०६

षष्ठोऽङ्कः ।
(ततः प्रविशति विमानेनोज्ज्वलं विद्याधरमिथुनम् ।) विद्याधरः - अहो नु खल्वनयोर्विकर्तनकुलकुमारयोरकाण्डकलहप्रचण्डयोरुद्द्योतितक्षत्रलक्ष्मीकयोरत्यद्भुतोद्भ्रान्तदेवासुराणि विक्रान्तविलसितानि ।
तथाहि प्रिये, पश्य ।
रणत्करणझञ्झणक्वणितकिङ्किणीकं धनुर्ध्वनद्गुरुगुणाटनीकृतकरालकोलाहलम् ।
वितत्य किरतोः शरानविरतं पुनः शूरयोर्विचित्रमभिवर्तते भुवनभीममायोधनम् ॥१॥
जृम्भितं च विचित्राय मङ्गलाय द्वयोरपि ।
स्तनयित्नोरिवामन्ददुन्दुभेर्दुन्दुमायितम् ॥२॥
तत्प्रवर्त्यतामनयोः प्रवीरयोरनवरतमविरलमिलितविकचकनककमलकमनीयसंहतिरमरतरुतरुणमणिमुकुलनिकरमकरन्दसुन्दरः पुष्पनिपातः ।
विद्याधरी - ता किं ति पुरो आआसं दुद्दन्ततरलतडिच्छडाकडारं अवरं विअ झत्ति संवुत्तम् ।
विद्याधरः - तत्किं नु खल्वद्य ।
त्वष्टृयन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुज्ज्वलम् ।
पुटभेदो ललाटस्थनीललोहितचक्षुषः ॥३॥
आं ज्ञातम् ।
जातक्षोभेण चन्द्रकेतुना प्रयुक्तमप्रतिरूपमाग्नेयमस्त्रम्, यस्यायमग्निवच्छरसम्पातः ।
सम्प्रति हि ।
अवदग्धबर्बरितकेतुचामरैरपयातमेव हि विमानमण्डलैः ।
दहति ध्वजांशुकपटावलीमिमां नवकिंशुकद्युतिसविभ्रमः शिखी ॥४॥
आश्चर्यम् ।
प्रवृत्त एवायमुच्चण्डवज्रखण्डावस्फोटपटुरटत्स्फुलिङ्गगुरुरुत्तालतुमुललेलिहानोज्ज्वलज्ज्वालासम्भारभैरवः भगवानुषर्बुधः ।
प्रचण्डश्चास्य सर्वतः सम्पातः ।
तत्प्रियामंशुकेनाच्छाद्य सुदूरमपसरामि ।
(तथा करोति ।) विद्याधरी - दिट्ठिआ एदेण विमलमुत्तासेअसीअलसिणिद्धमसिणमंसलेण णाहदेहप्पंसेण आणन्दसन्दलिदघुण्णामाणवेअणाए अद्धोदिदो एव्व अन्दरिदो मे सन्दावो ।
विद्याधरः - अयि, किमत्र मया कृतम् ।
अथवा ।
न किञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति ।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥५॥
विद्याधरी - कहं अविरलविलोलघुण्णमाणविज्जुल्लदाविलासमंसलेहिं मत्तमयूरकण्ठसामलेहिं ओत्थरीअदि णभोङ्गणं जलहरेहिं ।
विद्याधरः - कुमारलवप्रयुक्तवारुणास्त्रप्रभावः खल्वेषः ।
कथमविरलप्रवृत्तवारिधारासम्पातैः प्रशान्तमेव पावकास्त्रम् ।
विद्याधरी - पिअं मे पिअं मे ।
विद्याधरः - हन्त भोः, सर्वमतिमात्रं दोषाय ।
यत्प्रलयवातोत्क्षोभगम्भीरगुलुगुलायमानमेघमेदुरितान्धकारनीरन्ध्रनद्धमिव एकवारविश्वग्रसनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगानिद्रानिरुद्धसर्वद्वारं नारायणोदरनिविष्टमिव भूतं विपद्यते ।
साधु चन्द्रकेतो, साधु ।
स्थाने वायव्यमस्त्रमीरितम् ।
यतः ।
विद्याकल्पेन मरुता मेघानां भूयसामपि ।
ब्रह्मणीव विवर्तानां क्वापि प्रविलयः कृतः ॥६॥
विद्याधरी - णाध, को दाणिं एसो ससम्भमोक्खित्तकरम्भमदुत्तरीअञ्चलो दूरदो एव्व महुरसिणिद्धवअणपडिसिद्धजुद्धव्वावारो एदाणं अन्दरे विमाणवरं ओदरावेदि ।
विद्याधरः - (दृष्ट्वा ।) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः ।
शान्तं महापुरुषसङ्गदितं निशम्य तद्गौरवात्समुपसंहृतसम्प्रहारः ।
शान्तो लवः प्रणत एव च चन्द्रकेतुः कल्याणमस्तु सुतसङ्गमनेन राज्ञः ॥७॥
तदितस्तावदेहि ।
(इति निष्क्रान्तौ ।) मिश्रविष्कम्भः ।
(ततः प्रविशति रामो लवः प्रणतश्चन्द्रकेतुश्च ।) रामः - (पुष्पकादवतरन् ।) दिनकरकुलचन्द्रचन्द्रकेतो सरभसमेहि दृढं परिष्वजस्व ।
तुहिनशकलशीतलैस्तवाङ्गैः शममुपयातु ममापि चित्तदाहः ॥८॥
(उत्थाप्य सस्नेहास्रं परिष्वज्य ।) अप्यनामयं नूतनदिव्यास्त्रायोधनस्य तव ।
चन्द्रकेतुः - कुशलमत्यद्भुतप्रियवयस्यलाभाभ्युदयेन ।
तद्विज्ञापयामि मामिव विशेषेण स्निग्धेन चक्षुषा पश्यत्वमुं वीरमनरालसाहसं तातः ।
रामः - (लवं निरूप्य ।) दिष्ट्या अतिगम्भीरमधुरकल्याणाकृतिरयं सवयसो वत्सस्य ।
त्रातुं लोकानिव परिणतः कायवानस्त्रवेदः क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै ।
सामर्थ्यानामिव समुदयः सञ्चयो वा गुणानामाविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः ॥९॥
लवः - (स्वगतम् ।) अहो पुण्यानुभावदर्शनोऽयं महापुरुषः ।
आश्वास इव भक्तीनामेकमायतनं महत् ।
प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥१०॥
आश्चर्यम् ।
विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघनस्तदौद्धत्यं क्वापि व्रजति विनयः प्रह्वयति माम् ।
झटित्यस्मिन्दृष्टे किमिति परवानस्मि यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥११॥
रामः - तत्किमयमेकपद एव मे दुःखविश्रामं ददात्युपस्नेहयति च कुतोऽपि निमित्तादन्तरात्मानम् ।
अथवा स्नेहश्च निमित्तसव्यपेक्ष इति विप्रतिषिद्धमेतत् ।
व्यतिषजति पदार्थानान्तरः कोऽपि हेतुर्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते ।
विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥१२॥
लवः - चन्द्रकेतो, क एते ।
चन्द्रकेतुः - प्रियवयस्य, ननु तातपादाः ।
लवः - ममापि धर्मतस्तथैव यतः प्रियवयस्येति भवतोक्तम् ।
किन्तु चत्वारः किल भवन्त्येवंव्यपदेशभागिनस्तत्रभवन्तो रामायणकथापुरुषाः ।
तद्विशेषं ब्रूहि ।
चन्द्रकेतुः - ज्येष्ठतात इत्यवेहि ।
लवः - (सोल्लासम् ।) कथं रघुनाथ एव ।
दिष्ट्या सुप्रभातमद्य यदयं देवो दृष्टः ।
(सविनयं निर्वर्ण्य ।) तात, प्राचेतसान्तेवासी लवोऽभिवादयते ।
रामः - आयुष्मन्, एह्येहि ।
(इति सस्नेहमालिङ्ग्य ।) अयि वत्स, कृतमत्यन्तविनयेन ।
अङ्गेन मामपरिश्लथं परिरम्भस्व ।
परिणतकठोरपुष्करगर्भच्छदपीनमसृणसुकुमारः ।
नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः ॥१३॥
लवः - (स्वगतम् ।) ईदृशो मां प्रत्यमीषामकारणस्नेहः ।
मया पुनरेभ्य एवाभिद्रोग्धुमज्ञेनायुधपरिग्रहः कृतः ।
(प्रकाशम् ।) मृष्यन्तां त्विदानीं लवस्य बालिशतां तातदापाः ।
रामः - किमपराद्धं वत्सेन ।
चन्द्रकेतुः - अश्वानुयात्रिकेभ्यस्तातप्रतापाविष्करणमुपश्रुत्य वीरायितमनेन ।
रामः - नन्वयमलङ्कारः क्षत्रियस्य ।
न तेजस्तेजस्वी प्रसृतमपरेषां विषहते स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः ।
मयूखैरश्रान्तं तपति यदि देवो दिनकरः किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति ॥१४॥
चन्द्रकेतुः - अमर्षोऽप्यस्यैव शोभते महावीरस्य ।
पश्यन्तु हि तातपादाः ।
प्रियवयस्यनियुक्तेन जृम्भकास्त्रेण विक्रम्य स्तम्भितानि सर्वसैन्यानि ।
रामः - (सविस्मयखेदं निर्वर्ण्य ।
स्वगतम् ।) अहो, वत्सस्य ईदृशः प्रभावः ।
(प्रकाशम् ।) वत्स, संह्रियतामस्त्रम् ।
त्वमपि चन्द्रकेतो, निर्व्यापारतया विलक्षणानि सान्त्वय बलानि ।
(लवः प्रणिधानं नाटयति ।) चन्द्रकेतुः - यथा निर्दिष्टम् ।
(इति निष्क्रान्तः ।) लवः - तात, प्रशान्तमस्त्रम् ।
रामः - सरहस्यप्रयोगसंहारजृम्भकास्त्राणि दिष्ट्या वत्सस्यापि सम्पद्यन्ते ।
ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रं शरदस्तपांसि ।
एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥१५॥
अथैतामस्त्रमन्त्रोपनिषदं भगवान्कृशाश्वः परःसहस्राधिकसंवत्सरपरिचर्यानिरतायान्तेवासिने कौशिकाय प्रोवाच ।
स भगवान्मह्यमिति गुरुपूर्वानुक्रमः ।
कुमारस्य कुतः सम्प्रदाय इति पृच्छामि ।
लवः - स्वतःप्रकाशान्यावयोरस्त्राणि ।
रामः - (विचिन्त्य ।) किं न सम्भाव्यते ।
प्रकृष्टपुण्योपादानकः कोऽपि महिमा स्यात् ।
द्विवचनं तु कथम् ।
लवः - भ्रातरावावां यमौ ।
रामः - स तर्हि द्वितीयः क्व ।
(नेपथ्ये ।) दाण्डायन, आयुष्मतः किल लवस्य नरेन्द्रसैन्यैरायोधनं ननु किमात्थ सखे तथेति ।
अद्यास्तमेतु भुवनेषु च राजशब्दः क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु ॥१६॥
रामः - अथ कोऽयमिन्द्रमणिमेचकच्छविर्ध्वनिनैव बद्धपुलकं करोति माम् ।
नवनीलनीरधरधीरगर्जितक्षणबद्धकुङ्मलकदम्बडम्बरम् ॥१७॥
लवः - अयमसौ मम ज्यायानार्यः कुशो नाम भरताश्रमात्प्रतिनिवृत्तः ।
रामः - (सकौतुकम् ।) तर्हि वत्स, इत एवैतमाह्वयायुष्मन्तम् ।
लवः - यदाज्ञापयति ।
(इति निष्क्रान्तः ।) (ततः प्रविशति कुशः ।) कुशः - (सक्रोधं कृतधैर्यं धनुरास्फाल्य ।) दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादामनोर्दृप्तानां दमनाय दीपितनिजक्षत्रप्रतापाग्निभिः ।
आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो दीप्तास्त्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः ॥१८॥
(विकटं परिक्रामति ।) रामः - कोऽप्यस्मिन्क्षत्रियपोतके पौरुषातिरेकः ।
तथाहि ।
दृष्टिस्तृणीकृतजगन्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥१९॥
लवः - (उपसृत्य ।) जयत्वार्यः ।
कुशः - नन्वायुष्मन्, किमियं वार्ता युद्धं युद्धमिति ।
लवः - यत्किञ्चिदेतत् ।
आर्यस्तु दृप्तं भावमुत्सृज्य विनयेन वर्तताम् ।
कुशः - किमर्थम् ।
लवः - यदत्र देवो रघुनन्दनः स्थितः ।
स रामायणकथानायको ब्रह्मकोशस्य गोप्ता ।
कुशः - आशंसनीयपुण्यदर्शनः स महात्मा ।
किन्तु स कथमस्माभिरुपगन्तव्य इति सम्प्रधारयामि ।
लवः - यथैव गुरुस्तथोपसदनेन ।
कुशः - कथं हि नामैतत् ।
लवः - अत्युदात्तः सुजनश्चन्द्रकेतुरौर्मिलेयः प्रियवयस्येति सख्येन मामुपतिष्ठते ।
तेन सम्बन्धेन धर्मतस्तात एवायं राजर्षिः ।
कुशः - सम्प्रत्यवचनीयो राजन्येऽपि प्रश्रयः ।
(उभौ परिक्रामतः ।) लवः - पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसम्भाव्यमानविविधलोकोत्तरसुचरितातिशयम् ।
कुशः - (निर्वर्ण्य ।) अहो प्रासादिकं रूपमनुभावश्च पावनः ।
स्थाने रामायणकविर्देवीं वाचमवीवृधत् ॥२०॥
तात, प्राचेतसान्तेवासी कुशोऽभिवादयते ।
रामः - एह्येह्यायुष्मन् ।
अमृताध्मातजीमूतस्निग्धसंहननस्य ते ।
परिष्वङ्गाय वात्सल्यादयमुत्कण्ठते जनः ॥२१॥
(परिष्वज्य ।
स्वगतम् ।) तत्किमित्ययं च दारकः ।
अङ्गादङ्गात्सृत इव निजस्नेहजो देहसारः प्रादुर्भूय स्थित इव बहिश्चेतनाधातुरेकः ।
सान्द्रानन्दक्षुभितहृदयप्रस्रवेणावसिक्तो गाढाश्लेषः स हि मम हिमच्योतमाशंसतीव ॥२२॥
लवः - ललाटन्तपस्तपति घर्मांशुः ।
तदत्र सालवृक्षच्छायायां मुहूर्तमासनपरिग्रहं करोतु तातः ।
रामः - यदभिरुचितं वत्सस्य ।
(परिक्रम्य यथोचितमुपविशन्ति ।) रामः - (स्वगतम् ।) अहो प्रश्रययोगेऽपि गतिस्थित्यासनादयः ।
साम्राज्यशंसिनो भावाः कुशस्य च लवस्य च ॥२३॥
वपुरवियुतसिद्धा एव लक्ष्मीविलासाः प्रतिकलकमनीयां कान्तिमुद्भेदयन्ति ।
अमलिनमिव चन्द्रं रश्मयः स्वे यथा वा विकसितमरविन्दं बिन्दवो माकरन्दाः ॥२४॥
भूयिष्ठं च रघुकुलकौमारमनयोः पश्यामि ।
कठोरपारावतकण्ठमेचकं वपुर्वृषस्कन्धसुबन्धुरांसयोः ।
प्रसन्नसिंहस्तिमितं च वीक्षितं ध्वनिश्च माङ्गल्यमृदङ्गमांसलः ॥२५॥
(निपुणं निरूपयन् ।) अये, न केवलमस्मद्वंशसंवादिन्याकृतिः ।
अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति ।
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णोरभिनवशतपत्रश्रीमदास्यं प्रियायाः ॥२६।
शुक्लाच्छदन्तच्छविसुन्दरेयं सैवोष्ठमुद्रा स च कर्णपाशः ।
नेत्रे पुनर्यद्यपि रक्तनीले तथापि सौभाग्यगुणः स एव ॥२७॥
(विचिन्त्य ।) तदेतत्प्राचेतसाध्युषितमरण्यं यत्र किल देवी परित्यक्ता ।
इयं चानयोराकृतिर्वयोऽनुभावश्च ।
यत्स्वतःप्रकाशान्यस्त्राणीति च ।
तत्रापि स्मरामि खलु तदपि चित्रदर्शनप्रासङ्गिकं शस्त्राभ्यनुज्ञानं प्रबद्धं स्यात् ।
न ह्यसम्प्रदायिकान्यस्त्राणि पूर्वेषामपि शुश्रुमः ।
अयं विस्मयसम्प्लवमानसुखदुःखातिशयो हृदयस्य मे विप्रलम्भः ।
यमाविति च भूयिष्ठमात्मसंवादः ।
जीवद्वयापत्यचिह्नो हि देव्या गर्भिणीभाव आसीत् ।
(सास्रम् ।) परां कोटिं स्नेहे परिचयविकासादधिगते रहो विस्रब्धाया अपि सहजलज्जाजडदृशः ।
मयैवादौ ज्ञातः करतलपरामर्शकलया द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया ॥२८॥
(रुदित्वा ।) तत्किमेतौ पृच्छामि केनचिदुपायेन ।
लवः - तात, किमेतत् ।
बाष्पवर्षेण नीतं वो जगन्मङ्गलमाननम् ।
अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम् ॥२९॥
कुशः - अयि वत्स, विना सीतादेव्या किमिव हि न दुःखं रघुपतेः प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति ।
स च स्नेहस्तावानयमपि वियोगो निरवधिः किमेवं त्वं पृच्छस्यनधिगतरामायण इव ॥३०॥
रामः - (स्वगतम् ।) अये, तटस्थ आलापः ।
कृतं प्रश्नेन ।
मुग्धहृदय, कोऽयमाकस्मिकस्ते सम्प्लवाधिकारः ।
एवं निर्भिन्नहृदयावेगः शिशुजनेनाप्यनुकम्पितोऽस्मि ।
भवतु तावदन्तरयामि ।
(प्रकाशम् ।) वत्सौ, रामायणं रामायणमिति श्रूयते भगवतो वाल्मीकेः सरस्वतीनिष्यन्दः प्रशस्तिरादित्यवंशस्य तत्कौतूहलेन यत्किञ्चिच्छ्रोतुमिच्छामि ।
कुशः - कृत्स्न एव सन्दर्भोऽस्माभिरावृत्तः स्मृतिप्रत्युपस्थितौ तावदिमौ बालचरितस्यासाते द्वौ श्लोकौ ।
रामः - उदीरयतं वत्सौ ।
कुशः - प्रिया तु सीता रामस्य दाराः पितृकृता इति ।
गुणै रूपगुणैश्चापि प्रीतिर्भूयोऽप्यवर्धत ॥३१॥
तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत् ।
हृदयं त्वेव जानाति प्रीतियोगं परस्परम् ॥३२॥
रामः - कष्टमतिदारुणो हृदयमर्मोद्धातः ।
हा देवि, एवं किलैतदासीत् ।
अहो निरन्वयविपर्यासविप्रलम्भस्मृतिपर्यवसायिनस्तावकाः संसारवृत्तान्ताः ।
क्व तावानानन्दो निरतिशयविस्रम्भबहुलः क्व वान्योन्यप्रेम क्व च नु गहनाः कौतुकरसाः ।
सुखे वा दुःखे वा क्व न खलु तदैक्यं हृदययोस्तथाप्येष प्राणः स्फुरति न तु पापो विरमति ॥३३॥
भोः कष्टम् ।
प्रियागुणसहस्राणां क्रमोन्मीलनतत्परः ।
य एव दुःसहः कालस्तमेव स्मारिता वयम् ॥३४॥
यदा किञ्चित्किञ्चित्कृतपदमहोभिः कतिपयैर्यदेतद्विस्तारि स्तनमुकुलमासीन्मृगदृशः ।
वयःस्नेहाकूतव्यतिकरघनो यत्र मदनः प्रगल्भव्यापारः स्फुरति हृदि मुग्धश्च वपुषि ॥३५॥
लवः - अयं तु चित्रकूटवर्त्मनि मन्दाकिनीविहारे सीतादेवीमुद्दिश्य रघुपतेः श्लोकः ।
त्वदर्थमिव विन्यस्तः शिलापट्टोऽयमायतः ।
यस्यायमभितः पुष्पैः प्रवृष्ट इव केसरः ॥३६॥
रामः - (सलज्जास्मितस्नेहकरुणम् ।) अति हि नाम मुग्धः शिशुजनः विशेषतस्त्वरण्यचरः ।
हा देवि, स्मरसि वा तस्य तत्समयविस्रम्भातिप्रसङ्गस्य ।
श्रमाम्बुशिशिरीभवत्प्रसृतमन्दमन्दाकिनीमरुत्तरलितालकाकुलललाटचन्द्रद्युति ।
अकुङ्कुमकलङ्कितोज्ज्वलकपोलमुत्प्रेक्ष्यते निराभरणसुन्दरश्रवणपाशमुग्धं मुखम् ॥३७॥
(स्तम्भित इव स्थित्वा ।
सकरुणम् ।) अहो न खलु भोः, चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः प्रवासे चाश्वासं न खलु न करोति प्रियजनः ।
जगज्जीर्णारण्यं भवति च कलत्रेऽप्युपरते कुकूलानां राशौ तदनु हृदयं पच्यत इव ॥३८॥
(नेपथ्ये ।) वसिष्ठो वाल्मीकिर्दशरथमहिष्योऽथ जनकः सहैवारुन्धत्या शिशुकलहमाकर्ण्य सभयाः ।
जराग्रस्तैर्गात्रैरथ खलु सुदूराश्रमतया चिरेणागच्छन्ति त्वरितमनसो विश्लथजटाः ॥३९॥
रामः - कथं भगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चात्रैव ।
कथं खलु ते द्रष्टव्याः ।
(सकरुणं विलोक्य ।) तातजनकोऽप्यत्रैवायात इति वज्रेणेव ताडितोऽस्मि मन्दभाग्यः ।
सम्बन्धस्पृहणीयताप्रमुदितैर्ज्येष्ठैर्वसिष्ठादिभिर्दृष्ट्वापत्यविवाहमङ्गलविधौ तत्तातयोः सङ्गमम् ।
पश्यन्नीदृशमीदृशः पितृसखं वृत्ते महावैशसे दीर्ये किं न सहस्रधाहमथवा रामेण किं दुष्करम् ॥४०॥
(नेपथ्ये ।) भो भोः, कष्टम् ।
अनुभावमात्रसमवस्थितश्रियं सहसैव वीक्ष्य रघुनाथमीदृशम् ।
प्रथमप्रबुद्धजनकप्रबोधिता विधुराः प्रमोहमुपयान्ति मातरः ॥४१॥
रामः - जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् ।
तत्राप्यकरुणे पापे वृथा वः करुणा मयि ॥४२॥
यावत्सम्भावयामि ।
(इत्युत्तिष्ठति ।) कुशलवौ - इत इतस्तातः ।
(सकरुणं परिक्रम्य निष्क्रान्ताः सर्वे ।) इति षष्ठोऽङ्कः ।