०२

द्वितीयोऽङ्कः ।
(नेपथ्ये ।) स्वागतं तपोधनायाः ।
(ततः प्रविशत्यध्वगवेषा तापसी ।) तापसी - अये वनदेवता फलकुसुमगर्भेण पल्लवार्घ्येण दूरान्मामुपतिष्ठते ।
(प्रविश्य ।) वनदेवता - (अर्घ्यं विकीर्य ।) यथेच्छाभोग्यं वो वनमिदमयं मे सुदिवसः सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति ।
तरुच्छाया तोयं यदपि तपसां योग्यमशनं फलं वा मूलं वा तदपि न पराधीनमिह वः ॥१॥
तापसी - किमत्रोच्यते ।
प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः ।
पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्धं विजयते ॥२॥
(उपविशतः ।) वनदेवता - कां पुनरत्रभवतीमवगच्छामि ।
तापसी - आत्रेय्यस्मि ।
वनदेवता - आर्ये आत्रेयि, कुतः पुनरिहागम्यते किम्प्रयोजनो दण्डकारण्योपवनप्रचारः ।
आत्रेयी - अस्मिन्नगस्त्यप्रमुखाः प्रदेशे भूयांस उद्गीथविदो वसन्ति ।
तेभ्योऽधिगन्तुं निगमान्तविद्यां वाल्मीकिपार्श्वादिह पर्यटामि ॥३॥
वनदेवता - यदा तावदन्येऽपि मुनयस्तमेव हि पुराणब्रह्मवादिनं प्राचेतसमृषिं ब्रह्मपारायणायोपासते ।
तत्कोऽयमार्यायाः प्रवासः ।
आत्रेयी - तस्मिन्हि महानध्ययनप्रत्यूह इत्येष दीर्घप्रवासोऽङ्गीकृतः ।
वनदेवता - कीदृशः ।
आत्रेयी - तत्र भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुतं स्तन्यत्यागमात्रके वयसि वर्तमानं दारकद्वयमुपनीतम् ।
तत्खलु न केवलं तस्य, अपि तु तिरश्चामप्यन्तःकरणानि तत्त्वान्युपस्नेहयति ।
वनदेवता - अपि तयोर्नामसञ्ज्ञानमस्ति ।
आत्रेयी - तयैव किल देवतया तयोः कुशलवाविति नामनी च प्रभावश्चाख्यातः ।
वनदेवता - कीदृशः प्रभावः ।
आत्रेयी - तयोः किल सरहस्यानि जृम्भकास्त्राणि जन्मसिद्धानीति ।
वनदेवता - अहो नु भोश्चित्रमेतत् ।
आत्रेयी - तौ च भगवता वाल्मीकिना धात्रीकर्मतः परिगृह्य पोषितौ रक्षितौ च ।
निर्वृत्तचौलकर्मणोस्तयोस्त्रयीवर्जमितरास्तिस्रो विद्याः सावधानेन परिनिष्ठापिताः ।
तदनन्तरं भगवतैकादशे वर्षे क्षात्रेण कल्पेनोपनीय त्रयीविद्यामध्यापितौ ।
न त्वेताभ्यामतिदीप्तिप्रज्ञाभ्यामस्मदादेः सहाध्ययनयोगोऽस्ति ।
यतः ।
वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा ।
भवति हि पुनर्भूयान्भेदः फलं प्रति तद्यथा प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः ॥४॥
वनदेवता - अयमध्ययनप्रत्यूहः ।
आत्रेयी - अन्यश्च ।
वनदेवता - अथापरः कः ।
आत्रेयी - अथ स ब्रह्मर्षिरेकदा माध्यन्दिनसवनाय नदीं तमसामनुप्रपन्नः ।
तत्र युग्मचारिणोः क्रौञ्चयोरेकं व्याधेन वध्यमानं ददर्श ।
आकस्मिकप्रत्यवभासां देवीं वाचमानुष्टुभेन छन्दसा परिणतामभ्युदैरयत् ।
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥५॥
वनदेवता - आम्नायादन्यत्र नूतनच्छन्दसामवतारः ।
आत्रेयी - तेन हि पुनः समयेन तं भगवन्तमाविर्भूतशब्दप्रकाशमृषिमुपसङ्गम्य भगवान्भूतभावनः पद्मयोनिरवोचत् - “ऋषे, प्रबुद्धोऽसि वागात्मनि ब्रह्मणि ।
तद्ब्रूहि रामचरितम् ।
अव्याहतज्योतिरार्षं ते चक्षुः प्रतिभातु ।
आद्यः कविरसि” इत्युक्त्वान्तर्हितः ।
अथ स भगवान्प्राचेतसः प्रथमं मनुष्येषु शब्दब्रह्मणस्तादृशं विवर्तमितिहासं रामायणं प्रणिनाय ।
वनदेवता - हन्त पण्डितः संसारः ।
आत्रेयी - तस्मादेव हि ब्रवीमि तत्र महानध्ययनप्रत्यूह इति ।
वनदेवता - युज्यते ।
आत्रेयी - विश्रान्तास्मि भद्रे सम्प्रत्यगस्त्याश्रमस्य पन्थानं ब्रूहि ।
वनदेवता - इतः पञ्चवटीमनुप्रविश्य गम्यतामनेन गोदावरीतीरेण ।
आत्रेयी - (सास्रम् ।) अप्येतत्तपोवनम् ।
अप्येषा पञ्चवटी ।
अपि सरिदियं गोदावरी ।
अप्ययं गिरिः प्रस्रवणः ।
अपि जनस्थानवनदेवता त्वं वासन्ती ।
वनदेवता - तथैव तत्सर्वम् ।
आत्रेयी - हा वत्से जानकि ।
स एष ते वल्लभशाखिवर्गः प्रासङ्गिकीनां विषयः कथानाम् ।
त्वां नामशेषामपि दृश्यमानः प्रत्यक्षदृष्टामिव नः करोति ॥६॥
वासन्ती - (सभयम् ।
स्वगतम् ।) कथं नामशेषेत्याह ।
(प्रकाशम् ।) किमत्याहितं सीतादेव्याः ।
आत्रेयी - न केवलमत्याहितम्, सापवादमपि ।
(कर्णे ।) एवमिति ।
वासन्ती - हा दारुणो दैवनिर्घातः ।
(इति मूर्च्छति ।) आत्रेयी - भद्रे, समाश्वसिहि समाश्वसिहि ।
वासन्ती - हा प्रियसखि, ईदृशस्ते निर्माणभागः ।
हा रामभद्र ।
अथवा अलं त्वया ।
आर्ये आत्रेयि, अथ तस्मादरण्यात्परित्यज्य निवृत्ते लक्ष्मणे सीतायाः किं वृत्तमिति काचिदासीत्प्रवृत्तिः ।
आत्रेयी - नहि नहि ।
वासन्ती - कष्टम् ।
आर्यारुन्धतीवसिष्ठाधिष्ठितेषु नः कुलेषु जीवन्तीषु च वृद्धासु राज्ञीषु कथमिदं जातम् ।
आत्रेयी - ऋष्यशृङ्गसत्रे गुरुजनस्तदासीत् ।
सम्प्रति परिसमाप्तं द्वादशवार्षिकं सत्रम् ।
ऋष्यशृङ्गेण च सम्पूज्य विसर्जिता गुरवः ।
ततो भगवत्यरुन्धती नाहं वधूविरहितामयोध्यां गच्छामीत्याह ।
तदेव राममातृभिरनुमोदितम् ।
तदनुरोधाद्भगवतो वसिष्ठस्यापि श्रद्धा वाल्मीकिवनं गत्वा वत्स्याम इति ।
वासन्ती - अथ स रामभद्रः किमाचारः ।
आत्रेयी - तेन राज्ञा राजक्रतुरश्वमेधः प्रक्रान्तः ।
वासन्ती - अहह धिक् ।
परिणीतमपि ।
आत्रेयी - शन्तम् ।
नहि नहि ।
वासन्ती - का तर्हि यज्ञे सहधर्मचारिणी ।
आत्रेयी - हिरण्मयी सीताप्रतिकृतिर्गृहिणीकृता ।
वासन्ती - हन्त भोः वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥७॥
आत्रेयी - विसृष्टश्च वामदेवानुमन्त्रितो मेध्याश्वः ।
प्रकॢप्ताश्च तस्य यथाशास्त्रं रक्षितारः ।
तेषामधिष्ठाता लक्ष्मणात्मजश्चन्द्रकेतुर्दत्तदिव्यास्त्रसम्प्रदायश्चतुरङ्गसाधनान्वितोऽनुप्रहितः ।
वासन्ती - (सहर्षकौतुकास्रम् ।) कुमारलक्ष्मणस्यापि पुत्र इति मातर्, जीवामि ।
आत्रेयी - अत्रान्तरे ब्राह्मणेन मृतं पुत्रमुत्क्षिप्य राजद्वारे सोरस्ताडमब्रह्मण्यमुद्धोषितम् ।
ततो न राजापचारमन्तरेण प्रजानामकालमृत्युः सञ्चरतीत्यात्मदोषं निरूपयति करुणामये रामभद्रे सहसैवाशरीरिणी वागुदचरत् - शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः ।
शीर्षच्छेद्यः स ते राम तं हत्वा जीवय द्विजम् ॥८॥
इत्युपश्रुत्य कृपाणपाणिः पुष्पकमधिरुह्य सर्वा दिशो विदिशश्च शूद्रतापसान्वेषणाय जगत्पतिः सञ्चारं समारब्धवान् ।
वासन्ती - शम्बूको नामाधोमुखो धूमपः शूद्रोऽस्मिन्नेव जनस्थाने तपश्चरति ।
अपि नाम रामभद्रः पुनरिदं वनमलङ्कुर्यात् ।
आत्रेयी - भद्रे, गम्यतेऽधुना ।
वासन्ती - आर्ये आत्रेयि, एवमस्तु ।
कठोरश्च दिवसः ।
कण्डूलद्विपगण्डपिण्डकषणाकम्पेन सम्पातिभिर्धर्मस्रंसितबन्धनैश्च कुसुमैरर्चन्ति गोदावरीम् ।
छायापस्किरमाणविष्किरमुखव्याकृष्टकीटत्वचः कूजत्क्लान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः ॥९॥
(इति परिक्रम्य निष्क्रान्ते ।) इति शुद्धविष्कम्भः ।
(ततः प्रविशति सदयोद्यतखड्गो रामभद्रः ।) रामः - हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् ।
रामस्य बाहुरसि निर्भरगर्भखिन्नसीताविवासनपटोः करुणा कुतस्ते ॥१०॥
(कथञ्चित्प्रहृत्य ।) कृतं रामसदृशं कर्म ।
अपि जीवेत्स ब्राह्मणपुत्रः ।
(प्रविश्य ।) दिव्यपुरुषः - जयतु देवः ।
दत्ताभये त्वयि यमादपि दण्डधारे सञ्जीवितः शिशुरसौ मम चेयमृद्धिः ।
शम्बूक एष शिरसा चरणौ नतस्ते सत्सङ्गजानि निधनान्यपि तारयन्ति ॥११॥
रामः - द्वयमपि प्रियं नः तदनुभूयतामुग्रस्य तपसः परिपाकः ।
यत्रानन्दाश्च मोदाश्च यत्र पुण्याश्च सम्पदः ।
वैराजा नाम ते लोकास्तैजसाः सन्तु ते शिवाः ॥१२॥
शम्बूकः - स्वामिन्, युष्मत्प्रसादादेवैष महिमा ।
किमत्र तपसा ।
अथवा महदुपकृतं तपसा ।
अन्वेष्टव्यो यदसि भुवने लोकनाथः शरण्यो मामन्विष्यन्निह वृषलकं योजनानां शतानि ।
क्रान्त्वा प्राप्तः स इह तपसां सम्प्रसादोऽन्यथा तु क्वायोध्यायाः पुनरुपगमो दण्डकायां वने वः ॥१३॥
रामः - किं नाम दण्डकेयम् ।
(सर्वतोऽवलोक्य ।) हा, कथम् - स्निग्धश्यामाः क्वचिदपरतो भीषणाभोगरूक्षाः स्थाने स्थाने मुखरककुभो झाङ्कृतैर्निर्झराणाम् ।
एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः सन्दृश्यन्ते परिचितभुवो दण्डकारण्यभागाः ॥१४॥
शम्बूकः - दण्डकैवैषा ।
अत्र किल पूर्वं निवसता देवेन चतुर्दश सहस्राणि चतुर्दश च राक्षसाः ।
त्रयश्च दूषणखरत्रिमूर्धानो रणे हताः ॥१५॥
येन सिद्धक्षेत्रेऽस्मिन्मादृशामपि जानपदानामकुतोभयः सञ्चारः संवृत्तः ।
रामः - न केवलं दण्डकैव, जनस्थानमपि ।
शम्बूकः - बाढम् ।
एतानि खलु सर्वभूतरोमहर्षणान्युन्मत्तचण्डश्वापदकुलाक्रान्तविकटगिरिगह्वराणि जनस्थानपर्यन्तदीर्घारण्यानि दक्षिणां दिशमभिवर्तन्ते ।
तथाहि ।
निष्कूजस्तिमिताः क्वचित्क्वचिदपि प्रोच्चण्डसत्त्वस्वनाः स्वेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः ।
सीमानः प्रदरोदअरेषु विरलस्वल्पाम्भसो यास्वयं तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते ॥१६॥
रामः - पश्यामि च जनस्थानं भूतपूर्वखरालयम् ।
प्रत्यक्षानिव वृत्तान्तान्पूर्वाननुभवामि च ॥१७॥
(सर्वतोऽवलोक्य ।) प्रियारामा हि वैदेह्यासीत् ।
एतानि नाम कान्ताराणि ।
किमतः परं भयानकं स्यात् ।
(सास्रम् ।) त्वया सह निवत्स्यामि वनेषु मधुगन्धिषु ।
इतीवारमते हासौ स्नेहस्तस्याः स तादृशः ॥१८॥
न किञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति ।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥१९॥
शम्बूकः - तदलमेभिर्दुरासदैः ।
अथैतानि मदकलमयूरकण्ठकोमलच्छविभिरवकीर्णानि पर्यन्तैरविरलनिविष्टनीलबहुलच्छायातरुषण्डमण्डितान्यसम्भ्रान्तविविधमृगयूथानि पश्यतु महाभागः प्रशान्तगम्भीराणि श्वापदकुलशरण्यानि महारण्यानि ।
इह समदशकुन्ताक्रान्तवानीरमुक्तप्रसवसुरभिशीतस्वच्छतोया वहन्ति ।
फलभरपरिणामश्यामजम्बूनिकुञ्जस्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥२०।
अपि च ।
दधति कुहरभाजामत्र भल्लूकयूनामनुरसितगुरूणि स्त्यानमम्बूकृतानि ।
शिशिरकटुकषायः स्त्यायते सल्लकीनामिभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥२१॥
रामः - (सबाष्पस्तम्भम् ।) भद्र, शिवास्ते पन्थानो देवयानाः ।
प्रलीयस्व पुण्येभ्यो लोकेभ्यः ।
शम्बूकः - यावत्पुराणब्रह्मर्षिमगस्त्यमभिवाद्य शाश्वतं पदमनुप्रविशामि ।
(इति निष्क्रान्तः ।) रामः - एतत्पुनर्वनमहो कथमद्य दृष्टं यस्मिन्नभूम चिरमेव पुरा वसन्तः ।
आरण्यकाश्च गृहिणश्च रताः स्वधर्मे सांसारिकेषु च सुखेषु वयं रसज्ञाः ॥२२॥
एते त एव गिरयो विरुवन्मयूरास्तान्येव मत्तहरिणानि वनस्थलानि ।
आमञ्जुवञ्जुलरुतानि च तान्यमूनि नीरन्ध्रनीपनिचुलानि सरित्तटानि ॥२३॥
मेघमालेव यश्चायमारादिव विभाव्यते ।
गिरिः प्रस्रवणः सोऽयम् अत्र गोदावरी नदी ॥२४॥
अस्यैवासीन्महति शिखरे गृध्रराजस्य वासस्तस्याधस्ताद्वयमपि रतास्तेषु पर्णोटजेषु ।
गोदावर्याः पयसि विततानोकहश्यामलश्रीरन्तः कूजन्मुखरशकुनो यत्र रम्यो वनान्तः ॥२५॥
अत्रैव सा पञ्चवटी यत्र निवासेन विविधविस्रम्भातिप्रसङ्गसाक्षिणः प्रदेशाः प्रियायाः प्रियसखी च वासन्ती नाम वनदेवता ।
किमिदमापतितमद्य रामस्य ।
सम्प्रति हि ।
चिराद्वेगारम्भी प्रसृत इव तीव्रो विषरसः कुतश्चित्संवेगात्प्रचल इव शल्यस्य शकलः ।
व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः पुराभूतः शोको विकलयति मां नूतन इव ॥२६॥
तथाविधानपि तावत्पूर्वसुहृदो भूमिभागान्पश्यामि ।
(निरूप्य ।) अनवस्थितो भूतसन्निवेशः ।
तथाहि ।
पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम् ।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥१७॥
हन्त हन्त ।
परिहरन्तमपि मां पञ्चवटी स्नेहाद्बलादाकर्षतीव ।
(सकरुणम् ।) यस्यां ते दिवसास्तया सह मया नीता यथा स्वे गृहे यत्सम्बन्धकथाभिरेव सततं दीर्घाभिरास्थीयत ।
एकः सम्प्रति नाशितप्रियतमस्तामेव रामः कथं पापः पञ्चवटीं विलोकयतु वा गच्छत्वसम्भाव्य वा ॥२८॥
(प्रविश्य ।) शम्बूकः - जयतु देवः ।
भगवानगस्त्यो मत्तः श्रुतसन्निधानस्त्वामाह - “परिकल्पितावरणमङ्गला प्रतीक्षते वत्सला लोपामुद्रा, सर्वे च महर्षयः ।
तदेहि ।
सम्भावयास्मान् ।
अथ प्रजविना पुष्पकेन स्वदेशमुपगत्याश्वमेधसज्जो भव” इति ।
रामः - यथाज्ञापयति भगवान् ।
शम्बूकः - इत इतो देवः ।
रामः - (पुष्पकं प्रवर्तयन् ।) भगवति पञ्चवटि, गुरुजनादेशोपरोधात्क्षणं शम्यतामतिक्रमो रामस्य ।
शम्बूकः - देव, पश्य ।
गुञ्जत्कुञ्जकुटीरकौशिकघटाघुक्कारवत्कीचकस्तम्बाडम्बरमूकमौकुलिकुलः क्रौञ्चाभिधोऽयं गिरिः ।
एतस्मिन्प्रचलाकिनां प्रचलतामुद्वेजिताः कूजितैरुद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः ॥२९॥
अपि च ।
एते ते कुहरेषु गद्गदनदद्गोदावरीवारयो मेघालम्बितमौलिनीलशिखराः क्षोणीभृतो दाक्षिणाः ।
अन्योन्यप्रतिघातसङ्कुलचलत्कल्लोलकोलाहलैरुत्तालास्त इमे गभीरपयसः पुण्याः सरित्सङ्गमाः ॥३०॥
(इति निष्क्रान्ताः सर्वे ।) द्वितीयोऽङ्कः ।