०१ चित्रदर्शनम्

प्रथमोङ्कः (चित्रदर्शनम्)

मङ्गलम्

विस्तारः (द्रष्टुं नोद्यम्)

टीकाकृन्मङ्गलाचरणम्।
विश्वं शश्वच्छरीरं गुणकृतिविवृतं यस्य चानन्तशक्तेः सत्यं वै यस्य रूपं ह्यनुभवसुभगं योगिनां योगदृश्यम्।
व्यप्तं सर्वत्र सृष्टिस्थितिलयगुणको निर्गुणो योऽगुणत्वात् यावान् यस्मिंश्च योऽहङ्कृतिमयवपुषा संस्थितः सोऽहमास्ते॥

कर्मप्रसूतिः प्रभवः फलानां, न तस्य कर्त्ता ह्यपरोस्ति मत्तः।
अतो मयास्मिन्नहमेव वन्द्यः, प्रभुत्वमास्तामपि मे प्रकृत्याम्॥

छात्राणां सुखबोधार्थं श्रीजीवानन्दशर्मणा।
क्रियते विस्तृता व्याख्या नाम्ना च सुखबोधिनी॥

विस्तारः (द्रष्टुं नोद्यम्)

अथ तत्रभवान् निरवद्यविद्याविद्योतमानविद्वन्निकर-निकषायमाणमहाकविपरिकरकुमुदाकर-राकानिशाकरः भवभूतिः, पावनीभिरमलरुचिररामचरितोद्भासितचिरन्तनकविभाषित-कपर्द्दोत्मनिःसृताभिः, सहृदयहृदयनन्दन-सन्तानप्रसूनामोदाधिवासिताभिः, अश्मसारसारस्वान्तविद्रावकापुर्वकरुणारसामारसरित्प्रवाह-शतधारामाध्वीकमाधुरीभिः, साहित्यविद्याजुषां प्रेक्षावतां सौभाग्यलक्ष्मीभुवां सामाजिकानाञ्च तापत्पमानससन्तर्पणाय अलमभिनवनाटकदामैकं ग्रन्थितुमीप्सुः, अपि च क्वचित् वैदर्भरीतिराजिविराजिततया नवजलधरनिनादानुकारिमृदुमधुरगभीरध्वनिप्रायैः माधुर्य्यगुणाभिव्यञ्जक सुललित करुणरसाऽनुप्राणित-मञ्जुलपदविन्यासोपशोभितैः कुत्रचिच्च ओजःप्रकाशकविविधाडम्बरविनिबद्धगौडारीत्यनुगुणसमासबहुलैः पदोपन्यासैरुपेततया अश्मवर्षुक वलाहक-स्फूर्ज्जथुसनाथेरम्मदद्युतितेन वाग्विभवमहिम्ना सभ्यानां नाकसदीय-सुषमारुचिर-सुचिरशान्तिपीयूषोपचितं करुणरसमयमेकमनुपमं मानससन्तर्पणं प्रस्रवणं सिसृक्षुः तत्र च अविगीत शिष्टाचारपरम्पराप्राप्ताम् अगण्यालङ्कारिकवरेण्य-सञ्चरणपूतीकृत-सृतिशासनानुमतां ग्रन्थारम्भपरिसमाप्तिप्रतिबन्धकप्रत्यूहव्यूहविध्वंसपटीयसीम् आदिकविकुलवन्दनामूलिकामभीष्टदेवस्तुतिमयीं पूर्वरङ्गप्रधानाङ्गभूतां नान्दीं वाक्सम्पत्तिसिद्धये रङ्गविघ्नोपशान्त्यर्थञ्च आदाववतारयति, इदमिति।

विश्वास-प्रस्तुतिः

इदं कविभ्यः पूर्वेभ्यो
नमोवाकं प्रशस्महे
विन्देम देवतां वाचम्
अमृताम् आत्मनः कलाम्॥ १॥+++(4)+++

विस्तारः (द्रष्टुं नोद्यम्)

पूर्वेभ्यः प्राचीनेभ्यः कविभ्यः वाल्मीक्यादिभ्यः कविगुरुभ्यः इत्यर्थः। ‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति, तत्त्वमसि श्वेतकेतो’ इति, ‘स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः’ इत्यादिश्रुतेश्च सर्वेषामेव जीवानां खलु परमात्मस्वरूपतयाऽवस्थानस्य उत्कीर्तनात्, तमसां पारेऽवस्थितानां तपश्चर्य्याविधौत-किल्बिषकषायाणामादिकवीनां तत्सधर्मणामपरेषामपि सुतरां चिदात्मभूतत्वमवधेयम्। (अतो हि तेषामपि स्वाभीष्टप्रदत्वमस्त्येवेति ध्वन्यते )।

अपि च ‘ब्रह्माणां वाल्मीकिं विदुः’ इति ‘कृष्णद्वैपायनं विद्धि व्यासं नारायणं प्रभुम् ‘इति च स्मृत्यादौ दर्शनात् तेषामप्यात्मभूतत्वेन ऐशिकवाग्विभूतिसम्पन्नत्वादिति भावः। (इह तु ‘कविभ्यः’ इत्यत्र ‘गुरुभ्यः’ इति पाठान्तरं दृश्यतेम् तदर्थस्तु-पूर्वेभ्यः चिरन्तनेभ्यः नलिनपुलिनप्रभव-प्रभृतिभ्यः, तेषां हि कविषु आदिभूततया तथैव प्रसिद्धेः। गुरुभ्यः कविसम्प्रदायप्रवर्त्तकेभ्यः च तत्रभवहाः अस्मदु गुरुभ्यः इति विशेष्यौभूततया व्यख्येयः; यहा-वाल्मीक्यादिभ्यः आर्षचक्षुष्मद्भ्यः कलिकुलवन्दनीयेभ्यः)।

नमोवाकं-नमः उक्त्वा, (वैदिकोऽयं प्रयोगःणमुलन्तः, चस्य कादेशश्छान्दसः। यद्वा-नमः नमःशब्दस्य वाकः उच्चारणं, यस्मिन्, तद् यथा तथा, प्रशास्महे इति क्रियाया विशेषणामेतत्, वयमित्यूहाम्। वचेः भावे घञ् कुत्वञ्च)।

इदं-वक्ष्यमाणं, प्रशास्महे-प्रार्थयामहे।
(‘प्रशास्महे’ इति तु ‘शास आशीर्वादे’ इत्यादादिकस्य रुपम्; आङः शासु इच्छायाम् इत्याशास्तेः आङ् पूर्वत्वं प्रायिकम्; तेन नमोवाकं प्रशास्म हे इति सिद्धम्’ इति दीक्शिताः। न तु शसनार्थस्य द्विकर्मकस्य परस्मैपदिनः शस्तेः, तस्य चेत् तदा ‘शिष्महे’ इति रुपं स्यात्)।

‘यस्य हि समीपे प्रणतिः क्रियते, तदधिगतस्यैव वस्तुनः तदन्तिके प्रार्थना कर्तुमुचिता’ इत्येतदभिप्रेत्य तदीयां विभूतिमभीप्सुः आह, विन्देमेति।

आत्मनः सतत-परार्थानुध्यानेन तत्त्व-ज्ञानम् अधिजग्मुषः शब्द-ब्रह्म-निष्णातस्य भगवतः वाल्मीकेः
अमृतां पीयूष-रस-धाराम् इव मानसामोदकरीं, देवतां निखिल-तत्त्वार्थ-प्रकाश-करीं दिव्यां, कलां विभूतिं, विन्देम लभेमहि।
तत्-प्रसादात् निर्णिक्तीकृता तदीया भारती मे स्फुरतु इति भावः।

( ‘मुनित्रयं नमस्कृत्य’ नारायणं नमस्कृत्य’ इत्यादौ ‘उपपदविभक्तेः कारकविभक्तिर्बलीयसी ‘इति न्यायेन, नमःशब्दद्योतितप्रणत्यर्थककरोतेः व्याप्तत्वात् नारायणस्य कर्म्मत्वम्, इह तु ’ कविभ्यः’ इत्यनेन गुणीभूतस्यापि नमः शब्दस्य योगात् ‘नमः स्वस्तिस्वाहा- (२। ३। १६ पा०) इत्यादिना चतुर्थी। गुणीभूतानामपि नमःप्रभृतिशब्दानां योगे चतुर्थी शब्दविदां सम्मतैव ; तथा च भट्टिः- ‘रावणाय नमस्कृर्य्याः ’ इति। नातोऽव काऽप्यनुपपत्तिरिति ध्येयम् )।

अथवा आत्मनः परमात्मनः कलाम् अंशभूताममृताम् अमृत-धाराभूतां नित्यामित्यर्थः, (मीमांसकमते शब्दस्य नित्यत्वाभ्युपगमात् निरतिशयसुखहेतुत्वाच्च वेदवदनन्तकालव्यापिनीं) वाचं वाग्रूपां देवतां,-

‘काव्यालापाश्च ये केचित् गीतकान्यखिलानि च।
शब्दमूर्त्तिधरस्यैते विष्णोरंशा महात्मनः॥

इति विष्णुपुराणवाक्यात् शब्दमय्या वाण्याः, कामधेन्वादितन्त्रोक्तवाक्यात्, ‘वा-सान्ते बालमध्ये ड्फ-कठ-सहिते कण्ठदेशे स्वराणां हङ्क्षन्तत्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ’ इति मातृकासरस्वतीध्यानाच्च वर्णमय्या अपि वाण्या देवतात्वमवगम्यते। विन्देम लभेमहीति। (वेन्दतेः तादादिकात् विधिलिङ्)।

पूर्वेभ्यः कविभ्यो नमस्कारपूर्वकं वयमिदं प्रार्थयामहे-यत्तेषां प्रसादात् तदीया रसभावमयी निखिलार्थोद्भासिका लोकमनोहार्णी वाक् अस्य ग्रन्थस्य प्रणयने अस्माकं सहायभूता भवतु इति भावः। अस्य नाटकस्य वाल्मीक्यादिकविवाक्यमूलकत्वात् तेषु इत्थं प्रार्थनेति हृदयम्। वाग्देवी प्रसन्नीभूय तथाविधां काव्यदामगुष्फनप्रतिभां मह्यं ददातु इति वाऽत्र तात्पर्यम्।

अथवा ‘भगवद्वन्दनं त्वाद्यं गुरुवन्दनपूर्वकम्’ इति विधानात् मधुरगिरां सर्वेषामेव कवीनां गुरुत्वात् प्राचेतसादीनामादौ वन्दनस्य औचित्यात् आदित एव तान् वन्दते, इदमिति। -पूर्वेभ्यः कविभ्यो नमः, तेषां काव्येषु पथिप्रदर्शकत्वात्, वा-अपि च वयं कम्-आत्मानं विष्णुं वा, कवेर्वाक्सिद्धिप्रयोजनत्वाद् वाचश्च तस्यांशत्वादिति भावः, इदं प्रशास्महे। किमिति तदेवाह, विन्देमेति। -यदात्मनः विष्णोर्वा कलाम् अंशभूताम् अमृतां तद्वतसुरसां शाश्वतीं देवतां देवप्रभावतीं वाचं विन्देम इति ; अन्यथा अस्य काव्यस्य ग्रन्थनासम्भवादिति भावः।
‘श्लोकैः काव्यार्थसूचकैः’इत्यलङ्कारिकाचार्य्यसमयानुसारतः एतदपि अर्थान्तरं ध्वनयति, तथाहि-आ जननात् अनुपमस्निग्धतातानलसस्नेहभरेण भृशं विवर्द्धिता देवयजनसम्भवा विदेहराजतनया अलीकलोकापवादबयाकुलव्यथितचेतसा स्वप्राणप्रतिमेन चिरजीवनसहचरेण स्वभर्त्रा रामचन्द्रेण अनिमित्तनिराकृता सती सुचिरं जनस्थानमध्यष्य मर्म्मभेदिकां कियतीं विप्रयोगजवेदनामनुभवन्ती, अनुपदन्तु कारुणिकेन वाग्देवता-नवलीलालक्ष्मीलास्यभुवः आदिकवेरनुकम्पया विविधजानपदतपोधनपार्थिवपरिवृतां राजसमितिमेत्य निकारमसहमाना उवाच सपदि- ‘नयतु माम् आत्मनः ओषु विलयमम्बा, न शक्ताऽस्मि ईदृशं जीवलोकपरिवर्त्तनमनुभवितुम्’ इत्यनिशं व्याहरन्ती, धरातले विलयं गतवतीति। तदा तु सा वैदेही पृथ्वीगङ्गाभ्यामवलम्बिता सती यामेव काव्यप्राणोपमकरुणरस-समुद्दीपिकां वाचमभिदधे, काव्यार्थसूचकमेतदेव गर्भितवचनमित्यभिप्रेत्य व्याख्यायते,

तथाहि-पूर्वेभ्यः कविभ्यः आदिकवये वाल्मीकये नमः मदीयाऽसीमा आदौ प्रणतिरस्तु, वाकमन्तिमञ्चेमं व्याहारं प्रशास्महे प्रार्थये, अमृताम् अमृतधारभूताम् आत्मनः मम कलां विभूतिं मातरमिति यावत्, वाचं वाग्व्यापारवतीं मूर्त्तिमतीमित्यर्थः, देवतां धरित्रीं विन्देम लभे ; इदानीमनन्यगतिकामयथानिकृतिं सोढुमशक्नुवतीं दुहितरं मामम्बैव अवत्विति प्रार्थना। सत्यं हि एतत्, पतिहृहनिराकृताया अपांशुलायाः दुहितुः जननी एव शरणं भवतीति दिक्।

अथवा इत्यमपि काव्यार्थोऽत्र सूच्यते। तथाहि-श्लोकपूर्वार्द्धे शब्दशक्तिमूलकधनिमहिम्ना विश्रुतकीर्तीनां सर्वलोकवन्दितानां प्राज्ञानामेवत्र संवर्द्धना सूचिता ; अत एव कविषु आदिभूततया वल्मीकेरिव अन्येषामपि प्राक्तनानां महामहिमशालिनां वरणीयत्वमर्थवशात् सम्पन्नम्। सत्यप्येवम्, अत्र सूचितेषु वस्तुषु वर्णनीयस्य वरेण्यस्य भगवतः रामभद्रस्यैव प्राधान्यप्रतीतेः अन्येषां लक्ष्मणादीनाञ्च तथ्विधमुख्यत्वानवगमात् बहुनेतृत्वास्कन्दितत्वात् न शङ्कनीयं नाटकस्य बहुनायिकप्रयुक्तदीपसम्पृक्तत्वम्। अतः एतस्मिन् काव्ये लक्ष्मणशत्रुघ्नयोश्चोपवर्णनस्योपसर्जनीभूततया भगवता रामभद्रेण सीताविवासनार्थं लक्ष्मणः, लवणबधाय च शत्रुघ्नः प्रेषितः।

एवञ्चाचाक्षेपवशात् प्रथमाङ्कोपनिबद्धं वस्तु ध्वनितम्। परार्द्धे च देवीप्रमभाग्यभाक् काचन विदुषी स्त्री उपवर्ण्यते इति गम्यते, सा च ‘आत्मनः कलाम्’ इत्यभिधानात् च देवयजनांशभूता, देवस्य च कस्यचित् धर्म्मपत्नीति प्रतीयते। ‘अमृताम् ‘इति पदेन च सम्भाविताशुभायाः विवशायाः तस्या भागीरथीधरित्रीभ्यां जीवनविसर्ज्जनव्यवसायात् विनिवर्त्तनं कियच्च समाश्वासनं संसूच्यते ;अतः द्वितीयाङ्कात् प्रभृति सप्तमाङ्कं यावत् नाटकेऽस्मिन्नुपवर्णितस्य विदेहराजतनयासम्बलितवस्तुनः विवृतिः उपदर्शितेति सुधीभिः समीक्ष्यावधेयम्।

अत्र तु प्राधान्येन कविना करुणविप्रलम्भाख्यशृङ्गाररसः उपवर्णितः। करुणवीरभयानकादयश्च रसाः प्रधानरस-परिपोश्ःअणव्यपेक्षया यथायथमुपवर्णिताः। अत्र रतेरेव स्थायीभावतया विशदीकृत्य नायिका-नायिकयोः सम्भोगमावेदयितुं पुरतः चित्रप्रदर्शनव्यपदेशेन पूर्वरागः आलिखितः कविना। पुनश्च सप्तमाङ्के वनस्थलीमध्युषितायाः विवासितायाः विमनायमानायाः सीतायाः समागमोपायाः अनुसृतः, कल्पनया च दर्शनस्पर्शनादिना रतिः कियच्च प्रकटीकृता इति। वृत्तं पथ्यावक्त्रम्- ‘युजीर्जेन सरिद्भर्तुः पथ्यावक्त प्रकीर्तितम्’ इति लक्षणम्॥ १॥

मूलम्

इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशस्महे।
विन्देम देवतां वाचममृतामात्मनः कलाम्॥ १॥

विश्वास-प्रस्तुतिः

(नान्द्यन्ते )

विस्तारः (द्रष्टुं नोद्यम्)

नान्द्यन्ते इति। -नन्दन्ति प्रसीदन्ति देवता यस्मात् सा नान्दी। (भ्वादिगणीय-नदिधातोर्घञ्, पृषोदरादित्वात् वृद्दिः, ततो ङीप् ) तथाहि,- ‘देवद्विजनृपादीनामअशीर्वादपरायणा। नन्दन्ति देवता यस्मात् तस्मान्नान्दीति कीर्त्तिता॥ इत्यालङ्कारिकवाक्यम् ; सा च सूत्रधारेण कर्त्तव्या। अथवा-नन्दयति स्तवेन देवान् आशीर्वचसा च सभ्यान् नत्या चात्मानं या शैलूषेरिता वाक्, सा नान्दीत्युच्यते, (नन्दयतेः कर्त्तरि पचादित्वादच् पश्चाच्च ‘प्रज्ञादिभ्यश्च’ (५। ४। ३८ पा०) इति सूत्रेण स्वार्थे अणि स्त्रियां ङीष्, इति वा व्युत्पत्तिः)। तथाहि -नाट्यप्रदीपे, नन्दन्ति काव्यानि कवीन्द्रवर्गाः कुशीलवाः पारिषदाश्च सन्तः। यस्मादलं सज्जनसिन्धुहंसी तस्मादियं सा कथितेह नान्दी॥ इति। सा चात्र सुप्तिङन्तरूपद्वादशपदात्मिका ज्ञेया ; तथ् चात्र तिङन्तात्मकं द्विविधं, सुबन्तात्मकञ्च दशविधं, मिलित्वा च द्वादश पदानि इति बोध्यम्। अत्र नमोवाकमिति तु असमस्तरूपमेव ज्ञेयम्, अस्मस्तपक्षानादरे नान्दीलक्षणायोगात्। एवमेवाह भरतः स्वकृतनाट्यशास्त्रे पञ्चमाध्याये ;- ‘सूत्रधारः पठेत् तत्र मध्यमं स्वरमाश्रितः। नान्दीं पदैर्द्वादशभिरष्टाभिर्वाप्यलङ्कृताम्॥ इति। पदमत्र त्रिविधं बोध्यं,-पादरूपं, सुप्तिङन्तरूपं, वाक्यरूपञ्च। तथा च नाट्यप्रदीपकारः-श्लोकपादः पदं केचित्, सुप्तिङन्तमथापरे। परेऽवान्तिरवाक्यैकस्वरूपं पदमूचिरे॥ इति। वेणीसंहारे-श्लोकत्रये पादरूपा द्वादशपदा, शाकुन्तले-वाक्यरूपा अष्टपदा, इत्यास्तां विस्तरः। पदन्त्वत्र यौगिकं वाचकत्वार्थीभिप्रायकं ग्राह्यम् इति। नान्द्यन्ते इति। तथाविधाया नान्द्याः अन्ते पाठावासने इत्यर्थः। तथा चोक्तं,- ‘पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते। प्रविश्य तद्वदपरः काव्यमासूत्रयेत नटः॥ इति।

अस्माभिस्तु तत्रभवतां सर्वेषां प्रत्नालङ्कारिकाचार्य्याणां प्राचीनतया भरतादीनां मतमनुसृत्य ‘इदं पूर्वेभ्यः’ इत्यादि श्लोकेषु नान्दीत्वमव्याहतमिति प्रागभिदर्शितम्। तत्तु नवीनाः न मन्यन्ते, ‘पदैर्युक्ता द्वादशभिः’ इत्यादिना विरोधात् ; अत एव केचन पूर्वरङ्गस्य रङ्गद्वाराभिधानमङ्गमेतदिति वदन्ति। सत्यप्येवम् ; प्रथितकविग्रथितेषु बहुषु नाटकेषु ; प्रथमत एव ‘नान्द्यन्ते सूत्रधारः ‘एतावानेव पाठक्रमः दृश्यते’ कुत्रचिच्च कविकृतमङ्गलाचरणरूपस्य श्लोकस्यान्ते, अतस्तायोरविवादाय इत्थमेव ‘नान्द्यन्ते सूत्रधारः’ इति लिखन तस्यायमभिप्रायः,-नान्द्यन्ते सूत्रधारः इदं प्रयोजितवान् ; इतः प्रभृति मया नाटकमुपादीयते इति कवेरभिप्रायः सूचितं इति। इदन्त्वत्र तत्त्वं-यत् नव्यानां मते वाचिका एव नान्दी सूत्रधारेण प्राक् पठिता, एष खलु कविकृतमङ्गलाचरणरूपः श्लोकः इति।

मूलम्

(नान्द्यन्ते )

प्रस्तावना

विश्वास-प्रस्तुतिः

(नान्द्यन्ते) सूत्रधारः - अलम् अतिविस्तरेण ।
अद्य खलु भगवतः कालप्रियानाथस्य यात्रायाम्
आर्यमिश्रान् विज्ञापयामि -
एवम् अत्र-भवन्तो विदाङ्-कुर्वन्तु ।

विस्तारः (द्रष्टुं नोद्यम्)

सूत्रधार इति। -सूत्रं वर्णनीयवस्तूनि धारयति प्रवर्त्तयतीति सूत्रधारः, नाटकस्थापको नटविशेषः। तथा हि- ‘वर्णनीयतया सूत्रं प्रथमं येन सूच्यते। रङ्गभूमिं समाक्रम्य सूत्रधारः स उच्यते॥ इति। (आहेति क्रियापदेनाध्याहार्य्येणान्वयः )।

अलमिति। -अतिविस्तरेण अलं, वाग्बाहुल्यं निष्प्रयोजनमिति भावः। ‘अलं भूषणपर्य्याप्ति-शक्तिवारणवाचकम्’ इत्यमरः। द्वादशपदात्मकनान्दीप्रयोगेणैवाभीप्सित-देवस्तुतिमयनान्दीप्रयोगनिर्वाहात्, अत्र तावत् वाक्प्रसरभूयिष्ठं निष्फलम् एवेति। विघ्नबाहुल्याशङ्कयैव तदनुष्ठानादिति तात्पर्य्यम्।

अथ प्ररोचनां प्रस्तोतुं सामाजिकजनानां समवधानाय प्रार्थयते, ओति। -भगवतः,-ऐश्वर्य्यादिगुणवतः।

कालेति। -उज्जयिनीस्थितस्य कालप्रियनाथस्य-महाकालेत्यपराख्यस्य शिवमूर्त्तिविशेषस्य इत्यर्थः। - ‘यद्राजधान्युज्जयिनी महापुरी सदा महाकालमहेशयोगिनी’ इति, ‘महाकालं यजेद्देव्या दक्षिणे धूम्रवर्णकम् ‘इत्यादौ च दर्शनात्। कथासैत्सागरेऽपि- ‘यस्यां वसति विश्वेशो महाकाल वपुः स्वयम्। शिथिलीकृतकौलास-निवासव्यसनो हरः॥ इति। अस्या देवमूर्तेः प्रतिष्ठास्थानमपि महाकालशब्देनोच्यते,- ‘प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्, पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालाम् ‘इत्याद्यारभ्य, ‘पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य’ इति, ‘अप्यन्यस्मिन् जलधर। महाकालमासाद्य काले’ इति च। तट्टीकायां, महाकालं नाम पूर्वोक्तचण्डीश्वरस्थानमिति दर्शनाच्च ग्रन्थोक्तकालप्रियनाथस्यैव नामान्तरं महाकाल इति तत्प्रतिष्ठास्थानञ्च महाकालशब्देनोक्तमित्यनुमन्यामहे। अपरञ्चानेन महाकविना स्वाधिष्ठानविज्ञापनार्थं महावीरचरिते दक्षिणापथान्तर्वर्त्ति-पद्मपुरनगरस्य निर्देशात् पद्मपुरस्य चावन्त्सान्निध्यात्, तदुक्ता कालिदासोक्ता च शिवमूर्त्तिरेकैवेत्यनुमीयते। ‘उज्जयिनी..स्याद्विशालाऽवन्ती पुष्पकरण्डिनी’ इति हेमचन्द्रः। विशालावन्त्युज्जयिन्यश्च एकार्थप्रतिपादिकाः। कालप्रियनाथो नाम विदर्भेषु भवभुतिनिवासे पद्मपुरनगरे समासीनः देवमूर्त्तिभेदः, तस्य यात्रायाम् उत्सवे इत्यपि केचित् व्याचक्षते।

यात्रायाम्-यान्ति अत्र जनौघा इति या-धातोः ष्ट्रन्। कालप्रियनाथोत्सवे जनसमागमे मिलितसभायाम् इत्यर्थः। अपि वा कालप्रियनाथस्य भगवतः वार्षिकोतवव्यापारं सम्यक् साधयितुं पौरजानपदैरनुष्ठीयमाने महोत्सवे, समागतानिति शेषः। ‘यत्रोत्सवे गतौ वृत्तौ’ इति हेमचन्द्रः।

आर्य्यमिश्रान्- पूज्यतमान्। ‘कर्त्तव्यमाचरन् कार्य्यमकर्त्तव्यमनाचरन्। तिष्ठति प्रकृताचारे स वै आर्य्य इति स्मृतः॥ इति। अपि च,- ‘कुलं शीलं दया दानं धर्मः सत्यं कृतज्ञता। अद्रोह इति येष्वेतत् तानार्य्यान् सम्प्रचक्षते॥ इति। तेषु मिश्राः श्रेष्ठाः तान्। आर्य्याश्च मिश्राश्च ये तथाभूतानिति वा विग्रहः, अतीव सत्कारार्हानित्यर्थः। - ‘स्यादुत्तरपदे मिश्रस्त्रिषु श्रेष्ठार्थवाचकः’ इति दर्शनात्। कालप्रियनाथोत्सवे समागतान् पूज्यतमान् रसास्वादनिपुणान् पण्डितान् विज्ञापयामि कथयामि इति भावः।

मूलम्

(नान्द्यन्ते) सूत्रधारः - अलमतिविस्तरेण ।
अद्य खलु भगवतः कालप्रियानाथस्य यात्रायामार्यमिश्रान्विज्ञापयामि - एवमत्रभवन्तो विदाङ्कुर्वन्तु ।

विश्वास-प्रस्तुतिः

अस्ति खलु तत्रभवान् काश्यपः,
“श्री+++(→वेदवाक्)+++-कण्ठ”–पद-लाञ्छनः, पद-वाक्य-प्रमाण-ज्ञो भव-भूतिर् नाम जतु-कर्णी-पुत्रः ।

विस्तारः (द्रष्टुं नोद्यम्)

किमिति तदेवाह,-अत्रभवन्तः,-पूज्यतमाः, उदाराशयाः सभासदः इत्यर्थः, एवम्-इत्थं, विदाङ्कुर्वन्तु-विन्दन्तु, (विदाङ्कुर्वन्त्वित्यन्यतरस्याम्’ (३। १। ४१ पा०) इति सूत्रेण निपात्यते ) अवधारयन्तु इत्यर्थः। ‘त्रिषु तत्रभवान् पूज्यस्तथैवात्रभवान्’ इति वैजयन्ती।

काश्यपः,-कश्यपस्य गोत्रापत्यं पुमानिति अनन्तरापत्यरूपेणैव ऋष्यणाभिधानं भविष्यति, कश्यपगोत्रोद्भवः इत्यर्थः। ब्रह्मणो मानसपुत्रो मरीचिस्तत्पुत्रः कश्यपः तद्वंशजः काश्यपः कश्चित् मुनिविशेषः, स आदिपुरुषो यस्य सोऽपि काश्यपः। तथाहि मनुः- ‘जमदग्निर्भरद्वाजो विश्वामित्राऽत्रिगोतमाः। वशिष्ठकाश्यपाऽगस्त्या मुनयो गोत्रकारिणाः॥ इति। ‘एतेषां यान्यपत्यानि तानि गोत्राणि मन्यते’ इति च।

श्रीकण्ठपदलाञ्छनः,-श्रीः सरस्वती कण्ठे यस्य तथाविधानुपूर्व्यवच्छिन्नं पदमुपाधिर्लाञ्छनं परिचायकं, चिह्नमित्यर्थः, यस्य स तथोक्तः, श्रीकण्ठोपाधिक इत्यर्थः। ‘ऋचो यजूंषि सामानि सा हि श्रीरमृता सताम्’ इति श्रुतिप्रतिपादिता वाक् इह श्रीशब्देनाभिहिता ज्ञेया।
अथवा श्रीर् वेशरचनाशोभा-भारतीसरलद्रुमे’ इति नानार्थकोषः।
लोकातिषायि-कवित्वसम्पद्-भूषितत्वाद् अस्य कवेः तदानीन्तनैः विद्वद्भिः श्रीकण्ठ इति वेशेषणं परिकल्पितमिति।
पदवाक्यप्रामाणतत्त्वज्ञ इति,-पदं सुप्तिङादिविभक्त्यन्तम् ; वाक्यं तथाविधपदसमुदायात्मकम् ; प्रमाणं-प्रमीयते अनेनेति करणव्युप्तत्या तत्साधुत्वविनिर्णायकं शास्त्रमुच्यते, पदवाक्यानां प्रमाणं समीचीनत्वादिबोधकं यत् शास्त्रं शब्दशास्त्रमित्यर्थः, तस्य तत्त्वज्ञः याथार्थ्यवित्,-शब्दविद्यापारं गतः तत्प्रयोगनिपुणाश्च इति समुदितार्थः।
जातूकर्णीपुत्रः,-जातूकर्णगोत्रसम्भूता तज्जननी आसीत्, तस्याः तनयः, एतेनास्य मातामहगोत्रमप्यभ्यधायि। भवभूतिर्नाम इति। -भवस्य हरस्य भूतिः ऐश्वर्य्यमिव भूतिः ज्ञानसम्पत् यस्य तथाविधः। भवभूतिरित्यन्वर्थनामा इति भावः। अथवाऽस्य कवेः साऽम्बा पुनातु भवभूतिपवित्रमूर्त्तिः’ तपस्वी काङ्गतोऽवस्थामिति स्मेराननाविव। गिरिजायाः स्तनौ वन्दे भवभूतिसिताननौ॥ इत्यादिकं वा महोदारं श्लोकमाकर्ण्य सन्तुष्टेन राज्ञा भवभूतिरिति नास्त्येवैषः सततं समाहूतः आसीत्, इत्यैतिह्यं प्रचरति ; एतदभिप्रेत्यैतत् वा प्रवृत्तमिति बोध्यम्।
यं ब्राह्माणमियं देवी वाग् वश्येवानुवर्त्तते।
उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते॥ २॥

मूलम्

अस्ति खलु तत्रभवान्काश्यपः श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणज्ञो भवभूतिर्नाम जतुकर्णीपुत्रः ।

विश्वास-प्रस्तुतिः

यं ब्रह्माणम् इयं देवी
वाग् वश्यैवान्ववर्तत
उत्तरं राम-चरितं
तत्-प्रणीतं प्रयोक्ष्यते ॥२॥

विस्तारः (द्रष्टुं नोद्यम्)

असौ कविः कथमन्वर्थनामा अभूत् ? तदेव विवृणोति, यमिति। -ब्राह्मणं यजनादिषट्कर्म्मनिरतमित्यर्थः यं भवभूतिम् इयं सुप्रतिष्ठिता वाग्देवी वश्या वशीभूता अभिप्रायानुसरिणो रमणीव अनुवर्त्तते अनुगच्छति, इङ्गितमात्रेणैवाभिमतं साधयति इत्यर्थः ; वाचि तस्यैतादृशी प्रभूता आसीत् यत् अभिलाषमात्रेणैव सा हृद्गतमतिनिगूढमनिर्वचनीयमपि रसभावं यथागतं प्रबन्धादिषु प्रवर्त्तयति इति भावः। तेन कविना स्वाभिप्रायानुरूपं वस्तुजातमायासं विनैव वर्णयितुं शक्यते, इति फलितार्थः। ( एतेन अतुलनीयोऽयं कविरिति व्यज्यते )। तेन श्रीकण्ठभवभूतिना प्रणीतम् उत्तरं पश्चिमं परार्द्धमिति यावत्, सीताविवासनाश्रयं रामचरितम् ; शोक्षोपनयनताडकावधवनप्रस्थानरावणनिधनसीतोद्धरणादिकं पूर्वचरितं महावीरचरितनिबद्धं विहाय रामस्य रामस्य उत्तरचरितानामभिवर्णनात् उत्तररामचरितमित्यस्य नाटकस्य आख्या जाता। (तद्विग्रहस्तु-रामस्य चरितम् इति षष्ठीसमासः, उत्तरं रावणवधादुपरिष्टात् विवृतं रामचरितं यत्र तथोक्तम्; रावणहननात् परं भगवतः राघवस्य पश्चिमकथाश्रयं यद्वृत्तं तद्बहुलमित्यर्थः। यद्वा-उत्तरम् अन्तिमं यत् रामस्य भावरसोज्ज्वलं प्रत्यक्षचित्रबहुलं चरितम् उत्तररामचरितमित्यर्थः, तदधिकृत्य कृतमेतत् इति व्युत्पत्या ‘अधिकृत्य कृते ग्रन्थे’ (४। ३। ७८ पा०) इति सूत्रेण अणि, पश्चाच्च ‘लुबाख्यायिकाभ्यो बहुलम्’ इति वार्त्तिकेन अणः लुपि ‘उत्तररामचरितम्’ इति सिद्धम्। यद्यपि कविना स्वयमेव ‘उत्तरं रामचरितम्’ इति कृत्वा नाटकस्य नाम अभिहितं, तथाप्यस्माभिः रामचरितस्य ‘अधिकृत्य कृते ग्रन्थे’ इत्यनुशासनात् नाटक-नामपरत्वे उत्तरमिति पदान्वययोगात् एकपदीकृत्य ‘उत्तररामचरितम्’ इति रूपकनामाभिप्रायेणैव व्याख्यातम्। एवं हि प्रयुञ्जते शिष्टाः। ‘नामकार्य्यं नाटकस्य गर्भितार्थप्रकाशकम्’ इत्यालङ्कारिकवचनात्, वर्णनीयगर्भितविषयमधिकृत्यैव कविना इत्थं नाटकाभिधानं कृतमिति ध्येयम् )। नाटकत्वञ्चास्य,- ‘नाटकं ख्यातवृत्तं स्यात् पञ्चसन्धिसमन्वितम्। पञ्चादिक् दशपरास्तत्राङ्काः परिकीर्त्तिताः॥ इत्यादि साहित्यदर्पणोक्तविधान्दुपयुज्यते। प्रयोक्ष्यते अभिनेष्यते, नटभूमिकामधिष्ठाय अवस्थाऽनुकरणादिना सम्पादयिष्यते अस्माभिरिति शेषः। अभिनयश्च और्वचनैर्वेशभूषादिभिः रसप्राशकमुखरागादिभिश्च क्रियते। उक्तञ्च,- ‘भवेदभीनयोऽवस्थाऽनुकारः, स चतुर्विधः।
आङ्गिको वाचिकश्चैवमाहार्य्यः सात्विकस्तथा॥ इति।
इत्थञ्चात्र प्ररोचना नाम भारतीवृत्तेः अङ्गमेकं प्रदर्शितम्।

‘या वाक्प्रधाना पुरुषप्रयोज्या स्त्रीवर्ज्जिता संस्कृतवाक्ययुक्ता।
स्वनामधेयैः भरतैः प्रयुक्ता सा भारती नाम भवेत् वृत्तिः॥

इति नाट्यशास्त्रोक्तेः ; ‘यं ब्राह्मणम्’ इति पुरुषेण नटेन संस्कृतवाक्येन प्रयुक्तं, तेन इयं भारती नाम वृत्तिः। ‘तस्याः प्ररोचना वीथी तथा प्रहसनामुखे। अङ्गानि -’ इति दर्पणोक्तेः कविनैपुण्यप्रकटनेनअभिनयदर्शनादौ सभ्यानां प्रवृत्युन्मुखीकरणात् प्ररोचना। तल्लक्षणं यथा,-

‘निवेदनं प्रयोज्यस्य निर्देशो देशकालयोः।
कविकाव्यनटादीनां प्रशंसा तु प्ररोचना॥

इति।
(अत्र वाग्देव्याः वश्यत्वेन सम्भावनात् इवशब्देन च तत्प्रकाशनात् वाच्यगुणोत्प्रेक्षाऽलङ्कारः। यत्र विशेषणादिमहिम्ना विअचित्र्याविशेषाधायकत्वं तत्रैवोपमाध्वनेर्विषयः, अत्र तु विशेषणायोगात् उत्प्रेक्षालङ्कारेणैव तद्वैचित्र्यप्रतीतेश्च ’ वश्या भार्या इव’ इत्युपमाध्वनेर्नावसरः)।

(अत्र श्लोके ‘यं ब्राह्मणम्’ इत्यत्र ‘यं ब्रह्माणाम्’ इति, ‘प्रयिक्ष्यते ‘इत्यत्र ‘प्रयुज्यते’ इति पाठान्तरं दृश्यते, तदर्थस्तु-ब्रह्माणं-ब्राह्मणं ,- ‘ब्रह्मा विप्रः प्रजापतिः’ इत्यभिधानात् ; प्रयुज्यते-अभिणीयते इति। एतत्पाठे अर्थगतवैचित्र्याभावेऽपि अलङ्कारगतं वैचित्र्यमस्ति। यथा हि-अञ्जयोनेः दुहिता सती सरस्वतीं वश्या सेविकेव नियतं नितरां तमुपतिष्ठते, तथैव स्वतः प्रतिभासमानशब्दब्रह्मणः आदिकवेः वाल्मीकेरिवास्य मनसि वशीभूता वाक् सततमुदगात् इति। एतेन च कवेः महामहिमशालित्वं कृतेश्च प्रख्यातेतिवृत्तत्वेन नाटकत्वं सूच्यते इति )। पथ्या वक्त्रं वृत्तं, लक्षणन्तूक्तं पुरस्तादिति॥२॥

मूलम्

यं ब्रह्माणमियं देवी वाग्वश्यैवान्ववर्तत ।
उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥२॥

विश्वास-प्रस्तुतिः

एषोऽस्मि कवि-वशाद् +++(नाटकाङ्गत्वेन)+++ आयोध्यकस् तदानीन्तनश् च संवृत्तः । +++(5)+++

विस्तारः (द्रष्टुं नोद्यम्)

एष सूत्रधारोऽहं कार्य्यवशात् प्रयोगानुष्ठानानुरोधाद्धेतोः अन्यतः आगतोऽपि अयोध्यायां भवः (धन्वयोपधाडुञ् (४। २। १२१ पा०) इति सूत्रेण वुञ् ) ; आयोध्यिकः अयोध्यावासी इत्यर्थः, तदानीन्तनश् च, इदानीन्तनोऽपि रामसामयिकश्च संवृत्तः सञ्जातः ;

तथा चाभिनेयवस्तुनः समधिकं सौष्ठवं सम्पादयितुं तात्त्विकतया च यथायथमुपवर्णयितुं तत्तदेशाचारविज्ञानस्यास्ति प्रयोजनमिति विचार्य्य सूत्रधारेण अयोध्याजनपदवासिभूमिकेदानीमस्माभिरधिक्रियते इत्युक्तम् ; एवञ्च रामभद्रस्य नियतमवितथमेव चरितम्वोपवर्ण्यते इति सूचितम्। समन्तात्-परितः, अवलोक्य-निरीक्ष्य, तत्प्रयोजनन्तु नटानां सम्यक् सावहितत्वविज्ञानार्थमिति।

मूलम्

एषोऽस्मि कविवशादायोध्यकस्तदानीन्तनश्च संवृत्तः ।

विश्वास-प्रस्तुतिः

(समन्तादवलोक्य । ) भो भोः, यदा तावद्
अत्र-भवतः पौलस्त्य-कुल-धूम-केतोर् महाराज-रामस्यायं पट्टाभिषेक-समयो रात्रिन्-दिवम् अ-संहृत-नान्दीकः,
तत् किम् इदानीं विश्रान्त-चार-चरणानि+++(=नटानि)+++ चत्वर-स्थानानि ।

विस्तारः (द्रष्टुं नोद्यम्)

पुलस्त्यस्य ब्रह्मणो मानसपुत्रस्य दशानां प्रजापतीनामन्यतमस्य कस्यचित् मुनिविशेषस्य अपत्यं पुमानिति पौलस्त्यो विश्रवाः, तस्य तनुजः पौलस्त्यः रावणस्तस्य कुलं वंशः, राक्षसकुलम् इति यावत्, तस्य ; धूमः केतुः चिह्नं यस्य स धूमकेतुः अग्निः तत्स्वरूपः, समूलनाशकत्वात्। (एतेन राक्षसकुलस्य तृणौपम्यं व्यज्यते )।

केचित् तु -धूमकेतुः गगनोदितोत्पातविशेष इव प्रलयकारणं तस्य तथोक्तस्य, दशाननकुलान्तस्य इत्यर्थः इत्याहुः, तन्न सम्यक् मन्यन्ते केचन ; तथा हि तेषां मते-गगनोदित-धूमकेतुना हि न स्वेन विनाश्यन्ते लोकाः, किन्तु सकललोकसंहारसूचकेन भूयते, इति प्रसिद्धः। अत एव कालिदासः,- ‘उपप्लवाय लोकानां धूमकेतुरिवोत्थितः’ इति ; माघे च ‘शत्रूणामनिशं विनाशपिशुनः केतुश्चकारास्पदम्’ इति। सत्यप्येवं, विवदमानां विविधवादे बहूनामेव कवीनां नायकत्वार्थाभिप्रायेणैव धूमकेतुशब्दप्रयोगदर्शनात् ‘पौलस्त्यधूमकेतोः’ इत्यस्य दशमुखकुलान्तकस्य इत्यर्थः एव समीचन इति मन्यामहे ; एतदभिप्रेत्यैव कविभिरस्य शब्दस्योपादानं बहुशः कृतम् तत्र तु दिङ्मात्रमुपादीयते तथाहि-जयदेवः ,- ‘म्लेच्छनिवहनिधने कलयसि करवालं, धूमकेतुमिव किमपि करालं, इति सुधीभिः अवधातव्यम्।

रात्रिम् इति ; रात्रौ च दिवा चेति रात्रिन्दिवम्। ‘अचतुर -..’ (५। ४। ७७ पा०) इत्यादिना द्वन्द्वाश्रयणात् रात्रेः ‘मान्तत्वं निपात्यते’ इति काशिका।

असंहृतेति। -प्रसंहृताः अविश्रान्ताः, अविरतमनुष्ठीयमाना इत्यर्थः ; आनन्दयन्ती इति आनन्दाः आनन्दजनिकाः नान्द्यः मङ्गलजनिकाः तौर्य्यत्रिकरूपाः प्रीतिवहाः क्रिया यस्मिन् अभिषेक-समये स तथोक्तः (समयविशेषणमेतत्) अविश्रान्तानन्दसन्दीहरमणीयः इत्यर्थः।

तद् इति। तत्-तदा किमिति कथं विश्रान्ताः निरुद्यमाः अभिनयादि-व्यापार-विरताः तूष्णीम्भूता इत्यर्थः।
चारयन्ति प्रथयन्ति प्रथयन्ति कीर्तिमिति चारणाः नटा येषु तानि तथोक्तानि चत्वरस्थानानि अङ्गनभूमयः। (चत-धातोः औणादिकः ष्वरच् ) यद्वा,-विश्रान्ताः, स्वस्वव्यापारतो विरताः चारणाः अदिकारिणः पुरुषाः येषु तथोक्ताः। निर्व्यापारतया चत्वरेषु उपविश्य चाराः विश्राम्यन्तीति भावः। (महाराजरामभद्राभिषेकसमयः प्रकृतिजनान्दविधायी कथङ्कारं हि समुत्सुकैः सद्भिः पौरजानपदैः न नीयते? इति प्रस्तावनातारणफलकं नटस्याभिधानमोहनीयम् )। अत्त्र हि रामभद्राभिषेकसम्पत्तये अविश्रान्तनान्दीपाठात् चारणप्रवेशाभव इदानीं सूच्यते, तेन पुनश्चारणाः चत्वरेषु विश्रम्यन्ति इति।

अथवा यतः नान्दीपाठस्य विरामाभावः अभिषेकस्य विघ्नबाहुल्याशङ्कया अभीक्ष्णामनुष्ठीयते तत् तस्मात् तस्मात् किम् ? चत्वरस्थानेषु चारणा विश्राम्यन्ति इति सूत्रधारप्रश्नाशयः।

मूलम्

(समन्तादवलोक्य । ) भो भोः, यदा तावदत्रभवतः पौलस्त्यकुलधूमकेतोर्महाराजरामस्यायं पट्टाभिषेकसमयो रात्रिन्दिवमसंहृतनान्दीकः, तत्किमिदानीं विश्रान्तचारचरणानि चत्वरस्थानानि ।

विश्वास-प्रस्तुतिः

(प्रविश्य ।) नटः -
भाव+++(=विद्वन्)+++, प्रेषिता हि स्व-गृहान् महाराजेन
लङ्का-समर-सुहृदो महात्मानः प्लवङ्-गम–राक्षसाः,
सभा-जनोपस्थायिनश् च नाना-दिग्-अन्त-पावना ब्रह्म-र्षयो राजर्षयश् च,
यत्-समाराधनायैतावतो दिवसान् प्रमोद आसीत् ।

विस्तारः (द्रष्टुं नोद्यम्)

भवेत्यादि। -भावेति सूत्रधारसम्बोधनम्। भावयति स्थापयति प्रायोगमिति भावः सूत्रधारः। ‘सूत्रधारं वदेद् भावम्’ इति साहित्यदर्पणो, ’ भावो विद्वान्’ इत्यमरकोषो च। प्रेषिताः,-स्वस्थानं प्रति समुचितसत्कारं विधाय गमनार्थमनुमताः। इतः अस्या अयोध्याया इत्यर्थः। प्लवन्तः सन्ती गच्छन्तीति प्लवङ्गाः वानराः उपलक्षणात् भल्लूका अपि, सुग्रीवहनुमज्जाम्बवदादयः, ते च राक्षसाः विभीषणादयश्चेति तथोक्ताः। (रक्ष्यते हविः अस्मादिति, रक्षतेः असुन्, रक्षांस्येव राक्षसाः स्वार्थे अण् )। सभाजनाय अभिषिच्यमानस रामस्य संवर्द्धनाय उपहारादिभिः उपतिष्ठन्ते ये तथोक्ताः, रामं प्रीणयितुमभीप्सवः इत्यर्थः। ‘समाजोपस्थायिनः’ इति पाठे तु-योगिनामूर्द्धेरेतसामन्येषाञ्च सधर्म्मणां समूहमुपस्थातुं शीलं येषां तथाभूताः इत्यर्थः ; ‘पशूनां समजोऽन्येषां समाजोऽथ सधर्म्मिणाम्’ इत्यमरः। नानादिगन्तागता इति। -नाना बह्व्यः याः दिशः तासामन्तः सीमा तस्मात् अपि आगताः उपस्थिताः, सर्वस्याः दिशः विदिशश्च आयाताः। (नानादिगन्तपावनाः’ इति पाठे तु-नानादिगन्तानां बह्वीनां दिशां पावनाः, स्वाधिष्ठानेनाभिक्रमणेन च तास्तान् दिगन्तान् पूतीकुर्वन्तः अयोध्यामागताः इत्यर्थः )। स्वभावे च स्वरूपे च अन्तं शेषे पुमानपि। नाशे प्रान्ते च सीमायां निश्चयेऽवयवे पुमान्॥ इति कोषः। ब्रह्माणाश्च ते ऋषयश्चेति ब्रह्मर्षयः, राजानश्च ते ऋषयश्चेति राजर्षयः, (उभयत्रापि कर्मधारयः)। ब्राह्मणा ऋषयः वशिष्ठादयः, क्षत्रिया ऋषयः जनकादयः, इति विविधा ऋषयो निमिन्त्रिता आसन्।
यदाराधनायेति-यान् यानेव महाभागान् आराधयितुं तोषयितुमेतावतः इयतः दिवसान् अहानि व्याप्येत्यर्थः (’ कालाध्वनोरत्यन्तसंयोगे (२। ३। ५ पा०) इति द्वितीया ) उत्सवः आसीदिति, इदानीमेव ते स्वगृहं प्रति प्रस्थिताः, अत एव हि निरुत्सवतया शून्यचारणसञ्चरणानि चत्वरस्थानानि दृश्यन्ते इति भावः।

मूलम्

(प्रविश्य ।) नटः - भाव, प्रेषिता हि स्वगृहान्महाराजेन लङ्कासमरसुहृदो महात्मानः प्लवङ्गमराक्षसाः सभाजनोपस्थायिनश्च नानादिगन्तपावना ब्रह्मर्षयो राजर्षयश्च, यत्समाराधनायैतावतो दिवसान्प्रमोद आसीत् ।

विश्वास-प्रस्तुतिः

सूत्रधारः - आ, अस्त्य् एतन् निमित्तम् ।

मूलम्

सूत्रधारः - आ, अस्त्येतन्निमित्तम् ।

विश्वास-प्रस्तुतिः

नटः - अन्यच्च ।

वसिष्ठाधिष्ठिता देव्यो
गता रामस्य मातरः ।
अरुन्धतीं पुरस्कृत्य
यज्ञे +++(तज्-)+++जामातुर्+++(=ऋष्यशृङ्गस्य)+++ आश्रमम् ॥३॥

विस्तारः (द्रष्टुं नोद्यम्)

सम्प्रति हि उत्सवाभावे कारणान्तरमपि दर्शयति, वशिष्ठेति। -वशिष्ठेन तन्नाम्ना रघुकुलगुरुणा अधिष्ठिताः अधिनायकत्व-भूमिकाम् अधिष्ठाय नीयमानाः, अग्रेसरस्य वशिष्ठस्यानुपदं क्रममाणाः इत्यर्थः, देव्यो राघवमातरः कौशल्यादयः, अरुन्धतीं वशिष्ठपत्नीं पुरस्कृत्य अग्रे कृत्वा,
यज्ञे द्वादश-वार्षिक-क्रतौ, तन्निमित्तमित्यर्थः,
(निमित्तात् कर्मयोगे’ इति वार्त्तिकेन, यन्निमित्तिका क्रिया तस्मादेव सप्तमी अनुशिष्टा, तथा च ‘वस्त्रेषु रजकमवबोधीत् कृष्णः’ इत्यादयः प्रयोगः सङ्गच्छन्ते।

निमित्त-कर्मणोर् अवयवावयवित्वादि-लक्षण-समवाय-सम्बन्धावच्छिन्नाधेयत्वादाव्
अगाहि-प्रतीतौ सत्याम् एव निमित्तवत् पदोत्तरं सप्तमीति केचित्;
तथा च तेषां मते यज्ञोद्देश्यकमाश्रमकर्मकं यदतीतगमनं तदनुकूलकृतिमत्यः देव्यः इत्याकारकोऽन्वयबोधः। अत एव ‘चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्’ इत्यादि सिद्धम्। यतो हि समवायसंसर्गवाहिप्रतीतौ निमित्तबोधकात् सप्तमी विहिता, अत एव, ‘मुक्ताफलाय करिणं हरिणं पलाय’ इत्यदयः अपप्रयोगा एव इति वदन्ति )।

जामातुः ऋष्यशृङ्गस्य आश्रमं तपोवनं गताः प्रतिस्थिरे।
लौकिकाचरं सम्यक् संरक्षितुं
महर्षिः केवलं स्वयम् अगत्वा
स्वपत्नीम् अरुन्धतीम् ऊरीकृत्य ययाव् इत्य् अभिप्रायः।
ऋष्यशृङ्गस्तु कथं हि जामाता आसीत् तत् तूपरिष्टात् व्यक्तीभविष्यति॥ ३॥

मूलम्

नटः - अन्यच्च ।

वसिष्ठाधिष्ठिता देव्यो गता रामस्य मातरः ।
अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम् ॥३॥

विश्वास-प्रस्तुतिः

सूत्रधारः - वैदेशिकोऽस्मीति पृच्छामि ।
कः पुनर्जामाता ।

विस्तारः (द्रष्टुं नोद्यम्)

वैदेशिक इति। -वैदेशिकः विदेशवास्तव्यः अन्यदेशीयः , अभिनेतुमेव इदानीं वितथाऽऽयोध्यिकामधिगतह्, अस्मि भवामि, अहमिति शेषः, इति-अस्माद्धेतोः, पृच्छामि इत्युत्तरेणान्वयः ; तथा च न पूर्वापरवाक्यविरोधः, अत एव ‘पृच्छामि कः पुनः’ इत्यादिप्रश्नावसरः आयाति। (अस्मीति-अहमर्थकमव्ययम् इत्यपि केचित्। पुनः,-वाक्यालङ्कारे )।

मूलम्

सूत्रधारः - वैदेशिकोऽस्मीति पृच्छामि ।
कः पुनर्जामाता ।

विश्वास-प्रस्तुतिः

नटः - कन्यां दशरथो राजा
शान्तां नाम व्यजीजनत्
+++(श्राद्धाद्य्-)+++अपत्य-कृतिकां राज्ञे
रोमपादाय तां ददौ ॥४॥

विस्तारः (द्रष्टुं नोद्यम्)

कथं हि मुनिः ऋष्यशृङ्गः तज्जामाता आसीत् ?-तदेव व्यनक्ति, कन्यामिति। -राजा दशरथः शान्तां नाम कन्यां दुहितरं व्यजीजनत् उत्पादयामास (दैवादिकजनिधातोः णिजन्तात् लुङि रूपम् )। अपत्यकृतिकां अपत्याय अपत्य-देय-पिण्डोदकादि-सम्पत्तये अपत्यार्पितपिण्डादिकं लब्धुमिति भावः, कृतिः करणं ग्रहणमिति यावत् यस्याः तां (शेषाद्विभाषा’ (५। ४। १५४ पा०) इति सूत्रेण कप् ) दत्त्रिमां सुतामित्यर्थः, यां शान्तां नाम कन्यां राज्ञे लोमपादाय अङ्गाधिपाय ददौ अदितेति, लोमपादस्यानपत्यत्वादिति भावः। अपुत्रो हि अङ्गराजः लोमपादः अन्तिमे वयसि स्थितः स्वप्रियसखं दशरथं तद्दुहितरं शान्ताम् अपत्याय ययाचे किल, ततश्च अधिगतां तां मुनये ऋष्यशृङ्गाय दातुमैषीत्, मुनिस्त्वसौ तामुपयेमे। तथा च रामायणे ऋष्यशृङ्गं प्रति लोमपादवाक्यम्। – अयं राजा दशरथः सखा मे दयितः सुहृत्।
अपत्यार्थं ममानेन दत्तेयं वरवर्णिना॥

याचमानस्य मे ब्रह्मन् शान्ता प्रियतमा मम।
सोऽयं ते श्वशुरो धीर यथैवाहं तथा नृपः’ ॥ इत्यादि।
अत एव हि लोमपादस्य जामातरि ऋष्यशृङ्गे राज्ञः दशरथस्य जामातृत्वसम्बन्धः न विरुध्यते। सुष्ठु सङ्गच्छते पुनः रामस्य मातरः जामातुराश्रमं गताः इति कवीरितं वचः। अपि च, –

अपुत्रस्त्वङ्गराजो वै लोमपाद इति श्रुतः।
स राजानं दशरथं प्रर्थयिष्यति भूमिपः॥

अनपत्योऽस्मि धर्म्मज्ञ कन्येयं मम दीयताम्।
शान्ता शान्तेन मनसा पुत्रार्थं वरवर्णिनी॥

ततो राजा दशरथो मनसाऽभिविचिन्त्य च।
दास्यते तां तदा कन्यां शान्तामङ्गाविपाय सः॥

प्रतिगृह्य च तां कन्यां स राजा विगतज्वरः।
स्वपुरं यास्यति प्रीतिः कृतार्थेनान्तरात्मना॥

तां कन्यामृष्यशृङ्गाय प्रदास्यति स पार्थिवः।
ऋष्यशृङ्गोऽपि च प्रीतो लब्ध्वा भार्य्यां भविष्यति॥

इत्यादि।

उद्धृतवचने ‘दीयतां’ दास्यते’ प्रतिगृह्य’ इत्यादिशब्दैः दानविधिः स्पष्ट एव।
तया चापुत्र इत्युपसंहार-दर्शनात् औरसपुत्रीवत् दत्तपुत्रापि पुत्रप्रतिनिधिः भवतीति गम्यते। यथाऽऽह मनुः –

सदृशन्तु प्रकुर्य्याद् यं
गुणदोषविचक्षणम्।
पुत्रं पुत्रगुणैर् युक्तं
स विज्ञेयस्तु कृत्रिमः’॥

इति॥

पुत्रमित्यत्र पुंस्त्वम् अविवक्षितं,
स्त्रिया अपि कृत्रिमत्वादिकं सम्भवति,
यथा ‘एवञ्च औरसदुहित्रभावे दौहित्रकृतलोकप्राप्त्यर्थं क्षेत्रजादिदुहितृणामपि प्रतिनिधित्वेनोपादानं सिद्धमेव’ इति दत्तकमीमांसा।

केचित्तु, -अपत्यकृतिकेति पदं पुत्रिका-करणाभिप्रायकं वदन्ति- ‘अस्या गर्भे यः पुत्रो जनिष्यते , स मम पुत्रो भविष्यति’ इति समयपूर्वं या कन्या दीयते, सा हि कन्याप्रदातुः ‘पुत्रिका’ इत्युच्यते। तथा च वशिष्ठः,-

अभ्रातृकं प्रदास्यामि तुभ्यं कन्यामलङ्कृताम्।
अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति’ ॥

अपि च मनुः, – अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम्।
यदपत्यं भवेदस्यां तन्मम स्यात् स्वधाकरम्॥

अनेन तु विधानेन पुरा चक्रेऽथ पुत्रिका।
विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः’ ॥ इति।
एवञ्च सति, वृद्धस्य लोमपादस्य आत्मनः दुहितुरभावे सख्युः दशरथस्य दुहितरमादाय पुत्रिकाकरणमित्यवगम्यते इति वदन्ति ; तत्तु न समीचीनमिति विभावयामः,-स्वात्मजायाः एव पुत्रिकाकरणस्य शास्त्रकृद्भिरनुशिष्टत्वादिति॥४॥

मूलम्

नटः - कन्यां दशरथो राजा शान्तां नाम व्यजीजनत् ।
अपत्यकृतिकां राज्ञे रोमपादाय तां ददौ ॥४॥

विश्वास-प्रस्तुतिः

विभाण्डकसुतस् ताम् ऋष्यशृङ्ग उपयेमे ।

विस्तारः (द्रष्टुं नोद्यम्)

विभाण्डकेति। -पश्चात् विभाण्डकस्य तदाख्यस्य मुनेः सुतः पुत्रः ऋष्यशृङ्गस्तां कन्यां शान्ताम् उपयेमे उदवोढ। ( ‘उपात् यमः स्वकरणे’ (१। ३। ५६ पा०) इति सूत्रेण स्वकरणरूपोद्वाहार्थबोधनादात्मनेपदम् )। ‘कथं हि ब्राह्मणः सन् ऋष्यशृङ्गः क्षत्रियतनयां शान्तां परिणिनाय ?’ इति नैव शङ्का कार्य्या, असवर्णविवाहस्तु कलीतरयुगेषु अविगीतः शास्त्रकृतामनुमतश्च आसीत्। तथा च मनुः,-

शूद्रैव भार्या शूद्रस्य, सा च स्वा च विशः स्मृतः।
ते च स्वा चैव राज्ञः स्युः, ताश् च स्वा चाग्रजन्मनः॥

इति।

कलौ त्वसवर्णाया अविवाह्यत्वमधिकृत्यादित्यपुराणां, व्यवस्थापूर्व्वकं पुरा बुधैः कर्म्माण्येतानि अधस्तान्न्यस्तापि निवर्त्तितानि इत्याह। यथा, –

दीर्घकालं ब्रह्मचर्य्यं
धारणञ्च कमण्डलोः।
देवरेण सुतोत्पत्तिः
दत्तकन्या प्रदीयते॥

कन्यानाम् असवर्णानां
विवाहश्च द्विजातिभिः।
आततायि-द्विजाग्राणां
धर्म्मयुद्धे ऽनिहिंसनम्॥

इत्यादि।

मूलम्

विभाण्डकसुतस्तामृष्यशृङ्ग उपयेमे ।

विश्वास-प्रस्तुतिः

तेन द्वादश-वार्षिकं +++(सत्त्रं)+++ सत्रमारब्धम् ।

विस्तारः (द्रष्टुं नोद्यम्)

तेनेति। -तेन च ऋष्यशृङ्गेण, द्वादशवर्षं भावि इति द्वादशवार्षिकं, द्वादशवर्षसाध्यम् इत्यर्थः, (तमधीष्टो भृतो भावी’ (५। १। ८० पा०) इति सूत्रेण ठकि ‘वर्षस्याभविष्यति’ (७। ३। १६ पा०) इति सूत्रेण उत्तरपदवृद्धिः )। सत्रं-यज्ञः, आरब्धम्-उपक्रान्तम्।

मूलम्

तेन द्वादशवार्षिकं सत्रमारब्धम् ।

विश्वास-प्रस्तुतिः

तद्-अनुरोधात्
कठोर-गर्भाम् अपि जानकीं विमुच्य
गुरु-जनस् तत्र यातः ।

विस्तारः (द्रष्टुं नोद्यम्)

(ब) तदिति। -तस्य आरब्धयज्ञस्य जामातुः ऋष्यशृङ्गस्य अनुरोधात् अभिलाषात्, प्रार्थनया इति यावत्, कठोरः पूर्णो गर्भो यस्याः तथोक्तामपि (अपिकारस्तु तस्यास्थ्यागायोग्यतां सूचयति )। वधूं स्नुषां जानकीं विमुच्य त्यक्त्वा गुरुजनः श्वश्रूजनः कौशल्यादिस्तत्र तदीययज्ञस्थाने गतः ; गुरुसङ्गः ऋष्यशृङ्गस्य यज्ञवाटमियायेत्यर्थः।

मूलम्

तदनुरोधात्कठोरगर्भामपि जानकीं विमुच्य गुरुजनस्तत्र यातः ।

विश्वास-प्रस्तुतिः

सूत्रधारः - तत् किम् अनेन । एहि ।
राज-द्वारम् एव +++(राजस्तुति-रूपेण)+++ स्व-जाति-समयेनोपतिष्ठावः ।

विस्तारः (द्रष्टुं नोद्यम्)

(भ) तदिति। -तत् तदा, अनेन तत्त्द्विषयकालोचनया वृथाकालहरणेनेत्यर्थः, किम् ?
तदालोचनं निष्प्रयोजनमिति भावः।
‘तत् किमन्येन ‘इति पाठे-यद्येवं तदन्येन अन्यकार्य्येण राजसमीपगमनादन्येन कार्य्येणेत्यर्थः, किं किं प्रयोजनम् ?

एहि आगच्छ, स्वजातिसमयेन स्वजात्याः चारणाजात्याः समयेन राजस्तुतिरूपेण समुदिताचारेण तथाविधमाचारमाश्रित्येत्यर्थः। ‘समयाः शपथाचारकालसिद्धान्तसंविदः’ इत्यमरः। राजद्वारमेव उपतिष्ठावः गच्छावः। (अत्र उपतिष्ठतेः देवपूजार्थत्वाभावात् नात्मनेपदम् )।

मूलम्

सूत्रधारः - तत्किमनेन । एहि ।
राजद्वारमेव स्वजातिसमयेनोपतिष्ठावः ।

विश्वास-प्रस्तुतिः

नटः - तेन हि निरूपयतु
राज्ञः सुपरिशुद्धाम् उपस्थान-स्तोत्र-पद्धतिं भावः ।

विस्तारः (द्रष्टुं नोद्यम्)

(म) तेनेति-तेन हि आवयोः इदानीं राजसमीपोस्थानोचितत्वेन हेतुनाम् सुपरिशुद्धां सर्वथा दोषरहितां सर्वावयवेषु अनिन्दितामित्यर्थः, उपस्थानस्य उपासनायाः या स्तोत्रपद्धतिः स्तुतिप्रणालीं तां नृपोचितस्तोत्रप्रकारमित्यर्थः। निरूपयतु भावः,-निश्चिनोतु विमृष्यावधारतु भवानित्यर्थः। राज्ञमुपस्थानसमये यादृशी स्तोत्रपद्धतिरनुसर्तुमुचिता अगर्णीया च भवति तथाविधमेव स्तोत्रप्रकारमिदानीमनुसर इत्याशयः।

मूलम्

नटः - तेन हि निरूपयतु राज्ञः सुपरिशुद्धामुपस्थानस्तोत्रपद्धतिं भावः ।

विश्वास-प्रस्तुतिः

सूत्रधारः - मा-रिष+++(=आर्य)+++,

सर्वथा व्यवहर्तव्यं
कुतो ह्य् अवचनीयता +++(कलौ सद्-विषयेषु)+++ ।
यथा +++(सतीनां)+++ स्त्रीणां तथा +++(कवि-)+++वाचां
साधुत्वे दुर्जनो जनः ॥५॥

विस्तारः (द्रष्टुं नोद्यम्)

(य) मारिष -आर्य्य आर्य्यार्थप्रित्पादको नाटकादिषु एव प्रयोज्य एष शब्दः । तथाहि भरतः,- ‘किञ्चिदूनस्तु मारिषः’ इति, ‘आर्य्यस्तु मारिषः’ इत्यमरश्च।
(रेषतेः निषेधार्थक-मा-शब्देन एकपदीभावः, तथा च मानम् रेषति दुष्टाभिनयेन सभ्यानां शान्तिं हिनस्ति इति व्युत्पत्या मारिषशब्दः नटानाम् अभिनयसौष्ठवपरीक्षकाणां सम्बुद्ध्यर्थाभिधायकः। तथा च साहित्यदर्पणे- ‘सूत्रधारं वदेत् भाव इति वै पारिपार्श्विकः। सूत्रधारो मारिषेति- ‘इत्यादि। ‘मारिषः शिकभिद्यार्य्ये नाट्योक्तौ पुंसि योषिति’ इति मेदिनी )।

नीचाशयाः परोत्कर्षम् असहमानाः
स्वाभिप्रायानुसारतः अनिन्द्यम् अपि वस्तु गर्हयन्ति
अतः तत् समाधानम् असमाकलय्य
स्वकृत्ये यतितव्यम्
अन्यथा कर्त्तव्यार्थहानिः स्याद्
इत्यभिप्रायेणह, सर्वथेति
-व्यवहर्त्तव्ये व्यवहार्य्य सर्वेषां समालोचनीय इत्यर्थः,
वस्तुनि सर्वथा सर्वप्रकारेण अवचनीयता अनिन्द्यता कुतः ?
दुर्जन-सङ्कुले इह जगति सा कथमपि न सम्भवतीति भावः।
जनापवाद-भयं विहाय
राज-स्तुति-रूपम् अधुना व्यवहर्त्तव्यम्
अभीष्टं वस्तु अस्माभिः
योग्यताऽनुसारतः सम्पादयितुम् अहनीयम् इत्याशयः।

हि-निश्चये। लोकनिन्दाया अपरिहार्य्यत्वमर्थान्तरन्यासेन द्रढयति , तथेति। -जनः लोकः स्त्रीणां सतीनां योषितां साधुत्वे पांशुलत्वादिदोषराहित्ये सत्यपि साध्वीनामपि विशुद्धे चरिते इत्याशयः, यथा दुर्जनः खलः भवीतिति शेषः, अयथाऽपवादमुद्भावयतीत्यर्थः,
तथा वाचां कविवचसां साधुत्वे निराकाङ्क्षत्वादि-दोषापरामृष्टत्वेऽपि माधुर्य्यौज्ज्वल्यादिविषये स्वभावत एव दुर्जनः असूयति ;
-सर्वथा दोषासम्पृक्तायां वनितायामिव सत्कविभणितौ दुर्ज्जनः खलः प्रकृत्या खलु दोषदर्शी भवतीति भावः। ‘दोषदर्शित्वमेव दौर्ज्जन्यम् ‘इति सङ्क्षेपः। (पिशुनो दुर्ज्जनः खलः’ इत्यमरः) तथा च लौकिकानामाभाणकः,- ‘काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने मुहुः दोषान्वेषणमेव मत्सरजुषां नैसर्गिको दुर्ग्रहः। कासारेऽपि विकाशिपङ्कजचये खेलन्मराले पुनः क्रौञ्चश्चञ्चुपटेन कुञ्चतवपुः शम्बूकमन्विष्यति॥ इति।
(अत्र व्यवहर्त्तव्ये वस्तुनि वचनीयत्वाभावरूपं कार्य्यं, निर्द्दिषासु वाक्षु दुर्जनानां स्वाभाविकासूयाकारित्वरूपस्य कारणस्य समर्थकम्, अतः पूर्वार्द्धवाक्यं प्रति परार्द्धवाक्यस्य भङ्ग्यन्तरेण समर्थकत्वात् कार्य्येण कारणसमर्थनरूपाऽर्थान्तरन्यासालङ्कारः, उत्तरार्द्धगतोपमयाऽङ्गाङ्गिभावेन सङ्कीर्य्यते। अवचनीयतेत्यत्र नञः पर्य्युदासरूपत्वेन ‘अमुक्ता’ इतिवत् समासे गुणीभावात् विधेयतानवगमः। परन्तु अत्र प्रसज्यप्रतिषेधार्थकत्वेन विधेयत्वमेवोचितमिति अविमृष्टविधेयांशकत्वरूपो दोषो ज्ञेयः। ‘सर्वथा व्यवहर्त्तव्यम्’ इति पाठे तु,-सर्वथा अपवादभीतिं परित्यज्य व्यवहर्त्तव्यं राजस्तुतिरूपमभीत्सितं कर्म समाचरणीयमित्यर्थः। यतः पद्धतेरतिशुद्धत्वेऽपि निन्दापरिहारसम्भावना नास्तीति भावः।
अत्रैतत् प्रथमाङ्के नानार्थरसोत्पादकहेतुतया वर्णितस्य सीताविवासनरूपप्रयिजनैकसङ्गतकथांशभूतस्य आलेख्यसन्दर्शनस्य प्रारम्भेण समायुक्तत्वात् पञ्चसन्ध्यन्तर्गतवीजसन्धेः समाधानरूपमङ्गं वेदितव्यम् ; यतोऽत्रैव सतीनामपि धुरिकीर्तनीयायां कुलललनाऽनुकरणीयचरित्यां विदेहराजतनयायां दुराशयैरयथाऽपवादः वितनिष्यते इति बीजार्थागमनं सूचितम् ; तथाहि- ‘बीजस्यागमनं यत्तु तत्समाधानमुच्यते’ इति लक्षणम्। एवञ्च वचनीयत्वस्य अवर्जनीयत्वात् व्यवहारविलयप्रङ्जाच्च कुलक्रमागतं राजस्तुतिरूपं कर्म अस्माभिरवश्यमेवानुष्ठेयमिति सूत्रधाराशयः )॥५॥

मूलम्

सूत्रधारः - मारिष, सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता ।
यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः ॥५॥

विश्वास-प्रस्तुतिः

नटः - अतिदुर्जन इति वक्तव्यम् ।

देव्या अपि हि वैदेह्याः
सापवादो यतो जनः ।
रक्षो-गृह-स्थितिर् मूलम्
अग्नि-शुद्धौ त्व् अनिश्चयः ॥६॥

विस्तारः (द्रष्टुं नोद्यम्)

(र) अतिदुर्जन इति। -अग्निशुद्धिरूपं बाधकप्रमाणमविश्वस्याविगणय्य च विषयप्रभावं सर्वथा वितथस्यासतोऽपि दोषस्य उत्कीर्तनात् ते अतिदुर्जना एव इति निश्चयः। अतः ‘अतिदुर्ज्जनः’ इति वक्तव्यं, न तु केवलं दुर्जने इति भावः।

गर्भितबीजोन्मेषव्यपदेशेन, अतिदुर्जन इति वक्तव्यतायां हेतुमाह, देव्यामिति।
-यतो यस्मात् जनो लोकः,
(जातवेकवचनम्) देव्यां दीप्तिमत्यां (देवीपदोपादानात् पूतचारित्र्य ध्वन्यते ) साध्वीनाम् आदर्शभूतायाम् इत्यर्थः,
विदेहस्य जीवन्मुक्तस्य राजर्षेः जनकस्य (देहाभिमानशून्यस्य इत्यर्थोऽपि ध्वन्यते ) अपत्यभूतायामपि (एतेन सत्कुलसम्भूतत्वं व्यनक्ति ) जानक्यां
सापवादः अयथाऽपवाददानेऽपि न शङ्काकुलः इत्यर्थः। ततः अतिदुर्जन इति वक्तव्यमिति भावः।

अथ निन्दामूलं दृढं चेत् तद् अपायार्थ-प्रतीकारश् च न सम्यग् इत्याशङ्क्याह,
रक्षं इति। -रक्षसो राक्षसस्य रावणस्य गृहे भवने (रक्षःशब्दोपादानात् दुःशीलत्वं सूचितं ) स्थितिर्वास एव अस्य अपवादस्य मूलं कारणम् (स्थितिशब्देन च चिरकालोषितत्वं सूचितम्म् मूलशब्दाच्च अग्निपरीक्षया निर्णीक्तीकृतायामपि तस्यां मूलसत्त्वात् अपवादपादपस्य पुनः प्ररोहसम्भावना अस्तीति ध्वनितम् )।
अत्रायं भावः,- असहाया वैदेही असद्वृत्तलङ्काधिपभवनमधिष्ठाय कियन्तं कालं निनाय, तावन्मात्रमेव मूलमवलम्ब्य दुर्जनाः ‘तच्चरितभ्रंशो जातः’ इति शङ्कमानाः पूतचरितायां तस्याम् अयथा परिवादमारोपयन्ति इति।

ननु अग्निदाहशुद्ध्या दग्धीभूतापवादपादपस्य कथं हि पुनः प्ररोहः उदपादि ?-इत्याशङ्क्याहम् अग्नीति। -अग्निशुद्धौ रावणवधानन्तरं वह्निपरीक्षया सम्यक् विशोधितायां सत्यामपि तस्यां जन्याम्, अनिश्चयः,-सीता तात्त्विकतया विशुद्धचरिता न वेति सर्वे एव अयोध्यावासिनः सन्देहन्ति। अग्निशुद्धावित्यनेन बाधप्रमाणमुक्तम् ; तथा च बाघज्ञानसत्वे कथं हि संशयः ? इति तु न शङ्कनीयं, तस्याप्रामाण्यशङ्काग्रस्तत्वात्,
अप्रामाण्यग्रहाभावविशिष्टस्यैव बाधज्ञानस्य प्रतिबन्धकत्वनियमात् ;
अथवा-वह्निपरीक्षायाम् अनिश्चयः अप्रत्ययः, तत्र संशयः अस्त्येव जनानाम्। तथा च अग्निपरीक्षायाः लङ्कायामेव समाहितत्त्वात् अयोध्यातः लङ्कायाः सुदूरावस्थितत्वाच्च ‘वह्निपरीक्षा भूता न वा’ इति सर्वे एवायोध्यावास्तव्याः दुर्ज्जनाः शङ्कन्ते इति भावः। (तुशब्दस्तु वैलक्षण्यं द्योतयति, तथा च रक्षोगृहावस्थितेः अग्नोपरीक्षायाश्च उभयोरेव समदैशिकत्वे समकालिकत्वेऽपि एकञ्च विश्वसिति अपरञ्च न विश्वसिति इति महत् वैषम्यमागच्छति, तेन अयोध्यावासिनामतिदौर्ज्जन्यं ध्वनितम्।

एतद्धि, वैदेहीविवासनादिसम्वलितेतिद्वृत्त्तलक्षणप्रस्तुताभिधेयरूपकाव्यार्थस्य समुत्पत्तिरूपतया ‘सर्वथा ऋषयः देवताश्च श्रेयो विधास्यन्ति’ इत्यादि वक्ष्यमाणवचसा च वाल्मीकेः भागीरथ्याश्च विक्लवायाः प्राणवियोगव्यवसितायाः सीतायाः समाश्वसनरूपकाव्यार्थोत्पत्तिरूपतया च मुखसन्धेरुपक्षेपरूपमङ्गं वेदितव्यम् ; तथा हि ‘काव्यार्थस्य समुत्पत्तिरूपक्षेप इति स्मृतः’ इति लक्षणात्। एतेन लोकापवादस्यापरिहार्य्यतया भिया सतीनामिव वाचां वर्जनमनौचित्यमिति गम्यते। इति कथोद्घातः।

अत्र प्रकृतदोषकारणासत्वेऽपि अपवादरूपकार्य्योत्पाददर्शनात् विभावना, परार्द्धं च अग्निशुद्धिरूपहेतुसद्भावेऽपि पूतत्वविषयकनिश्चयरूपकार्य्याभावदर्शनात् विशेषोक्तिः, इत्यनयोः विभावना विशेषोक्त्योः नैरपेक्ष्येणैवात्रावस्थानात् संसृष्टिः। अग्निशुद्धौ इत्यत्र अपिशब्दस्यावश्यवाच्यत्वात् तदनभिधानात् वाच्यस्यानभिधानरूपो दोषः, अपि च अनिश्चय इत्यत्र प्रसज्यप्रतिषेधस्य नञः समासे गुणीभावात् पूर्ववत् अविसृष्टविधेयांशभावरूपः दोषः उन्नेयः )॥६॥

मूलम्

नटः - अतिदुर्जन इति वक्तव्यम् ।

देव्या अपि हि वैदेह्याः सापवादो यतो जनः ।
रक्षोगृहस्थितिर्मूलमग्निशुद्धौ त्वनिश्चयः ॥६॥

विश्वास-प्रस्तुतिः

सूत्रधारः - यदि पुनर् इयं किं-वदन्ती महाराजं प्रति स्यन्देत
ततः कष्टं स्यात् ।

विस्तारः (द्रष्टुं नोद्यम्)

(ल) यदीति। -यदि पुनः यदिहीत्यर्थकमव्ययद्वयं विस्मयसम्वलितसम्भावनारूपार्थमावेदयति, चूर्णकमेतदप्यन्यत् सीताविवासनबीजमवधेयम्। एतेन प्रथमाङ्कार्थः सूचितः। किंवदन्ती-अलीकलोकापवाद इत्यर्थः, महाराजं रामभद्रं प्रति, स्पृशेत् कर्णाकर्णिकतया गच्छेत्, महाराजः तां शृण्यादित्यर्थः। (महाराजं प्रति स्यात्’ इत्यपि पाठः दृश्यते, महाराजमधिकृत्य भवेत्, तद्भार्य्यापवादमवलम्ब्य उदियादित्यर्थः। ‘किंवदन्तीं जनश्रुतिः’ इत्यमरः )। ततस्तदा अतिकष्टमतिशयमनः क्षोभकारणं भवेत्। रामं प्रति इयं किंवदन्ती नः निरतिशयं व्यथयिष्यन्तीति भावः। (राजाहःखिभ्यष्टच्’ (५। ४। ९१ पा०) इति सूत्रेण टच् प्रत्ययेन महाराज इति पदं सिद्धम्। ‘परिस्पन्देत्’ इति पाठे तु-महाराजश्रवणान्तिकं शनैर्गच्छेदित्यर्थः। पाठोऽयं साधीयस्तया प्रतिभाति)।

मूलम्

सूत्रधारः - यदि पुनरियं किंवदन्ती महाराजं प्रति स्यन्देत ततः कष्टं स्यात् ।

विश्वास-प्रस्तुतिः

नटः - सर्वथा ऋषयो देवाश्च श्रेयो विधास्यन्ति ।

विस्तारः (द्रष्टुं नोद्यम्)

(व) ऋषयो वशिष्ठादयः, देवता ब्रह्मादयश्च, सर्वथा सर्व्वप्रकारेण श्रेयो मङ्गलं विधास्यन्ति करिष्यन्ति, (सान्त्वनावाक्यमेतत्)। एवंविधपुण्यव्रतस्य महात्मनो रामस्य पतिव्रतायाः सीतायाश्च न कदाचिदपि देवा ऋषयश्चाशुभं सहिष्यन्ते, प्रत्युत शुभमेव विध्यास्यन्ति, अतो नाशुबमाशङ्कनीयमिति भावः। (एतेन महर्षिणा वाल्मीकिना भगवत्या पृथिव्या च अस्याः समाश्वासनरूपावशिष्टाङ्कार्थः सूचितः)।

मूलम्

नटः - सर्वथा ऋषयो देवाश्च श्रेयो विधास्यन्ति ।

विश्वास-प्रस्तुतिः

(+++(राजभवनं प्रति)+++ परिक्रम्य ।) भो भोः, क्वेदानीं महाराजः ।

विस्तारः (द्रष्टुं नोद्यम्)

(श) परिक्रम्य-राजभवनगमनार्थमिव कियन्ति पदान्तराणि गत्वेत्यर्थः।

मूलम्

(परिक्रम्य ।) भो भोः, क्वेदानीं महाराजः ।

विश्वास-प्रस्तुतिः

(आकर्ण्य ।) एवं जनाः कथयन्ति -

स्नेहात् सभाजयितुम् एत्य दिनान्य् अमूनि
नीत्वोत्सवेन जनको ऽद्य गतो विदेहान् ।
देव्यास् ततो विमनसः परिसान्त्वनाय
धर्मासनाद् विशति वास-गृहं नरेन्द्रः ॥७॥

विस्तारः (द्रष्टुं नोद्यम्)

(ष) आकर्ण्येति। -जनानामुत्तरमाकर्णयितुं दत्तावधान इव इत्यर्थः। इदमाकाशभाषितमुच्यते। उक्तञ्च- ‘अप्रविष्टैः सहालापः भवेदाकाशभाषितम्’ इति।

किं कथयन्तीत्याह, स्नेहादिति। - जनको विदेहाधिपः स्नेहात् प्रीत्या सभाजयितुं सम्भाषणादिना वनात् प्रतिनिवृत्तं राज्ये चाभिषिक्तं रामं संवर्द्धयितुं, सत्कर्त्तुमिति यावत्, सीताञ्च प्रीणयितुमित्यर्थः। (चौरादिकस्य सभाजधातोः तुमुन् )

एत्य, मिथिलातः अयोध्यायाः राजभवनमागत्येत्यर्थः ; अमूनि एतानि, दिनानि दिवसान्, उत्सवेन आनन्दव्यापारेण, नीत्वा यापयित्वा, अद्य विदेहान् विदेहानां जनपदं स्वराज्यमित्यर्थः, गतः प्रस्थितः। ततस्तस्मात् पितृगमनादित्यर्थः, विमनसः विमनायमानायाः देव्याः सीतायाः परिसान्त्वनाय विनोदनाय, नरेन्द्रो रामः, धर्मासनाद् विचारासनात्, स्वीयसिंहासनात् इति यावत्, धर्म्मासनं परित्यज्येत्यर्थः, (ल्यब् लोपे पञ्चमी) वासगृहं शुद्धान्तं विशति प्रविशति। राजकार्य्यमपि परित्यज्य देव्याः परिसान्त्वनार्थं स्वयमेव याति इति (अनेन सीतां प्रति रामस्य स्नेहातिशयो द्योतितः )। वसन्ततिलकं वृत्तम्। - ‘ज्ञेयं वसन्ततिलकं तभजा जगौ गः’ इति तल्लक्षणात् ; चतुर्द्दशाक्षरपादेषु छन्दःसु २९३३ म सङ्ख्याकः प्रस्तारो बोध्यः॥ ७॥

मूलम्

(आकर्ण्य ।) एवं जनाः कथयन्ति - स्नेहात्सभाजयितुमेत्य दिनान्यमूनि नीत्वोत्सवेन जनकोऽद्य गतो विदेहान् ।
देव्यास्ततो विमनसः परिसान्त्वनाय धर्मासनाद्विशति वासगृहं नरेन्द्रः ॥७॥

विश्वास-प्रस्तुतिः

इति निष्क्रान्तौ।

विस्तारः (द्रष्टुं नोद्यम्)

(स) इतीति। -इति इत्थं, मिथः सम्भाषणच्छलेन प्रस्तुतविषयमवतार्य्य नटसूत्रधारौ निष्क्रान्तौ, रङ्गान्निययतुः।

मूलम्

इति निष्क्रान्तौ।

विश्वास-प्रस्तुतिः

इति प्रस्तावना।

विस्तारः (द्रष्टुं नोद्यम्)

(ह) प्रस्तावना-आमुखं, प्रस्तुताक्षेपिणी मिथः सम्भाषणा इत्यर्थः। तथा हि,- ‘नटी विदूषको वापि पारिपार्श्विक एव वा। सूत्रधारेण सहिताः संलापं यत्र कुर्वते॥ चित्रैर्वाक्यैः स्वकार्य्योत्थैः प्रस्तुतक्षोपिभीर्मिथः। आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनाऽपि सा॥ इति साहित्यदर्पणम्। इत्थञ्च प्रस्तावनाऽत्र प्रयोगातिशयरूपा नटानां प्रासङ्गिकाभिनयव्यापारसौष्ठवावगाहिनि अन्योऽन्यालापे प्रवृत्ते, अन्यविधस्य प्रयोगस्य, राजर्षेः जनकस्य विदेहगमनात् विमनायमानां जानकीं समाश्वासयितुं रामभद्रस्य वासगृहप्रवेशरूपस्य प्रयोगान्तरस्य प्रयुक्तेः तेनैव च पात्रप्रवेशदर्शनात्,- ‘यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते। तेन पात्रप्रवेशश्चेत् प्रयोगातिशयस्तदा॥ इति साहित्यदर्पणोक्तलक्षणस्य सङ्गतेः इति केचित्, वदन्ति ; तन्न समीचीनतया प्रतिभाति। यतः,-दर्शितप्रयोगयोरन्योऽन्यतादात्म्यगततथाविधभेदप्रतीतिविरहात् एकविधौ एव प्रयोगौ इति द्राक् प्रतीतिपथमागच्छति, महाराजरामभद्रस्योपचारकरणरूपैकनियोगमधिकृत्य प्रस्तुतस्य पात्रस्य प्रवेशोत्कीर्त्तनात् ; तथा चात्र प्रस्तुतवृत्तान्तप्रतिपादकवाग्विशेषमवतार्य्य निष्क्रान्तेन सूत्रधारेण विवर्णितविषयाश्रयं पात्रं रामभद्रं सीतासन्तोषणोद्विग्रमानसं कठोरगर्भगुर्वीं दोहदवर्तीं विमनायमानां सीतां प्रीणयितुं वासगृहम्ंंंंं•नुप्रवेश्य लोकपरिवादभीतेन भर्त्राऽनुष्ठितं चिराय तथाविधायाः विक्लवायाः सीतायाः वनाय विसर्जनरूपमुपक्षिप्तमर्थान्तरमन्यत् समाहितम् ; अत एवैषाऽवलगितरूपा एव प्रस्तावना ज्ञेया। तथा हि, –

यत्रैकत्र समावेशात् कार्य्यमन्यत् प्रसाध्यते।
प्रस्तुतेऽन्यत्र वाऽन्यत् स्यात् तच्चावलगितं द्विधा॥

इति।
तत्राद्यं यथोत्तरचरिते। समुप्तन्नवनविहारगर्भदोहदायाः सीतायाः दोहदकार्य्ये अनुप्रविश्य जनापवादादरण्ये त्यागः’ इति धनिकेन दशरूपके व्याख्यातम्।
अत्र त्वर्वाचीनाः, –

कालं प्रवृत्तमाश्रित्य सूत्रधृक् यत्र वर्णयेत्।
तदाश्रयश्च पात्रस्य प्रवेशस्तत् प्रवर्त्तकम्

इति।

अन्येषामपि ग्रहणात् कालपदन्त्वत्र उपलक्षणमेव, सुत्रधारेरितप्रस्तुतविषयमधिकृत्य पात्रप्रवेशस्यैवात्र मुख्यत्वात्, अथवा-कालपदमत्र न केवलं शरदादिविशेषकालवाचकम्, अपि तु प्रवृत्तमवादविषयकं यत्किञ्चिद्वस्तुवर्णनाऽभिप्रायकमिति। ननु- ‘आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तिः’ इत्यादौ यद्यपि प्रवृत्तकालसमानगुणवर्णनया पात्रप्रवेशस्य सूचितत्वात् धनिकादिभिरपि एवमेवोक्तत्वाच्च कालविशेषमाश्रित्य कुत्रचित् कियच्च तत्तद्विषयकश्लेषमुखेण वर्णनं दृश्यते, तथापि तत्र केवलं नास्य ग्रन्थस्य तात्पर्य्यम् ; शरदाद्युपवर्णनन्तु सम्पातायातमिति वैचित्र्यविशेषाधानायैव श्लेषमुखेणाभिधानमिति वा, अन्यथाऽपि तस्याः सम्भवात् ; नो चेत् उक्तायाः क्वचिदन्तर्भावाभावात् प्रस्तावनायाः पञ्चविधत्वं व्याहन्येतेति सुधीभिः निभृतं विचारणीयमिति वदन्ति।

मूलम्

इति प्रस्तावना।

राम-प्रवेशः

विश्वास-प्रस्तुतिः

(ततः प्रविशत्युपविष्टो रामः सीता च ।)

विस्तारः (द्रष्टुं नोद्यम्)

(१)अथाऽङ्कः प्रस्तूयते,-ततः इत्यादिना। तथा हि- ‘प्रत्यक्षचित्रचरितैर्युक्तः भावरसोद्भवैः। अन्तनिष्क्रान्तनिखिलपात्रोऽङ्क इति कीर्त्तितः॥ इति दर्पणकारः। प्रविशति-अभिनयस्थले आविर्भवति इत्यर्थः।

मूलम्

(ततः प्रविशत्युपविष्टो/आसनोप्रविष्टो रामः सीता च ।)

विश्वास-प्रस्तुतिः

रामः - देवि वैदिहि, विश्वसिहि/समाश्वसिहि ।

विस्तारः (द्रष्टुं नोद्यम्)

(२)समाश्वसिहि,-समाश्वस्ता भव, शोकं विजहीहीत्यर्थः। (समाङ्पूर्वकात् च श्वसधातोः लोटि मध्यमपुरुषैकवचनम्। ‘रुदादिभ्यः- ‘(७। २। ७६ पा०) इति सूत्रेण इट्)। ते हि प्रसिद्धाः प्रसिद्धार्थकत्वात् तच्छब्दस्य न यच्छब्दापेक्षा।

मूलम्

रामः - देवि वैदिहि, विश्वसिहि/समाश्वसिहि ।

विश्वास-प्रस्तुतिः

ते हि गुरवो न शक्नुवन्ति विहातुमस्मान् ।/ न हि ते गुरवश्चिरं शक्नुवन्ति अस्मान् वियोक्तुम् (ख)।

विस्तारः (द्रष्टुं नोद्यम्)

गुरवः,-तत्र पिता (गौरवे बहुवचनम्), अस्मान्,-त्वां माञ्च (त्यदादीनां सहोक्तौ यत्परं तत् शिष्यते’ इति नियमात् अस्मच्छब्दस्य शेषः, हित्वे बहुत्वम् )। चिरं वियोक्तुं विहाय स्थातुमित्यर्थः, न शक्नुवन्ति, अस्मत्स्नेहाकुलाः त्वरितमेवागमिष्यन्ति इति भावः।

मूलम्

ते हि गुरवो न शक्नुवन्ति विहातुमस्मान् ।/ न हि ते गुरवश्चिरं शक्नुवन्ति अस्मान् वियोक्तुम् (ख)।

विश्वास-प्रस्तुतिः

किन्त्व् अनुष्ठान-नित्यत्वं
स्वातन्त्र्यम् अपकर्षति
सङ्कटा ह्य् आहिताग्नीनां
प्रत्यवायैर् गृहस्थता ॥८॥+++(5)+++

विस्तारः (द्रष्टुं नोद्यम्)

यदि तथा न शक्नुवन्तिम् तदा किमिति अस्मान् परित्यज्य एतावत्कालान् तिष्ठन्तीत्याह, किन्त्विति। - किन्तु यत् तिष्ठति तत्र हेत्वन्तरं विरोधीति कुन्तु शब्दार्थः। किं तत् हेत्वन्तरमित्याह-अनुष्ठानानाम् अग्निहोत्रजपहोमादिपारत्रिक कर्मणां नित्यत्वं अहरहः क्रियमाणत्वम्, अकरणे प्रत्यवायजनकत्वं, सति सम्भवे अपरिहार्य्यत्वं वा ; अथवा,-अनुष्ठानास्य वैवाहिकेऽग्नौ कत्तव्यतया उपदिष्टस्य सायम्प्रातर्होमरूपस्य कर्म्मणः नित्यत्वं नियतकर्त्तव्यत्वम् अनुल्लङ्गनीयत्वमित्यर्थः, (कर्त्तृपदम्); स्वातन्त्र्यम् ऐहिककार्य्येषु स्वच्छन्दचारित्वम् अपकर्षति रुणद्धि, स्वैरावस्थानं न सहते इत्यर्थः ; शश्वत्पदकाङ्क्षिणां मुनीनां व्रतादिरूपपारत्रिकपुण्यकर्माणि तान् सांसारिकविषयोपभोगादिकर्मभ्यो निवारयन्तीति भावः। हि तथा हि, एतदेव विशिष्य व्यनक्तीत्यर्थः, विहिताकरणजन्यैः पापैः वा, सङ्कटा-सं- सङ्कीर्णः कटः स्थानं यत्र तथोक्त, विघ्नबहुला सङ्कुला वा इत्यर्थः। ‘हेत्ववधारणप्रश्नविशेषेषु तथाहि हि’ इति कोषः। ‘विघ्नोऽन्तरायः प्रत्यूहः’ इत्यमरश्च। अवश्यकरणीयतत्तत्कर्म्मानुरिधेन अग्न्याहितानामन्यत्रावस्थितिः असम्भवा एव,- ‘यावज्जीवमग्निहोत्रं जुहोति’ इति श्रुतिप्रतिपादितानाम् अनुष्ठानानां नित्यत्वात्। राजर्षिः जनकस्तु साग्निकः गृहमेधी आसीत्। साग्निका हि वैवाहिकेऽग्नौ सायम्प्रातर्होमादिलक्षणं कर्म नित्यमेवानुतिष्ठन्ति, मृतानाञ्च तेषां तेनैव अग्निना आत्मनः दाहः विहिताः ; तेषामुल्लङ्घने प्रत्यवायश्रुतेः। तदनुरोधादेवासौ झटिति स्वगृहं प्रति निववृते, न हि वात्सल्याभाववत्तया तान् जहौ। – निक्षिप्याग्नि स्वदारेषु परिकल्प्यार्त्विजं तथा।
प्रवसेत् कार्य्यवान् विप्रो वृथैव न चिरं वसेत्॥

इति शातातपवनात्, विधिज्ञः राजर्षिः जनकः कियन्ति अहानि व्याप्य प्रवासं गतः, न पुनः चिरं तस्थौ। अग्निहोत्रादिनित्यकर्मणां प्रतिनिधिविधानं हि स्वल्पकालाभिप्रायकमिति सुधीभिरवधेयम्।
(अत्र परार्द्धगतवाक्यार्थस्य पूर्वार्द्धं प्रति हेतुत्वेनोपन्यासात् पदार्थहेतुकं काव्यलिङ्गम् ; अपि च द्वितीयार्द्धगतसामान्येन प्रथमार्द्धगतः विशेषोऽर्थः सोपपत्तिकः क्रियते, इति सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ; तयोश्चान्योऽन्यनैरपेक्ष्यणावस्थानाभावात् अङ्गाङ्गिभावेन सङ्करः। न हि जनकप्रयाणरूपस्य कार्य्यस्यानुष्ठाननित्यत्वरूपैककारणे सत्यपि भङ्ग्यन्तरेण खलेकपोतिकान्यायेन सङ्कटेत्यादिना कारणान्तरस्य प्रतिपादनात् समुच्चयोऽलङ्कारः शङ्कनीयः ; तथा च प्रदर्शितकारणयोः तथाविधविच्छित्तिविशेषाभावात् अन्योऽन्यगतसुसूक्ष्मभेदाप्रतीतेश्च नायमस्यालङ्कारस्य विषय इति सुधीभिर्विभाव्यम् )॥ ८॥

मूलम्

किन्त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति ।
सङ्कटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता ॥८॥

विश्वास-प्रस्तुतिः

सीता - जाणामि अज्जउत्त, जाणामि ।
किन्दु सन्दावआरिणो बन्धुजणविप्पओआ होन्ति ।

(जानामि आर्यपुत्र जानामि ; किन्तु सन्तापकारिणो बन्धुजनविप्रयोगा भवन्ति।)

विस्तारः (द्रष्टुं नोद्यम्)

(३)आर्य्यपुत्रेति। - आर्य्यस्य गुरोः श्वशुरस्य पुत्र सुतः इति पत्नीकृतं पतिसम्बोधनम्। जानामि जानामीति शोकावेगात् द्विरुक्तम्। तथा चाक्तम् ;- ‘विवादे विस्मये हर्षे खेदे दैन्येऽवधारण। प्रसादने सम्भ्रमे वा द्विस्त्रिरुक्तिर्नदुष्यति॥ इति। बन्धुजनानां पित्रादीनां विप्रयोगः विरहाः सन्तापकारिणः भवन्ति खेदं जनयन्तीत्यर्थः। अत्र अनीचानां योषितां भाषा शौरसेनी विज्ञेया।

मूलम्

सीता - जाणामि अज्जउत्त, जाणामि ।
किन्दु सन्दावआरिणो बन्धुजणविप्पओआ होन्ति ।

विश्वास-प्रस्तुतिः

रामः - एवमेतत् ।
एते हि हृदयमर्मच्छिदः संसारभागाः/संसारभावाः -
येभ्यो बीभत्समानाः
सन्त्यज्य सर्वान्कामान्
अरण्ये विश्राम्यन्ति मनीषिणः ।

विस्तारः (द्रष्टुं नोद्यम्)

(४)एवमेतत्- एतदेवमेवम्प्रकार, त्वया यदुक्तं तत् सत्यमेव इत्यर्थः। एते-अनुभूयमानास्तत्सदृशाश्चान्ये इत्यर्थः, हि-निश्चये, हृदयमर्म्मच्छिदः,-हृदयस्य मर्माणि जीवनस्थानानि सन्धिस्थानानि वा छिन्दन्तीति ते तथोक्ताः हृदयग्रन्थिविश्लेषकाः, वैराग्यजनका इत्यर्थः ; संसारभावाः,-संसरति अस्मिन् इति व्युत्पत्या संसारः, प्राक्तनकर्मणां भोगाय यत्र हि पौनःपुन्येन प्रवर्त्तनं भवति इत्यर्थः, तत्र ये भावाः विषयरूपाः विविधाः अनर्थाममाः इति भावः, शरीरपरिग्रहजन्यसुखदुःखसन्ततिरिति यावत्।

तथा च बन्धुजनविप्रयोगः तदन्तर्भूत एव। येभ्यो विषयेभ्यो इत्यर्थः, बीभसमानाः (वधेश्चित्तविकारे स्वार्थे सन्, ‘जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम्’ इति पाणिनीयवार्त्तिकराद्धान्तेनापादाने पञ्चमी ) जुगुप्समानाः विरक्ताः सन्त इत्यर्थः, (मनसः’ ईषा मनीषा, सा विद्यते येषां ते ) मनीषिणः मनसः वशीकर्त्तारः आत्मदर्शिनः इत्यर्थः, सर्वान्-सकलान्, काम्यन्ते ये ते कामाः विषयास्तान्, सन्त्यज्य सम्यग् विहाय विषयवासनां परिहाय इत्यर्थः ; अरण्ये-वने, विश्राम्यन्ति-शान्तिं लभन्ते, ईश्वरध्यानेन आत्मानं विनोदयन्तीति भावः। (संसारक्लेशापनोदनसूचनार्थं विश्राम्यन्तीति श्रमधातोः प्रयोगे युक्त एव। शमादित्वात् दीर्घः। अत्र काव्यलिङ्गम् अलङ्कारः )।

मूलम्

रामः - एवमेतत् ।
एते हि हृदयमर्मच्छिदः संसारभागाः/संसारभावाः -
येभ्यो बीभत्समानाः सन्त्यज्य सर्वान्कामान्
अरण्ये विश्राम्यन्ति मनीषिणः/मनीषिणो विश्राम्यन्ति ।

विश्वास-प्रस्तुतिः

(प्रविश्य ।) कञ्चुकी+++(=शुद्धान्तरक्षकः स्थविरो द्विजः)+++ - राम-भद्र (इत्य् अर्धोक्ते साशङ्कम् ।) महाराज ।

विस्तारः (द्रष्टुं नोद्यम्)

(५)कञ्चुकी-राज्ञः शुद्धान्तरक्षकः स्थविरः द्विजः ; तथाहि भरतः ,- ‘अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः। सर्वकार्य्यार्थकुशलः कञ्चुकीत्यभिधीयते। जरावैक्लव्ययुक्तेन विशेद् गात्रेण कञ्चुकी॥ इति।
(६)अर्द्धोक्ते साशङ्कमिति। -अर्द्धोक्ते-प्रयोक्तव्यवाक्यस्य कियदंशे उच्चारिते सति। साशङ्कम् इति। -अहो मया प्रभोर् महाराजस्य नामग्राहं सम्बोधनं कृतम्। अतः अपराद्धो भवामि इति आशङ्काकारणम्।

मूलम्

(प्रविश्य ।) कञ्चुकी - रामभद्र (इत्यर्धोक्ते साशङ्कम् ।) महाराज ।

विश्वास-प्रस्तुतिः

रामः - (सस्मितम् ।) आर्य, ननु राम-भद्र इत्य् एव मां प्रत्य् उपचारः शोभते तात-परिजनस्य ।

विस्तारः (द्रष्टुं नोद्यम्)

(७)सस्मितमिति। -ईषद्विहस्येत्यर्थः। - ‘ईषद्विकासिनयनं स्मितं स्यात् स्पन्दिताधरम्’ इति लक्षणात्।
(८)उपचारः,-सेवाव्यवहारः, अयथार्थवाक्येन सन्तोषजननम् इति वा। यथाऽभ्यास्तम्-अभ्यस्तमनतिक्रम्य, अभ्यासानुरूपम् इत्यर्थः। एतेन रामभद्रस्य विनयित्वं महोदारत्वञ्च कियत् विवृतं कविना। (अत्रापि काव्यलिङ्गम्)।

मूलम्

रामः - (सस्मितम् ।) आर्य, ननु रामभद्र इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य ।

विश्वास-प्रस्तुतिः

कञ्चुकी - देव, ऋष्यशृङ्गाश्रमाद् अष्टावक्रः सम्प्राप्तः ।

विस्तारः (द्रष्टुं नोद्यम्)

(९)अष्टावक्रः,-अष्टसु अवयवेषु वक्रः, अष्टौ वक्राणि यस्य इति वा विग्रहः (अष्टनः सञ्ज्ञायाम्’ (६। ३। १२५ पा०) इति दीर्घः )। पुरा किल कहोष्ट(कहोड) नामा सर्वां रात्रिमध्येता कश्चिदृषिः स्वगरोः उद्दालकस्य कन्यां सुजातामुपयेमे। तस्याः परिपुष्टो गर्भः शिष्यगणपरिवृतं पितरमेकदा सर्वां रात्रिमध्ययनं करोषि नेदं पितः सम्यगिवोपवर्त्तते ‘इति उपालब्धवान्। अथ कहोडः ‘उपालब्धः शिष्यमध्ये महर्षिः स तं कोपाद्दरस्थं शशाप। यस्मात् कुक्षौ वर्त्तमानो ब्रवीषि तस्माद् वक्रो भवितास्यष्टवक्रत्वः। स वै तथा वक्र एवाभ्यजायत् अष्टावक्रः प्रथितो वै महर्षुः॥ इति वनपर्वणि १३२ तमे अध्याये तदुत्पत्तिकथा।

मूलम्

कञ्चुकी - देव, ऋष्यशृङ्गाश्रमादष्टावक्रः सम्प्राप्तः ।

विश्वास-प्रस्तुतिः

सीता - अज्ज, तदो किं विलम्बीअदि ।
(आर्य्य ततः किं विलम्ब्यते ?)

मूलम्

सीता - अज्ज, तदो किं विलम्बीअदि ।

विश्वास-प्रस्तुतिः

रामः - त्वरितं प्रवेशय ।

मूलम्

रामः - त्वरितं प्रवेशय ।

विश्वास-प्रस्तुतिः

(कञ्चुकी निष्क्रान्तः । प्रविश्य ।) अष्टावक्रः - स्वस्ति वाम् ।

विस्तारः (द्रष्टुं नोद्यम्)

(१०)स्वस्ति वाम् इति। -भवद्भ्यां कुशलं भूयात्। ‘नमः स्वस्ति ‘- ‘(२। ३। १६ पा०) इत्यादिना चतुर्थी, ततो ‘युष्मदस्मदोः-(८। १। २० पा०) इति वामादेशः।

मूलम्

(कञ्चुकी निष्क्रान्तः । प्रविश्य ।) अष्टावक्रः - स्वस्ति वाम् ।

विश्वास-प्रस्तुतिः

रामः - भगवन्, अभिवादये ।
इत आस्यताम् ।

विस्तारः (द्रष्टुं नोद्यम्)

(११)अभिवादये इति। -भगवन्तमभिमुखीकर्त्तुमभिवन्दे इत्यर्थः। नामग्रहणपूर्वकं नतिरेव अभिवादनमुच्यते, तत्फलमुक्तं मनुना २य अध्याये १२०। १२१ सङ्ख्यकश्लोकयोः ; यथा- ‘ऊर्द्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते॥ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि सम्प्रवर्द्धन्ते आयुर्विद्या यशो बलम्’ ॥ इति।

मूलम्

रामः - भगवन्, अभिवादये ।
इत आस्यताम् ।

विश्वास-प्रस्तुतिः

सीता - भअवं, णमो दे ।
अवि कुसलं सजामातुअस्स गुरुअणस्स अज्जाए सन्ताए अ ।

भगवन् नमस्ते; अपि कुशलं सजामातृकस्य गुरुजनस्य; आर्य्यायाः शान्तायाश्च ?

विस्तारः (द्रष्टुं नोद्यम्)

(१२)अपि-प्रश्ने। ‘गर्हासमुच्चयप्रश्न-शङ्कासम्भावास्वपि’ इत्यमरः। जामात्रा ऋष्यशृङ्गेण सह वर्त्तमानास्य सजामातृकस्य (नद्यृतश्च’ (५। ४१५६ पा०) इति समासान्तः कप् प्रत्ययः )। आर्य्यायाः,-मान्यायाः, पत्युः ज्येष्ठत्वात् ; (ऋच्छतेः ण्यत् निपातनात् )। अत्र ब्राह्मणस्य ऋष्यशृङ्गस्य, तत्परिणीतायाः क्षत्रियात्मजाया अपि शान्तायाः, तथा सपत्नीकस्य वशिष्ठस्य च ब्रह्मतेजःप्राधान्यात् ‘कुशलम्’ इति प्रश्नः सङ्गच्छते। तथा च मनुः- ‘ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्’ इति।

मूलम्

सीता - भअवं, णमो दे ।
अवि कुसलं सजामातुअस्स गुरुअणस्स अज्जाए सन्ताए अ ।

विश्वास-प्रस्तुतिः

रामः - निर्विघ्नः सोम-पीथी भावुको/आवुत्तो मे भगवान् ऋष्यशृङ्गः, आर्या च शान्ता ।

विस्तारः (द्रष्टुं नोद्यम्)

(ड) निर्विघ्नः,-विघ्नरहितः। सोमेति। -सोमः,-स्वर्णवर्णपूतिकलताकारौषधिविशेषः, स च हिमवत्सन्निहितप्रदेशे जायते , पुष्टिहर्षौकाग्न्योन्मादादिकरत्वं तस्य रसस्य गुणाः। पुरा खलु मुनयो यज्ञादौ विशेषतस्तु सोमयागे शर्करया आसवीकृतं तद्रसं पीत्वा आत्मानं बहु मन्यन्ते स्म। सोमः सोमरसः, तस्य पीतं पानं , तस्यास्तीति (इनिप्रत्ययः। यदा पितमनेनेति पीती, सोमे पीतीति तथोक्तः। पृषोदरादित्वात् तस्य स्थाने यः ; अथवा, पीथं पानं तदस्यास्तीति पीथी ‘पाततदिवचिरिचिसिचिभ्यस्थक्’ (उ० २। ७ पा०) इति पिबतेः औणादिकः थक्। ’ सोमपीती’ इत्यपि भवति, तथैव क्वचित् पाठः दृश्यते ; ) स कृतसोमलतारसपानः, यथाविध्यनुष्ठितसोमयागः इत्यर्थः। सोमयागप्रकारस्तु ब्रह्मविवर्त्तपुराणे श्रीकृष्णजन्मखण्डे प्रोक्तः, तथा हि षष्टितमाध्याये नारदं प्रति नारायणवाक्यम्। –

ब्रह्महत्याप्रशमनं
सोमयागफलं मुने।
वर्षं सोमलतापानं
यजमानः करोति हि॥

वर्षम् एकं फलं भुङ्क्ते
वर्षमेकं जलं मुदा।
त्रैवार्षिकमिदं यागं
सर्वपापप्रणाशनम्॥

यस्य त्रैवार्षिकं धान्यं
निहितं भृतिसिद्धये।
अधिकं वापि विद्येत
स सोमं पातुमर्हति॥

महाराजश् च देवो वा
यागं कर्त्तुमलं मुने ।
न सर्वसाध्यो यज्ञोऽयं
ब्रह्मेन्द्रो बहुदक्षिणः॥ ’

इति।

(१३)आवुत्तो-भगिनीपतिः। ‘भगिनीपतिरावुत्तः’ इत्यमरः। दशरथतनयायाः लोमपादपालितायाः शान्तायाः परिणेतृत्वादृष्यशृङ्गस्य रामभगिणीपतित्वम्।

मूलम्

रामः - निर्विघ्नः सोमपीथी भावुको/आवुत्तो मे भगवानृष्यशृङ्गः, आर्या च शान्ता ।

विश्वास-प्रस्तुतिः

सीता - अम्हे वि सुमरेदि ।
अस्मानपि स्मरति ?

विस्तारः (द्रष्टुं नोद्यम्)

(१४)अस्मान् इत्यत्र वैकल्पिकी षष्ठी अपि भवति।

मूलम्

सीता - अम्हे वि सुमरेदि ।

विश्वास-प्रस्तुतिः

अष्टावक्रः - (उपविश्य ।) अथ किम् ।
देवि, कुल-गुरुर् भगवान् वसिष्ठस् त्वाम् इदम् आह -

विश्वम्-भरा भगवती भवतीम् असूत
राजा प्रजा-पति–समो जनकः पिता ते ।
तेषां वधूस् त्वम् असि नन्दिनि पार्थिवानां
येषां कुलेषु सविता च गुरुर् वयं च ॥९॥

विस्तारः (द्रष्टुं नोद्यम्)

(१५)अथ किमिति। -स्वीकारार्थकमेकमव्ययम्, अथवा अव्ययद्वयम्। अथ -अनन्तरं भवद्वाक्यानन्तरम् इत्यर्थः, किं-किमु वक्तव्यमिति शेषः। भवता यदुच्यते तत् तदेव इति भावः। स्मर्य्यते एवेत्यर्थः। अत्र महाराजं रामं मुक्त्वा सीतां प्रति वशिष्ठवाक्यन्तु पुरन्ध्रीस्नेहातिषय्यप्रकटनार्थम्। तदुक्तं वृद्धसनुना- ‘यामयो यत्र शोचन्ति गृहेष्वप्रतिपूजिताः। तानि कृत्याहतानीव विनश्यन्ति समन्ततः॥ इति।

उद्बोधकसमवधानवशादेव हि भवति स्मरणम्। अतः सीताविषयकस्मृतौ नियतोद्बोधकप्रकारं प्रकटीकृत्य वशिष्टवचनव्यपदेशेनाभिधत्ते, विश्वम्भरेति। -हे नन्दिनि पुत्रीसदृशनन्दप्रदत्वात् पुत्रि भगवती विश्वं बिभर्तीति विश्वम्भरा ( ‘सञ्ज्ञायां भृतृ- ‘(३। २। ४६ पा०) इति सूत्रेण खचि, ‘अरुर्द्विषत्(६। ३। ६७पा०) इति सूत्रेण मुम् ) पिथिवी, भवतीमसूत-त्वां प्रसूतवती, (एतेनास्याः विनयसहिष्णूतादिगुणग्रामयोगित्वं भाविपतिवियोगदुःखसहत्वञ्च ध्वनितम्। ) प्रजापतिसमः प्रजानां रक्षणावेक्षणादौ स्वाध्यायाध्ययनादौ वा विधातृसदृशः ; (तथा हि श्रुतिः,- ‘जनकि ह वै’ इत्यादि, आगमश्च- ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः। ‘इत्यादि ) राजा जनकस्ते पिता। (एतेन प्रजासु परिजनेषु च दाक्षिण्यादिकं, पत्या विना एकाकिन्या अपि अरण्यमध्ये भाविनोः पुत्रयोः पालनक्षमत्वञ्च ध्वनितम्। ) येषां पार्थिवानां कुलेषु-(अत्र बहुवचनं पूजायाम्, कुलस्य इत्यर्थः, ) सविता-सूर्य्यः जगतां द्रष्टा दर्शयिता पाता पावनश्च इत्यर्थः, (एतेन तदन्वयानां प्रतापित्वम् औज्ज्वल्यवत्वञ्च ध्वनितम् ) तथा वयञ्च प्रजापतिपुत्रत्वात् बहुवचनमेकत्वे ‘अस्मदो द्वयोश्च’ (१। २। ५९ पा०) इत्यनुशासनात्। सविशेषणस्य प्रतिषेधः इत्यस्य विधेयविशेषणविषये विषयत्वात् दोषाशङ्का नास्ति ‘ततोऽनुत्वं प्रेयान् वयमपि हताशाः प्रियतमाः’ ; ‘वयं तत्त्वान्वेषान्मधुकरः हताः’ इत्यादि प्रयोगदर्शनात्। यद्वा जृम्भकास्त्रादिप्रदानादिभिः विश्वामित्रवाल्मीक्यादीनामपि ग्रहणात्, ‘वशिष्ठाङ्गिरसौ ऋषी प्राचेतसस्तथा’ इत्यादि स्मरणाच्च बहुवचनम्। गुरुरित्यनुषक्तस्य वचनविपरिणामात् गुरवः उपदेष्टारः। (एतेन लौकिकाचारादिपरिज्ञानं ध्वन्यते )।

(सूर्य्यवंशीयानामादिभूतत्वात् सवितुः गुरुत्वमार्त्विज्यकरणात् वशिष्ठस्यापि तथात्वम्। ‘गुरुस्तु गीष्पतौ श्रेष्ठे’ ‘गुरौ पितरि दुर्भरे’ इत्युभयत्रापि विश्वः। अज्ञाननिवर्त्तकः वेत्यर्थः ;- ‘गुशब्दस्त्वन्धकारस्यात् रुशब्दस्तन्निवर्तकः’ इत्युक्तेः। ) त्वं तेषां पार्थिवानां सूर्य्यवंशीयानां राज्ञाम् इत्यर्थः, (एतेन सर्वसुखाकरत्वं ध्वन्यते ) वधूः स्नुषा असि। (एतेन प्रतिदिनं नवनवसुखप्रदपदार्थदर्शनाकाङ्क्षा सम्माननार्हत्वञ्च ध्वन्यते। ) विश्वम्भराजनकसवित्रादिसम्पर्ककृता वशिष्ठमिश्राणां रतिः प्रीतिरूपाऽत्र सांसर्गिकीनामधेया इति ज्ञेया, सा च क्वचित् क्वचित् सांसर्गिकी, नैसर्गिकीम् औपमानकी, आध्यात्मिकी अपि भवति इति बोध्यम्। तथा हि-भोजराजः,- ‘रतिर्निसर्गसंसर्गौपम्याध्यात्माभियोगजा। सम्प्रयोगाभिमानोत्था विषयोत्था च कथ्यते॥ ‘इति। अत्र यच्छब्दमादावभिधाय पश्चात् तच्छब्दस्य प्रयोग एव युक्त इति विधेयाविमर्षदोषः मृग्यः, स च परार्द्धगतचरणयोः वैपरीत्यं विधाय समाधेयः। एतस्मिन् प्रस्तुतस्य सवितुः गुरोश्च एकगुर्त्वरूपधर्मसम्बन्धात् तुल्यगोगिता, सा च सीतायाः, सम््रय्यमाणत्वरूपकार्यस्य विश्वम्भरादुहितृत्वरूपेणैकेनैवोद्बोधकेन स्मृतौ सत्यामपि उद्बोधकान्तररूपप्रजापतिदुहितृत्वपार्थिववधूत्वादिकारणान्तरसोक्तत्वात् जायमानेन समुच्चयालङ्कारेण, ‘प्रजापतिसमः’ इत्यत्र समुपजातया समासगतया आर्य्युपमया, ‘जनकः पिता’ इत्यत्र च आपाततः एकार्थकविभिन्नशब्दवत् प्रतीतेः पौनरुक्त्यावभासनात् पर्य्यवसाने पुनः जनकशब्दस्य मुनिरूपार्थबोधनाच्च पुनरुक्तवदाभासेन शब्दालङ्कारेण च सङ्कीर्णा )। वृत्तं वसन्ततिलकम्। - ‘ज्ञेयं वसन्ततिलकं तभजा जगौ गः’ इति लक्षणात्; प्रस्तारस्त्वस्य तमः॥९॥

मूलम्

अष्टावक्रः - (उपविश्य ।) अथ किम् ।
देवि, कुलगुरुर्भगवान्वसिष्ठस्त्वामिदमाह -

विश्वम्भरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते ।
तेषां वधूस्त्वमसि नन्दिनि पार्थिवानां येषां कुलेषु सविता च गुरुर्वयं च ॥९॥

विश्वास-प्रस्तुतिः

तत् किम् अन्यद् आशास्महे -
केवलं वीर-प्रसवा भूयाः ।

विस्तारः (द्रष्टुं नोद्यम्)

(१६)तदिति। -तत्-तस्मात् अन्यत्, पुत्रादन्यदित्यर्थः। किमाशास्महे (आङ् शासु इच्छायाम् इति धातोः लट् ) एतद्विना किमस्माकं आशीःकरणीयमस्ति ? लिकेष यद् यत् प्रार्थनीयमस्ति पुत्रव्यतिरिक्तं तत् तव अस्त्येव। अतस्ते पुत्रादन्यदाशीर्वचनीयं किमपि न पश्यामीति भावः। केवलं वीरः प्रसवो यस्याः सा तथोक्ता भूयाः (इत्याशिषि लिङ्)। (अत्र प्राक् प्रदर्शितस्य वीजाङ्गोपक्षेपस्य सीताविवासनात् प्रभृति भागीरथीसमाश्वासनाश्रयस्य, दण्डकारण्स्थलीमध्युषितायाः सीतायाः सन्तत्यो कुशलवयोः समुत्पत्तिरूपस्य महर्षिणा च तेषां यथाविधि अध्यापनादिरूपस्य)च समुत्पन्नार्थस्य बाहुल्येन विशदीकरणात् एतत् परिकराख्यं मुखसन्ध्यङ्गं वेदितव्यम्। तथाहि- ‘समुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरः पुनः’ इति। अत्र पुत्रलाभरूपेष्टार्थशंसनात् ‘आशीः’ नामालङ्कारः। तदुक्तं दण्डिना- ‘आशीर्नामाभिलषिते वस्तुन्याशंसनं यथा’ इति। अन्यत्राप्युक्तं- ‘आशीरिति च केषाञ्चिदलङ्कारतया मता। सौहृदस्याविरोधोक्तौ प्रयोगोऽस्याश्च तादृशः॥ ‘इति )।

मूलम्

तत्किमन्यदाशास्महे -
केवलं वीरप्रसवा भूयाः ।

विश्वास-प्रस्तुतिः

रामः - अनुगृहीताः स्मः ।

लौकिकानां हि साधूनाम्
अर्थं वाग् अनुवर्तते ।
ऋषीणां पुनर् आद्यानां
वाचम् अर्थोऽनुवर्तते ॥१०॥

विस्तारः (द्रष्टुं नोद्यम्)

(य) अन्विति-अनुगृहीताः,-कृतार्थाः, स्मः,-भवामः इत्यर्थः। (अत्र प्रोतबीजार्थस्य प्रधाननायकाभिमतत्वेन सम्यगाहितत्वात् समाधानरूपमुखसन्ध्या वेदितव्यम्। तथाहि,- ‘बीजस्यागमनं यत्तु तत् समाधानमुच्यते’ इति।

कथमिति तदेवोपपादयति, लौकिकानामिति। -

लौकिकानां हि लोके विदितानामेव संसारिणामित्यर्थः, साधूनां वाक् वाक्यम्, अर्थं प्रतिपाद्यविषयमनुवर्त्तते अनुसरति, ( लौकिकाः असाधवः बहवः सन्ति तद्व्यावृत्तये साधूनाम् इत्य् उक्तम्।
लौकिका हि साधवः अर्थमनुसन्दधतः वस्तुगतिं विमृश्य तद्व्यक्तये वाचं प्रयुञ्जते ) यतो हि अर्थाऽनुसन्धानं विनैवेरिताः वाचः प्रेक्षावद्भिरुन्मत्तवाक्यवदुपेक्ष्यन्ते।
आद्यानां-पुराणानाम् ऋषीणां-कल्पविदां पुनः वाचं वाक्यम् अर्थः अभिधेयं अनुधावति अनुसरति ; अर्थानुसन्धानं विनापि यदृच्छया ते यदभिदधति तपःसिद्धिबलात् तेषां तदेव नूनं फलति ‘न हीश्वरव्याहृतयः कदाचित् पुणान्ति लोके विपरीतमर्थम्’ इति न्यायादिति भावः।

प्रसन्नैः तैराशिषि समीर्तितायां, तत् नैष्पल्यं कदापि नैष्यतीति हृदयम्। ( अत्र एतत् ऋषिश्रेयोविधानरूपबीजगुणवर्णनात् विलोभनाख्यं बीजाङ्गमवधेयम्। तथा हि- ‘गुणाख्यानं विलोभनम्’ इति लक्षणात्। लौकिकसाधुभ्यः पुराणसाधूनामुत्कर्षप्रतीतेः व्यतिरेकोऽलङ्कारः, अपि च अप्रस्तुतेभ्यः साधारण-ऋषिणा विशेषस्य विशिष्ठस्य प्रतीतेः अप्रस्तुतप्रशंसा, तथा लौकिकसाधुभ्यः पुराणमुनीनां मुत्कर्षातिशयवर्णनेन महच्चरित्रवर्णनादुदात्तालङ्कारश्च ; तदेभिः परस्परं सङ्कीर्य्यते )। पथ्यावक्रवृत्तम्॥ १०॥

मूलम्

रामः - अनुगृहीताः स्मः ।

लौकिकानां हि साधूनामर्थं वागनुवर्तते ।
ऋषीणां पुनराद्यानां वाचमर्थोऽनुवर्तते ॥१०॥

विश्वास-प्रस्तुतिः

अष्टावक्रः - इदं च भगवत्या ऽरुन्धत्या देवीभिः शान्तया च भूयो भूयः सन्दिष्टम् -

यः कश्चिद् गर्भ-दौर्हृदोदयो/गर्भदोहदो भवत्य् अस्याः
सोऽवश्यम् अचिरान् मानयितव्य /सम्पादयितव्यः

इति ।

विस्तारः (द्रष्टुं नोद्यम्)

(द) भूयोभूयः,-पुनःपुनः, आभीक्ष्येनेत्यर्थः, (वीप्सायां द्विर्भावः) एतद्वाक्यन्तु दोहदसम्पादनस्य अत्यावश्यकतामभिधत्ते। सन्दिष्टम्-आदिष्टम्, अभिहितम् इत्यर्थः।

(ध) गर्भेति। -दोहदम्इति दोहः। (दुहो भावे घञ्। ) गर्भस्य शिशोः दोहार्थमाकर्षार्थं रसादिकं ददातीति गर्भदोहदः, गर्भिण्यभिलषितपुष्टिसाधनपानभोजनविहारादि पथ्यम् इत्यर्तः। अथ वा गर्भे गर्भावस्थायां दोहदः गर्भिणीमनोरथः इत्यर्थः, तथाविधाऽभिलाषस्तु गर्भस्यैव भवतीति गर्भदोहदः कथ्यते, स वस्तुविशेषोपभोगाभिलाषः इति ; तदा हि अन्नपानादिवस्तुषु गर्भिणी वीतस्पृहा भवति, भवति च कतिचित् विशेषवस्तुषु स्पृहावता। अथ दोहदाप्रदानमधिकृत्याह तत्रभवान् वाग्भटः,- ‘पादशोफौ विदाहोऽन्ते श्रद्धा च विविधात्मिका ‘इति। ‘देयमप्यहितं तस्मै हिताय हितगल्पकम्। श्रद्धाविघाते गर्भस्य विकृतिश्च्युतिरेव वा॥ ‘अन्यच्च,- ‘दिहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ‘इति रघुसञ्जीविन्यां मल्लिनाथः। यद्यपि दोहदशब्दस्य अमरसिंहेन हलायुधेन च नपुंसकत्वमभिहितं, तथापि ‘दोहदो दौर्हृदं श्रद्धा लालसा ‘इति हेमचन्द्रेण पुंस्त्वम् अभिहितम् ; अतः दोहदशब्दस्य उभयलिङ्गकत्वमुन्नेयम्।

मूलम्

अष्टावक्रः - इदं च भगवत्यारुन्धत्या देवीभिः शान्तया च भूयो भूयः सन्दिष्टम् ।
यः कश्चिद्गर्भदौर्हृदोदयो/कश्चिद्गर्भदोहदो भवत्यस्याः सोऽवश्यमचिरान्मानयितव्य /सम्पादयितव्यः इति ।

विश्वास-प्रस्तुतिः

रामः - क्रियते यद्य् /(यद् यद्) एषा कथयति ।

विस्तारः (द्रष्टुं नोद्यम्)

(न) क्रियते। -एषा-मत्पार्श्ववर्तिनी, तदुक्तं- ‘इदमस्तु सन्निकृष्टसमीपतरवर्ति चैतदो रूपम्। अदससदतु विप्रकष्टं तदिति परोक्षे विजानीयात् ‘॥ इरि। यद्यत्-युक्तमयुक्तं वा, कथयति-अभिलष्यति। क्रियते-मया अनुष्ठीयते। गर्भिण्यभिलाषस्य अवश्यपूरणीयत्वात् गुरुजनाज्ञामनपेक्ष्यैष झटिति सम्पाद्यते इत्यर्थः। अत्र ‘क्रियते यद्येषा कथयति ‘इति पठे-यदि एषा वैदेही कथयति (वर्तमानसामीप्ये भविष्यति लट्) तदैवेति शेषः, क्रियते कर्तुं शक्यते इत्यर्थः, अस्यास्तु विवासनमविरोदेव भविष्यति, अतः दोहदकथनमसम्भाव्यमेव इति यदिशब्दार्थः ; यत्तु दृष्टचराणां वनानां पुनः सन्दर्शनदोहदं भविष्यति, तत्तु अस्माभिः सम्पादयिष्यते, इति। (सीताविवासनफलोत्पादहेतुभुतदोहदसाधनमिषेण वनाय विवासननिदानभूतस्य प्रकृतार्थस्य समारम्भः, करणं नाम मुखसन्धेः अङ्गम्। तथा हि,- ‘करणं पुनः। प्रकृतार्थसमारम्भः’ इति)।

मूलम्

रामः - क्रियते यद्य् एषा /(यद् यदेषा) कथयति ।

विश्वास-प्रस्तुतिः

अष्टावक्रः - ननान्दुः पत्या च देव्याः सन्दिष्टम् -

वत्से, कठोर-गर्भेति नानीतासि ।

वत्सो ऽपि राम-भद्रस् त्वद्-विनोदार्थम् एव स्थापितः ।
तत्-पुत्र-पूर्णोत्सङ्गाम् आयुष्मतीं द्रक्ष्यामः

इति ।

विस्तारः (द्रष्टुं नोद्यम्)

(प) ननान्दुरिति। -देव्याः सीतायाः ननान्दुः बर्तृभगिन्याः (ननन्देत्यप्यस्ति तत्पर्यायः) पत्या-ऋष्यशृङ्गेण, सन्दिष्टम्-आज्ञप्तम्। वत्से -कल्याणि कठोरगर्भा-परिणतगर्भा, इति हेतोः, न आनीतासि त्वं यज्ञभूमिमस्माभिः न प्रापितासि इत्यर्थः। अतः वत्सः रामभद्रोऽपि, त्वद्विनोदार्थं-तव मनसः सन्तर्पणाय, नास्माभिरानीतः। अतः पुत्राभ्यां पूर्णः तनयभूषितः उत्सङ्गः क्रोडः यस्याः तथाविधामायुष्मतीं-कल्याणिनीं भवतीं द्रक्ष्यामि ; तनयालङ्कृताङ्गां भवतीं दृष्ट्वा आत्मानं सबहुमानं करिष्ये इति भावः। (अत्र बीजोद्भेदानुकूलहेतुभुतकठोरगर्भत्वादिरूपवस्तूनां विशिष्य सम्प्रधारणात् यथायथं सयौक्तिकञ्च विमृश्यावधारणात् युक्तिर्नाम सन्ध्यङ्गं ज्ञेयम्। तथा हि- ‘सम्प्रधारणमर्थानां युक्तिः’ इति लक्षणात्)।

मूलम्

अष्टावक्रः - ननान्दुः पत्या च देव्याः सन्दिष्टम् - “वत्से, कठोरगर्भेति नानीतासि ।
वत्सोऽपि रामभद्रस्त्वद्विनोदार्थमेव स्थापितः ।
तत्पुत्रपूर्णोत्सङ्गामायुष्मतीं द्रक्ष्यामः

इति ।

विश्वास-प्रस्तुतिः

रामः - (सहर्षलज्जास्मितम् ।) तथास्तु ।
भगवता वसिष्ठेन न किञ्चिद् आदिष्टोऽस्मि ।

विस्तारः (द्रष्टुं नोद्यम्)

(फ) यत् भगवता ऋष्यशृङ्गेणोक्तं तत् तथैव भवतु इत्यर्थः। नाटकस्य पञ्चसन्धिभिरुपचेतुमुचितत्वादादौ प्रयोजनसिद्धिहेतुभुतानां बीजादिपञ्चकानामवतारणार्थमवान्तरं वसिष्ठादेशरूपं विषयमवतार्य बीजसन्धिमुत्थापयितुं प्रस्तौति, ‘भगवता वसिष्ठेन किमादिष्टोऽस्मि ‘इत्यादिना।

मूलम्

रामः - (सहर्षलज्जास्मितम् ।) तथास्तु ।
भगवता वसिष्ठेन
न किञ्चिदादिष्टोऽस्मि / किमादिष्टोऽस्मि ।

विश्वास-प्रस्तुतिः

अष्टावक्रः - श्रूयताम् ।

जामातृ-यज्ञेन वयं निरुद्धास्
त्वं बाल एवासि, नवं च राज्यम् ।
युक्तः प्रजानाम् अनुरञ्जने स्यास्
तस्माद् यशो यत् परमं धनं वः ॥११॥

इति।

विस्तारः (द्रष्टुं नोद्यम्)

तदेव विशिष्योपपादयति, जामात्रिति। -वयं जामातुः, -ऋष्यशृङ्गस्य, यज्ञेन-(करणेन) निरुद्धाः,-ऋत्विक्त्वेन व्रतिनः सन्तः आबद्धाः, आ परिसमाप्तेः प्रतिगन्तुमक्षमा इत्यर्थः। (जामातृपदोपादानात् तद्वचनस्यावश्यमादरणीयत्ं ध्वनितम्। यज्ञपदेन च तत्यागानौचित्य गम्यते। निरुद्धपदस्य च चिरकालावस्थितिवाचकत्वेन ततः निष्क्रमणायोग्यत्वमपि) त्वं बाल एव-अबहुज्ञश्चैव असि (एतेन च तस्य कार्याकार्यविचाराक्षमत्वं बाध्यते। एवकारेण च सन्देहाभावः द्योतितः। ) राज्यञ्च नवं-नवाधिगतं (राज्ञश्च नवीभूतत्वेन ‘यदैव राज्ये क्रियतेऽभिषेकः तदैव याति व्यसनेषु बुद्धिः’ इति नियमात् प्रतिपदं व्यसनबाहुल्यापातसम्भावना अस्तीति ध्वन्यते)। प्रजानां-लोकानाम् अनुेरञ्जने-राज्यदार्ष्ट्यसम्पादके कौलिके स्वधर्मे इत्यर्थः; युक्तः;-एकाग्रचित्तः; स्याः;-भवेः ; तस्मात्-प्रजानुरञ्जनात् यत् उत्पन्नं यशः तत् वः;-इक्ष्वाकुवंशप्रसूतानां युष्माकं परमं-सर्वोत्कृष्टं धनम्। तदन्वयभुवां महामहिमशालिनां महीभृतामिव कौलीन्यभीतानां भवतामपि तदनुसृतसरणीषु क्रमाधानं सर्वथैवोचितमिति भावः। यशसां परमधनत्वेनारोपात्; तद्रक्षणप्रयासस्यान्यावश्यकत्वं सूचितमन्यथा तदुपायस्य सम्भवात्। अष हि प्रदर्शितबीजस्योत्थापनहेतुः वेदितव्यः पश्चाच्च भगवता रामभद्रेण स्वयमेवैतत् ‘जानकीमपि…….मिञ्चतो नास्तिमे व्यथा ‘इत्यादिना जानकीविवासनं लोकानामनुरञ्जनाय करिष्यते इत्यभिधास्यते। पश्चात् बहुधा विवृतस्य सीताविवासनरूपफलस्यात्र प्रथमहेतुभूतं बीजं लोकानुरञ्जनरूपमभिहितम्। तथाहि दर्पणम्; – अल्पमात्रं समुद्दिष्टं बहुधा यत् विसर्पति।
फलस्य प्रथमो हेतुर्बीजमित्यभिधीयते॥ ‘इति।
(अत्र प्रजानामननुरञ्जने वसिष्ठमिश्राणां जामातृयज्ञनिरोधरूपे एकस्मिन् कारणे सत्यपि राज्यशासनापायभूतानां बहूनां बालत्वनवत्वादिरूपसाधकानां निर्देशात् समुच्चयालङ्कारः; तथा पूर्वार्धवाक्यस्य परवाक्यम्प्रति हेतुत्वप्रतीतेः काव्यलिङ्गालङ्कारश्च ; इत्येतयोः सङ्करः)। इन्द्रवज्रा वृत्तम्। - ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः ‘इति लक्षणात्। अयञ्च सप्तपञ्चाशदधिकत्रिशततमः प्रस्तारः॥११॥

मूलम्

अष्टावक्रः - श्रूयताम् ।

जामातृयज्ञेन वयं निरुद्धास्त्वं बाल एवासि नवं च राज्यम् ।
युक्तः प्रजानामनुरञ्जने स्यास्तस्माद्यशो यत्परमं धनं वः ॥११॥

इति।

विश्वास-प्रस्तुतिः

रामः - यथा समादिशति भगवान् मैत्रावरुणिः ।

विस्तारः (द्रष्टुं नोद्यम्)

(व) मित्रश्च वरुणश्च तौ मित्रावरुणौ (देवता द्वन्द्वे च’ (६। ३। २६ पा०) इत्यानङ्) तयोरपत्य पुमानिति (बाह्वादिभ्यश्च’ (४। १। ९६ पा०) इति इञ्प्रत्ययः)। उर्वशीं दृष्त्वा विमुग्धवोः मित्रावरुणयोः स्कन्नं तेजः कुम्भे विहरन्तश्च पतितमासीत्; तत्र तु बहिः वसिष्ठः अन्तश्चागस्त्यः जझे; इत्येव वसिष्ठस्य मैत्रावरुणिसञ्ज्ञायाः अगस्त्यस्य कुम्भयोनिसञ्ज्ञायाश्च हेतुः विष्णुपुराणादौ द्रष्टव्यः। एवमेव सायणाचार्याः आहुः ऋग्वेदभाष्ये; –

‘तयोरादित्ययोस् सत्रे दृष्ट्वाऽप्सरसम् उर्वशीम्।
रेतश् चस्कन्द तत् कुम्भे न्यसतद्वासतीवरे+++(=??)+++॥
तेनैव तु मुहूर्तेन वीर्यवन्ती तपस्विनी।
अगस्त्यश्च वसिष्ठश्च तत्रर्षी सम्बभूवतुः।
बहुधापतितं रेतः कलशे च जले स्थले।
स्थले वसिष्ठस्तु मुनिः सम्भूत ऋषिसत्तमः॥ ‘इति। म० ७, मू० ३३, ऋ ११।

तौ हि एकस्मिन् कल्पे मित्रस्य कल्पान्तरे च वरुणस्यापत्यमासीत्। इत्यपि पुराणान्तरम्।

मूलम्

रामः - यथा समादिशति भगवान्मैत्रावरुणिः ।

विश्वास-प्रस्तुतिः

स्नेहं दयां च सौख्यं च
यदि वा जानकीम् अपि ।
आराधनाय लोकस्य
मुञ्चतो नास्ति मे व्यथा ॥१२॥+++(5)+++

विस्तारः (द्रष्टुं नोद्यम्)

यस्त्वेतत् रघुमणिः प्रतिजानीते स्नेहमिति। -लोकानां-जानानां प्रजानामिति यावत्, आराधनाय-प्रीणनाय, तान् आराधयितुम् इत्यर्थः, ( ‘तुमर्थाश्च भाववचनात्’ (२। ३। १५ पा०) इति चतुर्थी। ) अनुरञ्जनार्थमिति भावः, स्नेह-ममत्वं, प्रजासु अप्राणदण्डादिकं भार्यादिविषयकं वा, दयां-परदुःखहरणेच्छाम्, अनैष्ठुर्यं गर्भिणीविषयां वा ;- ‘दुर्वहगर्भखिन्नसीताविवासनपटोः करुणा कुतस्ते ‘इत्यादिना शम्बूकवधावसरे रामभद्रेण स्वयमेवैतत् व्यक्तीकरिष्यते। यदिवा-अथवा, जानकीं-सीतां, प्राणाधिकामपि इत्यर्थः, मुञ्चतः,-व्यजतः, मे-मम, व्यथा नास्ति। किमधिकं, प्राणाधिकया अपि प्रियतरा मे प्रजा इति भावः।
(अत्रैव प्रदर्शितं बीजं सर्वथा व्यक्तीभृतत्वमगात्, प्रकृतिरञ्जनाय जानकीनिर्वासनस्य तत्वार्थस्य कथनात् मार्गनामकं गर्भसन्धैरङ्गभूतमवैतत् अवगन्तव्यम्। तथा हि दर्पणम्। ‘तत्त्वार्थकथनं मार्गः’ इति।

एतेन प्रजारञ्जनरूपव्यवसायात् अचलनकथनेन
धैर्यं नाम नायकस्य सात्विकः गुणः कथितः।
तथा च दर्पणे- ‘व्यवसायादचलनं धैर्यं विघ्ने महत्यपि’ इति। अत्र गम्यस्य जानकीपरित्यागस्य भङ्ग्यन्तरेण कथनात् पर्यायोक्तम् अलङ्कारः। मुञ्चत इत्येकक्रियया स्नेहादीनां सर्वेषामन्वयात् प्राचीनमतेन दीपकालङ्कारभेदेन संसृष्टः)॥१२॥

मूलम्

स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।
आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥१२॥

विश्वास-प्रस्तुतिः

सीता - अदो जेव्व राहवधुरन्धरो अज्जउत्तो ।
अत एव राघव-कुल-धुरन्-धरः आर्य-पुत्रः।

विस्तारः (द्रष्टुं नोद्यम्)

(भ) अत इति। -अत एव भवन्तं राघवकुलधुरन्धर तद्वत् दुर्वहभारोद्वहनसमर्थतया रघुवंशीयनरपतिगणाग्रगण्यं वदन्तीति भावः। शरणागतसंरक्षण भूतदया प्रकृतिरञ्जनादिधर्मशतयोगात् सत्यं हि भवान् विश्रुतचरितानां रघूणामन्ववायविशोभा इत्याशयः।

मूलम्

सीता - अदो जेव्व राहव(कुल)धुरन्धरो अज्जउत्तो ।

विश्वास-प्रस्तुतिः

रामः - कः कोऽत्र भोः ।
विश्राम्यतादष्टावक्रः ।

मूलम्

रामः - कः कोऽत्र भोः ।
विश्राम्यतादष्टावक्रः /विश्राम्यतां भगवान् अष्टावक्रः।

विश्वास-प्रस्तुतिः

अष्टावक्रः - (उत्थाय परिक्रम्य च ।) अये, कुमार-लक्ष्मणः प्राप्तः ।

(इति निष्क्रान्तः ।)

विस्तारः (द्रष्टुं नोद्यम्)

(म) ‘नासूचितं विशेत् पात्रम् ‘इति भरतोक्तेः लक्ष्मणप्रवेशमभिधत्ते, अये इति।

मूलम्

अष्टावक्रः - (उत्थाय परिक्रम्य च ।) अये, कुमारलक्ष्मणः प्राप्तः ।
(इति निष्क्रान्तः ।)

विश्वास-प्रस्तुतिः

(प्रविश्य) लक्ष्मणः - जयति जयत्य् आर्यः ।
आर्य, अर्जुनेन चित्र-करेणास्मद्-उपदिष्टम् आर्यस्य चरितम्
अस्यां वीथ्याम् अभिलिखितम् ।
तत् पश्यत्व् आर्यः ।

विस्तारः (द्रष्टुं नोद्यम्)

(य) चित्रं करोतीति चित्रकरः चित्रशिल्पी, पक्षान्तरे-चित्रः विचित्ररचनाशक्तिसम्पन्नः करः हस्तो यस्य स कविरित्यर्थोऽपि व्यज्यते। वीथिकायामिति। -वीथिरेव इति वीथिका (स्वार्थे कन्) तस्यां-चित्रफलके चित्रश्रेण्यामित्यर्थः- ‘पङ्क्तिवर्त्मगृहाङ्गेषु वीथिः वीथी च ‘इति रत्नकोषः। पक्षान्तरे-अस्य नाटकस्यास्मिन्नंशे। (अत्र नाटकीयप्रयोजनसिद्धिहेतुभूतानां बीजादिपञ्चकानामन्यतमं कार्यसन्धिमवतारयितुमपूर्वमेकं चित्रप्रदर्शनपाटवं कविः विन्यासाञ्चक्रे। इत्थं हि तत्र भवान् कालिदासोऽपि स्वकृतौ अववर्णत्। तद्यथा – ‘तयोर्यथाप्रार्थितमिन्दियार्थान् आसेदुषोः सद्मसु चित्रवत्सु।
प्राप्तानि दुःखान्यपि दण्डकेषु सञ्चिन्त्यमानानि सुखान्यभूवन्॥ ‘इति।
तथाहि सीतानिर्वासनमेवात्रापेक्षितं तन्निबन्धनचित्रदर्शनप्रयाससमारम्भः, निसर्गतोऽनरालहृदया जानकी नैसर्गिकं जनस्थानवनस्थलीरामणीयकं सुखावगाहं गोदावरीसलिलञ्च स्मृतिपथे उदीयमानं सपदि उपभोक्तुं दोहदवती भविष्यति, भगवत्या अरुन्धत्या शान्तया च पुरा तद्दोहदमवश्यमेव पूरणीयमित्याज्ञप्तम्, अतः तत्पूरणमिषेण तद्विवासनं सुकरं भविष्यति इति एतदालिखितम्। सीताविवासनसिद्धये हि अस्य चित्रप्रदर्शनप्रयासभ्रमः समापनम्। यदुक्तम्, – ‘अपेक्षितन्तु यत्साध्यमारम्भो यन्निबन्धनः।
समापनन्तु यत् सिध्यै तत् कार्यमिति सम्मतम् ‘॥ इति।

तथेवोपवर्णितं कहाकविना कालिदासेन,- ‘प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव।
स त्वं रथो तद्व्यपदेशनायां प्रापय्य वाल्मीकिपं त्यजैनाम्॥ ‘इति।
अत्र पुनः प्रोक्तकार्यसन्धेः प्रयत्नरूपावस्था विज्ञेया,यथाहि रत्नावल्याश्चित्रलेखनादिव्यापारः वत्सराजसमागमोपायत्वेन अङ्गीकृतः, तथाऽत्रापि कविना करुणरससमेधित सीताविवासनरूपव्यापारसिद्धये आलम्ब्यसन्दर्शनरूपाऽतित्वरान्वितः व्यापरः समारब्धः इति लक्षणात्। नाट्यशास्त्रे भरतोऽपि, – ‘अपश्यतः फलप्राप्ति यो व्यापारः फलं प्रति।
परं चौत्सुक्यगमनं प्रयत्नः परिकीर्तितः॥ ‘इति )।

मूलम्

(प्रविश्य) लक्ष्मणः - जयति जयत्यार्यः ।
आर्य, अर्जुनेन/तेन चित्रकरेणास्मदुपदिष्टमार्यस्य चरितमस्यां वीथ्याम्/वीथिकायाम् अभिलिखितम् ।
तत्पश्यत्वार्यः ।

विश्वास-प्रस्तुतिः

रामः - जानासि वत्स, दुर्मनायमानां देवीं विनोदयितुम् ।
तत् कियान् अवधिः +++(तस्य चित्रितस्य)+++ ?

विस्तारः (द्रष्टुं नोद्यम्)

(र) जानासीति। -भूयोभूयझ सम्भूयमानं देवीदौर्मनस्यं कथं हि अपनेतुं विनोदयितुञ्च सा शक्यते तत् त्वमेव सम्यक् जानासि इति भावः। अत्र देवीविनोदनमिषेण हि कार्यसन्धिमवतारयितुं लक्ष्मणेन आलेख्यावलीआनीतेति ज्ञेया। (अदुर्मनाः दुर्मनाः भवन्ती इति अभूततद्भावार्थे दुर्मनःशब्दात् ‘भ•दिभ्यः’ (३। १। १२पा०) इति सूत्रेण क्यङि अन्तलोपः आत्मनेपदञ्च। यावद्योगादवधिमिति द्वितीया, कियद्दूरमित्यर्थः)।

मूलम्

रामः - जानासि वत्स, दुर्मनायमानां देवीं विनोदयितुम् ।
तत्कियानवधिः ।

विश्वास-प्रस्तुतिः

लक्ष्मणः - यावदार्याया हुताशन-शुद्धिः ।

विस्तारः (द्रष्टुं नोद्यम्)

(ल) यावदिति। -विशुद्धिरिति कर्तृपदमभवदित्यध्याहार्यया क्रिययाऽन्वितम्। ‘उपपदविभक्तेः कारकविभक्तिर्बलीयसी ‘इति न्यायात् न तद्योगे द्वितीया। यावच्छब्दोऽत्रावधारणार्थकः।

मूलम्

लक्ष्मणः - यावदार्याया हुताशनशुद्धिः /हुताशने विशुद्धिः।

विश्वास-प्रस्तुतिः

रामः - शान्तं पापम् (ससान्त्ववनचनम्)।

विस्तारः (द्रष्टुं नोद्यम्)

(व) शान्तमिति। -अदृश्यमश्राव्यमितिबुद्ध्या असहिष्णुताप्रकाशत्ववचनमिदं शान्तपदमव्ययम्। अलीकोपन्यासत्वात् आधिहेतुभूतत्वाच्चैतदनिष्टकरं पापजनकञ्च व्याहृतं दूरीभूतमस्तु नैतदिदानीं श्रोतव्यं कथयितव्यमित्यर्थः। इयं हि लोकोक्तिः ; इष्टजनानामनिष्टमाश्कमानैः तदनुपलब्धिञ्चेहमानैः हितैषिभिरेवमेव हि आशीर्वचसा अनिशमभिधीयते किल। ‘शान्तोऽभियुक्तरसयोः पुंसि त्रिषु शमान्विते। अव्ययं वारणे शान्तम् ‘॥ इति मेदिनी।
उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः ?।
तीर्थोदकञ्च वन्हिश्च नान्यतः शुद्धिमर्हति॥१३॥

मूलम्

रामः - शान्तं पापम् (ससान्त्ववनचनम्)।

विश्वास-प्रस्तुतिः

उत्पत्तिपरिपूतायाः
किम् अस्याः पावनान्तरैः ।
तीर्थोदकं च वह्निश् च
नान्यतः शुद्धिम् अर्हतः ॥१३॥+++(5)+++

विस्तारः (द्रष्टुं नोद्यम्)

कथं शान्तमित्युक्तम् ? तदेव सोपपत्तिकमाह, उत्पत्तीति। उत्पत्तेः जन्मतः प्रभृति इत्यर्तः, किं वा उत्पत्या जन्मना, परिपूतायाः-शुद्धायाः। (एतेन कृत्रिमपूतत्वं निरस्तम्। शुक्रशोणितादियोगरूपबीजाधानकर्मणि जीवस्य यत् जन्म उच्यते तदपवित्रं, पश्चात् क्लेदादिसंवलितं गर्भाशयाद्भूमाववतरणं जन्म, तदप्यपवित्रम्। अतः संस्कारकर्मभिरेव योनिजानां शुद्धिर्विहिता ; तथा हि याज्ञवल्क्यः,- ‘एवमेनः शमं याति बीजगर्भसमुद्भवम्’ इति। एतत् जरायुजानामेव सम्भवति, किन्तु अयोनिसम्भवत्वात् सीतायाः सोऽप्यशुद्धिर्नास्तीति भावः। एतेनास्य अतीव पूतत्वं ध्वनितम्)। एवम्भूताया अस्याः शुद्ध्यर्थं, पावयन्तीति पावनानि (नन्द्यादित्वात ल्युः प्रत्ययः) अन्यायि पावनानि पावनान्तराणि ( ‘मयूरव्ंसकादयश्च’ (२। १। ७२ पा०) इति नित्यसमासः। ) तैः पावनान्तरैः,-अपरैर्वन्द्यादिपवित्रतासाधनैः किम् ? सर्वमेतन्निष्प्रयोजनम् इत्यर्थः। अविद्यमानदोषायाः कथं शुद्धरिति भावः। (अन्तरशब्देन दोषरहितत्वादेव पावनवस्त्वपेक्षा नास्तीति गम्यते। यत् तु सीताया अग्निपरौचाऽनुमतिः, सा मूढानां लोकानां प्रत्ययार्थं, न तु तच्छुद्ध्यर्थमिति)। तीर्थानां गङ्गादीनामुदकञ्च वन्हिश्च अन्यतः पावनान्रतादित्यर्थः, शुद्धि न अर्हतः। अनलः ऋषिजुष्टं अलञ्च स्वेनेव पूतत्वात् पदार्थान्तराणि शोधयतः, अन्यत् किमपि वस्तु ततोऽवरत्वाथ्वन वा तानि न वा तौ विशोधयितुं शक्नोति ; ततः जगत्पावनानां प्रकैतिपरिशुद्धानां शुध्यर्थमन्यत् पावनविधानं पिष्टपेषणवत् व्यर्थमिति भावः। (अत्र पावनशुद्ध्योर्वस्तुतश्चैकरूपतया पर्यवसानात् पौनरुक्त्यनिरासाय भिन्नवाचकतया निर्देशाच्च प्रतिवस्तूपमालङ्कारः। स च एकयैवार्हत इति क्रियया तीर्थोदकवन्ह्योरन्वयात् जायमानेनतुल्ययोगितालङ्कारेण सङ्कीर्यते)। पथ्यावक्त्रं वृत्तम्॥१३॥

मूलम्

उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः ।
तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥१३॥

विश्वास-प्रस्तुतिः

देवि देव-यजन-सम्भवे, प्रसीद ।

विस्तारः (द्रष्टुं नोद्यम्)

(श) देवजनसम्भवे इति। -देवा इज्यन्तेऽस्मिन्निति देवयजनं यज्ञभूमिः, वसुन्धरा वा, सैव सम्भवत्यस्मादिति व्युत्पत्या सम्भवः उत्पत्तिस्थानं यस्याः सा तथोक्ता, तत्सम्बुद्धौ। तथा च रामायणे अयोध्याकाण्डीय अष्टादशाधिकशततमे सर्गे अनसूयां प्रति सीतावचनम्। –

‘मिथिलाधिपतिर्वीरो जनको नाम धर्मवित्।
क्षत्रकर्मण्यभिरतो न्यायतः शास्ति मेदिनीम्॥

तस्य लाङ्गलहस्तस्य कृषतः क्षेत्रमण्डलम्।
अहं किलोत्थिता भित्वा जगतीन्नृपतेः सुता॥

…………… अन्तरीक्षे च वागुक्ता प्रतिमाऽमानुषी किल।
एवमेतन्नरपते धर्मण तनया तव॥

ततःप्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः।
अवाप्तो विपुलामृद्धि मामवाप्य नराधिपः॥ ‘

इति।

मूलम्

देवि देवयजनसम्भवे, प्रसीद ।

विश्वास-प्रस्तुतिः

एष ते जीवितावधिः प्रवादः ।

विस्तारः (द्रष्टुं नोद्यम्)

(ष) प्रसीदेति। -स्वदोषश्रुतेः शोकोद्विग्ना मा भव इत्यर्थः ; यतः अपरिहार्यत्वादपवादस्य लोकप्रत्ययार्थं परीक्षा कृता, अतः विषादं विजहीहि इति भावः। जीवतावधिरिति। -जीवितं जीवनमवधिः परिच्छेदः अस्य, आमरणं दुष्परिहरः इति यावत् ; यद्वा जीवितं लोकजीवनं जीवसृष्टिरित्यर्थः, अवधिः यस्य सः ; यावत् जगत् स्थास्यति तावत् इयं कथा प्रचरिष्यति इति भावः। प्रवादः,-रक्षोगृहस्थितिमूलकः चारित्र्यभ्रंशसंशयनिबन्धनः अलीकलोकापवादः इति यावत्।

मूलम्

एष ते जीवितावधिः प्रवादः ।

विश्वास-प्रस्तुतिः

कष्टं जनः कुल-धनैर् अनुरञ्जनीयस्
तन् नो+++(=अस्माकं)+++ यद् उक्तम् अ-शुभं च - न तत् क्षमं ते ।
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
मूर्ध्नि स्थितिर् न चरणैर् अवताडनानि ॥१४॥

विस्तारः (द्रष्टुं नोद्यम्)

कथं एवमपवादरताः दुर्जनास्त्वया न दण्डिताः ? प्रत्युत अनुमोदिताः ; इत्याशङ्क्य सम्प्रति अनिर्वेदं स्वानुष्ठितायामग्निपरीक्षायां हेतुमुक्त्वा आत्मदोषमपसारयति, कष्टमिति।

-कुलमेव धनं श्लाघ्यतया अनर्घतया च अवश्यरक्षणीयं येषां तैः, तयोक्तैः जनैः, (कर्तृभिः) जनः-लोकः, अनुरञ्जनीयः,-आराधयितुमव योग्यः, सर्वथा लोकानुरञ्जनमभिजनवतां परमं व्रतं, न तु तद्दण्ड इति, इत्येव कष्टम्-दुःखकरं तत् स्मर्यमाणं सत् निरतिशयमेव व्यथयति मानसमिति, परच्छन्दानुवर्तनं हि अतीवक्लेशप्रदमित्याशयः।
( ‘कष्टम्’ इत्यत्र क्वचित् ‘कष्टः’ क्वचिच्च ‘क्लिष्टः’ इति पाठान्तरमस्ति, तदर्थस्तु,-कष्टः क्लेषदायकः जनः, अतिदुर्जन इति यावत् ; क्लिष्टः अस्मात् कारणात् दुःखितः इति भेदः)।
कुलधनैस्तु दुर्गताः दुर्जनाः सुजनाः वा सर्वे एव निर्विशेषेण अनुरञ्जनीया इति भावः। तत्-तस्मात् लोकानुरञ्जनव्रतानुपालनाद्धेतोः,

नः,-अस्माकं, ( ‘मे’ इति पाठान्तरम्), अशिवम्-अप्रियं वचः ते-तुभ्यं यदुक्तं ‘वन्हिविशुद्धिमन्तरेण नाहं त्वां ग्रहीष्यामि ‘इत्येवंरूपम्।
तथा हि रामायणम् ;-

‘प्राप्तचारित्र्यसन्देहा मम प्रतिमुखे स्थिता।
दीपो नेत्रातुरस्येव प्रतिकूलाऽसि मे दृढम्॥

तद् गच्छ त्वमनुज्ञाता यथेष्टं जनकात्मजे।
एता दश दिशो भद्रे कार्यमस्ति न मे त्वया॥ ‘

इति।
तत् न हि क्षमं- त्वयि तत् कथमपि न योग्यम्। त्वं साध्वी भवसि अणीयानपि चारित्र्यभ्रंशविषयकः संशयः त्वयि मे नासीत्, तथापि अलीकलोकापवादपरिजिहीर्षया मया तथाविधं रूक्षमभिहितम् ; तत् तु सर्वथा त्वयि अयोग्यमतस्तदिदानीमनुस्मृत्य कोपं मा कुर्वति भावः। अथवा, तत् तस्मात् वस्तुगतिमनुसृत्येत्यर्थः, ते तव विषये नः अस्माकं त्वदेकजीवितानां तव निर्दोषतां जानतामित्यर्थः, उक्तमिदानीमुदीरितं तत् त्वयि न क्षमं नोचितंसर्वथैवासमीचीनमिति। अत्रेदमाकीतम्। – मित्रत्वामित्रत्वाविशेषेण लोकसंरक्षणं हि राज्ञामुचितं पर्याप्तञ्च कर्म, तथा च सर्वस्वभूतायाः तव उपरि कियन्निकारमनुष्ठितवतां तव निर्दोषताञ्च जानतामस्माकं पुनः त्वया अवाक्प्रसरं प्रागनुभूतानां तावतां दुःखानामनुस्मरणं सर्वथैवाकार्यम् ; सत्यप्येवं, तथापि प्रभावमहिम्ना क्षन्तव्यमिति। उक्तमेवार्थं दृष्टान्तेन दृढयति, नैसर्गिकीति। -तथा हि सुरभिणः-सुगन्धिनः (अत्र ‘तृतीयादिषु भाषितपुंस्कं पुंवग गालवस्य’ (७। १। ७४ पा०) इति सूत्रेण पुंवद्भावात् ‘सुरभेः’ इत्यपि रूपं भवति। ) कुसुमस्य मूर्धि्न देवादीनां शिरसि स्थितिर्नैसर्गिकी स्वाभाविकी इति सिद्धा-चिरप्रसिद्धा चेतनाचेतनसाधारण्यात् इति यावत् ; चेतनैरवर्तसरूपेण अचेतनैश्च स्तवकरूपेण (शाखाग्रे) धारणादिति भावः। चरणैरवताडनानि-अवमर्दनानि न। अत्राभाणकः,- ‘सुधांशोर्जातेयं कथमपि कलङ्कस्य कणिका, विधातुर्दोषोऽयं न च गुणनिधेस्तस्य किमपि। स किं नात्रेः पुत्रो न खलु हरचूडार्चितमणिः, न वा ध्वान्तं हन्याज्जगदुपरि किंवा न वसति ?॥ ‘इति वदिति भावः।
अत्रेदमवधेयं,- सुरभित्वविशेषणोपादानात् इतराणि अत्र व्वच्छिद्यन्ते ; तथा हि, कुसुमानि तावत् त्रिविधानि, कान्तिप्रधानानि कानिचित् यथा शाल्मलिकुसुमानि, सुरभीणि च दमनकादीनि, उभयवन्ति मालतीप्रभृतीनि। यतः हि तानि कान्यपि सौकुमार्यसौन्दर्यसौरभ्यादिगुणवन्ति, अतः न हि अमूनि पादविघातार्हाणि, उभयगुणवतान्तु वस्तुनो न तथेति , (अत्र सुरभिप्रसूनानां शिरसि स्थितिरिव तवापि प्रथितयशसः स्वभावपूतत्वप्रशंसा समुचिता एव, चरणावमर्दनानीव न हि त्वयि कृतककलङ्कारोपः समीचिनः इति बिम्बप्रतिबिम्बभावेन साधर्म्यावगमात् दृष्टान्तालङ्कारः। - ‘दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम’ इति लक्षणात्। केचित् तु पूर्वार्धं प्रति परार्धस्य समर्थनरूपत्वात् सामान्येन विशेषसमर्थनरूपमर्थान्तरन्यासं मन्यन्ते)। वसन्ततिलकं वृत्तम्॥१४॥

मूलम्

क्लिष्टो/कष्टं जनः किल जनैर् (/कुलधनैर्) अनुरञ्जनीयस्तन्नो यदुक्तमशुभं/अशिवं च न तत्क्षमं ते ।
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि ॥१४॥

विश्वास-प्रस्तुतिः

सीता - होदु अज्जउत्त, होदु ।
एहि ।
पेक्खह्म दाव दे चरितम् ।
(भवतु आर्यपुत्र भवतु। एहि। प्रेक्षामहे तावत् ते चरितम्।)

(इति उत्थाय परिक्रमतः)।

मूलम्

सीता - होदु/भोदु अज्जउत्त, होदु/भोदु ।
एहि ।
पेक्खह्म दाव दे चरितम् ।
(भवतु आर्यपुत्र भवतु। एहि। प्रेक्षामहे तावत् ते चरितम्।)

(इति उत्थाय परिक्रमतः/परिक्रामति)।

विश्वास-प्रस्तुतिः

(इत्युत्थाय परिक्रामति ।) लक्ष्मणः - इदं तदालेख्यम् ।

मूलम्

(इत्युत्थाय परिक्रामति ।) लक्ष्मणः - इदं तदालेख्यम् /तावदालेख्यम् ।

विश्वास-प्रस्तुतिः

सीता - (निर्वर्ण्य ।) के एदे उबरि णिरन्तरट्ठिदा उवत्थुवन्दि विअ अज्जउत्तम् ।
के एते उपरि निरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम् ?

विस्तारः (द्रष्टुं नोद्यम्)

(स) निर्वर्ण्य-सप्रणिधानमवलोक्येत्यर्थः ; ( ‘निर्वर्णनन्तु निध्यानं दर्शनालोकनेक्षणम्’ इत्यमरः)। उपरि-ऊर्ध्वदेशे, व्योमपथमधिकैत्येति तावत्। निरन्तरस्थिताः,-नास्ति अन्तरमवकाशः यस्मिन् कर्मणि तद्यथा तथा, अविरलभावेनान्योऽन्यविलग्नाः, घनसन्निविष्टा इत्यर्थः, उपचारार्थमिति यावत्।

के नाम एते उपस्तुवन्ति इव-उपासते इव ? दिव्यास्त्रत्वात् एषाम् उपर्यवस्थान युक्तमेव, नातः उपचारसमयविरोधः। तथा हि रामायणम्। –

‘उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम्।
ऊचुश्च मुदिता रामं सर्वे प्राञ्चलयस्तदा॥

इमे च परमोदार किङ्करास्तव राघव ।
यद् यदिच्छसि भद्रन्ते तत्सर्वं करवाम वै॥ ‘

इति।

मूलम्

सीता - (निर्वर्ण्य ।) के एदे उवरिणिरन्तरट्ठिदा उवत्थुवन्दि विअ अज्जउत्तम् ।

विश्वास-प्रस्तुतिः

लक्ष्मणः - देवि, एतानि तानि सरहस्यानि जृम्भकास्त्राणि,
यानि भगवतो भृशाश्वात्/कृशाश्वात् कौशिकम् उपसङ्क्रान्तानि ।

विस्तारः (द्रष्टुं नोद्यम्)

(ह) सरहस्यानि-रहसि निर्जने भवा रहस्या गोप्याः ( ‘रहस्या स्त्री नदीभेदे गोपनीयेऽभिधेयकम्’ इति मेदिनी। ) आयुधप्रयोगसंहारकन्त्रभेदाः, इत्यर्थः, तैः सह वर्तमानानि, जृम्भकास्त्राणि,-जृम्भयन्ति, सचेतनानां सम्मोहकत्वात् स्वलक्ष्यीभूतान् चित्रार्पितानिव निश्चलान् कुर्वन्ति इति जृम्भकाणि, तन्नामधेयानि साधिदैवतानि ज्योतिर्मयाणि दिव्यास्त्राणि।
अस्यन्ते क्षिप्यन्ते इति अस्त्राणि।

(क) कृशाश्वात्-कृशाश्वः विश्वामित्रस्य कश्चित् पूर्वपुरुषः प्रपितामहः, तस्मात्।
(ख) कौशिकं-विश्वामित्रम्। कुशिकः विश्वामित्रस्य पितामहः, गाधिर्नाम राजा तस्य पिता। कुशिकस्य गोत्रापत्यं पुमान् कौशिकः, ( ‘ऋष्यन्धक’ (४। १। ११४पा०) इत्यादिना अण्। ) (ग) उपसङ्क्रान्तानि-उपगतानि। ( ‘उपसङ्क्रान्तानि’ इति कर्तरि प्रयोगात् स्वयमेव तानि दिव्यास्त्राणि आगत्य कौशिकमुपगतानीति प्रतीयते। परन्तु उपरिष्टात् कविः ‘कृशाश्वः परःसहस्रपरिवत्सरान्तेवासिने कौशिकाय’ इत्यादिसन्दर्भेण, भगवान् कृशाश्वः भ्वाधिगतानि तपस्तेजसा आप्यायितानि तनयभूतत्वमाप्नुवन्ति सर्वास्त्राणि सहस्रपरिवत्सरान् व्याप्य शुश्रूषमाणाय अन्तेवासिने नप्त्रे कौशिकाय स्वप्रसादभूततया अदित इति अभ्यधात्। तथा हि रामायणम्-

‘सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः।
कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति॥
तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः।
नैकरूपाः महावीर्याः दीप्तिमन्तो जयावहाः॥
तानि चास्त्राणि वेत्येष यथावत् कुशिकात्मजः।
अपूर्वाणाञ्च जनने शक्तो भक्तश्च धर्मवित्॥ ‘इति।

मूलम्

लक्ष्मणः - देवि, एतानि तानि सरहस्यानि जृम्भकास्त्राणि,
यानि भगवतो भृशाश्वात् कौशिकमुपसङ्क्रान्तानि ।

विश्वास-प्रस्तुतिः

तेन च ताटका-वधे प्रसादी-कृतान्य् आर्यस्य ।

विस्तारः (द्रष्टुं नोद्यम्)

(घ) प्रसादेति-प्रसाद्यते सन्तुष्यते मनो येषु कार्येषु तानि प्रसादानि सानिग्रहदानानि। अप्रसादानि प्रसादानि कृतानि प्रसादीकृतानि, अनुकम्पया प्रदत्तानीत्यर्थः। आर्यस्य रामभद्रायेत्यर्थः (शेषे षष्ठी)।

मूलम्

तेन च ताटकावधे प्रसादीकृतान्यार्यस्य ।

विश्वास-प्रस्तुतिः

रामः - वन्दस्व देवि, दिव्यास्त्राणि ।

मूलम्

रामः - वन्दस्व देवि, दिव्यास्त्राणि ।

विश्वास-प्रस्तुतिः

ब्रह्मादयो ब्रह्म-हिताय तप्त्वा
परःसहस्रं शरदां तपांसि ।
एतान्य् अदर्शन् गुरवः पुराणाः
स्वान्य् एव तेजांसि तपोमयानि ॥१५॥

विस्तारः (द्रष्टुं नोद्यम्)

एतेषां दिव्यत्वं तेजोमयत्वं साधिदैवतत्वञ्च विशिष्य प्रतिपादयितुं भङ्ग्यन्तरेणाभ्युपगमप्रकारं विवृण्वन् प्रस्तौति, ब्रह्मेति। -ब्रह्मादयः,-हिरण्यगर्भादयः कृशाश्वान्ताः तमसां निहन्तारः, पुराणाः,-प्राचीनाः आदिभवा इति यावत्, गुरवः,-शासितारः, ( ‘मुनयः’ इति वा पाठः)। ब्रह्मणो-वेदस्य ब्राह्मणस्य वा उपचारात् जगतः अपि वा ( ‘वेदस्तत्त्वं तपो ब्रह्म’ ‘ब्रह्मा विप्रः प्रजापतिः’ इत्युभयत्राप्यमरः)। हिताय- रक्षणाय, सहस्रात् परा इति परःसहस्राः बहुसहस्राः इत्यर्थः, ( ‘परःशताद्यास्ते येषां परा सङ्ख्या शताधिकात्’ इत्यमरः। ‘पञ्चमी भयेन (२। १। ३७पा०) अत्र सूत्रे पञ्चमी’ इति योगविभागात् समासः, राजदन्तादित्वात् सहस्रशब्दस्य परनिपातः। पारस्करादित्वात् सुडागमः। मयूरव्यंसकादित्वात् वा समासः)। शरदो वर्षाणि, ( ‘स्यादृतौ वत्सरे शरत्’ इत्यमरः। व्याप्यार्थे द्वितीया)। तपांसि तप्त्वा कायशोषकराणि बहुविधानि दुष्कराणि व्रतानि सेवयित्वा। एतानि-अस्त्ररूपाणि, सस्त्ररूपेण परिणतानीत्यर्थः, तपोमयानि-तपस उद्भूतानीत्यर्थः, स्वानि-स्वकीयानि, तेजांस्येव अपश्यन्-ऐक्षिषत। ब्रह्मादिकृशाश्वान्तानां तपोशनानां विरोपार्जिततपोमयानि व्यपेतरजांसि तेजांसि एव जृम्भकास्त्राणि इति भावः। पुराण-ऋषीणाम् तपस्तेजःसम्भूतत्वात् अस्माकन्तु सन्तानपारम्पर्यक्रमेण गौरवाधायकत्वात् च सबहुमानमभिवन्दितुमुचितानि इति रामस्याशयः। जृम्भकास्त्रप्रदानमुक्तं रामायणे-

‘कामरूपं कामरुचिं मोहमावरणं तथा।
जृम्भकं सर्पनाथञ्च पन्थानवरुणौ तथा॥

कृशाश्वतनयान् राम भास्वरान् कामरूपिणः।
प्रतीच्छ मम भद्रन्ते पात्रभूतोऽसि राघव ॥

रामं प्राञ्चलयो भूत्वाऽब्रुवन् मधुरभाषिणः।
इमे स्म नरशार्दूल शाधि किं करवाम ते॥ ‘इति।

(अत्र हि अहास्त्राणां महापुरुषाणाञ्च गुणप्रख्यापनात् उदात्तालङ्कारः। तथा प्राचीनतमानां ब्रह्मादीनां तावत्फलरूपास्त्राणाम् अद्भुतपदार्थानां प्रत्यक्षायमाणत्प्रकटनात् भाविकालङ्कारः। ‘स्वान्येव ‘इत्यत्र रूपकञ्च ; इति सङ्कीर्यते)।

वृत्तमुपजातिः ;- ‘अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ‘इति लक्षणात्। -उपजातयो हि चतुर्दशधा भवन्ति- ‘भदा भवन्तीह चतुर्दशास्याः ‘इति वाणीभूषनोक्तेः। उपजातीनाम्प्रस्तारे कृतेऽयं ‘वाणी ‘नाम द्वितीयो भेदः। यथा प्राकृतपिङ्गल- ‘कीर्तिर्वाणी भाला शाला हंसी माया जाया बाला। आर्द्रा भद्रा प्रेमा रामा ऋद्धिर्बुद्धिस्तासां नामानि॥ ‘इति॥१५॥

मूलम्

ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रं शरदां तपांसि ।
एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥१५॥

विश्वास-प्रस्तुतिः

सीता। णमो णमो एदाणम्।
नमो नम एतेषाम्।

विस्तारः (द्रष्टुं नोद्यम्)

(ङ) एतेषामिति सम्बन्धसामान्यविवक्षया षष्ठी। क्वचित् ‘एदेह्म ‘इत्येव पाठः, तस्य ‘एतेभ्यः ‘इति संस्कृतम्।

मूलम्

सीता। णमो णमो एदाणम्। (ङ)

विश्वास-प्रस्तुतिः

रामः - सर्वथेदानीं त्वत्प्रसूतिम् उपस्थास्यन्ति ।

विस्तारः (द्रष्टुं नोद्यम्)

(च) त्वत्प्रसूतिं-तव सन्ततिमस्मद्वंशपरम्परामित्यर्थः। उपस्थास्यन्ति-उपगमिष्यन्ति, त्वत्पुत्राधिकृतानि भविष्यन्तीत्यर्थः। (एतेन पुम्प्रजे जनिष्येते इति सूच्यते ; स्त्रीप्रजात्वे जृम्भकास्त्राणामुपस्थानमसङ्गतं स्यादित्यवधेयम्)। भगवतः कौशिकानुग्रहादेतानि मामारभ्य अस्मद्वंश्यान् सर्वानेव उपसङ्क्रमिष्यन्तीति भावः।
आलेख्यप्रदर्शनप्रसङ्गेन, प्रथमतः एव रघुकुलराजश्रियः सुदृढं प्रतिष्ठापकानां भगवतः रामभद्रस्याभ्युदयैकनिदानभुतानामन्ववायक्रमेण तदङ्गभुवः उपसङ्क्रम्य कलधौतविधौतां सूर्यवंशकीर्तिञ्च परितः प्रथयतां जृम्भकास्त्राणाञ्चोपवर्णनमिषेणापूर्वमेकं कवित्वकौशलं प्रसृतमकारि कविना शस्त्रेतिवृत्तवर्णनावसरे ; एतेषां तपस्तेजोमयत्वेन प्राधान्यमवगत्य पुरतश्चैतेषामुपन्यास उचित इति विभाव्य च भगवता राघवेण अपि सबहुमानमेतानि उद्दिश्य अवन्दिषत। एतः सत्वोऽपि प्राथमिकवृत्तान्ते रामभद्रजननादौ तदनतदनङ्घापयित्वा इतः प्रभृति एव चित्रदर्शनमनुष्ठितमिति सुधीभिरनुसन्धेयम्।
(अयं हि प्रकरी नाम सन्धिरनुमीयते, इति केचित्, तथा हि प्रसङ्गसङ्गतिक्रमेण अभिहितानामेकदेशवृत्तीनां वस्तूनामुपवर्णनमेव प्रकरी नाम सन्धिः, तदुपवर्णितन्तु वस्तु स्वकीयं फलमसाधयन् नाटकप्रतिपाद्यस्येव वस्तुनः सुमहदुपकारकं भवति। यथोक्तं दर्पणे- ‘प्रासङ्गिकं प्रदेशस्थं चरितं प्रकरी मता।
प्रकरी नायकस्य स्यात् न स्वकीयं फलान्तरम् ‘॥ इति।
यथा हि शाकुन्तलेचूताद्धुरमवचिन्वतीनां चेटीनामवतारणा, तथैवेयं प्रकरीत्याख्यायते इति। यद्यपीयं प्रकरी, भावप्रकाशिकामतेऽत्र कथञ्चिदुपपद्यते, तथापि नव्यमते न तथा, यथाकुलपत्यङ्के रावणजटायुसंवादमवतार्य जटायोर्मोक्षादिप्राप्तिप्रस्तावावतारः, प्रासङ्गिकेतिवृत्ततया अवान्तरचरितोपवर्णनमिति ध्येयम्)।

मूलम्

रामः - सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति ।

विश्वास-प्रस्तुतिः

सीता - अणुगहीदह्मि ।
अनुगृहीतास्मि।

मूलम्

सीता - अणुगहीदह्मि ।

विश्वास-प्रस्तुतिः

लक्ष्मणः- एष मिथिलावृत्तान्तः।

मूलम्

लक्ष्मणः- एष मिथिलावृत्तान्तः।

विश्वास-प्रस्तुतिः

सीता - अह्महे, दलन्त-णव-णीलुप्पल-सामल-सिणिद्ध-मसिण-सोहमाण-मसलेन
देह-सोहग्गेण
विह्मअ-त्थिमिद-ताद-दीसन्त-सोम्म-सुन्दर-सिरी
अणादर-त्थुडिद-सङ्कर-सरासणो सिहण्ड-मुद्ध-मुह-मण्डलो अज्जउत्तो आलिहिदो ।

(छ) अहो दलन्-नव-नीलोत्पल-श्यामल-स्निग्ध-मसृण-शोभमान-मांसल-देह-सौभाग्येन
विस्मय-स्तिमित-तात-दृश्यमान-सौम्य-सुन्दर-श्रीः
अनादर-खण्डित-शङ्कर-शरासनः शिखण्ड-मुग्ध-मुख-मण्डल आर्य-पुत्र आलिखितः।

विस्तारः (द्रष्टुं नोद्यम्)

(छ) इदानीमभिव्यक्तां रतिं विभावादिना सुस्फुटं प्रकाशयितुं सीतारूपालम्बनविभावानुगतं विप्रलम्भावान्तरभेदं पूर्वरागम् ओजोगुणमयीं गौडरीतिविनिबद्धां स्वाधिकृतामुत्कलिकाप्रायां रचनापद्धतिं विन्यस्य प्रस्तौति, अहो इत्यादिना ; तथा हि- ‘श्रवणात् दर्शनाद्वापि मिथः संरूढरागयोः।
दशाविशेषो योऽप्राप्तौ पूर्वरामः सः उ्यते॥ ‘इति।
अहो इति। -अहो-विस्मयानन्दमयोगे ; दलतीति दलत् विकसत् यत् नवनीलोत्पलम् उद्भिद्यमानेन्दीवरमित्यर्थः, तदिव श्यामलं मेचकं, स्निग्धं मेदुरं कोमलञ्च, ममृणं कार्कश्यादिरहितं विसृमरञ्च शोभमानम् अङ्गसौष्ठवात् सुन्दरं मसिलं सुघटितदृढमांसवदित्यर्थः, यद्देहं तस्य यत् सौभाग्यं सौन्दर्यं तेनोपलक्षितः। विस्मयेत्यादि। -विस्मयेन आश्चर्येण शोभातिशायित्वादित्यर्थः, स्तिमितः निश्चलः आह्लादनिर्भरार्द्रहृदयः इति यावत्, तथाविधेन तातेन पित्रा जनकेन दृश्यमाना वीक्ष्यमाणा सौम्या निसर्गशोभाभूमिः प्रशान्तेति यावत्, सुन्दरी मनोहारिणी दिव्येत्यर्थः; श्रीः शोभा यस्य तथोक्तः; ‘शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरपि गद्यते ‘इति विश्वः। अनादरेत्यादि। - तथा अनादरेण अवलीलया आयासं विनैवेत्यर्थः; खण्डितं भग्नं शङ्करशरासनं हरधनुर्येन तथोक्तः। शिखण्डेत्यादि। - अपि च शिखण्डेन काकपक्षेण ( ‘बालानान्तु शिखा प्रोक्ता काकपक्षः शिखण्डः’ इति हलायुधः। ) मुग्धं सुन्दरं; शोभमानमित्यर्थः; ( ‘मुग्धः सुन्दरमूढयोः’ इति मेदिनी। ) मुखमण्डलं यस्य तथोक्तः;आर्यपुत्रः;राम इत्यर्थः; आलिखितः चित्रितः।
(अत्र रामस्यमहत्ववर्णनात् उदात्तालङ्कारः। अत्र शृङ्गाररसानुगुणैः वाग्वेषादिभिः मधुरताया नायकगतायाः सुसमञ्जसमालिखितत्वात्; ललिताख्यः सात्विको नायकगुणः वर्णितः)।
लक्ष्मणः। आर्ये पश्य। - सम्बन्धिनो वशिष्ठादीनेष तातस्तवार्चति।
गौतमश्च शतानन्दो जनकानां पुरोहितः॥१६॥

मूलम्

सीता - अह्महे, दलन्तणवणीलुप्पलसामलसिणिद्धमसिणसोहमाणमसलेन देहसोहग्गेण विह्मअत्थिमिदताददीसन्तसोम्मसुन्दरसिरी अणादरत्थुडिदसङ्करसरासणो सिहण्डमुद्धमुहमण्डलो अज्जउत्तो आलिहिदो ।

विश्वास-प्रस्तुतिः

लक्ष्मणः - आर्ये, पश्य पश्य ।

सम्बन्धिनो वसिष्ठादीन्
एष तातस् तवार्चति ।
गौतमश् च शतानन्दो
जनकानां पुरोहितः ॥१६॥

विस्तारः (द्रष्टुं नोद्यम्)

अथ सीतायाः निरतिशयां प्रीतां तरसा समेधयितुं स्निग्धगुरुजनेषु जनकानाम् ऋत्विजाञ्च प्रगाढप्रणयित्वं स्फुटतया विवृणोति; सम्बन्धिन इति। एषः तव तातः जनकः; जनकानां जनकापत्यभूतानां; पुरोहितः ऋत्विक् (पुरः अग्रे धियते स्थाप्यते इति दधातेः कर्मणि क्तः) मन्त्राद्युपदेशार्थं सर्वोपरि स्थापितः पुण्यादिकर्मणि उपदेशको गुरुः इति यावत्। गौतमः; अहल्यायां जातः गोतमस्य महर्षेः तनुजः; शतानन्दः तन्नामधेयः; एषः हि सर्वजनविदितः जनकपुरोधाः। सम्बन्धिनः; अभिनवविवाहजन्यसम्बन्धवतः ऋषित्वादात्मीयांश्च; शिष्टादीन् अर्चति सबहुमानं प्रत्युद्गच्छति। (अत्र प्राकरणिकयोः शतानन्दजनकयोः कर्तृत्वेन एकस्यामर्चनक्रियायामन्वयात् तुल्ययोगिताऽलङ्कारः। )॥१६॥

मूलम्

लक्ष्मणः - आर्ये, पश्य पश्य ।

सम्बन्धिनो वसिष्ठादीनेष तातस्तवार्चति ।
गौतमश्च शतानन्दो जनकानां पुरोहितः ॥१६॥

विश्वास-प्रस्तुतिः

रामः - सुश्लिष्टमेतत् ।

जनकानां रघूणां च
सम्बन्धः कस्य न प्रियः ।
+++(उभयत्रापि पूज्यत्वात्)+++ यत्र दाता ग्रहीता च
स्वयं कुशिकनन्दनः ॥१७॥

विस्तारः (द्रष्टुं नोद्यम्)

स्वगौरवाभ्युदयैक-निदानस्य कुशिकनन्दनस्योपरि समुचितां सुदृढाञ्च भक्ति प्रदर्श्य जनकरघुवंशसम्बन्धमखिललोकहितकरत्वेनोत्कीर्तयति जनकानामिति। - रघोः गोत्रापत्यानीति रघवस्तेषाम्। जनकानां जनकवंशीयानाम्। उभयत्व तद्राजत्वात् सञ्ज्ञायां बहुष्वञो लुक्। ) सम्बन्धः विवाहनिबन्धनमित्यर्थः; कस्य जनस्य न प्रियः प्रीतिकरः ? यत्र यस्मिन् वैवाहिके सम्बन्धः; कुशिकनन्दनः राज्ञः कुशिकस्य पौत्रः विश्वामित्रः स्वयं दाता दानकर्ता ग्रहीता च। उभयोरेव कुलयोः पूज्यत्वात् विश्वामित्रे दातृत्वग्रहीतृत्वापचारः। ( ‘कुशिकनन्दनः’ इति पदोपादानात् प्राक् विश्वामित्रस्य क्षत्रत्वात् तद्भावेनैवाऽसौ महाभागः इदानीं कठोतरपस्तेजोलब्धस्य ब्रह्मर्षित्वस्याभिमानं परिहृत्य परमसूहृद्रूपतया अस्माकमनिशं सौख्यमावहतिइति व्यज्यते, अतश्चोभयोरेव कुलयो भूरीणां दानग्रहप्रयोजकव्यापाराणामनुष्ठानात् महोपकारकत्वेन दातृत्वग्रहीतृत्वप्रशंसा तदीया सुसङ्गता अविरुद्धा चैवेति भाव्यम्। उभयकुलपूज्यत्वात् तदाज्ञया कन्यादानग्रहणयोः सम्पन्नत्वाच्चेति भावः। अत एवात्रोदात्तालङ्कारः,-प्रस्तुतेऽस्मिन् वैवाहिकसम्बन्धे महत्वमावेदयितुं तत्सम्बन्धितपोधनविश्वामित्रमहत्वस्योत्कीर्तनात्। तथा हि- ‘यद्वाऽपि प्रस्तुतस्याङ्गं महतां चितं भवेत्’ इति दर्पणः। )॥१७॥

मूलम्

रामः - सुश्लिष्टमेतत् /द्रष्टव्यमेतत्।

जनकानां रघूणां च सम्बन्धः कस्य न प्रियः ।
यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः ॥१७॥

विश्वास-प्रस्तुतिः

सीता - एदे क्खु तक्-काल-किद-गोदाण-मङ्गला चत्तारो भादरो ।
विआह-दिक्खिदा तुह्मे ।

एते खलु तत्-काल-कृत-गोदान-मङ्गलाश् चत्वारो भ्रातरो विवाह-दीक्षिता यूयम्।

विस्तारः (द्रष्टुं नोद्यम्)

(ज) तत्कालेत्यादि। -स एव कालः तत्कालः, विवाहप्राक्कालः इत्यर्थः (तत्कालस्य अतीवाह्लादकरत्वेन तेषु प्रसिद्धत्वात् तस्य तच्छब्देनोपादानमिति बोध्यम् )। तस्मिन् कृतं गवां केशान् दानं छेदनं तदेव मङ्गलं शुभकर्म येषां ते तथोक्ताः। ( ‘गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः। स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि। पुंस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्वाणलोमसु॥इति विश्वः)। ( ‘दो छेदे’ इति दैवादिकस्य दोधातील्यः) अथवा गावः लोमानि, केशाः इत्यर्थः, दीयन्ते खण्ड्यन्ते यत्र कर्माणि इति अधिकरणव्युत्पत्या केशान्ताख्यं क्षौरकर्म उच्यते, तदेव मङ्गलं माङ्गलिकं कर्म ; तत् कृतं यथाशास्त्रमैत्विग्भिरनुष्ठितं येषां तथोक्ताः ; यथाविधि तत्कर्मनिष्पादनात् शुभां सुषमामादधतः इत्यर्थः। तथा हि मनुः,- ‘केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते। राजन्यबन्धोर्द्वाविशे वैशस्य ह्यधिके ततः॥ ‘इति। अतः रघौ कालिदासः,- ‘‘अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयत् गुरुः ‘इति। एतद्धि कर्म विवाहात् प्राक् क्रियते। केचित् तु-गवां पयस्विनीनां धेनूनां दानं पात्रेषु त्यागः तद्रूपं वा माङ्गलिकं कर्म ; दम्पत्योः दीर्घायुःकामनयैवेतत् क्रियते इति व्याचक्षते। विवाहदीक्षिताः,-उद्वाःसंस्कृताः (दीक्षधातोः भौवादिकस्य कर्तरि क्तः)।

मूलम्

सीता - एदे क्खु तक्कालकिदगोदाणमङ्गला चत्तारो भादरो ।
विआहदिक्खिदा तुह्मे ।

विश्वास-प्रस्तुतिः

अह्मो जाणामि तस्सिं जेव्व पदेशे तस्सिं जेव्व काले वत्तामि ।
अहो जानामि; +++(चित्रावलोकनेन)+++ तस्मिन्नेव प्रदेशे तस्मिन्न् एव काले वर्ते।

विस्तारः (द्रष्टुं नोद्यम्)

(झ) अहो इति। -जानामि अनुबवामि मन्ये इत्यर्थः, अहं तस्मिन्नेव प्रदेशे जनकालये विवाहाधिष्ठितस्थाने, तस्मिन्नेव काले-हरधनुर्भङ्गादिकाले इत्यर्थः, वर्ते-अस्मि। अहो चित्रकारिणा अपूर्वमालिखितं, यतः स एव कालः देशश्च इदानीम् अतीतः दूरस्थः अपि प्रत्यक्षीभूततया आभाति नः। (अत्रोत्प्रेक्षाऽनुप्राणितः भाविकालङ्कारः)।

मूलम्

अह्मो जाणामि तस्सिं जेव्व पदेशे तस्सिं जेव्व काले वत्तामि ।

विश्वास-प्रस्तुतिः

रामः - एवम्।

समयः स वर्तत इवैष यत्र मां
समनन्दयत् सुमुखि गौतमार्पितः ।
अयम् +++(रोमाञ्चनाद्य्-अनुभवेन)+++ आगृहीत-कमनीय-कङ्कणस्
तव मूर्तिमान् इव महोत्सवः करः ॥१८॥+++(4)+++

विस्तारः (द्रष्टुं नोद्यम्)

(ञ) एवम्-अस्त्येवेति शेषः, यद्वदसि तत्थैवेत्यर्थः।
इदानीं रूपभूषणादिरूपैरुद्दीपनविभावैरुद्बुद्ध-नायकगतं पूर्वरागमभिधातुं पुरस्तावत् तद्गतमनुभवमभिव्यनक्ति, समय इति। -हे सुमुखि स एष समयः, -वैवाहिकः कालः, वर्तते इव-अतीतोऽपि इदानीन्तन इवानुभूयते इत्यर्थः। यत्र-यस्मिन् समये, सम्प्रदानसमये इत्यर्थः, (एष हि चिरन्तनः सदाचारः प्रचरति, तथा हि भवदेवः,- ‘ततो जामाताचान्तः मङ्गलौषधिलिप्तेन दक्षिणहस्तेन तादृशमेव कन्यायाः दक्षिणहस्तं स्वहस्तोपरि निदध्यात्’ इति)। अगृहीतं परिहितं, कमनीयं सुन्दरं कङ्कणं वलयं वैवाहिकसूत्रं वा येन तथाविधः, समन्ताद्धृतरुचिरहेमवलयः इत्यर्थः, ‘कङ्कणं करभूषायां हस्तसूत्रे च शेखरे ‘इति हैमः। (एतेन सुमुखीतिपदसमभिव्याहारात् सीतायाः वदनकमलचारुताऽतिशयित्व करुणालसौदुमार्यभूयत्वञ्च ध्वनितम्) ; अथवा-आगृहीताः शृङ्गार-मूलक-सात्विक-भाव-विशेषाणां स्वेद-वेपथु-रोमाञ्चादीनाम् उदयात् सम्यक्तया स्वीकृताः कमनीयाः स्पृहणीयाः कङ्कणाः तदाकाराः स्वेदजललवाः यस्मिन् तथाविधः, अयं तव करः, मूर्तिमान् सविग्रहः, महोत्सवः महामह इव मां समनन्दयत् नितरामपिप्रयदित्यर्थः।

(अत्र पूर्वार्धं अतीतस्यापि कालस्य इदानीन्तनत्वेन उत्कटैककोटिकतया प्रतीयमानत्वात् भावाभिमानिनी क्रियोत्प्रेक्षा ; परार्द्धेऽपि तथैव महोत्सवत्वरूपगुणावगाहितया गुणोत्प्रेक्षा; ताभ्याञ्चाद्भुतस्य भूतस्य वस्तुनः प्रत्यक्षायमाणत्वेन अभिधानात् विच्छीत्तिविशेषाद्यभिधायकतया भाविकालङ्कारः ध्वनितः; प्राक्प्रत्यक्षीभूतानां हि वस्तूनामुपवर्णने इदानीं प्रत्यक्षायमाणत्विक्तेरिति)। मञ्जिभाषिणी वृत्तम्। - ‘सजसाजगौ भवति मञ्जुभाषिणी ‘इति लक्षणात्। वृत्तमिदं हि त्रयोदशाक्षरपादच्छन्दसां २८९६ तमप्रस्तारान्तर्भूतम्॥१८॥

मूलम्

रामः - एवम्।

समयः स वर्तत इवैष यत्र मां समनन्दयत्सुमुखि गौतमार्पितः ।
अयमागृहीतकमनीयकङ्कणस्तव मूर्तिमानिव महोत्सवः करः ॥१८॥

विश्वास-प्रस्तुतिः

लक्ष्मणः - इयमार्या ।
इयम् अप्य् आर्या +++(भरतपत्नी)+++ माण्डवी ।
इयम् अपि वधूः +++(शत्रुघ्नपत्नी)+++ श्रुत-कीर्तिः ।

विस्तारः (द्रष्टुं नोद्यम्)

(ट) चित्रे हस्तं निर्दिश्य अभिधत्ते इयमिति। - इयमार्या-भवती; (सीतां प्रति इयमुक्तिः)। माण्डवी; राजर्षेः जनकस्य कनीयसः भ्रातुः कुशध्वजस्य ज्येष्ठा कन्या भरतपत्नी। अनयोस्तु ज्येष्ठभ्रातुः भार्यात्वेन मातृसमानत्वात् आर्यापदेनाभिधानम् ; तथा हि बृहस्पतिः; –

मातुः स्वसा मातुलानी पितृव्यस्त्री पितृश्वसा।
श्वश्रूः पूर्वजपत्नी च भातृतुल्याः प्रकीर्तिताः॥ ‘

इति।

श्रुतकीर्तिः;-शत्रुघ्नपत्नी कुशध्वजस्य कनिष्ठा कन्या; कनिष्ठभ्रातुः पुत्रसदृशत्वात् तद्भार्यायाः स्नुषात्वेनाभिधानम् ; तथा हि मनुः – पितेव पालयेत् पुत्रान ज्येष्ठो भ्रातृन् यवीयसः।
पुत्रवच्चानुवर्तेरन् ज्येष्ठे भ्रातरि धर्मतः॥ ‘इति।

मूलम्

लक्ष्मणः - इयमार्या ।
इयमप्यार्या माण्डवी ।
इयमपि वधूः श्रुतकीर्तिः ।

विश्वास-प्रस्तुतिः

सीता। बच्छ इअं पि अबरा का ?
वत्स इयम् अपि अपरा का ?

विस्तारः (द्रष्टुं नोद्यम्)

(ठ) महामनाः लक्ष्मणः ज्यायसां सोदराणां सविधे सदाचारं सम्यक् अक्षतमेव विधातुं स्वविनीतत्वञ्च दर्शयितुं लज्जया स्वपत्नीमूर्मिलामप्रदर्श्य माण्डवीतः प्रभृति चित्रं दर्शयितुमारेभे; तद्दृष्ट्वा अपारप्रणयपीयूषधाराप्रवाहिणी मुग्धा वैदेही अप्रतिमं वात्सल्यं विकाशयितुं पृच्छति;-वत्स इत्यादि।

मूलम्

सीता। बच्छ इअं पि अबरा का ?
वत्स इयमपि अपरा का ?

विश्वास-प्रस्तुतिः

लक्ष्मणः - (सलज्जास्मितम् । स्वगतम्/ अपवार्य ।) अये, ऊर्मिलां पृच्छत्यार्या ।
भवतु ।
अन्यतः सञ्चारयामि ।

विस्तारः (द्रष्टुं नोद्यम्)

(ड) सलज्जेति। लज्जया सह वर्तमानं सलज्जं, तथाविधं स्मितमीषद्धसन यस्मिन् कर्मणि तत्। स्वस्त्रीविषयकप्रश्नोदयात् लज्जा मृदुहसितञ्च युगपदेवोदियायेत्यर्थः। स्वगतम्-आत्मगतमभिदधे इत्यर्थः। - ‘अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम् ‘इति लक्षणात्। भवतु-सत्यप्येवं तथापीत्यर्थः, अन्यतः-भयानकरसभावबहुले आलेख्ययान्यस्मिन्नंशे इति यावत्, सञ्चारयामि-आर्यायाः दृष्टि विनिवेशयामीत्यर्थः, ऊर्मिलावृत्तान्तं विस्मारतितुमिति भावः।

मूलम्

लक्ष्मणः - (सलज्जास्मितम् । स्वगतम्/ अपवार्य ।) अये, ऊर्मिलां पृच्छत्यार्या ।
भवतु ।
अन्यतः सञ्चारयामि ।

विश्वास-प्रस्तुतिः

(प्रकाशम् ।) आर्ये, दृश्यतां द्रष्टव्यमेतत् ।
अयं च भगवान्भार्गवः ।

विस्तारः (द्रष्टुं नोद्यम्)

(ढ) प्रकाशम् इति। - ‘सर्वश्राव्यं प्रकाशं स्यात् ‘इति लक्षणात् स्फुटमभिधत्ते इत्यर्थः। द्रष्टव्यमेतत्-द्रष्टुमुचितं भार्गवविजयालेख्यं, रामस्य विजयवार्तासंसृष्टत्वादेतस्येत्यर्थः, पत्युः सर्वतः कीर्तेः प्रथमेन सतीनां महाह्लादकरत्वाद्वा इत्यर्थः। भगवान्-त्रिलोकीपूज्य इत्यर्थः, भार्गवः-परशुरामः। उद्वाहक्रियां समाप्य मिथिलायाः प्रत्यावृत्तानां रामादीनां निधनाय क्षत्रान्तकः परशुरामः हरधनुर्भङ्गात् तद्वीर्यमसहिष्णुः पथि उदीयमानः अभूत्, रामस्तु तं पराजिग्ये, इति रामायणी वार्ता।

मूलम्

(प्रकाशम् ।) आर्ये, दृश्यतां द्रष्टव्यमेतत् ।
अयं च भगवान्भार्गवः ।

विश्वास-प्रस्तुतिः

सीता - (ससम्भ्रमम् ।) कम्पिदह्मि ।
कम्पिताऽस्मि।

विस्तारः (द्रष्टुं नोद्यम्)

(ण) ससम्भ्रममिति। -भीत्यादिजनितत्वरया सहितम्। सम्पिता-वेपथमती। भार्गवस्य भीष्मवपुषः समालोकनात् भयानकरसावेशात् कम्पनं वेदितव्यम्।

मूलम्

सीता - (ससम्भ्रमम् ।) कम्पिदह्मि ।

विश्वास-प्रस्तुतिः

रामः - ऋषे, नमस्ते ।+++(5)+++

मूलम्

रामः - ऋषे, नमस्ते ।

विश्वास-प्रस्तुतिः

लक्ष्मणः - आर्ये, पश्य ।
अयम् आर्येण (इत्यर्धोक्ते …) +++(5)+++

विस्तारः (द्रष्टुं नोद्यम्)

(त) आर्येण इति। वैष्णवं शरासनं समारोप्य समाकृष्टतेजाः निगृहीत इति वाक्यशेषः, अुञ्च भगवान् भार्गवः इति पूर्वेणान्वयः।

मूलम्

लक्ष्मणः - आर्ये, पश्य ।
अयमार्येण (इत्यर्धोक्ते ।)

विश्वास-प्रस्तुतिः

रामः - (साक्षेपम् ।) अयि/ वत्स , बहुतरं द्रष्टव्यम् ।
अन्यतो दर्शय । +++(5)+++

विस्तारः (द्रष्टुं नोद्यम्)

(थ) साक्षेपमिति। सप्रतिषेधम्। लक्षणसमीरितं वचः प्रतिषिध्येत्यर्थ अथवा, आक्षेपेण-कष्टेन सह। ( ‘क्षिपु निरसने’ इति धातोः भावे घञि रूपम्)।

(द) वत्सेत्यादि। -भगवतः भूसुरस्य परशुरामस्य पराबवोत्कीर्तनस्य सतामननुमतत्वात्; प्रत्युत; महतां निन्दाश्रवणस्य प्रत्यवायजनकत्वात् स्ववीर्ययशसः च आत्मना श्रोतुमयोग्यत्वात् तत्कथनव्यवसायात् लक्ष्मणः प्रतिषेधितः ; (एतेन अनात्मश्लाघाकरणात् नायकस्य धीरोदात्तत्वं सूक्तिमिति बोध्यम्। तथा हि; -‘अविकत्थनः क्षमावान् अतिगम्भीरो महासत्वः। स्थेयान् निगूढमानी धीरोदात्तो दृढवतः कथितः॥ ‘इति)। अन्यतः दर्शय-अन्यत्र लिखितं वस्तु निभालयेत्यर्थः।

मूलम्

रामः - (साक्षेपम् ।) अयि, बहुतरं द्रष्टव्यम् ।
अन्यतो दर्शय ।

विश्वास-प्रस्तुतिः

सीता - (सस्नेहबहुमानं निर्वर्ण्य ।) सुष्ठु सोहसि अज्जउत्त, एदिणा विणअमाहप्पेण ।
सुष्ठु शोभसे आर्यपुत्र एतेन विनय-माहात्म्येन।

विस्तारः (द्रष्टुं नोद्यम्)

सस्नेहबहुमानमिति। - रामस्य धीरोदात्तोचितव्यवहितं दृष्ट्वा तस्मिन् सीतायाः निर्भरस्नेहाविर्भावः; सत्यपि तस्मिन् महति वीर्ये; अत एव द्विजस्योपरि तदाहितत्वेन निन्द्यत्वेन तद्दर्शनौत्सुक्यपरिवर्जनदर्शनात् बहुमानश्च; ताभ्यां सह वर्तमानं यथा तथेत्यर्थः। सुष्ठु-प्रशंसार्थकमव्ययम्। विनयमाहात्म्येन-विनयस्य प्रागुपदर्शितस्य माहात्म्येन महिमभूयस्तयेत्यर्थः; (एतेन महतः भार्गवस्य निकृतिरूपं महाजनलाघवं; स्वविजयरूपं गौरवञ्च द्रष्टुमशक्यत्वेन; राघवस्य माहात्म्यम्; अतिविनयित्वञ्च सूच्यते)।

मूलम्

सीता - (सस्नेहबहुमानं निर्वर्ण्य ।) सुष्ठु सोहसि अज्जउत्त, एदिणा विणअमाहप्पेण ।

विश्वास-प्रस्तुतिः

लक्ष्मणः - एते वयमयोध्यां प्राप्ताः ।

मूलम्

लक्ष्मणः - एते वयमयोध्यां प्राप्ताः ।

विश्वास-प्रस्तुतिः

रामः - (सास्रम् ।) स्मरामि हन्त स्मरामि ।

विस्तारः (द्रष्टुं नोद्यम्)

(ध) सास्रमिति। विदेहात् (वर्तमानाभिधा ‘त्रिहुत्) अयोध्यामुपगतस्य राघवस्य; कियद्दिवसानन्तरमेव तद्राज्याभिषेचनमनुतिष्ठतः पितुः स्वर्गतिमनुस्मृत्य निर्भरशोकसविग्रस्य; अयोध्यावृत्तान्तश्रवणसमकालं हि निर्भरम् अश्रुपातः अजायत इत्यवधेयम्। हन्त-खेदे। स्मरामि;-स्मरामीति द्विरावृत्तिः गुरुवियोगकृतोद्दण्डसन्तापद्योतिका;- विवादे विस्मये हर्षे शोके दैन्येऽवधारणे।
प्रमादने सम्भ्रमे च द्विस्त्रिरुक्तिर्न दुष्यति॥ ‘इत्याप्तवचनात्।
तत्कालसम्भूतमुदन्तजातमिदानीं स्मृतिपथमारूढमित्यर्थः। तद्वृत्तान्तस्य शोकसङ्कुलत्वात् तस्वेगं सोढुमशक्नुवतः रामस्य सखेदोक्तिरयम्।

मूलम्

रामः - (सास्रम् ।) स्मरामि हन्त स्मरामि ।

विश्वास-प्रस्तुतिः

जीवत्सु तातपादेषु
नूतने दार-सङ्ग्रहे ।
भ्रातृभिश् चिन्त्यमानानां
ते हि नो दिवसा गताः ॥१९॥

विस्तारः (द्रष्टुं नोद्यम्)

शोककारणानां संस्मारकतां विशदीकर्तुं स्मरणप्रकारमभिदधाति, जीवत्स्विति। -तातपादेषु जनके ‘एकत्वं न प्रयुञ्जीत गुरुवात्मनि चेश्वरे ‘इत्यादि- स्मरणात् गौरवात् बहुवचनम्। (पादशब्दप्रयोगस्तु तेषामतिपूज्यत्वद्योतनाय, ‘उत्तमानां स्वरूपं तु पादशब्देन भण्यते’ इति दर्शनात्। स्वर्गतस्य पितुः नामोच्चारणस्य सपदि शोकावेगकरत्वात् गुरुनामग्रहणप्रतिषेधाच्च दशरथ इति नामग्रहणं नाकारि इत्यवधेयम्)। जीवत्सु विद्यमानेषु सत्सु, नवे दारपरिग्रहे परिणये सति, मातृभिः कौशल्यादिभिः चिन्त्यमानानां कथं हि एतेषां समयः सुखेन गमिष्यति, इत्थं सततं शुभमनुध्याय सस्नेहं परिवर्द्धमानानां, नः अस्माकम्, (दशरथस्य सार्द्धसप्तशती पत्न्यः आसन्, तासु तिस्रो मुख्याः। तत्रापि महिष्याः कौशल्यायाः गर्भसम्भूतस्य रामस्य सुखवर्द्धनाय ताः सर्वा एव निष्णाता बभूवुः। एकस्या एव मातुः सुखलालनत्वं दुर्लभमेव, किमुत सार्द्धसप्तशत्याः, अत उक्तं ‘मातृभिः’ इति। किञ्च तासां सुखाकरवस्तूनां नवनवोद्भावनमपि आसीत्, अत उक्तं ‘चिन्त्यमानानाम्’ इति। सामान्यरक्षकस्य जीवनं सततं हि रक्षितजनानां सुखावहं भवति, निरतिशयसुखानुध्यानरतस्य पितुस्तु सुतरामेव तथेति हृदयम्) ते पूर्वानुभूताः (अत्र अनुभूतार्थविषयत्वात् तच्छशब्दस्य न यच्छब्दव्यपेक्षा; तथाहि- ‘प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यच्छब्दोपादानं नापेक्षते’ इत्याद्युक्तेः) हि दिवसाः अपरिच्छिन्नानन्देकरसाः वाचामगोचराः इत्यर्थः, गताः अतीताः चिरायेति शेषः, कथमपि ते पुनः नैवेदानीं लप्स्यन्ते इत्यर्थः। (अत्र दिवसानां सुखप्रदत्वं, तातपादजीवनरूपे एकस्मिन् कारणे सत्यपि, नवदारपरिग्रहादिरूपाणां हेत्वन्तराणां खले कपोतवत् साहित्येनैकत्रावतरणात् समुच्चयालङ्कारः; अपि चात्र, दिवसपदस्य लक्षणया मुख्यार्थस्य परित्यागेन स्वविशेषरूपार्थान्तरसङ्क्रमणात् अर्थान्तरसङ्क्रमितत्वं ज्ञेयम् )॥१९॥

मूलम्

जीवत्सु तातपादेषु नूतने दारसङ्ग्रहे ।
भ्रातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥१९॥

विश्वास-प्रस्तुतिः

इदमपि तदा जानकी-

प्रतनुविरलैः प्रान्तोन्मीलन्मनोहरकुन्तलैः।
दशनमुकुलैर्मुग्धालोकं शिशुर्दधती मुखम्।
ललितललितैर्ज्योत्स्नाप्रायैरकृत्रिमविभ्रमै- रकृत मधुरैरम्बानां मे कुतूहलमङ्गकैः॥२०॥

मूलम्

इदमपि तदा जानकी-

प्रतनुविरलैः प्रान्तोन्मीलन्मनोहरकुन्तलैः।
दशनमुकुलैर्मुग्धालोकं शिशुर्दधती मुखम्।
ललितललितैर्ज्योत्स्नाप्रायैरकृत्रिमविभ्रमै- रकृत मधुरैरम्बानां मे कुतूहलमङ्गकैः॥२०॥

न केवलं मातापितरौ भवत्याः सुखाय निष्णातौ, त्वमपि तेषां सुखहेतुरासीः, इति नायिकायाः मुग्धत्वमुपवर्णायितं तत्तद्दिवसानां महाह्लादकरत्वं भङ्ग्यन्तरेण प्रतिपादयति, प्रतन्विति। तथा प्रतनुभिः स्वभावसुकुमारवयोजनतया सूक्ष्मैः अथ च विरलैः अनतिनिविडैश्चेत्यर्थः, तथा प्रान्ते कपोलोपान्ते उन्मीलन्तः स्फुरन्तः ये मनोहराः रुचिराः कुन्तलाः केशाः तैः ; अपि च दशनमुकुलैः, दशनाः दन्ताः मुकुलानीव कुन्दकोरका इव तैः उपलक्षितं, तथा मुग्धालोकं-मुग्धो मनोहरः आलोकः

दर्शनं यस्य तथोक्तं सुदृश्यमित्यर्थः, मुखं दधती धारयन्ती, शिशुः शैशवयौवनान्तर्वर्तमाना शिशुप्राया इत्यर्थः ( ‘इयमपि जानकी’ इति कर्त्तृपदेन पूर्वेणान्वयः ) ; ललितललितैः,-ललितेभ्यः ललितैः (इति पञ्चमीसमासः), अथवा अतिशयेन ललितैरतिसुन्दरैरित्यर्थः। ( ‘प्रकारे गुणवचनस्य’ (८। १। १२ पा०) इति द्विर्भावः। ‘ललितं त्रिषु सुन्दरम्’ इत्यमरः) अथवा-ललितात् तन्नाम्ना प्रसिद्धात् सभूभङ्गं करकिसलयावर्त्तनरूपात् स्वैरचरणकमलन्यासादिरूपाच्च स्वाभाविकनायिकाऽलङ्करणात् हेतोः, तद्वत्तयेति भावः, ललितैः मञ्जुलैः हृदयग्राहिभिरित्यर्थः, (तथा हि- ‘सुकुमारतयाऽङ्गानां विन्यासो ललितं भवेत्’ इति लक्षणात् ) ज्योत्स्नप्रायैः,-आनन्दकरत्वात् कौमुदीसदृशैर्लावण्यमयैरित्यर्थः, अतीव धवलैरिति यावत्, (अत्र प्रायशब्दः प्रचुरवाची, ‘जलप्रायो देशः’ इतिवत् मयूरव्यंसकादिवत् समासः); अकृत्रिमविभ्रमैः,-नास्ति कृत्रिमो विभ्रमः विलासः भङ्गीविशेषः येषु, तथाविधैः, अनुद्भिन्नयौवनतया अशिक्षितकृत्रिमविलासैः इत्यर्थः, मधुरैः,-नेत्रानन्दकरैः कोमलैः, अङ्गकैः (अल्पार्थे कन्) तनुतरैरित्यर्थः, मे मम, अम्बानां मातणां, कुतूहलं दर्शनौत्सुक्यं कियद्धि नाम आनन्दमित्यर्थः, अकृत अजनयत् (करोतेः लुङि रूपम्। कृञः आत्मन्पदेन रामाम्बाकुतूहलकरणफलं सीतायाः अवगम्यते कर्त्रभिप्रायिकत्वादित्यवधातव्यम् )। सीतायाः शुद्धान्तमध्युषितत्वेन अन्येषां तद्दर्शनासम्भवात्, मातणां पुनः तस्यां स्नेहातिशय्यञ्च द्योतयितुम् अम्बानामितिपदमुपात्तमिति सङ्क्षेपः।
(अत्र मुग्धनायिकायाः यथावत् असाधारणचेष्टादीनामुपवर्णनात् स्वभावोक्त्यलङ्कारः, अपि च कुतूहलरूपकार्यस्य बहूनां कारणानां खले कपोतवदेकत्र समावेशात् समुच्चयालङ्कारः; ‘दशनमुकुलैः’ ‘ज्योत्साप्रायैः’ इत्युभयत्र ‘लुप्तोपमा’ इत्येषामाङ्गाङ्गिभावतयाऽवस्थानात् सङ्करः )।
वृत्तं हरिणी। - ‘नसमरसला गः षड्-वेदैर्हयैर्हरिणी मता’ इति तल्लक्षणात्। तच्च सप्तदशाक्षरपादच्छन्दसां ४६११३ तम प्रस्तारान्तर्गतम्॥२०॥

लक्ष्मणः। एषा मन्थरा रामः। (अनन्तरमन्यतो दर्शयन्)। (न) देवि वैदेहि – इङ्गुदीपादपः सोऽयं श्रुङ्गबेरपुरे पुरा।
निषादपतिना यत्र स्निग्धेनासीत् समागमः॥२१॥

(न) अनुत्तरमिति। - तातविनाशादिविपदातिनिदानत्वात् कैकयीसंवादसंवलि-तायाः तदीयदास्याः मन्थरायाः संवादे कामपीहामकृत्वैव अन्यतः दृष्टिमदितेति बोध्यम्।
इङ्गुदीति। - सः अयं पुरोवर्ती चित्रित इत्यर्थः, शृङ्गबेरपुरे-गृहस्य नगरे, (अधुना ‘चुनार’ इति ख्याति) इङ्गुदीपादपः तापसतरुवृक्षः, यत्र वृक्षमूले, पुरा वनवासावसरे, स्निग्धेन मित्रेण ( ‘वयसः स्निग्धः सवयाः’ इत्यमरः) निषादपतिना गृहेन, सहेत्यर्थः, समागमः सम्मिलनम् आसीत्॥२१॥

लक्ष्मणः। (विहस्य स्वगतम्)। अये मध्यमाम्बावृत्तान्तोऽन्तरित आर्य्येण (प) सीता। अह्मो एसो जडासञ्चमणबुत्तन्तो। (फ) लक्ष्मणः। पुत्रसङ्क्रान्तकक्ष्मीकैर्यद् वैद्धेक्ष्वाकुभिः कृतम्।
धृतं बाल्ये तदार्येण पुण्यमारण्यकव्रतम्॥२२॥

अहो एषः जटासंयमनवृत्तान्तः (प) विहस्य इति। -सम्मितमित्यर्थः। मध्यमेत्यादि-मध्यमायाः द्वितीयायाः अम्बायाः जनन्याः, अन्तरितः,-निह्नुतः गोपायित इत्यर्थः ; (तद्वृत्तान्तस्य दुःखोद्दीपकत्वात् अशुभकरत्वात् वा परिहृतः ; अन्तरयतेः नामधातोः कर्मणि क्तस्य रूपम्। ‘वृत्तान्तः’ इत्यत्र ‘वृत्तम्’ इति पाठस्तु समीचीनः। तदर्थस्तु,-वृत्तं चरितं वनप्रस्थापनरूपम्। वृत्तान्तमिति पाठे-वृत्तान्तमाचरितं, स्वरूपार्थे अन्तशब्दस्य क्लीबलिङ्गत्वात् वृत्तान्तमित्यस्य क्लीबत्वम्।
(फ) अही- विस्मये; वसुधाऽऽधिपत्ये व्रियमाणस्य राघवस्य को नामाऽयमवस्थाविपरिणामः, दैवस्याप्रतिरुद्धप्रसरत्वात्, एतदेवात्र विस्मयकारणमवधेयम्। जटासयमनवृत्तान्तः,-जटाबन्धनव्यापारः। पुरा हि वनगमनाऽवसरे एतस्मिन् शृङ्गबेरपुरे गुहेन रामलक्ष्मणयोः जटाः नियमिताः इति, रामायणी वार्ता।
तदेवेदानीं सविशेषं व्यक्तीकर्त्तुमुदारमार्य्यवृत्तं प्रस्तौति, पुत्रेत्यादि। -पुत्र सङ्क्रान्तलक्ष्मीकैः,-पुत्रनिहितराज्यश्रीकैः पुत्रन्यस्तराज्यशासनभारैः इति यावत् अथवा पुत्रेषु सङ्क्रान्ता प्रत्नाश्रयविगमात् निराश्रया सती नवीनाश्रयभूतेषु तेषु स्वतः सङ्क्रान्ता लक्ष्मीर्येषां तथाभूतैः ( ‘उरःप्रभृतिभ्यः कप्’ (५। ४। १५१ पा०) इति कपि, ‘न कपि’ (७। ४। १४ पा०) इति ह्रस्वप्रतिषेधश्च )। वृद्धेक्ष्वाकुभिः,-गलितवयोभिः इक्ष्वाकुवंशीयैः, यत् पुण्यं पावनम्, आरण्यकव्रतम्-(अरण्ये भवाः इत्यर्थे घञ्) आरण्यकाः वनवासिनः तेषां व्रतं नियमः, वैखानसानुपालितमित्यर्थः, ( ‘आरण्यकं व्रतम्’ इति पाठे तु,-आरण्यकशब्दात् पुनः अण् इदमर्थे, अर्थस्तु उभयत्र समानः) कृतम्-अनुष्ठितं, तत्-तत्सदृशं व्रतं, पित्राज्ञापालनानुरोधात् धर्म्यम् अरण्यवासादिरूपम्, आर्य्येण-सतां गृह्येण, पूज्येन रामेणेत्यर्थः। (एतेन श्रद्धालुतयैव तत् स्वीकृतं, न तु लोकापवादभयादिति बोध्यम् )।
बाल्ये-नवे वयसि, धृतम्-अवलम्बितम्। यदेव पुरा पुत्रवद्भिः उपभुक्तराज्येश्च इक्षाकुभिः वलीतोपहते वयसि दृढं धर्म्यं व्रतमाचरितम् आर्य्येण तु तदेव प्रथमे वयसि परिगृहीतमिति महदेतदाश्चर्य्यकरमित्यर्थः। (अत्र वृद्धेक्ष्वाकूणामारण्यकव्रतधारणमार्य्यस्याऽसम्भवत् अपि तत्सदृशव्रतधारणमवगमयत् वृद्धेक्ष्वाकूणां बालस्यार्य्यस्य च बिम्बप्रतिबिम्बभावं बोधयति, अन्यकृतान्यधर्मवहनासम्भवात्, अत एवात्र असम्भवद्वस्तुसम्बन्धरूपा निदर्शना ; अपि च वृद्धत्वरूपकारणस्यऽसद्भावेऽपि ओतुकारण्यकव्रतरूपकार्य्यस्य उदयात् विभावनालङ्कारः, ताभ्याञ्च, बालस्य राघवस्य वृद्धेक्ष्वाकुभ्यः आधिक्यप्रतीतेः व्यतिरेकालङ्कारः व्यज्यते इत्यलङ्कारेणालङ्कारध्वनिरिति ध्येयम् )। हितुर्य्यपादयोः चतुर्थवर्णात् परं जगणस्य वर्त्तमानत्वात् पथ्यावक्त्रं वृत्तम् ;- ‘युजोः चतुर्थतो जने पथ्यावक्तं प्रकीर्तितम्’ इति लक्षणात्॥२२॥

सीता। एसा पसणपुणसलिला भअबदी भाईरही। (ब) रामः। देवि रघुकुलदेवते (भ) नमस्ते। - एषा प्रसन्नपुण्यसलिला भगवती भागीरथी (ब) प्रसन्नेत्यादि। -प्रसन्नं कलधौतधवलं निर्म्मलं पुण्यं पावनञ्च सलिलं यस्याः तथाभूता, भागीरथी-भगीरथेन आनीता ; स्वान् पूर्वपुरुषान् समुद्धर्तुमित्यर्थः।
(भ) रघुकुलदेवते इति। रघोः कुलं सन्ततिः तस्य देवता अधिदेवता इत्यर्थः, (ब्रह्मर्षिकपिलशापविदग्धान् सगरसुतान् समुद्धर्त्तुं भगीरथः स्वर्धुनीं पृथिवीमानिनाय, स्वार्हपुरुषान् तद्विमलपयसा पावयामास च, अतो हि रघोः सुताः तामधिदेवतामिवाऽमन्यन्त )।
तुरगविचयव्यग्रानुर्वीभिदः सगराध्वरे।
कपिलमहसाऽमर्षात् पृष्टान् पुरा प्रपितामहान्।
अगणिततनूपातं तप्त्वा तपांसि भगीरथो।
भगवति तव स्पृष्टानभ्दिश्चिरादुददीधरत्॥२३॥

कथं हि सा भगीरथी तदन्ववायस्य पावनी, रघुकुलदेवतेव च नियतममानि रघुभिः, तदेव विवृणोति, तुरगेत्यादि। -हे भगवति पुरा पूर्व्वं ( ‘पुरा’ इत्यत्र ‘पितुः’ इति पाठान्तरं दृश्यते, तत्तु प्रपितामहानित्यनेनान्वितम् कृत्वा पितुः दिलीपस्य प्रपितामहानिति केचन व्याचक्षते। तत्तु रामायणविरोधात् उपेक्षितमस्माभिः। यतः सगरस्य सौमतेयाः षष्टिसहस्रसुताः, असमञ्जस्य (विष्णुपुराणे तु ‘असमञ्जम्’ शब्दः पठ्यते) वैमात्रेयाः भ्रातरः, भगीरथस्यैव प्रपितामहस्य वैमात्रेयभ्रातरः भवन्ति, न तु तत्पितुः दिलीपस्येति बोध्यम्)। सगराऽध्वरे-सगरस्यास्मत्पूर्वपुरुषस्य राज्ञः यज्ञे हयमेधे इत्यर्थः, तुरगविचयेत्यादि-तुरगस्य अश्वमेधीयस्य वाजिनः इन्द्रेणापहृत्य पातालं नीतस्येत्यर्थः, विचये अन्वेषणे व्यग्रान्-उत्सुकान् उर्वीभिदः,-यज्ञदीक्षितस्य सगरस्याज्ञया उर्वीं पृथिवीं भिन्दन्ति इति ये तथाविधाः, ( ‘सत्सुद्विषद्रुहदुह’ (३। २। ६१ पा०) इति क्विप्) मर्त्ये अश्वान्वेषणे व्यर्थप्रयत्नाः भूत्वा, पातालगमनार्थं भुवं दीर्य्यन्तः इत्यर्थः। तथा हि आदिकाण्डे रामायणे एकोनचत्वारिंशाऽध्याये – ‘यावत् तुरगसन्दर्शस्तावत् खनत मेदिनीम्।
तमेव हयहर्त्तारम् मार्गमाणा ममाज्ञया॥

दीक्षितः पौत्रसहितः सोपाध्यायगनस्त्वहम्।
इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम्॥

पश्चात्, अमर्षाद्-कोपात्, कपिलस्य महामुनेर्महसा तेजसा, प्लुष्टान्-दग्धान्, भस्मसात् भूतानित्यर्थः, ( ‘प्लुष दाहे’ कर्मणि क्तः) तथा हि, तत्रैव – ‘ततस्तेनाऽप्रमेयेण कपिलेन सहात्मना।
भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः॥’ इति।
प्रपितामहान् -सगरस्य नरपतेः पत्न्याः सुमत्याः तनयान्, षष्टिसहस्राणीत्यर्थः। तथा हि तत्रैव अष्टविंशाध्याये- ‘अथ काले गते तस्य ज्येष्ठा पुत्रं व्यजायत।
असमञ्ज इति ख्यातं केशिनी सगरात्मजम्॥

सुमतिस्तु नरव्याघ्र गर्भन्तुम्बं व्यजायत।
षष्टिः पुत्रसहस्राणि तुम्बभेदात् विनिःसृताः॥’ इति।
असमञ्जस्य पितामहत्वेन तद्वैमात्रेयाणां षष्ठिसहस्रसङ्ख्याकानां सुमतिसुतानामपि तथात्वमवधेयम्। भगीरथस्तद्वंशीय आसीत्। – ‘सगरादसमञ्जस्तु असमञ्जादथांऽशुमान्।
दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः॥

अपि च ‘दिलीपस्य महातेजाः श्रुत्वा पैतामहं वधम्।
दुःखोपहतया बुद्ध्या निश्चयं नाऽध्यगच्छत॥

कथं गङ्गाऽवतरणं कथं तेषां जलक्रिया।
तारयेयं कथं चैतानिति चिन्तापरोऽभवत्॥

तस्य चिन्तयती नित्यं धर्मेण विदितात्मनः।
पुत्रो भगीरथी नाम यज्ञे परमधार्मिकः॥

इत्यादि रामायणम्। अगणितेत्यादि-अगणितः उपेक्षितः अविचारितः वा तन्वाः शरीरस्य पातः पतनं शरीरध्वंसः इति यावत् यस्मिन् तपःकर्मणि, ( ‘स्त्रियां मूर्तिस्तनुस्तनू’ इत्यमरः)। तद् यथा तथा चिरात्-चिराय, सहस्रपरिवत्सरान् व्याप्येत्यर्थः, तपांसि तप्ता-तपस्यन् इत्यर्थः ; तथा हि, – ‘भगीरथस्तु राजर्षिः धार्मिकी रघुनन्दनः।
मन्त्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः॥

तपो दीर्घं समातिष्ठेत् गोकर्णे रघुनन्दन ।
ऊर्ध्वबाहुः पञ्चतपाः मासाहारो जितेन्द्रियः।
तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः।
अतीतानि महाबाहो तस्य राज्ञः महात्मनः॥ ‘इति।
तपसा स्वर्गादवतारितायाः इति भावः ; तव अद्भिः,-सलिलैः, स्पृष्टान्-अभिषिक्तान्, तान् उददीधरत्-उद्धारयामास। तथा हि तत्रैव – ‘गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महाऽऽत्मनाम्।
स्वर्गं गच्छेयुरत्यन्तं सर्व्वे च प्रपितामहाः॥

अपि च- ‘अथ तद्भसनां राशि गङ्गासलिलमुत्तमम्।
प्लावयत् प्लुतपाप्मानः स्वर्गं प्राप्ताः रघूत्तम॥’ इति।
(धरतेः णिचि लङि रूपम्। अत्र प्रस्तुतभागीरथीवर्णनस्याऽङ्गीभूततया महतां सगरादीनां चरितोपवर्णनस्य प्रस्तुतभागीरथीमहत्त्वव्यञ्जकस्य संस्थितेः उदात्तालङ्कारः )। वृत्तं हरिणी।
पुरा किल वैवस्वतस्य मनोरन्वये सगरो नाम नृपतिरसीत्। तस्य द्वे पत्न्यौ, (ज्येष्ठा केशिनी, अपरा च सुमतिर्नाम) आस्ताम्। स हि महामनाः अप्रजस्त्वात् हिमवन्तं नगाधिपमासाद्य भृगुप्रस्रवणे वर्षशतं तपोऽतप्यत। महर्षेर्भृगोः प्रसादाच्च ज्येष्ठा वंशकरं सुतम् असमञ्जसम् अपरा च षष्टि पुत्रसहस्राणि जनयामास। ततश्च असमञ्जात् अंशुमान्, अंशुमतः दिलीपः, दिलीपाच्च भगीरथः जज्ञे। इति वंशानुक्रमः। अथ पौराणमहिते रतः असमञ्जसः पुरात् पित्रा निर्व्वासितः अभूत्। तत्पुत्रः अंशुमान् सगरस्य मते स्थितः हयमेधमारिभे, सगरस्याज्ञया सुमतितनयाः षष्टिसहस्रसङ्ख्याताः हयरक्षामकार्षुः। पथि वासवस्तु तदश्वमपहृत्य पाताले तपस्यतः कपिलस्य सकाशं संस्थाप्याऽपसृतः। ते तु अन्विष्यन्तः महीं, पश्चात् पातालं गताः, अथ ते महर्षिमश्वाऽपहारकं मत्वा क्रुद्धाः तं निर्भत्सयितुमारेभिरे, ततः षष्टिसहस्रं सगरसुताः कपिलमहसा भस्मीभूताः अभवन्। तेषामुद्धरणाय अंशुमान् ततः दिलीपः कठोरं तपः अन्वतप्त, न तु तानुद्धर्तुमीष्टे स्म, अथ भगीरथः दिलीपतनयः स्वप्रपितामहान् पावनीभिः गङ्गायाः अद्भिः जलक्रियां कृत्वा तानुददीधरदिति पौराणिकी वार्ता॥२३॥

सा त्वम् अम्ब स्नुषायामरुन्धतीव सीतायां शिवानुध्यानपरा भव। (म) (म) अम्ब इति। -हे अम्ब जननि अस्मत्कुलाधिदेवता त्वं, स्नुषायां-बध्वां सीतायाम्, अरुन्धती-वसिष्ठपत्नी इव। शिवेत्यादि-शिवस्य शुभस्य अनुध्यानम् अनुचिन्तनं तदेव परं प्रधानं यस्याः तथाविधा, शुभाऽनुध्यायिनी भावेत्यर्थः। (कुलगुरोः पत्न्यां समादराऽतिशय्यसूचनाय जननीवेत्यनुक्त्वा अरुन्धतीवेत्युक्तम्। एतच्च दशरूपककारादिमते बीजानुगुणप्रोत्साहनरूपं सन्ध्यङ्गं वेदितव्यम्, तदुक्तं- ‘बीजानुगुणप्रोत्साहनं भेदः ’ इति एतदेवाह दर्पणकारः। केचित्तु ‘भेदः प्रोत्साहना’ इति वदन्ति। परन्तु तन्मते बीजार्थस्य प्ररोहरूपत्वात् उद्भेदनामकं सन्ध्यङ्गमवधातव्यम्। तथा हि दर्पणे ‘बीजार्थस्य प्ररोहः स्यादुद्भेदः इति लक्षणात् )।
लक्ष्मणः। एष भरद्वाजाऽऽवेदितश्चित्रकूटयायिनि वर्त्मनि वनस्पतिः कालिन्दीतटे वटः श्यामो नाम। (य) रामः। (सस्पृहमवलीकयति)। (र) सीता। सुमरेदि वा एदं पदेसं अज्जउतो ? स्मरति वैतं प्रदेशमार्यपुत्रः ? रामः। अयि। कथं विस्मर्यते ? (य) भरद्वाजेत्यादि। -भरद्वाजेन मुनिना अविदितः विज्ञापितः ; (पुरा किल ज्येष्ठभ्रातुः उतथ्यस्य गर्भिणीं पत्नीम् उपगतस्य बृहस्पतेः वीर्य्यात्, गर्भस्थबालकेन पद्भ्यां निःसरितात्, यः सुतो जज्ञे, स हि एकस्य क्षेत्रे अन्येन वीर्य्यस्याधानात् द्वाभ्यां‘जाततया ‘द्वाजः’ इति ततः ‘राजन् भर द्वाजमिम्’ इति देववाक्यात् ‘भरद्वाजः’ इति सञ्ज्ञां लेभे। सोऽपि गर्भस्थबालको बृहस्पतेः शापात् जन्मान्धोऽभवत् ‘दीर्घतमाः’ इत्याख्यां लेभे च इति विष्णुपुराणम् ) श्याम इति। -प्रसिद्धः, चित्रकूटयायिनि चित्रकूटपर्व्वताभिमुखगामिनि वर्त्मनि। कालिन्दीत्यादि। -कालिन्द्याः , यमुनायाः तटे, वनस्पतिः,-अपुष्पफलसमन्वितः, वटः,-तरुविशेषः। एवमेव रघौ कालिदासः ,- ‘त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः।
राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति॥’ इति।
एतस्याधुना प्रयोगे ‘अक्षयवटः’ इति आख्या प्रचरति।
(र) सस्पृहमिति-सस्पृहं सौत्सुक्यमीक्षते इत्यर्थः। रमणीयपूर्वानुभूतवस्तू नामाकाङ्क्षा हि स्पृहेति कथ्यते। तथा हि दर्पणकारः , – ‘आकाङ्क्षा रमणीयत्वात् वस्तुनो या स्पृहा तु सा। ’ इति।
अलसलुलितमुग्धान्यध्वसञ्जातखेदात् अशिथिलपरिरम्भैर्दत्तसंवाहनानि।
परिमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम करत्वा यत्र निद्रामवाप्ता॥२४॥

पूर्वाऽनुभूतसुखानां स्मरणाः स्पृहायाः समुदयात्, तेषां तेषान्तु विस्मरणाऽनर्हत्वप्रतिपादनमुखेन स्पृहाकारणानि स्फुटमभिधत्ते, अलसेति। -यत्र यस्मिन् प्रदेशे त्वम्, अध्वना पथि गमनेन सञ्जातात् समुद्भूतात् खेदात् क्लान्तेः, अलसानि अपटूनि जडानीत्यर्थः लुलितानि शिथिलीभूतानि ईषद्वेपमानानि वा तथापि मुग्धानि निसर्गतः एव मनोहराणि न तु विम्लानानीत्यर्थः, तथा अशिथिलैर्गाढैः परिरम्भैरालिङ्गनैः (बहुवचनमालिङ्गनाऽऽवृत्त्यभिप्रायकं वेदितव्यं ) दत्तं संवाहनं मर्दनं येभ्यः तानि तथोक्तानि ; अध्वगमखेदखिन्नानां प्रतिप्रतीकेषु संवाहितेषु कियच्च क्लान्तिविगमः भवति इति प्रसिद्धः ; तथा परिमृदिताः विदलिताः याः मृणाल्यः (अपचयविवक्षया स्त्रीत्वम्। तथा हि अमरः, ‘स्त्री स्यात् काचित् मृणाल्यादिर्विवक्षापचये यदि’ इति ) ता इव दुर्बलानि कोमलानि च अङ्गान्येव अङ्गकानि, ( ‘अनुकम्पायाम्(५। ३। ७६ पा०) इति कन् प्रत्ययः )। मम उरसि-वक्षसि, कृत्वा-निधायेत्यर्थः, निद्रामवाप्ता-निद्रिता आसीरस्वपीरित्यर्थः, स इदानीं कथं हि विस्मर्य्यते इत्यर्थः। (केचित्तु-अत्र ‘कतं विस्मर्यते’ इति चर्णकस्य हेतुरूपत्वेन श्लोकस्यास्य निर्देशात् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः। अपरे तु-अस्मिन् चित्रदर्शनव्यापारे पूर्वानुभूततत्तद्विषयाणां स्मृतेः स्मरणालङ्कारं वदन्ति इति। अत्र ब्रूमः,-प्रथममध्वखेदः, तेन च ललितत्वद्वैगुण्यं, ततः आलिङ्गनबाहुल्यं, ततश्च संवाहनता, तेन च वक्षःस्थलग्रत्वं, ततश्च निद्रावाप्तिरिति परं परं प्रति पूर्वपूर्वस्य हेतुतया अवस्थितेः कारणमाला स्यात्’ इति ‘मृणालीदुर्बलानि’ इत्यत्र च लुप्तोपमा ; इत्येतयोः सङ्करः )। वृत्तं मालिनी। - ‘न न म य य युतेयं मालिनी भोगिलोकैः’ इति लक्षणात्। पञ्चदशाक्षरपादच्छन्दःसु ४६७२ तम सङ्ख्यकः प्रस्तारः॥ २४॥

लक्ष्मणः। एष विन्ध्याटवीमुखे विराधसंवादः। (ल) (ल) विन्ध्याऽटवीमुखे। -विन्ध्यस्य शैलस्य अटवी अरण्यानी तस्य मुखं प्रारम्भः तस्मिन्। विन्ध्याऽरण्यप्रवेशाऽवसरे इत्यर्थः। विराधसंवादः-विराधो नाम कश्चिद्रक्षसः, तस्य संवादी वृत्तान्तः। ( ‘संवादः’ इत्यत्र ‘संरोध’ इति पाठे-विराधकर्त्तृकाऽस्मन्निरोधनम् इत्येवार्थः। तथा हि रामायणम्- ‘तावारोप्य ततः स्कन्धं राघवौ रजनीचरः।
विराधो निनदन् घोरं जगामाऽभिमुखी वनम्॥’ इति )।
सीता। अलं दाब एदिणा ; पेक्खामि दाब अज्जउत्तहत्थधरिदतालबेञ्यदबत्तं अत्तणो दिक्खिणारणप्पबेसारम्भम्। (व)

अलं तावदेतेन ; पश्यामि तावदार्यपुत्रहस्तधृततालवृन्ताऽऽतपत्रमात्मनो दक्षिणारण्यप्रवेशाऽऽरम्भम्।
(व) एतेनेति। -एतेन विराधवृत्तान्तदर्शनेन, अलं किम् ? एतस्याऽनर्थकरस्य परिदर्शनं विफलमित्यर्थः, शोकऽऽवेगविवर्द्धकत्वादित्याशयः। आर्य्यपुत्रेत्यादि। -आर्य्यपुत्रेण स्वहस्तेन धृतं गृहीतं तालवृन्तरूपम् आतपत्रं छत्रं यस्मिन् तथाविधमात्मनः स्वस्य सीताया इत्यर्थः। दक्षिणारण्येत्यादि। -दक्षिणानामकमरस्य तत्र प्रवेशः तस्य आरम्भः व्यवसायः तं प्रेक्षे इत्यर्थः। दक्षिणारण्यप्रवेशसमये आर्य्यपुत्रः मम आतपतापजक्लेशं निवारयितुं स्वहस्तधृततालवृन्तेन मम शिरः प्रच्छायशीतलमकरोदिति भावः। जनस्थानस्य दक्षिणा हि एषा अरण्यानी दृश्यते, अत एवैषा दक्षिणारण्यमित्याख्यां भजते इति।
रामः।
एतानि तानि गिरिनिर्झरिणीतटेषु वैखानसाश्रमतरूणि तपोवनानि।
येष्वातिथेयपरमाः शमिनो भजन्ते नीवारमुष्टिपचना गृहिणो गृहाणि॥२५॥

दक्षिणाऽरण्यसम्पदं विवृणोति, एतानीति। -गिरिनिर्झरिणीनां-गिरिनदीनां, तटेषु तीरेषु, एतानि तानि-पूर्वदृष्टानि इत्यर्थः, वैखानसेत्यादि-वैखानसानां वानप्रस्थतापसविशेषाणाम् आश्रमतरवो येषु तानि तथोक्तानि, तपोवनानि सन्तीति शेषः। येषु तपोवनेषु अतिथये हितम् आतिथेयं ( ‘पथ्यतिथिवसतिस्वपतेर्ढञ्’ (४। ४। १०४ पा०) इति ढञ् प्रत्ययः ), अतिथिसेवा एव परमं प्रधानं कर्म येषां ते तथोक्ताः ; यद्वा-आतिथेयेषु परमाः निष्णाताः आतिथ्यनिष्णाः इत्यर्थः, अत एव, नीवारमुष्टिपचनाः,-नीवारमुष्टि मुष्टिमेयतृणधान्यं पचन्ति ये तथोक्ताः, नीवारपाकमात्रेण स्वपोषणं कुर्वन्तः, संयताहाराः इत्यर्थः। शमिनः-शमदमद्युपेता वीतरागाः इत्यर्थः, गृहिणः,-सदाराः वनस्थाः तपस्विनः ‘पुत्रेषु दारान् निक्षिप्य वनं गच्छेत् सहैव वा’ इति स्मृतेः। गृहाणि भजन्ते-अधिवसन्ति। (अत्राऽपि प्रोक्तसम्भोगशृङ्गारो रसः, व्रीडाहर्षादिभिर्व्यभि-चारिभावैः परं परिपोषमागतः ; तथा हि दशरूपकै,- ‘अनुकूलौ निषेवेते यत्राऽन्योऽन्यं विलासिनौ। दर्शनस्पर्शनादीनि स सम्भोगो मुदान्वितः॥ ‘इति। (अत्राऽपि उदात्ताऽलङ्कारः, प्रस्तुतचित्रकूटवनस्थलीमहत्त्वव्यञ्जकतया शमिनामुपवर्णनस्य समुत्थानात्)। वसन्ततिलकं वृत्तम्॥२५॥

लक्ष्मणः।
अयमविरलाऽनोकहनिवहनिन्तरस्निग्धनीलपरिसराऽरण्यपरिणद्धगोदावरीमुःरकन्दरः सन्तमभिन्दमानमेघमेदुरितनीलिमा जनस्थानमध्यगो गिरिः प्रस्रवणो नाम। (श) (श) अथ कविः करुणविप्रलम्भशृङ्गाररसं समधिकं परिपोषयितुं तदनुगुणं माधुर्य्यगुणमेवाश्रित्य वैदर्भ्या रीत्या समाश्लिष्टां, साडम्बरबन्धौद्धत्यशालिनीं घटनापम्परामादाय ओजोगुणमभिव्यञ्जयितुं समासबहुलैः पदैः गौडीं रीतिमधिकृत्य प्रस्तुतं प्रस्तौति, अयमिति। -अयमालेख्ये पुरतो दृश्यमन इत्यर्थः अविरलैर्निविडैः घनसन्निविष्टेरित्यर्थः, अनसः शकटस्य अकं गतिं घ्नन्तीतिम् न ओकः स्थानं जडतीति वा, अनोकहाः वृक्षाः। ( ‘वृक्षो महीरुहः शाखी विटपी पादपतरुः। अनीकहहः कटः सालः पलाशी द्रुद्रुमागमाः’ इत्यमरः )। तेषां निवहाः निचयास्तैर्निरन्तरः निरवकाशः, (अन्तरमवकाशावधिपरिध्नान्तर्द्धिभेदतादर्थ्ये। छिद्रात्मीयविनावहिरवसरमध्येऽन्तरात्मनि च’ इत्यमरः)। निबिडः इत्यर्थः, तथा स्निग्धः मसृणः, ( ‘स्निग्धस्तु मसृणे सान्द्रे’ इत्यमरः)। नीलः श्यामलश्च परिसरः पर्य्यन्तभूविभागः यस्य ( ‘पर्य्यन्तभूः परिसरः’ इत्यमरः) तथोक्तेन अरण्येन परिणद्धा परिविष्टिता, (अरण्यं परितो नद्धा, विस्तृता वा इति केचित्, तत्र णत्वं विचार्य्यम्) या गोदावरी तया मुखरः गोदावरीकल्लोलकोलाहलेन शब्दायमाना इत्यर्थः, कन्दरी ( ‘दरी तु कन्दरी वा स्त्री’ इत्यमरः) दरी, उपचारात् तन्मध्यमार्गो यस्य तथोक्तः सन्ततम्-अविरतम् ( ‘सततेऽनवरताऽश्रान्तसन्तताऽविरताऽनिशम्। नित्याऽनवरताऽजस्रम् ‘इत्यमरः) अभिष्यन्दमानैः स्रवद्भिः स्वयं वर्षद्भिरित्यर्थः (अप्राणिकत्तृकत्वात् षत्वम्) मेघैर्नवजलधरैर्मेदुरितः मेदुरः कृतः, स्निग्धीकृत इत्यर्थः, नीलिमा श्यामलत्वं यस्य स तथोक्तः, (पर्वतानां स्वतो हि नीलत्वेन दूरतः आभासमानत्वात्)। जनस्थानमध्यगः,-जनस्थानस्य तन्नाम्ना प्रसिद्धस्य महाऽरण्यस्य मध्यभागाऽवस्थितः, गिरिः प्रस्रवणो नाम।
(दक्षिणात्ये-श्वापदकुलसङ्कुलदण्डकामहाऽरण्योपान्तवर्त्ति तदुत्तरसौमारूपतया आस्थितं वैखानसानामन्येषाञ्च मुनीनामाश्रमपदं महाऽरण्यं, शुक्राचार्य्यसुताधर्षकस्य दुर्वृत्तस्य वशिष्ठशापात् दग्धराज्यश्रीकस्य दण्डस्य शासनात् पलायमानानां जनानां निवासस्थानं जनस्थानमितिम् नासिकख्यया तु तत् इदानीं प्रसिद्धिमागतम्। तथा हि पौराणिकाः,- ‘द्वापरे तु जनस्थानं कलौ नासिकमुच्यते’ इति। उक्तञ्च, दण्डकामुद्दिश्य अनेनैव महाकविना,- ‘जनस्थानपर्य्यन्तानि दीर्घाऽरण्यानि दक्षिणां दिशमभिवर्तन्ते’ इति। ‘न केवलं दण्डकेयं जनस्थानमपि’ इत्यादिकम्। अत्युच्चतया नियतप्रतिबद्धमेघत्वात् , निरन्तरं श्रयतां नवानां मेघानाञ्च नियतस्रवणाद्गिरिरयं प्रस्रवणसञ्ज्ञामापत्। (अत्र स्वभावोक्तिः अलङ्कारः)।
रामः।
स्मरसि सुतनु तस्मिन् पर्वते लक्ष्मणेन प्रतिविहितसपर्य्यासुस्थयोस्तान्यहानि? स्मरसि सुरसनीरा तत्र गोदावरीं वा? स्मरसि च तदुपान्तेष्वावयोर्वर्तनानि?॥२६॥

तत्र तत्र हि पुरा यानि कियन्ति अलौकिकामोदकराणि सुखानि अनुभूतानि, तानि तानि इदानीं स्मारयति, स्मरसीति। -शोभना तनूर्यस्याः सा सुतनुः तत्सम्बुद्धौ (स्त्रीप्रत्यये ऊङि, पश्चात् ‘अम्बार्थनद्योर्ह्रस्वः(७। ३। १०७ पा०) इति नदीसञ्ज्ञकत्वेन ह्रस्वःम् तन्वादौ स्त्रियामूङः वैकल्पिकत्वेन, तदभावपक्षे सुतनो इत्यपि भवतीति बोध्यम् )। हे सुतनु तस्मिन् पर्वते प्रस्रवणे इत्यर्थः, लक्ष्मणेन प्रतिविहितया कृतया सपर्य्यया सेवया सुस्थयोः ( ‘सुस्थयोः’ इत्यत्र ‘स्वस्थयोः’ इति पाठान्तरेऽपि अयमेवार्थः) अनुपमानन्दमुपभुज्य कालं नयतोः इत्यर्थः, आवयोस्तानि-चिराय गतानि, नैवेदानीं पुनरावर्त्तनीयानीत्यर्थः, अहानि-दिवस् स्मरसि किम् ? तत्र-गिरिसन्निधौ, सुरसं मधुरं शीतलञ्च नीरं यस्याः तां तथोक्तां स्वादुसलिलां, ( ‘रसो गन्धो रसः स्वादे तिक्तादौ विषरागयोः। शृङ्गारादौ द्रवे वीर्य्ये देहाधात्वम्बुपारदे॥ ‘इति मेदिनी)। ( ‘सुरसनीराम्’ इत्यत्र ‘सरसनीरम्’ इति पाठान्तरं दृश्यते, तदर्थस्तु-सरसं शीतलतया रसशालीव प्रतीयमानम् अत एव सुखसेव्यं तीरं यस्याः तां, प्रच्छायशीतलतरुनिषेवितविह्वङ्गसक्लोपशोभितकूलामिति भावः। ) गोदावरीं स्मरसि वा ? (गां स्वर्गं ददाति स्नानात् इति दाधातोः वनिप् ङीष् रश्चान्तादेशः)। तदुपान्तेषु-तत्प्रान्तप्रदेशेषु, तत्तटेष्वित्यर्थः। आवयोः वर्त्तनानि-वासक्रीडाभ्रमणानि स्वच्छन्दसञ्चरणानि इत्यर्थः, स्मरसि च

चिन्तयसि च किम् ? च शब्दस्तु विकल्पार्थकः। (?त्र देशरूपविभावेन उपनिबध्यमानं काव्यं शृङ्गाररसास्वादनाय प्रभवति इत्युक्तं दशरूपके, तथा हि, – ‘रम्यदेशकलाकालवेषभोगादिसेवनैः।
प्रमोदात्मा रतिः सैव यूनोरन्योऽन्यरक्तयोः।
प्रहृष्यमाणा शृङ्गारो मधुराऽङ्गविचेष्टितैः॥’ इति।
यतः,-नव्यमते सीतारूपालम्बनविभावेन रोमाञ्चाश्रुभ्रूक्षेपकटाक्षादिभिरनुभावैरावेगहर्षादिभिः व्यभिचारिभिः भावैश्च विभाविता रतिः, सम्भोगशृङ्गारास्वादतामापन्ना। (अत्र एकस्य ‘त्वम्’ इति कर्तुः तिसृभिः ‘स्मरसि’ इति क्रियाभिः अन्वयात् दीपकम् अलङ्कारः ;- ‘अथ कारकमेकं स्यादनेकासु क्रियासु चेत्’ इति दर्पणोक्तलक्षणान् तथा ‘स्मरसि’ इति पदस्य पौनःपुन्येनाऽभिधानादनवीकृतत्वदोषः, तृतीयपादे ‘स्मरसि’ इत्यत्र ‘सुषम्’ ‘लषसि’ इति वा, चतुर्थपादे च ‘स्मरसि च’ इत्यत्र ‘कलयसि’ इति ‘श्रमहरः’ इति वा, पठनेन कथञ्चित् परिहरणीयः। नैतत् कथितपदत्वं, यत्र हि पर्य्यायान्तरेणोपादानेऽपि न विच्छित्यन्तरं तत्रास्य सद्भावात्। अत्र च ‘लषसि’ ‘कलयसि’ इत्यादि तत्पर्य्यायकपदान्तरप्रयोगेऽपि विच्छित्यन्तराविर्भावदर्शनात् अनवीकृतत्वमेव ज्ञेयम्। अत्र एवास्माभिः तत्पर्य्यायकशब्दाप्रयोगेणम् ‘सुषम्’ ‘श्रमहर’ इत्यादिकल्पान्तरमुक्तम् ) मालिनी वृत्तम्॥ २६॥

अपि च-किमपि किमपि मन्दं मन्दमासत्तियोगात् अविरलितकपोलं जल्पतोरक्रमेण।
अशिथिलपरिरम्भव्यापृतैकैकदोष्णो- रविदितगतयामा रात्रिरेवं व्यरंसीत्॥२७॥

अथाऽदौ सम्भोगमुपवर्णयितुं तत्स्थायिभावस्य उद्बोधकैरन्योऽन्यगात्रस्पर्शपरिरम्भणचुम्बनादिभिरनुभावैः हासहर्षौत्सुक्ययामविस्मृतिप्रभृतिभिः व्यभिचारिभावैः वनविहरणादिभिश्चोद्दीपनविभावैरभिव्यक्तायाः सहृदयसंवेद्यायाः रतेः शृङ्गाररूपतामासादयति, किमपीति। -आसत्तिः आसन्नभावः अतिसान्निध्यमित्यर्थः, परस्परशरीरमलग्नत्वमिति यावत् ; तस्याः योगः संयोगकृतः सम्बन्धः तस्मात्, इतरेतरगात्रसंसर्गजनितात् अविच्छिन्नसृदृढालिङ्गात् हेतोः अविरलितौ अन्योऽन्यविलग्नौ कपोलौ गण्डौ यस्मिन् जल्पनकर्मणीत्यर्थः, तद् यथा तथा, अक्रमेण आनुपूर्वीं विना औत्सुक्याऽतिशयात् यथागतपौर्वापर्य्यमनादृत्येत्यर्थः, मन्दं मन्दं-मृदु मृदु, किमपि किमपि-अनिर्वचनीयं निधुवनसङ्गततया सुखकरम् असम्बद्धं वाक्यजातमिति यावत्, जल्पतोः,-कथयतोः, तथा अशिथिलीऽतिदृढः यः परिरम्भः आलिङ्गनं तस्मिन् व्यापृतः निरतः एकः एकः परस्परव्यतीहारजनितः, अथवा एकैकस्य ( ‘एकं बहुव्रीहिवत्’ इति (८। १। ९ पा०) सूत्रेण द्विर्वचनम् )। दोः बाहुः ययोः तथोक्तयोः पुनःपुनर्गाढालिङ्गनव्यग्रहस्तयोरित्यर्थः, ( ‘पद्दन्’ -(६। १। ६३ पा०) इति सूत्रेण दोः शब्दस्य दोषन्नादेशः), आवयोः सम्बन्धे इति भावः, रात्रिः, अविदिताः यामाः प्रहराः, (द्वौ रामप्रहरौ समौ’ इत्यमरः ) यस्याः सा तथोक्ता, एवम् एवमेव स्वानुभूतानन्दविमर्षसम्भाषणादिभिः व्यरंसीत्-विरता, प्रभाता आसीदित्यर्थः ; अक्रमेण जल्पनन्तु न अवसानं प्रापदिति यावत्। अनुपमभोगनिरतानामतृप्तानां प्राणिनां सुखकालो हि अविज्ञात एव गच्छतीति भावः। ( ‘व्याङ्परिभ्यो रमः’ (१। ३। ८३ पा०) इति परस्मैपदम्। अत्र स्वभावोक्तिरलङ्कारः )। मालिनी वृत्तम्॥२७॥

लक्ष्मणः। एषा पञ्चवट्यां शुर्पणखा। (ष) सीता। हा अज्जउत्त एत्तिअं ज्जेब दंसणम्। (स) रामः। अयि विप्रयोगत्रस्ते चित्रमेतत्। (ह) हा आर्यपुत्र एतावदेव दर्शनम्।
(ष) शूर्पनखेति। -शूर्पः धान्यादिप्रस्फोटनार्थं वंशनिर्मितद्रव्यविशेषः ( ‘कुला’ इति भाषा) तद्वत् नखानि यस्याः सा। ( ‘नखमुखात् सञ्ज्ञायाम्(४। १। ५८ पा०) इति स्वाङ्गत्वेऽपि ङीष्-निषेधः, ‘पूर्वपदात् सञ्ज्ञायामगः’ (८। ४। ३ पा०) इति णत्वम्।
(स) एतावदिति। -इयत्कालपर्य्यन्तमित्यर्थः। इतः परं मे त्वद्दर्शनमसम्भाव्यम् अभूदिति भावः। यतः रावणेनाऽपहृतायाः त्वद्विरहशोकसागरनिमग्नायाश्च मे एषा एव निखिलापदागमहेतुः ; अतः ह्यशुभकारिण्याः नैतस्याः दर्शनमिदानीमुचितमित्याशयः। इत्थमभिदधती सीता आसन्नवनगमनप्रतीयमानभाविविरहं सोढुमशक्नुवता विगतचेतनेवाऽभवत्। चूर्णकमेतत् आसन्नवनगमनज्ञापिका भविष्यद्वाणीव प्रतीयते। (अत्र रावणापहरणरूपातीताद्भुतपदार्थस्य प्रत्यक्षायमाणत्वेन प्रतीतेः भाविकालङ्कारः )।
(ह) विप्रयोगेत्यादि। -विप्रयोगो मया साकं विच्छेदः, तस्मात् त्रस्ता भीताम् तत्सम्बुद्धौ ; हे मदीयवियोगभीरु न पुनरियं तत्त्वतो राक्षसी, अपि तु, चित्रं-चित्रार्पिता तदीय मूर्तिः ; अतो न त्रासकारणम्। विरहशङ्केदानीं त्वया परिहरणीयेति भावः। (नायं निश्चयाख्यालङ्कारविषयः, परप्रत्यायनात्)।
सीता। जहा तहा होदु; दुज्जणे असुहं उप्पादेइ। (क) रामः। हन्त वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति। (ख) लक्ष्मणः।
अथेदं रक्षोभिः कनकहारिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति तथा क्षालितमपि।
जनस्थाने शुन्ये विकलकरणैरार्यचरितैः अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्॥२८॥

यथा तथा भवतु; दुर्जनोऽसुखमुत्पादयति।
(क) यथेति। -यथा तथा भवतु, एतत् चित्र प्रकृतमप्रकृतं वा अस्तु इत्यर्थः ; दुर्जुनस्याऽशुभकरत्वेन आधिहेतुभूततया च सर्वथा तत्स्मरणमपि परिहर्त्तव्यमिति भावः। (अत्र विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः अलङ्कारः )।
(ख) हन्तेत्यादि। -जनस्थानस्य वृत्तान्तः अतीतोऽपि प्रत्यक्षीभूततया इदानीमाभाति, विस्मयावहैः बुद्बुदायमानैश्च व्यापारनिचयैः उपशोभितत्वात्। (एतत् प्रथमं पताकास्थानम्। यतो हि अत्रैषा सीतायाः जनस्थाननिर्वासनरूपस्य वर्त्तमानवत्वेन अचिरकालभावितया उल्लेखात् उपचाराऽतिशयसूचकतया उत्कर्षतामगादिति ध्येयम् )।
जनस्थानस्य अदृष्टचरचित्रभूयिष्ठत्वात् अभूतपूर्व्वव्यापाराश्रयत्वाच्च भूतानामपि विषयाणामिदानीमपि विस्मायकत्वेन प्रत्यक्षायमाणत्वमनुमोदयितुमाह, अथेदमिति। -अथेति वाक्यालङ्कारे। इदं-महाऽरण्यं जनस्थानं चित्रगतं यद् दृश्यते इत्यर्थः ; पापं विद्यते एषाम् ( इति अर्श आदित्वादच् ), तैः पापैः,-पापात्मभिः रक्षोभिः,-राक्षसैः, कनकमयो यो हरिणस्तदेव छद्म कापट्यं तस्य विधिना अनुष्ठानेन कनकमृगभूमिकारूपशम्बरमाययेत्यर्थः, तथा-एवं हि, वृत्तम्-जातं, सम्पादितमित्यर्थः ; यथा-यत्, क्षालितम्-विधौतं, रावणनिधनपूर्वकसीताऽऽनयनरूपकार्य्यादिना सम्यक् प्रतिकृतमपीत्यर्थः, व्यथयति-पीडयति, अस्मानिति शेषः। यद्वा,-यथाक्षालितमपि अग्निशुद्ध्यादिना सर्वथा परिशोधितमपि पापैः रक्षोभिः कनकमृगमायया अनुष्ठितं तत् वृत्तमिदानीं मानसपथे समुदीयमानं नियतमेव व्यथयति, (किं पुनरप्रतिकृतं व्यथयतीति वक्तव्यमित्यपिना गम्यते )। तदेव सुविशदं कर्त्तुं जडानामपि तत्र समवेदनां ज्ञापयति, जनस्थाने इति। -शून्ये-मनुजसञ्चारविरले इत्यर्थः, जनस्थाने, विगता कला सामर्थ्यं येषां तानि तथोक्तानि, ( ‘कला तु भागभेदे स्यात् कुसीदेऽवयवे गुणे। विद्यासामर्थ्यसङ्ख्यासु नौकायां कपटे तथा’ इति कोषः ) करणानि इन्द्रियाणि येषु ( ‘करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि’ इति विश्वः ) तैः तथोक्तैः वैक्लव्योपहतेन्द्रियग्रामसम्बद्धैरित्यर्थः, ( ‘करणैः’ इत्यत्र ‘करणैः’ इति पाठे तु,-विकलैः वैकल्यपूर्णैः अत एव करुणैः शोकसमुद्दीपकैरित्यर्थः ), आर्य्यस्य-पूज्यस्य भवतः चरितैः,-रोदनादिचेष्टितैः, ग्रावा-पर्वतः, ‘अदिगोत्रगिरिग्रावाऽचलशैलोच्चयाः’ इत्यमरः) रोदिति-क्रन्दति, वज्रस्य-अतिकठिनस्यापि, हृदयमपि दलति-विदीर्य्यति। (वर्त्तमानवदनुभूयमानत्वाद्वर्तमानप्रयोगः)। सीताविप्रयोगविधुरस्य रामस्य सकरुणां रोदनमालोक्य अचेतना वनस्थली अपि समदुःखा इवातितरां चुक्रोश, किमुत सचेतना ? इति भावः। (अपि सम्भावनायाम्)। ( ‘गर्हासमुच्चयप्रश्नशङ्कासम्भावनस्वपि’ इत्यमरः)।
(अत्र ग्राववज्रादिषु रोदनदलनादीनां सम्बन्धरूपाऽतिशयोक्तिद्वयस्य सजातीयसङ्कर्यम्। एतेन रामस्य शोकावेगमसहमानस्य मर्मस्पृक् विरहः क्रकचधारापात इव अनारतं हृदयं दलयति स्म, इत्यपि वस्तु व्यज्यतेम् इत्यलङ्कारिणा वस्तुध्वनिः)।
शिखरिणी वृत्तम्। - ‘रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी’ इति लक्षणात्। सप्तदशाक्षरपादच्छन्दसां ५९३३० तम प्रस्तारान्तर्गतमिदं वृत्तम् ॥२८॥

सीता। (सास्रम्) अइ देव रहुउलाणन्द एब्बं बि मम कारणादो किलिन्तो आसि (ग) लक्ष्मणः। (रामं निर्वर्ण्य साकूतम्) आर्य किमेतत् ? (घ)- अयि देव रघुकुलानन्द एवमपि म कारणात् क्लान्त आसीः।
(ग) रघ्विति। हे रघुकुलानन्द रघोः वंशस्य सुखवर्द्धक मदर्थमसीमं क्लेशमापः, मद्धेतोः वा कियान्ति दुःखानि असहिष्ठाः इति भावः।
(घ) निर्वर्ण्येति। -निर्वर्ण्य-निरूप्य, रामस्य भावादीन् दृष्ट्वेत्यर्थः। साकूतं-साभिप्रायम्। भूतवियोगस्मरणविवशकरणं रामं परिसान्त्वयितुमभिप्रेत्य इत्यर्थः, (अत्र भाविसीतावनगमनजायमानदुःखसन्तानमाशङ्क्य विवशयोः सीतारामयोरज्ञातकारण्योरपि आकस्मिकी उत्कण्ठा समजनि इति कवेराशयः व्यज्यते )।
अयन्ते वाष्पौघस्त्रुटित इव मुक्तामणिमरो- विसर्पन् धाराभिर्लुठति धुरणीं जर्जरकणः।
निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति विरसाध्मातहृदयः॥२९॥

कथं हि एतत् ज्ञायते, तदेव वक्तीकर्तुमात्मनः अभिप्रायाऽभिज्ञतां व्यनक्ति अयमिति। -अयं ते-तव, जर्जराः पतित्वा बहुशः खण्डिताः कणाः बिन्दवो यस्य तथोक्तः, बाष्पौघः,-अश्रुप्रवाहः, त्रुटितः,-छिन्नसूत्रः, मुक्तग्रन्थनतन्तुः इति यावत्, मुक्तामणिमयः,-मुक्ताफलरूपरत्नरचित इति यावत्, सरो माल्यमिव, ( ‘सरो दध्यग्रगव्योष्णीभावमालासमीरणो’ इति मेदिनी)। धाराभिर्विसर्पन्-अविच्छिन्नप्रवाहैः धरणीतलमभीषिञ्चन्, धरणी लुठति-भूमौ पततीत्यर्थः। निरुद्धोऽपि-यत्नतः अन्तःसंयमितोऽपि, आवेगः,-शोकवेगः, विरसं निर्दयं यथा तथा आद्मातं ताडितं हृदयं येन स तथोक्तः, अरुन्तुदः इत्यर्थः, अत एव शोकसंविग्नमानसतया स्फुरत् कम्पमानम् अधरस्य नासायाश्च पुटं यस्य तस्य भावः तया हेतुना, शोकादीषद्वेपमानाऽधरपल्लवतया अत्युष्णनिश्वासेन व्यथितविशुष्कघ्राणकपोलतया चेति यावत् ; परेषाम्-अन्येषामुन्नेयः,-अनुमेधो भवति। ( ‘कृत्यानां कर्तरि वा(२। ३। ७१ पा०) इति सूत्रेण कर्तरि षष्ठी )। अस्माभिस्तु अभिप्रायाभिज्ञतया तत्वत एव तदीयं मनोगतमनुभूयते, अधरनासाद्वयस्य कम्पनाधिक्यदर्शनात् पुरा परैरनुमितः य एव हृदये महान् शोकावेगः आसीदिति भावः। (अत्र परिस्फुरतामधरादीनां विलासेन हेतुना, साध्यीभूतस्य प्रयत्नसङ्गोपितत्वेनाप्रत्यक्षायमाणस्य शोकावेगप्रसरस्यम् प्रौढोक्तिसिद्धविच्छित्तिवशेनानुमीयमानत्वेनानुमानालङ्कारः,- ‘अनुमानन्तु विच्छित्या ज्ञानं साध्यस्य साधनात्’ इति लक्षणात् ; स च पूर्वार्द्धगतयोपमया संसृज्यते इति ध्येयम् )। वृत्तं शिखरिणी॥ २९॥

रामः। वत्स – तत्कालं प्रियजनविप्रयोगजन्मा तीव्रोऽपि प्रतिकृतिवाञ्छया विसोढः।
दुःकाग्निर्मनसि पुनर्विपच्यमानो हृन्मर्मव्रण इव वेदनां करोति॥३०॥

वनाऽवस्थानवेलायां पूर्वं निर्बाधं विसोढमपि इदानीं कथं हि तत् शोकजातमवाक्प्रसरं न सह्यते, प्रत्युतपुरस्तादपि समधिकं कर्तर्य्यमिदानीमनुभूयते, इत्याशङ्कयामुत्तरयति, तदिति। -प्रियजनस्य सीतायाः विप्रयोगात् मर्मस्पृग्विरहात् जन्म यस्य स तथोक्तः, तीव्रोऽपि-दुर्विषहोऽपि विरहजो दुःखाग्निः, प्रतिकृतिवाञ्छया-प्रतीकारकरणीच्छया, रावणादिवधविषयिकया इति यावत्, विसोढः कथमपि सोढ इत्यर्थः, पुनर्विपच्यमानः पुनः स्वयमेव विपाकं प्राप्यमाणः कर्मणः कर्त्तृत्वविवक्षया ‘कर्मवत्कर्मणा’ (३। १। ८७ पा०) इत्यातिदेशिकयगात्मनेपदम्। ) हृन्मर्मव्रण इव-हृदः अन्तःकरणस्य मर्मणि मर्मप्रदेशे, तदभ्यन्तरे इत्यर्थः, संरूढः व्रणः इव, मनसि वेदनां करोति-व्यथां जनयति। (अत्र दुःखाग्निसहनस्य हेतुत्वेन प्रतिकृतिवाञ्छाया निर्देशात् काव्यलिङ्गम् ; दुःखाग्निरित्यत्र रूपकम् ; बिपचनस्य ओतुकत्वात् विभावना ; हृन्मर्मव्रण इव इत्यत्र उपमा, एषाम् अङ्गाङ्गिभावेन साङ्कर्यम् ; स च दुःखाग्नेः तीव्रतरत्वात् पूर्वादप्यसहत्वं गमयित्वा व्यतिरेकध्वनिमुत्थापयन्ति )। वृत्तं प्रहर्षिणी। - ‘आशाभिः मनजरगाः प्रहर्षिणीयम्’ इति लक्षणात्। सा च त्रयोदशाक्षरपासच्छन्दसां ३५११ तम प्रस्तारान्तर्गता॥३०॥

सीता। हद्दी हद्दी अज्ज अहं बि अदिभूमिं गदेण रणरणएण अज्जउत्तसूणं बिअ अत्ताणं पेक्खामि। (ङ) हा धिक् हा धिक् अद्य अहमपि अतिभूमिं गतेन रणरणकेन आर्यपुत्रशून्यमिव आत्मानं पश्यामि।
(ङ) अतिभूमिमिति। -अतिशयिता या भूमिस्तामतिभूमिं परां काष्ठां, गतेन-वैपुल्यं प्राप्तेनेत्यर्थः। रणरणकेन-उद्वेगेन, उत्कण्ठाया आधिक्यात् आर्य्यपुत्रविनाकृतमिवात्मानं प्रेक्षे इत्यर्थः, तज्जातीयोद्विगस्य इदानीमनुभूयमानत्वादियम् आशङ्का इति विभाव्यम्। (रण्यते शब्द्यते यत्र ‘वशिरण्योरुपसङ्ख्यानम्’ इति वार्तिकेन रणेरप् रणः शब्दस्तत्प्रकारः, प्रकारे द्वित्वम्, ततः सञ्ज्ञायां कन्। एतद्धि परिन्यासः नाम बीजाङ्गम्। अत्र हि आर्यपुत्रविरहेणानुमीयमानस्य सीताविवासनस्य निश्चयापत्तिरूपतयेदानीमुत्थितिः सर्वथैव सीताविवासनस्य इदानीमाकाङ्क्षितया तन्निष्पत्तेरभिहितत्वात् इति ध्येयम्। तथा हि- ‘तन्निष्पत्तिः परिन्यासः’ इति दर्पणः )।
लक्ष्मणः। (स्वगतम्) भवतु अन्यतः क्षिपामि। (च) (चित्रमवलोक्य प्रकाशम्) तदेतन्मन्वन्तरपुराणस्य गृध्रराजस्य तत्र भवतः ताटजटायुषः चरित्रविक्मोदाहरणम्। (छ) सीता। हा ताद णिब्बूढो दे अपच्चसिणेहो (ज) हा तात नुर्व्यूढस्ते अपत्यस्नेहः।
(च) क्षिपामि इति। -सञ्चारयामि, अन्यविषये अस्य मानसम् अभिनिवेशयामि इत्यर्थः। एतस्य स्थानस्य शोकोद्दीपकत्वात परित्यागो विधेयः इत्याशयः।
(छ) मन्वन्तरेत्यादि। -अन्यः मनुः मन्वन्तरं ( मयूरव्यंसकादित्वात् समासः ); तस्मिन् पुराणः अतिप्राचीनः तथाविधस्य, वैवस्वतमन्वन्तरप्रवृत्तिकालमारभ्य आस्थितस्य इत्यर्थः। भगवतः वैवस्वतस्य मनोः शासनकालात् प्रभृति कल्पान्तं यावत्, अखिलामेतच्चराचरःप्रत्यक्षीकर्त्तृमीशस्येति भावः। (पुराणेषु चतुर्दश मनवः अभिहिताः, तेषां प्रत्येकाधिकारकाल एव मन्वन्तरमिति कथ्यते। स्वायम्भुवात् प्रभृति षण्णां मनूनां शासनकालः अतीतः, इदानीं वैवस्वतस्य सप्तममनोरधिकारः प्रवृत्तः। तत्र तावत् वैवस्वतमनोः शासनकालादारभ्य संस्थितेः जटायुषः मन्वन्तरपुराणत्वमवधेयम्। मनोः शासनकालस्तु ३०८४४८००० एतावत्सङ्ख्यमितानि मनवीयवर्षाणि भवन्ति। ( ‘मन्वन्तरन्तु दिव्यानां युगानामेकसप्ततिः’ इत्यमरः) तथाभूतस्य गृध्रराजस्य-खगपतेः जटायुषः, तच्चबवतः, -पूज्यस्य, तत्-प्रसिद्धम्, एतत्-पुरस्तात् वर्तमानम् ; चरित्रविक्रमोदाहरणम्,-चरित्रस्य स्वार्थं परिहृत्यैव प्राणव्ययेनाऽपि स्नुषायाः जानक्याः रक्षणप्रयासरूपस्य विक्रमस्य च रावनेन सार्द्धं तुमुलयुद्धे जायमानस्य महोजसः उदाहरणम् उल्लेखः, आलेख्यगतमिति यावत्।
(ज) निर्व्यूढः इति। -निर्व्यूढः,-सदृढः, कथमपि केनापि अन्यथा कर्त्तुमयुक्तः इत्यर्थः, अप्रतिबध्यः इति यावत्। अपत्यस्नेहः-वात्सल्यम्। अपत्यस्नेहस्य पराकाष्ठा प्रदर्शिता भवतीति भावः।
रामः। हा तात काश्यप शकुन्तराज क्व पुनस्त्वादृशस्य महतस्तीर्थस्य साधोः सम्भवः ? (झ) लक्ष्मणः। अयमसौ जनस्थानपश्चिमतः चित्कुञ्जवान् नाम दनु-कबन्धाधिष्ठितो दण्डकारण्यभूभागः ; तदिदमृष्यमूकपर्वते मतङ्गस्य आश्रमपदम्। इयञ्च श्रमणा नाम सिद्ध-शवरी ; तदेतत् पम्पाभिधानं सरः। (ञ) (झ) हा तातेति। -हा कष्टम्। हे तात पितः पितृवत् वात्सल्यनिदर्शकतया मान्य इत्यर्थः। कश्यप -कश्यपगोत्रोत्पन्न (कश्यपसुतगरुडस्य कनिष्ठतनयत्वात् )। शकुन्तराज -शकुन्तानां पक्षिणां राजा तत्सम्बुद्धौ तथोक्त। ( ‘राजहः सखिभ्यष्टच्’ (५। ४। ९१ पा०) इति टच् ) क्व पुनः,-कुत्र अन्यत्र त्वादृशस्य-त्वात्मदृशस्य, साधोः,-पवित्रस्य, तीर्थस्य-विद्यादिविविधगुणयुक्तपात्रस्य। ( ‘तीर्थं शास्त्राध्वरक्षेत्रोपायनारीरजः सु च। अवतारर्षिजुष्टाद्यपात्रोपाध्यायमन्त्रिषु’ इति मेदिनी ) सम्भवः ? ( एवञ्च अत्र अनन्वयोऽलङ्कारोऽभिव्यज्यते इति बोध्यम् )।
(ञ) जनस्थानपश्चिमतः इति। -जनस्थानस्य महाऽरण्यस्य पश्चिमतः पश्चाद्भवे दिग्विभागे इत्यर्थः अवस्थितः इति शेषः। दनुकबन्धाधिष्ठितः,-दनुनामकेन कबन्धन शिरोग्रीवारहितेन वक्षःस्थलस्थिताननेन राक्षसेन अधिष्ठितः अधिकृतः।
(अयं हि पुरा श्रियाः अप्सरसः सुतः विश्वावसुनामा गन्धर्वः आसीत् ; महर्षेः स्थूलशिरसः शापात् राक्षसरूपतामधिगतः दनुसञ्ज्ञां लेभे ; ततश्च रणाऽजिरे शक्रस्य धर्षणात् तत्प्रमुक्तेन वज्रेण तस्य सक्थि शिरश्च शरीर्रे सम्प्रवेशितम्। अथ वासवप्रसादात् योजनायतौ बाहू कुक्षिगतञ्च तीक्ष्णदंष्ट्रं मुखञ्च लब्धवान् , राघवावुपरुरोध च। अथ सीताहरणशोकार्त्तयोः तयोः दण्डकाऽरण्यं क्रममाणयोः निशिताभ्यां खड्गाभ्यां निकृत्तबाहुः दिव्य वपुः लेभे इति पौराणिकी वार्त्ता। भारते वनपर्वगते द्रौपदीहरणपर्वणि अष्टसप्तप्रत्यधिकद्विशततमाऽध्याये, तथा रामायणे आरण्यकाण्डे एकसप्ततितमाऽध्याये द्रष्टव्या )।
अयम् असौ चित्रार्पिततया वस्तुतः अविद्यमानः, चित्रकुञ्चवान्-चित्रः विचित्रः नानाफलपुष्पसम्भारसम्भृतवृक्षपुष्कलतयाऽतीव मनोरमो विस्मयावहश्चेति यावत् , असौ कुञ्चः सोऽस्मिन्नस्तीति तथोक्तः नाम दण्डिकारण्यस्य भूभागः। तत् इदञ्च ऋष्यमूकस्तन्नामा पर्वतस्तत्र, मतङ्गस्य स्वनाम्ना प्रसिद्धस्य तपोधनस्य आश्रमपदमाश्रमस्थानम्।
इयञ्च श्रमणा नाम सिद्धा प्रसिद्धा, योगाऽभ्यासनादिनेत्यर्थः, शवरी-मतङ्गस्य मुनेः शिष्याणां काचित् परिचारिणी। कमलोत्पलैरुपशोभितसलिलायाः हंसकुररविनादितायाः पम्पायाः पुष्करिण्याः पश्चिमे तटे महर्षेः मतङ्गस्य आश्रमे तच्छिष्याणां सेविका शवरी तपोऽतप्यत। तथा हि रामायणे आरण्यकाण्डे , – ‘ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः।
.. . . मतङ्गशिष्याः तत्रासन् ऋषयः सुसमाहिताः।
तेषां गतानामद्यापि दृश्यते परिचारिणी।
श्रमणी शवरी नाम काकुत्स्थ चिरजीविनी॥

त्वान्तु धर्मे स्थिता नित्यं सर्वभृतनमस्कृतम्।
दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति॥

ततस्तद्राम पम्पायास्तीरमासाद्य पश्चिमम्।
आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि॥ ‘इति।
तदेतत्-यच्च शवर्य्या साकं समागमो जातः तदेवेत्यर्थः, महर्षेः मतङ्गस्याश्रमसङ्गतं , पम्पा अभिधेयं नाम यस्य तत् सरः जलाशयः।
सीता। एत्थ किल अज्जुत्तेण बिच्छड्डिदामरिसाधीणं पमुत्तकण्ठं रुदिअम् आसि। (ट) अत्र किल आर्यपुत्रेण विच्छर्दितामर्चाधीनं प्रमुक्तकण्ठं रुदितम् आसीत्।
(ट) अचेत्यादि। -अत्र-पम्पायाम्। विच्छर्दितेत्यादि। विच्छर्दितः विवर्द्धितः योऽमर्षः असहिष्णुता, विरहोद्दीपकानां विविधानां विहङ्गानां मतमाकर्ण्य आघ्राय च नानाप्रसूनानां प्रमोदकरं सौरभं यो हि धैर्यविगमः इति यावत्, तस्य अधीनं सौताविद्योगवैक्लव्यविषयकमित्यर्थः। प्रमुक्तकण्ठम्-उच्चैः रुदितमासीत्, भवान् रोरुद्यमानः अभूदित्यर्थः। ( ‘विसृष्टामर्षधीरत्वम्’ इति पाठे तु,-पम्पादर्शनोद्दीपितेन प्रभूतेन शोकावेगेनाभिभूततया परित्यक्तः रावणस्योपरि अमर्षः कोपः धीरत्वं सहजधैर्यञ्च यस्मिन् कर्मणि तद्यथा तथा इत्यर्थः। अत्र करुणविप्रलम्भरसविकाशनाय नायकस्य विमनायमानत्वमुक्तम्। एतेन पम्पायाः सौन्दर्य्याऽतिशायित्वं सूचितम्)।
रामः। देवि रमणीयमेतत् पम्पासरः।
एतस्मिन् मदकलमल्लिकाख्यापक्ष-व्याधूतस्फुरदुरुदण्डपुण्डरीकाः।
वाष्पाम्भः परिपतनोद्गमाऽन्तराले सन्दृष्टाः कुवलयिनो भुवो विभागाः॥३१॥

अथ शृङ्गाररसं राजहंसरोलम्बादिरुतैरुद्दीपनविभावैरुद्बोधयितुं पम्पासरसः स्वभावरामणीयकं मन्मथोद्भेदकरत्वञ्च समधिकमवेदयितुम् आलम्बनविभावानुगतं रोदनाद्यनुभावं विशेषेण व्यनक्ति, एतस्मिन्निति। -हे देवि एतस्मिन्-पम्पासरसि, बाष्पाऽम्भसां वाष्पवारीणाम् अश्रूणामित्यर्थः, परिपतनमुद्गमश्च तयोरन्तराले अवकाशे, बाष्पबिन्दुपतनाऽन्तरं पुनरश्रूत्पत्तौ क्षणमध्ये बाष्पोपरोधाऽभावात् दर्शनं सम्भवति, अतः अन्तराले इतुक्तम् ; (एतेन अविच्छिन्नरोदनं ध्वनितम् )। मदेन हर्षेण, उद्दामयौवनजनितेन इति शेषः, कलन्तीति मदकलान्तेषां मधुरास्फुटध्वनिकारिणां, मल्लिकाख्यानां मल्लिकानामकानां हंसविशेषाणां ( ‘मल्लिकाक्ष’ इति पाठे तु-चञ्चुचरणेषु सितेतरैः। मलिनैर्मल्लिकाक्षाश्च कथ्यन्ते चरणाननैः॥ ‘इति हलायुधः ) पक्षैर्व्याधूताः विकम्पिताः अत एव स्फुरन्तश्चञ्चलाः उरवो विशालाः दण्डाः मृणालाः येषां तानि तथोक्तानि पुण्डरीकाणि श्वेतोत्पलानि येषु तथोक्ताः, कुवलयुनः कुमुद्वन्तः नीलोत्पलबहुलाः वा ( ‘पुण्डरीकं सिताम्भोजम्’ इति, ‘स्यादुत्पलं कुवलयम्’ इति च अमरः ) भुवो विभागः भूखण्डानि इत्यर्थः सन्दृष्टाः। मानसोन्म्दकरमनुपमं पम्पासरःसौन्दर्यं निरीक्ष्य त्वद्विरहविधुरस्य मे अनारतमेवाश्रु न्यपतत् इति भावः।
अन्यथाऽपि व्याख्यायते ,-मलिनचञ्चुचरणानां हंसानां स्वपक्षाऽनिलैरुद्वेल्लितानां कुवलयानां धवलिम्ना उपचितमपि निसर्गधवलं पम्पापयः , अभीक्ष्णामुदीयमानानां बाष्पधाराप्रवाहाणां रभसा उपहता कलुषीकृता मुग्धा च मे दृष्टिः, सितारविन्दराजहंसनिचयं बाष्पाम्भःसेकप्रसारपरिणतया धूमाभधिया इन्दीवरश्यमलमदर्शात्।
(अत्र व्याख्यान् विविधप्रसूनाकरस्य पम्पासरसः कुत्रचित् पुण्डरीकवत्वात् कुत्रचिच्च कुवलयवत्वात् प्रस्तुतस्य पुण्डरीकवतः भूविभागस्य अन्यस्य कुवलयिनः तादात्म्याभ्यासात् पुण्डरीकवदितरभिन्नत्वेनाऽपरिचयात् उभयोस्तुल्यगुणतया प्रतीतेः भेदाऽग्रहनिबन्धनः सामन्याऽलङ्कारः ; न तु भ्रान्तिमान्, अतस्मिन् तद्बुद्धरनुदयात् ;- ‘सामान्यं प्रकृतस्यान्यतादात्म्या सदृशैः गुणैः’ इति लक्षणात् )।
यद्वा,-ननु एतत्पद्माकरस्य रमणीयत्वात् कलकूजितहंसगणोपशोभितपुण्डरीकादिसुरभितया च उद्दीपकत्वेन विप्रयोगविवशमानसस्य द्रष्टुमशक्यत्वात् कथमीक्षितं भवद्भिः ? इत्यभिप्रायके सीताप्रश्ने उत्तरयति, एतस्मिन्निति। -मत्-मदर्थे मम विरहव्यथाऽऽतुरस्य त्वद्विरहसमुत्थां व्यथामपनेतुमित्यर्थः, अकलाः,-न विद्यते कलं कूजितं येषां तथाविधाः नैसर्गिकं मधुरनिनादमपि परिहृत्येति भावः, ते मल्लिकाख्याः हंसविशेषाः तेषां पक्षाणां गरुतां व्याधूतैः कम्पनैः ताडनैरित्यर्थः, छिन्नप्रसूनत्वादिति शेषः। स्फुरन्ति केवलं विगतकुसुमाधेयत्वात् चलानि उरुदण्डानि पृथुलमृणालानि स्वाधारभूतानि इति यावत् येषां तथाभूतानिम् स्वाधारच्युतेः विगतशोभानि पुण्डरीकाणि येषु तथोक्ताः बाष्पाम्भःपरिपतनोद्गमाऽन्तराले सन्दृष्टाः। हंसाः खलु विधुरस्य मम विरहोद्दीपकं स्वकूजितं विहाय उद्वेगकारिणि कमलानि अपि चिच्छिदुरित्याशयः। सत्यं हि एतत्, विरहखिन्नं रामं दृष्ट्वा अचेतनानां गिरीणामपि रोदनदर्शनातः, अथच सवेतनानां तेषामवश्यं करुणोदयसम्भवादित्यवधेयम्। (दृप्तचक्रवाकाणामुपरि शापदानदर्शनात्, अस्माकमपि उपरि रामः शापं दास्यतीति भीत्या हंसा अपि रवं मुमुचुः इत्यपि ध्वन्यते )। ‘कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतम्’ इत्यादिदर्शनात् तिरश्चामपि विरहिजनेषु अनुकम्पा प्रसिद्धा वा। (दण्डपुण्डेत्यादौ संयुक्तव्यञ्जनयोः स्वरूपतः क्रमतश्च साम्यात् छेकानुप्रासः )। वृत्तं प्रहर्षिणी॥३१॥

लक्ष्मणः। अयमार्यो हनूमान्। (ठ) (ठ) अयमित्यादि। -देवोपमसौभाग्यभाक्ततया देवांशसम्भूततया महोपकर्तृ तथा च, हनूमति आर्य्य इत्युक्तिः। हनूः कपोलद्वयोपरिस्थः मुखभागः ; स प्रशस्तः अस्य इति मतुप् ; हनुमानित्यपि भवति, हनुशब्दस्य ह्रस्वान्तस्याप्यतदर्थकत्वात्। पुरा महेन्द्रः वज्रेणास्य हनुमभाङ्क्षीत्, तत एवाऽस्य इत्थमभिधानं सञ्जातम्। तथा हि – ‘मत्करोत्सृष्टवज्रेण हनुरस्य यथा हता।
नाम्नैव कपिशार्दूलः भविता हनुमानिति॥ ‘इति।
सीता। एसो सो चित्रणिब्बणजीअलोअपच्चुद्धरणगुरुओबआरी महाणुभाओ मारुदी। (ड) रामः।
दिष्ट्या सोऽयं महाबाहुरञ्जनान्दवर्धनः।
यस्य वीर्येण क्वतिनो वयञ्च भुवनानि च॥३२॥

एष स चिरनिर्विणजीवलीकप्रत्युद्धरण्णगुरूपकारी महानुभावो मारुतिः।
(ड) चिरेत्यादि। -चिरनिर्वणस्य सुदीर्घकालं यावत् अन्येषु क्रौर्य्यादिदुर्ववहारदर्शनात् चिरदुःखितस्य,-( ‘तत्त्वज्ञानापदीष्यादेर्निर्वेदः स्वावमानना’ इति साहित्यदर्पणः)। जीवलोकस्य सर्वेषां जीवानामित्यर्थः, प्रत्युद्धरणात् शोकाऽपनयनात् गुरूपकारी महोपकारी, महानुभावः,-महाशयः, मारुतस्यापत्यं पुमानिति मारुतिः पवनपुत्रो हनूमान्। सीतारावणेन हृता इति श्रवणसमकालमेव सर्वे एव जीवलोकाः का कथा महाजनानां महीदारचरितानां, सपदि शोकसंविग्नाः आसन् , त्रिभुवनकण्टकं रावणं निहत्य उद्धृतायान्तु सीतायां जीवलोकस्य तथाविधः अरुन्तुदः शोकः व्यपगतः, तत्र खलु सीतासमुद्धरणसमये अस्यैव महतः हनुमतः महोपकारकत्वं सर्वत्र सुविदितमेव। त्रैलोक्यपीडकरावणहनने सहायकतया न केवलं ममैवोपकारी अपि तु निखिलभुवनानामिति भावः। (दश मासान् व्याप्य सीतायाः रावणगृहावस्थितत्वात् चिरपदमुपात्तम् )।
दिष्ट्येति। -दिष्ट्येति हर्षसूचकम् तृतीयान्तप्रतिरूपमव्ययम्, अही इत्यर्थः। सः,-प्रसिद्धः, अयं-पुरतः दृश्यमानः, महाबाहुः,-आजानुलम्बितभुजः रुद्रावतारत्वात् महापुरुषत्वात् वा, अथवा लक्षणया भुजबलसम्पन्नः, अञ्जनानन्दवर्द्धनः,-पवनेनाहितबीजायाः केशरिपत्न्या अञ्जनायाः प्रीतिविवर्द्धनः तनयः इत्यर्थः, हनूमानिति पूर्वेणान्वयः। यस्य वीर्येण-पराक्रमेण वयं-लक्ष्मणाद्याः वानरान्ताः सर्वे भुवनानि-त्रिजगन्ति च कृतिनः,-कृतार्थाः उपकृताः इत्यर्थः ; सिद्धकामा इति यावत्। ( प्रशस्तं-कृतं प्रशस्त्यमेषामित्यर्थे प्रशंसायामिनि रूपम् )। कथं हि तत् निष्पादितं, तदेवेदानीमभिधीयते। -तथा हि, रावणहृतनानुकूल्यकरणात् रामस्य, अशोकवनमध्यस्थितायाः रोरुद्यमानायाः प्रियवार्ताप्रेषणादिना कथञ्चित् खेदापनयनात् सीतायाः, सञ्जीवन्योषद्यानयनादिना स्वानवधानकृतसीताविरहपरिहाराच्च लक्ष्मनस्य, वह्निप्रवेशनिराकरणात् भरतशत्रुघ्नयोः, शरणागतपरिपालनात् विभीषणस्यम् सुखोत्पादनादिना सुग्रीवस्य, मधुवनभङ्गापराधनिरोधात् वानरणां, स्वावस्थित्या च जीवलोकस्य महीपकारसाधनात् सर्वे एव महता हनुमता कृतार्थीकृता इति यथायथमुन्नेयम्। (अत्र ‘भुवनानि च’ इत्यत्र चकारश्रुतेः विभक्तिविपरिणामेन कृतीनि इति अध्याहारेणान्वयः। अतो नास्ति न्यूनपदत्वदोषशङ्काऽवसरः। अत्र उपकृतिक्रियायां महतश्चरित्रख्यापनात् उदात्तालङ्कारः )। पथ्यावक्तं वृत्तम्॥ ३२॥

सीता। बच्छ एसो कुसुमिदकअम्बतरुतण्डबिदरहिणो किणामधेओ गिरी ;-जत्थ अणुभाबसोहग्गमेत्तपरिसेसधूसरसिरी मुहुत्तं मुच्छन्तो तुए प्परुदिएण अबलम्बिदो तरुअले अज्जउत्तो आलिहिदो ? (ढ) वत्स एष कुसुमितकदम्बतरुताड्यवितवर्हिणः किन्नामधेयो गिरिः ;- यत्र अनुभावसौभाग्यमात्रपरिशेषधूसरश्रीः मुहूर्तं मूर्छन् त्वया प्ररुदितेन अवलम्बितस्तरुतले आर्यपुत्र आलिखतः ? (ढ) वत्म एषः, कुसुमान्येषां जातानीति ( तारकादित्वादितच् ) कुसुमिताः पुष्पिताः ये कदम्बतरवस्तेषु ताण्डविताः नृत्यन्तः, यद्वा कुसुमिताः ये कदम्बतरवः ते ताण्ड्यविताः कृतताण्डवाः यैः तथाविधाःम् (ताण्डववन्तः कृताः इत्यर्थे ताण्डववच्छब्दात् ‘तत्करोति तदाचष्टे’ इति ग० सूत्रेण णौ इष्ठवद्भावात् मतुब्लोपे निष्ठाया रूपम् )। वर्हिणाः मयूरा यत्र स तथोक्तः, ( ‘मयूरी बर्हिणो बर्ही’ इत्यमरः)। वर्षासु स्निग्धगम्भीरमेघध्वनिश्रवणासमकालं हि कदम्बकुसुमसुरभितानामुन्मदायमानानां बर्हिणानां नर्तनस्य कविसमयप्रसिद्धेः। ‘पुन्नृत्य ताण्डवं प्रोक्तं स्त्रीनृत्यं लास्यमुच्यते’ इति। किन्नामधेयः,-किमाख्यो गिरिः ? ( नामैवेति नामधेयः स्वार्थे धेयः )। यत्र-पर्वते, तरुतले-वृक्षस्य अधोभागे, (अनुगतो भावः इति गतिसमासः, न तु अनुपूर्वात् भूधातोः घञ् ‘श्रिनीभुवोऽनुपसर्गे’ (३। ३। २४ पा०) इति सोपसर्गभृधातोः घञ् निषेधात् ) अनुभावः प्रभावस्तेज इति यावत्, तस्य सौभाग्यं समृद्धिः तदेव तन्मात्रं तस्य परिशेषादवशिष्टत्वात् धूसरा ईषत्पाण्डवर्णा श्रीः नवजलधश्यामला वपुःकान्तिर्यस्य स तथोक्तः कृशाङ्गोऽपि स्वाभाविकसौभाग्यलक्ष्मीसमालिङ्गितकायः इति यावत् ; (विप्रलम्भशृङ्गाररसस्य दशविधशानामुत्कीर्तनात् तदन्तर्भूतस्य सततसीताप्राप्त्युपायादिचिन्ताजनितव्याधेरुदयात् सीताविरहविवशविग्रहस्य राघवस्य परिम्लानायामपि देहकान्तौ निसर्गमधुरायाः तदाकृतेः पाण्डुत्वमासीत्। तथा हि दर्पणकारः ,- ‘व्याधिस्तु दीर्घनिश्वास-पाण्डुताकृशतादयः’ । इति। ) आर्यपुत्रः मुहूर्तं मूर्च्छन् -मूर्च्छया अचेतनीभवन्, प्ररुदितेन-रोदनं कर्ता ( आदिकर्मणि क्तः ) रोरुद्यमानेन इत्यर्थः, त्वया आलम्बितः,-धृतः ( कुसुमितव्रततीनां लास्यलीलासुनिपुणानां भुजङ्गभुजां मानसोन्मादकरीं विरहसमुद्दीपिकां केकामाकर्ण्य रणरणकाकुलस्य रामस्य जडतायाश्चापि उदयात् अङ्गानां मनसश्चापि हीनचेष्टता आयाता, एतदवलोक्य भ्रातरि अकपटप्रेमवता लक्ष्मणेन तदा रामभद्रः धृत आसीत् इत्यवधेयम्। तथा च दर्पणः ,- ‘जडता हीनचेष्टत्वमङ्गानां मनसस्तथा’ इति )। इत्येवम्प्रकारेण आलिखितश्चित्रितः। कथङ्कारं हि गिरिमिममालोक्य स्वभावधीरस्यपि रामस्य तथाविधः सम्मोहः प्राजनि, इत्याशङ्कायां तस्य पथिकविरहोत्कलितकाजनिकां सौभाग्यलक्ष्मीमवेदयति, सोऽयमिति। ककुभैरर्जुनपुष्पैः ( ककुभानां प्रसूनानि इत्यर्थे अण् ‘फले लक्(४। ३। १६३ पा०) इति अणो लुक्। ‘नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः’ इत्यमरः )। सुरभिः सुगन्धः। ( ‘सुरभिर्घ्राणतर्पणः। इष्टगन्धः सुगन्धिः स्यात्’ इत्यमरः। ) सः अयं माल्यावान् नाम शैलः। यस्मिन्-शैले नीलः ,-नीलवर्णः स्निग्धः, शीतलः विद्युल्लतिकाभिः समाश्लिष्टत्वात् मसृणश्च। ( एकपदपाठे विशेषणकर्मधारयः ) नूतनः,-नवाविर्भूतः तोयवाहः-मेघः शिखरं-शृङ्गं श्रयति-अवलम्बते। अभ्रंलिहोऽयं गिरिरित्यर्थः। ( मन्दाक्रान्तावृत्तनिबद्धस्य अस्य श्लोकस्य अपरार्द्धं रामोक्त्या पूरितम्॥

लक्ष्मणः।
सोयं शैलः ककुभसुरभिर्माल्यवान् नाम; यस्मिन् नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः।
रामः।
वत्सैतन्माद् विरम विरमातः परं न क्षमोऽस्मि प्रत्यावृत्तः पुनरिव स मे जानकीविप्रयोगः॥३३॥

वत्सेति। -वत्स लक्ष्मण एतस्मात्-माल्यवत्पर्वतवृत्तान्तसंवलितचित्रवर्णनात्, विरम विरम-द्रुतं निवर्तस्व, (आग्रहातिशय्ये वीप्सायां द्विरुक्तिः। ‘जुगुप्साविराम’ -इति वार्तिकेनाऽपादानत्वम्। ‘व्याङ् परिभ्यो रमः’ (१। ३। ८३ पा०) इति सूत्रेण परस्मैपदञ्च। ) अतः परं द्रष्टुमिति शेषः, न क्षमोऽस्मि- न शक्तोऽस्मि ; यतः सः ,-पूर्वमनुभूतः मे-मम जानकीविप्रयोगः, सीताविरहजः स हि शीककीलकः नवीभ्रततया अधुना पुनः प्ररूढः नितरां मर्मभेदिकां वेदनां जनयतीति मन्ये इति हृदयम्। इममेव माल्यवन्तमाश्रित्य तत्रभवता कालिदासेनाऽपि एवमेवोपवर्णितम्। तथा हि – (एतद्धि सीताविरहरूपं भाव्यर्थमभिसन्धाय कौतूहलबहुलानां माल्यवदुपवर्णनविषयिकाणां वाचामभिधानात् ‘परिभावना’ नाम मुखसन्धेरङ्गं वेदितव्यम्। ‘कुतूहलोत्तराः वाचः प्रोक्ता तु परिभावना। ‘इति दर्पणोक्तेः। अत्र पूर्ववाक्यं प्रति परार्द्धस्य हेतुतयोपन्यासात् वाक्यार्थहेतुकं काव्यलिङ्गं पुनरसम्भवापात्तस्यातीतद्विरहस्य पुनरागमनसंशयेककोटितया उत्थापनादुत्प्रेक्षा, इति तयोः सङ्करः )। मन्दाक्रान्ता वृत्तम्। - ‘मन्दाक्रान्ताऽम्बुधिरसनगैर्मो भनौ गौ ययुग्मम्’ इति लक्षणात् ; सत्पदशाक्षरपादच्छन्दसां प्रस्तारेषु १८९२९ तमप्रस्तारे चास्य अन्तर्भावः ‘एतद्गिरेर्माल्यवतः पुरस्तात् प्रादुर्भवत्यम्बरलेखि शृङ्गम्।
नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाऽश्रुसमं विसृष्टम्॥

गन्धश्च धाराहतपल्वलानां कादम्बमर्द्धोद्गतकेशरञ्च।
स्निग्धाश्च केकाः शिखिनां बभूवुर्यस्मिन्नसह्यानि विना त्वया मे’ ॥ इति॥। २३॥

लक्ष्मणः। अतः परम् आर्यस्य तत्रभवतां कपिराक्षसानाञ्च असङ्ख्यातानि उत्तरोत्तराणि कर्माश्चर्याणि ; परिश्रान्ता चेयमार्या; तद् विज्ञापयामि-विश्राम्यतामिति। (ण) सीता। अज्जउत्त एदेण चित्तदंसणेण पच्चुप्पणदोहदाए अत्थि मे बिणप्पम्। (त) आर्यपुत्र एतेन चित्रदर्शनेन प्रत्युत्पन्नदोहदाया अस्ति मे विज्ञाप्यम्।
(ण) अत इति। -अतः परम्-अस्मात् अनन्तरम् आर्यस्य-रामस्य तत्रभवतां-महात्मनां कपिराक्षसानाञ्च असङ्ख्यातानि-अगणितानि उत्तरोत्तराणि-परेभ्यः पराणि उत्कृष्टेभ्यः उत्कृषानीत्यर्थः (उत्तराणि च उत्तरोत्तराणि, पौर्वापर्येणानुष्ठितानि, क्रमशः विवृतानि इति वा, वीप्सायां द्विर्भावः ) कर्माश्चर्याणि-कर्माणि वीरोचितानि एव आश्चर्याणि विस्मयकराणि सप्ततालभेदसमुद्रबन्धनादीनि अद्भुतकर्माणीत्यर्थः। इयमार्या-सीता च परिश्रान्ता, गर्भभारालसत्वात् चित्रदर्शजनितश्रमेण क्लान्तविग्रहा ; तद् विज्ञापयामि-निवेदयामि, विश्राम्यताम् विश्रामं प्राप्यतां, भवता अथवा आर्यया इति शेषः। (तत्र प्रथमे पक्षे णिजन्तस्य श्रमधातोः कर्मणि रूपम् ; द्वितीये च अदन्तचुरादेः श्रमघातोः भावे वाच्ये। उभयत्र प्रार्थनायां लोट् )।
(त) प्रत्युत्पन्नः सञ्जातः दोहदः मनोरथः गर्भिण्याभिलाषो वा यस्याः तथाभूतायाः मे-मम विज्ञाप्यं वेदनीयमस्ति। ( मे इत्यत्र ‘कृत्यनां कर्तरि वा’ (२। ३। ७१ पा०) इति सूत्रेण षष्ठी वैकल्पिकी, पक्षे मयेति। इदानीम् अदूरवर्तिनः बीजीभूतस्य आत्मविवासनस्य प्रतिरूपकतया स्थितस्य भूतपूर्वस्य प्रियसमागमसहकृतस्यैव तस्य स्मर्यमाणतया महाह्लादकरत्वात् इदं हि प्राप्तिर्नाम बीजसन्धेरङ्गं वेदितव्यम्। तथा हि- ‘प्राप्तिस्तु सुखागमः’ इति दर्पणः )।
रामः। ननु आज्ञापय।
सीता। जाणे पुणो बि प्पसणगम्भीरासु बणराइसु बिहरिस्मं; पबित्तणिम्बलसिसिराबगाहाञ्च भअवदीं भाईरहीं अबगाहस्मम्। (थ) रामः। वत्स लक्ष्मण।
लक्ष्मणः। एषोऽस्मि।
रामः। अचिरं सम्पादनीयोऽस्या दोहदः;-इति सम्प्रत्येव गुरुभिः सन्दिष्टम्। तत् अस्खलितसुखसम्पातं रथमुपस्थापय। (द) जाने पुनरपि प्रसन्नगम्भीरासु वनराजिषु विहरिष्यामि; पवित्रनिर्मलशिशिरावगाहाञ्च भगवतीं भागीरथीमवगाहिष्ये।
(थ) जाने-अवगच्छामि, इच्छामि इति भावः। ( जनस्थानविहरणगङ्गावगाहादीनामवश्य-म्भावितया ज्ञापनार्थमभिलषामीत्यनुक्त्वा जाने इति पदमुपात्तम्। ‘अनुपसर्जाज्ज्ञः’ (१। ३। ७६ पा०) इति सूत्रेणत्मनेपदम् )। प्रसन्नाः हिंस्रैः विरहितत्वात् पुष्पफलैरुपशीभितत्वाद्वा अनुद्देजयन्त्यः ; गम्भीराः तरुशैलादीनां दृढसन्निवेशात् लोकोत्तरं भावमावेदयन्त्यः , ( विशेषणकर्मधारयः ) तथाभूतासु वनराजिषु विपिनवीथीषु विहरिष्यामि-पर्यटिष्यामि। पवित्रः पावनः, निर्मलः पापानां समूलमुन्मूलनात् सुभगः सुखकरश्च, शिशिरः शीतलः तृप्तिकरश्च सन्तापहरश्च वा अवगाहः मज्जनं यस्यां तां भागीरथीं गङ्गामवगाहिष्ये। एतेन शोकविधुरायाः निकारजातं विसोढुमशक्नुवत्याः वैदेह्याः भागीरथ्यामात्मविसर्जनं गम्यते। ( एतद्धि प्रोक्तप्राप्तिरूपबीजसन्ध्यङ्गस्य विवृतिरूपत्वमवगन्तव्यम् )।
द) अचिरम्-अविलम्बितमेव अस्याः ,-सीतायाः दोहदः ,-अभिलाषः सम्पादनीयः,-पूरणीयः, इति-इत्थं गुरुभिः , -वशिष्ठारुन्धतीशान्ताप्रभृतिभिः सन्दिष्टं-कथितम्। तत्-अतः, अस्खलितः गात्रसञ्चलनभ्रंशादिरहितः इत्यर्थः, अत एव सुखयतीति सुखः सुखजनकः सम्पातः सुखेन ओशेन वा सम्पातो गमनं येन तथोक्तम्। सीतायाः पूर्णगर्भतया तथाविधेनैव रथेन गमनस्य औचित्यादिति तात्पर्यम्। ( एतद्धि सीताविवासनरूपबीजार्थस्य प्ररोहीभूततया उद्भेदरूपं बीजसन्ध्यङ्गं वेदितव्यम्। ‘बीजार्थस्य प्ररोहः स्यदुद्भेदः ‘इति लक्षणात् )।
सीता। अज्जउत्त तुह्मोहिं बि तहिं गन्तब्बम्।
रामः। अयि कठिनहृदये एतदपि वक्तव्यमेव (ध) सीता। तेण हि पिअं मे। ’ लक्ष्मणः। यथा आज्ञापयति आर्यः।
(इति निष्क्रान्तः) रामः। प्रिये इतो वातायनोपकण्ठे मुहूर्तं संविष्टौ भवावः। (न) आर्यपुत्र युष्माभिरपि तत्र गन्तव्यम्।
’ तेन हि प्रियं मे।
(ध) कठिन निर्दयं हृदयं यस्याः तथाभूते निर्मममानसे इत्यर्थः, यतः त्वमहञ्च पृथिगिति चिन्तयितुमपि शन्कोषीति भावः, एतदपि त्वया सार्द्धं जनस्थाने पुनर्विहरणमपि किमु वक्तव्यं प्रार्थयितव्यं वा। तत्र तत्र पर्यटनस्य अतीवानन्दकरत्वेन त्वद्विप्रयोगजवेदनामसहिष्णुना त्वदभिन्नहृदयेन बिम्बकल्पेन मयाऽप्रार्थितेनापि तत्र खलु गन्तव्यमेव, शङ्कायाश्चैतस्याः त्वद्गतया भेदबुध्योद्भावितया सुव्यक्तं खलु उपलोपमत्वं त्वच्चेतस इति हृदयम्। परन्तु ‘एतदपि वक्तव्यमेव’ -एतद्धि च वक्तव्यम् ; यतः अहन्तु न गमिष्यामि, भवत्या असहायायाः खलु तत्र गन्तव्यम्। (अहमिदानीं त्वां दुर्वहगर्भखिन्नाम् क्रव्याद्भ्यो बलिमिव अरण्यान्याम् उपहरिष्यामि, इति काक्वा अर्थान्तराभिधायकस्य प्रधानार्थान्तररूपिणः वाग्विन्यासस्य, चतुर्थपताकास्थानीत्थापकत्वं ज्ञेयम्। भाव्यर्थस्यैवात्र सूचितत्वात्, तथा हि – ‘ह्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः।
प्रधानार्थान्तरक्षेपी पताकस्थानकं परम्॥ ‘इति लक्षणम् )।
(न) वातस्य मारुतस्य अयनमागमनं येन यस्मात् वा तथाभूतं, पवनसञ्चारसुभगं खेदहरञ्च यत् गवाक्षान्तरालमित्यर्थः, तस्य उपकण्ठे सन्निधौ, ( ‘वातायनावर्तके’ इत्यपि पाठः दृश्यते ; तदर्थस्तु,-वातायनापवारके, अपवारकभूतं यत् वातायनं तत्र इत्यर्थः, यत्रस्थः अपरैः न लक्ष्यते, अतिनिभृति मृदुलगन्धवहनिषेविते देशे इति भावः )। संविष्टौ-कृतसंवेशौ शयानौ इत्यर्थः ( ‘समीपे निकटासन्न सन्निकृष्टसनीडवत्। सदेशोऽभ्याससविध-समर्यादसवेशवत्। उपकण्ठाऽन्तिकाऽभ्यार्णाऽभ्यग्रा अप्यभितोऽव्ययम्’ इति, ‘स्यान्निद्रा शयनं स्वापः स्वप्नः संवेशः इत्यपि’ इति चामरः )।
सीता। एब्बं भोदु; ओहीरिज्जामि क्खु परिस्ममजणिदाए णिहाए। (प) रामः। तेन हि निरन्तरमवलमगबस्व(फ)मामत्र शयनाय।
जीवयन्निव ससाध्वसश्रमस्वेदबिन्दरधिकण्ठमर्प्यताम्।
बाहुरैन्दवमयूखचुम्बितस््निदचन्द्रमणिहारविभ्रमः॥३४॥

एवं भवतु; अपह्रिये खलु परिश्रमजनितया निद्रया।
(प) परिश्रमजनितया,-चित्रदर्शनात् जायमानेन क्लमेनानीतयेत्यर्थः, निद्रया-संवेशेन, हृदयावसादेनेति यावत्। अपह्रिये-अभिभूये। ( अपपूर्वकात् हरतेः कर्मणि लटि रूपम् )।
(फ) तेन हि निद्रासञ्जातवैक्लव्यात् हेतोः अत्र अस्मिन् वातायनोपकण्ठे शयितं मां मच्छरीरमित्यर्थः, निरन्तरं निर्नास्ति अन्तरम् अवकाशो यस्मिन् तद्यथा तथा कालक्षेपमन्तरेणैव गाढमिति यावत्, अव्लम्बख-समाश्लिष्य। दुर्वहगर्भभारविवशं स्वदेहं कियच्च विनोदयितुं मन्दमारुतरम्ये एतस्मिन् गवान्तराले मदङ्कोपधाना क्षणं विश्रामसुखमुपभुङ्ष्व इति भावः।
इदानीमात्मतोषकरं समालिङ्गनप्रकारं सुस्फुटमभिधत्ते, जीवयन्निति। -साधु अत्यर्थम् अस्यति विक्षिपति मनः इति साध्वसं भयम् ( ‘-दरत्रासौ भीतिर्भीसाध्यसे भयम् ‘इत्यमरः ) श्रमः खेदः, (अत्र आलेख्यगतसूर्पणखाऽऽदिदर्शनोद्भूतं साध्वसं श्रमश्च चित्रदर्शनजन्यः विज्ञेयः। ) तत एव हि समुद्भूताः स्वेदबिन्दुवो घर्मबिन्दवः तैः सह वर्तमानः, तथोक्तः, इन्दोरेभिः ऐन्द्रवैरिन्दुसम्बन्धिभिर्मयूखैः किरणैः चुम्बितः स्पृष्टः, अत एव स्यन्दते स्रवतीति स्यन्दी तुषारशीकरवानित्यर्थः, यश्चन्द्रमणिहारः चन्द्रकान्तमणिस्रक् तस्य बिभ्रमः विलास इव विभ्रमो यस्मिन् स तथोक्तः, अथवा तस्य विभ्रमो भ्रान्तिः यस्मिन् तादृशी यो बाहुः स्वेदार्द्रत्वात् तुषारस्राविचन्द्रकान्तमणिहारसदृशः शुभ्रोज्वलः, यद्वा स्वेदबिन्दुसिक्ते यस्मिन् बाहौ तुषारनिष्यन्दिचन्द्रमणिहारभ्रान्तिर्भवतीति भावः स तथोक्तो बाहुः ; जीवयतीति जीवयतीति जीवयन्निव मामिति शेषः, त्वद्विरहखेदविक्लवव्यपेतप्राणं हि मां पुनरुच्छासयन्निवेत्यर्थः , मम उज्जीवन-कृत् ते अयं बाहुरिति भावः, अधिकण्ठं कण्ठे (विभक्त्यर्थेऽव्ययीभावः। ) अर्प्यतां-स्थाप्यतामित्यर्थः , इत्थं तु भवनोन्मुखविप्रयोगसन्तप्तहृदयं मां शीतलं कुरु इति भावः। मृणालस्निग्धकोमलं मज्जीवनसञ्जीवनं स्वबाहुं मम कण्ठे बधान, अन्यथा त्वद्विरहे क्षणमपि न जीवेयमित्याशयः। (अत्र भयश्रमस्वेदादयः सात्विकभावाः ; तथा हि भोजराजः , – ‘विमलम्भेऽभियोगाद्यैः सम्भोगे साध्वसादिभिः।
मिथः परीक्षया प्रेमणो निर्दिष्टास्ताः परीष्टयः॥

वासश्चित्तचमत्कार आकस्मिकभयादिभिः।
निद्राव्यापारवैमुख्यमिन्द्रियाणां श्रमादिभिः॥ ‘इति।
तथा हि वैदेह्याः सुकोमलाङ्गलावण्यादीनि उद्दीपनविभावाः, निद्रास्वप्नजडत्वादयव्यभिचारिणः, तैः परिपुष्टः अत्र आलम्बनविभावभूतायां सीतायां समुत्पन्नः राघवस्य रतिरूपस्थायिभावः, सम्भोगशृङ्गाररसरूपतां लभते इति। अपि च चन्द्रकिरणस्पृष्टार्द्रचन्द्रकान्तमणिहारधर्मस्य सीताभुजलतया धारणासम्भवात् असम्भवद्वस्तुसम्बन्धरूपो निदर्शनालङ्कारः ; जीवयन्निवेत्यन्यत्र क्रियोत्प्रेक्षा ; तदनयोः संसृष्टिः )। रथोद्धतावृत्तम् ;- ‘रान्नराविह रथोद्धता लगौ’ इति लक्षणात् ; एकादशाक्षरपदच्छन्दसां ६९९ तमप्रस्तारान्तर्भूतमिदम्॥ ३४॥

(ब) शालीनतया मुग्धया तया समाश्लेष्टं, स्वबाहौ असमप्रिते स्वयमेव सहजलज्जाजडदृशं सीतां तथा कारयन्, तदीयाकरं स्वांसे उपस्थाप्येत्यर्थः। प्रिये किमेतत् ? कण्ठे तव बाहूपस्थापनानन्तरं कथं हि ईदृशी मदीयावस्था जाता नाहं तामधुना निर्णेतुं शक्नोमीति भावः।
(तथा कारयन् सानन्दम्) प्रिये किमेतत् (ब) ? विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो।
विकारश्चैतन्यं भ्रमयति च सम्मीलयति च॥३५॥

अनुभूयमानमवस्थान्तरं कीदृशमजनि तदेव सविशेषं विवृणोति, विनिश्चेतुमिति। -तदित्यनेन सर्वेषामन्वयः। एतत्-मयोपभुज्यमानं त्वदङ्गसंस्पर्शजनितम् अनिर्वचनीयं वस्तु इत्यर्थः। वा अन्यथा कथमेष सेवाऽर्थमाग्रहः ? इदं सुखं चेत्, तर्हि , बुद्धिस्तु कथं हि तद्विषयिका न भवति ? अत आह, दुःखमिति वा। -किमित्यं तृत्प्यभावमयी उत्कण्ठा ? तथात्वे मानसोन्माथकत्वशङ्का अपरिहार्या स्यात्, अत एवाह प्रमोहश्चेति, प्रमोहश्चैतन्यसम्मीलनं वा, न चेदेवं तदा किमिति उत्स्वप्नायते ? अत आह निद्रेति। -निद्रा स्वप्नो वा, स्वप्नसदृशं किमेतदलौकिकमनुभवामि। ननु जाग्रदवस्थायां चैतस्यान्तमसम्भावितत्वात् आह, विषेति। -विषविसर्पः, विषप्रसारः, विशप्रवेशजन्यः विसर्पाख्यः रोगविशेषो वा (रोगवाचकविसर्पशब्दस्य ह्रस्वदीर्घेकारता भवत्येव)। एवञ्चेत् तर्हि कथं हि तदुद्भूता व्यथा निरन्तरमात्मानं न क्लिश्नाति ? अत आह मद इति। मद, मद्योपयोगजः आनन्दविशेषो वा, अन्यथा कुत एतन्मनश्चाञ्चल्यम् ?-( ‘सम्मोहानन्दसम्भेदो मदो मद्योपयोगजः’ इति साहित्यदर्पणे मदलक्षणात्)। कथं पुनरेवं भावविपर्ययः अजायत, इति विनिश्चेतुं निर्णेतुं न शक्यः। (अध्याहतेन ‘एष मदीयो भावः’ इत्यनेन ‘शक्त्यःऽ इति पदस्य अन्वयो बोध्य, पुन्निर्देशो तत एव साधुः)।
त्वदीयसुकुमाराङ्गसंश्लेषेण समुच्छलत्सर्वातिशायिसुखसन्दोहपूरनिमग्नस्य मे लोकोत्तरानन्दमनुभवतामिन्द्रियाणां विवशता आयाता, तेन हि विवेकोऽपि हर्षातिरेकात् व्यलुपत् ; नातोऽहं कीदृशीं दशां गतवानिति सम्यगवधारयितुं प्रकाशितुञ्चालमस्मि इत्याशयः। अशक्तौ हेतुमाह- तवेति। तव स्पर्शे स्पर्शे प्रतिस्पर्शं त्वदीययावदङ्गस्पर्शेषु इत्यर्थः, परिमूढः-परितः मूढः विषयग्रहणासमर्थत्वात् मोहमुपागतः इत्यर्थः स्वस्वविषयव्यावृत्तः इति यावत्, इन्द्रियगणो इन्द्रियाणां चक्षुरादीनां गणः समूहः यस्मिन् स तथोक्तो विकारः आन्तरावस्थाविशेषः ;, मम चैतन्यं विवेकं भ्रमयति च-तिरोदधाति च, सम्मीलयति च-प्रकाशयति च ; मम बुद्धिः कदाचित् भ्रान्ता कर्हिचिच्च प्रकाशिता आत्मविकारं निश्चेतुं नेशे इति भावः। स्पर्शे स्पर्शे मम चैतन्यं क्षणात् प्रबोधमेत्य सुखसन्दोहसमाच्छादितं सदेव तमसां परिभूयते, तत् कथमहं विनिश्चिनोमि किमस्थोऽहमितिभावः।
यद्वा- अत्र परार्धवाक्यस्य प्रथममन्वयं विधाय तदनु द्वितीयार्धव्याख्या विधेया; ततश्च इति-एवं प्रकारः अयं प्रियास्पर्शजनितोऽपूर्वो विकारः सुखं वा दुःखमिति वा निस्चेतुन्न शक्यः, सुखत्वेन वा दुःखत्वेन वा निर्णेतुं मया न शक्यते इत्यर्थः। (शक्य इत्यस्य विकार इत्यनेनान्वयात् साधुः पुन्निर्देशः। अत्रापि सम्भोगशृङ्गारो रसः। अत्र पूर्वार्धं सुखदुःखाद्यनुभवस्य अतिप्रियस्वप्रियतमाऽङ्गसंस्पर्शेन सुखविमुग्धमानसस्य रामस्य तात्त्विकतया प्रतिभासनात् प्रतिभोत्थितत्वाभावात् विकर्तमात्रं, न यु सन्देहालङ्कारः। परार्धे तु बोधतिरोधानजनक-बोधविकासजनकक्रिययोः विरोधवदापाततो भासनात् प्रियास्पर्शनितविकारत्वेन च समाधानात् विरोधालङ्कारः, तथा विकारस्य स्पर्शहेतुकत्वात् काव्यलिङ्गस्य, इत्येतयोः साङ्कर्यम् )। शिखरिणी वृत्तम्। लक्षणादिकन्तूक्तं प्राक्॥ ३५॥

सीता। (विहस्य) त्थिरप्पसादा तुह्मे; इदो दाणिं किमबरं ? (भ) स्थिरप्रसादा यूयं; इत इदानीं किमपरम् ? रामः।
म्लानस्य जीवकुसुमस्य विकाशनानि सन्तर्पणानि सकलेन्द्रियमोहनानि।
एतानि ते सुवचनानि सुरोरुहाक्षि मर्णामृतानिमनसश्च रसायनानि॥३६॥

सीता। पिअम्बद एहि सम्बिसह्म। (म) (इति शमनाय समन्ततो निरूपयति) (भ) स्थिरेति। -यूयं, स्थिरः अविचलितः प्रसादः अविचलितः प्रसादः अस्मान् प्रति स्नेहः प्रीतिरिति यावत् येषां ते तथोक्ताः ; अस्मसु अविसंवादिप्रणयमभीप्सवः इत्यर्थः अस्मन् परम् इदानीं किम् अपरम् अन्यत् पत्युः स्थिरतरसौहर्द्यं विना इत्यर्थः। आशास्यमस्ति स्त्रीणामित्याशयः। (अत्रापि सम्भोगशृङ्गरः रसः )।
अथ तदानीं निर्भरप्रणयविवशमानसायां मधुरभाषितायां वैदेह्यामेतावाननुरागः कथं हि प्रसृतिं गतः? तत्प्रतिपादनमिषेण तद्वचसाममृतायमानत्वादिधर्मशतयोगित्वमुपपादयति, म्लनस्येति। -हे सरोरुहाक्षि विकसितशतपत्रायतनेत्रे ( ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्’ (५। ५। ११३) पा०) इति षच्, ‘षिद्गौरादिभ्यश्च’ (४। १। ४१ पा०) इति ङीष्। ) ते-तव, एतानि सुवचनानि-सुभाषितानि (अत्र सीतावचनेष्वपि एतादृशसौभाग्यं नानुभूतपूर्वमित्यपि सुशब्देन व्यज्यते ) म्लानस्य-सांसारिकसन्तापादिरूपतपनमरीचिचयवितप्तमारुतसंसर्गात् म्लानिमापन्नस्य जीवकुसुमस्य-प्रणयिहृत्पुष्पस्य, जीवः जीवनमेव कुसुमं तस्य सद्यःपातिनः इति यावत्, विकाशनानि-प्रस्फुटनानि अतिसुकुमारस्यापि हर्षक्षयवतः जीवनप्रसूनस्य वृन्तभूततया सद्यःपतननिरोधकानि इत्याशयः, सन्तर्पणानि-तृत्पिसाधनानि भोग्यन्तराकाङ्क्षानुत्पादकानि इत्यर्थः, सकलानामिन्द्रियाणां मोहनानि मोहकराणि स्वस्वव्यापारनिरोधीनि इत्यर्थः, तथा कर्णयोः अमृतानि अमृतवात् सुखप्रदानि, सधाधारानिषेकवदपूर्वानन्दसन्दोहसञ्जननानि ; यथा हि अमृतं दर्शनत एव जनानां तृप्ति जनयति, तथैव अर्थपर्यालोचनाहतेऽपि त्वद्वचसां रमणीयत्वमिति भावः।
मनसश्च-दुःखभारोद्विग्नस्य चेतसश्च रसायनानि-रसस्य हर्षस्य अयनानि स्थानानि, यद्वा,-रसस्य पुष्टस्य सम्भोगसृङ्गाररसस्य इतरेतररतिरूपस्य अयनानि आश्रयभूतानि इत्यर्थः ; यद्वा,-रसस्य वीर्यस्य अयनानि आधानानि आधिशरीरावसादादिनाशकानि पुष्टिकारकाणि औषधानि इव ‘यज्जराव्याध्विध्वंसि भेषजं तद्रसायनम्’ इति वैद्यकोक्तेः। उत्साहशक्तिप्रदानीत्यर्थः, ( ‘रसो गन्धे रसः स्वादे तिक्तादौ विषरागयोः। शृङ्गारादौ द्रवे वीर्ये देहधात्वाम्बुपारदे॥ ‘इति विश्वकोषात् )। यथा हि रसायनरसनेन सर्वेषामेव रसानामास्वादजा तृत्पिरुपलभ्यते तथैव त्वद्वचनश्रवणसमकालं शब्दान्तरश्रवणजन्यसुखानामधिगमः भवतीति बोध्यम्। अपि च यथा रसायनानां रसरूपत्वात् भोग्यत्वम् औषधस्वरूपत्वाच्च रोगविनिवर्तकत्वं तथैव पुनरेतेषां वचनानां मनोहारित्वं हितत्वञ्च व्यज्यते, इत्यवधातव्यम्।
अत्र जीवे कुसुमत्वारोपाद्रूपकालङ्कारः ; कुसुमविकाशनत्वस्य तथेन्द्रियादिसन्तर्पणत्वादीनां जानकीवचनेषु प्रमाज्ञानविषयत्वेनाविद्यमानतया आहर्यज्ञानेन चाभेदप्रतीतेर्मालारूपकालङ्कारश्च ‘सरोरुहाक्षि’ इत्यत्रोपजायमानेनोपमाऽलङ्कारेण संसृज्यते। केचित्तु-एकस्य जानकीवचनस्य विकाशनसन्तर्पणादिविषयभेदेनानेकधोल्लेखा-लङ्कारमिच्छन्ति। ‘एतानि ते सुवचनानि ‘इति विशेष्यपदोपादानेनैव वाक्यार्थस्य परिसमप्तत्वात्, पुनश्च ‘कर्णामृतानि’ इत्यादिना उपात्तत्वात् समाप्तपुनरात्तत्वं दोषः ; स तु तृतीयचतुर्थपादयोः वैपरीत्यपाठेन समाधेयः )। इति। वसन्ततिलकं दोषः॥३६॥

प्रियंवद एहि संविशावः।
(म) अतीव मधुरभाषित्वात् रामस्य प्रियंवदेति सम्बोधनम्। ( प्रियपूर्वकात् वदतेः खः )। संविशावः,-स्वपिवः, निद्राविवशशरीरेदानीमहं संवृत्तेति भावः। सत्यामपि निद्राकातरतायां सौजन्यात् प्रेमातिशय्यात् च उभयत्वेन कथनमिति ज्ञेफ्यम्।
(य) शयनाय-शयितुं , ( ‘तुमर्थाच्च भाववचनात्’ (२। ३। १५ पा०) इति चतुर्थी )। निरूपयति-शयनसामग्रीसमवधानं शयनयोग्यं स्थानमुपधानादिकञ्च अस्ति वा न वा इति अन्विष्यति।
रामः। अयि किमन्वेष्टव्यम् आ विवाहसमयाद् गृहे वने शैशवे तदनु यौवने पुनः।
स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते॥३७॥

सीता। (निद्रां नाटयन्ती) अत्थि एदं अज्जउत्त अत्थि एदम्। (र)। (इति स्वपिति) अस्त्येतत् आर्यपुत्र अस्त्येतत्।
इदानीं शयनसुयोग्यमुपकरणमुपाधानं दर्शयति, आ विवाहेति। -विवाहसमयात् आ-विवाहकालमारभ्य, विवाहकालात् परमित्यर्थः, ( ‘आङ् मर्यादावचने’ (१। ४। ८९ पा०) इति सूत्रेण कर्मप्रवनीयतया ‘पञ्चम्यपाङ्परिभिः (२। ३। १० पा०) इति सूत्रेण पञ्चमी। ) देशावच्छेदेन गृहे तदनु वदने च, पुनः कालावच्छेदेनापि शैशवे तत्पश्चात् यौवने च, स्वापहेतुः,-निद्रालम्बनं शयनोपकरणमित्यर्थः, (गृहे शैशवे यौवने च स्वापहेतुः, वने पुनर्यौवने स्वापहेतुः, न तु यथासङ्ख्यमन्वयः,) अत्र केवलं तवैव अधिकारः नान्यस्या इत्याह ; अन्यया-त्वद्भिन्नया स्त्रियाम् अनुपाश्रितः,-अनालम्बितः, स्वापहेतुतया स्त्र्यन्तरसङ्गशून्यः इत्यर्थः ; यद्यपि ‘जुष्टं परमनारीणां भुजैः परमसुन्दरैः’ इत्युक्तमस्ति, तत् तु ‘न रामः परदारान् वै चक्षुर्भ्यामपि पश्यति’ इत्याद्युक्तेः चेटीसंवाहनाभिप्रायकमिति ज्ञेयम्। ( ‘मद्बाहुः’ इत्यनुक्त्वा ‘रामबाहुः’ इति कथनन्तु प्रसिद्धिद्योतनाय, ‘उपधाय भुजं तस्य’ -इत्यादिवचनात् एकपत्नीव्रतधरत्वमस्यावेदयति इति बोध्यम् )। एष रामबाहुस्ते-तव उपधानं-शिरोधानम् ( ‘उपधानं तूपवर्हः’ इत्यमरः) अधुनाऽपि तदस्तु, किम् अन्यान्वेषणेनेति भावः। (अत्र रामबाहौ तादात्म्येनोपाधानत्वारोपात् श्यनोपयोगित्वप्रतीतेश्च परिणामालङ्कारः, तस्य च ‘अन्यथा अनुपाश्रितः’ इति पदेन अधिकारूढवैशिष्ट्यम् )। रथोद्धता वृत्तम्। - ‘रात् परैर्नलगौ रथोद्धता’ इति लक्षणात्। ६९९ तमप्रस्तारान्तर्गतमिदम्॥३७॥

(र) अस्तीति। -आर्यपुत्र एतत् तव बाहुरूपम् उपधानम् अस्ति। (अत्र ‘सर्वादिशब्दानां पर्यायेण उद्देश्यविधेयलिङ्गभाक्त्वम् ‘इति नयेन क्लीबत्वमिति बोध्यम् )। इत्युक्त्वा उपधानीकृत्य स्वपिति इत्यर्थः। अत्र प्रसादनार्थम् ‘अस्त्ये तत्’ इति पुनरभिहितं, नातः कथितपदत्वदोषशङ्का, ‘कथितञ्च पदं पुनः अनुकम्पायां प्रसादने’ इत्युक्तेः।
रामः। कथं प्रियवचना चक्षसि प्रसुप्तैव ? (निर्वर्ण्य सस्नेहम्) (ल) इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोः असावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः।
अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो ? यदि परमदह्यद्तु विरहः॥३८॥

(ल) कथमिति। -प्रियं वचनं यस्याः सा प्रियवचना ( ‘वा प्रियस्य’ इति वार्तिकराद्धान्तेन पक्षे वचनप्रियेति रूपम् ) मधुरभाषिणी, वक्षसि-उरसि, कथं-किं ; प्रसुप्तैव-निद्रिताऽभूत् ? परस्परं समाश्लिष्य करमुपधाय च शयितयोस्तयोः वक्षः सम्पर्कात् रामवक्षसि सीतायाः शयनं तु ‘दन्तच्छेद्य नखच्छेद्यमन्यद् व्रीडाकरञ्च यत्। शयनाधरपानादि नगराद्यवरोधनम्॥ स्नानानुलेपने चैभिः वर्जितः ‘इति दर्पणोक्ताङ्कदोषनिरूपणे व्रीडाजनशयननिषेधात् अत्र तदभावाच्च न विरुध्यते इति बोद्धव्यम्। सस्नेहं-सादरं सकरुणञ्चेत्यर्थः, निर्वर्ण्य-सीतामुखं निरीक्ष्य, आहेति शेषः।
न केवलमियं प्रियवचना, अपि तु मम निखिलार्थहेतुभूता सौभाग्यलक्ष्मीभूमिश्चेति विशिष्य विवृणोति , इयमिति। -(अत्र ‘मम’ इति अध्याहार्येण पदेन सर्वत्र अन्वयः कार्यः )। इयं-सीता, गेहे-गृहे, ( ‘गृहं गेहोदवसितम्’ इत्यमरः ) तस्मिन्, लक्ष्मीः-श्रीः, गृहसौभाग्यविधायिनी अधिदेवतेत्यर्थः। तथा नयनयोः- नेत्रयोः अमृतवर्तिः ,-अमृतनिश्यन्दिनौ अञ्जनशलाका, त्वददर्शनदशायां चराचरमिदं शून्यं प्रत्यक्षीकुर्वतः नेत्ररोगेण रुग्णस्यैव मे त्वमालोकेनैव अमृतवत् नयनानन्ददायिनीत्यर्थः। कुमेतावत्पर्यन्तानुधावनेन ? एतदीयं यत्किञ्चिदपि मे सुखातिरेकजनने पर्याप्तमित्याह, असावस्याः इति। -असौ अनुभूयमानः, अस्याः-प्रियायाः स्पर्शः, वपुषि-गात्रे, बहुलः- प्रचुरः, चन्दनरसः-मलयजरससेकवत् विरहतापतप्तस्य मे निरतिशयं शरीरस्य मनसश्च स्निग्धतायाः निवृत्तेश्च कारकः।
अयं -कण्ठे अर्पित इति शेषः, अस्याः बाहुः-करः, शिशिरः शीतलश्च मसृणः उज्ज्वलश्च मौक्तिकसरः-मुक्तामाला इव सुखस्पर्शः ; कोलत्वात् सुखशीतलत्वाच्च मौक्तिकस्रगिव शरीरसन्तर्पणः मानसामोदकरश्च (प्रोक्तविशेषणकर्मधारयात् सीताशरीरस्य समौज्ज्वल्यं निरतिशयविरहानलप्रशमनञ्च व्यज्यते, तेनासौ श्यामा मुग्धा च ज्ञेया )। अस्याः,-सीतायाः सम्बन्धि किं वस्तु न प्रेयः,-अतिप्रीतिकरम् ? यदि-किन्तु, परं-केवलम् अस्यह्यः,-सोढुमशक्यः विरहः,-वियोगः न स्यात् तर्हि, मर्मनिकृन्तनात् परमदुःसहात् त्वद्विप्रयोगादितरत् सर्वमेव त्वत्सङ्गतं लोकातिशायिहर्षजनकं भवेत्, नास्ति तच्च संशयलेशः इति तात्पर्यम्।
( अस्मिन् श्लोके आभिमानिकी रतिः, इति कण्ठाभरणम्। अत्र सीतायां लक्ष्मीत्वामृतवर्तित्वयोः अभेदारोपात् निरङ्गं रूपकम् ; तथा तत्पस्पर्शे चन्दनरसत्वारोपात् अपरं रूपकम् ; एवं तद्भुजे मौक्तिकसरत्वारोपात् निरङ्गञ्च रूपकम् ; अपि च एकस्या एव सीतायाः गृहनेत्रत्वविषयभेदात् अनेकधोल्लेखात् उल्लेखः ; चतुर्थपादे च विरहस्य असहनीयत्वेऽपि यद्यर्थबलात् आहृतेन सहनत्वारोपेण सीतायां सर्वविधप्रियत्वासम्बन्धेऽपि सम्भावनया तत्सम्बन्धोक्तेः अतिशयोक्तिश्च। एषामलङ्काराणां सजातीयविजातीयरूपः सङ्करः )। शिखरिणी वृत्तम्॥ ३८॥

प्रतीहारी। (प्रविश्य) देअ एबत्थिदो। (व) देव उपस्थितः।
(व) प्रतिहारीति। -प्रतिहारी शुद्धान्तरक्षिका काचित् वेत्रवती नारी ; तथा हि,- ‘सन्धिविग्रहसम्बद्धं नानाकार्यसमुत्थितम्। निवेदयति या कार्य्यं प्रतीहारी तु सा स्मृता॥ ‘इति तल्लक्षणम्। प्रविश्य-राघवभवनमिति शेषः, आहेत्यध्याहार्यम्। किमिति तदेवोच्यते,-देव -राजन्, उपस्थितः,-आगतः एव, कोऽयमागत इत्याकाङ्क्षायाम् उत्तरम्- ‘देवस्य आसन्नपरिचारको दूतः’ इत्युपरिष्टात् व्यक्तीभविष्यति।
(एतद्धि भाविविरहस्य समासन्नतासूचनाय उपन्यस्तम्। सीताविवासनरूपं प्रस्तुतसङ्क्रान्तमर्थोपक्षेपकमेतत् तृतीयं पताकास्थानमवधेयम्। तथा हि,- ‘इयं गेहे लक्ष्मीः’ इति श्लोकस्य चतुर्थपादान्ते ‘परमसह्यस्तु विरहः’ इत्युक्तं राघवेण, ततः प्रतिहार्या प्रोक्तं ‘देव उपस्थितः’ इति ; एतेन सीताविरहः भवन्तम् अचिरादेव उपस्थास्यति इति अव्यक्तार्थम् अर्थोपक्षेपकं वस्तु, विशेषनिश्चयप्राप्तिसहितं सदेवात्र प्रत्युत्तरोपेतसंस्थितम्। तथा चोक्तं दर्पणे- ‘अर्थोपक्षेपकं यस्तु लीनं सविनयं भवेत्। श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमुच्यते॥ ‘इति। एवमेव वेण्याम् ; तथा हि,-दुर्योधनः,- ‘पर्याप्तमेव करभोरु ममूरुयुग्मम्’ इति, ततः प्रविश्य कञ्चुकी आह- ‘देव भग्नं भीमेन’ इत्यादि ; अपि च मुद्राराक्षसे यथा, चाणक्यः,- ‘अपि नाम दुरात्मा राक्षसः गृह्यते ?’ सिद्धा- ‘अज्ज गहीदो’ । अन्यच्च-राक्षसः, ‘तदपि नाम दुरात्मा चाणक्यवटुः’ इति, उपसृत्य दौवारिकः,- ‘जेदु जेदु’ । पुनश्च राक्षसः, -‘अतिसन्धातुं शक्यः स्यात्,’ दौवारिकः – ‘अमच्चो’ इत्यादिना अव्यक्तार्थस्य, राक्षसवशीकरणरूपस्य चाणक्यविजयस्य च तथा वेण्यां दुर्योधनस्योरुभङ्गरूपस्य, प्रस्तुतस्य सूचनात् तृतीयं पताकास्थानमेवं सुधीभिः मृग्यम्। धनिकमते तु-उत्तरचरितमेतत् गण्डनामकं प्रस्तावनाऽङ्गं वेदितव्यम्। प्रस्तुतस्य सीताविवासनस्य सम्बद्धतया विरहस्य सहसाऽभिधानात्। एतद्धि प्रस्तावनाऽङ्गभूततयाऽभिहितं मूलकृता धनञ्जयेन, तथा हि,- ‘गण्डः प्रस्तुतसम्बन्धिभिन्नार्थं सहसोदितम्’ इति )।
रामः। अयि कः ? प्रती। असणपरिचारओ देबस्स दुम्मुहो। (श) रामः। (स्वगतम्) शिद्धान्तचरी दुर्मुखः; स मया पौरजानपदान् अपसर्पितुं प्रयुक्तः (ष) (प्रकाशम्) आगच्छतु।
(प्रतीहारी निष्क्रान्ता) दुर्मुखः। (प्रविश्य स्वगतम्) हा कधं सीदादेईए ईऋसं आसन्नपरिचारको देवस्य दुर्मुखः।
(श) आसन्नो निकटस्थः सन् परिच िसेवत् इति आसन्नपरिचारकः ; यः सदा सन्निधौ स्थित्वा उपसेवते तथाभूतः भृत्यः इत्यर्थः। अस्य चरस्य भद्रनामधेयत्वेऽपि सीताऽपवादरूपदुर्वचनस्याभिधानात् दुर्मुख इति सञ्ज्ञा लोकपरम्परया आगतेति ज्ञेयम् ; कविना च तदाख्यया आख्यापितोऽसौ। तथा च रघौ कालिदासः ,- ‘पप्रच्छ भद्रं विजितारिभद्रः’ इति।
(ष) शुद्धान्ते अन्तःपुरे परितः निर्विशङ्का चरतीति। अतीव विश्वस्तः इत्यर्थः। ( ‘स्त्र्यागारं भूभुजामन्तःपुरं स्यादवरोधनम्। शुद्धान्तश्चावरोधश्च’ इत्यमरः )। पुरे निवसन्तीति पौराः, जनपदे भवाः जानपदाः ( पौराश्च जानपदाश्चेति द्वन्द्वः ) नागरिकान् जनपदवासिनः वैदेशिकांश्चेत्यर्थः। अपसर्पितुं-गूढं चरितुं, चररूपेण प्रच्छन्नी भूत्वा तेषां मनोगतभावं परीक्षितुम् ; अप् पृष्ठतः प्रच्छन्नमित्यर्थः सर्पतीति अपसर्पः,-गूढचरः। ( ‘उपसर्पितुम्’ इति पाठान्तरम् )।
अचिन्तणिज्जं जणबबादं देबस्म कधइस्सं ? अहबा णिओओ क्खु ईऋसो मन्दभाअस्म। (स) सीता। (उत्स्वप्नायते) हा अज्जउत्त कहिं सि ? ’ (ह) (स) हा कथमित्यादि। -हा इति शोकसूचकमव्ययम्। तादृशपरीवादस्य कथयिष्यमाणत्वात् शोकः। ईदृशम्-एवंविधमरुन्तुदमित्यर्थः। अचिन्तनीयं-कदापि मनसा चिन्तयितुमप्यशक्यम्, अतर्कितोपपन्नमिति यावत्। सीतादेव्याः,-जनकतनयासम्बन्धिनमित्यर्थः। जनापवादं-लोकापवादम्। देवस्य-रामभद्रस्य (सम्बन्धविवक्षया षष्ठी )। मन्दः अल्पः भागः भाग्यं यस्य तथाविधस्यम् दुर्भगस्येत्यर्थः। ईदृशः,-एवंविधः, ‘निखिललोकमानसाभिप्रायं विदित्वा यथायथं मदन्तिके उपवर्णय ‘इत्येवंरूपः, नियोगः,-प्रभोः आदेशः खलु। साम्प्रतमाग्रहवता प्रभुणा अप्रीतिकरे सज्जनालीकापवादप्रकाशकरणरूपे कर्ये नियोजनात् आत्मनः अतिमहत् दौर्भाग्यमवेदितमित्यवधेयम्।
(ह) उत्स्वप्नायते इति। उद्भूतः विलापादिप्रयोजकः स्वप्नः निद्राऽवस्थायां विलापादिः यस्याः, यद्वा,-उद्वेजकः स्वप्नः यस्याः सा, सा इव आचरति इति उत्स्वप्नायते, ( ‘कर्तुः क्यङ् सलोपश्च’ (३। ३। ११ पा०) ) इति सूत्रेण उपमानभूतात् क्यङि लटि रूपं बोध्यम् )। हा आर्यपुत्र -स्वामिन् कुत्र असि-इदानीं क्व गतो भवसि, इति भविष्यद्विरहसंवेदकः स्वप्नप्रकारः अवधेयः।
‘स्वप्नो निद्रामुपेतस्य, विषयानुभवस्तु यः।
कोपावेगभयग्लानिसुखदुःखादिकारकः॥ ‘इति दर्पणे स्वप्नलक्षणम्।
रामः। अये सैवेयं रणरणकदायिनी चित्रदर्शनाद् विरहभावना देव्याः स्वप्नोद्वेगं करोति। (सस्नेहमङ्गमभ्याः परामृशन्) (क)- हा कथं सीतादेव्या ईदृशमचिन्तनीयं जनापवादं देवस्य कथयिष्यामि ? अथवा नियोगः खलु ईदृशो मन्दभागस्य ? हा आर्यपुत्र कुत्र असि ? (क) अये इत्यादि। -रणरणकदायिनी-देव्याः उत्कलिकाकुलातां विदधती चित्तविक्षोभकारिणी इत्यर्थः। विरहस्य भविष्यतः विप्रयोगस्य भावना नियतानुध्यानरूपानुभवजनितः स्मृतिजनकः उद्बोधकसमवहितसंस्कारविशेषः, चित्रदर्शनात् अशुभोत्पादनिदानभूतायाः सूर्पणखायाः आलेख्यमवलोक्य जायमाना इत्यर्थः, देव्याः सीतायाः स्वप्नोद्वेगं स्वप्ने अपि उत्कण्ठां तज्जनितविलापादिकञ्च करोति-समुत्पादयतीत्यर्थः। सस्नेहं-सप्रणयं साग्रहमित्यर्थः, अस्याः वैदेह्याः अङ्गं-प्रतीकं, परामृशन्-स्वहस्तेन सदयमुपसेवमानः इत्यर्थः, सीतायाः ओ स्वं हस्तं सन्निवेशयन्निति यावत्। ( केचिदत्राङ्गपदमुदरपरमभिधाय वक्ष्यमाणश्लोकस्यापत्यार्थकत्वं कल्पयन्ति, तदसत्म् तथात्वे ‘उदरमस्याः परामृशन्’ इत्येव वक्तव्यत्वात्, न च ‘मयैवादौ ज्ञातः करतलपरामर्शकलया द्विधा गर्भग्रन्थिः’ इति वक्ष्यमाणोक्तेरसङ्गततयाऽङ्गपदस्योदरपरत्वं कव्रभिमतमिति वाच्यम् ; ‘सहजलज्जाजदृशः’ इत्यत्र सीतायाः जागरणप्रतीतेः उत्स्वप्नायमानत्वविरोधादित्यवधेयम् )।
औतं सुखदुःखयोरनुगुणं सर्वास्ववस्थासु यद् विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रमः।
कालेनावरणात्ययात् परिणते यत् स्नेहसारे स्थितम् भद्रं प्रेमसुमानुषस्य कथमप्येकं हि तत् प्राप्यते॥३९॥

अथ चिरविरहविह्वालाया नियतपरिदेवनाविवशमानसाया। मदेकजीवितायाः कातराक्ष्याः प्रियाया वनवासे एवम्व कियन्ति सकरुणरुदितानि आसन्नित्यनुध्यायन् सस्नेहहस्तावमर्षं तदीयमङ्गजातं, स्वीयानुपमसौभाग्यमित्याशंसन् तादृश्याश्च स्त्रियाः गुणोपवर्णनं विलप्य बहुधाऽधुना तस्या दुःखसन्तापादीन् स्मारं स्मारम् अनुशोचति, औतमिति। -यत् प्रेम-औतुकी अनुरक्तिःम् अथवा सप्तविधसम्भोगान्तर्गतविच्छेदाऽसहनरूपावस्थाविशेषः, तथा च- ‘प्रेमाऽभिलाषो रागश्च स्नेहः प्रेम रतिस्तथा।
शृङ्गारश्चेति सम्भोगः सप्तावस्थः प्रकीर्तितः॥ ‘इति।
तस्यार्थो यथा रसरत्नाकरे- ‘प्रेमा दिदृक्षा रम्येषु तच्चिन्ताऽप्यभिलाषकः।
रागस्तत्सङ्गबुद्धिः स्यात् स्नेहस्तत् प्रवणक्रिया॥

तद्वियोगासहं प्रेम रतिस्तत्सहवर्तनम्।
शृङ्गारस्तत्समं क्रीडा सम्भोगः सप्तधा क्रमः॥ ‘इति।
सुखदुःखयोः पत्युरिति शेषः, द्विधा इतं द्वीतं भिन्नमित्यर्थः, तस्य भावः द्वैतं भिन्नभावः तन्नास्ति यस्य तत् औतम्-एकरूपं समानं, पत्या समं समसुखदुःखभागित्यर्थः ; यत् सर्वासु अवस्थासु दशाविपर्ययेषु सुखेषु दुःखेषु चेत्यर्थः, अनुगुणम्-अनुकूलं, न च सुखेषु अनुकूलं दुःखेषु च प्रतिकूलमिति भावः, यत्र-यस्मिन् हृदयस्य-विषयार्ज्जनपरिरक्षणविनश्नादिदुःखसन्तप्तस्येत्यर्थः, विश्रामः,-जीवितालम्बनभूतं, यदेव हि एकमवलम्ब्य संसारसुलभशोकक्षोभाद्युपहतमपि वैक्लव्यदोलाचलं हृदयं स्थैर्यमापद्येते, विषयजशोकसन्तप्तं मनः सदैव यत् लब्ध्वा भृशं हृष्यति इति भावः ; ( ‘भद्रं तस्य सुमानुषस्य’ इति पाठे तु-यत् गुणवद्भार्यारूपमनिर्वचनीयं वस्तु )।
( ‘विश्रामः’ इति पदन्तु अपाणिनीयम् ; घञि ‘नोदात्तोपदेशस्य’ (७। ३। ३४ पा०) इति सूत्रेण वृद्धिनिषेधात्, किन्तु, श्रम एव श्रामः इति ‘प्रज्ञादिभ्यश्च’ (५। ४। ३८ पा०) इति सूत्रेण अणि कथञ्चित् योज्यम् इति केचित् ; केचित् तु अदन्तचुरादेः श्रामधातोः रूपमिति व्याचक्षते समादधति च ; परन्तु बोपदेवाचार्यमते ‘जनवधः’ इत्यादिसूत्रे ‘अमयम विश्रमस्तु वा’ इति ह्रस्वस्य वैकल्पिकविधानदर्शनात् श्रमधातोः घञि विश्रमः विश्रामः इति रूपद्वयं भवतीति भाव्यम् )।
यस्मिन् रसः,-अनुरागः रतिरूपः इत्यर्थः, ( ‘रसो गन्धो रसः स्वादे तिक्तादौ विषरागयोः’ इति विश्वः। ) जरसा-वार्द्धकेन, अहार्यः-हर्तुमशक्यः, कूट इव अविकृतः सन्, यः सदैवास्ते इत्यर्थः, वार्द्धके हि प्रायशः सर्वा एव वृत्तयः प्रतिहताः भवन्ति, सतीषु भार्यासु सुगभीरोऽकपटश्च अनुरागः पुनः न नश्यतीति भावः। तत्र तस्य अकृत्रिमत्वादस्वार्थकत्वाच्च वयसि इव विपुला प्रीतिः नितरां निर्भरमभिवर्धते इत्याशयः। तथा कालेन-कियता समयेन, जनसमीपे नियतपरिचयविस्तारेणेत्यर्थः, आवरणस्य हृदावरणरूपप्रतिबन्धकस्य लज्जादेः अत्ययादपगमात्; यद्वा- ‘आ वरणात्ययात्’ इति पदद्वयम् तच्च वरणं विवाहः, अत्ययः निधनं, ततः आ, तत्कालपर्यन्तावस्थायिनाम् विवाहकालात् प्रभृति मरणं यावत् स्थितवता, सुदीर्घेण कालेन ; परिणते-परिपाकमुपेयुषिम् स्नेह एव सारः स्थिरांशः यत्र ( ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरं त्रिषु ‘इत्यमरः ) तस्मिन्, स्नेहस्योत्कृष्टांशे, प्रगाढे अनुरागे इति भावः , यत् स्थितम्म् यदकपटप्रणयरूपं फलं सारभूततय्म् असारव्यपगमात्, निश्चलं सदेव वर्तते इत्यर्थः ; यथा हि दुग्धादेर्जलांशापगमात् परं परिणतस्नेहसारे रूपान्तरितं प्रेमरूपं यद् वस्तु अविचलितं सत् स्थितमित्यर्थः ; सुमानुषस्य शोभनस्य नरस्य प्रियारूपस्य वा एकम् अविच्छिन्नं तत्-मनःकल्पितं निष्पत्यूहमित्यर्थः, केवलं प्रणयरूपमिति यावत्, भद्र-मङ्गलम्, अमलप्रेमभूतं ( ‘श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्’ इत्यमरः) कथमपि-कथञ्चिदपि महता क्लेशेन काकतालीयन्यायेन वा प्राप्यते।
अपि अशक्यसम्भावनायां, हि निश्चये। निर्दोषस्य परमपरिपूतस्यापि सुमानुषस्य निष्पत्यूहशुभसङ्घटनमतीव दुर्घटम्। यतः क्वचित् कस्यचिज्जनस्य जाया जन्मान्तरीणमहातपःफलभृता निरवच्छिन्नानन्दविधायिनी भवतिम् स्वयञ्च निरतिशयं सुखमुपभुङ्क्तेम् आवयोस्तु तत् दूरापास्तमेव यतः सीतादेवी जननात् प्रभृति एव सुखलेशमपि नान्वभुङ्क्त, इत्येतदेव, आस्तां तावत् मदीया कथा नः भृशं व्यथाकरमिति हृदयम्। दुर्लभं खलु दम्पत्योः तथाविध प्रेम प्रायशः इति तु सङ्क्षेपः। सुष्ठूक्तं कविना,- ‘अवाप्यते वा कथमन्यथा द्वयं तथाविध प्रेम पतिश्च तादृशः’ । इति।
अन्यथाऽपि व्याख्यायते ;-तथा हि, यत् प्रेम दाम्पत्यं सर्वासु अवस्थासु जाग्रत् स्वप्नसुषुप्तिप्रभृतिषु ये अनुभूयमाने सुखदुःखे तयोः औतम् अभिन्नं सदेवानुगुणम् अनुगतम्, अभिन्नतया सुखदुःखयोरापादकमिति यावत्। यत्र च दाम्पत्यप्रेम्णि हृदयस्य सदुपदेशविशोधितस्य परिपूतस्य इत्यर्थः, विश्रामः श्रमहरसुखसमुदायानुभवः, यस्मिन् दाम्पत्ये प्रेम्णि च रसः स्पृहारूपः रतिश्च वा जरसा जरया च अहार्यः हर्तुमशक्यः। अथवा यस्मिन् दाम्पत्ये सति रसः आह्लादः जरसाऽपि अहार्यः हर्तुं न शक्यते, आ वरणात्ययात्, ( वरणं विवाहः अत्ययः देहपातश्चेति समाहारः ) विवाहात् प्रभृति निधनं यावत् वर्तमानेन कालेन सुदीर्घाखण्डकालेन परिणते उपचयं गते प्रेमसारे सारभूते प्रेमणि स्थितम्म् अविनश्वरं सदिव परां कोटिमासाद्य विवृद्धि गतमिति यावत्, सुमानुषस्य दाम्पत्यस्य ( ‘सुमानुषं तु दाम्पत्यम्’ इत्यभिधानात् इति प्राञ्चः ; अन्ये तु प्रकरणात् तच्छब्देन दाम्पत्ये लब्धे शोभनः मानुषो येन इति विग्रहेण मनुष्यत्वाधायकम् इत्यर्थो लभ्यते, इति वदन्ति ; सुमानुषस्य सौजन्यस्य इत्यपि केचित् व्याचक्षते। वस्तुतस्तु, सुमानुषमात्रसुलभस्येत्यर्थः, फलबलात् अत्र दाम्पत्यस्येति। ) कथमपि सर्वप्रकारेणापि तत् प्रसिद्धमेकं मुख्यं भद्रं क्षेमं प्रेम प्राप्यते प्रार्थ्यते, अभिलष्यते इति•वत्। अनर्थशङ्कीनि बन्धुमित्रहृदयानि इति न्यायादिति भावः। यतो हि सुमानुषस्य भद्रं सर्वतोभावेनाकाङ्क्षणीयम् अभुत् इति पूर्वेणान्वयः इति। (अत्र नायकः अनुकूलः एकनायिकश्च )।
(अत्र प््रस्तुतायाः सीतायाः इति वक्तव्ये ‘सुमानुष्यस्य’ इति कथनात् अप्रस्तुतप्रशंसा अलङ्कारः ; स च, चतुर्थपादं प्रति हेतुत्वेनोपेतानां पादत्रयाणां वाक्यभूतानां निष्पादकत्वात् समुद्भूतेन काव्यलिङ्गेन सङ्कीर्यते )। शार्दूलविक्रीडितं वृत्तम्। - ‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्’ इति लक्षणात्। एकोनविंशत्यक्षरपादच्छन्दसां १४९३३७ तमप्रस्तारान्तर्गतं वृत्तमिदम्॥ ३९॥

दुर्मुखः। (उपसृत्य) जअदि जअदि देओ।
रामः। ब्रूहि यदुपलब्धम्। (ख) दुर्मुखः। उबत्थुेन्ति देअम्पौरजाणबदा; -वबिसुमरिदाअह्मे महाराअ-दसरहस्म रामदेएण त्ति ’ (ग) रामः। अर्थवाद एषः; दोषन्तु मे किञ्चित् कथय; येन स प्रतिविधीयते। (घ) दुर्मुखः। (सास्रम्) सुणादु देओ। (कर्णे एवमेवम्) (ङ) जयति जयति देवः।
’ उपस्तुवन्ति देवं पौरजानपदाः विस्मारिता वयं महाराजदशरथस्य रामदेवेनेति।
श्रुणोतु देव।
(ख) ब्रूहीति। -ब्रूहि-कथय, यत् उपलब्धं-प्राप्तं-ज्ञातमिति यावत्।
(ग) उपस्तुवन्तीति। -उपस्तुवन्ति-सर्वतो गायन्ति, महाराजस्य रामस्य शासनगुणमहिम्ना वयं महाराजे दशरथेऽपि मन्दौत्सुक्त्याः जाता इति अनिशमेवावेदयन्ति इत्यर्थः। गुणाधिकस्य द्रव्यस्य लाभे, अपकृष्टस्य विस्मृतिः स्वाभाविकी। अतः,- ‘फलेन सहकारस्य पुष्पोद्गम इव प्रजाः’ इति सुष्ठूक्तं कविना। (महाराजदशरथस्येति। - ‘अधीगत्यर्थदयेशां कर्मणि’ (२। ३। ५२ पा०) इति सूत्रेण कर्मणि षष्ठी )। रामदेवेन-देववत्प्रभावशालिना रामभद्रेणेत्यर्थः।
(घ) अर्थवाद इति। -कस्यचिदर्थस्य निन्दायाः स्तुतेर्वा यो वादः सोऽर्थवादः। यदाहुः मीमांसकाः,- ‘गुणवादो विरोधे स्यादनुवादोऽवधारिते। भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः॥ ‘इति । अत्र तु स्तुत्यर्थवादः गुणकथनमित्यर्थः, प्रशंसा इति यावत्। ( ‘अर्थवादः प्रशंसा च स्तोत्रमीडा स्तुतिर्नुतिः’ इति हलायुधः )। एषः,-भवदुक्तरूपः। प्रतिविधीयते-प्रतिक्रियते। अस्माकमभ्यर्णं गुणवादस्तु न करणीयः, यतो हि वयं दोषाणां समूलमेव निहन्तारः इत्याशयः।
(ङ) सास्त्रमिति। सास्रं-सकारणं बाष्पमुत्सृज्येत्यर्थः। शृणोतु देवः,-महाराज आकर्णयतु ; किं तत् ? तदेव कविरभिधत्ते,- ‘कर्णे एवमेवम्’ इति, ( ‘एब्बं बिश्र’ इति पाठे तु, गूढचरेरितमेतद्वच इति विभाव्यम् ) यतो हि महतामपवादश्रवणस्य अकीर्तिकरत्वेन, यश्च शृणोति तस्यापि पापभाक्तया श्रोतुमयोग्यत्वेन कर्णे ‘एव-मिव’ इत्युक्तम्। तथा हि प्राञ्चः,- ‘अर्थस्त्वेकेन वोज्ञेयः पश्चाज्ज्ञात्वा प्रसङ्गतः। कर्णे एवमिवेत्युक्त्वा काव्यबन्धे प्रयुज्यते॥ ‘इति। रामभद्रशृतिसविधे सुमुखं संस्थाप्य जनाः किल कर्णाकर्णिकतया एवमभिदधति,-अस्माकमधिराजः एवं स्त्रैनः यत् दशाननोदवसितनिवासदूषतमपि सीतां निर्विशङ्कमनुमेने सर्वथैवान्याय्यं कापुरोषोचितं दुष्करमेवैतत् किल, यतो हि अस्माकमपि स्त्रीषु नियतमेव एतदापतिष्यति, राज्ञामप्येतदनुमतत्वेन तदप्यस्माभिर्निर्बाधं सहिष्यते, इत्यपसर्पो दुर्मुखः राघवाय निभृतमभिदधे। तथा हि, रामायणे, त्रिपञ्चाशे सर्गे उत्तरकाण्डम् – ‘कीदृशं हृदये तस्य सीतासम्भोगजं सुखम्।
अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम्॥

लङ्कामपि पुरीं नीतामशोकवनिकां गताम्।
रक्षसां वशमापन्नां कथं रामो न कुत्स्यति॥

अस्माकमपि दारेषु सहनीयं भविष्यति।
यथा हि कुरुते राजा प्रजा तमनुवर्तते॥

एवं बहुविधा वाचो वदन्ति पुरवासिनः।
नगरेषु च सर्वेषु राजन् जनपदेषु च॥ ‘इति।
रामः। अहह तीव्रसंवेगो वाद्वज्रः। (च) (इति मूर्छति) दुर्मुखः। आस्मसदु देओ।
आश्वसितु देवः।
(च) अहह इति। -दुर्विषहवेदनासहितशोकसूचकमेतदव्ययम्। तीव्रसंवेगः,-तीव्रः भीषणः मर्मभिदित्यर्थः, संवेगः पतनकालसमुत्पन्नः असहनीयाभिघातः यस्य तथाविधः, वाग्वज्रः,-वाग् नीचानां सदसद्विचाररहितानां वा वचनं वज्रः दम्भोलिरिव दुःखातिदुःखदायिका खलु, सीतायाः साधुचरिते यत् ते एवमन्याय्यमाशंसन्ते, अतस्तेषां वचांसि शतकोटिरिव नः मानसं शतधा दारयन्तीति भावः। (अत्र रूपकालङ्कारः ) ‘ह्रदिनी वज्रमस्त्री स्यात् ‘इति केचित् अनुयन्ति ; केचित् तु ‘विरुग्णोदयधाराग्रः कुलिशो मम वक्षसि’ इति भट्टौ कुलिशशब्दस्य पुंलिङ्गता दृष्ट्वा ‘ह्रादिनी वज्रम्,’ ‘अस्त्री स्यात् कुलिशम्’ इत्यन्वयं कुर्वन्ति। तदत्र वज्रशब्दस्य पुंलिङ्गता कथं सङ्गच्छते ?-इति प्रश्ने- ‘वज्रोऽस्त्री हीरके पवौ’ इति नानार्थे अमरवाक्यात् ; एवञ्च वज्रशन्दस्य पुन्नपुंसकतायां सिद्धायामपि पुंसि तत्प्रयोगाभावात् ‘भाति पद्मः सरोवरे’ इत्यदिवत् अप्रयुक्तत्वं दोष एव )। इति मूर्च्छति। -तच्छोकसंवेगं सोढुमशक्यत्वात् सपदि मोहमुपागतः इति भावः।
रामः। (आश्वस्य) हा हा धिक् परगृहवासदूषणं यद् वैदेह्याः प्रशमितमभ्दतैरुपायैः।
एतत् तत् पुनरपि दैवदुर्विपाकात् आलर्कं विषमिव सर्वतः प्रसुप्तम् ॥४०॥

अथ कथञ्चित् चरस्योपचारैः सुतीव्रेः शोकावेगे अपशमिते, ईषदाश्वस्य राघवः भस्मीभूतस्यापि तदपवादर्वोजस्य दुर्दैवविपाकवशादेव पुनः प्ररोहमाशङ्कमानः, निर्भरमनुशोचति, हा हेति। -अद्भितैः,-आश्चर्यकरैः लोकानां विस्मयावहैः अग्निपरीक्षारूपैः कर्मभिः, वैदेह्याः,-सीतायाः, यत् परस्य शत्रोः रावणस्य गृहे भवने अशोकवनिकायां, वासः दश मासान् व्याप्य अवस्थितिः एव दूषणं दोषः अपवादः इत्यर्थः ; प्रशमितं-परिहृतं प्रतिकृतमपि, असहायायाः जानक्याः शत्रुसदनवासजनितं यदेव कौलीनवीजमाविरभूत् तत्तु वह्निपरीक्षया चारित्र्यविशुद्धि परीक्षमाणेन मया सर्वथा भङ्गीकृतमपीत्यर्थः ; तदेतत् दैवस्य -दुरदृष्टस्य, दुर्विपाकात्-विषमपरिणामात्म् दशाविपर्य्यासाद्धेतोः इति यावत्। अलर्कः,-मात्तकुक्कुरः ( ‘शुनको भषकः श्वा स्यादलर्कस्तु स रोगितः’ इत्यमरः ) तस्येदमालर्कं विषमिव-मात्तकुक्कुरदंशजातगरलमिवेत्यर्थः ; यद्वा-शुक्लार्कवृक्षजन्यं ( ‘शुक्लेऽलर्कप्रतापसौ’ इत्यमरः ) पुनरपि-भूयोऽपि, सर्वतः प्रसृप्त-परितः व्याप्तम्। हा हा-अहो अतीव क्लेशप्रदमतत् ( हा इति खदसूचकमव्ययम्। दैन्ये द्विरुक्तिः )। धिक्, मामधन्यमिति शेषः। यथा हि कदाचिच्छरीरप्रविष्टं कुक्कुरविषं मन्त्रादिदैवोपायैः प्रतिकृतमपि पुनरलक्षितरूपेण सर्वावावेषु व्याप्तं सत् दौर्भाग्यवशात् बहुकालानन्तरं घोरविकाररूपेण आविर्भवति, तद्वदिदं वैदेहीगतं परगृहवासदूषणम् अग्निपरीक्षाऽऽदिना प्रतिकृतमपि पुनः सर्वराज्याङ्गेषु कालान्तरेण सर्वतः प्रसृतं तदधुना सर्वथैवेदमप्रतिविधेयं जातमिति भावः। किमिदानीमितः परं करवाणि मन्दभाग्यः ? दैवमचिन्त्य बलवच्चतिन्यायादित्याशयः। ( अत्र उपमाऽलङ्कारः स्फुटः। स च यथा हि मूलदाहाभावात् दाहिततृणमूलेभ्योऽङ्कुराणि समुत्पद्य वनवद् घनीभूय समन्तात् व्याप्नुवन्ति, तथा अग्निपरीक्षाच्छलेन मया दाहितोऽपि सीताऽपवादोऽयं पुनः प्रादुर्भूय पौरजानपदान् समस्तानेव व्यानशे ; अहो किं करवाणि ? इति वस्तुध्वनिं व्यनक्ति )। प्रहर्षिणी वृत्तम्, तल्लक्षणादिकन्तूक्तं प्राक्॥ ४०॥

तत् किमत्र मन्दभाग्यः करोमि ? (विमृष्य सकरुणम्) अथवा किमन्यत् ? (क) सतां केनापि कार्येण लोकस्याराधनं व्रतम्।
यत् पूरितं हि तातेन माञ्च प्राणाश्च मुञ्चता॥४१॥

(छ) तदित्यादि। -तत् तस्मात् लोकापवादस्य सर्वतः प्रसृतत्वादित्यर्थः, मन्दभाग्यः,-हतभागधेयः, लोकाननुरञ्जयितुं स्वगृहाधिदेवताभूतायाः अपि सीतायाः विसर्जने हेतुत्वादात्मनः दुर्भगत्वमुक्तम्। अत्र-एतयोः प्राणाधिकसीताविवासनदारुणलोकापवादरूपयोः मध्ये, किं करोमि-अन्यत् लोकसन्तोषणात् किं विदधामि ? प्राणेभ्यः गरीयसीमपि सीतान्त्यजामीति हृदयम्।
सकरुणं निर्भरं विलप्य बहुधा सीतायाः परीवादक्षालनोपायं कमपि चेतसा निश्चेतुमशक्नुवन् लोकानुरञ्जनस्य स्वकुलधर्मत्वेनावश्यपरिपालनीयत्वं समीक्ष्य सीताविवासनेन तद्दोषं परिमार्ष्टुमिच्छति, सतामिति। -केनापि कार्येण-येन केनापि उपायेन, निरपराधाया अपि सीतायाः निर्वासनेनेत्यर्थः, लोकस्य-लोकानामित्यर्थः, ( जातावेकवचनम् ) प्रकृतिपुञ्जानाम्, आराधनं-प्रीणनं, सतां-सज्जनानां, व्रतं-नियमवत् अवश्यमेव पालनीयम्। तदेव द्रढयति, यदिति। -यद्धि ‘-यदेव लोकानुराधनरूपं कुलव्रतं, पुनः, तातेन-पित्रा दशरथेन, मां-प्राणसम्मितं तनयं, प्राणान्-सजीवनञ्च मुञ्चता-विजहता सता, ( ‘लक्षणहेत्वोः क्रियायाः’ (३। २। १२६ पा०) इति पूरणक्रियाया हेतुत्वात् हेतौ शतृः )। पूर्तितं-परिपूर्णं कृतं ( ‘पूजितम्’ इति पाठे तु-पूजितं सत्कृत्य सयत्नं परिपालितमित्यर्थः। चकारद्वयोपादानात् कार्यकरनयोरैककालिकत्वं सूच्यते ; अत एवं व्रतरूपकारणस्य मद्वनवास स्वजीवनविसर्जनरूपकार्येणाभेदेनाभिधानात् हेत्वलङ्कारोऽपि ध्वन्यते ) कैकयीं प्रीणयितुमनपदाद्धं मां वनाय स्वप्राणान् चिराय विजहत् पिता दशरथः कुलधर्मानुपालनस्य पगं काष्ठां प्रदर्शितवान् ; तथा अहमपि निरपराधां दुर्वहगर्भगुर्वीं सीतां वने विसृजामि। इदानीं करुणां हृदयाभ्यन्तरात् दूरीकृत्यमानसमश्मसारवत् सुदृढं करणीयम्, अन्यथा लोकानुरञ्जनस्यासम्भावितत्वादित्याशयः। यतो हि भगवता वशिष्ठेन इदानीमेव, ‘जामातृयज्ञेन वयं विरुद्धास्त्वं बाल एवासि नवञ्च राज्यम्’ इत्यादिना कुलधर्ममनुपालयितुमभीक्ष्णामेवोपदिष्टम्, अतः सीतापरित्यागः मया सर्वथा कर्तव्यः इति तु सन्दर्भार्थः। (अत्र सतां केनाप्युपायेन प्रकृतिरञ्जनं करणीयमिति सामान्येनाऽप्रस्तुतेन मया येन केनापि तत् करणीयमेवेति विशेषावगतितः अप्रस्तुतप्रशंसाऽलङ्कारः मया जनरञ्जनं करणीयमित्यस्य पुत्रजीवितयोरत्ययेनापि पितृकर्त्तृकजनरञ्जनकृतत्वरूपस्वकारणेन समर्थनादर्थान्तरन्यासालङ्कारश्च ; तथा मोचनक्रियाऽभिसम्बद्धयोः प्रस्तुतयोः माञ्च प्राणाश्चेत्यनयोरन्वयादङ्गाङ्गिभावेन तुल्ययोगितया सङ्कीर्णौ )। अनुष्टुप् वृत्तम्॥४१॥

सम्प्रत्येव भगवता वशिष्ठेन सन्दिष्टम्। अपि च।
यत् सावित्रैर्दीपितं भूमिपालैः लोकश्रेष्ठैः साधु शुद्धं चरित्रम्।
मत्सम्बन्धात् कस्मला किं वदन्ती स्याच्चेदस्मिन् हन्त धिङ्मामधन्यम्॥४२॥

अथ आत्मनः दौर्भाग्यं विशादीकृत्यवेदयितुं दुग्धसिन्धुवत् सुविशालेऽतिधवले वैवस्वते कुले स्वसम्बन्धजनितं कलङ्कमाकलयति , यदिति। -सविता सूर्यः, ( ‘भानुर्हंसः सहस्रांशुस्तपनः सविता रविः’ इत्यमरः ) तस्य गोत्रापत्यैः ( ‘तस्यापत्यम्’ (४। १। ९२ पा०) इति सूत्रेण अण्प्रत्ययः ) सूर्यवंशीयैरित्यर्थः। लोकश्रेष्ठैः,-लोकेषु भुवनेषु जनेषु वा श्रेष्ठैः प्राख्यातैः, भूमिपालैः,-क्षात्रधर्मं भूमिपरिपालनं प्राणव्ययेनापि कुर्वद्भिरित्यर्थः, यत्- साधु, निरपवादमिति यावत्, चरित्रं-प्रजाऽनुरञ्जनादिकार्यजातं कुलमिवेत्यर्थः, दीपितम् उज्ज्वलीकृतं सर्वोत्कर्षतामापादितम् इति भावः। तदिदानीं किमभूत्, तदेवाह, मदिति। -अस्मिन् -एतस्मिन् एव महनीये कुले, मत्सम्बन्धात्-हतदैवस्य मम सम्पर्कात्, कस्मला-मलिना, किंवदन्ती-लोकवादः स्यात् भवेत् चेत्, तदा हन्त खेद, अधन्यं-दुर्भगमीदृशं, मां-धिक् ; एतादृशि अस्मिन् कुले कालुष्यमारोपयतः मम न केवलं वृथैव जन्मग्रहणं, प्रत्युत दिषैकाधायकत्वञ्च, किमितः परं खेदकरमस्तीति भावः। सीतासंरक्षणे तु कश्मलायाः किंवदन्त्याः, कथञ्चिदपि व्यपगमाभावात्, तदपवादस्य कियच्चोपशमनार्थः। सीताविवासनमिदानीं विधेयमेवेति निर्गलितार्थः। (एतस्मिन् किंवदन्तीभिरुद्दीपनविभावैः विलापादिभिरनुभावैः विषादचिन्ताऽदिभिश्च व्यभिचारिभिः परिपुष्टतां गतः शोकरीपस्थायिभावः करुणरसतां भजते। अत्र प्रसिद्धैः भूमिपालैः महनीयैः कर्मभिः उद्दीपिते अधन्येन स्वेन च सीतावनवासरूपातिजुगुप्सितकर्मणा कौलीनारोपणात् दूषिते सवितुरेकस्मिन् वंशे पूतत्वकश्मलत्वयोरन्योरन्योऽन्यविरुद्धधर्मयोः सङ्घटनात् विषमालङ्कारः )॥४२॥

हा देवि देवयजनसम्भवे हा स्वजन्मानुग्रहपवित्रीकैतवसुन्धरे हा जनकवंशनन्दिनि हा पावकवशिष्ठारुन्धतीप्रियसखि हा तातप्रिये हा स्तोकप्रियवादिनि कथमेवं विधायाः तव अयमीदृशः परिणामः ? (ज)- (ज) सीताविवासनस्यावश्यकर्तव्यत्वेनेदानीं निश्चयात् भृशमभिवर्द्धमानैः अनुशोचनाबहुलैः तद्गुणानां नियतमनुध्यानादिभिः शतधा उद्वेलस्य शोकावेगस्य प्रसारं सोढुमशक्नुवन् रोरुद्यमानः मुहुः विलपतिम् हा देवीति। -हा देवि -द्युतिमति रामस्य हतदैवस्य निखिलशुभाकरभूते इत्यर्थः ; मया सह अभिषिक्ता भूत्वाऽपि मम राजसुखोपभोगः भवत्याश्च वनेवासदुःखम्, इति मत्वा देवीति सम्बोधनम्। देवेति। -देवाः इन्द्रादयः इज्यन्ते अस्मिन् इति देवयजनं यज्ञभूमिः पृथिवीत्यर्थः , सा एव सम्भवः उत्पत्तिस्थानं यस्याः तथाभूते श्क्रशोणितदोषविनिर्मुक्तत्वात् जननादिदोषलेशरहिते इत्यर्थः। स्वजन्मेति। -स्वस्या आत्मनः जन्म सीतारूपेण शरीरपरिग्रह एवानुग्रहः दया तेन पवित्रीकृता महत्वमापादिता वसुन्धरा भूमिः यया तथाविधे स्वजन्मस्वीकारानुग्रहपूतीकृतभूमिवलये जनकेति। -जनकवंशस्य तन्नामरार्षेः कुलस्य ; अथ च जनक एव जनकः तात इत्यर्थः। (अत एव श्लिष्टरूपकालङ्कारः)। नन्दिनि आनन्द वर्द्धयित्रि त्वदभावे इदानीं तत्कुलं निरानन्दमेव भवेदित्यर्थः ; पावकेति। -पावकस्य सर्वदेवमस्य अनलस्य, विशिष्ठस्य ब्रह्मर्षेः अस्मद्गुरोः , अरुन्धत्याः सतीनां ललामभूतायाश्च, यत् प्रशस्तं प्रशसनीयं शीलं स्वभावः इत्यर्थः, अथवा तैः वशिष्ठादिभिः प्रशस्तं प्रशंसितकालुष्यनिर्मुक्तमिति यावत् यत् शीलं वृत्तादिकं तेन। शालत इति शालिनि परिशोभिते अतीव पवित्रचरिते । अतः त्वं परमपतिव्रतेति नास्त्यच्च संशय इति भावः। (अत एव उदात्तालङ्कारध्वानः ) रामैकेति। -रामस्य ममेत्यर्थः एकं केवलं जीवितं जीवनं तत्स्वरूपे त्वया विना रामः क्षणमपि न जीविष्यति, इति भावः। तथा चोक्तम्। - ‘अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्। तेनेयं स च धर्मात्मा मुदूर्तमपि जीवति ‘॥ इति। पक्षान्तरे-राम एव एकमद्वितीयं जीवितं यस्याः तथाभूते रामगतप्राणे (उभयत्र रूपकम् )।
महारण्येति। -महारण्यं दण्डकारण्यं तस्मिन् यो वासः वसतिः तत्र प्रियसखि मिथःसम्भाषणादौ प्रीतिविवर्द्धिनि सर्वेषामपि वनवासशोकशतानां हितमधुरभाषणादिना समूलमुन्मूलनात् ‘समप्राणः सखा मतः’ इत्युक्तेः महानन्दविधायिनि इत्यर्थः। तातेति। -तातानां दशरथादीनां प्रिये प्रीतिविधायिनि (अतस्तव परित्यागेन स्वःस्थस्य पितुरप्यहं क्लेशकारणं भविष्यामीति भावः ध्वन्यते )। स्तोकेति। -स्तोकम् अल्पञ्च प्रियं वदितुं शीलं यस्याः तथाभूते मितमधुरवादिनि एवंविधायाः-ईदृशगुणगणोपेतायाः (गर्भस्थितपवित्ररघुकुलाङ्कुराया अपि इति ध्वन्यते ) कथं-केन हेतुना, कस्य विषमस्य जन्मान्तरीणकर्मणः दुर्विपाकवशात् इत्यर्थः। ईदृशः,-शाकुनिकैः श्वापदेभ्यः विसृष्टस्यामिषस्येव परिणामः,-दशाविपर्ययः ? अजनि इति शेषः। आदर्शपूतचरितायाः असाधारणगुणग्रामविभूषितायाः ते ईदृशारुन्तुदः परिणामः अतीव मर्मनिकृन्तन इति तात्पर्यम् । (अत्र समुदायवाक्ये तु एतेषामेव प्रकृतार्थपरिपोषणाभिप्रायेण प्रयुक्तानां विशेषणासङ्घानां साभिप्रायकतया परिकरालङ्कारः। - ‘उक्तिर्विशेषणैः साभिप्रायैः परिकरो मतः’ इति लक्षणात् )।
त्वया जगन्ति पुण्यानि त्वय्यपुण्या जनोक्तयः।
नाथवन्तस्त्वया लोकास्त्वमनया विपत्स्यसे॥४३॥

सतां स्वभावपरिपूतानां दैवदुर्विपाकवशात् समापतन्तः दशाविपर्ययाः भृशं हि चेतसामुन्माथका भवन्तीति विभाव्य दैवस्याचिन्तनीयप्रसरन्त्वमभिधत्ते, त्वयेति। -त्वया-सतीनामग्रण्या, पूतचरितयेति यावत् ; जगन्ति-त्रिलोकीत्यर्थः ; पुण्यानि-( ‘पूञो यत् णक् ह्रस्वश्च’ (उणा ५। १५) इति पुण्यं-पवित्रता, ततः अर्श आदित्वात् अच्। अत एव अमरः, ‘अथ त्रिषु द्रव्ये पापपुण्यसुखादि च’ इति। ) पवित्राणि, स्वजनेष्विति शेषः। जनानामुपजीव्यविरोधमाशङ्कते त्वयीति। -त्वयि-भवत्यां, जनोक्तयः,-लोकवचनानि, अपुण्याः,-अपवित्राः जनानाम् एतानि निन्दावचनानि इत्यर्थः, लङ्कामध्युषिता सीता दुर्वृत्तदशाननेन नूनं दीषिता इत्येवंरूपाः बहुवादाः अकीर्तिकराः अपुण्यजनकाश्च कथं हि आविर्भूताः अहः लोकानां नाथः त्वञ्च ममापि गृहाधिदेवताभूतत्वात् नाथभूता भवसि, लोकैः मयि निधापितं नाथत्वं त्वत्कृतमेव त्वं तात्विकतया लोकानां नाथभूता भवसि, मम नाथत्वमौपचारिकमेवेत्याशयेनाह, नाथेति। -त्वया जनाः, नाथ्यन्ते प्रार्थ्यन्ते इति नाथाः अभीष्टवस्तूनि मङ्गलानीति यावत्, तद्वन्तः सम्पन्नाः रक्षकवन्तः वा भवन्तीति शेषः, लक्ष्मीभृतत्वात् तस्या इति भावः। त्वं स्वयं मयि नाथे स्थिते सतीत्यर्थः, अनाथा-अशरणा सती, विपत्स्यसे-विपन्ना भविष्यसि ? सर्वथा विगर्ह्योऽयं संसारः निर्विवेकश्च विधिरिति भावः। प्रतिकूलवर्तिनः विधातुः चरितं नूनं सुदुःसहं वतेति तु सङ्क्षेपः। (अत्र एकस्मिन् वस्तुनि सीतायाम् अत्यन्तमसम्भवतोः विभिन्नकालीनयोः पुण्यवदपुण्ययोः नाथवदनाथयोश्च विरूपयोः सङ्घटनात् अन्योऽन्यविरुद्धकार्यकारणयोश्च वा जननात् विषमालङ्कारः। - ‘विरोधाभासः शङ्कनीयः ; विरोधे हि देशिकः कालिकश्च उभयविध एव विरोधः भासते, विषमे न तथाम् केवलं दैशिकः एव, अत्र उभयविधविरोधाभावात् केवलं दैशिकविरोधसत्वात् इति ध्येयम् )। पथ्यावक्तं वृत्तम्॥४३॥

(दुर्मुखं प्रति) दुर्मुख ब्रूहि लक्ष्मणम्;-एष ते नूतनो राजा रामः समाज्ञापयति। (कर्णे एवमेवम्) (झ) (झ) नूतनः,-अदृष्टाऽश्रुतपूर्वचरिततयाऽभिनव इत्यर्थः, यतोऽस्यैतादृशी विगर्हिता वृत्तिर्यद्विदितसर्ववृत्तान्तोऽपि परीक्षया सीतां निर्द्दोषां स्वगतजीवितां प्रियतमां जानकीं प्रति एवं नृशंसमाज्ञापयतीति भावः। यद्वा नूतनः राजा इति। -राज्यरक्षणकार्याणां कदाऽपि पुरा अकृतत्वेन नवे राज्ये अभिषिच्य एव ‘प्रजारञ्जनं हि केवलं राज्ञां परमः धर्मः’ इति मन्यमानः करुणाऽऽकरोऽपि स्वयं स्त्रियाः कठोरगर्भाया अपि सीतायाः विवासने करुणालेशविरहितः, अतः कुतः तस्य कार्य्याकर्यविवेकविधुरस्य राजपदभाक्त्वम् ? राजेति विशेषकन्तु तस्य सर्वथा नूतनमेव एवंविधराजचरितस्यादृष्टाश्रुतपूर्वत्वादित्यवधेयम्। केचित्तु नवं नृपासनमध्यारुह्यैव एष स्वानाम् अपरेषाञ्च सुखजननादृते तेषां निर्वासनं प्रथमतः करोति, अतस्तस्य सर्वथैव नूतनत्वम्म् पुरा तु कदा केनाऽपि राज्ञा एवं नृशंसस्य कर्मणः अननुष्ठितत्वादिति व्याचक्षते। एवमेवमिति। - तपोवनप्रदर्शनमिषेण वाल्मीकिवनोपकण्ठं सीतां विसर्जय इति भावः।
दुर्मुखः। कधं दाणीम् अग्गिपरिसुद्धाए गभ्वपरिप्फुडिद-पिबत्तरहुउलसन्ताणाए देईण दुज्जणबअणदो एब्बं अणज्जं अञ्झबसिदं देएण? (ञ) रामः। शान्तम्। कथं दुर्जनाः पौरजानपदाः ? (ट)

कथमिदानीमग्निपरिशुद्धया गर्भपरिस्फुटितपवित्ररघुकुलसन्तानायाः देव्याः दुर्जनवचनादेवमनार्यमध्यवसितं देवेन ? (ञ) कथमिति। -केन हेतुना दुर्जनानां बीभत्सचरितानां पौरजानपदानां वचनात् ‘सीता कलुषिता’ इति वाक्यमात्रत एव देवेन विवेकिना परमकृपालुनाऽपि भगवता महाराजेन त्वया ; अग्निना परिशुद्धाया सर्वथा निर्णीतविमलचरितायाः तस्यास्तथाभूतायाः, जनापवादाङ्कुरोन्मूलनाय सर्वसमक्षमग्नौ प्रविश्य तवापि स्वापातिव्रत्यनिष्ठतया दाहासम्पर्केण विख्यापितशोभनचारित्र्याया इति यावत् ; गर्भेण कुक्षिस्थेन शिशुना परिस्फुटितः अविदितः पवित्रः अतीव पूतः जारजातत्वादिदोषादुष्टः रघुकुलसन्तानः रघुवंशाङ्कुरः यस्याः ; यद्वा गर्भे उदरे परिस्फुटितः जनितः पवित्रः रघुकुलसन्तानः यस्याः तथाविधायाः, (एतेन अशरणायाः तस्याः विवासने न केवलं तन्नाशजायमानं पातकम्, अपि तु रघुकुलोच्छेदश्च भविष्यति इति सूच्यते ) अत एवमनार्य्यं-सतामननुमतं कर्म अध्यवसितम्-अनुमोदितमाज्ञप्तमित्यर्थः।
(ट) शान्तमिति। -मा मैवं भण प्रजासु ; ते दुर्जना इति त्वया नैव वाच्यमित्यर्थः। पुरवासिनः वैदेशिकाश्च कथं केन हेतुना दुर्जना अभूवन् ? ते तु सर्वथा सज्जना एवेति रामाशयः।
इक्ष्वाकुवंशोऽभिमतः प्रजानां जातञ्च दैवाद्वचनीयबीजम्।
यच्चाद्भुतं कर्म विशुद्धिकाले प्रत्येतु कस्तद्भुवि दूरवृत्तम्॥४४॥

कथं हि स्वभावपरिपूतायामपि सीतायाम् एवमयथा दोषमुद्भावयन्तोऽपि ते पौराः सज्जना इत्युच्यते, तदेव सयुक्तिमभिधत्ते, इक्ष्वाकुवंश इति। -इक्ष्वाकोः राजर्षेः वंशः प्रजाश्रयभाजनम् अन्ववायः तत्प्रभृति मदवधिरित्यर्थः , प्रजानां-प्रकृतिपुञ्जानाम्, अभिमतः,-प्रेयान् , पौरजानपदाः कदापि मनसा इक्ष्वाकुवंशीयानाम् अशुभं न आशंसन्ते सुचिरमनुरक्ताः ते तेषु राजसु इति भावः। ( ‘इक्ष्वाकुवंशोद्भवतः’ इत्यतपि पाठान्तरं दृश्यते, तदर्थस्तु-इक्ष्वाकुवंशादुद्भवः उत्पत्तिर्यस्य तथाभूतादधन्यात् कुलपांशुलात् मत्तः इत्यर्थः। पञ्चम्यां तसिल् )।
तर्हि सीतायां कथं ते एवं परीवादपरायणाः ? इत्याशङ्कां परिहरति, दैवादिति। -देवात्-दुर्दैववशात् अस्माकमिति शेषः, प्राक्तनकर्मणां विषमयात् परिणामादिति भावः। वचनीयबीजं-लोकापवादजीवं, जातं समुद्भूतम् उप्तमित्यर्थः, तत्राऽतिविशुद्धे वैवस्वतमनोरन्वये इति शेषः। ) पूर्वेषान्तु महाभागानां तथाविधदुर्दैवाभावात् वचनीयावसरो न जातः, अधुना तु अधन्यस्य मे तथात्वात् ते निन्दन्तीति भावः। ननु वैदेश्याः वह्नौ विशोध्य गृहीततया लङ्केश्वरस्य भवने सुचिरस्थितिनिबन्धनं दूषणं परिहृतं, तत् कथमिदानीं तद्वचनीयतापातमाशङ्कते ? इत्यत आह, यच्चेति। - यतः, विशुद्धिकाले-अग्निना सर्वथा परिशुद्धिसमये, यच्च अद्भुतं-लोकोत्तरं कर्म, पतिव्रताऽदर्शभूततया तस्याः तदधिष्ठात्र्या सम्यक् समाश्वासनम्, अक्षतशरीरतया चाग्निमध्यात् साभरणायाः सचेलायाः तस्याः निष्क्रमणञ्च देवैः गुरुभिः दशरथादिभिश्च मां प्रति बोधनम् इति, दूरे सुदूरवर्तिन्यां समुद्रमध्यवर्तिन्यां लोकैरगम्यायां लङ्कायां सम्पन्न, अतस्तदद्भुतं कर्मेति शेषः, भुवि कः प्रत्येतु-विश्वसितु ? यदि पौरजानपदास्तत् न विश्वसन्ति, तत्र तेषां दोषो नास्ति इति रामाशयः।
(अत्र वचनीयबीजं प्रति प्रजाऽनुरक्तिर्दैवायत्तत्वात् दुरवृत्तत्वादिरूपाणां भूयसां कारणानां खले कपोतिकान्यायात् तत्करत्वेनाभिधानात्) समुच्चयालङ्कारः, अपि च प्रत्ययाभावरूपकार्यं प्रति दूरवृत्तत्वपदार्थस्य हेतुत्वेनोत्कीर्तनात् पदार्थहेतुकं काव्यलिङ्गमित्येनयोरन्योऽन्यसापेक्षतया सङ्करः )। इन्द्रवज्रा वृत्तम्। - ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः’ इति लक्षणात्। एकादशाक्षरपादच्छन्दसां ३५७ तमप्रस्तारान्तर्गतञ्च॥४४॥

तद् गच्छ। दुर्मुखः। हा देइ (इति निष्क्रान्तः) रामः। हा कष्टमतिबीभत्सकर्मानृशंसौऽस्मि संवृत्तः (ठ)- हा देवि (ठ) (लतिबीभत्स्यते अतिशयेन निन्द्यते इदमिति अतिबीभत्सं, बीभत्सतेः कर्मणि अप्। बधेश्चित्तविकारे इति धातोः नित्य सन्। ‘मान् बध दान् शान्भ्यो दीर्घश्चाभ्यासस्य’ (७। १। ६ पा०) इति दीर्घत्वम् )। बीभत्सं जघन्यं, तादृशं कर्म यस्य स तथोक्तः, जुगुप्सिताखिलवृत्तः, अलीकलोकापवादभिया सतीमपि स्त्रियं विजहदित्यर्थः। (नन् मानवान् शंसति हिनस्तीति नृशंसः। नृशब्दोपपदात् शंसतेरच् )। नृशंसः,-क्रूरकर्मेत्यर्थः। संवृत्तोऽस्मि-सीतायां पाषाणवदतिकठोराशयः भवामीति।
शैशवात् प्रभृति पोषितां प्रियाम् सौहृदादपृथगाश्रयामिमाम्।
छद्मना परिददामि मृत्यवे सौनिको गृहशकुन्तिकामिव॥४५॥

तत् किमिति अस्पर्शनीयः पातकी देवीं दूषयामि (ड) सीताविवासने आत्मनः समधिकं क्रौर्यं विश्वासघातकत्वञ्च सविलापं विवृणोति, शैशवादिति। -शैशवात् प्रभृति-अशैशवं, बाल्यकालादारभ्येति यावत् ( ‘कार्तिक्या आग्रहायणी मासे कार्तिक्याः प्रभृति’ इति भाष्यप्रयोगात् प्रभृतियोगे पञ्चमी) पोषितां-सयत्नं प्रतिपालितां, सौहृदात्-प्रणयातिरेकादित्यर्थः (सुहृदो भावः इत्यणि ‘हृद्भगसिन्धन्ते पूर्वपदस्य च’ (७। ३। १९ पा०) इति सूत्रेण उभयपदवृद्धौ प्राप्तायामपि असिद्धविधेरनित्यत्वात् प्रथमपदवृद्धिः इति केचित् ; केचित् तु आहुः सौहार्दमित्यस्यैव साधुत्वमवधेयम्। ) अपृथक् अभिन्नः एकः आश्रयः आलम्बनं यस्याः तथाविधां-मदेकानुरागिणीं मां विहाय किमप्यजानतीमित्यर्थः, इमां प्रियां-प्रीतिकरीं, प्राणेभ्योऽपि गरीयसीम् (शिशुद्वयञ्चेत्यपि व्यज्यते )। सौनिकः-मांसविक्रयीव, (षू-प्रेरणे इति तौदादिकस्य सुवतेः क्तः, ततः आप्, सूना-प्राणिवधस्थानं प्राणिवधश्च। सूनं सूना वा जीविका यस्य स सौनिकः ( ‘वैतंसिकः सौनिकः स्यात् कौटिको मांसविक्रयी’ इति अमरमाला। ) गृहशकुन्तिकां-गृहपालितपक्षिणीमिव यत्नतः गृहेषु परिवर्द्धितां पक्षिणीमिव (अनुकम्पायां कन्) छद्मना-छलेन, दोहदपूरनमिषेण मृत्यवे-अन्तकाय परिददामि-अर्पयामि, एतस्या विनाशं साधयामीत्यर्थः। यथा हि लुब्धकः शाकुनिकः आ शैशवात् परिपालितां प्रियामपि पक्षिणीं धनलालसया पिशितलोलुपेभ्यः विक्रीणातिम् तथैवाहमपि सरलहृदयां मदेकजीवितां सीतां दोहदपूरणव्यपदेशेन वनाय विसृजामि, अतः अहो मे क्रौर्यमिति भावः। (अत्र पूर्णोपमाऽलङ्कारः, एतेन रामस्यातीव क्रौर्यं ध्वन्यते ; इत्यलङ्कारेण वस्तुध्वनिः )। रथोद्धता वृत्तम्। - ‘रात् परेर्नलगौ रथोद्धता ’ इति लक्षणात् ; एतच्च ६९९ तमप्रस्तारान्तर्भूतम्॥४५॥

(ड) तदित्यादि। -तत्- तदा स्वस्यातीवाधन्यत्त्वाद्धेतोः , अस्पर्शनीयः,-अतिपवित्रां सीतां स्प्रष्टुमप्यक्षमः इत्यर्थः, पातकी-पतिव्रतायाः भार्याया अशरणायाः श्वापदसङ्कुले वने विसर्जनात् मृत्युमवधार्य स्त्रीभूणादिहत्यादिनिबन्धनपातित्यवान् अहमिति शेषः। अपतितानां परित्यागे पातित्यमाह गोतमः, यथा- ‘ब्रह्महा पतिताऽत्याग्यापतितत्यागिनश्च पतिताः। ‘इति। देवीं-सत्करार्हां, पवित्रां सीतामिति यावत्, किम्-कथं हि नाम, दूषयामि-तद्देहस्पर्नादिभिः प्रकृत्यैव परिपूतां पापिनीं करोमीत्यर्थः। पतितस्पर्शे पापसङ्क्रमोऽपि भवति, तथाहि-गरुडपुराणम्। - ‘आलापात् गात्रसंस्पर्शात् संवासात् सह भोजनात्। आसनात् शयनात् यानात् पापं सङ्क्रमते नृणाम्। ‘इति।
(सीतायाः शिरः स्वैरमुन्नमय्य बाहुमाकर्षन्। (ढ))- अपूर्वकर्मचाण्डालमतिमुग्धे विमुञ्च माम्।
श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम्॥४६॥

(ढ) स्वैरमिति। स्वैरम्मन्दं मन्दम्, उन्नमय्य-उत्थाप्य, (उत्पूर्वकात् नमयतेः ल्यप् ‘ल्यपि लघुपूर्वात्’ (६। ४। ५६ पा०) इति णेः अयादेशः)। बाहुमाकर्शन्-उपधानभूतं स्वकरं तन्मस्तकादपसारयन्।
अपूर्वेति। -अयि मुग्धे सरलहृदयत्वात् कूटविवेकविरहिते इत्यर्थः। त्वमिति शेषः। अपूर्वेण अदृष्टचरेण अश्रुतपूर्वेण च कर्मणा सतीत्यागरूपेणेत्यर्थः, चण्डाल एव चाण्डालः, यद्वा-अपूर्वश्चासौ कर्मचाण्डाल तं नृशंसबीभत्सवृत्तमित्यर्थः , (निषादोऽपि स्वानुरक्तां सतीं गर्भिणीं स्वपत्नीमेवं न त्यजति, अहन्तु, निरपराधामापि तां त्यजामीति ततोऽप्यधिकः संवृत्त इति व्यतिरेकश्च व्यज्यते। नाहं जात्या चाण्डालः, परन्तु कर्मणा तथाभुत एव भवामीति भावः। तथा हि वशिष्ठः, – ‘असूयकोवा पिशुनः कृतघ्नो दीर्घरोषकः।
चत्वारः कर्मचाण्डालाः जन्मतश्चापि पञ्चमः॥’ इति।
एतेभ्यः अधिकत्वादेतेष्वन्तर्भुक्तत्वाच्चात्मनः अपूर्वत्वमुक्तं रामभद्रेणेति अवधेयम्)। तथाभुतं मा चिमुञ्च-विजहीहि ; अतिनिष्करुणां मामाश्रितायाः तवैतादृशं समजायत दुःखमिति भावः। यदि तात्त्विक एव त्वमेवम्भूतः भवसि, तदा कथं नाम पुरा सतीनापि शरणमासीः ? इत्याशङ्कां निरस्यति, परित्यागस्य चावश्यकरणीयत्वमभिधत्ते, श्रितेति । -त्वं चन्दनभ्रान्त्या-घनसारद्रुमभ्रमेण, दुर्विपाकं-दुःखजनको विपाकः परिणामो यस्य तं तथोकदतं, प्राणसंहारकमित्यर्थः, प्रथमतः प्रणयप्रदतया प्रतीयमानमपि परिणामे अनुनतुदमित्यर्थः। विषद्रुमं विषवृक्षं-श्रितासि। सत्पुरुषभ्रमेण अतिक्रूरकर्माणं मामाश्रितासीति भावः। त्वं शीतलबोधेन हृदि परिपालयसि मां पुनः प्राणघ्नं विषमिति न जानासीति महती ते भ्रान्तिरित्यर्थः।
अत्रेदमवधातव्यम्,-दृश्यते हि कोले फलिनतरुजातीयानामपि पादपानां बन्ध्यत्वे तान् छिन्दन्ति जनाः, अशुभावहत्वे तु सुतरामेवेति, तत्रापि विषप्रसवत्वे कथैव नास्ति, दुर्विपाकतया लोकनाषकत्वे तु सर्वथा तेषां छेदनमेव प्रसक्तम् इत्यत्र किमुत वक्तव्यम्। यदि पुनः ‘विषवृक्षोऽपि संवर्द्ध्य स्वयं छेत्तुमसाम्प्रतम्’ इति न्यायात् सयत्नपरिवर्द्धितस्य छेदनं न समीचीनमिति विभाव्यते, तथाऽपि तत्परित्यागस्तु सर्वथैव समुचितः। अतस्तथाविधं विषद्रुमदेशीयं मां सपदि विमुञ्चेति रामाशयः।
(अत्र चन्दनद्रुमभ्रमेण विरुद्धविषद्रुमसंश्रयणं सर्वथाऽसम्भवदपि तयोरविरुद्धसम्बन्धः कल्प्यते, स चासम्भवन् अपि चन्दनतरुभ्रमेण विषवृक्षसमाश्रयणमिव त्वया सुपुरुषभ्रमेण अतिदुर्जनाश्रयः कृतः इति बिम्बप्रतिबिम्बभावं बोधयति अतः असम्भवद्वस्तुसम्बन्धरूपा निदर्शना ज्ञेया )॥४६॥

(उत्थाय) हन्त वीपर्यस्तः सम्प्रति जीवलोकः; अद्य पर्यवसितं जीवितप्रयोजनं रामस्य; शून्यमधुना जीर्णारण्यं जगत्; असारः संसारः कष्टप्रायं शरीरम्; (ण) अशरणोऽस्मि; कीम करोमि; का गतिः; क्व गच्छामि? अथवा; (त)- (ण) हन्तेत्यादि। -हन्त इति खेदे अव्ययम्। जीवानां प्राणिनां लोकः, जीवलोकः,-निखिलप्राणिसनाथमेतत् भूवलयमित्यर्थः, सम्प्रति सीताविरहे विपर्यस्तः,-विरुद्धं परि सर्वतः अस्तः विक्षिप्तः, अन्यथाभृतत्वमागतः, विरुद्धः परिणत इत्यर्थः, अधुना सर्वमेव मे दुःसहासीमदुःखायतनमिव प्रतिभाति, प्रियतमान्यपि वस्तूनि इदानीम् अप्रियतां गतानि, किमधिकम् ? ‘तदा रम्याण्यरम्याणि प्रियाः शल्यं तदाऽसवः। तदैकाकी सबन्धुः सन् इष्टेन रहितो यदा॥ ‘इति न्यायात् जीवितमपि कष्टजनकमिति भावः। रामस्य जीवितप्रयोजनमद्य पर्यवसितं-परिसमाप्तं, स्वजीवनाधिकवैदेहीविरहिततयेति शेषः। स्वजनानां सुखमेव गृहिणां जीवितप्रयोजनं, मम तु सम्प्रति सर्वथैव तस्यासम्भवत्वादतः परं जीवधारणं निष्प्रयोजनं फलाभावदित्यर्थः। इदं जगत् जीर्णं पादपलतादिभिः परिहीणतया भग्नविरलप्रायम् अरण्यं वनं तृप्त्यभावात् जीवसङ्घैरसेवितं विफलमिवाभाति। संसाराऽपि असारः,-सारहीनः ; सती भार्या सत्पुत्रश्च संसारे सारं, तद्विनाकृतताया ओतुकतत्यागस्य च शोकोत्पादहेतुतया अरमणीयः समजनि। कष्टानां क्लेशानां प्रायो बाहुल्यं यत्र तथाविधं सन्तापभूयिष्ठमित्यर्थः शरीरं, तदभावस्य सर्वस्यैव वस्तुनः दुःखहेतुभूतत्वादि भावः। (अस्मिन् सन्दर्भे अतिशयोक्तिरलङ्कारः )।
(त) अशरणोऽस्मि-नास्ति शरणं रक्षिता यस्य तथाभूतः, ( ‘शरणं गृहरक्षितोः’ इति यादवः) निराश्रयो भवामि, अनवलम्बोऽस्मीत्यर्थः। दुर्विषहदुःखहस्तादात्मानं रक्षितुमिति शेषः। ‘गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ’ या हि वैदेही पुरा मे आसीत्, तया विना अहमधुना सर्वैरेव विरहितोऽस्मीति भावः। का गतिः,-कोऽभ्युपायः ? समाश्वासं प्रतीति भावः ; आश्वासोपायान्वेषणमिदानीं निष्फलमिति हृदयम्। इह स्त्रीविरहितत्वात् परत्र च एवं विधपातकिनः नरकपातम्यावश्यम्भावित्वात् नास्ति निष्कृतिः इति वाऽशयः, क्व गच्छामि ?-किमरण्यम् ? उत पातालविवरम् ? अथवा निधनं व्रजामीति विकल्पिताशयः।
दुःखसंवेदनायैव रामे चैतन्यमर्पितम्।
मर्मोपघातिभिः प्राणैर्वन्रकीलायितं स्थिरैः॥४७॥

इदानीं पक्षान्तरमधिकृत्य आत्मनः सुमहत् दौर्भाग्यमावेदयन्, स्वभाग्यविपर्ययवशात् सर्वमेतदसम्भाविता दुःखसन्ततिः आपततीति सूचयति, दुःखेत्यादि। - दुःखानां क्लेशानां संवेदनमनुभवः तस्मै, (निरवच्छन्नदुःखसमूहमुपभोक्तुमेवेत्यर्थः न तु सुखभोगाय इति ध्वनिः। निमित्तार्थे तुमर्थे वा चतुर्थी)। रामे-(हतभाग्ये मयीति ध्वनिः ) चैतन्यं-सञ्ज्ञा (न तु कदापि ज्ञानहीनता इति ध्वनिः ) अर्पितम्-आहितम्। दुर्दैवभूतेन विधात्रेति शेषः, (न तु स्वयं जातम् इति ध्वनिः ) सत्यपि चेतनधर्मे सुखदुःखादौ अधन्यस्य मे भाग्यविपर्ययात् नियतं दुःखानुभूतिरेव भवतीति बोध्यम्। काञ्चित् सुखानुभूतिं विना प्राणैः कथमपि न स्थीयते, अतस्त्वया सुखसम्भिन्नमेव दुःखं नूनमुपभुज्यते इत्याशङ्कामपनेतुमाह मर्मेत्यादि। -म्रियते यस्मिन्नाहते इति मर्म (म्रियतेः मनिन् प्रत्ययः ) जीवनस्थानम्। मर्मणि उपघातो विद्यते येषां तैस्तथोक्तेः, यद्वा मर्माणि उपघ्नन्ति विव्यथयन्ति ये तैः अरुन्तुदैः (हन्तेः णिनिः। न तु सुखप्रदैः इति ध्वनिः ) तथापि स्थितैः,-निश्चलैः (न तु तदसहनात् चञ्चलैः इति ध्वनिः) प्राणैः (न तु शरीरैः इति ध्वनिः ) वज्रकीलः वज्रमयः शङ्कुः इत्यर्थः, तेनेवाचरितं (न तु वंशदण्डादिवत् भुग्नमिति ध्वनिः)। अहो कठिनता प्राणानां यन्मर्माहता अपि न देहान्निर्गता इति भावः। एवञ्च प्राणविगम एवेदानीं श्रेयानिति रामाशयः। केचित् तु ‘प्राणैः चैतन्यं वज्रकीलायितम्’ इति अन्वित्य ‘सतः प्राणरूपैः वज्रकीलैः कीलितं चैतन्यम्, अतो वहिर्निर्गन्तुं नेष्टे’ इति व्याख्यानयन्ति, तदसत्,-अन्वयानुपपत्तेः। केचित् तु ‘वज्रकील-अयितम्’ वज्रकीलत्वं गतम्, इति व्याचक्षते,-तदपि न विचारसहम्, समासाभावात्। अन्ये तु ‘वज्रकीलत्वं गतम्, इति व्याचक्षते,-तदपि न विचारसहम्, समासाभावात्। अन्ये तु ‘वज्रिकीलयितम्’ इति पठन्ति, व्याख्यान्ति च-वज्रकीलविशिष्टं कृतम्-(वज्रकीलवत् शब्दात् तत्करोत्यर्थे णिनिः, मतुपो लुक् ) अयमेव पक्षः साधीयान् इति मन्यामहे वयम् इति दिक्। (अत्र गद्योक्त- ‘अथवा’ -पदेन अन्वयात् आक्षेपालङ्कारः, तथा वज्रकीलायितमित्यत्र तु क्याङा सादृश्यबोधनात् उपमालङ्कारः, अनयोः तिलतण्डुलवन्नैरपेक्ष्येणावस्थानात् संसृष्टिः वेदितव्या )॥४७॥

हा अम्ब अरुन्धति हा भगवन्तौ वसिष्ठविश्वामित्रौ हा भगवान् पावक हा देवि भुतधात्रि हा तात जनक हा तात हा मातरः हा प्रियसख महाराज सुग्रीव हा सौम्य हनूमन् हा परमोपकारिन् लङ्काधिपते विभिषण हा सखि त्रिजटे दूषिताः स्थ परिभुताः स्थ रामहतकेन। अथवा को नामाहमेतेषामाह्वाने ? (थ)- (थ) हेति। -हा अम्ब मातः ( ‘अम्बार्थनद्योः ह्रस्वः (७। ३। १०७ पा०) इति सूत्रेण ह्रस्वः )। गुरुपत्न्याः मातृसमत्वादिति भावः। सतीनामप्यग्रण्याः अरुन्धत्याः सीतायाः पातिव्रत्यानुमोदनात् तद्वचसामप्यप्रमाणीकृतत्वेन, तां सम्बोध्य इयं सखेदोक्तिः। भगवन्ताविति। -आर्षप्रतिभचक्षुष्मतां भगवतामपि वशिष्ठविश्वामित्राणां दिव्यदृष्टिः दुर्जनेषु प्रतिहता अभूदित्याशयः। पिशुनाः तत्रभवतां वाचः सुविमलेष्वपि न प्रतियन्तीत्याशयः। पावकेति। -हा भगवन् हिरण्यरेतः तव पावनानि वचांसि अपि दुर्जनाः न विश्वसन्ति, त्वत्प्रवेशपरीक्षा च व्यर्थीभूता।
देवीति। -हा देवि द्युतिमति भूतानां सर्वेषां प्राणिनां धात्रि रक्षयित्रि कथं त्वमेवंविधान् दुर्जनान् कल्मषरहितायै त्वत्सुतायै अयथाऽसूयतः विफुलं वक्षसि सततं वहसि इति भावः। तातेति। -हा तात पितः जनक (पञ्च पितृत्वात् श्वशुरेऽपि तद्व्यपदेशः ) विदेहाधिपते हा तात पितः दशरथ हा मातरः कौशल्यादयः, युष्माकमपि वचनानि दुर्जनाः न विश्वसन्ति, मया तु अधन्येन तदनुरञ्जनमभीप्सया गुरुजनपूतवचनानि अपि परिहृतानि इति भावः।
प्रिय सखेति। -हा प्रियसख परमसुहृत् महाराज किष्किन्ध्याधिपते सुग्रीव तव एतावान् प्रयासः यत् स्वसहोदरमपि विनाश्य मम साहायकसम्पादनञ्च कृतं सर्वमप्येतत् विफुलमभूदित्याशयः। सौम्येति। -हा सौम्य साधो पूतचरित हनूमान् भवान् बहुना आयासेनाऽधिगतं सीतासंवादं मह्यं निवेद्य, समरशिरसि च सुमहाक्लेशं संविधाय, मम यदभूतपूर्वमानन्दमजीजनत्, तेन च मदालिङ्गनसौभाग्यभागासीः, तत्सर्वमधुना विफलमभूदित्याशयः।
परमेति। -हा परमोपकारिन्, स्वसहोदरस्यापि जीवनमनादृत्य किं पुनः स्वपक्षम्, आत्मभूतं पुत्रमपि विनाश्य सीतोद्धरणे मे महोपकारकारक तवाऽपि महोदर्कं कार्यजातं किमपि फलं नाऽसूतेति भावः। सखीति। -सखि प्राणसमे त्रिजटे त्रिजटा नाम अतीव सीतायां वत्सला काचित् राक्षसी अशोकवनिकायां रावणेन सीतापरिरक्षणाय नियुक्ताऽपि रामविरहशोकार्ताया भीतिविह्वलायाः वैदेह्याः सान्त्वनाप्रवणैः वचोभिः प्रतप्तं तन्मानसं कियच्च समतीतृपत् ; इयं हि सीतामनुकूलयितुं नियुक्तानां चेटीनामेकतमाऽसीत्, अतस्तामुद्दिश्येत्थमभिधानं वेदितव्यम्। रामहतकेनेति। -हत एव हतकः, सीताविवासनात् विगतश्रीकतया दुर्भगः, ( ‘कुत्सितानि कुत्सनैः’ (२। १। ५३ पा०) इति सूत्रे ‘विशेषणं विशेष्येणेति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः’ इति काशिकावनात् रामः इति विशेष्यस्य पूर्वनिपातः कुत्सितार्थाभिधायकत्वात् )। महाभागानामरुन्धतीप्रभृतीनां वचांसि अविगणय्य दुर्जनवाक्यानुसारतः सीतायाः विवासनादात्मनः अधन्यत्वमभिहितम्। दूषिताः,-संसर्गादिना अपवित्रीकृताः, परिभूताः- तिरस्कृताः ; अवमानिताः इति यावत्। येयं सर्व्व एव सीताचरिते विशुद्धे किमपि अविशङ्कमानाः सममेव तां स्वीकर्तुमवोचत, दुरात्मना मया तु तां पांशुलामाशङ्क्य वने विवास्य युष्मद्वचांसि न प्रमाणीकृतानि, प्रत्युत तानि मिथ्याभूतानीति निरणायि ; किमतः परं खेदकरमस्तीतीति भावः। ( ‘मुषिताः’ इति पाठे-सीतारूपापहृतसर्वस्वतया विनष्टधनाः वञ्चिताश्च इत्यर्थः। मुष्णातेः रूपमेतत्। ) अथवा-पक्षान्तरे, नामेति कुत्सायाम्। ( ‘नाम प्राकाश्यसम्भाव्य क्रोधोपगमकुत्सने’ इत्यमरः। ) तेषां-पूतात्मनाम्, आह्वाने-आकारणे, कोऽहं -किं योग्यः अहम् ? इत्यर्थः। अहमेतादृशः पापात्मा यत् तादृशानां पुण्यचरितानां माहात्मनां नामापि आत्ममुखेनोच्चारयितुं नाधिकारी भवामीति भावः। (अत एव आक्षेपालङ्कारः )।
ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना।
मया गृहीतनामानः स्पृश्यन्त इव पाप्मना॥४८॥

पापकृतां संसार्गेण पापोत्पत्तिश्रवणात् महाऽत्मनां तेषां नमोत्कीर्तने वाचिकसंसर्गात् दूषितत्वशङ्कायां हेतुं निर्दिशति, ते हीति। -हि-यतः , महात्मानः,-पवित्रचरिताः, ते-महाभागवशिष्ठविश्वामित्रादयः, कृतं प्रयुपकारं हन्तीति (मूलविभुजादित्वात् कप्रत्ययः) तेन-पूर्वकृतोपकारविस्मरणात् अकृतज्ञेनेत्यर्थः, कृतघ्नलक्षणमाह स्कन्दपुरूणम् – ‘कृतस्य दोषं वदति सकामान्न करोति यः।
न स्मरेच्च कृतं यस्तु आश्रमान् यस्तु दूषयेत्।
सर्वांस्तानृषिभिः सार्द्धं कृतघ्नानब्रवीन्मनुः॥’ इति।
तस्य चाऽनिष्कृतिमाह अन्यत्र – ‘ब्रह्मघ्ने च सुरापे च चौरे च गुरुतल्पगे।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥’ इति।
दुरात्मना-दुर्वृत्तेन मया, गृहितम् उच्चारितं नाम येषां ते,-गृहीतनामानः, उच्चारितनमाक्षराः इत्यर्थः, अत एव पाप्मना-किल्बिषेण, स्पृश्यन्ते-संसृज्यन्ते इवेति मन्ये-चिन्तायामि (इत्युत्प्रेक्षा) अतिघोरपापानुष्ठातुः मे वाक्कृतसंसर्गादपि स्वभावपरिपूताः ते नानं दूषिता इति तु सन्दर्भसङ्क्षेपः। (अत्र स्पृश्यन्ते इवेत्यत्र वाच्या क्रियोत्प्रेक्षा अलङ्कारः ; मया गृहीतनामानः इत्यस्य यतः गृहीतनामानः अत एव पाप्मना स्पृश्यन्ते इति रीत्या पापोत्पादं प्रति हेतुत्वोत्कीर्तनात् पदार्थहेतुकं काव्यलिङ्गम्, अनयोरङ्गाङ्गिभावेन सङ्करः॥ ४८॥

योऽहम्- विश्रम्भादुरसि निपत्य लब्धनिद्राम् उन्मच्य प्रियगृहिणीं गृहस्य शोभाम्।
आतङ्कस्फुरितकठोरगर्भगुर्वीम् क्रव्याद्भ्यो बलिमिव निर्घृणः क्षिपामि ॥४९॥

कियद्भ्यः पापेभ्यः आत्मनः कृतघ्नत्वं समुद्भूतं तदेवानुशोचनाभूयिष्ठेन वचसा विशदीकृत्य उपपादयति, विश्रम्भादिति। -विश्रम्भात्-विश्वासातिशयात् ; अयं मे प्राणभूतः मन्मयजीवितः प्रियतमः पतिः इति विश्वासातिरेकादित्यर्थः, उरसि-वक्षसि, निपत्य-शयित्वा समालिङ्ग्येत्यर्थः, लब्धा निद्रा यया तथाविधाम्, अतिविश्वासेन झटिति प्रसुप्ताम् ; अत एतस्याः परित्याग न केवलं कृतघ्नता, अपि तु मित्रद्रोहिता विश्वासघातकता च। - ‘अङ्कमारुह्य सुप्तन्तु हन्तुः किं नाम पौरुषम्’ इति न्यायात् ‘मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः। त्रयस्ते नरकं यान्ति यावच्चन्द्रदिवाकरौ। ‘इति च स्मरणादिति भावः। गृहस्य-भवनस्य, शोभाम्-अधिदेवताभूततया सुषमाविधात्रीं, प्रियां प्रियवादिनीं गृहिणीञ्च-द्वितीयहृदयभूतां भार्याम्, आतङ्केन स्वप्नोद्वेगेन स्फुरितः दीर्घमुच्छ्वसता हृदयेन समं चाञ्चल्यं गतः कठोरः परिणतः यो गर्भस्तेन गुर्वीं मन्थरां-गर्भभाराक्रान्ततया नितान्तविधुरां, वने श्वापदभयात् आत्त्मपरित्राणार्थं पलायितुमप्यक्षमामिति भावः। निर्घृणः निः नास्ति घृणा करुणा यस्य स तथोक्तः, निर्दयः इत्यर्थः। ( ‘कारुण्यं करुणा घृणा इत्यमरः)। अहमिति शेषः। क्रव्यम् आममांसमदन्तीति क्रव्यादः श्वापदाः व्याघ्रादयः, ( ‘क्रव्ये च’ (३। २। ६९ पा०) इति विट् ; पक्वमांसभोजने तु क्रव्यादः अणन्तो बोध्यः। तथा च पृषोदरादिपाठात् क्रव्यभागः’ इति ) तेभ्यः, बलिमिव-ग्रासार्थोपहारमिव,-( ‘बलिर्दैत्यप्रभेदे च करचामरदण्डयोः। उपहारे पुमान् स्त्री तु जरया श्लथचर्मणि। गृहदारुप्रभेदे च जठरावयवेऽपि च॥ इति मेदिनी। ) क्षिपामि-क्रव्यादः प्रीणयितुं परित्यजामि। (अत्र ‘क्रियार्थोपपदस्य कर्मणि स्थानिनः’ (२। ३। १४ पा०) इति अप्रयुक्ततुमुनः कर्मणि चतुर्थी )। अहमिदानीमेवमकरुणोऽस्मि-यत् वराकीं प्रियतमां जानकीं श्वापदसङ्कुले महारण्ये आमिषशकलमिव अनायासेनैव विकिरामीति भावः। (अत्रोपमालङ्कारः स्फुटः)। प्रहर्षिणी वृत्तम्॥४९॥

(सीतायाः पादौ शिरसि कृत्वा) देवि देवि अयं पश्चिमस्ते रामस्य शिरसा पादपङ्कजस्पर्शः। (द) (इति रोदिति) (नेपत्थ्ये) अब्रह्मण्यम् अब्रह्मण्यम् (ध) (द) पश्चिम इति। -पश्चात्-शब्दात् डिमच् प्रत्ययः। पश्चिमः ,-अन्तिमः। एतादृक्पवित्रचरिताऽसि त्वं यत्तव पादपङ्कजं मम शिरसा स्पर्शनयोग्यम् अतः शिरसा एव तत् स्पृशामि, एष च स्पर्शः शेषः। ( ‘शिरसि’ इति क्वाचित्कः पाठः ; तव अवच्छेदे सप्तमी )। ‘पतिरेको गुरुः स्त्रीणां सर्वत्राऽभ्यागतो गुरुः’ इति नियमात् , पत्न्याः पादस्पर्शः शिरसि आपाततः अनुचितः इव यद्यपि प्रतिभाति, तथापि,- ‘पृथिव्यां यानि तीर्थानि सतीपादेषु तान्यपि। तेजश्च सर्वदेवानां मुनीनाञ्च सतीषु च॥ ‘इत्यादिवचनात्, स्त्रीसम्माननाद्योतनर्थं सतीनामरण्याः अरुन्धत्या अपि अधिकायाः सीतायाः पादस्पर्शः शिरसा रामकृतः न विरुध्यते इति मन्यामहे।
(ध) नेपथ्ये-अभिनेयवेशरचनागृहाभ्यन्तरे। अब्रह्मेति। -ब्रह्मभ्यः हितं ब्रह्मण्यं, तत् न भवन्तीति अब्रह्मण्यं, विप्राणां वेदानाञ्चाविनाश्यानां नाशो जातः इदानीम् इत्यर्थः। तद्रक्षणं साम्प्रतमित्याशयः। यद्वा ,-ब्रह्मणे विप्राय वेदाय वा साधु यत् तद् ब्रह्मण्यं, नास्ति ब्रह्मण्यं वेदविप्रहितं यत्र तदब्रह्मण्यम् ; सर्वनाशकृत् उत्पातो जात इति भावः, तच्च सम्प्रति प्रतिकर्तव्यमिति अबध्यताप्रार्थना ; यथा अस्मान् देवयजीन् न निघन्ति, तथा विधीयतां भवद्भिरिति फलितार्थः। ( ‘अब्रह्मण्यमबध्योक्तौ इत्यमरः। सम्भ्रमे द्विरुक्तिःम् अतिशयकातरताद्योतनार्थं वा )।
रामः। ज्ञायतां भोः किमेतत्।
(पुनर्नेपत्थ्ये)- ऋषीणामुग्रतपसां यमुनातीरवासिनाम्।
लवणत्रासितः स्तोमस्त्रातारं त्वामुपस्थितः॥५०॥

किमत्याहितमभृत् तदेव सविशदं व्यनक्ति, ऋषीणामिति। -यमुनायाः नदीविशेष्यस्य तीरे तटभूमौ वसन्ति ये तथाभूतानां तदुपकूलवास्तव्यानाम्, (एतेन तेषां कोमलप्रकृतित्वं सूचितम्) उग्रं समहत् तपः येषां तथोक्तानां तपःसिद्धिसम्पन्नानाम् (एतेन तेषां शापदानादिना प्रतीकारयोग्यत्वमस्तीति गम्यते, एवमेवाह रघौ कालिदासः,- ‘त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम्’ इति )। ऋषीणां-तपोधनानां, (का कथा तच्छिष्यभूतमुनीनमिति अर्थापत्तिः ध्वन्यते ) स्तामः,-समवायः, लवणेन मधुदैव्यात्मजेन रावणभागिनेयेन, (लुनाति इति लवणः, नन्द्यादिवात् ल्यः, निपातनात् णत्वम् ) त्रासितः,-भाषितः सन्, त्रातारं-रक्षितारं शरण्यमिति यावत्, त्वाम् उपस्थितः, -प्राप्तः। तपःप्रत्यूहमाचरता विबुधद्विषा लवणेन भीषिताः तपोधनाः विघ्नप्रतिक्रियार्थिनः राममुपाययुः इति फलितार्थः। ( पुरा किल दिग्विजयार्थं बहिर्गतस्य रावणस्य मातृष्वसेयी रूपयौवनवती कुम्भीनसी दैत्यपतिना मधुना अपजह्रे, तद्गर्भाज्जायोऽयं लवणः इति रामायणी कथा अनुसन्धेया। लवणो हि स्वमातुलस्य सुरासुराणां विजेतुः रावणस्य वधवार्ताश्रवणेन नितान्तवितप्तहृत्दयः भगवतः राघवस्य किमपि अपकर्त्तुम् अक्षमः प्रत्यनीकालङ्कारवत् सरलचेतःसु तपोधनेषु अत्याहितमकरोदिति। अयः हि लवणवधोद्यमः सीताविवासनात् पश्चिमः अपि सीताविरहविधुरस्य असह्यपीडं सीतानिर्वासनं कथमपि कर्त्तुमक्षमस्य रामस्याऽपसारणाय आदावेव विनिवेशितः कविनेति विभाव्यम्। रामस्य निष्क्रमणात् परं कुमारः लक्ष्मणः दोहदपूरणमिषेण दुर्वहगर्भगुर्वीं तां सीतां दण्डकारण्ये विजहौ ; रामस्य सन्निधौ तत्तु असम्भावितमभूदित्यतः अन्यथा उपवर्णितं मन्ये। एवमेव रघौ कालिदासः ,- ‘कृतसीतापरित्यागः स रत्नाकरमेखलाम्।
बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्॥

लवणेन विलप्तेज्याः तामिस्रेण तमभ्ययुः।
मुनयो यमुनाभाजः शरण्यं शरणार्थिनः॥’ इति।
पथ्यावक्वं वृत्तम्॥५०॥

रामः। आः कथमद्यापि राक्षसत्रासः तद् यावदस्य दुरात्मनः कुम्भीनसीपुत्रस्य समुन्मूलनाय शत्रुघ्नं प्रेषयामि। (कतिचित् पदानि गत्वा पुनः प्रतिनिवृत्य) हा देवि कथमेवंविधा गमिष्यसि भगवति वसुन्धरे श्लाघ्यां दुहितरमवेक्ष्यस्व जानकीम् (न)। - (न) आः इति कोपपीडोभयसूचकमव्ययम्। ( ‘आस्तु स्यात् कोपपीडयोः’ इत्यमरः )। अद्यापि इदानीमपि रावणबधाव्यवहितोत्तरकालेऽपि निःशेषितराक्षसकुलत्वादित्याशयः। कथं किमिति विस्मये, दुरात्मनः ,-दुर्वृत्तस्य, कुम्भीनसौ नाम रावणस्य स्वसा , कुम्भीव उखेव कट्फलमिव वा क्षुद्रकलस इव वा नासिका यस्या इति विग्रहे ( ‘पद्दनोमास्-(६। १। ६३ पा०) इति सूत्रेण नसादेशः स्त्रियां ङीप् च निपात्यते तस्याः पुत्रस्य लवणस्य, समुन्मूलनाय-समुलमुच्छेदाय, यावत् प्रेषयामि-प्रेषयिष्यामि ( ‘यावत्पुरानिपातयोर्लट्’ (३। ३। ४। पा०) इति सूत्रेण लट्। ) कतिचित्-कियन्ति पदानि गत्वा सीतां परिहायेति शेषः , पुनः प्रतिनिवृत्य-प्रत्यागत्य विहाय गन्तुमशक्यतयेति भावः। कथमेवंविधेति। -एवन्धशामापन्ना गर्भिणी मया च वञ्चिता सती एकाकिनी, कथं जनशून्यामरण्यानीं गमिष्यसीति भावः। यद्वा,-एवमज्ञातकारणा विश्वस्तनिद्रऽपि, अचिरेण तु वनगमनाय आहूता अस्मान् परित्यज्याऽपुनर्दर्शनाय असहायैव गमिष्यसीति भावः। ( ‘कथमेवङ्गता भवोष्यसि’ इति पाठे तु,-एवङ्गता-ईदृशीम् अवस्थामापन्ना, कथं-केन उपायेन, भविष्यसि-वर्त्तिष्यसे जीविष्यसीत्यर्थः )। मन्दभाग्या पुनन्तु मत्परित्यागात् अस्मात् क्षणादेव निःसहाया त्वमिति, तत् किमत्र विधेयमित्याह, भगवतीति। -भगवति -सर्वज्ञे -वसुन्धरे -पृथ्वि श्लाघ्यां -महानौयमहोज्ज्वलचरितां, दुहितरं-कन्यान्, अवेक्षस्व-विपदः त्रायस्व त्वमिदानीं मैथिलीसहाया भवेत्यर्थः।
जनकानां रघूणाञ्च यत् कृत्स्नं गोत्रमङ्गलम्।
यां देवयजने पुण्ये पुण्यशीलामजीजनः॥५१॥

अथेदानीं सीतायां कथङ्कारं श्लाघ्यत्वमित्थं सम्यक् सम्भूतं, तदेव विशदीकृत्य प्रकटयितुं तामुभयवंशैकशुभकरत्वेनोपवर्णयति, जनकानामिति। -जनकानां-विदेहाधिपवंशप्रसूतानां, रघूणां-रघुकुलसमुद्भूतानाञ्च (तद्राजत्वात् सज्ञायामञि ‘तद्राजस्य बहुषु तेनैवास्त्रीयाम्’ (२। ४। ६२ पा०) इति बहुषु अञो लुक् )। कृत्स्नं-समग्रं, गोत्रस्य वंशस्य मङ्गलं शुभं, (विधेयप्राधान्यात् यदित्यस्य क्लीबत्वम् )। या हि जानकी पुरा पूततम्स्य निमिवंशस्य पुरञ्जयान्ववायस्य च अखिलशुभैकविधात्री अधिदेवताभूता आसीत् इति भावः। यां-सीतां, पुण्यं पवित्रं शीलं सदाचारः यस्याः तां-पूतचरितां, पुण्ये-अतिपवित्रे, देवाः इज्यन्तेऽस्मिन्निति देवयजनं यज्ञभूमिः, तस्मिन्, उदपीपदः, हे वसुधे त्वमिति शेषः। जनककुलस्य रघुकुलस्य च इयं मूर्तिमती श्रीः। विश्वम्भरे त्वमपि इमां प्रसूय श्लाघनीया संवृत्ता ; अतस्तद्रक्षणं ते सर्वथैवोचितमित्यभिप्रायः। (अत्र पुण्यशीलायां जनकतनयायां जनकरघुकुलयोः निखिलकुशलत्वारोपात् उभयकुलयोर्वास्तवत्वेन तस्या मङ्गलभूततया प्रकृतोपयोगित्वच्च परिणामालङ्कारः )। पथ्यावक्त्रं वृत्तम्॥५१॥

(इति निष्क्रान्तः। (प) ) (प) (शाकुन्तले यथा शकुन्तलाप्रणयलीलापयोधिलहरीनिमग्नं नरपतिं सपदि ततः सम्यक् समुद्धर्तुमशक्नुवन् महाकविकुलशेखरः तत्रभवान् कालिदासः मदोद्धतस्य गजस्य कस्यचिदाश्रमपीडां जनयतः समागमं संसूचियन् आश्रमबाधनव्याजेन नरपतिं निष्क्रामयन् वैचित्र्यातिशय्यमजनयत्, तथैवात्र सम्भावितवैदेहीविरहविधुराशयस्यापि राघवस्यार्तशरण्यस्य धर्मसंरक्षणधृतपरिकरस्य यमुनातीरभाजां शरणार्थिनां मुनीनां रक्षणस्य विबुधविद्विषः लवणस्य वधाय च निष्क्रमणसमारम्भः प्रतिच्छायतया सन्निवेशितः तत्रभवता कविना ; पुनरच्छेदकरामसीतागतविशेषविच्छेदकरणत्वात् इदं बिन्दुनामकं सन्ध्यङ्गं वेदितव्यम्। तथा चोक्तम्- ‘अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्। ‘इति )।
सीता। हा सोम्य अज्जउत्त कहिं सि (सहसोत्थाय) हद्दी हद्दी दुस्मिबिणरणरणअबिप्पलद्धा अहं अज्जउत्तं आक्कन्दामि। (विलोक्य) हद्दी हद्दी कधं एआइणीं मं प्पुसुत्त उज्झिअ गदो अज्जउत्तो – ता किं दाणीं एदं? भोदु से कुबिस्सं- जइ तं पेक्खन्ती अत्तणो प्पहबिस्सम्। को एत्थ परिअणो ? (फ) हा सौम्य आर्यपुत्र कुत्रासि हा धिक् हा धिक् दुस्वप्नरणरणकविप्रलब्धाहमार्यपुत्रमाक्रन्दामि। हा धिक्। हा धिक्। कथम् एकाकिनीं मां प्रसुप्तामुज्झित्वा गतः आर्यपुत्रः तत् किमिदानीमेतत् ? भवतु तस्मै कोपिष्यामि यदि तं प्रेक्षमाणा आत्मनः प्रभविष्यामि। कोऽत्र परिजनः ? (फ) स्वप्ने प्रलापबहुलं वचः उच्चार्य निद्रावेशविधुरतया प्रथमतः चक्षुषी निमील्यैव इदमाह, हा सौम्येत्यादि। दुःस्वप्नेत्यादि। -दुःस्वप्ने विप्रलम्भादिभूयिष्ठे स्वापसमये इत्यर्थः, यः रणरणकः प्रियतमविरहात् जायमान उद्वेगः तेन विप्रलब्धा। रामभद्रोऽत्र नास्तीति विमृष्य क्रन्दितुमारब्धत्वात्, वस्तुतः तत्र तदानीं रामो नास्तीति न विज्ञातवती, अतः विप्रलब्धेत्युक्तं, तत्तु अनुपदमेव व्यपगमिष्यति इति बोध्यम्। आर्यपुत्रं-रामम्, आक्रन्दामि-आकारयामीत्यर्थः। पश्चात्तु चक्षुः उन्मील्य, दृष्ट्वा च प्राणाधिकविरहितं तल्प, तुषारवर्षिसहस्यचन्द्रमुखी अभिक्ष्णा विग्ना कुररीव रोरुद्यमाना सुतारं चक्रन्द,- ‘हा धिक् हा धिक् कथमेकाकिनीम् ‘इत्यादि। एकाकिनीम्-असहायाम् । उज्झित्वा-विहाय। तत् किमिदानीमेतत् ?-पुरा हि कदापि भवान् एकाकिनीं मां विहाय कुत्रापि न गतवान्, तत् कथं हि मे इदानीम् असम्भावितमेतत् दुःखमापतितमिति भावः। भवत्विति। -तत् यदेवास्तु इत्यर्थः। तस्मै-रामभद्राय, कोपिष्यामि-कपटकोपं करिष्यामि ; अस्याऽपराधस्य क्षालनाय इत्यर्थः, यदि तं-रामं, प्रेक्षमाणा-पश्यन्ती सती, आत्मनः,-स्वस्मै इत्यर्थः, ( सम्बन्धविवक्षया षष्ठी ) प्रभविष्यामि-प्रभुर्भुविष्यामि ; आर्यपुत्रस्य मोहनीयरूपलावण्यदर्शनादिना तद्गतहृदया विमुग्धा च भूत्वा सपद्येव तदधीना भवामि, अतः मानरूपकोपनाशे प्रभुत्वं सुदूरपराहतमेव का कथा कोपस्येत्याशयः। सत्यं ह्येतत् सतीनामेवं भवति पतिसन्दर्शनादिति।
(अत्र ‘दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने’ इत्युदाहृतवतः तथा ‘अनुनयपर्यन्तासहत्वे तु अस्य न विप्रलम्भभेदता, किन्तु सम्भोगसञ्चार्याख्यभावत्वम्’ इत्युक्तवती दर्पणकारस्य वाक्यमत्र रसभावनाचतुरैः बोद्धव्यम् )।
दुर्जनः। (प्रविश्य) देइ कुमारलक्खणो बिणबेदि ; सज्जो रहो; आरुहदु देई त्ति। (ब) सीता। इअमहं आरुहह्मि। (उत्थाय परिक्रम्य) परिप्फुरइ बिेअ मे गब्भभारो; ता सणिअं गच्छह्म। ’ (भ) दुसुखः। इदो इदो देई।
सीता। णमो णमो तबोधणाणं; णमो णमो रहुउलदेअदाणं; णमो णमो अज्जउत्तचरणकमलाणं; णमो णमो सअलगुरुअणाणम्। (म) (इति निष्क्रान्ताः सर्वे) इति चित्रदर्शनो नाम प्रथमोऽङ्कः॥१॥

देवि कुमारलक्ष्मणो विज्ञापयति; सज्जो रथः; आरोहतु देवीति।
’ इयमहमारोहामि। परिस्फुरतीव मे गर्भभारः; तत् शनैर्गच्छामः।
इत इतो देवी।
नमो नमस्तपोधनेभ्यः; नमो नमो रघुकुलदेवताभ्यः; नमो नमः आर्यपुत्रचरणकमलेभ्यः; नमो नमः सकलगुरुजनेभ्यः।
(ब) कुमारलक्ष्मणः-सौमित्रः, देवावरजत्वेनैवमभिधानम्। विज्ञापयति-आदिशति। सज्जः,-तव दोहदमपूरयितुं वनप्रयाणाय प्रगुणीकृतः, सुखगमनोपयोगिवाहनादिभिः सन्नद्धः इत्यर्थः।
(भ) परिस्फुरति-स्यन्दते। गर्भभारः-भारभृतः गर्भः, उदरस्थः शिशुः इत्यर्थः। शनैः-मन्दं मन्दम्। ( ‘सिहिलम्’ इति पाठे-शिथिलमिति तस्यार्थः )।
(म) रघुकुलेत्यादि। -देवताः हि विष्णोरंशाः, अतः प्रयाणकाले तासामभिवन्दनमुचितमेव। - ‘आदित्यमण्डले विष्णुं ध्यात्वा यात्रां प्रवर्तयेत्’ इति स्मरणात्। यद्यपि सतीनां पत्युरेव केवलं गुरुत्वेनादौ आर्यपुत्रचरणकमलान्यभिवन्द्य पश्चात् सकलगुरुजनानां वन्दनमुचितं, तथाप्यत्र प्रथमं तपोधनादीनां वन्दनन्तु पतिकृतवन्दनदर्शनात् इति वेदितव्यम्। (मूले, ‘तबोधणाणं,’ ‘रहुउलदेअदाणं’ इत्यादि पाठदर्शनात् ‘तपोधनानां’ ‘रघुकुलदेवतानाम्’ इत्यवमेतद्भाषान्तरं समीचीनमेव विभावयामः। ‘क्वचिदपवादविषयेऽप्युत्सर्गोऽप्यभिनिवेशते’ इति न्यायात् चतुर्थीं बाधित्वैव षष्ठी प्रसक्ता। अथवा- ‘चतुर्थ्यर्थे षष्ठी’ इति पिङ्गलाचार्यमतेन चतुर्थीस्थाने षष्ठी अपि अनुशिष्टा इति ध्येयम्। सर्वत्र गौरवात् बहुवचनम् )।

प्रथमाङ्कस्य विवृतिः अत तत्र भवान् निखिलमहाकविकुलसततोपगीयमानतुहिनाचलामलतुषारावदातविधौतपवित्र- कीर्तिः कोविदकल्पकुञ्जरशिरःशेखरः भवभूतिः, अदृष्टचरमभूतपूर्वमेकमभिनवं करुणाविप्रलम्भाख्यशृङ्गारसमयं नाटकमुपनिबद्धुमभीप्सुरादौ अनवगीतशिष्टाचारपरिप्राप्तां सज्जनसदाचारसञ्चरणपरिपूतविशोधिताञ्च कविकुलवन्दनाविधायिनीं द्वादशपदविनिबद्धां देवस्तुतिमयीं सभ्यानां महाऽनन्दसन्तानविधायिनीं नान्दीमेकामाजह्रे।
अथ सूत्रधारनटौ भगवत्कालप्रियनाथोत्सवसमये समवेतान् सभ्यसङ्घान् कवेः तत्रभवतः भवभूतेः कृतिमपूर्वामेकामभिनेष्याव इति विज्ञापयन्तौ अत्रान्तरे वितथाम् आयोध्यिकभूमिकामधिगृह्य सूत्रधारः ‘यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः’ इत्यादिना स्ववाक्यदोषमुररीकुर्वन् भगवतः समीतस्य रामभद्रस्य नवे राज्ये अभिषेकं प्रस्तोतुमारब्धवान् तत्कालसमुचितां स्तोत्रपद्धतिञ्च निरूपयितुं न्ययुक्त। अथ यदा हि दशमुखं निहत्य सीतामुद्धृत्य च उत्तरकोशलमुपगम्य अभिषेकसदाचारम् अनुतष्ठितवान् भगवान् रामभद्रः, ततः प्रभृति एव स्वानां लङ्कासमरसुहृदां तपोधनानाञ्च विसर्जनात् तदैव विशिष्ठऽधिष्ठितानामरुन्धतीसहितानां श्वश्रूणां जामातुः ऋष्यशृङ्गस्य द्वादशवार्षिकं सत्रं प्रति दोहदवतीं कठोरगर्भगुर्व्वीं जानकीं विहाय प्रयाणात् च विमनायमानां सीतामनुमोदयितुं वासभवनप्रयाणं भगवतः रामभद्रस्याऽभिनयन्तौ प्रस्तुतकथाक्षेपिकां प्रस्तावनामुपन्यास्यतां निरक्रमिष्टाञ्च तौ।
अथ भगवान् करुणामयः रामभद्रः तत्रभवतां जनकानां विदेहगमनात् गुरुशोकसागरनिमग्नां सीतां सान्त्वयितुं शुद्धान्तागारमध्युवास। अत्रान्तरे महर्षिरष्टावक्रः ऋष्यशृङ्गाश्रमात् रामं विज्ञापयितुं विशिष्ठसंवादमादायाऽयोध्यामुपाययौ। अथ मुनिप्रवरः प्राक् शान्तायाः भगवत्याः अरुन्धत्याश्च निदेशात् सीतादोहदमापूरयितुमावेद्य उदीर्य च पश्चात् जानकीसमाश्वासनभूयिष्ठां भगवतः वशिष्ठस्य वाचम्, ऊर्जस्वलं रघूणां कुलं प्रजासमाराधनेषु एव प्रसितमिति उपादिशत्, तच्छृत्वैव भगवान् रामभद्रः प्रजाः अनुरञ्जयितुं स्नेहं दयां सुखं सर्वं हि जीवलोकं विस्रष्टुमीशे, अन्येषां का कथा प्राणसमामपि जानकीं परित्यज्यतः नास्ति मे व्यथेति सपदि विषोदर्कमेतन्नटकबीजभूतं सीताविवासनं प्रत्यशृणोत्।
अथ कियता गच्छता कालेन, कुमारः सौमित्रिः दुर्मनायमानां सीतां प्रीणयितुं भगवता रामभद्रेण पुरतः आदिष्टान् चित्रकरान्, ताडकानिधनाय भगवते रामभद्राय कौशिकेन सानुग्रहं प्रसादिकृतानि सरहस्यानि जृम्भकास्त्राणि आरभ्य सीतायाः आ हुताशनविशुद्धेः चित्राणि अङ्कापितानि, तानि समादाय च तान् समुपस्थितान्म् व्यजिज्ञपत्। तदाकर्णनसमकालं हि रघुमणिः परिम्लानाननकान्तिः सखेदमाह, देवि एष हि अलोकलोकपरीवादः ते जीवितव्यशेषमपसरिष्यतिम् अधन्येन च कुलधनभूतं यशः एव केवलमभीप्सुना मया प्रसूनमालायितायाः ते कियन्ति चरणावमर्द्दनानि कृतानि इति बहुधा सबाष्पागद्गदं विललाप।
अत्र स्वभावधीतः रामभद्रः तपोधनतपस्तेजःसम्भूतानि दिव्यास्त्राणि सीतायै प्रदीदृशत्, सा हर्षावनम्रमुखी तानि सगौरवं ववन्दे। ततः मिथिलावृत्तानं प्राददर्शच्च। तदा तु जानकी प्रियतमसौम्यमुखमण्डलम् अचिरप्रभाद्युतिविद्योतितमपि चिरसुषमं निरीक्ष्य गद्गदकण्ठी अभाणीत्, स्मरामि खलु सर्वं यत् यूयं चत्वारः भ्रातरः गृहीतमाङलिकोपचाराः तत्र वर्तन्ते इति। अथ लक्ष्मणः विवाहात् पर अयोध्यागमनपथे भगवद्भार्गवविजयं दर्शितवान्। तत् दृष्ट्वा विनयमाहात्मापरीतमूर्तिः रघुवंशकीर्तिः गुरूणामवननाच्च श्रोतुमशक्नुवन् स्वविअयवार्तोपवर्णणं च स्वस्य पुरत एवोपगीयमानमवलोक्य वैलक्षाऽवनम्रमुखः ‘बहुतरं द्रष्टव्यमस्ति-अन्यत्र दर्शय’ इति लक्ष्मणाय निदिदेश।
अथ सौमित्रिः मिथिलातः वयमयोध्यामुपगता इति प्राह। ततः नवजलधरविनिन्दितध्वनिः रघुमणिः तातपादजीवितदशायां मातणामनुपमस्नेहपीयूषधारानिषिक्तानां तेषां दिवसाः कियत्सुखेन हि व्ययीता इति विभाव्य परं मोहमुपागतः। जानकी च तदा कियन्ति सुखानि अदित, तदनिशमनुस्मरन् सीतायां रतिं प्रकटिकृत्य शृङ्गाररसं सम्यगेधाञ्चक्रे। ततस्तु लक्ष्मणः मन्थराप्रस्तावं प्रास्तौत्। रामभद्रस्तु गुरुभिरभ्यनुज्ञातं स्ववनविवासनं सर्वथैवाऽरुन्तुदमपि मातुः कैकय्याः अकीर्तिकरत्वेन तत् तदैव विजहौ। अनुपदं हि निषादाधिपतिनिषेवितं शृङ्गवेरपुरमिङ्गुदीपादपसनाथमदर्शयत्। तत्र पुनः यौवराज्यभाजं देवं राघवं जटासंयमनिरतमवलोक्य सती सीता कियदपि खेदमगत्वा स्वभाग्यविपर्ययादेवमसम्भावितं दुःखमापतितमिति परं विसिस्माय। ततश्च प्रसन्नपुण्यसलिलां रघुकुलदेवतां भगवतीं भागीरथीमवलोक्य युगपदेव सर्वे प्रणेमुः। अथ भगवान् रामभद्रः, ‘अम्ब सीतायां शिवानुध्यानपराभव’ इति ययाचे, एतेन च स्ववंशकुलाङ्कुरयोः कुशलवयोः भागीरथीपरिपालनं सीतायाः प्राणवियोगव्यवसितायाः कथञ्चित् समाश्वासनं च विवव्रे। अथ लक्ष्मणः भरद्वाजाश्रमं कियत्कालमध्युष्य, ऋषिप्रदर्शितमार्गेण गच्छन् कालिन्दीतटस्थितं श्यामनामकं वटपादपं प्रदर्शितवान्।
अथ ‘किमिमं स्मरसि आर्यपुत्र’ इत्येवं जानकीजिज्ञासया सर्वथा-प्रकृति-रञ्जनो रामभद्रः अध्वसञ्जातश्रमापहं मन्दमधुरशीतलानिलसम्पादितसंवाहनक्रियम् इमं कथं विस्मरामीति अपि च यस्य सुशीतलतलप्रान्ते अलसविलसितपवित्रगात्रैः अशिथिलपरिरम्भमादधती त्वं मम अमन्दोरसि विश्रब्धं विश्रामसुखं लभेथाः, तत् न विस्मृतं मया इत्युक्तवान्। ततो विन्ध्याटव्यां विराधोपरोमाख्यत् लक्ष्मणो जनस्थानसमारम्भञ्च। तस्मिंश्च गिरिसरिन्निर्भराणामनिर्वचनीयानि सौभाग्यविह्वानि वैखानसनिषेवितवनोपान्तानि, गोदावरीकीलालकल्लोलकोलाहलमुखरितकन्दरम् अविरतवाराविवर्षिवा-रिधरैरमलश्यामलं प्रस्रवणम्म् नाम पर्वतमुपावर्णयत्। वर्णितानि पुनः गोदावरीवारिपूतवनप्रसूनसुरभीणि स्वच्छन्दनिमज्जनानि, तदुपान्ततीरवनवर्तनानि च। पुष्पशष्परमणीये तस्मिन्नशिथिलपरिरम्भव्यापृतानाम् स्वेषां विभावरी गोदावरीतटविटपिपादप्रान्ते धरणिजानिन्दिताङ्गसङ्गभङ्गावेनाऽणोरणीयसीवाऽभूत्।
अतः परं पञ्चवट्यां विकटमुखनासायाः सूर्पणखायाः संवादमवलम्ब्य कमलकोमलमानसा सीता विगतवियोगविपुलक्लशः पुनरापतितः इति मत्वा विरहविनयनम्रा बभूव। रामस्तु स्वयं वियोगत्रस्तां तथाविधां सीतां, ‘न चेयं पञ्जवटी न चापि सूर्पणखा, चित्रमेतत्’ इति परिसान्त्वयन् पञ्चवटीवननिवासविवशस्वान्तस्तद्वृत्तान्तमपरोक्षमिव विज्ञाय क्षणं क्षौणीजायाः पञ्चवटीप्रस्थानरुपविगतेतिवृत्तं सस्मार। ततस्तु कनकमृगमायया वैदेहीं मोहयित्वा अतुलैश्वर्यबलबहुलो रावणः समपहृत्य च तां कियतां रामरोदनरुग्णहृदयानां विचेतनानामपि विशेषक्लेशं सञ्जनयामास इत्युपवर्णिते तदानीं पतिपरायणा पवित्रचित्ता सीता मन्निइत्तमेवं दुर्विषहं विषमक्लेशजालं बुभुजे भगवान् रामचन्द्रः इति विचिन्त्य नितरामनुतप्तवती। ततश्च सीताहरणमनुस्मृत्य गलदश्र् विलपतो लक्ष्मणस्य शोकोक्तिप्रवणार्द्रमानसस्य रामस्य च विलापवर्णनम्। अतश्च मन्वन्तरवृद्धगृध्रराजस्य जटायुषो विशेषविक्षोभकरं चरितञ्चाभिदधे।
अनन्तरं जनस्थानपश्चिमाशास्थितमञ्जुलकुञ्जमण्डितं दण्डकारण्यभागं दर्शयामस। हर्शप्रद ऋष्यमूकनामनगे महामुनेः मतङ्गस्यश्रमपदं सिद्धशबरीं श्रमणां पम्पासरोवरञ्च प्रदर्शितवान्। ततस्तु मदमत्तमल्लिकाक्षपक्षिणां पक्षपवनेत्कम्पित-चञ्चलनालश्वेतसरोजसमूहोपशोभितान् परमरमणीयकुवलयचयान्वितानेकानन्दप्रद-स्यतत्स्रावरस्यांशभागान् स्वाश्रुप्रवाहोद्गमनपतनयोरन्तरालमवलोकितवान्। ततः सौमित्रिः सीतापरिहरणजन्यशोकसा-गरमग्नजीवलोकमहोपकारकं महाभागं मारुतिं प्रदर्शितवान्। सर्वजनरञ्जनाञ्जनानन्दस्य साक्षात्कारः सौभाग्यवशात् प्राप्तः मत्कृतार्थतया समं जगत् कृतार्थतामवापेति दशरथिर्जगाद।
अथ सुरभिकुसुमसुशोभितकदम्बसरलशाखामण्डनमयूरोद्धतनृत्यभाजि यत्र चानुभावमात्रावशिष्ट-प्रनष्टधूलिमल्लिनशरीरार्यपुत्रः क्षणं विगतचैतन्यवत् तरुतले पतितः साश्रुनेत्रसौमित्रिणा विधृत इति विचित्रचित्रनगस्य किं नाम ? इत्येवं वैदेही प्रवचनीपवर्णित-कुसुमित व्रततितति-विराजमान मञ्जुकुञ्जाभ्रभेदि तुङ्गशिखारोपकण्ठस्य विनदत्मबलाकवलाहककाकलीकलितकुञ्जमण्डितस्य तस्य माल्यवतः स्मरणाऽसहिष्णुना रामेण निवारितो लक्ष्मणः चित्रप्रदर्शनव्यापारात्। कौशल्यानन्दनस्य तथा ‘बहुमानास्पदकप्रक्षसामुत्तरोत्तरप्रवर्द्धमानाद्भुतयुद्धचित्रमतः परं परिश्रान्तेयं विश्राम्यताम्’ इति लक्ष्मणोक्तिरुपवर्णिता।
ततश्चित्रदर्शनतो जानक्या प्रसन्नगम्भीरारण्यश्रेणीभ्रमणसुशीतलसुभगसलिलाभागीरथी-परमपूतजलावगहनवाञ्छयां विज्ञापितायं ‘गुरुजनाज्ञापालनाय चास्याः मनोरथपूरणं करणीयमिति ससारथी रथः सज्जीकृत्यानेतव्यः’ इत्थं समादिदेश दशरथिः। ततस्तु निद्रावशवर्तितया परमप्रियम्वपतिपरिरोषमातन्वती मयश्रमजनितघर्म्मबिन्दुपरिव्याप्त-निशाकरकिरणसंस्प-र्शप्रस्रुतजल-बिन्दुनिचित चन्द्रकान्तमणिनिर्मितहारप्रतिमबाहुलतां स्वकण्ठागतामित्य-नुभूयाऽनिर्वचनीयभावं बुभुजे रामभद्रः। चित्रप्रदर्शनव्याजेन इत्थं पूर्वरामचरितं प्रदर्शितं महाकविश्रीकण्ठेन।
अथ दुर्मुखोपस्थितौ विज्ञापितायां प्रतीहार्या पौरजानपदानां कार्यपरिज्ञानायनियुक्ते गूढचर इति विचार्य प्रकाश्यमन्तःपुरप्रवेशनाज्ञां ददौ दाशरथिः। ‘परमपवित्रचरित्राया जनकतनयाया अचिन्तनीयमिमं लोकापवादं कथं स्वामिनि निवेदयामि अथवा नियुकोऽहं मन्दभाग्यस्तादृशे कर्मणि’ इति दुर्मुखः समचिन्तयत्। तदानीन्तु रणरणकविधायि-विरहभावनया उद्वेज्यमानायाः सीतायाह् स्वप्नोद्वेगमाकर्ण्य विचलितचेता रघुपतिः सस्नेहं परिस्पृशन् तदङ्गं, ‘निरुपाधिनिर्मलं दुर्लभमेवं सज्जनप्रेम कथं हि प्राप्यते’ इति चिन्ताऽऽकुलितचेता आसीत्।
अत्रान्तरे दुर्मुखः पौरजानपदप्रशंसामुपवर्ण्य रमस्य स्वदोषजिज्ञासावसरे अयोध्यावासिनः दुर्जनाः सीताया रावणभवनवासकृतदूषमाशङ्कन्ते इति भगवतो राघवस्य कर्णे निभृतमभिदधे। तत् श्रुतिसमकालमेव सहजधीरो रघुवीरः तथाविधं तीव्रसंवेगं वाग्वज्रं समाकर्ण्य सपदि मोहमुपागतः।
अथ राघवः ‘रघूणां प्रजारञ्जनमेव राजधर्मः भगवद्वशिष्ठादेशश्च सम्प्रति तदृशो निष्कलङ्कातिपूतरविवंशगौरवे मत्तश्चेत् कलङ्कस्तर्हि दौर्भाग्यं किमस्मात्? धिङ्मां जीवितान्तरतुल्य-दारपारतत्र्यम् हे राममयजीविते तव जन्मपरिग्रहरूपानुग्रहप्रकाशने धरित्री पवित्रीभूता’ इत्यादि बहु विलप्यापि स्वकर्तव्यवशात् ‘त्याज्याऽसि’ इति उक्त्वा सरथं लक्ष्मणमानेतुं दुर्मुखं समादिदेश। सोऽपि लक्ष्मणनयनायोन्मुखो दुर्मुखः सीताविवासनशोकसन्तप्तधीः ‘कथं हि भगवान् दुर्जनवचसा अतीव पवित्रायां गर्भस्थितपवित्ररघुकुलाङ्कुरायां सीतायामेवं व्यवस्यति ‘इति तदाकर्णनसमकालमुवाच। ततो विवशबुद्धिस्वभावो राघवः दुभाग्यवशात् स्वकुले लोकापवादकलङ्कबीजं समुद्भूतमिति विभाव्य घृणितनृशंसाद्यतिवादैर्रात्मानमवमन्यस्वनिलयपरिपालितपक्षिपललविक्रयिवत् व्यवसितमतिकष्टञ्च इति मेने। सर्वतः पवित्रामिमां स्पृष्ट्वा कथं पापभागिनीं करोमीत्थञ्चापूर्वकर्मचण्डालं मां विमुञ्चेत्याद्यभिधाय तस्या मस्तकोपधानभूतं स्वबाहुमाकर्षन् सम्प्रति विपर्यस्तत्वं जीवलोकस्य निजजीवनधारणानर्थक्यञ्च चिन्तयन् वशिष्ठारुन्धतीविश्वामित्रादीन् लक्षीकृत्य स्वदुर्जनतामुपालब्धवान्। ‘विश्वासविशेषसञ्जातनिद्रां गर्भभारविनम्रां वराकीं वैदेहीं कथं रात्रिञ्चरेभ्यो विनियोजयामि ? इति साश्रु विललाप।
अथ यमुनातीरवासिभिऋषिभिर्विज्ञापिते लवणत्रासे शत्रुघ्नं लवणहननार्थमादेष्टुं सीतात्यागदुःखितो रामचन्द्रः गृहात् प्रतस्थे। अत्रान्तरे स्वप्नोत्थिता अजानती तु शोकसम्भारपूर्णं स्वभाग्यविपर्ययं रघुकुलाधिदेवताभूता सती सीता चिराय स्निग्धगम्भीतनिर्घोषं स्यन्दनं लक्ष्मणाधिनायकमधिरुह्य ‘रघुकुलदेवताभ्यः आर्यपुत्रचरणकमलेभ्यः तपोधनेभ्यः नमः’ इति अभीक्ष्णमुदीर्य चिराय वनाय प्रतस्थे। इत्थञ्च सम्प्तिमगमत् प्रथमाङ्कः।
इत्यशेषशास्त्रटवीसञ्चरणपञ्चानन कुलपतिकल्प- ‘वि.ए’ इत्युपनामक श्रीमज्जीवानन्दविद्यासागर भट्टाचार्यविरचितायां तदात्मजाभ्यां श्रीसदाशुबोधविद्याभूषण- श्रीमन्नित्यबोधवियारत्नाभ्यां परिवर्तित परिवर्द्धितायाम् सुखबोधनीसमाख्यायाम् उत्तररामचरितव्याख्यायां प्रथमोऽङ्कः॥१॥