०४

चतुर्थोऽङ्कः ।
(ततः प्रविशतस्तापसौ ।) एकः - सौधातके, दृश्यतामद्य भूयिष्ठसन्निधापितातिथिजनस्य समधिकारम्भरमणीयता भगवतो वाल्मीकेराश्रमपदस्य ।
तथाहि ।
नीवारौदनमण्डमुष्णमधुरं सद्यः प्रसूतप्रियापीतादभ्यधिकं तपोवनमृगः पर्याप्तमाचामति ।
गन्धेन स्फुरता मनागनुसृतो भक्तस्य सर्पिष्मतः कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ॥१॥
सौधातकिः - साअदं अणीअपिआराणं जिण्णकुच्छाणं अणज्झाअकालणाणं तपोधणाणम् ।
प्रथमः - (विहस्य ।) अपूर्वः खलु बहुमानहेतुर्गुरुषु सौधातके ।
सौधातकिः - भो दण्डाअण, किण्णामहेओ दाणिं एसो महत्तस्स इत्थिआसत्थस्स धुरन्धरो अज्ज अदिही आअदो ।
दण्डायनः - धिक्प्रहसनम् ।
नन्वयमृष्यशृङ्गाश्रमादरुन्धतीं पुरस्कृत्य महाराजदशरथस्य दारानधिष्ठाय भगवान्वसिष्ठः प्राप्तः ।
तत्किमेवं प्रलपसि ।
सौधातकिः - हुं वसिट्ठो ।
दण्डायनः - अथ किम् ।
सौधातकिः - मए उण जाणिदं कोवि वग्घो विअ एसोत्ति ।
दण्डायनः - आः, किमुक्तं भवति ।
सौधातकिः - जेण परावडिदेण एव्व सा वराई कविला कल्लाणी बलामोडिअ मडमडाइआ ।
दण्डायनः - समांसो मधुपर्क इत्याम्नायं बहुमन्यमानाः श्रोत्रियायाभ्यागताय वत्सतरीं महोक्षं वा पचन्ति गृहमेधिनः ।
तं हि धर्मं धर्मसूत्रकाराः समामनन्ति ।
सौधातकिः - भो, णिगिहीदोसि ।
दण्डायनः - कथमिव ।
सौधातकिः - जेण आअदेसु वसिट्ठमिस्सेसु वच्छदरी विससिदा ।
अज्ज एव्व पच्चाअदस्स राएसिणो जणअस्स भअवदा वम्मीइणा धहिमहूहिं एव णिव्वत्तिदो महुवक्को ।
वच्छतरी उण विसज्जिदा ।
दण्डायनः - अनिवृत्तमांसानामेवङ्कल्पं व्याहरन्ति केचित् ।
निवृत्तमांसस्तु तत्रभवान् जनकः ।
सौधातकिः - किण्णिमित्तम् ।
दण्डायनः - यद्देव्याः सीतायास्तादृशं दैवदुर्विपाकमुपश्रुत्य वैखानसः संवृत्तः, तस्य कतिपयसंवत्सरश्चन्द्रद्वीपतपोवने तपस्तप्यमानस्य ।
सौधातकिः - तदो किन्ति आअदो ।
दण्डायनः - सम्प्रति च प्रियसुहृदं भगवन्तं प्राचेतसं द्रष्टुम् ।
सौधातकिः - अवि अज्ज सम्बन्धिणीहिं समं णिउत्तं दंसणं से णवेत्ति ।
दण्डायनः - सम्प्रत्येव भगवता वसिष्ठेन देव्याः कौसल्यायाः सकाशं भगवत्यरुन्धती प्रहिता ।
यथा स्वयमुपेत्य स्नेहादयं द्रष्टव्य इति ।
सौधातकिः - जह एदे ट्ठविरा परप्परं एव्व मिलिदा, तह अह्मे वि वडुहिं सह मिलअ अणज्झाअमहूस्सवं खेलन्तो मणेम्ह ।
अह कुत्थ सो जणओ ।
दण्डायनः - तथायं प्राचेतसवसिष्ठावुपास्य सम्प्रत्याश्रमस्य बहिर्वृक्षमूलमधितिष्ठति ।
य एषः हृदि नित्यानुषक्तेन सीताशोकेन तप्यते ।
अन्तःप्रसृप्तदहनो जरन्निव वनस्पतिः ॥२॥
(इति निष्क्रान्तौ ।) इति मिश्रविष्कम्भः ।
(ततः प्रविशति जनकः ।) जनकः - अपत्ये यत्तादृग्दुरितमभवत्तेन महता विषक्तस्तीव्रेण व्रणितहृदयेन व्यथयता ।
पटुर्धारावाही नव इव चिरेणापि हि न मे निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति ॥३॥
कष्टं एवं नाम जरया दुःखेन च दुरासदेन भूयः पराकसान्तपनप्रभृति भिस्तपोभिः शोषितान्तःशरीरधातोरवष्टम्भ एव महानद्यापि मम दग्धदेहो न पतति ।
अन्धतामिस्रा ह्यसूर्या नाम ते लोकाः प्रेत्य तेभ्यः प्रति विधीयन्ते य आत्मघातिन इत्येवमृषयो मन्यन्ते ।
अनेकसंवत्सरातिक्रमेऽपि प्रतिक्षणपरिभावनास्पष्टनिर्भासः प्रत्यग्र इव न मे दारुणो दुःखसंवेगः प्रशाम्यति ।
अयि मातः देवयजनसम्भवे, ईदृशस्ते निर्माणभागः परिणतः, येन लज्जया स्वच्छन्दमप्याक्रन्दितुं न शक्यते ।
हा पुत्रि, अनियतरुदितस्मितं विराजत्कतिपयकोमलदन्तकुङ्मलाग्रम् ।
वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमञ्जु जल्पितं ते ॥४॥
भगवति वसुन्धरे, सत्यमतिदृढासि ।
त्वं वह्निर्मुनयो वसिष्ठगृहिणी गङ्गा च यस्या विदुर्माहात्म्यं यदि वा रघोः कुलगुरुर्देवः स्वयं भास्करः ।
विद्यां वागिव यामसूत भवती शुद्धिं गतायाः पुनस्तस्यास्त्वद्दुहितुस्तथाविशसनं किं दारुणे मृष्यथाः ॥५॥
इत इतो भगवतीमहादेव्यौ ।
जनकः - अये, गृष्टिनोपदिश्यमानमार्गा भगवत्यरुन्धती (उत्थाय ।) का पुनर्महादेवीत्याह ।
(निरूप्य ।) हा हा, कथमयं महाराजस्य दशरथस्य धर्मदाराः प्रियसखी मे कौसल्या ।
क एतां प्रत्येति सैवेयमिति नाम ।
आसीदियं दशरथस्य गृहे यथा श्रीः श्रीरेव वा किमुपमानपदेन सैषा ।
कष्टं बतान्यदिव दैववशेन जाता दुःखात्मकं किमपि भूतमहो विकारः ॥६॥
य एव मे जनः पूर्वमासीन्मूर्तो महोत्सवः ।
क्षते क्षारमिवासह्यं जातं तस्यैव दर्शनम् ॥७॥
(ततः प्रविशत्यरुन्धती कौसल्या कञ्चुकी च ।) अरुन्धती - ननु ब्रवीमि द्रष्टव्यः स्वयमुपेत्यैव वैदेह इत्येवं वः कुलगुरोरादेशः ।
अत एव चाहं प्रेषिता ।
तत्कोऽयं पदे पदे महानध्यवसायः ।
कञ्चुकी - देवि, संस्तभ्यात्मानमनुरुध्यस्व भगवतो वसिष्ठस्यादेशमिति विज्ञापयामि ।
कौसल्या - ईरिसे काले मिहिलाहिवो मए दिट्ठव्वो त्ति समं एव्व सव्वदुःखाइं ओदरन्ति ।
ता ण सक्कणोमि उव्वट्टमाणमूलबन्धणं हिअअं पज्जवत्थावेदुम् ।
अरुन्धती - अत्र कः सन्देहः ।
सन्तानवाहीन्यपि मानुषाणां दुःखानि सम्बन्धिवियोगजानि ।
दृष्टे जने प्रेयसि दुःसहानि स्रोतःसहस्रैरिव सम्प्लवन्ते ॥८॥
कौसल्या - कहं णु खु वच्चाए मे वहूए वनगदाए तस्सा पिदुणो राएसिणो मुहं दंसम्ह ।
अरुन्धती - एष वः श्लाध्यसम्बन्धी जनकानां कुलोद्वहः ।
याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ ॥९॥
कौसल्या - एसो सो महाराअस्स हिअअणिव्विसेसो वच्चाए मे वहूए पिदा विदेहराओ सीरद्धओ ।
सुमरिदह्मि अणिव्वेदरमणीए दिवहे हा देव्व, सव्वं तं णत्थि ।
जनकः - (उपसृत्य ।) भगवत्यरुन्धति, वैदेहः सीरध्वजोऽभिवादयते ।
यया पूतम्मन्यो निधिरपि पवित्रस्य महसः पतिस्ते पूर्वेषामपि खलु गुरूणां गुरुतमः ।
त्रिलोकीमाङ्गल्यामवनितललीनेन शिरसा जगद्वन्द्यां देवीमुषसमिव वन्दे भगवतीम् ॥१०॥
अरुन्धती - अक्षरं ते ज्योतिः प्रकाश्यताम् ।
स त्वां पुनातु देवः परोरजसां य एष तपति ।
जनकः - आर्य गृष्टे, अप्यनामयमस्याः प्रजापालकस्य मातुः ।
कञ्चुकी - (स्वगतम् ।) निरवशेषमतिनिष्ठुरमुपालब्धाः स्मः ।
(प्रकाशम् ।) राजर्षे, अनेनैव मन्युना चिरपरित्यक्तरामभद्रदर्शनां नार्हसि दुःखयितुमतिदुःखितां देवीम् ।
रामभद्रस्यापि दैवदुर्योगः कोऽपि ।
यत्किल समन्ततः प्रवृत्तबीभत्सकिंवदन्तीकाः पौराः ।
न चाग्निशुद्धिमनल्पकाः प्रतियन्तीति दारुणमनुष्ठितं देवेन ।
जनकः - (सरोषम् ।) आः, कोऽयमग्निर्नामास्मत्प्रसूतिपरिशोधने ।
कष्टमेवंवादिना जनेन रामभद्रपरिभूता अपि पुनः परिभूयामहे ।
अरुन्धती - (निश्वस्य ।) एवमेतत् ।
अग्निरग्निरिति वत्सां प्रति लघून्यक्षराणि ।
सीतेत्येव पर्याप्तम् ।
हा वत्से, शिशुर्वा शिष्या वा यदसि मम तत्तिष्ठतु तथा विशुद्धेरुत्कर्षस्त्वयि तु मम भक्तिं द्रढयति ।
शिशुत्वं स्त्रैणं वा भवतु ननु वन्द्यासि जगतां गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ॥११॥
कौसल्या - अहो समुम्मूलअन्ति विअ वेअणाओ ।
(इति मूर्च्छति ।) जनकः - हन्त, किमेतत् ।
अरुन्धती - राजर्षे, किमन्यत् ।
स राजा तत्सौख्यं स च शिशुजनस्ते च दिवसाः स्मृतावाविर्भूतं त्वयि सुहृदि दृष्टे तदखिलम् ।
विपाके घोरेऽस्मिन्न खलु न विमूढा तव सखी पुरन्ध्रीणां चित्तं कुसुमसुकुमारं हि भवति ॥१२॥
जनकः - हन्त सर्वथा नृशंसोऽस्मि ।
यच्चिरस्य दृष्टान्प्रियसुहृदः प्रियदारानस्निग्ध इव पश्यामि ।
स सम्बन्धी श्लाघ्यः प्रियसुहृदसौ तच्च हृदयं स चानन्दः साक्षादपि च निखिलं जीवितफलम् ।
शरीरं जीवो वा यदधिकमतोऽन्यत्प्रियतरं महाराजः श्रीमान्किमपि मम नासीद्दशरथः ॥१३॥
कष्टमियमेव सा कौसल्या ।
यदस्याः पत्युर्वा रहसि परमन्त्रायितमभूदभूवं दम्पत्योः पृथगहमुपालम्भविषयः ।
प्रसादे कोपे वा तदनु मदधीनो विधिरभूदलं वा तत्स्मृत्वा दहति यदवस्कन्द्य हृदयम् ॥१४॥
अरुन्धती - हा कष्टम् ।
अतिचिरनिरुद्धनिःश्वासनिष्पन्दहृदयमस्याः ।
जनकः - हा प्रियसखि ।
(इति कमण्डलूदकेन सिञ्चति ।) कञ्चुकी - सुहृदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलताम् ।
पुनरकाण्डविवर्तनदारुणः परिशिनष्टि विधिर्मनसो रुजम् ॥१५॥
कौसल्या - (आश्वस्य ।) हा वच्छे जाणै, कहिं सि ।
सुमरामि दे णवविवाहलच्चीपरिग्गहेक्कमङ्गलं सम्फुल्लमुद्धमुहपुण्डरीअं आरुहन्तकौमुदीचन्दसुन्दरम् ।
एहि मे पुणो वि जादे, उज्जोएहि उच्चङ्गम् ।
सव्वहा महाराअ एव्वं भणादि ।
एसा रहुउलमहत्तराणं वहु अह्माणं दु जणअसुदा दुहिदेव्व ।
कञ्चुकी - यथाह देवी ।
पञ्चप्रसूतेरपि तस्य राज्ञः प्रियो विशेषेण सुबाहुशत्रुः ।
वधूचतुष्केऽपि तथैव नान्या प्रिया तनूजास्य यथैव सीता ॥१६॥
जनकः - हा प्रियसख महाराज दशरथ, एवमपि सर्वप्रकारहृदयङ्गमः ।
कथं विस्मर्यते ।
कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं सम्बन्धे विपरीतमेव तदभूदाराधनं ते मयि ।
त्वं कालेन तथाविधोऽप्यपहृतः सम्बन्धबीजं च तद्घोरेऽस्मिन्मम जीवलोकनरके पापस्य धिग्जीवितम् ॥१७॥
कौसल्या - जादे जाणै, किं करोमि ।
दिढवज्जलेवपडिबद्धणिच्चलं हदजीविदं मं मन्दभाइणीं ण पडिच्चअदि ।
अरुन्धती - आश्वसिहि राज्ञि, बाष्पविश्रामोऽप्यन्तरेषु कर्तव्य एव अन्यच्च किं न स्मरसि ।
यदवोचदृष्यशृङ्गाश्रमे युष्माकं कुलगुरुः भवितव्यं तथेत्युपजातमेव ।
किन्तु कल्याणोदर्कं भविष्यतीति ।
कौसल्या - कुदो अदिक्कन्दमणोरहाए मह एदम् ।
अरुन्धती - तत्किं मन्यसे राजपत्नि, मृषोद्यं तदिति ।
न हीदं क्षत्रिये, मन्तव्यम् ।
आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयोऽभूत् ।
भद्रा ह्येषां वाचि लक्ष्मीर्निषक्ता नैते वाचं विप्लुतार्थां वदन्ति ॥१८॥
(नेपथ्ये कलकलः ।
सर्वे आकर्णयन्ति ।) जनकः - अये, शिष्टानध्ययन इत्यस्खलितं खेलतां बटूनां कोलाहलः ।
कौसल्या - सुलहसोक्खं दाणिं बालत्तणं होदि ।
(निरूप्य ।) अह्महे, एदाणं मज्झे को एसो रामभद्दस्स कोमारलच्छीसावट्ठम्भेंहिं मुद्धललिदेहिं अङ्गेहिं दारओ अह्माणं लोअणे शीअलावेदि ।
अरुन्धती - (स्वगतम् ।
सहर्षोत्कण्ठम् ।) इदं नाम भागीरथीनिवेदितं रहस्यकर्णामृतम् ।
नत्वेवं विद्मः कतरोऽयमायुष्मतोः कुशलवयोरिति ।
(प्रकाशम् ।) कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो बटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन् ।
पुनरपि शिशुर्भूत्वा वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ॥१९॥
कञ्चुकी - नूनं क्षत्रियब्रह्मचारी दारकोऽयमिति मन्ये ।
जनकः - एवमेतत् ।
अस्य हि चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् ।
मौर्व्या मेखलया नियन्त्रितमधो वासश्च माञ्जिष्ठकं पाणौ कार्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः ॥२०॥
भगवत्यरुन्धति, किमित्युत्प्रेक्षसे कुतस्त्योऽयमिति ।
अरुन्धती - अद्यैव वयमागताः - जनकः - आर्य गृष्टे, अतिकौतुकं वर्तते ।
तद्भगवन्तं वाल्मीकिमेव गत्वा पृच्छ ।
इमं च दारकं ब्रूहि वत्स केऽप्येते प्रवयसस्त्वां दिदृक्षव इति ।
कञ्चुकी - यदाज्ञापयति देवः (इति निष्क्रान्तौ ।) कौसल्या - किं मण्णेध ।
एव्वं भणिदो आअमिस्सदि वा ण वेत्ति ।
जनकः - भिद्यते वा सद्वृत्तमीदृशस्य निर्माणस्य ।
कौसल्या - (निरूप्य ।) कहं सविणअणिसमिदगिट्ठिवअणो विसज्जिदासेससरिसदारओ एत्तोमुहं अवसरिदो एव्व स वच्छो ।
जनकः - (चिरं निर्वर्ण्य ।) भोः किमप्येतत् ।
महिम्नामेतस्मिन्विनयशिशिरो मौग्ध्यमसृणो विदग्धैर्निर्ग्राह्यो न पुनरविदग्धैरतिशयः ।
मनो मे सम्मोहस्थिरमपि हरत्येष बलवानयोधातुं यद्वत्परिलघुरयस्कान्तशकलः ॥२१॥
लवः - (प्रविश्य ।) अविज्ञातवयःक्रमौचित्यात्पूज्यानपि सतः कथमभिवादयिष्ये ।
(विचिन्त्य ।) अयं पुनरविरुद्धप्रकार इति वृद्धेभ्यः श्रूयते ।
(सविनयमुपसृत्य ।) एष वो लवस्य शिरसा प्रणामपर्यायः ।
अरुन्धतीजनकौ - कल्याणिन्, आयुष्मान्भूयाः ।
कौसल्या - जाद, चिरं जीव ।
अरुन्धती - एहि वत्स ।
(लवमुत्सङ्गे गृहीत्वा ।
आत्मगतम् ।) दिष्ट्या न केवलमुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः ।
कौसल्या - जाद, इदो वि दाव एहि ।
(उत्सङ्गे गृहीत्वा ।) अह्महे, ण केवलं दरविप्पट्टकन्दोट्टमंसलुज्जलेण देहबन्धणेण कवलिदारविन्दकेसरकसाअकण्ठकलहंसघोसघग्घराणुणादिणा सरेण अ रामभद्दं अणुसरेदि ।
णं कठोरकमलगब्भप्पम्मलसरीरप्पस्सो वि तारिसो एव्व ।
जाद पेक्खामि दे मुहपुण्डरीअम् ।
(चुबुकमुन्नमय्य निरूप्य सबाष्पाकृतम् ।) राएसि, किं ण पेक्खसि णिउणं णिरूवज्जन्तो वच्छाए मे वहूए मुहचन्देण वि संवददि एव्व ।
जनकः - पश्यामि सखि, पश्यामि ।
कौसल्या - अह्महे, उम्मत्तीभूदं वि अ मे हिअअं कुदो मुहं विलवदि ।
जनकः - वत्सायाश्च रघूद्वयस्य च शिशावस्मिन्नभिव्यज्यते संवृत्तिः प्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः ।
सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ हा हा देवि किमुत्पथैर्मम मनः पारिप्लवं धावति ॥२२॥
कौसल्या - जाद, अत्थि दे मादा, सुमरसि वा तादम् ।
लवः - नहि ।
कौसल्या - तदो कस्स तुमम् ।
लवः - भगवतः सुगृहीतनामधेयस्य वाल्मीकेः ।
कौसल्या - अयि जाद, कहिदव्वं कहेहि ।
लवः - एतावदेव जानामि ।
(नेपथ्ये ।) भो भोः सैनिकाः, एष खलु कुमारश्चन्द्रकेतुराज्ञापयति न केनचिदाश्रमाभ्यर्णभूमय आक्रमितव्या इति ।
अरुन्धतीजनकौ - अये, मेध्याश्वरक्षाप्रसङ्गादुपागतो वत्सश्चन्द्रकेतुर्द्रष्टव्य इत्यसौ सुदिवसः ।
कौसल्या - वच्छलक्खणस्स पुत्तओ आणवेदित्ति अमिदबिन्दुसुन्दराइं अक्खराइं सुणीअन्दि ।
लवः - आर्य, क एष चन्द्रकेतुर्नाम ।
जनकः - जानासि रामलक्ष्मणौ दाशरथी ।
लवः - एतावेव रामायणकथापुरुषौ ।
जनकः - अथ किम् ।
लवः - तत्कथं न जानामि ।
जनकः - तस्य लक्ष्मणस्यायमात्मजश्चन्द्रकेतुः ।
लवः - ऊर्मिलायाः पुत्रस्तर्हि मैथिलस्य राजर्षेर्दौहित्रः ।
अरुन्धती - आविष्कृतं कथाप्रावीण्यं वत्सेन ।
जनकः - (विचिन्त्य ।) यदि त्वमीदृशः कथायामभिज्ञस्तद्ब्रूहि तावत्पश्यामस्तेषां दशरथस्य पुत्राणां कियन्ति किन्नामधेयान्यपत्यानि केषु दारेषु प्रसूतानि ।
लवः - नायं कथाविभागोऽस्माभिरन्येन वा श्रुतपूर्वः ।
जनकः - किं न प्रणीतः कविना ।
लवः - प्रणीतो न प्रकाशितः ।
तस्यैव कोऽप्येकदेशः प्रबन्धान्तरेण रसवानभिनेयार्थः कृतः ।
तं च स्वहस्तलिखितं मुनिर्भगवान्व्यसृजद्भगवतो भरतस्य तौर्यत्रिकसूत्रधारस्य ।
जनकः - किमर्थम् ।
लवः - स किल भगवान्भरतस्तमप्सरोभिः प्रयोजयिष्यतीति ।
जनकः - सर्वमिदमाकूततरमस्माकम् ।
लवः - महती, पुनस्तस्मिन्भगवतो वाल्मीकेरास्था ।
यतः केषाञ्चिदन्तेवासिनां हस्तेन तत्पुस्तकं भरताश्रमं प्रति प्रेषितम् ।
तेषामनुयात्रिकश्चापपाणिः प्रमादच्छेदनार्थमस्मद्भ्राता प्रेषितः ।
कौसल्या - भादावि दे अत्थि ।
लवः - अस्त्यार्यः कुशो नाम ।
कौसल्या - जेट्ठेत्ति भणिदं होदि ।
लवः - एवमेतत् ।
प्रसवानुक्रमेण स किल ज्यायान् ।
जनकः - किं यमावायुष्मन्तौ ।
लवः - अथ किम् ।
जनकः - वत्स, कथय कथाप्रपञ्चस्य कियान्पर्यन्तः ।
लवः - अलीकपौरापवादोद्विग्नेन राज्ञा निर्वासितां देवीं देवयजनसम्भवां सीतामासन्नप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनिवृत्त इति ।
कौसल्या - हा वच्छे मुद्धमुहि, को दाणिं दे सरीरकुसुमस्स झत्ति देव्वदुव्विलासपरिणामो एक्काइणीए निवडिदो ।
जनकः - हा वत्से, नूनं त्वया परिभवं च वनं च घोरं तां च व्यथां प्रसवकालकृतामवाप्य ।
क्रव्याद्गणेषु परितः परिवारयत्सु सन्त्रस्तया शरणमित्यसकृत्स्मृतोऽहम् ॥२३॥
लवः - आर्ये, कावेतौ ।
अरुन्धती - इयं कौसल्या ।
अयं जनकः ।
(लवः सबहुमानखेदकौतुकं पश्यति ।) जनकः - अहो निर्दयता दुरात्मनां पौराणाम् ।
अहो रामभद्रस्य क्षिप्रकारिता ।
एतद्वैशसवज्रघोरपतनं शश्वन्ममोत्पश्यतः क्रोधस्य ज्वलितं झटित्यवसरश्चापेन शापेन वा ।
कौसल्या - (सभयकम्पम् ।) भअवदि, परित्ताअदु ।
पसादेहि कुविदं राएसिम् ।
लवः - एतद्धि परिभूतानां प्रायश्चित्तं मनस्विनाम् अरुन्धती - राजन्नपत्यं रामस्ते पाल्याश्च कृपणा जनाः ॥२४॥
जनकः - शान्तं वा रघुनन्दने तदुभयं यत्पुत्रभाण्डं हि मे ।
भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः ॥२५॥
(प्रविश्य सम्भ्रान्ता बटवः ।) कुमार कुमार ।
अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनास्माभिः स्वयं प्रत्यक्षीकृतः ।
लवः - अश्वोऽश्व इति नाम पशुसमाम्नाये साङ्ग्रामिके च पठ्यते तद्ब्रूत कीदृशः ।
बटवः - अये, श्रूयताम् ।
पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजस्रं दीर्घग्रीवः स भवति खुरास्तस्य चत्वार एव ।
शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्रमात्रान्किं व्याख्यानैर्व्रजति स पुनर्दूरमेह्येहि यामः ॥२६॥
(इत्यजिने हस्तयोश्चाकर्षन्ति ।) लवः - (सकौतुकोपरोधविनयम् ।) आर्याः पश्यत ।
एभिर्नीतोऽस्मि ।
(इति त्वरितं परिक्रामति ।) अरुन्धतीजनकौ - महत्कौतुकं वत्सस्य ।
कौसल्या - अरण्णगब्भरूवालावेहिं तुह्मे तोसिदा अह्मे अ ।
भअवदि, जाणामि तं पेक्खन्ती वञ्चिदा विअ ।
ता इदो अण्णदो भविल पेक्खम्ह दाव पलायन्तं दीहाउम् ।
अरुन्धती - अतिजवेन दूरमतिक्रान्तः स चपलः कथं दृश्यते ।
कञ्चुकी - (प्रविश्य ।) भगवान्वाल्मीकिराह ज्ञातव्यमेतदवसरे भवद्भिरिति ।
जनकः - अतिगम्भीरमेतत्किमपि ।
भगवत्यरुन्धति, सखि कौसल्ये, आर्य गृष्टे, स्वयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः ।
(इति निष्क्रान्तो वृद्धवर्गः ।) (प्रविश्य बटवः ।) पश्यतु कुमारस्तावदाश्चर्यम् ।
लवः - दृष्टमवगतं च ।
नूनमाश्वमेधिकोऽयमश्वः ।
बटवः - कथं ज्ञायते ।
लवः - ननु मूर्खाः, पठितमेव हि युष्माभिरपि तत्काण्डम् ।
किं न पश्यथ प्रत्येकं शतसङ्ख्याः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः ।
तत्प्रायमेवान्यदपि दृश्यते ।
यदि च विप्रत्ययस्तत्पृच्छथ ।
बटवः - भो भोः, किम्प्रयोजनोऽयमश्वः परिवृतः पर्यटति ।
लवः - (सस्पृहमात्मगतम् ।) अश्वमेध इति नाम विश्वजयिनां क्षत्रियाणामूर्जस्वलः सर्वक्षत्रपरिभावी महानुत्कर्षनिकषः ।
(नेपथ्ये ।) योऽयमश्वः पताकेयमथवा वीरघोषणा ।
सप्तलोकैकवीरस्य दशकण्ठकुलद्विषः ॥१७॥
लवः - (सगर्वमिति ।) अहो सन्दीपनान्यक्षराणि ।
बटवः - किमुच्यते ।
प्राज्ञः खलु कुमारः ।
लवः - भो भोः, तत्किमक्षत्रिया पृथिवी यदेवमुद्धोष्यते ।
(नेपथ्ये ।) रे रे, महाराजं प्रति कुतः क्षत्रियः ।
लवः - धिग्जाल्मान् ।
यदि नो सन्ति सन्त्येव केयमद्य बिभीषिका ।
किमुक्तैरेभिरधुना तां पताकां हरामि वः ॥२८॥
हे बटवः, परिवृत्य लोष्ठैरभिघ्नन्त उपनयतैनमश्वम् ।
एष रोहितानां मध्येचरो भवतु ।
(प्रविश्य सक्रोधः ।) पुरुषः - धिक्चपल, किमुक्तवानसि ।
तीक्ष्णतरा ह्यायुधश्रेणयः शिशोरपि दृप्तां वाचं न सहन्ते ।
राजपुत्रश्चन्द्रकेतुर्दुर्दान्तः सोऽप्यपूर्वारण्यदर्शनाक्षिप्तहृदयो न यावदायाति तावत्त्वरितमनेन तरुगहनेनापसर्पत ।
बटवः - कुमार, कृतं कृतमश्वेन ।
तर्जयन्ति विस्फारितशरासनाः कुमारमायुधीयश्रेणयः ।
दूरे चाश्रमपदम् ।
इतस्तदेहि ।
हरिणप्लुतैः पलायामहे ।
लवः - किं नाम विस्फुरन्ति शस्त्राणि ।
(इति धनुरारोपयन् ।) ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्रमुद्भूरिघोरघनघर्घरघोषमेतत् ।
ग्रासप्रसक्तहसदन्तकवक्त्रयन्त्रजृम्भाविडम्बि विकटोदरमस्तु चापम् ॥२९॥
(इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे ।) चतुर्थोऽङ्कः ।