सप्तमोऽङ्कः ।
(ततः प्रविशति लक्ष्मणः ।) लक्ष्मणः - भोः, किं नु खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौरजानपदाः प्रजाः सहास्माभिराहूय कृत्स्न एव सदेवासुरतिर्यङ्निकायः सचराचरो भूतग्रामः स्वप्रभावेन सन्निधापितः ।
आदिष्टश्चाहमार्येण - “वत्स लक्ष्मण, भगवता वाल्मीकिना स्वकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टुमुपनिमन्त्रिताः स्मः ।
गङ्गातीरमातोद्यस्थानमुपगम्य क्रियतां समाजसन्निवेशः” इति ।
कृतश्च मर्त्यामर्त्यस्य भूतग्रामस्य समुचितस्थानसन्निवेशो मया ।
अयं तु - राज्याश्रमनिवासोऽपि प्राप्तकष्टमुनिव्रतः ।
वाल्मीकिगौरवादार्य इत एवाभिवर्तते ॥१॥
(ततः प्रविशति रामः ।) रामः - वत्स लक्ष्मण, अपि स्थिता रङ्गप्राश्निकाः ।
लक्ष्मणः - अथ किम् ।
रामः - इमौ पुनर्वत्सौ कुमारचन्द्रकेतुसमां प्रतिपत्तिं लम्भयितव्यौ ।
लक्ष्मणः - प्रभुस्नेहप्रत्ययात्तथैव कृतम् ।
इदं चास्तीर्णं राजासनम् ।
तदुपविशत्वार्यः ।
रामः - (उपविश्य ।) प्रस्तूयतां भोः ।
सूत्रधारः - (प्रविश्य ।) भगवान्भूतार्थवादी प्राचेतसः स्थावरजङ्गमं जगदाज्ञापयति - यदिदमस्माभिरार्षेण चक्षुषा समुद्वीक्ष्य पावनं वचनामृतं करुणाद्भुतरसं च किञ्चिदुपनिबद्धम् ।
तत्र काव्यगौरवादवधातव्यमिति ।
रामः - एतदुक्तं भवति ।
साक्षात्कृतधर्माणो महर्षयः ।
तेषामृतम्भराणि भगवतां परोरजांसि प्रज्ञानानि न क्वचिद्व्याहन्यन्त इति नहि शङ्कनीयानि ।
(नेपथ्ये ।) हा अज्जउत्त कुमार लक्खण, एआइणिं असरणं आसण्णप्पसववेअणं अरण्णे हदासं सावदा अहिलसन्दि ।
हा दाणिं मन्दभाईणी भाईरईए अत्ताणं णिक्खिविस्सम् ।
लक्ष्मणः - कष्टं बतान्यदेव किमपि ।
सूत्रधारः - विश्वम्भरात्मजा देवी राज्ञा त्यक्ता महावने ।
प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति ॥२॥
(इति निष्क्रान्तः ।) प्रस्तावना ।
रामः - (सावेगम् ।) देवि देवि, लक्ष्मणमवेक्षस्व ।
लक्ष्मणः - आर्य, नाटकमिदम् ।
रामः - हा देवि दण्डकारण्यवासप्रियसखि, एष ते रामाद्विपाकः ।
लक्ष्मणः - आर्य, आश्वस्य दृश्यताम् ।
प्रबन्धस्त्वार्षः ।
रामः - एष सज्जोऽस्मि वज्रमयः ।
(ततः प्रविशति उत्सङ्गितैकैकदारकाभ्यां पृथिवीगङ्गाभ्यामालम्बिता प्रमुग्धा सीता ।) रामः - वत्स, असंविज्ञातपदनिबन्धने तमसीवाहमद्य प्रविशामि धारय माम् ।
देव्यौ - समाश्वसिहि कल्याणि दिष्ट्या वैदेहि वर्धसे ।
अन्तर्जले प्रसूतासि रघुवंशधरौ सुतौ ॥३॥
सीता - (आश्वस्य ।) दिट्ठिआ दारए पसूदह्मि ।
हा अज्जउत्त ।
लक्ष्मणः - (पादयोर्निपत्य ।) आर्य, दिष्ट्या वर्धामहे ।
कल्याणप्ररोहो रघुवंशः ।
(विलोक्य ।) हा कथं क्षुभितबाष्पोत्पीडनिर्भरः प्रमुग्ध एवार्यः ।
(वीजयति ।) देव्यौ - वत्से, समाश्वसिहि ।
सीता - (समाश्वस्य ।) भअवदीओ, का तुह्मे ।
मुञ्चह ।
पृथिवी - इयं ते श्वशुरकुलदेवता भागीरथी ।
सीता - णमो दे भअवदि ।
भागीरथी - चारित्रोचितां कल्याणसम्पदमधिगच्छ ।
लक्ष्मणः - अनुगृहीताः स्मः ।
भागीरथी - इयं ते जननी विश्वम्भरा ।
सीता - हा अम्ब, ईरिसी अहं तुए दिट्टा ।
पृथिवी - एहि पुत्रि वत्से सीते ।
(उभौ आलिङ्ग्य मूर्च्छतः ।) लक्ष्मणः - (सहर्षम् ।) कथमार्या गङ्गापृथिवीभ्यामभ्युपपन्ना ।
रामः - दिष्ट्या खल्वेतत् ।
करुणान्तरं तु वर्तते ।
भागीरथी - अत्रभवती विश्वम्भरा व्यथत इति जितमपत्यस्नेहेन ।
यद्वा सर्वसाधारणो ह्येष मनसो मूढग्रन्थिरान्तरश्चेतनावतामुपप्लवः संसारतन्तुः ।
सखि भूतधात्रि वत्से वैदेहि, समाश्वसिहि ।
पृथिवी - (आश्वस्य ।) देवि, सीतां प्रसूय कथमाश्वसिमि ।
सोढश्चिरं राक्षसमध्यवासस्त्यागो द्वितीयस्तु सुदुःसहोऽस्याः ।
गङ्गा - को नाम पाकाभिमुखस्य जन्तुर्द्वाराणि दैवस्य पिधातुमीष्टे ॥४॥
पृथिवी - भगवति भागीरथि, युक्तमेतत्सर्वं वो रामभद्रस्य ।
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।
नाहं न जनको नाग्निर्न तु वृत्तिर्न सन्ततिः ॥५॥
सीता - हा अज्जउत्त, सुमरेसि ।
पृथिवी - आः, कस्तवार्यपुत्रः ।
सीता - (सलज्जास्रम् ।) जह अम्बा भणादि ।
रामः - अम्ब पृथिवि, ईदृशोऽस्मि ।
गङ्गा - भगवति वसुन्धरे, शरीरमसि संसारस्य ।
तत्किमसंविदानेव जामात्रे कुप्यसि ।
घोरं लोके विततमयशो या च वह्नौ विशुद्धिर्लङ्काद्वीपे कथमिव जनस्तामिह श्रद्दधातु ।
इक्ष्वाकूणां कुलधनमिदं यत्समाराधनीयः कृत्स्नो लोकस्तदिह विषमे किं स वत्सः करोतु ॥६॥
लक्ष्मणः - अव्याहतान्तःप्रकाशा हि देवताः सत्त्वेषु ।
गङ्गा - तथाप्येष तेऽञ्जलिः ।
रामः - अम्ब, अनुवृत्तस्त्वया भगीरथकुले प्रसादः ।
पृथिवी - नित्यं प्रसन्नास्मि तव ।
किं त्वसावापातदुःसहः स्नेहसंवेगः न पुनर्न जानामि सीतास्नेहं रामभद्रस्य ।
दह्यमानेन मनसा दैवाद्वत्सां विहाय सः ।
लोकोत्तरेण सत्त्वेन प्रजापुण्यैश्च जीवति ॥७॥
रामः - सकरुणा हि गुरवो गर्भरूपेषु ।
सीता - (रुदती कृताञ्जलिः ।) णेदु मं अत्तणो अङ्गेसु विलअं अम्बा ।
गङ्गा - किं ब्रवीषि ! अविलीना वत्से, संवत्सरसहस्राणि भूयाः ।
पृथिवी - वत्से, अवेक्षणीयौ ते पुत्रौ ।
सीता - किं एहिं अणाहेहिं ।
रामः - हृदय, वज्रमसि ।
गङ्गा - कथं वत्सौ सनाथावप्यनाथौ ।
सीता - कीरिसं मे अभग्गाए सणाहत्तणम् ।
देव्यौ - जगन्मङ्गलमात्मानं कथं त्वमवमन्यसे ।
आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृष्यते ॥८॥
लक्ष्मणः - आर्य, श्रूयताम् ।
रामः - लोकः शृणोतु ।
(नेपथ्ये कलकलः ।) रामः - अद्भुततरं किमपि ।
सीता - किन्त्ति आबद्धकलकलं पज्जसिअं अन्तरिक्खम् ।
देव्यौ - ज्ञातम् ।
भृशाश्वः कौशिको राम इति येषां गुरुक्रमः ।
प्रादुर्भवन्ति तान्येव शस्त्राणि सह जृम्भकैः ॥९॥
(नेपथ्ये ।) देवि सीते नमस्तेऽस्तु गतिर्नः पुत्रकौ हि ते ।
आलेख्यदर्शनादेव ययोर्दाता रघूद्वहः ॥१०॥
सीता - दिट्ठिआ अत्थदेवदाओ एदाओ ।
अज्जउत्त, अज्जावि दे पसादा पडिप्फुरन्दि ।
लक्ष्मणः - उक्तमासीदार्येण सर्वथैतानि त्वत्प्रसवमुपस्थास्यन्तीति ।
देव्यौ - नमो वः परमास्त्रेभ्यो धन्याः स्मो वः परिग्रहात् ।
काले ध्यातैरुपस्थेयं वत्सयोर्भद्रमस्तु वः ॥११॥
रामः - क्षुभिताः कामपि दशां कुर्वन्ति मम सम्प्रति ।
विस्मयानन्दसन्दर्भजर्जराः करुणोर्मयः ॥१२॥
देव्यौ - मोदस्व वत्से, मोदस्व ।
रामभद्रतुल्यौ ते पुत्रकाविदानीं संवृत्तौ ।
सीता - भअवदीओ, को एदाणं खत्तिओइदविहिं कारैस्सदि ।
रामः - एषा वसिष्ठशिष्याणां रघूणां वंशनन्दिनी ।
कष्टं सीतापि सुतयोः संस्कर्तारं न विन्दति ॥१३॥
गङ्गा - भद्रे, किं तवानया चिन्तया ।
एतौ हि वत्सौ स्तन्यत्यागात्परेण भगवतो वाल्मीकेरर्पयिष्यामि ।
वसिष्ठ एव ह्याचार्यो रघुवंशस्य सम्प्रति ।
स एव चानयोर्ब्रह्मक्षत्रकृत्यं करिष्यति ॥१४॥
यथा वसिष्ठाङ्गिरसौ ऋषिः प्राचेतसस्तथा ।
जनकानां रघूणां च वंशयोरुभयोर्गुरुः ॥१५॥
रामः - सुविचिन्तितं भगवत्या ।
लक्ष्मणः - आर्य, सत्यं विज्ञापयामि ।
तैस्तैरुपायैरिमौ वत्सौ कुशलवावुत्प्रेक्षे ।
एतौ हि जन्मसिद्धास्त्रौ प्राप्तप्राचेतसावुभौ ।
आर्यतुल्याकृती वीरौ वयसा द्वादशाब्दकौ ॥१६॥
रामः - वत्सावित्येवाहं परिप्लवमानहृदयः प्रमुग्धोस्मि ।
पृथिवी - एहि वत्से, पवित्रीकुरु रसातलम् ।
रामः - प्रिये, लोकान्तरं गतासि ।
सीता - णेदु मं अत्तणो अङ्गेसु विलअं अम्बा ।
ण सहिस्सं ईरिसं जीअलोअस्स परिभवं अणुभविदुम् ।
लक्ष्मणः - किमुत्तरं स्यात् ।
पृथिवी - मन्नियोगतः स्तन्यत्यागं यावत्पुत्रयोरवेक्षस्व ।
परेण तु यथा रोचिष्यते तथा करिष्यामि ।
गङ्गा - एवं तावत् ।
(इति निष्क्रान्ते देव्यौ सीता च ।) रामः - कथं प्रतिपन्न एव तावत् ।
हा चारित्रदेवते लोकान्तरे पर्यवसितासि ।
(इति मूर्च्छति ।) लक्ष्मणः - भगवन्वाल्मीके, परित्रायस्व परित्रायस्व ।
एष ते काव्यार्थः ।
(नेपथ्ये ।) अपनीयतामातोद्यम् ।
भो जङ्गमस्थावराः प्राणभृतो मर्त्यामर्त्याः, पश्यन्त्विदानीं वाल्मीकिनाभ्यनुज्ञातं पवित्रमाश्चर्यम् ।
लक्ष्मणः - (विलोक्य ।) मन्थादिव क्षुभ्यति गाङ्गमम्भो व्याप्तं च देवर्षिभिरन्तरिक्षम् ।
आश्चर्यमार्या सह देवताभ्यां गङ्गामहीभ्यां सलिलादुपैति ॥१७॥
(नेपथ्ये ।) अरुन्धति जगद्वन्द्ये गङ्गापृथ्व्यौ जुषस्व नौ ।
अर्पितेयं तवावाभ्यां सीता पुण्यव्रता वधूः ॥१८॥
लक्ष्मणः - अहो आश्चर्यमाश्चर्यम् ।
आर्ये, पश्य पश्य ।
कष्टमद्यापि नोच्छ्वसित्यार्यः ।
(ततः प्रविशत्यरुन्धती सीता च ।) अरुन्धती - त्वरस्व वत्से वैदेहि मुञ्च शालीनशीलताम् ।
एहि जीवय मे वत्सं सौम्यस्पर्शेन पाणिना ॥१९॥
सीता - (ससम्भ्रमं स्पृशति ।) समस्ससदु समस्ससदु अज्जउत्तो ।
रामः - (समाश्वस्य सानन्दम् ।) भोः, किमेतत् ।
(दृष्ट्वा सहर्षाद्भुतम् ।) कथं देवी जानकी ।
(सलज्जम् ।) अये, कथमम्बारुन्धती ।
कथं सर्वे ऋष्यशृङ्गादयोऽस्मद्गुरवः ।
अरुन्धती - वत्स, एषा भागीरथी रघुकुलदेवता देवी गङ्गा सुप्रसन्ना ।
(नेपथ्ये ।) जगत्पते रामभद्र, स्मर्यतामालेख्यदर्शने मां प्रत्यात्मवचनम् ।
सा त्वमम्ब स्नुषायामरुन्धतीव सीतायां शिवानुध्यानपरा भवेति ।
तदनृणास्मि ।
अरुन्धती - इयं ते श्वश्रूर्भगवती वसुन्धरा ।
(नेपथ्ये ।) उक्तमासीदायुष्मता वत्सायाः परित्यागे “भगवति वसुन्धरे, श्लाघ्यां दुहितरमवेक्षस्व जानकीम्” इति ।
तदधुना कृतवचनास्मि ।
रामः - कृतापराधोऽपि भगवति, त्वयानुकम्पयितव्यो रामः प्रणमति ।
अरुन्धती - भो भोः पौरजानपदाः, इयमधुना वसुन्धराजाह्नवीभ्यामेवं प्रशस्यमाना मया चारुन्धत्या च समर्पिता पूर्वं भगवता वैश्वानरेण निर्णीतपुण्यचारित्रा सब्रह्मकैश्च देवैः स्तुता सावित्रकुलवधूर्देवयजनसम्भवा जानकी परिगृह्यताम् ।
कथमिह भवन्तो मन्यन्ते ।
लक्ष्मणः - आर्य, एवमम्बयारुन्धत्या च निर्भर्त्सिताः पौरजानपदाः कृत्स्नश्च भूतग्राम आर्यां नमस्कुर्वन्ति ।
लोकपालाः सप्तर्षयश्च पुष्पवृष्टिभिरुपतिष्ठन्ते ।
अरुन्धती - जगत्पते रामभद्र, नियोजय यथाधर्मं प्रियां त्वं धर्मचारिणीम् ।
हिरण्मय्याः प्रतिकृतेः पुण्यां प्रकृतिमध्वरे ॥२०॥
सीता - (स्वगतम् ।) अवि जाणादि अज्जउत्तो सीदाए दुक्खं पडिमज्जिदुम् ।
रामः - यथा भगवत्यादिशति ।
लक्ष्मणः - कृतार्थोऽस्मि ।
सीता - पञ्चुज्जीविदह्मि ।
लक्ष्मणः - आर्ये, अयं लक्ष्मणः प्रणमति ।
सीता - वच्छ, ईरिसो तुमं चिरं जीअ ।
अरुन्धती - भगवन्वाल्मीके, उपनयेदानीं सीतागर्भसम्भवौ रामभद्रस्य कुशलवौ ।
(इति निष्क्रान्ता ।) रामलक्ष्मणौ - दिष्ट्या तथैवैतत् ।
सीता - कहिं ते पुत्तआ ।
(ततः प्रविशति वाल्मीकिः कुशलवौ च ।) वाल्मीकिः - वत्सौ, एष वां रघुपतिः पिता ।
एष लक्ष्मणः कनिष्ठतातः ।
एषा सीता जननी ।
एष राजर्षिर्जनको मातामहः ।
सीता - (सहर्षकरुणाद्भुतं विलोक्य ।) कहं तादो ।
कहं जादा ।
वत्सौ - हा तात, हा अम्ब, हा मातामह ।
रामलक्ष्मणौ - (सहर्षमालिङ्ग्य ।) ननु वत्सौ, युवां प्राप्तौ स्थः ।
सीता - एहि जाद कुस, एहि जाद लव, चिरस्स मं परिस्सजह लोअन्दरादो आअदं जणणिम् ।
कुशलवौ - (तथा कृत्वा ।) धन्यौ स्वः ।
सीता - भअवं, एसा हं पणमामि ।
वाल्मीकिः - वत्से, एवमेव चिरं भूयाः ।
(नेपथ्ये ।) उत्खातलवणो मधुरेश्वरः प्राप्तः ।
लक्ष्मणः - सानुषङ्गाणि कल्याणानि ।
रामः - सर्वमिदमनुभवन्नपि न प्रत्येमि ।
यद्वा प्रकृतिरियमभ्युदयानाम् ।
वाल्मीकिः - रामभद्र, उच्यतां किं ते भूयः प्रियमुपहरामि ।
रामः - अतः परमपि प्रियमस्ति ।
किं त्विदं भरतवाक्यमस्तु पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सेयं कथा माङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च ।
तामेतां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः शब्दब्रह्मविदः कवेः परिणतां प्राज्ञस्य वाणीमिमाम् ॥२१॥
(निष्क्रान्ताः सर्वे ।) इति सप्तमोऽङ्कः ।