०५

पञ्चमोऽङ्कः ।
(नेपथ्ये ।) भो भोः सैनिकाः, जातमवलम्बनमस्माकम् ।
नन्वेष त्वरितसुमन्त्रमुद्यमानप्रोद्वल्गत्प्रजवितवाजिना रथेन ।
उत्खातप्रचलितकोविदारकेतुः श्रुत्वा वः प्रधनमुपैति चन्द्रकेतुः ॥१॥
(ततः प्रविशति सुमन्त्रसारथिना रथेन धनुष्पाणिः साद्भुतहर्षसम्भ्रमश्चन्द्रकेतुः ।) चन्द्रकेतुः - आर्य सुमन्त्र, पश्य पश्य ।
किरति कलितकिञ्चित्कोपरज्यन्मुखश्रीरविरतगुणगुञ्जत्कोटिना कार्मुकेन ।
समरशिरसि चञ्चत्पञ्चचूडश्चमूनामुपरि शरतुषारं कोऽप्ययं वीरपोतः ॥२॥
साश्चर्यम् ।
मुनिजनशिशुरेकः सर्वतः सम्प्रकोपान्नव इव रघुवंशस्याप्रसिद्धिप्ररोहः ।
दलितकरिकपोलग्रन्थिटङ्कारघोरज्वलितशरसहस्रः कौतुकं मे करोति ॥३॥
सुमन्त्रः - आयुष्मन्, अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तथैव तुल्यरूपम् ।
कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥४॥
चन्द्रकेतुः - मम त्वेकमुद्दिश्य भूयसारम्भ इति हृदयमपत्रपते अयं हि शिशुरेकको मदभरेण भूरिस्फुरत्करालकरकन्दलीजटिलशस्त्रजालैर्बलैः ।
क्वणत्कनककिङ्किणीझणझणायितस्यन्दनैरमन्दमददुर्दिनद्विरदडामैररावृतः ॥५॥
सुमन्त्रः - वत्स, एभिः समस्तैरपि नालमस्य, किं पुनर्व्यस्तैः ।
चन्द्रकेतुः - आर्य, त्वर्यतां त्वर्यताम् ।
अनेन हि महानाश्रितजनप्रमारोऽस्माकमारब्धः ।
तथा हि ।
आगर्जद्गिरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वरज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुज्जृम्भयन् ।
वेल्लद्भैरवरुण्डखण्डनिकरैर्वीरो विधत्ते भुवं तृष्यत्कासकरालवक्त्रविघसव्याकीर्यमाणामिव ॥६॥
सुमन्त्रः - (स्वगतम् ।) कथमीदृशेन सह वत्सस्य चन्द्रकेतोर्द्वन्द्वसम्प्रहारमनुजानीमः ।
(विचिन्त्य ।) अथवा इक्ष्वाकुकुलवृद्धाः खलु वयम् ।
प्रत्युपस्थिते रणे का गतिः ।
चन्द्रकेतुः - (सविस्मयलज्जासम्भ्रमम् ।) हन्त धिक् ।
अपावृत्तान्येव सर्वतः सैन्यानि मम ।
सुमन्त्रः - (रथवेगं निरूप्य ।) आयुष्मन्, एष ते वाग्विषयीभूतः स वीरः ।
चन्द्रकेतुः - (विस्मृतिमभिनीय ।) आर्य, किन्नामधेयमाख्यातमाह्वायकैः ।
सुमन्त्रः - लव इति ।
चन्द्रकेतुः - भो भो लव महाबाहो किमेभिस्तव सैनिकैः ।
एषोऽहमेहि मामेव तेजस्तेजसि शाम्यतु ॥७॥
सुमन्त्रः - कुमार, पश्य पश्य ।
विनिवर्नित एष वीरपोतः पृतनानिर्मथनात्त्वयोपहूतः ।
स्तनयित्नुरवादिभावलीनामवमर्दादिव दृप्तसिंहशावः ॥८॥
(ततः प्रविशति धीरोद्धतपराक्रमो लवः ।) लवः - साधु राजपुत्र, साधु ।
सत्यमैक्ष्वाकः खल्वसि ।
तदहं परागत एवास्मि ।
(नेपथ्ये महान्कलकलः ।) लवः - (सावष्टम्भं परावृत्य ।) कथमिदानीं भग्ना अपि पुनः प्रतिनिवृत्ताः पृष्ठानुसारिणः पर्यवष्टम्भयन्ति मां चमूपतयः ।
धिग्जाल्मान् ।
अयं शैलाघातक्षुभितवडवावक्त्रहुतभुक्प्रचण्डक्रोधार्चिर्निचयकवलत्वं व्रजतु मे ।
समन्तादुत्सर्पद्धनतुमुलहेलाकलकलः पयोराशेरोघः प्रलयपवनास्फालित इव ॥९॥
(सवेगं परिक्रामति ।) चन्द्रकेतुः - भो भोः कुमार, अत्यद्भुतादपि गुणातिशयात्प्रियो मे तस्मात्सखा त्वमसि यन्मम तत्तवैव ।
तत्किं निजे परिजने कदनं करोषि नन्वेष दर्पनिकषस्तव चन्द्रकेतुः ॥१०॥
लवः - (सहर्षसम्भ्रमं परावृत्य ।) अहो महानुभावस्य प्रसन्नकर्कशा वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य ।
तत्किमेभिरेनमेव तावत्सम्भावयामि ।
(पुनर्नेपथ्ये कलकलः ।) लवः - (सक्रोधनिर्वेदम् ।) आः, कदर्थीकृतोऽहमेभिर्वीरसंवादविघ्नकारिभिः पापैः ।
(इति तदभिमुखं परिक्रामति ।) चन्द्रकेतुः - आर्य, दृश्यतां द्रष्टव्यमेतत् ।
दर्पेण कौतुकवता मयि बद्धलक्ष्यः पश्चाद्बलैरनुसृतोऽयमुदीर्णधन्वा ।
द्वेधा समुद्धतमरुत्तरलस्य धत्ते मेघस्य माघवतचापधरस्य लक्ष्मीम् ॥११॥
सुमन्त्रः - कुमार एवैनं द्रष्टुमपि जानाति ।
वयं तु केवलं परवन्तो विस्मयेन ।
चन्द्रकेतुः - भो भो राजानः, सङ्ख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदातावत्रैकस्मिन्कवचनिचितैर्नद्धचर्मोत्तरीये ।
कालज्येष्ठैरपरवयसि ख्यातिकामैर्भवद्भिर्योऽयं बद्धो युधि समभरस्तेन धिग्वो धिगस्मान् ॥१२॥
लवः - (सोन्माथम् ।) आः, कथमनुकम्पते नाम ।
(ससम्भ्रमं विचिन्त्य ।) भवतु ।
कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि ।
(इति ध्यानं नाटयति ।) सुमन्त्रः - तत्किमकस्मादुल्लोलाः सैन्यघोषाः प्रशाम्यन्ति ।
लवः - पश्याम्येनमधुना प्रगल्भम् ।
सुमन्त्रः - (ससम्भ्रमम् ।) वत्स, मन्ये कुमारकेणानेन जृम्भकास्त्रमामन्त्रितमिति ।
चन्द्रकेतुः - अत्र कः सन्देहः ।
व्यतिकर इव भीमस्तामसो वैद्युतश्च प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति ।
अथ लिखितमिवैतत्सैन्यमस्पन्दमास्ते नियतमजितवीर्यं जृम्भते जृम्भकास्त्रम् ॥१३॥
आश्चर्यमाश्चर्यम् ।
पातालोदरकुञ्जपुञ्जिततमश्यामैर्नभो जृम्भकैरुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः ।
कल्पाक्षेपकठोरभैरवमरुद्व्यस्तैरभिस्तीर्यते लीनाम्भोदतटित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥१४॥
सुमन्त्रः - कुतः पुनरस्य जृम्भकाणामागमः स्यात् ।
चन्द्रकेतुः - भगवतः प्राचेतसादिति मन्यामहे ।
सुमन्त्रः - वत्स, नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु ।
यतः ।
भृशाश्वतनया ह्येते भृशाश्वात्कौशिकं गताः ।
अथ तत्सम्प्रदायेन रामभद्रे स्थिता इति ॥१५॥
चन्द्रकेतुः - अपरेऽपि प्रचीयमानसत्त्वप्रकाशाः स्वयं सर्वं मन्त्रदृशः पश्यन्ति ।
सुमन्त्रः - वत्स, सावधानो भव ।
परागतस्ते प्रतिवीरः ।
कुमारौ - (अन्योन्यं प्रति ।) अहो प्रियदर्शनः कुमारः ।
(सस्नेहानुरागं निर्वर्ण्य ।) यदृच्छासंवादः किमु गुणगणानामतिशयः पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः ।
निजो वा सम्बन्धः किमु विधिवशात्कोऽप्यविदितो ममैतस्मिन्दृष्टे हृदयमवधानं रचयति ॥१६॥
सुमन्त्रः - भूयसां जीविनामेव धर्म एष यत्र स्वरसमयी कस्यचित्क्वचित्प्रीतिः, यत्र लौकिकानामुपचारस्तारामैत्रकं चक्षूराग इति ।
तदप्रतिसङ्ख्येयनिबन्धनं प्रमाणमामनन्ति ।
अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया ।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ॥१७॥
कुमारौ - (अन्योन्यमुद्दिश्य ।) एतस्मिन्मसृणितराजपट्टकान्ते मोक्तव्याः कथमिव सायकाः शरीरे ।
यत्प्राप्तौ मम परिरम्भणाभिलाषादुन्मीलत्पुलककदम्बमङ्गमास्ते ॥१८॥
किं चाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येदृशः ।
किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते ॥१९॥
सुमन्त्रः - (लवं निर्वर्ण्य सास्रमात्मगतम् ।) हृदय, किमन्यथा परिप्लवसे ।
मनोरथस्य यद्बीजं तद्दैवेनादितो हृतम् ।
लतायां पूर्वलूनायां प्रसवस्योद्भवः कुतः ॥२०॥
चन्द्रकेतुः - अवतराम्यार्य सुमन्त्र, स्यन्दनात् ।
सुमन्त्रः - कस्य हेतोः ।
चन्द्रकेतुः - एकस्तावदयं वीरपुरुषः पूजितो भवति ।
अपि च खल्वार्य, क्षत्रधर्मः परिपालितो भवति ।
न रथिनः पादचारमभियुञ्जन्तीति शास्त्रविदः परिभाषन्ते ।
सुमन्त्रः - (स्वगतम् ।) आः, कष्टां दशामनुप्रपन्नोऽस्मि ।
कथं हीदमनुष्ठानं मादृशः प्रतिषेधतु ।
कथं वाभ्यनुजानातु साहसैकरसां क्रियाम् ॥२१॥
चन्द्रकेतुः - यदा तातमिश्रा अपि पितुः प्रियसखं त्वामर्थसंशयेषु पृच्छन्ति तत्किमार्यो विमृशति ।
सुमन्त्रः - आयुष्मन्, एवं यथाधर्ममभिमन्यसे ।
एष साङ्ग्रामिको न्याय्य एष धर्मः सनातनः ।
इयं हि रघुसिंहानां वीरचारित्रपद्धतिः ॥२२॥
चन्द्रकेतुः - अप्रतिरूपं वचनमार्यस्य ।
इतिहासं पुराणं च धर्मप्रवचनानि च ।
भवन्त एव जानन्ति रघूणां च कुलस्थितिम् ॥२३॥
सुमन्त्रः - (सस्नेहास्रं परिष्वज्य ।) जातस्य ते पितुरपीन्द्रजितो निहन्तुर्वत्सस्य वत्स कति नाम दिनान्यमूनि ।
तस्याप्यपत्यमनुतिष्ठति वीरधर्मं दिष्ट्यागतं दशरथस्य कुलं प्रतिष्ठाम् ॥२४॥
चन्द्रकेतुः - (सकष्टम् ।) अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य नः ।
इति दुःखेन तप्यन्ते त्रयो नः पितरोऽपरे ॥२५॥
सुमन्त्रः - हृदयमर्मदारणान्येव चन्द्रकेतोर्वचनानि ।
लवः - हन्त, मिश्रीकृतक्रमो रसो वर्तते ।
यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी तथैवास्मिन्दृष्टिर्मम कलहकामः पुनरयम् ।
रणत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनुर्धृतप्रेमा बाहुर्विकचविकरालव्रणमुखः ॥२६॥
चन्द्रकेतुः - (अवतरणं निरूपयन् ।) आर्य, अयमसावैक्ष्वाकश्चन्द्रकेतुरभिवादयते ।
सुमन्त्रः - अहितस्यैव पुनः पराभवाय महानादिवराहः कल्पताम् ।
अपि च ।
देवस्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पतिस्त्वां मैत्रावरुणोऽभिनन्दतु गुरुर्यस्ते गुरूणामपि ।
ऐन्द्रावैष्णवमाग्निमारुतमथो सौपर्णमोजस्तु ते देयादेव च रामलक्ष्मणधनुर्ज्याघोषमन्त्रो जयम् ॥२७॥
लवः - अतीव नाम शोभसे रथस्थ एव ।
कृतं कृतमत्यादरेण ।
चन्द्रकेतुः - तर्हि महाभागोऽप्यन्यं रथमलङ्करोतु ।
लवः - आर्य, प्रत्यारोपय रथोपरि राजपुत्रम् ।
सुमन्त्रः - त्वमप्यनुरुध्यस्व वत्सस्य चन्द्रकेतोर्वचनम् ।
लवः - को विचारः स्वेषूपकरणेषु ।
किं त्वरण्यसदो वयमनभ्यस्तरथचर्याः ।
सुमन्त्रः - जानासि वत्स, दर्पसौजन्ययोर्यदाचरितम् ।
यदि पुनस्त्वामीदृशमैक्ष्वाको राजा रामभद्रः पश्येत्तदायमस्य स्नेहेन हृदयमभिष्यन्दयेत् ।
लवः - अन्यच्च चन्द्रकेतो, सुजनः स राजर्षिः श्रूयते ।
(सलज्जमिव ।) यदि च वयमप्येवम्प्रायाः क्रतुद्विषतामरौ क इव न गुणैस्तं राजानं जनो बहु मन्यते ।
तदपि खलु मे स व्याहारस्तुरङ्गमरक्षिणां विकृतिमखिलक्षत्राक्षेपप्रचण्डतयाकरोत् ॥२८॥
चन्द्रकेतुः - किन्नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्षः ।
लवः - अस्त्विहामर्षो माभूद्वा ।
अन्यदेतत्पृच्छामि ।
दान्तं हि राजानं राघवमनुशुश्रुमः ।
स किल नात्मना दृप्यति नाप्यस्य प्रजा वा दृप्ता जायन्ते ।
तत्किं मनुष्यास्तस्य राक्षसीं वाचमुदीरयन्ति ।
ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः ।
सा योनिः सर्ववैराणां सा हि लोकस्य निष्कृतिः ॥२९॥
इति ह स्म तां निन्दन्ति ।
इतरामभिष्टुवन्ति ।
कामं दुग्धे विप्रकर्षत्यलक्ष्मीं कीर्तिं सूते दुर्हृदो निष्प्रलान्ति ।
शुद्धां शान्तां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥३०॥
सुमन्त्रः - परिभूतोऽयं बत कुमारः प्राचेतसान्तेवासी ।
वदत्ययमभ्युपपन्नामर्षेण संस्कारेण ।
लवः - यत्पुनश्चन्द्रकेतो, वदसि किन्नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्ष इति तत्पृच्छामि किं व्यवस्थितविषयः क्षत्रधर्म इति ।
सुमन्त्रः - नैव खलु जानासि दैवमैक्ष्वाकम् ।
तद्विरमातिप्रसङ्गात् ।
सैनिकानां प्रमाथेन सत्यमोजायितं त्वया ।
जामदग्न्यस्य दमने न हि निर्बन्धमर्हसि ॥३२॥
लवः - (सहासम् ।) आर्य, जामदग्न्यस्य दमनः स राजेति कोऽयमुच्चैर्वादः ।
सिद्धं ह्येतद्वाचि वीर्यं द्विजानां बाह्वोर्वीर्यं यत्तु तत्क्षत्रियाणाम् ।
शस्त्रग्राही ब्राह्मणो जामदग्न्यस्तस्मिन्दान्ते का स्तुतिस्तस्य राज्ञः ॥३२।
चन्द्रकेतुः - (सोन्माथमिव ।) आर्य सुमन्त्र, कृतमुत्तरोत्तरेण ।
कोप्येष सम्प्रति नवः पुरुषावतारो वीरो न यस्य भगवान्भृगुनन्दनोऽपि ।
पर्याप्तसक्तभुवनामयदक्षिणानि पुण्यानि तात चरितान्यपि यो न वेद ॥३३॥
लवः - को हि रघुपतेश्चरितं महिमानं च न जानाति यदि नाम किञ्चिदस्ति वक्तव्यम् ।
अथवा शान्तम् ।
वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते ।
यानि त्रीण्यकुतोमुखान्यपि पदान्यासन्खरायोधने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥३४॥
चन्द्रकेतुः - आः तातापवादिन्, भिन्नमर्याद, अति हि नाम प्रगल्भसे ।
लवः - अये, मय्येव भ्रुकुटीमुखः संवृत्तः ।
सुमन्त्रः - स्फुरितमनयोः क्रोधेन ।
तथा हि ।
क्रोधेनोद्धतधूतकुन्तलभरः सर्वाङ्गजो वेपथुः किञ्चित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः ।
धत्ते कान्तिमिदं च वक्त्रमनयोर्भङ्गेन भिन्नभ्रुवोश्चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च ॥३५॥
लवः - कुमार, कुमार, एह्येहि ।
विमर्दक्षमां भूमिमवतरावः ।
(इति निष्क्रान्ताः सर्वे ।) इति पञ्चमोऽङ्कः ।