द्वितीयोऽङ्कः
(पज्चवटीप्रवेशः)
(नेपत्थ्ये) स्वागतं तपोधनायाः ? (क)
अध्वगवेशा तापसी। (प्रविश्य) अये वनदेवता-इयं फलकुसुमपल्लवार्घेण मामुपतिष्ठते (ख)
(क) स्वागतमिति। तु सुखेन आगतमागमनं, सुखस्य आगतं प्राप्तिर्वा, भवतीति शेषः। निरुपद्रवमागमनं विज्ञातुमेष हि लोकसदाचारसिद्धः कुशलप्रश्नः ; तवागमने किं क्लेषो जात इत्याकारिकः। ( ‘स्वागतं कुशलप्रश्ने’ इत्यमरः) (आत्रेयीवासन्त्योः अनीचपात्रत्वात् संस्कृतभाषाप्रयोगः न दोषावहः)।
(ख) अध्वनि पथि गच्छन्तीति अध्वगाः पथिकाः, तदुपयुक्तः वेशो यस्याः सा। अध्वगानां पथिकानां वेशः इव वेशः यस्याः तथाविधा, इति वा व्यासवचनम्। ( ‘अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि’ इति कोषः)। वनेति। -वनदेवता-वनाधिदेवताभूता काचित् तापसी, (इयं हि वासन्ती नाम सीतायाः प्रियसखी, तत्तु तृतीयाङ्के व्यक्तं भविष्यति)। फलेति। अर्घ्यम् (अर्हतेः करणे घञ्, न्यङ्क्वादित्वा्त कुत्त्वम् ; ततो देयार्थे यत्। अयं शब्दस्तु सामगैः सयकारः क्लीवलिङ्गवांश्च पठ्यते ; निर्यकारस्तु वेदान्तरपारगैः इति)। पूजार्थोपचारः,-दूर्वाक्षतादिः ( ‘मूल्येपूजाविधावर्घः’ इत्यमरः) फलानि च कुसुमानि च पाल्लवाशचा तैरुपचितेन अर्घ्येण, फलकुसुमकोमलकुवलयपरिकल्पितेनार्घ्यपात्रेण उपरुद्धहस्तेत्यर्थः। उपतिष्ठते-पूजयति मामिति शेषः। अतिथिपूजनस्यावश्यकर्तव्यतया, वेदविदमभ्यागतां मामवलोक्य अर्घ्यपात्रव्यस्तहस्ता मदभिमुखमागच्छन्तीत्यर्थः। ‘सर्वदेवमयोऽतिथिः‘इत्यादिवचनात् तेषां देवत्वं बोध्यम्। ( ‘उपाद्देचपूजा-’ इति वार्तिकराद्धान्तेन आत्मनेपदम्)। प्राक्तविविधापकरणैः यद्यपि शास्त्रेषु अर्घ्यरचना विहिता, तथापि वनौकसां तापसीनां वनभूमिसुलभैः फलकुसुमपल्लवादिभिरर्घ्यदानं न विरुध्यते। - ‘उक्तानुक्तैस्तथा पुष्पैर्जलैः स्थलजेरपि। पत्रैः सर्वैः यथालाभं भक्तिमान् सततं यजेत्॥‘इत्यादिवचनात्। अर्घ्यद्रव्याणि यथा- ‘आपः क्षीरं कुशाराणि दधि सर्पिश्च तण्डुलाः। यवाः सिद्धार्थकश्चैवमष्टाङ्गार्घ्यं प्रकीर्तितम्॥‘सिद्धार्थकः,-श्वेतसर्षपः। - ‘रक्तबिल्वाक्षतैः पुष्पैः दधिदूर्वाकुशैस्तिलैः। सामान्यः सर्वदेवानामर्घोऽयं परिकीर्त्तितः॥‘इति देवीपुराणम्।
रक्त्तबिल्वं- कुङ्कुमं‘जाफ्रान्‘इत्यपभाषा ‘अभावे दधिदुग्धादेर्मानसं वा प्रकल्पयेत्‘इत्याचारादर्शः। ‘चन्दनोदकसम्मिश्रं दत्त्वाऽर्ग्यकुसुमं रवेः। मधुपर्क-‘इत्यादि स्मृतिः। ‘दधिसर्पिर्जलं क्षौद्रं सिता चैतैश्च पञ्चभिः। प्रोच्यते मधुपर्कस्तु-‘इत्यादि च शास्त्रदर्शनात् प्रक्कालप्रथितपूजार्थद्रव्याण्येतान्यवगम्यन्ते)।
वनदेवता। (प्रविश्य अर्घ्यं विकीर्य (ग))-
यथोच्छं भोग्यं वो वनमिदमयं मे सुदिवसः
सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति।
तरुच्छाया तोयं यदपि तपसो योग्यमशनम्
फलं वा मूलं वा तदपि नपराधीनमिह वः॥१॥
(ग) अर्ध्यमिति। - विकीर्य्य- विक्षिप्य, तापसीं प्रतीति शेषः।
विवासितायाः सीतायाः द्वादशपरिवत्सरेषु व्यतीतेषु किं हि कुशलमयम्अ कुशलं वा उदन्तजातं समजनि, तत् तावत् नीरसं वस्तु विष्कम्भकेणावेदयितुम् अभीप्सुः तत्प्रियसखी वनदेवता वासन्ती, इदानीं प्रसङ्गतः वेदविदमात्रेयीमतिथिसमुचितं सत्कृत्य तस्याः स्वच्छन्दचारित्वं सुमनायमानत्वञ्च प्रार्थयते, यथेच्छमिति। - इदं- मदीयमित्यर्थः, वनं, षो- युष्माकमेवेति विनयोक्त्तिः। (न तु युष्मदनुरूपमेतत् स्पृहणीयप्रासादादिपरिशोभितमिति गम्यते, ‘युष्मदो गौरवे‘इति बहुत्वम्)। सत्यप्येवं, यथाशक्त्ति सज्जनसभाजनस्य समुचितत्वात् आह, यथेच्छमिति। - यथेच्छम्- इच्छानतिक्रमेण, यथारूचि इत्यर्थः, भोग्यम् एतत्- मम परस्य वेति विभाव्यात्र नाभिलाषसङ्कोचः करणीय इत्यर्थः। यद्यपि वनभूमेः साधारणधनत्वेन यथेच्छमित्यादिशङ्काऽवसरः नोदेति, तथापि स्वस्य वनाधिदेवतात्वेन वने मदीयस्वत्वं वर्त्तते इति प्रतिपादनाय तथोक्त्तिः। शङ्काकारणं किमपि नास्तीति ज्ञापयितुमाह, अयमिति। - अयम्- उपस्थितः इत्यर्थः, मे सुदिवसः,-भवत्याः समागमात् शुभदिनं समुदितमित्यर्थः। कथमस्मत्समागमात् सुदिवसः?-तत्रार्थान्तरन्यासपूर्वकमाह, सतामिति। - सन्तीति सन्तस्तेषां सतां- प्राणिनां, पुण्येन- सुकृतेन- कथमपि- दैवानुग्रहादिकारणादित्यर्थः सद्भिः,-साधुभिः, सङ्गः,-समागमः, भवति- जायते। (एतेन साधुसङ्गस्य दुष्प्रापत्वं ध्वनितम्)।
हि एवार्थे। तत्र पुण्यप्रकर्षानुकूलदैवादन्यत् साधनान्तरं नास्तीति भावः। एवञ्च जन्मान्तरीणाशुभकर्मपरिपाकवशादेव भवादृशीनां पुण्यश्लोकानां सन्दर्शनं भवति, तेन ज्ञायतेऽयं मे सुदिवस इति फलितार्थः। अतःमयाऽद्यदुर्लभः साधुसेवाऽमरः प्राप्त इत्याशयः। (‘सन्ये साधौ विद्यमाने‘‘प्रशस्तेऽभ्यर्हिते च सत्‘इत्युभयत्राप्यमरः)। यथेच्छभोग्यप्रकारं प्रदर्शयति, तरुच्छायेति। - तरोः छाया(जातावेकवचनान्तेन समासः। तरुणां छाया इति विग्रहे‘छायाबाहुल्ये ‘(२। ४। २२पा०) इति सूत्रेण क्ल्रीवत्वप्रसक्त्तिः) । तोयं जलं यदपि तपसः तपश्चरणस्य इन्द्रियसंयमादेश्चानुकूलतया योग्यं फलं वा मूलं वा अशनं, यत्किञ्चित्फलमूलादिभोज्यमत्रास्तीति, तदपि तपस्वियोग्यं तपःसाधकानां समुपयुक्त्तम् इत्यर्थः, (‘नपुंसकमनपुंसकेनैकवच्चान्यतरस्याम् ‘(१। २। ६९पा०) इति सूत्रेणैकशेषैकवद्भावौ)। इह वने वो युष्माकं न पराधीनम् अनन्यायत्तं स्वाधीनमिति निष्कर्षः, ततश्च आत्मद्रव्यवत्सर्वमेतत् यथेच्छं यथासुखमुपभुङ्ष्वेति भावः।
अत्र तपश्चरणयोग्याशनानि सुलभानि कुतः? तदेव दर्शयति,-तथाहि अत्र प्रच्छायशीतले तरुतले निषद्याऽध्वखेदं विनोदय; वनप्रसूनसुरभि स्वादु निर्मलञ्च निर्झरिणीसलिलं निपीय तृषामुपशप्तय; कन्दमूलफलानि च भुक्त्त्वा बुभुक्षां वारयेति तात्पर्य्यम्। (अत्र पूर्व्वार्द्धे‘सतां सद्भीः‘इत्यादिना सामान्यरूपेणार्थनं सुदिवसरूपस्य विशेषार्थस्य सोपपत्तिकत्वकरणात् सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः। अपि च, परार्द्धे यथेच्छभोग्यत्वरूपकार्य्यस्य, ‘न पराधीनम्‘इत्यादिना अपराधीयत्वरूपकारणेन समर्थनात् कारणेन कार्य्यसमर्थनरूपोऽर्थान्तरन्यासश्च। इत्यनयोः सजातीयसङ्करः। तथा‘अयं मे सुदिवसः‘इत्यादिकं प्रति अधिकहेतोरनाभधानात् जायमाननिर्हेतुकत्वदोषशङ्का, ‘भवत्मन्दर्शनात्‘इत्यादि गम्ये न हेतुना निरसनीया)। शिखरिणीवृत्तं- ‘रसैरूद्रैश्छिन्नायमनसभलागः शिखरिणी‘इति लक्षणात्। अस्य प्रस्तारस्तु ५९३३० तमः॥१॥
ताप। किमत्रोच्यते ? (घ)-
प्रियप्राया वृत्तिर्विनयमधुरोवाचि नियमः
प्रकृत्या कल्याणी मतिरनवगीतः परिचयः।
(घ) अत्र भवदनुपालिते वने आगमनात् सदिवसोत्पादविषये इत्यर्थः, किमुच्यते ? किञ्चित् वक्त्तव्यं नास्तीति भाव। सतां समागमादन्यत् नास्ति किमपि प्रियतरमिह सुधियामिति तु तात्पर्य्यम्।
सतां सङ्गाज्जायमानेन पुण्यसमुच्चयेन किं हि फलं न प्रसूयते, सुष्ठु तत्प्रतिपादनपुरःसरं पथमतः समभ्यर्थनपरितुष्टा तापसी वनदेवतायाः साधुत्वं सर्वथा प्रशंसितुमारभते, प्रियेति। - साधूनां सतां भवादृशीनामिति भावः, वृत्तिर्वर्त्तनं स्वभाव इत्यर्थः,
कायकृतव्यवहार इति यावत्, प्रायेण बाहुल्येन प्रिया निरतिशयप्रीतिजनिका। तथापि वाचां क्रौर्य्ये दोषः स्यात् तदाशङ्कामपनयति, मधुर इति। - वाचिवाक्ये नियमः संयमनप्रक्रारः, सत्याय मितभाषित्वरूपः इत्यर्थः, विनयेन शिष्टाचारभूयिष्ठतया अनौद्धत्येनेति यावत्, मधुरः सुखदः, न तु अशिक्षितानां सदम्भा वागिव नितरां चेतांसि व्यथयतीति भावः। साधवो हि नितरां कर्णामृतमेव भाषन्ते इत्याशयः। सत्यप्येवं मनोवृत्तेः कल्मषत्वे सर्वमेव गतमत एवाह प्रकृत्येति। - मतिर्बुद्धिः प्रकृत्यास्वभावेन कल्याणी जीवानां शुभकरी, सततं जगतां शुभोत्पादने व्यापृता इत्यर्थः। तथापि असत्सङ्गवशात् तदन्यथाभवितुमर्हतीति शङ्कां निरस्यति, अनवगीत इति।
परिचयः प्रणयः अनवगीतः कपटादिदोषरहितत्वादनिन्दितः समधिकतृप्तिसाधक इत्यर्थः। सतां चरिते गर्हालेशविनाकृतत्वेनाकल्मषं तेषां प्रणयित्वमाधिहरञ्चेति भावः। तत् तस्मात् पूर्वोक्त्तबहुलगुणयोगादित्यर्थः, पुरः अग्रे सतां प्रणयस्येति शेषः पश्चात् परस्मिन् वा प्रणयात् परतः वा तत्र कश्चित् विशेषो नास्तीति भावः; परिचयस्य तदभावस्य च उभयत्रैव समत्वात् अकल्मषत्वात् प्रार्थनालेशरहितत्वाच्च सर्वदैकरूपमिति यावत्।
परो वा पश्चाद्वा तदिदमविपर्यासितरसम्।
रहस्यं साधूनामनुपधि विधुद्धं विजयते॥२॥
(इत्युपविशतः। )
अविपर्य्यासितः विपर्य्ययमप्राप्तः रसः अनुरागो यस्मिन् तत् तथोक्त्तं समरसं नित्यप्रीतिकरमित्यर्थः; यत्र हि काचित् प्रार्थना विद्यते तत्रैव पुरः वा पश्चाद्वा इति शङ्का आयाति, साधौ आचरिते साध्वाचरणमसाधौ तु असाध्वाचरणमिति दर्शनात्, यत्र तु नैवं तत्र तु किमस्ति फलं पुरो वा पश्चद्वा इति भावनायाः इति तु तात्पर्य्यम्। अनुपधि अकपटं विशुद्धं सर्व्वथा निर्द्दोषमिदं रहस्यं साधारणैरज्ञेयमनिर्वचनीयं चरितमित्यर्थः, विजयते सर्व्वोत्कर्षेण वर्त्तते(‘विप्रराभ्यां जेः ‘(१। ३। १९पा०) इति सूत्रेण आत्मनेपदम्)। साधुचरितवत् नास्त्यन्यत् किमपि अवदातमखिललोकहितकरञ्चात्र इति भावः। (‘कपटोऽस्त्री व्याजदम्भोपधयश्छद्भकैतवे‘इत्यमरः)।
(अत्र प्रस्तुतवनदेवताचरित्रीत्कर्षवर्णनप्रसङ्गेन महच्चरित्रवर्णनादुदात्तालङ्कारः। अपि च सतां चारित्र्योत्कर्षं प्रति प्रियप्रायवृत्तित्वादिरूपैककारणस्य पर्य्याप्तत्वेऽपि कारणान्तराणां तत्करत्वेनोपादानात् समुच्चयालङ्कारश्च, इत्यनयोः सापेक्षत्वेन सङ्करः। साधूनामित्यनेन वनदेवतायां साधुत्वाभिधानाभिप्रायात् प्रस्तुतत्वप्रतीतेः नात्राप्रस्तुतप्रशंसा शङ्कनीया, तत्र हि केवलाप्रस्तुतात् प्रस्तुतावगम इत्यवगन्तव्यम्)। शिखरिणीवृत्तम्॥२॥
वन। कां पुनरत्रभवतीमवगच्छामि ? (ङ)
ताप। आत्रेयी अस्मि। (च)
वन। आर्ये आत्रेयि कुतः पुनरिहागम्यते; किं प्रयोजनं वा दण्डकारण्यप्रदेशे ? (छ)
(ङ) कामिति। - अत्र भवती का इति विज्ञातुमिच्छामीत्यर्थः।
(च) आत्रेयीति। - ब्राह्मणोचितसंस्कारोपपन्ना, आत्रेयी-नामऽहृमस्मीत्यर्थः। अत्रिगोत्रसम्भूतत्वात् तस्याः तथैवप्रसिद्धिः। तथाहि, आत्रेयः शुक्लयजुःसम्प्रदायप्रवर्त्तकः, वंशगणनायां‘भरद्वाजः आत्रेयात्, आत्रेयो माण्टेः‘इति शतपथब्राह्मणे दर्शनात्; शुक्लयजुषां सम्प्रदायप्रवर्त्तकवंशगणानायाम्‘आत्रेयीपुत्रादात्रेयीपुत्रः‘इत्यपि प्रोक्त्तब्राह्मणे दृश्यते, अत एव भारतेऽप्युक्त्तं- ‘पुत्रमन्थनकर्म्मणः स्त्रीसंस्काराङ्गत्वेनोक्त्तत्वात् तत्सन्निधानादयं वंशः स्त्रीप्रधान उच्यते‘इति। आत्रेयीपदस्य गर्भिण्याद्यर्थाभिधायकत्वेन रूढित्वमपि दृश्यते, तथाहि यमः, –
‘जन्मप्रभृतिसंस्कारैः संस्कृता ब्रह्मवच्च या।
गर्भिणी वा तथा या स्यात् तामात्रेयीं विनिर्दिशेत्॥‘इति।
(छ) आर्य्ये इति। - भो आत्रेयि विदुषि कुतः कस्मात् स्थानात् इह अत्र वने आगम्यते भवत्येति शेषः। किमिति। - दण्डकारण्यागमनं भवत्या किमर्थं स्वीकृतमित्यर्थः।
आत्रेयी। अस्मिन्नगस्त्यप्रमुखाः प्रदेशे भूयांस उद्गीथविदो वसन्ति।
तेभ्योऽधिगन्तुं निगमान्तविद्याम् वाल्मीकिपार्श्वदिह पर्यटामि॥३॥
इदानीमात्मनः दण्डकारण्यप्रवेशप्रयोजनमभिधत्ते, आस्मिन्निति। - अस्मिन्प्रदेशे दण्डकारण्ये भूयांसो बहवः उद्गीथं प्रणवं सामवेदान्तर्गतगानविशेषञ्च विदन्तीति तथोक्त्ताः सगुणब्रह्मविदः उद्गीथवाच्यपरब्रह्मविदः सामोपासनाशीलाश्च अगस्त्यप्रमुखाः अगस्त्यप्रभृतयो मुनयः इत्यर्थः, वसन्ति तिष्ठन्ति।
(तथाहि,-छान्दाग्योपनिषत्;-‘ओमित्येतदक्षरमुद्गीथमुपासीत्‘’ ओमित्येतदक्षरमुपासूत। ओमित्येतदक्षरं परमात्मनोऽभिधानं नेदिष्ठम्। तस्मिन् हि प्रयुज्यमाने सप्रसीदति। प्रियनामग्रहण इव लोकः,’ इति भाष्यम्। ओमित्युद्गायति तस्योपव्याख्यानम्‘, इति च प्रोक्त्तोपनिषत्; ओमित्यारभ्य हि यस्मादुद्गायति अतः उधिथः ओङ्कारः इत्यर्थः। इति रीत्या परस्मिन् ब्रह्मणि उद्गीथदृष्टि कुर्वन्तः ये उपासते ते, दहरविद्याया अपि उपलक्षणत्वात् तद्विद्याजुषः वा इत्यर्थः,
तथाहि छान्दाग्ये- ‘अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तराकाशः तस्मिन् यदन्तस्मदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्‘इति। साम्नः हि पञ्चविधाः सप्तविधाः वा अवयवाः सन्ति। तत्र तावत् साम्नः आद्यः भागः प्रस्तोत्रा गेयः प्रस्तावनामा, द्वितीयः भागः उद्गात्रा गेयः उद्गीथनामा, तृतीयो भागः प्रतिहर्त्ता गेयः प्रतिहारनामा, चतुर्थो भागः पुनरुद्गात्रा गेयः उपद्रवनामा, पञ्चभिः युगपद्गेयः निधननामा इति पञ्चविधः। गानारम्भकाले सर्वैः ॠत्विग्भिः मिलित्वा हुङ्कारकरणरूपो हि ङ्कारः। ओङ्कारपूर्वकत्वात् सर्वेषां वेदानां प्रणवरूपः प्रथमावयवः। इति सप्तावयवत्वमेतद्धिसप्रपञ्चमुक्त्तं छान्दोग्ये। अगस्त्यप्रमुखाणां तेषामुद्गीथविधायां प्रोक्तायां पारदृश्वत्वात् तथाऽभिधानं सङ्गच्छते इति बोध्यम्। तत्र हि छान्दोग्ये उद्गीथोपासना बहुधा प्रपञ्चिता, ‘वृष्टौ पञ्चविधं सामोपासीत‘इत्यारभ्य‘वर्षति स उद्गीथः‘इत्युक्त्तम्, ‘ॠतुषु पञ्चविधं सामोपासीत‘इत्यारभ्य‘वर्षा उद्गीथः‘इत्युक्त्तम्। ‘पशुषु पञ्चविधं सामोपासीत‘इत्यारभ्य‘गावः उद्गीथः‘इत्युक्तम्। ‘प्राणेषु पञ्चविधं परोवरीयः सामोपासीत‘इत्यारभ्य‘चक्षुरुद्गीथः‘इत्युक्त्तम्। इति बहुधा उद्गीथोपासना विहिता। एवं हि‘द्यौः उद्गीथः‘‘गावः उद्गीथः‘‘आदित्यः उद्गीथः‘इत्यादिना तत्तदृष्ट्योपासना बहुधा उक्त्ता, विस्तरभयात् सर्वशः नोदाहृताः। एष हि सगुणब्रह्मोपासना विधिः।
एतेन तथाविधाः हि दण्डकारण्यवासिनः अगस्त्यप्रमुखाः बहवः ॠषयः सामगाः सगुणब्रह्मोपासनशीलाः कर्म्मिणः आसन्निति ज्ञायते)।
तेभ्यः अगस्त्यप्रमुखेभ्यः(‘आख्यातोपयोगे ‘(१। ४। २६पा०) इत्यपादानत्वात् पञ्चमी) निगमान्तविद्यां निगमाः वेदाः तेषाम् अन्ताः चरमभागाः उपनिषद इत्यर्थः, तत्प्रतिपादितां ब्रह्मविद्यामधिगन्तुमध्येतुं वाल्मीकिपार्श्वात् वाल्मीकेः अन्तिकादिह दण्डकारण्ये पर्य्यटामि तेषामाश्रममन्वेष्टुं भ्रमामीत्यर्थः। (पुरा हि द्विविधाः स्त्रियोऽनुश्रूयन्ते, गृहमेधिन्यः ब्रह्मवादिन्यश्चेति। तथाहि हारीतः,-‘द्विविधाः स्त्रियो ब्रह्मवादिन्यः सद्योबध्वश्च; तत्र ब्रह्मवादिनीनामुपनयनमग्नीन्धनं वेदाध्ययनं स्वगृहे च भैक्षचर्य्या‘इति। यमोऽपि,-‘पुराकल्पेषु नारीणां मौञ्चीबन्धनमिष्यते। अध्यापनञ्च वेदानां सावित्रीवाचनं तथा॥‘इति। अतः गृहबधूनामेव केवलं वेदाध्ययनं निषिध्यते इति गम्यते। नृसिंहतापनीयश्रुतिस्तु इत्थमेवाह, तथाहि,-‘सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्रयोर्नेच्छन्ति‘इति। ‘सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्री शूद्रो यदि जानीयात् मृतः सोऽधो गच्छति‘इति निबन्धकृतामभिमतं व्याख्यानन्तु गृहिणी विषयकमेव, न तु ब्रह्मवादिनीपरमवधेयम्। अतः आत्रेयाः परमब्रह्मवादिन्याः वेदाध्ययनं न विरुध्यते इति बोध्यम्)। इन्द्रवज्रावृत्तम्॥३॥
वन। यदा तावदन्येऽपि मुनयस्तमेव हि पुराणब्रह्मवादिनं प्राचेतसमृषिं ब्रह्मपारायणाय उपासते; तत् कोऽयमत्र आर्याय दीर्घप्रवासप्रयासः ? (ज)
आत्रे। तत्र महान् अध्ययनप्रत्यूह इति दीर्घप्रवासोऽङ्गीकृतः। (झ)
वन। कीदृशः ?
(ज) यदेति। - यदा यतः, यदि पुनरित्यर्थः। (तावत् वाक्यालङ्कारे) अन्येऽपि मुनयः बहवः अध्येतारः, पुराणः प्राचीनः प्राचीनत्वाद्विशेषज्ञः प्रथितः पूजितश्च यो हि ब्रह्माणि वेदान् परमात्मनं वा वदति उपदिशतीति ब्रह्मवादी तं तथोक्त्तम्। तमेव प्रसिद्धवेदवक्त्तारमित्यर्थः, प्रचेतसः वरुणस्यापत्यं पुमानिति प्राचेतसो वाल्मीकिस्तम्। ब्रह्मणो वेदस्य पारम् अन्तस्य च अयनं गमनं, प्रथमतः प्रभृति आ समाप्तेरविच्छेदेनाध्ययनं, तद्धि साङ्गोपाङ्गवेदेषु सम्यग्व्युत्पत्तिसाधनमित्यर्थः, तस्मै। दृश्यते हि बहवः अन्तेवासिनः गुरुसकाशमुपगम्य सममेव एवं वेदमभ्यस्यन्तीति; यदा- ब्रह्मणः वेदस्य पारे अन्ते अयनं गमनं तस्मै, अखिलसाङ्गवेदानध्येतुमित्यर्थः। उपासते- सेवन्ते। दीर्घप्रवासः महान्तं कालं व्याप्य सुदूरे प्रदेशे अवस्थानमित्यर्थः, तत्र प्रयासः यत्नः उद्यमः इति यावत्। किं फलमभिप्रेत्य भवत्या स्वदेशमुत्सृज्य क्लेशबहुलविदेशवासोऽङ्गीक्रियते इत्याशयः।
(झ) तत्रेति। - अध्ययनस्य वेदापाठस्य प्रत्यूहो विघ्नः, ‘विघ्नोऽन्तरायः प्रत्यूहः‘इत्यमरः। महान् बलवत्तरः जातः इति शेषः। अतः तद्विघ्नोपशमार्थं, दीर्घप्रवासः,-सुदूरे विदेशे अवस्थानमङ्गीकृतः स्वीकृतः। (अङ्ग इति स्वीकारार्थकमव्ययम्। अनङ्गः अङ्गः कृत इति अभूततद्भावे च्चौ रूपम्)।
आत्रे। तस्य भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुतं स्तन्यत्यागमात्रके वयसि वर्तमानं दारकद्वयमुपनीतम्। तत् खलु न केवलमृषीणामपितु चराचराणां भूतानामान्तराणि तत्त्वानि उपस्नेहयति। (ञ)
वन। अपि तयोर्नामसंविज्ञानमस्ति ? (ट)
आत्रे। तयैव किल देवतया तयोः कुशलवौ इति नामनी प्रभावश्च आख्यातः। (ठ)
(ञ) तस्य भगवतः वाल्मीकेः सविधे इत्यर्थः, केनापि देवताविशेषेण-भगवत्या भागीरथ्येत्यर्थः, सर्व्वेषु प्रकारेषु निखिलेषु विषयेषु, अद्भुतम् आश्चर्य्यजनकमिति यावत्। स्तन्येति- स्तने भवं स्तन्यं क्षीरं तस्य त्यागः मातृस्तन्यपरित्यागोपलक्षितः कालः इत्यर्थः, स एव मात्राकालपरिमाणं यस्य तस्मिन्, तदुचिते वयसि बाल्ये इति यावत्, वर्त्तमानं, यस्यामवस्थायां शिशुभिः स्तन्यपरित्यागः क्रियते तावन्मात्रवयस्कमित्यर्थः। दारकद्वयं- शिशुयुगलम्। उपनीतम्- आनीय प्रदत्तम्। तत्- दारकाद्वयम्। खलु- निश्चये। ॠषीणां तत्रत्यानाम् अपूर्वप्रतिभा सन्दर्शनेन विमोहितानां तपोधनानां, न केवलं तेषामपि तु चराचराणां भूतानां स्थावरजङ्गमाद्यखिलजीवसहितभूवलस्य। आन्तराणि- अभ्यन्तरवर्त्तीनि, तत्त्वानि- भावान् अन्तःकरणवृत्तीरिति यावत्, उपस्नेहयति- स्नेहवन्ति करोति, (स्नेहवच्छब्दात्‘तत्करोति ‘(ग०) इति णिचि दष्ठवद्भावात् मतुबलोपे उपपूर्वकात् स्नेहिधातौः लटि रूपमतदिति ज्ञेयम्)। तयोः दारकयोरवलोकितयोः सतोः सर्वेषामेव चेतांसि सममेव वात्सल्यरसाप्लुतानि भवन्तीति भावः। (‘महानध्ययनप्रत्यूहः‘इतः प्रभृति‘तस्य भगवतः केनापि‘इत्यन्तेन सन्दर्भेण, पुरा अष्टावक्रस्यर्षेः प्रवेशात् प्रथमाङ्कोपक्षिप्तस्य अत एव किञ्चित् ज्ञायमानतया लक्ष्यस्य सीताविवासनवीजस्य इदानीन्तु आत्रयीवृत्तान्तेन कथञ्चिदुन्नीयमानस्य दृश्यादृश्यरूपतया उद्भेदात् अयं प्रतिमुखन्धिरिति प्राञ्चः। तथाहि दशरूपकम्। - ‘लक्ष्यालक्ष्य इवोद्भेदस्तस्य प्रतिमुखं भवेत्‘इति)।
(ट) अपीति। - अपीति- प्रश्ने। तयोः- दारकयोः। नाम संविज्ञानं- नाम्नोरभिधानयोः सुविज्ञानम् अवगतिः।
(ठ) तयैवेति। - देवतया- भागीरथ्येति भावः। तयोः,-दारकयोः, कुशश्च लवश्च इति तौ नामनी अभिधाने, तदभिधानप्रवृतौ हेतुमाह रघौ तत्र भवान् कालिदासः, तथाहि,-‘स तौ कुशलवीन्मृष्टगर्भक्लेदौ तदाख्यया। कविः कुशलवावेव चकार किल नामतः॥‘इति। प्रभावश्च-लोकातिशायिशक्त्तिश्च। आख्यातः,-उदीरितः। तौ किन्नामधेयौ लोकविलक्षणप्रभावभूषितावास्तामिति तु आवेद्य भगवत्या भागीरथ्या तौ वाल्मीकये विद्यामध्येतुं प्रतिपादितौ इत्यर्थः।
वन। कीदृशः प्रभावः ?
आत्रे। तयोः किल सरहस्यजृम्भकास्त्राणि आजन्मसहितानि इति। (ड)
वन। अहो नु भोः वित्रमेतत्।
आत्रे। तौ च भगवता वाल्मीकिना धात्रीकर्मवत्सलतां परिगृह्य पोषितौ परिरक्षितौ च; वृत्तचौडकर्मणोश्च तयोः त्रयीवर्जमितराः विद्याः सावधानेन परिनिष्ठापिताः ; समनन्तरञ्च गर्मैकादशे वर्षे क्षात्रेण कल्पेन उपनीय तौ त्रयीविद्यामध्यापितौ; न ह्येताभ्यामतिप्रदीप्तप्रज्ञाभ्यामस्मदादेः सहाध्ययनयोगोऽस्ति। (ढ) यतः;-
(ड) इदानीं तयोः अलौकिकं प्रभावं विशदीकर्त्तुमवतारयति, तयोरिति। - तयोः दारकयोः कुशलवयोः सरहस्येति- रहसि भव रहस्यं गोप्यं प्रयोगसहारकुशलं मन्त्रजातमित्यर्थः, तत्सहितानि, जृम्भकास्त्राणि- जृम्भयन्ति विपक्षान् जृम्भोपलक्षितनिद्रावेशविवशान् कुर्वन्ति यानि, तथाभूतानि अपूर्वाणि अस्त्राणि, तानि हि कौशिकोपसक्रान्तानि कृशाश्वतनयभूतानि। पुरा किल वेदानां रक्षणाय ब्रह्मादिभिः तपोधनैः तपस्तेजसा समेधिततया ज्योतिर्मयाणि अभवन्निति श्रूयन्ते, आजन्मसिद्धानि किलेति सम्भावनायां, सम्भावयामीत्यर्थः; जन्मतः प्रभृति लब्धानि, सहजतः एव सम्भूतानि इत्यर्थः। (अचेदं, मुखसन्धिनिवेशिनः लक्ष्यालक्ष्यरूपतया समुत्पत्तः प्रतिमुखं नाम सन्ध्यङ्गं वेदितव्यम्। तथा चोक्त्तं दर्पणे- ‘फलप्रधानोपायस्य मुखसन्धिनिवेशिनः। लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखञ्च तत्॥‘इति। )।
(ढ) ताविति। - तौ कुशलवौ भगवता अणिमाद्यैश्चर्य्यशालिना वाल्मीकिना आदिकविना, धात्रीकर्मवत्सलतां- धात्र्या उपमातुः यत् कर्मपरिपालनादिकं तथा-भूतकर्मणा जायमानेति शेषः, या वत्सलता- वात्सल्यं स्नेह इत्यर्थः, तां परिगृह्य- प्राप्य, स्वीकृत्येति यावत्, पोषितौ परिलालितौ परिरक्षितौ परित्रातौ च; भगवान् वाल्मीकिः विगततृणः सन्नपि तौ हि अलौकिकलावण्यप्रतिभालक्ष्मीवन्तौ बालकौ सदयं स्वीकृत्य ततः प्रभृति तत्स्नेहवागुरया विनिबद्धः सादरं लालयति परिरक्षति च इत्याशयः। (‘धात्रीकर्म्मवस्तुतः‘इति पाठान्तरं दृश्यते, तदर्थस्तु- धात्रीकर्मरूपात् वस्तुतः व्यापारात् तथाविधव्यापारमारभ्येति यावत् इति ल्यबर्थे पञ्चमी)। वृत्तम्। - वृत्तं समाहितं चौडं कर्म्म ययोः तयोः, यथाविधिनिष्पादितचूडाकर्मणोरित्यर्थः सतोः, (चूडाप्रयोजनमस्य इति चूडाशब्दात् अण्, चूडाकरणरूपसंस्कारविशेषः। तत्कालमाह वशिष्ठः,-
‘तृतीये पञ्चमेऽब्दे वास्वकुलाचारतो हितम्।
चौलं शिशूनां यत्नेन स्वगृह्योक्त्तविधानतः।
आधानतो जन्मतो वा सप्तमाब्देऽपिकारयेत्॥‘
गुरुरपि,- ‘तृतीयेऽब्दे शिशोर्गर्भाज्जन्मतो वा विशेषतः।
पञ्चमे सप्तमे वापि स्त्रियाः पुंसोऽथवा समम्॥‘इति।
‘वृत्तचूडौ‘इति पाठे- वृत्ता यथाविधिनिष्पादिता चूडा ययोः तौ, तृतीयाब्दे चूडाकरणसंस्कारसंस्कृतौ, स्वस्वकुलाचारानुसारतः एकां तिस्रः पञ्च वा शिखावर्जयित्वा स्वगृह्योक्त्तविधिना शिरसो वापनं हि चूडाकरणसंस्कारः अभिधीयते)। वयीति। - त्रयी सामॠग्यजूंषि, तां वर्जयित्वा, (वर्जयतेः णमुल्) यदा- त्रय्याः वर्जो वर्जनं यस्मिन् कर्म्मणि तद्यथा तथा, उपनयनं विना वेदपाठानधिकारात्, तथाहि मनुः,-‘नाभिव्याहारयेद्बह्म स्वधानिनयनादृते। शूद्रेण हि समस्तावद्यावद्वेदे न जायते॥‘इति। उपनयनात् प्रभृति एव वेदाध्ययनस्य विधानादिति भावः। इतराः विद्यादण्डनीतिधनुर्वेदादयः सावधानेन-अवधानेन सह वर्त्तमानः तेनावहितचित्तेन समुपदिष्टाः इत्यर्थः; समनन्तरञ्च-इतरविद्योपदेशात् परमित्यर्थः। क्षात्रेण कल्पेन-क्षत्रियाणामुपदिष्टेन विधिना; उपनीय-उपनयनसंस्कारेण संस्कृत्य। अत्र मनुः,-‘गर्भाष्टमेऽब्देकुर्वीत भ्राह्मणस्योपनायनम्। गर्भादेकादशे राज्ञोगर्भात्तु द्वादशे विशः॥‘इति। तौ- बालकौ त्रयीविद्यां- श्रुतिम्, अध्यापितौ- पाठितौ; (‘गतिबुद्धि- ‘(१। ४। ५२पा०) इति सूत्रेण कर्मत्वम्)। अतीति। - अतिप्रदीप्ता विमला रीक्ष्णा च प्रज्ञाबुद्धिः ययोः ताभ्यां कुशग्रैकधीभ्यां(‘प्राज्ञामेघाभ्याम्‘इति पाठे तु- नवनवोन्मेषशालिनी बुद्धिः प्रज्ञा, धारणावती धीः मेघा, तत्त्वार्थावबोधकुशला वा इति विग्रहः। एताभ्यां- दारकाभ्यां सह, अस्मदादेः,-मम अन्येषाञ्च जडधियामित्यर्थः, अध्ययनयोगः सतीर्थीभवनम्, एकस्मिन् गुरौ सम्भूयताभ्यां सहाध्ययनं न अस्ति न सम्भवति; अस्मात् प्रागेव बालाभ्यां ताभ्यां द्राक् पाठस्यावबोधात्, एतन्नो वितरां वैलक्ष्यमादधारीति भावः।
वितरति गुरुः विद्यां यथैव तथा जडे
न तु ख लु तयोर्ज्ञाने शक्ति करोत्यपहन्ति वा।
भवति च तयोर्भूयान् भेदः फलं प्रति तद् यथा
प्रभवति शुचिर्बिम्बोद्ग्राहे मणिर्न मृदां चयः॥४॥
अस्माकन्तु जडधियां तथाविधविवेकाभावादेव निरपेक्षस्य गुरोः सदुपदेशग्रहणापाटवं, न तु तत्र तस्य कोऽप्यणीयान् पक्षपातोऽस्तीति सूचयितुमवतारयति, वितरतीति। - गुरुरध्यापकः शिष्ये तथैव अविशेषेणैव इत्यर्थः वितरति उपदिशति; न तु तयोः प्राज्ञजडयोर्ज्ञाने शास्त्रार्थबोघे शक्त्तिं सामर्थ्यं करोति जनयति, वा- अथवा, शक्त्तिम् अपहन्ति- विनाशयति। (खलु निश्चये वाक्यालङ्कारे वा)। (‘निषेधवाक्यालङ्कारजिज्ञासानुनये खलु‘इत्यमरः)। प्राज्ञस्य ज्ञाने अपूर्व्वां शक्त्तिं न सञ्चारयति, जडस्य च ज्ञाने स्वाभाविकीं तदीयां शक्त्तिं न नाशयति, द्विविधावपि शिष्यौ गुरुणा यथाविधि अविशेषेणैवाध्याप्येते इत्यर्थः। यदि तत्र कोऽपि भेदो नास्ति तर्हि फलं प्रति कथं वैषम्यमागच्छति, फलभेदस्येव हि कारणतावच्छेदकभेदग्राहकत्वानियमात्, अतस्तत्र कारणान्तरप्रतिपादनमुखेनाह, भवतीति। - तयोः प्राज्ञ-;अडयोः फलं प्रति फले शास्त्रज्ञानरूपे इत्यर्थः, भूयान् महान् भेदो विशेषो भवति। धीमान् हि अनायासेन गुरूपदेशं लब्ध्वा झटित्येव तदवबोधकुशलः भवति, जडस्तु अमेधस्तया सर्वथैव तदवबोधविहीनः, तत्र तु स्वस्वविवेकस्यैव नियामकत्वमिति वेदितव्यम्। तत्- भेदभवनं यथा(‘तद्यथा‘इत्यत्र‘तत्तथा‘इति पाठान्तरे तत्- भेदभवनं, तथा- निश्चितमित्यर्थः। एतादृशपाठस्वीकारे तु यथाशब्दाभावात् फलभेदभवनं मणिमृत्तिकाचययोः बिम्बग्राहभेदभवनमिवेति बिम्बप्रतिबिम्बत्वावगमात् दृष्टान्तालङ्कारः)। शुचिः स्वच्छो निर्मलः इत्यर्थः मणिः हीरकचन्द्रकान्तादिः बिम्बोद्ग्राहे प्रतिबिम्बग्रहणे तद्धारणे प्रतिफलने इत्यर्थः, प्रभवति समर्थो भवति, मृदां मृत्तिकानां चयः स्तूपः न प्रभवतीत्यर्थः। सत्यपि समाने सर्वत्र गुरोरूपदेशे अन्ते सदां स्वस्वधियः तैक्ष्ण्यातैक्ष्ण्यादिवशात् फलवैषम्यं दृश्यते; तत्र तु गुरोः नापराध इति भावः। (अत्र भेदभवनं शुचिमणिरिवेति साम्यावगमात् यथाशब्दोपादानाच्च श्रौती उपमा। परन्तु एकवाक्यगतसादृश्यप्रतीतौ उपमा, सादृश्यस्य भिन्नवाक्यगतत्वे तु दृष्टान्त एव इति नवीनानां मतम्। ‘शुचिर्मणिर्विम्बोद्ग्राहे इव प्राज्ञ एव उपदेशग्रहणे प्रभवति मृदां चय इव जडी न प्रभवति‘इति तत्पदेन उपमेयावगमादेकवाक्यगतत्वात् उपमा स्यात्, अन्यथा तु दृष्टान्तः। दण्डिमते दृष्टान्ताख्योऽलङ्कारभेदो नास्ति। तन्मते तु- प्रतिवस्तूपमाख्य उपमाभेदोऽङ्गीक्रियते। - ‘साम्यं वाच्यमवैधर्म्यं वाक्यैक्ये उपमा‘इति लक्षयता दर्पणकृता तन्मतं नाङ्गीकृतमिति नव्यमते उपमा- प्रतिवस्तूपमयोर्विविक्त्तविषयता स्फुटैव। यथा संश्यञ्चानयोः प्राज्ञजडयोः अन्वयबोधात् यथासङ्ख्याऽलङ्कारः; तथा‘विद्यां ददाति‘‘शक्त्तिं नापहन्ति‘‘मणिः प्रभवति‘‘मृदां चयो न‘इति अन्यव्यपोहनात् शाब्दीपरिसङ्क्याऽलङ्कारश्च; इत्येषां सापेक्षत्वेन सङ्करः। ‘नह्येताभ्यामतिप्रदीप्तप्रज्ञाभ्यामस्मदादेः सहाध्ययनयोगोऽस्ति। यतः‘इत्यत्र गद्यांशे‘यतः‘इत्यनेन कारणतया पद्यप्रतिपाद्यार्थम्यावबोधनादप्रस्तुतप्रशंसायाः नास्त्यत्रावसरः। गद्यांशे स्वयमेव प्रज्ञाजडत्वेनाङ्गीकारात् प्रत्युत तेषां प्रस्तुतत्वादित्यवधेयम्)। हरिणीवृत्तम्। - ‘न समरसलागः षड्वेदैः हयैः हरिशी मता‘इति लक्षणम्। प्रस्तारश्चाम्य ९२२३४ तमः इति॥४॥
वन। अयमसी अध्ययनप्रत्यूहः ?
आत्रे। अपरश्च।
वन। अथ अपरः कः ?
आत्रे। अथ स ब्रह्मर्षिरेकदा मध्यन्दिनसमये नदीं तमसामनुप्रपन्नः ; तत्र च युग्मचारिणोः क्रौञ्चयोरेकं व्याधेन विध्यमानं ददर्श। आकस्मिकप्रत्यवभासाञ्च देवीं वाचमानुष्टुभेन छन्दसा परिणतामभ्युदैरयत्। (ण)-
(ण) अथेति। - अथ शब्दः आरम्भार्थकः, (‘मङ्गलानन्तरारम्भप्रश्नकात्स््नर्येष्वथो अथ‘इत्यमरः)। ब्रह्मर्षिः,-बाल्मीकिः, ब्रह्मा चासौ ॠषिश्चेति विग्रहः(‘ब्रह्मा समसः अलुक्च) तदेव समयस्तस्मिन् मध्याह्नसमये इत्यर्थः। (‘माध्यन्दिनसवनाय‘इति क्वाचित्कः पाठः, तदर्थस्तु- मध्यन्दिनसम्बन्ध्यवगाहनकर्मणे इति)। तमसां- तन्नाम्नीं नदीम्। अनुप्रपन्नः,-स्नातुं गतः इत्यर्थः। युग्मचारिणोः,-युग्मं द्वन्द्वं यथा तथा चरतः(इति णनिः) युग्मीभूय चरतोः, मिथुनभावेन स्थितयोरित्यर्थः। क्रौञ्चयोः,-जलचरविहगविशेषयोः। (क्रौञ्ची च क्रौञ्चश्चेति तयोः‘पुमान्स्त्रिया ‘(१। २। ६७पा०) इति पुलिङ्गैकशेशः)। एकं- पुलिङ्गोहात् क्रौञ्चम्। व्याधेन-पुलिन्देन। विध्यमानम्। बाणेन निहन्यमानम्। आकस्मिकः अकस्मात् दृष्टकारणं विनापि सम्पद्यमानः अचिन्ता प्रसूत इत्यर्थः, प्रत्यवभासः प्रकाशो यस्यास्तां तथोक्त्तां निर्हेतुकाविर्भावाम्। (‘देवीं वाचमव्यतिकीर्णवर्णाम्‘इत्यधिकः पाठः क्वचित् दृश्यते; तदर्थस्तु,-अव्यतिकीर्णाः निरकाङ्क्षत्वादिदोषरहिततया सुविस्पष्टाः वर्णाः अक्षरपङ्त्तयः यस्यां तथाभूतामिति। ‘परिणताम्‘इत्यत्र तु‘परिच्छिन्नाम्‘इति पाठः दृश्यते, उभयत्र तु विनिबद्धामित्येवार्थः)। आनुष्टुभेन-तत् सम्बन्धिना(स्वार्थिकोऽण्प्रत्ययः) अष्टभिः अष्टभिः अक्षरैः सङ्ख्यातैकैकचरणेन छन्दसा- पद्यरूपेण(‘छन्दः पद्येऽभिलाषे च‘इत्यमरः)। परिणतां- नियमिताम्। अभ्युदैरयत्- उच्चारयामास।
मा निषादप्रतिष्ठां त्वमगमः शाश्वतः समाः।
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥५॥ इति।
तद्धि, कथम्भूतमासीदित्यपेक्षायामाह, मानिषाद इति। - रे निषाद त्वं शाश्वतीः) शश्वत्भावः इत्यर्थः शैषिकः आण्) निरन्तरा बह्वीः, समाः,-वत्सरान् चिरकालमिति भावः, (अत्यन्तसंयोगे द्वितीया) प्रतिष्ठां स्थितिमाश्रयमित्यर्थः, ‘ब्रह्मपुच्छं प्राप्स्यसि, न कदाचित् त्वं निरुद्वेगमेकत्र वासं प्राप्स्यसीति भावः। (अडागमश्छान्दसः, अथवा नाऽयं माङ् किन्तु तत्प्रतिरूपकः माशब्दः; माशब्दयोगादतीतप्रयोगः सार्वकालिकः। अतः‘नमाङ्योगे ‘(६। ४। ७४पा०) इति नैव अडागमप्रतिषेधः। यद्वा,-‘प्रतिष्ठां, तु, अम, गमः‘इति छेदः। नास्ति मा लक्ष्मीर्यस्य, तत्सम्बोधनेभो, अम अलक्ष्मीक निषाद प्रतिष्ठां तु मागमः, कदापि न प्राप्स्यसीत्यर्थः। एवञ्च सति न काचिदनुपपत्तिरिति विभाव्याम्) यत् यस्मात्त्वं क्रौञ्चमिथुनात् क्रौञ्चाभिधेयवकद्वन्द्वात्। (क्रौञ्च इत्यस्य‘कोच् वाक्‘इति भाषा)। काममोहितं कामासक्त्तचेतसं रममाणमित्यर्थः, एकं क्रौञ्चमबधीः हतवानसि
वन। चित्रमाम्नायादन्योऽयं नूतनश्छन्दसामवतारः। (त)
यद्वा,-श्लोकोऽयं रामायणस्य बीजभूतत्वेन व्याख्यायते। तथा हि,-मा लक्ष्मीः निषीदति अस्मिन्निति घञ्। मा निषाद लक्ष्मीपते राम भगवतः रामस्य विष्णोरंशभूतत्वात् सीतायाश्च लक्ष्मीरूपत्वादिति भावः। यत् यस्मात् त्वं क्रौञ्चमिथुनात् मन्दोदरी-रावणरूपात् राक्षसद्वन्द्वात् काममोहितम् एकं रावणम् अबधीः हतवानमि, तस्मात् शाश्वतीः समाः वत्सरान् यावत्संसारमिति भावः, प्रतिष्ठां नित्यसखाभिव्यक्त्तिसममखण्डानन्दमित्यर्थः, अगमः लभस्व। (‘भाव्यर्थो भूतवदङ्गीक्रियते‘इति न्यायात् प्रार्थनायां लुङ्)। अथवा- हे अनिषाद निषादसदृश (सादृश्यार्थे नञ्, वनवासित्वात् निषादबन्धुत्वाच्च रामस्य निषादतुल्यता)। क्रौञ्चमिथुनात् इति सङ्केतेन तारा- वालिनोः सूचना। भ्रातृपत्न्यां रूमायां रममाणत्वात् तस्य काममोहितत्वं वेदितव्यम्। अपरञ्च-नितरां सादयति ध्वंसयति लोकानिति निषादः रावणः, तत्सम्बुद्धो, हे निषाद रावण यत् यस्मात् त्वं क्रौञ्चमिथुनात् अल्पीभावार्थात् क्रुञ्चतेः पचाद्यचि क्रुञ्चः ततः स्वार्थे अण्प्रत्ययेन क्रौञ्चः इति सिद्धः, तयोर्मिथुनं तस्मात् राज्यक्षयवनवासादिदुःखेन परं कार्श्यं गतात् स्त्रीपुंसयुगलात् सीतारामरूपादित्यर्थः, एकं काममोहितं पतिरतंस्त्रीजनं सीतामित्यर्थः, अवधीः हरणादिना बधतुल्यमति घोरदुःखं प्रापितवानसि, तस्मात् त्वं शाश्वतीः समाः प्रतिष्ठां स्व स्त्रीसाहित्ये नेह लोकस्थितिमित्यर्थः, मा अगमः न प्राप्नुहि, अचिरेण स्त्रिया वियुज्य म्रियस्वेति काव्यार्थः सूचितः। यथा भगवान् रामभद्रः त्वया सीताविरहितः कृतः, सा च सती रामं विना कृता, तथा त्वमपि स्वभार्य्य याविरहितो भव, सा च त्वया विरहिता चिरं वियोगशोकार्त्ता भूयादिति तु निर्गलितार्थः।
अत्र करुणो रसः आलम्बनविभावः क्रौञ्चः, तस्य च निषादकृतः बधः उद्दीपनविभावः, महर्षेराक्रन्दितञ्च अनुभावः, विषादचिन्तादयश्च व्यभिचारिणः, एतैश्चायं रसः परिशेषत्वमगात् इति। तथा हि ध्वनिकारः, –
‘काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा।
क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः॥‘
विविधविशिष्टवाच्यवाचकरचनाप्रपञ्चकरुणाः काव्यस्य स एवार्थः सारभूतः सन्निहितसहचरीविरहकातरक्रौञ्चाक्रन्दजनितः शोक एव श्लोकतया परिणतः॥५॥
(त) चित्रमिति। - आम्रायते गुरुपरम्पराक्रमेण अधिगत्य यथाविधि अभ्यस्यतेइत्याम्नायो वेदस्तस्मात् इत्यर्थः, अन्यः,-अन्यविधोऽयं, नूतनः,-अभिनवः। छन्दसामवतार-प्रकाशः। मन्त्रादिरूपवेदभागानामपि छन्दोबद्धतया, वैदिकानि यावन्ति एव छन्दांसि अनियतपादवर्णस्वरयतिदोषदुष्टानि, ततः पुराऽनुष्टुप्छन्दसो नियतप्रयोगात् प्रतिपादम् अक्षराणां नियतत्वेन वैषम्यात् सम्यक् संस्काराभावाच्चास्य तु श्लोकस्य तद्विलक्षणतया नूतनत्वनिर्देशः। सत्यपि श्रुतौ एवंविधे बहुले छन्दसि अनुष्टुप्पङ्त्त्यादौ, लोकग्रथितवस्तुषु तथा प्रसिद्धेरभावात्‘आम्नायादन्योऽयम्‘इत्युक्त्तम्। एवंविधानां वृत्तानां श्रुतौ प्रायशः प्रसिद्धिर्दृश्यते, तथा हि मुण्डकोपनिषत्, –
‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्म्माणि तस्मिन्दृष्टे परावते॥‘इति।
आत्रे। तेन खलु पुनः समयेन तं भगवन्तमाविर्भूतशब्दब्रह्मप्रकाशमृषिमुपसङ्क्रम्य बगवान् भूतभावनः पद्मयोनिः अविचत् ;- ‘ऋषे प्रबुद्धोऽसि वागात्मनि ब्रह्मणि; तद् ब्रूहि
(थ) तेनेति। - तत्समयमभिव्याप्येत्यर्थः(प्रकृत्यादित्वात् तृतीया)। आविर्भूतेत्यादि। - आविः सम्मुखे भूतः शब्दरूपब्रह्मणः प्रकाशः अनुष्टुप्छन्दोरूपेण‘मा निषाद ‘इत्यादिरूपाम्नायकल्पस्य उदयः नवीभूततया प्रथमावतारः यस्मात् तं तयोक्त्तम्। ॠषिं- वाल्मीकिम्। उपसङ्क्रम्य-तत्समीपमेत्य। भूतभावन इति। - भूतेन अनुध्यानेन अभिध्यायेत्यर्थः स्वात् शरीरादिति शेषः, तथा च मनुः- ‘सोऽभिध्यायशरीरात् स्वात् सिसृक्षुः विविधाः प्रजाः‘इति। भावयति सृजतीति तथोक्त्तः; यद्वा भृतं सत्यमप्रतिहतमिति यावत् भावना अध्यवसायः सङ्कल्पः वा यस्य तथाविधः, अथवा, भूतानि प्राणिसङ्घान् भावयति सृजति पालयति च यः तथोक्त्तः, सर्वप्राणिस्रष्टेत्यर्थः। पद्मयोनिरिति,-पद्मं विष्णुनाभिकमलं योनिः उत्पत्तिस्थानं यस्य स तथोक्तः ब्रह्मा इत्यर्थः। (पुरा किल‘अहं श्रेष्ठः, यतो मदुदरमध्ये ब्रह्माण्डमस्ति‘इत्युक्त्त्वा विवदमानयोः विष्णुब््रह्मणोः मध्ये ब्रह्मण उदरमध्यं दृष्ट्वा निर्गत्य विष्णुरूवाच- ‘भोः त्वदुदरे एकं ब्रह्माण्डं, मदुदरे अनन्तब्रह्माण्डानि पश्य। ‘अथ तथो त्यक्त्त्वा ब्रह्मा यावत् विष्णोरुदरं प्रविवेश, विष्णुस्तावत् समस्तानि इन्द्रियहाराणि निरुद्धवान्। ततः निर्गमनाशक्त्तं ब्रह्माणमुवाच विष्णुः- ‘भोः ब्रह्मन् मत्पुत्रत्वं गच्छसि चेत्, तदहं त्वां बहिष्करिष्यामि, नान्यथा बभ्रम्यस्व‘। अथ तथेत्युक्त्ते ब्रह्मणि स्वनाभिपद्मेन पुत्ररूपं तं निर्गमयामास विष्णुः। अतः ब्रह्मणः पद्मयोनित्वम्। इति ब्रह्मवैवर्त्तवार्ता अत्र अनुसन्धेया)। प्रबुद्धः,-प्रकृष्टज्ञानवान् वागात्मनि- वाङ्मये। ब्रह्मणि सामादिसमाम्नाये, (‘वेदस्तत्त्वं तपोब्रह्म, व्रह्माविप्रःप्रजापतिः‘इत्यमरः) अव्याहतेति। - अव्याहतम्अप्रतिहतञ्ज्योतिःप्रकाशोयस्यतत्, अकुण्ठितन्देदीप्यमानञ्च। आर्षम्- ॠषीणामिदं मनुष्येषु अदृष्टचरं योगजमित्यर्थः। ते चक्षुः प्रतिभातु- अव्याहतं सत् ते ज्ञानचक्षुषो ज्योतिर्दुरवगाहमप्यर्थं प्रविशतु प्रकाशयतु चेत्यर्थः। इतः परं तव किमपि अज्ञातं न स्थास्यति, योगजसन्निकर्षेण भवान् सर्वमपि परोक्षं वस्तु, प्रत्यक्षवत् द्रक्ष्यतीति भावः।
रामचरितम्। अव्याहतज्योतिरार्षं ते चक्षुः प्रतिभातु; आद्यः कविरसि‘इत्युक्त्वा तत्रैवान्तर्हितः। अथ भगवान् प्राचेतसः प्रथमं मनुष्येषु शब्दब्रह्मणस्तादृशं विवर्तमितिहासं रामायणं प्रणिनाय। (थ)
(‘ते प्रातिभं चक्षु‘इति पाठः क्वचित् दृश्यते; तदर्थस्तु- प्रतिभा, नवनवोन्मेषशालिनी प्रज्ञा, तदात्मकमित्यर्थः)। अन्तर्हितः,-अदृश्यतां गतः। अथ-अनन्तरम्। प्राचेतसः- वाल्मीकिः। शब्दब्रह्मणः,-वेदस्य। तादृशम्- ‘मा निषाद‘इत्यादिरूपम्। विवर्त्तं- परिणामं रूपान्तरमिति यावत्। यद्यपि वेदान्तेषु विवर्त्तशब्दस्य‘अतत्त्वतः अन्यथा प्रमा‘इति व्याख्यातं, तथापि तस्य तत्र अन्यथाख्यातिरूपतया, पारिभाषितत्वात्, तत्सारूप्यमादायैव प्रकरणानुरोधादेवं व्याख्यातम्। इतिहासं- पुरावृत्तम्। (इति ह पारम्पर्य्योपदेशः आस्ते अस्मिन्निति व्युत्पत्त्या इति ह शब्दात् आस्तेः घञ्)। रामायणं- राम एवायनम् उपजीव्यत्वेन आश्रयो यस्य तथाभूतकरुणारसमयं महाकाव्यमित्यर्थः। प्रणिनाय-रचयामास। महात्मना वाल्मीकिना इदानीं रामायणरचनयैव कालो नीयते, अध्यापनावसरः तस्य इदानीं नास्तीति गम्यते, अयञ्चापरः प्रत्यूहः इति भावः। तथा च रामायणम्-
‘तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुङ्गवम्।
श्लोक एव त्वया बद्धो नात्रकार्य्या विचारणा॥
स्वच्छन्दा देवते ब्रह्मन् प्रवृत्तेयं सरस्वती।
रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ॥
न ते वागनृता कव्ये मत्प्रसादात् भविष्यति।
कुरु रामकथां दिव्यां श्लोकबद्धां मनोरमाम्॥‘इति। १। २। ३८।
वन। हन्त तर्हि पण्डितः संसारः (द)
आत्रे तस्मादवोचं ; ‘तत्र महानध्ययनप्रत्यूहः‘इति।
वन। युज्यते।
आत्रे। विश्रान्ताऽस्मि; भद्रे सम्प्रति अगस्त्याश्रमस्य पन्थानं ब्रूहि।
वन। इतः पञ्चवटीमनुप्रविश्य गम्यतामनेन गोदावरीतीरेण। (ध)
आत्रे। (सबाष्पम्) अपि एतत् तपोवन्म ? अपि एषा पञ्चवटी ? अपि सरिदियं गोदावरी ? अपि अयं गिरिः प्रस्रवणः ? अपि वनदेवता जनस्थानवासिनी वासन्ती त्वम् ? (न)
(द) हन्तेति। हन्त- हर्षे, (‘हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः‘इत्यमरः)। तर्हि- तदा। संसारः,-पण्डितो जात इति शेषः। अधुना स भगवान् जगदुद्धरणे प्रवृत्त इति भावः। भगवतः वाल्मीकेः रामायणरचनायां प्रवृत्तिदर्शनात् संसारस्य पण्डितत्वं बोध्यम्। यद्यपि सामादयः वेदाः सन्ति, तथापि, ‘स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा‘इत्यादिदर्शनात् त्रैवर्णिकानामेव तत्र श्रवणाधिकारश्रुतेः, न सर्वेषामेव तत्रानधिकारित्वेन विद्यावत्त्वं, परन्तु इतिहासस्य रामायणस्य अभ्युदयेन जगतामेव यावती यानां वर्णनां तुल्यतया श्रवणाधिकारात् संसारस्यैव पण्डितत्वमायातमित्यभिप्रायः। एवञ्च नानेतिहासात्मकस्य रामायणस्यानुशीलनात् वेदात् अतीवैतस्य सुगमत्वाच्च सर्व एव समं भोत्स्यन्ते इति विष्कर्षः।
(ध) इतः इति। - पञ्चानां वटानां समाहारः पञ्चवटौ, (‘द्विगो ‘(४। १। २१पा०) इति ङिप्)। सा च,-‘अश्वत्थो बिल्ववृक्षश्च वटधात्र्यावशोककः। शास्त्रे पञ्चवटीत्युक्त्ता-‘इति। तदुपलक्षिता भूमिरपि‘पञ्चवटी‘इत्यभिधीयते; बाहुल्येनैतादृशवटानां तत्र विद्यमानत्वात् तद्वनस्य पञ्चवटीति प्रसिद्धिरासीत्। गोदावरीतीरेण- गोदावर्य्यास्तीरं, तटभूमिः तेन, तत्तटप्रान्तवर्त्तिना पथेत्यर्थः।
(न) सवाष्पमित्यादि। - रामपरित्यक्त्तायाः सीतायाः स्मरणात् अश्रुप्रवाहोद्गमः समजनि, ततः सरुदितमभिदधे, अपीति। - प्राक्बहुशः दृष्टानां तेषां सर्वेषां परिचयात् इदानीं स्थिरनिश्चयार्थमेकैकशः प्रष्टुमारभते, तपोवनमिति।
(अत्र सर्व्वत्रैव अपि प्रश्नार्थबोधकमव्ययम्। ‘गर्हासमुच्चाप्रश्नशङ्कासम्भावनास्वपि‘इति)। विन्ध्याटव्याः दक्षिणाहि जनस्थानप्रान्तवर्त्तिप्रस्रवणगिरिर्झरिणीतीरस्थैः शमिभिः वैखानप्तैः निषेवितं प्रसिद्धं तपसेवनम्। तद्दक्षिणगोदावरीतीरस्थायिनी पञ्चवटी। अपि च, तद्देशं निकषा, यदुपत्यकापरिसरारण्यकल्लोलिनी नानाविहगकुलनिषेविता स्निग्धसलिला गोदावरी यत् कन्दरमुखरा प्रवहन्ती, स जनस्थानमध्यगतः सततवर्षुकमेघमेदुरितः गिरिः प्रस्रवणः; तयोः सीतारामयोः निरतिशयं प्रीतिमुत्पादयामास, तत्र किलैषा अधिदेवता भूता वसन्ती तौ शुश्रूषमाणा आत्मानं विनोदयन्ती सुचिरं सुखेन कालं निनाय, एतदखिलमनुध्यायन्ती परमविदुषी आत्रेयी मुहुः सबाष्पगद्गदं विललापेति तात्पर्य्यम्। (अत्राभीष्टस्य तपोवनस्य बहुकालमदृष्टत्वेन नष्टप्रायत्वात्, तस्येदानीमन्वेषणपरत्वेनैतद्वचनम्‘अप्येतत् तपोवनम्‘इति। एतत्, परिसर्परूपं प्रतिमुखाङ्गं वेदितव्यम्। तथा च दर्पणे- ‘इष्टनष्टानुसरणं परिसर्पश्च कथयते‘इति)।
वास। अस्ति एतत् सर्वम्। (प)
आत्रे। वत्से जानकि –
स एष ते वल्लभबन्धुवर्गः प्रासङ्गिकीनां विषयः कथानाम्।
त्वां नामशेषामपि दृश्यमानः प्रत्यक्षदृश्यामिव नः करोति॥६॥
(प) अस्तीति। - एतत्तु सत्तास्वीकारवाचकमव्ययम्। यदात्थ तत्तथैव इत्यर्थः।
इदानीमनुस्मृतायाः विवासितायाः सीतायाः अत्याहितमाशङ्कमाना परं निर्व्विण्णा आत्रेयी तदुद्बोधकानि तानि तानि वस्तूनि सन्दूश्य निर्भरं विलपति, स इति। - प्रसङ्गादागताः प्रासङ्गिक्यः तासां प्रसङ्गादुत्थितानामित्यर्थः, कथानां प्रश्नप्रतिवचनक्रमेण प्राप्तानामिति यावत्, त्वत्सम्बन्धिवाक्यानां विषयः प्रतिपाद्यः त्वया एवमेवमित्यादिप्रकारेण वर्णितः सम्प्रति तु प्रत्यक्षविषयीभूत इत्यर्थः, स एष ते तव वल्लभः प्रियो बन्धुवर्गः वासन्ती प्रमुखः(‘वल्लभशाखिवर्गः‘इति पाठे- सीतायाः स्वहस्तवर्द्धितत्वात् प्रीतिप्रदत्वम्) दृश्यमानः विलोक्यमानः सन् नामैव शेषो यस्यास्तां तत्थोक्त्तां नाममात्रावशिष्टां न तु शरीरेणेति यावत्, मृतामपीत्यर्थः, त्वां नः अस्माकं प्रत्यक्षदृश्यामिव प्रत्यक्षदृश्यामिव साक्षात् दृक्सम्बद्धामिव साक्षादुपस्थितामिवेति यावत्, करोति। अत्र पुनः वनदेवतां जनस्थानसम्बद्धं गोदावरीप्रभृतिञ्च तत्तत् प्रियवस्तुव्रातञ्च सन्दृश्य, मृतामपि तां स्नेहातिशयात् जीवितामिवावलोकयासीति भावः। (अत्र वाज्याक्रियोत्प्रेक्षा, करोतीवेति परात्मना सम्भावनात्)। अत्र प्रथममुपेन्द्रवज्राङ्गत्वात् कीर्त्तिर्नाम उपजातिः वृत्तम्॥६॥
वास। (सभयं स्वगतम्) कथं नामशेषामित्याह (प्रकाशम्)
आर्ये किम् अत्याहितं सीतादेव्याः ? (फ)
आत्रे। न केवलमत्याहितं सापवादमपि। (ब)
वास। कथमिव ?
(आत्रे। कर्णे एवमेवम्) (भ)
वास। अहह दारुणो दैवनिर्घातः। (म) (इति मूर्च्छति)
आत्रे। भद्रे समाश्वसिहि समाश्वसिहि।
(फ) नामशषामिति श्रुत्वा सोत्कण्ठं प्रकाशमभिधत्ते, आर्य्ये इति। - किमिति प्रश्ने। अत्याहितम्- अमङ्गलं, प्राणहानिरिति भावार्थः। अत्यर्थमाधीयते मनो यन्निवारणाय तदित्यर्थः। तथा चामरः,-‘अत्याहितं महाभीतिः कर्मजीवानपेक्षि च‘इति।
(ब) न केवलमिति। - अत्याहितन्तु जातमेव, नैतावदत्र पर्य्याप्तं परन्तु अपवादसहितमेव तदुदीयमानमभूत् इत्यर्थः। अपवादसहितमवतदत्याहितम् अस्मद्भाग्यविपर्य्ययादजायतेति चूर्णकाभिप्रायः।
(भ) एवमेवमिति। - सीताविवासनव्यापारस्य पौनरुक्त्त्यपरिहाराय आलङ्कारिकशासनानुरोधाच्च कर्णे कथनम्। एतत्प्रपञ्चितं प्राक्।
(म) अहहेति। - अतीव खेदसूचकमव्ययमेतत्। दारुणः,-दुःसहः, अरुन्तुद इति यावत्। दैवनिर्घातः,-दैवस्य भाग्यस्य निर्घातः निग्रहः, न केवलं सीतायाः इदानीं ममापि दैवकृतवज्राघातसदृशोऽयमाघातः इत्यर्थः। (‘निर्घातो विद्युदुल्काद्यैराघातः‘इत्यमरः)।
वास। हा प्रियसखि हा महाभागे ईदृशस्ते निर्माणभागः
रामभद्र रामभद्र अथवा अलं त्वया आर्ये आत्रेयि अथ तस्मादरण्यात् परित्यज्य निवृत्ते लक्ष्मणे सीतादेव्याः किं वृत्तमिति काचिदस्ति प्रवृत्तिः ? (य)
आत्रे। नहि नहि।
वास। हा कष्टम् आर्यारुन्धती-वशिष्ठाधिष्ठिते रघुकुलगृहे जीवन्तीषु च प्रवृद्धराज्ञीषु कथमिदं जातम् ? (र)
(य) हेति। - प्रियसखि अभिन्नहृदये इत्यर्थः। महाभागे- महाभाग्यवति कथं तव आयाता ईदृशी विषमा परिणतिरिति भावः। ते- तव, निर्माणस्य सृष्टेर्भागो विधात्राऽवधारितोऽशः, ईदृशः ? एतदसीमशोकसन्ततिसहनार्थमेव त्वं सृष्टासीरिति भावः। अतः त्वयि तादृग्लोकातिशायिगुणसम्पत्समावेशयितुः विधातुः नितरां निर्विवेकत्वं निष्करुणत्वञ्चापतितमिति तात्पर्य्यम्। (अत्र करुणो रसः दैवनिन्दादिभिरनुभावैः विषादचिन्तादिभिश्च व्यभिचारिभिः स्थायिभावः शोकः स्फुटीक्रियते)। रामभद्र इति शोकाद्द्विरुक्त्तिः। (अत्र‘हा…. रामभद्र‘इत्यादिवचनस्य साक्षात् निरतिशयशोकोद्वेगकरत्वेन वज्रवत् दुर्विषहदुःखप्रदत्वात् अतिकठोरवचनमेतत् वज्रनामकं प्रतिमुखाङ्गमुदीर्य्यते। - ‘प्रत्यक्षनिष्ठुरं वज्रम्‘इति साहित्यदर्पणे)। केवलमलीकलिकापवादमाकर्ण्य प्राणसमाम् अकल्मषां जानकीं विजने वने विहाय अतीव विगर्हितं कृत्यमनुष्ठितवानसीति भावः। अथवैति। - अलं त्वया निन्दितेनेत्यर्थः, निर्ममस्य तव निन्दया इदानीं किमपि फलं नास्तीति भावः। अथ कथञ्चित् शोकसङ्क्षोभमपनीयाह, आत्रेयीति। - अथ-अतः परं, तस्मादरण्यात्- वाल्मीकिवनोपकण्ठात्, परित्यज्य सीतामिति शेषः। अतिशोकोद्दीपकत्वेन जानकीनामग्रहणं नाकारीति सुधीभिरवधेयम्। निवृत्ते लक्ष्मणे सौमित्रौ प्रस्थिते सतीत्यर्थः। किं वृत्तं- का दशा समजनि। इति काचिदस्ति प्रवृत्ति,-तद्विषयिणी काऽपि कथा तव विदिता अस्ति किमु? इत्यर्थः। (‘वार्त्ताप्रवृत्तिर्वृत्तान्तः‘इत्यमरः)। तद्विषयिणी कापि कथा श्रूयते किल इति प्रश्नार्थः।
(र) हा कष्टमिति। - अतिविषादसूचकमव्ययम्। आर्य्येत्यादि। - आर्य्याभ्यां कर्त्तव्याकर्त्तव्यनिर्णयपूर्व्वकप्रकृताचारस्थिताभ्याम्, अतस्तैर्नियन्त्रितेषु गृहेषु काऽपि अशुभोत्पत्तिर्भवितुं न हि अर्हतीति भावः। अरुन्धत्या कुलगुरुपत्न्या, वशिष्ठेन गुरुणा, अधिष्ठिते अधिनायकभूमिकामेत्यसततं सदुपदेशदानेन सुपथिप्रवर्त्त्य सौभाग्यलक्ष्मीमानीयमाने इत्यर्थः। (‘अधिष्ठितम्‘भावे विष्ठायां वहुर्वीहिः। यत्र अतीन्द्रियप्रभाववान् गुरुः स्वयं सम्माननापुरःसरं स्वपत्नीं पुरस्कृत्य सर्व्वदा तिष्ठति, तत्र कुले कथमेवं पत्नीनिग्रहः जातः, इति सूचयितुं प्रथममरुन्धतीनामग्रहणं कृतम्)। रघुकुलगृहे- रघूणां रघुवंशीयानां यत्कुलमन्ववायः तेषां यद् गृहं तस्मिन्, रघुसन्ततिततिभूषितोदवसिते इत्यर्थः। तर्हि कथं वृद्धमतेषु श्रुतिनः कृतिनश्च रामभद्रस्य अशरणायाः सीतायाः विवासनरूपं सुघोरम् एतदन्याय्यं समाचरितमिति तात्पर्य्यम्। (‘रघुकदम्बकेषु‘इति पाठान्तरं दृश्यते; तदर्थस्तु,-रघूणां रघुवंशोद्भवानां कदम्बकानि समूहाः तेषु)। प्रवृद्धासु- वर्षीयसीषु ज्ञानवृद्धासु वयोवृद्धासु चेति प्रशब्दार्थः, राज्ञीषु महाराजस्य स्वर्गगतदशरथस्य पत्नीषु कौशल्यादिषु(अतः तासामाज्ञा अनुल्लङ्घनीयेति सूच्यते)। जीवन्तीषु- प्राणितीषु, अतस्तासु वर्त्तमानासु किमपि अकृत्यमुत्पादयितुं नालमित्याशयः। कथमिदं जातं- केन हेतुना तैः सीताविवासनात् रामभद्रः न निवारितः? इति। (सन्दर्भेणैतेन प्रथमाङ्कोपक्षिप्तबीजमुद्घाटितम्। विष्कम्भकस्य हि वृत्तानां वर्त्तिष्यमाणानाञ्च कथांशानां निदर्शकत्वात् )।
आत्रे। ऋष्यशृङ्गसत्रे गुरुजनस्तदा आसीत्। सम्प्रति तु परिसमाप्तं तद् द्वादशवार्षिकं सत्रम्; ऋष्यशृङ्गेण च सम्पूज्य विसर्जिता गुरवः ; ततो भगवती अरुन्धती ‘नाहं बधुविरहिताम् अयोध्यां गमिष्यामि‘इत्याह; तदेव राममातृभिः अनुमोदितम्। तदनुरोधाद्भगवतो वशिष्ठस्य परिशुद्धा वाचः; -यथा वाल्मीकितपोवनं; गत्वा तत्र वत्स्यामः‘इति। (ल)
(ल) अथ वर्त्तिष्यमाणकथांशञ्चतुर्थाङ्कोपक्षिप्तं प्रस्तोतुमारभते, ॠष्यशृङ्गसत्रे इत्यादिना। - गुरुजनः,-पूज्यवर्गः, वशिष्ठकौशल्याप्रभृतयः इत्यर्थः। ॠष्यशृङ्गसत्रे- जामातुः द्वादशवार्षिके यज्ञे। तदा- रामकृतसीताविवासनसमये। परिसमाप्तं- सम्पूर्णम्। द्वादशवर्षिकं- द्वादशभिः वर्षैः सम्भूतं(तद्धितार्थो द्विगुः‘कालात् उञ् ‘(४। ३ड११पा०) इति ठञ् प्रत्ययः) सत्रं- यज्ञः। विसर्ज्जिताः,-स्वगृहं प्रति प्रयाणाय अनुमोदिताः। गुरवः,-वशिष्ठादयः। बधूविरहितां- बध्वा स्नुषया सीतायेत्यर्थः, विरहितां- शून्याम् अधिदेवतापरित्यक्तामिति यावत्। राममातृभिः,-कौशल्यादिभिः, तदेव- तथाविधमरुन्धतीवचनमेव, अनुमोदितं- साग्रहं स्वीकृतं, सर्व्वान्तःकरणेन समर्थितञ्चेत्यर्थः। तदनुरोधात्- तासामरुन्धतीकौशल्यादीनाम्, अनुरोधात्- अत्याग्रहात्। परिशुद्धाः,-सर्वथा निर्दोषाः, स्पष्टा इति यावत्। यथा- यत्र प्रदेशे इत्यर्थः, वाल्मीकितपोवनम् अस्तीति शेषः। यत्र हि सीतानिवसति तत्रैव वयं वत्स्यामः, अन्यत्र गत्वा अलम् इति। एतानि महर्षेः भगवतः वशिष्ठस्य सर्वथैव तथ्यानि वचनानि उपरिष्ठात् चतुर्थाङ्के सुस्फुटं विवृतानि।
वास। अथ स राजा किमारम्भः सम्प्रति ? (व)
आत्रे। तेन राज्ञा क्रतुरश्वमेधः प्रक्रान्तः।
वास। हा धिक् परिणीतमपि (श)
आत्रे। शान्तं पापम्। (ष)
वास। का तर्हि यज्ञे सहधर्मचारिणी ? (स)
आत्रे। हिरण्मयी सीताप्रतिकृतिः। (ह)
(व) अथेति। - आरभ्यते क्रियते इत्यारम्भः कर्म, कः आरम्भोऽस्येति किमारम्भः, कस्मिन् कर्मणि व्यापूतः इत्यर्थः। प्रजानुरञ्जनार्थं गृहलक्ष्म्या अपि सीतायाः विवासनात्, नवे राज्येऽभिषिक्त्तस्य रामस्य राजेति विशेषणं साक्षेपोल्लुण्ठनोक्त्तिपरं वेदितव्यम्। सीताविवासनसमये, ‘एष ते नूतनः राजा रामः समाज्ञापयति‘इति स्वयमेवोक्त्तं रामभद्रेणेति विभाव्यम्।
(श) हेति। - हा धिक्- कष्टसूचकमव्ययम्। परिणीतमपि-विवाहोऽपि कृतः न केवलं निरपराधां पत्नीं वनाय विसृज्य कृतकप्रणयित्वेन आत्मनः लघुचेतस्त्वं प्रख्यापितम् अपि तु स्त्र्यन्तरस्वीकारोऽपि कृतः इत्यपि शब्दार्थः। (एतदेव नः निरतिशयाक्षेपकारणमिति गम्यते। ‘सस्त्रीकोधर्म्ममाचरेत्‘इति स्मरणादश्वमेधादिषु च क्रतुषु अपत्नीकस्याधिकारविरहात्, ‘अश्वमेधः प्रकान्तः‘इति आत्रेयीवचनेन राज्ञः सस्त्रीकत्वमपि ध्वनितम्। अत एवैतद्वासन्तीवचनस्य परिणयान्तरमन्तरेण तादृशयज्ञानुष्टानस्यावैधत्वमित्याशयः स्वीकृतः।
(ष) शान्तमिति। - पापं- पापोत्पादकरमित्यर्थः, पापवदिति यावत्, श्रवणादपि पूतचेतसं सपापं करोति, अत एतत्, शान्तम्- अमीकम्, न वक्त्तव्यमित्यर्थः। रामेण सह धर्म्मचारिणीं सीतां विवास्य न हि परिणयान्तरं कृतं, तथात्वे चैतत् नो निर्भरं मनस्तापमासादयेत इति सन्दर्भार्थः। (‘शान्तं शान्तम्‘इति पाठे- एतादृशाऽशिष्टाचारनिर्वचनं न कदाचित् सम्भवति रामभर्दस्य)।
(स) केति। - तर्हि- यदि, रामेण न परिणीतं तदेत्यर्थः। यज्ञे- अश्वमेधे, का सहधर्म्मचारिणी- धर्म्मं वेदविहितम् इष्टसाधनं कर्म्मेत्यर्थः, चरति अनुतिष्ठति या, सहपत्येति शेषः, सा, अभिन्नतया धर्म्मकारिणी धर्म्मपत्नीत्यर्थः।
(ह) हिरण्मयीति। - हिरण्यस्य विकारः इति(विकारार्थे मयट्, ‘दाण्डिनायन- ‘(६। ४। २७४पा०) इत्यादिना यलोपः निपातः) सुवर्णमयी, स्वर्णनिर्म्मितेति यावत्, सीताप्रतिकृतिः,-सीतायाः प्रतिमूर्तिः। विहितद्रव्याऽसम्पत्तौ प्रतिविधिमाह कात्यायन;-
‘यथोक्त्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत्।
यवानामिव गोधूमाः व्रीहिणामिव शालयः॥‘इति।
अपि च गरुडपुराणम्- ‘भार्य्याभर्त्तृव्रतं कुर्य्यादभार्य्यायाश्च पतिस्तथा।
असामर्थ्ये द्वयोस्ताभ्यां द्वयोस्ताभ्यां व्रतभङ्गो न जायते॥‘इति।
(अत्र‘हिरण्मयी सीता प्रतिकृतिः‘इत्येतद्वचनस्य उत्कृष्टतरोत्तरभृतत्वेनात्यनुरागप्रकाशकत्वात् प्रगमनं नाम प्रतिमुखाङ्गं वेदितव्यम्। ‘- प्रगमनं वाक्यं स्यादुत्तरोत्तरम्‘इति साहित्यदर्पणे)।
वास। हन्त भोः -(क)
वज्रादपि कठोराणि मृदूनिकुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥७॥
(क) हन्तेति। - हर्षविषादस्नेहविस्मयोक्त्तिरियम्। वराकीं जानकीं चिराय वहिः वनाय विसृज्याऽपि स्वभावधीरः रामभद्रः स्वहृदयतलात् तां नाहासीत्, एतत् सारभूतं कर्णामृतायमानं वचः समाकर्ण्य हृष्टा भूती। एतदेव स्फुटतया विवृणुमः परवर्त्तिश्लोके।
महोदारचरितानां चेतांसि अनिर्वचनीयानि इति जायती, मृणालकोमलानि अपि तानि द्रव्यान्तरसंयोगमेत्य कालायसकठोराणि भवन्तीति वर्णयति, वज्रादिति। - वज्रादपि कठोराणि अतिकठिनानि, लोकनिन्दया केवलं प्राणभूतायाः सीतायाः विवासनादित्यर्थः, अपि च, कुसुमादपि मृदूनि मृदुतमानि, रावणकृतापहारात् परं वृक्षं लतिकामपि समालिङ्ग्य निर्भररोदनकरणादित्यर्थः। अत्र पुनः तदीयाममलां प्रतिकृतिमादाय धर्माचरणाच्च। अश्वमेधादिक्रतोः सावकाशतया सीतासदृषप्रतिमाकरणं हि मृदुत्वापादकमेव। पुरा हि यानि सीतायाः पुष्पाघातदुःखमपि सोढुमशक्त्तानि आसन्, तानि राममनांसि पुनः प्राणेभ्योऽपि प्रियतरां निरतिशयस्नेहभावितां स्वकृताग्निपरोक्षया निर्द्दोषतया ज्ञातां सतीमपिपत्नीं प्राकृतजननिन्दामात्रेण परित्यक्त्तुं पटीयांसि अभवन्, अतः लोकेभ्यः उत्तराणामलौकिकगुणवतां महतां जनानां चेतांसि हृदयानि विज्ञातुं विशेषेण ज्ञातुं बोद्धुमित्यर्थः, कः अर्हति योग्यो भवति। न कोऽपीति भावः। दुरवगाहचित्तवृत्तयः खलु महान्तः इति सन्दर्भसारः। स्निग्धा सीता विसर्जितेति विषादः, स्निग्धा रामो न निष्करुणाः पापकारीति विश्वजनीनप्रवृत्तिरेव प्रमाणमिति न्यायात् निर्द्दोषामपि साधारणजनविगर्हितां सीतां विहाय महती निःस्वार्थता प्रजावत्सलतान्यायपरता नदर्शिता रामेणेति स्नेहविषादहर्षविस्मयविकाशकारणम्। (अत्र एकस्मिन्धर्म्मिणि लोकोत्तरचेतसि अन्योऽन्यविरुद्धयोः धर्म्मयोः कठोरमृद्वोः सङ्घटनात् विषमालङ्कारः। अपि चाप्रस्तुतात् सामान्यात् प्रस्तुतस्य रामभद्ररूपविशेषस्य प्रतीतेः अप्रस्तुतप्रशंसा, अपि च उत्तरार्द्धगतेन सामान्येन विशेषस्य रामभद्ररूपवस्तुनः समर्थनात् अर्थान्तरन्यासालङ्कारः। इत्येषामङ्गाङ्गिभावेनावस्थितेः सङ्करः। अत्र आरब्धहयमेधं रानभद्रमाकर्ण्य धर्म्मपत्नीं विहाय तदनुष्टानस्यासम्भवं विज्ञाय च अकृतेण रामभद्रे वासन्त्याः कियदरुचिरजायत, अथ हिरण्मयीं सीताप्रतिकृतिं यज्ञे सहधर्म्मचारिणीं विदित्वा तस्या एवं रामभद्रे तथा भूतायाः अरतेः उपशमोऽभूत् इत्ययं‘वज्रादपि कठोराणि‘इत्यादिसन्दर्भः अगत्युपशमनात्मकः प्रतिमुखाङ्गभूतः शम एवेति दशरूपकम्। दर्पणकृन्मते तु एष रागजनकत्वेन विशेषवचनतया पुष्पनामकं प्रतिमुखाङ्गं वेदितव्यम्। ‘- पुष्पं विशेषवचनं मतम्‘इति वचनात्। केचित्तु दर्पणकृन्मते तापननामैतत्प्रतिमुखाङ्गमिति व्याचक्षते। ‘उपायादर्शनं यत्तु तापनं नाम तद्भवेत्‘इति दर्पणलक्षणात्। एतस्यैव‘शमः‘इति नामान्तरं वदन्ति च)। पथ्यावक्त्तवृत्तम्॥७॥
आत्रे। विसृष्टश्च वामदेवानुमन्त्रितो मेध्योऽश्वः; उपकल्पिताश्च यथाशास्त्रं तस्य रक्षितारः; तेषामधिष्ठाता च लक्ष्मणात्मजश्चन्द्रकेतुः दत्तदिव्यास्त्रसम्प्रदायः चतुरङ्गसाधनान्वितोऽनुपहितः। (ख)
(ख) विसृष्ट इति। - वामदेवेन-तदाख्येन केन चित् ऋत्विजामन्यतमेन, कुलगुरोः वशिष्ठस्यासान्निध्यात् एतैनैवार्त्त्विज्यं कृतमिति भाव। अनुमन्त्रितः,-मन्त्रसंस्कृतः। मेध्यः,-मेधाय यज्ञाय हितः, यज्ञीयः इत्यर्थः। (मेध्- बधे; मेध्यते बध्यते असाविति मेधतेः भौवादिकस्य ण्यत् मेध्यः, यज्ञे वध्यः इत्यर्थः)। अतः,-यज्ञीयतुरङ्ग इत्यर्थः। विसृष्टः,-अव्याहतस्वैरगतये विमुक्त्तः। उपकल्पिताः,-निर्दिष्टाः नियोजिता इत्यर्थः। अधिष्ठाता- अधि अधिनायकत्वेन, स्थाता- स्थितिशीलः प्रधानपदारूढः; अधिनायकः सेनापतिरित्यर्थः। दत्तदिव्यास्त्रसम्प्रदायः,-दत्तः दिव्यानाम् अलौकिकानाम् अस्त्राणां सम्प्रदायः समूहः प्रयोगसंहारमन्त्रसहितः यस्मै स तथोक्त्तः, तथा च तुरङ्गसाधनान्वितः,-चत्वारि अङ्गानि येषां तैस्तथोक्त्तैः साधनैः हस्त्यश्वरथपादातरूपोपकरणैः रक्षणसाधनैः इत्यर्थः, अन्वितः अनुगतः, (‘हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम्‘इति, ‘निवर्त्तनोपकरणानुव्रज्यासु च साधनम्‘इति चामरः)। अनुप्रहितः,-प्रेरितः। (‘विसृष्टश्च वामदेवानुमन्त्रितः‘इत्याद्यारभ्य‘जनस्थान एव तपश्चरति‘इत्यन्तेन सन्दर्भेणात्र ब्रह्मक्षत्रशूद्रादिवर्णानां मेलनात् वर्णसंहारनामकं प्रतिमुखसन्ध्यङ्गं वेदितव्यम्, -‘चातुर्वर्ण्योपगमनवर्णसंहार इष्यते‘इति दर्पणेक्त्तेः)।
वास। (सस्नेहकौतुकास्रम्) कुमारलक्ष्मणस्यापि पुत्रः हन्त मातर्जीवामि। (ग)
आत्रे। अत्रान्तरे ब्राह्मणेन मृतं पुत्रमुत्क्षिप्य राजद्वारि; सोरस्ताडनमब्रह्मण्यमुद्घोषितं; ततो ‘न राजापचारमन्तरेण प्रजासु अकालमृत्युश्चरति‘इति आत्मदेषं निरूपयति करुणामये रामभद्रे; सहसैव अशरीरिणी वाक् उदचरत्। (घ)-
(ग) सस्नेहकौतुकास्रम्- कुमारलक्ष्मणस्य वार्त्ताश्रवणात् वात्सल्योदयः तत्तनयस्य च सेनानायकत्वश्रुतेः हर्षाधिक्यात् कौतुकाविर्भावः, तेषाञ्चेदानीमदर्शनात् अश्रुपातः, स्नेहकौतुकास्रैः सहवर्त्तमानं यथा तथेति विग्रहः; प्राग्भवतः रामभद्रस्य पुत्रयोः कुशलवयोः संवादश्रवणसमकालं हि अतिहर्षः आसीत्, अथ कुमारस्य स्निग्धस्य सौमित्रेः पुत्रः जातः इति श्रवणात् सहर्षः अतिभूमिं गतः इति अपिकारतात्पर्य्यम्। हन्त-हर्षे। मातर्जीवामि- प्रत्युज्जीविताऽस्मि। वराक्याः प्रियसख्याः सीतायाः दारुणपरिणामश्रवणसमकालमेवाहं मृतकल्पाऽभवत्, इदानीं तु निरतिशयप्रेमवतः सौमित्रेः तनयजननसंवादममृतायमानमाकर्ण्य पुनरागतप्राणा एवास्मि इत्याशयः।
(घ) अत्रान्तरे इति। - अत्र- अस्मिन्, अन्तरे-अवकाशे। मृतम्- अकाले गतप्राणम्। राजद्वारि- राज्ञः रामभद्रस्य प्रासादद्वारभूमौ; उत्क्षिप्य-आरोप्येत्यर्थः। सोरस्ताडनम्- उरसो वक्षसस्ताडनेन प्रहारेण सहितम्; पुत्रशोकार्दिततया कराभ्यां स्वकीयं वक्षः अभीक्ष्णं विताड्य इत्यर्थः। अब्रह्मण्यम्- अबध्योक्त्तिरूपम् अमङ्गलम्; असमञ्जसमिति सरलार्थः। उद्घोषितम्- त्राणार्थम् उच्चैरूच्चारितम्। ततः- तत् श्रवणानन्तरम्। राजापचारः- राज्ञः तदधिकृतस्य वा यः अपचारः धर्म्मव्यतिक्रमः तम्। अन्तरेण- विना, (अन्तरेणेत्यव्ययं तद्योगेन‘अन्तराऽन्तरेणयुक्त्ते ‘(२। ३। ४पा०) इति द्वितीया)। प्रजासु- प्रकृतिपुञ्जेषु। सकालमृत्युः,-अनुचिते वयसि विनाशः। न चरति- न प्रसरति, प्रजाः नाऽकाले म्रियन्ते इत्यर्थः। तथा च रामायणम्-
‘राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः।
असद्दृत्ते हि नृपतावकाले म्रियते जनः॥‘इति।
भारतेऽपि‘असाधुशासनाद्राज्ञो महाभीतिरूपप्लवः।
प्रवर्त्तते च नियतमकालमृत्युरीतयः॥‘इति।
आत्मदोषम्- आत्मनः स्वाधिकृतस्य राजपुरुषस्य वा शासनदोषं प्रकृतिपुञ्जानाम् अयथापरिपीडनरूपमित्यर्थः। निरूपयति- निश्चिन्वति, न हि मम दोषादृते ब्राह्मणबालः अकाले मृतः इति अवधारयति इत्यर्थः। करुणामये- परदुःखदुःखित्वरूपाऽनुकम्पाप्रचुरे, नो चेदेवं तदासर्व्वाधीश्वरस्य अनेककोटिसङ्ख्यातप्रजापालकस्य भगवतः राघवस्य कस्यचिदेकस्य द्विजशिशोः निधनात् नितरामाधिर्नाऽभविष्यदित्यर्थः। अशरीरिणी- न विद्यते शरीरं ताल्वोष्ठपुटाघातादिकं यस्यां सा(‘सर्वधनी‘इत्यादिवत् इन्यन्तो बहुव्रीहिः)। ‘अशरीरिणी वाक्‘इत्येकपदत्वे- शरीरं देहः विद्यते अस्याः इति शरीरिणी, सा न भवति इत्यशरीरिणी दैवतत्वेन मनुष्यैरलक्षितशरीरा, सरस्वती इत्यर्थः, तस्याः वाक्; उभयत्रापि आकाशवाणी इति भावः। उदचरत्- उदतिष्ठत। दैवी वाणी उद्भूतेत्यर्थः।
सम्बूको नाम वृषलः पृथिव्यां तप्यते तपः।
शीर्षच्छेद्यः स ते रामः तं हत्वा जीवय द्विजम्‘॥८॥
कथं सा दैवीवाणी? इत्याह, शम्बूको नामेति। - शम्बूको नाम तदाख्यः कश्चित्, वृषलः शूद्रः, वृषं धर्म्मं लुनाति हिनस्ति, उपदेशनात् उपसेवनाद्वा इत्यर्थः इति व्युत्पत्तिः, त्रैवर्णिकाणां सुकृतापहारकः; तथा च मनुः, –
‘न शूद्रे पातकं किञ्चित् न च संस्कारमर्हति।
नास्याधिकारो धर्म्मेऽस्ति न धर्म्मात् प्रतिषेधनम्॥‘इति।
पृथिव्यां भूम्यां तपः तप्यते तपस्यति(‘तपस्तपःकर्म्मकस्यैव ‘(३। २। ८८पा०) इति आत्मनेपदं यक्च। ) हे राम स वृषलः ते तव(‘कृत्यानां कर्त्तरि वा ‘)२। ३। ७१पा०) इति सूत्रेण वैकल्पिकी षष्ठी। ) शीर्षच्छेद्यः शीर्ष्णि तदवच्छेदे इत्यर्थः, छेद्यः छेदयितुमर्हः यदा- शिरश्छेदमर्हति शीर्षच्छेद्यः। (‘शीर्षच्छेदात्यच्च ‘(५। १। ६५ पा०) इति सूत्रेण यत्प्रत्ययः, शिरसः शीर्षादेशास्तु निपात्यते; तेन च शीर्षच्छेद्यः सिध्यति इति व्याचक्षते पराञ्चः। अत्र तु‘ते‘इत्यत्र सम्बन्धे षष्ठी)। शूद्रस्य तपसि अनधिकारश्रुतेः, वर्णधर्म्ममुल्लङ्घयतः शम्बूकस्य शिरश्छेद एव न्याय्य इत्यवधेयम्। तम् एवम्भूतं दण्डार्हं शम्बूकमित्यर्थः, हत्वा विनाश्य द्विजं गतप्राणं विप्रबालं जीवय रक्ष, प्रत्युज्जीवयेत्यर्थः॥८॥
इति उपश्रुत्यैव आकृष्टकृपाणपाणिः पुष्पकं विमानमारुह्य सर्वा दिशो विदिशश्च शूद्रतापसान्वेषणाय जगत्पतिः सञ्चरितुमारब्धवान्। (ङ)
वास। शम्बूको नाम धूमपः शूद्रोऽस्मिन्नेव जनस्थाने तपश्चरति; तत् अपि नाम रामभद्रः पुनरपि इदं वनम् अलङ्कुर्यात् (च)
(ङ) इत्युपश्रुत्यैवेति। - इति पूर्व्वोक्त्तां दैवीं वाचम्, उपश्रुत्यैव-समाकर्ण्यैव। आकृष्टकृपाणपाणिः,-आकृष्टः कोशाद्बहिष्कृतः कृपाणः खङ्गः पाणौ यस्येति विग्रहः, उद्घतखङ्गहस्त इत्यर्थः; (‘प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः‘वा० इति सप्तम्यन्तस्य परनिपातः) जगत्पतिः,-जगतां पतिः पालकः, रामभद्रः इति यावत्। शूद्रतापसान्वेषणाय-शूद्रतापमस्य शम्बूकस्य अन्वेषणाय, कुत्र स तपस्यतीति मार्गणायेत्यर्थः। पुष्पकं- पुष्पकनाम्नाप्रसिद्धं, (पुरा किल पुष्पकं नाम मनोहरजवरूपं विमानं धनाधिपतये यक्षराजाय कुबेराय ब्रह्मणा दत्तम्; तं विजित्य गृहीतवन्तं रावणं निर्जित्य राघवस्तत्प्राप्तवान्। इति रामायणी कथा)। विमानं- व्योमयानम्। विदिशः,-आग्नेय्यादयः, ताः, दिशः प्राच्यादय ताश्च सर्वाः। - (‘कालभावध्वदेशानामन्तर्भूतक्रियान्तरैः। सर्वैरकर्म्मकैर्योगे कर्म्मत्वमुपजायते॥‘इति कर्मसञ्ज्ञायां हरिकारिका)। (‘दिशोर्मध्ये विदिक्स्त्रियाम्‘इत्यमरः)। सञ्चरितुं- परिभ्रमितुम्। आरब्धवान्- प्रचक्रमे।
(च) धूमपः इति। - धूमं पिबतीति(‘आतोऽनुपसर्गे ‘(३। २। ३पा०) इति कप्रत्ययः) वृक्षशाखादौ पादौ बद्धा धूमपानार्थम् अधोमुखः इत्यर्थः, यज्ञीयभूममात्रसेवित्वात् नित्योपवासित्वाच्चेति भावः। तत्- तस्मात्, अस्मिन्नेव दण्डकारण्ये तपश्चरणाद्धेतोः, (अपिः अत्र प्रथमः सम्भावनायां, द्वितीयस्तु समर्थार्थकः। तदयोगे लिङ्)। अलङ्कुर्य्यात्- शोभयेत्, तर्हि भगवतः अहं संवर्द्धनां कर्त्तुमर्हामीत्याशयः।
आत्रे। भद्रे गम्यतेऽधुना ?
वास। एवमस्तु; कठोरीभूतोऽयं दिवसः। (छ)
तथा हि-
कण्डूलद्विपगण्डपिण्डकषणोत्कम्पेन सम्पातिभि-
र्धर्मस्रंसितबन्धनैः स्वकुसुमैरर्चन्ति गोदावरीम्।
छायाऽपस्किरमाणविष्किरमुखव्याकृष्टकीटत्वचः
कूजत् क्लान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः॥९॥
(इति परिक्रम्य निष्क्रान्ते)
(इति विष्कम्भकः (ज))
(छ) एवमस्त्विति। - तर्हि इदानीं गम्यता भवतीभिरित्यर्थः। कुतः? तदेवोच्यते,-कठोरीभूत इति। - अकठोरः कठोरः सम्पद्यमानो भूतः इति कठोरीभूतः पूर्णतां गतः, मध्याङ्कोऽभूदित्यर्थः; प्रचण्डचण्डांशोरंशुसन्तापस्य सोढुमशक्यत्वादित्याशयः।
अथेदानीं निदघातपस्यातीवासहनीयत्ववर्णनमिषेण प्राकृतिकैतादृशदृश्यदर्शनादनुमीयमानं धर्मातपतापं विशदीकृत्य वर्णयति, कण्डूलेति- कुले गोदावरीतीरे स्थिता इति शेषः; मृदुस्निग्धकल्लोमालाघातैः शिशिरीकृतरुचिरगोदावरीतीरतरुणामपि परमरामणीयकमलोक्य तेषामेव प्राधान्येनातपतायोद्वेगीपवर्णनमित्यवधेयम्। छायेत्यादि- छायायामनातपे, विश्रामजसुखमुपभुज्येति शेषः। अपस्किरमाणाः कीटनिष्कोषणार्थं तद्भक्षणाच्च हर्षेण तरुवल्कलेषु चञ्चाघातं कुर्वन्तः नखैरालिखन्तश्च इत्यर्थः, (‘किरतेर्हर्षजीविकाकुलायकरणेष्विति वाज्यम्‘इति वक्त्तव्यात् शानच्। ‘अपाच्चतुष्पाच्छकुनिष्वालेखने ‘(६। १। १४२पा०) इति सूत्रेण अपात्परस्य किरतेः सुट्)। ये विष्किराः पक्षिणः। (‘खगे विहङ्ग इत्याद्यारभ्य‘नगौकीवाजि विकिर-वि-विष्किरपतत्रयः‘इत्यमरः। ) तैर्मुखैः करणैर्व्याकृष्टा आकर्षणेन बहिष्कृताः कीटाः याभ्यस्तथोक्त्तास्त्वचोवल्कलानि येषां ते तथोक्त्ताः; येषां हि प्रच्छायसुशीतले तले विथामजसुखमुपभुञ्जानाः विविधाः विहगाः सानन्दं तरुत्वग्भ्यः चञ्चुभिः चरणैश्च कीटान्निष्कोष्य उपभुञ्जते इति भावः। (एतेन च मुनीनां गृहेषु अतिथयः नित्यमेव स्वयमेव स्वयमागत्य भोज्यानि भुञ्जते इति प्रतीयते)। कूजत्क्लान्तेत्यादि। - तथा कूजन्ति मधुमुपगतानि कपोतानां कुक्कुटानां चरणायुधविशेषाणाञ्च कुलानियेषु तथोक्त्ताः; अपि च येषां तथाविधेषु विटपेषु तलेषु च विशिष्टा पारावताः वन्यकुक्कुटाश्च मधुरं रुवन्तः विद्रालसाश्च अन्तर्निर्भरमानन्दं लभन्ते इति भावः। एतेन च मध्याह्ने प्रोद्दण्डमार्त्तण्डोत्तापवितप्तानां श्रान्तानां वटूनां नानाशाखाध्येतृणाम् आम्नायाभ्यसनम् उद्गीथाद्युपासनञ्च निर्बाधं भवतीति व्यज्यते)। कुलायद्रुमाः विहगावासभूततरवः। (कुलायभूताः द्रुमाः इति शाकपार्थिवदिवत् समासः। ‘कुलायस्तु पुमान् स्थानमात्रे स्यात् पक्षिवासके‘इति मेदिनी। एतेन च तेषां गृहमेधिनां बहुकुटुम्बभरणे प्रसितत्वं ध्वन्यते)।
कण्डूलेत्यादि। - तथा कण्डूलानां कण्डूयुतानां तद्बहुलानां वा, (कण्डूः कण्डूतिः विद्यते येषाम् इति ‘सिध्मादिभ्यश्च ‘(५। २। ९७पा०) इति सूत्रेण लच् प्रत्ययः) द्विपगण्डपिण्डानां द्वाभ्यां मुखनासिकाभ्यां पिबन्तीति द्विपा हस्तिनः(‘दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः‘इत्यमरः। ) तेषां गण्डा एव पिण्डः तेषां करिकपोलभागानामिति यावत्; कर्षणेन कण्डूतिनिवारणार्थं घर्षणेन यः उत्कम्पः परिचालनं तेन सम्पातिभिः समूहेन स्खलद्भिः पतद्भिरित्यर्थः, (एतेन तत्र तपोवने दुरुहशास्त्रतत्त्वानि निर्णेतुं सततम् उपगतानां भूभुजां लब्धोपदेशतया च विगतसंशयानां तेभ्यः सगौरवद्रव्यदानानि अनिशमेव भवन्तीति व्यज्यते)। तथा धर्म्मेण आतपेन(‘धर्मः स्यादातपे ग्रीष्मेऽप्युष्मखेदाम्भसोरपि‘इति मेदिनी। ) स्रंसितानि शिथिलितानि बन्धनानि वृन्तानि येषां तैस्तथोक्त्तैः स्वकुसुमैः, (एतेन च निवृत्ततर्षैः तैः अधिगतद्रव्याणि देवसात् अतिथिसाच्च नियतं क्रियन्ते, इति प्रतीयते)। गोदावरीम् अर्च्चन्ति पूजयन्ति, मातृत्वबुद्ध्येति भावः। (अर्च्चन्तीति भ्वादिगणीयार्चधातोः प्रयोगः। एतैः सर्वैः श्रौतक्रियानिरतानां गृहमेधिनां माध्यन्दिनवृत्तं ध्वन्यते। अत्र कुसुमपतनस्य गोदावरीपूजनत्वेन सम्भावनात्, तद्वाचकशब्दाभावाच्च प्रतीयमानोत्प्रेक्षालङ्कारः। स च स्वभावोक्त्त्या सङ्कीर्य्यते। वृत्त्यनुप्रासश्च शब्दालङ्कारः)। वृत्तं शार्द्दूलविक्रीडितम्॥९॥
(ज) विष्कम्भकः इति। - वर्णितानां भूतानां वर्णनीयानाञ्च भाविनामित्यर्थः, कथानामंशतः सङ्क्षेपतश्च निर्देशो विष्कम्भः, स च अङ्कादौ प्रयोज्यः। तथाहि,-‘वृत्तवर्तिष्यमाणानां कथांशानां विदर्शकः। सङ्ङ्क्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः॥‘इति। अयन्तु शुद्धः, मध्यमाभ्यां पात्राभ्यामात्रेयी-वासम्तीरूपाभ्यां प्रयोजितत्वात्।
तथा चोक्त्तं,-‘मध्येन मध्यमाभ्यां वा पात्राभ्यां सम्प्रयोजितः। शुद्धः स्यात् स तु सङ्कीर्णो नीचमध्यमकल्पितः॥‘इति च साहित्यदर्पणे। तथा चात्र सीताविवासनं, कुशलवोत्पत्तिः, भगवतः वल्मीकेः सविधे च तेषां समर्पणं यथाविधि शिक्षा चेत्याद्यतीतविषयाणामुपस्थापनम्; अपि च शम्बूकहननाय दण्डकारण्यमभितः भगवतः राघवस्य पर्य्यटनं हयमेधस्यैवायोजनञ्च इत्यादीनां वर्त्तिष्यमाणविषयाणाञ्च विर्द्देशः वेदितव्यः। (केचित्तु, चूलिकानाम् अर्थोपक्षेपकोऽयमिति वदन्ति; वेपथ्यस्थितया वनदेवतया वसन्त्या आत्रेय्याः प्रवेशस्य सूचितत्वात्। तत्तु न सम्यक्, अर्थोपक्षेपकेषु पञ्चम एकत्रैव चूलिका-विष्कम्भकयोर्द्वयोरेवार्थोपक्षेपकयोरवस्थानासम्भवात्। यद्यपि महावीरचरिते‘भो भो वैमानिकाः प्रवर्त्त्यन्तां प्रवर्त्त्यन्तां मङ्गलानि,-कृशाश्वान्तेवासी जयति भगवान् कौशिकमुनिः‘इत्यादौ एकत्रैव द्वयोरेव समावेशः दृश्यते, तथापि तत्र नेपथ्यपात्राणि इन्द्रादिदेवाः, विष्कम्भकपात्रे च शूर्पणखा-माल्यवन्तौ इति पात्रभेदो दृश्यते, अत्र तु तथाऽभावादित्यवधेयम्)।
ततः प्रविशति पुष्पकस्थः सदयोद्यतकङ्गो (झ) रामभद्रः।
रामः। रे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य।
जीवातवे विसृज शूद्रमुनौ कृपाणम्।
रामस्य गात्रमसि; दुर्वहगर्भखिन्न-
सीताविवासनपटोः करुणा कुतस्ते ?॥१०॥
(झ) तत इति। - पुष्पकस्थः,-पुष्पकविमानारूढः। सदयं सकृपमुद्यतः शूद्रकबधार्थम् उत्तोलितः खङ्गः कृपाणः येन, तथाविधः, करुणामयत्वेन वर्णधर्म्माचारमुल्लङ्घयतः अपराधिनः अपि शम्बूकस्य उपरि कृपाणनिपातने सदयत्वं वेदितव्यम्। -
(‘त्रिभ्यो युगेभ्यस्त्रीन् वर्णान् धर्मश्च परिनिष्ठितः।
न शूद्रो लभते धर्मं युगतस्तु नरर्षभ॥
हीनवर्णो नृपषेष्ठ तप्यते सुमहत्तपः।
भविष्यच्छूद्रयोन्यां हि तपश्चर्य्याकलौ युगे॥
सत्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम्।
दुष्कृतं यत्र पश्येथास्तत्र यत्र समाचर॥
एवं धर्मविवृद्धिश्च नणाञ्चायुर्विवर्द्धनम्।
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम्॥‘
इत्यादि नारदवचनमाकर्ण्य दिनकरकुलेन्दुः भगवान् भार्गवविजेता वृषलतपस्विनः शम्बूकस्य बधायोद्यममकरोत् प्रसादञ्च कृतवान्। हारीतस्तु तपश्चरणे शद्रस्यानधिकारमावेदयन् पापमेव भवति इत्यभिधत्ते ; तथा हि-
‘अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनम्।
आतिथ्यं वैश्वदेश्च इष्टमित्यभिधीयते॥
इष्टापूर्तो द्विजातीनां धर्मः सामान्य इष्यते।
अधिकारी भवेच्छूद्रः पूर्तधर्मे न वैदिके॥‘इति।
तथा चात्राधिकारविरहात् तदनुतिष्ठतः अपराधः अस्त्येव, स तु न प्राणदण्डप्रयोजकः ; सत्यप्येवं, नारदवाक्यात् विप्रवालस्य चोज्जीवनाय भगवानित्थं विदधे इति मृग्यम्। तथा च मनुः, –
‘न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति।
नास्याधिकारो धर्मेऽस्ति न धर्मात् प्रतिषेधनम्॥‘इति।
अथेदानीं दण्डकारण्यमागतस्य रामभद्रस्य तपस्यन्तं निरपराधमपि अनयकारिणं शुद्रकं जिघांसितुं प्राक् घृणा प्रवृत्ता, तस्य तु दण्ड्यस्य द्विजशिशोः जीवनार्थमहितत्वेन कथञ्चित् अगर्हणीयत्वेपि अनपराधदण्डविधानस्य नृपाणाम् अयशस्करत्वेन, वराकीं सीतां विवसयतः अकृपस्यात्मनः नास्ति तत्र कापि व्यपेक्षेति उपवर्णयितुमाह, रे इति। -रे हस्त दक्षिण रे अपसव्य हस्त (रामावयवत्वेन श्रेष्ठत्वेऽपि तपस्विहननापराधे प्रवृत्तत्वेन अतीव निष्करुणत्वव्याख्यापनाय रे इति नीचसम्बोधनपदमुपात्तम्) मृतस्य अकाले कालेन वैवस्वतक्षयं नीतस्य ; तथा च रामायणे उत्तरकाण्डम्-
‘ततः कतिपयाहःसु वृद्धो जानपदोद्विजः।
मृतं बालमुपादाय राजद्वारमुपागतमत्॥
अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम्।
अकाले कालमापन्नं मम दुःखाय पुत्रक ॥
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम्।
मृत्युरप्राप्तकालानां रामस्य विषये ह्ययम्॥‘इति।
द्विजस्य शिशोः विप्रबालस्य, जीवातवे प्रत्युज्जीवनाय ( ‘जीवातुरस्त्रियां भक्ष्ये जीविते जीवनौषधे’ इति मेदिनी)। शूद्रमुनौ वृषलतापसे तद्बधायेत्यर्थः, कृपाणं खड्गं विसृज मूञ्च तदुपरि पातयेत्यर्थः। अनपराधस्य तपस्विनः विशसने कथं हि जगति करुणामयेति ख्यातस्यापि उपलोपमहृद इव ते करुणा नोदेति ? इत्याशङ्कायामाह, रामस्येति। -दुर्वहः प्रवृद्धत्वात् दुःखेन वोढुं शक्यः यो गर्भः तेन खिन्ना क्लिष्टा तथाविधा या सीता तस्याः विवासनपटोः निर्वासनसमर्थस्य, रामस्य अकरुणरसस्येत्यर्थः, (अत्र रामपदम् अकरुणत्वरूपार्थान्तरसङ्क्रमितं, सर्वलोकरमणत्वेन करुणामयरामपदस्य अकरुणरामपरत्वेन मुख्यार्थस्य स्वविशेषरूपार्थान्तरसङ्क्रमितत्वादर्थान्तरसङ्क्रमितवाच्यो ध्वनिः, इत्यवधातव्यम्। अकरुणत्वातिशय्यञ्चात्र व्यङ्ग्यम्) गात्रम् अङ्गम् असि भवसि, ते तव करुणा दया कुतः ? अतिकठिनस्य कठोरगर्भभारलसायाः सीतायाः विवासनपटुत्वेन निर्घृणस्य, अतिबीभत्सकर्मकृतः रामस्याङ्गत्वात् त्वयि करुणा न सम्भाव्यते एवेति भावः। तर्हि कथमिदानीं शूद्रतापसबधाय अयथा शङ्कसे ? इति शङ्कासन्दर्भार्थः। रामस्य गात्रत्वाथ् तव किमपि अकृतं नास्तीति सखेदोक्तिः इत्यवधेयम्। (अत्र करुणाभावं प्रति सीताविवासनपटुत्वस्य हेतुत्वोक्तेः पदार्थहेतुकं काव्यलिङ्गमलङ्कारः, अर्थापत्तिश्चेत्यनयोः सङ्करः। अपि चात्र ‘रामस्य गात्रमसि’ इति वचनमनुपयुक्तं सत् रामस्येत्यनेन स्वस्यात्यन्तनिष्करुणत्वं गर्भीकरोति। तच्च ‘दुर्वहगर्भखिन्नसीताविवासनपटोः’ इति वाक्यात् प्राचीनमतेन विध्यलङ्कारः। तथा च- ‘सिद्धस्यैव विधानं यत्तदाहुर्विध्यलङ्कृतिम्’ । यथा- ‘पञ्चमोदञ्चनेकाले कोकिलः कोकिलो भवेत्॥’ इति)। वसन्ततिलकं वृत्तम्॥१०॥
(अथ कथञ्चित् प्रहृत्य (ञ)) कृतं रामसदृशं कर्म; अपि जीवेत् स बाह्मणशिशुः ? (ट)सञ्जीवितः शिशुरयं ; मम चेयमृद्धिः।
(ञ) कथञ्चिदिति। - दयासमुद्रस्य रामभद्रस्य तदानीम् अनपराधस्य शम्बूकस्याधोमुखस्य ग्रीवायां कृपाणक्षेपणे सुमहत् कष्टमापतितं, सत्यप्येवं द्विजशिशोरुज्जीवनार्थमेवैतदध्यवसितं वेदितव्यम्। सत्यं हि भवति एवं सामान्यपुरुषस्य, का कथा कृपावतारस्य ? कथञ्चित्-दयार्द्रचित्ततया अतिकष्टनेत्यर्थः ;- ‘दूराह्वानं बधो युद्धम्‘इत्यादि वचनेन रङ्गमध्ये बधप्रदर्शननिषेधात् वा ‘कथञ्चित्‘इत्युक्तं कविना।
(ट) रामसदृशमिति। -अहं यादृशः क्रूरस्तादृशं क्रूरं कर्म कृतवानित्यर्थः, न तु पितुः सदृशमिति भावः। (पिता हि पुरा मृगयार्थं वनं प्रयातः भ्रमात् अन्धक-
मुनेः बा;स्य बधमकरित्, ‘पितुः शतगुणं पुत्रः‘इति न्यायाच्चाहं पितुः महनीयगुणसङ्घातं परिहृत्य दोषेषु एव वित्तः अभवमिति, रामस्य स्वोपालम्भः व्यज्यते, येन हि पुरा वराकी सीता अनायासेनैव विसृष्टा, तस्यातीव नृशंसस्य तपस्विनः शम्बूकस्य प्रतिघातनं समुचितमेव उभयोस्तुल्यरूपत्वादित्याशयः। एषा हि अरुन्तुदिक्तिः रामस्य)।
अपीत्यादि। -अपिरत्र अवधारणे। इदानीं स बालको निश्चितं जीवितवान् इति भावः। अथवा सम्भावनायाम् अपिः। तेन यदि न जीवति तदा वृथेदं हत्याकर्म इत्याशङ्कावचनमेतत्। पावकवचसा सीतायाः पवित्रत्वनिश्चय इव दैववाण्या शिशुजीवनस्य निश्चितत्वेऽपि मद्भाग्यात् विसदृशघटनसम्भवात् इति भावः।
दिव्यपुरुषः। (प्रविश्य)। (ठ) जयति जयति देवः। (ड)-
दत्ताभये त्वयि यमादपि दण्डधारे
सञ्जीवितः शिशुरयं ; मम चेयमृद्धिः।
(ठ) दिव्यपुरुष इति। -शम्बूकशरीरं विहाय देवत्वमधिगत्य स्वर्गीयवपुषा विराजमानः इत्यर्थः। भगवदवतारस्य रामभ्रस्य हस्तेन तादृशनिकारं सामुख्यञ्च अधिगतस्य शम्बूकस्य नश्वरपार्थिवशरीरनाशात् मनोहरदिव्यवपुषोऽवाप्तिः, न तु तपश्चर्ययेत्ववधेयम्।
(ड) देवः,-भगवान्, जयति-सर्वोत्कर्षेण वर्तताम्। (सर्वोत्कर्षवाचकस्य जयशब्दस्य अत्यादरं द्योतयितुं हर्षात् वीप्सायां द्विर्वचनम्)।
सत्यपि खस्य शिरश्छेदरूपनिकारे, तस्य तु द्विजशिशोः प्रत्युज्जीवनफलकत्वेन आत्मनश्चापि उत्कर्षाधायकत्वेन, भगवत्कृतनिधनमपि महोदर्कं भवतीति प्रतिपादयितुं शूद्रकस्यानपारधस्य भृषं दुःखितं रामभद्रं विजयनादेन प्रस्तौति, दत्तेति। यावत् कृतान्यादपि, दत्तम् अभयं येन तस्मिन् दत्ताबये (नारायणरूपत्वात् यमलोकादानीय ब्राह्मणशिशोः पुनरुज्जीवनात् यमादभयदातृत्वं सिद्धम्) यमशासितुः रावणस्य शासनात् वा, यमभयनिवारके इत्यर्थः, मृतस्य शिशोः सञ्जीवनात् मम चिद्धारात् त्वं यादपि परित्राणे क्षम इति वा भावः। कुतो यमादप्यभयप्रदत्वम् ? इति, तद्दर्शयति,-त्वयि, दण्डं धारयति शासनं विदधातीति (अण्, अच् वा, णिचो लिक्) तथोक्ते सति, मदीयशिरच्छेदरूपं शासनं कुर्वति सति, अयं शिशुर्ब्राह्मणपुत्रः सञ्जीवितः प्रत्यागतप्राणः, (दिव्यवपुर्लाभात् योगसन्निकर्षेण द्विजशिशोः प्रत्यक्षीकरणात् ‘अयम्‘इति प्रत्यक्षनिर्देश इत्यवधेयम् ; तदुक्तम्- ‘इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम्‘इति) मम च तपस्याकारिणः शूद्रस्य, परधर्मस्वीकारात् पापस्येत्यर्थः, इयम् ऋद्धिः समुन्नतिः दिव्यवपुःप्राप्तिः इत्यर्थः, (यस्मिन् एव काले भगवता अयं दण्डी विहितः,तदैव मृतबालकस्य मम चेदं दशान्तरं जातमिति भावविहितसप्तम्या सूच्यते)।
शम्बूक एष शिरसा चरणौ नतस्ते;
सत्सङ्गजानि निधनान्यपि तारयन्ति॥११॥
रामः। द्वयमपि प्रियं नः; तदनुभूयतामुग्रस्य तपसः परिपाकः। (ढ)- ननु कस्त्वम् ? इत्याशयेनाह, एषः इति। -एषः एवं देवत्वप्राप्तिहेतुकत्वादुपकृतत इत्यर्थः, शम्बूकौऽयं शितसा ते तव चरणौ नतः नमस्यति, (नमतेः वर्तमाने कर्तरि क्तः)। ननु नाहं ते उपकारी, प्रत्युत संहारकत्वादप्रकारक एव, तत् कुतः अप्रियकारिणि एवं विनयः क्रियते इत्यर्थान्तरन्यासेन विशदीकरोति, सदिति। -सत्सङ्गजानि साधुसंसर्गजातानि, निधनान्यपि मरणान्यपि, तारयन्ति संसाराब्धेरिति शेषः, उद्धारकारणानि भवन्तिइति सङ्क्षेपः,- ‘समुन्नयन् भूतिमनार्यसङ्गमात् वरं विरोधोऽपि समं महात्मभिः‘इत्यादिदर्शनात्। सत्पुरुषसंसर्गकृतं सर्वमेव कर्म हिताय भवतीत्यहो सत्संसर्गमाहात्म्याम् इति तु सन्दर्भतात्पर्यम्। (अत्र दण्डरूपात् कारणात् ‘कारणगुणा हि कार्यगुणमारभन्ते’ इति न्यायात्, तद्विरुद्धकार्योत्पत्तिरूपो विषमालङ्कारः, तस्य च द्वितीयार्धगतेन सामन्येन प्रथसार्धगतस्य विशेषार्थस्य सोपपत्तिकत्वकरणात् सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः, अनयोश्चाङ्गाङ्गिभावतया संस्थितेः सङ्करः)। वसन्ततिलकं वृत्तम्॥११॥
(ढ) द्वयमिति। -एकं द्विजपुत्रप्रत्युज्जीवनमपरञ्च तव दिव्यदेहावाप्तिरिति। यदि हि पुनः द्विजशिशोरुज्जीवनार्थमेव शम्बूकबधोद्यमात् तदुज्जीवनमेव मुख्यमासीत्, अन्यच्च गौणं, तथापि, शम्बूकस्य दिव्यदेहावाप्तिः भगवतः रामस्य निरतिशयानन्ददायिका अभूत्, परेषामभ्युदयदर्शनात् सतां साहजिकहर्षोदयदर्शनाच्च। उग्रस्य तपसः, अतीव दुष्करस्य तपश्चरणस्य, परिपाकः,- परिणामः फलसिद्धिः दिव्यवपुरधिगगतिरुपेत्यर्थः। नुभूयतां-भुज्यता, प्राप्यतामित्यर्थः।
यत्रानन्दाश्च; मोदाश्च; यत्र पुण्याश्च सम्पदः।
वैराजा नाम ते लोकास्तैजसाः सन्तु ते ध्रुवाः॥१२॥
भगवतः रामभद्रस्य हस्तात् शिरच्छेदरूपं दण्डमधिगतस्य तपस्यतः शूद्रकस्य किं फलमासीत् तदेव विवृणोति, यत्रेति। -यत्र येषु लोकेषु आनन्दाः, प्रियसन्दर्शनजानितानि सुखानि, ्मसाक्षात्काराज्जायमानाः दुःखासम्भिन्नाः हर्षा दिव्यविषयोपभोगजनितसः तृप्तयश्च, अपि च, यत्र पुण्याः पवित्राः अकल्मषा इत्यर्थः, सम्पदः, अणिमादिविभूतयः, ( ‘पुण्याभिसम्भवाः’ इति पाठे-पुण्यात् तपस्याद्युद्भूतात् सम्भवः उत्पत्तिः येषाम्। इति आनन्दादेः विशेषणम्)। विराजो ब्रह्मण इमे ते वैराजा नाम ते तैजसाः तेजोमया नित्यालोकसम्पन्ना इत्यर्थः, लोकाः ब्रह्मलोका इति यावत्, ते तव सम्बन्धे, ध्रुवाः सुचिरभोगाय सन्तु भवन्तु; एवम्भूतं ते तपसः फलमस्त्विति भावः। अनुष्टुप् वृत्तम्॥१२॥
शम्बूकः। युष्मत्पादप्रसादोपाय एष महिमा; किमत्र तपसः फलम्;अथवा महदुपकृतं तपसा; (ण)-
अन्वेषष्टव्यो यदसि भुवने भूतनाथः शरण्यो
मामन्विष्यन्निह वृषलकं योजनानां शतानि।
क्रान्ता प्राप्तः स इह तपसां सम्प्रसादोऽन्यथा चेत्
क्वाऽयोध्यायाः पुनरुपगमो दण्डकायां वने वः ?॥१३॥
(ण) युष्मत्पादेत्यादि। -युष्मत्पादानां भगवच्चरणानामित्यर्थः, यः प्रसादः अनुग्रहस्तस्मादुपायः आगमो यस्य ; यद्वा,-स एष उपायः प्राप्तिद्वारं कारणं वा यस्य तथोक्त एष महिमा माहात्म्या वैराजलोकप्राप्तिरूपं दिव्यदेहावाप्त्यादिरूपञ्च,- ‘धातुः प्रसादान्महिमानमीदृशम्‘इति श्रुतेः। अत्र-एतादृशसिद्धिलाभविषये, तपसः फलं किम् ? (काकूत्किः) न किञ्चिदित्यर्थः। इयमचिन्तनीया पुण्यलोकाविप्तिः तवानुग्रहादेव भूताः, न तु तपसः इति भावः। अथवेति। -पक्षान्तरे। तपस एवैतत् फलं, कुतः ? यद्देवदुर्लभेन भवत्साक्षात्कारस्य असम्भवात् इति भावः।
कियद्भि तपसा उपकृतं, तदेव सप्रश्रयं विशिष्य विवृणोति, अन्वेष्टव्य इति। -भुवने त्रिलोक्यां, भूतानां प्राणिनां नाथः पतिः, अत एव शरणे रक्षणे साधुः शरण्यःत्वं दुःखबहुलात् संसारात् निवृत्ततर्षैरपि नियतमाश्रयणीय इत्यर्थः। ( ‘शरणं रक्षणे गृहे’ ति वैजयन्ती)। भवान् एव अन्वेष्टव्यः सततं हि श्रवणमनननिदिध्यासनादिभिः योगिभिरपि नितरां साक्षात्कारणीयः असि भवसि, मानुषरूपेण साक्षान्नारायण एव भवानिति भावः। वैषलकं शूद्राधमम्, (कुत्सायां कन्, स्वधर्मं शुश्रूषारूपं विहाय स्तन्त्रतपश्चरणरूपस्यानुष्ठानात् वृषलकत्वेन निर्देशः)। मामन्विष्यन्-मृग्यन्, योजनायां शतानि, (दण्डकायोध्ययोः दूरत्वेयत्तानिर्णयसत्त्वेऽपि शतयोजनविप्रकर्षावस्थायित्वमनयोः कथं सङ्गच्छते ? इति तु न शङ्कनीयं, ‘पृथिव्यां तप्यते तपः’ ईदृशीमशरीरिणीं वाचमाकर्ण्य भगवतः शतयोजनमितायाः भुवः पर्यटनादिति ध्येयम्। ) क्रान्त्वा अतिक्रम्य, इह अस्मिन् प्रदेशे दण्डकायां, यत् प्राप्तोऽसि आगतोऽसि, स तपसां तपोनिमित्तक इत्यर्थः, सम्प्रसादः अनुग्रहः परिपाकः इति यावत्, अन्यथा चेत् तन्नो यदि स्यादित्यर्थः, वो युष्माकमन्वेष्टव्यानामित्यर्थः, अयोध्यायाः शतयोजनदूरवर्तिन्याः इति भावः, दण्डकायां वने दण्डकारण्ये पुनरुपगमः रावणादिवधानन्तरं पुनरागमनं क्व ? कुतः ? न सम्भवेदेवेत्यर्थः (विवक्षातः सार्वविभक्तिकः अच् प्रत्ययः क्वादेशश्च)। अत्यन्तासम्भवितमेतदित्यर्थः ; अतस्तपस एवैतत् फलं यदन्वेष्टव्योऽपि भवान् मदीयतपसैव इह प्राप्तः इति भावः। यद्यहं तपो नाचरिष्यं तदा कथमपि भवान् इयद्दूरवर्तिन्यां दण्डकायां नागमिष्यदिति तात्पर्यम्। (अत्र भगवति रामभद्रे एकस्मिन् वस्तुनि जगज्जनान्वेष्टव्यत्ववृषलकाऽन्वेषकत्वरूपविरुद्धधर्मयोः एकत्रात्यन्तमसम्भवतोः समावेशात्, विरूपयोः सङ्घटनारूपः विषमालङ्कारः ; अपि च वधार्थं भगवदागमनस्य वधोद्देश्यकस्य तपःफलभूततयाऽध्यवसितत्वात्, भेदेऽभेदाध्यवसानरूपाऽतिशयिक्तिः ; अपि च चतुर्थपादस्य पादत्रयवाक्याणां हेतुत्वेनाभिधानात् वाक्यार्थहेतुकं काव्यलिङ्गम्। इत्येषामङ्गाङ्गिभावात् सङ्करः)। मन्दाक्रान्ता वृत्तम्। लक्षणादिकन्तूक्तं प्राक्॥१३॥
रामः। किं नाम दण्डकेयम् ? (सर्वतोऽवलोक्य) आम् ; (त)-
स्निग्धश्यामाः क्वचिदपरतो भीषणाभोगरूक्षाः
स्थाने स्थाने मुखरककुभो झाङ्कृतैर्निर्झराणाम्।
एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः
सन्दृश्यन्ते परिचितभुवो दण्डकारण्यभागाः॥१४॥
(त) आमिति। -अनुभूतस्यापि अतिविस्मृतस्य द्रव्यस्य चिह्नदर्शनादिना यत् स्मरणं तत्प्रतिपादकमिदम् अव्ययम् ; निश्चयेऽपि, -( ‘आम् ज्ञाननिश्चयस्मृत्योः’ इतो उभयत्र मेदिनी)।
अथेदानीं पूर्वपरिचितां दण्डकारण्यभूभागसम्पदं विशिष्योपवर्णयितुमारभते, स्निग्धेति। -क्वचित् कुत्रचित् दिशि प्रदेशे वा, स्निग्धश्यामाः,-स्निग्धाः मसृणाः
नयनप्रीतिकराः सौम्यदर्शनतया इत्यर्थः, तथा श्यामाः श्यामवर्णाः कोमलतरुलतादिकिसलयानां सद्भावादित्यर्थः, अपरतः अन्यस्यां दिशि प्रदेशे वा भीषणो यः आभोगः पूर्णता, असीमविस्तार इति यावत्, तेन रूक्षाः अस्निग्धतया नयनक्लान्तिकराः, तरुलतिकादिभिः कैश्चिदपि सत्वैश्च विरहिततया प्रथमदर्शनेन नितरां तथा स्थाने स्थाने यत्र कुत्रचित्, निर्झराणां शैलाधःपतितानां वारिप्रवाहाणां ( ‘वारिप्रवाहो निर्झरो झरः’ इत्यमरः)। झाङ्कृतैः अव्यक्तशब्दविशेशैः मुखरककुभः मुखराः ध्वनिताः ककुभः दिशो यासु तथोक्ताः, ( ‘दिशस्तु ककुभः काष्ठाआशाश्च हरितश्च ताः’ इत्यमरः)। तीर्थेत्यादि। -तथा तीर्थानि ऋषिजुष्टजलादिसंयुक्तस्थानानि, तथा चोक्तम्,- ‘प्रभावादद्भुताद्भूमेः सलिलस्य च तेजसाम्। परिग्रहान्मुनीनाञ्च देशानां तीर्थता स्मृता॥‘इति। आश्रमाः मुनीनां निवासाः, गिरयः पर्वताः, सरितो नद्यः, गर्ताः कन्दर्यः, खातानि अवटाः वा, तथाहि- ‘धनुःसहस्राण्यष्टौ च गतिर्यासां न विद्यते। न ता नदीशब्दधारा गर्तस्ताः परिकीर्तिताः॥‘इति। ( ‘गर्त’ इत्यत्र ‘गर्भ’ इति क्वचित् पाठः, तदर्थस्तु ताः गर्भे अभ्यन्तरे येषां तथाविधाः) तैः परिशोभिता इत्यर्थः, ये कान्ताराः दुर्गमवर्त्मानि, ( ‘महारन्ये दुर्गपथे कान्तारः पुन्नपुंसकम्’ इत्यमरः) तैर्मिश्रा मिश्रोताः, युक्ता इति यावत्, परिचितभुवः, परिचितः अनुभूतपूर्वा भुवः स्थानानि येषां तथोक्ताः, एते सम्मुखस्था इत्यर्थः, दण्डकारण्यभागाः, दण्डकारण्यस्य भागाः अंशाः प्रदेशा इत्यर्थः, सन्दृश्यन्ते विलोक्यन्ते, मयेति शेषः। (अत्र स्वभावोक्त्यलङ्कारः। भयानको रसश्च, भीषणाभोगरूक्षाः भूभागाः आलम्बनविभावाः, मुखरककुभां घोरतरझाङ्कृतयश्चोद्दीपनविभावाः, गद्गदस्वरभाषणदिक्प्रेक्षणादयः अनुभावाः, आवेगमोहदैन्यादयश्च व्यभिचारिणः, एतैरभिव्यक्ता सहृदयमात्रसंवेद्या भीतिः भयानकरसतां भजते)। मन्दक्रान्तावृत्तम्॥१४॥
शम्बूकः। दण्डकैवेयम्; अत्र किल पूर्वं निवसता देवेन;-
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्।
त्रयश्च दूषणखरत्रिमूर्धानो रणे हताः॥१५॥
दण्डकायाः उद्वेजकानां घोररूपाणां रक्षसां विनाशात् अत्र जनस्थाने सर्वेषां स्वच्छन्दप्रचारः भगवता विहितः इत्यावेदयति चतुर्दशेति। -पुरा वनवासाऽवसरे (अत्र निवासता देवेन इत्यध्याहार्यम्) भीमसतीव क्रूरं कर्म प्राणिहिंसनरूपं येषां तथाविधानां, रक्षसां राक्षसानां, (सम्बन्धे षष्ठी) चतुर्दशसहस्राणि चतुर्दशगुणितानि सहस्राणि, तेषामधिनायकभूताः दूषणकरत्रिमूर्धानः इति त्रयश्च, रणे हताः विनाशिताः। (रामस्य शौर्यातिशयप्रकटनार्थं ‘रणे’ इति पदप्रयोगः। ) (समासान्तविधेरनित्यत्वात् ‘त्रिमूर्धानः’ इत्यत्र ‘द्वुत्राभ्यां षो मूर्ध्नः’ (५। ४। ११५ पा०)इति न समासान्तः षः। अत एवात्र न च्युतसंस्कारता दोषः इति केचित्। केचित् तु तमेव दोषं मत्वा कथयन्ति तदुद्धारप्रकारं,- ‘त्रयश्च दूषणखरत्रिमूर्धाः समरे हताः‘इति पाठं परिकल्प्य , यदि पुनः, ‘…………..त्रिमूर्धा, नः‘इति छेदः स्यात्, तदा नः अस्माकं, रणे भवत्कृतसमरे इत्यर्थः, इत्यभिप्रेत्य व्याख्यातवन्तः, एके तु ‘नो‘किम्? इति काक्वथयोजनया सिद्धान्तानुभवसगौरवप्रत्यभिज्ञापनं समाद्रियन्ते ; बदा न भवति प्रोक्तदोषस्पर्शः इति ध्येयम्)। पथ्यावक्त्रं वृतम्॥१५॥
येन सिद्धक्षेत्रेऽस्मिन् जनस्थाने मादृशानामपि भीरुजानपदानामकुतोभयः सञ्चारो जातः। (थ)
रामः। न केवलं दण्डकेयं; जनस्थानमपि (द)
(थ) येनेति। -येन-खरदूषणादिराक्षसनिधनेनेत्यर्थः। सिद्धानाम् अणिमादिसिद्धिमतां मुनीनां देवयोनिविशेषाणां वा ( ‘पिशाचो गुह्यकः सिद्धः भूतोऽमी देवयोनरः’ इत्यमरः)। क्षेत्रं स्थानं तस्मिन्। भिरुजानपदानां-भीरवो भयशीलाः ये जानपदाः जनपदवासिनः तेषाम्। ( ‘भीरुजनानाम्’ इत्यपि पाठः दृश्यते, तस्य तथैवार्थः) अकुतोभयः,-नास्ति कुतोऽपि कारणात् भयं यस्मिन् सः। ( ‘मयूरव्यंसकादयश्च (२। १। ७२पा०) इति निपातनात् समासः)।
(द) न केवलमित्यादि। -अस्ति हि विन्ध्यशैलपादाददूरस्थितायाः दण्डकायाः उपान्ते महारण्यं जनस्थानं, तत्र पुरा भगवान् सीतया सौमित्रिणा च सह साम्राज्योपभोगजं सुखमपि तृणाय मत्वा कियन्तं कालं निनाय, तत् सर्वमधुना स्मृतिपथमुदीयमानंसमिद्धाग्निशिखानिभं निर्वासितायाः सीतायाः स्मरणात् जीवजीवनपरिहाराच्च शुष्केन्धनप्रायं रवुमणेः चेतः निर्दहति स्म। एष हि सन्दर्भसारः। दण्डकायाः दर्शनस्य भृषं दुःखाकरत्वेन सा एव पुरा दुर्दशा आसीत्, इदानीन्तु हतदैवस्य मे कर्मविपर्यासात् ततोऽप्यधिकतरं दुःखस्थानमासादितम् इत्यपि शब्दार्थः। ( ‘दण्डकैव’ इति पाठे-एवशब्दोऽवधारणार्थकः)।
सम्बूकः। वाढम्। एतानि खलु सर्वभूतलोमहर्षणानि उन्मत्तचण्डश्वापदकुलसङ्कुलगिरिगह्वराणि जनस्थानपर्यन्तानि दीर्घारण्यानि दक्षिणां दिशमभिवर्तन्ते। (ध)
(ध) वाढमिति। स्वीकारसूचकमव्ययमेतत्। ( ‘ज्ञयोर्वाढम्’ इत्यमरः) ‘ओम् एवम्‘इत्यादिवत्। सर्वभूतेत्यादि। सर्वेषां भूतानां प्राणिनां लोमानि हर्षयन्तीति लोमहर्षणानि, येषु दृष्टेषु प्रभूतेन भयेनाभिभ्रतानां सर्वेषामेव जीवानां रोमाञ्चो जायते इति भावः, भीतिप्रदानि इत्यर्थः। उन्मत्तेत्यादि। - उन्मत्तानां क्षिप्तानाम् अत्र एव चण्डानामतिकोपनानां श्वापदानां (शुनः पदानीव पदानि येषां तथाभूतानाम्) हिंस्रपशूनां कुलानि सजातीयसमूहाः तैः सङ्कुला आकीर्णाः, ( ‘सङ्कीर्णः सङ्कुलाकीर्णे’ इत्यमरः) गिरिगह्वरा येषां तानि तथोक्तानि। जनस्थानेत्यादि। -जनस्थानं पर्यन्तः सीमा येषु तानि तथोक्तानि, जनस्थानस्य सीमारूपतया अवस्थितानीत्यर्थः। दीर्घारण्यानि-अत्यायतानि महावनानि। दक्षिणां दिशमभिवर्तन्ते-अवाचीं दिशं व्याप्य तिष्ठन्तीत्यर्थः, दक्षिणदिग्विलम्बितत्वात् तेषामतीव दीर्घत्वमिति भावः।
तथाहि -निष्कूजस्तिमिताः क्वचित् क्वचिदपि प्रोच्चण्डसत्त्वस्वनाः;
स्वेच्छासुप्तसुगभीरभोगभुजगश्वासप्रदीप्तग्नयः।
सीमानः प्रदरोदरेषु विलसत्स्वल्पाम्भसो यास्वयं
तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते॥१६॥
अथेदानीं जनस्थानस्य गम्भीरत्वं भीष्मत्वञ्च प्रतिपादयितुं तत्स्थानतरुकोटरश्यानां कलकलप्रियाणां विहगानामपि हिंस्रकेभ्यः भयात् निःशब्दावस्थानं परिभ्रमणप्रियाणां सञ्चारवर्जनञ्च सूचयति, निष्कूजेति। -क्वचित् कुत्रचित् प्रदेशे जनस्थानस्येत्यर्थः, निष्कूजं कूजनस्याभावः (नञर्थेऽव्ययीभावः) तेन स्तिमिताः निश्चलाः, हिंस्रकाणां भयात् स्वभावसुलभं कलकलमपि विमुच्य यत्र तिर्यञ्चः मूकाः सन्तः नियतमासते, का कथा अन्येषामित्यर्थः ; यद्वा-निः नास्ति कूजः कूजनम् अव्यक्तमधुरध्वनिः येषां तथाभूताः, अत एव स्तिमिताः निश्चलाः हिंस्रकसञ्चारदर्शनादिति भावः, (इति विशेषणसमासः। एतेन सिंहव्याघ्रादिश्वापदसञ्चारो ध्वन्यते)। क्वचिदपि, प्रोच्चण्डा आमिषालाभात् रौद्रतराः सत्त्वानां सिंहव्याघ्रप्रमुखाणां श्वापदानां स्वनाः शब्दा यासु तास्तथोक्ताः, श्वापदघोरगर्जनैः प्रतिध्वनिताः इत्यर्थः। क्वचिच्च स्वेच्छया सुप्तस्तथा गभीरा अपरिमेया भोगाः शरीराणि येषां ते तथोक्ताः ( ‘भोगः सुखे धने चाहेः शरीरफण्योरपि’ इति विश्वः) ( ‘भोग’ इत्यत्र क्वचित् ‘घोर‘इति पाठः- तदर्थस्तुसुगमः।
क्वचिच्च ‘घोष‘इति पाठः दृश्यते। तत्र-गभीरः घोषः शब्दो येषां ते इति भूजगविशेषणम् ) ये भुजगा अजगराः, तेषां श्वासैर्विषमयैरित्यर्थः, प्रदीप्ताः प्रज्वलिता अग्नयो दावानलाः यासु तासगतथोक्ताः ; यत्र हि तथेच्छं प्रगाढं निद्रितानां भिषणवपुषाम् अजगरव्यालानां गभीरघोषाः श्वासमारुताः कुत्रचित् पादपसङ्घर्षजनितानां दावानलानां समेधकाः भवन्ति। तथा प्रदराणां गर्तानां भूविदाराणां ( ‘फाट’ इति भाषा) विदीर्णभूखण्डानामित्यर्थः, ( ‘प्रदरो रोगभेदे स्यात् विदारे शरभङ्गयोः’ इति मेदिनी, ‘प्रदरं स्रतीरुजो भेदे प्रदरः श्वभ्रभितयोः‘इति च विश्वः) उदरेषु मध्येषु विलसत् सुशीतलतया स्च्छतया च शोभमानं, दुष्प्रापतया च स्वल्पमम्भो जलं यासु ताः, तथोक्ताः सीमानो भागा इत्यर्थः, विद्यन्ते इति शेषः (एतेन भुवः प्रचण्डातपतापशुष्कत्वं व्यज्यते) यासु सीमासु दण्डकारण्योपान्तभूमिषु इत्यर्थः, तृष्यद्भिः आतपोल्लङ्घनात् बलवदस्वस्थतया तृषाऽऽर्तैः, सुपेयसलिलपूर्णकूपाद्यभावादित्यर्थः, तत्तत्स्थलेषु जलानां सुदूरकूपतलस्थितत्वेन तेषां तत्र पानासम्भवादित्याशयः। प्रतिसूर्यकैः ककृकलासैः ( ‘सरटः कृकलासः स्यात् प्रतिसूर्यशयानकौ’ इति हलायुधः) अजगराणाम् आतपोत्तापजक्लेशोपशमाय शीतलपादपतलेषु ढं प्रसुप्तानां व्यालविशेषाणां पूर्वोक्तानां बृहत्सर्पाणमित्यर्थः, स्वेदद्रवः घर्मवारि, (स्वेदस्तु स्वेदने घर्मे’ इति मेदिणी) पीयते। यस्यां हि जनस्थानसीमाशायिन्यामरण्यान्यां क्वचिदविरतं चङ्क्रम्यमाणानां श्वापदकुलानां भीष्मगर्जनमाकर्ण्य भयात् विहगाः तूष्णीम्भूय स्थिताः, नराश्च निशब्दपदसञ्चारं क्रमन्ते, अत एव निःशब्दगम्भीराः वनभूमयः दृश्यन्ते। क्वचिच्च क्षुत्पीडिताः सिंहशार्दूलादयः मृषं गर्जन्तः क्रमं बध्नन्ति, अत एव कोलाहलमुखरिताः, कुत्रचिच्च प्रसुप्ताः दन्दशूकाः घोरं निश्वसन्तः घर्मातिशयात् शाखिसङ्घर्षोद्भूतं दावानलं समेधयन्ति, प्रचुरजलाशयादभावात्तृष्यन्तश्च सरटाः तृषावेगं विसोढुमशक्नुवानाः अजगरस्वेदद्रवं निपीय कथञ्चित् तृषां वारयन्ति, इत्यतो रौद्रत्वं वनस्थल्या इति तात्पर्यम्। (अत्र महारण्यस्य यथायथोपवर्णनात् स्वभावोक्त्यलङ्कारः, अपि चात्र, बीभत्सो रसः भयानकरसस्याङ्गभूततयोपवर्णितः, इति रसवदलङ्कारः। तथाहि,- ‘रसभावौ तदाभासौ भावस्य प्रशमस्तथा। गुणीभूतत्वमायान्ति यदालङ्कृतयस्तदा। रसवत् प्रेय ऊर्जस्वि समाहितमितो क्रमात्॥’ इति दर्पणे। तथा चाङ्गिनः भयानकरसस्य आलम्बनविभावाः प्रोच्चण्डसत्त्वाः अजगराश्च,
तेषाञ्चोद्दामविचेष्टनानि घोरतरनिश्वासाश्चोद्दीपनविभावाः, नरविहगादीनां रोमाञ्चोत्कम्पकूजितादयश्चानुभावाः, ते ते त्रासदैन्यशङ्कादयश्च व्यभिचारिणो भावाः, एवमेतैः व्यज्यमानाः भीतिः भयानकरसतामेति ; अपि चाङ्गभूतस्य बीभत्सस्य आलम्बनविभावाः अजगरस्वेदद्रवादयः, तत्र च दौर्गन्ध्यक्रिम्यादयश्चोद्दीपनविभावाः, सुसुखं तद्रसपानादयश्चानुभावाः तैः ; मोहावेगादिभिश्च व्यभिचारिभावैः परिपुष्टा जुगुप्सा बीभत्सरसतामादत्ते इति ध्येयम्। अत्र निम्नार्थशक्तस्य गभीरशब्दस्यापरिमेयाद्यर्थे वाचकत्वाभावात् रूढिप्रयोजनादिभावेन लक्षणया तदर्थप्रतीतेः नेयार्थत्वदोषः, विशालेत्यादितदर्थवाचकशब्देन परिहरणीयः )। शार्दूलविक्रीडितं वृत्तम्॥१६॥
रामः। पश्यामि च जनस्थानं भूतपूर्वखरालयम्।
प्रत्यक्षानिव वृत्तान्तान् पूर्वाननुभवामि च॥१७॥
(सर्वतोऽवलोक्य) सर्वथा प्रियारामा हि वैदेही आसीत्; एतानि तानि नाम कान्ताराणि; किमतः परं भयानकं स्यात् (न)। - अथ जनस्थानस्थितानां द्रव्यनिचयानां परिचयात् अनावेदितमपि अनन्यसाधारणतया तदेतदिति प्रत्यभिज्ञापयति इत्यभिप्रेत्याह, पश्यामि इति। -पूर्वं भूतः, (सुप्सुपेति समासः) , यद्वा-पूर्वस्मिन् काले भूतः (राजदन्तादिवत्वात् परनिपातः) खरस्यराक्षसविशेषस्य आलयो यस्मिन् तथाविधं, जनस्थानं पश्यामि, अरण्यान्याश्चैतस्या अधुनाऽपि एतादृगेव भीमाकारकत्वं यत् तेषां रसक्षसकण्टकानां समूलमुन्मूलनेऽपि सर्वथैव तथाविधं भीत्यावहत्वं नापसरतीति भावः। अतः पूरर्वसन् पूर्वकालिकान्, वृत्तान्तान् उदन्तान्, प्रत्यक्षानिव अक्षमिन्द्रियम्प्रतिगताः प्रत्यक्षाः (गतिसमासः) तानिव साक्षादृश्यमानानिवेत्यर्थः, अनुभवामि प्रतीतिपथं पातयामि, साक्षात्करोमीति समुदितार्थः, (तेषां तेषामतीतविषयाणामिदानीं समुद्बोधकवशात् तत्सजातीयवस्तुसन्दर्शनाच्च स्मृत्युदयात् प्रत्यक्षदृश्यमानत्वमित्युत्प्रेक्षा तथा क्रिययोः एकस्मिन् कर्तरि रामेऽन्वयात् दीपकालङ्कारः, अपि च भूतविषयाणां प्रत्यक्षायमाणत्वेन निर्देशात् भाविकालङ्कारध्वनिः, एताभ्यां सङ्कीर्येते। - ‘अप्रस्तुतप्रस्तुतयोः दीपकन्तु निगद्यते। अथ कारकमेकं स्यादनेकासु क्रियासु चेत्॥’ इति साहित्यदर्पणे )। पथ्यावक्त्रं वृत्तम्॥१७॥
त्वया सह निवत्स्यामि वनेषु मधुगन्धिषु।
इति हा रमते सीता स्नेहस्तस्याः स तादृशः॥१८॥
(न) सर्वथेत्यादि। - सर्वैरेव प्रकारैः, स्वच्छन्दानुवर्तनं विनैव आत्मनः तत्तत् दर्शनोत्सुक्यातिशयसत्त्वादित्यर्थः। प्रियारामेति। आ विशेषेण रम्यते अस्मिन् इत्याराम उपवनम् (आरमतेः घञि रूपम्) प्रियः आरामो यस्याः सा तथोक्ता वनदर्शनोत्सुका इत्यर्थः। पक्षान्तरे-आरामप्रिया, (बहुव्रीहौ प्रियशब्दस्य पाक्षिकपरनिपातदर्शनादिति ध्येयम्)। ( ‘आरामः स्यादुपवनं कृत्तिमं वनमेव यत्’ इत्यमरः) ; अत्र लक्षणतया वनमात्रपरत्वमवधेयम्। यद्वा,-प्रियः आरामः (भावे घञ्) आरमणं यस्याः तथाविधा। एतानि तानि-तया सीतया सह मया प्रीत्या अनुभूतपूर्वाणि, सा हि मे महारण्यवासप्रियसखी आसीदित्याशयः। कान्ताराणि महाऽरण्यानि, ( ‘कान्तारोऽस्त्री महारण्ये विले दुर्गमवर्त्मनि’ इति मेदिनी)। अतः परम्-एभ्यः अधिकं, किं-वस्तु, भयानकं द्स्यात् ?-दुःसहदुःखावहत्वादित्यर्थः सीताविरहितया जनस्थानप्रवेशस्य नितरामेव मर्मस्पृक्त्वमत एव सीतां विना अद्य सकलमेव भीषणं दुःखास्पदमिति भावः। यासु यासु हि वनस्थलीषु पुरा सीतया लक्ष्मणेन च सहाऽहमल्कशं महामोदेन च सार्धमनिशं बम्भ्रमितवान्, कथमिदानीं तद्विनाकृतः असहायः सन् तासु तासु भ्रमिष्यामीति महादुःखकरमेतदिति तात्पर्यम्।
तदीयामकल्मषामप्रार्थितोपनतां प्रत्यर्पणशालेशनिर्मुक्ताञ्च प्रीतिं प्रदर्शयितुं स्वसहवासप्रणयित्वं प्रस्तौति, त्वयेति। -अहं त्वया सह मधुगन्धिषु (मधुनः गन्धः लेशः येषु ईषन्मधुगन्धविशिष्टेषु त्यर्थः ( ‘गन्धो गन्धकः आमोदे लेशे सम्बन्धगर्वयीः’ इति विश्वोक्तेः) ‘अल्पाख्यानम्’ (५। ४। १३६पा०) इति इदन्ताऽऽदेशः। ‘प्रचुरमधुविशिष्टार्थत्वें‘तु मधूनः पुष्परसस्य बहुलगन्धः एषु, इति मत्वर्थीय इनिः ‘भूमिनिन्दाप्रशंसासु‘इत्युक्तेः) विविधवनप्रसूनसुशोभितनेषु निवत्स्यामि अवस्थास्ये, न मे राज्यादिसुखेषु प्रयोजनमिति भावः, इति सचिन्तं सौत्सुक्यञ्च उक्तेत्यर्थः, न मे राज्यादिसुखेषु प्रयोजनमिति भावः, ति सचिन्तं सौत्सुक्यञ्च उक्तेत्यर्थः, हा शोकावेगसूचकध्वनौ, सीता रमते सततम् आनन्दं प्रकाशितवती, दोहददशायान्तु सुतरामेवेत्यर्थः। (कारणस्य कार्याव्यवहितपूर्वसत्वस्यापेक्षितत्वात् रामसहकृतवनवासानन्तरमेव कार्यभूतसीतारमणं युक्तम्, अत्र तु तथाविधपौर्वापर्यविपर्ययदर्शनात् कार्यहेत्वोः पौर्वापर्यात्ययरूपातिशयोक्त्यलङ्कारः चिन्तनीयः। अत्र क्वचित् ‘इति वारमतीवासौ’ एवं पठ्यते ; तदर्थस्तु पूर्ववत्, परं ‘व्याङ्परिभ्यो रमः’ (१। ३। ८३ पा०) इति परस्मैपदम्। ‘इति हारमतैवासौ’ पाते तु- ‘ह’ शब्दयोगात् ‘हशश्चतोर्लङ् च ‘(३। २। ११६ पा०) इति लङ् विशेषस्त्वेवम्। ) तदनुरागस्याकृत्रिमत्वमनुपमत्वञ्च व्यक्तीकरोति स्नेह इति। -तस्याः
स स्नेहः मयि अहिता निरतिशया अनन्यसाधारणी च प्रीतिसादृशः तथैव आसीत् इति शेषः। मदेकमुखा सीता आसीदितिभावः। यद्वा, स तु तादृशः, स इव आसीत्, तस्य सदृशं किमपि इह जगति नास्तीति तात्पर्यम्। तत्सदृशस्य वस्त्वन्तरस्यासत्वात् कैरपि सुभगैः पुरा तज्जातीयसुखस्यानास्वादितत्वादित्याशयः। ( ‘हृदयन्त्वेव जानाति प्रीतियोगं परस्परम्’ इत्यादि वक्ष्यमाणवचसा तस्य परिच्छेदातीतत्वं गम्यते। अत्र सीतास्नेहस्यैकस्यैव वस्तुनः उपमानोपमेयत्वपरिकल्पनात् अनन्वयालङ्कारः ; ‘उपमानोपमेयत्वमेकस्यैव त्वनन्वयः‘इति साहित्यदर्पणात् ; तेन च सीतास्नेहस्यालौकित्वमसाधारणत्वञ्च व्यज्यते, इत्यलङ्कारेण वस्तुध्वनिरिति ध्येयम्। अपि चात्र कारणभूतस्य सीतायास्तादृशस्नेहस्य तथाविधवनवासरमणादिकार्यं प्रति समर्थकत्वेनोपन्यासात्, कारणेन कैर्यसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः, एतयोः अन्योऽन्यनैरपेक्ष्येणैकत्रावस्थानात् संसृष्टिः वेदितव्या)॥१८॥
अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत् तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥१९॥
कथं हि सा धीरा जानकी तथाविधेषु मधुगन्धिषु वनेषु अभीक्ष्णं दोहदवती आसीत् ? कथं वा किञ्चिदपि अकुर्वाणे, प्रत्युताविषह्यदुःखदायके अतीवदारुणनिष्कृपे त्वयि इत्थं प्रणयिनी आसीत् ? इत्याक्षेपे, तस्याः मुग्धायाः ओतुकस्नेहवत्वं, दर्शनमात्रादेवामीषां, तस्याः व्यलीकशतापहरणात् तेषु तेषु मयि च अकपटनिरतिशयस्नेहवत्वमित्यभिधाति, अकिञ्चिदिति। -अकिञ्चिदपि कुर्वाणः किमपि प्रीतिकरं कर्म अकुर्वन्नपि प्रियो जनः इति शेषः, (यद्यप्यत्र क्रियया सह नञः साक्षादन्वितत्वेन प्रसज्यप्रतिषेधत्वात्, तेन नञा सार्धं तत्पुरुषसमासः अयुक्तः, पर्युदासेनेव तत्समाशस्येष्टत्वादिति मन्यते, तथापि, कुत्रचित्, अश्राद्धभोजी असूर्यम्पश्या अपुनर्ज्ञयाः शलि=्लका इत्यादिवत् स्थलविशेषेषु तस्य पर्युदासत्वमङ्गीकृत्य तेन साकं समासोऽपि अङ्गीकृत आचार्यैरिति ; तथाहि, यथा अश्राद्धभोजी इत्यत्र भोजनरूपक्रियया सञोऽन्वयमस्वीकृत्य कर्तरि णिनेः प्रयोगात् कर्त्रंशेनैवान्वयोऽभिमततया स्वीकृतः, तथा च न प्रोक्तदोषावकाशः ; तद्वदिहापि अकिञ्चिदपि कर्वाणः इत्यत्र कर्तरि अपिकरोतेः शानज्विधानदर्शनात् तत् कर्तरि एव तदन्वयलाभात् तस्य किञ्चिदुपकृति कर्तुः भिन्नात् जनात् इत्यर्थपरत्वेन तत्र न कापि समासान••ेत्तिः न वा अविमृष्टविधेयांशदोषावकाशः इति केचित्। नात्र अभवन्मरसम्बन्धदोषस्य अवसरः, तस्य हि सर्ववाक्यार्थगतत्वेन प्रायशः सम्भवात् तत्सत्वे तु सर्ववाक्यार्थस्य झटिति बोधानुदयात्
विधेयाविमर्शदोषसत्त्वदशायान्तु यदेवाविसृष्टं भवति तस्यैव दुष्टत्वात्, अत्र तु नञः विशेषणत्वेनान्विततया गुणीभावात् अविसृष्टविधेयांशरूपत्वमेव, तदुद्धारोपायस्तु प्रदर्शित इति स्मृतम्)। सौख्यैः सुखसमूहैः दर्शनस्पर्शनसम्भाषणमात्रात्समापतितैरित्यर्थः, दुःखानि शरीरिभिरपरिहार्यान् शोकसन्तानान् अपोहति, नाशयति। प्रियजनानामेवं हि सम्मोहिका अन्तर्निगूढा प्रीतिरासाद्यते, यत् तैः कदाऽपि किमपि अकुर्वद्भिरपि नेत्रमोहनैः तदीयप्रीतिदर्शनैः प्रियजनाः नितराम् अनुरज्यन्ति इत्याशयः।
शम्बूकः। तदलमेभिर्दुरासदैह। अथैतानि मदकलमयूरकण्ठकोमलच्छविभिः अवकीर्णानि पर्वतैः अविरलनिविष्टनीलबहुलच्छाय-तरुण-तरुषण्ड-मण्डितानि असम्भ्रान्तविविधमृगयूथानि पश्यतु महानुभावः प्रशान्तगम्भीराणि मध्यमारण्यकानि (प)। -
एतदेव विशदीकृत्य उपपादयति, तदिति। -यो हि यस्य प्रियो वल्लभो जनः भवतीत्यर्थः, तत् तथाभूतः स्निग्धः जनः (विधेयप्राधान्यात् क्लीबत्वम्) तस्य अपोहनीयदुःखवतः नितरां प्रेमवतः जनस्य इत्यर्थः, किमपि द्रव्यं कश्चिदनिर्वचनीयः पदार्थः भवति, कथम्भूतः भवतीति वचसा विवेचयितुं नशक्यते इत्यभिप्रायः। सान्निध्यमात्रेणैवालौकिकसुखसम्भवात् प्रियजनस्य किञ्चित्कारलेशशून्यस्यापि मे द्दुःखनिवर्तकसन्निधिमात्रमेत्य वराकी जानकी वनवासजनितासीमदुःखसन्ततिं कदापि कथमपि मनसि नाजीगणत्, अवाक्प्रसरमखिलं विषेहे इति तु तात्पर्यम्। अतः निखिलविपत्पातहेतुः तस्याः मया सार्धं कान्तारागमनदोहदमपि तद्धृदिस्थम तस्यांं युक्तमेवेति सन्दर्भसङ्क्षेपः। (अत्राप्रस्तुतात् प्रियसामान्यात् प्रस्तुतस्य सीतारूपप्रीतिकरस्य वस्तुनः प्रतीतेः अप्रस्तुतप्रशंसालङ्कारः। अपि चात्र कारणभूतस्य अनिर्वचनीयद्रव्यभूतस्य प्रियवस्तुनः, तद्दर्शनसमुत्थसुखप्रवाहेण दुःखसमूहनाशरूपस्य कार्यस्य समर्थकत्वेनोपन्यासात् कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः, एतयोः परस्परसापेक्ष्येण संस्थितेः सङ्करः)॥१९॥
(प) अथ रामस्य अभावनीयामुत्कण्ठमालोक्य सा च दण्डकारण्योपान्तस्थगम्भीरारण्यस्य कठोरतासन्दर्शनजनितेति बुद्धापुनस्तदुपशमार्थङ्कठोरतां परित्यज्य जनस्थानसमध्यमारण्यस्य स्निग्धत्वं वर्ण्यते, तदिति। तत् -तस्मात्, एभिः,-दुःखमासाद्यते एभिरित दुरासैर्दुःखोत्पादकैर्जीवानामातपक्लान्त्यादिसूचकैर्वनविवरणैरित्यर्थः भीषणतया दुष्प्रेक्षणीयैरिति यावत्, अलं-प्रयोजनं नास्ति। (व्यर्थकालमव्ययशब्दयोगात् तृतीया, समर्थार्थकतद्योगे तु चतुर्थी भवति) ( ‘अलं भूषणपर्याप्तिशक्तिवारणवाचकम्’ इत्यमरः)। अथ पुनर्वाक्यारम्भे। पश्यतु महानुभावः एतानि प्रशान्तगम्भीराणि मध्यमारण्यानि। प्रशान्तत्वं गम्भीरत्वञ्च ख्यापयति, मेदिति। - मदेन हर्षातिरेकेण कलाः येषाम् अव्यक्तमधुरं केकारवं कुर्वन्तः इति यावत्, ये मयूरास्तेषां परमानन्दप्रफुल्लानामित्यर्थः ये कण्ठास्तद्वत् कोमला पेशलतया मनोमुग्धकारिणी इति यावत्, छविः कान्तिर्येषां तैस्तथोक्तैः पर्वतैः अभ्यन्तरारन्यावच्छेदेन सुभगैः (पर्यन्तैः इति पाठे-पर्यन्तैः परिसरैः मध्यमारण्यस्येति शेषः)। जनस्थानोपान्तवनस्य अतीव भयावहत्वेऽपि दूरत एव परमरमणीयतया तस्याभासमानत्वात् इयमुक्तिः, मध्यमारण्यस्यैव आरण्यकेः रमणीयविविधविहङ्गमैश्चाध्युषितत्वात् सुषमातिसयवत्वं वेदितव्यम्। अवकीर्णानि-सङ्कुलानि। अविरलेत्यादि। -तथा अविरलं निविडं यथा तथा निविष्टाः स्थिताः अत एव नीलेन बहुला गाढश्यामाः छायाः येषां तैः ; एवम्भूता तरुणाः नवीनाः समधिकवीर्यादिवत्वात् मनोहराः तरवः पादपाः तेषां षण्डानि समूहाः ( ‘षण्डं पद्मादिसङ्घाते न स्त्री स्यात् गोपतौ पुमान् ‘इति मेदिनी। ‘पद्मादि’ इत्यादिशब्दात् वैक्षादेः परिग्रहः) तैर्मण्डितानि भूषितानि, तथा असम्भ्रान्तानि भयादिरहितत्वात् स्वच्छन्दचराणि विविधानां मरगाणां पशुनां यूथानि येषु तानि तथोक्तानि। प्रशान्तगम्भीराणि-प्रशान्तानि हिंसरकसङ्घातसञ्चारणाद्यभावात् अनुद्वेगकराणि, गमदभीराणि विशालतरुषण्डमण्डितत्वात् सुविस्तृतत्वाच्च तरसा विस्मयसम्भ्रमकारिणि, मध्यमारण्यकानि-जनस्थानस्य मध्यभूमुभागस्थितानि विस्मयकानि विस्तृतविपिनानि, तदभ्यर्णोपान्तारण्यमेव नितरां भीषयते हिंस्रकपरिपूर्णत्वात्, तस्य तु तथात्वाभावात् सौम्यदर्शनत्वं वेदितव्यम्।
इह समदशकुन्ताक्रान्तवानीरवीरुत्-
प्रसवसुरभिशीतस्वच्छतोया वहन्ति।
फलभर-परिणाम-श्याम-जम्बीनिकुञ्च-
स्खलन-मुखर-भूरि-स्रोतसो निर्झरिण्यः॥२०॥
अथ विषादमलीमसं राघवस्य मानसं प्रीणयितुमाह, इहेति। -इह अस्मिन् मध्यमारण्यभूमिभागे, समदैः यौवनोद्दामजनितमदातिरेकात् सततपुलकितैः शकुन्तैः विहङ्गमैः आक्रान्ताः अध्युषिताः अत एवानारतं व्याधूताश्चेति भावः, या वानीरवीरुधः वेतसलतिकाः तासां प्रसवैः मनोहरप्रसूनैः सपदि शकुन्ताक्रमणात् अनारतमेव वृन्तच्युतैः इत्यर्थः, सुरभीणि सुरभीकृतानि शीतानि शीतलानि स्वच्छानि निर्मलानि तोयानि सलिललानि यासां तथाविधाः। तथा फलभराणां फलसमूहानां परिणामात् परिपाकाद्धेतोः श्यामाःश्यामवर्णाः, यद्वा फलभरेण स्तवकपूर्णप्रसवभारावनम्रतया इति भावः, परिणामाः परिणामवन्तः ईषदवनताः अत एव वेपमानाश्चेत्यर्थः, ये श्यामजम्बीनिकुञ्जाः श्यामायमानजम्बूलतिकापिहितोदराः गर्भगृहाः इति यावत् ; येभ्यः स्खलनेन पतनेन मुखराणि शब्दायमानानि भूरीणि स्रोतांसि बहवः प्रभावा यासां तास्तथोक्ताः, निर्झरिण्यो गिरिणद्यो वहन्ति गच्छन्ति। फलानां परिणामः कुञ्चानां श्यामत्वे फलानां पतने च हेतुः। (अत्र स्वभाविक्त्यलङ्कारः)। मालिनी वृत्तम्॥२०॥
अपि च। - दधति कुहरभाजामत्र भल्लूकयूनाम्
अनुरसितगुरूणि स्त्यानमम्बूकतानि।
शिशिरकटुकषायः स्त्यायते शल्लकीनाम्
इभदलितवीकिर्णग्रन्थिनिष्यन्दगन्धः॥२१॥
कुत्रचिच्चैतस्य मध्यमारण्यस्य हिंस्रकभूयिष्ठतया तद्गतप्रतिध्वानैः भिष्मतां, वन्यकिञ्जरोपसेविततया च मनुजानां स्वच्छन्दसञ्चारराहित्यं स्थाण्ववशेषपादपानाञ्च निर्यासगन्धैः मृदुमधुरामोदकारित्वञ्चोपवर्णयितुं प्रस्तौति, दधतीति। -अत्र मध्यमारण्यकोपान्तभूविभागेषु कुहरभाजां गिरिगह्वरस्थितानां भल्लूकयूनां तरुणभल्लूकानाम्, अनुरसितेन गर्जनाव्यवहितोत्तरं जायमानेन प्रतिध्वनिना गुरुणिप्रतिशब्ददीर्घाणि अम्बूकृतानां सनिष्ठीवध्वनयः, (अम्बूकृतं सनिष्ठीवम्’ इत्यमरः)। स्त्यानं वृद्धि दधति। ( ‘स्त्यानं स्निग्धे प्रतिध्वाने घनत्वालस्ययोरपि’ ति विश्वः)। भल्लूका हि शौर्यादिवशात् ज्वरादिकाले वा स्वभावत एव निष्ठीवनसहितं ध्वनिं कुर्वन्ति। स तु ध्वनिः अनुरणसंहायकमेत्य वृद्धि गत्वा नितरां पथिकमनांसि भीषयते इति भावः। अपरतश्च मध्यमारण्यकस्य जगयूथसञ्चारभयावहत्वञ्चोपपादयति, शिशिरेत्यादि। -तथा शल्लकीनां रजभक्ष्यलताविशेषाणां ( ‘गन्धिनी रजभक्ष्या तु सुवहा सुरभी रसा। महेरुणा कन्दुरुकी शल्लकी हादिनीति च‘इत्यमरः)। शिशिरः शीतलः कटुस्तीव्रः कषायः कषायरसोद्गारी सुरभिश्च, ( ‘कटुतिक्तकषायास्तु सौरभे च प्रकीर्तिताः’ इति हलायुधः)। इभैर्हस्तिभिर्मदस्राविभिरित्यर्थः, ( ‘दन्ती’ इत्याद्यारभ्य ‘दम्भः परितो विक्षिप्ताश्च ये ग्रन्थयः पर्वाणि तेषां निष्यन्दस्य निस्रवस्य रसक्षरणस्येत्यर्थः, गन्धः स्त्यायते वर्ध्यते। इभमदगन्धैर्मिश्रितः सन् द्विगिणीभूय परितः प्रसरतीति भावः। एतदपि रामस्य सीतावियोगविधुराशयस्य मनःप्रसादनार्थं वर्णितः। विस्मायकवस्तुवर्णनाश्रवणसमकालं हि प्रायशः मानसी व्यथा कियञ्चोपशाम्यतीति प्रसिद्धिः। (अत्रोऽपि स्वभाविक्त्यलङ्कारः)। मालिनी वैत्तम्॥२१॥
रामः। (सबाष्पस्तम्भम्) भद्र शिवास्ते पन्थानो देवयानं प्रतिपद्यस्व पुण्येभ्यो लोकेभ्यः। (फ)
शम्बूकः। यावत् पुराणब्रह्मवादिनमगस्त्यमृषिमभिवाद्य शाश्वतं पदमनुप्रविशामि। (ब)
(इति निष्क्रान्तः)
(फ) सबाष्पस्तम्भमिति। -बाष्पाणामश्रूणां सीतावियोगजनितनामित्यर्थः, स्तम्भः स्तम्भनं कथञ्चित् प्रियजसंलापजनितेन हर्षेण उपशमीकरणं तेन सह वर्तमानं यथा तथा। रामस्य तु सीताविरहशोकावेगः तत्तद्दृष्टवन्यवस्तुसन्दर्शनात् एभिरपि शम्बूकवचनैर्न उपशमितः, अपि एकाग्रतया वर्धित एवेति स कथञ्चिद्बाष्पं स्तम्भयित्वा सम्बूक विसृजति, शिवा इति। -ते तव पन्थानः शिवाः सुखजनकाः सन्त्वितिशेषः, पुण्येभ्यः पवित्रेभ्यो लोकेभ्यः भुवनेभ्य पुण्यान् लोकान् गन्तुमित्यर्थः ( ‘क्रियार्थोपपदस् च कर्मणि स्थानिनः’ (२। ३। १४ पा०) इति सूत्रेण चतुर्थी)। ( ‘देवयानाः’ इति पाठान्तरं दृश्यते, तदर्थस्तु ्रयाणोपयोगिनः शुभाः सुखाश्च पन्थानः ते सन्तु इति, ते च पन्थानः ‘अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्‘इति विविधाः उपदिष्टाः। अथवा देवयानं देवविमानं भगवत्करकमलसंस्पर्शजनितपुण्यसन्ततिविपाकवशेन समुदीयमानं, प्रतिपद्यश्व पावनलोकगमनार्थं आरोहेत्यर्थः। यद्वा देवयानं ज्योतिष्मता वर्त्मना अर्चिरादिमार्गेणेति यावत् हिरण्यगर्भलोकगमनमित्यर्थः, सारूप्यादिमोक्षावाप्तये प्राप्नुहि, ब्रह्मानन्दसहोदरं मोक्षं भजेति भावः। तद्गमनप्रकारो यथा छान्दोग्ये- ‘मामेभ्यः संवत्सरं संवत्सरादायित्यम् आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एनां गमयत्येष देवयानः पन्था इति’ । इति। ) यद्यपि करतादिषु शुद्रस्य तपस्यधिकाराभावात् नैतादृशः फललाभः सम्भवतीति शङ्क्यते, तथाऽपि भगवद्धस्तस्य महिमभूयस्त्वादेवमुद्भूतमित्यूहनीयम्।
(ब) पुराणेत्यादि। -यावदवधारणे। ब्रह्मवादिषु वेदोपदेष्टृषु तपोधनेषु पुराणं प्राचीनं सतामपि पूजितमित्यर्थः, तस्य अतीव ब्रह्मपराुणोपासकेषु वृद्धत्वात् इति भावः। यद्वा-पुराणः पुरातनोऽसौ ब्रह्मवादी वेदतत्वोपदेष्टा तमित्यर्थः। अगस्त्यमृषिं-तपोधनम्, अभुवाद्य-सत्कृत्य वन्दित्वा। शाश्वतं-शश्वद्भवं क्षयरहितमपुनरावर्तनीयं, पदं स्थानं ब्रह्मपदमिति यावत्, देवीपुराणमेतस्य पतनराहित्यमावेदयति। तथा हि,- ‘सत्यस्तु सप्तमो लोको ह्यपुनर्भववासिनाम्। ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः‘॥ इति। अनुप्रविशामि-अनुगच्छामि, पुज्यानां पूजाव्यतिक्रमे श्रेयोलाभस्य प्रत्यूहभूतत्वादित्याशयः।
रामः। एतत् तदेव हि वनं पुनरद्य दृष्टम्
यस्मिन्नभूम चिरमेव पुरा वसन्तः।
आरण्यकाश्च गृहिणश्च रताः स्वधर्मे
सांसारिकेषु च सुखेषु वयं रसज्ञाः॥२२॥
अथेदानीं भगवान् रघुमणिः सुदुःसहं तादृशं वनवासदुःखनिवहमपि संस्मृत्य वनीभूत्वाऽपि गृही भवन् सीतया सह कितया सुखेन कालं निनायेति विचिन्त्याह, एतदिति। -तदेव प्रियया सह पूर्वं सुखेनाध्युषितं तया विना भृषं पुनर्दुःखकरमित्यर्थः, एतद्वनम् अद्य पुनः दृष्टं बहोः कालात् परं नयनपथं समागतमित्यर्थः। यस्मिन् वने पुरा पूर्वं चरमेव चतुर्दशसमाः व्याप्य वयं सीता लक्ष्मणः अहञ्चेत्यर्थः, वनस्तः कृतनिवासा अत एव स्वधर्मे क्षत्रोचिते रता वनिनामसकलमाचारमनुपालयन्तः गृहिणश्च गृहस्थाश्च आरण्यका वानप्रस्थाश्च सन्तः सांसारिकेषु गृहाश्रमसमुचितेषु एकदैव मनुष्यजन्मलभ्येषु सर्वेषु सुखेषु इत्यर्थः, रसज्ञा अभूम आस्वादज्ञा भूताः। ( ‘शृङ्गारादौ बले वीर्ये सुवर्णे विषशिक्तयोः। आस्वादे च रसं प्राहुः’ इति शब्दार्णवः। ) प्रकृते वनवासिनः अभवन्तः अपि वयं सीतया सह तासु तासु वनस्थलीषु सुचिर विहरन्तः गृहिणां यावद्भोगसाधनमुपभुञ्जानाः अविदितगतयमाः चिराय सुखेनानुपमेन कालं यापिवन्तः। अत्रास्माकं सुखभोगानां पुरा काष्ठा जाता इति तु सङ्क्षेपः। पितुराज्ञया अरन्यनिषेवणात् वनित्वं, सीतया सह गृहस्थोचितसुखसन्तानोपभोगाच्च गृहित्वमवधेयम्। अतः कारणभेदात् समुपजायमानयोः विरुद्धयोरपि आश्रमयोरेकत्रावस्थानं सङ्गच्छते इति वेदितव्यम्। गृहस्थवनस्थाश्रममधिकृत्याह देवीपुराणम्,- ‘पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेदिह। देवतातिथिशिष्टाशी नियतो वेदकर्मसु॥‘इत्यादि। पञ्चमहायज्ञाश्च स्वाध्याग्निहोत्रातिथिपूजनपितृतर्पणबलिकर्मरूपाः। ‘भूमौ मूलफलाशित्व स्वाध्यायस्तप एव च। संविभागो यथान्यायं धर्मोऽयं वनवासिनः॥‘इत्यादि च। वसन्तिलकं वृत्तम्॥२२॥
अपि च। - एते त एव गिरयो विरुवन्मयूरा-
स्तान्येव मत्तहरिणानि वनस्थलानि।
आमञ्जुवञ्जुललतानि च तान्यमूनि
नीरन्ध्रनीलनिचुलानि सरित्तटानि॥२३॥
निसर्गशोभाऽऽकरीभुतानां तासां हि चनस्थलीनां कियत् मानसिन्मादकरत्वमासीत्, ससीतैरस्माभिरुपभुक्तासु स्वभावलीलालास्यभूमिषु तासु च मत्तहरिणाः विश्रामजसुखोपभुक्तये निचुललतिकाकुञ्जं निर्भयमतिशय्य रोमन्थायमानाः सीतया कथं हि सस्नेहमालोकिताः ? इति अनुध्यायन् रघुमणिः सगद्गदं पुनरभिधत्ते, त इति ,-ते एव पूर्वपरिचिता इत्यर्थः, पुरा सीतया सार्धं मया सूचितंसुखमध्युषिताः इति यावत्, विरुवन्तः सुमधुरं केकारवं कुर्वन्तः मयूराः बर्हिणः येषु तथाविधाः सुमधुरकलालापिकलापिशालिनः इति यावत्, एते पुरतः दृश्यमानाः गिरयः पर्वताः ; तान्येव सीतया पूर्वदृष्टानीत्यर्थः, मत्ताः मदातिरेकात् अभिवातं धावन्तः अत एव प्रफुल्लाश्चेत्यर्थः, हरिणा एषु तानि तथोक्तानि, ( ‘वञ्जुलः पुंसि तिनिशे वेतसाशोकयोरपि’ इति मेदिनी) नीरन्ध्रा निरवकाशा अविरलनिविष्टा इति यावत्, नीला श्यामवर्णाअनूपप्रदेशजायमानतया अतिसरसकिसलयोपशोभिताः इत्यर्थः, निचुला स्थलवेतसलतिका येषु तानि तथोक्तानि सरितस्तटानि ; सर्वत्र सन्तीति क्रियया अन्वयः। ( ‘वानीरे कविभेदे स्यान्निचुलः स्थलवेतसे’ इति शब्दार्णवः)। (अत्र क्रियापदस्याध्वाहार्यत्वेनान्वयात् न्यूनपदत्वदोषः नाशङ्कनीयः, प्राचीनैरालङ्कारिकाचार्यैः क्रियापदस्याध्याहारादिस्थले तथाविधदोषस्यानङ्गीकारादिति विभावनीयम्। अत्र प्रस्तुतानां गिरिवनादिपदार्थसङ्घानाम् एकेन क्रियारूपधर्मेणान्वयात् प्रस्तुतपदार्थैकधर्म्याभिसम्बन्धरूपः तुल्ययोगितालङ्कारः। - ‘पदार्थानां प्रस्तुतानामन्येषाञ्च यदा भवेत्। एकधर्माभिसम्बन्धः स्यात् तदा तुल्ययोगिता॥’ इति दर्पणात्)। वसन्ततिलकं वृत्तम्॥२३॥
मेघमालेव यश्चायमारादपि विभाव्यते।
गिरिः प्रस्रवणः सोऽयं यत्र गोदावरी नदी॥२४॥
जनस्थानोपान्तवर्तिनः नियतवर्षुककादम्बिनीभिः सततसमुपसेविततया मेघमालामयस्येव दूरतः भासमानस्य गोदावरीजन्मभुवः प्रस्रवणगिरेः उपान्तभूमौ सीतया सहात्मनः विरहणमुपस्मृत्य इदानीं विसृष्टसीततया अभीक्ष्णं विलपन्नाह, मेघमालेवेत्यादि। -अयं पुरतः दृश्यमानः यः मेघमालेव कदम्बिनीव आरादपि दूरादपि ( ‘आराद्दूरसमीपयोः’ इत्यमरः) विभाव्यते पर्वतत्वेन प्रतीयते, सोऽयं प्रस्रवणो नाम गिरिः पर्वतविशेषः, इति वेदितव्यः। यत्र पर्वतापान्तभूमौ इत्यर्थः, इयं गोदावरी नाम नदी प्रवहतीति शेषः, अस्यैव पाददेशप्रवाहिणी इयमवघातव्या इति भावः। अत्युुन्नततया अस्यैव गिरेः सजलजलदपङ्क्तिरिव अतिदूरात् तथाविधप्रतीयमानत्विमत्यवधेयम्। (अत्रोपमाऽलङ्कारः स्फुट एव। अत्र चोपमानोपमेयभावे लिङ्गव्यत्यासदर्शनात् ‘सुधेव धवलश्चन्द्रः’ इत्यादिवत् भग्नप्रकमतादोषो नाशङ्कनीयः ; उपमानोपमेयगतसाधारणधर्मस्यान्यथाभावादर्शनात् मेघमालेत्यस्याजहल्लिङ्गतया लिङ्गविभेदेऽपि नोक्तदोषावसरः। ‘अयम्’ इति पदस्य वारद्वयं प्रयोगात् पुनरुक्तिदोषस्तु अस्त्येव इति विभावनीयम्)। पथ्यावक्त्रं वृत्तम्॥२४॥
अस्यैवासीत् महति शिखरे गृध्रराजस्य वास-
स्तस्याधस्ताद् वयमपि रतास्तेषु पर्णोटजेषु।
गोदावर्याः पयसि विनतश्यामलानोकहश्री-
रन्तः कूजन् मुखरशकुनो यत्र रम्योवनान्तः॥२५॥
तस्यैव शैलम्याधस्तात् सुमधुरारादिभिः विविधैः विहङ्गमैरध्युषिते तस्मिन्नेव वनान्ते रम्यां पर्णशालां विरचय्य सीतया सहाहं सुचिरं सुखमुषित्वा तत्पर्वतमधिशयानेन परमोपकारिणा पितृसुहृदा जटायुषा सस्नेहं निरीक्ष्यमाणः कालम् अनैषं, गोदावर्याश्च नद्याः विमलं कलधौतधवलञ्च सलिलं भृषमवगाह्य सीता कामपि वनवासजां वेदनामननुभूय कियता हि सुखेन दिवसं यापितवती तत् तदेवेदानीं बहुधा विलप्याह राघवेन्द्रः, अस्यति। अस्यैव गिरेः प्रस्रवणस्येत्यर्थः, महति अत्युन्नते विशाले च, शिखरे शृङ्गे, ( ‘शिखरोऽस्त्री द्रुमाग्रेऽद्रिशृङ्गे पुलककक्षयोः’ इति मेदिनी)। गृध्राणां (दक्षिणात्यानां ‘शकुनि’ इति भाषा) राजा गृध्रराजः तस्य, ( ‘राजाहःसखिभ्यष्टच्’ (५। ४। ९१पा०) इति टच् समासान्तः) गरुडात्मजस्य पितृसखस्य अस्मत्पूजितस्य जटायुष इत्यर्थः, वासः वसतिरासीत्। तस्य तद्वासस्य तच्छिखरस्य वाधस्तान्निम्रप्रदेशे, तन्निम्नस्थेष्वित्यर्थः, (अधस्तादिति पदम् अधरशब्दादस्तातिप्रत्ययेन, अधरशब्दस्याधादेशेन च सिद्धम्) तेषु पूर्वाध्युषितेषु पर्णोटजेषु पर्णानाम् उटजेषु पर्णशालासु •त्र उटजशब्दस्यैव पर्णशालार्थकत्वेऽपि पुनः पर्णग्रहणं कुटीरस्य प्रचुरपर्णविरचितत्वविद्योतनार्थं, कुण्डलशब्दस्यैव कर्णभूषणार्थकत्वेऽपि श्रवणकुण्डलादिशब्द-प्रयोगवत्। )
वयमपि सीतारामलक्षम्णाः रताः अत्यासक्ताः सन्तः न्यवसामेति शेषः ; नियतसहजसौन्दर्यावलोकनतत्पराणामस्माकं पर्णावासेष्वपि अत्यासक्तिरासीदिति भावः। यत्र यस्मिन् प्रदेशे गोदावर्याः तन्नामधेयायाः सरितः पयसि जले विनतानां फलभरावनातां सललिलपर्यन्तपतितानामित्यर्थः, श्यामलानां श्यामैः पल्लवैर्विराजमानानामनोकहानां वृक्षाणां श्रीः शोभा यस्मिन् स तथोक्तः, ( ‘विनत’ इत्यत्र ‘वितत’ इति पाठे-विततानां पयसि प्तिबिम्बितानां श्यामलानाम् अनोकहानां श्रीः शोभा यस्मिन् सः तथोक्तः इत्येवार्थः। ‘अनोकहः’ इत्यस्य अनसः शकटस्य अकं गतिं हन्तीति व्युत्पत्तिलभ्योऽर्थः पर्यालोचनीयः, (अनस्’ अक’ हन्’ ङः। ‘अनोकहः कुटः सालः पलाशी दुद्रुमागमाः’ इत्यमरः)।
एकदेशान्वयस्य सर्वत्र साधुत्वाभावेऽपि ‘प्रतियोगिपदान्यद् यदन्यत् कारकादपि। वृत्तिशब्दैकदेशस्य सम्बन्धस्तेन नेष्यते॥‘इति नियमेन अत्र कारकेण पयसीत्यनेन वृत्तिशब्दैकदेशीभुतविनतशब्दस्यान्वयेऽपि न क्षक्षतिरिति सुधीभिर्भाव्यम् ) तथा मुखराः शब्दायमानाः शकुनाः पक्षिणः, ( ‘शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः’ इत्यमरः) यस्मिन् स तथोक्तः, अत एव अन्तर्मध्ये कूजन् प्रतिध्वनन्निव स्थित इत्यर्थः, (केचित्तु- ‘अन्तःकूजन्मुखरशकुनः’ इत्येकपदं मन्यमानाः अन्तः अब्यन्तरे कूजन्तः रुवन्तः मुखरशकुनाः गीतपराः पक्षिणः यत्र स तथोक्तः इत्येवं व्याचक्षते) रम्यः रमणीयः सदृश्यसुश्राव्यसुसेव्यत्वादिना मनोहर इत्यर्थः, वनान्तो वनस्वरूपम्। (अत्र अन्तशब्दः स्वरूपवाचकः, तथा च मेदिनी- ‘अन्तः स्वरूपे नाशे नाऽस्रत्री शेषे चान्तिके त्रिषु’ इति) दृश्यते इति शेषः। (अत्र कूजनस्य अप्राणिवनकर्तृकत्वासम्भवेऽपि अन्तःकूजन्निवेत्यर्थः वने कूजनकर्तृत्वस्य प्रतीयमानतया भावाभिमानिनी प्रतीयमाना क्रियोत्रेक्षा नामालङ्कारो बोध्यः)। मन्दाक्रान्ता वृत्तम्॥२५॥
आ; तदत्रैव सा पञ्चवटी; यत्रातिचरनिवासेन विविधविश्रम्भातिप्रसङ्गसाक्षिणः प्रदेशाः (भ) प्रियायाः प्रियसी च
(भ) पूर्वदृष्टदण्डकारण्यरामणीयकमधुना पुनरवलोकयन् भगवान् रामचन्द्रः स्थानसन्निकर्षेण सम्प्रति समुद्बोधितया पञ्चवटीप्रत्यभिज्ञया नितरां दूयमानो विलपति, आ इति। - आ इति प्रत्यभिज्ञानसूचकमव्ययं (‘आ प्रगृह्यं स्मृतौ वाक्ये’ इति मेदिनी) तत्-तदा, यद्येतदेव बहुतरप्रत्यभिज्ञानेन दण्डकारण्यमिति सुस्थितमित्यर्थः। औव -ेस्मिन्नेव प्रदेशे, यत्र-पञ्चवट्याम्, अतिचिरनिवासेन,-अतिचिरं बहुकालं व्याप्य यो निवासः तेन ; ( ‘अत्यन्तसंयोगे च ‘(२। १। २९पा०) इति द्वितीयया समासः) बहुकालावस्थानेनेत्यर्थः, यत्र हि लोकैर्बहुकालसमवस्थीयते कालेन तत्रत्यावस्था सुष्ठु परिज्ञाता भवेदिति तत्र विश्रम्भातिप्रसङ्गस्य सर्वथा सम्भव इत्याशयः। विविधेति-विश्रम्भेण कार्यान्तरप्रस्थितस्य लक्ष्मणस्य सत्वरप्रत्यावर्तनं लोकप्रचारविरहिते चात्र अपरस्य कस्यचिदागमनञ्चात्यन्तमसम्भवीति न कस्यापि दर्शनसम्भव इति विश्वासेन, ( ‘समौ विश्रम्भविश्वासौ‘इत्यमरः) ये अतिप्रसङ्गा लज्जासङ्कोचादिवर्जितविलक्षणप्रेमालापविहारादीनामत्यारूढयः अधिकसम्बन्धा इत्यर्थः, ते विश्रम्भातिप्रसङ्गाः, विविधानाम् अनेकप्रकाराणां विश्रम्भातिप्रसङ्गानां साक्षिणः साक्षाद्द्रष्टारः, आधारभुता इत्यर्थः, (साक्षीतिपदं ‘साक्षाद्रष्टरि सञ्ज्ञायाम्’ (५। २। ९१पा०)इति इनि प्रत्ययेन निपातनात् सिद्धम्) प्रदेशाः,-स्थानानि सन्तीति शेषः।
वासन्ती नाम वनदेवता प्रतिवसति। तत् किमिदमापतितमद्य रामहतकस्य (म) सम्प्रति हि (य)-
चिरोद्वेगोम्भी प्रसृत इव तीव्रो विषरसः
कुतश्चित् संवेगान्निहित इव शल्यस्य शकलः।
व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुन-
र्घनीभूतः शोको विकलयति सम्मूर्छयति च॥२६॥
(म) सहजं कृत्रिमं वा यदेव रामणीयकं प्रियजनसङ्गतस्य चेतसि नितराम् अननुभूतपूर्वमानन्दमुत्पादयति, काले तदेव प्रियजनविरहिणो दृष्टिपथमापतितमधिकतरं चेतो दुनोतीति नित्यसत्यायत्तो रघुमणिरपि प्रियाविरहितस्तांस्तान् सम्प्रत्यवलोकयन् नितरां दुःखितो विलपति तदिति। तत्-तस्मात्। आपतितम्-उपस्थितं, प्रियया सार्धं पूर्वं सानन्दमवलोकितानमेतेषां दर्शनं सम्प्रति तया विरहितस्य मे नितरामरुन्तुदं जातमिति समुदितार्थः।
(य) अरण्यवासकाले प्रिययासङ्गतो रघुनाथः पूर्णोटजस्थोऽपि यामेव दण्डकारण्यरमणीयतामवलोक्य वनवासजमपि क्लेशजातं विसस्मार, सम्प्रति तया विरहितोऽसौ तामेव रमणीयतामवलोक्य समुद्बोधितपूर्वस्मृतिरनुभूयमानां मर्मयातनां वक्ष्यमाणश्लोकेन विवृण्वन्नाह, सम्प्रति हीति।
चिरोद्वेगेति। -चिरादुद्वेगं हृदयदाहमारभते उत्पादयतीति चिरोद्वेगारम्भी, क्षिप्तकुक्कुरादिविषस्येव कालान्तरपरिणामीत्यर्थः, (देहलीदीपन्यायेन विशेषणमिदमुत्तरोत्तरेष्वपि वाक्येषु अन्वेति) प्रसूतः सर्वावयवेषु व्याप्तः तीव्रः अत्युग्रः विषरसः इव विषद्रवः इव। ( ‘रसो गन्धो रसः स्वादे तिक्रादौ विषरागयोः। शृङ्गारादौ द्रवे वीर्ये देहघात्वम्बुपारदे॥’ इति विश्वः) अत्र रसशब्देन विषगतः कश्चिदुत्कर्षो बोध्यः, तथा कुतश्चित् यस्मात् कस्मादपि स्थानादागत्येत्यर्थः, संवेगादतिवेगात् निहितः अन्तःप्रविष्टः शल्यस्य शङ्कोः तीक्ष्णाग्रस्य अस्त्रविशेषसदयेत्यर्थः, ( ‘वा पुंसि शल्यं शङ्कुर्ना’ इत्यमरः) शकलः इव खण्डः इव ( ‘भित्तं शकलखण्डे वा पुंसि’ इत्यमरः) तथा हृन्मर्मणि हृदेव मर्म हृन्मर्म तस्मिन् हृदयरूपजीवस्थाने, रूढग्रन्थिः जातसन्धिः, सन्नद्धमूलः इति यावत् ; पुनः स्फुटितः विदीर्णः व्रणः इव ईर्ममिव (व्रणोऽस्त्रियामीर्ममरुः क्लीबे’ इत्यमरः) शोकः प्रियाविरहजं दुःखं पुनर्घनीभूतः (अघनो घनः सम्पद्यमानो भूतः इति घनीभूतः इत्यभूततद्भावे च्विप्रत्ययः) कालवशेन नष्टप्रायोऽपि पञ्चवट्यादिबहुविधोद्दीपकवस्तुसन्दर्शनात् पुनः सान्द्रतामधिगतः सन् विकलयति व्याकुलीकरोति (विकलं करोति इति विकलयति ‘तत् करोति तदाचष्टे‘ग० इति णिच्) सम्मूर्छयति च सम्मोहयति च, मामिति शेषः। यथा तीव्रो हालाहलः कालक्रमेणान्तःशरीरं प्रसर्पंश्चेतो विकलयति, तथा मनसि विलीनप्रायोऽपि प्रियाविरहजः शोकोद्वेगः सम्प्रति सुचिरपरिचितानां वनगहनपर्वतादीनामवलोकनेन पुनः स्मृतिपथमारूढो नवीभूत इव मामतितरां विह्वलयतीति भावः। (अत्र केचित् द्वितीयपादे ‘निहित’ इत्यत्र ‘चलित’ इति पाठं मन्यमानाः व्याचक्षते-कुतश्चित् यस्मात् कस्माच्चित् संवेगात् सम्भ्रमादिजन्यात् सङ्घट्टनात् चलितः कम्पितः शल्यस्य अन्तःशरीरप्रविष्टस्येति भावः, शकलः खण्ड इवेति। अत्र एकस्मिन्नेव शोकरूपोपमेये विषशल्यव्रणरूपाणां बहूनाम् उपमानानां दर्शनात् मालोपमानामालङ्कारः स्फुटः एव ; तथा विकलनसम्मूर्छनरूपयोरुभयोरेव क्रिययोः शोकरूपैककर्तृकत्वाद्दीपकञ्चाप्यलङ्कारो बोध्यः)। शिखरिणी वृत्तम्॥२६॥
तथापि तान् पूर्वसुहृदो भूमिभागान् पश्यामि। (निरूप्य) अहो अनवस्थितो भूमिसन्निवेशः (र)। तथा हि-(ल) (र) ननु ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्‘इति शोकोद्वेगहेतुभूतानामेतेषामवलोकनं यत्नतः परिहीयतामित्याह,तथापीति। तथापि-एतेषां भूभागानां शोकोद्दीपकत्वेऽपि। पूर्वसुहृदः,-पूर्वं सुहृद्वत् कृतप्रियाचतणाः ; एते हि पूर्वं नित्यसान्निध्यन बहुविधानुकूल्येन चास्माकं वनवासजमपि दुःखजातमपाकुर्वन्तः सुहृद्भूताः इति भावः। निरूप्य-इतस्ततो विशेषेणावलिक्य। अनवस्थितः,-विपर्यस्तः, पूर्वावस्थातो वैषम्यमधिगतः इत्यर्थः। भूमिसन्निवेशः,-भूमीनां तत्-
स्थानीयानां भूभागानां सन्निवेशः अवस्थानम् ; पुरा यादृशं भूमिसंस्थानं दृष्टम् अधुनान तथाऽवस्थितमित्यर्थः।
(ल) सुचिरकालानन्तरं कार्यानुरोधात् दण्डकारण्यमनुप्रविष्टो दाशरथिः पञ्चवट्यादिसन्दर्शनात् समुद्बोधितपूर्वसम्ृतिरालम्बनविभावस्वरूपाणामेतेषां समरिद्वनभूधरणां सहजसौन्दर्यसन्दर्शनेन समुद्दीप्तप्रियाविरहजशोकोऽपि कमप्यनिर्वचनीयमानन्दसन्दोहमनुभवन्नितस्ततः समालोकयंश्च यदेवावस्थावैषम्यमन्वभवत्, तदेवेदानीं वक्ष्यमाणश्लोकेन विवृण्वन्नाह,-तथा हीति।
पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां
विपर्यासं यातो घनविरलभावः क्षितिरुहाम्।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं
निवेशः शैलानां तदिदमिति बुद्धि द्रढयति॥२७॥
कीदृशमवस्थावैषम्यम् ? इत्याह, पुरेति। पुरा प्राक् अस्मिन्नेव वने प्रियतमया सीतया सहावस्थानकाल इत्यर्थः, यत्र यस्मिन् स्थाने पुलिलं सलिलसमुत्थितं मम वर्तमानदर्शनावस्थायामित्यर्थ, तत्र तस्मिन्नेव स्थाने पुलिनं सलिलसमुत्थितभूमिरूपेण सर्वथा परिणमन् कादाचित्कमपि स्वकीयं तत्रत्यमस्तित्वं न कथमपि प्रमाणयतीति भावः। क्षितिरुहां वृक्षाणां (क्षितौ रोहन्ति उत्पद्यन्ते ये ते क्षितिरुहः तेषां, क्षिति’ रुह्’ क्विप्) ःनविरलभावः निबिडत्वं प्रतनुत्वञ्चेत्यर्थः, विपर्यासं वैपरीत्यं यातः प्राप्तः ; पुरा यत्र घनसन्निविष्टाः पादपाः आसन्, तत्र ते कालवशेन विरलतामुपगताः, यत्र पुनरपरे पादपाः विरलसन्निवेशमधिगता आसन्, सम्प्रति त एव गतीभूता इति नैव ते समुपयुज्यन्ते प्रत्यभिज्ञायामिति भावः। अत एव बहोः कालात् सुचिरसमयात् परिमिति शेषः (बहुशब्दस्य सङ्ख्याप्रचुररूपोभयार्थकत्वेन सङ्ख्यावाचकात् नित्यं बहुचवनं प्रचुरार्थकत्वेकवचनमपीति बहोरित्यत्र एकवचनप्रयोगः ‘किं बहुना‘इत्यादिबहुतरशिष्टप्रयोगवते न कमपि दोषमावाहतीति सुधीभिर्विभाव्यम्। ‘कालात’ इत्यत्र अनन्तरार्थे पञ्चमी, परमिति शब्दस्याध्याहारेण समर्थनीया) दृष्टम् अवलोकितम् इदं परिदृश्यमानं वनमरण्यम् अपरमिव अन्यत् वनमिव मन्ये अनुभवामि इत्यर्थः। नन्वेवं प्रत्यभिज्ञापकानां स्रोतःपादपप्रभृतीनामन्यथाभावात् तदेवेदमरण्यमिति विनिश्चये कस्तावदव्यभिचरितो हेतुः? इत्यपेक्षायामाह, निवेश इति। -शैलानां पर्वतानाम् अनतिपरिवर्तनशीलतया सम्प्रत्यपि पूर्ववदवस्थितानामित्यर्थः, निवेशः संस्थानम्, अपरिवर्तितमवस्थानमित्यर्थः, इदं परिदृश्यमानं वनं तत् पूर्वदृष्टमिति बुद्धि ज्ञानं द्रढयति दृढीकरोति (दृढां करोति इति द्रढयति ‘तत्करोति तदाचष्टे’ ग० इति णिचि ‘भृशकृशदृढपरिवृढानामेव रत्वं’ वा० इति ऋकारस्य रत्वम्) तदेवेदं वनमिति निश्चयज्ञानं जनयति इत्यर्थः। सर्वत्रैवानुमितेः प्रमात्वं प्रति साधनगतस्याव्यभिचरितत्वादेरपेक्षिततया अत्रापि पूर्वदृष्टतद्वनगततत्तच्छैलादिसाधनेन सुचिरकालेनाप्यनतिपरिवर्तनशीलतयाऽव्यभिचारिणा इदन्त्वावच्छिन्नपक्षकतद्वनत्वसाध्यकानुमितौ कस्यचिदपि हेत्वाभासस्य असत्वान्नेदमनुमानमप्रमात्वशङ्काकलङ्कितमितिभावः। (अत्र प्रकृते पञ्चवटीवने तादात्म्यसंसर्गकापरवचनत्वे प्रकारकोत्कटैककोटिकसंशयपददर्शनादुत्प्रेक्षानामालङ्कारः, सा अपरवनत्वरूपभावपदार्थप्रकारकतया भावाभिमानिनी, इवशब्दोत्थापिततया च वाच्या। तथा तस्मिन्नेव वने अन्यवनद्बुद्धि प्रति प्रथमद्वितीयपादोक्तमरिद्वक्षादिगतावस्थावैषम्यार्थप्रतिपादकवाक्यार्थद्वयस्य हेतुतयोपन्यासात् काव्यलिङ्गमलङ्कारः। तथैतदलङ्कारद्वयप्रतिपादितवैचित्र्यविशेषवशेन च तद्वनगततत्तच्छैलादिसाधनेन इदन्त्वावच्छिन्नपक्षकतद्वनत्वसाध्यकानुमित्युत्पत्तेरनुमानालङ्कारश्चेत्येतेषामलङ्काराणाम् अङ्गाङ्गिभावेन सङ्करः)। शिखरिणी वृत्तम्॥२७॥
हन्त परिहरन्तमपि मामितः पञ्चवटीस्नेहो बलादाकर्षतीव। (व) (सकरुणम्)-
यस्यां ते दिवसास्तया सह मया नीता यथा स्वे गृहे
यत्सम्बन्धिकथाभिरेव सततं दीर्घाभिरास्थीयत।
एकः सम्प्रति नाशितप्रियतमस्तामद्य रामः कथं
पापः पञ्चवटीं विलोकयतु वा; गच्छत्वसम्भाव्यं वा॥२८॥
(व) हन्तेति। -हन्तेति खेदसूचकमव्ययम्। परिहरन्तमपि-परित्यजन्तमपि, पञ्चवटीं परिहृत्य गच्छन्तमपीत्यर्थः। पञ्चवटीस्नेहः,-पञ्चवटीं प्रति प्रबलः अनुरागः। आकर्षतीव-प्रत्यावर्तयतीव (इति क्रियोत्प्रेक्षा) ; पूर्वमतिदूर्घकालवसतिसंवर्धितानुरागः पुनरेतद्वनसन्दर्शनान्नवीभूतः सम्प्रत्येतद्वनत्यागे महान् प्रत्यूहः सञ्जात इति भावः।
वियोगे हि रमणीयवस्तुमात्रदर्शनस्यैव दुःसहतया पूर्वानुभूतपञ्चवटीरामणीयकसन्दर्शनमिदानीमतिदुःसहं भवेदिति पूर्वसुहृतदः एतान् सुचिरमिदानीमवलोकयामि न वेत्थ किङ्कर्त्तव्यविमूढो रामभद्रः सशोकमाह, यस्यामिति। -यस्यां पञ्चवट्यां स्वे गृहे यथा स्वकीये राजभवने इव ( ‘बद्धा यथा तथेवैवं साम्ये‘इत्यमरः) सर्वथा निरूपद्रवत्वरामणीयकादिभिः राजभवनतुल्यायां यस्यामिति यावत्। मया तया प्रियतमया सीतया सह ते अशेषसुखहेतुतया विशेषतः प्रसिद्धाः दिवसाः दिनानि नीताः यापिताः, (अत्र दिवसपदेन न केवलं रजन्यः समधिकसुखेन यापिताः, परन्तु दिवसाः अपीति ध्वन्यते, तेन च राजधान्यपेक्षयाऽस्याः किञ्चिद्वैशिष्ट्यमपि द्योत्यते ; तथा हि तत्र राजकार्यादिना दिवसेषु सहावस्थानमसम्भवम्, इह तु कार्यान्तरगुरुजनसान्निध्याद्यसम्भवतयाऽहर्निसं निःसङ्कोचप्रणयाभिव्यक्तिरिति स्वगृहाद्विशेषः। ) तथा दीर्घाभिः प्रशंसाबाहुल्याद्घटनाबाहुल्याद्वा अतिविस्तृताभिः यत्सम्बन्धिकथाभिः यस्याः पञ्चवट्याः सम्बन्धिन्यः विषयिण्यः कथाः आलापाः ताभिः एव यां पञ्चवटीमधिकृत्य प्रवृत्तैरालापैरेवेति यावत्, (एवकारेण च कथान्तरप्रवृत्तिव्युदासः। यत्कथाभिरित्यनुक्त्वा यत्सम्बन्धिकथाभिरिति कथनात् पञ्चवटवनसमीपवर्तिनामपि रम्यता व्यज्यते) सततम् अहर्निशम् आस्थीयत स्थितम् आवाभ्यामिति शेषः ; वनवासाद् गृहं प्रतिनिवृत्य प्रेयस्या सह दिवानिशं पञ्चवटीविषयकाल•ेपमेवाकरवमिति भावः।
(अत्र आस्थीयते इति पाठेऽपि व्याख्यानं सुकरमेव, किन्तु प्रक्रमभङ्गः, भूतकालनिर्देशोपक्रमे वर्तमानकालिकप्रत्ययनिर्देशस्यानुचितत्वात्। ) सम्प्रति इदानीं नाशिता नाशं प्रापिता नाशार्थं विपिने विसृष्टेत्यर्थः, प्रियतमा प्राणेभ्योऽपि प्रिया प्रीता येन स तथोक्तः, (अत्र नाशितप्रियतमः इत्यनेन प्रियतमायाः विनाशो यदि दैवाधिनः स्यात्, तदा यथाकथञ्चित् सह्यते, अत्र तु विनाशोऽसौ मयैव प्रापितः इति क्लेशातिशय्यं, ‘सम्प्रति’ इत्यनेन दुःखस्य नवीभावश्च व्यज्यते) अत एव अद्य एकः एकाकी सीताविरहितः इति यावत्, पापः पापात्मा नृशंसकर्मा इत्यर्थः, रामः तां चिरसहचरीभूतामित्यर्थः; सामान्यतो रमणीयवस्तूनां सन्दर्शनमेव विरहे क्लेशकरं किं पुनः प्रियया सह प्रागनुभूतानामेतेषामिति भावः। पञ्चवटी कथं केन प्रकारेण वा विलोकयतु पश्यतु, विलोकयितुं शक्नुयादित्यर्थः, कथं वा असम्भाव्य किञ्चित्कालं दर्शनावस्थानादिना असमादृत्य गच्छतु अन्यतो व्रजतु ? उभयमपि सुदुष्करमित्यभिप्रायः। कदाचित् प्रियायाः सम्बन्धवत्वात् पञ्चवटी प्रिया आसीत्, सेदानीं मृता, अतः सा दुःखकरीत्येकैव पञ्चवटी स्वदर्शनेन सीतास्मरणकारणतया दुःखाय च सुखाय च भवतीति अत्र किञ्चित्कालमवस्थानमिदानीमितो गमनं वैतदुभयमपि अशक्यं रामस्येति भावः।
(अत्र रामस्य पापवत्तायां नाशितप्रियतम इति पदार्थस्य हेतुतयोपन्यासात् काव्यलिङ्गमलङ्कारः ; तथा प्रथमपादे ‘यथा स्वे गृहे’ इत्यत्र उपमाऽलङ्कारश्च, सा च यथा शब्दवाच्यतया श्रौती। तयैव च स्वभवन इव पञ्चवट्यां निरुपद्रवसुखविहरणादिकमासीदिति वस्तु व्यज्यते इत्यलङ्कारेण वस्तुध्वनिरूहणीयः)। शार्दूलविक्रीडितं वृत्तम्॥२८॥
शम्बूकः। (प्रविश्य) जयति जयति देवः। देव भगवानगस्त्यो मत्तः श्रुतभवत्सन्निधानः त्वामाह;- ‘परिकल्पितविमानावतरणमङ्गला प्रतीक्षते वत्सला लोपामुद्रा; सर्वे च महर्षयस्तदेहि सम्भावयास्मान्। अथ प्रजविना पुष्पकेण स्वदेशमुपगम्याश्वमेधाय सज्जो भविष्यसि‘इति। (श)
(श) भगवान्-भगः ऐश्वर्यादिषड्गुणाः विद्यते यस्य स भगवान्, ऐश्वर्यादिशालीत्यर्थः, ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इतीष्गना॥‘मत्तः-मत्सकाशात् मन्मुखादित्यर्थः। श्रुतेति। -श्रुतम् आकर्णितं भवतः सन्निधानात् उपस्थितिः स तथोक्तः, आहेत्यस्य ‘सज्जो भविष्यसीति‘परोक्तप्रतीकान्तस्थेन इति शब्देनान्वयः। परिकल्पितेति। -परिकल्पितानि सज्जीकृतानि, आयोजितानीति यावत् ; विमानात् पुष्पकाद् अवतरणे मङ्गलानि अवतरणकालोचितमङ्गलजनकदूर्वाक्षतादिवस्तूनि यया मा तथोक्ता। वत्सला-त्वयि सस्नेहा (वत्से कामः अम्या अस्तीति वत्सला, ‘वत्सां साभ्यां कामबले’ (५। २। ९८पा०) इति लच्प्रत्ययः) लोपामुद्रा- तन्नाम्नी अगस्त्यपत्नी। प्रतीक्षते-भवद्दर्शनार्थमवतिष्ठते, त्वां द्रष्टुं त्यक्तसर्वव्यापारा तिष्ठतीत्यर्थः। सर्वे च-सकलश्चाश्रमवासिनः, (अत्र ‘आगस्त्यायनाः’ इति पाठे-अगस्त्याश्रमवासिनः, अगस्त्यगोत्रापत्यानि वेत्यर्थः)। सम्भावय-आगमनेन सम्भावयेत्यर्थः। प्रजविना-प्रकृष्टो जवो विद्यते यस्य तेन, महावेगशालिनेत्यर्थः, अस्माकं सम्भावनायां चेत् किञ्चित्कालक्षेपोभवेत् स रथे किञ्चिदधिकवेगोत्पादनेनपूरणीयः इति भावः; ( ‘न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेदर्थप्रतिपत्तिकरः‘इत्यनुशासनात् तादृशस्थले कर्मधारयान्मत्वर्थीयप्रत्ययस्यासाधुत्वेऽपि प्रजविनेत्यत्र मत्वर्थीयेन इनि प्रत्ययेनाधिकस्यातिशयरूपार्थस्य वाच्यतया न दोषः इति सुधीभिर्विभाव्यम्)। अश्वमेधनामानं क्रतुं सम्पादयितुमित्यर्थः, (अत्र ‘क्रियार्थोपपदस्य च’ (२। ३। १४पा०) इति चतुर्थी) सज्जः,-उद्योगीत्यर्थः।
रामः। यथाऽऽज्ञापयति भगवान्। (ष)
शम्बूकः। इतस्तर्हि देवः प्रवर्तयतु पुष्पकम्। (स)
रामः। भगवति पञ्चवटि गुरुजनानुरोधात् क्षणं क्षम्यतामतिक्रमो रामस्य। (ह)
शम्बूकः। देव पश्य पश्य। -
कूजत्किञ्चकुटीरकौशिकघटाघुत्कारवत्कीचक-
स्तम्बाडम्बरमूकमौकुलिकुलः क्रौञ्चावतोऽयं गिरिः।
एतस्मिन् प्रचलाकिनां प्रचलतामुद्वेजिताः कूजितै-
रुद्वेल्लन्ति पुराणचन्दनतरुस्कन्धेषु कुम्भीनसाः॥२९॥
(ष) यथेति। -भगवान्-तपःसमुद्भूतैश्चर्यादिगुणशाली अगस्त्यः। यथाऽऽज्ञापयति-यथैवादिशति, तद्वदेवानितिष्ठामित्यर्थः।
(स) तर्हीति। -यदि भवान् भगवतोऽगस्त्यस्यादेशः पालनीयः इति मन्यते तदेत्यर्थः। इतः,-अनेन पथा। प्रवर्तयतु-प्रेरयतु, चालयत्वित्यर्थः।
(ह) भगवतीति। -दुष्करतपःप्रभावोद्भासितानामृषीणामाश्रमस्वरूपतया पञ्चवट्याः भगवतीति सम्बोधनम्। गुरुजनानुरोधात्-गुरुजनस्य पूजनीयस्यागस्त्यस्य अनुरोधः छन्दानुवर्तनं तस्मात्। अतिक्रमः,-असम्भावनया युक्ताचारस्य उल्लङ्घनम् उचिताचारं विना अतिक्रम्य गमं वा। क्षम्यतां-मृष्यतां, भगवतोऽगस्त्यस्यादेशेन तच्छन्दानुवर्तनार्थमेवायमतिक्रमो न त्विच्छाकृत इति भावः।
अगस्त्यादेशेनालङ्घनीयेन सुचिरं पूर्वसुहृत्पञ्चवटीशोभासन्दर्शनसुखमनुभवितुमसमर्थो रामभद्रस्तच्चिन्ताव्याकुलो भवेदिति शङ्कमानः शम्बूकः स्वभावशोभासन्दर्शनेन तस्य चित्तविक्षेपमपाकुर्वन् पथि प्राकृतशोभामुपवर्णयन्नाह, कूजदिति। -कुञ्जाः लताद्याच्छन्नानि स्थानान्येव कुटीराः क्षुद्रगृहाः तेषु स्थिताः कौशिकघटाः पेचकसमूहाः ( ‘महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौषिकः’ इत्यमरः) कूजन्तीनाम् अव्यक्तं शब्दायमानानां कुञ्जकुटीरकौशिकघटानां कुञ्जस्थपेचकसमूहानामित्यर्थः, ये घुत्काराः घुत्घुत् इत्याकाराः रवाः तद्वन्तस्तद्विशिष्टा ये कीचकस्तम्बाः वेणुविशेषगुच्छाः (वांशझाड इति भाषा। ‘वेणवः कीचकास्ते स्युर्ये स्वनन्तनिलोद्धताः’ इति ‘अप्रकाण्डे स्तम्बगुल्मौ’ इति चामरः) तेषां आडम्बरेषु समूहेषु ( ‘आडम्बरो गजानां पटहरवे गर्जिते प्रपञ्चे च’ इति हलाबुधः) मूकानि कौशिकत्रासान्निःशब्दमवतिष्ठमानानि मौकुलीनां वायसानां ( ‘एकदृग् बलिभुग् ध्वाङ्क्षो मौकुलिर्वायसोऽन्यभृत्’ इति कोषः) कुलानि समूहाः यस्मिन् स तथोक्तः, अयं पुरतः परिदृश्यमानः क्रौञ्चाबतः तन्नामधेयः गिरिः पर्वतः विद्यत इति शेषः ; एवमयं गिरिर्विद्यते तं, पश्य पश्येति गद्यांशेनान्वयः। यत्र कुञ्जेषु शब्दायमानां पेचकानां घुत्कारशब्दमाकर्ण्य चञ्चलस्वभावा अपि वायसास्तेभ्योऽनिष्टमाशङ्कमानाः त्रासान्निःशब्दमवतिष्ठन्ते, तादृशोऽयं क्रौञ्चवताभिधेयो गिरिरस्माकं पुरतः प्रतिभातीति पश्येति समुदिताशयः। एतस्मिन् दृश्यमाने क्रौञ्चावताभिधेये गिरौ प्रचलताम् इतस्ततः परिधावतां प्रचलाकिनां-प्रचलाकः शिखण्डः, स एषामस्तीति प्रचलाकिनः मयूराः तेषां ( ‘प्रचलाकिसितापाङ्गशिखावलगतव्रताः’ इति त्रिकाण्डशेषः) कूजितैरव्यक्रशब्दः केकाभिरित्यर्थः, उद्वेजिताः उद्वेगं नीताः, सन्त्रस्ता इति यावत्, कुम्भीनसाः भयङ्करसर्पविशेषाः (‘कुम्भीनसः क्रूरसर्पे स्त्रियां लवणमातरि’ इति मेदिनी) (कुम्भी इव नासिका येषां ते कुम्भीनसाः ‘अञ् नासिकायाः सञ्ज्ञायां नसञ्चास्थूलात्’ (५। ४। ११८ पा०) इति नासिकायाः नसादेशः, समासान्तःअच्प्रत्ययश्च) पुराणानां प्राचीनानां जीर्णानामित्यर्थः, चन्दनतरूणां चन्दनपादपानां, ( ‘चन्दनतरु’ इत्यत्र ‘रोहिणतरु’ इति पाठे-रोहिणतरुः,-वटवृक्षः इत्यर्थः) स्कन्धेषु प्रकाण्डेषु उद्वेल्लन्ति इतस्ततश्चलन्ति, अतिमात्रं व्याकुलीभवन्तीति यावत्, (उत्पूर्वकस्य ‘वेल्ल चलने’ इति भ्वादिगणीयवेल्लधातोरियं प्रयोगः) विषधराणां हि स्वखादकान्मयूराद्भीतिः अतितरां सौरभामोदिता च प्रसिद्धा तथाप्राचीनावस्थायां चन्दनपादपस्य च सौरभातिशय्यमिति। अत्र चन्दनगन्धानन्दिताःकुम्भीनसाः शत्रुभीत्या एतमेव पादपमाश्रित्य स्थातुं सौरभातिप्रीत्या सहसा तं विहाय गन्तुं वाऽशक्नुवन्तः किङ्कर्तव्यवुमूढतयाऽतितरां व्याकुलीभवन्तीतिभावः। (अत्र प्रधानतया स्वभाविक्तिः; तथा कलापिकूजितरूपपलायनकारणसत्त्वेऽपि कुम्भीनसानां पलायनरूपस्य फलस्यानुत्पत्तेः सति हेतओ फलाभावावरूपा विशेषोक्तिः, तथा कुञ्जकुटीरेत्यत्र रूपकञ्चेतित्रयाणामर्थालङ्काराणामङ्गाङ्गिभावेन सङ्करः। स्वभाविक्त्या च गिरेरस्य अनेकविधजीववसतिरूपं वस्तु ध्वन्यते इति अलङ्कारेण वस्तुध्वनिरप्यूहनीयः)। शार्दूलविक्रीडितं वृत्तम्॥२९॥
अपि च। -
एते ते कुहरेषु गद्गदनदद्गोदावरीवारयो
मेघालम्बितमौलिनीलशिखराः क्षौणीभृतो दक्षिणाः।
अम्योऽन्यप्रतिघातसङ्कुलचलत्कल्लोलकोलाहलै-
रुत्तालास्त इमे गभीरपयसः पुण्याः सरित्सङ्गमाः॥३०॥
इति निष्क्रान्ताः सर्वे। (क)
इति पञ्चवटीप्रवेशो नाम द्वितीयोऽङ्कः।
पुनरपि स्वभावशोभामुपवर्णयन्नाह, एत इति। -कुहरेषु गह्वरेषु, ग्गदं तादृग- विस्पष्टं यथा तथा नुदन्ति शब्दं कुर्वन्ति गुदावर्याः स्वनामधन्यायाः सरितः वारीणि सलिलानि येषु तेतथोक्ताःआक्रान्ताः मौलयः अग्रभागाः येषां तानि मेघैः सजलजलदैरित्यर्थः, आलम्बिताः आक्रान्ताः मौलयः अग्रभागाः येषां तानि अत एव नीलानि जलदाश्रिततया श्यामायमानानि शिखराणि शृङ्गाणि येषां ते तथोक्ताः ; (अत्र शिखराग्रभागो मौलिः, पर्वताग्रभागश्च शिखरमिति भेदः) बहुविधैर्धातुजातैः निखचितान्यपि एतेषां शृङ्गाणि अत्युन्नततया सजलजलदसम्पर्कातिशयवशात् निरतिशयं श्यामायमानानि प्रतिभान्तीति भावः। (एतेनैतेषां निरतिशयमौन्नत्यं प्राकृतिकसौन्दर्यशालित्वञ्च व्यज्यते) ते भवतां परिज्ञातपूर्वा एते परिदृश्यमानाः दक्षिणाः भारतवर्षस्य दक्षिणदिग्भागवर्तिनः क्षौणीभृतः पर्वताः। क्षौणीं पृथिवीं बिभ्रति धारयन्ति ये ते (क्षौणी’ भृ’ क्विप्) सन्तीति शेषः, तथा अन्योऽन्यप्रतिघातेन परस्परप्रतिरोधेन सङ्कुलम् उच्छृङ्कलं यथा तथा चलन्तः गच्छन्तः ये कल्लोलाः महातरङ्गाः तेषां कोलाहलैः उपक्षिताः ( ‘इत्थम्भूतलक्षणे’ (२। ३। २१ पा०) इति तृतीया) उत्तालाः उत्कटाः, भीषणा इति यावत् ; ( ‘उत्ताल उत्कटे श्रेष्ठे विकराले प्लवङ्गमे’ इति मेदिनी) तथा गम्भीरमगाधं पयो जलं येषां ते तथोक्ताः, अगाधसलिलाः इत्यर्थः ; पुण्याः पवित्राः ते पूर्वपरिचिताः इमे परिदृश्यमानाः सरित्सङ्गमाः नदीसन्निपाताः विद्यन्ते इति शेषः। ( ‘सरित्सङ्गमाः’ इत्यत्र ‘कृदभिहितो भावः द्रव्यवत्प्रकाशते’ इति न्यायात् सङ्गताः सरितः इत्यर्थो लभ्यते इति बोध्यम्। अत्र शिखराणां जलदचुम्बितमौलिततया नानाविधधातुसम्भूतस्वकीयान्ववर्णपरित्यागेन जलदगतश्यामलताग्रहणकथनात् तद्गणो नामालङ्कारः)। शार्दूलविक्रीडितं वृत्तम्॥३०॥
(क) इतीति। -अत्र रामशम्बूकयोरेवेह अवस्थानात् ‘सर्वे निष्क्रान्ताः‘इति बहुत्वं कथं युज्यते? इति नाशङ्कनीयम् ; सारथिसाहित्येनैवानयोर्बहुत्वसम्भवादिति।
द्वितीयाङ्कस्य सङ्क्षिप्तविवृतिः
अथात्राङ्कप्रारम्भ एवाध्वगवेशा तापस्यात्रेयी नेपथ्योच्चारितवनदेवतास्वागतवचनमाकर्ण्य समधिगत्य च तदुपकल्पितमातिथ्यं तदीयविनयमधुरव्याहारव्यवहारविनिमयेन स्वकीयामन्तर्गतां कृतज्ञतामतितरां विज्ञापयन्ती स्वसमीपमागतया तया समं तत्रैवोपविष्टा पृष्टा चात्रागमनकारणं तयैव, ‘सामाद्यशेषवेदविद्भिरगस्त्यप्रमुखैस्तपोधनैरध्युषितोऽस्मिन्नरण्ये तेभ्यो वेदान्तविद्यामधिगन्तुं वाल्मीकिपार्श्वादिहोपस्थिता‘इति प्रत्यवोचत्।
अथ वेदवेदान्ताद्यशेषविशेषशास्त्रकाननसञ्चरणपञ्चाननाद्वाल्मीकेरनायासाबाधाध्ययनसम्भवेऽपि तमनादृत्य कथमेतादृग्दूरतरप्रवासप्रयासस्तत्रभवतीनामितीत्थं वनदेवतया तया जिज्ञासिताऽसौ अलोकसामान्यशक्तिमतोः कुशलवाभिधेययोः कयोश्चित् तदन्तेवासिनोरन्यत प्रतिभातिशय्यं, तथा तस्यैव महर्षअर्मुखात् सुरतरतबकबधोद्यतव्याधाभोशापार्थ झटिति विनिर्गतेनानुष्टुभेन च्छन्दसा पद्मयोन्यनुरोधेन तेनैव विरचितस्य रामायणस्य बहुलप्रचारञ्च तत्रत्यमध्ययनप्रत्यूहमचीकथत्, अपृच्छच्चागस्त्याश्रममार्गं वनदेवतां तामेव।
अथ तत्कृतपथपरिचायककथाप्रसङ्गसङ्गतपञ्चवट्यादिनामश्रवणोद्बोधितातीतसीतास्मृतिस्तामेव वनदेवतां सीतासहचरीयं वासन्तीति प्रत्यभिकानत्यभिदधती च प्रलापवशाज्जानकीं नामशेषाम्, आपृच्छमाना च तयैवासकृन्नामशेषा-कथनाभिप्रायं, विवृखाना चालीकलोकापवादतः सीताविवासनवृत्तं, तथा सुवर्णविनिर्मितसीताप्रतिकृतिप्रतिनिधिता शास्त्रविधिनानुष्ठीयमानमश्वमेधाभिधेयक्रतुञ्च सकरुणसमौ विललाप ; आललाप च पुनः पुनरेतमेव विषयमधिकृत्यातिविस्तरः।
अथ कथाप्रसङ्गेन वासन्ती, अकालकालकवलितमात्मसुतमुरसासमुद्वहतः सोरसदताडनमब्रह्ण्यमुद्घोषयतः कस्यचिद् ब्राह्मणस्य सकरुणरोदनमाकर्ण्यात्मापराधमाशङ्क्यमानो रघुनाथः सहसैव शम्बूकवैषलस्य तपश्चरणसमुत्थाधर्मविघोषिणीमाकाशवाणिनीमाकर्ण्य समुपजातात्मावज्ञस्तद्वधाय कृपाणपाणिः पुष्पकं विमानमारुह्य तपश्चरणस्थानं निश्चित्य चैतेनैवोपलक्षेण रामभद्रस्यात्र शुभागमनं क्षणमननुभूतपूर्वमानन्दसन्दोहमनुबभूव, विससर्ज च तान्तापसीमगस्त्याश्रमाय वर्णयन्ती दारुणातपतापदुरतिक्रमत्वं दिवसस्य।
अथ शूद्रकमन्विष्यन् रामभद्रो जनस्थानमनुप्रविश्याहत्य च तमकृपः कृपाणेन दिव्यान्दशामनयत्। ततो मिलितः समभिनन्दितश्च पुनः पुरःस्थेन तेन कृतप्रणतिना दिव्याकृतिना शम्बूकेन सहसा समुद्बोधितदण्डकारण्यागण्यस्मृतिः, समवलोकयन् पूर्वपरिचितानामरण्यानामशेषसन्तापहारिणीं चित्तविनोदकारिणीं शोभां, सञ्चिन्तयन् खरदूषणादिवधवृत्तान्तं, पर्यटंश्चेतस्ततः सर्वतः शुभाशीर्वचनपुरःसरममुं विससर्ज दिव्यपुरुषम्।
अथासावपि शाश्वतपदावाप्तितः पूर्वमगस्त्यर्षिचरणयुगलमभिनन्दयितुं तदाश्रममुपेतः समादिष्टश्च स्वमुखात् श्रुतरामागमनवृत्तान्तेन तेनैव मुनिपुङ्गवेन वत्सलया लोपामुद्रया च रामभद्रं पुनरिहोपस्थापयितुं, पुनरपि पञ्चवटीमध्यस्थमस्वस्थं रामभद्रमुपागमत्, न्यवेदयच्च मुनिदम्पत्योर्वक्तव्यजातं विशेषेण।
सहसा शम्बूकमुखात् सस्त्रीकस्यजगद्गुरोरगस्त्यस्यादेशवचनमाकर्ण्य विचिन्त्य च सुदुष्करत्वं पूर्वसुहृदं प्रियसहचरीमिव प्रियायाः पञ्चवटीं सम्प्रति सुचिरावस्थानेनासम्भाव्य प्रस्थानस्य, नितरां सन्देहदोलामारूढः किङ्कर्तव्यविमूढः सर्वथाऽनिच्छन्नपि गुरुजनादेशस्यानतिक्रमणीयतया गृहीतानुमतिः पञ्चवटीसकाशात् तेन समं तदेवाश्रमपदमभिप्रतस्थे।
इत्यशेषशास्त्राटवीसञ्चरणपञ्चानन-कुलपतिकल्प-वि,ए‘इत्युपनामक-श्रीमज्जीवानन्दविद्यासागर-भट्टाचार्यविरचितायां, तदात्मजाभ्यां श्रीमदाशुबोधविद्याभूषण-श्रीमन्नित्यबोधविद्यारत्नाभ्यां परिवर्तित-परिवर्धितायां सुखबोधिनीसमा द्वितीयोऽङ्कः॥२॥