यर्थे प्रणामस्य अञ्जलिरिति अश्वघासादिवत् तादर्थ्ये षष्ठीसमासः ) बद्धः रचितः आसीदिति शीषः। ( अत्र ‘अरविन्दकुद्मलनिभः’ इत्यंशे कमलकोरकेण अञ्जलेः सादृश्यकथनादुपमा नामालङ्कारः ; सा च तुल्यार्थकनिभशब्न्दोत्थापिततया अर्थी,- ‘आर्थी तुल्यसमानाद्यास्तुल्यार्थो यत्र वा वति ‘इति दर्पणोक्तेः ; तथा ‘पर्दुर्मनायितमिव’ इत्यत्र उत्प्रेक्षा चेत्यनयोः परस्परनिरपेक्षतया संसृष्टिः )। शार्दूलविक्रीडतं वृत्तम्॥३७॥

सीता। दारुणासि सहि बासन्दि दारुणासि; जा एदेहिं हिअअमम्मगूढसल्लघट्टणेहिं पुणो पुणो मं मन्दभाइणीं अज्जउत्तं अ सन्दाबेसि। (श) दारुणासि सखि वासन्ति दारुणासि; या एतैर्हृदयमर्मगूढशल्यघट्टनैः पुनः पुनर्मां मन्दभागिनीमार्यपुत्रञ्च सन्तापयसि।
(श) दारुणा असि-अतिनिष्करुणा भवसि, त्वमिति शेषः। अत्र ‘दारुणाऽसि दारुणाऽसि’ इति खेदे द्विरुक्तिः। या-त्वमित्यर्थः। एतैः,-श्रुतपूर्वैर्त्यर्थः। हृदयमर्म्मेत्यादि। -हृदयस्य अन्तःकरणस्य मर्म्मणी प्राणस्थने गूढस्य प्रच्छन्नरूपेण अवस्थितस्य शल्यस्य वियोगदुःखरूपस्य शङ्कोः घट्टनैः इतस्ततः सञ्चालनैरुत्यर्थः। मन्दभागिनीं-हतभाग्याम्। आर्य्यपुत्रञ्च-स्वामिनं रामञ्चेत्यर्थः। सन्तापयसि-पीडयसि। यथाऽतिपेलवे हृन्मर्मणि निहितमपि शल्यं कथमपि सह्यते, पुनस्तदेव चेत् कुतश्चिदाघातात् सहसा सञ्चालितं स्यात्, तदा चिरावस्थानेन कथञ्चिन्निगृहीतमपि सुतरामसहनीयं भवेत्, तथा अतिदुःसहोऽपि शोकावेगः दीर्घकालातिरेकात् कथमप्यन्तर्निगृहीतोऽपि त्वदीयवचोभिरिदानीं नवीकृत इव युगपदावयोः मर्म्म पीडयतीति भावः।
रामः। चण्डि जानकि इतस्ततो दृश्यसे इव न चानुकम्पसे। (ष)- हा हा देवि स्फुटति हृदयं स्रंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि॥३८॥

(इति मूर्च्छति) (ष) चण्डि -अतिकोपने ; एवं सकरुण विलपन्तमपि मां यत्नो नानुकम्पसे, तन्मये निष्कारणनिर्वासनेनैव अतिकुपिता त्वं मयि एवमाचरसीति चण्डीत्यामन्त्रणम्। इतस्ततः,-अभितः, चतुर्दिक्षु इत्यर्थः। दृश्यसे इव-मया साक्षात् क्रियसे इव, (भागीरथीवरमाहात्म्यात् साक्षात् सीतामवलोकयितुमशक्नुवन्नपि सततसीताऽनुध्यानपरतया ‘त्रिभूवनमपि तन्मयं विरहे’ इति सर्वमेव सितामयमवलोकयन् उद्भ्रन्तिचित्तो जानकीनाथः इत्थमुक्तवानिति बोध्यम् )। च-किन्तु, ( ‘चान्वाचये समाहारेऽप्यन्योन्यार्थे समुच्चये। पक्षान्तरे तथा पादपूरणेऽप्यवधारणे॥ ‘इति मेदिनी )। नानुकम्पसे-साक्षादुपस्थिता सती सादरसम्भाषणादिना न दयसे, ममेति शेषः।
दुःसहशोकसंविग्नमानसतया अत्यन्तमन्तर्ज्वलतः स्वस्यानुकम्पनीयत्वमेव दर्शयन्नाह, हा हेति। -हा इति शोकसूचकमव्ययम्, ( ‘हा विषादशुगर्त्तिषु’ इत्यमरः। अत्र खेदातिशय्ये द्विर्भावः )। देवि सीते हृदयम् उरःस्थलमित्यर्थः, स्फुटति विदीर्य्यति, देहबन्धः शरीरबन्धनं, कायाऽवयवसन्धिरित्यर्थः, स्रंसते शिथिलीभवति, ( अत्र ‘ध्वंसते’ इति पाठे-विशीर्णीभवतीत्यर्थः। ) जगत् विश्वं शून्यम् असत्कल्पमित्यर्थः, मन्ये जानामि, अविरता अविश्रान्ता ज्वाला शोकाग्निशिखा यस्मिन् तद् यथा तथा, अन्तः अन्तःकरणे ( अन्तरित्यवच्छेदे सप्तमी ) ज्वलामि दग्धोऽस्मि, विधुरः प्रबलप्रियावियोगदुःखेन कातरः अन्तरात्मा जीवः सीदन् नियतक्लेशपरम्परासहनेन अत्यन्तम् अवसन्नः सन् अन्धे अन्धङ्करणे, प्रगाढे इति यावत्, ( अन्धयति लोकान् यत् तत् अन्धं तस्मिन् अन्धे इति अन्धिधातोः ‘नन्दिग्रहिपचादिभ्यो ल्युण्न्यचः’ (३। १। १३४ पा०) इति पचादित्वादच् ) तमसि अन्धकारे मज्जतीव निलीयते इव, तथा मोहः अचैतन्यं, विचित्ततेति यावत्, (मोहलक्षणं यथा दर्पणे- ‘मोहो विचित्तता भीति-दुःखवेगानुचिन्तनैः। मूर्च्छनाऽज्ञानपतनभ्रमणाऽदर्शनादिकृत्॥

इति ) विष्वक् समन्तात्, सर्वविषयानित्यर्थः, स्थगयति मोहाच्छादनात् न किमपि मे ज्ञानविषयो भवतीत्यर्थः। एवं सति मन्दभाग्यः दुर्भाग्यः अहमिति शेषः, कथं किं करोमि अनुतिष्ठामि ? कमुपायमाश्रयामीत्यर्थः, अस्य प्रतिविधानार्थमिति शेषः। दुःसहवियोगवह्निना विहिरन्तश्चैवं दह्यमानः नियतक्लेशपरम्पराऽनुभवेन मुहुर्मुह्यमानः नियतमन्धतमसावृतः दुःसहमिदं दुःखं प्रतिविधातुं न कमप्युपायं पश्यामीति भावः। ( अत्र अन्धङ्करणे तमसि अन्तरात्मनः मज्जनसम्भावनादुत्प्रेक्षा नामालङ्कारः )। मन्दाक्रान्ता वृत्तम्॥३८॥

‘सीता। हद्दी हद्दी पुणो बि प्पमूढो अज्जउत्तो (स) वासन्ती देव समाश्वसिहि समाश्वसिहि।
सीता। हा अज्जउत्त मं मन्दभाइणीं उद्दिसिअ सअलजीअलोअमङ्गलाधोस्स दे बारं बारं संसइदजीबिददारुणो दसापरिणामो त्ति हा हसह्मि। ’ (ह) (इति मूर्च्छति) हा धिक् हा धिक् पुनरपि प्रमूढः आर्यपुत्रः ’ हा आर्यपुत्र मां मन्दभागिनीमुद्दिश्य सकलजीवलोकमङ्गलाधारस्य ते वारं वारं संशयितजीवितदारुणो दशापरिणामइति हा हतास्मि।
(स) पुनरपि-भूयोऽपि। प्रमूढः-अत्यर्थं मूर्च्छितः।
(ह) मन्दभागिनीं-अतिदुर्भाग्याम्। उद्दिश्य-लक्ष्यीकृत्य, मदर्थमेवेत्यर्थः। सकलेत्यादि। -सकलः समग्रः जीवलोकः जगत् तस्य मङ्गलाधारः कल्याणनिलयः तस्य, जीवितो यः सततं सकललोककल्याणं साधयति तस्येत्यर्थः। वारं वारं-पुनः पुनः , न तु कदाचिदित्यर्थः। संशयितेति। -संशयितं स्थास्यति न स्थास्यति वेति सन्देहमापन्नं जीवितं जीवनं यस्मिन् स तथोक्ताश्चासौ, अत एव दारुणः भीषणश्चेति संशयितजीवितदारुणः प्राणानामस्तित्वसन्देहवशादतिभयावहः इत्यर्थः। (तयोर्विशेषणयोरेकं विशेष्यं कल्पयित्वा नीललोहितादिवत् कर्म्मधारयसमासः कर्त्तव्यः ) दशापरिणामः-अवस्थाविपर्य्यासः, मूर्च्छारुपप्रकृतावस्थापरिवर्त्तनमित्यर्थः। इति-अस्मात् हेतोः। हताऽस्मि-आर्य्यपुत्रस्य ईदृशपरिणामदर्शनेन प्रायेण मृताऽस्मीत्यर्थः। कायाऽसत्त्वे छायासत्त्ववत् आर्य्यपुत्रस्य अकुशले मम कुशलं कथमपि न सम्भाव्यमिति भावः।
तमसा। वत्से समाश्वसिहि समाश्वसिहि ; पुनस्त्वत्पाणिस्पर्श एव सञ्जीवनोपायो रामभद्रस्य। (क) वासन्ती। कथमद्यापि नोच्छसिति हा प्रियसखि सीते क्वासि? सम्भावयात्मनो जीवितेश्वरम्। (ख) सीता। (ससम्भ्रममुपसृत्य हृदि ललाटे च स्पृशति)। (ग) वासन्ती। दिष्ट्या प्रत्यापन्नचेतनो रामभद्रः। (घ) (क) मुहुरेवं विलापिनं स्वस्वामिनं सहसा मूर्च्छितमालोक्य प्राणापायशङ्काऽऽतङ्कितां प्रियसखीं जानकीमपि मूर्च्छितामवेक्ष्य तमसा तां समाश्वासन्ती आह, वत्से इति। -समाश्वसिहि-आश्वस्ता भव (सम्भ्रमे द्विरुक्तिः)। आश्वासे हेतुमाह, पुनरिति। -पुनः,-भूयः इत्यर्थः, ( ‘प्रियस्पर्शो हि पाणिस्ते’ ‘स्पर्शः पुरा परिचितः’ इत्यादिना पुर्वमप्येकदा सीतापाणिस्पर्शतः राघवस्य सञ्जीवनात् अत्र ‘पुनः’ इत्युक्तम् )। त्वत्पाणिस्पर्शः,-तव करस्पर्शः , ( पाणिना स्पर्शः इति पाणिस्पर्शः, तव पाणिस्पर्शः त्वत्पाणिस्पर्श इति विग्रहः ) अत्र एवकारोऽन्ययोगव्यवच्छेदार्थकः, तेन-तव करस्पर्शं विना जगति नान्यत् किमपि अस्य सञ्चीवनसाधनं वर्त्तते इत्यर्थो लभ्यते। सञ्जीवनोपायः ,-पुनर्ज्जीवनसाधनम्। ननु सहचरि स्वामिनि मूर्च्छितेऽपि मैवं भैषीः, तन्मूर्च्छाऽपगमैकसाधनस्य कार्य्यतः परीक्षितपूर्वस्य त्वत्करावमर्शस्य त्वदायत्तत्वादिति भावः।
(ख) कथं-किम्। अद्यापि-इदानीमपि, एतावता कालेनापीत्यर्थः। न उच्छ्वसिति- न चेतनां लभते, रामभद्र इति शेषः। क्वाऽसि-कुत्र वर्त्तसे ? स्वामिनः एवं दुर्द्दशायां तव अन्यत्रावस्थानं न युक्तमिति भावः। आत्मनः,-स्वस्याः। जीवितेश्वर-प्राणनाथं, स्वजीवितस्य ईश्वरे अकल्याणभाजि, स्वजीवितस्यापि नितराम् अशरणतया सुतरोमेव अकल्याणमिति भावः। सम्भावय-स्वोपस्थित्या सम्भावितं कुरु इत्यर्थः।
(ग) ससम्भ्रमं-त्वरान्वितं यथा स्यात् तथा। उपसृत्य-समीपमेत्य। हृदि-वक्षसि। ललाटे-भाले च ; ( उभयत्र औपश्लेषिकाधिकरणे सप्तमी ) रामस्येति शेषः, स्पृशति स्पर्सं नाटयति।
(घ) भागीरथीवरप्रभावात् सीताया अदृश्यमानतया तत्पाणिस्पर्शेनैव प्राप्तचेतने रामभद्रे भाग्यलब्धचैतन्यं मन्यमाना वासन्ती आह, दिष्ट्येति। -दिष्ट्या-भागेनेत्यर्थः। प्रत्यापन्नचेतनः,-प्रत्यापन्ना पुनरागता चेतना सञ्ज्ञा यस्य स तथोक्तः, भवतीति शेषः।
रामः। आलिम्पन्नमृतमयैरिव प्रलेपै- रन्तर्वा वहिरपि वा शरीरधातून्।
संस्पर्शः पुनरपि जीवयन्नकस्मा- दानन्दादपरविधं तनोति मोहम्॥३९॥

दुःसहदुःखावेगेनातितरां मुह्यन्नपि जानकीजीवनः सहसा बहुशः परिचितपूर्वम् अदृष्टहेतुकममृतमधुरं करस्पर्शमुपेतः अत्यानन्दितः विस्मित इवाह, आलिम्पन्निति। -संस्पर्शः अनुभूयमानो जानकीकरस्पर्शः, अमृतमयैः सधात्मकैः ( अमृतस्य स्वरूपा इति अमृतमयाः ‘तत्प्रकृतवचने मयट्’ (५। ४। २१ पा०) इति अमृतशब्दात् मयट् ) प्रलेपैः लेपैः अन्तर्वा अभ्यन्तरस्थितान् वहिरपि वा वहिःस्थितांश्च, शरीरधातून् देहोपादानभूतरसादीन् ( दधति शरीरं पुष्णन्ति इति धातवः दधातेरौणादिकः तुन्। ‘रसासृङ्मांसमेदोऽस्थि-मज्जशुक्राणि धातवः’ इति सुश्रुतसंहिता ) आलिम्पन्निव लिप्तान् कुर्वन्निव सदयं समन्तात् व्याप्नुवन् सन्निवेत्यर्थः, जीवयन् चेतयन् मोहादस्तचेतने मयि पुनः प्राणसञ्चारं कुर्वन्नित्यर्थः, मामिति शेषः, पुनरपि भूयोऽपि, (पूर्वमप्येकदा एवमेवैतत्पाणिस्पर्शेन चेतनाप्राप्तेरत्र पुनःपदम् )। अकस्मात् सहसा, अतर्कितरूपेणेत्यर्थः, आनन्दात् निरतिशयाह्लादवशात्, यद्वा-आनन्दं प्राप्य, ( अत्र ( ‘विभाष् गुणेऽस्त्रियाम्’ (२। ३। २५ पा०) इति हेतौ पञ्चमी, ‘ल्यब्लोपे कर्म्मण्यधिकरणे च’ (वा०) इति ल्यब्लोपे वा पञ्चमी ) अपरविधं दुःखानुपादानकतयाऽत्यन्तविलक्षणं सुखजन्यमित्यर्थः, मोहं विषयान्तराग्रहणरूपं जाड्यं, तनोति विस्तारयति, प्रवर्त्तयतीत्यर्थः। ( अत्र प्रथमपादे प्रकृते संस्पर्शे पीयूषप्रलेपविलेपनकर्त्तृत्वसम्भावन्दुत्प्रेक्षा नामालङ्करः ; तथा परार्द्धे ‘जीवयन् मोहं तनोति’ इत्यत्र जीवयतो मोहविस्तारकर्त्तृत्वस्य आपातता विरुद्धतया विरोधाभासश्चेत्यनयोरङ्गाङ्गिभावेन सङ्करः )। प्रहर्षिणी वृत्तम्। तल्लक्षणं यथा,- ‘त्र्याशाभिर्मनजरगाः प्रहर्षिणीयम्’ इति। एतत्प्रस्तारस्तु १४०१ सङ्ख्याकः॥३९॥

(आनन्दनिमीलिताक्ष एव) सखि वासन्ति दिष्ट्या वर्धसे। (ङ) (ङ) आनन्देति। -आनन्देन सुधामधुरस्पर्शसुखेन निमीलिते मुद्रिते अक्षिणी नेत्रे यस्य स तथोक्तः, सुखानुभूतौ नेत्रनिमीलनं स्वाभाविकमेव। दिष्ट्या वर्द्धसे-मदीयभाग्योदयेन तवापि भाग्योदयो जात इत्यर्थः।
वासन्ती। देव कथमिव ? रामः। सखि किमन्यत्; पुनः प्राप्ता जानकी। (च) वासन्ती। अयि देव क्व सा ? रामः। (स्पर्शसुखमभिनीय) पश्य ननु इयं पुरत एव। (छ) वासन्ती। अयि देव किमिति मर्मच्छेददारुणैरेभिः प्रलापैः प्रियसखीदुःखदग्धामपि पुनर्मन्दभागिनीं दहसि माम् ? (ज) सीता। ओसरिदं इच्छामि ; एसो उण चिरसब्भाबबसोम्मसीअलेण अज्जउत्तप्फंसेण दीहदारुणं बि सिद्दन्तणीसहबिपज्जत्थो बेबिदि अबसो बिअ मअ हत्थो। (झ) अपसर्तुमिच्छामि ; एष पुनश्चिरसद्भावसौम्यशीतलेनार्यपुत्रस्पर्शेन दीर्घदारुणमपि सन्तापं झटिति हरता वज्रलेपोपनद्ध इव खिद्यन् निःसहविपर्यस्तो वेपतेऽवश इव मे हस्तः।
(च) कुमन्यत्-अपरं किं कथयामीत्यर्थः। पुनः प्राप्ता-पुनरप्यासादिता।
(छ) ननु इति सम्बोधने। इयं-सन्निकृष्टा, मदीयप्रत्यक्षविषयीभूतेत्यर्थः, ( ‘इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतरो रूपम्। अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात्॥ ‘इति नियमात् अत्र प्रत्यक्शविषये इदमः प्रयोगः )। पुरत एव-अग्रत एव, एवकारेण व्यवहितत्वं व्यवच्छिनत्ति।
(ज) किमिति-कथम्। मर्म्मच्छेदेति। -मर्म्मणः जीवनस्थानस्य छेदेन भेदेन दारुणैरतिदुःसहैः, निरतिशयमर्म्मविदाराकैरित्यर्थः। प्रलापैः,- ‘इयं पुरतः एव’ इति उन्मत्तवाक्यैः ; सीतायाः मरणनिश्चयेन कथमपि तस्या अत्र उपस्थित्यसम्भवादिति भावः। प्रियसखीति। -प्रियसख्याः प्रियसहचर्य्याः सीतायाः देःखेन वियोगक्लेशेन ज्वलदनलनिभेनेति यावत्, दग्धं सन्तप्तामपि। दहसि-सन्तापयसि, पीडयसीत्यर्थः ; दुःसहप्रियसहचरीव्रहकातरायां मयि क्षते क्षारमिव तवैतद् व्यर्थवचनमतिदुःसहं जातमिति भावः।
(झ) सहसा प्रियतमाऽङ्गसंस्पर्शेन सञ्जातकम्पात्मकसात्त्विकभावा स्वामिसन्दर्शनभयविह्वला वैदेही तस्मात् स्थानादपरर्त्तुकामा आह, अपसर्त्तुमिति। -अपसर्त्तुम्-अन्यत्र यातुमित्यर्थः। इच्छामि-अभिलषामि, अन्यथा महाननर्थः सम्भविष्यति इति भावः। चिरसद्भावेति। -चिरसद्भावेन चिरप्रणयेन अविचलितप्रेमणा इत्यर्थः, सौम्यो मनोहरः शीतलः स्निग्धस्तेन। वज्रन्तेपोपनद्धः,-वज्रेण यो लेपो लेपनम्, आमतिन्दुफलादिमिश्रणजनितः आधुनिक ‘सिमेष्ट’ आद्यऽपरनामा वराहसंहिताद्युक्तो द्रव्यविशेषो वा वज्रलेपः, तेन उपनद्ध इव दृढनिबद्ध इव कथमपि उत्थापयितुमशक्य इत्यर्थः। वराहसंहितोक्तः वज्रलेपो यथा- ‘आमं तिन्दुकमामं कपित्थकं पुष्पमपि च शाल्मल्याः। बीजानि शल्लकीनां धन्वनवल्को वचा चेति॥ एतैः सलिलद्रोणः क्वाथयितव्योऽष्टभागशेषश्च। अवतार्य्योऽस्य च कल्को द्रव्यैरेतैः समनुयोज्यः॥ श्रीवासकरसगुग्गुलुभल्लातककुन्दुरूकसर्जरसैः। अतसीविल्वैश्च यतः कल्कोऽयं वज्रलेपाख्यः॥ प्रासादहर्म्यबलभीलिङ्गप्रतिमासु कुड्यकूपेषु। सन्तप्तो दातव्यो वर्षसहस्रायुतस्थायी॥ ‘इति। ५७मः अध्यायः। स्विद्यन्-सात्त्विकभावोद्रेकम् धर्माक्तः। निःसहेति। -निःसहं नितरां यथा स्यात् तथा विपर्य्यस्तः विरुद्धभावं गतः,-स्वव्यापाराक्षमः। वेपते-कम्पते, एतेन पञ्चमः सात्त्विकभावः उक्तः। सात्विकभावा यथा दर्पणे- ‘स्तम्भः खेदोऽथ रोमाञ्चः स्वरभङ्गोथ वेपथुः। वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्विका स्मृताः॥ ‘इति।
रामः। सखि कुतः प्रलापः ? (ञ)-

आर्यपुत्र स एव इदानीमसि त्वम् ? (ञ) रामः ‘किमिति प्रलापैर्मां दहसि’ इत्यादिवासन्तीवचनं प्रत्युत्तरयन्नाह, सखीति। -कुतः,-कस्माद्धेतोः। प्रलापाः,-निरर्थकवचनानि, स्युरिति शेषः। ‘( पुनः प्राप्ता जानकी’ इति मदीयवचनमुन्मत्तवचनर्थकमिति सम्भावयितुं नोचितमिति भावः।
गृहीतो यः पूर्वं परिणयविधौ कङ्कणधर- श्चिरं स्वेच्छास्पर्शैरमृतशिशिरैर्यः परिवितः।
सीता। अज्जउत्त सोज्जेब दाणिं सि तुमम् ? (ट) रामः। स एवायं तस्यास्तुहिनकरकौपम्यसुभगो मया लब्धः पाणिर्ललितलवलीकन्दलनिभः॥४०॥

(ट) ‘गृहीतः’ इत्यादिश्लोकस्य पूर्वार्द्धमाकर्ण्य स्वामिनः स्वस्मिन्ननितरसाधारणमनुरागमनुभूय जनकतनया सविस्मयं वक्ति, आर्य्यपुत्रेति। इदानीम्-इदानीमपीत्यर्थः। स एव-पूर्व्ववत् मदेकान्तानुरागी एव, मां प्रति तादृक्प्रणयवानेवेत्यर्थः, त्वयि न कोऽपि विपर्य्ययो लक्ष्यते मम तु दशाविपर्य्ययः केवलमदृष्टाधीन इति भावः। यद्वा-इदानीं-सम्प्रति, ईदृगनुरागप्रकाशकाले इत्यर्थः। स एव-यः निरपराधाया अपि मम विजनवनविवासनेनातिदारुणः आसीत्, स एवेत्यर्थः। न ह्येतत् कथमपि सम्भवतीत्यर्थः काक्वा व्यज्यते। तदृगतिदारिणे ईदृगलोकसाधारणानुरागः पाषाणे पङ्कजोद्भववदत्यन्तमसम्भवीति भावः।
ननु यदि नैते प्रलापाः, तर्हि निर्जनारण्यनिर्वासितायाः एतावता कालेनावश्यं मृतायाः सीतायाः सम्प्रत्यत्र कथम् उपस्थितिसम्भवः ? इत्याशङ्कामपनेतुमनुभवसाक्षिकं तद्याथार्थ्ये प्रमापयन् सीतापतिराह, गृहीत इति। -पूर्वं शेशवे इत्यर्थः, परिणयविधौ विवाहसंस्कारावसरे कङ्कणं कराभरनविशेषः वैवाहिकमङ्गलसूचविशेषो वा ( ‘कङ्कणं करभूषायां सूत्रमण्डलयोरपि’ इति मेदिनी ) तस्य धरः कङ्कणधरः मङ्गलसूत्रसमलङ्कृतः इत्यर्थः, यः प्रियायाः पाणिः गृहीतः धृतः, मयेति शेषः, तथा यः पाणिः अमृतशिशिरैः सुधावच्छितलैः सुखकरैरित्यर्थः, स्वेच्छास्पर्शेः स्वेच्छया स्वाच्छन्द्येन स्पर्शाः मत्कर्त्तृका इत्यर्थः, तैः अनियतस्पर्शैरिति यावत्, चिरं दीर्घकालं व्याप्य परिचितः परिज्ञातः इति पूर्व्वार्द्धार्थः ; पूर्व्वर्द्धेन स्वप्रतिपाद्यमुपन्यस्य सम्प्रति तदेव वाक्यमुपसंहरति स एवेति। -तस्याः सीतायाः तुहिनैः तुषारैः करकाभिः वर्षोपलैश्च ( ‘अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्’ इति ‘वर्षोपलस्तु करका’ इति चामरः) सह यत् औपम्यमतिशीतत्वात् सादृश्य तेन सुभगः सन्तापहारकत्वात् सुसेव्यः, ललितं सुकुमारं यत् लवलीकन्दलं लवलीप्ररोहः तन्निभः तत्सदृशः (लवली ‘नोयाड’ इति नाम्ना प्रसिद्धः वृक्षविशेषः ) स एव अयं स्पर्शेन अनुभूयमानः पाणिः करः मया लब्धः प्राप्तः। ( अत्र ‘अमृतशिशिरैः’ ‘तुहिनकरकौपम्यसुभगः’ ‘ललितलवलीकन्दलनिभः’ इति पदचये उपमालङ्कारः। किञ्च ‘मया लब्धः पाणिः’ इत्यन्वयसमाप्तावपि ललितेत्यादिविशेषणपदोपादानात् समाप्तपुनरात्तता नाम दोषः )। शिखरिणी वृत्तम्॥४०॥

(इति गृण्हाति) (ठ) सीता। हद्दी हद्दी अज्जउत्तप्फंसमोहिदाए प्पमादो क्खु मे सम्बुत्तो। (ड) हा धिक् हा धिक् आर्यपुत्रस्पर्शमोहितायाः प्रमादः खलु मे संवृत्तः।
(ठ) गृह्णाति-ग्रहणमभिनयति, सीताहस्तमिति शेषः।
(ड) सुचिरकालात् परं प्रियस्पर्शमधिगत्य चेष्टाप्रतिघातात्मकस्तम्भरूपसात्त्विकभावोदयेन जडीभूता प्रियेण पुनर्गृहीता सीता स्वप्रकाशभीता आह, हा धिगिति। -आर्य्यपुत्रेति। -आर्य्यपुत्रस्य स्वामिनो रामस्य स्पर्शेन मोहितायाः विचित्ततां प्राप्तायाः। प्रमादः,-अनवधानताजनितो दोष इत्यर्थः। आर्य्यपुत्रस्य सञ्ज्ञालाभानन्तरमेव इतोऽनपसरन्त्या मया न साधु कृतमिति भावः।
रामः। सखि वासन्ति आनन्दनिमीलितेन्द्रियः साध्वसेनपरवानस्मि; तत् त्वं तावदेनां धारय। (ढ) वासन्ती। कष्टम् उन्माद एव। (ण) सीता। (ससम्भ्रममाक्षिप्यापसर्पति) (त) रामः। हा धिक् प्रमादः; हा धिक् प्रमादः – करपल्लवः स तस्याः सहसैव जडाज्जडः परिभ्रष्टः।
परिकम्पिणः प्रकम्पी करान्मम खिद्यतः खिद्यन्॥४१॥

(ढ) सुदीर्घं वियोगदुःखमनुभूय सम्प्रति भाग्यलब्धायाः सीतायाः पुनरपायशङ्क्या भीतः रामचन्द्रः आह, सखीति। -आनन्देति। -आनन्देन प्रियतमाकरस्पर्शसम्भवेन हर्षेण निमीलितानि अवशानि स्वस्वव्यापारे अशक्तानीति यावत्, इन्द्रियाणि चक्षुरादिज्ञानेन्द्रियाणि वागादिकर्म्मेन्द्रियाणि च यस्य स तथोक्तः। साध्वसेन -साध्वसं हर्षातिरेकसम्भूतवैक्लव्यं तेन ( सधु अत्यन्तम् अस्यते निक्षिप्यते मनोऽनेनेति साध्वसं , साधु’ अस्’ अच् ) ( ‘भितिर्भीः साध्वसं भयम्’ इत्यमरः )। परवान् अस्मि-पराधीनः भवामि, नाहमात्मनि प्रभवामीत्यर्थः। ( ‘परतन्त्रः पराधीनः परवान् नाथवानपि ‘इत्यमरः )। इदानीं कथमप्यसम्भावितं प्रियापाणिस्पर्शसुखमनुभूय स्तब्धीभूतोऽस्मीति नाहं सीतां धारयितुं शक्नोमीति भावः।
(ण) उन्मादः,-उन्मत्तता, बुद्धिविभ्रमः इति यावत्, रामस्य जातः इति शेषः। कष्टम्-एतदतीव दुःखकरमित्यर्थः, इतरथा प्रत्यक्षतोऽदृश्यमानायामपि वैदेह्यां कथं प्रत्यक्षदर्शीव व्यवहरतीति भावः।
(त) आक्षिप्य-आकृष्य, रामधृतं स्वकियं पाणिं बलादाच्छिद्येत्यर्थः। ससम्भ्रमं-सत्वरम्। अपसर्पति-अपसृत्य दूरं यातीत्यर्थः।
बहोः कालात् परं भाग्यात् पुनर्लब्धस्यापि प्रियायाः करपल्लवस्य सहसा परिभ्रंशे स्वकीयमनवहितत्वमेव हेतुरिति समर्थयमान आह, करपल्लव इति। -जडः विवशः, स्वव्यापाराक्षमः इत्यर्थः, प्रकम्पी वेपमानः, स्विद्यन् स्वदोक्तः तस्याः सीतायाः स इतः पूर्व्वमेव मया लब्धः करपल्लवः कोमलाङ्गुलिसनाथतया पल्लवसदृशः करः जडात् स्तब्धीभूतात् विवशतया दृढमाकर्ष्टुमक्षमादित्यर्थः, परिकम्पणः सकम्पात् स्विद्यतः धर्म्माप्लुतात् मम करात् हस्तात् सहसैव झटित्येव परिभ्रष्टः परिच्युतः, विगलित इति यावत्, मम अनवधानतां विना कथं भाग्यलब्धस्यापि पुनरपगमः इति भावः। ( अत्र सीतारामयोरुभयोरपि समेन सात्त्विकभाववर्णनेन रत्याख्यस्थायीभावस्य परिपुष्टतया विप्रलम्भशृङ्गाररसो भवतीति बोध्यम्। सात्त्विकभावाश्च प्रागुक्ताः। तथाऽत्र सहसा करात् करपरिभ्रंशे जडत्वादीनां हेतुतया पदार्थहेतुकं काव्यलिङ्गमलङ्कारः, एव ‘करपल्लवः’ इत्यत्र लोप्तोपमा च इत्यनयोः परस्परनिरपेक्षतया संसृष्टिः )। आर्य्या नाम मात्रावृत्तम्। तल्लक्षणं यथा- ‘लक्ष्मैतत् सप्त गण गोपेन भवति नेह विषमे जः। षष्ठो जश्च नलघु वा प्रथमार्द्धे नियतमार्य्यायाः॥ ‘इत्यादि। अत्र पूर्वार्द्ध षष्ठस्य ( –) जगणत्वात् यतिव्यवस्थाभावः। इयं हि सप्तदशलघुसद्भावात् क्षत्रियापि नायक (जगण) चतुष्टयान्वितत्वात् वेश्या जाति॥४१॥

सीता। हद्दी हद्दी अज्ज बि अणबत्थिदत्तीमिदमूढघूणन्तअणो ण पज्जबत्थाबेदि अत्ताणअम्। (थ) तमसा। (सस्नेहहासकौतुकं निर्वर्ण्य) (द)- हा धिक हा धिक् अद्यापि अनवस्थितस्थिमितमूढघूर्णन्नयनो न पर्यवस्थापयत्यात्मानम्।
(थ) अनवस्थितेति। -अनवस्थिते अकस्मात् प्राप्तसीताकरपरिभ्रंशात् अस्थिरे स्तिमिते पूर्व्वानुभूतस्पर्शसुखस्मृत्या निश्चले मूढे विषयज्ञानरहिते तथा घूर्णन्ती सीतारूपविषयग्रहार्थमितस्ततः धावन्ती नयने चक्षुषी यस्य सः। ( अत्र अनवस्थितत्वादिरूपाणाम् एतासां चतसृणां विरुद्धावस्थानाम् एकत्र युगपद् अवस्थानासम्भवात् क्रमशः क्षणभेदेन व्यवस्था बोध्या ) आत्मानं-स्वमित्यर्थः। न पर्य्यवस्थापयति-प्रकृतिस्थं करोति, तथा निरुद्द्वेगं कर्त्तुं न शक्नोतीत्यर्थः ; इदानीं कथमपि न सम्भावितं मामककरस्पर्शम् अकस्मादनुभूय क्षणमानन्दविह्ललः आर्य्यपुत्रः सहसा पुनः करापभ्रंशात् अतिक्लिष्टो नात्मस्थैर्य्यमापादयितुमलमित्यहो मे वज्रकठोराया निष्करुणत्वमिति भावः।
(द) सस्नेहेति। -स्नेहेन स्वाभाविकेन वात्सल्येन, हासेन व्यग्रतया प्रथमं प्रियतमाऽङ्गस्पर्शः तथा प्रकाशत्रासात् पुनरपसरणञ्चेति हास्येन कौतुकेन, हृदयविदारकोऽपि अयं भावः सम्प्रति भावान्तरमुपेतः, ततश्च दर्शनीयः इति कौतूहलेन च सहितं यथा स्यात् तथा। निर्वर्ण्य-पर्य्यवेक्ष्येत्यर्थः, आहेति शेषः।
सस्वेदरोमाञ्चितकम्पिताङ्गी जाता प्रियस्पर्शसुखेन वत्सा।
मरुन्नवाम्भःप्रविधूतसिक्ता कदम्बयष्टिः स्फुटकोरकेव॥४२॥

जनकनन्दिनीं सहसा क्षणं प्रियतमोऽङ्गसङ्गसुखेन बहिःप्रकाशितस्वेदरोमाञ्चकम्पादिसात्त्विकभावतया स्वं मनोभावं गोपायितुं कथमप्यसमर्थामालोक्य तमसा तस्याः तदानीन्तनीमवस्थामुपवर्णयन्ती आह, सखेदेति। -वत्सा सीता प्रियस्य पत्युः रमस्य स्पर्शेन अङ्गसङ्गेनेत्यर्थः, यत् सुखं तेन स्पर्शजनितेन आह्लादेन हेतुनेत्यर्थः, सखेदानि खेदार्द्राणि रोमाञ्चितानि पुलकितानि कम्पितानि च वेपमानानि च अङानि गात्रावयवा इत्यर्थः, यस्याः सा तथोक्ता धर्म्मजलाप्लुतपुलकितवेपमानगात्रावयवेत्यर्थः, सती ( अत्र स्त्रियां पाक्षिकः ङीष् ) मरुता वायुना नवाम्भसा च वर्षारम्भे नववृष्टजलेन च यथाक्रमं प्रविधूता कम्पिता सिक्ता च उक्षिता च सती ( नायं शाब्दिकसम्मतः प्रयोगः, तथा हि-समर्थं हि पदं समर्थेन समस्यते नासमर्थं, तथा च प्रकृते मरुत्प्रविधूतपदयोः नवाम्भःसिक्तपायोश्च परस्परमन्वयसमर्थयोरपि यथाक्रमं समासे नवाम्भःशब्देन प्रविधूतशब्देन च व्यवहिततया असामर्थ्यात् तादृशसमासो न साधुरिति सुधीभिर्विभाव्यम् ) तथा स्फुटा विकसिताः कोरकाः कलिका यस्याः सा तथाभूता स्पष्टोद्गतकेसरेत्यर्थः, कदम्बयष्टिः कदम्बशाखेव ( अत्र यष्टिशब्दप्रयोगेण कृशता द्योत्यते, सम्भाव्वितस्य लिङ्गवैषम्यरूपस्य उपमादोषस्य परिहारश्च भवतीति बोध्यम् ) जाता संवृत्ता। ( अत्र उपमा नामालङ्कारः, सा च इवशब्दोत्थापिततया श्रौती, उपमानोपमेयगत्सामान्यधर्माणां वाच्यतया च पूर्णाः ; परन्तु नेयं विशुद्धा, उपमेयांशे दर्शितानां धर्म्माणां क्रमस्य उपमानांशे अपरिरक्षितत्वात् ; तथा ‘मरुन्नवाम्भःप्रविधूतसिक्ता’ इत्यत्र प्रथमोद्दिष्टयोः मरुन्नवाम्भःपदयोरनु यथाक्रमं प्रविधूतसिक्तपदयोरुद्देशात् यथासङ्ख्यं चेत्यनयोरन्यसापेक्षतया सङ्करः )। इन्द्रवज्रोपेन्द्रवज्रयोर्मिश्रणात् उपजातिवृत्तम् ; एतच्च चतुर्दशधाप्रस्तारान्विताया उपजातेः द्वादशसङ्ख्याको ‘रामा’ नामको भेदः॥४२॥

सीता। (स्वगतम्) अह्महे अबसेण एदेण अत्ताणएण लज्जाबिदह्मि भअबदीए तमसाए; किन्त्ति किल एसा मणिस्मदि एसो दे परिच्चाओ एसो अ हिअआसङ्गो त्ति। (ध) अह्महे अवशेन एतेनात्मना लज्जापिताऽस्मि भगवत्या तमसया; किमिति किल एषा मन्यते; एष ते परित्यागः एष च हृदयासङ्ग इति।
(ध) तमसायाः सकौतुकमालोकनं तदानीन्तनावस्थासुमालोचनञ्च विज्ञाय

लज्जावनम्ना सिता आत्मगतमाह, अह्महे इति। -इदं सम्भ्रमसूचकमव्ययम्। अवशेन-आनन्दविह्वलेन, प्रियस्पर्शसुखानुभवपरवशेनेत्यर्थः। एतेन-मदीयेन खेदरोमाञ्चकम्पान्वितेनेत्यर्थः। आत्मना-देहेन हेतुना, ( अत्र ‘हेतौ’ (२। ३। २३ पा०) इति तृतीया। ‘आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि’ इति विश्वः )। लज्जापिताऽस्मि-त्रपां नीताऽस्मि, सलज्जीकृतास्मीति यावत्। ( ‘लज्जाम् आपिता’ इति द्वितीयासमासेन ‘लज्जापिता’ इति पदं सिद्धम्। केचित्तु ‘लज्जप्रकाशने’ इति धातोरदन्तचुरादिषु पाठं कल्पयित्वा अदन्तत्वेन वृद्धि स्वीकृत्य पदमेतत् साधयन्ति। शाकटायनस्तु कथाप्रभृतीनां सर्वेषामेव धातूनां पुकं विधाय कथापयति, गणापयति, लज्जापयति इत्यादिकं सधयतीति ध्येयम् )। परित्यागः,-परिवर्ज्जनम्। हृदयासङ्गः,-हृदयस्य चेतसः आसङ्गः आसक्तिः, अनुराग इति यावत्, ( अत्र अभिषङ्ग इति पाठे-संसर्ग इत्यर्थः )। असौ त्वामासन्नप्रसवाम् असहायाञ्च विजनेऽरण्ये निर्वासितवान्, त्वया तु अतिनिष्करुणेऽप्यस्मिन् एवमनुरागः प्रदर्शितः, यत् क्षणमङ्गसङ्गेनैव खेदपुलककम्पर्युगपदाकुलिता आनन्दपरवशता च संवृत्तेति निष्कारणनिर्वासयितरि अभिमानाप्रदर्शनेन ते लघुतैव जातेति तमसाया विश्वासः भविष्यति इति भावः। इति-इत्थम्। एषा-तमसा। मंस्यते-भोत्स्यति।
रामः। (सर्वतोऽवलोक्य) कथं नास्त्येव; ननु अकरुणे वैदेहि -(न) सीता। सच्चं अकरुणह्मि; जा एबम्बिधं तुमं पेक्खन्ती णं धरामि ज्जेब जीबिदम्। (प) सत्यमकरुणास्मि; या एवंविधं त्वां प्रेक्षमाणा ननु धराम्येव जीवितम्।
(न) प्रमादतः स्वकरात् विच्युतामपि सीतामितस्ततोऽन्विष्यापि अलभमानो रामचन्द्रः आह, कथमिति। -कथमिति-विस्मये। नास्त्येव-न विद्यत एव, अत्र सीतेति शेषः। सीता यदि अत्र कुत्रापि स्यात् तदा उपलभ्येत इति भावः। नन्विति सकरुणसम्बोधने। अकरणे -नास्ति करुणा दया यस्याः तत्सम्बुद्धौ, निर्द्दये इत्यर्थः, वक्ष्यमाणरामोक्त्यन्तर्गतेन ‘क्वासि’ इत्यनेनान्वयः।
(प) स्वामिना अभिहितम् ‘अकरुणे’ इति सम्बोधनपदमाकर्ण्य सीता सानुशयमाह, सत्यमिति। -सत्यं-यथार्थमित्यर्थः, मम् अकारुण्ये नास्ति कोऽपि संशयः इति भावः। या-अहम्। एवंविधं-दुःसहमद्वियोगदुःखकातरमित्यर्थः। प्रेक्षमाणा-स्वयं साक्षात्कुर्वाणा। जीवितं-प्राणान्। धरामि-बिभर्म्मि ; एवकारस्तु अन्ययोगव्यवच्छेदार्थकः , तेन ‘न तु त्यजामि’ इत्यर्थो लभ्यते। अत्र नन्वित्यनुनये। दयितं दुःसहदुःखम्रियमाणं साक्षादवेक्षमाणायाः पतिव्रतायाः पत्न्याः प्राणविनिमयेनापि तद्दुःखापनयः करणिय इति तद्विरुद्धाचरणपरायणायाः मम तु निर्द्दयत्वं सुव्यक्तमेवेति भावः।
रामः। क्वासि देवि प्रसीद नमामेवंविधं परित्यक्तुमर्हसि। (फ) सीता। अइ अज्जउत्त बिबरीदं विअ एदम्। (ब) वासन्ती। देव प्रसीद प्रसीद; स्वेनैव लोकोत्तरेण धैर्येण संस्तम्भयातिभुमिगतविप्रलम्भमात्मानम् ; कुतोऽत्र मे प्रियसखी सीता ? (भ) अयि आर्यपुत्र विपरीतमिवैतत्।
(फ) क्वासि-मम दृष्ट्यविषये कुत्र वर्त्तसे इत्यर्थः। प्रसीद-पुनरपि दर्शनस्पर्शनदानेन मामनुगृहाणेत्यर्थः। एवंविधं-दुःसहवियोगक्लेशकातरं , प्रायेण कामस्य दशमीं दशामुपेतमित्यर्थः। परित्यक्तुं-विहाय अन्यत्र गन्तुमित्यर्थः। अर्हसि-शक्नोषि, दयितं दुःखकातरमशरणञ्चावेक्षमाणायाः पत्न्याः कथमपि नासौ परित्याज्य इति भावः।
(ब) अयीति कोमलस्मबोधने। आर्य्यपुत्र -स्वामिन् एतत्-त्वदुक्तं ‘न मामेवंविधम्’ इत्यादिवचनमित्यर्थः। विपरीतं-विरुद्धमिव आभातीति शेषः। यतस्त्वमेव मां परित्यक्तवान्, नाहं त्वां परित्यक्तवतीति भावः। पतिव्रता विनीता सीता रामवाक्यमन्यथा प्रतिपादयितुं न शक्नोति द्योतनाय अत्र इवशब्दप्रयोगः।
(भ) स्वेन-स्वकीयेन, स्वाभाविकेनेत्यर्थः। लोकोत्तरेण-लोकातिशायिना, असाधारणेन अन्योपदेशनिरपेक्षेणेत्यर्थः। धैर्य्येण-चित्तस्थैर्य्येण, मनसोऽविकारितयेति यावत्। अतिभूमीत्यादि। -भूमिं चरमसीमाम् अतिक्रान्ता इति अतिभूमिः, तां गतः प्राप्तः सीमातिगः इत्यर्थः, ( अत्र भूमिशब्दः चरमसीमार्थे लाक्षणिकः ) विप्रलम्भो विरहशोको यस्य तं तथोक्तम्, अतिविवृद्धवियोगशोकावेगमित्यर्थः। ( ‘विप्रलम्भो विप्रयोगः’ इत्यमरः )। आत्मानं-मानसम्, ( ‘आत्मा पुंसि स्वभावे च प्रयत्नमनसोरपि’ इति मेदिनी )। सस्तम्भय-स्थिरीकुरु, शोकातिरेकविकृतमपि प्रकृतिस्थं विधेहीति यावत्।
रामः। व्यक्तं नास्ति; कथमन्यथा वासन्ती अपि तां न पश्येत्; अपि खलु स्वप्न एष स्यात्; न चास्मि प्रसुप्तः; कुतो वा रामस्य स्वप्नः? सर्वथा स एवैष भगवान् अनेकवारपरिकल्पनानिर्मितो विप्रलम्भः पुनः पुनरनुबध्नाति माम्। (म) (म) ‘कुतोऽत्र प्रियसखी’ इति प्रागुक्तवासन्तीवचनेन लब्धचेतनो रघुनन्दनः स्वानुभूतौ सन्दिहान आह, व्यक्तमिति। -व्यक्तम्-असन्दिग्ध, सीता अत्र नास्ति इत्येव सत्यमित्यर्थः। अन्यथा-इतरथा, चेदत्र विद्येतेत्यर्थः, वासन्त्यपि-अलौकिकशक्तिमती वनदेवताऽपीत्यर्थः, तां-सीतां, कथं-कस्मात्, न पशेयेत्- नेक्षेत ? यतः सीता अनितरसाधारणप्रभावशालिन्या वासन्त्या अपि दृष्टिविषयो न भवति, तस्मात् नूनमेव सा अत्र नास्तीति भावः। इदानीमात्मनः सर्व्वथा भ्रमसम्भवात् वनदेवतायाश्च अलौकिकशक्तिमत्तया ज्ञानप्रकर्षद्योतनाय ‘वासन्ती’ इत्युक्तम्। एवं योग्यानुपलब्धेरत्र सीताया असत्त्वनिर्णयात् स्वानुभवस्य भ्रमरूपतामाह, अपीति। -एषः,-त्वगिन्द्रियजन्यः सीतायाः अनुभवः। स्वप्नः-सुप्तिकालीनमनोविकारः, ( ‘स्वप्नो निद्रामुपेतस्य विषयानुभवस्तु यः’ इति दर्पणः)। अत्र अपिशब्दः सम्भावनार्थकः, ( ‘अपि सम्भावनाप्रश्न-शङ्कागर्हासमुच्चये’ इति मेदिनी )। खलुशब्दो वाक्यालङ्कारे। सोऽपि न सम्भवतीत्याह, न चेति। -अस्मि-अहम्। प्रसुप्तः,-निद्रितः। अत एव कुतः,-कस्मात्, केन रूपेणेत्यर्थः। रामस्य-मम। अप्रसुप्तस्य हि कथमपि न स्वप्नसम्भवः, प्रसुप्तविज्ञानस्येव स्वप्नपदार्थत्वात् ‘स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शने पुमान्’ इति अमरवचनात् पूर्व्वोक्तदर्पणवचनाच्च। प्रागुक्तरूपं विकल्प्य सम्प्रति स्वयमेव सिद्धान्तमाह, सर्व्वथेति। -अनेकवारेत्यादि। -अनेकवारं बहुशः परिकल्पना पुनः पुनः चिन्ता इति अनेकवारपरिकल्पना ( अनेकवारमित्यत्र ‘कालाध्वनोरत्यन्तसंयोगे’ (२। ३। ५ पा०) इति अत्यन्तसंयोगे द्वितीया, ततश्च परिकल्पना शब्देन द्वितीयासमासः ) तया निर्मितः उत्पादितः निरन्तरचिन्ताजन्यः इत्यर्थः। स एव-पुर्वं बहुशः अनुभूत एव इत्यर्थः, विप्रलम्भे अभिनवत्वव्यवच्छेदार्थकोऽयम् एवशब्दः। भगवान्-असाध्यसाधनसमर्थतया अलङ्घनीयप्रभावः। विप्रलम्भः,-प्रतारणा, मृगतृष्णिकावत् शून्येऽपि सीतादर्शनादिरूपः भ्रमः इत्यर्थः। पुनःपुनः,-भूयोभूयः। मामनुबध्नाति -मया सह धावति, इतः पूर्व्वम् बहुवारम् अनेनाहं विप्रलब्धः, सम्प्रत्यपि, तथैव जात इत्येवमत्यन्तं प्रतारितोऽस्मीति भावः। ( तस्य दुर्निवार्य्यत्वैश्वर्य्ययोगो भगवानित्यनेन ध्वन्यते )।
सीता। मए ज्जेब दारुणाए बिप्पलद्धो अज्जउत्तो। (य) वासन्ती। देव पश्य पश्य।
पौलस्त्यस्य जटायुषा विघटितः कार्ष्णायसोऽयं रथः पश्यैते पुरतः पिशाचवदनाः कङ्कालशेषाः स्वराः।
मयैव दारुनया विप्रलब्धः आर्यपुत्रः।
खड्गच्छिन्नजटायुपक्षतिरितः सीतां ज्वलन्तीं वहन् अन्तर्व्याकुलविद्युदम्बुद इव द्यामभ्युदस्थादरिः॥४३॥

(य) दारुणया-निष्करुणया। विप्रलब्धः,-प्रतारितः, सहसा हस्ताकर्षणादिति शेषः। नायमलीककल्पनाप्रभवो विप्रलम्भो येनायमतितरां क्लिश्नाति, अपि तु नितान्तनृशंसया मयैव अदृश्यया उपपादितः इति भावः।
दुःसहवियोगकातरं रममेवं विलपन्तमालोक्य तम् अन्यासक्तमानसं कर्त्तुकामा वासन्ती सहसा ससम्भ्रमं ‘देव पश्य पश्य’ इत्यादिना स्ववक्तव्यमुपक्रम्य सम्प्रति दर्शनीयमेवाह, देवेति। -जटायुषा जटायुर्नामकगृध्रराजेन, ( जटं संहतमायुर्यस्य स जटायुः ; अथवा-जटा पक्षमूलमेवायुर्यस्य स तथोक्तः। (असान्तपाठे तु-जटया याति इति जटायुः , जटाशब्दोत्तर ’ या’ धातोः ‘मृगय्वादयश्च’ (उ० पा० १ सू० ३७ ) इति मृगय्वादित्वात् कुप्रत्ययः। अत्रैव श्लोके तृतीयपादे ईदृशजटायुशब्दः प्रयुक्तः। दीर्घजीवित्वात् तस्येयं सञ्ज्ञा ) विघटितः भग्नः पौलस्त्यगोत्रापत्यस्य रावणस्य ( पुलस्त्यो हि ब्राह्मणः मानसपुत्रेषु चतुर्थः, तस्य विश्रवा नाम एकः पुत्रः आसीत्, रावणस्तु तस्यैव पुत्र इति पुलस्त्यस्य्य नप्ता रावण इति पौराणिकी वार्त्ता ) कार्ष्णायसः कृष्णवर्णेन उत्कृष्टलौहविशेषेण विनिर्म्मितः लौहमयः इत्यर्थः, ( कृष्णञ्च तदयश्चेति कृष्णायसम् ‘अनोऽश्मायःसरसाञ्जातिसञ्ज्ञयोः’ (५। ४। ९४ पा०) इति समासान्तः टच्। कृष्णायसस्य विकारः इति कार्ष्ण्यायसः ‘तस्य विकारः’ (४। ३। १३४ पा०) इति अण् प्रत्ययः )। अयं दृश्यमानः रथः स्यन्दनः वर्त्तते इति पश्य, त्वमिति शेषः। पुरतः अग्रतो वर्त्तमाना पिशाचवदनाः विकटमुखाः इत्यर्थः, ( पिशितमाचामन्ति अश्नन्ति इति पिशाचाः पिशितशब्दोत्तरमाचमधातोर्दप्रत्ययेन पृषोदरादित्वात् साधुः, तेषामिव वदनानि येषां ते पिशाचवदनाः इति उपमानपूर्व्वपदा बहुव्रीहिः उत्तरपदलोपश्च ) कङ्कालर्शष्याः अस्थिपञ्जरावशिष्टाः ( ‘शरीरस्यास्थि कङ्कालं तथा स्यादस्थिपञ्जरम्’ इति हलायुधः ) खराः जटायुनिहता रावणरथवाहनमहाकायखचरविशेषाः (अत्रापि विघटिताः इति वचनव्यत्यासेन अनुषज्यते ) वर्त्तन्ते तानपि पश्येत्यूह्यम्। इत अस्मात् पुरतोऽङ्गुल्या निर्दिश्यमानात् स्थानादित्यर्थः, अरिः शत्रुः रावण इत्यर्थः, खड्गेन छिन्ने जटायोः पक्षती पक्षमूले येन स तथोक्तः सन् अस्मिन्नेव स्थाने जटायोः पक्षती छिन्ने इति भावः, ( पक्षस्य मूलम् इति पक्षतिः ‘पक्षात् तिः’ (५। २। २५ पा०) इति पक्षशब्दात् मूलार्थे तिप्रत्ययः ) ज्वलन्तीं लावण्यमय्या कान्त्या जाज्वल्यमानां बल्लादपहरणजनितकोपेन उद्दीप्यमानां वा ( अत्र उउपमानभूत विद्युद्धर्म्मचाञ्चल्यानुरोधात् अपहर्त्तुरात्मत्राणाय सीतायाः विचेष्टमानत्वमपि व्यज्यते ) सीतां वैदेहीं वहन् बलात् गृह्णन्नित्यर्थः, अन्तः अभ्यन्तरे व्याकुला चञ्चला, देदीप्यमानेति यावत्, विद्युत् तडित् यस्य स तथोक्तः अम्बदो मेघ इव ( अम्बु जलं ददाति इति अम्बुदः, अम्बुशब्दात् ददातेः ‘आतोऽनुपसर्गे कः’ (३। २। ३ पा०) इति कप्रत्ययः। अत्र रावनराक्षसस्य कृष्णवर्णत्वात् बृहत्कायत्वाच्च मेघोपम्यं बोध्यम् ) द्याम् आकाशं, ( ‘द्यौदिवौ द्वे स्त्रियाम्मभ्रं व्योम पुष्करमम्बरम्। नभोन्तरिक्षं गगनम्- ‘इत्यमरः )। अभ्युदस्थात् अभ्युत् पपात्। ( उत्पूर्व्वकस्थाधातोः ‘उदोऽनूर्द्ध्वकर्मणि’ (१। ३। २४ पा०) इत्यनेन अनूर्द्ध्वचेष्टायामेव आत्मनेपदविधानात् अत्र च तस्य ऊर्द्द्वचेष्टाबोधकत्वात् नात्मनेपदमित् बोध्यम् )। पुरा किल वर्णिवेशधारी लङ्केश्वरः दण्डकारण्यादसहायां जनकतनयां छलेनापहृत्य रथेन गगनपथेन गच्छन् दशरथस्य नृपतेर्मित्रेण जटायुषा तरसा पक्षाभ्यामवरुद्धः भग्नरथः अतिक्रुद्धः परस्परं दीर्घकालं युध्यमानः तः कथमपि पराजेतुकामः असिना तस्य पक्षौ छित्वा सीतामादाय लङ्कां प्रतस्थे, इति रामायणकथाऽत्रानुसन्धेया। ( अत्र रावणस्य बृहदाकारकृष्णवर्णाभ्यां मेघसदृशतया सीतायाश्च स्वाभाविकौज्ज्वल्यसामयिकचाञ्चल्याभ्यां विद्यत्मदृशतया सीतोपेतस्य रावणस्य विद्युद्गर्भाऽम्बुदत्ल्यताकथनात् उपमाऽलङ्कारः ; तथा अभ्युद्भ्यां परस्य स्थाधातोः अभ्युत्थानरूपौन्नत्यार्थशक्ततया उद्गमनार्ष्यबोधकत्वात् तदर्थे अवाचक इति अत्र ऊर्ध्वगमनार्थे प्रयुक्तत्वात् अवाचकत्वदोषः। स चैवं परिहर्त्तुं शक्यते ; तथाहि- ‘अभि’ इति पृथक् पदम् ‘उदस्थात्’ इति क्रियाया विशेषणं, तथाच नास्ति भीः भीतिः यत्र तत् अभि भयरहितं यथा स्यात् तथेत्यर्थः, उदस्थात् उत्पपात इति)। शार्दूलविक्रीडितं वृत्तम्॥४३॥

सीता। (सभयम्) अज्जउत्त तादो बाबादीेदि; अहं अ अबहरिआमि; परित्ताहि परित्ताहि। (र) रामः। (सवेगमुत्थाय) आः पाप तातप्रणसीताऽपहारिन् क्व यासि ? (ल) वासन्ती। अयि देव राक्षसकुलप्रलयधूमकेतो अद्यापि ते मन्युविषयः ? (व) आर्यपुत्र तातो व्यापाद्यते; अहञ्चापह्रिये; परित्रायस्व परित्रायस्व।
(र) सहसा वासन्तीमुखात् पौलस्थ्यजटायुवृत्तान्तश्रवणेन पूर्व्ववृत्तान्तस्मरणादतिभीता सीता तदानीन्तनीमवस्थामिदानीमनुभवन्तीव ससम्भ्रममाह, आर्य्यपुत्रेति। -तातः,-पितृतोल्यो जटायुः, ( अत्र श्वशुरस्य दशरथस्य मित्रत्वेन पूज्यत्वात् जटायुषि सीतायाः तातशब्दप्रयोगः। तथाच- ‘पुत्रे पितरि पूज्ये च तातशब्दः प्रयुज्यतेत्’ इति )। व्यापाद्यते-सपक्षच्छेदं हन्यते, रावणेन इति शेषः, ( तत्र रावणशब्दोच्चारणादपि भीता सीता स्ववाक्ये कर्त्तृपदं नाभिहितवतीति बोध्यम् )। अपह्रियते-अपहृत्य नीये इत्यर्थः। परित्रायस्व-शत्रुहस्तात् रक्ष, मां तातञ्चेति शेषः। अत्र सम्भ्रमे द्विरुक्तिः।
(ल) रामोऽपि सीतया उच्चेरभिहितं परित्रायस्वेति कातरवचनमाकर्ण्य विस्मूतात्मवृत्तान्तः तत्परित्राणार्थं सत्वरमुत्थाय आह, आ इति। -आ इति कोपव्यञ्जकमव्ययम् ( ‘आस्तु स्यात् कोपपीडयोः’ इत्यमरः )। पाप -पापाचारिन्, ( पापं विद्यतेऽस्य इति पापः, अस्त्यर्थे पापशब्दात् ‘अर्श-आदिभ्योऽच्’ (५। २। १२७ पा०) इति अच्प्रत्ययः। प्रतारणाय परस्त्रीहरणेन अन्यायसमरेण परप्राणहरणेन च अस्य पापाचारित्वं बोध्यम् ) तातप्राणेति। -तातस्य जटायोः प्राणान् सीताञ्च अपहरति यः सः तत्सम्बोधने। तातस्य प्राणान् प्रेयसीं सीताञ्च बलातपहृत्य कुत्र पलायसे इति समुदितार्थः, जीवतस्ते न मत्तो मुक्तिसम्भव इति भावः ( अत्र ‘त्रोटकं पुनः सरब्धवाक्’ इति दर्पणोक्तलक्षणकं रोषसम्भ्रमवचनरूपं सन्ध्यङ्गमभिहितमिति ध्येयम् )।
(व) राक्षसकुलेति। -राक्षसानां निशाचराणां कुलस्य वंशस्य प्रलये ध्वंसे धूमकेतुः प्रलयसूचकधूमकेतुनामकोत्पातविशेष इव, तत्सम्बुद्धौ, निर्म्मूलविनाशितकव्याद्वंशेत्यर्थः। प्रलये धूमकेतुर्यथा लोकानां क्षयकारकः तथा त्वमपि राक्षसाना-

मित्यर्थः। यद्वा-राक्षसकुलस्य प्रलये धूमकेतुलनलः निशाचरवंशनाशे प्रलयानलस्वरूपेत्यर्थ। ( ‘अग्न्युत्पातौ धूमकेतुः’ इत्यमरः )। ( अत्र रूपकमलङ्कारः )। अद्यापि-सम्प्रत्यपि, समूलनाशं राक्षसवंशविनाशानन्तरमपीत्यर्थः। मन्युविषयः,-कोपपात्रम्, अस्तीति शेषः, ( ‘मन्युर्दैन्ये क्रतौ क्रुधि’ इत्यमरः) ; ( इतः पूर्व्वं त्वयैव रावणोऽसौ सवंशनाशं विनाशितः इति ते कोपपात्रमिदानीं किमपि तास्त्येवेति काक्वा व्यज्यते )।
सीता। अह्मो उम्मत्त ह्मि सम्बुत्ता (श) रामः। अन्वर्थ एवायमधुना प्रलापो वर्तते। (ष)- उपायानां भावादविरतविनोव्यतिकरैः विमर्दैर्वीराणां जगति जनिताऽत्यद्भुतरसः।
अहो उन्मत्ताऽस्मि संवृत्ता।
वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत् कथं तूष्णीं सह्यो निरवधिरिदानीन्तु विरहः॥४४॥

(श) वासन्तीकथितं तथ्यवचनमाकर्ण्य स्वकीयां भ्रान्तिञ्चावगम्याह, अहो इति। -उन्मत्ता-कामस्य अष्टमीं दशामाप्ता, उन्मादग्रस्तेत्यर्थः। कामदशाः पूर्व्वमुक्ताः। उन्मादलक्षण यथा दर्पणे,- ‘चित्तसम्मोह उन्मादः कामशोकभयादिभिः। अस्थानहासरुदितगीतप्रलपनादिकृत्। ‘उन्मत्तो हि अतिक्रान्तविषयमपि वर्त्तमानतया गृह्णाति तादृशविषयग्रहणं ममापि वत्तते, अतोऽहम् उन्मत्ताऽस्मि, अन्यथा कुत एतद्रावणादिदर्शनम् ? इति भावः।
(ष) अधुना-सम्प्रति। अन्वर्थ एव-अर्थमनुगतः इति अन्वर्थः, यथार्थः एव। ‘प्रलापोऽनर्थकं वचः’ इति अमरवनात्, जटायुप्राणासीताऽपहरणादिव्यापाराणां सम्प्रति अवास्तवत्वादिति भावः। अयम्-आ पापेत्यादि मत्कृतः प्रयोगः। प्रलापः,-निर्विषया वाक्। वर्त्तते-प्रवर्त्तते, रावणाद्यभावादधुना तादृशः प्रयोगः निरथकतया प्रतिपन्नो भवतीत्यर्थः। यथार्थमेव इदम् अनर्थकं वचः अधुना वर्त्तते ; एवं सीतास्पर्शादिव्यापारोऽपि परिकल्पनानिर्मित एव न पुनरधुना सन्देहविषयः इति समुदितार्थः।
रावणेनापहृतायां सीतायां तद्वियोगः सोढः, कथमिदानीं न सह्यते, कथं वा एतादृशः प्रलापादिः प्रवर्त्तते ? इत्याशङ्क्या सीतापतिरात्मदोषं परिहरति, उपायानामिति। -उपायानां पुनः सीताप्राप्तेः साधनानाम् ( उपाय्यन्ते समधिगम्यन्ते पदार्था यैरिति विग्रहे उपपूर्व्वादयतेः करणे घञ् प्रत्ययः ) भावात् सद्भावात् राक्षसेनापहृतायाः सीतायाः पुनरुद्घारसाधनानाम् आश्रयेणेत्यर्थः ; अधुना तु उपायाभावे इत्याशयः। अविरता अविश्रान्ताः ये विनोदाः उद्घारार्थं सीताऽन्वेषणसेतुबन्धनवैरनिर्यातनमन्त्रणाविजयलाभादिचित्तस्थैर्य्यकरव्यापाराः तेषां व्यतिकरः सम्पर्को मेलनमिति यावत्, येषु तादृशैः, वीराणां रावणकुम्भकर्णमेघनादादीनां लक्ष्मणसुग्रीवाङ्गदहनूमत्प्रभृतीनाञ्च विमर्दैः परस्परमिलनदर्शनामर्षसङ्घर्षणनिधनादिव्यापारैः जगति भुवने जनितः उत्पादितः अति अतिशयितः (अन्येषां युद्धेऽद्भुतत्वसत्त्वेऽपि रामरावणयुद्धसदृशयुद्धस्य अभूतपूर्व्वत्वात् अद्भूतेऽति अतिशयितत्वविशेषणम् ) अद्भुतः विस्मयः एव रसः मनसो द्रुतिकारणं वीररसप्रभवरसः इत्यर्थः, येन स तथोक्तः , (रसविदो हि अद्भुतरसस्य वीररसप्रभवत्वमाहुः, तथा हि ‘हास्यो भवति शृङ्गारात् करुणो रौद्रकर्मणः। अद्भूतञ्च तथा वीराद् बीभत्साच्च भयानकः॥ ‘इति ) अधुना तु विनोदकारणाभावान्न तादृशः इत्यर्थः, मुग्धाक्ष्याः मनोहरनयनार्थाः सीतायाः ( मुग्धे अक्षिणी यस्याः तथोक्तायाः इति विग्रहे अक्षिशब्दात् ‘बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात् षच्’ (५। ४। ११३ पा०) इति समासान्तः षच्, ततश्च ‘षिद्गौरादिभ्यश्च’ (४। १। ४१ पा०) इति स्त्रियां ङीष्प्रत्ययः ) स पूर्वं चिराय अनुभूतः वियोगः विरहः खलु निश्चये, रिपूणां शत्रूणां रावणादीनां घातो बध एव अवधिः पर्य्यन्तः, यस्य स तादृशः अभूत्, रिपूणां रावणादीनां वधोत्तरमेव सीतायाः पुनरुद्घारसम्भवेन तदानीन्तनविरहस्य भातिदुःसहत्वमासीदिति भावः ; तु किन्तु इदानीम् अधुना निर्नास्ति अवधिरन्तो यस्य स निरवधिः अनन्तः, तादृशहिंस्रजन्तुसमाकुलवननिर्वासनात् तस्याः मरणावश्यम्भावेन पुनः समागमासम्भवादिति भावः, तात्पर्य्यात् उपायाभावादप्रतिविधेयः विनोदाभावाद् दुःसहश्च इत्यर्थः, विरहः विच्छेदः कथं तूष्णीं व्यापाराभावात् वाङ्मात्रं विनाऽपि सह्यः सहनीयः ? न कथमपि सहनीय इत्यर्थः ; अत एव नैष प्रलापः अनैसर्गिक इत्यधिक्षेपणीयः, न वा विस्मयजनकः, अपि तु नैसर्गिकत्वादवश्यम्भावी एवेति भावः। ( अत्र प्राक्तनेदानीन्तनविरहयोरुपमानोपमेयभावबोधात् उपमानभूतप्राक्तनविरहात् उपमयस्वरूपेदानीन्तनविरहस्य अधिकदुःसहत्वकथनात् व्यतिरेकालङ्कारः ; तथा विरहस्य असह्यत्वे निरवधित्वस्य हेतुविधया कथनात् पदार्थहेतुकं काव्यलिङ्गञ्च इत्यनयोरङ्गाङ्गिभावेन सङ्करः। एवं यद्यप्यत्र पूर्व्वमेकदा विरहस्य सोढत्वेन ‘कथं तूष्णीं सह्यः’ इत्यनन्तरं वक्तव्यस्य पुनःपदस्य अकथनात् न्यूनपदता दोष ; तथा

तृतीयपादे वियोगशब्दोल्लेखात् चतुर्थपादे तदादिपदेन वक्तव्यस्य विरहशब्दस्य शब्दतः कथनात् पुनरुक्तता दोषश्च लक्ष्यते, तथापि ‘उक्तावानन्दमग्नादेः स्यान्न्यूनपदता गुणः’ इति दर्पणवचनात् ‘विवादे विस्मये द्विस्त्रिरुक्तिर्न दुष्यति’ इति नियमाच्च विप्रलम्भाख्यशृङ्गाररसस्य पोषकतया एतयोर्भूषकत्वमेव, न तु दूषकत्वम्। यद्वा-चतुर्थपादस्य ‘कथं तूष्णीं सह्यो निरवधिरयं सम्प्रति पुनः’ इति पाठान्तरकल्पनया समाधेयम्। अत एव ‘निरवधिरयं त्वप्रतिविधः’ इत्यपि पाठो दृश्यते इति सुधीभिरालोचनीयम् )। शिखरिणी वृत्तम्॥४४॥

सीता। णिरबधिं त्ति हा हदह्मि मन्दभाणी। (स) (इति रोदिति) रामः। हा कष्टम्।
व्यर्थं यत्र कपीन्द्रसख्यमपि मे वीर्यं हरीणां वृथा प्रज्ञा जाम्बवतोऽपि यत्र न गतिः पुत्रस्य वायोरपि।
निरवधिरिति हा हतास्मिमन्दभागिनी।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषये तत्र प्रिये क्वासि मे॥४५॥

(स) ‘निरवधिरिदानीन्तु विरहः’ इति प्रियतमाऽऽक्षेपवचनमाकर्ण्य भविष्यत् समागमेऽपि विगताशा सीता म्रियमाणेवाह, निरवधिरिति। -पूर्ववत् विरहावसानं पुनःसमागमसम्भावना च नास्ति इत्यहं हताऽस्मि, पुनःसमागमाशयैव जीविता, अधुना तदभावात् मृत्युयातनावन्निरतिशययातना मां परिभवति, न तां सोढुं शक्नोमीति भावः।
प्रागेकदा दैवदुर्विपाकात् रावणेन हृता दुस्तरसागरपारं नीता सीता येषां सामर्थ्यनोद्धृता, सम्प्रति तेषां हनूमज्जाम्बवल्लक्ष्मणप्रभृतीनाम् अनितरसाधारणशक्तिमतां सत्त्वेऽपि, का कथा पुनरुद्धारस्य, तदवस्थानस्थानमपि निर्णेतुमशक्तोजानकीजीवनः खिद्यमानः आह, व्यर्थमिति। -यत्र यस्मिन् स्थाने मे मम कपीन्द्रसख्यं सुग्रीवमैत्र्यम् अपि व्यर्थं निष्फलं, न पूर्ववदुद्धारक्षममित्यर्थः, ( वि विफलः अर्थः यस्य तत् व्यर्थम् इति विग्रहः ) सीतायाः मरणसम्भावनात् लोकान्तरिततया मर्त्त्यानां तत्रासामर्थ्यादिति भावः, हरीणां वानराणां चमूभूतानामित्यर्थः, ( ‘शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु’ इत्यमरः ) वीर्य्यं पराक्रमः वृथा निष्पलम्, अकिञ्चित्करमित्यर्थः, लोकान्तरवासिषु मर्त्त्यानां वीर्य्यप्रकाशासम्भवादिति भावः ( ‘वृथा निरर्थकाविध्योः’ इत्यमरः ) यत्र जाम्बवतः भल्लूकपतेरपि प्रज्ञा प्रखरा बुद्धिः, प्रतिभेति यावत्, अत्रापि वृथेत्यनुषज्यते। मर्त्त्यानां बुद्धिकौशलं मर्त्त्य एव प्रभवति न तु लोकान्तरे इति भावः ; यत्र वायोः पुत्रस्य हनूमतोऽपीत्यर्थः, गतिः प्रचारः न अस्तीति शेषः, ( अत्र वायुपुत्रकथनेन ‘कारणगुणाः कार्य्यगुणमारभन्ते ‘इति न्यायात् वायोरिव हनुमतोऽपि सर्व्वत्रगत्वम् अप्रतिहतगामित्वञ्च ध्वन्यते, तथाच-दुर्लङ्घ्यसागरपारं गत्वा येन सर्व्वत्रगत्वं ख्यापितं, तेनाप्यशक्यगमनोऽयं परलोकः इति भावः ) यत्र यस्मिन् स्थाने विश्वकर्म्मणः देवशिल्पिनः ऋतध्वजमुनिशापात् वानररूपधारिणः इत्यर्थः, तनयः सुतः नलोऽपि नलनाम्ना प्रसिद्धो वानरोऽपि ( अत्र नले विश्वकर्म्मतनयत्वविशेषणेन ‘यतो नलः देवशिल्पिनः विश्वकर्म्मणः सुतः, ततः सर्वथा तस्मिन् तादृशशिल्पकलाकौशलसम्भवः सुतः पितृगुणं धत्ते ’ इति स्मरणात् ‘इत्यर्थो ध्वन्यते ) मार्गं सेतुबन्धनादिना पन्थानं कर्तुं न क्षमः न समर्थः, सौमित्रेः लक्ष्मणस्यापि ( सुमित्रायाः अपत्यं पुमान् इति सौमित्रिः, सुमित्राशब्दात् ‘बह्वादिभ्यश्च’ (४। १। ९६ पा०) इति अपत्यर्थे इञ् ) पत्रिणा वार्णानामविषये लक्ष्यते यत् लक्ष्मणस्यापि वार्णानाम् अविषयः तत्र इत्यर्थः, हे मे मम ( अत्र स्वोक्तावपि अस्मच्छब्दप्रयोगात् एतादृशसहायशक्तिमतोऽपि मम प्रिया त्वम् ईदृगज्ञानस्थानस्था दुःखमापन्नेति महान् क्लेशः, इत्यर्थो व्यज्यते ) प्रिये प्रीतिदायिनि जानकि एवम्भूते तत्र मम अज्ञाते इत्यर्थः, क्व कुत्र स्थाने असि वर्त्तसे ? पूर्वं सुग्रीवस्य सैन्यादिदानसहाय्यात् वानराणां पराक्रमबाहुल्यात् जाम्बवती मन्त्रणाबलात् हनूमतो जलधिलङ्घन सीतोद्देशनब्रह्मास्त्रानयनादिस्वार्वभौमिकव्यापारात् नलस्य सेतुबन्धनसौष्ठवात् लक्ष्मणस्य इन्द्रजिदादिबधक्षमाद्भुतश्रद्धकौशलात् त्वमुद्धताऽऽसीः, अधुना तु तेषां सर्वेषामेव वैफल्यं पश्यामीति पुनरुद्धारे नितान्तं निराशोऽस्मीति भावः। ( अत्र इदानीन्तनसीताऽवस्थाननिर्णयरूपं कार्य्यं प्रति कारणीभूतायाम् एकस्यां कपीन्द्रसख्यव्यर्थतायां खलेकपोतन्यायेन जाम्बवत्प्रज्ञानिष्फलत्वादीनामपि तथा कथनात् समुच्चयो नामालङ्कारः ; तेन च सावधिकात् पूर्व्वानुभूतविरहात् निरवधिकस्य वर्त्तमानविरहस्य दुःसहत्वाधिक्यबोधनात् व्यतिरेकालङ्कारः ध्वन्यते इत्यलङ्कारेणालङ्कारध्वनिः ) पुरा किल ब्रह्मणो निदेशेनां देवाः। वानरयोनिं लभमानाः रावणवधे रामस्य सहायाः अभवत्, तदा हि अञ्जनाऽभिधेयायाः कस्याश्चित् वानर्य्याः गर्भे असीमवीर्य्यस्य मारुतस्य औरसेन हनूमान्नाम कपिराजः समजनीतः ; तथा ऋतध्वजाभिधेयस्य कस्यचित् मुनेरभिशापेन वानरयोनिमुपेतस्य विश्वकर्मणः औरसेन घृताचीनाम्न्याः कस्याश्चित् सर्वेश्यायाः गर्भे कपिपुङ्गवो नला जन्म लभे इति च पौराणिकी कथा अनुसन्धेया। शार्दूलविक्रीदितं वृत्तम्॥४५॥

सीता। बहु मणाबिद ह्मि तं पुब्बबिरहम्। (ह) (ह) अस्मि-अहम्, अस्मीति अहमित्यर्थे अव्ययं, तद्यथा- ‘दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नाऽस्मि दूये। उद्यत्कठोरपुलकाङ्कुरकण्ठकाग्रैर्यद् भिद्यते मृदु पदं ननु सा व्यथा मे॥ ‘इति। तं-प्रागनुभूततया अतिप्रसिद्धम्। पूर्व्वविरहं-रावणहरणजन्यं वियोगम्। बहुमानिता-श्लाघ्यरूपेण अङ्गीकारिताः, ( मनधातोः णिजन्तात् निष्ठाप्रत्ययः ) आर्य्यपुत्रेणेति शेषः। तथा च ‘निरवधिरिदानीन्तु विरहः’ इत्यार्य्यपुत्रवचनेन वर्त्तमानविरहस्य निरवधितया पुनर्मेलनासम्भवात्, पूर्व्वविरहे च रावणवधानन्तरं पुनःसमागमात् इदानीन्तनात् प्राक्तनस्यैव श्लाघ्यत्वमिति भावः। ( ‘बहुः मानयामि तं पूर्व्वविरहम् ‘इत्यपि क्वचित् पाठः, अर्थस्तु सुगमः )।
रामः। सखि वासन्ति सुहृदां दुःखायैव इदानीं रामस्य दर्शनं; तदिदं किरच्चिरं त्वां रोदयिष्यति; तदनुजानीहि मां गमनाय। (क) सीता। (सोद्वेगं तमसामवलम्ब्य) भअबदि तमसे कहं गच्छदि ज्जेब अज्जउत्तो ’ (ख) बहु मानितास्मि तं पूर्वविरहम्। ’ भगवति तमसे कथं गच्छत्येवार्यपुत्रः।
(क) सुहृदां-मदीयसुखदुःखयोः सतोः सुखदुःखे अनुभवतां भवादृशामित्यर्थः । दुःखाय-क्लेशाय, दुःखमुत्पादयितुमित्यर्थः। इदानीं-सम्प्रति, दुःसहशोकावेगेन म्रियमाणावस्थायामित्यर्थः। इदं-रामस्य दर्शनम्। कियच्चिरं-किं परिमितं दीर्घकालम्। अनुजानीहि-अनुमन्यस्व। गमनाय-गन्तुम् ( अत्र ‘तुमर्थाच्च भाववचनात्’ (२। ३। १५ पा०) इति तुमर्थे चतुर्थी )।
(ख) शोकसन्तप्तमपि चित्तं भाग्यादकस्मात् प्रियसाक्षात्कारेण विनोदयन्ती सीता राममुखात् तद्गमनवार्त्तामाकर्ण्य हताश्वासा पुनरपि तद्दुःखमाशङ्कमाना आह, भगवती। गच्छत्येव-यात्येव, गमने वासन्त्या अनुमतिं याचमानः तदलाभेऽपि गन्तुमुद्यतः इत्येवकारार्थः।
तमसा। वत्से समाश्वसिहि; समाश्वसिहि। ननु आवामपि आयुष्मतोः कुशलवयोर्वर्षवर्धनमङ्गलानि सम्पादयितुं भागीरथीपदान्तिकमेव गच्छावः। (ग) सीता। भअबदि प्पसीद; खणमेत्तं बि दाब दुल्लहं जणं पेक्खामि। (घ) रामः। अस्ति चेदानीमश्वमेधाय सहधर्मचारिणी मे-(ङ) भगवति प्रसीद; क्षणमात्रमपि तावद् दुर्लभं जनं प्रेक्षे।
(ग) आयुष्मतोः, -दीर्घजीविनोरित्यर्थः, ( आयुः प्रशस्ततया बाहुल्येन वा विद्यते ययोः तयोरिति विग्रहे आयुःशब्दात् अस्त्यर्थे ‘भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने। संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः॥ ‘इत्यनुशासनात् भूमि्न प्रशंसायाम् वा मतुप्)। वर्षवर्द्धनमङ्गलानि-द्वादशवत्सरवयःपूर्त्तिनिमित्तककर्त्तव्यानि दीर्घजीविमार्कण्डेयप्रभृतिदेवपूजादिमङ्गलाचरणानीत्यर्थः ; तथा च तिथितत्त्वे- ‘द्विभुजं जटिलं सौम्यं सुवृद्धं चिरजीवनम्।
मार्कण्डेयं नरो भक्त्या पूजयेत् प्रयतस्तथा॥

ततो दीर्घायुषं व्यासं रामं द्रौणिं कृपं बलिम्।
प्रह्लादय द्वनूमन्तं विभीषणमथार्च्चयेत्॥ ‘इति।
भागीरथीपादान्तिकं-जाह्नवीचरणसमीपम् ; रामे चक्षुर्विषयमतिक्रान्तेऽपि वियोगक्लेशं पुनर्नवीभूतमाशङ्कमाना सा भैषीः, यतः आवामपि सम्प्रत्येव जाह्नवीचरणान्तिकमुपेत्य श्रीमतोर्जन्मदिवसोत्सवेन क्लेशमिमं विस्मर्तुं प्रभवावः इति भावः।
(घ) रामे दृष्टिपथमनतिक्रान्ते एव तमसायाः भागीरथीचरणसमीपगमनप्रस्तावमाकर्ण्य प्रबलपतिदर्शनेच्छाकातरा सीता सखीं सानुनयमाह, भगवतीति। प्रसीद-आर्य्यपुत्री यावत् दृग्विषयं नात्येति तावत्कालविलम्बेन मामनुगृहाणेत्यर्थः। दुर्लभम् -असुलभं, भाग्यलभ्यमिति यावत् ; यदि तावद् भाग्येन अस्य दर्शनलाभो जातः, तदा यावद् दृष्टिपथं नायमतिक्रामति तावत् पश्यामीति भावः। ( ‘दुर्ल्लभदर्शनम्’ इति पाठान्तरम् )। सान्त्वनायाः सम्भवः ? इत्याशङ्क्याह, अस्ति चेति। -अश्वमेधया-अश्वमेधाभिधेयं यज्ञं सम्पादयितुमित्यर्थः, ‘सस्त्रीको धर्म्ममाचरेत्’ इति विधिवाक्यात् अश्वमेधादिधर्म्मकर्म्मणि सहधर्म्मिण्याः, उपयोगः बोध्यः, ( ‘तत्रापि तावद् बाष्पदिग्धं चक्षुर्विनोदयामि’ इति वक्ष्यमाणेन वाक्यशेषः।
(ङ) ननु यदि इहापि न चित्तविनोदः, तदा स्वगृहगमनेऽपि कुतः सीता। (सोत्कम्पम्) अज्जउत्त का सा (च) रामः। हिरण्मयी सीतायाः प्रतिकृतिः। (छ) आर्यपुत्र का सा (च) ‘अश्वमेधाय सहधर्म्मचारिणी अस्ति’ इति पतिमुखात् आकर्ण्य पत्युः पुनः परिणयमाशङ्क्य भीता सीता उत्कम्पिता आह, आर्य्यपुत्रेति। -सा त्वदुक्ता सहधर्म्मचारिणा । का- किनामधेया ? (छ) हिरण्मयी-स्वर्णात्मिका, सुवर्णविनिर्म्मितेति यावत्, ( अत्र ‘मयड्वैतयोः-’ (४। ३। १४३ पा०) इति विकारे मयट् )। प्रतिकृतिः,-प्रतिनिधिः, प्रतिमूर्त्तिरिति यावत् ; ( ‘प्रतिकृतिरर्च्चाया प्रतिनिधिप्रतिकारयोश्च स्त्री। ‘इति मेदिनी )। ‘मुख्याभावे प्रतिनिधिः शास्त्रार्थः’ इति वदतां धर्म्मशास्त्रविदां मते विधिवाक्यतः प्राप्तस्य वस्तुनः कथमप्यलाभे तद्दर्म्मापन्नेन अपरेणापि कार्य्यसिद्धिर्भवति, तथाच कात्यायनः,- ‘यथोक्तवस्त्वसम्पत्तौ गाह्ये तदनुकारि यत्। यवानामिव गोधूमा व्रीहीणामिव शालयः॥ ‘इति। अत्रापि मुख्यायाः सहधर्म्मिण्याः सीतायाः अलाभात् तत्प्रतिमूर्त्तिरूपप्रतिनिधिना सस्त्रीकधर्म्माचरणशास्त्रपालनेन यज्ञनिर्वाहः इति। इदमत्रावधेयम्-अत्र साम्प्रतिकक्लेशमसहमानस्य रघुनाथस्य तत्प्रतीकाराय सहचरीसकाशं स्वभवनगमनानुमतिमात्रप्रार्थनाया एव युक्ततया, तया प्रयाजनादिकं किमप्यजिज्ञासितोऽपि असौ कथं स्वत एव सहचरीसम्भावितशङ्कानिरसनमुखेन सीताप्रतिकृत्याद्कं स्वसान्त्वनोपायं निर्द्दिशतीति नाशङ्क्य, स्वामिनः स्वस्यामकृत्रिमं हृदयानुरागम् अनेकशः साक्षादवगाया अपि सीतायाः चिराय वियुक्तदारस्य नरस्य विशेषतो नियतभोगविलासशालिनः नरपतेः दारान्तरपरिग्रहस्य स्वाभाविकतया स्वस्वामिनोऽपि तथा सम्भाव्यमानामाशङ्कामपनेतुकामः कविरेवं राममुखेन भाङ्ग्यन्तरेण आह, अस्ति चेत्यादि ; तथा च रामस्य दारान्तरापरिग्रहात् चिरविरहितया इह विप्रलम्भाख्यशृङ्गाररसस्यपि परिपुष्टिर्जातेति।
सीता। (सोच्छ्वासं सास्रम्) अज्जउत्तो दाणीं सि तुमम्। सह्महे उक्खाणिदं दाणीं मे परिच्चाअलज्जासल्लं अज्जउत्तेण। (ज) रामः। तत्रापि तावद्बाष्पदिग्धं चक्षुर्विनोदयामि। (झ) आर्यपुत्रः इदानीमसि त्वम्। उत्खातमिदानीं मे परित्यागलज्जाशल्यमार्यपुत्रेण।
(ज) सोच्छ्वासमिति। -उच्छ्वासेन आश्वासेन सह वर्त्तमानं, पूर्व्वं सहदर्म्मचारिणीशब्दश्रवणेन उद्विग्ना सीता पुनः ‘सीतायाः प्रतिकृतिः’ इति श्रवणात् आश्वासो बोध्यः ( ‘उच्छ्वासः प्राणनेऽपि च। आख्यायिकापरिच्छेदेऽप्याश्वासेऽपि पुमानयम्॥ ‘इति मेदिनी )। सास्नम्-आनन्दाश्रमहितम्, ( एतद्द्वयम् ‘आह’ इति ऊह्यक्रियया विशेषणम् )। आर्य्यपुत्रः,-पतिशब्दवाच्यः, मत्प्रतिकृतावपि अनुरागितया यथार्थ एव आर्य्यपुत्रशब्दभाक् त्वमसि इति समुदितार्थः। परित्यागेति। -परित्यागजन्या या लज्जा लाकसन्निधौ अप्रतिभत्वं तद्रूपं यत् शल्यं शङ्कुः तत्। (अत्र परित्यगस्य निष्कारणकतया अत्यन्तदुःखजनकत्वात् तज्जन्यलज्जायां शल्यत्वारोपो बोध्यः )। उत्खातं-मम हृदयादुद्घतम्। पवित्रायाः धर्म्मपत्न्या धर्म्मकार्य्ये उपयोगितया अश्वमेधयज्ञार्थं मत्प्रतिकृतिकरणात् मयि अनुरक्तिः मत्पवित्रता च लोकेषु प्रदर्शिता आर्य्यपुत्रेणेति भावः।
(झ) सम्प्रति रामः स्ववाक्यशेषमाह, तत्रेति। -तत्रापि-हिरण्मय्यां सीताप्रतिकृतावपि, साक्षात्सीतायाः कथमपि प्राप्तिसम्भावनाविरहात् तत्प्रतिनिधिनैव कार्य्यसम्पादनमिति भावः। बाष्पदिग्धं-अश्रुपूर्णम् इत्यर्थः। विनोदयामि-तर्पयामि ; ( एतेन सीतायाः प्रतिकृतिनिर्म्माणे नयनविनोदनमेव मुख्यं फलम्, अश्वमेधे सहधर्म्मिणी योगफलम् आनुषङ्गिकमिति व्यज्यते )। अत्रेदमवधेयम्-भागीरथीवरमाहात्म्येन रामस्य सीतादर्शन-तद्वाक्यश्रवणयोरसम्भवात् यथाक्रममुच्चारितमपि ‘अस्ति चाश्वमेधाय सहधर्म्मचारिणी मे हिरण्मयी सीतायाः प्रतिकृतिः, तत्रापि तावद् बाष्पदिग्धं चक्षुर्विनोदयामि’ इति रामवचनम् अ तरान्तरा यथास्थानं यथाकालञ्च प्रयुक्तेन सीतावाक्येन विमिश्रितम् अन्योन्यालापवदाभासमानतया चमत्कारातिरेकमादधत् कवेर्वचनापाटवमाविष्करोतीति।
सीता। धणा सा; जा अज्जउत्तेण बहु मणाअदि; जा अ अज्जउत्तं बिणोदयन्ती आसाणिबन्धणं जादा जीअलोअस्स। (ञ) तमसा। (सस्मितस्नेहास्रं परिष्वज्य) अयि वत्से एवमात्मा स्तूयते। (ट) धन्या सा; या आर्यपुत्रेण बहु मन्यते; या च आर्यपुत्रं विनोदयन्ती आशानिबन्धनजाता जीवलोकस्य।
(ञ) धन्या-श्लाघ्या, बहुमतेत्यर्थः, ( धनं लब्धो इति धन्या, धनशब्दात् ‘धनगणं लब्धा’ (४। ४। ४८ पा०) इति यत्प्रत्ययः )। सा-हिरण्मयी सीतायाः प्रतिकृतिः। बहु मन्यते-बहुमानास्पदीक्रियते, नयनविनोदनहेतुत्वेन यज्ञे सहधर्म्मचारिणीस्थानपूरणेन च समाद्रियते इत्यर्थः। विनोदयन्ती-नयनानन्दमापादयन्ती सतीत्यर्थः। आशानिम्बन्धनम्-आशाहेतुस्वरूपा। जाता-भूता, ( जातेति उद्दिश्य प्राधान्ये स्त्रीत्वम्, ‘उद्देश्यविधेययोरुद्देश्यवचनत्वमाख्यातस्य’ इत्यनुशासनात् ‘जाता’ इत्यस्यैव च अत्र प्रधानक्रियारूपत्वात् ) यस्मिन् कल्याणभाजि निखिलमपि जगत् क्षेममाप्नोति, एवं दुर्द्दशायां चित्तविनोदनेन तस्य एव आर्य्यपुत्रस्य जीवनं रक्षन्ती जीवलोकस्यैव उपकारिणी जातेति भावः। रामस्य परिग्रहान्तरशङ्कितायाः श्रुतप्रतिक्रुतिवृत्तान्ताया अपि पूर्व्वावेगवशात् ‘तत्रापि तावद्बाष्पदिग्धं चक्षुर्विनोदयामि’ इति रामवाक्याच्च पुनरुत्पादिततच्छङ्कायाः सीतायाः निर्वेदवचनमिदम्। ( अत्र सा धन्या, अहम् अधन्या, सा बहुमानिता, अहम् अवमानिता, सा आर्य्यपुत्रस्य विनोदनस्थानम् अहं न तथा, सा आर्य्यपुत्रस्य सुस्थितायाः राज्ये अनौदास्यस्य च कारणमिति आशानिबन्धनम् , अहन्तु न तथा इत्यादि ध्वन्यते। एतेन स्रियः स्वामिनः सर्व्वानपराधान् सहन्ते, किन्तु केवलं दारान्तरपरिग्रहं सर्व्वथा न सहन्ते इति भावेऽपि व्यज्यते )।
(ट) सस्मितस्नहास्रं-स्मितेन ईषद्धास्येन, स्नेहेन वात्सल्येन, ओण आनन्दाश्रुणा च सहितं यथा स्यात् तथा। अत्र सीताया अन्यबुद्ध्या स्वस्याः एव धन्यात्वकथनात् स्मितं, सीतायाः सन्तानतुल्यतया स्नेहः, परस्परमेवमलौकिकदाम्पत्यप्रणयसन्दर्शनेन आनन्दादस्रम् इति बोध्यम्। परिष्वज्य-गाढमाश्लिष्य, आहेति शेषः। एवम्-इत्थं, पूर्व्वोक्तप्रकारेणेत्यर्थः । आत्मा-त्वच्छरीरम्। स्तूयते -प्रशस्यते। त्वत्प्रतिकृतिमेवोद्दिश्य रामेणैतदुक्तम् अतो ‘धन्या सा’ इत्यादिना त्वम् आत्मप्रशंसामेव करोषीति भावः।
सीता। (सलज्जमधोमुखी स्वगतम्) परिहसिद ह्मि मअबदीए तमसाए। (ठ) वासन्ती। महानयं व्यतिकरोऽस्माकं प्रसादः। गमनं प्रति पुनर्यथा कार्यहानिर्न भवति तथाऽऽस्ताम्। (ड) सीता। पडिउला दाणीं मे बासन्दी सम्बुत्ता। ’ (ढ) परिहसितास्मि भगवत्या तमसया। ’ प्रतिकूला इदानीं मे वासन्ती संवृत्ता।
(ठ) सलज्जं-लज्जासहितं, स्वयङ्कृतायाः स्वप्रशंसायाः अन्यसमक्षं लज्जाहेतुत्वादिति भावः। अधोमुखी-नतवदना ( अधोभूतं मुखं यस्याः सा ‘स्वाङ्गाच्चोपसर्ज्जनादसंयोगोपधात्’ (४। १। ५४ पा०) इति स्त्रियां ङीष् )। सीता अधोमुखी सती सलज्जं स्वगतञ्च यथा स्यात् तथा आहेति अन्वयः। परिहसिता-उपहासपात्रीकृतेत्यर्थः।
(ड) पूर्वोक्तेषु रामवाक्येषु अन्यस्मिन् अंशे कस्यचिद् वक्तव्यस्य अभावात् वासन्ती ‘तदनुजानीहि मं गमनाय’ इत्यंशस्यैव उत्तरमाह, महानिति। -अयम्-इदानीमनुभूयमानः। व्यतिकरः,-समागमः, परस्परसम्मेलनमिति यावत्। महान्-निरतिशयः। प्रसादः ,-अनुग्रहः ; त्वमेतावन्तं क्लेशं स्वीकृत्य स्वयम् ईदृशं विजनकाननमागतः यदस्माभिर्मिलितः, तेनैव अस्मासु महान् अनुग्रहो दर्शित इति भावः। ( ‘प्रसादः’ इत्यत्र ‘प्रमादः’ इति पाठे-प्रमाद्यते अनेनेति प्रमादः कर्त्तव्येषु विषयान्तरेषु अनवधानताजनक इत्यर्थः, अनेन समागमेन त्वं मां परित्यक्तुं नेच्छसि, अहमपि त्वां, शोके च वयं निमग्ना इति सर्व्वमन्यत् विस्मृताऽस्मीत्यर्थः ) तथापि अहं त्वत्कर्तव्ये अन्तरायो न स्यामित्याह, गमनमिति। पुनः-किन्तु। गमनं प्रति- गमनविषये इत्यर्थः। कार्य्यहानिः,-राजकार्य्यक्षतिरित्यर्थः। तथा-तादृशः प्रकारः। तव कार्य्यहान्या ममापि कार्य्यहानिरित्यतो येन तव कार्य्यहानिः न स्यात् तथा कुर्विति भावः।
(ढ) प्रतिकूला-अननुकूला, इतः परमपि पतिसमागमे विघ्नकारिणीत्यर्थः, तद्गमनानुज्ञानादिति भावः। ( एतेन सीतायाः भर्त्तरि प्रणयातिरेके, तथा तद्दर्शने आकाङ्क्षाया अतृप्तत्वात् पुनरपि तमवलोकयितुं बलवती वासना च ध्वन्यते इति बोध्यम् )।
तमसा। वत्से एहि गच्छावः।
सीता। (सकष्टम्) एब्बं करेह्म। (ण) तमसा। कथं वा गम्यते; यस्यास्तव (त)- प्रत्युप्तस्येव दयिते तृष्णादीर्घस्य चक्षुषः।
मर्मच्छेदपरैर्यत्नैराकर्षो न समाप्यते॥४६॥

एवं कुर्वः।
(ण) सकष्टं-कष्टेन दुःखेन सहितं यथा स्यात् तथा, वासन्त्या अभ्यनुज्ञातस्य रामस्य इदानीमेव गमनावश्यम्भावात् कष्टेनैव सीतायाः स्वप्रतिगमने सम्मतिदानमिति बेध्यम्। एवं कुर्व्वः,-गच्छावः इत्यर्थः, रामे प्रस्थिते अवस्थानप्रयोजनाभावेन इतः प्रतिगमनस्यैव युक्तत्वादिति भावः। ( अत्र ‘गच्छावः’ इत्यनुक्त्वा ‘एवं कुर्व्वः’ इति कथनेन सीतायाः अनिच्छाकृतगमनं सूच्यते )।
(त) तमसा सीतायाः वत्तमानामवस्थां पर्य्यालोच्य आह, कथमिति। -वा-अथवा, पक्षान्तरे इत्यर्थः। कथं-केन उपायेन। गम्यते-गन्तुं शक्यते ; त्वयेति शेषः। यावत् प्रियदर्शनोऽयं तव नयनपथं नातिवर्त्तते तावत्कालं ते इतोऽन्यत्र गमनमसम्भवमेवेति भावः। ‘यस्यास्तव’ इत्यस्य वक्ष्यमाणश्लोकस्थेन ‘चक्षुषः’ इत्यनेनान्वयः।
इदानीं गमनाशक्यत्वे हेतुमाह, प्रत्युप्तस्येति। -दयिते प्रिये रामे प्रत्युप्तस्येव गभीरं प्रविद्धस्येव तृणया प्रबलदर्शनेच्छया दीर्घस्य दीर्घभावापन्नस्य कियत्कालं दृष्ट्वाऽपि अतृप्ततया विस्फारितत्वादनिमेषत्वाच्च विस्तृतस्येवेत्यर्थः, चक्षुषः नयनस्य ( अत्र ‘कर्तृकर्म्मणोः कृति’ (२। ३। ६५ पा०) इति कर्म्मणि षष्ठी, तथा जातौ एकवचनम् ) ‘यस्यास्तव’ इति पूर्वोक्तगद्यांसेनान्वयः। मर्म्मच्छेदपरैः आकर्षणव्यापारे हृदयविदारकैरित्यर्थः, यत्नैः आकर्षणायासैः आकर्षः दयितदर्शनात् आक्षेपः न समाप्यते एतावता कलेनापि न सम्पूर्णः क्रियते। यथा केनचिद् योजकवस्तुना युक्तस्य पदार्थान्तरस्य योजकवस्तूद्धरणं विना न परस्परं पार्थक्यं सम्भवति, तद्वद् दृष्ट्या मिलितायास्तव दृष्ट्युद्धारं विना न इतः प्रतिगमनं सम्भवति, दृष्टेरुद्धारश्च आकर्षादिना शल्योद्धारवम्मर्म्मव्यथाजकः स च नितरां दुःसहः अतो रामं परित्यज्य तव इतः अन्यत्र गमनं न सुकरमिति भावः।
( अत्र दयिते वस्तुतोऽनिखातस्यापि चक्षुषः निखातत्वसम्भावनात् वाच्या क्रियोत्प्रेक्षा नाम अलङ्कारः )। पथ्यावक्रं वृत्तम्॥४६॥

सीता। णमो णमो अपिब्बपुणजणिददंसणाणं अज्जउत्तचरणकमलाणम्। (थ) (इति मूरच्छति) तमसा। वत्से समाश्वसिहि समाश्वसिहि।
सीता। (समाश्वस्य) किअच्चिरं बा मेहन्तरेण पुणिमा चन्दस्स दंसणम्। ’ (द) नमो नमोऽपूर्वपुण्यजनितदर्शनेभ्यः आर्यपुत्रचरणकमलेभ्यः। ’ कियच्चिरं वा मघान्तरेण पूर्णिमाचन्द्रस्य दर्शनम्।
(थ) अपूर्व्वेत्यादि। -अपूर्वेण अत्युत्कटेन पुण्येन जनितं सम्पादितं दर्शनं येषां तेभ्यः, मया किमपि अपूर्वं पुण्यं कृतं तेनैवाद्य आर्य्यपुत्रचरणदर्शनं जातमिति भावः। आर्य्यपुत्रचरणकमलेभ्यः,-आर्य्यपुत्रस्य स्वामिनः चरणाः पादाः कमलानीव ( अत्र उपमालङ्कारः ) तेभ्यः स्वामिपादपद्मेभ्यः इत्यर्थः, ( ‘नमःस्वस्तिस्वाहा- ‘(२। ३। १६ पा०) इति नमः शब्दयोगे चतुर्थी; गौरवे च बहुत्वम् )।
(द) अन्धकारसमाच्छन्नायां रजन्या क्षुद्रखद्यितविलास इव चिरवियोगदुःखधारासु भाग्यादुपपन्नः क्षणिकप्रियपादसन्दर्शनानन्द एव मे श्रेयानिति मन्यमाना आत्मनैव आत्मानमाश्वासयन्ती जानकी पक्षान्तरमाह, कियदिति। -वा-अथवा। कियच्चिरं-कियन्तं दीर्घकालं, व्याप्येति शेषः। मेघान्तरेण-जलधरावकाशेन। पूर्णिमाचन्द्रस्य-राकाशशिनः। दर्शनं-साक्षात्कारः, सम्भवेदिति शेषः। ( अत्र काक्वा ‘अत्यल्पक्षणमेव सम्भवेत्, वायुसञ्चालितेन मेघेन पुनरावरणात्’ इत्यर्थो व्यज्यते )। अत्रायं भावः, -यथा मेघाच्छिन्ने दुर्द्दिने भाग्यात् कदाचित् वायुना मेघावरणापगमं जातं क्षणिकमपि राकानिशाकरसन्दर्शनं नयनानन्दमापादयत् भवति श्लाघास्पदं दर्शकानां, तथा निरवधिकायाम् ईदृशं ग्रहवैगुण्यदशायां केवलं पूर्व्वसञ्चितपुण्यपवनानुकूल्येन कथमपि सङ्घटितम् अतिदुर्लभं क्षणिकमपि आर्य्यपुत्रचरणसन्दर्शनं मम श्लाघ्यमेवेति इदानीमाश्वस्ताऽस्मीति। (अत्र सुचिरपूर्णचन्द्रदर्शनासम्भवरूपादप्रस्तुतात् सुचिरार्य्यपुत्रचरनदर्शनासम्भवरूपस्य प्रस्तुतस्य कथनादप्रस्तुतप्रशंसानामलङ्कारः )।
तमसा। अहो संविधानमुक्तम्। (ध)- एको रसः करुण एव निमित्तभेदा- द्भिन्नः पृथक् पृथगिवाश्रयते विवर्तान्।
आवर्तबुद्बुदतरङ्गमयान् विकारा- नम्भो यथा सलिलमेव तु तत् समग्रम्। ४७॥

(ध) अहो- विस्मयकरम्। संविधानकं-विधातृनियमितकार्य्यकारणभाववैचित्र्यं केन कारणेन किं किं कार्य्यमुत्पद्यते तन्निरूपणे न शक्यमित्यर्थः।
तदेव समर्थयति, एक इति। -एकः एव मुख्य एव करुणः प्रियवियोगजन्यशोकस्थायिभावः रसः काव्यानुशीलनविशदमानसानां सामाजिकानां निरतिशयानन्दसंविद्रूपः निमित्तभेदात् व्यञ्जकविभावानुभावादिविच्छित्तिविशेषात् दर्शनस्मृत्यादिकारणविशेषादिति यावत्, भिन्नः भेदं गतः सन् पृथक् भिन्नरूपान्, हर्षविषादादिरूपानित्यर्थः, विवर्त्तान् आकारान्, परिणामानित्यर्थः, आश्रयते इव भजते इव ; परमार्थतः अभीन्नोऽपि भेदवानिव लक्ष्यते इति भावः। यथा अत्रैव ओ दर्शितः करिणो रसः तत्तस्थानासनालापनपादपपर्व्वतादिदर्शनाङ्गस्पर्शनादिभिः कारणविशेषैः नानारूपतामापन्नः शृङ्गारहास्याद्भुतादिरसूर्पतया परिणतो दृश्यते। तत्र वेदान्तिमतसिद्धमनुरूपं विवर्त्तोदाहरणमेकमवतार्य्य समर्थयमान आह, यथेति। -यथा अम्भः जलम् आवर्त्तबुद्बुदतरङ्गमयान् गतिवशेन धूर्ण्यमानत्वात् भ्रमिरूपान् वायुमध्यतया बिम्बमयत्वात् बुद्बुदरूपान् पवनचालिततया तरङ्गात्मकत्वाच्च ऊर्म्मिरूपान् विकारान् विविधान् आकारान्, विवर्त्तानिति यावत्, आश्रयते इति शेषः, तु किन्तु तत् समग्रमेव आवर्त्तादिकम् एकं सलिलं जलरूप एक एव पदार्थः। सीतायाः प्रियविरहजन्यमनोविकारोऽपि कारणभेदान् हर्षविषादह्रीस्मृतिधृतिनिर्वेदास्याप्रभृतीन् बहूनाकारन् धत्ते ; अतो हर्षादयोऽपि करुणरसस्य विकारा इत्येतदाश्चर्य्यं संविधानकं पश्यामीत्यर्थः। केचित्तु उत्थितिबीजमन्यथा निरूपयन्तः श्लोकमप्यन्यथा व्याचक्षते, तथाहि- ‘वीरशृङ्गारयोरेकः प्रधानं यत्र वर्ण्यते’ इत्यत्र वीरशृङ्गारयोरन्यतरस्य प्रायिकप्राधान्येऽपि अन्येषामपि रसानां सत्त्वात् कथं करुणस्य प्राधान्यम् ? किञ्च, करणारसस्य दुःखात्मकतया तस्य रसत्वे एव नास्ति मानमिति कुतः प्राधान्यम् ? इति शङ्कां परिहर्त्तुङ्कामः कविः तमसामुखेन स्वाभिप्रायं प्रकृतोपयोगितया वर्णयत् , एक इति। -रसः सामाजिकानां निर्भरा-नन्दसंविद्रूपः करुणः इष्टवियोगजन्यदुःखातिशयः एकः मुख्यः एव सन्नपि निमित्तभेदात् सखित्व-पतित्व-पत्नीत्वादिरूपोपाधिभेदात् भिन्नः विलक्षण इव पृथक् पृथक् विवर्तान् वासन्तीसीतारामादिषु परस्परविलक्षणावस्थाभेदान् आश्रयते भजति। अन्यत् पूर्व्ववत्। तथाच प्राचुर्य्यात् रागिविरागिसाधारण्याच्च करुण एव एकः मुख्यः रसः, अपरे तु तद्विकारा इत् कवेराशयः। ( अत्र प्रथमार्द्धे ‘आश्रयते इव’ इत्यत्र वाच्याक्रियोत्प्रेक्षा तथा द्वितीयार्द्धे ‘अम्भो- यथा’ इत्यत्र उपमालिङ्गस्य यथाशब्दस्य सत्त्वात् श्रौती उपमा चेत्यनयोरङ्गाङ्गिभावेन सङ्करः। एवं ‘रसस्योक्तिः स्वशब्देन’ इत्यस्य व्याख्यायां दर्पणकृता ‘रसस्य स्वशब्दो रसशब्दः शृङ्गारादिशब्दश्च’ इत्यभिहितेऽपि अत्र स्वशब्देन रसकथनं न दोषपदवीमारोहतो अस्य कथमपि अन्यथा उपादातुमशक्यत्वेन सामाजिकानन्दानुभवाविघातकतया प्रकृतरसानपकर्षकत्वादिति सुधीभिर्विभाव्यम् )। वसन्ततिलकं वृत्तम्॥४७॥

रामः। अयि विमानराज इत इतः। (न) (इति सर्वे उत्तिष्ठन्ति) तमसावासन्त्यौ सीतारामौ प्रति (प)- अवनिरमरसिन्धुः सार्धमस्मद्विधाभिः स च कुलपतिराद्यश्छन्दसां यः प्रयोक्ता।
स च मुनिरनुयातारुन्धतीको वसिष्ठ- स्त्वयि वितरतु भद्रं भूयसे मङ्गलाय॥४९॥

(इति निष्क्रान्ताः सर्वे) (न)विमानराजा-स्यन्दनश्रेष्ठ ब्योमयानेषु पुष्पकस्यैव प्राधान्यात् पुष्पकस्य विमानराजत्वम्। इतः इतः,-अनेनानेन पथा गम्यतामिति शेषः। पुष्पकस्य चालकादेशानुरूपगमने शक्तिः प्रसिद्धेति तस्मिन् सचेतने इव रामस्यादेशः इति बोध्यम्।
(प) तमसा सीतां प्रति, वासन्ती रामं प्रतीति यथाक्रममन्वेति।
परस्परं विहाय स्वस्थानं गन्तुकामा तमसा वासन्ती च सीतारामयोः कुशलमाशंसमाना आह, अवनिरिति। -अवनिः पृथ्वी अमरसिन्धुः सुरधुनी गङ्गा अस्मद्विधाभिः अस्मादृशीभिः तमसासदृशीभिः नदीभिः वासन्तीसदृशीभिः वनदेवताभिश्चेत्यर्थः, सार्द्धं सह मिलिता इति शेषः, तथा यः छन्दसां वेदादन्येषाम् अनुष्टुप्प्रभृतीनामित्यर्थः, आद्यः प्रथमः प्रयोक्ता प्रयोगकर्त्ता तत्पूर्वमेकत्र बहुलानुष्टुप्छन्दसां प्रयोगादर्शनात्, कुलपति ‘मुनीनाम् दशसाहस्रं योऽन्नपानादिपोषणात्। अध्यापयति विप्रर्षिः स वै कुलपतिः स्मृतः॥ ‘इति लक्षणोपेतः मुनिर्वाल्मीकिः अनुयाता अनु सह धर्म्मार्थं याता सहधर्म्मिणीत्यर्थः, अरुन्धती यस्य तथोक्तः स मुनिः विशिष्ठस्य भूयसे महते मङ्गलाय भुवनहितायेत्यर्थः, त्वयि भद्रं मङ्गलं ( ‘श्वःश्रयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्’ इत्यमरः) वितरतु ददातु। त्वन्मङ्गलेनैव भूवनमङ्गलमिति भावः। ( अत्र गर्भबीजस्य ऋषिश्रेयोवितरणरूपस्य उद्भेदनादाक्षेपो नाम सन्ध्यङ्गमुक्तम्। दर्पणकृन्मते तु आशीर्नाम नाट्यालङ्कारः ‘आशीरिष्टजनाशंसा’ इति तल्लक्षणादिति ध्येयम् )। मालिनी वृत्तम्॥४८॥

इति छाया नाम तृतीयोङ्कः। (फ) (फ) अस्मिन्नङ्के सीताया अदृश्यरूपेण प्रवेशोऽपि कदाचित् अङ्गस्पर्शादिना रामानुभवविषयत्वात् छायारूपेण आभासमानतया अस्य नाम कविना छायेति कथितम्।
तृतीयाङ्कस्य सङ्क्षिप्तवृत्तिः अथात्राङ्काराम्भे मुरला नाम काचित् तटिनी तमसया समं रङ्गं प्रविष्टा, पृष्टा चात्मनः ससम्भ्रमागमनकारणं तयैव ‘अहरहर्विरहातपतापतप्यमानमानसं चिरपरिचितप्रियासहवाससाक्षिसन्दर्शनाश्यमानप्रमादं परिक्षीणदीनं जानकीजीवनं सम्भविष्यदापदः परित्रातुम्, उत्तुङ्गतरङ्गसङ्गशीतलैर्विकचकमलकिञ्जल्कसुरभीकृतैर्मृदुमन्दसम्पातैर्वातैस्तस्य म्भाव्यमानमोहञ्चापनेतुं नियतमवहिता भव‘इति भागीरथीं वक्तुमगस्त्यपत्न्या लोपमुद्रया प्रेरिता तत्सकाशं यामीति प्रत्युवाच। तमसापि स्नेहाल्लोपामुद्राऽऽविष्कृतमुपायमाकर्ण्य इत्थमेवाशङ्कमानया भागीरत्थ्या च उद्भावितमुपायमचीकथत्, तथाहि पुरा लक्ष्मणेन परित्यक्ता अन्तःसत्वा सीता कदाचित् दुःसहप्रसववेदनामसहमाना गङ्गाम्भसि निपात्यात्मानमसूत सुतयुगलम्। ताभ्याञ्चाशरणाभ्यां सार्द्धमसौ भाग्यात् पृथ्वीभागीरथीप्रसादम•ेेता रसातलमनायि।
अथ कालेन भागीरथी सीतासुतयुगलं वयःप्राप्तमालेक्य स्वयं तत् वाल्मीकिं समर्प्य सम्प्रति शम्बूकबधानन्तरप्रत्यावृत्तं रामभद्रं सम्भावितजनस्थानागतमनमाकर्ण्य सीतां स्वप्रभावात् वनदेवतानामप्यदर्शनीयतां विज्ञाप्य स्वसुतयोः कुशलवयोः द्वादशवर्षिकोत्सवे श्चशुरवंशादिपुरुषसवितृसमर्चनार्थं स्वहस्तकृतकुसुमावचयव्याजेन गोदावरीतीरं निनाय ; आदिदअश च मां तत्प्रकृष्टप्रेमतया तस्याः प्रत्यन्तरीभवितुमित्यहमिदानी तदादेशमनुतिष्ठामीति। तमसामुखादेवं श्रुतभागीरथीवृत्तान्तमचिरात् रामागमनं तर्कयन्तीं मुरलां वृत्तमेतल्लोपामुद्रायै विज्ञातुं प्रस्थातुकामामालोक्य तमसा गोदावरीह्रदान्निष्क्रम्य अरण्याभुमुखमायान्तीं दुःसहविरहक्षीणमलिनाकृतिं सीतां न्यवेदयत्। मुरलापि सममेव तया तथाविधां सीतामवेक्ष्य दुःखाकुलिता मिलिता च तमसया रङ्गात् निश्चक्रामेति विष्कम्भकसङ्क्षेपः।
अथ रङ्गमुपस्थिता वियोगशोकाकुलिता सीता कुसुमावचयव्यग्रहस्तापि नेपत्थ्योत्थं ‘प्रमादः प्रमादः‘इति वासन्तीवचनं सकरुणमाकर्णयन्ती पुनरपि स्वयं स्वकरपरिपोषितस्य करिकरभकस्य उन्मदद्विरदरदाभिभवमाकर्ण्य सहसा अज्ञातसारेणैव ‘आर्यपुत्र परित्रायस्व‘इति सुचिरपरिचितान्यक्षराणि उच्चारयामास, मुमोह च तेन स्मृतातीताखिलवृत्तान्ता अतिसन्तप्ता तत्क्षणमेव। ततो रङ्गमभ्येत्य तमसायां मिर्च्छितां सितां समास्वासयन्त्यां भयोऽपि नेपथ्यादुच्चरन् ‘विमानराज अत्रैव स्थीयताम् ‘इति वचनं स्वरपरिचयेन रामस्येत्याशङ्कमाना कातर्य्यमादधाना सीता अव्यक्ते कुतस्त्येऽप्यस्मिन् वचसि औत्सुक्तप्रदर्शनेन तमसया समनुयुक्ता श्रुतस्वरस्यातिपरिचितत्वादव्यक्तत्वमेवास्य निरस्य सहचारीवचः प्रत्युत्तयाञ्चकार, प्रशशंस च प्रियतमं तमसामुखात् राजधर्मानुसारेण शम्बूकवधार्थमिदानीम् अत्रापि रामागमनसम्भावनां विज्ञाय।
अथ पुनर्नेपथ्यादुच्चरितं पूर्व्वपरिचितमृगपादपादिविषयकमाक्षेपवचनमाकर्णयन्ती जानकी स्वीमिस्वरसंयोगसम्भ्रमात् समन्तदन्विष्य सहसा पुरतः स्वशोकक्षीणमलिनाकृतिं साक्षादार्य्यपुत्रमेव अवलोक्य मूर्च्छन्ती तमसया पुनः समाश्वासि ; एवं पुनरपि पञ्चवटिसन्दर्शनसमुद्बुद्धपूर्व्वस्मृतिर्दाशरथिः ‘हा प्रिये ‘जानकीमामन्त्र्य अन्तरुद्दामं ज्वलिष्यत् दुःखाग्नेर्धूमरूपेण मोहेन स्वस्यावरणम् उच्चेर्विज्ञाप्य पुनरामन्त्र्य नामस्ताममूर्च्छित्।
अथ सीतया स्वात्मानमुद्दिश्य सकरुणमेवं विलपन्तमार्य्यपुत्रं मूर्च्छितमालोक्य तं कथमपि सञ्जीवयितुं पादग्राहं याच्यमानया तमसया तत्पाणिस्पर्श एव अमोघः सञ्जीवनोपायः निरधारि। असावपि अविचार्य्यैव अशेषान् गुणदोषान् सहचरीनिदेशात् सभूमिपातं पतिपादपङ्कजं संस्पृश्य सवाह्य च भीतिव्यस्तेन हस्तेन आपादमस्तकं तस्य, समालोक्य च तमचिरादेव पुनःप्रत्यागतजीवितं जीवितनाथं नितरामतुष्यत् ; व्यतर्कयच्च बहुधा रामस्तमतिपरिचितं च्युतचन्दनपङ्कसम्मितं कृतचित्तहर्षं सीताकरस्पर्शमिति। इत्थञ्च प्रमादाद्रामसकाशं प्रकाशितमात्मानमाशङ्कमाना पुनः सावधानं भवितुं यतमाना तमसया भूयो भागीरथीवरस्मारणेन समाश्वासिता सीता मुहुः स्वात्मानमुद्दिश्यैवं सकरुणविलापिनः स्वामिनः सानुरागवचनशतैः द्रवीभूतहृदया सर्वथा निर्व्वक्तुमशक्यमपि मनोभावं कथमपि सहचरीं न्यवेदयत्। समवर्ण्यत् तमसाऽपि तत्सकाशमेव आकारेङ्गितैरंशतो बहिःप्रकाशमानं तदीयं पुनःसमागमनेराश्यकलुषं मनोभावं विस्तरेण।
अथैवं चिरपरिचितस्पर्शसम्भावितां सीतामितस्ततः सम्यगन्विष्यापि अलभमानः सर्व्वं सीतासङ्कल्पहेतुकं भ्रमं वितर्कयन् रामः सीता च युगपदेव पुनर्नेपथ्यादुच्चरितं ‘सीतादेव्याः स्वकरकलितैः’ इत्यादिसकरुणवचनमाकर्ण्यव्याकुलतामगच्छत्, अपश्यच्च प्रतिचिकीर्षाव्याकुलो रामः पुरतः एव ससम्भ्रममुपस्थितां वासन्तीम्, अशृणोच्च तन्मुखादामूलं सीतापरिपोषितकरिशावकपराभववृत्तान्तं विस्तरेण।
अथ तत्रैवं सीतापुत्रकपरित्राणाय सत्वरं गोदावरीं गन्तुमनुरुद्धः सीतानाथः तत्प्रदर्शितेनैव पथा प्रतस्थे, सीताऽपि सहचरीस्मारितभागीरथीवरप्रभावा आत्मप्रकाशाशङ्काऽसत्त्वात् तमनुससार, आलुलोके च तत्रोपस्थितैव करेणुकया पयसि बहुधा विहरन्तं स्वपुत्रकं करिकरभकमाग्रहेण। तञ्चैवमसम्भाविताकारव्यवहारमालोक्य हृष्टाऽपि समुद्बुद्धकुशलवस्मृतिरतिदुःखिता सीता तमसया पुनः समाश्वासि। सर्व्वथा रघुनाथं प्रसादयन्ती वासन्ती अपि सीतापुत्रकं प्रलम्बकदम्बशाखासमारूढं नृत्यप्रं शिखण्डिमिथुनञ्चावलोक्य हर्षशोकाकुलमतिं सीतापतिं पूर्व्वपरिचितं शयनीयशिलातलम् अध्यासितुमनुरुरोध। प्रत्यग्रहृदयव्यथस्तु रघुनाथः तं शोकोद्दीपकतया द्रष्टुमप्यसमर्थः रुदन्नन्यतः समुपाविशत्।
अथ स्वामिनं तथा रुदन्तमालोक्य निरतिशयनिर्विण्णा जानकी तद्दुःखनिदानभूतां वासन्तीमेव अधिचिक्षेप। वासन्त्यापि पत्युरीदृगवस्थायाम् अनुपस्थितेर्निर्भर्त्सिता सीता, तादृगवस्थादर्शनेऽपि स्वस्याः प्रतीकाराक्षमत्वमचीकथत्।
अथ स्वाधिकाररता वनदेवता वासन्ती स्वभवनं वनमागतमतिथिं दाशरथिम् अभिनन्दयितुं स्वाधिकारगतान् पादपपतत्रिपवनानादिदेश, उपविवेश च निभृतं रामाधिकृतस्यैव स्थानस्यैकान्ते पृच्छन्ती महाराजेत्यामन्त्रणपुरःसरं केवलं लक्ष्मणस्यैव कुशलम्। पुरतः परिदृश्यमानस्वभावशोभावर्णनेन तच्च दाशरथिः श्रुतमप्यश्रुतमिव अभिनिनाय। तं तथोन्मनसं स्ववचसि सत्वरमवधानपरं विधातुं वासन्त्या पुनरपि तदेव पृच्छ्यमानो रघुनन्दनः महाराजेति निष्प्रणयामन्त्रणपदाकर्णनेन अस्याः सीताविवासनवृत्तान्तज्ञान संशयानः सजलनयनः आं कुशलं कुमारस्येति प्रत्युवाच। अधिचिक्षिपे च तयैव असौ, त्वं जीवितेत्यादिना तस्य अमानुष्यदारुणत्वप्रख्यापनेन। तदाकर्ण्यातिदुःखिता सीताप्यात्मार्थमार्य्यपुत्रमेव अधिक्षिपन्तीं वासन्तीं प्रच्छन्नविग्रहाऽपि व्यग्रतया विरस विरमेति निषिषेध।
अथ वासन्त्या साधिक्षेपं तदनार्य्यकार्य्यनिदानं पृष्टो जानकीजानिः प्रजाऽनुरञ्जनमेव सीताविवासननिदानम् अचीकथत् ; व्यलपच्च स्वकार्य्यवममानुषिककदारुणत्वमुपवर्णयन् स्वयमेव। अशोचीच्च तदानीं पौरजानपदानुद्दिश्य तेषां पुनः प्रसादमर्थयमानः सविशेषम्। अन्यतस्तमसाऽपि स्वामिशोकसन्दर्शनकातरां सीतामाश्वासयन्ती, दर्शयन्ती च शोके सति विलापस्यैव अत्यावश्यकताम्, अचीकथयत् रामस्य सर्व्वथा सांसारिकक्लेशजातम्।
अथ वासन्त्या धैर्य्यमवलम्बितुमुपदिष्टः शोकपरिक्लिष्टो रामः आमूलवृत्तख्यापनेन आत्मधैर्य्यस्य परां कोटिं प्रकटयन् पूर्व्वपरिचितानां पादपपतत्रिपर्व्वतादीनाम् आकस्मिक सन्दर्शनमेव साम्प्रतिकचित्तविकारनिदानं निर्द्दिदेश, व्याचचक्षे च व्यर्थतां प्रबलजलवेगरोधने सैकतसेतोरिव स्वचित्तसंयमे प्रबलस्यापि स्वप्रयासस्य।
अथाकर्ण्यास्य सकरुणवचनजातं साम्प्रतमितोऽप्यधिक्षेपः सर्व्वथा अनुचित इत्यवगच्छन्ती वासन्ती तमन्यासक्तचित्तं कर्त्तुकामा , प्रियतमया सीतया सार्द्धमध्युषितपूर्व्वमपूर्व्वं लतागृहं दर्शयामस। ततस्तदालोकनदूनं रघुनन्दनं शोकमापन्नमालोक्य तज्जीवनापायभीता सीता तमसोपदेशात् परिचिततरेण करेण मृतप्रायं कायं स्पृशन्ती मृतवद्धतश्रियं प्रियं पुनरुज्जीवयामास।
अथ पुनःप्रप्तचेतनो जानकीजीवनः अनुभूताचरेण सीताकरस्पर्शेन वासन्त्यै सीतां पुनःप्राप्तां व्याचक्षाणः तया उन्मत्तप्रलापालापित्वेनाधिक्षिप्तः, पुनरपि स्वानुभवप्रमाणेन स्वोक्तयाथार्थ्यं प्रमापयन् स्वेदात्मकसात्त्विकभावोद्गमात् सिक्तकरत्वेन तद्धारणे स्वम्याक्षमत्वमुक्त्वा तां ग्रहीतुं वामन्तीमनुरुरोध। सीताऽपि सहसा प्रियतमाऽङ्गसङ्गेन सञ्जातसात्त्विकभावा स्वकीयामनवधानतामाशङ्कमाना तत्करात् स्वकरमाक्षिप्यापसरन्ती तमसासमक्षं स्वेदाक्तं कम्पितञ्चाङ्गं दर्शयन्ती ललज्जे।
अथ सहसा स्वकरात् करे परिभ्रष्टे प्राप्तिनिधिप्रणाशादिवातिदुःखितः सीतानाथवासन्त्या ‘नेयं सीता, अपितु दुःसहवियोगशोकसमुत्थो भ्रमः’ इति पुनःपुनः प्रतिबोधितः सहचर्य्या, अनुपलब्ध्यादिप्रमाणेन तस्या असत्त्वमेव बहुधा वितर्क्य भगवतो विप्रलम्भस्यैवायमप्रतिकार्य्यस्वभावः प्रभाव इति निश्चिकाय। मुहुरेवं विलपन्तं तं पुनरप्यन्यासक्तचित्तं कर्त्तुकामा वनदेवता अशेषभग्नावशेषरावणरथखरकङ्कालजालानि अदर्शयत्। तन्मुखात् रावणनामश्रवणादेव रघुनन्दनः समतीतामपि घटनावलीं प्रत्यक्षदृश्यामिव मन्यमानः आमन्त्रयमाणश्च रावणं तातप्राणा सीताऽपहारिन्निति समरुरुषदलक्ष्य एव।
अथ तमेवं अलीककोपाकुलमालोक्य विबोध्य चास्य वृत्तान्तस्य असाम्प्रतिकत्वं वासन्ती पृर्व्ववृत्तं स्मारयामास। रामोऽपि विदितात्मभ्रमः स्वोक्तं सर्वं प्रलापमवगच्छन् साम्प्रतिकस्य वियोगस्य निरवधित्वेन असहनीयत्वं विभावयन् शुचंश्चातितराम् अलक्ष्य एव सीतामान्त्र्य, प्रबलनललक्ष्मणादिसहायानामपि ज्ञानाविषये त्वं कुत्र स्थितेत्यपृच्छत् ; व्यज्ञापयच्च तां वनदेवताम् इत्थं स्वशोकसमभागिसूहृज्जनमनस्तापं परिहर्त्तुकामो रामः स्वभवनगमनाभिलाषम् ; अवदच्च भवनगमनोत्तरं हिरण्मय्यां सीताप्रतिकृतौ सन्तताश्रुपरिप्लुतयोर्नेत्रयोः साम्प्रतिकविनोदोपायम्।
अथ तमसा अनाकाङ्क्षितप्रियदर्शनानन्दितां सीतां रामस्य सहसा जिगमिषावगमात् पुनर्निरवधिविरहाशङ्कातामालोक्य, तस्याऽपि कुशलवयोर्द्वादशवर्षवर्द्धनमङ्गलविधानार्थमितः शीघ्रमेव भागीरथीपादान्तिकगमनस्त्यावश्यकतां विबोधयन्ती आश्वासयामास।
इतश्च पतिमुखात् सहधर्म्मचारिणीशब्दश्रवणेन सपत्नीप्राप्तिभीता सीता वासन्तीकृतश्रोत्तरमुखेण पुनस्तन्मुखादेव सीताप्रतिकृतिशब्दश्रवणाल्लज्जिता बभूव। वासन्ती च अनिच्छन्ती अपि कार्य्यहानिनिरासाय रामस्य गृहगमनमनुमन्यमाना तमसया सह सीतारामयोर्यथायथं शुभमाशंसमाना, तस्मात् स्थानात् प्रतस्थे। सीताप्यतिदुःखिता भागीरथीपादान्तिकमेव गन्तुमुपचक्रमे। रामश्च स्वभवनगमनाय रथं चलितुमादिदेशेति।
इत्यशेषशास्त्राटवीसञ्चरणपञ्चानन कुलपतिकल्प-‘बि.ए’ इत्युपनामक-श्रीमज्जीवानदविद्यासागर-भट्टाचार्य्यविरचितायां, तदात्मजाभ्यां श्रीमदाशुबोधविद्याभूषण-श्रीमन्नित्यबोधविद्यारत्नाभ्यां परिवर्त्तित-परिवर्द्धितायां सुखबोधिनीसमाख्यायाम् उत्तररामचरितव्याख्यायां तृतीयोऽङ्कः॥३॥