०१

प्रथमोऽङ्कः ।

इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे ।
वन्देमहि च तां वाणीममृतामात्मनः कलाम् ॥१॥

(नान्द्यन्ते) सूत्रधारः - अलमतिविस्तरेण ।
अद्य खलु भगवतः कालप्रियानाथस्य यात्रायामार्यमिश्रान्विज्ञापयामि - एवमत्रभवन्तो विदाङ्कुर्वन्तु ।
अस्ति खलु तत्रभवान्काश्यपः श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणज्ञो भवभूतिर्नाम जतुकर्णीपुत्रः ।

यं ब्रह्माणमियं देवी वाग्वश्यैवान्ववर्तत ।
उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥२॥

एषोऽस्मि कविवशादायोध्यकस्तदानीन्तनश्च संवृत्तः ।
(समन्तादवलोक्य ।) भो भोः, यदा तावदत्रभवतः पौलस्त्यकुलधूमकेतोर्महाराजरामस्यायं पट्टाभिषेकसमयो रात्रिन्दिवमसंहृतनान्दीकः, तत्किमिदानीं विश्रान्तचारचरणानि चत्वरस्थानानि ।
(प्रविश्य ।) नटः - भाव, प्रेषिता हि स्वगृहान्महाराजेन लङ्कासमरसुहृदो महात्मानः प्लवङ्गमराक्षसाः सभाजनोपस्थायिनश्च नानादिगन्तपावना ब्रह्मर्षयो राजर्षयश्च, यत्समाराधनायैतावतो दिवसान्प्रमोद आसीत् ।
सूत्रधारः - आ, अस्त्येतन्निमित्तम् ।

नटः - अन्यच्च ।

वसिष्ठाधिष्ठिता देव्यो गता रामस्य मातरः ।
अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम् ॥३॥

सूत्रधारः - वैदेशिकोऽस्मीति पृच्छामि ।
कः पुनर्जामाता ।

नटः - कन्यां दशरथो राजा शान्तां नाम व्यजीजनत् ।
अपत्यकृतिकां राज्ञे रोमपादाय तां ददौ ॥४॥

विभाण्डकसुतस्तामृष्यशृङ्ग उपयेमे ।
तेन द्वादशवार्षिकं सत्रमारब्धम् ।
तदनुरोधात्कठोरगर्भामपि जानकीं विमुच्य गुरुजनस्तत्र यातः ।

सूत्रधारः - तत्किमनेन ।
एहि ।
राजद्वारमेव स्वजातिसमयेनोपतिष्ठावः ।

नटः - तेन हि निरूपयतु राज्ञः सुपरिशुद्धामुपस्थानस्तोत्रपद्धतिं भावः ।

सूत्रधारः - मारिष, सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता ।
यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः ॥५॥

नटः - अतिदुर्जन इति वक्तव्यम् ।

देव्या अपि हि वैदेह्याः सापवादो यतो जनः ।
रक्षोगृहस्थितिर्मूलमग्निशुद्धौ त्वनिश्चयः ॥६॥

सूत्रधारः - यदि पुनरियं किंवदन्ती महाराजं प्रति स्यन्देत ततः कष्टं स्यात् ।

नटः - सर्वथा ऋषयो देवाश्च श्रेयो विधास्यन्ति ।
(परिक्रम्य ।) भो भोः, क्वेदानीं महाराजः ।
(आकर्ण्य ।) एवं जनाः कथयन्ति - स्नेहात्सभाजयितुमेत्य दिनान्यमूनि नीत्वोत्सवेन जनकोऽद्य गतो विदेहान् ।
देव्यास्ततो विमनसः परिसान्त्वनाय धर्मासनाद्विशति वासगृहं नरेन्द्रः ॥७॥

(इति निष्क्रान्तौ ।) इति प्रस्तावना ।

(ततः प्रविशत्युपविष्टो रामः सीता च ।)
रामः - देवि वैदिहि, विश्वसिहि ।
ते हि गुरवो न शक्नुवन्ति विहातुमस्मान् ।

किन्त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति ।
सङ्कटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता ॥८॥

सीता - जाणामि अज्जउत्त, जाणामि ।
किन्दु सन्दावआरिणो बन्धुजणविप्पओआ होन्ति ।

रामः - एवमेतत् ।
एते हि हृदयमर्मच्छिदः संसारभागाः/संसारभावाः -
येभ्यो बीभत्समानाः सन्त्यज्य सर्वान्कामानरण्ये विश्राम्यन्ति मनीषिणः ।

(प्रविश्य ।) कञ्चुकी - रामभद्र (इत्यर्धोक्ते साशङ्कम् ।) महाराज ।

रामः - (सस्मितम् ।) आर्य, ननु रामभद्र इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य ।
तद्यथाभ्यस्तमभिधीयताम् ।

कञ्चुकी - देव, ऋष्यशृङ्गाश्रमादष्टावक्रः सम्प्राप्तः ।

सीता - अज्ज, तदो किं विलम्बीअदि ।

रामः - त्वरितं प्रवेशय ।

(कञ्चुकी निष्क्रान्तः । प्रविश्य ।) अष्टावक्रः - स्वस्ति वाम् ।
रामः - भगवन्, अभिवादये ।
इत आस्यताम् ।

सीता - भअवं, णमो दे ।
अवि कुसलं सजामातुअस्स गुरुअणस्स अज्जाए सन्ताए अ ।

रामः - निर्विघ्नः सोमपीथी भावुको मे भगवानृष्यशृङ्गः, आर्या च शान्ता ।

सीता - अम्हे वि सुमरेदि ।

अष्टावक्रः - (उपविश्य ।) अथ किम् ।
देवि, कुलगुरुर्भगवान्वसिष्ठस्त्वामिदमाह -

विश्वम्भरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते ।
तेषां वधूस्त्वमसि नन्दिनि पार्थिवानां येषां कुलेषु सविता च गुरुर्वयं च ॥९॥

तत्किमन्यदाशास्महे -
केवलं वीरप्रसवा भूयाः ।

रामः - अनुगृहीताः स्मः ।

लौकिकानां हि साधूनामर्थं वागनुवर्तते ।
ऋषीणां पुनराद्यानां वाचमर्थोऽनुवर्तते ॥१०॥

अष्टावक्रः - इदं च भगवत्यारुन्धत्या देवीभिः शान्तया च भूयो भूयः सन्दिष्टम् ।
यः कश्चिद्गर्भदौर्हृदोदयो भवत्यस्याः सोऽवश्यमचिरान्मानयितव्य इति ।

रामः - क्रियते यद्येषा कथयति ।

अष्टावक्रः - ननान्दुः पत्या च देव्याः सन्दिष्टम् - “वत्से, कठोरगर्भेति नानीतासि ।
वत्सोऽपि रामभद्रस्त्वद्विनोदार्थमेव स्थापितः ।
तत्पुत्रपूर्णोत्सङ्गामायुष्मतीं द्रक्ष्यामः

इति ।

रामः - (सहर्षलज्जास्मितम् ।) तथास्तु ।
भगवता वसिष्ठेन न किञ्चिदादिष्टोऽस्मि ।

अष्टावक्रः - श्रूयताम् ।

जामातृयज्ञेन वयं निरुद्धास्त्वं बाल एवासि नवं च राज्यम् ।
युक्तः प्रजानामनुरञ्जने स्यास्तस्माद्यशो यत्परमं धनं वः ॥११॥

रामः - यथा समादिशति भगवान्मैत्रावरुणिः ।

स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।
आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥१२॥

सीता - अदो जेव्व राहवधुरन्धरो अज्जउत्तो ।

रामः - कः कोऽत्र भोः ।
विश्राम्यतादष्टावक्रः ।

अष्टावक्रः - (उत्थाय परिक्रम्य च ।) अये, कुमारलक्ष्मणः प्राप्तः ।
(इति निष्क्रान्तः ।)

(प्रविश्य) लक्ष्मणः - जयति जयत्यार्यः ।
आर्य, अर्जुनेन चित्रकरेणास्मदुपदिष्टमार्यस्य चरितमस्यां वीथ्यामभिलिखितम् ।
तत्पश्यत्वार्यः ।

रामः - जानासि वत्स, दुर्मनायमानां देवीं विनोदयितुम् ।
तत्कियानवधिः ।

लक्ष्मणः - यावदार्याया हुताशनशुद्धिः ।

रामः - शान्तं पापम् ।
(ससान्त्ववचनम् ।)

उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः ।
तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥१३॥

देवि देवयजनसम्भवे, प्रसीद ।
एष ते जीवितावधिः प्रवादः ।

क्लिष्टो जनः किल जनैरनुरञ्जनीयस्तन्नो यदुक्तमशुभं च न तत्क्षमं ते ।
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि ॥१४॥

सीता - होदु अज्जउत्त, होदु ।
एहि ।
पेक्खह्म दाव दे चरितम् ।

(इत्युत्थाय परिक्रामति ।) लक्ष्मणः - इदं तदालेख्यम् ।

सीता - (निर्वर्ण्य ।) के एदे उवरिणिरन्तरट्ठिदा उवत्थुवन्दि विअ अज्जउत्तम् ।
लक्ष्मणः - देवि, एतानि तानि सरहस्यानि जृम्भकास्त्राणि,
यानि भगवतो भृशाश्वात् कौशिकमुपसङ्क्रान्तानि ।

तेन च ताटकावधे प्रसादीकृतान्यार्यस्य ।

रामः - वन्दस्व देवि, दिव्यास्त्राणि ।

ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रं शरदां तपांसि ।
एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥१५॥

सीता - णमो एदाणम् ।

रामः - सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति ।

सीता - अणुगहीदह्मि ।

लक्ष्मणः - एष मिथिलावृत्तान्तः ।

सीता - अह्महे, दलन्तणवणीलुप्पलसामलसिणिद्धमसिणसोहमाणमसलेन देहसोहग्गेण विह्मअत्थिमिदताददीसन्तसोम्मसुन्दरसिरी अणादरत्थुडिदसङ्करसरासणो सिहण्डमुद्धमुहमण्डलो अज्जउत्तो आलिहिदो ।

लक्ष्मणः - आर्ये, पश्य पश्य ।

सम्बन्धिनो वसिष्ठादीनेष तातस्तवार्चति ।
गौतमश्च शतानन्दो जनकानां पुरोहितः ॥१६॥

रामः - सुश्लिष्टमेतत् ।

जनकानां रघूणां च सम्बन्धः कस्य न प्रियः ।
यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः ॥१७॥

सीता - एदे क्खु तक्कालकिदगोदाणमङ्गला चत्तारो भादरो ।
विआहदिक्खिदा तुह्मे ।
अह्मो जाणामि तस्सिं जेव्व पदेशे तस्सिं जेव्व काले वत्तामि ।

रामः - एवम्।

समयः स वर्तत इवैष यत्र मां समनन्दयत्सुमुखि गौतमार्पितः ।
अयमागृहीतकमनीयकङ्कणस्तव मूर्तिमानिव महोत्सवः करः ॥१८॥

लक्ष्मणः - इयमार्या ।
इयमप्यार्या माण्डवी ।
इयमपि वधूः श्रुतकीर्तिः ।

सीता - वच्छ, इअं वि अवरा का ।

लक्ष्मणः - (सलज्जास्मितम् । स्वगतम्/ अपवार्य ।) अये, ऊर्मिलां पृच्छत्यार्या ।
भवतु ।
अन्यतः सञ्चारयामि ।
(प्रकाशम् ।) आर्ये, दृश्यतां द्रष्टव्यमेतत् ।
अयं च भगवान्भार्गवः ।

सीता - (ससम्भ्रमम् ।) कम्पिदह्मि ।

रामः - ऋषे, नमस्ते ।

लक्ष्मणः - आर्ये, पश्य ।
अयमार्येण (इत्यर्धोक्ते ।)

रामः - (साक्षेपम् ।) अयि, बहुतरं द्रष्टव्यम् ।
अन्यतो दर्शय ।

सीता - (सस्नेहबहुमानं निर्वर्ण्य ।) सुष्ठु सोहसि अज्जउत्त, एदिणा विणअमाहप्पेण ।

लक्ष्मणः - एते वयमयोध्यां प्राप्ताः ।

रामः - (सास्रम् ।) स्मरामि हन्त स्मरामि ।

जीवत्सु तातपादेषु नूतने दारसङ्ग्रहे ।
भ्रातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥१९॥

इयमपि तदा जानकी

पतनविरलैः प्रान्तोन्मीलन्मनोहरकुड्मलैर्दशनकुसुमैर्मुग्धालोकं शिशुर्दधती मुखम् ।
ललितललितैर्ज्योत्स्नाप्रायैरकृत्रिमविभ्रमैरकृत मधुरैरङ्गानां मे कुतूहलमङ्गकैः ॥२०॥

लक्ष्मणः - एष मन्थरावृत्तान्तः ।
रामः - (सत्वरमन्यतो दर्शयन् ।) देवि वैदेहि, इङ्गुदीपादपः सोऽयं शृङ्गिवेरपुरे पुरा ।
निषादपतिना यत्र स्निग्धेनासीत्समागमः ॥२१॥
लक्ष्मणः - (विहस्य ।
स्वगतम् ।) अये, मध्यमाम्बावृत्तान्तमन्तरितमार्येण ।
सीता - अह्मो, एसो जडासञ्जमणवुत्तन्तो ।
लक्ष्मणः - पुत्रसङ्क्रान्तलक्ष्मीकैर्यद्वृद्धेक्ष्वाकुभिर्धृतम् ।
धृतं बाल्ये तदार्येण पुण्यमारण्यकव्रतम् ॥२२॥
सीता - एसा पसण्णपुण्णसलिला भअवदी भाईरही ।
रामः - रघुकुलदेवते, नमस्ते ।
तुरगविचयव्यग्रानुर्वीभिदः सगराध्वरे कपिलमहसा रोषात्प्लुष्टान्पितुश्च पितामहान् ।
अगणिततनूतापस्तप्त्वा तपांसि भगीरथो भगवति तव स्पृष्टानद्भिश्चिरादुदतीतरत् ॥२३॥
सा त्वमम्ब, स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भव ।
लक्ष्मणः - एष भरद्वाजावेदितश्चित्रकूटयायिनि वर्त्मनि वनस्पतिः कालिन्दीतटे वटः श्यामो नाम ।
(रामः सस्पृहमवलोकयति ।) सीता - सुमरेदि वा तं पदेसं अज्जउत्तो ।
रामः - अयि, कथं विस्मर्यते ।
अलसललितमुग्धान्यध्वसम्पातखेदादशिथिलपरिरम्भैर्दत्तसंवाहनानि ।
परिमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥२४॥
लक्ष्मणः - एष विन्ध्याटवीमुखे विराधसंवादः ।
सीता - अलं दाव एदिणा ।
पेक्खम्मि दाव अज्जउत्तसहत्तधरिदतालवुन्तादवत्तं अत्तणो अच्चाहिदं दक्खिणारण्णपहिअत्तणम् ।
रामः - एतानि तानि गिरिनिर्झरिणीतटेषु वैखानसाश्रिततरूणि तपोवनानि ।
येष्वातिथेयपरमा यमिनो भजन्ते नीवारमुष्टिपचना गृहिणो गृहाणि ॥२५॥
लक्ष्मणः - अयमविरलानोकहनिवहनिरन्तरस्निग्धनीलपरिसरारण्यपरिणद्धगोदावरीमुखकन्दरः सन्ततमभिष्यन्दमानमेघमेदुरितनीलिमा जनस्थानमध्यगो गिरिः प्रस्रवणो नाम ।
रामः - स्मरसि सुतनु तस्मिन्पर्वते लक्ष्मणेन प्रतिविहितसपर्यासुस्थयोस्तान्यहानि ।
स्मरसि सरसनीरां तत्र गोदावरीं वा स्मरसि च तदुपान्तेष्वावयोर्वर्तनानि ॥२६॥
किं च ।
किमपि किमपि मन्दं मन्दमासक्तियोगादविरलितकपोलं जल्पतोरक्रमेण ।
अशिथिलपरिरम्भव्यापृतैकैकदोष्णोरविदितगतयामा रात्रिरेव व्यरंसीत् ॥२७॥
लक्ष्मणः - एष पञ्चवट्यां शूर्पणखाविवादः ।
सीता - हा अज्जउत्त, एत्तिअं दे दंसणम् ।
रामः - ऐ वियोगत्रस्ते, चित्रमेतत् ।
सीता - जहा तहा होदु ।
दुज्जणो असुहं उप्पादेइ ।
रामः - हन्त, वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति ।
लक्ष्मणः - अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि ।
जनस्थाने शून्ये विकलकरणैरार्यचरितैरपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ॥२८॥
सीता - (सास्रमात्मगतम् ।) अह्मो, दिणअरकुलाणन्दणो एव्वंविमह कालणादो किलन्तो आसि ।
लक्ष्मणः - (रामं निर्वर्ण्य साकूतम् ।) आर्य, किमेतत् ।
अयं तावद्बाष्पस्त्रुटित इव मुक्तामणिसरो विसर्पन्धाराभिर्लुठति धरणीं जर्जरकणः निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति चिरमाध्मातहृदयः ॥२९॥
रामः - वत्स, तत्कालप्रियजनविप्रयोगजन्मा तीव्रोऽपि प्रतिकृतिवाञ्छया विसोढः ।
दुःखाग्निर्मनसि पुनर्विपच्यमानो हृन्मर्मव्रण इव वेदनां तनोति ॥३०॥
सीता - हद्धी हद्धी ।
अहंवि अदिभूमिं गदेण रणरणएण अज्जउत्तसुण्णं विअ अत्ताणं पेक्खामि ।
लक्ष्मणः - (स्वगतम् ।) भवतु ।
आक्षिपामि ।
(चित्रं विलोक्य प्रकाशम् ।) अथैतन्मन्वन्तरपुराणस्य तत्रभवतस्तातजटायुषश्चरित्रविक्रमोदाहरणम् ।
सीता - हा ताद, णिव्वूढो दे अवच्चसिणेहो ।
रामः - हा तात काश्यप शकुन्तराज, क्व नु खलु पुनस्त्वादृशस्य महतस्तीर्थभूतस्य साधोः सम्भवः ।
लक्ष्मणः - अयमसौ जनस्थानस्य पश्चिमतः कुञ्जवान्नाम पर्वतो दनुकबन्धाधिष्ठितो दण्डकारण्यभागः ।
तदिदममुष्य परिसरे मतङ्गाश्रमपदम् ।
तत्र श्रमणी नाम सिद्धा शबरतापसी ।
तदेतत्पम्पाभिधानं पद्मसरः ।
सीता - जत्थ किल अज्जउत्तेण विच्छिण्णामरिसधीरत्तणं पमुक्ककण्ठं परुण्णं आसि ।
रामः - देवि, परं रमणीयमेतत्सरः ।
एतस्मिन्मदकलमल्लिकाक्षपक्षः ।
व्याधूतस्फुरदुरुदण्डपुण्डरीकाः ।
बाष्पाम्भः परिपतनोद्गमान्तराले सन्दृष्टाः कुवलयिनो मया विभागाः ॥३१॥
लक्ष्मणः - अयमार्यो हनूमान् ।
सीता - एसो सो चिरणिव्वूढजीवलोअपच्चुद्धरणगुरुओवआरी महानुभावो मारुदी ।
रामः - दिष्ट्या सोऽयं महाबाहुरञ्जनानन्दवर्धनः ।
यस्य वीर्येण कृतिनो वयं च भुवनानि च ॥३२॥
सीता - वच्छ, एसो सो कुसुमिदकदम्बताण्डविअबंहिणो किण्णामहेओ गिरी ।
जत्थ अणुभावसोहग्गमेत्तपरिसेससुन्दरसिरी मुच्छन्दो तुए परुण्णेण ओलम्बिओ तरुअले अज्जउत्तो आलिहिदो ।
लक्ष्मणः - सोऽयं शैलः ककुभसुरभिर्माल्यवान्नाम यस्मिन्नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः ।
आर्येणास्मिन् रामः - विरम विरमातःपरं न क्षमोऽस्मि प्रत्यावृत्तः स पुनरिव मे जानकीविप्रयोगः ॥३३॥
लक्ष्मणः - अतःपरमार्यस्य तत्रभवतां राक्षसानां चापरिसङ्ख्यान्युत्तरोत्तराणि कर्माश्चर्याणि ।
परिश्रान्ता चेयमार्या ।
तद्विज्ञापयामि विश्राम्यतामिति ।
सीता - अज्जउत्त, एदिणा चित्तदंसणेण पच्चुप्पण्णदोहलाए मए विण्णावणिज्जं अत्थि ।
रामः - नन्वाज्ञापय ।
सीता - जाणे पुणोवि पसण्णगम्भीरासु वणराईसु विहरिअ पवित्तणिम्मलसिसिरसलिलं भअवदिं भाईरहिं ओगाहिस्सं ति ।
रामः - वत्स लक्ष्मण ।
लक्ष्मणः - एषोऽस्मि ।
रामः - वत्स, अचिरादेव सम्पादनीयो दौहृद इति सम्प्रत्येव गुरुभिः सन्दिष्टम् ।
तदस्खलितसम्पातं रथमुपस्थापय ।
सीता - अज्जउत्त, तुह्मेहिं वि आअन्दव्वम् ।
रामः - अतिकठिनहृदये, एतदपि वक्तव्यम् ।
सीता - तेण हि पिअं मे पिअं मे ।
लक्ष्मणः - यदाज्ञापयत्यार्यः ।
(इति निष्क्रान्तः ।) रामः - प्रिये, वातायनोपकण्ठे संविष्टा भव ।
सीता - एव्वं होदु ।
ओहरिदह्मि परिस्समणिद्दाए ।
रामः - तेन हि निरन्तरमवलम्बस्व मामनुगमनाय ।
जीवयन्निव ससाध्वसश्रमस्वेदबिन्दुरधिकण्ठमर्प्यताम् ।
बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः ॥३४॥
(तथा कारयन्सानन्दम् ।) प्रिये, किमेतत् ।
विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चैतन्यं भ्रमयति च सम्मीलयति च ॥३५॥
सीता - धीरप्पसादा तुह्मेत्ति एत्थ दाणिं अच्चरिअम् ।
रामः - म्लानस्य जीवकुसुमस्य विकासनानि सन्तर्पणानि सकलेन्द्रियमोहनानि ।
एतानि ते सुवचनानि सरोरुहाक्षि कर्णामृतानि मनसश्च रसायनानि ॥३६॥
सीता - पिअंवद एहि ।
संविसह्म ।
रामः - अपि सन्देष्टव्यम् ।
आविवाहसमयाद्गृहे वने शैशवे तदनु यौवने पुनः ।
स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते ॥३७॥
सीता - (निद्रां नाटयन्ती) अत्थि एदम् ।
अज्जउत्त, अत्थि एदम् ।
(इति स्वपिति ।) रामः - कथं प्रियवचनैव मे वक्षसि प्रसुप्ता ।
(निर्वर्ण्य ।) इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोरसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः ।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥३८॥
(प्रविश्य) प्रतीहारी - देव, उवट्ठिदो ।
रामः - अयि, कः ।
प्रतीहारी - आसण्णपरिआरओ देवस्स दुम्मुहो ।
रामः - (स्वगतम् ।) शुद्धान्तचारी दुर्मुखः स मया पौरजानपदेष्वपसर्पः प्रहितः ।
(प्रकाशम् ।) आगच्छतु ।
(प्रतीहारी निष्क्रान्ता ।) (प्रविश्य ।) दुर्मुखः - (स्वगतम् ।) हा कहं दाणिं देवीमन्तरेण ईरिसं अचिन्तणिज्जं जणाववादं देव्वस्स कहैस्सं ।
अहवा णिओओ क्खु मह मन्दभाअहेअस्स एसो ।
सीता - (उत्स्वप्नायते ।) अज्जउत्त, कहिंसि ।
रामः - सेयमेव रणरणकदायिनी चित्रदर्शनाद्विरहभावना देव्याः स्वप्नोद्योगं करोति ।
(सस्नेहमङ्गमस्याः परामृशन् ।) अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः ।
कालेनावरणात्ययात्परिणते यत्प्रेमसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्रार्थ्यते ॥३९॥
दुर्मुखः - (उपसृत्य ।) जेदु देव्वो ।
रामः - ब्रूहि यदुपलब्धम् ।
दुर्मुखः - उवट्टुवन्ति देवं पौरजाणपदा जहा विसुमरिदा अह्मे महाराअं दसरहं रामदेव्वेणेत्ति ।
रामः - अर्थवाद एवैषः ।
दोषं तु मे कथञ्चित्कथय येन प्रतिविधीयते ।
दुर्मुखः - (सास्रम् ।) सुणादु महाराओ ।
(कर्णे ।) एव्वं विअ ।
इति ।
रामः - अहह, अतितीव्रोऽयं वाग्वज्रः ।
(इति मूर्च्छति ।) दुर्मुखः - आस्ससदु देव्वो ।
रामः - (आश्वस्य ।) हा हा धिक्परगृहवासदूषणं यद्वैदेह्याः प्रशमितमद्भुतैरुपायैः ।
एतत्तत्पुनरपि दैवदुर्विपाकादालर्कं विषमिव सर्वतः प्रसक्तम् ॥४०॥
तत्किमद्य मन्दभाग्यः करोमि (विमृश्य सकरुणम् ।) अथवा किमेतत् ।
सतां केनापि कार्येण लोकस्याराधनं परम् ।
तत्प्रतीतं हि तातेन मां च प्राणांश्च मुञ्चता ॥४१॥
सम्प्रत्येव च भगवता वसिष्ठेन सन्दिष्टम् ।
अपि च ।
यत्सावित्रैर्दीपितं भूमिपालैर्लोकश्रेष्ठैः साधुचित्रं चरित्रम् ।
मत्सम्बन्धात्कश्मला किंवदन्ती स्याच्चेदस्मिन्हन्त धिङ्नामधन्यम् ॥४२॥
हा देवि देवयजनसम्भवे, हा स्वजन्मानुग्रहपवित्रितवसुन्धरे, हा मुनिजनकनन्दिनि, हा पावकवसिष्ठारुन्धतीप्रशस्तशीलशालिनि, हा राममयजीविते, हा महारण्यवासप्रियसखि, हा तातप्रिये, हा स्तोकवादिनि, कथमेवंविधायास्तवायमीदृशः परिणामः ।
त्वया जगन्ति पुण्यानि त्वय्यपुण्या जनोक्तयः ।
नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे ॥४३॥
(दुर्मुखं प्रति ।) दुर्मुख, ब्रूहि लक्ष्मणम् ।
एष नूतनो राजा रामः समाज्ञापयति ।
(कर्णे ।) एवमेवम् ।
इति ।
दुर्मुखः - हा, कहं अग्गिपरिसुद्धाए गब्भट्ठिदपवित्तसन्ताणाए देवीए दुज्जणवअणादो एदं ववसिदं देव्वेण ।
रामः - शान्तं पापम्, शान्तं पापम् ।
दुर्जना नाम पौरजानपदाः ।
इक्ष्वाकुवंशोऽभिमतः प्रजानां जातं च दैवाद्वचनीयबीजम् ।
यच्चाद्भुतं कर्म विशुद्धिकाले प्रत्येतु कस्तद्यदि दूरवृत्तम् ॥४४॥
तद्गच्छ ।
दुर्मुखः - हा देवि ।
(इति निष्क्रान्तः ।) रामः - हा कष्टम् ।
अतिबीभत्सकर्मा नृशंसोऽस्मि संवृत्तः ।
शैशवात्प्रभृति पोषितां प्रियां सौहृदादपृथगाश्रयामिमाम् ।
छद्मना परिददामि मृत्यवे सौनिके गृहशकुन्तिकामिव ॥४५॥
तत्किमस्पृश्यः पातकी देवीं दूषयामि ।
(इति सीतायाः शिरः समुन्नमय्य बाहुमाकृष्य) ।
अपूर्वकर्मचण्डालमयि मुग्धे विमुञ्च माम् ।
श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् ॥४६॥
(उत्थाय ।) हन्त हन्त, सम्प्रति विपर्यस्तो जीवलोकः ।
अद्यावसितं जीवितप्रयोजनं रामस्य ।
शून्यमधुना कीर्णारण्यं जगत् ।
असारः संसारः ।
काष्ठप्रायं शरीरम् ।
अशरणोऽस्मि ।
किं करोमि ।
का गतिः ।
अथवा ।
दुःखसंवेदनायैव रामे चैतन्यमागतम् ।
मर्मोपघातिभिः प्राणैर्वज्रकीलायितं हृदि ॥४७॥
हा अम्ब अरुन्धति, भगवन्तौ वसिष्ठविश्वामित्रौ, भगवन्पावक, हा देवि भूतधात्रि, हा तात जनक, हा मातः, हा प्रियसख महाराज सुग्रीव, सौम्य हनूमन्, महोपकारिन् लङ्काधिपते विभीषण, हा सखि त्रिजटे, परिमुषिताः स्थ परिभूताः स्थ रामहतकेन ।
अथवा को नाम तेषामहमिदानीमाह्वाने ।
ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना ।
मया गृहीतनामानः स्पृश्यन्त इव पाप्मना ॥४८॥
योऽहम् विस्रम्भादुरसि निपत्य जातनिद्रामुन्मुच्य प्रियगृहिणीं गृहस्य लक्ष्मीम् ।
आतङ्कस्फुरितकठोरगर्भगुर्वीं क्रव्याद्भ्यो बलिमिव दारुणः क्षिपामि ॥४९॥
(सीतायाः पादौ शिरसि कृत्वा ।) अयं पश्चिमस्ते रामशिरसि पादपङ्कजस्पर्शः ।
(इति रोदिति ।) (नेपथ्ये ।) अब्रह्मण्यमब्रह्मण्यम् ।
रामः - ज्ञायतां भोः, किमेतत् ।
(पुनर्नेपथ्ये ।) ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ।
लवणत्रासितः स्तोमस्त्रातारं त्वामुपस्थितः ॥५०॥
रामः - कथमद्यापि राक्षसत्रासः ।
तद्यावदस्य दुरात्मनो माधुरस्य कुम्भीनसीकुमारस्योन्मूलनाय शत्रुघ्नं प्रेषयामि ।
(परिक्रम्य पुनर्निवृत्य ।) हा देवि, कथमेवंविधा गमिष्यसि ।
भगवति वसुन्धरे, सुश्लाघ्यां दुहितरमवेक्षस्व जानकीम् ।
जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् ।
यां देवयजने पुण्ये पुण्यशीलामजीजनः ॥५१॥
(इति रुदन्निष्कान्तः ।) सीता - हा सोह्म अज्जउत्त, कहिंसि ।
(इति सहसोत्थाय ।) हद्धी हद्धी ।
दुस्सिविणरणरणअविप्पलद्धा अज्जउत्तसुण्णं विअ अत्ताणं पेक्खामि ।
(विलोक्य ।) हद्धी हद्धी ।
एआइणिं पसुत्तं मं उज्झिअ कहिं गदो णाहो ।
होदु ।
से कुप्पिस्सं जै तं पेक्खन्ती अत्तणो पहविस्सं ।
को एत्थ परिअणो ।
(प्रविश्य ।) दुर्मुखः - देवि, कुमारलक्खणो विण्णवेदि - “सज्जो रहो ।
तं आरुहदु देवी” त्ति ।
सीता - इअं आरूढह्मि ।
(उत्थाय परिक्रम्य ।) फुरै मे गब्भभारो ।
सणिअं गच्छह्म ।
दुर्मुखः - इदो इदो देवी ।
सीता - णमो रहुउलदेवदाणं ।
(इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचित उत्तररामचरिते प्रथमोऽङ्कः ।