०३

तृतीयोऽङ्कः ।
(ततः प्रविशति नदीद्वयम् ।) एका - सखि मुरले, किमसि सम्भ्रान्तेव ।
मुरला - सखि तमसे, प्रेषितास्मि भगवतोऽगस्त्यस्य पत्न्या लोपामुद्रया सरिद्वरां गोदावरीमभिधातुम् ।
जानास्येव यथा वधूपरित्यागात्प्रभृति ।
अनिर्भिन्नो गभीरत्वादन्तर्गूढघनव्यथः ।
पुटपाकप्रतीकाशो रामस्य करुणो रसः ॥१॥
तेन च तथाविधेष्टजनकष्टविनिपातजन्मना प्रकृष्टगद्गदेन दीर्घशोकसन्तानेन सम्प्रति परिक्षीणो रामभद्रः ।
तमवलोक्य कम्पितमिव कुसुमसमबन्धनं मे हृदयम् ।
अधुना च रामभद्रेण प्रतिनिवर्तमानेन नियतमेव पञ्चवटीवने वधूसहनिवासविस्रम्भसाक्षिणः प्रदेशा द्रष्टव्याः ।
तत्र च निसर्गधीरस्याप्येवंविधायामवस्थायामतिगम्भीराभोगशोकक्षोभसंवेगात्पदे पदे महाप्रमादानि शोकस्थानानि शङ्कनीयानि ।
तद्भगवति गोदावरि, त्वया तत्रभवत्या सावधानया भवितव्यम् ।
वीचीवातैः सीकरक्षोदशीतैराकर्षद्भिः पद्मकिञ्जल्कगन्धाम् ।
मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरं प्रेरितैस्तर्पयेति ॥२॥
तमसा - उचितमेव दाक्षिण्यं स्नेहस्य ।
सञ्जीवनोपायस्तु मूलत एव रामभद्रस्य सन्निहितः ।
मुरला - कथमिव ।
तमसा - तत्सर्वं श्रूयताम् ।
अस्ति खलु वाल्मीकितपोवनोपकण्ठात्परित्यज्य निवृत्ते सति लक्ष्मणे सीता देवी प्राप्तप्रसववेदनमतिदुःखसंवेगादात्मानं गङ्गाप्रवाहे निक्षिप्तवती ।
तदैव तत्र दारकद्वयं च प्रसूता भगवतीभ्यां पृथ्वीभागीरथीभ्यामप्युभाभ्यामभ्युपपन्ना रसातलं च नीता स्तन्यत्यागात्परेण दारकद्वयं च तस्य प्राचेतसस्य महर्षेर्गङ्गादेव्या समर्पितं स्वयम् ।
मुरला - (सविस्मयम् ।) ईदृशानां विपाकोऽपि जायते परमाद्भुतः ।
यत्रोपकरणीभावमायात्येवंविधो जनः ॥३॥
तमसा - इदानीं तु शम्बूकवृत्तान्तेनानेन सम्भावितजनस्थानं रामभद्रं सरयूमुखादुपश्रुत्य भगवती भागीरथी यदेव लोपामुद्रया स्नेहादभिशङ्कितं तदेवाभिशङ्क्य सीतासमेता केनचिदिव गृहाचारव्यपदेशेन गोदावरीमुपागता ।
मुरला - सुष्ठु चिन्तितं भगवत्या भागीरथ्या ।
राजनीतिस्थितस्यास्य खलु तैश्च तैश्च जगतामाभ्युदयिकैः कार्यैर्व्याऽपृतस्य रामभद्रस्य नियताश्चित्तविक्षेपाः ।
अव्यग्रस्य पुनरस्य शोकमात्रद्वितीयस्य पञ्चवटीप्रवेशो महाननर्थ इति ।
कथं सीतया रामभद्रोऽयमाश्वासनीयः स्यात् ।
तमसा - भगवत्या भागीरथ्या “वत्से देवयजनसम्भवे सीते, अद्य खल्वायुष्मतोः कुशलवयोर्द्वादशस्य जन्मवत्सरस्य सङ्ख्यामङ्गलग्रन्थिरभिवर्तते ।
तदात्मनः पुराणश्वशुरमेतावतो मानवस्य राजर्षिवंशस्य प्रसवितारं सवितारमपहतपाप्मानं देवं स्वहस्तापचितैः पुष्पैरुपतिष्ठस्व ।
न त्वामवनिपृष्ठवर्तिनीमस्मत्प्रभावाद्वनदेवता अपि द्रक्ष्यन्ति किमुत मर्त्याः” इति ।
अहमप्याज्ञापिता “तमसे, त्वयि प्रकृष्टप्रेमैव वधूर्जानकी ।
अतस्त्वमेवास्याः प्रत्यनन्तरीभव” इति ।
साहमधुना यथादिष्टमनुतिष्ठामि ।
मुरला - अहमप्येतं वृत्तान्तं भगवत्यै लोपामुद्रायै निवेदयामि ।
रामभद्रोऽप्यागत एवेति तर्कयामि ।
तमसा - तदियं गोदावरीह्रदान्निर्गत्य - परिपाण्डुदुर्बलकपोलसुन्दरं दधती विलोलकबरीकमाननम् ।
करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथेव वनमेति जानकी ॥४॥
मुरला - इयं हि सा किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकमलशोषी दारुणो दीर्घशोकः ।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम् ॥५॥
(इति परिक्रम्य निष्क्रान्ते ।) इति शुद्धविष्कम्भः ।
(नेपथ्ये ।) जात जात ।
(ततः प्रविशति पुष्पावचयव्यग्रा सकरुणौत्सुक्यमाकर्णयन्ती सीता ।) सीता - अम्हहे, जाणामि पिअसही वासन्दी व्याहरदित्ति ।
(पुनर्नेपथ्ये ।) सीतादेव्या स्वकरकलितैः सल्लकीपल्लवाग्रैरग्रे लोलः करिकलभको यः पुरा वर्धितोऽभूत् ।
सीता - किं तस्स ।
(पुनर्नेपथ्ये ।) वध्वा सार्धं पयसि विहरन्सोऽहमन्येन दर्पादुद्दामेन द्विरदपतिना सन्निपत्याभियुक्तः ॥६॥
सीता - (ससम्भ्रमं कतिचित्पदानि गत्वा ।) अज्जउत्त, परित्ताहि परित्ताहि मह पुत्तअम् ।
(विचिन्त्य ।) हद्धी हद्धी ।
ताइं एव्व चिरपरिइदाइं अक्खराइं पञ्चवटीदंसणेण मं मन्दभाइणिं अनुबन्धन्ति ।
हा अज्जउत्त ।
(इति मूर्च्छति ।) (प्रविश्य ।) तमसा - समाश्वसिहि समाश्वसिहि ।
(नेपथ्ये ।) विमानराज, अत्रैव स्थीयताम् ।
सीता - (समाध्वसोल्लासम् ।) अम्हहे, जलभरभरिअमेहमन्थरत्थणिअगम्भीरमंसलो कुदो णु भारईणिग्घोसो भरन्तकण्णविवरं मं वि मन्दभाइणिं झत्ति उस्सुआवेइ ।
तमसा - (सस्मितास्रम् ।) अयि वत्से, अपरिस्फुटनिक्वाणे कुतस्त्येऽपि त्वमीदृशी ।
स्तनयित्नोर्मयूरीव चकितोत्कण्ठितं स्थिता ॥७॥
सीता - भअवदि, किं भणासि अपरिप्फुडेत्ति ।
सरसञ्जोएण पच्चहिजाणामि णं अज्जउत्तेण एव्व एदं वाहरिदम् ।
तमसा - श्रूयते तपस्यतः किल शूद्रस्य दण्डधारणार्थमैक्ष्वाको राजा दण्डकारण्यमागत इति ।
सीता - दिट्टिआ अपरिवीणधम्मो सो राआ ।
(नेपथ्ये ।) यत्र द्रुमा अपि मृगा अपि बन्धवो मे यानि प्रियासहचरश्चिरमध्यवात्सम् ।
एतानि तानि बहुकन्दरनिर्झराणि गोदावरीपरिसरस्य गिरेस्तटानि ॥८॥
सीता - दिट्टिआ कहं पहादचन्दमण्डलापण्डरपरिक्खामदुब्दलेन आआरेण णिअसोम्हगम्भीराणुभावमेत्तपच्चहिजाज्जो एव्व अज्जउत्तो होदि ।
भअवदि तमसे, धारेहि मम् ।
(इति तमसामाश्लिष्य मूर्च्छति ।) तमसा - वत्से, समाश्वसिहि समाश्वसिहि ।
(नेपथ्ये ।) अनेन पञ्चवटीदर्शनेन ।
अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिंष्यतः ।
उत्पीडा इव धूमस्य मोहः प्रागावृणोति माम् ॥९॥
हा प्रिये जानकि ।
तमसा - (स्वगतम् ।) इदं तावदाशङ्कितं गुरुजनेन ।
सीता - (समाश्वस्य ।) हा, कहं एदम् ।
(पुनर्नेपथ्ये ।) हा देवि दण्डकारण्यवासप्रियसखि विदेहराजपुत्रि ।
(इति मूर्च्छति ।) सीता - हद्धी हद्धी ।
मं मन्दभाइणिं वाहरिअ आमीलिदणेत्तणीलुप्पलो मुच्छिदो एव्व ।
हा, कहं धरणिपिट्ठे णिरुद्धणिस्सासणीसहं विपन्हत्थो ।
भअवदि तमसे, परित्ताएहि परित्ताएहि ।
जीवावेहि अज्जउत्तम् ।
(इति पादयोः पतति ।) तमसा - त्वमेव ननु कल्याणि सञ्जीवय जगत्पतिम् ।
प्रियस्पर्शो हि पाणिस्ते तत्रैष निरतो जनः ॥१०॥
सीता - जं होदु तं होदु ।
जह भअवई आणवेइ ।
(इति ससम्भ्रमं निष्क्रान्ता ।) (ततः प्रविशति भूम्यां निपतितः सास्रया सीतया स्पृश्यमानः साह्लादोच्छ्वासो रामः ।) सीता - (किञ्चित्सहर्षम् ।) जाणे उण पच्चाअदं विअ जीविअं तेल्लोकस्स ।
रामः - हन्त भोः, किमेतत् ।
आश्च्योतनं नु हरिचन्दनपल्लवानां निष्पीडितेन्दुकरकन्दलजो नु सेकः ।
आतप्तजीवितपुनः परितर्पणोऽयं सञ्जीवनौषधिरसो हृदि नु प्रसक्तः ॥११॥
अपि च ।
स्पर्शः पुरा परिचितो नियतं स एव सञ्जीवनश्च मनसः परितोषणश्च ।
सन्तापजः सपदि यः परिहृत्य मूर्च्छामानन्दनेन जडतां पुनरातनोति ॥१२॥
सीता - (ससाध्वसकरुणमुपसृत्य ।) एत्तिअं एव्व दाणिं मह बहुदरम् ।
रामः - (उपविश्य ।) न खलु वत्सलया देव्याभ्युपपन्नोऽस्मि ।
सीता - हद्धी हद्धी ।
किन्ति अज्जउत्तो मं णिन्दिस्सदि ।
रामः - भवतु ।
पश्यामि ।
सीता - भअवदि तमसे, ओसरह्म दावं ।
मं पेक्खिअ अणब्भणुण्णादेण सण्णिहाणेण राआ अहिअं कुपिस्सदि ।
तमसा - अयि वत्से, भागीरथीप्रसादाद्वनदेवतानामप्यदृश्यासि संवृत्ता ।
सीता - अत्थि खु एदम् ।
रामः - हा प्रिये जानकि ।
सीता - (ससाध्वसगद्गदम् ।) अज्जउत्त, असरिसं क्खु एदं इमस्स वुत्तन्दस्स ।
(सास्रम् ।) भअवदि, किन्ति वज्जमई जम्मन्तरेसु वि पुणो वि असम्भाविअदुल्लहदंसणस्स मं एव्व मन्दभाइणिं उद्दिसिअ एव्वं वच्छलस्स एव्वंवादिणो अज्जउत्तस्स उवरि णिरणुक्कोसा भविस्सम् ।
अहं एव्व एदस्स हिअअं जाणामि, मह एसो ।
रामः - (सर्वतोऽवलोक्य सनिर्वेदम् ।) हा, न किञ्चिदत्र ।
सीता - भअवदि, णिक्कारणपरिच्चैणो वि एदस्स दंसणेण एव्वंविधेण कीलिसी मे हिअआवत्था ।
तमसा - जानामि वत्से, जानामि ।
तटस्थं नैराश्यादपि च कलुषं विप्रियवशाद्वियोगे दीर्घेऽस्मिञ्झटितिघटनात्स्तम्भितमिव ।
प्रसन्नं सौजन्याद्दयितकरुणैर्गाढकरुणं द्रवीभूतं प्रेम्णा तव हृदयमस्मिन्क्षण इव ॥१३॥
रामः - देवि, प्रसाद इव मूर्तस्ते स्पर्शः स्नेहार्द्रशीतलः ।
अद्याप्यानन्दयति मां त्वं पुनः क्वासि नन्दिनि ॥१४॥
सीता - एदे क्खु अगाधमाणसदंसिदसिणेहसम्भारा आणन्दणिस्सन्दिणो सुहामआ अज्जउत्तस्स उल्लावा ।
जाणे पच्चएण णिक्कालणपरिच्चाअसल्लिदोवि बहुमदो मह जम्मलाहो ।
रामः - अथवा कुतः प्रियतमा ।
नूनं सङ्कल्पाभ्यासपाटवोपादान एष भ्रमो रामभद्रस्य ।
(नेपथ्ये ।) अहो, महान्प्रमादः प्रमादः ।
(“सीतादेव्याः स्वकरकलितैः” इत्यर्धं पठ्यते ।) रामः - (सकरुणौत्सुक्यम् ।) किं तस्य ।
(पुनर्नेपथ्ये ।) (“वध्वा सार्धं” इत्युत्तरार्धं पठ्यते ।) सीता - को दाणिं अभिजुज्जै ।
रामः - क्वासौ दुरात्मा यः प्रियायाः पुत्रं वधूद्वितीयमभिभवति ।
(इत्युत्तिष्ठति ।) (प्रविश्य ।) वासन्तिका - (सम्भ्रान्ता ।) देव, त्वर्यताम् ।
सीता - हा कहं मे पिअसही वासन्तिआ ।
रामः - कथं देव्या, प्रियसखी वासन्तिका ।
वासन्तिका - देवः त्वर्यतां त्वर्यताम् ।
इतो जटायुशिखरस्य दक्षिणेन सीतातीर्थेन गोदावरीमवतीर्य सम्भावयतु देव्याः पुत्रकं देवः ।
सीता - हा ताद जडाओ, सुण्णं तुए विणा इदं जणट्ठाणम् ।
रामः - अहह हृदयमर्मच्छिदः खल्वमी कथोद्धाताः ।
वासन्ती - इत इतो देवः ।
सीता - भअवदि, सच्चं एव्व वणदेवदावि मं ण पेक्खदि ।
तमसा - अयि वत्से, सर्वदेवताभ्यः प्रकृष्टतममैश्वर्यं मन्दाकिन्याः ।
तत्किमिति विशङ्कसे ।
सीता - तदो अणुसरह्म ।
(इति परिक्रामति ।) रामः - भगवति गोदावरि, नमस्ते ।
वासन्ती - (निरूप्य ।) देव, मोदस्व विजयिना वधूद्वितीयेन देव्याः पुत्रकेण ।
रामः - विजयतामायुष्मान् ।
सीता - अह्महे ईदिसो मे पुत्तओ संवुत्तो ।
रामः - हा देवि, दिष्ट्या वर्धसे ।
येनोद्गच्छद्बिसकिसलयस्निग्धदन्ताङ्कुरेण व्याकृष्टस्ते सुतनु लवलीपल्लवः कर्णमूलात् ।
सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता यत्कल्याणं वयसि तरुणे भाजनं तस्य जातः ॥१५॥
सीता - अविउत्तो दाणिं दीहाऊ इमाए सोह्मतादंसणाए होदु ।
रामः - सखि वासन्तिके, पश्य पश्य ।
कान्तानुवृत्तिचातुर्यमपि शिक्षितं वत्सेन ।
लीलोत्खातमृणालकाण्डकवलच्छेदेषु सम्पादिताः पुष्यत्पुष्करवासितस्य पयसो गण्डूषसङ्क्रान्तयः ।
सेकः शीकरिणा करेण विहितः कामं विरामे पुनर्यत्स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥१६॥
सीता - भअवदि तमसे, अयं दाव ईरिसो जादो ।
दे उण ण आणामि एत्तिएण कालेण कुसलवा कीरिसा संवुत्तेत्ति ।
तमसा - यादृशोऽयं तादृशौ तावपि ।
सीता - ईरिसंह्मि मन्दभाइणी जाए ण केवलं अज्जउत्तविरहो पुत्तविरहो वि ।
तमसा - भवितव्यतेयमीदृशी ।
सीता - किंवा मए पसूदाए जेण एआरिसं मह पुत्तआणं ईसिविरलधवलदसणकुह्मलुज्जलं अणुबद्धमुद्धकाअलीविहसिदं णिच्चुज्जलं मुहपुण्डरीअजुअलं ण परिचुम्बिअं अज्जउत्तेन ।
तमसा - अस्तु देवताप्रसादात् ।
सीता - भअवदि तमसे, एदिणा अवच्चसंसुमरणेण उस्ससिदपण्हुदत्थणी दाणिं वच्चाणं पिदुणो सण्णिहाणेन खणमेत्तं संसारिणी संवुत्तह्मि ।
तमसा - किमत्रोच्यते ।
प्रसवः खलु प्रकृष्टपर्यन्तः स्नेहस्य ।
परं चैतदन्योन्यसंश्लेषणं पित्रोः अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रवात् ।
आनन्दग्रन्थिरेकोऽयमपत्यमिति पठ्यते ॥१७॥
वासन्ती - इतोऽपि देवः पश्यतु ।
अनुदिवसमवर्धयत्प्रिया ते यमचिरनिर्गतमुग्धलोलबर्हम् ।
मणिमुकुट इवोच्छिखः कदम्बे नदति स एष वधूसखः शिखण्डी ॥१८॥
सीता - (सकौतुकस्नेहास्रम् ।) एसो सो ।
रामः - मोदस्व वत्स ।
वयमद्य वर्धामहे ।
सीता - एव्वं होदु ।
रामः - भ्रमिषु कृतपुटान्तर्मण्डलावृत्तिचक्षुःप्रचलितचटुलभ्रूताण्डवैर्मण्डयन्त्या ।
करकिसलयतालैर्मुग्धया नर्त्यमानं सुतमिव मनसा त्वां वत्सलेन स्मरामि ॥१९॥
हन्त, तिर्यञ्चोऽपि परिचयमनुरुन्धन्ते ।
कतिपयकुसुमोद्गमः कदम्बः प्रियतमया परिवर्धितोऽयमासीत् ।
सीता - (सास्रम् ।) सुष्ठु पच्चहिजाणिदं अज्जउत्तेण ।
रामः - स्मरति गिरिमयूर एष देव्याः स्वजन इवात्र यतः प्रमोदमेति ॥२०॥
वासन्ती - अत्र तावदासनपरिग्रहं करोतु देवः ।
एतत्तु देवस्याश्रमम् ।
(राम उपविशति ।) वासन्ती - नीरन्ध्रबालकदलीवनमध्यवर्ति कान्तासखस्य शयनीयशिलातलं ते ।
अत्र स्थिता तृणमदाद्वनगोचरेभ्यः सीता ततो हरिणकैर्न विमुच्यते स्म ॥२१॥
रामः - इदमशक्यं द्रष्टुम् ।
(इत्यन्यतो रुदन्नुपविशति ।) सीता - सहि वासन्ति, किं तुए किदं अज्जउत्तस्स मह अ एदं दंसअन्तीए ।
हद्धी हद्धी ।
सो एव्व अज्जउत्तो ।
तं एव्व पञ्चवडीवणम् ।
सा एव्व पिअसही वासन्दिआ ।
दे एव्व विविहविस्सम्भसक्खिणो गोदावरीकाणणुद्देसा ।
दे एव्व जादणिव्विसेसा मिअपक्खिणो पाअवा अ ।
मह उण मन्दभाइणीए दीसन्तं वि सव्वं एव्व एदं णत्थि ।
ईरिसो जीवलोअस्स परिणामो संवुत्तो ।
वासन्ती - सखि सीते, कथं न पश्यसि रामभद्रस्यावस्थाम् ।
नवकुवलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं सततमपि नः स्वेच्छादृश्यो नवो नव एव सः ।
विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः कथमपि स इत्युन्नेतव्यस्तथापि दृशोः प्रियः ॥२२॥
सीता - सहि, पेक्खामि ।
तमसा - पश्य प्रियं भूयः ।
सीता - हा देव्व, एसो मए विणा अहंवि एदेण विणेत्ति केण सम्भाविदं आसि ।
ता मुहुत्तमेत्तं जम्मन्तरादोवि दुल्लहलद्धदंसणं बाहसलिलन्तरेषु पेक्खामि दाव वच्चलं अज्जउत्तम् ।
(इति पश्यन्ती स्थिता ।) तमसा - (परिष्वज्य सास्रम् ।) विलुलितमतिपूरैर्बाष्पमानन्दशोकप्रभवमवसृजन्ती पक्ष्मलोत्तानदीर्घा ।
स्नपयति हृदयेशं स्नेहनिष्यन्दिनी ते धवलमधुरमुग्धा दुग्धकुल्येव दृष्टिः ॥२३॥
वासन्ती - ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्च्युतः स्फुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः ।
कमलविरलं रज्यत्कण्ठाः क्वणन्तु शकुन्तयः पुनरिदमयं देवो रामः स्वयं वनमागतः ॥२४॥
रामः - एहि सखि वासन्ति, नन्वितः स्थीयताम् ।
वासन्ती - (उपविश्य सास्रम् ।) महाराज, अपि कुशलं कुमारलक्ष्मणस्य ।
रामः - (अनाकर्णनमभिनीय ।) करकमलवितीर्णैरम्बुनीवारशष्पैस्तरुशकुनिकुरङ्गान्मैथिली यानपुष्यत् ।
भवति मम विकारस्तेषु दृष्टेषु कोऽपि द्रव इव हृदयस्य प्रस्रवोद्भेदयोग्यः ॥२५॥
वासन्ती - महाराज, ननु कुशलं पृच्छामि कुमारलक्ष्मणस्येति ।
रामः - (आत्मगतम् ।) अये, महाराजेति निष्प्रणयमामन्त्रणपदम् ।
सौमित्रिमात्रके बाष्पस्खलिताक्षरः कुशलप्रश्नः ।
तथा मन्ये विदितसीतावृत्तान्तेयमिति ।
(प्रकाशम् ।) आः, कुशलं कुमारलक्ष्मणस्य ।
वासन्ती - (रुदति ।) अयि देव, किं परं दारुणः खल्वसि ।
सीता - सहि वासन्ति, किं तुमं एव्वंवादिणी होसि ।
पूआरुहो सव्वस्स अज्जउत्तो विसेसदो मह पिअसहीए ।
वासन्ती - त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे ।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतःपरेण ॥२६॥
(इति मुह्यति ।) तमसा - स्थाने वाक्यनिवृत्तिर्मोहश्च ।
रामः - सखि, समाश्वसिहि समाश्वसिहि ।
वासन्ती - (समाश्वस्य ।) तत्किमिदमकार्यमनुष्ठितं देवेन ।
सीता - सहि वासन्दि, विरम विरम ।
रामः - लोको न मृष्यतीति ।
वासन्ती - कस्य हेतोः ।
रामः - स एव जानाति किमपि ।
तमसा - चिरादुपालम्भः ।
वासन्ती - अयि कठोर यशः किल ते प्रियं किमयशो ननु घोरमतः परम् ।
किमभवद्विपिने हरिणीदृशः कथय नाथ कथं बत मन्यसे ॥२७॥
सीता - सहि वासन्दि, तुमं एव्व दारुणा कठोरा अ ।
जा एव्वं पलवन्तं पलावेसि ।
तमसा - प्रणय एवं व्याहरति शोकश्च ।
रामः - सखि, किमत्र मन्तव्यम् ।
त्रस्तैकहायनकुरङ्गविलोलदृष्टेस्तस्याः परिस्फुरितगर्भभरालसायाः ।
ज्योत्स्नामयीव मृदुबालमृणालकल्पा क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता ॥२८॥
सीता - अज्जउत्त, धरामि एसा धरामि ।
रामः - हा प्रिये जानकि, क्वासि ।
सीता - हद्धी हद्धी ।
अण्णो विअ अज्जउत्तो पमुक्ककण्ठं परुण्णो होदि ।
तमसा - वत्से, साम्प्रतिकमेवैतत् ।
कर्तव्यानि खलु दुःखितैर्दुःखनिर्धारणानि ।
पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया ।
शोकक्षोभे च हृदयं प्रलापैरवधार्यते ॥२९॥
विशेषतो रामभद्रस्य बहुप्रकारकष्टो जीवलोकः ।
इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियाशोकं जीवं कुसुममिव धर्मो ग्लपयति ।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभस्तदद्याप्युच्छ्वासो भवति ननु लाभो हि रुदितम् ॥३०॥
रामः - कष्टं भोः, कष्टम् ।
दलति हृदयं शोकोद्वेगाद्द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥३१॥
हे भगवन्तः पौरजानपदाः, न किल भवतां देव्याः स्थानं गृहेऽभिमतं ततस्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता ।
चिरपरिचितास्ते ते भावास्तथा द्रवयन्ति मामिदमशरणैरद्यास्माभिः प्रसीदत रुद्यते ॥३२॥
वासन्ती - (स्वगतम् ।) अतिगभीरमापूरणं मन्युभारस्य ।
(प्रकाशम् ।) देव, अतिक्रान्ते धैर्यमवलम्ब्यताम् ।
रामः - किमुच्यते धैर्यमिति ।
देव्या शून्यस्य जगतो द्वादशः परिवत्सरः ।
प्रणष्टमिव नामापि न च रामो न जीवति ॥३३॥
सीता - ओहरामि अ मोहिआ विअ एदेहिं अज्जउत्तस्स पिअवअणेहिं ।
तमसा - एवमेव वत्से, नैताः प्रियतमा वाचः स्नेहार्द्राः शोकदारुणाः ।
एतास्ता मधुनो धाराः श्च्योतन्ति सविषास्त्वयि ॥३४॥
रामः - अयि वासन्ति, मया खलु यथा तिरश्चीनमलातशल्यं प्रत्युप्तमन्तः सविषश्च दन्तः ।
तथैव तीव्रो हृदि शोकशङ्कुर्मर्माणि कृन्तन्नपि किं न सोढः ॥३५॥
सीता - एव्वंवि मन्दभाइणी अहं जा पुणो आआसआरिणी अज्जउत्तस्स ।
रामः - एवमतिगूढस्तम्भितान्तःकरणस्यापि मम संस्तुतवस्तुदर्शनादद्यायमावेगः ।
तथाहि ।
वेलोल्लोलक्षुभितकरुणोज्जृम्भणस्तम्भनार्थं यो यो यत्नः कथमपि समाधीयते तं तमन्तः ।
हित्वा भित्वा प्रसरति बलात्कोऽपि चेतोविकारस्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः ॥३६॥
सीता - अज्जउत्तस्स एदिणा दुव्वारदारुणारम्भेण दुःखसञ्जोएण परिमुसिअणिअदुःखं पमुक्कजीविअं मे हिअअं फुडै ।
वासन्ती - (स्वगतम् ।) कष्टमत्यासक्तो देवः ।
तदाक्षिपामि तावत् ।
(प्रकाशम् ।) चिरपरिचितामिदानीं जनस्थानाभोगानवलोकनेन मानयतु देवः ।
रामः - एवमस्तु ।
(इत्युत्थाय परिक्रामति ।) सीता - सन्दीवण एव्व दुःखस्स पिअसहीए विणोदणोवाओ त्तितक्केमि ।
वासन्ती - देव देव, अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद्गोदावरीसैकते ।
आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुड्मलनिभो मुङ्धः प्रणामाञ्जलिः ॥३७॥
सीता - दालुणासि वासन्ति, दालुणासि ।
जा एदेहिं हिअअमम्मुग्घाडिअसल्लसङ्घट्टनेहिं पुणोपुणोवि मं मन्दभाइणिं अज्जउत्तं अ सुमरावेसि ।
रामः - अयि चण्डि जानकि, इतस्ततो दृश्यसे नानुकम्पसे ।
हा हा देवि स्फुटति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरलज्वालमन्तर्ज्वलामि ।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विश्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥३८॥
(इति मूर्च्छति ।) सीता - हद्धी हद्धी ।
पुणोवि मुद्धो अज्जउत्तो ।
वासन्ती - देव, समाश्वसिहि समाश्वसिहि ।
सीता - अज्जउत्त, मं मन्दभाइणिं उद्दिसिअ सअलजीवलोअमङ्गलिअजम्मलाहस्स दे वारंवारं संसैदजीविअदालुणो दशापरिणामो त्ति हा हदह्मि ।
(इति मूर्च्छति ।) तमसा - वत्से, समाश्वसिहि समाश्वसिहि ।
पुनस्ते पाणिस्पर्शो रामभद्रस्य जीवनोपायः ।
वासन्ती - कथमद्यापि नोच्छ्वसिति ।
हा प्रियसखि सीते, क्वासि ।
सम्भावयात्मनो जीवितेश्वरम् ।
(सीता ससम्भ्रममुपसृत्य हृदि ललाटे च स्पृशति ।) वासन्ती - दिष्ट्या प्रत्यापन्नचेतनो रामभद्रः ।
रामः - आलिम्पन्नमृतमयैरिव प्रलेपैरन्तर्वा बहिरपि वा शरीरधातून् ।
संस्पर्शः पुनरपि जीवयन्नकस्मादानन्दादपरमिवादधाति मोहम् ॥३९॥
(सानन्दमुन्मीलिताक्ष एव ।) सखि वासन्ति, दिष्ट्या वर्धसे ।
वासन्ती - कथमिव ।
रामः - सखि, किमन्यत् ।
पुनरपि प्राप्ता जानकी ।
वासन्ती - अयि देव रामभद्र, क्व सा ।
रामः - (स्पर्शसुखमभिनीय ।) पश्य नन्वियं पुरत एव ।
वासन्ती - अयि देव रामभद्र, किमिति मर्मच्छेददारुणैरतिप्रलापैः प्रियसखीविपत्तिदुःखदग्धामपि मां पुनः पुनर्मन्दभाग्यां दहसि ।
सीता - ओसरिदुं इच्छम्मि ।
एसो उण चिरप्पणअसम्भारसोम्मसीअलेण अज्जउत्तप्परिसेण दीहदारुणंवि झत्ति सन्दावं उल्लाहअन्तेण वज्जलेहोवणद्धो विअ परिअद्धवावारो आसञ्जिओ विअ मे अग्गहत्थो ।
रामः - सखि, कुतः प्रलापः ।
गृहीतो यः पूर्वं परिणयविधौ कङ्कणधरः सुधासूतेः पादैरमृतशिशिरैर्यः परिचितः ।
सीता - अज्जउत्त, सो एव्व दाणिंसि तुमम् ।
रामः - स एवायं तस्यास्तदितरकरौपम्यसुभगो मया लब्धः पाणिर्ललितलवलीकन्दलनिभः ॥४०॥
(इति गृह्णाति ।) सीता - हद्धी हद्धी ।
अज्जउत्तप्परिसमोहिदाए पमादो मे संवुत्तो ।
रामः - सखि वासन्ति, आनन्दमीलितः प्रियास्पर्शसाध्वसेन परवानस्मि ।
तत्त्वमपि धारय माम् ।
वासन्ती - कष्टमुन्माद एव ।
(सीता ससम्भ्रमं हस्तमाक्षिप्यापसर्पति ।) रामः - धिक् प्रमादः ।
करपल्लवः स तस्याः सहसैव जडो जडात्परिभ्रष्टः ।
परिकम्पिनः प्रकम्पी करान्मम स्विद्यतः स्विद्यन् ॥४१॥
सीता - हद्धी हद्धी ।
अज्जवि अणुबद्धबहुघुम्मन्तवेअणं ण सण्ठावेमि अत्ताणम् ।
तमसा - (सस्नेहकौतुकस्मितं निर्वर्ण्य ।) सस्वेदरोमाञ्चितकम्पिताङ्गी जाता प्रियस्पर्शसुखेन वत्सा ।
मरुन्नवाम्भःपरिधूतसिक्ता कदम्बयष्टिः स्फुटकोरकेव ॥४२॥
सीता - (स्वगतम् ।) अवसेन एदेण अत्ताणएण लज्जाविदह्मि भअवदीए तमसाये ।
किन्ति किल एसा मण्णिस्सदि एसो परिच्चाओ एसो अहिसङ्गेत्ति ।
रामः - (सर्वतोऽवलोक्य ।) हा कथं नास्त्येव ।
नन्वकरुणे वैदेहि ।
सीता - अकरुणह्मि जा एव्वंविहं तुमं पेक्खन्दी एव जीवेमि ।
रामः - क्वासि प्रिये ।
देवि, प्रसीद प्रसीद ।
न मामेवंविधं परित्यक्तुमर्हसि ।
सीता - अयि अज्जउत्त, विप्पदीवं विअ ।
वासन्ती - देव, प्रसीद प्रसीद ।
स्वेनैव लोकोत्तरेण धैर्येण संस्तम्भयातिभूमिं गतमात्मानम् ।
कुत्र मे प्रियसखी ।
रामः - व्यक्तं नास्त्येव ।
कथमन्यथा वासन्त्यपि न पश्येत् ।
अपि खलु स्वप्न एष स्यात् ।
न चास्मि सुप्तः ।
कुतो रामस्य निद्रा ।
सर्वथापि स एवैष भगवाननेकवारपरिकल्पितो विप्रलम्भः पुनः पुनरनुबध्नाति माम् ।
सीता - मए एव्व दारुणाए विप्पलद्धो अज्जउत्तो ।
वासन्ती - देव, पश्य पश्य ।
पौलस्त्यस्य जटायुषा विघटितः कार्ष्णायसोऽयं रथ स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः ।
खड्गच्छिन्नजटायुपक्षतिरितः सीतां चलन्तीं वहन्नन्तर्व्यापृतविद्युदम्बुद इव द्यामभ्युदस्थादरिः ॥४३॥
सीता - (सभयम् ।) अज्जउत्त, तादो वावादीअदि ।
ता परित्ताहि परित्ताहि ।
अहं वि अवहरिज्जामि ।
रामः - (सवेगमुत्थाय ।) आः पाप तातप्राणसीतापहारिन् लङ्कापते, क्व यास्यसि ।
वासन्ती - अयि देव राक्षसकुलप्रलयधूमकेतो, किमद्यापि ते मन्युवियषः ।
सीता - अह्महे, उब्भत्तह्मि ।
रामः - अन्य एवायमधुना विपर्ययो वर्तते ।
उपायानां भावादविरलविनोदव्यतिकरैर्विमर्दैर्वीराणां जनितजगदत्यद्भुतरसः ।
वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत्कटुस्तूष्णीं सह्यो निरवधिरयं तु प्रविलयः ॥४४॥
सीता - बहुमाणिदह्मि पुव्वविरहे ।
णिरवधित्ति हा हदह्मि ।
रामः - कष्टं भोः ।
व्यर्थं यत्र कपीन्द्रसख्यमपि मे वीर्यं हरीणां वृथा प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि ।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषये तत्र प्रिये क्वासि मे ॥४५॥
सीता - बहुमाणिदह्मि पुव्वविरहे ।
रामः - सखि वासन्ति, दुःखायैव सुहृदामिदानीं रामदर्शनम् ।
कियच्चिरं त्वा रोदयिष्यामि ।
तदनुजानीहि मां गमनाय ।
सीता - (सोद्वेगमोहं तमसामाश्लिष्य ।) हा भअवदि तमसे, गच्छदि दाणिं अज्जउत्तो किं करिस्सम् ।
(इति मूर्च्छति ।) तमसा - वत्से जानकि, समाश्वसिहि समाश्वसिहि ।
विधिस्तवानुकूलो भविष्यति ।
तदायुष्मतोः कुशलवयोर्वर्षर्द्धिमङ्गलानि सम्पादयितुं भागीरथीपदान्तिकमेव गच्छावः ।
सीता - भअवदि, पसीद ।
खणमेत्तं वि दुल्लहदंसणं पेक्खामि ।
रामः - अस्ति चेदानीमश्वमेधसहधर्मचारिणी मे ।
सीता - (साक्षेपम् ।) अज्जउत्त, का ।
वासन्ती - परिणीतमपि किम् ।
रामः - नहि नहि ।
हिरण्मयी सीताप्रतिकृतिः ।
सीता - (सोच्छ्वासास्रम् ।) अज्जउत्त, दाणिं सि तुमम् ।
अह्महे, उक्खाइदं दाणिं मे परिच्चाअसल्लं अज्जउत्तेन ।
रामः - तत्रापि तावद्बाष्पदिग्धं चक्षुर्विनोदयामि ।
सीता - धण्णा खु सा जा एव्वं अज्जउत्तेन बहुमण्णीअदि ।
जा एव्वं अज्जउत्तं विणोदयन्दी आसाबन्धणं खु जादा जीअलोअस्स ।
तमसा - (सस्मितस्नेहार्द्रं परिष्वज्य ।) अयि वत्से, एवमात्मा स्तूयते ।
सीता - (सलज्जम् ।) परिहसिदह्मि भअवदीए ।
वासन्ती - महानयं व्यतिकरोऽस्माकं प्रसादः ।
गमनं प्रति यथा कार्यहानिर्न भवति तथा कार्यम् ।
रामः - तथास्तु ।
सीता - पडिऊला दाणिं मे वासन्दी संवुत्ता ।
तमसा - वत्से, एहि गच्छावः ।
सीता - एव्वं करम्ह ।
तमसा - कथं वा गम्यते ।
यस्यास्तव प्रत्युप्तस्येव दयिते तृष्णादीर्घस्य चक्षुषः ।
मर्मच्छेदोपमैर्यत्नैः सन्निकर्षो निरुध्यते ॥४६॥
सीता - णमो सुकिदपुण्णजणदंसणिज्जाणं अज्जउत्तचलणकमलाणम् ।
(इति मूर्च्छति ।) तमसा - वत्से, समाश्वसिहि ।
सीता - (आश्वस्य ।) केच्चिरं वा मेहान्तरेण न पुण्णचन्ददंसणम् ।
तमसा - अहो संविधानकम् ।
एको रसः करुण एव निमित्तभेदाद्भिन्नः पृथक्पृथगिव श्रयते विवर्तान् ।
आवर्तबुद्बुदतरङ्गमयान्विकारानम्भो यथा सलिलमेव हि तत्समस्तम् ॥४७॥
रामः - विमानराज, इत इतः ।
(सर्वे उत्तिष्ठन्ति ।) तमसावासन्त्यौ - (सीतारामौ प्रति ।) अवनिरमरसिन्धुः सार्धमस्मद्विधाभिः स च कुलपतिराद्यश्छन्दसां यः प्रयोक्ता ।
स च मुनिरनुयातारुन्धतीको वसिष्ठस्तव वितरतु भद्रं भूयसे मङ्गलाय ॥४८॥
(इति निष्क्रान्ताः सर्वे ।) तृतीयोऽङ्कः ।