टीका

[[उत्तररामचरितम् Source: EB]]

[

[TABLE]

[TABLE]

[TABLE]

[TABLE]

— :० :—

प्रथमाङ्कस्य कथावस्तु

अत्र नान्दीपठनादनन्तरं सूत्रधारः प्रविश्य कथं नामाधिकारिपुरुषा निवृत्तव्यापाराः सन्तः पट्टाभिषेकसमये चत्वरेषु विश्राम्यन्तीति, सकुतूहलं पृच्छति। नटश्च निवेदयति कथानायकस्य श्रीरामचंद्रस्य यौवराज्याभिषेकोत्सवः समवसितः, तत्रोपस्थितानां लङ्कासमरसुहृदां प्लवंगमराक्षसानां नानादिगन्तपावनब्रह्मर्षि–राजर्षिवृन्दानां स्वदेशगमनादेव विश्रांतचारचरणानि चत्वरस्थानानीति। गुरुजनो दशरथभार्याभिः सह ऋष्यशृङ्गस्य द्वादशवार्षिके सत्रे समुपस्थातुमासन्नप्रसवां जानकीं विमुच्य ययौ। जनकोऽपि यौवराज्याभिषेकोत्सवादि सुखेन नीत्वा विदेहान् गतश्च। तद्वियोगाद्विमनस्कां सीतां परिसांत्वयितुं रामचन्द्रो धर्मासनाद्वासगृहं प्रविशतीति कथांशोऽत्र प्रस्तुतः। एतस्मिन्नेवांतरे ऋष्याश्रमादष्टावक्रो ‘जामातृयज्ञेन वयं निरुद्धास्त्वं बाल एवासि, नवं च राज्यम्। युक्तः प्रजानामनुरञ्जने स्यास्तस्माद्यशो यत् परमं धनं वः॥’ इति वसिष्ठमुनेः संदेशमादायाजगाम। रामचन्द्रोऽपि– ‘स्नेहं दयां च सौख्यं च यदि वा जानकीमपि। आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा॥’ इति भगवन्मैत्रावरुणिसमादेशानुगुणं करोमीत्युक्त्वा वसिष्ठसंदेशमुपादत्तवान्। ततश्च विचेतस्कां सीतां समनुरञ्जयितुं लक्ष्मणचित्रितालेख्यदर्शने प्रस्तुते पूर्वानुभूतानन्दवियोगादिभावयुक्तेन श्रीरामचंद्रेण ‘दुःखाग्निर्मनसि पुनर्विपच्यमानो हृन्मर्मव्रण इव वेदनां तनोति।’ इत्यादिना कृतं पुनःसंवेदनाविष्करणम्। आलेख्यदर्शनकौतुकेन सीता चापि ‘प्रसन्नगंभीरासु वनराजिषु पवित्रनिर्मलशिशिरसलिलां भागीरथीं पुनरप्यवगाहिष्ये’ इति प्रत्युपजातदोहदा ह्यभवत्। तस्या दोहदपूर्त्यर्थं रामः ‘सत्वरं रथमुपस्थापय’ इति लक्ष्मणं समादिष्टवान्। एतस्मिन्नेवांतरे रामेण पूर्वं प्रेषितो दुर्मुखाख्यो गूढचरो रामं समुपेत्य लङ्कायां रावणगृहे निवासाद्यधिकृत्य सीताविषयकं यत्कौलीनं श्रुतं तद्यथावद्रामं रहसि न्यवेदयेत्। स तेन लोकापवादेन दूनचेतस्त्वाद्गतसंज्ञोऽभवत्। लब्धचेतनश्चाथ सीताया वने त्याग एवात्र निष्कृतिरिति मन्यमानो रामः सुनिर्भरं विलप्य लक्ष्मणाय तथानुष्ठातुं रहसि समादिशत्। एवं सीतालक्ष्मणौ रथारूढौ भूत्वा वनप्रयाणायोपस्थितवन्तौ।

महाकविभवभूतिविरचितम्

उ त्त र रा म च रि त म्

–प्रथमोऽङ्कः–

इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे।
वन्देमहि1 च तां वाणीममृतामात्मनः कलाम्॥१॥

—————————————————————————————————————

तलस्पर्शिनी।

पुरि भुवि महितायां भूमिसाराभिधायामधिमुनिभृगुतीर्थोपान्तमाबद्धखेलम्।
किमपि नतशरण्यं मङ्गलं मङ्गवल्लीजगदधिपतिसंज्ञं द्वन्द्वमानन्दयेन्नः॥

ज्ञानं सर्वपराधीनं तद्धेतुश्चेद्धयाननः।
स चेद्भक्तपराधीनस्तं विना कं व्रजाम्यहम्॥

भूसारपुरवास्तव्योवाधूलो वीरराघवः।
भवभूतिकृतिं हृद्यां व्याचष्टे करुणामयीम्॥

भवभूतेः कवीन्द्रस्य क्व गम्भीरो गिरां भरः।
क्वमन्मतिरतिस्थूला सहायोऽत्र हयाननः॥

चापल्यमथवा बाल्यं कृतावस्यां प्रवर्तकम्।
तथापि कृपया सन्तः संतन्वन्तां शुभां दृशम्॥

अथ तत्रभवान्भवभूतिर्नाम कविकण्ठीरवः ‘एकः शब्दः सम्यग्ज्ञातः सुष्ठुप्रयुक्तः स्वर्गे लोके कामधुग्भवति’ इत्यादिश्रुत्या परिनिष्ठितशब्दप्रयोगस्य धर्मत्वमवगच्छन् ‘काव्यं यशसेऽर्थकृते’ इत्यादिना काव्यरूपस्य तस्य प्रकर्षं विभाव्य, ‘शैवा वयं न खलु तत्र विचारणीयं पञ्चाक्षरीजपपरा नितरां तथापि। चेतो मदीयमतसीकुसुमावभासं स्मेराननं स्मरति गोपवधूकिशोरम्॥’ इत्यादिन्यायेन अङ्कुरितभगवद्भक्तिकतया ‘स वाग्विसर्गो जनताघविप्लवो यस्मिन्प्रतिश्लोकबद्धवत्यपि। नामान्यनन्तस्य यशोऽङ्कितानि यच्छृण्वन्ति गायन्ति गृणन्ति साधवः॥’ इत्यादिन्यायेन ‘प्रबन्धानां प्रबन्धॄणामपि कीर्तिप्रतिष्ठयोः। मूलं विषयभूतस्य नेतुर्गुणनिरूपणम्॥’ इत्यादिन्यायेन च भगवद्गुणान्विवक्षुः, तत्रापि ‘यदि क्षुण्णं पूर्वैरिति जहति रामस्य चरितम्’ इत्यादिन्यायेन रामकथां प्रतिपिपादयिषुः, दृश्यस्य श्राव्यापेक्षया ‘देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषम्’ इत्युक्तनाट्याश्रयत्वप्रयुक्तप्राधान्यात्प्रकरणादीनां यथायथं रसवस्तुनायकापकर्षात्तत्प्रकर्षान्नाटकं चिकीर्षुः, पूर्वचरितस्य महावीरचरितत्वेन वर्णितत्वात् उत्तरं चरितं वर्णयितुमभिसंधाय पूर्वराङ्गप्रधानाङ्गभूतां नान्दीमाह— इदं कविभ्य इति। ‘इदं’, ‘कविभ्यः’ इति पदद्वयमिदम्। अतो द्वादशपदत्वसिद्ध्या न नान्दीपदनियमभङ्गः। ‘इदम्’ इति चोद्देश्यसमर्पकं द्वितीयान्तं विशेष्यवाचकम्,

—————————————————————————————————————

————————————————————————————————————————————

‘नमोवाकम्’ इति च विधेयसमर्पकं विशेषणवाचकं च। तथा च— इदं प्रारिप्सितग्रन्थादौ चिकीर्षितत्वेन वुद्धिस्थं मङ्गलं पूर्वेभ्यः कविभ्यो नमोवाकं प्रशास्महे। पूर्वकालप्रसिद्धप्राचेतसादिकविविषयकनमउक्तिं निर्दिशामः— इति वाक्यार्थः। ‘प्रशासनं तु निर्देशः’ इति कोशः ‘आङः शासु इच्छायाम्’ इति धातोः आङूपूर्वकत्वं प्रायिकमित्युक्तेः प्रपूर्वकत्वेनेच्छार्थकत्वं च। ‘नमउक्तिर्नमोवाकः’ इति कोशः। भावे घञ्। कुत्वम्। एतन्मङ्गलोद्देश्यपूर्वककविविषयकनमउक्तिविधेयकबोधजनकशब्दप्रयोगवानहम्,एतन्मङ्गलोद्देश्यकपूर्वकविविषयकनमोवाकविधेयकेच्छावानहम्, इत्यन्वयबोधः। ‘नमोवाकम्’ इत्यत्रैकदेश ‘नमः’ शब्दापेक्षया ‘कविभ्यः’ इति चतुर्थी। ‘नमःस्वस्ति—’ (२।३।१६) इत्याद्यनुशासनात्। अत्र नान्दीप्रभृतिप्रशस्तिरूपचरमाङ्कपर्यन्तस्य कर्तव्यस्य वुद्धिस्थत्वेऽपि प्रत्यासत्तिन्यायान्नमोवाकमिति विधेयानुसाराच्च मङ्गलस्यैव ‘इदं’ पदेन विवक्षा। इदमिति च सामान्ये नपुंसकम्। नमोवाकमिति तु पुंलिङ्गम्। तथा च— शुक्तिं रजतं जानातीत्यादाविव विशेष्यनिघ्नत्वाभावेन समानलिङ्गत्वाप्रसक्त्या न तद्बाधरूपदोषः। ‘इदं नमोवाकम्’ इत्यत्र नमोवाकमित्यस्य विशेष्यवाचकत्वमभ्युपगम्य तद्विशेषणवाचकस्य इदंपदस्य ‘सामान्ये नपुंसकं’ (वा. ५०४३) इति नपुंसकत्वाश्रयणे तु विशेष्य–विशेषणवाचकपदयोः समानलिङ्गत्वं बाधितव्यमित्यस्वारस्यम्। इदंपदप्रयोजनं च मृग्यं स्यात्। उक्तरीत्याश्रयणे तु मालतीमाधवादौ अन्यादृशमङ्गलेच्छायामपि एतन्नाटककर्तव्यमङ्गलं पूर्वकविविषयकनमोवाकमिच्छाम इत्यर्थलाभेन सप्रयोजनत्वम्, विशेष्यविशेषणवाचकयोः समानलिङ्गत्वबाधाभावश्चेति न दोष इति बोध्यम्। अत्र ‘पूर्वेभ्यः कविभ्यो नमोवाकमिदं प्रशास्महे’ इति योजयित्वा पूर्वकविविषयकनमोवाकरूपमेतन्मङ्गलमिच्छाम इत्युद्देश्यभावविरहेण पक्षान्तरमपि। अत्रापि इदमिति सामान्ये क्लीबम्। नमोवाकमिति च पुंलिङ्गमेव। ‘राज्यश्री प्रथमावतारपदवीमारुह्य सिंहासनम्’ इत्यादाविव विशेष्यनिघ्नत्वाभावेन समानलिङ्गकत्वप्रसक्तेः। अमात्यानुवर्तनपुरःसरराजदर्शनन्यायेन गुणकृतात्मसंत्कारः प्रधानोपकाराय महते प्रभवति। तत्र गुणोऽपि संस्कारमनुभवतीति न्यायेन, कविनमस्कारानन्तरं वाणीं नमस्करोति— वन्देमहीति। एतेन अनुग्राहकवाणीनमस्कारात्पूर्वमनुग्राह्यप्राचेतसादिनमस्कारायोग इत्यपास्तम्। ‘भगवद्वन्दनं त्वाद्यं गुरुवन्दनपूर्वकम्’ इति विधेश्च। ‘मधुमयफणितीनां मार्गदर्शी महर्षिः’, ‘काव्यज्ञशिक्षयाभ्यासः’ इति च प्राचेतसादीनां गुरुत्वानपायाच्च। तां प्रसिद्धां पूर्वोक्तनमस्कारार्हत्वेन बुद्धिस्थामिति वा। अमृतां शाश्वतीम्। ‘यज्ञशेषसुधामोक्षेष्वमृतं शाश्वते त्रिषु’ इत्यभिधानात्। अत्र यज्ञशेषसुधामोक्षस्वरूपेति कश्चित्— तन्न; अमृतामिति स्त्रीत्वालाभात्, तल्लाभेऽपि स्वरूपामित्यर्थालाभात्। आत्मनः परमात्मनः श्रियःपत्युःकलामंशभूताम्। विग्रहाध्याये तथा प्रतिपादनात्, हयग्रीवांशत्वाच्च। तदुक्तमाचार्यैः—‘दाक्षिण्यरम्या गिरिशस्य मूर्तिर्देवी सरोजासनधर्मपत्नी। व्यासादयोऽपि व्यपदेश्यवाचः स्फुरन्ति सर्वे तव शक्तिलेशैः॥’ इति। वाणीं वन्देमहि च प्रणमामच। वन्द्तेर्लिङ्युत्तमपुरुषबहुवचनम्। पूर्वोक्तप्रशासनसमुच्चायकश्चकारः। अत्र पूर्वार्धे सर्वलोकनमस्कार्याः पूर्वकालप्रसिद्धाः प्राज्ञाः केचिद्वर्ण्या इति सूच्यते। लोकनमस्कार्या
————————————————————————————————————————————

————————————————————————————————————————————

इत्यनेन धूर्तवर्ण्यकभाणादिव्यावृत्तिः। पूर्वेत्यनेन कल्पितवर्ण्यकप्रकरणादिव्यावृत्तिः। भरतस्य च क्वाप्यवर्णनात् रामलक्ष्मणशत्रुघ्नानां त्रयाणामेव कथांशोपयोगित्वेनात्र बहुवचनस्य कपिञ्जलाधिकरणन्यायेन त्रित्वपर्यवसानमव्याहतम्। कविभ्य इत्यनेन यथा कविषु वाल्मीकेराद्यत्वेन प्राधान्यम्, अन्येषामानन्तर्यादप्राधान्यम्, एवं तत्सूचितवर्ण्यानां मध्ये रामचन्द्रस्य वर्णनायां ज्येष्ठत्वेन प्राधान्यं लक्ष्मणादेश्चाप्राधान्यमिति सूचितम्। एवं च नानेकनेतृत्वप्रत्युक्तनाटकत्वहानिः। अत एव लक्ष्मणशत्रुघ्नयोरुपसर्जनत्वावगमात् सीतापरित्यागे लक्ष्मणप्रेषणस्य लवणवधार्थं शत्रुघ्नप्रेषणस्य च ध्वननात्प्रथमाङ्कार्थः सूच्यते। उत्तरार्धे प्राज्ञी काचन स्त्री वर्ण्यत इति सूचितम्। ‘आत्मनः कलाम्’ इत्यनेन तस्या देवतांशसंभवत्वं कस्यचिद्धर्मपत्नीत्वं च सूच्यते; ‘अर्धो वा एष आत्मनो यत्पत्नी’ इति पत्न्या अवयवत्वोपचारात्, कलाशब्दस्यावयववाचित्वात्। अत एव नायकस्यापि देवतांशसंभवत्वं सूच्यते; देवतांशसंभूतस्त्रियं प्रति तादृशस्यैव नायकस्यौचित्यात्। अमृतामिति मरणस्य प्रसक्तिपूर्वकप्रतिषेधाद्गङ्गापतनसंभावितस्य सीतामरणस्य गङ्गापृथिवीभ्यां सह तदागमनेन भावनिश्चयरूपो द्वितीयाङ्कप्रभृतिसप्तमाङ्कान्तार्थः सूच्यते। नमस्कारसमुच्चयेन समप्राधान्यावगमाच्छाकुन्तलादाविव नासाध्याया वर्ण्यत्वम्। अपि तु साध्याया एव वर्ण्यत्वमिति सूच्यत इति सुधियो विभावयन्तु॥ अस्य श्लोकस्य योजनान्तरमपि —इदमित्यादि। ‘इदंकविभ्यः’ इत्येकं पदम्। ‘नमः’, ‘वाकम्’ इति च पदद्वयम्। एतेन द्वादशपदत्वसिद्ध्या न नान्दीनियमहानिः। अयमर्थः—पूर्वेभ्यः प्राचीनेभ्य इदंकविभ्योऽस्या बुद्धिस्थरामकथायाः कविभ्यः। रामकथासंबन्धिकविभ्य इत्यर्थः। वाल्मीकिवसिष्ठादिभ्य इति तदर्थः। कथाया बुद्धिस्थत्वात् ‘पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सेयं कथा’ इत्युपसंहारे वक्ष्यमाणत्वाच्च ‘इदं’ शब्देन परामर्श इत्युपपन्नम्। प्राथमिककथादर्शित्वरूपमुपकारं ख्यापयितुं पूर्वेभ्य इत्युक्तम्। कथान्तरकविनमस्कारे प्रयोजनाभावात् इदंकविभ्य इत्युक्तम्। उच्यतेऽनेनेति वाकमुक्तिसाधनीभूतम्। कवेर्वश्यवाक्त्वेऽपि प्रारिप्सितग्रन्थसमाप्तौ कविनमस्कारस्य साधनत्वे तात्पर्यम्। करणे घञ्। तस्य चोपदेशाप्रवृत्तावित्यत्रैव बाहुलकत्वम्। अन्यथा ल्युटा भाव्यम्। ‘संज्ञायामिति च प्रायिकम्’ इत्युक्तत्वान्न दोषः। यद्वा,— उच्यते यत्तत् वाकम्। कर्मणि घञ्। ‘अकर्तरि च कारके— ’ (३।३।१९) इत्यनुशासनात् वाचिकं नमः प्रशास्महे इच्छामः निर्दिशाम इति वा। तां पूर्वोपस्थिताम्। प्रवृत्तिनिमित्तविधयास्याः कविपदेनोपस्थितेः। अमृतामानुपूर्व्यान्नित्याम्। शब्दस्य नित्यत्वपक्षे स्वरूपेण नित्यामित्यर्थः। यद्वा,—अमृतं मोक्षस्तदस्या अस्तीत्यमृता ताम्। मत्वर्थीयोऽच्प्रत्ययः। तेन स्त्रीत्वोपपत्तिः। प्रयोजकतासंबन्धेन मोक्षवतीमित्यर्थः। रामायणादिना मोक्षप्रयोजकत्वं च ‘एकैकमक्षरं पुंसां महापातकनाशनम्’ इति स्फुटम्। अत्र हेतुमाह— आत्मनः कलां परमात्मप्रतिपादकविद्याम्, ‘विद्यायां कालभेदे च मुक्तौ शिल्पे कलेति च’ इति वैजयन्ती। रामायणादिकाम्। परमात्मप्रतिपादकत्वं च ‘वेदवेद्येपरे पुंसि’ इत्यादौ स्पष्टम्। रामायणाध्यात्मरामायणरूपां वन्देमहि प्रणमाम। ‘विषयमङ्गलद्वयसंग्रहो विजयते’ इति बालरामायणनाटके स्फुटम्। अस्यां

————————————————————————————————————————————

————————————————————————————————————————————

योजनायां पूर्ववत्काव्यार्थसूचनं बोद्धव्यम्। केचित्तु—‘इदम्’ इति भिन्नपदम्, ‘नमः वा कं’ इति च पदत्रयम्। कविभ्य इदं नमः प्रशास्महे इत्यन्वयः। वाशब्दःसमुच्चयार्थः। कमित्यस्य ब्रह्माणमित्यर्थः। एवं च वाणीं सरस्वतीं देवीं कं वा ब्रह्माणं च वन्देमहि च प्रणमाम च। क्रियाद्वयसमुच्चायकश्चकारः। वन्दनक्रियानिरूपितकर्मद्वयसमुच्चायकस्तु वाशब्दः —इत्याहुः, तन्न; व्यवहितान्वयात्। ‘यत्राष्टभिर्द्वादशभिरष्टादशभिरेव वा। द्वाविंशत्या पदैर्वापि सा नान्दीति प्रकीर्तिता॥’ इत्यत्र चतुर्दशपदानुक्तेश्च। अन्ये तु—‘पूर्ववदेव पदानि। इदं नमो वा पूर्वेभ्यः कविभ्यः कं प्रशास्महे। तां वाणीं वन्देमहि’ इत्यन्वयमुक्त्वा ‘इदं नमो वा पूर्वेभ्यः कविभ्यः अन्यं कंप्रशास्महे तामेव वाणीं वन्देमहि। इतः प्राचीनं नमः पूर्वकविभ्यः। अन्यं प्रति न कृतमेव। इदं वा तदन्यं वा कं प्रति प्रशास्महे इत्यर्थः’ इति वदन्ति। तदपि न;प्रतीत्यध्याहारापत्तेः। नच ‘शासिदुहिरुधि–’ इत्यादिना द्विकर्मकत्वं ‘माणवकं धर्मं शास्ति’ इतिवदिति वाच्यम्; तत्र ‘शासु अनुशिष्टौ’ इत्यस्यैव ग्रहणाच्च। नच ‘तदेवेदम्’ इति वाच्यम्; तस्य परस्मैपदित्वात् अर्थासंगतेः, चकारस्यावधारणार्थकत्वाश्रयक्लेशात् पदनियमासिद्धेश्च। यदप्युक्तम्— ‘पूर्वेभ्यः कविभ्यः इदं नमः’ इत्येकं वाक्यम्, अन्यं वा कं प्रशास्महे इत्यपरं वाक्यम्, प्रशास्महे वाचमिच्छाम इत्यर्थः’ इति,—तदपि मन्दम्; एकवाक्यत्वसंभवे वाक्यभेदस्यान्याय्यत्वात्कवेर्वश्यवाक्त्वेन वागिच्छाया असंभवाच्च त्रयोदशपदत्वापत्तेश्च। यदपि चोक्तम्—इदंकविभ्यः इदानींतनकविभ्यः पूर्वेभ्यो वा पूर्वकविभ्यश्च नमः प्रणामं कं शिरसा प्रशास्महे। ‘कं शिरोम्बुनोः’ इति ‘मान्ताव्ययत्वात्तृतीयार्थलाभः’ इति,— तदपि न; पूर्वेभ्य इत्यत्र कविभ्य इत्यध्याहारापत्तेः, कविभ्य इत्येतावन्मात्रोक्तौ उभयकविलाभे निर्देशद्वयाश्रयणे प्रयोजनाभावान्, भाविकविद्वेषे मूलाभावात्, त्रयोदशपदत्वापत्तेश्च। यच्चोक्तम्—‘पूर्वेभ्यो नमः इदंकविभ्यः कं वा सुखं वा प्रशास्महे प्राचीनकविभ्यो नमः प्रशास्महे इदानींतनकविभ्यः सुखं प्रशास्महे’ इति,— तन्न; क्रमिकैकान्वयालाभात्, पूर्वोक्तदोषाच्च। यत्तूक्तम्—‘पूर्वेभ्यो वा पूर्वकविभ्य इव इदंकविभ्य इदानींतनकविभ्यः नमः इत्येकं वाक्यम्, कं वा प्रशास्महे इत्यपरम्, सुखं इच्छामः इति तदर्थः’ इति,—तन्नः विघ्नध्वंसस्यैवापेक्षितत्वेन सुखप्रार्थनाया असांगत्यात्, पूर्वदोषप्रसङ्गाच्च। केचित्तु—पूर्वेभ्यः वैदिकेभ्यः कविभ्यः गजाननाय, ‘गणानां त्वा गणपतिं हवामहे’ इति श्रुतेः। ‘कवी ‘शुक्रगजाननौ’ इति,—तन्न; बहुवचनास्वारस्यात्, पूजायां बहुत्वस्य गुरुपित्रादिवाचकशब्देभ्य एव दर्शनात्। किंचात्र गजाननस्य प्राचेतसादिसाधारणक्रान्तदर्शित्वरूपकवित्वेन कविपदादुपस्थितिर्न शक्या। सामान्यशब्दस्य विशेषव्यवस्थापकाभावात् पूर्वेभ्यः इत्यस्य च साधारणत्वात् न तद्व्यवस्थापकम्। ‘कवी शुक्रगजाननौ’ इति कोशाद्गजाननत्वेन तदुपस्थितिरपि न शक्या;पूर्वशब्दवैयर्थ्यापत्तेः। न ह्यपूर्वः कश्चिद्गजाननोऽस्ति येन तद्व्यावृत्त्या तत्सार्थक्यं स्यात्। ‘संयोगो विप्रयोगश्च साहचर्यं विरोधिता’ इत्यारभ्य ‘शब्दार्थस्यानवच्छेदे विशेषे स्मृतिहेतवः’ इत्युक्तरीत्या शुक्रादिव्यवच्छेदकत्वपूर्वकं गजाननोपस्थापकप्रकरणाद्यभावाच्च। नच वक्तुरपि संयोगादिप्रमाणेष्वन्यतमत्वेन

————————————————————————————————————————————

(नान्द्यन्ते।)

सूत्रधारः—अलमतिविस्तरेण। अद्य खलु भगवतः का2लप्रिया3नाथस्य यात्रायामार्यमिश्रान्विज्ञापयामि— एवमत्रभवन्तो विदांकुर्वन्तु। अस्ति खलु4 तत्रभवान्काश्यपः श्रीकण्ठपदलाञ्छनः5 पदवाक्यप्रमाणज्ञो भवभूतिर्नाम6 समवसीयते। अष्टमशतकीयोऽयमित्यन्ये।”) जतु7कर्णीपुत्रः।

————————————————————————————————————

परिगणनात् भवभूतेश्च मालतीमाधवे ‘वैनायक्यश्चिरं वो वदनविधुतयः पान्तु’ इत्युक्त्या विनायकभक्तत्वावगमात् अत्रापि तत्परत्वं युक्तमिति वाच्यम्; तस्य महावीरचरिते परित्यागात्। अत्र औचित्यरूपदुर्बलप्रमाणमवष्टभ्य बहुवचनश्रुतेः पूजालाक्षणिकत्वस्यान्याय्यत्वाच्च। यत्तु तेनैवोक्तम्—‘अनुग्राहक—‘इत्यादि, तत्तु अमात्यानुवर्तनपुरःसरराजदर्शनादिन्यायविरोधादुपेक्ष्यम्। तेनैव ‘कवीन्द्राः कल्पन्ते स्वयमपि विरिञ्चिप्रभृतयः’ इत्यानन्दलहर्याद्युपष्टम्भेन चतुर्मुखपरत्वमुपक्षिप्य ‘केतकीकुसुम—‘इत्यादिना ‘या ब्रह्माच्युतशंकरप्रभृतिभिः’ इत्यादिना च दूषित इति, तत्तुच्छम्; ‘भवव्रतधरा ये च ये च तान्समनुव्रताः’ इत्यादिभागवतप्रामाण्येन गजाननस्य नमस्कारानर्हत्वशापदानात्। ‘‘या ब्रह्माच्युतशंकरप्रभृतिभिः सर्वैः सुरैः सेविता’ इति ब्रह्मशंकरापेक्षया प्राधान्ये विनायकापेक्षया तस्य कैमुत्यसिद्धत्वाच्चेति ग्रन्थगौरवभिया विरम्यत इत्यलम्॥१॥ नान्दीलक्षणं तु— ‘मत्राष्टभिर्द्वादशभिः’ इत्यादि दशरूपकादिषु स्फुटम्। नाटकलक्षणं च—‘वीरशृङ्गारयोरेकः प्रधानं यत्र वर्ण्यते। प्रख्यातनायकोपेतं नाटकं तदुदाहृतम्॥’ इति। यद्यपि करुणरस एवास्मिन्नाटके प्रधानमिति सर्वजनीनं सूचितम्, मरणस्य प्रसक्तिपूर्वकप्रतिषेधो नाटकप्रतिपाद्य इति सूचयता नान्दीस्थामृतपदेन करुण एवास्मिन्नाटके प्रधान इति, तथापि वीर—शृङ्गारौ प्रायिकौ इत्युक्तेन दोष इत्याहुः। पूर्वरङ्गलक्षणं तु—‘यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये। कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते॥’ इति। प्रस्तावनालक्षणं तु—‘सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम्। स्वकार्यप्रस्तुताक्षेपिचित्रोक्त्या यत्तदामुखम्॥ प्रस्तावना वा तत्र स्यात्’ इति। नान्द्यन्त इति। नान्द्याःपूर्वोक्ताया अन्ते समाप्तौ सूत्रधारः। प्रविश्य आहेति शेषः। तदुक्तम्— ‘पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते। प्रविश्य तद्वदपरः काव्यमासूत्रयेन्नटः॥’ इति। प्ररोचनां प्रस्तोतुं सामाजिकावधानायाह— अद्य खलु भगवत इति। भगवतो ज्ञानशक्त्यादिगुणवतः कालप्रियानाथस्य कालप्रियानामाम्बिकाया नाथः शिवस्तस्य।

————————————————————————————————————

यं ब्रह्माणमियं8 देवी वाग्वश्यैवान्ववर्तत9
उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते॥२॥

——————————————————————————————————————

इयं च कथा पौराणिकी वेदितव्या। यात्रायामुत्सवे आर्याः पूज्या मिश्रा ज्ञानिनस्तथाविधान्विज्ञापयामि। एवं वक्ष्यमाणप्रकारेण अत्रभवन्तः पूज्या यूयम्। ‘अत्रभवत्तत्रभवच्छब्दौ पूज्यार्थौ’ इत्युक्तेः। यद्वा,—अत्रास्मिन्नगरे भगवन्तः। यूयमित्यर्थः। विदांकुर्वन्तु। ‘विदांकुर्वन्त्विन्यतरस्याम्’ इति सूत्रानुशिष्टोऽयं शब्दः। यात्रायामिति काल उक्तः। अत्रेति देश उक्तः। ‘निर्देशो देशकालयोः’ इत्युक्तेः। अस्ति खल्वति। काश्यपः कश्यपगोत्रोद्भवः। ऋष्यण्प्रत्ययः। ‘पश्यकः कश्यपो भवति’ इति सर्वज्ञतया श्रुतिप्रसिद्धकश्यपवंश्यः। ‘श्रीकण्ठ’ इति पदं शब्दः लाञ्छनं यस्य स तथोक्तः। श्रीकण्ठनामक इत्यर्थः। ‘द्वादशेऽहनि पिता नाम कुर्यात्’ इति पैतृकं नामधेयमिदम्। पदवाक्यप्रमाणज्ञः। व्याकरणन्यायमीमांसापरिज्ञातेत्यर्थः। भवभूतिर्नाम भवभूतिरिति प्रसिद्धनामवान्। एतत्कृतः ‘साम्बा पुनातु भवभूतिपवित्रमूर्तिः’ इति श्लोकश्रवणसंतुष्टो राजा भवभूतिरित्येनं ख्यापयामासेति कथा अत्रानुसंधेया। एवमन्यत्रापि कवितानुसारेण तत्तन्नामधेयम्। यथा—रत्नखेटकः, कोटिसारः, इति। उदयरक्तं चन्द्रबिम्बं रतिपतिरत्नखेटकत्वेनोत्प्रेक्षितवानित्यैतिह्यस्य, कामिनीस्तनमण्डलं प्रति ‘कुलाचलेन्द्रादपि कोटिसारः’ इत्युक्तवानित्यैतिह्यस्य, च तन्मूलत्वात् किंचास्मै कवये ईश्वर एव भिक्षुरूपेणागत्य भूतिं दत्तवानिति वदन्ति। एवं च भवाद्भगवतो भूतिर्यस्येति भवभूतिरित्यन्वर्थ इत्याहुः। यमिति। ब्रह्माणम्। यजनादिषट्कसंनिरतमित्यर्थः। लाक्षणिकोऽयम्; मुख्यार्थपरत्वे प्रयोजनाभावात्। तथाविधं यं भवभूतिमियं देवता प्रसादादिना साध्यत्वेन प्रसिद्धा वाग्देवी वश्या सत्येव विधिप्रतिषेधार्हा सत्येवान्ववर्ततानुवर्तितवती। यद्वा,—ब्रह्माणं यमेव वश्या सत्यन्ववर्तत, न त्वन्यमित्यर्थः। पूर्वस्मिन्नर्थे वश्यैवान्वर्तत नत्ववश्यान्ववर्तत। अलाभेन कालिदासादिषु स्वयमवश्यैव कालिदासप्रभृत्यनुरोधेनागताया वाग्देव्या यदनुवर्तनं तद्व्यावर्तते। अत्र ‘यं ब्रह्माणमियं देवी वाग्वश्येवान्ववर्तत’ इति द्वितीयान्त ‘ब्रह्म’ शब्देन ‘इव’ शब्देन च युक्तं पाठान्तरमपि क्वचिद्दृश्यते। तत्रायमर्थः—इयं वाग्देवी यं भवभूतिं ब्रह्माणमिव स्वभर्तारं चतुर्मुखमिव वश्या सत्यन्ववर्ततानुवर्तितवती। देवस्य स्त्री देवी। दीव्यति प्रकाशयति प्रकाशते इति वा देवी। ‘देवट्’ इति टित्त्वात् ङीप्। यद्वा—यं देवी यादृशभवभूतिविषयकेच्छावती सती इयं वाग्देवी ब्रह्माणं वश्येवान्ववर्तत। वश्यानुवर्तनाभिनयमात्रं स्वभर्तरि भावबन्धस्तु भवभूतावेवेति भावः। ‘सावित्र्याः प्रथमं यमुज्ज्वलगुणं वव्रे स्वयम्’ इतिवत्स्वयंवरं कृतवतीत्यर्थः। दिवुधातोः ‘कान्तिगतिषु’ इत्युक्तेः इच्छायां वृत्तिः। दीव्यति कामयत इति देवीति कृदन्तदेवीपदयोगेऽपि ‘तदर्हम्’ इति ज्ञापकात्, ‘धयैरामोदमुत्तमम्’ इति प्रयोगाच्च। कृद्योगषष्ठ्या अनित्यत्वात् षष्ठ्या अप्राप्त्या द्वितीया उत्तमपरिमलकर्मकपानकर्तरि तदा षष्ठीप्रस–
——————————————————————————————————————

एषोऽस्मि क10विवशादा11योध्यकस्तदानींतनश्च संवृत्तः। (समन्तादवलोक्य।)

भोः ! यदा12तावदत्रभवतः पौलस्त्यकुलधूमकेतोर्महाराजरामस्यायं पट्टाभिषेकसमय रात्रिंदिवमसंहृ13तनान्दीकः14, तत्किमिदानीं विश्रान्तचार15चरणानि16 चत्वरस्थानानि ?

————————————————————————————————————

ङ्गात्। परंत्वत्र पाठे व्यवहितान्वयो दोष इत्याहुः। ‘उत्तरं रामचरितं यत्प्रणीतं प्रयोक्ष्यते’ इति यच्छब्दपाठ इति मत्वा ‘यं वाग्देव्यन्ववर्तत। यत्प्रणीतं प्रयोक्ष्यतेऽभिनेष्यते, स भवभूतिर्नाम कविः अस्ती’ति पूर्वेणान्वयः। यत्तदोर्नित्यसंबन्धात् स इत्यस्य लाभ इति केचित्। परे तु—‘तत्प्रणीतम्’ इति तच्छब्दयुक्तमेव पाठमुपष्टभ्य ‘इयं वाग्देवी यं भवभूतिमन्ववर्तत स भवभूतिर्नाम कविरस्ति। तत्प्रणीतं उत्तरं रामचरितं प्रयोक्ष्यत इत्यन्वयः। अन्यथा विधेयस्य स्फुटप्रतीत्यनापत्तेश्च— इति वदन्ति। इयं प्ररोचना प्रस्तुता। तदुक्तम्—‘निवेदनं प्रयोज्यस्य निर्देशो देशकालयोः। कविकाव्यनटादीनां प्रशंसा तु प्ररोचना॥’ इति॥२॥ एषोऽस्मीति। कविवशात्काव्यानुरोधेनायोध्यकः अयोध्यासंबन्धिक इत्यर्थः। ‘धन्वयोपधाद्वुञ्’ (४।२।१२१) इति सूत्रेण वुञ् तस्याकादेशश्च। तदानींतनश्च रामपट्टाभिषेककालीनश्च संवृत्तोऽस्मीति योजना। निष्पन्नोऽस्मीत्यर्थः। अयमाशयः—यद्यपि भोजराजमतरीत्या सूत्रधारनटीप्रभृतिभिः प्रकृतदेशकालावलम्बिनीं प्रस्तावनामुक्त्वा सूत्रधारादीन्निष्कास्य भूमिकां प्रवेश्य प्रवर्तिष्यमाणकाव्याभिनयकथासूचकविष्कम्भो वक्तव्यः, तथापि सूत्रधारस्यैव काव्यकथाघटकदेशकालसंबन्धमङ्गीकृत्य विष्कम्भवर्ण्यकथोपन्यासः सूत्रधारत्वापरित्यागाच्च प्रस्तावनात्वाहानिरिति कवेर्मतम्। तदनुसारेणाहमायोध्यकः संवृत्तोऽस्मीति। अयोध्यासंबन्धित्वं च तस्यां कादाचित्कावस्थानरूपम्। तेन वैदेशिकोऽस्मीति उपरितनग्रन्थेन न विरोधः। यदा तावदिति। अत्रभवतः पूज्यस्य पौलस्त्यकुलस्य रावणवंशस्य धूमकेतोरग्निवद्भस्मीकर्तुरुत्पातग्रहविशेषस्य वा महाराजश्चासौ रामश्च इति विग्रहः तस्य। रात्रिंदिवमहर्निशम्। ‘अचतुर—’(५।४।७७) इति सूत्रे निपातितोऽयं शब्दः। असंहृतनान्दीकोऽविच्छिन्नमङ्गलः। ‘शेषाद्विभाषा’ (५\।४\।१५४) इति कप् ह्रस्वप्रतिषेधः॥ अयं पट्टाभिषेकसमयः पट्टाभिषेकमुहूर्तः यदा यस्मिन्काले। यद्वा,—समय आचारः पट्टाभिषेकरूप आचारो यदा यस्मिन्काले। इदानीमस्मिन्नकाले पट्टाभिषेकसमये चत्वरस्थानान्यङ्गणभागाः विश्रान्तमवसितं चाराणामधिकारिपुरुषाणां चरणं संचरणं येषु तानि विश्रान्ताश्चाराणामधिकारिपुरुषाणां चरणा अङ्घ्रयो येष्विति वा। चारा निवृत्तव्यापाराः सन्तः चत्वरेषूपविश्य विश्राम्यन्तीति भावः। तत्किमिदानीं पट्टाभिषेककाले चत्वरस्थानानि विश्रान्तचारचारणानीति, यत् तत् किमिति योजना। यस्मिन्दिवसे कलशतीर्थसेचनरूपपट्टाभिषेकक्रियाधिकरणमुहूर्तस्तद्दिवसात्पूर्वाक्तदिनानां तदुत्सवकालत्वेन यथायमभिषेकसमय इत्युक्तिरविरुद्धा। सूक्ष्मकालं प्रति

———————————————————————————————————

(प्रविश्य।)

नटः—भाव ! प्रेषिता हि स्वगृहान्महाराजेन लङ्कासमरसुहृदो महात्मानः प्लवङ्गमराक्षसाः सभाजनोपस्थायिनश्च नानादिगन्त17पावना ब्र18ह्मर्षयो राजर्षयश्च, यत्समाराधनायैतावतो दिवसान्प्रमोद19 आसीत्।

सूत्रधारः—आः, अस्त्येतन्निमित्तम्।

नटः—अन्यच्च—

वसिष्ठाधिष्ठिता देव्यो गता रामस्य मातरः20
अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम्॥३॥

सूत्रधारः—वैदेशिकोऽस्मीति पृच्छामि। कः पुनर्जामाता21?

नटः

कन्यां दशरथो राजा शान्तां नाम व्यजीजनत्।
अपत्यकृतिकां राज्ञे रोमपादाय तां ददौ॥४॥

———————————————————————————————————————

स्थूलकालस्याधारत्वात्। प्रासादखट्वापर्यङ्कन्यायोऽत्रानुसंधेयः॥ भाव ! प्रेषिताइति। महात्मानो महाधैर्याः। सभाजनं सपर्यामुपतिष्ठन्ते प्राप्नुवन्तीति सभाजनोपस्थायिनः। ‘सुप्यजातौ—’ (३।२।७८) इति णिनिः। इदं च मध्यमणिन्यायेन पूर्वोत्तराभ्यामन्वेति ब्रह्मर्षयो गौतमविश्वामित्रादयः, राजर्षयस्तु जनकप्रभृतयः, देवर्षीणां ऊर्ध्वदिग्गमनान्नानादिगन्तेत्युक्तिः। यत्समाराधनाय येषां प्लवङ्गमादीनां समाराधनाय पूजनायैतावतो दिवसानेतावत्सु दिवसेषु। अत्यन्तसंयोगे द्वितीया। प्रमोदः। चारगतागतहेतुभूतप्रहर्ष इत्यर्थः। यत्समाराधनाय प्रमोद आसीत्, ते प्रेषिता इत्यन्वयः। ‘तत्समाराधनाय’ इति तत्पदयुक्तपाठे तु न विश्रान्तचारचरणत्वे हेतुरुक्तो भवतीत्यत्राह— यत्समाराधनायेति। एवं चारचरणहेतुर्गत इति भावः। आ, अस्त्येतन्निमित्तम्। आ इति स्मरणवाचकम्। अत एव ‘निपात एकाजनाङ्’ (१।१।१४) इति प्रगृह्यत्वात् आ अस्तीति संध्यभावः। ‘वाक्यस्मरणयोरङित्’ इत्याद्युतेः। एतन्निमित्तमस्ति। मया विस्मृतमिति भावः॥ वसिष्ठाधिष्ठिता इति। अरुन्धतीं पुरस्कृत्य वसिष्ठाधिष्ठिता इत्यन्वयः। गुरुपत्नीत्वप्रयुक्तप्राधान्यादरुन्धतीं मुख्यां कृत्वा वसिष्ठेन व्यापारिता इत्यर्थः। वसिष्ठः कर्तव्यं अरुन्धतीमुखमवलोकमानोऽनुशास्ति। ततो देव्योऽरुन्धत्या सह कर्तव्यमनुतिष्ठन्तीति भावः। ‘जामातुः’ इत्येतन्मध्यमणिन्यायेन यज्ञाश्रमाभ्यामन्वेति। यज्ञे यज्ञनिमित्तम्। ‘निमित्तात्कर्मयोगे (वा. १४९०) इति सप्तमी। सतीत्यध्याहारेण यज्ञे सति आश्रमे गता इति वार्थः॥३॥ वैदेशिको विदेशो देशान्तरं तत्र भवो वैदेशिकः। अध्यात्मादित्वाट्ठञ्। विदेशस्थस्यापि कदाचिदयोध्यास्थितिसंभवादित्वाहुः॥ कन्यामिति। व्यजीजनत् अजनयत्। ‘जनी प्रादुर्भावे’ इति
———————————————————————————————————————

विभाण्डकसुतस्तामृष्यशृङ्ग उपयेमे। तेन च सांप्रतं द्वादशवार्षिकं सत्रमारब्धम्। तदनुरोधात्कठोरगर्भामपि जानकीं विमुच्य गुरुजनस्तत्र यातः22

सूत्रधारः—तत्किमनेन ? एहि। राजद्वारमेव स्वजातिसमयेनोपतिष्ठावः।

नटः—तेन हि निरूपयतु राज्ञः सुपरिशुद्धामुपस्थानस्तोत्रपद्धतिं भावः।

सूत्रधारः—मारिष !

—————————————————————————————————————

धातोर्णिच्। तां शान्तां रोमपादाय रोमपादनाम्नेऽपत्यस्य कृतिर्व्यापारो यस्यास्तथाविधाम्। ‘शेषाद्विभाषा’ (५।४।१५४) इति कप्। ‘कन्यां ददौ’ इत्युक्ते कलत्रार्थमिति प्रतीतेस्तद्वारणाय ‘अपत्यकृतिकाम्’ इति। ददौ दत्तवान्॥४॥ तेन ऋष्यशृङ्गेण। द्वादशवर्षाणि भविष्यतीति द्वादशवार्षिकम्। ‘तमधीष्टो भृतो भूतो भावी’ इत्यधिकृत्य विहितष्ठञ् द्विगुः। ‘वर्षाल्लुक्च’ (५।१।८८) इति पाक्षिको लुगभावः। अनुशतिकादित्वादुभयत्र वृद्धिः। नतूत्तरपदवृद्धिमात्रम्। ‘अभविष्यति’ इति प्रतिषेधात्। न च द्वादशवर्षाणि भूतमित्यर्थोऽस्त्विति वाच्यम्, आरब्धमित्युक्तेरसाङ्गत्यापत्तेः। तदनुरोधात्कठोरगर्भामपीत्यादिना कठोरगर्भेति नानीता सीतेत्युक्ततया सीतायाः गर्भिणीदशायामेतत्सत्रमारब्धमिति स्पष्टमवगम्यते। एवं द्वितीयाङ्कविष्कम्भे‘समनन्तरं च गर्भैकादशे वर्षे क्षात्रेण कल्पेनोपनीय त्रयीमध्यापितौ’ इत्युक्त्वा ‘संप्रति परिसमाप्तं द्वादशवार्षिकं सत्रम्’ इति वक्ष्यमाणतया अत्रत्य’द्वादशवार्षिक’शब्दस्य द्वादशवर्षाणि भूतमित्यर्थाभ्युपगमेन तद्विरोधापत्तेरिति ध्येयम्। तदनुरोधात्तदनुसरणाद्धेतोः, कठोरगर्भां पूर्णगर्भाम्। ‘कठोर’शब्दः पूर्णवाची। तदुक्तमुणादिषु वैयाकरणैः—‘अयं पूर्णतायामपि’ इति। यात इति। ‘अनाहूतोऽध्वरं गच्छेत्’ इति विधेः किं पुनर्न्यायादिति भावः॥ तत्किमिति। स्वजातिसमयेन स्वजातिमर्यादया। उपतिष्ठावः तोषयावः। रामस्य ‘आत्मानं मानुषं मन्ये रामं दशरथात्मजम्’ इति देवत्वाभावात् ‘उपाद्देवपूजा—’ (सू.वा. २१४) इत्यादिना नात्मनेपदम्। तथा च स्वजात्यनुगुणरूपं यत्स्तोत्रं तत् कुर्व इति बोधः॥ तेनेति। स्तोतव्यमिति यत्तेनेत्यर्थः। सुपरिशुद्धां सुष्ठु दोषरहिताम्। स्तुवन्त्यनेनेति स्तोत्रं ग्रन्थः तस्य पद्धतिरानुपूर्वी। उपस्थानाय गुणिनिष्ठगुणाभिधानाय स्तोत्रपद्धतिमित्यर्थः। समासस्तु षष्ठ्यन्तस्येति बोध्यम्। निरूपयतु उत्पादयतु। वदत्वित्यर्थः॥ ननु यदुक्तं स्तुतिं निरूपयत्विति, तदवगच्छामि, सुपरिशुद्धामिति नाभ्युपगच्छामि; दोषरहितत्वरूपपरिशुद्धत्वस्य प्रयोजनाभावात्। स्तुतिवचनं तु कर्तव्यमेव, स्वजातिनियतव्यापारत्वादित्याह—सर्वथेति। सर्वेण प्रकारेण सर्वथा। व्यवहर्तव्यं व्यवहारः कर्तव्यः। भावे तव्यप्रत्ययः। ‘व्यवहार’शब्दः स्तुतिकरणरूपव्यापारपरः। अवचनीयता वचनीयं दोषस्तद्रहितता। सुपरिशुद्धतेत्यर्थः। कुतः किमर्थम् ? यद्वा,—कुतः कस्मै ?
—————————————————————————————————————

सर्वथा व्यवहर्तव्यं23 कुतो ह्यवचनीयता।
यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः॥५॥

नटः—अतिदुर्जन इति वक्तव्यम्।

देव्या अपि हि वैदेह्याः24 सापवादो यतो जनः।
रक्षोगृह25स्थितिर्मूलमग्निशुद्धौ त्वनिश्चयः॥६॥

सूत्रधारः— यदि पुनरियं किंवदन्ती महाराजं प्रति स्यन्देत, ततः कष्टं स्यात्26

——————————————————————————————————————

‘सार्वविभक्तिकत्तसिः’ इति चतुर्थ्यर्थे तसिः। अयमाशयः—दोषवत्तया वा दोषरहिततया वा गुणवत्तया वा स्तुतिकरणरूपव्यापारः कर्तव्यः। तस्य स्वजातीयधर्मत्वात्त्वदुक्तसुपरिशुद्धतया तु किम् ? तस्याः फलाभावादिति। ननु जनाभिनन्दनमेव तत्फलमस्तु, कुतः फलाभाव इत्यत्राह—यथा स्त्रीणामित्यादिना। पूर्वपादस्थ’हि’शब्दस्यात्र संबन्धः। हि यस्माज्जनः स्त्रीणां साधुत्वे दुर्जनः, तस्मादवचनीयता किमर्था ? इति पूर्वेण संबन्धः। जनः स्त्रीणां साधुत्वे यथा पातिव्रत्यविषय इव वाचां साधुत्वे माधुर्यौज्ज्वल्यादिविषये दुर्जनो दोषदर्शी। दोषदर्शित्वमेव हि दौर्जन्यमिति भावः। यथा स्त्रीणां साधुत्वे जनो दुर्जनः, तथा वाचां साधुत्वेऽपि जनो दुर्जनः, हि यस्मात्तस्मादवचनीयता किमर्थेत्यर्थः॥५॥ प्रकृतकथासंगतये यथा स्त्रीणामिति दृष्टान्त उक्तः। तदुपजीव्य प्रकृतमवलम्बते—नटःअतिदुर्जन इतिवक्तव्यमिति। तत्र हेतुमाह—देव्या इति। हि यत इत्यनयोर्यथाक्रमं पूर्वोत्तरार्धयोरन्वयः। हि यस्माद्देव्या दीप्तिमत्या अपि। स्वभावतो दोषप्रतिभटाया अपीत्यर्थः। वैदेह्या विदेहराजपुत्र्याः। संबन्धसामान्ये षष्ठी। जनः सापवादः। अपवादो दोषकथनम्, तेन सहित इत्यर्थः। तथा च वैदेहीसंबन्ध्यपवादसहित इत्यर्थः। नित्यसापेक्षत्वात्समासः। तदुक्तम्— ‘संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते’ इति। यतश्च रक्षोगृहस्थितिः राक्षसगृहावस्थानमात्रम्। न त्वन्यदिति भावः। मूलं दोषकथनहेतुः। अग्निशुद्धौ अनिश्चयस्तु निश्चयाभावश्च। तुशब्दः चार्थकः। अत्र ‘देव्या’ इति दोषाभावं उक्तः। ‘रक्षोगृहस्थितिः’ इत्यनेन असाधारणहेत्वभाव उक्तः। ‘अग्निशुद्धौ’ इत्यनेन बाधकप्रमाणमुक्तम्। तथा च एतत्सर्वमपि नावलोकितमिति भावः। विषयप्रभावमविगणय्य असतोऽपि दोषस्य कथनं सुतरां दुर्जनकार्यम्। तत्राप्यसाधारणहेतुमप्यदृष्ट्वा विषयप्रभावमप्यविगणय्य असतोऽपि दोषस्य कथनं ततोऽप्यतिदुर्जनकार्यम्। तत्रापि बाधकप्रमाणमंप्यविश्वस्यासाधारणकारणमप्यदृष्ट्वा विषयप्रभावमप्यविगणय्यासतोऽपि दोषस्य कथनं ततोऽप्यतिदुर्जनकार्यमिति। अत्र हि यस्मात्सापवादः। यतश्च रक्षोगृहस्थितिर्मूलम्। अग्निशुद्धावनिश्चयश्च जनस्य। तस्मात् जनोऽतिदुर्जन इति वक्तव्यमित्येवं पूर्वेणान्वयः॥६॥ यदि पुनरिति। किंवदन्ती लोकवादः स्यन्देत प्रस्रवेत्। श्रवणविषयी भवेदिति
——————————————————————————————————————

नटः—सर्वथा ऋषयो देवाश्च27 श्रेयो विधास्यन्ति। (परिक्रम्य) भो भोः, क्वेदानीं महाराजः ?। (आकर्ण्य) एवं जनाः कथयन्ति—

स्नेहात्सभाजयितुमेत्य दिनान्यमूनि
नवोत्सवेन जनकोऽद्य गतो विदेहान्।
देव्यास्ततो विमनसः परिसान्त्वनाय
धर्मासनाद्विशति वासगृहं नरेन्द्रः॥७॥

(इति निष्क्रान्तौ।)

इति प्रस्तावना।
———————

(ततः प्रविशत्यासनोपविष्टो रामः सीता च।)

रामः—देवि वैदेहि ! विश्वसिहि28। ते हि गुरवो न शक्नुवन्ति विहातुमस्मान्29

किंत्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति।
संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता॥८॥

———————————————————————————————————————

यावत्। अनेन प्रथमाङ्कार्थः सूच्यते। ‘सर्वथा ऋषयः’ इत्याद्यनेन शेषाङ्कार्थः सूचितः। एष ऋषिकर्तृकश्रेयोविधानरूपबीजन्यासादुपक्षेपो नाम संध्यङ्गमुक्तम्। यथा—‘बीजन्यास उपक्षेपः’ इति॥ आकर्ण्येति। इदमाकाशभाषितमुच्यते। तदुक्तम्—‘अप्रविष्टैः सहालापो भवेदाकाशभाषितम्’ इति। स्नेहादिति। सभाजयितुं पूजयितुम्। उत्सवेन हर्षजनकव्यापारेण। विमनसो दुःखितहृदयायाः परिसान्त्वनाय तद्दुःखापनयनक्षममधुरवचनप्रयोगाय। ‘तुमर्थाच्च’ (२।३।१५) इति चतुर्थी। धर्मासनात् क्षत्रियधर्मभूतराज्यपरिपालनार्थसिंहासनादित्यर्थः। वासगृहंस्वावासगृहम्। विशति प्रविशति॥७॥ एवं प्रस्तावना प्रस्तुता। अथाङ्कः प्रस्तूयते— ततः प्रविशतीत्यादिना। अङ्कलक्षणं तु — ‘प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः। अङ्को नानाप्रकारार्थसंविधानरसाश्रयः॥’ इति। विश्वसिहि संतोषं प्राप्नुहि। ‘समश्वासिहि’ इति पाठान्तरम्। विहातुं त्यक्तुम्। किंत्विति। किंतु अनुष्ठानस्य नित्यनैमित्तिकादिकर्मकलापनिर्वर्तनस्य नित्यत्वं नियतता। अनुष्ठानाभावविरहरूपनियम इत्यर्थः। स्वातन्त्र्यं स्वैरावस्थानमपकर्षति न सहते। ‘अपकर्षति’ इत्युक्त्या अतिक्रामदपि स्वैरावस्थानं निरुन्ध इति लाभेन, कदाचिदप्यङ्गीकृतमपि स्वैरचरितं तदाननुष्ठितकर्मानुष्ठापनेन, तदनुष्ठानाभावप्रायश्चित्तानुष्ठापनेन च लभ्यते जनैरिति तदाशयः। तदाह—संकटा हीति। हि यस्मात्। आहिताग्नीनां गृहस्थता गृहस्थाश्रमः प्रत्यवायैर्विहिताऽनाचरणजन्यपातकैः संकटां निबिडा दुःखरूपा वा। जाग्रत्प्रत्य–

———————————————————————————————————————

सीता—जाणामि अज्जउत्त ! जाणामि। किंदु संदावआरिणो बंधुजणविप्पओआ होंति। [जानामि आर्यपुत्र ! जानामि। किंतु संतापकारिणो बन्धजनविप्रयोगा भवन्ति।]

रामः—एवमेतत्। एते हि हृदयमर्मच्छिदः संसारभागाः30। येभ्यो बीभत्समानाः संत्यज्य सर्वान्कामानरण्ये विश्राम्यन्ति मनीषिणः।

(प्रविश्य।)

कञ्चुकी— रामभद्र ! (इत्यर्धोक्ते साशङ्कम्।) महाराज !

रामः— (सस्मितम्) आर्य ! ननु रामभद्र इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य, तत् यथाभ्यस्तमभिधीयताम्।

कञ्चुकी— देव ! ऋष्यशृङ्गाश्रमादष्टावक्रः संप्राप्तः।

सीता— अज्ज ! तदो किं विलंबीअदि ? [आर्य ! ततः किं विलम्ब्यते ?]

रामः—त्वरितं प्रवेशय।
(कञ्चुकी निष्क्रान्तः।)

(प्रविश्य)

अष्टावक्रः— स्वस्ति वाम्।

रामः— भगवन् ! अभिवादये। इत आस्यताम्।

सीता— भअवं। णमो दे। अवि कुसलं सजामातुअस्स31 गुरुअणस्स अज्जाए संताए अ?। [भगवन् ! नमस्ते। अपि कुशलं सजामातृकस्य गुरुजनस्यार्यायाः शान्तायाश्च ?।]

——————————————————————————————————————

वायेत्यर्थः॥८॥ एवमिति। येभ्य इति संसारभागेभ्यः। संसारेऽवश्यानुभाव्यभाग इत्यर्थः। संसारो हि शरीरसंबन्धानुबन्धिसुखदुःखसमुदायः। तथा च गुरुबन्धुवियोगादीनां तदेकदेशत्वं संगतम्। बीभत्समाना जुगुप्समानाः। एतद्दोषानुबन्धजनितचित्तवृत्तिनिवृत्तियुक्ता इत्यर्थः। बीभत्साया जुगुप्सावस्थायिकत्वादित्थं व्याख्यातम्। अत एव बीभत्समाना इत्यस्य ‘जुगुप्साविराम—’ (वा. १०७९) इत्यादिना पञ्चमी। ‘बन्ध बन्धने’ इत्यस्मात् स्वार्थे सनि रूपमिदम्। ‘बधेश्चित्तविकारे’ इति वार्तिकादस्य चित्तविकारे वृत्तिः। काम्यन्त इति कामाः। कर्मणि घ्नञ्। गृहक्षेत्रपुत्रादयस्तानित्यर्थः॥ उपचारो व्यवहारः। यथाभ्यस्तमभ्यस्तमनतिक्रम्य। यथार्थत्वात्समासः। अभिधीयताम्॥ अष्टावक्रस्तदाख्यः। अष्टौ वक्राण्यस्येति विग्रहः। योगरूढशब्दः। ‘अष्टनः संज्ञायाम्’ इति (६।३।१२५) दीर्घः। हास्वरसानुप्रवेशार्थमष्टावक्रप्रवेशः। अवि कुसलं सजामातुअस्सेति।
——————————————————————————————————————

रामः— निर्विघ्नः सोमपीथी भावुको32”) मे भगवानृष्यशृङ्गः, आर्या च शान्ता ?

सीता—अम्हे वि सुमरेदि ? [अस्मानपि स्मरति ?]

अष्टावक्रः— (उपविश्य।) अथ किम् ? देवि ! कुलगुरुर्भगवान्वसिष्ठस्त्वामिदमाह—

विश्वंभरा भगवती भवतीमसूत
राजा प्रजापतिसमो जनकः पिता ते।
तेषां वधूस्त्वमसि नन्दिनि ! पार्थिवानां
येषां कुलेषु सविता च गुरुर्वयं च॥९॥

तत्किमन्यदाशास्महे ? केवलं वीरप्रसवा भूयाः।

—————————————————————————————————————

सजामातुअस्स सजामातृकस्य। ‘प्रायो लुक्कगचजतदपयवाम्’ इति सूत्रेण ककारलोपः। तस्मिन्नवशिष्टाकारस्येषत्स्पृष्टयकारश्रुतिश्च प्राकृतव्याकरणसिद्धा॥ निर्विघ्नइति। सोमपीथी सोमपा इत्यर्थः। भावुकः पूज्यः। शान्तापतित्वादिति भावः॥ विश्वंभरेति। नन्दिनि गुणपूर्णे ! ‘टुनदि समृद्धौ’ इत्यस्मात् भावे घञि ‘अत इनिठनौ’ (पा.५।२।११५) इति इनिप्रत्ययः। एकाक्षरात्कृतोऽजाताविति निषेधस्तु प्रायिकः। ग्रह्यादिणिनिर्वा। नान्तत्वात् ङीप्। नन्दिनि पुत्रि ! संबोधनम्। इदं च ‘अस्माकं तु जनकसुता दुहितैव’ इति वक्ष्यमाणरीत्या दशरथमतानुसारेण भगवती षाड्गुण्यपरिपूर्णा विश्वंभरा भूमिः। भूरित्याद्यनुक्त्वा विश्वंभरोक्तिः क्षान्तिप्रधानतासूचनाय। भवतीं पूज्यां त्वामसूत सूतवती। ‘षूङ् प्राणिप्रसवे’ लङ्। शपो लुक्। ‘विश्वंभरा’शब्दस्तु ‘संज्ञायां भृतॄ—’ (पा. ३।२।४६) इत्यादिना खच्प्रत्ययमुमागमाभ्यां निष्पन्नः। प्रजापतिना ब्रह्मणा समः। स्वाध्यायादिना ब्रह्मतुल्य इत्यर्थः। ‘मान्धातारमपारसंसदि महद्भावे यशोराशिषु’ इत्युक्तरीत्या ब्रह्मवत् माहात्म्यशालीति वा। राजा। राजते दीप्यते इति। ‘कनिन्युवृषितक्षि—’ (उ. १५४) इत्यादिना कनिन्प्रत्ययः। ब्रह्मज्ञानपरिपूर्णतया नैष्ठिकवन्निरतिशयदीप्तियुक्त इत्यर्थः। इदं चोक्तं मीमांसायाम् ‘क्षत्रियत्वगतेश्च’ इति सूत्रविषयवाक्यप्रकरणे ज्ञानश्रुतीनां क्षत्रियवृत्तान्ते स्पष्टम्। यद्वा,—ज्ञानभक्तिवैराग्यैरस्मदादीनपि रञ्जयतीति राजा धातूनामनेकार्थत्वादिति। जनकः पूर्वोक्तप्रकारेण श्रुतिषु प्रसिद्धः। ‘जनको ह वैदेहः” ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इत्यादिषु प्रसिद्ध इत्यर्थः। ते पिता। येषां राज्ञां कुलेष्विति बहुत्वं पूजायाम्। उद्भूतावयवविवक्षया, कुलं ह्युत्पादकप्रबन्धः। सर्वं जगत्सुवति कर्मानुष्ठाने प्रेरयतीति वा सविता सूर्यः। गुरुः पिता। वयमहम्। ‘अस्मदो द्वयोश्च’ (पा. १२/५९) इति एकत्वे बहुवचनम्। ‘सविशेषणस्य प्रतिषेधः’
—————————————————————————————————————

रामः—अनुगृहीताः स्मः।

लौकिकानां हि साधूनामर्थ वागनुवर्तते।
ऋषीणां पुनराद्यानां वाचमर्थोऽनुवर्तते33॥१०॥

अष्टावक्रः— इदं च भगवत्याऽरुन्धत्या देवीभिः शान्तया च भूयो

—————————————————————————————————————

इति तु न विधेयविशेषणविषये। ‘ततो नु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः’ इत्यादिप्रयोगात्। ‘यद्वा वसिष्ठाङ्गिरसौ ऋषी प्राचेतसस्तथा’ इति वक्ष्यमाणरीत्या वाल्मीकेः, जृम्भकास्त्रसंप्रदानेन विश्वामित्रस्य, वामदेवादेश्च ग्रहणात् वयमिति बहुवचनम्। गुरुरित्यनुषक्तस्य वचनविपरिणामात् गुरवो हितोपदेष्टारः। गृणातीति गुरुः। ‘कृग्रोरुच्च’ (उ. २४) इत्यौणादिकसूत्रेण निष्पन्नोऽयं शब्दः। ‘गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निवर्तकः’ इति निरुक्त्या अज्ञाननिवर्तक इत्यर्थः। गुरवः पितर इत्येव वार्थः। ‘स हि विद्यातस्तं जनयति’ इति स्मृतेः, ‘पुत्रका इति होवाच’ इत्यादिपुराणाच्च। तेषां पार्थिवानाम्। ‘सर्वा पूर्वमियं येषामासीत्कृत्स्ना वसुंधरा’ इत्युक्तमुख्यपृथिवीपतित्वधर्माणां वधूरसि स्नुषासि॥९॥ तदिति। तस्मात् अन्यत्किं वक्ष्यमाणादितरत्किमाशास्महे ? ‘आङः शासु इच्छायाम्’ इति धातोर्लट्। अयं भावः—तव गुणातिशयो नाशास्यः, तस्य ‘विश्वंभरा भगवती’ इत्युक्तमातृसंबन्धवशादेव तत्सिद्धेः। नापि ज्ञानभक्तिवैराग्यादिकम्; तस्य ब्रह्मवित्तमजनकसंबन्धादेव तल्लाभात्। न वा हितग्राहित्वमैश्वर्यं भर्तृसंबन्धप्रयुक्तनिकर्षाभावश्च प्रार्थ्यः; तेषां सद्गुरुसंबन्धशालिमहाराजमहाकुलप्रसूतराजकुलस्नुषात्वादेव सिद्धत्वात्। अत एतेषां नाशास्यत्वम्, किंतु वीरप्रसवत्वस्येति। एष ऋषिश्रेयोविधानभूतवसिष्ठानुग्रहरूपबीजस्य बहूकरणात्परिकरः। तदुक्तम्—‘बीजस्य बहूकरणं परिकरः’ इति॥ अनुगृहीता इति। एतन्मनुष्यानुग्रहरूपबीजाङ्गीकरणरूपं समाधानं नाम संध्यङ्गमुक्तम्। तदुक्तम्—‘बीजाङ्गीकरणं समाधानं’ इति। लौकिकानामिति। लौकिकानामित्यतो व्यतिरेकनिर्देशाल्लोकान्यस्य वेदस्यैव झटित्युपस्थितेः ऋषीणामित्युक्तम्। ऋषीणां पुनः। तपस्विनामित्यर्थः। वाचमर्थोऽनुवर्तते वागधीनोऽर्थो भवति। तपस्विनामुक्तिर्हि तपःप्रभावेनानासन्नमप्यर्थमुत्पादयतीति भावः। यद्वा,—‘ऋष गतौ’ इत्यस्य बुद्ध्यर्थत्वात्कालत्रयवर्तिवस्तुसाक्षात्कर्तृत्वं ऋषिपदप्रवृत्तिनिमित्तम्। तथा च भाविनमर्थं दृष्ट्वा ते वदन्ति। ततः स्वकाले प्राप्ते सोऽर्थस्तामनुसरतीति भावः। हि यस्मादेवं तस्मादनुगृहीता वयमित्यन्वयः। एतत् ऋषिश्रेयोविरतणरूपबीजगुणवर्णनात् विलोभनं नाम संध्यङ्गमुक्तम्। यदुक्तम्—‘बीजगुणवर्णनं विलोभनम्’ इति॥१०॥ इदं चेत्यादि। गर्भस्य दौर्हृदं लक्षणम् ‘सकीचकैमारुतपूर्णरन्ध्रैः’ इतिवत् विशेष्यमात्रपरम्; अन्यथा दौर्हृदशब्दस्यैव गर्भचिह्नवाचित्वात्। तच्च विशिष्टवस्तुविषयाभिलाषादिरूपम्। तस्योदय आविर्भावः। मानयितव्यः संभावयितव्यः। तथा संपादनेन सफलीकार्य इति भावः॥
—————————————————————————————————————

भूयः संदिष्टम्। यः कश्चिद्गर्भदौ34र्हृदोदयो35 भवत्यस्याः सोऽवश्यमचिरान्मानयितव्य36 इति।

रामः—क्रियते यद्येषा37 कथयति।

अष्टावक्रः—ननान्दुः पत्या च देव्याः संदिष्टम्38—‘वत्से ! कठोरगर्भेति नानीतासि। वत्सोऽपि रामभद्रस्त्वद्विनोदार्थमेव स्थापितः। तत्पुत्रपूर्णोत्सङ्गामायुष्मतीं द्रक्ष्यामः39’ इति।

रामः—(सहर्षलज्जास्मितम्।) तथास्तु। भगवता वसिष्ठेन न किंचिदादिष्टोऽस्मि40 ?

अष्टावक्रः—श्रूयताम्,—

जामातृयज्ञेन वयं निरुद्धास्त्वं बाल एवासि नवं च राज्यम्।
युक्तः प्रजानामनुरञ्जने स्यास्तस्माद्यशो यत्परमं धनं वः॥११॥

——————————————————————————————————————

क्रियत इति। एषा कथयति यदि क्रियत इत्यन्वयः॥ ननान्दुरिति। ननान्दुः शान्ताया इत्यर्थः। देव्या इत्यस्य पूर्वोत्तराभ्यां संबन्धः। तथा च देवीसंबन्धिननान्दृपतिना देव्याः संदिष्टम्। देवीं प्रति संदिष्टमित्यर्थः। पुत्रपूर्ण उत्सङ्गोऽङ्को यस्या इति बहुव्रीहिः। यद्वा,—अत्र पूर्णपदेन यमावित्यपि सूच्यते; अन्यथा पुत्रवदुत्सङ्गामिति वक्तुं शक्यत्वात्। द्रक्ष्याम इति। एतत् बीजानुगुणप्रयोजनविभावनरूपा युक्तिर्नाम संध्यङ्गमुक्तं भवति। तदुक्तम्— ‘बीजानुगुणप्रयोजनविभावना युक्तिः’ इति॥ जामात्रिति। ऋष्यशृङ्गेति वक्तव्ये जामात्रित्युक्तं पूज्यतास्फोरणाय। एवं च तदिङ्गितं ज्ञात्वैवास्माभिस्तत्रासितव्यम्। किं पुनस्तत्कृतबहुनिर्बन्धे सतीत्यत आह—निरुद्धा इति। अनेन सर्वप्रकारेणापि नगरं प्रत्यागमने त्वरातिशयो वसिष्ठस्येति व्यज्यते। ननु कुत ईदृशत्वरातिशय इत्यत आह—त्वं बाल एवासीति। नतु राज्यतन्त्रविचारोपमर्दाभिज्ञ इत्यर्थः। किंच दशरथजामातरं ऋष्यशृङ्गं जामातेति निर्दिशन्वसिष्ठः स्वस्य दशरथस्थानीयतामभिप्रैति। तच्च रामबुद्ध्या स्वबुद्ध्या च। एवं चात्रत्यबालशब्दः पुत्रत्वाभिप्रायमूलकः। ततश्च ननु यद्यत्राचार्यकं प्रस्तुतं स्यात् इति तदागमने त्वरातिशय इति। न केवलमहमाचार्यः, किंतु त्वद्बुद्ध्या दशरथस्थानीयश्च। तथा च त्वदीयराज्यतन्त्रविषयकास्थानानर्थशङ्का मामसंनिकृष्टं बाधत इत्याह—त्वं बाल एवासि। नत्वन्यादृशरघुकुलराजवत् शिष्य इत्यर्थः। तथा च तव शिष्यमात्रत्वे पौरोहित्यादिकं वामदेवादयो निर्वक्ष्यन्तीति तदर्थं नास्माकं त्वरा। किंतु तत्पुत्रत्वात् त्वां युवराजीकृत्य महाराजस्थानीयेन मया राज्यतन्त्रो विचारयितव्यः। अन्यथा न मामतिशङ्का मुञ्चतीति
——————————————————————————————————————

**रामः—**यथा समादिशति41 भगवान्मैत्रावरुणिः।

स्नेहं दयां च सौख्यं च यदि वा जानकीमपि।
आराधनाय लोकस्य42 मुञ्चतो नास्ति मे व्यथा॥१२॥

सीता—अदो जेव्व राहवधुरंधरो43 अज्जउत्तो। [अत एव राघवधुरंधर आर्यपुत्रः।]

रामः— कः कोऽत्र भोः?विश्राम्यतादष्टावक्रः44

अष्टावक्रः—(उत्थाय परिक्रम्य च।) अये ! कुमारलक्ष्मणः प्राप्तः। (इति निष्क्रान्तः।)

——————————————————————————————————————

भावः। नन्वस्त्वेवम्, तथापि युद्धादिषु लब्धवर्णस्य यौवराज्यस्य पालने सहापेक्षा नास्तीत्यत्राह—राज्यमिति। नवं च नवमेव। नतु युद्धादिवत् परिचितपूर्वमित्यर्थः। ननु तर्हि किं कर्तव्यमित्यत्राह—युक्त इति। युक्तः संनद्धः। ‘योगः संनहन—’ इति कोशात् स्वस्मादात्मन आत्मीयाद्वा। परमं सर्वोत्कृष्टं प्रसिद्धधनस्य क्षयित्वमिति, तद्व्यावृत्तिः परमशब्देन विवक्षिता। धनं लब्धांशपरिपालनालब्धांशार्जनाभ्यां धनतुल्यमित्यर्थः॥११॥ यथेति। मैत्रावरुणिः मित्रावरुणयोरपत्यमित्यर्थे वाह्वादित्वादिञ्प्रत्ययः। ‘देवताद्वन्द्वे च’ (पा. ६।३।२६) इत्यानङ्। इयं च कथा पौराणिकी वेदितव्या। समादिशत्याज्ञापयति। तथा करोमीति शेषः। स्नेहमिति। स्नेहो हि सुखरूपः सुखान्तरहेतुश्च। किंच ‘शरीरं वसु विज्ञानं मित्रार्थे संपरित्यजेत्’ इत्युक्तरीत्या सर्वापेक्षया प्रशस्तश्च। अपि च ‘अहेतुः पक्षपातो यस्तस्य नास्ति’ इत्युक्तरीत्या दुर्निवर्त्यश्च। तथा च तत्परित्यागोऽपि मम न दुःखायेति भावः। स्नेहस्य व्यवस्थितविषयत्व एव गुणत्वम्, अन्यथा तु दोषत्वमस्तीति निष्कर्षः। दया तु सर्वविषयापि गुणत्वं न मुञ्चति। यथा ‘सर्वभूतेषु सर्वत्र संतुष्ट्या येनकेनचित्। सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः॥’ इत्युक्त्या धर्मरूपतया च। किंच परदुःखाधीनसत्तया तन्निवृत्तिं विना दुर्निवर्त्या। तामपि मुञ्चतो मम न व्यथेति भावः। एतेषां व्यतिरेकेऽप्यात्मनो न व्यतिरेक इत्यस्यापकर्षः। सीता तु ‘प्राणेभ्योऽपि गरीयसी’ इत्युक्तरीत्या जीवितं प्रत्यपि प्रधानभूता। किंच ‘अद्यावसितं रामस्य जीवितप्रयोजनम्’ इति वक्ष्यमाणरीत्या मद्व्यतिरेकप्रयोजनव्यतिरेकवती। पूर्वोक्तस्नेहदयासौख्यैः संतुष्टोऽहं तामवलम्ब्य। तथाभूतामपि मुञ्चतो मम न व्यथेति भावः। सीतामित्यनुक्त्या जानकीमित्युक्तिर्लोकाराधनापेक्षया ब्रह्मवित्तमजनकानुरोधोऽप्यकिंचित्कर इति सूचयति। लोके हि अभिमतवस्तुपरित्यागात्पूर्वकाले तस्य संनिधानात् न दुःखभूयस्त्वम्; परित्यागात्परमपि तस्यातीतत्वात्। न दुःखभूयस्त्वम्, तत्परित्यागकाले तु भवति दुःखभूयस्त्वं तावद्वर्तमानत्वात्। मम तु वर्तमानकालेऽपि न दुःखमिति वर्तमानार्थक’मुञ्चत’ इतिपदतो लभ्यते।
——————————————————————————————————————

(प्रविश्य।)

लक्ष्मणः— जयति जयत्यार्यः। आर्य ! अर्जुनेन चित्रकरेणास्मदुपदिष्टमार्यस्य चरितमस्यां वीथ्यामभिलिखितम्45। तत्पश्यत्वार्यः।

रामः— जानासि वत्स ! दुर्मनायमानां देवीं विनोदयितुम्। तत्कियानवधिः46 ?

लक्ष्मणः— यावदार्याया हुताशनशुद्धिः47

रामः— शान्तं पापम्। (ससान्त्ववचनम्)

उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः।
तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः॥१३॥

—————————————————————————————————————

व्यथेति सामान्यशब्देन मनोव्याधिरपि नेत्यर्थः॥१२॥ राघवधुरंधरः। रघुवंशश्रेष्ठ इत्यर्थः। राघवपदोपादानं साभिप्रायकम्। शरणागतसंरक्षणभूतदयालोकाराधनैकपररघुवंशजस्य तवेदमनुरूपमित्यभिप्रायः। विश्राम्यताद्विश्रमं प्राप्नोतु। आशिषि परस्मैपदलोटस्तातङ्। ‘विश्राम्यताम्’ इति पाठे तु परिजनैरिति शेषः। विश्रमवान्क्रियतामित्यर्थः। णिजन्तात्कर्मणि लोट्॥ अर्जुनेन तन्नाम्ना। वीथ्यां चित्रमयश्रेण्याम्॥ दुर्मनायमानां दुःखितमनस्काम्। जनकस्य स्वदेशान्प्रति गमनादिति भावः। ‘कर्तुः क्यङ् सलोपश्च’ (पा.३।१।११) ङित्वादात्मनेपदम्। शानच्। विनोदयितुं दुःखविस्मरणपूर्वकं संतोषं ग्राहयितुम्। ‘नुद प्रेरणे’। उपसर्गबलेन उक्तार्थलाभः। तत्कियानवधिः ? तदित्यव्ययम्। तस्येत्यर्थः। अवधिरन्तः कियान्। किंप्रमाणक इत्यर्थः। अनेकसंख्याकेषु मद्व्यापारेषु कीदृशसंख्यायुक्तोऽस्मद्व्यापारः अस्य चित्रस्यावधिरित्यर्थः॥ यावदिति। हुताशनेन शुद्धिरिति विग्रहः। यावच्छब्दोऽवधारणार्थकः। हुताशनशुद्धिर्यावत्। हुताशनशुद्धिरेवावधिरित्यर्थः। अवधिरिति पूर्वस्मादनुषङ्गः॥ शान्तं पापमिति। योऽवमलीकोपन्यासस्तस्य पीडाहेतुभूतपापशान्तिकरो भवत्विति तात्पर्यम्। लोकोक्तिरियमिष्टजनं प्रत्यनिष्टवचनाक्षमजनाशीर्वचनरूपा। ससान्त्ववचनम्। अत्यर्थमधुरवाक्सहितमित्यर्थः॥ उत्पत्तीत्यादि। उत्पत्त्या परिपूतायाः परिशुद्धायाः। कृत्रिमत्वनिरासार्थमिदम्। स्वभावतो दोषप्रतिभटाया इत्यर्थः। अस्याः सीतायाः। पावयन्तीति पावनानि। नन्द्यादित्वाल्ल्युप्रत्ययः। अन्यानि पावनानि पावनान्तराणि। तैरित्यर्थः। किम्। न किमपीत्यर्थः। शुद्धिर्हि दोषनिर्हरणम्। अविद्यमानदोषायाः कथं शुद्धिरिति भावः। किंच अन्तरशब्देन दोषरहितमात्रस्य पावकवस्त्वपेक्षा नास्ति। पावकस्य तु तन्नैरपेक्ष्यं कैमुतिकम्। इयं च केवलं दोषरहिता न किंतु पावका चेति सूच्यते। ‘अपि मां पावयेत्साध्वी स्नात्वेतीच्छति जाह्नवी’ इति न्यायात्। उक्तमर्थमुत्तरार्धेन दर्शयति— तीर्थोदकमिति।
—————————————————————————————————————

देवि देवयजनसंभवे ! प्रसीद। एष ते जीवितावधिः प्रवादः।

क्लि48ष्टो49 जनः किल जनैरनुरञ्जनीय–
स्तन्नो यदुक्तम50शुभं51 च न तत्क्षमं ते।
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
मूर्ध्नि स्थितिर्न चरणैरवताडनानि॥१४॥

——————————————————————————————————————

गङ्गादिपावनजलम्। तीर्थशब्दो विशेषणमात्रपरः; यथाश्रुते तीर्थशब्दस्यैव परिशुद्धोदकवाचित्वात्। यद्वा,—तीर्थानां गुरूणामुदकं पादावनेजनाम्भः। ‘आपः पादावनेजनीर्द्विषन्तं निर्दहन्तु मे’ इति श्रुतेः। वह्निश्च अन्यतः शुद्धिमन्यहेतुकशुद्धिं नार्हतः। यथा पावकत्वाविशेषात्तीर्थोदकवह्णयोरितरापेक्षा नास्ति तद्वदस्या अपि पावकत्वाविशेषेण तदपेक्षा नास्तीत्यतिस्फुटम्। किंच विनिगमनाविरहात् वह्नेर्वा सीतासंबन्धतः शुद्धिः किं न स्यादित्याशयः। अग्निप्रवेशानुमतिर्मूढप्रत्यायनार्था वा अग्निप्राशस्त्यार्था वा॥१३॥ जीवितावधिरिति। जीवितस्यावधिर्यस्येति बहुव्रीहिः। यदीयावधिः जीवितावधिः। स इत्यर्थः। प्रसीद। ‘अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी’ इत्युक्तरीत्या बहुतरापराधानां क्षिप्रं क्षमापकोऽयमञ्जलिरपराधभूयस्त्वानुगुण्याच्छरीरपातपर्यन्तमनुष्ठेयः। स चाशक्त्या तन्त्रेणानुष्ठीयत इति भावः। क्लिष्ट इति। यद्यस्मात्कारणात्क्लिष्टो जनो दुःखितो जनो जनैरनुरञ्जनीयः क्लेशं विस्मार्य लालनीय इत्यर्थः। नतु पूर्वानुभूतदुःखस्मारणेन क्लेशयितव्य इत्यर्थः। तत् तस्मात्। अशुभममङ्गलम्। ‘अशिवम्’ इति पाठान्तरम् ते त्वद्विषये। शेषे षष्ठी। नः आवयोः ‘अस्मदो द्वयोश्च’ (१\।२\।५९) इति द्वित्वे बहुवचनम्। यदुक्तम्। अस्मत्कर्तृकं यद्वचनमित्यर्थः। ‘नपुंसके भावे क्तः’। ‘यावदार्याया हुताशनशुद्धिः’ इत्युक्तलक्ष्मणवचनमित्यर्थः। अत्र लक्ष्मणवचनस्य रामस्य स्वोक्तितैक्याभिसंधिना। ‘रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः’ इत्युक्तेः। तत्। वचनमित्यनुषज्यते। नः। त्वदेकजीवितयोस्तव निर्दोषतां च जानतोरित्यर्थः। न क्षमं नोचितम्। अयं भावः—बन्धुत्वमित्रत्वानादरेण जनत्वरूपसामान्यधर्म एवानुरञ्जनीयानुरञ्जकभावे पर्याप्तो हेतुः। तत्र ‘प्रेयो मित्रं बन्धुता वा समग्राः सर्वे कामाः संपदो जीवितं वा। स्त्रीणां भर्ता धर्मदाराश्च पुंसाम्’ इत्युक्तरीत्या सर्वप्रकारप्रियतमायास्तव विषये तथाविधानां अस्माकं पूर्वानुभूतदुःखस्मारणमहापराधो नोचित एव। तत्राप्यलीकनिर्बन्धतत्स्मारणं तु सुतराम्। किंच निर्दोषतां च जानतो राघवयोस्तत्कथनं तु दूरोत्सारितमिति। सुरभिणः कुसुमस्य सुगन्धप्रधानस्य पुष्पस्य मूर्ध्नि स्थितिनैसर्गिकी निसर्गत एव। विनयादित्वात्स्वार्थे ठक्प्रत्ययः। सिद्धा प्रसिद्धा चेतनाचेतनसाधारण्येन प्रसिद्धा; चेतनैरवचूडरूपेणाचेतनैः शाखाग्रे च धारणात्। चरणैरवताडनानि न। न दृष्टानीत्यर्थः। अयं भावः—त्रिविधानि तावत्कुसुमान्यवगन्तव्यानि। यानि कान्तिप्रधानानि, सौरभ्यप्रधानानि, उक्तोभयप्रधानानि
——————————————————————————————————————

**सीता—**होदु52 अज्जउत ! होदु52। एहि। पेक्खम्ह दाव दे चरिदं। (इत्युत्थाय परिक्रामति।) [भवत्वार्यपुत्र ! भवतु। एहि। प्रेक्षामहे तावत्ते चरितम्।]

**लक्ष्मणः—**इदं तदालेख्यम्।

सीता—(निर्वर्ण्य।) के एदे उवरिणिरंतरट्ठिदा उवत्थुवंदि विअ अज्जउत्तं ? [क एते उपरिनिरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम् ?]

लक्ष्मणः— देवि ! एतानि तानि सरहस्यानि जृम्भकास्त्राणि। यानि भगवतो भृशाश्वात्कौ53शिकमुपसंक्रान्तानि। तेन च ताटकावधे प्रसादीकृतान्यार्यस्य।

**रामः—**वन्दस्वदेवि ! दिव्यास्त्राणि।

ब्रह्मादयो ब्रह्महिताय तप्त्वा परःस54हस्रं शरदां55 तपांसि।
एतान्यदर्शन्गु56रवः पुराणाः स्वान्येव तेजांसि तपोमयानि॥१५॥

——————————————————————————————————————

चेति। तत्र कान्तिप्रधानानि शाल्मलीकुसुमादीनि, सौरभ्यप्रधानानि दमनकादीनि। उभयप्रधानानि मालतीप्रभृतीनि। तत्र सौरभ्यमात्रप्रधानस्यापि न चरणावताडनार्हत्वम्। तस्य घ्राणैकनिरन्तरानुभाव्यत्वात्। एवं नाद्यस्यापि। तस्य दर्शनैकानुभाव्यत्वात्। उभयप्रधानस्य तु सुतरां न चरणावताडनार्हत्वमिति। सुरभिणः कुसुमस्येति पदद्वयोपादानादित्थं व्याख्यातम्। अत्र ‘न मुसलैः’ इति केचित्पठन्ति। अत्र प्राज्ञस्य पूजनीयस्य लक्ष्मणस्यैकस्य सकृत्किंचिद्वचनमुपमेय मुक्त्वा निहीनबहुतरचरणकरणकानामुपमानतावचनात् तादृशताडनजन्यं सुरभिकुसुमस्य यावदत्याहितं तावल्लक्ष्मणवचनजन्यं सीताया अत्याहितमिति व्यज्यते॥१४॥ प्रेक्षामहे पश्याम इत्यर्थः॥ आलेख्यं चित्रम्॥ उपरि निरन्तरस्थिता अविरलं स्थिताः। अनुपविष्टाइत्याशयः। तेषां दिव्यास्त्रत्वादुपरिस्थितिर्युक्तेत्युपरिलेखनम्। उपस्तुवन्ति स्तोत्रं कुर्वन्ति। सरहस्यानि। प्रयोगप्रतिसंहारौपयिकमन्त्रादयो रहस्यानि। तत्सहितानीत्यर्थः। जृम्भकास्त्राणि। भृशाश्वात्तन्नाम्नो मुनेः कौशिकं विश्वामित्रमुपसंक्रान्तानि प्राप्तानि। उपसंक्रान्तानीति कर्तृप्रत्ययेन स्वयमेव तानि कौशिकं प्राप्तानीति लभ्यते। तथा च**—**‘भृशाश्वः परःसहस्रपरिवत्सरान्तेवासिने कौशिकाय’ इति वक्ष्यमाणं परःसहस्रपरिवत्सरान्तेवासित्वं जृम्भकास्त्ररूपफलगुरुत्वमपेक्ष्यासत्कल्पमिति हृदयम्। तेन च विश्वामित्रेण प्रसादीकृतानि प्रसादतत्कार्यजृम्भकास्त्रयोरभेदाध्यवसायादित्थमुक्तम्। केवलप्रसादेन दत्तानीत्यर्थः॥ ब्रह्मादय इति। पुराणा ब्रह्मादयश्चतुर्मुखप्रभृतयः। गुरवस्तप उपदेष्टारः। तमोनिवर्तका इत्यर्थः। ‘शरदस्तपांसि’ इति वा पाठः। तपस्यन्तःकरणनैर्मल्यापादनद्वारा भगवत्साक्षात्कारहेतुभूतकायशोषणव्रतानि परःसहस्रम्। सहस्रात्परा इत्यर्थः; ‘कर्तृकरणे कृता बहुलम्’ (२।१।३२) इति बहुलग्रहणात्समासः। सुप्सुपेति वा। परस्परादित्वात्सहस्र–
——————————————————————————————————————

सीता—णमो एदाणं। [नम एतेभ्यः।]

रामः— सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति।

सीता— अणुग्गहीदम्हि। [अनुगृहीतास्मि।]

लक्ष्मणः— एष मिथिलावृत्तान्तः।

सीता—अम्हहे, दलंतणवणीलुप्पलसामलसिणिद्धमसिणसोहमाणमंसलदेहसोहग्गेण विम्हअत्थिमिदताददीसंतसोम्मसुंदरसिरी अणादरत्थुडिद57संकरसरासणो सिहंडमुद्धमुहमंडलो अज्जउत्तो आलिहिदो। [अहो,दलन्नवनीलोत्पलश्यामलस्निग्धमसृणशोभमानमांसलदेहसौभाग्येनविस्मयस्तिमिततातदृश्यमानसौम्यसुन्दरश्रीरनादरत्रुटितशंकरशरासनः शिखण्डमुग्धमुखमण्डल आर्यपुत्र आलिखितः।]

लक्ष्मणः— आर्ये! पश्य पश्य,—

संबन्धिनो वसिष्ठादीनेष तातस्तवार्चति।
गौतमश्च शतानन्दो जनकानां पुरोहितः॥१६॥

————————————————————————————————————

शब्दस्य सुडागमः। सहस्रसंख्याधिकसंख्याका इत्यर्थः। ‘विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः’ इत्यनुशासनादेकत्वात्। शरदः संवत्सरान्। अत्यन्तसंयोगे द्वितीया। तथा च सहस्रसंख्याधिकसंवत्सरेषु निरन्तरं तृप्त्वेत्यर्थः। ब्रह्म परमात्मा, प्रधानं च तत्कार्यत्वाज्जगत् ब्रह्मशब्देनोच्यते। तदुक्तम्—‘तादर्थ्यादुपचारोऽस्ति क्वचित्स्वस्वामिभावतः। अङ्गाङ्गीभावतात्कर्म्याद्वैपरीत्यादपीष्यते॥‘इति॥ तस्य हिताय तदपेक्षितेष्टानिष्टप्राप्तिपरिहारसाधनाय तपः फलभूतजृम्भकोपदेशेन राजभिर्विरोधिनिरसनेन जगतः पुरुषार्थसाधननिर्वर्तन सिद्धेरिति भावः। अथवा ब्रह्म वेदस्तस्य हिताय धारणाय। धारणार्थकधाञ्धातोर्नपुंसके भावे क्तः। ‘दधातेर्हिः’ (पा. ७।४\।४२) इति हिभावश्च। अनुत्सादायेति भावः। तपोमयानि तपःस्वरूपाणि। स्वार्थिको मयट्। स्वानि स्वकीयानि तेजांसि एतान्यदर्शन्। जृम्भकास्त्राण्यपश्यन्। कार्यकारणनिबन्धनमिदं सामानाधिकरण्यम्। ‘दृशिर् प्रेक्षणे’ इति धातोः लुङ्। तथा च—बहुतरतपःकार्य भूतानामेतेषां केवलगुरुप्रसादसाध्यत्वम्। नतु शुश्रूषादिसाध्यत्वमिति भावः॥१५॥ त्वत्प्रसूतिं त्वत्प्रसवम्। त्वत्पुत्रावित्यर्थः। द्विधा गर्भग्रन्थिस्तदनु दिवसैः’ ( ६। २८ ) इति वक्ष्यमाणरीत्या यमलत्ववत्पुंप्रजात्वमपि निर्णीतमिति सूच्यते। अन्यथा स्त्रीप्रजात्वे जृम्भकाभ्यनुज्ञानमसंगतं स्यात्। उपस्थास्यन्ति प्राप्स्यन्ति। मामिव स्तोष्यन्तीति वार्थः॥ अम्हह इति। दलितनीलोत्पलवच्छयामलं स्निग्धं च चाकचक्ययुक्तम्। मांसल स्फीतं तेन। तथाविधेनेत्यर्थः। विशेषणसमासः। देहसौभाग्येन देहसौन्दर्येण। विस्मिता आश्चर्ययुक्ताः अत एव स्तिमिता निश्चलास्तास्तास्तैर्दृश्यमाना सौम्या आह्लादकरी सुन्दरश्रीर्यस्य स तथोक्तः। प्राकृते आत्मनेपदाभावाद्दीसन्तेत्युक्तिः।त्रुटितं भग्नं शरासनं येन स तथोक्तः॥ संबन्धिन इति। जनकानां
————————————————————————————————————

रामः— सु58श्लिष्टमेतत्।

जनकानां रघूणां च संबन्धः कस्य न प्रियः।
यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः॥१७॥

————————————————————————————————————

जनकापत्यभूतानाम्। लाक्षणिकोऽयं शब्दः। पुरोहितो गौतमो गौतमपुत्रः। ‘ऋष्यन्धकवृष्णिकुरुभ्यश्च’ (पा. ४।१।११४) इत्यण्प्रत्ययः। शतानन्दस्तन्नामा। तथा च—एष तव तातो वसिष्ठादीन्संबन्धिनोऽर्चति पूजयति। जनकानां पुरोहितो गौतमः शतानन्दश्चार्चतीत्यनुषङ्गः। यथाक्रमं तव तातो जनकः संबन्धिनो दशरथप्रभृतीनर्चयति। जनकानां पुरोहितो गौतमः शतानन्दश्च वसिष्ठादीनर्चयति चेत्यन्वयः॥१६॥ सुश्लिष्टमिति। हेमारविन्दपरिमलन्यायादिति भावः। जनकानामिति। जनकानां जनकवंशोद्भवानां रघूणां रघुवंशोद्भवानां च। लाक्षणिकोऽयं शब्दः। संबन्धोऽपत्यसंबन्धः कस्य न प्रियः ? सर्वस्यापि प्रिय इत्यर्थः। यत्र संबन्धे कुशिकनन्दनो विश्वामित्रः स्वयं दाता स्वयं प्रतिग्रहीता च। दशरथं प्रति दाता, जनकं प्रतिग्रहीता चेत्यर्थः। अयं भावः—तव मम च परिणयरूपोऽथं संबन्धो जनकदशरथयोरावयोर्जनानां च मध्ये कस्यचिदपि नाप्रियः। तथा हि—जनकानां रघूणामित्यनेन रघुवंश्यान् जनकवंश्यांश्च प्रति नाप्रियत्वमिति लभ्यते। अत्र निमीनामित्यनुक्त्वा जनकानामिति पदोपादानेन ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इति जनके प्रसिद्धं कर्मयोगशीलत्वमिह स्फार्यते। एवं काकुत्स्थानामित्यनुक्त्वा रघूणामित्युक्त्या ‘श्रुतस्य यायादयमन्तमर्कस्तथा परेषां युधि चेति पार्थिवः’ इत्यादिकालिदासनिरुक्त्या ‘लङ्घिबह्योर्नलोपश्च’ (उ. १३२) इत्यनुशासनेन च लब्धया लङ्घते जानाति सर्वमिति व्युत्पत्त्या ‘मनुरिक्ष्वाकवेऽब्रवीत् इत्यैक्ष्वाकवं रघुकुलासाधारणज्ञानयोगशीलत्वं सूच्यते। तथा चान्यादृशजनकविषये जातोऽपत्यसंबन्धः संबन्धिनामित्यभिमतो भवति। तत्र क्षीरशर्करावदन्योन्यसंपर्करमणीयज्ञानकर्मशीलजनकविषयत्वे तु तस्य हेमारविन्दपरिमलन्यायेनातिश्लाध्यत्वमिति तान्प्रत्यप्रियत्वव्यावृत्तिः। अत एव चावां प्रत्यपि नाप्रियत्वं यत्र दातेत्यादिनापि जनकदशरथौ प्रत्यप्रियत्वं व्यावर्त्यते। तत्र दशरथं प्रति अयाचितोपनतत्वाज्जनकं प्रति दुष्करधनुर्भङ्गप्रतिज्ञानिवर्तनरूपमहोपकारकरणाच्च गुर्वनुज्ञाप्राप्तत्वान्महर्षिकारितत्वाच्च नावां प्रत्यप्रियत्वम्। स्वयमित्यनेनाग्रहादिमूलकत्रिशङ्कुयाजनहरिश्चन्द्रोप्लवव्यावृत्तिः। अत एव जनान्प्रत्यप्रियत्वं निरस्तम्। शिष्टानुमतस्य धर्मत्वे शिष्टकारिते तस्य कैमुतिकसिद्धत्वात्। तथा चापस्तम्बस्मृतिः—‘यत्त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मः’ इति। ब्रह्मर्षिर्विश्वामित्र इत्याद्यनुक्त्वा कुशिकनन्दन इति पदोपादानं विश्वामित्रः स्वब्रह्मर्षित्वमविगणय्य भूतपूर्वगत्या क्षत्रियत्वं स्वीकृत्य बन्धुभावेनास्मत्संबन्धिभावेनास्ति असति संबन्धे ब्रह्मर्षि–
————————————————————————————————————

सीता—एदे खु तक्कालकिदगोदाणमंगला चत्तारो भादरो। विआहदिक्खिदा तुम्हे। अम्हो जाणामि, त59स्सिं60 जेव्व पदेशे त59स्सिं60 जेव्व काले वत्तामि !। [एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारो भ्रातरः। विवाहदीक्षिता यूयम्। अहो जानामि, तस्मिन्नेव प्रदेशे तस्मिन्नेव काले वर्ते !]

रामः

समयः स वर्तत इवैष यत्र मां
समनन्दयत्सुमुखि ! गौतमार्पितः।
अयमागृहीतकमनीयकङ्कण–
स्तव मूर्तिमानिव महोत्सवः करः॥१८॥

लक्ष्मणः— इयमार्या। इयमप्यार्या माण्डवी। इयमपि वधूः श्रुतकीर्तिः।

सीता—वच्छ ! इअं वि61अवरा का ? [वत्स ! इयमप्यपरा का ?]

लक्ष्मणः—(सलज्जास्मितम्। अपवार्य।) अये ! ऊर्मिलां पृच्छत्यार्या। भवतु, अन्यतः संचारयामि। (प्रकाशम्।) आर्ये! दृश्यतां द्रष्टव्यमेतत्। अयं च भगवान् भार्गवः।

——————————————————————————————————————

कृत्यानीति व्यञ्जयति॥१७॥ एदे खु इति। गोदानमङ्गलं क्षौरकर्म तस्य मङ्गलार्थत्वान्मङ्गलत्वम्। विवाहेन दीक्षिता विवाहदीक्षिता इति। विवाहहेतुकव्रतवन्त इत्यर्थः। ‘दीक्ष मौण्ड्येज्योपनयनव्रतादेशेषु’ इति दीक्षधातोः कर्तरि क्तः। तस्मिन्नेव प्रदेश इति प्रत्यभिज्ञादार्ढ्यमिति॥ समय इति। यत्र समये गौतमार्पितः पुरोधसा शतानन्देन प्रतिपादित आगृहीतकमनीयकङ्कणः समन्ताद्गृहीतकमनीयवलयः, तथापि मूर्तिमान् महोत्सव इव स्थितः समनन्दयत् स एष समयो वर्तत इव। स्मृतिवैशसमिदम्। अत्र ‘सुमुखि’ ‘आगृहीतकमनीकङ्कणः’ इत्युक्त्या सिद्धसाध्यसमभिव्याहारन्यायेनागृहीतकमनीयकङ्कणत्वं प्रति सीताया वदनकमलसौन्दर्यातिशयो हेतुरित्यवगम्यते। अन्यथा ‘पाणिं गृह्णीष्व पाणिना’ इत्युक्तपाणिपीडनस्य प्रकोष्ठवर्तिमणिवलयग्रहणासंगतेः। तथा च—सीतामुखचन्द्रदर्शनानन्दपारवश्येन सम्यक्करग्रहणाभावात्संवृत्तः। तथात्व एव स पाणिर्मूर्तिमान्महोत्सव इव स्थितः। सम्यक्स्पर्शे तु निःसीमानन्दकर इति व्यज्यते। आगृहीताः सम्यग्गृहीताः शृङ्गारमूलकसात्त्विकभावविशेषरूपत्वेन स्पृहणीयाः कङ्कणाः स्वेदजलबिन्दवो यस्मिन्स तथोक्त इत्यप्याहुः। ‘आगृहीतवैवाहिकप्रतिसर’ इत्यपि केचित्॥१८॥
——————————————————————————————————————

सीता—(ससंभ्रमम्) कंपिदम्हि। [कम्पितास्मि।]

रामः— ऋषे ! नमस्ते।

लक्ष्मणः— आर्ये! पश्य। अयमार्येण— (इत्यर्धोक्ते—)

रामः— (साक्षेपम्।) अ62यि62, बहुतरं द्रष्टव्यम्। अन्यतो दर्शय।

सीता—(सस्नेहबहुमानं निर्वर्ण्य।) सुष्ठु सोहसि अज्जउत्त ! एदिणा विणअमाहप्पेण। [सुष्ठु शोभसे आर्यपुत्र ! एतेन विनयमाहात्म्येन]

लक्ष्मणः— एते वयमयोध्यां प्राप्ताः।

रामः— (सास्रम्।) स्मरामि हन्त स्मरामि।

जीवत्सु तातपादेषु नू63तने दारसंग्रहे64
भ्रातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः॥१९॥

—————————————————————————————————————

इयमार्या माण्डवीति भरतभार्यात्वात्, इयमपि वधूरिति शत्रुघ्नभार्यात्वात् स्नुषात्वेन ग्रहणम्॥ अयमिति। भार्गवः परशुरामः॥ कम्पितास्मि। येनेति शेषः॥ अयमार्येणेत्यादि। अत्र वैष्णवं धनुरारोपयित्वा समाकृष्टतेजस्क इति वक्तुमुद्युक्तवान् लक्ष्मणः, तावदात्मप्रशंसामसहमानो रामः प्रतिषिद्धवानित्याशयः॥ साक्षेपं सप्रतिषेधम्। ‘क्षिपु निरसने’ इत्यस्मात् भावे घञ्प्रत्ययः। अन्यतो दर्शय, अन्यत्र लिखितं दर्शयेति भावः॥ विनयमाहात्म्येन विनयस्य स्वोत्कर्षतानाविष्करणरूपस्य स्वस्मिन्निकर्षानुसंधानरूपस्य वा माहात्म्यं भूयसा तेनेत्यर्थः॥ एते वयमयोध्यप्राप्ताः। तथालिखिता इत्यर्थः॥ जीवत्स्विति। तातपादेषु पितरीत्यर्थः। पूजायां पादशब्दो बहुवचने। ‘उत्तमानां स्वरूपं तु पादशब्देन भण्यते’ इति। जीवत्सु सप्राणेषु। ‘यस्य च भावेन—’ (२।३।३७) इति सप्तमी। दारसंग्रहे नूतने सति मातृभिश्चिन्त्यमानानां नस्ते दिवसा गता इत्यन्वयः। गता दिवसास्ते हीति स्मरणाकारप्रदर्शनं वा। अबन्धोरपि रक्षकस्य जीवनमानन्दाय। सर्वविधसंरक्षणशीलस्य पितुर्जीवनं तु निरवधिकाह्लादजनकम्। किं च दाराणां सततपरिचयेऽपि प्रियैकवेषत्वम्, नूतनसंग्रहे तु अमन्दानन्दहेतुत्वम्, स्वरूपसत्यैव माता निरतिशयसौख्यां कारिणी। तत्रापि सा लोकप्रसिद्धसर्वविधसंरक्षणानि कृत्वा ततोऽप्यधिकानि चिन्तयति चेत् निःसीमानन्दलाभः। एवमपरिच्छिन्नानन्दकन्दलहेतुत्वाद्दिवसानां तच्छब्देन निर्देशः। अत्र मातृभिरिति न यथा स्वसंबन्धः सर्वासां रामसर्वविषयहिताचिन्तावत्त्वम्; संकोचे मानाभावात्। कैकेय्याः क्रौर्यौपाधिकम्। एवं चेदप्यविशयितानन्दहेतुः सपत्नीमातृप्रयुक्तोपप्लवस्य सगरादिषु प्रसिद्धत्वेन तदभावस्याभिमतत्वात्। तातपादजीवनादीनां मध्य एकैकमेवानन्दहेतुः। समुदितानि तु सुतरामिति भावः॥१९॥
—————————————————————————————————————

इयमपि तदा जानकी

पतनविरलैः65 प्रान्तोन्मीलन्मनोहरकुङ्मलै66
र्दशनकुसुमै67र्मुग्धालोकं शिशुर्दधती मुखम्।
ललितललितैर्ज्योत्स्नाप्रायैरकृत्रिमविभ्रमै–
रकृत मधुरैरङ्गानां68 मे कुतूहलमङ्गकैः॥२०॥

—————————————————————————————————————

‘नूतने दारसंग्रहे’ इत्युक्तं विशिनष्टि—इयमपि तदेत्यादिना। पतनेति। शिशुः शैशवान्तवती। शिशुप्रायेत्यर्थः। ‘पतिसंयोगसुलभं बयो दृष्ट्वा च मे पिता’ इत्युक्तेः। पतनेन प्रस्थितदशनपतनेन। प्रान्तोन्मीलदित्युक्तेः। विरलैः सान्तरालैः। प्रान्तेत्याद्यत्र उन्मीलच्छब्दः प्ररोहद्दन्तपरः; दशनकुसुमैरिति रूपकसाहचर्यात्। तथा च उन्मीलदेव उद्यन्नूतनदशनाङ्कुर एव मनोहरकुड्मलमुन्मीलन्मनोहरकुड्मलं प्रान्ते उन्मीलन्मनोहरकुड्मलं येषामिति बहुव्रीहिः। यद्वा,—कुड्मलशब्दो मुकुलसदृशदशनपरः। प्रान्तोन्मीलन्ति मनोहरकुड्मलानि येषामित्यर्थः। रूपकातिशयोक्तिरलंकारः। दशनकुसुमैरिति तु रूपकमुपमा वेति संकर इत्यपि वदन्ति। दशना एव कुसुमानि तैर्धावल्यशिखरित्वादिसादृश्याद्रूपणम्, उपमा वा। हेतुभिः। मुग्धः सुन्दर आलोको यस्य तत्तथोक्तम्। यद्वा,—दशनकुसुमैरिति इत्थंभूतलक्षणे तृतीया। दशनकुसुमैरुपलक्षितमित्यर्थः। मुग्धालोकं सुन्दरकटाक्षं मुखं दधती इयं सीता ललितादपि कुसुमादपि ललितैः सुकुमारैः। यद्वा,—ललितं नाम हासाद्यन्यतमविशेषः। तदुक्तम्— ‘सुकुमाराङ्गविन्यासो ललितं परिकीर्तितम्’ इति। तेन ललितैः। विलसितैरित्यर्थः। ‘लड विलासे’ कर्तरि क्तः। लडयोरेकत्वम्। ज्योत्स्नाप्रायैर्ज्योत्स्नासदृशैः। यद्वा,—ज्योत्स्ना कान्तिः। लावण्यमिति यावत्। तत्प्रायैः तत्प्रचुरैरित्यर्थः। प्रायशब्दः प्रचुरवाची। जलप्रायो देश इतिवत्। लावण्यस्वरूपं तु ‘भूयिष्ठं तेज एवाद्भिर्बहुलाभिर्मृदूकृतम्। चक्षुरानन्दजननं लावण्यमिति कथ्यते॥’ इति। अकृत्रिमाः स्वाभाविका विभ्रमा विलासा येषां तानि। तैरित्यर्थः। विभ्रमशब्दो गोबलीवर्दन्यायेन माधुर्यललितान्यपरः। यद्वा,—‘विभ्रमस्त्वरयाकालभूषास्थान’ इत्युक्तविभ्रमपरः। सोऽकृत्रिमो येषु तथोक्तैरित्यर्थः। मधुरैः प्रियैरित्यर्थः। ‘आभूषणेऽपि रम्यत्वं माधुर्यमिति कथ्यते’ इत्युक्तमाधुर्ययुक्तैरित्यर्थः। अनुकम्पितैरङ्गैरङ्गकैः। ‘अनुकम्पायाम्’ (पा. ५\।३\।६७) इति कन्प्रत्ययः। अतिसुकुमारतया गाढालिङ्गनादिषु दयनीयैरित्यर्थः। तदाह कालिदासः—‘सदयं सुन्दरि ! गृह्यते रसोऽस्य’, ‘पीतं मया सदयमेव रतोत्सवेषु’ इति। उद्दण्डकविश्च’इमां काङ्क्षेऽहमाभ्य उरसि सदयम्’ इति। यद्वा, —अल्पैरङ्गैरङ्गकैः। ‘अल्पे’ (५।३।८५) इति सूत्रेण कन्प्रत्ययः। अल्पत्वं चेह तनुत्वमभिप्रेतम्। तदुक्तम्—‘स्वभावतनुका नूनम्’ इति अनेन ‘सुश्लिष्टसंधिबन्धत्वं सौन्दर्यमिति कथ्यते’ इत्युक्तसौन्दर्यमप्युक्तं भवति। तेन विना तनुत्वस्य दोषत्वात्। मेऽङ्गानां कुतूहलमकृत कृतवती। ‘डुकृञ् करणे’ सिचो लोपः।
—————————————————————————————————————

लक्ष्मणः— एष69 मन्थरावृत्तान्तः।

रामः—(सत्वरमन्यतो70 दर्शयन्।) देवि ! वैदेहि !

इङ्गुदीपादपः सोऽयं शृङ्गवेरपुरे पुरा।
निषादपतिना यत्र स्निग्धेनासीत्समागमः॥२१॥

लक्ष्मणः—(विहस्य, स्वगतम्।) अये ! मध्यमाम्बावृत्तान्तमन्तरितमार्येण71

सीता— अम्हो, एसो जडासंजमणवुत्तंतो। [अहो, एष जटासंयमनवृत्तान्तः।]

लक्ष्मणः

पुत्रसंक्रान्तलक्ष्मीकैर्यद्वृद्धेक्ष्वाकुभिर्धृतम्72
धृतं बाल्ये तदार्येण पुण्यमारण्यकव्रतम्॥२२॥

——————————————————————————————————————

कर्त्रभिप्राय आत्मनेपदेन रामाङ्गकुतूहलकरणफलं सीताया इत्यवगम्यते। ‘अद्वैतं सुखदुःखयोः’ (१।४०) इति वक्ष्यमाणत्वात्। केचित्तु—‘अम्बानाम्’ इति पाठ इत्याहुः॥२०॥ मन्थरावृत्तान्तस्तत्प्रयत्नफलपट्टाभिषेकान्तरायरूपः॥ इङ्गुदीति। स्निग्धेन स्नेहवता निषादपतिना गुहेन समागमः संबन्धः॥२१॥ मध्यमाम्बावृत्तान्तमिति क्लीवत्वं प्रामादिकम्। अन्तशब्दं त्यक्त्वा मध्यमाम्बावृत्तमन्तर्हितमिति पठनीयमित्याहुः॥ जटासंयमनं जटाबन्धनम्॥ पुत्रेति। पुत्रेषु संक्रान्ता स्वयमेवाश्रयशैथिल्यादागता। स्वतः संक्रान्तेत्यर्थः। ‘गत्यर्था—’ (३।४।७२) इति सूत्रेण कर्तरि क्तः। तथाविधा लक्ष्मीर्येषां ते तथोक्तास्तैः उरःप्रभृतित्वात् कप्। वृद्धाश्च ते इक्ष्वाकवश्चेति विग्रहः। इक्ष्वाकुवंश्या इत्यर्थः। तैर्यद्व्रतं धृतं तत्पुण्यं व्रतमार्येण बाल्ये धृतमिति योजना। आरण्यकानां व्रतम्। अरण्यचरमनुष्यसंबन्धि व्रतमित्यर्थः। अत्र पुत्रसंक्रान्तलक्ष्मीकैरित्यनेन73 ‘प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं विजयिनमभिनंद्यश्लाघ्यजायासमेतम्। तदुपहितकुटुम्बः शान्तिमार्गोत्सुऽभून्न हि सति कुलधुर्ये सूर्यवंश्या गृहाथ॥’ इति।”) पुत्रवत्त्वमुपभुक्तराज्यत्वम्, संक्रान्तेति क्तप्रत्ययेन यावच्छरीरशैथिल्यमुपभुक्तराज्यवत्त्वम् वृद्धेत्यनेन वार्धकं चावगम्यते। एवं चैतेषां समुदितानां सत्त्व एव पूर्वेषामारण्यकव्रतधारणं न तु यत्किंचित्सत्त्वे। रामस्य तु एतेषां सर्वेषामभावेऽप्यारण्यकव्रतधारणम्। बाल्ये इत्यनेन पुत्रवत्त्वोपभुक्तराज्यकत्वशरीरशैथिल्यवार्धकाभावानां लाभात्। व्रतमित्यनेन असमञ्जसादिव्यावृत्तिः॥ व्रतस्य पुण्यत्वाव्यभिचारात् पुण्यमिति विशेषणं प्रसिद्धव्यावृत्त्यर्थम्। तद्धि अनुष्ठातुरेव पुण्यफलसाधनम्। इदं तु सकलभुवनाभीष्टसाधनमिति। आयणेत्यनेनासा–

———————————————————————————————————————

सीता— एसा पसण्णपुण्णसलिला भअवदी भाईरही। [एषा प्रसन्नपुण्यसलिला भगवती भागीरथी।]

रामः— रघुकुलदेवते ! नमस्ते।

तुरगविचयव्यग्रानुवींभिदः सगराध्वरे
कपिलमहसा रोषात्प्लु74ष्टान्पितुश्च पिता75महान्।
अगणिततनूताप76स्तप्त्वातपांसि भगीरथो
भगवति ! तव स्पृष्टानद्भिश्चिरादुदतीतरत्77॥२३॥

सा त्वमम्ब ! स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भव78

लक्ष्मणः — एष भरद्वाजावेदितश्चित्रकूटयायिनि वर्त्मनि वनस्पतिः कालिन्दीतटे वटः श्यामो नाम।

(रामः सस्पृहमवलोकयति।)

सीता— सुमरेदि वा तं79 पदेसं अज्जउत्तो ? [स्मरति वा तं प्रदेशमार्यपुत्रः ?]

रामः— अयि, कथं विस्मर्यते ?

अलसललित80मुग्धान्यध्वसंपात81स्वेदा–
दशिथिलपरिरम्भैर्दत्तसंवाहनानि।
परिमृदितमृणालीदुर्बलान्यङ्गकानि
त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता॥२४॥

—————————————————————————————————————

मर्थ्यनिबन्धनलोकवादभीत्यादिना न कृतम्। किंतु वैदिकश्रद्धामूलमित्यवगम्यते॥२२॥ प्रसन्नपुण्यसलिला स्वच्छपरिशुद्धजला॥ तुरगेति। सगराध्वरे तुरगस्येन्द्रापहृताश्वस्य विचयेऽन्वेषणे व्यग्रान्ससंभ्रमान्। अत एवोर्वीभिदो भूमिखानिनः। भिदेः क्विप्। कपिलमहसा तन्नामकमुनितेजसा रोषाद्धेतोः प्लुष्टान् दग्धान्। ‘प्लुष दाहे’। ‘कर्मणि क्तः। तवाद्भिः स्पृष्टानुदतीतरदुत्तारयति स्म। तरतेर्णिचि लुङ्॥२३॥ शिवे मङ्गलेऽनुध्यानं यस्या इति विग्रहः। एतेन बीजानुगुणप्रोत्साहनरूपं मेदो नाम संध्यङ्गमुक्तम्। तदुक्तम्—‘बीजानुगुणप्रोत्साहनं मेदः’ इति। वनस्पतिरपुष्पत्वे सति फलवान्। वटः श्यामो नाम तथा प्रसिद्धिमान्॥ अलसेत्यादि। अध्वनि मार्गे संपातः सम्यग्गमनम्। रामलक्ष्मणापेक्षया त्वरितगमनमिति भावः। ‘अग्रतस्ते गमिष्यामि मृद्रन्ती कुशकण्टकान्’ (अयोध्या. २७\।७) इत्युक्तत्वात्। तेन यः खेदआयासस्तस्माद्धेतोरलसललितमुग्धान्यलसानि प्रसरणाकुञ्चनासमर्थानि ललितानि मृदूनि मुग्धानि सुन्दराणि। स्वभावतः सौन्दर्यसौ–
———————————————————————————————

लक्ष्मणः— एष विन्ध्याटवीमुखे विराधसंवादः।

सीता—अलं दाव एदिणा। पेक्खम्मि दाव अज्जउत्तसहत्तधरिदतालवुंतादवत्तं अत्तणो अच्चाहिदं दक्खिणारण्णपहिअत्तणं। [अलं तावदेतेन। पश्यामि तावदार्यपुत्रस्वहस्तधृततालवृन्तातपत्रमात्मनोऽत्याहितं दक्षिणारण्यपथिकत्वम्।]

रामः

एतानि तानि गिरिनिर्झरिणीतटेषु
वैखानसाश्रिततरूणि82 तपोवनानि।
येष्वातिथेयपरमा यमिनो83 भजन्ते
नीवारमुष्टिपचना गृहिणोगृहाणि॥२५॥

लक्ष्मणः— अयमविरलानोकहनिवहनिरन्तरस्निग्धनीलपरिसरारण्य–

——————————————————————————————————————

कुमार्ययोः सत्त्वेऽप्यध्वसंपातखेदादलसललितमुग्धानीत्युक्त्या मार्गगमनायासेन तयोर्द्विगुणीभाव इति भावः। ‘तथापि दृशोः प्रिया’ इत्युक्तेः अशिथिलपरिरम्भैर्दृढतरालिङ्गनैः। बहुवचनमालिङ्गनावृत्त्यभिप्रायकम्, कामतन्त्रप्रसिद्धालिङ्गनमेदबाहुल्याभिप्रायकं वा। दत्तानि संवाहनानि येभ्य इति चतुर्थीबहुव्रीहिः। संवाहनं नामाङ्गानां गमनादिजनितायासशमनौपयिकदृढतमस्पर्शविशेषः। परितः साकल्ये मृदिता निष्पीडिता या मृणाली तद्वद्दुर्बलानि स्वस्वधारणसामर्थ्यरहितान्यङ्गकानि। ‘अनुकम्पायाम्’ (पा.५।३।६७) इति कन्प्रत्ययः। त्वं ममोरसि कृत्वा यत्र यस्मिन्प्रदेशे निद्रामवाप्ता स कथं विस्मर्यते ? इति योजना। अयं भावः—पूर्वमध्वसंपातखेदः, ततो ललितत्वसौकुमार्यद्विगुणीभावः, ततस्तद्दर्शनवशादशिथिलालिङ्गनबाहुल्यम्, ततश्च तत्संवाहनता, ततः स्वधारणसामर्थ्यविरहदौर्बल्यम्, ततो रामवक्षःस्थल एव लग्नता, ततस्तदीयसौकुमार्यपारवश्यात्तत्रैव निद्रावाप्तिरिति॥२४॥ स्वहस्तधृततालपत्रमेव तालवृन्तं तदेवातपत्रं यस्मिन्निति विग्रहः। आत्मनोऽत्याहितं जीवितनिरपेक्षत्रियारूपम्। दक्षिणारण्ये पथिकत्वमिति विग्रहः॥ एतानीति। येषु तपोवनेषु। अतिथिषु विषये साधुरातिथेयोऽतिथिसत्कारः परमः येषां ते पुरुषा इत्यर्थः। यमिन इति द्वितीयान्तम्। पक्वान्नाधिकारिणो यतीन् भजन्ते सेवन्ते। किं च नीवारमुष्टेः पचनं यैस्ते गृहिणिगृहाणि भजन्ते। यद्वा,—यमिन इति गृहिविशेषणपदं प्रथमान्तम्, यमवन्तः। इदं धर्मादीनामप्युपलक्षणम्। आतिथेयपरमा गृहिणो गृहस्था गृहाणि भजन्त इत्यन्वयः। यद्वा,—आतिथेयपरमा आतिथ्यापेक्षिणो नीवारमुष्टेः पचनं येभ्य इति तथोक्ता यमिनः पक्वान्नाधिकारिणः कर्तारो गृहिणी गृहस्थस्य गृहाणि भजन्ते। तानि वैखानसैर्मुनिमिराश्रितास्तरवो येषु तथोक्तानि एतानीत्यन्वयः॥२५॥ अयमविरलेत्यादि। अरण्यपरिणद्धा गोदावरी मुखेषु येषां तानि
——————————————————————————————————————

परिणद्धगोदावरीमुखकन्दरः संततमभिष्यन्दमानमेघमेदुरितनीलिमा जनस्थानमध्यगो गिरिः प्रस्रवणो नाम।

रामः—

स्मरसि सुतनु ! तस्मिन्पर्वते लक्ष्मणेन
प्रतिविहितसपर्यासुस्थयोस्तान्यहानि।
स्मरसि सरस84नीरां तत्र गोदावरीं वा
स्मरसि च तदुपान्तेष्वावयोर्वर्तनानि ?॥२६॥

किं च85,

किमपि किमपि मन्दं मन्दमासक्तियोगा–
दविरलितकपोलं जल्पतोरक्रमेण।
अशिथिलपरिरम्भव्यापृतैकैकदोष्णो–
रविदितगतयामा रात्रिरेव व्यरंसीत्॥२७॥

——————————————————————————————————————

कन्दराणि यस्य स तथोक्तः। पर्वतानां स्वतोऽपि नीलत्वान्मेदुरितेत्युक्तम्॥ स्मरसीति। हे सुतनु ! शोभना तनुर्यस्या इति विग्रहः। तनूरित्युङन्ताद्वा संबुद्धौ ह्रस्वः। तस्मिन्पर्वते। प्रस्रवण इत्यर्थः। विहिताश्च ताः सपर्याश्च विहितसपर्याः। विहितसपर्यासुविहितसपर्यासु इति प्रतिविहितसपर्यम्। वीप्सायामव्ययीभावः। तत्र आसमन्तात्सुखेन स्थितयोरित्यर्थः। ‘सुः पूजायाम्’ (पा. १।४।९४) इति कर्मप्रवचनीयत्वात् षत्वाभावः। यद्वा,—प्रतिविहिताभिः। प्रत्युपकारीकृताभिरित्यर्थः। अस्मत्कृतवनानुगमनानुज्ञामहोपकारस्येति शेषः। आवयोरित्याकृष्यते। सरसनीरां स्वाभाविकमधुररसयुक्तजलवतीम्। अनेन समुद्रसंगमसमीपस्थजलं व्यावर्त्यते। तत्रास्याः क्षारप्रसिद्धेर्वा किमित्यर्थः। अत एव पूर्वोत्तरयोः किमिति लभ्यते। अत्र प्राथमिकत्वाद्बाह्यत्वाच्च प्रथमं ‘तान्यहानि’ इति दिनस्योक्तिः। आनन्तर्याद्रहस्यत्वाच्च आवयोर्वर्तनानीत्यस्यानन्तरोक्तिः। तदुभयोपकारित्वाद्गोदावर्या मध्योक्तिरिति ध्येयम्॥२६॥ किमपीति। आसक्तिः रत्यभिनिवेशो विषयानुभूत्यानवस्थानलक्षणस्वस्या योगात् संबन्धाद्धेतोः अविरलितौ निरन्तरीकृतौ कपोलौयस्मिन्कर्मणि तथोक्तम्। मन्दं मन्दमतिसूक्ष्माक्षरं यथा तथा अक्रमेणान्योन्यस्वभावविरुद्धप्रक्रियया किमपि किमपि। इदं च गुप्तकथनम्। जल्पतोरशिथिले गाढे परिरम्मे व्यापृतमेकैकं दोः ययोरिति पूर्वस्मादनुषङ्गः। शेषे षष्ठीयम्। अविदितं यथा तथा गता यामा यस्यास्तथाविधा रात्रिरेव व्यरंसीत् विरमति स्म। नैवासक्तियोगविस्रम्भसंलापक्रीडादय इत्यर्थः। ‘व्याङ्परिभ्यो रमः’ (पा. १।३।८३) इति परस्मैपदम्। ‘यमरम—’ (पा. ७।२।७३) इति सगिटौ। अत्र
——————————————————————————————————————

लक्ष्मणः—एष पञ्चवट्यां शूर्पणखाविवादः86

सीता— हा अज्जउत्त ! एत्तिअं दे87 दंसणं। [हा आर्यपुत्र ! एतावत्ते दर्शनम्।]

रामः— अयि, वियोगत्रस्ते88 ! चित्रमेतत्।

सीता— जहातहा होदु89। दुज्जणो असुहं उप्पादेइ। [यथा तथा भवतु। दुर्जनोऽसुखमुत्पादयति।]

रामः— हन्त ! वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति।

—————————————————————————————————————

अविदितगतेति वाविदितगतनाडीति वा अकृत्वा यामपदोपादानादयमाशयोऽवगम्यते। ‘व्रजति रतिसुखार्थं चित्रिणीमग्रयामे व्रजति दिनरजन्या हस्तिनीं च द्वितीये। गमयति च तृतीये शङ्खिनीमार्द्रभावं रमयति रमणीयां पद्मिनीं तुल्ययामे॥’ इत्युक्तप्रकारेण पद्मिन्यादीनां सुरतसौख्यातिशयाय यामविशेषा विधीयन्ते। तथा च पद्मिनीपाञ्चालादीनां स्वस्वविहितयामप्रतीक्षणं विहितेतरयामानां कथंचिदतिवाहनं च सिद्धम्। एवं च सीतारामयोः पद्मिनीपाञ्चालयोस्तुर्ययामस्यैव सुरतयोग्यत्वेन निरतिशयसुखावच्छेदककालत्वात्तस्याविदितगतत्वं किंतु तदुच्यमानं तदितरयामेषु पर्यवस्यतीति तद्वत्तेषामतिशयितसुखकालत्वं सिद्ध्यति। तेषामतिशयितकालत्वमान्तरसंभोगेनैवेति किमपि किमपीत्यादिभिरवगम्यते। तथा हि—किमपि किमपीत्यस्य सुरतकालीनवक्तव्यजातमेवार्थः; गुप्तकथनात्। एवं च किमपि किमपि जल्पतोरित्यत्र मन्दंमन्दमविरलितकपोलमित्युभयत्र जल्पनेऽन्वेति अक्रमेणेत्यपि तथा। एवं च सुरतकालीनजल्पनस्य मान्द्यातिशयोक्तिकथनादार्द्रवाक्त्वं सीताया गम्यत इत्युक्ताद्रतिविशेषात्फुल्लजृम्भिताख्यबन्धविशेषौ सूच्येते। तदुक्तं काञ्चीनादेन — ‘उत्फुल्लजृम्भितयोः स्त्रिया आर्द्रवचो न क्रोधः’ इति। तल्लक्षणं तु अविरलितकपोलत्वमुपविष्टयोरेव सुलभमिति। अक्रमेणेति पुरुषायितं सूच्यते। तच्च भ्रमरादिमेदात्त्रिविधमप्यत्र बोध्यम्। अत्र पुरुषायितस्य ‘स्वेच्छया भ्रमणीवल्लभ—’ इत्युक्तत्वात्स्वेच्छैव निमित्तमिति बोध्यम्। अशिथिलेत्यादिनापार्श्वशायिनोः सुरतमिति लभ्यते। अन्यथा उभाभ्यामेव वाहुभ्यां किं न स्यात् ? एवं कतिपयैरेव बन्धविशेषै रात्रेरेवावसितत्वाद्बहूनां क्रीडाविशेषाणां तद्धेतुभूतासक्तियोगस्य वाऽविरतत्वाद्रात्रिरेव व्यरंसीदित्युक्तम्। इदमेवाभिसंधाय ‘बिन्दुमात्रं विशिष्यते’ इति कालिदासेनोक्तम्। वस्तुतस्तु संलापादिबाह्यसंभोग एव स्वारस्यमिति सुधियो विभावयन्तु॥२७॥ एष इति। शूर्पणखाविवादः। रामेण लक्ष्मणं प्रति तेन रामं प्रति प्रेषणादिरिति भावः। ‘नखमुखात्संज्ञायाम्’ (पा. ४।१।५८) इति ङीषो निषेधः। ‘पूर्वपदात्’ (पा. ८।४।३) इति णत्वम्॥ वियोगत्रस्तेति। वियोगात् त्रस्त इति विग्रहः। ‘पञ्चमी’ (पा. २।१।३७) इति योगविभागात्समासः॥ असुखं दुःखम्॥
—————————————————————————————————————

लक्ष्मणः

अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना
तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि।
जनस्थाने शून्ये विकलकरणैरार्यचरितै–
रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्॥२८॥

सीता— (सास्रमात्मगतम्।) अम्हो, दिणअरकुलानंदणो एव्वं वि मह कालणादो किलंतो आसि। [अहो, दिनकरकुलानन्दन एवमपि मम कारणात्क्लान्त आसीत्।]

लक्ष्मणः— (रामं निर्वर्ण्य साकूतम्) आर्य ! किमेतत् ?

अयं तावद्वाष्पस्रुटित90 इव मुक्तामणिसरो
विसर्पन्धाराभिर्लुठति धरणीं जर्जरकणः।
निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया
परेषामुन्नेयो भवति चि91रमाध्मात92हृदयः॥२९॥

रामः— वत्स !

——————————————————————————————————————

अथेति। अथ विकलकरणैरार्यचरितैः। यथा ग्रावापि रोदिति वज्रस्यापि। हृदयं दलति, तथा पापै रक्षोभिर्जनस्थाने शून्ये सति कनकहरिणच्छद्मविधिना वृत्तमिदं क्षालितमपि व्यथयतीत्यन्वयः। अथ शूर्पणखाचित्रदर्शनान्तरम्। यथा येन प्रकारेण विकलानि स्वस्वव्यापारशून्यानि करणानि चक्षुरादीनि येषु तथोक्तैरार्यचरितैर्मूर्च्छाप्रभृतिव्यापारैर्ग्रावापि शिलापि रोदिति रोदनं करोति। ‘रुदादिभ्यः’ (पा.७।२।७६) इतीट्। वज्रस्यपि वज्रादन्येनाभेद्यस्य वज्रस्यापि हृदयं मध्यप्रदेशो दलति द्विधा भिन्नं भवति, तथा तेन प्रकारेण वृत्तमिति संबन्धः। जनस्थाने पापै रक्षोभिः शून्ये सति। खरदूषणादिवधानन्तरमित्यर्थः। कनकहरिणच्छद्मविधिना स्वर्णमारीचमायिकमृगव्याजकरणेन वृत्तं निष्पन्नमिदमिति सीताहरणादेवित्रस्याङ्गुल्या निर्देशः। क्षालितमपि प्रतिकृतमपि व्यथयति दुःखं जनयति। शूर्पणखानन्तरं सीताहरणं लिखितमिति भावः। अत्र ‘ग्रावापि रोदिति’ इत्यादिकं नायोगे योगकल्पनम्। किंतु वास्तवमेव। ‘अपि वृक्षाः परिम्लानाः’ इतिवदुपपत्तेः। एवं स्मृत्वाऽद्यापि रोदितीत्यवगम्यते॥२८॥ आर्येति। एतत् द्रक्ष्यमाणम्। अयं तावदिति। त्रुटितश्छिन्न आवेगो दुःखातिशयः अधरश्चनासापुटश्चेति विग्रहस्तयोर्द्वन्द्वश्च। अतो न नासाशब्दे ह्रखः। उन्नेयोऽनुमेय आघ्मातहृदयो गद्गदशब्दयुक्तकण्ठः। “घ्मा शब्दे’इति धातोः कर्मणि क्तः। नेदं चित्रकथनम्, किंतु तादात्विकवास्तवावस्थाकथं–——————————————————————————————————————

तत्कालप्रियजनविप्रयोगजन्मा
तीव्रोऽपि प्रतिकृतिवाञ्छया विसोढः।
दुःखाग्निर्मनसि पुनर्विपच्यमानो
हृन्मर्मव्रण इव वेदनां तनोति93॥३०॥

सीता— हद्धी हद्धी, अहं वि अदिभूमिं गदेण रणरणएण अज्जउत्तसुण्णं विअ अत्ताणं पेक्खामि। [हा धिक् हा धिक् —अहनप्यतिभूमिं गतेन रणरणकेनार्यपुत्रशून्यमिवात्मानं पश्यामि।]

लक्ष्मणः—(स्वगतम्।) भवतु, आ94क्षिपामि। (चित्रं विलोक्य प्रकाशम्।) अथैतन्मन्वन्तरपुराणस्य95 तत्रभवतस्तातजटायुषश्चरित्रविक्रमोदाहरणम्।

सीता— हा ताद ! णिव्वूढो दे अवच्चसिणेहो ! [हा तात ! निर्व्यूढस्तेऽपत्यस्नेहः।]

रामः— हा तात काश्यप शकुन्तराज ! क्व नु खलु पुनस्त्वादृशस्य महतस्तीर्थभूतस्य साधोः संभवः।

लक्ष्मणः— अयमसौ जनस्थानस्य पश्चिमतः कुञ्जवान्नाम पर्वतो दनुकबन्धाधिष्ठितो दण्डकारण्यभागः। तदिदममुष्य परिसरे96 मातङ्गाश्रमपदम्। तत्र श्रमणी97 नाम सिद्धा शबरतापसी। तदेतत्पम्पाभिधानं पद्मसरः।

———————————————————————————————————————

नमेव। तत्कथयेत्यादिप्रतिवचनानुरूप्यात्॥२९॥ तत्कालेति। प्रतिकृतिषु प्रतिक्रियासु वाञ्छया आदरेण विपच्यमानः। स्वयमेव परिपाकमाश्रित्येत्यर्थः। कर्मणः कर्तृत्वविवक्षया ‘कर्मवत्कर्मणा’ (पा. ३।१।८७) इत्यातिदेशिकयगात्मनेपदम्। इदं च मध्यमणिन्यायेन पूर्वोत्तराभ्यामन्वेति। तनोति। विस्तारयतीत्यर्थः॥३०॥ भूमिमतिक्रान्तोऽतिभूमिः। ‘अत्यादयः’ (वा.१३३६) इति समासः। भावप्रधानो निर्देशः। अतिभूमित्वं गतेनेत्यर्थः। वैपुल्यं प्राप्तेनेति यावत्। रणरणकेन भवसंभ्रमेण। आक्षिपाम्यन्यतो मनःप्रवर्तनेन पूर्वोक्तं विस्मारयामि। अथैतदिति। अन्यो मनुर्मन्वन्तरम्। मयूरव्यंसकादित्वात्समासः। मन्वन्तरात्पुराणस्येति विग्रहः। सुप्सुपेति समासः। तातजटायुषः पितृसखत्वात्तातपदव्यपदेशः। चरित्रं स्ववृत्तम्। विक्रमः शौर्यम्। उदाहरणं सदृशचित्रलेखनमिति भावः। हा तातेति। काश्यपः कश्यपपुत्रः। तीर्थभूतस्य हितोपदेष्टुः॥ एतस्मिन्निति। मदेन कलं

———————————————————————————————————————

सीता— जत्थ किल अज्जउत्तेण विच्छिण्णामरिसधीरत्तणं पमुक्ककंठं परुण्णं आसि। [यत्र किलार्यपुत्रेण विच्छिन्नामर्षधीरत्वं प्रमुक्तकण्ठं प्ररुदितमासीत्।]

रामः— देवि ! परं रमणीयमेतत्सरः।

एतस्मिन्मदकलमल्लिकाक्षपक्ष–
व्याधूतस्फुरदुरुदण्डपुण्डरीकाः।
बाष्पाम्भःपरिपतनोद्गमान्तराले
संदृष्टाः कुवलयिनो मया98 विभागाः॥३१॥

लक्ष्मणः— अयमार्यो हनूमान्।

—————————————————————————————————————

कूजितं येषां ते तथोक्ताः। तथाविधानां मल्लिकाक्षाणां सविशेषाणां पक्षैर्गरुद्भिर्व्याधूताः कम्पिताः स्फुरन्तउरवो दण्डा येषां तानि पुण्डरीकाणि येषु ते तथोक्ताः। कुवलयिनश्च विभागाः प्रदेशा बाष्पाम्भसः परिपतनोद्गमयोरन्तराले मया संदृष्टाः। निरन्तरं दृष्टा इत्यर्थः। तथा कुवलयिन इत्यत्र प्रशंसायां मतुपा प्रशस्तकुवलययुक्ता इत्यर्थलाभेन रात्रौ दृष्टा इति सूच्यते। केचित्तु—मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीका विभागा बाष्पाम्भःपरिपतनोद्गमान्तराले कुवलयिन्तो दृष्टा इत्यन्वयमुक्त्वा बाप्पाम्भःप्रसरणमालिनीकृतपुण्डरीकाः कुवलयवन्तो दृष्टाः —इत्यर्थमाहुः। परे तु —मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीकाः कुवलयिनश्च विभागाः। विभज्यन्त इति विभागाः। परस्परसंकीर्णप्रदेशा बाष्पाम्भःपरिपतनोद्गमान्तराले संदृष्टा एकीकृत्य दृष्टाः। समित्येकीकारे। अविभागेन दृष्टा इत्याहुः। इतरे तु—‘ननु रमणीयमेतत्पद्मसरः’ इत्युक्तं त्वया तत्कथमुपपद्यते ? विरहोद्दीपककलकूजितयुक्तहंसाधिष्ठितपुण्डरीकयुक्तस्य सरसी द्रष्टुमशक्यत्वादित्यत्राह—एतस्मिन्मदकलेति। मत् अकलेति पदच्छेदः। मदिति पञ्चम्येकवचनम्। पृथक्पदं समस्तं वा। मन्मन्निमित्तं विरहव्यथातुरमद्धेतोर्न विद्यते कलं कूजितं येषां ते तेषां मल्लिकाक्षाणां हंसविशेषाणां पक्षैर्व्याधूतानि कम्पितानीति यावत्। अत एव स्फुरदुरुदण्डानि निवृत्ताधारतया चलदुरुदण्डानि पुण्डरीकाणि येषु तथोक्ताः कुवलयिनः पुण्डरीकवद्दिवा विकासाद्यभावेनाकिंचित्करत्वाद्धंसैरव्याधूततया कुवलयसत्तामात्रवन्तः। एतस्मिन्विभागा वाष्पाम्भःपरिपतनोद्गमान्तराले संदृष्टाः सम्यग्दृष्टाः। परिहाससंभावितत्वादवस्थितिव्यतिरेकनिश्चयपर्यन्तं दृष्टा इत्यर्थः। निवृत्तोपप्लवतया सम्यग्दृष्टा इति भावः। मल्लिकाक्षाः खलु विरहोद्विग्नस्य मम कृते स्वयं विरहसमुद्दीपकं कूजितं त्यक्त्वा तदुद्दीपकानि पुण्डरीकाण्यप्यनाशयन् ततोऽहं निवृत्तोपप्लवतया नान्तरीयकतयावस्थितिपर्यन्तं तान्विहंगान् दृष्टवानिति भावः। युक्त चैतत्—विरहखिन्नं रामं प्रति मल्लिकाक्षाणाम् ‘अपि ग्रावा रोदिति’ इति
—————————————————————————————————————

सीता—एसो सो चिरणिव्वूढजीवलोअपच्चुद्धरणगुरुओवआरी महानुभावो मारुदी। [एष स चिरनिर्व्यूढजीवलोकप्रत्युद्धरणगुरूपकारी महानुभावो मारुतिः।]

रामः

दिष्ट्या सोऽयं महाबाहुरञ्जनानन्दवर्धनः।
यस्य वीर्येण कृतिनो वयं च भुवनानि च॥३२॥

सीता—वच्छ ! एसो सो कुसुमिदकअंबतरुतांडविअबंहिणोकिंणामहेओ गिरी ? जत्थ अणुभावसोहग्गमेत्तपरिसेससुंदर99सिरी मुच्छंदो तु परुण्णेण ओलंबिओ तरुअले अज्जउत्तो आलिहिदो। [वत्स ! एष स कुसुमितकदम्बकतरुताण्डवितबर्हिणः किंनामधेयो गिरिः ? यत्रानुभावसौभाग्यमात्रपरिशेषसुन्दरश्रीर्मूर्च्छस्त्वया प्ररुदितेनावलम्बितस्तरुतल आर्यपुत्र आलिखितः।]

लक्ष्मणः

सोऽयं शैलः ककुभसुरभिर्माल्यवान्नाम यस्मि–
न्नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः।

——————————————————————————————————————

न्यायेन करुणायाः संभवात्। दृप्तचक्रवाकशापदर्शनेन चक्रवाकशापदाता रामोऽस्माकमपि शापं दास्यतीति भीत्या शब्दासंभवात्। ‘कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतम्’ इत्यादिविषयविशेषैस्तिरश्चामपि विरहिजनानुरोधः प्रसिद्धश्चेति वदन्ति॥३१॥ एष इति। चिरान्निर्व्यूढं निष्पादितं यज्जीवलोकप्रत्युद्धरणं तेन गुरु यथा भवति तथा। उपकरोतीत्युपकारी दशमासपरिमितरावणगृहवासस्यातिभूयस्त्वाभिसंधिना चिरादित्युक्तम्। स्वसत्तयैव जीवलोकमग्नतासंभावनया स्वोद्धरणेन तदुद्धरणसंभावनया च जीवलोकप्रत्युद्धरणमित्युक्तम्॥ दिष्ट्येति। दिष्ट्येत्यानन्दे। यस्य वीर्येणेत्यादि। वयम् लक्ष्मणभरतशत्रुघ्नसीताविभीषणसुग्रीववानराः अहं चेत्यर्थः। कृतिनः सुकृतिनः। यद्वा,—कृतमुपकारस्तद्वन्तः। उपकृत इत्यर्थः। अन्योन्यवृत्तान्तकथनेन सीतारामयोः, स्वानवधानप्रयुक्तसीताविरहपरिहारेण लक्ष्मणस्य, वह्निप्रवेशपरिहारेण भरतशत्रुघ्नयोः शरणागतस्वपरिग्रहसिद्धान्तेन विभीषणस्य, सुखोत्पादनेन सुग्रीवस्य, मधुवनभङ्गापराधवारणेन वानराणाम्, स्वसंजीवनादिना भुवनानां च कृतित्वमिति यथायथमूहनीयम्॥३२॥ अनुभावः प्रभावः। सौभाग्यं सौन्दर्यम्। प्ररुदितेन रोदनकर्त्रा। ‘आदिकर्मणि क्तः’ (पा. ३।४।७१)। रोदनप्रारम्भ एव। अवलम्बितः पतन् यथा धारितः इति॥ शैलः(सोऽयं) इति। ककुभा वृक्षविशेषास्तेषां पुष्पैः सुरभिः। ‘पुष्पमू–
——————————————————————————————————————

आर्येणास्मिन्

रामः

** विरम विरमातःपरं न क्षमोऽस्मि
प्रत्यावृत्तः स पुनरिव मे जानकीविप्रयोगः॥३३॥**

लक्ष्मणः— अतःपरमार्यस्य तत्रभवतां कपिराक्षसानां चापरिसंख्यान्युत्तरोत्तराणि कर्माश्चर्याणि। परिश्रान्ता चेयमार्या। तद्विज्ञापयामि विश्राम्यतामिति।

सीता— अज्जउत्त ! एदिणा चित्तदंसणेण पच्चुप्पण्णदोहलाए मए विष्णावणिज्जं अस्थि। [आर्यपुत्र ! एतेन चित्रदर्शनेन प्रत्युत्पन्नदोहदाया मम विज्ञापनीयमस्ति।]

रामः— नन्वाज्ञापय।

सीता— जाणे पुणो वि पसण्णगंभीरासु वणराईसु विहरिअ पवित्तणिम्मलसिसिरसलिलं भअवदिं भाईरहिं ओगाहिस्सं ति। [जाने पुनरपि प्रसन्नगम्भीरासु वनराजिषु विहृत्य पवित्रनिर्मलशिशिरसलिलां भगवतीं भागीरथीं अवगाहिप्ये इति।]

रामः— वत्स लक्ष्मण !

लक्ष्मणः— एषोऽस्मि।

रामः— वत्स ! अ100चिरादेव101 संपादनीयो दौर्हृद इति संप्रत्येव गुरुभिः संदिष्टम्। तदस्खलितसंपातं रथमुपस्थापय।

सीता— अज्जउत्त ! तुम्हेहिं वि आअंदव्वं। [आर्यपुत्र ! युष्माभिरप्यागन्तव्यम्।]

रामः— अतिकठिनहृदये ! एतदपि वक्तव्यम् ?

सीता— तेण हि पिअं मे पिअं मे। [तेन हि प्रियं मे प्रियं मे।]

लक्ष्मणः— यदाज्ञापयत्यार्यः। (इति निष्क्रान्तः।)

रामः— प्रिये102! वातायनोपकण्ठे संविष्टा भव।

——————————————————————————————————————

लेषु बहुलम्’ (वा. २९५०) इति लुप्। विप्रयोगः वियोगः। प्रत्यावृत्तः पुनरागत॥३३॥ अपरिसंख्यानीति परिसंख्यानिषेधः अवधिरिति यावत्। तद्रहितानि संख्याशून्यानीति वा॥ प्रत्युत्पन्नदोहदायाः उत्पन्नाभिलाषाया इत्यर्थः। उत्पन्नमनोविकाराया इति वा॥ वत्स, अचिरादित्यादि। एष गूढप्रकाशनादुद्भेदः॥

——————————————————————————————————————

सीता—एव्वं होदु। ओहारिदम्हि खु परिस्समणिद्दाए103। [एवं भवतु। अपहृतास्मि खलु परिश्रमनिद्रया।]

रामः— तेन हि निरन्तरमवलम्बस्व मामनुगमनाय।

जीवयन्निव ससाध्वसश्रमस्वेदबिन्दुरधिकण्ठमर्प्यताम्।
बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः॥३४॥

(तथा कारयन् सानन्दम्।) प्रिये ! किमेतत् ?

विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकारश्चैतन्यं भ्रमयति च संमीलयति च104॥३५॥

—————————————————————————————————————

जीवयन्निति। साध्वसं भयम्। अधिकण्ठम्। कण्ठइत्यर्थः। इन्दोरिमे ऐन्द्रवाः। चन्द्रमणिः चन्द्रकान्तशिला। जीवयन्नर्प्यतामिवेत्यन्वयः। ‘इव’शब्द ईषदर्थकः। जीवयन्निति च ‘लक्षणहेत्वोः’ (पा. ३।२।१२६) इति शतृ। तथा च मत्संजीवनफलकं यदीषदर्पणं तत्कर्म क्रियतामित्यर्थः। अथवा,— एतद्विरहे ‘न जीवेयं क्षणमपि’ इत्युक्तम्। अत्र ऐन्दवेत्यादिना सादृश्यमुक्त्वा जीवयन्निति विशेषस्योक्तेर्व्यतिरेकालंकारः। ‘व्यतिरेको विशेषश्चेदुपमानोपमेययोः’ इति॥ ३४॥ तथा कारयन्निति। ‘सहजलज्जाजडदृशः’ (६।२८) इति वक्ष्यमाणरीत्या लज्जयाविष्टायां तस्यां स्वयं तथा कारयन्नित्यर्थः। पूर्वोक्तश्रमवशाच्च स्वयमेव तथा कारयतीत्युक्तम्॥ विनिश्चेचेतुमिति। अत्रत्यसुखदुःखशब्दौ प्रियाप्रियमित्रशत्रुसंश्लेषादिजन्यमानससुखदुःखपरौ; शारीरसुखदुःखमदविषविसर्पयोः पृथग्ग्रहणात्। सुखदुःखयोः शारीरमानसत्वविभागस्तु ‘कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम्’ इति सूत्रतद्व्याख्यानयोः स्पष्टः। अत्र सीते इति संबुद्ध्यन्तमध्याहार्यम्; तवेत्युक्तेः। हे सीते ! तव स्पर्शे स्पर्शे त्वदीययावत्स्पर्शेषु परिमूढः स्वस्वविषयग्रहणासमर्थ इन्द्रियगणश्चक्षुरादीन्द्रियसमूहः येन स तथोक्तो मम विकार आन्तरावस्थाविशेषः। चैतन्यमन्तःकरणावच्छिन्नचैतन्यम्। जीवचैतन्यमिति यावत्। अद्वैतमतप्रक्रिययेदमुक्तम्। मदन्तरात्मानमिति फलितोऽर्थः। भ्रमयति प्रतिकूलतया भासमानः सन् क्षुब्धं करोति संमीलयति च अनुकूलतया भासमानः सन् उल्लासयति च। अयमित्यध्याहार्यम्। अयं विकारः सुखमिति विनिश्चेतुं न शक्यः, दुःखमित्ति वा विनिश्चेतुं न शक्यः। प्रमोहो वा प्रकृष्टमूर्च्छात्वेन संशयितुं योग्यो निद्रा वा सुषुप्तित्वेन संशयितुं योग्यो विषविसर्पः किमु। विषेण विसृप्यत इति विग्रहः। कर्मणि घञ्। विषप्रसरणजन्यत्वेन संशयितुं योग्य इत्यर्थः। मदः किमु। मदत्वेन संशयितुं योग्य इत्यर्थः। अस्य विकारस्य स्पर्शजन्यत्वात्परिमूढेन्द्रियगणत्वादन्तरात्मक्षोभकरत्वाच्च तथाविधशात्रवादि–
—————————————————————————————————————

सीता— धीरप्पसादा तुम्हेत्ति एत्थ दाणि अच्चरिअं। [धीरप्रसादा यूयमित्यत्रेदानीमाश्चर्यम्।]

रामः

म्लानस्य जीवकुसुमस्य विकासनानि
संतर्पणानि सकलेन्द्रियमोहनानि।
एतानि तेसुवचनानि सरोरुहाक्षि105 !
कर्णामृतानि मनसश्च रसायनानि॥३६॥

———————————————————————————————————————

स्पर्शजन्यमानसदुःखत्वेन संशययोग्यत्वम्। एवं स्पर्शजन्यत्वात्परिमूढेन्द्रियगणत्वादन्तरात्मोल्लासकारित्वाच्च तथाविधमित्रादिस्पर्शजन्यमानससुखत्वेन संशयार्हत्वं भवति च मित्रादिस्पर्शजन्यसुखं परिमूढेन्द्रियगणम्। ‘नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि’ (का.प्र.४।६१) इत्युक्तेः। एवं स्पर्शजन्यत्वात्परिमूढेन्द्रियगणत्वादन्तरात्मक्षोभकरत्वाच्चास्य दण्डाद्यभिघातजन्यपरिमूढेन्द्रियगणत्वान्तरात्मक्षोभकरत्वविशिष्टसूक्ष्मप्राणसंचाररूपमूर्च्छात्वेन संभवनार्हत्वम्। एवमस्य विकारस्य स्पर्शजन्यत्वात्परिमूढेन्द्रियगणत्वादन्तरात्मानुकूलत्वाच्च मृदुतरतल्पादिस्पर्शजन्यत्वनिवृत्तेन्द्रियव्यापारत्वपरमात्मसुपरिष्वङ्गप्रयुक्तसुखरूपत्वविशिष्टनिद्रात्वेन संशयार्हत्वम्। एवमस्य स्पर्शजन्यत्वात्परिमूढेन्द्रियगणत्वादन्तरात्मप्रतिकूलत्वाच्च तथाविधविषस्पर्शजन्यविकारत्वेन संशयार्हत्वम्। एवमस्य स्पर्शजन्यत्वात्परिमूढेन्द्रियगणत्वादन्तरात्मानुकूलत्वात्तथाविधमदत्वेन संशययोग्यत्वम्। मदस्य क्षीरसुराद्याप्यायकवस्त्वायत्तत्वात्स्पर्शजन्यत्वं परिमूढेन्द्रियगणत्वमन्तरात्मानुकूलत्वं च। तदुक्तम्—‘मदिरादिकृतो मोहहर्षव्यतिकरो मदः’ इति। सर्वमिदं सीताया भोग्यताप्रकर्षे तात्पर्यमाविष्करोति। ‘हि’शब्दः प्रसिद्धौ। तथा च मदीयोऽयं विकारस्त्वयापि ज्ञायत इति व्यज्यते॥३५॥ म्लानस्येति। म्लानस्य हर्षक्षयवतो जीवकुसुमस्य जीव एव कुसुमं तस्य विकासनानि विकासजनकानि हर्षोत्पादकानि संतर्पणानि तृप्तिजनकानि भोग्यान्तरापेक्षानुत्पादकानि, अत एव सकलानामिन्द्रियाणां मोहनानि स्वव्यापारविरोधीनि कर्णयोरभृतानि। यथा ‘अमृतस्य। दृष्ट्वा तृप्यन्ति’ इति दर्शनमात्रेण तृप्तिजनकत्वम्, तद्वद्वेषामर्थपर्यालोचनं विनापि रमणीयत्वमिति भावः। मनसश्च रसायनानि। रसायनं नामानेकरसवस्तुसमुदायात्मकरसवस्तुविशेषो बाहटे प्रसिद्धः। बहुवचनेन अनेकरसायनसदृशानीति व्यज्यते। किंचानेकरसायनवस्त्वास्वादनेन सर्वेषां रसानां तत्रोपलम्भः, एवं शब्दान्तरश्रवणजन्यसुखानामेतद्वचनैर्लाभ इति व्यज्यते। अपि च यथा रसायनस्य रसमयत्वाद्गोग्यत्वम्, औषधात्मकत्वाद्रोगनिवर्तकत्वं च, एवमेतेषामपि प्रियत्वं हितत्वं चेति व्यज्जयितुं रसायनत्वोक्तिः। सरोरुहाक्षि, आयामत्वविपुलत्वाभ्यां सादृश्यमभिप्रेतम्। एवं च स्वस्याअपि स्ववचनवैलक्षण्यप्रयुक्तविस्मयातिशयाच्चक्षुषोरायतत्व–———————————————————————————————————————

सीता— पिअंवद ! एहि, संविसम्ह106। [प्रियंवद ! एहि, संविशावः।]

रामः— अपि107 संदेष्टव्यम्।

आ विवाहसमयाद्गृहे वने
शैशवे तदनु यौवने पुनः।
स्वापहेतुरनुपाश्रितोऽन्यया
रामबाहुरुपधानमेष ते॥३७॥

सीता— (निद्रां नाटयन्ती।) अत्थि एदं, अज्जउत्त ! अत्थि एदं। (इति स्वपिति।) [अस्त्येतत्, आर्यपुत्र ! अस्त्येतत्।]

रामः— कथं प्रियवचनेनैव मे वक्षसि प्रसुप्ता108 ? (निर्वर्ण्य,)

इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो–
रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः॥३८॥

——————————————————————————————————————

विपुलत्वद्विगुणीभाव इति भावः। ते सुवचनानि स्वकीयवचनवैलक्षण्यातिशयतः सीतायाः स्ववचनेषु स्वीयतासंशयः स्यादिति ते इत्युक्तिः। सुशब्देन सीतावचनेष्वपि एतादृशं सौभाग्यं नानुभूतपूर्वमिति व्यज्यते, ‘क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः’ इति न्यायेन न दोषः॥३६॥ प्रियंवद प्रियवादिन् ! ‘प्रियवशे वदः खच्’ (पा.३।२।३८)। संविशावः। ‘स्वप्नः संवेश इत्यपि’ इत्यमरः॥ अपि संदेष्टव्यम्। संदेश उक्तिः। भ्रुकुटीभङ्गेन सूचयितव्ये किमर्थमुक्तिप्रयास इति भावः। यद्वा,—यथा शयनदशायामुपधानादीनामुपकरणत्वं तद्वन्ममापीति विधिर्वा किमर्थ इति भावः॥ उपकरणत्वमेवाह—आ विवाहेति। आ विवाहसमयात् विवाहसमयादारभ्येत्यर्थः। गृहे शैशवे यौवने च स्वापहेतुः। वने पुनर्यौवने स्वापहेतुरित्यन्वयः, न तु यथासंख्यम्। अन्यया अनुपाश्रितः, स्वापहेतुतयाऽनुपाश्रित इत्यर्थः। अतः ‘जुष्टं परमनारीणां भुजैः परमसुन्दरैः’ इत्यनेन न विरोधः; चेटीविधया संवाहने तात्पर्यात्, ‘न रामः परदारान्वै चक्षुर्भ्यामपि पश्यति’ इत्युक्तेः। मद्बाहुरुपधानमित्यनुक्त्वा रामबाहुरित्युक्तिः प्रसिद्धिद्योतनार्था। ‘उपधाय भुजंतस्य’ इत्यादिवचनात्॥३७॥ इयमिति। इयं गेहे लक्ष्मीः लक्ष्मीसदृशी। इयममृतवर्तिर्नयनयोः। तथा नयनानन्दकरीत्यर्थः। किमेतत्पर्यन्तानुधावनवचनेन ? एतदीयमेव यत्किंचिन्मम पर्याप्तमित्याह—असावस्या इति। वपुषि प्रसिद्धचन्दनव्यावृत्तिः। अस्याः किं न प्रेयः एतत्संबन्धि किं न प्रियम् ? सर्वमपि प्रियमेवेत्यर्थः। अत्र सीतापेक्षया तत्संबन्ध्येव प्रियमिति रामचन्द्रमतमिति कवेराशयोऽव–
——————————————————————————————————————

(प्रविश्य।)

प्रतीहारी— देव ! उवट्ठिदो। [देव ! उपस्थितः।]

रामः— अयि109, कः ?

प्रतीहारी— आसण्णपरिआरओ देवस्स दुम्मुहो। [आसन्नपरिचारको देवस्य दुर्मुखः।]

रामः—(स्वगतम्।) शुद्धान्तचारी दुर्मुखः, स मया पौरजानपदेष्वपसर्पः प्रहितः। (प्रकाशम्।) आगच्छतु।

(प्रतीहारी निष्कान्ता।)
(प्रविश्य।)

दुर्मुखः— (स्वगतम्।) हा, कहं दाणिं देवीं अंतरेण ईरिसं अचिंतणिज्जं जणाववादं देवस्स कहइस्सं ? अहवा णिओओ खु मह मंदभाअहेअस्स एसो। [हा, कथमिदानीं देवीमन्तरेणेदृशमचिन्तनीयं जनापवादं देवस्य कथयिष्यामि ? अथवा नियोगः खलु मम मन्दभागधेयस्यैषः।]

सीता— (उत्स्वप्नायते।) अज्जउत्त ! कहिं सि ? [आर्यपुत्र ! कुत्रासि ?]

रामः— सेयमेव रणरणकदायिनी चित्रदर्शनाद्विरहभावना देव्याः स्वप्नोद्योगं110 करोति। (सस्नेहमङ्गमस्याः परामृशन्।)

—————————————————————————————————————

गम्यते; उपसंहारे किमस्या न प्रेय इत्युक्तत्वात्। इतरथा कथमेषेत्येव न वदेत् ? भर्तृमीढश्च—‘मनसिजरुजः सा वा दिव्या ममालमपोहितुं रहसि लघयेदारब्धा वा तदाश्रयिणी कथा’ इत्याह। अत्र रामबाहुरुपधानमिति सीतां प्रति स्वबाहोरुपधानत्वमुक्त्वा ‘अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः’ इत्युक्तं रामेण। तदिदं वैलक्षण्यातिशयकार्यम्। अत्र ‘इयं गेहे लक्ष्मीः’ इत्यादिभिरेकस्या एव सीताया गृहविषये दीपकलिकाकार्यकारित्वं चक्षुर्विषये ज्योत्स्नादिकारित्वं कण्ठे हारकार्यकारित्वं च व्यज्यते। रूपकमुल्लेखो वा अलंकारः॥३८॥ आसन्नपरिचारको दुर्मुखस्तन्नामा॥ अपसर्पोगूढचरः। प्रहितः प्रयुक्तः, न तु वास्तव इत्यर्थः॥ रणरणकदायिनी विक्षोभकारिणी। विरहभावना वियोगध्यानम्। चित्रदर्शनादिति स्मरणहेतुरुक्तः। स्वप्ने निद्रायामुद्योगं वचनादिप्रयत्नम्। ‘उद्वेगम्’ इति पाठे भयसंभ्रममित्यर्थः। अङ्गमस्याः परामृशन्। एतेनोपरितनश्लोकस्यापत्यविषयत्वकल्पना परास्ता; तथा सति उदरमस्याः परामृशन्निति वक्तव्यतापत्तेः। न च ‘मयैवादौ ज्ञातः करतलपरामर्शकलया द्विधा गर्भग्रन्थिः’ (६।२८) इति वक्ष्यमाणानुवादस्य पुरोवादसापेक्षतया अत्रत्याङ्गशब्दस्य तद्विशालोदरपरत्वं कवेः संमतमिति
—————————————————————————————————————

अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु य–
द्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः।
कालेना वरणात्ययात्परिणते यत्प्रेमसारे111 स्थितं
भद्रं तस्य112 सुमानुषस्य कथमप्येकं हि तत्प्रार्थ्यते॥३९॥

दुर्मुखः— (उपसृत्य।) जेदु देवो। [जयतु देवः।]

रामः— ब्रूहि यदुपलब्धम्।

दुर्मुखः— उवट्टुवंति देवं पौरजानपदा जहा— विसुमराविदा अम्हे महाराअं दसरहं रामदेवेणेत्ति। [उपस्तुवन्ति देवं पौरजानपदा यथा— विस्मारिता वयं महाराजं दशरथं रामदेवेनेति।]

रामः— अर्थवाद एवैषः। दोषं तु मे कथंचि113त्कथय येन स प्रतिविधीयते।

——————————————————————————————————————

वाच्यम्। तत्र ‘सहजलज्जाजडदृशः’ (६।२८) इति जागरप्रतीतेः, अत्र च सुषुप्तिप्रतीतेस्तदयोगादिति ध्येयम्। अद्वैतमिति। यत्सर्वास्ववस्थासु सुखदुःखयोरद्वैतमनुगतम्। जाग्रत्स्वप्नसुषुप्त्यादिसर्वावस्थासु ये सुखदुःखे तयोः संबन्धि यदद्वैतमभिन्नत्वं तदनुगतम्। तद्विशिष्टमित्यर्थः। सर्वास्ववस्थास्वभिन्नसुखदुःखापादकमित्यर्थः। द्वयोर्भावो द्वैतम्। इदमेवाद्वैतं चक्रवाकमिथुनवर्णनव्यपदेशेन नवेन कविना व्याख्यातम् — ‘भुक्तं तद्विमृणालयोर्मिथुनयोः पीतं द्विराजीवयोः सुप्तं तद्विफलाशयोरविरलं संश्लिष्टयोर्यद्यपि। पर्यायात्समयद्वयेन विरुतं भिन्नप्रयत्नेन वा मूर्तिद्वैतवशान्मतिर्मिथुनमित्यद्वैतमेवानयोः॥ इति। पर्यायादिति पर्यायशब्दमन्तर्भाव्यः न विरुद्धमिति ल्यब्लोपे पञ्चमी व्याख्येया। नातः ‘समयद्वय’ इत्यनेन पौनरुक्त्यम्। यत्र दाम्पत्ये, हृदयस्य, गुरुकुलशिष्टमनस इत्यर्थः। विश्रामः श्रमापनयनकरसुखविशेषानुभवः। अत्र — ‘विश्राम’ इत्यपाणिनीयम्; नोदात्तेति वृद्धिप्रतिषेधात्’ इति वैयाकरणाः। श्रीहर्षस्तु ‘विश्रामो विश्रमश्च’ इति द्विरूपकोश उक्तवान्। यस्मिन्दाम्पत्ये रसः स्पृहारूपो जरसा जरया अहार्यो हर्तुमशक्यः। यद्वा, — यस्मिन्सति रस आह्लादो जरसाऽप्यहार्यः; आ वरणात्ययात्। पदद्वयमिदम्। वरणं विवाहः, अत्ययः शरीरसंपातः, वरणं चात्ययश्चेति समाहारद्वन्द्वः। आ वरणात्ययात्। वरणात्ययमभिव्याप्येत्यर्थः। वरणमारभ्य शरीरपातपर्यन्तं वर्तमानेन कालेन परिणते उपचयं प्राप्ते प्रेमसारे उत्कृष्टप्रेम्णि स्थितं स्थितिमत्। ‘मालत्याः प्रथमावलोकदिवसादारभ्य विस्तारिभिर्भूयः स्नेहविचेष्टितैर्मृगदृशो नीतस्य कोटिं पराम्’। ‘परां कोटिं स्नेहो परिचयविकासादधिगते’ इत्यादि समानार्थकं, ‘कालेनावरणात्ययात्परिणते यत्प्रेमसारे स्थितम्’ इति वाक्यं वेदितव्यम्। केचित्तु आवरणात्ययात्प्रतिबन्धकनिवृत्तेरिति व्याचक्षते। प्रेम्ण उत्कृष्टत्वं च परकीयावेश्योपप-
——————————————————————————————————————

दुर्मुखः— (सास्रम्।) सुणादु महाराओ। (कर्णे) एव्वं विअ। [शृणोतु महाराजः। एवमिव।]

रामः— अहह, अतितीव्रोऽयं114 वाग्वज्रः। (इति मूर्च्छति।)

दुर्मुखः— आस्ससदु देवो। [आश्वसितु देवः।]

रामः— (आश्वस्य।)

हा हा धिक्परगृहवासदूषणं य–
द्वैदेह्याः प्रशमितमद्भुतैरुपायैः।
एतत्तत्पुनरपि दैवदुर्विपाका–
दालर्कं विषमिव सर्वतः प्रसक्तम्115॥४०॥

तत्किमद्य मन्दभाग्यः करोमि ? (विमृश्य, सकरुणम्।) अथवा किमेतत् ?।

सतां केनापि कार्येण लोकस्याराधनं परम्।
तत्प्रतीतं116 हि तातेन मां च प्राणांश्च मुञ्चता॥४१॥

———————————————————————————————————————

त्याद्यविषयत्वम्। तस्य सुमानुषस्य दाम्पत्यस्य। ‘सुमानुषं तु दाम्पत्यम्’ इत्यभिधानादिति प्राञ्च आहुः। अत एवैतद्विकृतिभूतदाम्पत्यार्थकम्, ‘अनिच्छिति’शब्दस्य द्रविडभाषाप्रसिद्धिरपि। अन्ये तु—‘प्रकरणानुगुण्याद्विशेषणस्वारस्यात्तच्छब्देन दाम्पत्ये लब्धे सुमानुषस्येति तद्विशेषणतया योजनीयम्। ‘शोभनो मानुषो येन’ इत्याहुः। केचित्तु—‘सुमानुषस्य सौजन्यस्य’ इत्याहुः। कथमपि सर्वप्रकारेणापि तत्प्रसिद्धमेकं मुख्यं भद्रं क्षेमं प्रार्थ्यते प्रकर्षेण याच्यते, अभिलष्यते वा। हि यस्मात् सुमानुषस्य भद्रमेकं प्रार्थ्यते तस्मात् सैव रणरणकदायिनीत्यादिपूर्वेणान्वयः। अनर्थशङ्कीनि बन्धुमित्रहृदयानीति न्यायेनेति भावः। ‘प्रेमसारे स्थितम्’ इत्यनेन मधुकटाहनिक्षिप्तरसालफलसादृश्यं व्यज्यते। अत्र फलविषयकौत्सुक्यप्रतिपादनादारम्भ उक्तः। तदुक्तम् —‘औत्सुक्यमात्रमारम्भः फललाभाय भूयसे’ इति॥३९॥ कर्णे एवमिवेति। ‘अर्थस्त्वेकेन विज्ञेयः पश्चाज्ज्ञात्वा प्रसङ्गतः। कर्णे एवमिवेत्युक्त्वा काव्यबन्धे प्रयुज्यते॥’ इत्युक्तत्वात्॥ हा हेति। परगृहवासएव दूषणम्, नान्यदिति भावः। आलर्कं श्वसंबन्धि प्रसक्तम्। पाठान्तरे ‘प्रसृप्तम्’ इति वा। एकत्र स्पर्शः, कालान्तरेण सर्वतः प्रसरणमिति भावः॥४०॥ मन्दभाग्योऽल्पभाग्यः। सतामिति। केनापि कार्येण। ‘स्नेहं दयां च सौख्यं च यदि वा जानकीमपि’ (१।१२) इत्युक्तरीत्या लोकस्याराधनं लोकस्य प्रीतिजनकव्यापारः। सतां धर्मशास्त्रस्मृत्यादीनां परं धर्मः श्रेष्ठत्वेनाभिमतः। तथा चापस्तम्बः —‘यत्त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मः’ इति। न चेदमननुष्ठानपराहतमित्याह—तत्प्रतीतमिति। ‘अवश्यं पितुराचारः’ इति स्फोरणार्थमिदम्। मां च मुख्यतममत्परित्यागानुषङ्गिकः तातस्य स्वप्राणत्याग इत्याह—प्राणांश्चेति। मुञ्चतेति हेतौ शतृ। प्राणत्यागहेतुकं पूरणमित्यर्थः॥४१॥
———————————————————————————————————————

संप्रत्येव च भगवता वसिष्ठेन संदिष्टम्। अपि च,—

यत्सावित्रैर्दीपितं भूमिपालै–
र्लोकश्रेष्ठैः साधु चित्रं117 चरित्रम्।
मत्संबन्धात्कश्मला किंवदन्ती
स्याच्चेदस्मिन्हन्त धिङ्मामधन्यम्॥४२॥

हा देवि देवयजनसंभवे ! हा स्वजन्मानुग्रहपवित्रितवसुंधरे ! हा मु118निजनकनन्दिनि ! हा पावकवसिष्ठारुन्धतीप्रशस्तशीलशालिनि ! हा राममयजीविते ! हा महारण्यवासप्रियसखि ! हा तातप्रिये ! हा स्तोकवादिनि ! कथमेवंविधायास्तवायमीदृशः परिणामः ?

त्वया जगन्ति पुण्यानि त्वय्यपुण्या जनोक्तयः।
नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे॥४३॥

——————————————————————————————————————

संप्रत्येव संदिष्टमिति। ‘युक्तः प्रजानामनुरञ्जनेऽस्याः’ इति संदिष्टमिति भावः। यदिति। सावित्रैः सवितुः पुत्रैः। ‘तस्यापत्यम्’ (पा. ४।१।९२) इत्यण्प्रत्ययः। अनेनामिजन उक्तः। ‘भूमिपालैः’ इत्यनेन क्षत्रधर्मभूतभूमिपालनात्मकवृत्तमुक्तम्। परिशेषाल्लोकश्रेष्ठैरित्यनेन विद्योक्ता। एवमभिजनविद्यावृत्तैः सर्वाभ्यर्हमनुप्रभृतिराजमिर्दीपितं प्रकाशितं स्वयमनुष्ठितमनुष्ठापितं च चित्रमाश्चर्यभूतम्। कश्मला हेया। किंवदन्ती लोकवादः॥४२॥ स्वतो निर्दोषेत्याह—हा देवि !। उत्पत्तिवंशदोषोऽपि नास्तीत्याह—देवयजनसंभवे ! । स्वोत्पत्तिभूमेरपि शुद्धिजननीत्याह— स्वजन्मेति। संपर्कवशदोषोऽपि नास्तीत्याह— मुनिजनकेति। ‘नन्दिनी’त्यनेन औरसकन्यापेक्षयामिमतेति व्यज्यते। गुरुदेवतामिमतेत्याह—पावकवसिष्ठेति। शीलेन वृत्तेन शाड्यते श्लाघ्यत इति शीलशालिनी। ‘शाडृश्लाघायाम्’ इत्यस्माद्बाहुलकात्कर्मणि णिनिः। डलयोरेकत्वम्। तद्विवृणोति—राममयेति। अनेन रावणस्मरणमपि। दूरोत्सारितमिति व्यज्यते। रामस्य रावणस्मरणगन्धासहत्वान्न त्विदमनुमेयम्। किं त्वनुष्ठानेन प्रकटितमित्याह—महारण्येति। प्रियत्वविशेषणम्। अनेन निर्बन्धलोकवादादिव्यावृत्तिः। ‘सखी’त्यनेन दण्डकारण्यगमने पत्नीत्वप्रयुक्तप्राधान्यं नाङ्गीकृतम्। किं तु पुरुषसिंहरामसमप्रधानत्वमेवेति। ‘समानं ख्यायत इति सखा’ इति व्युत्पत्तेरुपलक्षणमिदं रामापेक्षया प्राधान्यस्यापि। ‘अग्रतस्ते गमिष्यामि मृद्गन्ती कुशकण्टकान्’ (अयोध्या.२७।७) इत्युक्तत्वात्। तातस्य प्रिये अभिमते। ‘वधूचतुष्केऽपि’ (४।१६) इत्यादिवक्ष्यमाणरीत्येति भावः। स्तोकं मितं वदन्तीत्यर्थः। ‘सत्याय मितभाषिणाम्’ (रघुवंश१।७) इत्युक्तरीत्या निमित्तलेशाभावेऽपि कथमयं परिणाम इति भावः। त्वयेति। त्वया जगन्ति पुण्यानि पुण्यवन्ति। मत्वर्थीयाच्प्रत्ययः। ‘पापानां वा शुभानां वा
——————————————————————————————————————

(दुर्मुखं प्रति।) दुर्मुख ! ब्रूहि लक्ष्मण— एष नूतनो राजा रामः समाज्ञापयति। (कर्णे) एवमेवम्। इति।

दुर्मुखः— हा ! कहं अग्गिपरिसुद्धाए गब्भट्ठिदपवित्तसंताणाए देवीए दुज्जणवअणादो एदं ववसिदं देवेण ? [हा ! कथमग्निपरिशुद्धाया गर्भस्थितपवित्रसंतानाया देव्या दुर्जनवचनादिदं व्यवसितं देवेन ?]

रामः— शान्तं पापम्, शान्तं पापम्। दुर्जना नाम पौरजानपदाः।

इक्ष्वाकुवंशोऽभिमतः प्रजानां
जातं च दैवाद्वचनीयबीजम्।
यच्चाद्भुतं कर्म विशुद्धिकाले
प्रत्येतु कस्तद्यदि119 दूरवृत्तम्॥४४॥

——————————————————————————————————————

वधार्हाणां प्लवङ्गम !। कार्यं करुणमार्येण न कश्चिन्नापराध्यति॥’ इति त्वन्मतानुसारेण पापपुण्ययोरनुग्रहतौल्यादिति भावः। जनानामुपजीव्यविरोध इत्याह—त्वय्यपुण्या जनोक्तयः। अत्र ‘त्वया जगन्ति पुण्यानि’इति भुवनानां पुण्यत्वमुक्त्वा ‘जनोक्तय’ इति ‘जन’शब्दोपादानान्नैवं लोकान्तरस्थानामुपजीव्यविरोध इति व्यज्यते; ‘उक्ति’पदेन वस्तुस्थित्यभावाद्विषयप्रभावाच्च। इत्थं मनसा संभावनमपि नोचितम्। सुतरां बहिस्तदुक्तिः सापि जातेति व्यज्यते। जनानामुक्तय इति विग्रहाद्यः कश्चिदित्थं प्रलपतीत्यपि न किंतु बहुजना एवं वदन्तीति व्यज्यते। षष्ठीबहुवचनेन विग्रहे प्रमाणं तु—रे रे पौरजानपदाः ! ‘न खलु भवतां देव्याः स्थानं गृहेऽभिमतं ततः’ (३।३२) इत्यादिवक्ष्यमाणरामवचनम्। तेऽपि कदाचिदित्युक्त्या विरमन्तीत्यपि न बहुकृत्वो वदन्तीति बहुवचनार्थः। ‘अपुण्या’ इति व्यतिरेकोक्त्या कश्चिदपि कदाचिदपि न यथार्थं प्रत्येति, नापि वक्तीति व्यज्यते। नाथवन्त इति। अहं लोकानामधीशः, मम त्वं नाथा। तथा च— ‘यस्यैते तस्य तद्धनम्’ इति न्यायेन लोकानामपि त्वमेव नायिकेत्याशयः। यद्वा,—त्वं मय्यात्मतयावस्थिता, अहं च त्वयि तथावस्थितः। आह च हनूमान्— ‘अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्। तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति॥’ इति। तथा च लौकिकैर्मयि प्रतिपद्यमानं लोकनाथत्वं त्वदीयमित्यर्थ इत्याद्यूहनीयम्। त्वमनाथेति। त्वत्सत्तामात्रं मम लोकनाथत्वे प्रयोजनम्, अहं तु त्वदृते व्यर्थ इति भावः। विपत्स्यसे विपन्ना भविष्यसि। पूर्ववियोगोऽपि रावणवधेप्सितत्वादसत्कल्प इति न तस्मिंस्त्वं विपन्ना, अस्य तु वियोगस्य ‘सौमित्रेरपि पत्रिणामविषये तत्र प्रिये क्वासि मे’ (३।४५) इति वक्ष्यमाणरीत्या पूर्वोपायाविषयत्वात् इतः परमेव विपन्ना भविष्यसीति लृटा व्यज्यते। पूर्वार्धे विभावनाविशेषोऽलंकारः; ‘विरुद्धात्कार्यसंपत्तिर्दृष्टा काचिद्विभावना’ इति लक्षणात्॥४३॥ इक्ष्वाकुवंश इति। विशुद्धिकाले
——————————————————————————————————————

तद्गच्छ।

दुर्मुखः— हा देवि120 ! (इति निष्क्रान्तः।)

रामः— हा कष्टम्, अतिबीभत्सकर्मा नृशंसोऽस्मि संवृतः।

शैशवात्प्रभृति पोषितां प्रियां
सौहृदादपृथगाश्रयामिमाम्121
छद्मना परिददामि मृत्यवे
सौनिके122 गृहशकुन्तिकामिव॥४५॥

तत्किमस्पृश्यः123 पातकी देवीं दूषयामि। (इति सीतायाः शिरः समुन्नमय्य बाहुमाकृष्य।)

अपूर्वकर्मचण्डालमयि मुग्धे ! विमुञ्च माम्।
श्रिताऽसि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम्॥४६॥

——————————————————————————————————————

यदद्भुतं कर्म तद्यदि तदस्तीति यद्युच्यते तद्दूरवृत्तं कः प्रत्येति ? न कोऽपीत्यर्थः॥४४॥ हा कष्टमिति। नृशंसः क्रूरः। अतिबीभत्सकर्मेति प्रसिद्धनृशंसाद्व्यावृत्तिः। शैशवादिति। शैशवात्प्रभृति पोषितां बाल्यमारभ्य वर्धिताम्। अनेन ‘विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्’ इति न्यायः स्फोर्यते। ननु स्वाप्रियत्वे त्याज्यत्वमित्यत्राह— प्रियामिति। ननु तथापि दोषप्रसक्तौ का गतिरित्यत्राह— अपृथगाश्रयामिति। पृथगाश्रयरहितामित्यर्थः। ननु तथापि मनोवृत्तिरन्यत्रेत्यत आह—सौहृदादिति। इमामितीदंपदेन तात्कालिकान्तर्वत्नी त्वनिद्रावत्त्वादिकं परामृश्यते। छद्मना व्याजेन। सीताभिलषितनवप्रस्थापनव्याजेनेत्यर्थः। मृत्यवे परिददामि। देयसाकल्याद्दानसाकल्यम्। तदिमाम्। गर्भस्थशिशुद्वयं चेत्यर्थः। सौनिके जीवहिंसाजीविनि। ‘कर्मणा यमभिप्रैति स संप्रदानम्’ (पा.१।४।३२) इति चतुर्थ्यर्थे सप्तमी। प्रथमान्तपाठोऽप्यस्ति। गृहशकुन्तिकामित्यत्र ‘अनुकम्पायाम्’ (पा.५।३।७६) इति कन्॥४५॥ अपूर्वेति। अत्र ‘मुग्धे विमुञ्च माम्’ इति सिद्धसाध्यसमभिव्याहारन्यायेन अद्यतनमोचनप्रसञ्जकवतीत्यर्थो लभ्यते। मौग्ध्यस्य मोचनप्रसञ्जकत्वं च तदापादकसंपर्कापादनद्वारा। स च संबन्धो रावणप्रत्याख्यानपूर्वको लङ्कादेशीय एव। तथा हि—भवितव्यः परगृहवासो जातः, तथापि नैतावता ममात्याहितं प्रसज्जति। रावणो न मां बलात्कर्तुमर्हति। ततश्च सदभिमततदसंपादनेनैव कालयापनं सुकरम्। प्रत्याशया च स मां न हनिष्यति। रामस्तु इदानीं मां निर्दोषां परीक्ष्यानुमन्यमानोऽपि कदाचित्कस्यचिद्वचनमनुसरन् लोकाराधनश्रद्धया मामरण्ये परित्यजेत् इत्यादिको विचारः सीतायां स्यात्। तदा नैवंविधदुःखानुभवप्रसक्तिरिति तदिदं मौग्ध्यस्याद्यतनविप–
——————————————————————————————————————

(उत्थाय।) हन्त हन्त, संप्रति विपर्यस्तो जीवलोकः। अद्यावसितं जीवितप्रयोजनं रामस्य। शून्यमधुना जीर्णारण्यं जगत्। असारः संसारः। काष्ठप्रायं शरीरम्। अशरणोऽस्मि। किं करोमि ? का गतिः ? अथवा,—

———————————————————————————————————————

त्प्रयोजकत्वमित्याशयः। सर्वमिदं निर्वेदातिशयद्योतकम्। अपूर्वश्चासौ कर्मचण्डालश्चेति विग्रहः। चण्डालो हि क्रूरतमः, कर्मचण्डालस्तु सुतराम्। यस्तत्रापूर्वो विलक्षणः अहं कर्मचण्डालो रावणादपि क्रूर इति भावः। स हि रावणो न सीतायाः प्राणहानिकरोऽभवत्। अहं तु तत्कारी भवामीति पूर्वोक्तमौढ्यहेतुकारमसंश्रयणमेवाह—श्रिताऽसीति। द्रुमत्वोक्तिर्भूयस्त्वाभिप्रायात्। दुर्विपाकत्ववचनमत्यन्तक्रौर्यातिशयप्रतिपत्त्यर्थम्। ‘चन्दनभ्रान्त्या’ इत्येतद्दुःखभूयस्त्वावर्जनीयत्वख्यापनार्थम्। अन्यभ्रान्तौ प्रवृत्तिमान्द्यादिकं स्यात्। असीत्यनेनाद्यापि न मुञ्चसीत्यपि व्यज्यते। श्रितेति कर्तृवाचकनिष्ठान्तम्। तेन श्रयणस्य लङ्कादेशीयत्वलाभः। अयमाशयः—लोके हि फलवज्जातीयानामपि वृक्षाणामफलत्वे छेद एवोचितः। अनर्थावहत्वे तु सुतराम्। विषवृक्षस्य तु छेदे का प्रतिहतिः ? तस्यापि दुर्विपाकत्वे सर्वथा छेद्यत्वमेव। तथापि ‘विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्’ इति न्यायेन यदि छेदप्रतिषेधः, तर्हितस्य परित्यागे का प्रतिहतिः ? अत्र क्रूररामकर्मकसंश्रयणप्रतिबिम्बस्य सीताप्रस्तुतकतृकदुर्विपाकविषद्रुमाश्रयणस्य वर्णनाल्ललितालंकारः। ‘प्रस्तुते वर्ण्यवाक्यार्थप्रतिबिम्बस्य वर्णनम्। ललितम्’ इति लक्षणात्॥४६॥ हन्तेति दुःखे। संप्रति सीताविरहे। विपर्यस्तोऽन्यथाभूतः। साहित्ये ‘यस्त्वया सह स स्वर्गोनिरयो यस्त्वया विना’ इति रामायणोक्तरीत्या जीवलोकस्य स्वर्गत्वम्। वियोगे तु नरकत्वमेवेति। स्वर्गान्यस्य नरकस्यैव स्वारसिकत्वात्प्राणिनां नरकप्राप्तावपि नात्मवस्तुनाशः। मम तु सीतामयजीवितत्वात्तन्नाशे जीवितनाश इति। अद्यावसितमिति समाप्तं जीवितमेव प्रयोजनम्। जीवितमिति वक्ष्यमाणमिहानुसंधेयम्। सीताविरहितजीवितं निष्प्रयोजनमित्यर्थः। यत एवं ततोऽधुना जीर्णारण्यं जगत्। स्वर्गादिकं ह्यात्मनः स्थिरत्वे कालान्तरानुभाव्यं स्यात्। ‘अनादौ संसारे’ इति न्यायात्। आत्मवस्तुनाशे तु स्वानुपभोगात् जीर्णारण्यत्वम्। सीतासाहित्ये हि अरण्यस्यापि पञ्चवट्याः ‘यस्यां ते दिवसाः’ इति रीत्या स्वगृहत्वात् तदयोगे तु स्वगृहस्यापि जीर्णारण्यत्वमित्याशयः। असारः शून्यः। काष्ठप्रायं शरीरम्। ‘ज्योत्स्नेव हिमदीधितेः’ इत्युक्त्या यथा चन्द्रस्य कौमुद्यभावे काष्ठप्रायता तद्वत्स्वस्येति भावः। अद्य पूर्ववत् ‘सुग्रीवं शरणं गतः’, ‘सागरं शरणं गतः’ इत्यादिकस्य नावकाश इत्याह—अशरणोऽस्मीति। पूर्ववत्सेतुबन्धनादि कर्तव्यं नास्तीत्याह—किं करोमीति। अद्य पूर्ववद्रावणवधादिरूपं प्राप्यं नास्तीत्याह—का गतिरिति। गम्यत इति गतिः। यतश्चैवं ततः क्व गच्छामि, किमरण्यं गच्छामि, उत पातालविवरम् ? किंवा मरणं गच्छामि ? इति विकल्पाशयः। न तूक्तः कल्पः सर्वोऽपि न कल्पत इत्याह—अथ वेति। पूर्वोक्तक्षेपकः।
———————————————————————————————————————

दुःखसंवेदनायैव रामे चैतन्यमागतम्124
मर्मोपघातिभिः प्राणैर्वज्रकीलायितं हृदि॥४७॥

हा अम्ब अरुन्धति ! भगवन्तौ वसिष्ठविश्वामित्रौ ! भगवन् पावक ! हा देवि भूतधात्रि ! हा तात जनक ! हा मातः ! हा प्रियसख महाराज सुग्रीव ! सौम्य हनूमन् ! महोपकारिन् लङ्काधिपते विभीषण ! हा सखि त्रिजटे ! परिमुषिताः स्थ परिभूताः स्थ रामहतकेन। अथवा को नाम तेषामहमिदानीमाह्वाने ?

ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना।
मया गृहीतनामानः स्पृश्यन्त इव पाप्मना॥४८॥

योऽहम्,—

विस्रम्भादुरसि निपत्य जातनिद्रा–
मुन्मुच्य प्रियगृहिणीं गृहस्य लक्ष्मीम्।

—————————————————————————————————————

दुःखेति। चैतन्यमात्मा ज्ञप्तिर्वा। दुःखसंवेदनायैव रामे आगतम्। आगतमित्यनेन दुर्मुखवाक्यश्रवणानन्तरं गतं चैतन्यं पुनरागतमिति व्यज्यते। यद्वा,—शक्तिप्रहारादिषु गतं पुनरागतमिति वा। पट्टाभिषेकादिनान्तरीयकसुखं तु असत्कल्पमिति हृदयम्। ‘अर्पितम्’ ‘आहितम्’,इति पाठयोस्तु आदितः प्रभृति ‘राज्याद्भ्रंशो वने वासः सीता नष्टा द्विजो हतः। ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम्॥’ इत्युक्तरीत्या दुःखानुभवायैव चैतन्यसद्भाव इति भावः। स्वर्गिणां चैतन्यं दुःखासंभिन्नसुखानुभवाय। जनानां दुःखामिश्रसुखानुभवाय। मम सुखासंमिन्नदुःखानुभवाय। तस्मात्पातालविवरगमनेऽप्यपरिहार्यं दुःखमिति भावः। तर्हि मरणं यमिष्यामीति कल्पः कल्प्यतामित्याह— मर्मोपघातिभिरिति। मर्म हृदयादिप्रदेशानुपघ्नन्तीति विग्रहः। ‘सुप्यजातौ—’ (पा. ३।२।७८) इति णिनिः। न केवलं दुःखानुभवापादकाः किं तु स्वयमपि दुःखप्रदा इति भावः। वज्रकीलवद्दुरुद्धरतया स्थिरीभूयते। भङ्गानर्हत्वेन वा सादृश्यम्। तथा च मरणमपि दुर्लभमित्यर्थः॥४७॥ हेति। अरुन्धति ! अरुन्धतीकृतसीतापातिव्रत्यानुमोदनं न प्रमाणीकृतमिति भावः। भगवन्ताविति। भवतां ज्ञानशक्तिमपि खला न पश्यन्तीति भावः। पावकेति। तव वचनप्रवेशौ व्यर्थाविति भावः। भूतधात्रि। त्वत्सुतायामनिमित्तदोषवादिनो जनान् कथं बिभर्षीति भावः। सौम्येति। सीतावृत्तान्तकथनजनितानन्दप्रयुक्तमत्कृतालिङ्गनमद्विज्ञातशरीरसौभगभवदीयप्रयासो व्यर्थ इति भावः। परिमुषिताः मुषितद्रव्यकाः। ते हीति। कृतमुपकारं हन्तीति कृतघ्नः। एतत्कृतपूर्वोपकारविस्मरणादिति भावः॥४८॥ विस्रम्भादिति। विस्रम्भादन्तरङ्गत इति
—————————————————————————————————————

आतङ्कस्फुरितकठोरगर्भगुर्वीं
क्रव्याद्भ्यो बलिमिव दारुणः क्षिपामि॥४९॥

(सीतायाः पादौ शिरसि कृत्वा।) अयं पश्चिमस्ते रामशिरसि पादपङ्कजस्पर्शः।

(इति रोदिति।)

(नेपथ्ये।)

अब्रह्मण्यमब्रह्मण्यम्।

रामः— ज्ञायतां भोः, किमेतत् ?।

(पुनर्नेपथ्ये।)

ऋषीणामुग्रतपसां यमुनातीरवासिनाम्।
लवणत्रासितः स्तोमस्त्रातारं त्वामुपस्थितः॥५०॥

रामः— कथमद्यापि राक्षसत्रासः ? तद्यावदस्य दुरात्मनो माधुरस्य कुम्भीनसीकुमारस्योन्मूलनाय शत्रुघ्नं प्रेषयामि। (परिक्रम्य पुनर्निवृत्य।) हा देवि ! कथमेवंविधा गमिष्यसि ? भगवति वसुंधरे ! सुश्लाध्यां दुहितरमवेक्षस्व जानकीम्।

जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम्।
यां125 देवयजने पुण्ये पुण्यशीलामजीजनः॥५१॥

(इति रुदन्निष्क्रान्तः।)

—————————————————————————————————————

ज्ञानादिति भावः। गृहस्य लक्ष्मीं शोभां तदलंकारभूताम्। कठोरगर्भः पूर्णगर्भः। गुर्वीमित्यनेव यमलत्वं सूचयति। क्रव्याद्भ्यो मांसभक्षकेभ्यः। क्रव्यं मांसमदन्ति खादन्तीति विग्रहः। ‘क्रव्ये च’ (पा.३।२।६९) इति विट्॥४९॥ अब्रह्मण्यं ब्राह्मणानामत्याहितम्। ‘अब्रह्मण्यमवध्योक्तौ’ इत्यमरः॥ ऋषीणामिति। लवणो नाम राक्षसस्तेन त्रासितो ऋषीणां स्तोम इत्यन्वयः॥५०॥ कथमित्यादि। निःशेषितराक्षसकुलत्वात्स्वस्येति भावः। यद्वा,— कथमद्य राक्षसत्रासोऽपीत्यन्वयः। न केवलं सीताविश्लेषदुःखप्राप्तिः, किं तु राक्षसभयं चेति समुच्चयार्थः। कथमिति विस्मये। पूर्ववदेवोभयं मिलितमिदमाश्चर्यमिति भावः। दुरात्मनो दुर्बुद्धेः। माधुरस्य मधुरेश्वरस्य। कुम्भीनसी नाम तन्माता। उन्मूलनाय मूलेन सहोत्पाटनायेति यावत्। प्रेषयामि प्रेषयिष्यामि। ‘यावत्पुरानिपातयोर्लट्’ (पा. ३।३।४)। एवंविधा मया वञ्चिता गर्भिणी सती कथं गमिष्यसीति भावः। भगवति सर्वज्ञे ! सुश्लाघ्यां निर्दोषां निरुपप्लवां वा। जनकानामिति। यत्कृत्स्नं गोत्रमङ्गलम्। यदिति विधेयापेक्षया क्लीबम्। अजीजनः। उत्पादितवत्यसीत्यर्थः।
—————————————————————————————————————

सीता—हा सोम्ह अज्जउत्त ! कहिं सि ? (इति सहसोत्थाय।) हद्धी हद्धी, दुस्सिविणरणरण126अविप्पलद्धा अज्जउत्तसुण्णं विअ अत्ताणं पेक्खामि। (विलोक्य।) हद्धी हद्धी, एआइणिं पसुत्तं मं उज्झिअ कहिं गदो णाहो ? होदु, से कुप्पिस्सं जइ तं पेक्खंती अत्तणो पहविस्सं। को एत्थ परिअणो ?। [हा सौम्य आर्यपुत्र ! कुत्रासि ? हा धिक् हा धिक्, दुःस्वप्नरणरणकविप्रलब्धा आर्यपुत्रशून्यमिवात्मानं पश्यामि। हा धिक् हा धिक्, एकाकिनीं प्रसुप्तां मामुज्झित्वा कुत्र गतो नाथः ? भवतु, तस्मै कोपिष्यामि यदि तं प्रेक्षमाणां आत्मनः प्रभविष्यामि। कोऽत्र परिजनः ?]

(प्रविश्य।)

दुर्मुखः— देवि ! कुमारलक्खणो विष्णवेदि—‘सज्जो रहो। तं आरुहदु देवी’ त्ति। [देवि ! कुमारलक्ष्मणो विज्ञापयति —‘सज्जो रथः। तदारोहतु देवी’ इति।]

सीता— इअं आरूढम्हि127। (उत्थाय परिक्रम्य।) फुरइ मे गब्भभारो। सणिअं गच्छम्ह। [इयमारूढास्मि। स्फुरति मे गर्भभारः। शनैर्गच्छामः।]

दुर्मुखः— इदो इदो देवी। [इत इतो देवी।]

सीता— णमो रहुउलदेवदा128णं। [नमो रघुकुलदेवताभ्याम्।]

(इति निष्क्रान्ताः सर्वे।)

इति महाकविश्रीभवभूतिविरचित उत्तररामचरिते प्रथमोऽङ्कः।

——————————————————————————————————————

अत्र बिन्दुर्नाम संध्यङ्गमुक्तम्। दाम्पत्यविशेषविच्छेदहेतुत्वात्पुनरच्छेदकारणत्वाच्च। तदुक्तम्—‘अवान्तरार्थंविच्छेदे बिन्दुरच्छेदकारणम्’ इति॥५१॥ कोऽत्र परिजनः? परिजनस्य मध्ये कोऽत्र संनिहित इत्यर्थः। परिजनस्येति निर्धारणे षष्ट्येकवचनान्तम्। निर्धारणे षष्ठीप्रयोगोऽप्यस्ति॥ सद्यो गमनाय संनद्धः॥ रघुकुलदेवते लक्ष्मीनारायणाविति प्रसिद्धमेव। तन्नमस्कारो यात्राकाले विहितः। ‘आदित्यमण्डले विष्णुं ध्यात्वा यात्रां प्रवर्तयेत्’ इति स्मरणात्॥

दाशरथिवंशजनुषो भूसारजवीरराघवार्थस्य।
उत्तररामचरित्रव्याख्याङ्केष्वादिमः प्रायात्॥

इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतलस्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां प्रथमोऽङ्कः।
——————

——————————————————————————————————————

द्वितीयाङ्कस्य कथावस्तु।

आत्रेयी–वासन्तीप्रवेशेऽङ्कद्वयसमयान्तर्गतमितिवृत्तं विष्कम्भकेऽत्र यथा–रामचन्द्रानुज्ञया लक्ष्मणेनारण्ये त्यक्ता जानकी लव–कुशनामकं यमजं सुतद्वयमजीजनत्। तौ लव–कुशौ तत्रभगवता वाल्मीकिमहर्षिणा स्वाश्रमे धात्रीकर्मतः परिगृह्यपोषितौरक्षितौ च। निर्वृत्तचौलकर्मणोस्तयोस्तिस्रो विद्याश्चतुःषष्टिकलाश्च सम्यङ्निष्पादिताः। रघुनन्दनेन च सीतायाः सुवर्णमयीं प्रतिमां पत्नीत्वेन न्यस्य महाश्वमेधः प्रारब्धः। मेध्याश्वं विसृज्य तद्रक्षणार्थं लक्ष्मणात्मजं चन्द्रकेतुमन्यांश्च योधांस्तर्त्पाश्वतः प्राहिणोत्। अथ च ब्राह्मणेन युवानं पुत्रं मृतमुत्क्षिप्य सोऽपचार उद्घोषितः। तदा तपस्यनधिकारी शम्बूकनामको हि शूद्रस्तपश्चरतीति सहसैवाशरीरिणी वागुदचरत्। तदुपश्रत्य कृपाणपाणी रामः सत्वरं पुष्पकमारुह्य तदन्वेषणाय संचारः समारब्धवान्। दण्डकायां तपश्चरन्तं दण्ड्यं तं समासाद्य तच्छिरश्चिच्छेद। तत्तत्स्थानावलोकनेन स्मारितपूर्वेतिवृत्तं जानकीसमागमं स्नेहखेदादि समनुभवन् रामो महारण्यानि विचचार। तदनन्तरं रामागमने प्रतीक्षमाणं महामुनिमगस्त्यं द्रष्टुं रामचन्द्रो जगाम॥

(नेपथ्ये।)

स्वागतं तपोधनायाः।

(ततः प्रविशत्यध्वगवेषा तापसी।)

तापसी— अये, वनदेवता129फलकुसुमगर्भेण पल्लवार्घ्येण दूरान्मामुपतिष्ठते।

(प्रविश्य।)

वनदेवता— (अर्ध्यं विकीर्य।)

यथेच्छाभोग्यं वो130 वनमिदमयं मे सुदिवसः
सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति।
तरुच्छाया तोयं यदपि तपसां131 योग्यमशनं
फलं वा मूलं वा तदपि न पराधीनमिह वः॥१॥

——————————————————————————————————————

** नेपथ्य** इति। ‘कुशीलवकुटुम्बस्य स्थली नेपथ्यमिष्यते’ इत्युक्ततिरस्करिणीतिरोहितनर्तनभूमिकापरिग्रहौपयिकस्थानविशेष इत्यर्थः॥ वनदेवतेति। पल्लवार्घ्येण पल्लवयुक्तपूजाद्रव्येण दूरात् प्रविष्टा सती उपतिष्ठते पूजयति। देवतात्वारोपादात्मनेपदम्। ‘दूरात्’ इत्यपादाने पञ्चमी। यद्वा,—मामुपतिष्ठते संगता भवति। ‘गङ्गा यमुनामुपतिष्ठते’ इतिवत् उभयत्रापि ‘उपाद्देवपूजा—’(वा. ९१४) इत्यादिना तङ्॥ अर्घ्यं विकीर्यं दत्त्वा। यथेच्छेति। इदम्। मदीयमित्यर्थः। वनं वनमेव न तु स्पृहणीयपुरप्रासादादिकमित्यपरितोषो व्यज्यते। तथापि ‘अविद्यमानं कर्णोऽपि’ इति न्यायेन यथाधिकारं सभाजयितव्यमेवेत्याह—यथेच्छाभोग्यं इच्छामनतिक्रम्य यथेच्छम्। यथेच्छं आभोग्यमिति विग्रहः। इच्छानिवृत्तिपर्यन्तमसंकोचेनोपभोगार्हमित्यर्थः। वः इति पूजायां बहुवचनम्। अतिथिसामान्याभिप्रायकं वा। अयं मे सुदिवसः साधुजनसंपर्कादिति भावः। सतां विद्यमानानामेव, नतु प्रसादनादि कुर्वतामित्यर्थः। सद्भिः साधुभिः सह सङ्गः संपर्कः कथमपि कृच्छ्रेण पुण्येन भवति साधुजनसंपर्कलाभः प्रणिपातादिसाध्यो भवति। तदभाववतां तु दृष्टहेत्वभावात् केवलादृष्टसाध्यो भवतीति भावः। यद्वा कथमपि सतां येन केन प्रकारेण वर्तमानानाम्। कामचारे स्थितानामित्यर्थः। सद्भिः ब्रह्मविद्भिरित्यर्थः। ‘अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः’ इति श्रुतेः। सङ्गः संपर्कः पुण्येन हि भवति। अयमाशयः—‘तस्मादेवंविदा नासीत’ इति श्रुत्या ब्रह्मज्ञानवतां तच्छून्यैः सहवासादिकं प्रतिषिद्धम्। एवं च तेषां तैः सङ्गः पुण्यैकसाध्य इति। इदं च स्वनिकर्षभावनाकार्यम्। फलं वा मूलं वा इतोऽन्यदपि तपसां योग्यमशनम्। नीवारपाण्डुपत्र–
——————————————————————————————————————

तापसी— किमत्रोच्यते ?

प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः
प्रकृत्या कल्याणी मतिरनवगीतः परिचयः।
पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं
रहस्यं साधूनामनुपधि विशुद्धं विजयते॥२॥

(उपविशतः।)

वनदेवता— कां पुनरत्रभवतीमवगच्छामि ?

तापसी— आत्रेय्यस्मि।

वनदेवता— आर्येआत्रेयि ! कुतः पुनरिहागम्यते ? किंप्रयोजनो दण्डकारण्योपवनप्रचारः ?

आत्रेयी

अस्मिन्नगस्त्यप्रमुखाः प्रदेशे
भूयांस उद्गीथविदो वसन्ति।
तेभ्योऽधिगन्तुं निगमान्तविद्यां
वाल्मीकिपार्श्वादिह पर्यटामि॥३॥

——————————————————————————————————————

वातजलादिकमित्यर्थः। तदपि तच्च पराधीनं नेति॥१॥ प्रियेति। प्रियप्राया प्रियप्रचुरा युक्ता चेत्यर्थः। वृत्तिः कायिकव्यापारः। तथापि वाक्क्रौर्ये महान्दोष इत्यत आह—विनयमधुरो वाचि नियमः विनयेन स्वनिकर्षभावनारूपेण स्वोत्कर्षाननुसंधानरूपेण वा मधुरः प्रियः वाचि नियमः सत्याय मितभाषित्वम्। तथापि मनोवृत्तिदौष्ट्यं स्यादत आह —प्रकृत्या कल्याणी मतिः प्रकृत्या स्वभावतः कल्याणी प्रेयस्विनी। तथाप्यसत्सङ्गवशाद्वैपरीत्यं स्यादत आह— अनवगीतःअनिन्दित इत्यर्थः। तदिदं वृत्तिवाचिनियमादिपरिचयसमुदायरूपं विजयते सर्वोत्कर्षेण वर्तते। तत्कथंभूतमित्याह—पुरो वा पश्चाद्वा भूतभविष्यत्कालयोः। तत्तत्पुरुषसंनिधानयोरिति वार्थः। अविपर्यासितरसं अन्यूनस्वभावम्। ‘रस’पदेन प्रियत्वं व्यज्यते। अनुपधि निर्व्याजं विशुद्धं प्रामादिकदोषरहितं रहस्यम्। ‘शीलं संवसता ज्ञेयम्’ इति न्यायेन चिरकालशुश्रूषादिमिरेव ज्ञातुं शक्यं नतु दाम्भिकवृत्तिवत्स्वयं प्रकटमित्यर्थः। तथाविधं तदिदं विजयत इति योजना॥२॥ अवगच्छामि जानामि॥ किंप्रयोजनइति। प्रचारः संचारः॥ अस्मिन्निति। अगस्त्यप्रमुखा132 अगस्त्यप्रभृतयो भूयांसो बहव उद्गीथविदः। ‘ओमित्युद्गीथमुपासीत’ इति परस्मिन् ब्रह्मणि उद्गीथदृष्टिं कुर्वन्त इत्यर्थः। दहरविद्यादीनामुपलक्षणम्। सकलवेदान्ततात्पर्यपर्यालोचनशीला इति
——————————————————————————————————————

वनदेवता— यदा तावदन्येऽपि मुनयस्तमेव हि पुराणब्रह्मवादिनं प्राचेतसमृषिं ब्रह्मपारायणायोपासते, तत्कोऽयमार्यायाः प्रवासः?

आत्रेयी— तस्मिन्133 हि महानध्ययनप्रत्यूह इत्येष दीर्घप्रवासोऽङ्गीकृतः।

वनदेवता— कीदृशः?

आत्रेयी— तस्य भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुतं स्तन्यत्यागमात्रके वयसि वर्तमानं दारकद्वयमुपनीतम्। तत्खलु न केवलं तस्य134, अपि तु तिरश्चामप्यन्तःकरणानि तत्त्वान्युपस्नेहयति।

वनदेवता— अपि तयोर्नामसंज्ञानमस्ति ?

आत्रेयी— तयैव किल देवतया तयोः कुशलवाविति नामनी प्रभावश्चाख्यातः।

वनदेवता— कीदृशः प्रभावः ?

आत्रेयी— तयोः किल सरहस्यानि जृम्भकास्त्राणि135जन्मसिद्धानीति।

वनदेवता—अहो नु भोश्चित्रमेतत्।

आत्रेयी—तौ च भगवता वाल्मीकिना धात्रीकर्मतः परिगृह्य पोषितौ रक्षितौ च। निर्वृत्तचौलकर्मणोस्तयोस्त्रयीवर्जमितरास्तिस्रो विद्याः सावधानेन परिनिष्ठापिताः। तदनन्तरं गर्भैकादशे वर्षे क्षात्रेण

——————————————————————————————————————

भावः। तेभ्यः अधिगन्तुं तत्कृतव्याख्यानेन ज्ञातुम्। ‘आख्यातोपयोगे’ (पा.१।४।२९) इति पञ्चमी। पर्यटामि। ‘अट गतौ’॥३॥ यदा तावदिति। पुराणश्चासौ ब्रह्मवादी चेति विग्रहाः। ब्रह्म परमात्मानं वेदान् वा वदतीति णिनिः। पुराणत्वे प्राचेतसमिति हेतुकथनम्। ब्रह्मपारायणाय वेदान्तविद्याध्ययनाय। पारायणं नाम आदित आरभ्यान्तादविच्छेदेनाध्ययनमुपासते। तदिति। प्रवासो देशान्तरगमनम्॥ तस्मिन्निति। प्रत्यूहो विघ्नः। तस्येति। स्तन्यत्यागमात्रं यस्मिन्निति बहुव्रीहेः कप्प्रत्ययः। दारकद्वयं शिशुद्वयम्। तदिति। तस्य वाल्मीकेः तिरश्चामपि मृगाणामप्यन्तःकरणानि हृदयरूपाणि तत्त्वानि पदार्थानुपस्नेहयति संनिधानीकरोति॥ अपीति। नाम्नोऽमिलापकशब्दस्य संज्ञानं संकेतसंबन्धकरणम्॥ तयोरिति। जन्मसिद्धानि जन्मना ज्ञातानि, न तूपदेशेन॥ तौ चेति। धात्रीकर्मतउपमातृव्यापारेण। पोषितौ क्षीरादिना वर्धितौ रक्षितौ पिपीलिकादिभ्य इति भावः। निर्वृत्तेति। निर्वृत्तं निष्पन्नम्। त्रयीवर्जं त्रयीं वर्जयित्वा, अङ्गान्यपीति शेषः। इतराः ‘आयुर्वेदो धनुर्वेदस्तथा गान्धर्वनामकः’ इत्युक्ता इत्यर्थः। सावधानेन। वाल्मीकिनेति शेषः। परिनिष्ठापिताः सम्यङ्निष्पादिताः। तदनन्तरमिति। एकादशानां पूरणं एका–
——————————————————————————————————————

कल्पेनोपनीय गुरुणा त्रयीविद्यामध्यापितौ। न त्वेताभ्यामतिदीप्तिप्रज्ञाभ्यामस्मदादेः सहाध्ययनयोगोऽस्ति। यतः,—

वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे
न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा।
भवति हि पुनर्भूयान्भेदः फलं प्रति तद्यथा
प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः॥४॥

वनदेवता— अयमध्ययनप्रत्यूहः।

आत्रेयी— अन्यश्च।

वनदेवता— अथापरः कः ?

आत्रेयी— अथ स ब्रह्मर्षिरेकदा माध्यंदिनसवनाय नदीं तमसामनुप्रपन्नः। तत्र युग्मचारिणोः क्रौञ्चयोरेकं व्याघेन वध्यमानं ददर्श। आकस्मिकप्रत्यवभासां देवीं वाचमानुष्टुभेन छन्दसा परिणतामभ्युदैरयत्।

मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥५॥

वनदेवता— आम्नायादन्यत्र136 नूतनच्छन्दसामवतारः।

————————————————————————————————————

दशम् ‘तस्य पूरणे—’ (पा. ५।२।४७) इति डट्प्रत्ययः। गर्भात् गर्भवर्षात् एकादशंगर्भैकादशं तस्मिन्नित्यर्थः। ‘गर्भैकादशेषु राजन्यम्’ इति स्मृतेः। कल्प्यतेऽनुष्ठीयतेऽनेनेति कल्पः। अनुष्ठानपरिपाटीप्रकाशकग्रन्थः। न त्वेताभ्यामिति। दीप्तिः प्रतिभा। प्रज्ञा ज्ञानं उक्तार्थग्रहणम्। वितरतीति। तयोः प्राज्ञजडयोः ज्ञाने शक्तिं न करोति, प्राज्ञस्य ज्ञाने अपूर्वां शक्तिं न जनयति। जडस्य ज्ञाने शक्तिं नापहन्ति जडस्य ज्ञानप्रतिष्ठां शक्तिं न नाशयति। बिम्बग्राहे प्रतिबिम्बज्ञानोत्पादने मणिः वज्रं रत्नसामान्यं वा। मृदादयः। आदिपदात् वृक्षपाषाणोलोष्टग्रहणम्॥ अथेति प्रश्ने॥ अथेति। माध्यंदिनसवनाय माध्यंदिनसंबन्धिकर्मणे। अनुप्रपन्नः प्राप्तः। तत्रेति। युग्मं द्वन्द्वं यथा तथा चरत इति युग्मचारिणौ, तयोः क्रौञ्चयोः पक्षिविशेषयोः। व्याधेन पुलिन्देन। ददर्श अपश्यत्। आकस्मिकप्रत्यवभासां निर्हेतुकाविर्भावाम्। आनुष्टुभेन छन्दसा। स्वार्थिकोऽण्प्रत्ययः। मा निषादेति। ‘प्रतिष्ठां तु अम गमः’ इति पदचतुष्टयं निषादपक्षे बोध्यम्। एवं च माड्योगेऽडागमनिषेध उपपद्यते। अमेत्यस्य न विद्यते मा लक्ष्मीः यस्येति विग्रहः। एवं च अलक्ष्मीकेति निषादं प्रति मन्युर्गम्यते। अत एव भगवन्तं प्रति रावणवधजनितप्रीत्यतिशयेन मानिषादेति सलक्ष्मीकत्वप्रतिपादनम्। भगवत्परत्वे मा लक्ष्मीनिषादत्वस्मिन्निति मानिषादः। बाहुलकादधिकरणे घञ्। तस्य संबुद्धिः निषेधार्थ-
————————————————————————————————————
पाठा० - १ ‘प्रज्ञामेधाभ्यां

आत्रेयी— तेन हि पुनः समयेन तं भगवन्तमाविर्भूतशब्दप्रकाशमृषिमुपसंगम्य भगवान्भूतभावनः पद्मयोनिरवोचत् —‘ऋषे ! प्रबुद्धोऽसि वागात्मनि ब्रह्मणि। तद्ब्रूहि रामचरितम्। अव्याहतज्योतिरार्षं ते चक्षुः137 प्रतिभातु। आद्यः कविरसि’ इत्युक्त्वाऽन्तर्हितः। अथ सभगवान्प्राचेतसः प्रथमं मनुष्येषु शब्दब्रह्मणस्तादृशं विवर्तमितिहासं रामायणं प्रणिनाय।

वनदेवता— हन्त, पण्डितः138 संसारः।

आत्रेयी— तस्मादेव हि ब्रवीमि तत्र महानध्ययनप्रत्यूह इति।

वनदेवता— युज्यते।

आत्रेयी— विश्रान्तास्मि। भद्रे ! संप्रत्यगस्त्याश्रमस्य पन्थानं ब्रूहि।

वनदेवता— इतः पञ्चवटीमनुप्रविश्य गम्यतामनेन गोदावरीतीरेण।

आत्रेयी— (सास्रम्।) अप्येतत्तपोवनम् ? अप्येषा पञ्चवटी ? अपि सरिदियं गोदावरी ? अप्ययं गिरिः प्रस्रवणः अपि जनस्थानवनदेवता त्वं वासन्ती ?

वनदेवता— तथैव तत्सर्वम्।

आत्रेयी— हावत्से जानकि !

सएष ते वल्लभशाखिवर्गः
प्रासङ्गिकीनां विषयः कथानाम्।

——————————————————————————————————————

माशब्देन अडागमसमर्थनं तु क्लिष्टम्, प्रतिष्ठां आस्पदम्। व्याधपक्षे,—मा गमः न गच्छेः। भगवत्पक्षे,— अगमः प्राप्तवानिति। समाः संवत्सरान्। अत्यन्तसंयोगे द्वितीया॥५॥ आम्नायात् वेदात्॥ तेनेति। तेन समयेन कालेन। भूतेन प्रजाः भावयति उत्पादयतीति विग्रहः। यद्वा,—भूतं सत्यम्, निर्निरोधमिति वा। भावना अध्यवसायः यस्येति वा। पद्मयोनिः भगवन्नाभिकमलजातः। अनेन पूर्वोक्तभूतभावनत्वप्रयुक्तपस्त्वशङ्का निराकृता। प्रबुद्धोऽसि प्रकृष्टज्ञानवानसि। वागेव आत्मा यस्य तस्मिन् ब्रह्मणि शब्दब्रह्मणि। वाचो वैपुल्याभिप्रायकं ब्रह्मत्वरूपणं ब्रह्मतत्त्वमेव शब्दरूपेण भातीत्यर्थं इति कैयटमतानुसारेण वा। अव्याहतज्योतिः अप्रतिहतप्रकाशं आर्षं ऋषिसंबन्धि योगजन्यज्ञानं चक्षुः नेत्रं ज्ञानमिति फलितोऽर्थः। ‘तत्सर्वं मत्प्रसादेन विदितं ते भविष्यति’ इत्यादि रामायणे द्रष्टव्यम्। ‘आद्यः कविरसि’ इत्युक्त्वा अनुगृह्य। अन्तर्हितः परोक्षतां गतः॥ इति। दृश्यमानः दृष्टि–
——————————————————————————————————————

त्वां नामशेषामपि दृश्यमानः
प्रत्यक्षदृष्टामिव नः करोति॥६॥

वासन्ती— (सभयम्। स्वगतम्।) कथं नामशेषेत्याह। (प्रकाशम्।) आर्ये ! किमत्याहितं सीतादेव्याः ?

आत्रेयी— न केवलमत्याहितम्, सापवादमपि। (कर्णे।) एवमिति।

वासन्ती— हा, दारुणो दैवनिर्घातः। (इति मूर्च्छति।)

आत्रेयी— भद्रे ! समाश्वसिहि समाश्वसिहि।

वासन्ती— हा, प्रियसखि ! ईदृशस्ते निर्माणभागः। हा रामभद्र ! अथवा अलं त्वया। आर्ये आत्रेयि ! अथ तस्मादरण्यात्परित्यज्य निवृत्ते लक्ष्मणे सीतायाः किं वृत्तमिति काचिदा139सीत्प्रवृत्तिः?

आत्रेयी—नहि नहि।

वासन्ती— कष्टम्। आर्यारुन्धतीवसिष्ठाधिष्ठितेषु नः कुलेषु जीवन्तीषु च वृद्धासु राज्ञीषु कथमिदं जातम् ?

आत्रेयी— ऋष्यशृङ्गसत्रे गुरुजनस्तदासीत्। संप्रति परिसमाप्तं द्वादशवार्षिकं सत्रम्। ऋष्यशृङ्गेण च संपूज्यं विसर्जिता गुरवः। ततो भगवत्यरुन्धती नाहं वधूविरहितामयोध्यां गच्छामीत्याह। तदेव राममातृभिरनुमोदितम्। तदनुरोधाद्भगवतो वसिष्ठस्यापि श्रद्धा वाल्मीकितपोवनं गत्वा वत्स्याम इति।

वासन्ती— अथ स रामभद्रः किमाचारः ?

आत्रेयी— तेन राज्ञा राजक्रतुरश्वमेधः प्रक्रान्तः।

————————————————————————————————————

विषयीभूतः। प्रासङ्गिकीनां प्रसक्त्यनुप्रसक्त्या जातानां कथानां प्रश्नप्रविवचनरूपाणां वाक्यसंदर्भाणां विषमः प्रतिपाद्यः वल्लभशाखिनां स्वयं वर्धितत्वात् अत्यर्थप्रीतिविषयाणां वृक्षाणां शाखिनामिति वचनं सीताकरस्पर्शप्रयुक्तस्फीतत्वाभिप्रायकम्॥६॥ दैवनिर्घातः दैवप्रहारः। दारुणः तीव्रः। हा, प्रियसखीति। निर्माणभागः सृष्टिफलम्। अथवेति जनवाक्पिधानस्य दुःशकत्वादिति भावः। किं वृत्तमिति निष्पन्नमिति। प्रवृत्तिः वार्ता। आसीत् अभूत्। किमिति काक्वा योजनीयम्॥ संप्रति परिसमाप्तमिति। इदमेवाभिसंधाय पूर्वोक्तव्याख्यानमिति न विस्मर्तव्यम्। वधूविरहितां स्नुषाविरहिताम्। तदन्विति। तदनुरोधात् तद्नुसरणात्। श्रद्धा निश्चयः। यथेति। किमाचारः कीदृशव्यापारवान् ? तेनेति। राजक्रतुः राज्ञां
————————————————————————————————————

वासन्ती— अहह धिक्, परिणतिमपि?

आत्रेयी— शान्तम्, नहि नहि।

वासन्ती—का तर्हि यज्ञे सहधर्मचारिणी ?

आत्रेयी— हिरण्मयी सीताप्रतिकृतिर्गृहिणीकृता।

वासन्ती— हन्त भोः,

वज्रादपि कठोराणि मृदूनि कुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ?॥७॥

आत्रेयी— विसृष्टश्च वामदेवानुमन्त्रितो मेध्याश्वः। प्रक्लृप्ताश्च140 तस्य यथाशास्त्रं रक्षितारः। तेषामधिष्ठाता लक्ष्मणात्मजश्चन्द्रकेतु141र्दत्तदिव्यास्त्रसंप्रदायश्चतुरङ्गसाधनान्वितोऽनुप्रहितः।

वासन्ती— (सहर्षकौतुकास्रम्।) कुमारलक्ष्मणस्यापि पुत्र इति142 मातर् ! जीवामि।

आत्रेयी— अत्रान्तरे ब्राह्मणेन मृतं पुत्रमुत्क्षिप्य राजद्वारे सोरस्ताडनमब्रह्मण्यमुद्धोषितम्। ततो न राजापचारमन्तरेण प्रजानामकालमृत्युः संचरतीत्यात्मदोषं निरूपयति करुणामये रामभद्रे सहस्रैवाशरीरिणी वागुदचरत्—

—————————————————————————————————————

साधारणो यः क्रतुः क्रतुराजो वा अश्वमेधः। राजदन्तादित्वात् परनिपातः। सीतेति। सीतायाः प्रतिकृतिः प्रतिमा। गृहिणीकृता धर्मपत्नीकृता॥ वज्राद्सीतेति। अयमाशयः— निर्दोषायां सीतायां रामहृदयस्य मृदुत्वमेव स्वाभाविकम्। कठोरत्वं तु मूर्खलोकानुसरणार्थत्वादागन्तुकमिति प्रतिकृतिकरणादवगम्यत इति। नच ‘यस्य भार्या विदूरस्था यदि सा दूषितापि वा। अनिच्छुः प्रतिकूला च तस्याः प्रतिकृतौ क्रिया॥’ इति स्मरणात्। प्रतिकृतिकरणं मृदुत्वानुपपादकमिति वाच्यम्; तस्य परिणयान्तराशक्तनिरवकाशक्रियाविषयत्वात्। अश्वमेधादेः सावकाशत्वात् परिणयान्तरशक्तत्वात्। किंच सीतासदृशप्रतिमाकरणं मृदुत्वापादकमेव। एतादृशविचारसाध्यत्वात् ‘को हि विज्ञातुमर्हति’ इति ? तज्ज्ञानस्वरूपयोग्यतापि दुर्लमेत्युक्तम्। अत्रार्थान्तरन्यासालंकारः॥७॥ वामदेवेन अनुमन्त्रितः अनुज्ञातः। वसिष्ठासंनिधानादिति भावः। मेध्याश्वः यज्ञीयाश्वः। प्रक्लृप्ता इति। यथाशास्त्रं शास्त्रोक्तन्यायेन। तेषामिति ‘चतुःशता रक्षन्ति यज्ञस्याघाता ये’ इत्यादिश्रुतिमनुल्लङ्घ्य अधिष्ठाता नियामकः अनुप्रहितः। अत्रान्तर इति। अब्रह्मण्यमिति वचनम्। उद्घोषितं उच्चैरुच्चारितम्। तत इति। राजापचारं राजदोषम्। निरूपयति मीमांसमाने। करुणामये परदुःखदुःखित्वरूपानुकम्पाप्रचुरे। उदचरत् उद्गतवती।
—————————————————————————————————————

शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः।
शीर्षच्छेद्यः स ते राम ! तं हत्वा जीवय द्विजम्॥८॥

इत्युपश्रुत्यैवाकृष्टकृपाणपाणिः पुष्पकमधिरुह्य सर्वा दिशो विदिशश्च शूद्रतापसान्वेषणाय जगत्पतिः संचारं समारब्धवान्।

वासन्ती— शम्बूको नामाधोमुखो धूमपः शूद्रोऽस्मिन्नेव जनस्थाने तपश्चरति। अपि नाम रामभद्रः पुनरिदं वनमलंकुर्यात्।

आत्रेयी— भद्रे ! गम्यतेऽधुना।

वासन्ती— आर्ये आत्रेयि ! एवमस्तु। क143ठोरश्चदिवसः।

कण्डूलद्विपगण्डपिण्डकषणाकम्पेन संपातिभि–
र्घर्मस्रंसितबन्धनैश्च कुसुमैरर्चन्ति गोदावरीम्।
छायापस्किरमाणविष्किरमुखव्याकृष्टकीटत्वचः
कूजत्क्लान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः॥९॥

(इति परिक्रम्य निष्क्रान्ते।)

इति शुद्धविष्कम्भः।
<MISSING_FIG href=”../books_images/U-IMG-1729149707Untitled.jpg”/>

(ततः प्रविशति सदयोद्यतस्वङ्गो रामभद्रः।)

—————————————————————————————————————

शम्बूक इति। तपः तप्यते तपश्चरति। ‘तप ऐश्वर्ये वा’ इति तङ्। दिवा दित्वात् श्यन्। शीर्षच्छेद्यः ‘शीर्षच्छेदाद्यश्च’ (पा. ५।१।६५) इति यत्प्रत्ययः॥८॥ दिशः प्राच्यादयः, विदिशः आग्नेय्यादयः॥ अपि नामेति अलंकुर्यादित्यनेनान्वयः। संभावनायामपिशब्दः॥ कण्डूलेति। कण्डूलानां कण्डूमतां द्विपगण्डपिण्डानां पिण्डाकारगजकपोलानां कषणेन संघट्टनया आकम्पेन अत्यर्थचलनेन संपतन्तीति संपातिनः तथाविधैः धर्मेण निदाघौष्ण्येन स्रंसितबन्धनैः शिथिलितवृन्तैः छायायां अनातपे। अपस्किरमाणाः भक्षार्थं चञ्च्वाभूमिं लिखन्तः। ‘किरतेर्हर्षजीविकाकुलायकरणेष्विति वाच्यम्। (वा. ९०७)। ‘अपाच्चतुष्पाच्छकुनिष्वालेखने’ (पा. ६।१।१४२) इति वार्तिकसूत्राभ्यां तड्सुटौ। तथाविधानां विष्किराणां वायसादीनां मुखैः व्याकृष्टा कीटत्वक्येषामिति विग्रहः। कपोताः पारावताः कुक्कुटाः चरणायुधाश्च ते कूजन्तः क्लान्ताश्च येष्विति विग्रहः। कूले, तीरवर्तिन इत्यर्थः। कुलायद्रुमाः पक्षिनीडयुक्तद्रुमाः स्वकुसुमैः गोदावरीं अर्चन्ति पूजयन्ति इति संबन्धः। अत्र वृक्षवर्णनया वैदिकशिरोमणीनां गृहमेधिनां मध्याह्नकालवृत्तान्तः प्रतीयते। कण्डूलेत्यादिविशेषणेन द्रव्याणां दुरूहशास्त्रार्थसंदेहनिर्णयार्थमुपसन्नैः तैः तत्कृतोपदेशनिवृत्तसंशयतया संतुष्टैः भूमिपतिभिः
—————————————————————————————————————

रामः

हे हस्त दक्षिण ! मृतस्य शिशोर्द्विजस्य
जीवातवे विसृज शूद्रमुनौ कृपाणम्।
रामस्य बा144हुरसि निर्भरगर्भस्विन्न–
सीताविवासनपटोः करुणा कुतस्ते॥१०॥

(कथंचित्प्रहृत्य।) कृतं रामसदृशं कर्म। अपि जीवेत्सब्राह्मणपुत्रः।

(प्रविश्य।)

दिव्यपुरुषः— जयतु देवः।

——————————————————————————————————————

समर्पितत्वं प्रतीयते। ‘धर्मस्रंसितैः’ इत्यनेन तेषां ‘कषाये कर्मभिः पक्वे’ इति निवृत्तकामलोभादितया द्रव्याणां देवताराधनतया प्रतिहतप्रदानं प्रतीयते। ‘छायापस्किरमाण—‘इत्यनेन तेषां गृहेषु अतिथयः स्वयमागत्य भोज्यानि भुञ्जत इति प्रतीयते। ‘कूजत्क्लान्त—’ इत्यनेन तेषां मध्याह्नकालप्रयुक्तः श्रान्तियुक्तमानाशाखाध्येतृनानाबटुसमाजपौष्कल्यं प्रतीयते। ‘कुलाय—’ इत्यनेन तेषामनेककुटुम्बभरणं प्रतीयत इति सहृदया दयां कुर्वन्तु॥ अत्र कुसुमपतनस्य गोदावरीपूजात्वोत्प्रेक्षा कृता। सा च गम्या वाचकशब्दप्रयोगाभावात्। ‘तस्य भगवतः केनापि’ इत्यारभ्य ‘अयमध्ययनप्रत्यूहः’ इत्यन्तेन अष्टावक्रप्रवेशात् लक्ष्यस्य सीतावनप्रापणेनालक्ष्यस्य बीजस्योद्भेदात् प्रतिमुखसंधिरियम्। ‘लक्ष्यालक्ष्यस्य बीजस्य व्यक्तिः प्रतिमुखं मतम्’ इति लक्षणात्। ‘अप्येतत्तपोवनम्’ इत्यारभ्य दृष्टनष्टपदार्थानुसरणरूपपरिसर्प उक्तः। ‘हा रामभद्र !’ इति प्रमुखनिष्ठुरवचनरूपं वज्रमुक्तम्। ‘सीताप्रतिकृतिः’ इत्यादिनानुरागप्रकाशनरूपप्रगम उक्तः। ‘वज्रादपि’ इत्यत्र अस्त्युपशमनात्मकः ।शम उक्तः। ‘विसृष्टश्च वामदेवानुमन्त्रितः’ इत्यारभ्य ‘जनस्थाव एव तपश्चरति’ इत्यन्तेन ब्रह्मक्षत्रियशूद्राणां कीर्तनात् वर्णसंकर उक्तः —इयं चूलिका। तदुक्तम् (द.रू.१।६१) —‘नेपथ्यान्तःस्थितैः पात्रैधूलिकार्थस्य सूचनम्’ इति॥९॥ उद्यतः उन्नमितः॥ हे हस्तेति। दक्षिणहस्त अपसव्यहस्त, कृपाणं स्वङ्गं शूद्रमुनौ विसृज विमुञ्च। निर्भरः पूर्णः। विवासनं निष्कासनम्। षटोरित्यनेन ‘छद्मना परिददामि’ इत्येतद्विवक्षितम्। अत्र विध्यलंकारः॥१०॥ प्रहृत्य प्रक्षिप्येत्यर्थः। इदं चिन्त्यम् —‘दूराध्वानं वधम्’ इत्यारभ्य ‘एतान्युद्वेगकारित्वात्प्रयोगानुचितानि’ इति तन्निषेधात्। अत्रानिष्टवस्तुविक्षेपात् विधूतम्। कृतमिति। रामसदृशं कर्म न तु दशरथसदृशं कर्मं। दशरथो ह्युबुद्धिपूर्वकं शूद्रतापसवधं कृतवान्। तथा च ‘पितुः शतगुणं पुत्रः’ इति न्यायेन दोषविषय एव, न तु गुणविषय एति स्वोपालम्भ इह व्यज्यते। अपि जीवेदिति। अपिः संभावनायाम्। अशरीरवाण्या शिशुजीवननिश्चयेऽपि पावकवचनेन सीताया निर्दोषत्वनिश्चयेऽपि फलाभाववत् स्वीयदैवविपर्ययेणात्रापि तथा स्यादित्याशयः॥ प्रविश्येति। दिव्यपुरुषः। शम्बूकशरीरं विहाय देवत्वेनेति भावः। दत्ताभय
——————————————————————————————————————

दत्ताभये त्वयि यमादपि दण्डधारे
संजीवितः शिशुरसौ मम चेयमृद्धिः।
शम्बूक एष शिरसा चरणौ नतस्ते
सत्सङ्गजानि निधनान्यपि तारयन्ति॥११॥

रामः— द्वयमपि प्रियं नः, तदनुभूयतामुग्रस्य तपसः परिपाकः।

यत्रानन्दाश्च मोदाश्च यत्र पुण्याश्च संपदः।
वैराजा नाम ते लोकास्तैजसाः सन्तु ते शिवाः॥१२॥

शम्बूकः— स्वामिन् ! युष्मत्प्रसादादेवैष145 महिमा। किमत्र तपसा ? अथवा महदुपकृतं तपसा,

अन्वेष्टव्यो यदसि भुवने भूतनाथः146 शरण्यो
मामन्विष्यन्निह वृषलकं योजनानां शतानि।
क्रान्त्वा प्राप्तः स इह तपसां संप्रसादोऽन्यथा तु
क्वायोध्यायाः पुनरुपगमो दण्डकायां वने वः॥१३॥

—————————————————————————————————————

इति। यमादपि दत्ताभये त्वयि दण्डधारे सतीत्यन्वयः। यमहेतुकभयनिवारणदातरि यमशासितारे त्वयि सति असौ शिशुः बुद्धिस्थो ब्राह्मणशिशुः। निघनानि मरणानि तारयन्ति। संसाराब्धिमिति शेषः॥११॥ तदिति। परिपाकः फलभूतः अनुभूयताम्। यत्रेति। आनन्दाः आत्मानुभवजन्या हर्षाः। मोदाश्च दिव्यविषयानुभवजन्या हर्षाः। संपदोऽणिमादिविभूतयः, वैराजा नाम वैराजा इति प्रसिद्धाः॥१२॥ युष्मत्प्रसादेति। ‘धातुः प्रसादान्महिमानमीशम्’ इति श्रुतिः प्रत्यभिज्ञायते। किमत्र तपसा, तपसा किमत्रेत्यर्थः। अथवेति। तपःकर्तृको महोपकार इति भावः। तदुपपादयति —अन्वेष्टव्य इति। यदसीति प्रसिद्धवन्निर्देशात् ‘सोऽन्वेष्टव्यः’ इति श्रुतिः प्रत्यभिज्ञायते। अनेन कारणत्वमप्युक्तम्। ‘कारणं तु ध्येयः’ इति श्रुतेः। न केवलं प्रधानहिरण्यगर्भादिवत् कारणत्वम्, किंतु निरुपाघिकस्वामित्वं स्वीकृतमित्याह —भूतनाथ इति। ‘एष सर्वभूताधिपतिः’ इति श्रुतिः प्रत्यभिज्ञायते। पूर्वोक्तान्वेष्टव्यत्वादिफलमाह—शरण्य इति। ‘एष सर्वभूतपालः’ इति श्रुतिः प्रत्यभिज्ञायते। तेन हि पालनसामर्थ्यमृते सर्वेश्वरत्वहानिरित्युपबृंहणात् हरहिरण्यगर्भादीनां रक्षकत्वशङ्कानिरासः। इदं च घण्टाकर्णादिविषये स्पष्टम्। वृषलकंअज्ञातो वृषलो वृषलकः तम्। अज्ञाते कन्प्रत्ययः। अनेन प्रयासेनान्वेषणीयत्वं स्वस्य सूच्यते। अन्विष्यन्। नतु चारादिना अन्वेषयन्निति भावः। योजनानां शतानि अयोध्यादण्डकयोः योजनेयत्तानिश्चयेऽपि एवमुक्तिः कृत्स्नभूमण्डलान्वेषणानन्तरं अत्र प्राप्त इति सूचयति। तन्मूलं तु ‘पृथिव्यां तप्यते तपः’ इति
—————————————————————————————————————

रामः— किं नाम दण्डकेयम् ? (सर्वतोऽवलोक्य।) हा, कथम्—

स्निग्धश्यामाः क्वचिदपरतो भीषणाभोगरूक्षाः
स्थाने स्थाने मुखरककुभो झांकृतैर्निर्झराणाम्।
एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः
संदृश्यन्ते परिचितभुवो दण्डकारण्यभागाः॥१४॥

शम्बूकः— दण्डकैवैषा। अत्र किल पूर्वं निवसता देवेन—

चतुर्दश सहस्राणि चतुर्दश च राक्षसाः।
त्रयश्च दूषणखरत्रिमूर्धानो रणे हताः॥१५॥

येन सिद्धक्षेत्रेऽस्मिन्मादृशामपि147 जानपदानामकुतोभयः संचारः संवृत्तः।

रामः— न केवलं दण्डकैव, जनस्थानमपि।

शम्बूकः— बाढम्। एतानि खलु सर्वभूतरोमहर्षणान्युन्मत्तचण्डश्वापदकुलाक्रान्तवि148कटगिरिगह्वराणि जनस्थानपर्यन्तदीर्घारण्यानि दक्षिणां दिशमभिवर्तन्ते। तथा हि,—

निष्कूजस्तिमिताः क्वचित्क्वचिदपि प्रच्चण्डसत्त्वस्वनाः
स्वेच्छासुप्तगभीरभोग149भुजगश्वासप्रदीप्ताग्नयः।

———————————————————————————————————————

अशरीरवाण्यां पृथिव्यामिति सामान्योक्तिः। प्राप्तः, नतु मां दूतैः प्रापितवानित्यर्थः। वृषलक इत्यत्र वृषं धर्मं लुनातीति वृषल इति व्युत्पत्त्या ‘शुश्रूषां शूद्रस्य’ इत्युक्तः स्वधर्मच्छेदेन स्वतन्त्रतपश्चरणरूपस्वदोषाधीतत्वं विवक्षितम्। तपसा संप्रसादः तपःकृतानुग्रहः। पुनरित्यनेनापूर्ववनविलोकनस्पृहयान्यथासिद्धिर्वारिता। वनपदं दण्डकायामपि गमनप्रदेशत्वसूचनार्थम्। एवं सर्वप्रकारेणापि दुर्घटभवदागमनसंघटकत्वात् तपसां प्रसाद इति भावः॥१३॥ स्निग्धेति। श्यामाः। नीलाः। आभोगविपुलावकाशः। रूक्षाः चित्तक्षोभकराः। गर्ता अवटाः॥१४॥ चतुर्दशेति। दूषणखरत्रिमूर्धान इति समासान्तविधेरनित्यत्वात् ‘द्वित्रिभ्यां ष मूर्ध्नः’ (५।४।११५) इति षप्रत्ययाभावः। केचित्तु दूषणखरत्रिमूर्धा नः इति पदद्वयं कृत्वा नः अस्माकं रणे दूषणखरत्रिमूर्धा हता इति षप्रत्ययान्तमेव समर्थयन्ते। अस्माकमिति रामेण समाधिना दिव्यपुरुषवचनं पक्षैक्यामिप्रायकम्। वस्तुतस्तु नोशब्दः पृथक्पदमित्याश्रित्य अत्र निवसता देवेन दूषणखरत्रिमूर्धा हताः नो किमिति काक्वा योजनीयम्। इयं च प्रत्यभिज्ञापनशैली गौरव्यविषयेष्वनुभवसिद्धा॥१५॥ येनेति। सिद्धक्षेत्रे सिद्धिप्रदपुण्यक्षेत्रे अकुतोभयः नास्ति कुतो भयं यस्येति विग्रहः। एतानीति। रोमहर्षणानि रोमाञ्चजनकानि। निष्कूजेति। निर्गताः कूजाः कूजितानि येभ्य इति विग्रहः। कूजितशून्या इत्यर्थः। ‘कूज अव्यक्तशब्दे’ इत्यस्मात् भावे
———————————————————————————————————————

सीमानः प्रदरोदरेषु विरलस्वल्पाम्भसो150 यास्वयं
तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते॥१६॥

रामः

पश्यामि च जनस्थानं भूतपूर्वस्वरालयम्।
प्रत्यक्षानिव वृत्तान्तान्पूर्वाननुभवामि च॥१७॥

(सर्वतोऽवलोक्य।) प्रियारामा हि वैदेह्यासीत्। एतानि नाम कान्ताराणि। किमतः परं भयानकं151 स्यात्। (सास्रम्।)

त्वया सह निवत्स्यामि वनेषु मधुगन्धिषु।
इतीवारमते152 हासौ स्नेहस्तस्याः स तादृशः॥१८॥

न किंचिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥१९॥

शम्बूकः—तदलमेभिर्दुरासदैः153। अथैतानि मदकलमयूरकण्ठकोमलच्छविभिरवकीर्णानि पर्यन्तै154रविरलनिविष्टनीलबहुलच्छायातरुषण्ड–

——————————————————————————————————————

घञ्प्रत्ययः। सत्त्वानां जन्तूनाम्। प्रदरोदराणि गुहामध्याः। प्रतिसूर्यकैः वक्रकृकलासकैः॥१६॥ पश्यामीति। भूतपूर्वो यः खरालयः तथाविधमित्यर्थः। भूतपूर्वः खरालयः खरगृहं यस्मिन्निति वा। प्रत्यक्षानिव पुरोवर्तमानानिव। अनुभवामि स्मृतिवैशद्येन प्रत्यक्षीकरोमि॥१७॥ कान्ताराणि दुर्गमवर्त्मानि। भयानकं भयजनकम्। त्वयेति। मधुगन्ध एषु अस्तीति मधुगन्धीनि तेषु वनेषु इह कान्तारेषु आरमते प्रीतिं प्राप्तक्त्येव। कुत इत्यत आह— स्नेहस्तस्याः सतादृश इति। ‘हृदयं त्वेव जानाति प्रीतियोगं परस्परम्’ इत्युक्तरीत्या परिच्छेदातीत इत्यर्थः॥१८॥ नेति। यस्य प्रियः प्रीतिमान् प्रीतिविषयो वा यः जनः किंचिदपि न कुर्वाणः सन् किंचित्कारणलेशेनापि शून्यः सन् सौख्यैः स्वीयसुखैः करणैः दुःखान्यपोहति नाशयति। तत् दुःखनाशहेतुभूतो जनः। विधेयप्राधान्यात् नपुंसकत्वम्। तस्य अपोहनीयदुःखवतः पुरुषस्य किमपि विलक्षणं द्रव्यं भव्यवस्तु। ‘द्रव्यं च भव्ये’ इत्यनुशासनम्। यद्वा,—सौख्यैरिति इत्थंभूतलक्षणे तृतीया। तथा च सौख्यैः विशिष्टः सुखितः प्रियः इष्टो यः जनः यस्य न किंचिदपि कुर्वाणः स्वरूपातिरेकिव्यापारलेशशून्यः सन् दुःखानि अपोहति तदित्यादि पूर्ववत्। दुःखनिवृत्तिहेतुव्यापारलेशशून्यः सन्नपि स्वीयसुखविशिष्टः यः स्वरूपेणैव यद्दुःखनिवृत्तिं प्रति कारणं तं प्रति तस्य निस्तुलभव्यद्रव्यत्वमिति भावः। एवं चाहं सीताविषये किंचित्कारलेशशून्योऽपि सुखितः सन् तद्दुःखनिवर्तक इति कान्तारगमनं युक्तमेवेति हृदयस्थितोऽर्थः॥१९॥ अथेति। पर्यन्तैः अभ्यर्णप्रदेशैः। छायाप्रधाना–
——————————————————————————————————————

मण्डितान्यसंभ्रान्तविविधमृगयूथानि पश्यतु महाभागः प्रशान्तगम्भीराणि श्वापदकुलशरण्यानि155 महारण्यानि।

इह समदशकुन्ताक्रान्तवानीरमुक्त–
प्रसवसुरभिशीतस्वच्छतोया वहन्ति।
फलभरपरिणामश्यामजम्बूनिकुञ्ज–
स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः॥२०॥

अपि च,—

दधति कुहरभाजामत्र भल्लूकयूना–
मनुरसितगुरूणि स्त्यानमम्बूकृतानि।
शिशिरकटुकषायः स्त्यायते सल्लकीना–
मिभदलितविकर्णग्रन्थिनिष्यन्दगन्धः॥२१॥

रामः— (सबाष्पस्तम्भम्।) भद्र ! शिवास्ते पन्थानो देवयानाः। प्रलीयस्व पुण्येभ्यो लोकेभ्यः।

शम्बूकः— यावत्पुराणब्रह्मर्षिमगस्त्यमभिवाद्य शाश्वतं पदमनुप्रविशामि। (इति निष्क्रान्तः।)

रामः

एतत्पुनर्वनमहो कथमद्य दृष्टं
यस्मिन्नभूम चिरमेव पुरा वसन्तः।
आरण्यकाश्च गृहिणश्च रताः स्वधर्मे
सांसारिकेषु च सुखेषु वयं रसज्ञाः॥२२॥

एते त एव गिरयो विरुवन्मयूरा–
स्तान्येव मत्तहरिणानि वनस्थलानि।

——————————————————————————————————————

स्तरवः छायातरवः, प्रशान्तानि अनुद्वेगजननानि। इहेति। शकुन्ताः पक्षिणः। चानीराः वेतसविशेषाः। मुखराणि शब्दवन्ति भूरीणि स्रोतांसि यासां ताः॥२०॥ दधतीति। कुहरभाजां गुहावर्तिनां भल्लूकयूनां ऋक्षाणां अनुरसितेन अनुरणनेन गुरूणि महान्ति अम्बूकृतानि निष्ठीवनशब्दानि स्त्यानं वृद्धिं वैपुल्यं वा दधति भजन्ति। निष्यन्दः स्वरसद्रवः स्त्यायते वर्धते विसरति वा॥२१॥ देवयानाः देवयाननामकाः। ते च ‘अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्’ इत्युक्ताः। लोकेभ्यः लोकाननुभवितुम्। एतदिति। गृहिणः गृहमेधिनः। सांसारिकेषु जन्म–
——————————————————————————————————————

आमञ्जवञ्जुलरुतानि156 च तान्यमूनि
नीरन्ध्रनीप157निचुलानि सरित्तटानि॥२३॥

मेघमालेव यश्चायमारादिव विभाव्यते।
गिरिः प्रस्रवणः सोऽयं यत्र गोदावरी नदी॥२४॥

अस्यैवासीन्महति शिखरे गृध्रराजस्य वास–
स्तस्याधस्ताद्वयमपि रतास्तेषु पर्णोटजेषु।
गोदावर्याः पयसि वित158तानोकहश्यामलश्री–
रन्तःकूजन्मुखरशकुनो यत्र रम्यो वनान्तः॥२५॥

अत्रैव सा पञ्चवटी यत्र चिरनिवासेन विविधविस्रम्भातिप्रसङ्गसाक्षिणः प्रदेशाः प्रियायाः प्रियसखी च वासन्ती नाम वनदेवता। किमिदमापतितमद्य रामस्य ? संप्रति हि,—

चिराद्वेगारम्भी प्रसृत इव तीव्रो विषरसः
कुतश्चित्संवेगात्प्रचल इव शल्यस्य शकलः।
व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः
पुराभूतः159 शोको विकलयति मां नूतन इव॥२६॥

——————————————————————————————————————

फलभूतेषु॥२२॥ एत इति। विरुवन्मयूराः कूजद्बर्हिणः॥२३॥ मेघमालेति। मेघमालेव मेघमालासदृशः यः अयं पुरोवर्तिपदार्थः आरादिव समीपस्थइव विभाव्यते ज्ञायते। यत्र गिरौ गोदावरी नदी सः प्रस्रवणो गिरिः॥२४॥ अस्यैवेति। मुखरशकुनः कूजत्पक्षियुक्तः अत एव अन्तः कूजन् स्वयं कूजन्निव स्थितः॥२५॥ यत्रेति। विस्रम्भाः स्वैरविलासाः। चिरादिति। तीव्रःस्पर्शदशायामपि दुःसहः। अनेन अज्ञातस्पर्शविषविशेषव्यावृत्तिः। चिरात् भूयांसं कालंशमित्वा। वेगं वेदनाशैघ्र्यंआरम्भयति उत्पादयतीति वेगारम्भी। अनेन पूवाक्तविषविशेषव्यावृत्तिः। प्रसृतः यत्राङ्गुल्यादौ स्पर्शः ततोऽन्यत्र सर्वाङ्गेषु प्रसृतः दलनादिना दुःसहप्रसरणः यः विषरसः तत्सदृश इत्यर्थः। ‘रस’शब्देन विशेषोत्कर्षो विवक्षितः। कुतश्चित् यस्मात्कस्माच्चित् संवेगात् संभ्रमादिजन्यात् निर्घातात् प्रचलः शल्यस्य बाणाग्रस्य शक्लः खण्ड इव स्थितः। स हि मरणभयादनुद्धृत एव तिष्ठति। रूढाः प्रादुर्भूताः ग्रन्थय उपव्रणाः यस्मात् स तथोक्तः। स्फुटितः दलितः हृन्मर्मणि व्रण इव हृदयमर्मवर्तिव्रणसदृशः क्वाचित्कस्पर्शसार्वत्रिकप्रसरणाभ्यां प्रथमो दृष्टान्तः। प्रतिकार्यत्वशङ्काव्युदासाय द्वितीयः। स्वल्पकालत्वव्यावृते तृतीयः। विशेषमाह — नूतन इवेति। विकलयति शून्यं करोति॥२६॥
——————————————————————————————————————

तथाविधानपि तावत्पूर्व160सुहृदो भूमिभागान्पश्यामि। (निरूप्य।) अहो, अनवस्थितो भूतसंनिवेशः। तथा हि,—

पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां
विपर्यासं यातो घनविरलभावः क्षितिरुहाम्।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं
निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति॥२७॥

हन्तहन्त, परिरहन्तमपि मां पञ्चवटी स्नेहाद्बला161दाकर्षतीव। (सकरुणम्।)

यस्यां ते दिवसास्तया सह मया नीता यथा स्वे गृहे
यत्संबन्ध162कथाभिरेव सततं दीर्घाभिरास्थीयत।
एकः संप्रति नाशितप्रियतमस्तामेव163 रामः कथं
पापः पञ्चवटीं विलोकयतु वा गच्छत्वसंभाव्य वा॥२८॥

—————————————————————————————————————

अनवस्थितो भूतसंनिवेशः अनियता पदार्थस्थितिः। पुरेति। बहोः कालात् दृष्टं बहुकालमदृष्ट्वा दृष्टम्। ल्यब्लोपे पञ्चमी। यद्वा,—पूर्वदर्शनकालबहुविप्रकृष्टकाले दृष्टम्। ‘सप्तमीपञ्चम्यौ’ (पा.२।३।७) इति पञ्चमी। तदिदमिति बुद्धिं प्रत्यभिज्ञानम्। अत्र प्रस्तुतवृत्तान्तवर्णनात् अप्रस्तुतप्राणिकुटुम्बोपचयापचयपरिस्फूर्तिरिति कुवलयानन्दकृत्॥२७॥ यस्यामिति। स्वेगृहे यथा यस्यां ते दिवसाः नीताः निरुपप्लवत्वरामणीयकादिभिः स्वगृहतुल्यायां यस्यां पञ्चवट्यां नीता अविवाहिताः। न केवलं रात्रयो नीताः, किंतु दिवसा अपि नीता इति ‘दिवस’पदेन व्यज्यते। तेन स्वगृहापेक्षया वैलक्षण्यमपि पञ्चवट्याः। तत्र हि राज्यतन्त्रादिना दिवसेषु न सहावस्थानं घटते। तया सह मयेति वाऽन्वयः। स्वगृहे गुरुसंनिधितिरोहितप्रणयपारतन्त्र्यसंकोचात् स्वगृहाद्विशेषः। यत्संबन्धकथाभिः कर्त्रीभिः। आस्थीयत। तिष्ठतेर्भावे लङ्। एवकारेण वाग्व्यापारान्तरप्रतिषेधः। ‘यत्कथाभिः’ इत्यनुक्त्वा ‘यत्संबन्धकथाभिः’ इत्युक्तेः पञ्चवटीपरिसरवर्तिनामपि रामणीयकं व्यज्यते। अत्र ‘स्मरन्कमलपत्राक्षीं रामः संध्यामुपागमत्’ इत्युक्तरीत्या सर्वकालं बुद्धिस्थत्वात् तथेत्युक्तम्। तामेव, न तु यां कांचिदित्यर्थः। वियोगे हि रमणीयवस्तुदर्शनमात्रं दुःसहम्, किं पुनः सहानुभूतरमणीयदर्शनं दुःसहमिति। एकः केवलः। सीताशून्य इति भावः। ननु राज्ञः शुद्धान्त एव स्थित्यर्हायाः कथं सहगमनं घटते ? पुरं प्रतिगमने तु सुलभमेव तद्दर्शनमिति किमिहात्याहितमित्यत्राह—नाशितप्रियतम इति। नाशितत्वमपि दैवाधीनं चेत् कथंचित् सह्यत एव, नतु तथा; किंतु मदधीन एव नाश इति दुःखातिशयो व्यज्यते। ननु तर्हि यत्र सा
—————————————————————————————————————

(प्रविश्य।)

शम्बूकः— जयतु देवः। देव ! भगवानगस्त्यो मत्तः श्रुत164संनिधानस्त्वामाह—‘परिकल्पितावरण165मङ्गला प्रतीक्षते वत्सला लोपामुद्रा, सर्वे च महर्षयः। तदेहि, संभावयास्मान्। अथ प्रजविना पुष्पकेण स्वदेशमुपगत्याश्वमेधाय सज्जो भव’ इति।

रामः— यथाज्ञापयति भगवान्।

शम्बूकः— इ166’.")त इतो देवः।

रामः— (पुष्पकं प्रवर्तयन्।) भगवति पञ्चवटि ! गुरुजनादेशोपरोधात्क्षणं क्षम्यतामतिक्रमो रामस्य।

शम्बूकः— देव ! पश्य,—

गुञ्जत्कुञ्जकुटीरकौशिकघटाघुक्कार167वत्कीचक–
स्तम्बाडम्बरमूकमौकुलिकुलः क्रौञ्चाभिधोऽयं168 गिरिः।
एतस्मिन्प्रचलाकिनां प्रचलतामुद्वेजिताः कूजितै–
रुद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः॥२९॥

—————————————————————————————————————

तत्रैव गम्यतामित्यत्राह—पाप इति। मरणप्रतिबन्धकपापवानित्यर्थः। ‘तथाप्येष प्राणः स्फुरति न तु पापो विरमति’ इत्युक्तेः। असंभाव्य असंमान्य रामः पञ्चवटीं विलोकयतु। वेत्यन्यादृशशैल्यात् सर्वथा न मत्स्वरूपविलोकनमसंभाव्य गमनं वेति व्यज्यते। ‘संप्रति नाशितप्रियतम’ इत्यनेन आर्द्रदुःखत्वं व्यज्यते। सर्वथा प्रियारामेत्यारभ्य एतच्छ्लोकपर्यन्तमनुराग प्रकाशनविशिष्टवचनरूपं पु169 ‘पुष्पं वाक्यविशेषवत्’ इति।")ष्पं नाम संध्यङ्गमुतम्॥२८॥ भगवानिति। मत्तः श्रुतं संनिधानं त्वत्सामीप्यं येन सः। ‘मत्त’ इति रामागमनाख्यातुः दिव्यपुरुषस्यागस्त्यं प्रति गुरुप्रायत्वं कवेरभिमतमिति व्यज्यते। ‘आख्यातोपयोगे’ (पा. १।४।२९) इति पञ्चमीविधानात्। परिकल्पितेति। आवरणमङ्गलं नीराजनादिकम्। लोपामुद्रा अगस्त्यपत्नी प्रतीक्षते कृतक्षणा तिष्ठति, त्यक्तसर्वव्यापारा तिष्ठतीत्यर्थः। अथ प्रजविना प्रकृष्टवेगवता। एकदेशिनेति ज्ञापनात् कर्मधारयादिनिः॥ प्रवर्तयन् गमयन्। गुरुजनस्य अगस्त्यस्य आदेशोपरोधात् आज्ञानुसरणाद्धेतोः। अतिक्रमः असंभाव्यगमनरूपः। अत्रेष्टजनानुनयात् पर्युपासनं170 इति तल्लक्षणम्।”) नाम संध्यङ्गमुक्तम्॥ गुञ्जदिति। कुञ्जा एव कुटीराः गुञ्जन्तः
—————————————————————————————————————

अपि च,—

एते ते कुहरेषु गद्गदनद्गोदावरीवारयो
मेघालम्बितमौलिनीलशिखराः क्षोणीभृतो दाक्षिणाः।
अन्योन्यप्रतिघातसंकुलचलत्केल्लोलकोलाहलै–
रुत्तालास्त इमे गभीरपयसः पुण्याः सरित्संगमाः॥३०॥

(इति निष्क्रान्ताः सर्वे।)

इति द्वितीयोऽङ्कः।
<MISSING_FIG href=”../books_images/U-IMG-1728715126Untitled.jpg”/>

अव्यक्तशब्दवन्तः कुञ्जकुटीराः येषां ते। कौशिकघटाः घूकपङ्क्तयः तासां घुक्काराः एषु सन्तीति तद्वन्तः कीचकाः तेषां रन्ध्रवतां वेणुविशेषाणां स्तम्बाः काण्डाः तेषामाडम्बरः संभ्रमः तेन मूकानि जोषमासीनानि मौकुलिकुलानि यस्य स तथोक्तः। क्रौञ्चाभिधः तन्नामकोऽयं गिरिः। प्रचलाकिनां मयूराणाम्। रोहिणतरवः हरिचन्दनवृक्षाः। कुम्भीनसाः सर्पाः। उद्वेल्लन्ति वेपन्ते। ‘वेल्ल चलने’॥२९॥ एतइति। कुहरेषु गुहासु गद्गदं यथा तथा नदन्ति शब्दवन्ति गोदावरीवारीणि येषु तथोक्ताः। शिखराग्रं मौलिः। पर्वताग्रं शिखरमिति इह मेदः। क्षोणीभृतः पर्वताः। दाक्षिणाः दक्षिणदिशावर्तिनः। एते ते पूर्वं भवता दृष्टाः। अन्योन्यप्रतिघातेन परस्परप्रत्यास्फालनेन संकुला निबिडाः चलन्तः कल्लोलाः तरङ्गाः तेषां कोलाहलैः कलकलैः उत्ताला उल्बणाः सरित्संगमाः नदीसंगमाः॥३०॥

वाधूलवंशजनुषो भूसारजवीरराघवार्यस्य।
उत्तररामचरित्रव्याख्यायामवसितो द्वितीयोऽङ्कः॥

इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतलस्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां द्वितीयोऽङ्कः।
——————

तृतीयाङ्कस्य कथावस्तु।

प्रस्तुते नृदेहधृक्तमसा–मुरलानदीसंवादात्मके विष्कम्भके वक्ष्यमाणमितिवृत्तम्। रामो ह्यगस्त्याश्रमात् परावृत्तो दण्डकारण्यं संप्राप्तस्तत्रस्थवृक्षगिर्यादिकमवलोक्य पूर्ववृत्तं समनुस्मरन् सीताया विप्रलंभशोकेन पराभूतः;स किं करिष्यतीति साशङ्कान्तःकरणा तत्रभवती भागीरथी वैदेहीसमन्विता गोदावरीपरिसरे दण्डकारण्यस्यैकदेशं संप्राप्तवती। भूतलवर्तिन्यपि वैदेही न कस्यापि प्राणिमात्रस्य दृष्टिगोचराऽभवत्। सीतावियोगविषण्णं रामं संमूर्च्छितमवेक्ष्य दूनहृदया सीतापि ससंभ्रमं तत्रागत्य अदृश्यंस्वरूपतयैव सस्वपाणिसंस्पर्शं तं परामृष्टवती। सोऽपि तस्याः करस्पर्शेन सम्यगानंदितः सन् सद्य एव संज्ञां लेभे। ततो नयने चोन्मील्य इतस्ततः प्रसारितदृष्टिर्न किमपि प्राणिमात्रं तत्रालक्षयत्। अथ च तीर्थाश्रमकरिकलमगिरिहरिणकादिपूर्वपरिचितानवलोक्य पूर्ववृत्तान्तान्प्रत्यक्षानिवानुभवन् रामो हि पुनः क्रोधपराहतः रुदन् वनदेवतया वासन्त्या सम्यगुपालब्धः सन् पुनश्च मूर्च्छामासादितवान्। सीताप्यदृष्टिगोचरा सती पूर्ववदेव रामं वक्षसि ललाटे च समस्पृशत्। तेन च पुनरपि रामश्चेतनां समाससाद। ततश्च रामः स्मारं स्मारं बहु विलप्य समुपक्रान्तमश्वमेधयज्ञं समापयिष्यन् यथाकथमपि पुष्पकविमानं समारुह्यायोध्यां संप्रतस्थे।

(ततः प्रविश्यति नदीद्वयम्।)

एका— सखि मुरले ! किमसि संभ्रान्तेव ?

मुरला— सखि तमसे ! प्रेषितास्मि भगवतोऽगस्त्यस्य पत्न्या लोपामुद्रया सरिद्वरां गोदावरीमभिधातुम्। जानास्येव यथा वधूपरित्यागात्प्रभृति—

अनिर्भिन्नो गभीरत्वादन्तर्गूढघनव्यथः।
पुटपाकप्रतीकाशोरामस्य करुणो रसः॥१॥

तेन च तथाविधेष्टजनकष्टविनिपातजन्मना प्रकृष्टगद्गदेन171 दीर्घशोकसंतानेन संप्रति172परिक्षीणो रामभद्रः। तमवलोक्य कम्पितमिव173 कुसुमसमबन्धनं मे हृदयम्। अधुना च प्रतिनिवर्तमानेन रामभद्रेण नियतमेव पञ्चवटीवने वधूसहनिवासविस्रम्भसाक्षिणः प्रदेशा द्रष्टव्याः। तत्र च निसर्गधीरस्याप्येवंविधायामवस्थायामतिगम्भीराभोगशोकक्षोभसंवेगात्पदे पदे महाप्रमादानि शोकस्था174नानि शङ्कनीयानि रामभद्रस्य। तद्भगवति गोदावरि ! त्वया तत्रभवत्या सावधानया भवितव्यम्।

—————————————————————————————————————

वधूपरित्यागात् स्नुषापरित्यागात्। अनिर्भिन्न इति। करुणो रसः इष्टजनवियोगजन्यदुःखातिशयात्मकरसः पु175टपाकप्रतीकाशः लोहादिमयसंपुटान्तर्वर्तिसंतापनसदृश इत्यर्थः॥१॥ तेनेति। तथाविधेष्टजनस्य सीतायाः कष्टविनिपातात् दुःखमयविक्षेपात् जन्म उत्पत्तिः यस्य तथोक्तेन। प्रकृष्टोऽधिकः गद्गदः गद्गदशब्दः येन तथोक्तेन। ‘प्रकर्षगद्गदेन’ इति पाठे प्रकर्षेण गद्गदो यस्मिन्निति विग्रहः। दीर्घशोकसंतानेन दीर्घदुःखपरिवाहेण परिक्षीणः कार्श्यदौर्बल्यादियुक्तः। कुसुमेन समं बन्धनं यस्येति विग्रहः, कुसुमसमबन्धनम्। तद्वत् सुच्छेदमित्यर्थः। अधुनेति। वधूसहनिवासे ये विस्रम्भाः स्नवैरलीलाः तत्साक्षिणः तत्साक्षात्कर्तारः प्रदेशाः वनोद्देशाः नियतमित्यसंदेहवाचि। तत्रेति। गम्भीर आभोग आयामो यस्य तथोक्तो यः शोकः तेन जातस्य क्षोभस्य प्रकृतिविपर्यासस्य संवेगात् वेगातिशयात्। महान् प्रमादः अनवधानता येषु तथोक्तानि। संज्ञाच्छेदकारीणीत्यर्थः। शोकस्थानानि जगतां शोकनिमित्तानि। रामात्याहितानीति भावः। सावधानया अवधानं मनसो विषया–
—————————————————————————————————————

वीचीवातैः शीकरक्षोदशीतैराकर्षद्भिः पद्मकिञ्जल्कगन्धान्।
मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरं प्रेरितैस्तर्पयेति॥२॥

तमसा— उचितमेव दाक्षिण्यं स्नेहस्य। संजीवनोपायस्तु मूलत एव रामभद्रस्य संनिहितः।

मुरला— कथमिव ?

तमसा— तत्सर्वं श्रूयताम्—अस्ति खलु वाल्मीकितपोवनोपकण्ठात्परित्यज्य निवृत्ते सति लक्ष्मणे सीता देवी प्राप्तप्रसववेदनमतिदुःखसंवेगादात्मानं गङ्गाप्रवाहे निक्षिप्तवती। तदैव तत्र दारकद्वयं च प्रसूता। भगवतीभ्यां पृथ्वीभागीरथीभ्यामप्युभाभ्यामभ्युपपन्ना रसातलं च नीता। स्तन्यत्यागात्परेण दारकद्वयं च तस्य प्राचेतसस्य महर्षेर्गङ्गादेव्या समर्पितं स्वयम्।

मुरला— (सविस्मयम्।)

ईदृशानां विपाकोऽपि जायते परमाद्भुतः।
यत्रोपकरणीभावमायात्येवंविधो जनः॥३॥

तमसा— इदानीं तु शम्बूकवृत्तान्तेनानेन संभावितजनस्थानं176 रामभद्रं सरयूमुखादुपश्रुत्य भगवती भागीरथी यदेव भगवत्या लोपामुद्रया स्नेहादाशङ्कितं तदेवाभिशङ्क्य सीतासमेता केनचिदिव गृहाचारव्यपदेशेन गोदावरीमुपागता177

—————————————————————————————————————

न्तरसंचारविमुखता तत्सहितया॥ वीचीति। शीकराणां क्षोदैः सूक्ष्मांशैः। पद्मकिञ्जल्कानां अरविन्दकेसराणां गन्धान् सौरभ्याणि आकर्षद्भिः हरद्भिः। ‘शीकरक्षोद’ इत्यनेन शैत्यमुक्तम्। ‘पद्मकिञ्जल्कगन्धान्’ इत्यनेन सौरभ्यमुक्तम्। ‘आकर्षद्भिः’ इत्यनेन मान्द्यमुक्तम्; वहनाशक्तावेव कर्षणसंभवात्। स्वैरं निःशङ्कम्। अत्र स्वैरमित्युक्त्या सुरभिशीतलमृदुवाता अपि विरहिणामनर्थकारिण इति न शङ्क्यम्। विरहिणां चैतन्यदशायामेव दुःसहा इमे। मूच्छितानां तु प्राणप्रतिष्ठापनकरा एव। नातस्त्वयातिशङ्का कर्तव्येति व्यज्यते॥२॥ उचितमिति। दाक्षिण्यं सामर्थ्यं, ऊहापोहात्मकज्ञानवत्त्वं वा। मूलतः सीताङ्कुरात्, मूलमिति सीतोच्यते। मौलिकं इति पाठेऽप्यर्थः प्रागिव। वाल्मीकीति। प्राप्तप्रसववेदनं जातप्रसवदुःखम्। आत्मानं स्वम्। दारकद्वयं शिशुद्वयम्। प्रसूता प्रसूतवती। अभ्युपपन्ना संगता। स्तन्यत्यागात्परेण स्तन्यत्यागानन्तरम्॥ ईदृशानामिति। विपाकः दशा। उपकरणीभावमुपकरणत्वम्॥३॥ इदानीं त्विति। उपश्रुत्याकर्ण्य। तत् सर्वं श्रूयता–
—————————————————————————————————————

मुरला—सुष्ठु चिन्तितं भगवत्या भागीरथ्या। राजनीतिस्थितस्यास्य178 खलु तैश्च तैश्च जगतामाभ्युदयिकैः कार्यैर्व्यापृतस्य रामभद्रस्य नियताश्चित्तविक्षेपाः। अव्यग्रस्य पुनरस्य शोकमात्रद्वितीयस्य पञ्चवटीप्रवेशो महाननर्थ इति। तत्कथं सीतया रामभद्रोऽयमाश्वासनीयः स्यात् ?

तमसा—उक्तमत्र भगवत्या भागीरथ्या ‘वत्से देवयजनसंभवे सीते ! अद्य स्वल्वायुष्मतोः कुशलवयोर्द्वादशस्य जन्मवत्सरस्य संख्यामङ्गलग्रन्थिरभिवर्तते। तदात्मनः पुराणश्वशुरमेतावतो मानवस्य राजर्षिवंशस्य प्रसवितारं सवितारमपहतपाप्मानं देवं स्वहस्तावचितैः पुष्पैरुपतिष्ठस्व। न त्वामवनिपृष्ठवर्तिनी179मस्मत्प्रभावाद्वनदेवता अपि द्रक्ष्यन्ति किमुत मर्त्याः ?’ इति। अहमप्याज्ञापिता ‘तमसे ! त्वयि प्रकृष्टप्रेमैव वधूर्जानकी। अतस्त्वमेवास्याः प्रत्यनन्तरीभव’ इति। साहमधुना यथादिष्टमनुतिष्ठामि।

मुरला—अहमप्येतं वृत्तान्तं भगवत्यै लोपामुद्रायै निवेदयामि। रामभद्रोऽप्यागत एवेति तर्कयामि।

तमसा— तदियं गोदावरीह्रदान्निर्गत्य180

———————————————————————————————————————

मित्यारभ्य ऋषिश्रेयोवितरणरूपबीजस्य अन्वेषणात् गर्भसंधिरयम्। ‘गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः’ (द.रू. १।३६) इत्युक्तेः। केनचिदिव गृहाचारव्यपदेशेनेत्यत्र प्रस्तुतोपयोगिच्छद्माचरणरूपं अभूताहरणं181 नाम संध्यङ्गमुक्तम्॥ सुष्ठ्विति। राजनीतिस्थितस्य क्षत्रियोचितराज्यपरिपालनात्मकधर्मनिष्ठस्य। अभ्युदयाय भवन्तीत्याभ्युदयिकानि इति विग्रहः। तैः आभ्युदयिकैः। चित्तविक्षेपाः हृदयतोदाः। अव्यग्रस्य व्यापारान्तरशून्यस्य। अनर्थः तद्दुःखहेतुः। एष तत्त्वार्थानुकीर्तनरूपो मार्ग उक्तः॥ द्वादशंस्य जन्मवत्सरस्य संख्यामङ्गलग्रन्थिरभिवर्तते संख्यापूर्तिहेतुकमङ्गलग्रन्थिः। वत्सरे वत्सरे शिशूनां जन्मनक्षत्रे शान्त्युत्सवं कृत्वा मङ्गलार्थं करे पट्टसूत्रादिना स्त्रियो ग्रन्थिं कुर्वन्ति। स तु करे वलयरूपेण तिष्ठतीत्युपदेशः। मानवस्य मनुसंबन्धिनः। प्रसवितारं जनकम्। अपहतपाप्मानं निरस्तसमस्ताविद्यादिदोषगन्धम्। देवं जगत्सृष्ट्यादिलीलाशालिनम्। अत्र ‘एष सर्वेभ्यः पाप्मभ्य उदेति’ इत्यन्तरादित्यविद्या प्रत्यभिज्ञापिता। तत्र च कप्यासश्रुत्या नारायण एवप्रतिपाद्य इति स्पष्टमेव। उपतिष्ठस्व सेवस्व। अत इति। प्रत्यनन्तरीभव अनुचरीभव॥ रामभद्र इति। तर्कयामि
———————————————————————————————————————

परिपाण्डुदुर्बलकपोलसुन्दरं
दधती विलोलकबरीकमाननम्।
करुणस्य मूर्तिरथवा शरीरिणी
विरहव्यथेव वनमेति जानकी॥४॥

मुरला—इयं हि सा,—

किसलयमिव मुग्धं बन्धनाद्विप्रलूनं
हृदयकम182लशोषी दारुणो दीर्घशोकः।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं
शरदिज इव धर्मः केतकीगर्भपत्रम्॥५॥

(इति परिक्रम्य निष्क्रान्ते।)

इति शुद्धविष्कम्भः।

(नेपथ्ये)

जा183त जात184 !

(ततः प्रविशति पुष्पावचयव्यग्रा सकरुणौत्सुक्यमाकर्णयन्ती सीता।

सीता— अम्महे, जाणामि पिअसही वासंदी व्याहरदित्ति [अहो, जानामि प्रियसखी वासन्ती व्याहरतीति।]

(पुनर्नेपथ्ये।)

सीतादेव्या स्वकरकलितैः सल्लकीपल्लवाग्रै–
रग्रे लोलः करिकलभको यः पुरा वर्धितोऽभूत्।

——————————————————————————————————————

अनुमिनोमि। परिपाण्ड्विति। करुणस्य इष्टवियोगजन्यदुःखातिशयस्य मूर्तिः आकारो वा। विरहव्यथा विरहजन्यसंतापादिरूपा॥४॥ किसलयमिति। परिपाण्डु उक्तरीत्या अतिम्लानत्वेऽपि लावण्याविरोधिपाण्डुतोक्ता। ग्रीष्मविरहतापयोरयमेव विशेषः— यत् ग्रीष्मस्य लावण्यनाशकत्वम्, विरहस्य तु तदभाव इति। तथा च कालिदासः —‘समस्तापः कामं मनसिजनिदाघप्रसरयोर्न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु’ इति। एवं सुभगं न, एवं लावण्यापरित्यागेन रमणीयं न भवतीत्यर्थः। तथाह भगवान्वाल्मीकिः— ‘ज्योत्स्नातुषारमणिना पौर्णमास्यां हि लक्ष्मण !। शीतेन चातपश्यामा दृश्यते न च शोभते॥’ इति। ग्रीष्मस्यातपश्यामेति लावण्यनाशकत्वम्। क्षामं कृशं ग्लपयति म्लानं करोति। शरदिजः शरत्कालजः। ‘प्रावृट्शरत्—’ (पा. ६।३।१५) इत्यादिसूत्रेणालुक्। अत्र लिङ्गादभ्यूहनरूपं अनुमानं नाम संध्यङ्गमुक्तम्॥५॥ शुद्धविष्कम्भ इति। संस्कृतात्मकविष्कम्भ इत्यर्थः। विष्कम्भस्वरूपं तु— ‘वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः। संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः॥’ (द. रू.१\।५९) इति। केवलसंस्कृतप्रायः
——————————————————————————————————————

** सीता**— किं तस्स ? [किं तस्य ?]

(पुनर्नेपथ्ये।)

वध्वा सार्धं पयसि विहरन्सोऽहमन्येन दर्पा–
दुद्दामेन द्विरदपतिना संनिपत्याभियुक्तः॥६॥

सीता— (ससंभ्रमं कतिचित्पदानि गत्वा।) अज्जउत्त ! परित्ताहि परित्ताहि मह तं पुत्तअं। (विचिन्त्य।) हद्धी हद्धी, ताइं एव्व चिरपरिइदाइं अक्खराइं पंचवटीदंसणेण मं मंदभाइणिं अणुबंधंति। हा अज्जउत्त !। [आर्यपुत्र ! परित्रायस्व परित्रायस्व मम तं पुत्रकम्। हा धिक् हा धिक्, तान्येव चिरपरिचितान्यक्षराणि पञ्चवटीदर्शनेन मां मन्दभागिनीमनुबध्नन्ति। हा आर्यपुत्र !] (इति मूर्च्छति।)

(प्रविश्य।)

तमसा— समाश्वसिहि समाश्वसिहि।

(नेपथ्ये।)

विमानराज ! अत्रैव स्थीयताम्।

सीता—(समाश्वस्य, ससाध्वसोल्लासम्) अम्महे, जलभरभरिअमेहमंथरत्थणिअगंभीरमंसलो कुदो णु भारईणिग्घोसो भरंतकण्णविवरं मं वि मंदभाइणिं झत्ति उस्सुआवेइ। [अहो, जलभरभरितमेघमन्थरस्तनितगम्भीरमांसलः कुतो नु भारतीनिर्घोषो भ्रियमाणकर्णविवरां मामपि मन्दभागिनीं झटित्युत्सुकापयति।]

तमसा—(सस्मितास्रम्।) अयि वत्से !

अपरिस्फुटनिक्काणे185 कुतस्त्येऽपि त्वमीदृशी।
स्तनयित्नोर्मयूरीव चकितोत्कण्ठितं स्थिता॥७॥186

——————————————————————————————————————

शुद्ध इति॥ व्याहरति वदति॥ सीतेति। स्वकरकलितैः स्वकराभ्यां दत्तैरित्यर्थः। वध्वा सार्धं स्त्रिया सह। उद्दामेन उत्कटेन संनिपत्य स्वयमापत्य। अभियुक्तः प्रत्यर्थितया संगतः॥६॥ आर्यपुत्रेति। परित्रायस्वेति। एष ह्यपकारिजनात् भीतिरूप उद्वेग उक्तः। तानीति। अक्षराणि आर्यपुत्रेति वर्णाः। अनुबध्नन्ति अनुसरन्ति। मन्दभागिनीं अल्पपुण्यफलाम्॥ जलेति। मांसलः स्फीतः। भारतीनिर्घोषः वर्णोच्चारणध्वनिः। उत्सुकापयति उत्कण्ठितां करोति। स्वरसंयोगेन
——————————————————————————————————————

सीता— भअवदि ! किं भणासि अपरिप्फुडेत्ति ! सरसंजोएण पच्चहिजाणामि णं अज्जउत्तेण एव्व एदं वाहरिदं। [भगवति ! किं भणस्यपरिस्फुटेति ? स्वरसंयोगेन प्रत्यभिजानामि नन्वार्यपुत्रेणैवैतद्व्याहृतम्।]

तमसा— श्रूयते तपस्यतः किल शूद्रस्य दण्डधारणार्थमैक्ष्वाको राजा दण्डकारण्यमागत187 इति।

सीता— दिट्ठिआ अपरिहीणधम्मो खु सो राआ। [दिष्ट्या अपरिहीनधर्मः खलु स राजा।]

(नेपथ्ये।)

यत्र द्रुमा अपि मृगा अपि बन्धवो मे
यानि प्रियासहचरश्चिरमध्यवात्सम्।
एतानि तानि बहुकन्दरनिर्झराणि
गोदावरीपरिसरस्य गिरेस्तटानि॥८॥

सीता—(दृष्ट्वा।) दिट्ठिआ कहंपहादचंदमंडलापंडरपरिक्खामदुब्बलेन आआरेण णिअसोम्हगंभीराणुभावमेत्तपच्चहिजेज्जो एव्व अज्जउत्तो होदि। भअवदि तमसे ! धारेहि मं। [दिष्ट्या कथं प्रभातचन्द्रमंडलापाण्डरपरिक्षामदुर्बलेनाकारेण निजसौम्यगम्भीरानुभावमात्रप्रत्यभिज्ञेय एवार्यपुत्रो भवति। भगवति तमसे ! धारय माम्।]

(इति तमसामाश्लिष्य मूर्च्छति।)

तमसा— वत्से। समाश्वसिहि समाश्वसिहि।

(नेपथ्ये।)

अनेन पञ्चवटीदर्शनेन —

अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः।
उत्पीड इव धूमस्य मोहः प्रागावृणोति माम्॥९॥

———————————————————————————————————————

स्वरसंदर्भेण प्रत्यभिजानामि तदिदमिति वेद्मि। श्रूयत इति। तपस्यतः तपश्चरतः कण्ड्वादिरयम्। दण्डधारणार्थं अपराधानुगुणशिक्षणार्थम्। ऐक्ष्वाकः इक्ष्वाकुवंश्यः। ‘दण्डिनायन—’ (पा. ६।४।१७४) इत्यादिसूत्रेण टिलोपः॥ अपरिहीनधर्मः अन्यूनधर्मः॥ यत्रेति। अध्यवात्सम् उषितवानस्मि। ‘उपान्वध्याङ्वसः’ (पा. १।४।४८) इति कर्मत्वम्। एतानीति। गोदावरीपरिसरस्य गोदावरीसमीपवर्तिनः॥८॥ परिक्षामदुर्बलेन दुर्बलायमानेन। पाठान्तरम् ‘परिक्षामधूसरेण’ इति। अतिकृशेन दुर्बलेन चेत्यर्थः॥ अनुभावमात्रप्रत्यभिज्ञेयः प्रभावेन केवलं प्रत्यभिज्ञातुं शक्यः॥ अन्तर्लीनस्येति। अन्तर्लीनस्य अन्तर्गूढस्य।
———————————————————————————————————————

हा प्रिये जानकि !

तमसा— (स्वगतम्।) इदं ता188वदाशङ्कितं गुरुजनेन।

सीता— (समाश्वस्य।) हा, कहं एदं ? [हा, कथमेतत् ?]

(पुनर्नेपथ्ये।)

हा देवि दण्डकारण्यवासप्रियसखिविदेहराजपुत्रि !। (इति मूर्च्छति।)

सीता—हद्धी हद्धी, मं मंदभाइणिं वाहरिअ आ189मीलिदणेत्तणीलुप्पलो मुच्छिदो एव्व। हा, कहं धरणीपिट्ठेणिरुद्धणिस्सासणीसहं विपल्हत्थो ? भअवदि तमसे ! परित्ताएहि परित्ताएहि। जीवावेहि अज्जउत्तं। [हा धिक् हा धिक्, मां मन्दभागिनीं व्याहृत्यामीलितनेत्रनीलोत्पलो मूर्च्छित एव। हा, कथं धरणीपृष्ठे निरुद्धनिःश्वासनिःसहं विपर्यस्तः ? भगवति तमसे ! परित्रायस्व परित्रायस्व। जीवयार्यपुत्रम्।] (इति पादयोः पतति।)

तमसा

त्वमेव ननु कल्याणि ! संजीवय जगत्पतिम्।
प्रियस्पर्शो हि पाणिस्ते तत्रैष निरतो जनः॥१०॥

सीता—जं होदु तं होदु। जह भअवई आणवेइ। [यद्भवतु तद्भवतु। यथा भगवत्याज्ञापयति।] (इति ससंभ्रमं निष्क्रान्ता।)

——————————————————————————————————————

उद्दामं उल्बणं यथा तथा अद्य ज्वलिष्यतः एतदव्यवहितोत्तरक्षणभाविज्वलनवतः धूमस्य उत्पीड इव धूमसंबन्धिसंघात इव, संमद इवेति वा। मोहः मूर्च्छा, प्राक् ज्वलनात् पूर्वम्। आवृणोति संछादयति॥९॥ इदमिति। गुरुजनेन। लोपामुद्राप्रभृतिनेत्यर्थः। एष संचितार्थप्राप्तिरुपक्रम उक्तः॥ हेति। धरणीपृष्ठे भूतले निरुद्धनिःश्वासनिःसहं निरुद्धः प्रवृत्तिहीनः निःश्वासः यस्मिन् कर्मणि तद्यथा भवति तथा निःसहं दुर्बलं विपर्यस्तः॥ त्वमेवेति। ‘त्वमेव ननु कल्याणि’ इत्यस्यायं भावः। त्वयैवायं संजीवनीय इति चिरंतनी प्रसिद्धिः। ‘आनीद वातं स्वधया तदेकम्’ इति श्रुत्यायमर्थोऽगम्यते। एकं जगतां प्रलीनत्वादसहायम्। अतो निर्व्यापारम्। तत् परं ब्रह्म स्वधया ‘त्वं सिद्धिस्त्वं स्वधा स्वाहा’ (दे.मा.१।७३) इति ‘स्वधा’शब्दवाच्यया लक्ष्म्या आनीद जीवत् इति। एवं च अद्य कथमहं वैदेशिकी जीवयामि ? त्वमेव जीवयेति। अत्र ‘मां मन्दभागिनी’ मित्यारभ्य ‘परित्रायस्वे’ त्यन्तसंदर्भेण शङ्कात्रासरूपसंभ्रम उक्तः॥१०॥ आह्लाद आनन्दः, उच्छ्वासः
——————————————————————————————————————

(ततः प्रविशति भूम्यां निपतितः सास्रया सीतया स्पृश्यमानः साह्लादोच्छ्वासो रामः।)

सीता—(किंचित्सहर्षम्।) जाणे उण पच्चाअदं विअ जीविअं तेल्लोअस्स। [जाने पुनः प्रत्यागतमिव जीवितं त्रैलोक्यस्य।]

रामः— हन्त भोः, किमेतत् ?

आश्च्योतनं नु हरिचन्दनपल्लवानां
निष्पीडितेन्दुकरकन्दलजो नु सेकः।
आतृप्त190जीवितपुनःपरितर्पणोऽयं
संजीवनौषधिरसो हृदि नु प्रसक्तः॥११॥

अपि च,—

स्पर्शः पुरा परिचितो नियतं स एव
संजीवनश्च मनसः परितोषणश्च।
संतापजः191 सपदि यः परिहृत्य मूर्च्छा–
मानन्दनेन जडतां पुनरातनोति॥१२॥

सीता— (ससाध्वसकरुणमुपसृत्य।) एत्तिअं एव्व दाणिं मह बहुदरं। [एतावदेवेदानीं मम बहुतरम्।]

रामः— (उपविश्य) न खलु वत्सलया देव्याऽभ्युपपन्नोऽस्ति।

सीता— हद्धी हद्धी, किं त्ति अज्जउत्तो मं192”) णिंदिस्सदि ? [हा धिक् हा धिक्, किमित्यार्यपुत्रो मां निन्दिष्यति ?]

रामः— भवतु, पश्यामि।

——————————————————————————————————————

श्वाससंचारः, ताभ्यां सहितं यथा तथा॥ जान इति। प्रत्यागतं पुनरागतम्। त्रयाणामपि लोकानां राममयजीवितत्वात् रामजीवने तज्जीवनमिति भावः। तदुक्तम्—‘रामो रामो राम इति प्रजानामभवन्कथाः। रामभूतं जगदभूद्रामे राज्यं प्रशासति॥’ इति॥ आश्च्योतनमिति। हरिचन्दनपल्लवानां आश्च्योतनं नु कल्पतरुकिसलयक्षरणाद्द्रवीकरणं किम् ? कन्दलजः अङ्कुरजः॥११॥ स्पर्श इति। संजीवनश्च प्राणधारणहेतुभूतश्च परितोषणश्च आह्लादजनकश्च मूर्च्छां प्रज्ञाशून्यतां आनन्दनेन जडतां आनन्दाधिक्यप्रयुक्तप्रज्ञाशून्यतां आतनोति आ समन्तात् विस्तारयति॥१२॥ एतावदेव मत्स्पर्शे पुरा परिचितत्वकथनमेव। इदानीं वियोगसमये। वत्सलया प्रीतिमत्या मदीयदोषं सहमानया वा। अभ्युपपन्नोऽस्मि अनुगृहीतोऽस्मि। इदं इष्टजनातिसंघानात्मकमघिबलं193 इति चोक्तम्।”) नाम संध्यङ्गमुक्तम्॥ अनभ्यनुज्ञातेनं
——————————————————————————————————————

सीता—भअवदि तमसे ! ओसरम्ह दाव। मं पेक्खिअ अणब्भणुण्णादेण संणिहाणेण राआ अहिअं कुपिस्सदि। [भगवति तमसे ! अपसराव तावत्। मां प्रेक्ष्यानभ्यनुज्ञातेन संनिधानेन राजाधिकं कोपिष्यति।]

तमसा— अयि वत्से ! भागीरथीप्रसादाद्वनदेवतानामप्यदृश्यासि संवृत्ता।

सीता— अत्थि खु एदं। [अस्ति खल्वेतत्।]

रामः— हा, प्रिये जानकि !।

सीता— (ससाध्वसगद्गदम्।) अज्जउत्त ! असरिसं खु एदं इमस्स वुत्तंतस्स (सास्रम्।) भअवदि ! किं त्ति वज्जमई जम्मंतरेसु वि पुणो वि असंभाविअदुल्लहदंसणस्स मं एव्व मंदभाइणिं उद्दिसिअ एव्वं वच्छलस्स एव्वंवादिणो अज्जउत्तस्स उवरि णिरणुक्कोसा भविस्सं ? अहं एव्व एदस्स हिअअं जाणामि, मह194 एसो। [आर्यपुत्र ! असदृशं खल्वेतदस्य वृत्तान्तस्य। भगवति ! किमिति वज्रमयी जन्मान्तरेष्वपि पुनरप्यसंभावितदुर्लभदर्शनस्य मामेव मन्दभाग्यामुद्दिश्यैवं वत्सलस्यैवंवादिन आर्यपुत्रस्योपरि निरनुक्रोशा भविष्यामि ? अहमेवैतस्य हृदयं जानामि, ममैषः।]

रामः— (सर्वतोऽवलोक्य सनिर्वेदम्।) हा, न किंचिदत्र।

सीता— भअवदि ! णिक्कारणपरिच्चाइणो वि एदस्स एव्वंविघेण दंसणेण कीलिसी195”) मे हिअआवस्था। [भगवति ! निष्कारणपरित्यागिनोऽप्येतस्य दर्शनेनैवंविधेन कीदृशी मे हृदयावस्था।]

तमसा—जानामि वत्से ! जानामि,—

तटस्थं नैराश्यादपि च कलुषं विप्रियवशा–
द्वियोगे दीर्घेऽस्मिञ्झटितिघटनात्स्तम्भितमिव।

—————————————————————————————————————

अननुमतेन। संनिधानेन समीपस्थित्या। आर्यपुत्रेति। एतत् प्रियेत्यामन्त्रणम्। अस्य वृत्तान्तस्य। परित्यागरूपस्येत्यर्थः। वज्रमयी अत्यन्तकाठिन्ययुक्ता। मन्दभाग्यां मामुद्दिश्य वत्सलस्य निर्दोषत्वनिश्चयपूर्वकं मयि प्रीतिमतः निरनुक्रोशा निर्दया। ‘अनुक्रोश’पदेन रामदशामिमां दृष्ट्वामुक्तकण्ठं मया रोदितव्यम्, तत् किमेवं कठिना भवामीति व्यज्यते। ‘अनुक्रोशति मुक्तकण्ठं रोदित्यनेनेति अनुक्रोशः’ इत्यमरव्याख्या। कीदृशी मे हृदयावस्था ? ‘आर्यपुत्र ! परित्रायस्व मम पुत्रक’मित्यारभ्य ‘ममाप्येष’ इत्यन्तेन संदर्भेण प्रतिपादिता मम हृदयावस्था कीदृशीत्यर्थः॥ तटस्थ–
—————————————————————————————————————

प्रसन्नं सौजन्याद्दयितकरुणैर्गाढकरुणं
द्रवीभूतं प्रेम्णा तवहृदयमस्मिन्क्षण इव॥१३॥

रामः—देवि !

प्रसाद इव मूर्तस्ते स्पर्शः स्नेहार्द्रशीतलः।
अद्याप्यानन्दयति मां त्वं पुनः क्वासि नन्दिनि !॥१४॥

सीता— एदे खु ते अगाधमाणसदंसिदसिणेहसंभारा आणंदणिस्संदिणो सुहामआ अज्जउत्तस्स उल्लावा। जा196.")णे पच्चएण णिक्कालणपरिच्चाअसल्लिदो वि बहुमदो मह जम्मलाहो। [एते खलु तेऽगाधमानसदर्शितस्नेहसंभारा आनन्दनिष्यन्दिनः सुधामया आर्यपुत्रस्योल्लापाः। जाने प्रत्ययेन निष्कारणपरित्यागशल्यितोऽपि बहुमतो मम जन्मलाभः।]

रामः— अथवा कुतः प्रियतमा ? नूनं संकल्पाभ्यासपाटवोपादान एष भ्रमो रामभद्रस्य।

(नेपथ्ये।)

अहो, महान्प्रमादः प्रमादः। (‘सीतादेव्याः स्वकरकलितैः’ इत्यर्धं पठ्यते।)

——————————————————————————————————————

मिति। तव हृदयं अस्मिन् क्षणे नैराश्यात् तटस्थमिवेत्यादिविभिन्नवाक्यतया योजना। नैराश्यात् प्रत्याशाभावात्। तटस्थं प्रसादकालुष्यादिरहितम्। विप्रियवशात् कलुषं परित्यागरूपादप्रियाद्धेतोः कलुषं क्रोधयुक्तम्। दीर्घे अस्मिन् वियोगे आमरणान्तभावित्वेन ज्ञातेऽस्मिन् विरहे झटितिघटनात् आकस्मिकसंघटनात् स्तम्भितमिव विस्मयस्तिमितमिव सौजन्यात् प्रकृत्या कल्याणत्वात् प्रसन्नं भविष्यतानुसंधानेन निवृत्तकालुष्यम्। दयितकरुणैः रामस्य दुःखात्मकावस्थाविशेषैः गाढकरुणं परदुःखदुःखित्वरूपकरुणासान्द्रम्। प्रेम्णा प्रणयेन द्रवीभूतं विलीनम्। अत्र ‘तटस्थं नैराश्यात्’ इत्यनेन ‘तान्येव चिरपरिचितान्यक्षराणि’ इति वाक्यामिमता सीतावस्था प्रतिपादिता। अपि च ‘कलुषं विप्रियवशात्’ इत्यनेन ‘असदृशं खल्वमुष्य वृत्तान्तस्य’ इत्येतद्वाक्याभिमतावस्था प्रतिपादिता। ‘वियोगे दीर्घेऽस्मिन्’ इत्यनेन ‘कथं प्रभातचन्द्रमण्डले’त्यादिविवक्षितावस्था प्रतिपादिता। कथमित्यस्य विस्मयार्थकत्वात्। ‘प्रसन्नं सौजन्यात्’ इत्यनेन अथवा ‘किमिति वज्रमयीवे’त्यादिप्रतिपादितावस्था दर्शिता। ‘दयितकरुणैर्गाढकरुणम्’ इत्यनेन ‘हा धिक् इदं मां मन्दभागिनीं व्याहृत्य’ इत्यादिवाक्यविवक्षितावस्था प्रतिपादिता। ‘द्रवीभूतं प्रेम्णा’ इत्यनेन ‘उत्सुकयति उत्कण्ठितं स्थितम्’ इत्यादिवाक्यप्रतिपादितावस्थोक्ता॥१३॥ प्रसादइति। स्नेहार्द्रशीतलः स्नेहार्द्रश्चासौ शीतलश्चेति विग्रहः। स्नेहहेतुकत्वात् स्नेहार्द्रत्वम्॥१४॥ प्रत्ययेन विश्वासेन। शल्यितोऽपि शल्यवान्कृतोऽपि। ‘तदस्य संजातम्’. (पा. ५।२।३६) इति सूत्रेणेतच्॥ नूनमिति। संकल्पाभ्यासस्य
——————————————————————————————————————

रामः— (सकरुणौत्सुक्यम्।) किं तस्य ?

(पुनर्नेपथ्ये।)

(‘वध्वा सार्धं’ इत्युत्तरार्धं पठ्यते।)

सीता— को दाणिं अभिजुज्जइ197”) ? [कइदानीमभियुज्यते ?]

रामः— क्वासौ दुरात्मा यः प्रियायाः पुत्रं वधूद्वितीयमभिभवति ? (इत्युत्तिष्ठति।)

(प्रविश्य।)

वासन्ती— (संभ्रान्ता।) देव198! त्वर्यताम्।

सीता— हा कहं मे पिअसही वासंदी ? [हा कथं मे प्रियसखी वासन्ती ?]

रामः— कथं देव्याः प्रियसखी वासन्ती ?

वासन्ती— देव ! त्वर्यतां त्वर्यताम्। इतो जटायुशिखरस्य दक्षिणेन सीतातीर्थेन गोदावरीमवतीर्य संभावयतु देव्याः पुत्रकं देवः।

सीता— हा ताद जडाओ ! सुण्णं तुए विणा इदं जणट्ठाणं। [हा तात जटायो ! शून्यं त्वया विनेदं जनस्थानम्।]

रामः— अहह, हृदयमर्मच्छिदः खल्वमी कथोद्धाताः।

वासन्ती— इत इतो देवः।

सीता— भअवदि ! सच्चं एव्व वणदेवदा वि मं ण पेक्खदि। [भगवति ! सत्यमेव वनदेवतापि मां न पश्यति।]

तमसा— अयि वत्से ! सर्वदेवताभ्यः प्रकृष्टतममैश्वर्यं मन्दाकिन्याः। तत्किमिति विशङ्कसे ?

सीता— तदो अणुसरम्ह। [ततोऽनुसरावः।] (इति परिक्रामति।)

रामः— भगवति गोदावरि ! नमस्ते।

वासन्ती— (निरूप्य।) देव ! मोदस्व विजयिना वधूद्वितीयेन देव्याः पुत्रकेण।

——————————————————————————————————————

स्मृतिसंतानस्य पाटवं स्फूर्तिः तदेव उपादानं कारणं यस्य तथोक्तः भ्रमः सीता स्पृष्टवतीत्याकारकान्यथाज्ञानम्॥ अहहेति। हृदयमर्माणि छिन्दन्तीति विग्रहः। कथोद्धाताः पुरावृत्तोपन्यासाः॥ अयीति। प्रकृष्टमुत्कृष्टम्। अत्र प्रस्तुतोत्कर्षाभिधानरूपोदाहृतिरुक्ता॥ येनेति। तरुणे वयसि यत् कल्याणं अङ्गनापरि–
——————————————————————————————————————

रामः— विजयतामायुष्मान्।

सीता— अम्महे, ईदिसो मे पुत्तओसंवुत्तो। [अहो, ईदृशो मे पुत्रकः संवृत्तः।]

रामः— हा देवि ! दिष्ट्या वर्धसे।

येनोद्गच्छद्विसकिसलयस्निग्धदन्ताङ्कुरेण
व्याकृष्टस्ते सुतनु ! लवलीपल्लवः कर्णमूलात्।
सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता
यत्कल्याणं वयसि तरुणे भाजनं तस्य जातः॥१५॥

सीता—अविउत्तो दाणिं दीहाऊ इमाए सोम्हतादंसणाए होदु। [अवियुक्त इदानीं दीर्घायुरनया सौम्यदर्शनया भवतु।]

रामः— सखि वासन्ति ! पश्य पश्य। कान्तानुवृत्तिचातुर्यमपि शिक्षितं वत्सेन।

लीलोत्खातमृणालकाण्डकवलच्छेदेषु संपादिताः
पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः।
सेकः शीकरिणा करेण विहितः कामं विरामे पुन–
र्यत्स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम्॥१६॥

सीता— भअवदि तमसे ! अअं दाव ईरसो जादो। दे उण ण आणामि एत्तिएण कालेण कुसलवा कीरिसा संवुत्तेत्ति। [भगवति तमसे ! अयं तावदीदृशो जातः। तौ पुनर्न जानाम्येतावता कालेन कुशलवौ कीदृशौ संवृत्ताविति।]

तमसा— यादृशोऽयं तादृशौ तावपि।

**सीता—**ईरिसम्हि मंदभाइणी जाएण केवलं अज्जउत्तविरहो पुत्तविरहो वि। [ईदृश्यस्मि मन्दभागिनी यस्या न केवलमार्यपुत्रविरहः पुत्रविरहोऽपि।]

——————————————————————————————————————

ष्वङ्गरूपं मङ्गलं तस्य भाजनं पात्रं जातः॥१५॥ लीलेति। लीलया उत्खाताउद्धृताः मृणालकाण्डा एव कवलाः ग्रासाः तेषां छेदेषु अवसानेषु पुष्यद्भिः वर्धमानैः पुष्करैः पद्मैःवासितस्य सुरभितस्य पयसः जलस्य गण्डूषसंक्रान्तयः पयःसंबन्धिगण्डूषसंक्रमणानि संपादिताः निर्व्यूढाः। अथवा,—पुष्यति उपचयवति पुष्करे शुण्डाग्रे वासितस्य संजातवासस्य पयसः जलस्य गण्डूषसंक्रान्तयः। लीलोत्खातमृणालकाण्डरूपकवलच्छेदेषु कवलार्धखण्डेषु अधिकरणे सप्तमी।
——————————————————————————————————————

तमसा— भवितव्यतेयमीदृशी।

सीता—किंवा मए पसूदाए जेण एआरिसं199 मह पुत्तआणं ईसिविरलधवलदसणकुम्हलुज्जलं अणुबद्धमुद्धकाअलीविहसिदं णिच्चुज्जलं महपुंडरीअजुअलं ण परिचुंबिअं अज्जउत्तेण ? [किंवा मया प्रसूतया येनैतादृशं मम पुत्रकयोरीषद्विरलधवलदशनकुड्मलोज्ज्वलमनुबद्धमुग्धकाकलीविहसितं नित्योज्ज्वलं मुखपुण्डरीकयुगलं न परिचुम्बितमार्यपुत्रेण ?]

तमसा— अस्तु देवताप्रसादात्।

सीता— भअवदि तमसे ! एदिणा अवच्चसंसुमरणेण उस्ससिदपण्हुदत्थणी दाणिं वच्चाणं पिदुणो संणिहाणेण खणमेत्तं संसारिणी संवुत्तम्हि। [भगवति तमसे ! एतेनापत्यसंस्मरणेनोच्छ्वसितप्रस्नुतस्तनी इदानीं वत्सयोः पितुः संनिधानेन क्षणमात्रं संसारिणी संवृत्तास्मि।]

तमसा— किमत्रोच्यते ? प्रसवः खलु प्रकृष्टपर्यन्तः स्नेहस्य। परं चैतदन्योन्यसंश्लेषणं पित्रोः।

अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात्।
आनन्दग्रन्थिरेकोऽयमपत्यमिति पठ्यते॥१७॥

वासन्ती— इतोऽपि देवः पश्यतु।

अनुदिवसमवर्धयत्प्रियाते
यमचिरनिर्गतमुग्धलोलबर्हम्।
मणिमुकुट इवोच्छिस्वः कदम्बे
नदति स एष वधूसखः शिखण्डी॥१८॥

——————————————————————————————————————

संपादिताः निर्व्यूढाः। तत्र हि ‘अच्छिद्राणि भूयांसि’ इति भावः। अनरालं अवक्रम्॥१६॥ अनुबद्धमुग्धकाकलीविहसितं उत्पन्नसूक्ष्ममधुरास्फुटध्वनिमुग्धस्मितम्॥ देवताप्रसादाद्देवतानुग्रहात्॥ प्रसव इति। पर्यन्तः परा कोटिः। अन्योन्यसंश्लेषणं अविनाभावहेतुभूतम्। तदुभयमपीत्याह— अन्तःकरणेति। दम्पत्योः जायापत्योः अन्तःकरणतत्त्वस्य हृदयवस्तुनः स्नेहसंश्रयात्। स्नेहः प्रीतिः संश्रयः संश्रयणम्।अविश्लेष इति यावत्। स्नेहश्च संश्रयश्चेति समाहारद्वन्द्वः। तस्मान्निमित्तादित्यर्थः। अन्नाद्धेतोर्वसतीत्यत्र अन्नफलको वास इति बोधः। तद्वदत्रापि स्नेहसंश्रयणफलकानन्दग्रन्थिरिति। आनन्दग्रन्थिः आनन्दमयग्रन्थिः। ‘आनन्द’पदेन ग्रन्थ्यन्तरव्यावृत्तिः। अपत्यमिति पठ्यते परिभाष्यते॥१७॥ अनुदिवसमिति। अचिरनिर्गतमुग्धलोलबर्हं प्रत्यग्रोत्पन्नसुन्दरचलत्पिच्छं यं अवर्धयत् स एष शिखण्डी
——————————————————————————————————————

सीता— (सकौतुकस्नेहास्रम्।) एसो सो। [एष सः।]

रामः— मोद्रस्व वत्स !। वयमद्य वर्धामहे।

सीता— एव्वं होदु। [एवं भवतु।]

रामः

भ्रमिषु कृतपुटान्तर्मण्डलावृत्तिचक्षुः–
प्रचलितचटुलभ्रूताण्डवैर्मण्डयन्त्या।
करकिसलयतालैर्मुग्धया नर्त्यमानं
सुतमिव मनसा त्वां वत्सलेन स्मरामि॥१९॥

हन्त, तिर्यञ्चोऽपि परिचयमनुरुन्धन्ते।

कतिपयकुसुमोद्गमः कदम्बः
प्रियतमया परिवर्धितोऽयमासीत्।

सीता— (सास्रम्।) सुट्ठु पच्चहिजाणिदं अज्जउत्तेण। [सुष्ठु प्रत्यभिज्ञातमार्यपुत्रेण।]

रामः

स्मरति गिरिमयूर एष देव्याः–
स्वजन इवात्र यतः प्रमोदमेति॥२०॥

—————————————————————————————————————

वधूसखः सन् कदम्बे वृक्षे मणिमुकुट इव। आनुपूर्व्यात् पृथुकृशत्वात् नानावर्णत्वाच्च रत्नमयकिरीटसादृश्यम्। नदति केकां करोति॥१८॥ भ्रमिष्विति। मण्डलं यथा भवति तथा आवृत्तिः मण्डलावृत्तिः। पुटे अन्तः पुटान्तः। पुटान्तः मण्डलावृत्तिः पुटान्तमण्डलावृत्तिः। भ्रमिषु भ्रमणेषु। मयूरस्य मण्डलाकारनाट्यचारिष्विति यावत् कृता रचिता पुटान्तर्मण्डलवृत्तिर्ययोस्तथोक्ते चक्षुषो यैस्तथोक्तानि कृतपुटान्तर्मण्डलावृत्तिचक्षूंषि। प्रचलितयोः चटुलयोः सुन्दरयोः भ्रुवोः ताण्डवानि नर्तनानि कृतपुटान्तर्मण्डलावृत्तिचक्षूंषि च तानि प्रचलितचटुलभ्रूताण्डवानि चेति विग्रहः। तैः। तदुक्तं कनककविना—‘किं चाधस्तादुपरि च नयन्त्यानतोन्निद्रपक्ष्मा चक्राकारं भ्रमयति मुहुर्विश्वमावर्तयन्ती’ इति। करकिसलयतालैः करसंघट्टनजाततालध्वनिभिः। जातिभेदाभिप्रायकं बहुवचनम्। वत्सलेन सस्नेहेन॥१९॥ अनुरुन्धन्ते अनुसरन्ति। कतिपय इति। कतिपयकुसुमानामुद्गम उत्पत्तिः यस्मिन्निति विग्रहः। स्मरतीति। एष गिरिमयूरः गिरिप्रियो मयूरः गिरिमयूरः। शाकपार्थिववत्समासः। गिरेः प्रियत्वं उन्नतत्वनिरुपप्लवत्वादिनां। अत्र अस्मिन् प्रियतमापरिवर्धितकदम्बवृक्षे स्वजन इव स्वबन्धुविषय इव यतः यस्मात्कारणात्, प्रमोदं प्रीति एति प्राप्नोति। तस्मादेष देव्याः स्मरति। सीतां स्मरतीत्यर्थः॥२०॥
—————————————————————————————————————

वासन्ती— अत्र तावदासनपरिग्रहं करोतु देवः। एतत्तुदेवस्याश्रमम्।

(रामः उपविशति)

वासन्ती

नीरन्ध्रबालकदलीवनमध्यवर्ति
कान्तासखस्य शयनीयशिलातलं ते।
अत्र स्थिता तृणमदाद्वनगोचरेभ्यः200
सीता ततो हरिणकैर्न विमुच्यते स्म॥२१॥

रामः— इदं तावदशक्यमेव द्रष्टुम् (इत्यन्यतो रुदन्नुपविशति।)

सीता— सहि वासंदि ! किं तुए किदं अजउत्तस्स मह अ एदं दंसअंतीए ? हद्धी हद्धी, सो एव्व अज्जउत्तो। तं एव्व पंचवडीवणं। सा एव्व पिअसही वासंदी। दे एव्व विविहविस्संभसक्खिणो गोदावरीकाणणुद्देसा। दे एव्व जादणिव्विसेसा मिअपक्खिणो पाअवा अ। मह उण मंदभाइणीए दीसंतं वि सव्वं एव्व एदं णत्थि। ईरिसो जीवलोअस्स परिणामो संवृत्तो। [सखि वासन्ति ! किं त्वया कृतमार्यपुत्रस्य मम चैतदर्शयन्त्या ? हा धिक् हा धिक्, स एवार्यपुत्रः। तदेव पञ्चवटीवनम्। सैव प्रियसखी वासन्ती। त एव विविधविस्रम्भसाक्षिणो गोदावरीकाननोद्देशाः। त एव जातनिर्विशेषा मृगपक्षिणः पादपाश्च। मम पुनर्मन्दभाग्याया दृश्यमानमपि सर्वमेवैतन्नास्ति। ईदृशो जीवलोकस्य परिणामः संवृत्तः।]

वासन्ती— सखि सीते ! कथं न पश्यसि रामभद्रस्यावस्थाम् ?

नवकुवलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं
सततमपि नः स्वेच्छादृश्यो नवो नव एव सः201
विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः
कथमपि स इत्युन्नेतव्यस्तथापि दृशोः प्रियः॥२२॥

सीता— सहि ! पेक्खामि। [सखि ! पश्यामि।]
तमसा— पश्य प्रियं भूयः202

——————————————————————————————————————

॥२१॥ नवेति। विकलकरणः शून्यचक्षुरादिकरणः शुचा दुःखेन परिदुर्बलः स्वधारणेऽप्यसमर्थः। बलं हि धारणसामर्थ्यम्। उन्नेतव्यः अनुमेयः। तथापि दृशोः
——————————————————————————————————————

सीता— हा देव्व ! एसो मए विणा अहं वि एदेण विणेत्ति केण संभाविदं आसि। ता मुहुत्तमेत्तं जम्मंतरादो वि दुल्लहलद्धदंसणं बाहसलिलंतरेषु पेक्खामि दाव वच्चलं अज्जउत्तं। \हा दैव ! एष मया विना अहमप्येतेन विनेति केन संभावितमासीत् !। तन्मुहूर्तमात्रं जन्मान्तरादपि दुर्लभलब्धदर्शनं बाष्पसलिलान्तरेषु पश्यामि तावद्वत्सलमार्यपुत्रम्।[^476]

तमसा— (परिष्वज्य, सास्रम्)

विलुलितमतिपूरैर्बाष्पमानन्दशोक–
प्रभवमवसृजन्ती पक्ष्मलोत्तानदीर्घा।
स्नपयति हृदयेशं स्नेहनिष्यन्दिनी ते
धवलमधुरमुग्धा दुग्धकुल्येव दृष्टिः॥२३॥

वासन्ती

ददतु तरवः पुष्पैरर्ध्यं फलैश्च मधुश्च्युतः
स्फुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः।
कलमविरलं रज्यत्कण्ठाः क्वणन्तुशकुन्तयः
पुनरिदमयं देवो रामः स्वयं वनमागतः॥२४॥

रामः— एहि सखि वासन्ति। नन्वितः स्थीयताम्।

—————————————————————————————————————

प्रियः। अनुपहतलावण्यकत्वादिति भावः॥२२॥ हा इति। केन संभावितमासीत् केन हेतुना संभावितं उत्पादितम्। त्वयेति शेषः। दुर्लभलब्धदर्शनं यदृच्छया लब्धदर्शनमिति व्याख्यातारः॥ विलुलितमिति। ‘विलुठितम्’ इति पाठान्तरम्। अतिपूरैः अतिशयितस्रोतोभिःविलुलितं विकीर्णं आनन्दशोकप्रभवं आनन्दशोकहेतुकं बाष्पं अश्रु अवसृजन्ती उत्पादयन्ती। पक्ष्मला च सा उत्ताना च सा दीर्घा च इति विग्रहे विशेषणसमासः। उत्तानविपुला। स्नेहस्य अनुरागस्य निष्यन्दः यस्यामस्तीति विग्रहः। दुग्धकुल्येव सुधामयकृत्रिमाल्पसरिदिव रूपयति स्नानं करोति। आदन्तत्वात् पुगागमे ‘ग्लास्नावनुमां च’ इति वैकल्पिको ह्रस्वः॥२३॥ ददत्विति। मधूनि मकरन्दानि श्च्योतयन्ति क्षरन्तीति विग्रहः। ‘श्चुतिर् क्षरणे’ इत्यस्मादन्तर्भावितण्यर्थात् कर्तरि क्विप्प्रत्ययः॥ यद्वा मधुभिः मकरन्दैः श्च्योतन्ति आर्द्रीकुर्वन्तीति विग्रहः। ‘श्च्युतिर् आसेचने’ इत्यस्मात् क्विप्। इदं च वनानिलानां विशेषणम्। तृतीयान्तपाठे फलविशेषणं पुष्पविशेषणं वा। ‘च्यु च्यवने’ इत्यस्मात् भावे क्तप्रत्यये मधूनां च्युतं च्यवनं येभ्य इति पुष्पपक्षे, फलपक्षे तु कर्मणि क्तप्र–
—————————————————————————————————————

वासन्ती— (उपविश्य सास्रम्।) महाराज ! अपि कुशलं कुमारलक्ष्मणस्य ?

रामः— (अनाकर्णनमभिनीय।)

करकमलवितीर्णैरम्बुनीवारशष्पै
स्तरुशकुनिकुरङ्गान्मैथिली यानपुष्यत्।
भवति मम विकारस्तेषु दृष्टेषु कोऽपि–
द्रव व हृदयस्य प्रस्रवोद्भेदयोग्यः203॥२५॥

वासन्ती— महाराज ! ननु पृच्छामि अपि कुशलं कुमारलक्ष्मणस्येति।

रामः— (आत्मगतम्) अये, महाराजेति निष्प्रणयमामन्त्रणपदम्। सौमित्रिमात्रके बाप्पस्खलिताक्षरः कुशलप्रश्नः। तथा मन्ये विदितसीता वृत्तान्तेयमिति। (प्रकाशम्।) आः, कुशलं कुमारलक्ष्मणस्य।

वासन्ती—(रुदवि।) अयि देव ! किं दारुणः परं खल्वसि।

सीता— सहि वासंदि ! किं तुमं एव्वंवादिणी होसि ? पुआरुहो204’”) सव्वस्स अज्जउत्तो विसेसदो मह पिअसहीए। [सखि वासन्ति ! किं त्वमेवंवादिनी भवसि ? पूजार्हः सर्वस्यार्यपुत्रो विशेषतो मम प्रियसख्याः।

वासन्ती

त्वं जीवितं त्वमसि मे हृदयं द्वितीयं
त्वं कौमुदी नयनयोरमृतं त्वमङ्गे।

—————————————————————————————————————

त्ययेन मधुभ्यः च्युतैरिति पञ्चमीतत्पुरुषः। पुष्परससमृद्धौ तात्पर्यम्। तदेवं पक्षत्रये—आद्यः शकारचकाराभ्यां युक्तः पाठः। द्वितीयः शकारचकारयकारैर्युक्तः। तृतीयस्तु चकारयकाराभ्यामिति विवेकः। रज्यत्कण्ठाः रागयुक्तकण्ठाः क्वणन्तु गीतवाद्यभेदेन शब्दं कुर्वन्तु। अत एव कूजन्त्विति नोक्तम्॥२४॥ आकर्णनं अनाकर्णनाभावम्। करकमलेति। करकमलवितीर्णैः करकमलदत्तैः अम्बुनीवारशष्पैः नीवारो धान्यविशेषः। शष्पं बालतृणं तैः अपुष्यत् अवर्धयत्। अत्राम्बुना तरून्, अम्बुनीवाराभ्यां शकुनीन् अम्बुनीवारशष्पैः कुरङ्गानिति विवेकः। तेषु दृष्टेषु सत्सु प्रस्रवोद्भेदयोग्यः प्रसरणोत्पत्तियोग्यः द्रव इव कोऽपि विकारः मम हृदयस्य भवति उत्पद्यते॥२५॥ महाराजेत्यामन्त्रणपदं संबोधनशब्दः। आः इति सोपालम्भाङ्गीकारे॥ त्वमिति। त्वं जीवितं प्राणाः। त्वं मे द्वितीयं हृदयमसि। त्वं नयनयोः कौमुदी तद्वदानन्दिनी। ‘कौ मोदन्ते जना यस्मात्तेनेयं कौमुदी मता’ इति
—————————————————————————————————————

इत्यादिभिः प्रियशतैरनुरुध्यमुग्धां
तामेव शान्तमथवा किमतः परेण205॥२६॥

(इति मुह्यति।)

तमसा— स्थाने वाक्यनिवृत्तिर्मोहश्च।

राम—सखि ! समाश्वसिहि समाश्वसिहि।

वासन्ती— (समाश्वस्य।) तत्किमिदमकार्यमनुष्ठितं देवेन ?

सीता— सहि वासंदि ! विरम विरम। [सखि वासन्ति ! विरम चिरम।]

रामः—लोको न मृष्यतीति।

वासन्ती— कस्य हेतोः ?

शामः— स एव जानाति किमपि।

तमसा— चिरादुपालम्भः।

वासन्ती

अयि कठोरयशाः किल ते प्रियं
किमयशो ननु घोरमतः परम्‌।
किमभवद्विपिने हरिणीदृशः
कथय नाथ ! कथं बत मन्यसे ?॥२७॥

सीता—सहि वासंदि ! तुमं एव्व दारुणा कठोरा अ। जाएव्वं पलवंतं पलावेसि206। [सखि वासन्ति ! त्वमेव दारुणा कठोरा च यैवं प्रलपन्तं प्रलापयसि।]

——————————————————————————————————————

कौमुदीपदनिरुक्तेः। त्वमङ्गे विषये अमृतं पीयूषम्‌। तद्वज्जराप्रतिबन्धेन नित्ययौवनावहेत्यर्थः। अत्र प्राणाः प्राणा एव, हृदयं हृदयमेव, कौमुदी कौमुद्येव, अमृतं अमृतमेव। त्वं तु प्राणा हृदयं कौमुद्यमृतमेतत्‌ सर्वमिति प्राणाद्यपेक्षया वैलक्षण्यमपि सूच्यते ! देवतायाः स्वस्या अपि ज्ञातुंवक्तुंचाशक्यत्वादाह—इत्यादिभिरिति। प्रियाणां प्रियवचनानां शतैः\। अनन्तवाची ‘शत’शब्दः। ‘शतं सहस्रमयुतं सर्वमानन्त्यवाचकम्‌’इत्युक्तेः। मुग्धां अनुरुध्य। ‘उदयद्यौवना मुग्धा’इति लक्षणलक्षितां सुन्दरीम्‌। त्वत्क्रौर्यमजानन्तीमिति वार्थः। अनुरुध्य अनुनीय, तामेव पूर्वोक्तानुनयविषयभूतामेवात्र कथं त्यक्तवानसि, नाशितवानसीति वा ? वाक्यशेषस्य दुःखातिशयेन वक्तुमशक्यतया प्रकरणाद्यनुग्रहेणार्थाध्यहारवादे विवक्षितार्थलाभासंभवात्‌ शब्दाध्याहारवादे तस्य सुलभत्वात्‌ प्रयोगे हेतुभूततत्स्मरणेन मूर्च्छोत्पत्तेश्चाह—मुह्यतीति। अथवेति पूर्वोक्ताक्षेपे। शान्तं त्वामुपलभ्यालम्। अतः परेण
——————————————————————————————————————

तमसा— प्रणय एवं व्याहरति शोकश्च।

रामः— सखि ! किमत्र मन्तव्यम् ?

त्रस्तैकहायनकुरङ्गविलोलदृष्टे–
स्तस्याः परिस्फुरितगर्भभरालसायाः।
ज्योत्स्नामयीव मृदुवालमृणालकल्पा
क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता॥२८॥

सीता— अज्जउत्त ! धरामि एसा धरामि। [आर्यपुत्र ! धराम्येषा धरामि।]

रामः— हा प्रिये जानकि ! क्वासि ?

सीता— हद्धी हद्धी, अण्णो विअ अज्जउत्तो पमुक्ककंठं परुण्णो207होदि। [हा धिक् हा धिक्, अन्य इवार्यपुत्रः प्रमुक्तकण्ठं प्ररुदितो भवति।]

तमसा— वत्से ! सांप्रतिकमेवैतत्। कर्तव्यानि खलु दुःखितैर्दुःखनिर्धारणानि208

पूरोत्पीडे तटाकस्य परिवाहः प्रतिक्रिया।
शोकक्षोभे च हृदयं प्रलापैरवधार्यते209॥२९॥

विशेषतो रामभद्रस्य बहुप्रकारकष्टो जीवलोकः।

इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा
प्रियाशोकं जीवं कुसुममिव धर्मो ग्लपयति।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ–
स्तदद्यायुच्छ्वासो भवति ननु लाभो हि रुदितम्॥३०॥

रामः— कष्टं भोः, कष्टम्,—

————————————————————————————————————

किम् ? अतिक्रान्तत्वादिति भावः॥२६—२७॥ त्रस्तेति। ज्योत्स्नामयीव ज्योत्स्नाविकृतिरिव स्थिता क्रव्याद्भिः विलुप्ता नाशितेति भावः। नियतमिति संभावनायाम्। अत्र प्रकरणे उपायापायशङ्काभ्यां कार्यसंभवरूपप्राप्त्याशा प्रतिपादिता॥२८॥ अन्य इव सामान्यजन इव। पूरोत्पीड इति। पूरोत्पीडे स्रोतोभूयस्त्वे। परीवाहः जलनिःसारणम्। प्रतिक्रिया प्रतीकारः चिकित्सा। शोकक्षोभे शोकाधिक्यप्रयुक्तप्रकृतिविपर्यासे प्रलापैः परिदेवनैः॥२९॥ बहुप्रकाराणि कष्टानि बहुविधानि दुःखानि यस्मिन् तथोक्तः। इदमिति। अभियुक्तेन तत्परेण विधिवत् यथाशास्त्रं विलपनं
————————————————————————————————————

दलति हृदयं शोकोद्वेगा210द्द्विधा तु न भिद्यते
वहति विकलः कायो मोहं न मुञ्चति चेतनाम्।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसा–
त्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम्॥३१॥

हे भगवन्तः पौरजानपदाः !

न खलु211 भवतां देव्याः स्थानं गृहेऽभिमतं तत–
स्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता।
चिरपरिचितास्ते ते भावास्तथा212 द्रवयन्ति मा–
मिदमशरणैरद्यास्माभिः प्रसीदत रुद्यते॥३२॥

वासन्ती— (स्वगतम्।) अतिगभीरमापूरणं मन्युभारस्य। (प्रकाशम्) देव ! अतिक्रान्ते धैर्यमवलम्ब्यताम्।

रामः— किमुच्यते धैर्यमिति213 ?

देव्या शून्यस्य जगतो द्वादशः परिवत्सरः।
प्रनष्टमिव नामापि न च रामो न जीवति॥३३॥

सीता— ओ214हरामि अ मोहिआ विअ एदेहिं अज्जउत्तस्स पिअवअणेहिं। [अपहरामि च मोहितेव एतैरार्यपुत्रस्य प्रियवचनैः।]

तमसा— एवमेव वत्से !

नैताः प्रियतमा वाचः स्नेहार्द्राः शोकदारुणाः।
एतास्ता मधुनो धाराः श्च्योतन्ति सविषास्त्वयि॥३४॥

——————————————————————————————————————

चासौ विनोदश्चेति विग्रहः। उच्छ्वासः प्राणधारणम्॥३०॥दलतीति। दलति स्फुटति। द्विधा न भिद्यते। पृथक्कारेण शकलद्वयं न भवतीत्यर्थः। न कृन्तति न छिनत्ति॥३१॥ न खल्विति। देव्याः सीताया गृहे स्थानं गृहस्थितिः न चाप्यनुशोचिता। तत्परित्यागहेतुकशोकोऽपि युष्माकं नेति भावः। भावा अभिप्रायाः। तथा द्रवयन्ति वाचामगोचरं यथा तथा विलापयन्ति। ‘परिद्रवयन्ति’ इत्यपि पाठः। रुद्यते रोदनं करोमि। भावे लट्। प्रसीदत प्रसादं कुरुत॥३२॥ मन्युभारस्य कोपातिशयस्य आपूरणमाविष्करणम्। अतिगभीरमतिगूढम्। अवलम्ब्यतां आश्रौयताम्। त्वयेति शेषः॥ देव्या इति। द्वादशानां पूरणो द्वादशः। ‘तस्य पूरणे डट्’ (पा. ५।२।४८)। परिवत्सरः संवत्सरः। रामः न जीवतीति न, जीवत्येवेत्यर्थः। जीवनाभावो न्याय्य इति व्यज्यते॥३३॥ नैता इति। प्रियतमा इष्टतमाः
——————————————————————————————————————

रामः— अयि वासन्ति ! मया खलु,—

यथा तिरश्चीनमलातशल्यं
प्रत्युप्तमन्तः सविषश्च दन्तः215
तथैव तीव्रो हृदि शोकशङ्कु–
र्मर्माणि कृन्तन्नपि किं न सोढः॥३५॥

सीता— एव्वं216 वि मंदभाइणी अहं जा पुणो आआसआरिणी अज्जउत्तस्स। [एवमपि मन्दभागिन्यहं या पुनरायासकारिणी आर्यपुत्रस्य।]

रामः— एवमति217गूढस्तम्भितान्तःकरणस्यापि मम संस्तुतव218स्तुदर्शनादद्यायमावेगः219। तथा हि —

वेलोल्लोलक्षुभितकरुणोज्जृम्भणस्तम्भनार्थं
यो यो यत्नः कथमपि समाधी220यते तं तमन्तः।
भित्त्वा भित्त्वा प्रसरति बलात्कोऽपि चेतोविकार–
स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः॥३६॥

———————————————————————————————————————

स्नेहार्द्रा अनुरागशीतलाः शोकदारुणाः दुःखेन रूक्षा एता वाचः न। किंतु एताः सविषा मधुनो धाराः श्च्योतन्ति स्रवन्ति। अत्रा221 इति तल्लक्षणम्।")पह्नुतिरलंकारः॥३४॥ यथेति। तिरश्चीनं तिर्यग्भूतं प्रत्युप्तं निखातं अलातशल्यं उल्कामयं लोहकीलाग्रं सविषो दन्तश्च यथा तीव्रः तथैव तीव्रः मर्माणि हृदयादीनि कृन्तन्सन्नपि छिन्दन्सन्नपि हृदि शोकशङ्कुः दुःखात्मककीलं किं न सोढः न व्यषहत किम् ? सहतेः कर्मणि क्तः॥३५॥ वेलेति। वेलायाः मर्यादायाः उल्लोल उद्गतः, अतिवेल इत्यर्थः। क्षुभितः प्रवाहभूयस्तया नदीवत् क्षोभवांश्च यः करुणः प्रियजनविश्लेषजन्यदुःखातिशयः तस्य उज्जृम्भणमभिवृद्धिः तस्य स्तम्भनं प्रतिहतिः तदर्थम्। ‘करणस्तम्भनार्थम्’ इति पाठे वेलोल्लोलं वेलातिक्रान्तं क्षुभितं क्षोभः यस्य तथोक्तस्य करणस्य। हृदयादेरित्यर्थः। कथमपि प्रयासेन समाधीयते उत्पाद्यते। चेतोविकारः संभ्रमातिशयः। ओघः
———————————————————————————————————————

सीता— अज्जउत्तस्स एदिणा दुव्वारदारुणारंभेण दुःखसंजोए222 परिमुसिअणिअदुक्खं पमुक्कजीविअं223 मे हिअअं फुडइ। [आर्यपुत्रस्यैतेन दुर्वारदारुणारम्भेण दुःखसंयोगेन परिमुषितनिजदुःखं प्रमुक्तजीवितं मे हृदयं स्फुटति।]

वासन्ती— (स्वगतम्।) कष्टमत्यासक्तो224 देवः। त225दाक्षिपामि तावत्। (प्रकाशम्।) चिरपरिचितानिदानीं जनस्थानाभोगानवलोकनेन मानयतु देवः।

रामः— एवमस्तु। (इत्युत्थाय परिक्रामति।)

सीता— संदीवण एव्व दुक्खस्स पिअसहीए विणोदणोवाओ त्ति तक्केमि। [संदीपन एव दुःखस्य प्रियसख्या विनोदनोपाय इति तर्कयामि।]

वासन्ती— देव देव !

अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः
सा हंसैःकृतकौतुका चिरमभूद्गोदावरीसैकते।
आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया
कातर्यादरविन्दकुङ्मलनिभो मुग्धः प्रणामाञ्जलिः॥३७॥

——————————————————————————————————————

दीर्घः प्रवाहः॥३६॥ आर्यपुत्रस्येति। दुर्वारो दुर्निवर्त्यः दारुणानां क्रूरमूर्च्छासंतापादीनां आरम्भ उपादानं येनेति विग्रहः। परिमुषितं निजदुःखं स्वीयदुःखं यस्येति यथोक्तम्। स्फुटति दलति॥ आक्षिपामि। अन्यत्र नयामीत्यर्थः॥ संदीवण इति। विनोदनोपायः चिरपरिचितजनस्थानाभोगावलोकनरूपः दुःखस्य संदीपन एव उद्दीपनहेतुरेवेति तर्कयामि जानामि॥ अस्मिन्निति। अस्मिन्नेव लतागृहे त्वं अभवः स्थितवान्। तन्मार्गे सीताया आगमनमार्गे दत्तं ईक्षणं नेत्रं येन तथोक्तः। हंसैः कृतं उत्पादितं कौतुकं हर्षः यस्यास्तथोक्ता। गोदावरीसैकते पुलिनोच्चये। आयान्त्या आगच्छन्त्या तया सीतया परिदुर्मनायितमिव परिकुपितमनस्कमिव स्थितम्, नतु वस्तुतः कुपितहृदित्यर्थः। त्वां वीक्ष्य कातर्यात् अपराधप्रतिसंधानजनितसाध्वसात् अरविन्दकुङ्मलनिभः पद्मकोशसदृशो मुग्धः सुन्दरः प्रणामाञ्जलिः मस्तकन्यस्तकरपुटादिप्रणामाङ्गभूताञ्जलिरित्यर्थः। अथवा ‘नामयत्यपि वा देवं प्रह्वीभावयति ध्रुवम्। प्रह्वीभवति नीचे हि परो नैच्यं विलोकयन्॥ अतो वा नम उक्तीदं यत्तं नामयति स्वयम्। वाचा नम इति प्रोच्य वपुषा मनसा च यत्॥’ इति भगवच्छास्त्रोक्तरीत्या प्रणामः कोपोद्धतरामहृदयनमनहेतुभूतोऽञ्जलिरित्यर्थः। उक्तं च—‘अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी’ इति। अत एव रामायणे—
——————————————————————————————————————

सीता—दालुणासि वासंति ! दालुणासि। जा एदेहिं हिअअमम्मुग्घा226डिअसल्लसंघट्टणेहिं पुणो पुणो वि मं मंदभाइणिं अज्जउत्तं अ सुमरावेसि227")। [दारुणासि वासन्ति ! दारुणासि। या एतैर्हृदयमर्मोद्धाटितशल्यसंघट्टनैः पुनः पुनरपि मां मन्दभागिनीमार्यपुत्रं च स्मरयसि।]

रामः— अयि चण्डि जानकि। इतस्ततो दृश्यस इव नानुकम्पसे।

हा हा देवि ! स्फुटति हृदयं ध्वंसते देहबन्धः
शून्यं मन्ये जगदविरलज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा
विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि॥३८॥

(इति मूर्च्छति।)

सीता— हद्धी हद्धी, पुणोवि मु228द्धो229 अज्जउत्तो। [हा धिक् हा धिक्, पुनरपि मूढ आर्यपुत्रः।]

वासन्ती— देव ! समाश्वसिहि समाश्वसिहि।

——————————————————————————————————————

‘कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम्। अन्तरेणाञ्जलिं बद्ध्वालक्ष्मणस्य प्रसादनात्॥’ इति। बद्धः घटितः॥३७॥ दारुणेति। हृदयमर्मोद्धाटितशल्यस्य हृदयमर्मणि स्थितकीलाग्रस्थसंघट्टनैः संचलनैः एतैः पुरावृत्तान्तकथनैः आर्यपुत्रं मां च स्मरयसि, मद्विषयकस्मृतिं आर्यपुत्रस्य जनयसीत्यर्थः। या स्मरयसि सा त्वं दारुणेति पूर्वेणान्वयः। चण्डि कठिने जानकि जनकपुत्रि ! नानुकम्पसे दयां न करोषि ? जानकीत्युक्त्या परमदयालुजनकराजपुत्र्यास्तवेदं निर्दयत्वं नोचितमिति व्यज्यते। हा हेति। ‘हाहा’शब्दो दुःखातिशयद्योतकः। हृदयं स्फुटति दलति। देहबन्धः शरीरावयवानां संधिः। जातावेकत्वम्। ध्वंसते विशीर्णो भवति। जगत् लोकं शून्यं असत्कल्पम्। अभावप्रतियोगीति यावत्। मन्ये जानामि। अविरलाः अविच्छिन्नाः ज्वालाः यस्मिन्कर्मणि तत्तथोक्तम्। अन्तः शरीरान्तः ज्वलामि। काष्ठवज्ज्वलामीति यावत्। विधुरः ज्ञानादिशून्यः सीदन् विशीर्णीभवन् अन्तरात्मा अन्धे अन्धयति लोकानित्यन्धं तस्मिन् तमसि मज्जति अवगाढं भवति। मोहः मूर्च्छा विष्वक् परितः स्थगयति संछादयति कथं करोमि किं करोमि ? किं हृदयस्फोटादि निवारयामि, उत त्वदागमनार्थं लोकाननुनयामि, अथवा तान्निगृह्य त्वामानेष्यामि वेति भावः॥३८॥ पुनरपि मूढो मूच्छितः वारंवारं पदे पदे संशयितजीवितः संशयितं संशयविषयं जीवितं यस्मिंस्तथोक्तः। मरणपर्यवसायीति

——————————————————————————————————————

सीता— अज्जउत्त ! मं मंदभाइणिंउद्दिसिअ सअलजीवलोअमंगलिअजम्मलाहस्स230 दे वारंवारं संसदजीविअदालुणो दशापरिणामो त्ति हा हदम्हि। (इति मूर्च्छति।) [आर्यपुत्र ! मां मन्दभागिनीमुद्दिश्य सकलजीवलोकमाङ्गलिकजन्मलाभस्य ते वारंवारं संशयितजीवितदारुणो दशापरिणाम इति हा हतास्मि।]

तमसा— वत्से ! समाश्वसिहि समाश्वसिहि। पुनस्ते पाणिस्पर्शो231 रामभद्रस्य जीवनोपायः।

वासन्ती— कथमद्यापि नोच्छ्वसिति ?हा प्रियसखि सीते ! क्वासि। संभावयात्मनो जीवितेश्वरम्।

(सीता ससंभ्रममुपसृत्य हृदि ललाटे च स्पृशति।)

वासन्ती— दिष्ट्या प्रत्यापन्नचेतनो रामभद्रः।

रामः

आलिम्पन्नमृतमयैरिव प्रलेपै–
रन्तर्वा बहिरपि वा शरीरधातून्।
संस्पर्शः पुनरपि जीवयन्नकस्मा–
दानन्दादपरमिवादधाति मोहम्॥३९॥

(सानन्द्रमुन्मीलिताक्ष एव।) सखि वासन्ति। दिष्ट्या वर्धसे।

वासन्ती— देव ! कथमिव ?

——————————————————————————————————————

भावः। अत एव दारुणः क्रूरः दशापरिणामः दशापरिपाकः। हा प्रियसखीति। जीवितेश्वरं प्राणनाथं रामं संभावय संभावितं कुरु। रामसंभवं परिहरस्वेत्यर्थः॥ हृदि ललाटे च स्पृशति। इदं च लोकेऽनुभवसिद्धम्। दिष्ट्येति। दिष्ट्येत्यानन्दे। प्रत्यापन्ना पुनरामता चेतना प्रज्ञा यस्य स तथोक्तः॥ आलिम्पन्निति। अमृतमयैः अमृतस्वरूपैः। चिन्मयमित्यादाविव स्वार्थिको मयट्प्रत्ययः। प्रकृष्टो लेपः यैस्ते। लेपसाधनद्रव्यैः अन्तर्वा बहिरपि वा अन्तर्बहिश्च शरीरं धातूंश्च। नाडीश्च अन्तर्नाडीः, बहिः शरीरमिति विवेकः। आलिम्पन्निव। सर्वाङ्गीणः लेपनकर्तेति संभावनीयः। जीवयन् प्राणप्रतिष्ठाहेतुभूतिः अकस्मात् निर्हेतुकः संस्पर्शः पुनरपि आनन्दात् आनन्दमुत्पाद्यापरं मोहं दुःखहेतुपूर्वकमूर्च्छातिरिक्तमूर्च्छाम्, आनन्दादिति ल्यब्लोपे पञ्चमी। यद्वा,—आनन्दादिति हेतौ पञ्चमी। तथा च दुःखजन्यपूर्वमूर्च्छातिरिक्ताम्। आनन्दहेतुकां मूर्च्छामादधतीव उत्पादयतीव। अन्ये तु परो न भवतीत्यपरः। इत्यर्थः। आनन्दादपरं मोहं आनन्दात्मकमूर्च्छामित्याहुः॥३९॥ सानन्द
——————————————————————————————————————

रामः— सखि ! किमन्यत्। पुनरपि प्राप्ता जानकी ?

वासन्ती— अयि देव रामभद्र ! क्व सा ?

रामः— (स्पर्शसुखमभिनीय।) पश्य नन्वियं पुरत एव।

वासन्ती— अयि देव रामभद्र ! किमिति मर्मच्छेददारुणैरतिप्रलापैः प्रियसखीविपत्तिदुःखदग्धामपि मां पुनः पुनर्मन्दभाग्यां दहसि ?

सीता— ओसरिदुं इच्छम्मि। एसो उण चिरप्पणअसंभारसोम्म232सीअलेण अज्जउत्तप्परिसेण दीहदारुणं वि झत्ति संदावं उल्लाहअंतेण233234ज्जलेहोवणद्धो विअ परिअद्धवावारो आसंजिओ विअ मे अग्गहत्थो। [अपसर्तुमिच्छामि। एष पुनः चिरप्रणयसंभारसौम्यशीतलेन आर्यपुत्रस्पर्शेन दीर्घदारुणमपि झटिति संतापं उल्लाघयता वज्रलेपोपनन्द्वइव पर्यस्तव्यापार आसञ्जित इव मेऽग्रहस्तः।]

रामः— सखि ! कुतः प्रलापः ?

गृहीतो यः पूर्वं परिणयविधौ कंकणधरः
सुधासूतेः पादैरमृतशिशिरैर्यः परिचितः।

सीता— अज्जउत्त ! सो एव्व दाणिं सि तुमं। [आर्यपुत्र!स एवेदानीमसि त्वम्।]

——————————————————————————————————————

मुन्मीलिताक्ष एव उन्मीलिते त्यक्तमुकुलीभावे अक्षिणी यस्य स तथोक्तः। अत्र ‘हृदि ललाटे च’ इत्यादिना इष्टार्थोपायानुसरणात्मकाक्षेप उक्तः॥ अयीति। मर्मच्छेदवत् हृदयाद्यवयवक्षतिवत् दारुणैः दुःसर्हैःप्रलापैः अनर्थकवचोभिः दहसीत्यत्रान्वयः। प्रियसख्याः सीतायाः विपत्त्या विपदा यद्दुःखं तेन दग्धां भस्मीक्रियमाणाम्॥ अपसर्तुमिति। चिरस्य बहुकालरूढस्य प्रणयस्य स्नेहस्य संभारेण अतिशयेन हेतुना सौम्यः आह्लादकरः शीतलः शीतश्च तथाविधेन। दीर्घश्चासौ दारुणश्चेति विग्रहः। खञ्जकुब्जादिवत् समासः। तथाविधं संतापं झटिति उल्लाघयता लघूकुर्वता आर्यपुत्रस्पर्शेन वज्रलेपेन उपनद्ध इव घटित इव पर्यस्तव्यापारः। निष्पन्द इत्यर्थः। मे अग्रहस्तः आसञ्जित इव लग्न इव। प्रलापैरिति वासन्तीवाक्यस्योत्तरमाह—‘सखि ! कुतः प्रलापाः’ ? इति। गृहीत इति। यः परिणयविधौ विवाहविधौ कंकणधरः गृहीतः यः करः सुधाया अमृतस्य सूतिरुत्पत्तिः यस्मात्तस्य चन्द्रस्य अमृतशिशिरैः सुधाशीतलैः पादैः किरणैः परिचितः संश्लिष्टः। उक्तविशेषणसाम्यादाह—‘आर्यपुत्र ! स एवेदानीं त्वमसि’ इति। यः करः कंकणघरो गृहीतः यः सुधासूतेः पादैः परिचितः स एव त्वमिदानीमित्यर्थः। उभयत्रापि परिणयविधौ कंकणधरत्वं लावण्यसंश्लिष्टत्वरू–
——————————————————————————————————————

रामः—

स एवायं तस्यास्तदितरकरौपम्य235सुभगो
मया लब्धः पाणिर्ललितलवलीकन्दलनिभः॥४०॥

(इति गृह्णाति।)

सीता— हद्धी हद्धी, अज्जउत्तप्परिसमोहिदाए पमादो मे संवृत्तो। [हा धिक् हा धिक्, आर्यपुत्रस्पर्शमोहितायाः प्रमादो मे संवृत्तः।]

**रामः—**सखि वासन्ति। आनन्दमीलितः प्रियास्पर्शसाध्वसेन परवानस्मि। तत्त्वमपि धारय माम्।

वासन्ती— कष्टमुन्माद एव।

(सीता ससंभ्रमं हस्तमाक्षिप्यापसर्पति।)

रामः— हा धिक्, प्रमादः,

करपल्लवः स तस्याः सहसैव जडो जडात्परिभ्रष्टः।
परिकम्पिनः प्रकम्पी करान्मम स्विद्यतः स्विद्यन्॥४१॥

सीता— हद्धी हद्धी, अज्जवि अणुवद्धबहुघुम्मंतवेअणं ण संठावेम अत्ताणं। [हा धिक् हा धिक्, अद्याप्यनुबद्धबहुघूर्णमानवेदनं न संस्थापयाम्यात्मानम्।]

तमसा— (सस्नेहकौतुकस्मितं निर्वर्ण्य।)

सस्वेदरोमाञ्चितकम्पिताङ्गी
जाता प्रियस्पर्शसुखेन वत्सा।
मरुन्नवाम्भःपरिधूतसिक्ता
कदम्बयष्टिः स्फुटकोरकेव॥४२॥

—————————————————————————————————————

पसुधासूतिकिरणपरिचितत्वं चाविशिष्टमिति कृत्वा सीतावाक्यं प्रवृत्तम्। राम आह**—स एवाय**मिति। ललितेन सुकुमारेण लवलीकन्दलेन लवलीनामकलताङ्कुरेण निभः सदृशः तदितरकरेण गृहीतान्यकरेण औपम्येन सादृश्येन सुभगः मनोज्ञः। सव्यकरसादृश्यं दक्षिणकरस्य तथा दक्षिणकरसादृश्यं सव्यकरस्येति भावः। तस्याः स एव पाणिः मया लब्धः॥४०॥ गृह्णाति ग्रहणमभिनयति॥ प्रमादः अनवधानम्॥ प्रियास्पर्शसाध्वसेन प्रियायाः सीतायाः स्पर्शेन यत् साध्वसं शृङ्गारजं भयं तेन परवान् परवशः॥ उन्मादः चित्तविभ्रमः॥ हस्तमाक्षिप्य रामहस्तं निरस्य॥ करपल्लवइति। प्रकम्पी चञ्चलः स्विद्यन् स्वेदवान् तस्याः स करपल्लवः परिकम्पिनः चञ्चलात् जडात् मम करात् अनवधानतो जडात्मनः मम करात् सहसा परिभ्रष्टः परिच्युतोऽभवत्॥४१॥ अनुबद्धा उत्पन्ना बह्वीघूर्णमाना उद्गच्छन्ती वेदना यस्य तमात्मानं
—————————————————————————————————————

सीता— (स्वगतम्।) अवसेन एदेण अत्ताणएण लज्जाविदम्हि भअवदीए तमसाए। किं ति किल एसा मण्णिस्सदि एसो परिच्चाओ एसो अहिसंगे त्ति। [अवशेनैतेनात्मना लज्जापितास्मि भगवत्या तमसया। किमिति किलैषा मंस्यत एष परित्याग एषोऽभिषङ्ग इति।]

रामः— (सर्वतोऽवलोक्य।) हा, कथं नास्त्येव ? नन्वकरुणे वैदेहि !।

सीता— अकरुणम्हि जा एव्वंविहं तुमं पेक्खंदी एव जीवेमि। [अकरुणास्मि यैवंविधं त्वां पश्यन्त्येव जीवामि।]

रामः— क्वासि प्रिये ! देवि ! प्रसीद प्रसीद। न मामेवंविधं परित्यक्तुमर्हसि।

सीता— अयि अज्जउत्त ! विप्पदीवं विअ। [अयि आर्यपुत्र ! विप्रतीपमिव।]

वासन्ती— देव ! प्रसीद प्रसीद। स्वेनैव लोकोत्तरेण धैर्येण संस्तम्भयातिभूमिं गतमात्मानम्। कुत्र मे प्रियसखी ?

रामः— व्यक्तं नास्त्येव। कथमन्यथा वासन्त्यपि तां न पश्येत् ? अपि खलु स्वप्न एष स्यात्। न चास्मि सुप्तः। कुतो रामस्य निद्रा ?सर्वथापि स एवैष भगवाननेकवारपरिकल्पितो विप्रलम्भः पुनः पुनरनुबध्नाति माम्।

——————————————————————————————————————

न संस्थापयामि न स्थिरं करोमि॥४२॥ कथं नास्त्येवेति व्यक्तम्। स्फुटमित्यर्थः। कथमन्यथा वासन्ती न पश्येत् ? अन्यथा सीताया अस्तित्वे वासन्ती कथं कस्माद्धेतोः न पश्येत् ? स्वस्य भ्रान्तिशङ्कयावनदेवतायाः प्रमितिप्रकर्षं विभाव्य वासन्तीत्युक्तम्। एवं योग्यानुपलम्भेन सीताया नास्तित्वं निश्चित्य पूर्वोक्तस्पर्शनस्य भ्रमरूपत्वं मीमांसते॥ अपि खलु स्वप्न एषः स्यात्। एष सीतास्पर्शः स्वप्नःस्यात्। स्वाप्निकज्ञानविषयः स्यादिति संभावना। यद्वा, —एष सीतास्पर्शः स्वप्नः स्यात्स्वप्नावस्थोत्पादितः किमु ? स्वप्नावस्थाया हि ‘संध्ये सृष्टिराह हि’ इति सूत्रप्रामाण्यात्। तत्पुरुषानुभाव्यतत्तत्पदार्थसृष्टिः परमात्मकर्तृकाभ्युपगम्यते। विस्तरस्तूत्तरमीमांसायां द्रष्टव्यः। स्वप्नं प्रति सुप्तेः कारणत्वादाह—न चास्मि सुप्त इति। तदुपपादयति—कुतो रामस्य निद्रेति। ‘अनिद्रः सततं रामः’ इति सीतावियोगे रामस्य निद्रा नास्तीति प्रसिद्धमेवेति नतूपपत्तिरिति भावः। पर्यवसितमाह—सर्वथेत्यादिना। मम वासन्त्याश्चानुपलम्भान्निद्राया अभावेन स्वप्नानुपपत्तेश्च सर्वप्रकारेणापि सीतास्पर्शनं भ्रमरूपमिति भावः। विप्रलम्भः भ्रमः। ‘भगवान्’ इत्यनतिलङ्घनीय–
——————————————————————————————————————

सीता— म236ए एव्व दारुणाए विप्पलद्धो अज्जउत्तो। [मयैव दारुणया विप्रलब्ध आर्यपुत्रः।]

वासन्ती— देव ! पश्य पश्य,—

पौलस्त्यस्य जटायुषा विघटितः कार्ष्णायसोऽयं रथ–
स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः स्वराः।
स्वड्गच्छिन्नजटायुपक्षतिरितः सीतां चलन्तीं वह–
न्नन्तर्व्यापृतविद्युदम्बुद इव द्यामभ्युदस्थादरिः॥४३॥

सीता— (सभयम्) अज्जउत्त ! तादो237 वावादीअदि। ता परित्ताहि परित्ताहि। अहं वि अवहरिज्जामि। [आर्यपुत्र ! तातो व्यापाद्यते। तस्मात्परित्रायस्व परित्रायस्व। अहमप्यपह्निये !।]

रामः— (सवेगमुत्थाय।) आः पाप तातप्राणसीतापहारिन् लङ्कापते, क्व यास्यसि ?।

वासन्ती— अयि देव राक्षसकुलप्रलयधूमकेतो ! किमद्यापि ते मन्युविषयः ?

सीता— अम्महे, उब्भत्तम्हि। [अहो, उद्भ्रान्तास्मि।]

रामः— अन्य एवाय238मधुना विपर्ययो वर्तते।

——————————————————————————————————————

त्वप्रयुक्तपूज्यताख्यापनार्थम्। अनुबध्नात्यनुसरति॥ दारुणया कठिनया। विप्रलब्धः। वञ्चित्तः। भ्रान्त इति वा॥ पौलस्त्यस्येति। अयं दृश्यमानः। उद्देश्यसमर्पकमिदम्। कृष्णायसविकारः कार्ष्णायसः। लोहमय इत्यर्थः। जटायुषा विघटितः प्रध्वंसितः पौलस्त्यस्य रावणस्य रथः स्यन्दनः। विधेयसमर्पकमिदम्। एते पुरतः पुरोवर्तमानाः कङ्कालशेषाः शरीरास्थिरूपशिष्टांशाः। ते पिशाचवदनाः खराः रावणस्यन्दनीयाः पिशाचमुखाः रासभाः खङ्गेन छिन्नां कृत्ता च सा जटायुपक्षतिश्चेति समानाधिकरणसमासः। इतः अत्र। पक्षतिः पक्षमूलम्। अन्तर्व्यापृता अन्तश्चलन्ती विद्युत्तडिद्यस्य तथोक्तः। अनेन दृष्टान्तेन रावणस्पर्शवशदोषो नास्तीति सूचितम्। अरिः रावणः। द्यां खं अभ्युदस्थादभ्युद्गतवान्। इति इत्यस्माद्देशादिति वा॥४३॥ आः पापेत्यादि। अत्र रोषसंभ्रमवचनरूपं तोटकं नाम संध्यङ्गमुक्तम्॥ प्रलयधूमकेतो प्रलयसूचकधूमकेतुनामकग्रहसदृशेति भावसंबुद्धिः। यद्वा राक्षसकुलस्य प्रलये धूमकेतुरग्निः। राक्षसकुलदाहे प्रलयाग्निसदृशेत्यर्थः। मन्युविषयः क्रोधविषयः। अन्य एव पूर्वसीतावियोगाद्विलक्षण एव विपर्ययः सीतावियोग–
——————————————————————————————————————

उपायानां भावादविरत239विनोदव्यतिकरै–
र्विमर्दैर्वीराणां जनितजगदत्यद्भुतरसः।
वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभू–
त्कटुस्तूष्णीं सह्यो निरवधिरयं तु प्रविलयः॥४४॥

सीता— बहुमाणदम्हि पुव्वविरहे। णिरवधि240 त्ति हा हदम्हि। [बहुमानितास्मि पूर्वविरहे। निरवधिरिति हा हतास्मि।]

रामः— कष्टं भोः !

व्यर्थं यत्र कपीन्द्रसख्यमपि मे, वीर्यं हरीणां वृथा,
प्रज्ञा जाम्बवतो, न यत्र न241 गतिः पुत्रस्य वायोरपि।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः
सौमित्रेरपि पत्रिणामविषये तत्र प्रिये ! क्वासि मे॥४५॥

——————————————————————————————————————

रूपविपर्यासः। वैलक्षण्यमेवाह—उपायानामिति। उपायानां सेनासंनाहसेतुबन्धादिसाधनानां भावात्सत्त्वादविरताः संतताः विनोदानां दुःखविस्मरणहेतूनां व्यतिकराः संबन्धा येषु तथोक्ताः तथाविधैः वीराणां सुग्रीवप्रभृतीनां विमर्दैः परस्परसंप्रहारैर्जनित उत्पादितः जगतामत्यद्भुतरसो वीररसमयरसो येनेति तथोक्तः। वीररसादद्भुतरसस्योत्पत्तिरिति रसविदः। तदुक्तम्—‘हास्यो भवति शृङ्गारात्करुणो रौद्रकर्मणः। अद्भुतश्च तथा वीराद्वीभत्साच्च भयानकः॥’ इति। मुग्धे सुन्दरे अक्षिणी यस्या इति बहुव्रीहिः। ‘न त्वामिहस्थां जानीते रामः कमललोचने। तेन त्वां नानयत्याशु शचीमिव पुरंदरः॥’ इत्युक्तम्। स वियोगः पूर्वकालिकविरहः। रिपुघातावधिरभूद्रावणसंहारपर्यन्तोऽभूत्। कटुः क्रूरः। तूष्णीं सह्यः उपायाद्यभावात् जोषंभावेन सह्यः। अयं तु प्रविलयः इदानींतनवियोगः। पुनर्दर्शनाभावाभिप्रायेण वियोगस्य प्रलयत्वोक्तिः। निरबधिर्यावज्जीवभावीत्यर्थः॥४४॥ बहुमानितास्मि पूर्वविरहहेतुकबहुमानवत्यस्मि। रिपुघातावधिरिति रावणसंहारस्य तन्मूलकत्वोक्तेरिति भावः। ‘न त्वदर्थं मया कृतम्’ इति हि पूर्वं रामेणोक्तम्। निरवधिरिति हा हतास्मि। अस्य वियोगस्य निरवधित्वोक्तेः प्रत्याशा छिन्नेति भावः। व्यर्थमिति। यत्र प्रदेशे कपीन्द्रसख्यं सुग्रीवमैत्रम्। इदमुपलक्षणं सुग्रीवापेक्षयोपसर्जनत्वस्यापि। तदुक्तं रामायणे—‘लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति’ इति, ‘स रामो वानरेन्द्रस्य प्रसादममिकाङ्क्षते’ इति च। व्यर्थं निरर्थकम्। हरीणां वानराणां वीर्यं पराक्रमः यत्र वृथा निष्प्रयोजकः। जाम्बवतः प्रज्ञा युक्तायुक्तकुशलता यत्र न सार्थिकेत्यध्याहारः। वायोः पुत्रस्य हनूमतः गतिरपि न सार्थिका। मार्गेसेतुं कर्तुम्। न क्षमः न योग्यः। सौमित्रेरपि लक्ष्मणस्य। अपिशब्दात् स्वस्य। पत्रिणां बाणानामविषये अगोचरे तत्र तथाविधे क्व कस्मिन्देशे असि भवसि॥४५॥
——————————————————————————————————————

सीता—बहुमाणिदम्हि पुव्वविरहे242। [बहुमानितास्मि पूर्वविरहे।]

रामः— सखि वासन्ति ! दुःखायैव सुहृदामिदानीं रामदर्शनम्। कियच्चिरं त्वा रोदयिष्यामि ? तदनुजानीहि मां गमनाय।

सीता— (सोद्वेगमोहं तमसामाश्लिष्य) हा भअवदि तमसे ! गच्छदि दाणिं अज्जउत्तो ? किं करिस्सं। (इति मूर्च्छति।) [हा भवति तमसे ! गच्छतीदानीमार्यपुत्रः। किं करोमि ?]

तमसा— वत्से जानकि ! समाश्वसिहि समाश्वसिहि विधिस्तवानुकूलो भविष्यति। तदायुष्मतोः243 कुशलवयोर्वर्षर्द्धिमङ्गलानि244 संपादयितुं भागीरथीपदान्तिकमेव गच्छावः।

सीता— भअवदि। पसीद। खणमेत्तं वि दुल्लहदंसणं जणं पेक्खामि। [भगवति ! प्रसीद। क्षणमात्रमपि दुर्लभदर्शनं जनं पश्यामि]

रामः— अस्ति चेदानीमश्वमेध245सहधर्मचारिणी मे।

सीता— (साक्षेपम्।) अज्जउत्त ! का ? [आर्यपुत्र ! का ?]

वासन्ती— परिणीतमपि किम् ?

रामः— नहि नहि, हिरण्मयी सीताप्रतिकृतिः।

——————————————————————————————————————

सुहृदां मित्राणां रामदर्शनं दुःखायैव दुःखफलदमेव। रोदयिष्यामि रुदन्तीं करोमि। अनुजानीहि अनुमतिं कुरु॥ वर्षेर्द्धिमङ्गलानि द्वादशवर्षपूर्तिमङ्गलानि देवतापूजादीनि शुभानि। आयुष्मतोः कुशलवयोः कुशलवोद्देशेन संपादयितुमुत्पादयितुम्। भागीरथ्याः संबन्धद्योतनायेयमुक्तिः॥ अश्वमेधस्य सहधर्मचारिणीति विग्रहः। दम्पत्योः सहाधिकारत्वात्। अश्वमेधनिरूपितकर्तृकत्ववती जायास्तीति भावः॥ साक्षेपम्। आक्षेपश्चोदनं तेन सह वर्तत इत्यर्थः। क्रियाविशेषणम्। आर्यपुत्र, का ? सहधर्मचारिणीति शेषः॥ परिणीतमपि भावे क्तः। परिणयोऽपि किमिति काक्वा योजनीयम्। सीतापरित्यागानन्तरं न केवलं शरीरधारणं किंतु परिणयोऽपि जातः किमिति समुच्चयार्थः। सीतावियोगे रामस्य शरीरधारणमाश्चर्यमिति प्रसिद्धम्। तदुक्तं हनूमता—‘दुष्करं कृतवान्रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न शोकेनावसीदति॥’ इति, ‘दुष्करं कुरुते रामो य इमां मत्तकाशिनीम्। विना सीतां महाबाहुर्मुहूर्तमपि जीवति॥’ इति च॥ नहि नहि। परिणयप्रसक्तिरप्यनिष्टेति द्विरुक्त्या व्यज्यते॥ इदानीमपि त्वम्। ‘स्वापहेतुरनुपाश्रितोऽन्यया’ इत्युक्तरीत्या एकदारव्रतत्वं तवेदानीमेव प्रकटितमिति भावः। परित्याग एव शल्यं परित्यागशल्यम्। निष्कारणपरित्यागस्य प्रत्यवायहेतुत्वप्रयुक्तदुःखजनकत्वाच्छल्यत्वरूपणम्। ननु वास्तवदोषाभावेऽपि
——————————————————————————————————————

सीता— (सोच्छ्वासास्रम्।) अज्जउत्त ! दाणिंसि तुमं। अम्महे, क्खाइदं दाणि मे प246रिच्चाअसल्लं अज्जउत्तेण। [आर्यपुत्र ! इदानीमसि त्वम्। अहो, उत्खातितमिदानीं मे परित्यागशल्यमार्यपुत्रेण।]

रामः— तत्रापि तावद्बाष्पदिग्धं चक्षुर्विनोदयामि।

सीता— धण्णा247 खु सा जा एव्वं अज्जउत्तेण बहुमण्णीअदि। जा एव्वं अज्जउत्तं विणोदयंदी आसाबंधणं खु जादा जीअलोअस्स। [धन्या खलु सा यैवमार्यपुत्रेण बहुमन्यते। यैवमार्यपुत्रं विनोदयन्त्याशाबन्धनं खलु जाता जीवलोकस्य।]

तमसा— (सस्मितस्नेहार्द्रं परिष्वज्य।) अयि वत्से ! एवमात्मा स्तूयते।

सीता— (सलज्जम्।) परिहसिदम्हि248 भअवदीए। [परिहसितास्मि भगवत्या।]

वासन्ती— महानयं व्यतिकरोऽस्माकं प्रसादः। गमनं प्रति यथा कार्यहानिर्न भवति तथा कार्यम्।

रामः— तथास्तु।

सीता— पडिऊला249 दाणिं मे वासंदी संवृत्ता। [प्रतिकूलेदानीं मे वासन्ती संवृत्ता।]

तमसा— वत्से ! एहि गच्छावः।

——————————————————————————————————————

दोषवत्ता वृथारूपमित्यभिशस्तिमतां परित्यागो धर्मशास्त्रसिद्ध इति चेन्मैवम्; अग्निप्रवेशादिना मिथ्याभिशस्तेरनवकाशात्। उत्खातितम् उद्धृतम्॥ तत्रापि हिरण्मयीसीताप्रतिकृतौ बाष्पदिग्धमश्रुणा लिप्तम्। विनोदयामि विस्मृतदुःखं करोमि। एवं च सीताप्रतिकृतेरश्वमेधसहधर्मचारिणीत्वमानुषङ्गिकम्। मुख्यं तु चक्षुर्विनोदनमिति सूचितम्। एवं बहुमन्यते चक्षुर्विनोदहेतुत्वप्रयुक्तबहुमानविषयीक्रियते सा प्रतिकृतिर्धन्या यैवमार्यपुत्रं विनोदयन्ती विस्मृतदुःखं कुर्वन्ती जीवलोकस्याशाबन्धनं रामजीवनप्रत्याशाहेतुत्वात्स्वस्वविषयकाशाहेतुर्जाता सा धन्येत्यन्वयः॥ परिष्वज्य आलिङ्ग्य। एवं ‘धन्या खलु सा’ इत्यादिपूर्वोक्तरीत्या आत्मा स्तूयते स्तुतिविषयीक्रियते। त्वयेति शेषः॥ भगवत्या। तमसयेत्यर्थः॥ अयं व्यतिकर एष समागम। अस्माकं महान्प्रसादः। अस्मद्विषयानुग्रहप्रयोजित इत्यर्थः। यथा येन प्रकारेण कार्यस्य कर्तव्यस्य हानिर्लोपो न भवति तथा तेन प्रकारेण गमनं प्रति गमनोद्देशेन कार्यं यत्नः कर्तव्यः॥ इदानीं वासन्ती मे प्रतिकूलानिष्टकारिणी संवृत्ता याता। रामगमनं प्रत्यनुज्ञाकरणा–
——————————————————————————————————————

सीता— एव्वं करेम्ह। [एव कुर्वः।]

तमसा— कथं वा गम्यते ? यस्यास्तव,—

प्रत्युप्तस्येव दयिते तृष्णादीर्घस्य चक्षुषः।
मर्मच्छेदोपमैर्यत्नैः संनिकर्षो निरुध्यते॥४६॥

सीता—णमो250 सुकिदपुण्णजणदंसणिज्जाणं अज्जउत्तचलणकमलाणं। [नमः सुकृतपुण्यजनदर्शनीयाभ्यामार्यपुत्रचरणकमलाभ्याम्।]

(इति मूर्च्छति।)

तमसा— वत्से ! समाश्वसिहि।

सीता— (आश्वस्य।) किअच्चिरं वा मेहंतरेण न पु251ण्णचंददंसणं ? [कियच्चिरं वा मेघान्तरेण न पूर्णचन्द्रदर्शनम् ?]

——————————————————————————————————————

दिति भावः। एवं कुर्वः। गच्छाव इत्यर्थः। यस्यास्तव। प्रत्युप्तस्येवेति। तृष्णया अवलोकनस्पृहया। दीर्घस्य आयतस्य। दयिते रामे प्रत्युप्तस्येव कीलितस्येव स्थितस्य यस्यास्तव चक्षुषो नेत्रस्य संनिकर्षः दयिते संबन्धः। मर्मच्छेदोपमैर्हृदयादिप्रदेशकृन्तनसदृशैर्यत्नैर्निरुध्यते निवर्त्यते। तथाविधया त्वया कथं गम्यत इति पूर्वेणान्वयः। ‘तृष्णादीर्घस्ये’त्युक्त्या दयिते ‘प्रत्युप्तस्येवे’ति दयितपदविवक्षितरामस्यामृतसादृश्यं व्यज्यते॥४६॥ नम इति। प्राकृते चतुर्थीस्थाने षष्ठीद्विवचनस्य बहुवचनत्वम्। सुकृतानि पुण्यानि यैस्ते सुकृतपुण्याः। सुकृतपुण्याश्च ते जनाश्चेति विग्रहे कर्मधारयः। तथाविधैः दर्शनीयाभ्यां सेवितुं शक्याभ्याम्। नतु मादृशपापकृज्जनदर्शनार्हाभ्यामित्यर्थः। ‘न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम्’ इत्यादि दशरथोक्तरीत्या पुण्यकृद्दर्शनीयत्वं रामचरणयोरिति भावः। ‘ममैव दुष्कृतं किंचिन्महदस्ति न संशयः’ इत्युक्तरीत्या स्वस्याः पापकृत्त्वमिति तात्पर्यम्। अत्र सुष्ठु कृतं यैस्ते सुकृताः। तथाविधाश्च ते पुण्यजना राक्षसाश्चेति। ते विभीषणादयः इति कश्चित्। उक्तरीत्याश्रयणे कृतस्यापि संग्रह इति धिक्। इति मूर्च्छति मूर्च्छामभिनयति। कियच्चिरं मेघान्तरेण पूर्णचन्द्रदर्शनं मेघमध्ये पूर्णचन्द्रदर्शनम्॥ ‘वीरशृङ्गारयोरेकः प्रधानं यत्र वर्ण्यते’ इत्यौत्सर्गिकस्य शृङ्गारवीरान्यतरप्राधान्यस्य वीरशृङ्गारौ प्रायिकावित्यपवादेऽपि करुणरसप्राधान्यकरणे मानाभावः; रसान्तराणां सत्त्वात्। नह्यत्र विनिगमकमस्ति। येन करुणरसस्य प्राधान्यमुपपद्यते। किंच करुणस्य दुःखात्मकत्षेन रसत्वं नास्ति येन रसप्रधाननाटके तस्योक्तिसंभवः स्यादिति शङ्कां कविस्तमसावाक्यव्याजेन परिहरति — अहो संविधानकमिति। अपूर्वरूपकनिर्माणं विस्मयनीयमित्यर्थः। एक252 इति।
——————————————————————————————————————

तमसा— अहो संविधानकम्,—

एको रसः करुण एव निमित्तभेदा–
द्भिन्नः पृथक्पृथगिवश्रयते253 विवर्तान्।
आवर्तबुद्बुदतरंगमयान्विकारा–
नम्भो यथा सलिलमेव हि तत्समस्तम्॥४७॥

रामः— अयि विमानराज ! इत इतः।

(सर्वे उत्तिष्ठन्ति।)

—————————————————————————————————————

रस्यते स्वाद्यत इति रसः काव्यानुशीलिनाभ्यासवशविशदीभूतवर्णनीयतन्मयीभवन योग्यसामाजिकमनोमुकुरभाव्यमानतया निर्भरानन्दसंविद्रूपः। करुणः इष्टजनवियोगजन्यदुःखातिशयः। एक एव सन्नपि निमित्तभेदात् व्यञ्जकविभावादिविच्छित्तिविशेषाद्भिन्नः विलक्षणः। पृथक्पृथग्विवर्तान् परस्परविलक्षणशृङ्गाराद्यात्मना परिणामान्। ‘व्यत्यस्तपरिणामः स्याद्विवर्तः’ इति कपिलः। श्रयते भजते। एकस्यानेकधा विकारमात्रे दृष्टान्तमाह—आवर्तेति। आवर्तः जलस्य भ्रमः, बुद्बुदः कुङ्मलाकारजलसंस्थानविशेषः, तरङ्गः भङ्गः एतद्रूपान्विकारान्। अवस्थान्तराणीत्यर्थः। तत्समस्तभावर्तादिकं सव सलिलमेव जलमेव। तरङ्गादीनां जल विवर्तत्वाभावाद्विकारमात्रे दृष्टान्तार्थकमिदम्। अत एव विवर्तानित्युक्तिः। इदमत्र कवेर्मतम्—‘यद्यपि शृङ्गार एक एव रस इति शृङ्गारप्रकाशकारादिमतम्, तथापि प्राचुर्याद्रागिविरागिसाधारण्यात्करुण एक एव रसः। अन्ये तु तद्विकृतयः’ इति। करुणस्यानुकार्ये रामादौ दुःखरूपत्वेऽपि सहृदयानामानन्दात्मना परिणमतीत्युक्तरीत्या सामाजिके आनन्दरूपत्वमेव। तर्हि भावकानां करुणात्मककाव्यश्रवणे अश्रुधाराविर्भावः कथमिति चेदत्राहुः— संभोगसमये स्त्रीणामधरदंशनादौ कृत्रिमदुःखानुभवसीत्कारवदत्राप्युपपत्तिः। ‘सुखेऽपि दुःखवदुपचारः कुट्टमितम्’ इति तल्लक्षणात्। यद्यस्य सहजदुःखात्मकत्वं स्यात्, न कोऽपि सामाजिकस्तत्र प्रवर्तेत, ततश्च करुणैकरसानां रामायणादीनामुच्छेदप्रसङ्गः स्यात्। तस्माद्रसान्तरवत्करुणस्याप्यानन्दात्मकत्वमेवेति। एवं च रसान्तरापेक्षया प्रकृतित्वमेव क254रुणस्य प्राधान्ये विनिगमकं शृङ्गारवीरयोः प्रायिकत्वोक्तेस्तदभावेऽस्यैवोचितत्वादिति। यद्वा,—एको रसः रसशब्दवाच्यः। ‘अत्र ओदनं पचति’ ‘अस्स सूत्रस्य पटो वातव्यः’ इत्यादाविव भाविनीं वृत्तिमाश्रित्य ‘रस’ शब्दप्रयोगः। एवम् ‘पुटपाक–
—————————————————————————————————————

तमसावासन्त्यौ— (सीतारामौ प्रति।)

अवनिरमरसिन्धुः सार्धमस्मद्विधाभिः
स च कुलपतिराद्यश्छन्दसां यः प्रयोक्ता।
स च मुनिरनुयातारुन्धतीको वसिष्ठ–
स्त255256 वितरतु भद्रं भूयसे मङ्गलाय॥४८॥

(इति निष्क्रान्ताः सर्वे।)

तृतीयोऽङ्कः।
<MISSING_FIG href=”../books_images/U-IMG-1728839047Untitled.jpg”/>

———————————————————————————————————————

प्रतीकाशो रामस्य करुणो रसः’ इत्यत्रापि बोध्यम्। करुणः अनुकार्यरामादिगतेष्टजनवियोगजन्यदुःखातिशयः। एक एव सन्नपि निमित्तभेदात्सखित्वपतित्वपत्नीत्वाद्युपाधिभेदाद्भिन्नः विलक्षण इव पृथक्पृथग्विवर्तान् श्रयते। वासन्तीसीतारामप्रभृतिषु परस्परविलक्षणावस्थाविशेषान्भजति अत्र ‘विवर्त’ शब्दो विकारमात्रपरः। एवं दृष्टान्तसामञ्जस्यमुपपद्यते। शेषं पूर्ववत्। अस्मिन् पक्षे रसान्तरसत्त्वे करुणरसप्राधान्यं तूक्तयुक्त्या ग्रन्थाद्बहिः समर्थनीयम्। तथा चैतादृशकरुणरसप्रधानत्वादपूर्वोऽयं कथासंनिवेश इति पूर्वेणान्वयः॥४७॥ तमसावासन्त्यौ सीतारामौ प्रति यथासंख्यं प्रति उद्दिश्य। अवनिरिति। अवनिः भूमिः। अमरसिन्धुः गङ्गा। अस्मद्विधाभिः। तमसापक्षे,— मुरलागोदावरीप्रभृतिभिरित्यर्थः। वासन्तीपक्षे,— अन्याभिर्देवताभिः सहेत्यर्थः। यश्छन्दसां प्रयोक्ता वेदानां प्रवक्ता आद्यः कुलपतिः स च सूर्यश्च। मुनिर्मननशीलः सः प्रसिद्धः। अनुयातानुगता अरुन्धतीयमिति विग्रहे द्वितीयाबहुव्रीहिः। ‘शेषाद्विभाषा’ (पा. ५।४।१५४) इति कप्। ‘न कपि’ (पा. ७।४।१३) इति ह्रस्वप्रतिषेधः। तथाविधो वसिष्ठः। तव भूयसे प्रचुराय मङ्गलाय भद्रं मङ्गलं वितरतु ददातु।अत्र गर्भबीजस्य ऋषिश्रेयोवितरणरूपस्योद्भेदनादाक्षेपो नाम संध्यङ्गमुक्तं भवति। ‘यदत्रोच्छृङ्खलं किंचित्कविनानेन बध्यते। निरङ्कुशतया तत्तु समाधेयं मनीषिभिः॥ भावस्य तु गभीरत्वात्सा कश्चिदिह कथ्यते। कोशव्याकरणे प्रायेणोच्यते ग्रन्थगौरवात्’॥४८॥

वाधूलवंशजनुषो भूसारनिवासराघवार्यस्य।
उत्तररामचरित्रव्याख्यायामवसितस्तृतीयोऽङ्कः॥

इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतलस्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां तृतीयोऽङ्कः॥

——————

चतुर्थाङ्कस्य कथावस्तु

प्रस्तुतेऽङ्के सौधातकि–दण्डायनाख्यवाल्मीकिशिष्यप्रवेशात्मके मिश्रविष्कम्भके तत्संवादेनेदमावेदितं भवति। ऋष्यशृङ्गमुनिना समुपक्रान्तं द्वादशवार्षिकं सत्रं सांप्रतमेव समवसितम्। तत्रोपस्थितो ह्यरुन्धन्तीसहितो भगवान्वसिष्ठो महाराजदशरथस्य कौसल्याप्रमुखान्दारानधिष्ठाय वाल्मीकेराश्रमं प्रति संप्राप्तः। एतस्मिन्नेवावसरे विदेहाधिपतिर्जनकोऽपि स्वप्रियसुहृदं महर्षि वाल्मीकिमुनिं द्रष्टुं तत्र समायातः। कौसल्यादिस्वसुहृत्परिवारमीलनेऽपि पुरावृत्तेन दूनचेता जनको निर्वेदतामाससाद। किंच वैदेहीवियोगाद्विमनस्कान्सर्वानपि समवलोक्यारुन्धती ‘सर्वं शुभोदर्कं भविष्यति’ इति तत्रभवतो वसिष्ठमुनेराश्वासननिवेदनेन तानखिलान्सद्यः समाहितवती। एतस्मिन्नेवान्तरे रूपलावण्यविनयादिभिः पितृसाम्यभाजं रामात्मजं शिशुं लवं समवलोक्य ‘कोऽयं कुमारः ?’ इति सकुतूहलवृत्तिभिः कौसल्यादिभिरुत्कण्ठया संपृष्टो वाल्मीकिराह ‘ज्ञातव्यमेतदवसरे भवद्भिः’ इति। अथाश्रमस्था बटवः स्वाश्रमाभ्याशे पर्यटमानं तुरङ्गममवलोक्य ‘अश्वोऽश्व इति कोऽपि भूतविशेषः’ इति तमदृष्टपूर्वं पशुं मन्यमानास्तद्दर्शनार्थं लवं प्रसभमाहूतवन्तः। स च महाराजाधिराजस्य रामचन्द्रस्याश्वमेधिकोऽयमश्वः शतसंख्यैः कवचिभिः दण्डिभिश्च रक्षित इति पूर्वमेव प्रणीतेन वाल्मीकिरामायणीयाश्वमेधिकेतिवृत्तेन तान्परिचाययामास। लवश्च विजयपताकावर्तीनि सर्वक्षत्रपरिभावीनि संदीपनान्यक्षराणि दृष्ट्वा’अपि किमक्षत्रिया पृथिवी यदेवमुद्धोष्यते ?’ इति संप्रकोपात् वदन् ‘उपघ्नन्तो नयतैनमश्वम्, एष आश्रमवर्तिमृगाणां मध्येचरो भवतु’ इति बटूनाज्ञापयामास। स्वयं च शस्त्रघोषमनुशृण्वन्नाततज्यो बभूव।

सौधातकिः— साअदं अणेअपआराणं जिण्णकुच्छाणं अणज्झअकालणाणं तपोधणाणं257। [स्वागतमनेकप्रकाराणां जीर्णकूर्चानामनध्यायकारणानां तपोधनानाम्।]

प्रथमः— (विहस्य।) अपूर्वः खलु बहुमानहेतुर्गुरुषु सौधातके !।

सौधातकिः— भो दंडाअण ! किंणामहेओ दाणिं एसो महत्तस्स इत्थिआसत्थस्स258 धुरंधरो अज्ज अदिही आअदो ?[भो दण्डायन ! किंनामधेय इदानीमेष महतः स्त्रीसार्थस्य धुरंधरो ऽद्यातिथिरागतः ?]

259ण्डायनः259— धिक्प्रहसनम्। नन्वयमृष्यशृङ्गाश्रमादरुन्धतीं पुरस्कृत्य महाराजदशरथस्य दारानधिष्ठाय भगवान्वसिष्ठः प्राप्तः। तत्किमेवं प्रलपसि ?

सौधातकिः— हुं वसिट्ठो ? [हुं वसिष्ठः ?]

दण्डायनः— अथ किम्।

सौधातकिः— मए उण जाणिदं को वि वग्धो विअ एसो त्ति260। [मया पुनर्ज्ञातः कोऽपि व्याघ्र इवैष इति।]

——————————————————————————————————————

अनुक्षणं प्रसर्पन् कर्कन्धूफलमिश्रशाकपचनामोदः कर्म अभिव्याप्यत इति व्याख्येयम्॥१॥ साअदमिति। स्वागतम्। सकारस्य न लुक्। गकारस्य प्रायो लुक्। ‘कगचजतदपयवाम्—’ (है. प्रा. १।१७७) इति प्राकृतव्याकरणसूत्रेण लोपः। अकारस्य ईषत्स्पृष्टतया श्रुतिरपि। सूत्रे प्रायोग्रहणाद्दकारस्य न लुक्। अनेकप्रकाराणाम्, बहुविधानामित्यर्थः। पूर्ववदेव लोपः। यः श्रुतिबोध्यम्। अत्र चकारशब्दस्य ‘घञि वा’ (प्रा. १।२।३८) इति प्राकृतव्याकरणसूत्रेण पूर्वस्य वैकल्पिकत्वात् ‘पआर’ इति दीर्घः। पआराणं इति त्वासुपोरिति सूत्रेणानुस्वारः। अनध्ययननिमित्तानामित्यर्थः। शिष्टामध्ययनस्य धर्मशास्त्रसिद्धत्वादिति भावः। जीर्णकूर्चानां शिथिलभ्रूमध्यानाम्। जीर्णशब्दे ‘संयोगे च’ (है.प्रा. १।८४) इति प्राकृतव्याकरणसूत्रेण ह्रस्वः। गुरुषु वसिष्ठादिषु। भो दंडाअणेति। नामधेयं तस्य संबुद्धिः। महतः प्रचुरस्य स्त्रीसार्थस्य अङ्गनासमूहस्य धुरंधरो निर्वापकोऽतिथिरागतः किंनामधेय इत्यन्वयः। दंडाअणेति स्वरस्य बिन्दवमिति ह्रस्वः। किंणामहेअ इत्यत्र ‘खघथघभाम्’ (है.प्रा. १।१८७) इति सूत्रेण धकारस्य हकारः। ‘स्त्री’शब्दस्य ‘स्त्रीभगिनीदुहितृवनितानांइत्थीबहिणीदआविलआ’ (प्रा. १।३।९७) इति प्राकृतसूत्रेण इत्थीआदेशे कप्रत्ययस्य कलोपः। सार्थस्येत्यत्र ‘संयोगे’ (प्रा. १।२।४०) इति ह्रस्वः। धिक्प्रहसनं हासहेतुभूतं त्वदीयवचः। निन्दनीयमिति भावः। दारान् कौसल्याप्रभृतीन्। अधि–
——————————————————————————————————————

** दण्डायनः—** आः, किमुक्तं भवति ?

सौधातकिः— जेण परावडिदेण एव्वसा वराई कविला कल्लाणी बलामोडिअ मडमडाइआ। [येन परापतितेनैव सा वराकी कपिला कल्याणी बलात्कृत्य मडमडायिता।]

दण्डायनः— समांसो261 मधुपर्क इत्याम्नायं बहुमन्यमानाः श्रोत्रियायाभ्यागताय262 ‘महोक्षं वा महानं वा श्रोत्रियायोपकल्पयेत्।’ बह्वृचब्राह्मणेऽपि ‘यावन्तः खलु वै राजानमनुयन्ति तेभ्यः सर्वेभ्य आतिथ्यं क्रियते, अत्र महोक्षोपकल्पनेन मधुपर्को विधीयते इति।”) वत्सतरीं महोक्षं वा पचन्ति गृहमेधिनः। तं हि धर्मं धर्मसूत्रकाराः समामनन्ति।

सौधातकिः— भो णिगिहीदोसि। [भो निगृहीतोऽसि।]

दण्डायनः— कथमिव ?

सौधातकिः— जेण आअदेसु वसिट्ठमिस्सेसु वच्छदरी विससिदा। अज्ज एव्व पच्चाअदस्सराएसिणो जणअस्स भअवदा वम्मीइणा धहिमहूहिं एव णिव्वत्तिदो महुवक्को। वच्छतरी उण विसज्जीदा। \येनागतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता। अद्यैव प्रत्यागतस्य राजर्षेर्जनकस्य भगवता वाल्मीकिना दधिमधुभ्यामेव निर्वर्तितो [मधुपर्कः263 इति धर्मसूत्रकारवचनात्।")। वत्सतरी पुनर्विसर्जिता।]

——————————————————————————————————————

ष्ठाय। तन्नियामको भूत्वेत्यर्थः। प्रलपसि अनर्थकं वदसि॥ हुमिति प्रश्ने॥ अथ किमित्यङ्गीकारे॥ एष कोऽपि व्याघ्र इति मया ज्ञातमित्यन्वयः। ‘संयोगे’ (है.प्रा. १।८४) इति ह्रस्वः॥ किमुक्तं भवति कुत एवमुक्तम् ?॥ हि तेन वसिष्ठेन हि। वराकी प्रतिकूलदैवा। कपिला नाम गवामवान्तरजातिः। कल्याणी वत्सतरी। द्विहायनीत्यर्थः। बलात्कृत्य मडमडायिता। ‘आलम्भन’ शब्दानुकरणमिदम्। तथाविधशब्दयुक्ता कृतेत्यर्थः। आलब्धेति यावत्। मडायितेत्यर्थः। ‘मृद्गातेर्मट्टपरिहट्टखडववन्नाजचडभल्लमडा’ (२।४।१५२) इति प्राकृतव्याकरणसूत्रेण मृद्धातोर्मड इत्यादेशः। ‘तेन व्याघ्र इति ज्ञातम्’ इति पूर्वेण संबन्धः॥ आम्नायं धर्मशास्त्रम्। महांश्चासौ उक्षा चेति विग्रहः। निपातनादकारान्तत्वम्। पचन्ति श्रपयन्ति। समामनन्ति उपदिशन्ति। अत्र मया व्याघ्र इत्यादिना गुरुतिरस्कृतिरुपद्रव उक्तः॥ भो निगृहीतोऽसि पराजितोऽसि॥ आगतेष्वेवेति। ‘मिश्र’शब्दः पूज्यताद्योतकः। ‘एवार्थे
——————————————————————————————————————
पाठा०-१ ‘महाजं वा निर्वपन्ति’

दण्डायनः— अनिवृत्तमांसानामेवं264 कल्पं व्याहरन्ति केचित्। निवृत्तमांसस्तु तत्रभवान् जनकः।

सौधातकिः— किंणिमित्तं ? [किंनिमित्तम् ?]

दण्डायनः—यद्देव्याः सीतायास्तादृशं दैवदुर्विपाकमुपश्रुत्य वैखानसः संवृत्तः, तस्य कतिपयसंवत्सर265श्चन्द्रद्वीपतपोवने तपस्तप्यमानस्य।

सौधातकिः— तदो किंति आअदो ? [ततः किमित्यागतः?]

दण्डायनः— संप्र266ति च प्रियसुहृदं265 भगवन्तं प्राचेतसं द्रष्टुम्।

सौधातकिः— अवि अज्ज संबंधिणीहिं समं णिउत्तं267 दंसणं से ण वेत्ति ? [अद्य संबन्धिनीभिः समं निर्वृत्तं दर्शनमस्य न ?।]

दण्डायनः— संप्रत्येव भगवता वसिष्ठेन देव्याः कौसल्यायाः सकाशं भगवत्यरुन्धती प्रहिता। यथा268 स्वयमुपेत्य स्नेहादयं द्रष्टव्य इति।

सौधातकिः— जह एदे ट्ठविरा परप्परं एव्व मिलिदा, तह अम्हे वि वडुहिं सह मिलिअ अणज्झाअमहुस्सवं खेलंतो मणेम्ह। अह कुत्थ सो जणओ !। [यथैते स्थविराः परस्परमेव मिलिताः, तथावामपि बटुभिः सह मिलित्वाऽनध्यायमहोत्सवं खेलन्तो मानयावः। अथ कुत्र स जनकः?]

दण्डायनः— तथायं प्राचेतसवसिष्ठावुपास्य269 संप्रत्याश्रमस्य बहिर्वृक्षमूलमधितिष्ठति। य एषः,—

——————————————————————————————————————

एव्व’ (प्रा. ३।२।१८) इति प्राकृतसूत्रेण एव्वादेशः। ‘दधिमधुभ्याम्’ इत्यनेन दधिमधुसंसृष्टमित्यापस्तम्बवचनमभिप्रेतम्। निर्वर्तितः निष्पादितः। वत्सतरी पुनरिति। विसर्जिता मुक्ता, न त्वालब्धेत्यर्थः॥ व्याहरन्ति केचिदिति। केचिद्धर्मशास्त्रकारा आपस्तम्बादयः। एवंकल्पं मांसवर्जं मधुपर्कानुष्ठानपरग्रन्थं व्याहरन्ति वदन्ति। निवृत्तमांसो वर्जितमांसः॥ यद्देव्या इत्यादि। वैखानसः वानप्रस्थः। चन्द्रद्वीपतपोवने तपस्तप्यमानस्य तपश्चरतः कतिपयः संवत्सरः, गत इति शेषः। चन्द्रद्वीप इति कश्चिद्द्वीपविशेषः॥ प्राचेतसं वाल्मीकिम्॥ संबन्धिनीभिः दर्शनं निर्वृत्तं न वेति ज्ञायते अपीति योजना॥ अपि अयम्। जनकइत्यर्थः। स्नेहाद्द्रष्टव्यः प्रेम्णा दर्शनीयः॥ स्थविरा वृद्धाः। अनध्यायः अध्ययनाभावः, स एव महोत्सवः। आनन्दहेतुत्वा–
——————————————————————————————————————

हृदि नित्यानुषक्तेन सीताशोकेन तप्यते।
अन्तःप्रसृप्तदहनो जरन्निव वनस्पतिः॥२॥

(इति निष्क्रान्तौ।)

इति मिश्रविष्कम्भः।
——————

(ततः प्रविशति जनकः।)

जनकः—

अपत्ये यत्तादृग्दुरितमभवत्तेन महता
विषक्तस्तीव्रेण व्रणितहृदयेन व्यथयता।
पटुर्धारावाही नव इव चिरेणापि हि न मे
निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति॥३॥

कष्टं एवं नाम जरया दुःखेन च दुरासदेन भूयः प270 इत्यादिनोक्तंतपः।")राकसांतपन271 इत्युक्तम्।")प्रभृतिभिस्तपोभिः शोषितान्तःशरीरधातोरवष्टम्भ एव महानद्यापि272 मम दग्धदेहो न पतति। अन्धतामिस्रा ह्यसूर्या नाम ते लोकाः प्रेत्य तेभ्यः प्रति–

—————————————————————————————————————

दुत्सवत्वरूपणम्॥ उपास्य परिचर्य॥ हृदीति। य एषः। जनक इत्यर्थः। हृदि नित्यानुषक्तेन नित्यलग्नेन सीताशोकेन सीतानिमित्तदुःखेन तप्यते तप्तो भवति। जरन् वृद्धः अन्यः प्रज्वलद्वह्निः वनस्पतिः पुष्पहीनफलवृक्षः॥२॥ मिश्रविष्कम्भः। संस्कृतप्राकृतात्मकविष्कम्भ इत्यर्थः॥ अपत्य इति। यस्मात् अपत्ये। सीतायामित्यर्थः। तादृग्दुरितं कौलीनरूपपापं व्यसनं वाऽभवत्। तीव्रेणातिप्रचुरेण तेन दुरितेन व्यथयता दुःखं प्रापितेन व्रणितहृदयेन विषक्तः प्रसक्तः। पटुः तीक्ष्णः। धारया वहतीति धारावाही। अत्यन्तनैरन्तर्येण प्रवाहीत्यर्थः। चिरेणापि चिरकालेनापि नव इव स्थितः मर्माणि हृदयादीनि निकृन्तन् छिन्दन् क्रकच इव कराल इव स्थितः। मन्युः शोकः कोपो वा न विरमति न शाम्यति॥३॥ जरया वयोहान्या। दुरासदेन दुःसहेन। दुःखेन सीताविश्लेषजेन। पराको द्वादशदिनोपवासकृच्छ्रम्, सांतपनं चान्द्रायणविशेषः, एवमादिभिः कायशोषकनियमविशेषैः शोषितान्तःशरीरधातोर्मे कथमवष्टम्भ एव पातप्रतिबन्धकावलम्बनमेव। दग्धदेहः हतहृदयमितिवत् निन्दायां ‘दग्ध’शब्दः। अद्यापि न पततीति योजना। अनेकसामग्रीसमवधानेऽपि पाताभावो विस्मयनीय इति भावः। तर्हि भृगुपतनादिना त्यज्यतामित्यत्राह— अन्धतामिस्रा इति। आत्मानं घ्नन्तीति आत्मघातिन इति विग्रहः। ‘सुप्यजातौ’
—————————————————————————————————————

विधीयन्ते य आत्मघातिन इत्येवमृषयो मन्यन्ते। अनेकसंवत्सरातिक्रमेऽपि प्रतिक्षणपरिभावनास्पष्टनिर्भासः प्रत्यग्र इव न मे दारुणो दुःखसंवेगः प्रशाम्यति। अयि मातः देवयजनसंभवे सीते ! ईदृशस्ते निर्माणभागः परिणतः, येन लज्जया स्वच्छन्दमप्याक्रन्दितुं न शक्यते। हा पुत्रि !

अनियतरुदितस्मितं विराज–
त्कतिपयकोमलदन्तकुङ्गलाग्रम्।
वदनकमलकं शिशोः स्मरामि
स्खलदसमञ्जसमञ्जु जल्पितं ते॥४॥

भगवति वसुंधरे ! सत्यमतिदृढासि,—

त्वं वह्निर्मुनयो वसिष्ठगृहिणी गङ्गा च यस्या विदु–
र्माहात्म्यं यदि वा रघोः कुलगुरुर्देवः स्वयं भास्करः।

——————————————————————————————————————

(पा. ३।२।७८) इति णिनिः। ये बलात्क्रियन्ते तेभ्यः तान् पातयितुम्। क्रियार्थे चतुर्थी। असूर्या सूर्यरहिता अन्धतामिस्रा अन्धतमसमयास्ते प्रसिद्धा लोका नरकविशेषाः प्रेत्य मरणानन्तरं प्रतिविधीयन्ते इत्येवमृषयो मन्यन्ते। ‘असुर्या नाम ते लोका अन्धेन तमसावृताः। ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः’ (ईशा. ३) इति श्रुतिः। इति धर्मशास्त्रकाराणां मतम्। प्रतिक्षणपरिभावनया संततविचारेण ‘भू अवकल्कने’ अवकल्कनं चिन्तनम्। स्पष्टनिर्भासः विशदप्रकाशः। प्रत्यग्र इव नव्य इव न प्रशाम्यति न नश्यति। निर्माणभागः सृष्टिफलम्। येन निर्माणभागेनाक्रन्दितुमपि रोदितुमपि। ‘अपि’शब्दात्क्रियान्तरानर्हत्वं सूच्यते। दोषवादहेतुकत्वात्त्यागस्येति भावः। अनियतेति। अनियतरुदितस्मितं अव्यवस्थितरोदनहासनम्। विराजन्तः कतिपये त्रिचतुराः कोमला ललिताः दन्ता एव कुङ्गलाग्राणि यस्य तथोक्तंतेन ‘कुङ्मालाग्र’शब्दस्य न पूर्वनिपातः। न वा ‘दन्त’शब्दस्य दत्तादेशः। स्खलदपूर्णमसमञ्जसं पूर्वापरसंगतिरहितं मञ्जु सुन्दरं जल्पितं वचनं यस्य तत्तथोक्तं ते वदनकमलकं वदनमेव कमलम्। अनुकम्पायां कन्। स्मरामि उत्कण्ठापूर्वकं चिन्तयामि। अत्रानियतरुदितस्मितं स्खलदसमञ्जसमिति विशेषणानुगुण्याद्वदनकमलकमित्यत्र परिणामालंकारः; केवलकमलस्य प्रकृतक्रियान्वयित्वानुपपत्तेः। ‘परिणामः क्रियार्थश्चेद्विषयी विषयात्मना’ (कुवल० ६।२१) इति लक्षणात्। दन्तकुड्मलाग्रमित्यत्रापि क्रियान्वयविवक्षायां परिणामः रूपकं वा॥४॥ भगवतीति। अतिदृढासि कठिनासीति सत्यम्। अत्र ‘यो वा बिभर्ति काठिन्यं तस्मै भूम्यात्मने नमः’ इति वचनं द्रष्टव्यम्। तव वसुंधरात्वप्रयुक्तधैर्येण पुत्रीनाशोऽप्यकिंचित्कर एवेत्युपालम्भो व्यज्यते। त्वमिति। यस्याः सीताया माहात्म्यमानुषत्वं त्वं वेत्थ। विदुरित्यस्य विभक्तिवचनयोर्विपरिणामेन योजना। वह्निर्वेद, मुनयो विदुः, वसिष्ठगृहिणी अरुन्धती वेद
——————————————————————————————————————

विद्यां वागिव यामसूत भवती शुद्धिं273 गतायाः पुन–
स्तस्यास्त्वद्दुहितुस्तथाविशसनं किं दारुणे मृष्यथाः॥५॥

इत इतो भगवतीमहादेव्यौ।

जनकः— अये, गृष्टिनोपदिश्यमानमार्गा भगवत्यरुन्धती (उत्थाय) का पुनर्महादेवीत्याह। (निरूप्य।) हा हा, कथमियं महाराजस्य दशरथस्य धर्मदाराः प्रियसखी मे कौसल्या ? क एतां प्रत्येति सैवेयमिति नाम ?

आसीदियं दशरथस्य गृहे यथा श्रीः
श्रीरेव वा किमुपमानपदेन सैषा।
कष्टं बतान्यदिव दैववशेन जाता
दुःखात्मकं किमपि भूतमहोविकारः274॥६॥

य एव मे जनः पूर्वमासीन्मूर्तोमहोत्सवः।
क्षते क्षारमिवासह्यं जातं तस्यैव दर्शनम्॥७॥

(ततः प्रविशत्यरुन्धती कौसल्या कञ्चकी च।)

अरुन्धती— ननु ब्रवीमि द्रष्टव्यः स्वयमुपेत्यैव वैदेह इत्येवं275 वः

—————————————————————————————————————

जानाति, गङ्गा च वेद जानाति। यदि वा किंच रघोः कुलगुरुः रघुवंशजनकस्तदाचार्यो वसिष्ठो वा। देवः दीप्तिशीलः भास्करः स्वयं वेद परानपेक्षं जानाति। अत्रभूम्यादीनामन्योन्यनिरपेक्षप्रामाण्यप्रतिपत्त्यर्थं क्रियैकशेषाकरणाद्विदुरित्यत्र न मध्यमपुरुषः प्रयुक्तः। अत एव पुरुषवचनविपरिणामेन भिन्नानि वाक्यानि। यां प्रसूतवती तस्यास्तथाविधायाः पुनः शुद्धिं गतायाः अग्निप्रवेशादित्यर्थः। त्वद्दुहितुः सीतायास्तथाविशसनमन्यादृशहिंसनं किं मृष्यथाः कथं सोढवत्यसि ?॥५॥ गृष्टिः दशरथकञ्चुकी तेन। निरूप्य हेतुभिर्विचार्य। इयं सैवेति एतां कः प्रत्येति प्रत्यभिजानाति ? नाम प्रसिद्धौ, न कोऽपीत्यर्थः। आसीदिति। इयं कौसल्या दशरथस्य गृहे श्रीरिवासीदथवा श्रीरेवासीत्। उपमानत्वबोधक’यथा’शब्देन किम् ? न किमपीत्यर्थः। अत्रोपमालंकारः, रूपकालंकारः, आक्षेपालंकारश्च। सैषा श्रीसदृशी श्रीभूता वा इयं कौसल्या दैववशेन दैवेच्छया अन्यदिव जाताऽन्यद्भूतमिव संवृत्ता। अलक्ष्मीरिव जातेत्यर्थः। अत्रेवेति वर्तते। दुःखात्मकं दुःखैकरसं किमपि वाचामपरिच्छेद्यं भूतं प्राणिविशेषः जाता, साक्षादलक्ष्मीः जातेत्यर्थः। यथा श्रीः श्रीरेव वेत्यनयोः प्रतिद्वन्द्वभूतमिदमहो विकारः प्राणिनामुपचयापचयरूपागन्तुको विस्मयनीय इत्यर्थः। कष्टं बतेति दुःखातिशये॥६॥ इति। य एष जनः कौसल्या॥७॥ आदेशः आज्ञा। अनध्यवसायः संशयः॥ आत्मानं धृतिम्। संस्तभ्य
—————————————————————————————————————

कुलगुरोरादेशः। अत एव चाहं प्रेषिता। तत्कोऽयं पदे पदे महाननध्यवसायः276 ?

कञ्चुकी— देवि ! संस्तभ्वात्मानमनुरुध्यस्व भगवतो वसिष्ठस्यादेशमिति विज्ञापयामि।

कौसल्या— ईरिसे काले मिहिलाहिवो मए दिट्ठव्वो त्ति समं एव्व सव्वदुक्खाइं ओदरंति277। ता ण सक्कणोमि उव्वट्टमाणमूलबंधणं हिअअं पज्जवत्थावेदुं। [ईदृशे काले मिथिलाधिपो मया द्रष्टव्य इति सममेव सर्वदुःखान्यवतरन्ति। तस्मान्न शक्नोम्युद्वर्तमानमूलबन्धनं हृदयं पर्यवस्थापयितुम्।]

अरुन्धती— अत्र कः संदेहः ?

संतानवाहीन्यपि मानुषाणां
दुःखानि संबन्धिवियोगजानि।
दृष्टे ने प्रेयसि दुःसहानि
स्रोतःसहस्रैरिव संप्लवन्ते॥८॥

कौसल्या— कहं णु खु वच्छाए मे वहुए वनगदाए278 तस्सा पिदुणो राएसिणो मुहं दंसम्ह ? [कथं नु खलु वत्साया मे वध्वा वनगतायास्तस्या पितूराजर्षेर्मुखं दर्शयामः ?]

अरुन्धती

एष वः श्लाध्यसंबन्धी जनकानां कुलोद्वहः।
याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारावणं जगौ॥९॥

——————————————————————————————————————

प्रतिहतगतिं कृत्वा, अनुरुध्यस्वानुतिष्ठेत्यर्थः। समं युगपत्। अवतरन्ति प्राप्नुवन्ति। उद्वर्तमानमुद्गतं मूलबन्धनं मूलनियन्त्रणं यस्य तथोक्तम्। शिथिलबन्धनमित्यर्थः। पर्यवस्थापयितुम्॥ संतानेति। संतानेन अविच्छेदेन वाहीनि प्रवहन्त्यपि दुःखानि प्रेयसि जने दृष्टे सतीत्यन्वयः। स्रोतःसहस्रैरनन्तैः स्रोतोभिः। उपलक्षणे तृतीया। संप्लवन्ते महोर्वीभवन्ति॥८॥ वध्वाः स्नुषायाः। एष इति। यस्मै यं जनकं सार्थयितुम्। ‘क्रियार्थ—’ (पा. २।३।१४) इति चतुर्थी। ब्रह्मपारायणं279 स्वरूपे गुणैश्च अनवधिकातिशयब्रह्मत्वयुक्तपरमात्मप्रतिपादकवेदान्तभागं जगौ उपदिदेश। स
——————————————————————————————————————

कौसल्या— एसो सो महाराअस्स हिअअणिव्विसेसो वच्छाए मे वहुए पिदा280”) विदेहराओ सीरद्धओ। सुमरिदम्हि अणिव्वेदरमणीए दिअसे। हा देव्व ! सव्वं तं णत्थि। [एष स महाराजस्य हृदयनिर्विशेषो वत्साया मे वध्वाः पिता विदेहराजः सीरध्वजः। स्मारितास्मि अनिर्वेदरमणीयान्दिवसान्। हा देव ! सर्वं तन्नास्ति।]

** जनकः**— (उपसृत्य।) भगवत्यरुन्धति ! वैदेहः सीरध्वजोऽभिवादयते।

यया पूतंमन्यो निधिरपि पवित्रस्य महसः
पतिस्ते पूर्वेषामपि खलु गुरूणां गुरुतमः।
त्रिलोकीमाङ्गल्या281मवनितललीनेन शिरसा
जगद्वन्द्यां देवीमुषसमिव वन्दे भगवतीम्॥१०॥

अरुन्धती— अक्षरं ते ज्योतिः प्रकाश्यताम्। स त्वां पुनातु देवः परोरजसां य एष तपति।

जनकः— आर्य गृष्टे ! अप्यनामयमस्याः प्रजापालकस्य मातुः ?

कञ्चुकी— (स्वगतम्) निरवशेषमतिनिष्ठुरमुपालब्धाः स्मः।(प्रकाशम्।) राजर्षे ! अनेनैव मन्युना चिरपरित्यक्तरामभद्रदर्शनां नार्हसि दुःखयितुमतिदुःखितां देवीम्। रामभद्रस्यापि दैवदुर्योगः कोऽपि। यत्किल समन्ततः प्रवृत्तवीभत्सकिंवदन्तीकाः पौरान चाग्निशुद्धिम282नल्पकाः प्रतियन्तीति दारुणमनुष्ठितं देवेन।

———————————————————————————————————————

एष इति योजना॥९॥ हृदयनिर्विशेषः। अन्तरङ्ग इत्यर्थः। सीरः ध्वजो यस्य तथोक्तः। अनिर्वेदाश्च ते रमणीयाश्च, न विद्यते निर्वेदश्चित्तग्लानिर्येषु तथोक्तः। रमणीया आनन्दहेतवः। तथाविधान्दिवसान्स्मारितास्मि दिवसविषयकस्मरणवती कृतास्मि। सर्वमेतदुपलभ्यमानं सर्वं नास्ति असत्कल्पम्। हा दुःख्यते॥ अभिवादयते। प्रणामेनाशीर्वाचयतीत्यर्थः॥ ययेति। पूतंमन्य आत्मविषयकपूतत्वप्रकारकज्ञानवान्। त्रिलोकीमाङ्गल्यांलोकत्रयमङ्गलहेतुभूतानुषसमिव प्रातःसंध्यादिदेवतामिव स्थिताम्। ‘अवनितललीनेन शिरसा इत्युपलक्षणमष्टाङ्गप्रणामस्य॥१०॥अक्षरं प्रकृतिपुरुषवत्स्वरूपत्वभावविकाररहितं ज्योतिः स्वयंप्रकाशं प्रकाश्यतां प्रतिभासताम्। ‘अक्षरमम्बरान्तधृतेः’ (ब्र. सू. १।३।१०) ‘ज्योतिश्चरणाभिधानात्’ (ब्र. सू. १।१।४०) इत्यधिकरणद्वयार्थः प्रत्यभिज्ञापितः। देवः जगत्सृष्ट्यादिलीलावान्। रजसां समस्तदोषजातेभ्यः परः। संबन्धसामान्ये षष्ठी। ‘परोरजाः’
———————————————————————————————————————

जनकः— (सरोषम्।) आः, कोऽयमग्निनामास्मत्प्रसूतिपरिशोधने ? कष्टमेवंवादिना जनेन रामभद्रपरिभूता अपि पुनः परिभूयामहे।

अरुन्धती— (निःश्वस्य।) एवमेतत्। अग्निरग्निरिति वत्सां प्रति लघून्यक्षराणि283। सीतेत्येव पर्याप्तम्। हा, वत्से !

शिशुर्वा शिष्या वा यदसि मम तत्तिष्ठतु तथा
विशुद्धेरुत्कर्षस्त्वयि तु मम भक्तिं द्रढयति।
शिशुत्वं स्न्रैणं वा भवतु ननु वन्द्यासि जगतां284
गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः॥११॥

कौसल्या— अहो, समुन्मूलअंति285 विअ वेअणाओ। (इति मूर्च्छति।) [अहो, समुन्मूलयन्तीववेदनाः।]

——————————————————————————————————————

इति वा पाठः। रजसः पर इति विग्रहः।बाहुलकात्समासः।पृषोदरादित्वादोकारश्च। य एष तपति स त्वां पुनातु। अनेन ‘अन्तत्तद्धर्मोपदेशात्’ (व्र.सू. १।१।२०) इत्यधिकरणार्थः सूचितः। परो रजसामित्यनेन ‘उदेति ह वै सर्वेभ्यः पाप्मभ्यः’ (छा.१।६।६) इति श्रुतिश्चोदिता। अनामयमारोग्यम्। प्रजापालकस्य मातुः राममातुः कौसल्यायाः। इदं च साभिप्रायम्। ‘अनामय’मित्यनेन एवं दुःखिनी कियच्चिरं जीविष्यतीत्युपालन्तो व्यज्यते॥ निरवशेषं निःशेषमतिनिष्ठुरं अतिरूक्षम्। अनेनैव मन्युना ‘अप्यनामयं प्रजापालकस्य मातुः’ इत्यनेन व्यज्यते, न क्रोधेन। दैवस्य भवितव्यताया दुर्योगः दुःखजननसन्नाहः। यत्किल यस्माद्धेतोः प्रवृत्ता प्रसृता बीभत्सा जुगुप्सनीया किंवदन्ती जनश्रुतिः येषां तथोक्ताः। ‘किंवदन्ती जनश्रुतिः’ इत्यमरः। पौराः पुरे भवाः। तस्माद्दैवदुर्योगः कोऽपीति पूर्वेणान्वयः। अनल्पका अत्यल्पाः। अग्निशुद्धिं न च प्रतियन्ति न विश्वसन्ति च। इति पूर्वोक्ताद्धेतोः दारुणं परित्यागात्मकं रौक्ष्यम्॥ अग्निशुद्धिरिति क इति योजना। प्रस्ताव इति शेषः। एवंवादिना अग्निशुद्धिरिति वादिना जनेन परिभूयामहे अवमन्यामहे। उपसर्गवशेन भवतेः कर्मणि लकारः। एतत्परिभूयामहे इत्येतत्। एवं जनकोक्तदशासद्भाव एव। लघून्यक्षराणि लाघवापादकशब्दः सीतेत्येव पर्याप्तम्। वह्निसीतयोः पावनत्वे समकक्ष्यत्वात्प्रत्युत सीतायाः प्रकर्षात्सीताशब्द एव परिपूर्ण इति भावः। शिशुरिति। त्वं मम शिशुर्वा शिष्यः वाऽसीति यत् तत्तिष्ठत्विति योजना। विशुद्धेः निर्दोषतायाः उत्कर्षः अतिशयः। तथा भक्तिं अन्यादृशीं पूजनीयताप्रतिपत्तिं त्वयि मम द्रढयति स्थिरां करोति। शिशुत्वं स्त्रैणं स्त्रीत्वं वा। ‘स्त्रीपुंसाभ्यां नञ्त्नञौ’ (पा. ४।१।८७) इति नञ्प्रत्ययः। भवतु स्यात् नतु तावता वन्द्यात्वहानिः। जगतां वन्द्याऽसि अभिवादनीयाति। नन्वित्यवधारणे। गुणाः गुणिषु ‘अहिंसा शौचमस्तेय’मित्याद्युक्तगुणवत्सु पूजास्थानमन्वयव्यतिरेकाभ्यां पूजाप्रयोजकाः। लिङ्गं
——————————————————————————————————————

जनकः— हन्त, किमेतत्।

अरुन्धती— राजर्षे ! किमन्यत् ?

स राजा तत्सौख्यं स च शिशुजनस्ते च दिवसाः
स्मृतावाविर्भूतं त्वयि सुहृदि दृष्टे तदखिलम्।
विपाके घोरेऽस्मिन्न खलु न विमूढा तव सखी
पुरंध्रीणां चित्तं कुसुमसुकुमारं हि भवति॥१२॥

जनकः— हन्त, सर्वथा नृशंसोऽस्मि। यश्चिरस्य दृष्टान्प्रियसुहृदः प्रियदा286रानस्निग्धइव पश्यामि।

स संबन्धी श्लाघ्यः प्रियसुहृदसौ तच्च हृदयं
स चानन्दः साक्षादपि च निखिलं जीवितफलम्।
शरीरं जीवो वा यदधिकमतोऽन्यत्प्रियतरं
महाराजः श्रीमान्किमपि मम नासीद्दशरथः॥१३॥

———————————————————————————————————————

जटोपवीतादिकं न पूजाप्रयोजकम्॥११॥ वेदना दुःखानि। समुन्मूलयन्ति मूलमुत्पाटयन्ति। इति मूर्च्छति मूर्च्छामभिनयति॥ हन्त किमेतत्, शस्त्राभिघातादिकमन्तरा नूर्च्छा विस्मयनीयेत्यर्थः॥ अन्यत्किम्, वक्ष्यमाणादन्यन्न किमपीत्यर्थः। स राजेति। ‘स राजा तत्सौख्यं स च शिशुजनस्ते च दिवसाः’ इति यत्तदखिलं सुहृदि त्वयि दृष्टे सति स्मृतावाविर्भूतं कस्याप्यंशस्य प्रतोषेण स्मृतिविषयीभूतम्। ‘सदृशादृष्टचित्ताद्याः स्मृतिबीजस्य बोधकाः’ इत्युक्तेः। घोरे भयंकरे अस्मिन्विपाके प्रकृतसीतात्यागरूपदैवपर्यवसाने तव सखी कौसल्या विमूढा नेति न। ‘अप्यनामयमस्या’ इत्यादिभवद्वचनभङ्ग्याविष्कृतो भवन्मतरीत्या योऽस्याः कठिनचित्तताप्रयुक्तमूर्च्छाभावो वा नेत्यर्थः। पुरंध्रीणां चित्तं हि यस्मात्कुमुमवन्मृदु तस्माद्विमूढा नेति न॥१२॥ एवमरुन्धत्या बोधितोऽनुतपति—हन्तेति। योऽहं चिरस्य दृष्टान् चिराद्दृष्टान्प्रियसुहृदो दशरथस्य प्रियान्मत्प्रीतिविषयान्मयि प्रीतियुक्तान् हि दारान् कौसल्यामस्निग्ध इव शत्रुरिव पश्यामि शत्रुकर्तृकदर्शनसदृशदर्शनवानस्मि सोऽहं सर्वप्रकारेण क्रूरोऽस्मि। हन्त अनुतप्यते। स संबन्धीत्यादि। श्रीमान् लक्ष्मीवान्महाराजः सार्वभौमः स दशरथः मम श्लाव्यः संबन्धी अभूत्। असौ संबन्धीभूतो दशरथः प्रियसुहृदभूत् प्रीतिमान् शोभनहृदयवांश्चाभूत्। ‘सुहृद्दुर्हृदौ मित्रामित्रयोः’ (पा. ५।४।१५०) इति ‘हृदय’शब्दस्य हृदादेशः। तदन्तरङ्गत्वेन प्रसिद्धं हृदयं चाभूत्। चकारेण संबन्धिसुहृत्त्वसमुच्चयः। तदिति दशरथपरम्; विधेयप्राधान्यात्क्लीबत्वम्। एवं च तत् संबन्धसुहृद्भूतदशरथः हृदयं चाभूदितिवा। स पूर्वोक्तत्रयात्मा दशरथः साक्षादानन्दश्च। साक्षाच्छब्देनानन्दहेता–
———————————————————————————————————————

कष्टमियमेव सा कौसल्या,—

यदस्याः पत्युर्वा रहसि परमन्त्रायितमभू287
दभूवं दम्पत्योः पृथगहमुपालम्भविषयः।
प्रसादे कोपे वा तदनु मदधीनो विधिरभू–
दलं वा तत्स्मृत्वा दहति यदवस्कन्द्य हृदयम्॥१४॥

अरुन्धती— हा कष्टम्। अतिचिरनिरुद्धनिःश्वासनिष्पन्दं288 हृदयमस्याः।

जनकः—हा प्रियसखि !। (इति कमण्डलूदकेन सिञ्चति।)

कञ्चुकी

सुहृदिव प्रकटय्य सुखप्रदां289
प्रथममेकरसामनुकूलताम्।
पुनरकाण्डविवर्तनदारुणः
परिशिनष्टि विधिर्मनसो रुजम्290॥१५॥

——————————————————————————————————————

वानन्दत्वात्कोपो व्यावर्तते। साक्षान्मुख्य इत्यर्थः। निखिलं जीवितफलमपि च कर्मज्ञानभक्तिरूपं जीवनप्रयोजनं च। चकारः पूर्वसमुच्चायकः। शरीरमभूत् ‘दुर्लभो मानुषो देहः’ इत्युक्तं शरीरं चाभूत्; सकलधर्मसाधनत्वात्। जीवो वाऽभूत् जीवश्चाभूत्। तस्य हि ज्ञानानन्दमयत्वात्प्रेमास्पदत्वम्। अतो जीवादधिकं समस्तकल्याणगुणामृतोदधित्वेनानन्दमयत्वेन च प्रकृष्टं प्रियतरं प्रियो जीवः प्रियतरं ब्रह्म तथाविधं यत्परं ब्रह्म तदभूत्; यत एवं ततः किं नाभूत् ? सर्वमप्यभूदित्यर्थः। लोके संबन्धिसुहृदादीनां तत्तन्मात्रत्वमस्य तु सर्वदा सर्वविधत्वमिति भावः॥१३॥ यदस्या इति। अस्या वा पत्युर्दशरथस्य वा यत्परमन्त्रायितमभूद्रहसि गुप्तभाषणं विचारो वा जातः। आचारणिजन्तात्कर्तरि क्तः। तत्राहं दम्पत्योर्जायापत्योः पृथगुपालम्भविषयोऽभूवं परस्परपरिहारेण परस्परविषये ‘अयमेवमुक्तवान्, अयमेवं कृतवान्, इयमेवमुक्तवती, इयमेवं कृतवती’ इत्यादिपरस्परापराधकथनपात्रमासम्। ‘परमहितमभूत्’ इति पाठोऽपि दृश्यते। प्रणयकलहरूपजीवनापेक्षकर्मेति तदर्थः। शेषं पूर्ववत्। तदनु उपालम्भानन्तरं प्रसादानुष्ठानं कोपानुष्ठानं वा मदधीनमभूदित्यर्थः। स्मृत्वाऽलम्, तत्स्मरणेन साध्यं नास्तीत्यर्थः। यद्धृदयमवस्कन्द्याक्रम्य दहति भस्मीकरोति। तत्स्मृत्वाऽलं कोपप्रसादयोरन्यविषयत्वं च पाठद्वये क्रमाद्विवक्षितम्। तत्र हि परस्परेत्युक्तिरुपलक्षणार्था॥१४॥ निरुद्धाः संचाररहिताः श्वासाः प्राणवायवो यस्मिन् तथोक्तं निष्पन्दं च॥ सुहृदिति। विधिः प्रथममादौ सुहृदिव मित्रमिव सुखप्रदामेकरसामेकप्रकारामनुकूलतां योगक्षेमहेतुभूतां प्रकटय्य
——————————————————————————————————————

कौसल्या—(आश्वस्य।) हा, वच्छे जाणइ ! कहिं सि ? सुमरामि दे णवविवाहलच्छीपरिग्गहेक्कमंगलं291 संफुल्लमुद्धमुहपुंडरीअं आरुहंतकौमुदीचंदसुंदरं। एहि मे पुणो वि जादे ! उज्जोएहि उच्छंगं। सव्वदा महाराअ एव्वं भणादि—एसा रहुउलमहत्तराणं वहू अम्हाणं दु जणअसुदा दुहिदेव्व। [हा, वत्से जानकि ! कुत्रासि ? स्मरामि ते नवविवाहलक्ष्मीपरिग्रहैकमङ्गलं संफुल्लमुग्धमुखपुण्डरीकमारुहत्कौमुदीचन्द्रसुन्दरम्। एहि मे पुनरपि जाते ! उद्दयोतयोत्सङ्गम्। सर्वदा महाराज एवं भणति—एषा रघुकुलमहत्तराणां वधूरस्माकं तु जनकसुता दुहितैव।]

कञ्चुकी — यथाह देवी,—

पञ्चप्रसूतेरपि तस्य राज्ञः
प्रियो विशेषेण सुबाहुशत्रुः।
वधूचतुष्केऽपि तथैव नान्या292
प्रिया तनूजास्य यथैव293 सीता॥१६॥

जनकः— हा प्रियसख महाराज दशरथ ! एवमसि सर्वप्रकारहृदयंगमः। कथं विस्मर्यसे ?

——————————————————————————————————————

प्रकाशयित्वा पुनरनन्तरमकाण्डेन निर्निमित्तेन विवर्तनेन व्यत्यस्तपरिपाकेन दारुणः सन् क्रूरः सन्मनसो रुजं हृदयपीडां परिशिनष्टि परिशिष्टां करोति। अकाण्डनिवर्तनेन दारुणोऽकाण्डनिवृत्तो भूत्वेत्यप्याहुः। सुहृदपि त्यक्त्वा गतश्चेन्मनः पीडां करोतीति साम्यम्॥१५॥ नवविवाहलक्ष्म्याः परिग्रहेण एकं मुख्यं मङ्गलं यस्य तथोक्तम्। कौमुद्यां कृत्तिकापौर्णमास्यां भवश्चन्द्रः कौमुदीचन्द्रः। आरोहन्ती प्रादुर्भवन्ती या कौमुदी चन्द्रचन्द्रिका तद्वत्सुन्दरमङ्गं यस्यास्तथोक्ताम्। उत्सङ्गमङ्कमुद्द्योतय उपवेशेन प्रकाशय। सर्वदा सर्वस्मिन्काले महाराजो दशरथः। एषा सीता रघुकुले महत्तरा ये मनुप्रभृतयस्तेषां वधूः स्नुषा। जनकसुता सीता, अस्माकं तु मम तु दुहितैव मदभिप्रायेण दुहितैवेत्येवं भणति॥ देवी कौसल्या यथाह तथैवेति शेषः। पञ्चप्रसूतेरिति। पञ्च प्रसूतयः पुत्राः यस्य तथोक्तस्यापि। तस्य राज्ञः पङ्क्तिरथस्य सुबाहुशत्रुः रामः विशेषेण प्रिय इष्टः। पञ्च प्रसूतयो यस्मिन् वृन्दे इति वा विग्रहः। निर्धारणे षष्ठी। ‘तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य’ (पा. ७।१।७४) इति पाक्षिकः पुंवद्भावः। पञ्चानां मध्ये रामः प्रिय इत्यर्थः। रामादयश्चत्वारः शान्ता चेति पञ्च। वधूचतुष्केऽपि सीतादिस्नषाचतुष्टयेऽपि अस्य जनकस्य तनूजा सीता यथा तस्य राज्ञो दशरथस्य प्रिया तथा अन्या ऊर्मिलाप्रभृतिः राज्ञः
——————————————————————————————————————

कन्यायाः किलपूजयन्ति पितरो जामातुराप्तं जनं
संबन्धे विपरीतमेव तदभूदाराधनं ते मयि।
त्वं कालेन तथाविधो294ऽप्यपहृतः संबन्धवीजं च त–
द्धोरेऽस्मिन्मम जीवलोकनरके पापस्य धिग्जीवितम्॥१७॥

कौसल्या—जादे ! जाणइ, किं करेमि? दिढवज्जलेवपडिवद्धणिच्चलं हदजीविदं मंमंदभाइणीं ण पडिच्चअदि। [ जाते जानकि ! किं करोमि ? दृढवज्रलेपप्रतिबन्धनिश्चलं हतजीवितं मां मन्दभागिनीं न परित्यजति।]

अरुन्धती— आश्वसिहि राज्ञि ! बाष्पविश्रामोऽप्यन्तरेषु कर्तव्य एव। अन्यच्च किं न स्मरसि यदवोचदृष्यशृङ्गाश्रमे युष्माकं कुलगुरुर्भवितव्यं तथेत्युपजातमेव, किंतु कल्याणोदर्कंभविष्यतीति ?

कौसल्या— कुदो अदिक्कंदमणोरहाए मह एदं। [कुतोऽतिक्रान्तमनोरथाया ममैतत्।]

——————————————————————————————————————

प्रिया न। ‘अस्य तनूजा सीता’ इत्यनेन सीताया एव जनकाभिसंधिना तनूजात्वं नान्यासामिति व्यज्यते। वधूचतुष्केऽपीति निर्धारणे सप्तमीदर्शनात्॥१६॥ सर्वैः प्रकारैर्धर्मैः हृदयंगमः। कन्याया इति। संबन्धे कन्यावरसंबन्धे। कन्यायाः पितरो जनन्यः जनकाश्च जामातुर्बरस्याप्तं संनिहितबन्धुं जनं पूजयन्ति किल संभावयन्तीति प्रसिद्धम्। तदाराधनं पूजनं ते मयि विपरीतमभूत्। त्वत्कर्तृकमद्विषयकपूजनं सत् प्रतिलोमं जातमित्यर्थः। तथाविधोऽपि त्वं कालेनापहृतः मया पूज्यमानं भवन्तं द्रष्टुं न्याय्यं तावद्भाग्याभावेऽपि केवलं वा भवन्तं द्रष्टुं मदीयदैवदुर्विपाको नाक्षम्यतेति भावः। संबन्धबीजं सीता चापहृतं लिङ्गविपरिणामः। पूर्वोक्तयोरभावेऽपि तादृशभवदभिमता सीतापि दैवेन नाक्षम्यतेति भावः। घोरे भयंकरे अस्मिन्नेवंविधबहुदुःखभाजने जीवलोकबिले पापस्य पूजनविपर्यासादिहेतुभूतदुरितप्रचुरन्य मम जीवितं प्राणधारणं धिक्। तत्कर्मिका निन्देत्यर्थः। अत्रेदानीं भवत्पूजाद्यभावेऽपि यत्र तल्लाभो लोकान्तरे तत्र गमनस्यापि मदीयजीवनयोनिदुरितप्रतिबन्धकमिति भावः॥१७॥ दृढेन वज्रलेपेन बन्धकद्रव्यलेपेन यः प्रतिबन्धो विश्लेषानुत्पादस्तेन निश्चलं हतजीवितं निन्द्यजीवितम्॥ आश्वसिहि आश्वासं दुःखलघूकरणं प्राप्नुहि। बाष्पस्य दुःखाश्रुणः विश्रामो विच्छेदोऽपि। ‘अपि’शब्देन बाष्पादिकं समुच्चीयते। अन्तरेषु मध्ये मध्ये। अन्यच्च बाष्पविश्रामादन्यदपि। यत्कुलगुरुर्वसिष्ठः अवोचत्तन्न स्मरसि किम् ? भवितव्यं तथेति परित्यागरूपेण भवनमपरिहार्यमिति हेतोः। उपजातमापाततो जातम्, न त्वन्ततस्तथेत्यर्थः। कल्याणोदर्कं मङ्गलपर्यवसायि भविष्यतीति यदवोचत्तन्न स्मरसि किम् ?
——————————————————————————————————————

अरुन्धती— तत्किं मन्यसे राजपत्नि295 ! मृषोद्यं तदिति ? न हीदं क्षत्रिये मन्तव्यम्।

आविर्भूतज्योतिषां ब्राह्मणानां
ये व्याहारास्तेषु मा संशयोऽभूत्।
भद्रा ह्येषां वाचि लक्ष्मीर्निषक्ता296
नैते वाचं विप्लुतार्थांवदन्ति॥१८॥

(नेपथ्ये कलकलः सर्वे आकर्णयन्ति।)

जनकः— अये, अद्य खलु शिष्टानध्ययन297 इत्यस्खलितं खेलतां बटूनां कोलाहलः298

** कौसल्या**— सुलहसोक्खं दाणिं299 बालत्तणं होदि। (निरूप्य) अम्महे, एदाणं मज्झे को एसो रामभद्दस्स कौमारलच्छीसावट्ठम्भेहिं मुद्धललिदेहिं अंगेहिं दारणो अम्हाणं लोअणे षीअलावेदि ? [सुलभसौख्यमिदानीं बालत्वं भवति। अहो, एतेषां मध्ये क एष रामभद्रस्य कौमारलक्ष्मीसावष्टम्भैर्मुग्धललितैरङ्गैर्दारकोऽस्माकं लोचने शीतलयति ?]

अरुन्धती— (स्वगतम्। सहर्षोत्कण्ठम्।) इदं नाम भागीरथीनिवेदितं रहस्यकर्णामृतम्। न त्वेवं विद्मः कतरोऽयमायुष्मतोः कुशलवयोरिति। (प्रकाशम्)

—————————————————————————————————————

अतिक्रान्तमनोरथाया असंभाव्याभिलाषविषयायाः॥ मृषोद्यमिति मिथ्यावचनमिति। आविर्भूतेति। आविर्भूतज्योतिषां परज्योतिर्विषयकापरोक्षज्ञानवतां ब्राह्मणानां विप्राणां ये व्याहारा उक्तयस्तेषु संशयः प्रामाण्यसंदेहो मा भूत् नोत्पत्तुमर्हः। हि यस्मादेषां ब्राह्मणानां वाचि भद्रा मङ्गलकरी लक्ष्मीः अर्थोपधायकत्वातिशयः। निषक्ता नित्यसङ्गिनी भवति। एते आविर्भूतज्योतिषो ब्राह्मणाः विप्लुतार्थामसदर्थं वाचमेकामपि गिरं न वदन्ति नोच्चारयन्ति। पूर्वत्र बहुवचनं तदीयसर्ववाचामपि प्रामाण्यबोधनार्थम्, अत्रैकवचनं तु तदीययत्किंचिद्वचोऽप्यप्रामाण्यं नेति बोधनार्थमिति द्रष्टव्यम्। अत्र श्लोके ‘सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत। अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि॥’ (ऋ.सं. ८।२।२३) इति श्रुतिः स्फोरिता॥१८॥ शिष्टागमनप्रयुक्ताध्ययनाभावः शिष्टानध्ययनः॥ सुलभं सौख्यं यस्मिंस्तथोक्तम्। अनेन ‘वृद्धो जनो दुःखशतानि भुङ्क्ते’ इत्युक्तवार्धकविन्दा व्यज्यते। रामभद्रस्य कौमारलक्ष्म्या चन्द्रवदाह्लादकारिरामशैशवस्य योऽयमवष्टम्भः आलम्भनं तत्सहितैः। ‘लक्ष्मी’पदेन शैशवस्य स्पृहणीयत्वं व्यज्यते। संब–
—————————————————————————————————————

कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो
वटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन्।
पुनरपि शिशुर्भूत्वा वत्सः स मे रघुनन्दनो
झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम्॥१९॥

कञ्चुकी— नूनं क्षत्रियब्रह्मचारी दारकोऽयमिति मन्ये।

जनकः— एवमेतत्। अस्य हि300,—

चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो
भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं301 रौरवीम्।
मौर्व्या302 मेखलया नियन्त्रितमधो वासश्च माञ्जिष्ठकं303
पाणौ कार्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः304॥२०॥

भगवत्यरुन्धति ! किमित्युत्प्रेक्षसे कुतस्त्योऽयमिति ?

अरुन्धती— अद्यैव वयमागताः।

——————————————————————————————————————

न्धशब्दत्वात्सापेक्षत्वेऽपि समासः। मुग्धललितैः सुन्दरसुकुमारैः॥ हर्षः इष्टागमात्प्रीतिः। उत्कण्ठा आकारादिविषयाभिलाषः। भागीरथीनिवेदितं गङ्गया कथितं रहस्यं गूढं यत्कर्णयोरमृतवद्भोग्यम्। तदिदं नामायुष्मतोः कुशलवयोर्मध्ये कतरोऽयमिति कुश इति वा लव इति वा न विद्मः न जानामि। ‘अस्मदो द्वयोश्च’ (पा. १।२।५९) इत्येकत्वे बहुवचनम्। कुवलयेति। शिखण्डकमण्डनः काकपक्षधरो बटूनां ब्रह्मचारिणां परिषदं सदः श्रिया कान्त्या सभाजयन्नलंकुर्वन्। अमृताञ्जनममृतमयमञ्जनं शीतलत्वादिभिः तद्धि रमणीयमिति कविसमयप्रसिद्धिः॥१९॥ मन्ये अनुमिनोमि। एतद्भवता संभाव्यमानमेवंवस्तुभूतम्। चूडाचुम्बितेति। चूडाचुम्बितानि संयुक्ताग्राणि कङ्कपत्राणि बाणपक्षा यस्मिंस्तथोक्तम्। पृष्ठतोऽभितः पृष्ठे, द्वयोर्भागयोरित्यर्थः। भस्ममयं स्तोकमल्पं पवित्रं पावनं लाञ्छनं पुण्ड्रं यस्य स तथोक्तम्। उरः रौरवीं ऐणेयीं त्वचं धत्ते। मौर्व्यात्मकरशनया नियन्त्रितं माञ्जिष्ठं मञ्जिष्ठरक्तं वास अधः उरसोऽधस्तात्। क्षत्रियब्रह्मचारिणां
——————————————————————————————————————

जनकः— आर्य गृष्टे ! अतिकौतुकं वर्तते। तद्भगवन्तं वाल्मीकिमेव गत्वा पृच्छ। इमं च दारकं ब्रूहि वत्स305 ! केऽप्येते प्रवयसस्त्वां दिदृक्षव इति।

कञ्चुकी— यदाज्ञापयति देवः। (इति निष्क्रान्तः।)

कौसल्या— किं मण्णेध एव्व भणिदो आअमिस्सदि वा ण वेत्ति ? [किं मन्यध्वे एवं भणित आगमिष्यति वा न वेति ?]

जनकः— भिद्यते वा सद्वृत्तमीदृशस्य निर्माणस्य।

कौसल्या— (निरूप्य ) कहं सविणआणिसमिदगिट्ठिवअणो विसज्जिदासेसतरिसदारओ इतोहिमुहं अवसरिदो एव्व स वच्छो ? [कथं सविनयनिशमितगृष्टिवचनो विसर्जिताशेषसदृशदारक इतोऽभिमुखमपसरित एव स वत्सः ?]

जनकः— (चिरं निर्वर्ण्य) भोः, किमप्येतत् ,—

महिम्नामेतस्मिन्विनयशिशिरो मौग्ध्यमसृणो306
विदग्धैर्निर्ग्राह्यो न पुनरविदग्धैरतिशयः।
मनो मे संमोहस्थिरमपि हरत्येष बलवा–
नयोधातुं यद्वत्परिलघुरयस्कान्तशकलः॥२१॥

——————————————————————————————————————

मेखलेत्युक्तं ‘माञ्जिष्ठं राजन्यस्य’ इति च। पाणौ कार्मुकं धनुरक्षसूत्रवलयं जपमालिकावलयम्। अस्तीति शेषः ‘अपरे पैप्पलः’ इति पाठे अपरे पाणौअश्वत्थदण्डः। ‘अपरपैप्पलः’ इति पाठे धनुर्दण्डादपरः, अन्य इत्यर्थः॥२०॥ कुतस्त्यः कस्माद्भवः॥ अतिशयितं कौतुकं विशिष्टवस्तुजिज्ञासोत्कण्ठ्यम्। प्रवयसो वृद्धाः। दिदृक्षवः द्रष्टुमिच्छवः॥ यदाज्ञापयतीत्यत्र तदनुतिष्ठानीति शेषः। एवं भणितः प्रवयसस्त्वां दिदृक्षव इत्युक्तः सन् आगमिष्यत किमिति मन्यध्वे ? किं संदिग्धे॥ ईदृशस्य लोकोत्तरस्य निर्माणस्याकारस्य। निर्मीयते तन्निर्माणम्। कर्मणि ल्युट्। ‘कृत्यल्युटो बहुलम्’ (पा. ३।३।११३) इत्युक्तेः। सद्वृत्तं सदाचारो भिद्यते वा। छिन्नं भवति किमित्यर्थः। ‘कर्मवत्कर्मणा—’ (पा. ३।१।८७) इति यगात्मनेपदे॥ सविनयं निशमितं श्रुतं गृष्टिवचनं येन तथोक्तः॥ एतद्वक्ष्यमाणं किमपि अपूर्वमित्यर्थः। तदाह— महिम्नामित्यादि। विनयेन ज्ञानवृद्धशीलवृद्धसन्निधौ स्वनिकर्षपर्यवसाय्यवस्थातेन शिशिरः शीतलः। मौग्ध्येन बाल्येन मसृणः पौरुषरहितः विदग्धैः सूक्ष्मदर्शिभिर्निर्ग्राह्यो निर्णेयः। अविदग्धैः पुनर्न ग्राह्यो निर्णेतुमशक्यः एतस्मिन्महिम्ना–
——————————————————————————————————————

लवः— (प्रविश्य।) अविज्ञातवयःक्रमौचित्यात्पूज्यानपि307 सतः कथमभिवादयिष्ये ? (विचिन्त्य।) अयं पुनरविरुद्धः प्रकार इति वृद्धेभ्यः श्रूयते। (सविनयमुपसृत्य।) एष वो लवस्य शिरसा प्रणामपर्यायः।

अरुन्धतीजनकौ— कल्याणिन् ! आयुष्मान्भूयाः।

कौसल्या— जाद ! चिरं जीव। [जात ! चिरं जीव।]

अरुन्धती— एहि वत्स ! (लवमुत्सङ्गे गृहीत्वा। आत्मगतम्।) दिष्ट्या न केवलमुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः308

कौसल्या— जाद ! इदो वि दाव एहि। (उत्सङ्गे गृहीत्वा।) अम्महे, ण केवलं दरविप्पट्टकंदोट्टमंसलुज्जलेण देहबंधणेण कवलिदारविंदकेसरकसाअकंठकलहंसघोसघग्धराणुणादिणा सरेण अ रामभद्दं अणुसरेदि। णं कठोरकमलगब्भप्पम्मलसरीरप्पस्सो वि तारिसो एव्व। जाद ! पेक्खामि दे मुहपुंडरीअं। (चुवुकमुन्नमय्य निरूप्य सबाष्पाकृतम्।) राएसि ! किं ण पेक्खसि णिउणं णिरूवज्जंतो वच्छाए मे वहूए मुहचंदेण वि संवददि एव्व ? [जात ! इतोऽपि तावदेहि। अहो न केवलं दरविस्पष्टकुवलय मांसलोज्ज्वलेन देहबन्धनेन कवलितारविन्दकेसरकषायकण्ठकलहंसघोषवरानुनादिना स्वरेण च रामभद्रमनुसरति। ननु कठोरकमलगर्भपक्ष्मलशरीरस्पर्शोऽपि तादृश एव। जात ! पश्यामि ते मुखपुण्डरीकम्। राजर्षे ! किं न पश्यसि निपुणं निरूप्यमाणो वत्साया मे वध्वा मुखचन्द्रेणापि संवदत्येव ?]

——————————————————————————————————————

मतिशयः लवनिष्ठप्रकृष्टज्ञानतेजःप्रकृतिगुणादिमाहात्म्यानामुत्कर्षः। संमोहेन मुर्च्छया स्थिरमपि काष्ठवन्निष्पन्दमपि मे मनश्चित्तं परिलघुरल्पः अयस्कान्तशकलः अयस्कान्तखण्डः अयोधातुं यद्वल्लोहपिण्डमिव हरति कर्षति। अत्र ‘विनयशिशिरो मौग्ध्यमसृण’ इत्याभ्यां सलिलहिमोपष्टम्भेन ज्योत्स्नीभवतां सूर्यतेजसां सादृश्यं व्यज्यते॥२१॥ क्रमःसत्काराद्यानुपूर्व्यं वयः स्थाविरादिकं वयःक्रमस्तस्यौचित्यं प्राप्ताताज्ञातं च तद्वयःक्रमौचित्यं तस्याभावः अज्ञातवयःक्रमौचित्यम्। अर्थाभावे अव्ययीभावः। ‘अपञ्चम्या’ इति प्रतिषेधादम्भावो न। तथा च वयःक्रमौचित्यज्ञानाभावादित्यर्थः। कथमभिवादयिष्ये केन क्रमरूपप्रकारेण नमस्करिष्ये ? अविरुद्धः अविपरीतः। प्रकारोऽनुष्ठानविशेषः। सामान्यवृद्धविषयकप्रणामकरणरूप इति भावः। ‘सभायां प्रत्येकं न नमस्कुर्यात्’ इति गौतमस्मरणमिहाभिप्रेतम्॥ उत्सङ्गे अङ्के॥ दिष्ठ्येत्यानन्दे। उत्सङ्गः केवलं न पूरितः, किंतु मनोरथोऽपि पूरित इत्यर्थः॥ जातेति संबोधनम्। ‘विप्पट्ट’मिति विस्तृतवाचकम्। ‘कन्दोट्ट’शब्दः कुवलयवाची। घर्घरश्च कांस्यध्वनिस्तद्वदनुकरणं तथाविधेन। अनुसरति अनुकरोति। कठोरस्य
——————————————————————————————————————

जनकः— पश्यामि सखि। पश्यामि।

**कौसल्या—**अम्महे, उम्मत्तीभूदं विअ मेहिअअं कुदोमुहं विलवदि। [अहो, उन्मत्तीभूतमिव मे हृदयं कुतोमुखं विलपति।]

जनकः—

वत्सायाश्च रघूद्वहस्वच शिशावस्मिन्नभिव्यज्यते
संवृत्तिः309 प्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः।
सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ
हा हा देवि310 ! किमुत्पथैर्मम मनः पारिप्लवं धावति॥२२॥

कौसल्या— जाद ! अस्थि दे मादा, सुमरसि वा तादं ? [जात ! अस्ति ते माता, स्मरसि वा तातम् ?]

लवः— नहि।

कौसल्या— तदो कस्स तुमं ? [ततः कस्य त्वम् ?]

**लवः—**भगवतःसुगृहीतनामधेयस्य वाल्मीकेः।

कौसल्या— अयि जाद ! कहिदव्वं कहेहि। [अयि जात ! कथितव्यं कथय।]

लवः— एतावदेव जानामि।

———————————————————————————————————————

समग्रस्य कमलस्य गर्भवदान्तरपत्रवत्पक्ष्मलः स्फीतः तादृश एव रामभद्रस्पर्शसदृश एव। चुबुकंमधराघोदेशम्। निपुणं निरूप्यमाणः हेतुभिः पटुतरं विचार्यमाणः अयमिति शेषः। मुखं चन्द्रेण संवदत्येव। सीतामुखचन्द्रेति यौगिकसादृश्यप्रमाणविषयो भवति॥ पश्यामि सखि ! पश्यामीति आदराद्द्विरुक्तिः॥ उन्मत्तीभूतमिव विभ्रान्तमिव कुतोमुखम्। यत्र क्वापि असंभाव्यविषये लग्नमिति यावत्। विलपति परिदेवयति। ‘विवलते’ इति च पाठः॥ वत्साया इति। अस्मिन् शिशौ लवे वत्सायाः सीताया रघद्वहस्य रामचन्द्रस्य च संवृत्तिः संपर्कः। संबन्ध इत्यर्थः। प्रतिबिम्बितेवाभिव्यज्यतेअभिव्यक्ता भवति। दर्पणादौ बिम्बवद्दृश्यत इत्यर्थः। निखिला कृत्स्ना आकृतिरवयवस्थानविशेषः सैव सीतारघूद्वहसंबन्धिन्येव द्युतिर्लावण्यं तयोरेव संबन्धिनी। वाणी लवस्य वाक्सा तयोरेव संबन्धिनी। विनयः प्रश्रयः स एव सहजः स्वाभाविकः। पुण्यश्चासौ पावनश्चासौ अनुभावः समीचीनव्यवसायः। असौ सीतारघूद्वहसंबन्ध्येव। अदूरविप्रकृष्टवाच्योऽदःशब्दः। ‘अनुभावः प्रभावे च सतां च मतिनिश्चये’ इत्यमरः। देवि सीते ! मम मनः पारिप्लवं सत् चञ्चलंसत् उत्पथैरमार्गेः धावति अनवस्थितं भवति। हा हा, दुःख्यत इत्यर्थः। देवीत्यनेनदेवभूयगतायास्तव कथमिदं संगच्छत इति व्यज्यते। अतः एव ह्युत्पथैर्रित्यु–
———————————————————————————————————————

(नेपथ्ये।)

भो भोः सैनिकाः ! एष खलु कुमारश्चन्द्रकेतुराज्ञापयति न केनचिदाश्रमाभ्यर्णभूमय आक्रमितव्या इति।

अरुन्धतीजनकौ— अये, मेध्याश्वरक्षाप्रसङ्गादुपागतो वत्सश्चन्द्रकेतुर्द्रष्टव्य इत्यहो सुदिवसः।

कौसल्या— वच्छलक्खणस्स पुत्तओ आणवेदित्ति अमियबिंदुसुंदराइं अक्खराइं सुणीअंदि। [वत्सलक्ष्मणस्य पुत्रकः आज्ञापयतीत्यमृतबिन्दुसुन्दराण्यक्षराणि श्रूयन्ते।]

लवः— आर्य ! क एष चन्द्रकेतुर्नाम ?

जनकः— जानासि रामलक्ष्मणौ दाशरथी ?

लवः— एतावेव रामायणकथापुरुषौ।

जनकः— अथ किम्।

लवः— तत्कथं न जानामि?

जनकः— तस्य लक्ष्मणस्ययमात्मजश्चन्द्रकेतुः।

लवः— ऊर्मिलायाः पुत्रस्तर्हि मैथिलस्य राजर्षेर्दौहित्रः।

अरुन्धती— आविष्कृतं कथाप्रावीण्यं वत्सेन।

जनकः—(विचिन्त्य।) यदि त्वमीदृशः कथायामभिज्ञस्तद्ब्रूहि तावत्पश्याम311स्तेषां दशरथस्य पुत्राणां कियन्ति किंनामधेयान्यपत्यानि केषु दारेषु प्रसूतानि ?

——————————————————————————————————————

‘क्तम्॥ अत्र च ‘ऋक्पूरब्धूःपथाम् —’ (पा. ५।४।७४) इति समासान्तः॥२२॥ कस्य त्वम् ? कस्माज्जात इत्यर्थः। सुगृहीतं सु प्रतिपादितं नामधेयं यस्य तथोक्तस्य वाल्मीकेस्तस्माज्जातः॥ सैनिकाः सेनासमवायिनः। अंभ्यर्णभूमयः समीपदेशाः। ताः नाक्रमितव्या न केनापि स्प्रष्टव्या इति। आज्ञापयतीत्यर्थः॥ मेध्याश्वस्य यज्ञाङ्गाश्वस्य प्रसङ्गादवश्यानुरोद्धव्यत्वाद्धेतोः द्रष्टव्य इति सुदिवसः। चन्द्रकेतुदर्शनाच्छोभनदिवसोऽयं विस्मयनीय इत्यर्थः॥ अमृतबिन्दुसुन्दराप्यक्षराणि सुधापृषत इव भोग्याः वर्णाः॥ दाशरथी दशरथपुत्रौ जानासि किमिति काक्वायोजनीयम्॥ रामायणकथायाः रामायणनामकवाक्यप्रबन्धस्य पुरुषौ प्रतिपाद्यौ॥ अथ किमित्यङ्गीकारे॥ तर्हि ऊर्मिलापुत्रत्वे मैथिलस्य मिथिलाधिपतेः आविष्कृतं प्रकाशितम्। वत्सेन लवेन॥ कथायामभिज्ञः तत्प्रतिपाद्यार्थज्ञानवान्। किंनामधेयानीत्यारभ्य केषु प्रसूतानीत्यन्तस्य ब्रूहीत्यनेनान्वयः। पश्यामः। अस्मज्ज्ञातविषयकत्वद्वचनं शृणुम
——————————————————————————————————————

लवः— नायं कथाविभागोऽस्माभिरन्येन वा श्रुतपूर्वः।

जनकः— किं न प्रणीतः कविना ?

लवः— प्रणीतो न प्रकाशितः। तस्यैव कोऽप्येकदेशः प्रबन्धान्त312रेण रसवानभिनेयार्थः कृतः। तं च स्वहस्तलिखितं मुनिर्भगवान्व्यसृजद्भगवतो भरतस्य तौर्यत्रिकसूत्रधारस्य।

जनकः— किमर्थम् ?

लवः— स किल भगवान्भरतस्तमप्सरोभिः प्रयोजयिष्यतीति।

जनकः— सर्वमिदमाकूततरमस्माकम्।

लवः— महती पुनस्तस्मिन्भगवतो वाल्मीकेरास्था। यतः केषांचिदन्तेवासिनां हस्तेन तत्पुस्तकं भरताश्रमं प्रति प्रेषितम्। तेषामनुयात्रिकश्चापपाणिः प्रमादच्छेदनार्थ313मस्मद्भ्राता प्रेषितः।

कौसल्या— जाद ! भादावि दे अस्थि ? जात ! भ्रातापि तेऽस्ति ?]

लवः— अस्त्यार्यः कुशो नाम।

कौसल्या— जेट्ठोत्ति भणिदं होदि। [ज्येष्ठ इति भणितं भवति।]

लवः— एवमेतत्। प्रसवानुक्रमेण314 स किल ज्यायान्।

जनकः— किं यमावायुष्मन्तौ315 ?

——————————————————————————————————————

इत्यर्थः॥ कथाविभागः कथैकदेशः प्रणीतः किं न प्रबन्धः किं नोक्तः किमिति वा न प्रकाशितः न श्रावितो नाध्यापितश्च॥ तस्य रामायणस्य कोऽपि अनिर्धारितः एकदेशोंऽशः। स च सप्तमे वक्ष्यमाणान्तर्नाटकार्थक इति ज्ञेयम्। प्रब316न्धान्तरेण श्राव्यप्रबन्धातिरिक्तदृश्यप्रबन्धरूपकरूपेण वा रसवान् करुणाद्भुतरसप्रतिपादकः सर्वाकर्णनादितररसप्रतिपादकः अभिनेयः सत्याङ्गिकादिचतुर्विधाभिनयप्रकाश्योऽर्थः अभिधेयः यस्य तथोक्तः कृतः। मुनिर्वाल्मीकिः। तौर्यत्रिकसूत्रधारस्य नृत्तगीतवादित्रशास्त्राचार्यस्य भरतस्य भावरागतालशास्त्राचार्यत्वमूलकृत्तदाद्यक्षरघटितभरतनामकस्य तं प्रबन्धं अप्सरोभिः प्रयोज्यकर्तृभिः। प्रयोजयिष्यतीत्येतदर्थम्॥ सर्वमिदं प्रणीतस्याप्रकाशनं प्रबन्धान्तरेण करणं भरतं प्रति प्रेषणं चाकूततरं गूढार्थकम्॥ आस्था आवश्यकत्वप्रकारकेच्छा। अनुयात्रिकोऽनुचरः प्रमादस्यानवधानप्रयुक्तप्रतीतस्य च्छेदनार्थं निवृत्त्यर्थमस्मद्भ्राता मत्सहजः॥ आर्यः पूज्यो ज्येष्ठ इति भणितं भवति अग्रज इति ध्वनितं भवति॥ प्रसवानुक्रमेणोत्पत्तिप्रकारेण। ज्यायान् ज्येष्ठः। यमसाधारणपूर्व जानुजत्वव्यवस्थापकजननानुपूर्वेण ज्येष्ठ इति भावः॥ अत एव पृच्छति— किं यमाविति॥
——————————————————————————————————————

लवः— अथ किम्।

जनकः— वत्स ! कथय कथाप्रपञ्चस्य कियान्पर्यन्तः317

लवः— अलीकपौरापवादोद्विग्नेन राज्ञा निर्वासितां देवीं देवयजनसंभवां सीतामासन्नप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनिवृत्त इति।

कौसल्या— हा, वच्छे मुद्धमुहि ! को दाणिं दे सरीरकुसुमस्स झत्ति देव्वदुव्विलासपरिणामो एक्काइणीए318 निवडिदो। [हा वत्से मुग्धमुखि ! क इदानीं ते शरीरकुसुमस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः।]

** जनकः**— हा वत्से !

नूनं त्वया परिभवं च वनं च घोरं
तां च व्यथां प्रसवकालकृतामवाप्य।
क्रव्याद्गणेषु परितः परिवारयत्सु
संत्रस्तया शरणमित्यसकृत्स्मृतोऽहम्319॥२३॥

लवः— आर्ये ! कावेतौ ?

अरुन्धती— इयं कौसल्या। अयं जनकः। (लवः सबहुमानखेदकौतुकं पश्यति।)

जनकः— अहो, निर्दयता दुरात्मनां पौराणाम्। अहो, रामभद्रस्य क्षिप्रकारिता।

एतद्वैशसवज्रघोरपतनं शश्वन्ममोत्पश्यतः
क्रोधस्य ज्वलितुं झटित्यवसरश्चापेन शापेन वा।

——————————————————————————————————————

कथाप्रपञ्चस्य कथाविस्तरस्य पर्यन्तोऽवसानम्। यद्वा,—प्रपञ्चनं प्रकाशनं प्रपञ्चस्तस्य कोऽवधिः ? कियत्पर्यन्तं प्रकाशित इत्याशयः॥ अलीको मिथ्याभूतः पौरापवादः पौरकर्तृकदोषकथनं तेनोद्विग्नेन संभ्रान्तेन राज्ञा रामेण निर्वासितां गृहाच्च्यावितां देवयजनसंभवां यागभूमिजातां परित्यज्य लक्ष्मणः प्रतिनिवृत्त इति यत् एष पर्यन्त इति योजना॥ शरीरकुसुमस्य कुसुमसदृशशरीरस्य। दैवदुर्विलासस्य दैवदुश्चेष्टितस्य परिणामः फलोपधानम्। क इति दुःख्यते॥ नूनमिति। क्रव्याद्गणेषु व्याघ्रादिषु परितः समन्तात्परिवारयत्सु सत्सु मण्डलीकृत्य व्याप्नुवत्सु सत्सु \। संत्रस्तया त्वयाहं शरणमिति स्मृतः नूनं संभावये॥२३॥ दुरात्मनां दुर्बुद्धीनाम्। क्षिप्रकारिता असमीक्ष्यकारित्वम्॥ एतद्वैशसेति। एतद्वैशसमेव महाव्यसनमेव वज्रस्याशने–
——————————————————————————————————————

कौसल्या— (सभयकम्पम्।) भअवदि। परित्ताअदु320। पसादेहि कुविदं राएसिं। [भगवति ! परित्रायताम्, प्रसादय कुपितं राजर्षिम्।]

लवः

एतद्धि परिभूतानां प्रायश्चित्तं मनस्विनाम्।

अरुन्धती

राजन्नपत्यं रामस्ते पाल्याश्च कृपणा जनाः॥२४॥

जनकः

शान्तं वा रघुनन्दने तदुभयं यत्पुत्रभाण्डं हि मे
भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः॥२५॥

(प्रविश्यं संभ्रान्ता बटवः।)

कुमार कुमार ! अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनास्माभिः स्वयं प्रत्यक्षीकृतः।

लवः— अश्वोऽश्व इति नाम पशुसमाम्नाये सांग्रामिके च पठ्यते, तद्ब्रूतकीदृशः।

——————————————————————————————————————

र्घोरं पतनं तीक्ष्णपतनं शश्वदुत्पश्यतो मम क्रोधस्य शापेनानिष्ठोपधायकसंकल्पेन चापेन च मारकधनुषा च झटिति ज्वलितुमवसरः प्राप्तकालता। राजर्षित्वादिति भावः॥ प्रसादय प्रसन्नं कुरु॥ एतदिति। परिभूतानामवमतानां मनस्विनां महामनसां प्रायश्चित्तं कोपप्रतीकारः। एतत् प्रसादनमित्यर्थः॥ अपत्यं रामः कृपणजनाश्च ते पाल्याश्च रक्षणीयाः॥२४॥ शान्तं वेत्यादि। वा अथवा। चापेन शापेन च ज्वलनाभावे इत्यर्थः। यद्यस्मात्पुत्रभाण्डं पुत्र एव भाण्डं मूलधनं पुत्रभूतरामात्मकमूलधनम्। भूयिष्ठानि भूयांसि द्विजाः बालाः शिशवः वृद्धाः स्थविराः विकला अन्धबधिरादयः स्त्रैणं स्त्रीसमूहः यस्य स तथोक्तः पारो जनश्च मेहि मदीयाः किल। तस्मात्तदुभयं चापः शापश्च शान्तं भवतु निवृत्तं भवतु। रुषं न दधे कोपं न धारयामि। यद्वा,—यद्यस्माद्भूयिष्ठद्विजबालवृद्धविकलस्त्रैणः पौरो जनः। चकारेण रामः समुच्चीयते। तदुभयं पौरजनरामात्मकोभयं मे पुत्रभाण्डं पुत्रात्मकमूलधनवन्मम संरक्षणीयम्, तत्तस्मात् शान्तं क्रोधेन ज्वलित्वा अलम्। रुषं न दधे क्रोधं न धारयामि। स्थैर्यद्योतनार्थं द्विःकथनम्॥२५॥ बटवः प्रविश्य। अत्र आहुरिति शेषः। भूतविशेषः प्राणिविशेषः। जनपदेषु कोसलादिदेशेषु। आरण्यकत्वादेवमुक्तिः। श्रूयते शाब्दबोधविषयो भवति। प्रत्यक्षीकृतः चक्षुर्विषयीकृतः। पशुसमाम्नाये पशुद्रव्यकयागप्रतिपादकवेदभागे, सांग्रामिके युद्ध–
——————————————————————————————————————

बटवः— अये, श्रूयताम्,—

पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजस्र
दीर्घग्रीवः स भवति खुरास्तस्य चत्वार एव।
शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्रमात्रा–
न्किं व्या321ख्यानैर्व्रजति322 स पुनर्दूरमेह्येहि यामः॥२६॥

(इत्यजिने हस्तयोश्वाकर्षन्ति।)

लवः— (सकौतुकोपरोधविनयम्।) आर्याः ! पश्यत। एभिर्नीतोऽस्मि। (इति त्वरितं परिक्रामति।)

अरुन्धतीजनकौ—महत्कौतुकं वत्सस्य323

कौसल्या— अरण्णगब्भरूवालावेहिं तुम्हे तोसिदा अम्हे अ। भअवदि ! जाणामि तं पेक्खंती वंचिदा विअ। ता इदो अण्णदो भविअ पेक्खम्ह दाव पलाअंतं दीहाउं। \अरण्यगर्भरूपालापैर्यूयं तोषिता वयं च। भगवति ! जानामि तं प्रेक्ष्यन्ती वञ्चितेव। तस्मादितोऽन्यतो भूत्वा प्रेक्षामहे तावत्पलायमानं दीर्घायुषम्।

अरुन्धती— अतिजवेन दूरमतिक्रान्तः स चपलः कथं दृश्यते।

कञ्चकी— (प्रविश्य।) भगवान्वाल्मीकिराह ‘ज्ञातव्यमेतदवसरे भवद्भि’रिति।

———————————————————————————————————————

काण्डे च। कीदृशः किंलक्षणः ?॥ पश्चादित्यादि। सः अश्व इत्युच्यमानः विपुलं पुच्छं पश्चाद्वहति। ‘वनमहिषः कोऽयमुभयतः पुच्छ’ इत्यारण्यवासनानुरूपेण व्यावृत्त्यर्थं ‘पश्चात्’पदम्; अन्यथा पुच्छस्य पश्चाद्वहनाव्यभिचारात्। ‘विपुलम्’ इत्यनेन स्वरव्यावृत्तिः। तस्य हि पुच्छं गोवद्रज्जूकृतं भवति। एवं च वक्ष्यमाणविशेषणानां तत्साधारणत्वेऽपि न दोषः। धूनोति चालयति। दीर्घग्रीवो भवति आयतकण्ठो भवति। तस्य खुराश्चत्वार एव, नाधिका इत्यर्थः। शष्पाणि बालतृणानि। अत्ति खादति। शकृत्पिण्डकान् पुरीषपिण्डकानाम्रमात्रान् रसालशलाटुपरिमितान् प्रकिरति विक्षिपति। स पुनर्दूरं व्रजति गच्छति॥२६॥ कौतुकं हर्षः, उपरोधः बलात्क्रियमाणत्वम्। अरण्यगर्भाणां अरण्यचरशिशूनां रूपैरालापैश्च तोषिता यूयम्। अहं तं पश्यन्ती वञ्चितेति जानामि रामभद्रसंवादेन प्रलोभिताहमिति भावः। कञ्चुकी। गृष्टिरित्यर्थः। अवसरे प्राप्तकाले। एतद्वाल्मीकिवाक्यमतिगम्भीरं गूढाशयं किमपि अपूर्वम्॥ वृद्धानामरुन्धतीप्रभृतीनां वर्गः समूहः दृष्टं चक्षुर्विषयीकृतम्। नूनमाश्वमेधिकोऽयमश्व इत्यवगतं अनुमितम्। अश्वमेघाय प्रभवत्याश्वमेधिकः॥ तत्काण्डमश्वमेधप्रतिपादकश्रुतिभागः। बालकाण्डं वा तत्रापि ह्यश्वमेधः
————————————————————————————————————

जनकः— अतिगम्भीरमेतत्किमपि। भगवत्यरुन्धति। सखि कौसल्ये ! आर्य गृष्टे! स्वयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः।

(इति निष्क्रान्तो वृद्धवर्गः।)

(प्रविश्य)

बटवः— पश्यतु कुमारस्तावदाश्चर्यम्।

लवः— दृष्टमवगतं च, नूनमाश्वमेधिकोऽयमश्वः।

बटवः— कथं ज्ञायते ?

लवः— ननु मूर्खाः ! पठितमेव हि युष्माभिरपि तत्काण्डम्। किं न पश्यथ प्रत्येकं [शतसंख्याः324 इत्यादिना विरोधः प्रसज्ज्येत।”) कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः ? तत्प्रायमेवान्यदपि325 दृश्यते। यदि चविप्रत्ययस्तत्पृ326च्छथ।

बटवः— भो भोः, किंप्रयोजनोऽयमश्वः परिवृतः पर्यटति ?

लवः— (सस्पृहमात्मगतम्।) अश्वमेध इति नाम विश्वजयिनां क्षत्रियाणामूर्जस्वलः सर्वक्षत्रपरिभावी महानुत्कर्षनिकषः।

(नेपथ्ये।)

योऽयमश्वः पताकेयमथवा वीरघोषणा।
सप्तलोकैकवीरस्य दशकण्ठकुलद्विषः॥२७॥

लवः— (सगर्वमिति।) अहो संदीपनान्यक्षराणि।

—————————————————————————————————————

प्रसक्तः। ‘काण्डोऽस्त्री’त्युक्तेः क्लीबत्वम्। शतं कवचिनः शतं निषङ्गिणः शरधिवन्तः शतमित्यर्थः। शतं दण्डिनः शतं रक्षितार इत्येतन्न पश्यथ किमित्यर्थः। तत्प्रायमेवान्यदपि कवचिप्रभृति सुसदृशं चान्यदपि अनीकमित्यर्थः। विप्रत्ययो यदि संशयश्चेत्॥ किंप्रयोजनः किंफलकः ? परिवृतः। रक्षितृभिरिति शेषः। पर्यटति परिवृतः संचरति परिगतो गच्छति॥ अनागते वस्तुनीच्छा स्पृहा। सर्वक्षत्रपरिभावी सकलराजकुलपरिभवजनकः। उत्कर्षनिकष उपादेयवैलक्षण्यज्ञापकदृषद्विशेषः। ऊर्जस्वलः बलिष्ठः। अविचाल्यनिकष इत्यर्थः॥ योऽयमिति। योऽयमाश्वमेधिकोऽश्वः। इयम्। अश्व इत्यर्थः। विधेयप्राधान्यात्स्त्रीत्वं पताकात्वं विधेयम्। सप्तावयवेषु लोकेषु एकवीरस्य एकेषु प्रधानेषु वीरयति पराक्रमत इत्येकवीरः तस्य। सप्तलोकेत्यत्र मध्यमपदलोपवत्समासः। पात्रादित्वं वा। वीरैक इत्यापत्तिवारणाय एकेषु वीरयतीति विग्रहोऽङ्गीकृतः। दशकण्ठकुलस्य रावणवंशस्य द्विट् शासिता। तस्य राघवस्य पताका विजयध्वजः। अथवा पूर्वोक्तातिरेकेण वीरघोषणा वीर इति जगदाकर्णनानुकूलव्यापारः॥२७॥ गर्वः परोत्कर्षानादरः। संदीपनानि क्रोधजनकानि।
—————————————————————————————————————

बटवः— किमुच्यते ? प्राज्ञः खलु कुमारः।

लवः— भो भोः, तत्किमक्षत्रिया पृथिवी यदेवमुद्धोष्यते ?

   (नेपथ्ये।) रे रे महाराजं प्रति कुतः क्षत्रियाः ?

लवः— घिग्जाल्मान्,

यदि नो सन्ति327 सन्त्येव केयमद्य विभीषिका ?।
किमुक्तैरेभिरधुना तां पताकां हरामि वः॥२८॥

हे बटवः ! परिवृत्य लोष्टैरभिघ्नन्तो नयतैनमश्वम्। एष रोहितानां मध्येचरो भवतु328

(प्रविश्य सक्रोधः।)

पुरुषः—धिक्चपल ! किमुक्तवानसि ? तीक्ष्णतरा ह्यायुधश्रेणयः329 शिशोरपि दृप्तां वाचं न सहन्ते। राजपुत्रश्चन्द्रकेतुर्दुर्दान्तः, सोऽप्यपूर्वारण्यदर्शनाक्षिप्तहृदयो न यावदायाति तावत्त्वरितमनेन तरुगहनेनापसर्पत।

बटवः— कुमार ! कृतं कृतमश्वेन330। तर्जयन्ति विस्फारितशरासनाः331 कुमारमायुधीयश्रेणयः। दूरे चाश्रमपदमितः। तदेहि, हरिणप्लुतैः पलायामहे।

—————————————————————————————————————

‘मनःप्रज्वलनं क्रोधः’ इति ह्युक्तम्॥ एवं पूर्वोक्तरीत्या उद्घोष्यत इति यावत्तत्किमक्षत्रिया पृथिवीत्यन्वयः॥ महाराजं प्रति तदौन्मुख्येन कुतः कस्माद्धेतोः क्व वा॥ धिग्जाल्मानसमीक्ष्यकारिणः। भवद्विषयका निन्देत्यर्थः। अक्षत्रिया इत्यनुषज्यते। क्षत्रिया न सन्तीति भवद्भिरुच्यते यदि तर्हि सन्त्येवेत्यवगन्तव्यम्। अद्य क्षत्रियसत्ताधिकरणेऽस्मिन्दिवसे इयं विभीषिका भयोत्पादनं का ? कीदृशीत्यर्थः। एभिरुक्तैरधुना किम् ? न किमपीत्यर्थः। तां वः पताकां हराम्यन्यत्र प्रापयामि॥२८॥ अभिघ्नन्तस्तर्जयन्तः। रोहितानां मृगविशेषाणाम्॥ आयुधश्रेणयः शस्त्रपङ्क्तयस्तीक्ष्णतरा हि। त्वत्तोऽपि क्रूरा इत्यर्थः। दृप्तां दर्पयुक्तां वाचं न सहन्ते। शिक्षणाभाववन्तो न भवन्तीत्यर्थः। सोऽपि चन्द्रकेतुरिति योजना। दुर्दान्तोऽमर्षशीलः अपूर्वारण्यदर्शनेनाननुभूतविपिनावलोकनेनाक्षिप्तहृदयो व्यासक्तमनाः तरूणां गहनेन दुर्गमसंनिवेशेनापसर्पत पलायध्वम्॥ कृतमश्वेनेति। अश्वेन साध्यं किमपि नास्तीत्यर्थः। गर्हायां द्विरुक्तिः। अज्ञानादेव वयमत्र प्रवृत्ता इति
—————————————————————————————————————

लवः— किं नाम विस्फुरन्ति शस्त्राणि। (इति धनुरारोपयन्।)

ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र–
मुद्भूरि332घोरघनघर्घरघोषमेतत्।
ग्रासप्रसक्तहसदन्तकवक्रयन्त्र–
जुम्भाविडम्बि विकटोदरमस्तु चापम्॥२९॥

(इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे।)

चतुर्थोऽङ्कः।
<MISSING_FIG href=”../books_images/U-IMG-1728966249Untitled.jpg”/>

———————————————————————————————————————

भावः। विस्फारितशरासना घोषवद्धनुषः। तर्जयन्ति भयमुत्पादयन्ति। आश्रमपदं चाश्रमस्थानं च दूरे। विप्रकर्ष इत्यर्थः। हरिणानां यानि प्लुतानि अभूस्पर्शगमनानि। तत्सदृशगमनैरित्यर्थः। पलायामहे परागता भवामः। ‘अय गतौ’ तस्य परेत्युपसर्गपूर्वकत्वम् ‘उपसर्गस्यायतौ’ (पा. ८।२।१९) इति लत्वम्॥ विस्फुरन्ति घोषयुक्तानि। धनुरारोपयन्। ज्यामिति शेषः। ज्याजिह्वयेत्यादि। ज्या मौर्वी सैव जिह्वा रसना तया वलयिता वेष्टिता। उत्कटकोटिरेवोत्तुङ्गाग्रभाग एव दंष्ट्रा यस्य तथोक्तम्। उद्भूरयोऽसंख्याता घोरा भयजनका घनाः सान्द्रा घर्घरघोषा यस्य तत्तथोक्तम्। एतच्चापम्। क्लीबत्वं विचारयितव्यम्, सामान्ये नपुंसकत्वं वा। अथवा,—‘भयामृतसकृद्वस्त्रचापाभरणलाञ्छन’मिति नपुंसकशेषोक्तेःक्लीबत्वम्। ग्रासे कवलने प्रसक्तं उद्युक्तं हसत् हासयुक्तमन्तकवक्रयन्त्रं व्याघ्रादिमारणयन्त्रसदृशकृतान्तस्य कुहरं तस्य जृम्भाविडम्बि जृम्भानुकारि विकटं विषमं उदरं मध्यं यस्य तथाविधमस्तु। यस्य चापस्य तथाभवनं प्राप्तकालमित्यर्थः। जिह्वेव ज्या ज्याजिह्वेत्युपमालंकारो व्याख्येयः। कोटिदंष्ट्रमित्यत्र तु कोट्यात्मकं यद्दंष्ट्रासदृशमिति व्याख्येयम्। विशेष्यविशेषणभावस्य च कामचारत्वान्न दोष इत्यप्याहुः॥२९॥

वाधूलवंशजनुषो भूसारनिवासराघवार्यस्य।
उत्तररामचरित्रव्याख्यायामवसितस्तुरीयोऽङ्कः॥

इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतल स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां चतुर्थोऽङ्कः॥
——————

———————————————————————————————————————

पञ्चमाङ्कस्य कथावस्तु

ततोऽश्वसंरक्षकाः सप्तलोकैकवीरस्य रघुनन्दनस्य विजयध्वजरूपं दिव्यं मेध्याश्वमपहृतमवलोक्य तदपहारकेण लवेन समं योद्धुमारेमिरे। तत एकाकी लवोऽजितवीर्येण जृम्भकास्त्रेणासंख्येयां चमूं समरशिरसि गतसंज्ञतामापादयामास। तच्छ्रुत्वा चन्द्रकेतुः स्वयं लवेन सह योद्धुमुपतस्थौ। स तत्र लवमेकाकिनं पदातिनं च दृष्ट्वा ‘पादचारिणा सह रथिनो न युध्यन्ति’ इति क्षात्रधर्मस्तत्किमत्र शस्तमिति सुमन्त्रं पप्रच्छ। स च ‘एष न्याय्यो धर्मः’ इत्यादिदेश। ततो लवं रथारोहणं कुर्विति सुमन्त्रोक्ते ‘अरण्यवासिनो वयमनभ्यस्तरथगतयः’ इति लवस्तं जगाद। ततश्च तयोर्वीरोचितोक्तिप्रत्युक्तयः संवृत्ताः। चन्द्रकेतुरेैक्ष्वाकुवीर्यं प्रशंसन् क्षात्रोघ्द्वंसकपरशुरामस्य जेतारं रामचन्द्रं प्रति तव कटाक्षनिक्षेपोऽनुचितोऽत एव विरम समरातिप्रसंगात् इति लवं प्रत्याख्यातवान्। ‘ब्राह्मणानां वाचि वीर्यं प्रथितम्, न तु बाह्वोः; शस्त्रग्राहिणो ब्राह्मणस्य जामदग्न्यस्य दमने रामचन्द्रस्य का नाम वीर्यस्तुतिः ? एवमेव वालि–ताटकेन्द्रजिद्वधादौ राम–लक्ष्मणयोः कौशलस्य जनः सम्यगभिज्ञो वरीवर्ति’ इति रामलक्ष्मणापवादकसोण्ठवचनेन चन्द्रकेतुः क्रोधपराहतोऽभवत्। लवोऽपि समर एव दर्पनिकष इति मन्यमानस्तं युद्धयोग्यां समरभूमिमवतराव इत्याह्वाययामास।

(नेपथ्ये)

भो भोः सैनिकाः ! जातमवलम्बनमस्माकम्।

नन्वेष त्वरितसुमन्त्रनुद्यमानप्रोद्वल्गत्प्र333जवितवाजिना रथेन।
उत्खातप्रचलितकोविदारकेतुः श्रुत्वा वः प्रधनमुपैति चन्द्रकेतुः॥

(ततः प्रविशति सुमन्त्रसारथिना रथेन धनुष्पाणिः साद्भुतहर्षसंभ्रमश्चन्द्रकेतुः।)

चन्द्रकेतुः— आर्य सुमन्त्र ! पश्य पश्य,—

किरति कलितकिंचित्कोपरज्यन्मुखश्री–
रविरतगुणगुञ्जत्कोटिना कार्मुकेण।
समरशिरसि चञ्चत्पञ्चचूडश्चमूना–
मुपरि शरतुषारं कोऽप्ययं वीरपोतः॥२॥

आश्चर्यमाश्चर्यम्,—

मुनिजनशिशुरेकः सर्वतः संप्रकोपा334
न्नव इव रघुवंशस्याप्रसिद्धिप्र335रोहः।

——————————————————————————————————————

नेपथ्य इत्यादि। भो भोः सैनिकाः सेनासमवायिनः ! जातमवलम्बनम्, आश्रयो लब्ध इत्यर्थः। नन्विति। सुमन्त्रनुद्यमानाः सुमन्त्रेण प्रेर्यमाणाः प्रोद्वल्गाः प्रकर्षेण चञ्चलाः प्रजविताः प्रकृष्टवेगयुक्ताः वाजिनोऽश्वा यस्मिंस्तथोक्तेन। उत्खातेषु निम्नोन्नतप्रदेशेषु प्रचलितकोविदारयुक्तध्वजवान्। प्रधनं युद्धं श्रुत्वा उपैति। ननु किल चूलिका। ‘नेपथ्यान्तःस्थितैः पात्रैश्चूलिकाऽङ्कस्य सूचनम्’ इत्युक्तेः॥१॥ किरतीति। कलितेनाहृतेन किंचित्कोपेन ईषन्मन्युना रज्यन्ती रक्तीभवन्ती मुखश्रीराननशोभा यस्य स तथोक्तः। अत्र प्रत्यर्थिनामकिंचित्करत्वात्किंचित्कोपेत्युक्तम्। चञ्चत्पञ्चचूडश्चलितशिखण्डकः कोऽप्यपूर्वोऽयं वीरपोतः वीरशिशुः अविरतं विश्रान्तिरहितं यथा तथा गुणे ज्यायां गुञ्जन्त्यौ अव्यक्तशब्दवत्यौ कोटी अग्रे यस्य तथोक्तेन कार्मुकेण। करणत्वात्तृतीया। समरशिरसि युद्धरङ्गे चमूनामुपरि शरतुषारं बाणवर्षं किरति। तुषारो हि अतिसूक्ष्मसलिलवृष्टिः। अत्र ‘रज्यन्मुखश्रीः कार्मुकेण’ ‘चञ्चत्पञ्चचूड’ इत्येतैः ‘शरतुषार’मित्यनेन च तडित्त्वतः शक्रचापयुक्तस्य चलिताग्रस्य मेघशिशोरस्य च साम्यं व्यज्यते॥२॥ मुनिजनेत्यादि। एकः असहायः संप्रकोपात्प्रकृष्टमन्युना। लवकोपस्य तद्दृष्ट्याल्पत्वेऽपि चन्द्रकेतुबुद्ध्या महत्त्वाद्दोषः। सर्वतः समन्ताद्दलितानां करिकपोलग्रन्थीनां संधीनां टंकारेण दलनध्वनिना घोरं
——————————————————————————————————————

दलितकरिकपोलग्रन्थिटंकारघोर–
ज्वलितशरसहस्रः कौतुकं मे करोति॥३॥

सुमन्त्रः— आयुष्मन् !

अतिशयितसुरासुरप्रभावं
शिशुमवलोक्य तथैव तुल्यरूपम्।
कुशिकसुतमखद्विषां प्रमाथे
धृतधनुषं रघुनन्दनं स्मरामि॥४॥

चन्द्रकेतुः— मम त्वेकमुद्दिश्य भूयसामारम्भ इति हृदयमपत्रपते।

अयं हि शिशुरेकको मदभरेण भूरिस्फुर–
त्करालकरकन्दलीजटिलशस्त्रजालैर्बलैः।
क्वणत्कनककिङ्किणीझणझणायितस्यन्दनै–
रमन्दमददुर्दिनद्विरदडामरैरावृतः॥५॥

सुमन्त्रः— वत्स ! एभिः समस्तैरपि नालमस्य336, किं पुनर्व्यस्तैः ?

चन्द्रकेतुः— आर्य ! त्वर्यतां त्वर्यताम्। अनेन हि महानाश्रितप्रमारोऽस्माकमारब्धः। तथा हि,—

आगर्जद्गिरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वर337
ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुज्जृम्भयन्338

——————————————————————————————————————

भयजनकं ज्वलितं शराणां सहस्रं यस्य तथोक्तम्। आनन्त्यवाची ‘सहस्र’शब्दः। नवः प्रत्यग्रः रघुवंशस्य अप्रसिद्धिप्ररोह इव स्थितः अपख्यात्यङ्कुरवेत्स्थितः मुनिजनशिशुः। मुनिजनाः शमप्रधानास्तेष्वपि बाल इत्यर्थः। मे कौतुकं हर्षं करोत्युत्पादयति॥३॥ अतिशयितेति। तथैव तुल्यरूपम्। यथा रामेण तुल्यप्रभावस्तथैव तुल्याकार इत्यर्थः। तथाविधं कुशिकसुतमखद्विषां सुबाहुप्रभृतीनाम्। अत्र स्मृतिमदलंकारः॥४॥ अपत्रपते लज्जते। अयं हीति। अयमेककः शिशुः एकाकी बालः। मदभरेण वीरपानेन समुपजनितमदातिशयेन भूरि अधिकं स्फुरन्ति चलितानि करालानि क्रूराणि करकन्दलीषु करशाखाग्रेषु जटिलानि निबिडानि शस्त्रजालानि येषां तथोक्तः। क्वणन्तीभिः शब्दवतीभिः कनककिङ्किणीभिः हेममयक्षुद्रघण्टिकाभिः झणझणायितैः शब्दविशेषयुक्तैरमन्दमदैरतिशयितदानवारिभिर्दुर्दिनैरन्धकारितैर्द्विरदैर्गजैः कारणैः डामरैः भयंकरैर्बलैः सैन्यैरावृतः॥५॥ समस्तैः सहितैर्व्यस्तैः पृथक्स्थितैर्नालम्। न पर्याप्तिरित्यर्थः। आश्रितजनानामुपजीविजनानां प्रमारः मारणम्। आगर्जदिति। वीरः अयं लवः अमन्ददुन्दुभिरवैरतिशयित–
——————————————————————————————————————

वेल्लद्भैरवरुण्डखण्ड339निकरैर्वीरो विधत्ते भुवं
तृष्यत्कालकरालवक्त्रविधसव्याकीर्यमाणामिव॥६॥

सुमन्त्रः— (स्वगतम्।) कथमीदृशेन सह वत्सस्य चन्द्रकेतोर्द्वन्द्वसंप्रहारमनुजानीमः ? (विचिन्त्य) अथवा इक्ष्वाकुकुलवृद्धाः खलु वयम्।प्रत्युपस्थिते रणे च का गतिः ?

चन्द्रकेतुः— (सविस्मयलज्जासंभ्रमम्।) हन्त धिक्, अपावृत्तान्येव सर्वतः सैन्यानि मम।

सुमन्त्रः— (रथवेगं निरूप्य।) आयुष्मन् ! एष ते वाग्विषयीभूतः स वीरः।

चन्द्रकेतुः— (विस्मृतिमभिनीय।) आर्य ! किंनाम336धेयमाख्यातमाह्वायकैः ?

सुमन्त्रः— लव इति।

चन्द्रकेतुः

भो भो लव ! महाबाहो ! किमेभिस्तव सैनिकैः।
एषोऽहमेहि मामेव तेजस्तेजसि शाम्यतु॥७॥

सुमन्त्र— कुमार ! पश्य पश्य, —

विनिवर्तित एष वीरपोतः
पृतनानिर्मथनात्त्वयोपहूतः।

——————————————————————————————————————

भेरीशब्दैराध्मातं द्विगुणीकृतम्। आगर्जतां भयवशाद्गाढगर्जनं कुर्वतां गिरिकुञ्जकुञ्जराणां पर्वतगुहावर्तिगजानां घटायै पङ्क्तये निस्तीर्णो दत्तः कर्णज्वरो येन स तथोक्तश्चासौ ज्यानिर्घोषस्तम्। उज्जृम्भयन्नुल्बणयन् सन् वेल्लद्भिर्लुठद्भिर्भैरवैर्भयंकरैः। रुण्डखण्डानां शिरःकपालानां निकरैः समूहैर्भुवम्। तृष्यतः कालस्य पिपासितस्य कालस्य मृत्योः करालवक्त्रस्य विघसैर्भुक्तशिष्टैः। ‘विघसो यज्ञशेषभोजनशेषयोः’ इत्यमरः। व्याकीर्यमाणामिव संस्तीर्यमाणामिव विधत्ते करोति। तृष्यदित्यनेन पिपासयाऽन्यपरेण मृत्युना अर्धजग्धानि मुक्तानीति व्यज्यते॥६॥ द्वन्द्वसंप्रहारं द्वन्द्वयुद्धमनुजानीमः अनुज्ञां करोमि। ‘इक्ष्वाकुकुलवृद्धाः खलु’इत्यनेन विमृश्यकारित्वमवश्यमिति व्यज्यते। अत्र प्रकाशानुक्तिश्चिन्त्या॥ अपावृत्तानि पराङ्मुखीभूतानि॥ आह्वायकैः आह्वानं कुर्वद्भिः॥ भो भो इति॥ तेजः शौर्यं तेजसि शाम्यतु निर्वाणं भवतु॥७॥ विनिवर्तित इति। पृतनानिर्मथनात्सेनाप्रहारात्। अपादाने
——————————————————————————————————————

स्तनयित्नुरवादिभावलीना–
मवमर्दादिव दृप्तसिंहशावः॥८॥

(ततः प्रविशति धीरोद्धतपराक्रमो लवः।)

लवः— साधु राजपुत्र ! साधु। सत्यमैक्ष्वाकः खल्वसि। तदहं परागत एवास्मि।

(नेपथ्ये महान्कलकलः।)

लवः— (सावष्टम्भं परावृत्य।) आः, कथमिदानीं भग्ना अपि पुनः प्रतिनिवृत्ताः पृष्ठानुसारिणः340 पर्यवष्टम्भयन्ति मां चमूपतयः ? धिग्जाल्मान्,—

अयं शैलाघातक्षुभितवडृवावक्त्रहुतभु–
क्प्रचण्डक्रोधार्चिर्निचयकवलत्वं व्रजतु मे।
समन्तादुत्सर्पद्धनतुमुलहेलाकलकलः
पयोराशेरोघः प्रलयपवनास्फालित इव॥९॥

(सवेगं परिक्रामति।)

चन्द्रकेतुः— भो भोः कुमार !

अत्यद्भुतादपि341 गुणातिशयात्प्रियो मे
तस्मात्सखा त्वमसि यन्मम तत्तवैव।
तत्किं निजे परिजने कदनं करोषि
नन्वेष दर्पनिकषस्तव चन्द्रकेतुः॥१०॥

———————————————————————————————————————

पञ्चमी। उपहूत आहूतः। स्तनयित्नुरवात् मेघध्वनेः सिंहशावः सिंहशिशुरिव विनिवर्तित इत्येतत्पश्येत्यर्थः॥८॥ ततः प्रविशतीति। धीरोद्धतो युद्धोद्भटः पराक्रमो यस्येत्यर्थः। धीरोदात्तादयश्चत्वारो नायकाः प्रसिद्धाः, तेषु प्रायेण भटानामेव धीरोद्धतत्वमायाति। सर्वे भग्ना अपि पराजिता अपि पर्यवष्टम्भयन्ति समीपस्थिता भवन्ति। ‘अवाच्चालम्बनाविदूर्ययोः’ (पा. ८।३।६८) इति षत्वम्। अयं शैलेत्यादि। अयमोघः युष्माकं समूहः शैलाघातेन मन्दरसंघट्टनेन क्षुभितो विपर्यस्तः यः वडवावक्रहुतभुग्वाडवमुखाग्निस्तद्वत्प्रचण्डस्य तीक्ष्णस्य क्रोधार्चिर्निचयस्य कोपाग्निज्वालासमूहस्य कवलत्वं भक्ष्यत्वं व्रजतु। क इवेत्यत्राह—पयोराशेरोघः प्रवाह इवेत्यर्थः॥९॥ अत्यद्भुतादिति। मम त्वं सखा, तस्मान्मदीयं यद्वस्तु तत्तवैव त्वदीयमेव; तन्निजे परिजने किमर्थमेवं कदनं युद्धं करोषि ? तव
———————————————————————————————————————

लवः— (सहर्षसंभ्रमं परावृत्य।) अहो, महानुभावस्य प्रसन्नकर्कशा वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य। तत्किमेभिरेनमेव तावत्संभावयामि।

(पुनर्नेपथ्ये कलकलः।)

लवः— (सक्रोधनिर्वेदम्।) आः, कदर्थीकृतोऽहमेभिर्वीरसंवादविघ्नकारिभिः पापैः। (इति तदभिमुखं परिक्रामति।)

चन्द्रकेतुः— आर्य ! दृश्यतां द्रष्टव्यमेतत्, —

दर्पेण कौतुकवता मयि बद्धलक्ष्यः
पश्चाद्बलैरनुसृतोऽयमुदीर्णधन्वा।
द्वेधा समुद्धतमरुत्तरलस्य धत्ते
मेघस्य माधवतचापधरस्य लक्ष्मीम्॥११॥

सुमन्त्रः— कुमार ! एवैनं द्रष्टुमपि जानाति। वयं तु केवलं परवन्तो विस्मयेन।

चन्द्रकेतुः— भो भोः, राजानः !

संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैःपदाता–
वत्रैकस्मिन्कवचनिचितैर्नद्ध342चर्मोत्तरीये।
कालज्येष्ठैरपरवयसि ख्यातिकामैर्भवद्भि343
र्योऽयं बद्धो युधि समभर344स्तेन धिग्वो धिगस्मान्॥१२॥

——————————————————————————————————————

दर्पपरीक्षास्थानमेष चन्द्रकेतुरित्यर्थः॥१०॥ प्रसन्ना प्रसादवती कर्कशा च कठिना च आपाततो हृद्या, पर्यालोचने तु कठिनेत्यर्थः। वीरवचनप्रयुक्तिः वीरवादप्रयोगः। संभावयामि पुरस्करोमि॥ कदर्थीकृतः अनुचितव्यापारवान्कृतः। वीरसंवादस्य चन्द्रकेतोरुक्तिप्रत्युक्तिकाया युद्धस्य वा॥ दर्पेणेति। कौतुकवता सामर्थ्यदर्शनेच्छायुक्तेन दर्पेण बलेन मयि बद्धलक्ष्यः दत्तचक्षुर्मयि व्यवसितलक्ष्यत्ववान्। उदीर्णधन्वा उत्क्षिप्तचापः। द्वेधा मयि बले चाभिमुखोऽयं लवः द्वेधा समुद्धतस्य चलितस्य मघवत्संबन्धिचापधरस्य वर्षाकालमेघस्य लक्ष्मीं श्रियं धत्ते॥११॥ संख्येति। संख्यातीतैरसंख्येयैः। द्विरदतुरगस्यन्दनेषु तिष्ठन्तीति द्विरदतुरमस्यन्दनस्थास्तथाविधैः। कवचनिचितैर्वारबाणपिहितैः, अपरवयसि वार्धके ख्यातिकामैः विजयप्रशस्तिकामनावद्भिः कालज्येष्ठैर्वयोधिकैः, न तु शौर्येणेत्यर्थः। भवद्भिरेकस्मिन्नसहाये पदातौ पादचारिणि नद्धचर्मोत्तरीयेऽस्मिन् शिशौ विषये योऽयं समभरः
——————————————————————————————————————

लवः— (सोन्माथम्।) आः, कथमनुकम्पते नाम ? (ससंभ्रमं विचिन्त्य।)भवतु, कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि। (इति ध्यानं नाटयति।)

सुमन्त्रः— तत्किमकस्मादुल्लोलाः सैन्यघोषाः प्रशाम्यन्ति345 ?

लवः— पश्याम्येनमधुना प्रगल्भम्।

सुमन्त्रः— (ससंभ्रमम्) वत्स ! मन्ये कुमारकेणानेन जृम्भकास्त्रमामन्त्रितमिति।

चन्द्रकेतुः— अत्र कः संदेहः ?

व्यतिकर इव भीमस्तामसो वैद्युतश्च
प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति।
अथ लिखितमिवैतत्सैन्यमस्पन्दमास्ते
नियतमजितवीर्यं जृम्भते जृम्भकास्त्रम्॥१३॥

आश्चर्यमाश्चर्यम्,—

पातालोदरकुञ्जपुञ्जिततमश्यामैर्नभो जृम्भकै–
रुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः।
कल्पाक्षेपकठोरभैरवमरुद्व्यस्तैरभिस्तीर्यते346
लीनाम्भोदतटित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव॥१४॥

———————————————————————————————————————

एकौघभारः बद्धः तेन वः धिक्। युष्माकमव्यवधानेन निन्दा, अस्माकं तु युष्मद्द्वारा॥१२॥ अनुकम्पते मम दौर्बल्यमाशङ्क्य मद्दुःखं परिजिहीर्षति। कालहरणप्रतिषेधाय कालयापननिवृत्तये संस्तम्भयामि निवृत्तव्यापाराणि करोमि। प्रशाम्यन्ति विरम्यन्ति॥ प्रगल्भं प्रौढम्॥ आमन्त्रितमाहूतम्॥ कः संदेहः ? आमन्त्रित इत्यत्र संशयः कः इत्यर्थः। मन्ये इत्यस्य संभावनावाचित्वात्तस्याश्चोत्कटैकतरकोटिसंशयरूपत्वात्।व्यतिकर इति। तमःसंबन्धी तामसः, विद्युत्संबन्धी वैद्युतश्च। तथाविधो व्यतिकरः संपर्कः। प्रणिहितमपि प्रयत्नेन निक्षिप्तमपि ग्रस्तं च तन्मुक्तं च। खञ्जकुब्जादिवत्समासः। तमसा ग्रस्तं ज्योतिषा मुक्तम्। तमस्यसत्कल्पत्वाद्ग्रस्तत्वम्, ज्योतिषि च कार्यकरत्वात्ततो मुक्तत्वम्। चक्षुर्हिनस्ति बाधते। नियतं निश्चितम्॥१३॥ आश्चर्यमभूतपूर्वम्। पातालेति। पातालोदरमेव कुञ्जः गुहा तस्मिन्पुञ्जितानि संहतभावं प्राप्तानि यानि तमांसि तद्वत् श्यामैः उत्तप्तं स्फुरत्तेजिष्ठं च यदारकूटं त्रपुधातुविशेषस्तस्य यत्कपिलं पिशङ्गं ज्योतिस्तद्वज्ज्वलद्दीप्तिभिः, अत एव कल्पाक्षेपे कल्पावसाने कठोरेण दृढेन भैरवेण भीतिजनकेन मरुता व्यस्तैर्वियोजितैर्लीनाम्भोदानि तडित्कडाराणि च कुहराणि येषां तथोक्तैः। कडारः कपिलः। विन्ध्याचलशृङ्गैरिव स्थितैः जृम्भ–
———————————————————————————————————————

सुमन्त्रः— कुतः पुनरस्य जृम्भकाणामागमः स्यात् ?

चन्द्रकेतुः— भगवतः प्राचेतसादिति मन्यामहे।

सुमन्त्रः— वत्स ! नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु यतः,—

कृशाश्वतनया ह्येते कृशाश्वात्कौशिकं गताः।
अथ तत्संप्रदायेन रामभद्रे स्थिता इति61॥१५॥

चन्द्रकेतुः— अपरेऽपि प्रचीयमानसत्त्वप्रकाशाः स्वयं सर्वं मन्त्रदृशः पश्यन्ति।

सुमन्त्रः— वत्स ! सावधानो भव। परागतस्ते प्रतिवीरः।

कुमारौ— (अन्योन्यं प्रति।) अहो, प्रियदर्शनः कुमारः। (सस्नेहानुरागं निर्वर्ण्य।)

यदृच्छासंवादः किमु गुण347गणानामतिशयः
पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः।
निजो वा संबन्धः किमु विधिवशात्कोऽप्यविदितो
ममैतस्मिन्दृष्टे हृदयमवधानं रचयति॥१६॥

—————————————————————————————————————

कैर्नभः अभिस्तीर्यते आच्छाद्यते॥१४॥ कुतः पुनः कस्मात्पुरुषात्पुनरस्य लवस्य ?॥ मन्त्रेषु विषये एतदागमनमेवं त्वन्मतरीत्या न घटते। जृम्भकास्त्रेषु विषये एतत्प्राचेतसादधिगम इत्येतद्विशेषत एव तु न घटते। कृशाश्वेति। कृशाश्वतनया348 —सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः। कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति। तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः। नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः॥ जया च सुप्रभाचैव दक्षकन्ये सुमध्यमे। ते सूतेऽस्त्राणि शस्त्राणि शतं परमभास्वरम्॥’ इति।")ह्येते इति। एते अस्त्रदेवताविशेषाः कृशाश्वमुनिना आदौ जनिताः। हीति प्रसिद्धौ। कौशिकं विश्वामित्रम्। अथानन्तरं तत्संप्रदायेन विश्वामित्रोपदेशेन॥१५॥ अपरेऽपि भवदुक्तेभ्योऽन्येऽपि प्रचीयमानसत्त्वप्रकाशाः व्याप्नुवत्संवित्प्रकाशाः। मन्त्रदृशः स्वयमेव संप्रदायेन विनापि॥ सावधानोऽनन्यमनाः भव॥ कुमारौ लवचन्द्रकेतू। प्रियं सुखजनकं दर्शनं यस्य स तथोक्तः। स्नेहः मैत्री॥ अनुरागो भोग्यताज्ञानम्। यदृच्छेति। यदृच्छया दैवेन संवादः समागमः यस्य स तथोक्तः। यदृच्छया दैवेन संवाद एकरूपं यस्य तथोक्तो वा। रामादिगुणगणैरेकरूप इति हृदयम्। तथाविधो गुणगणानामतिशयः किमु ? पुराणः पुरापि भवः। जन्मान्तरेष्वन्येषु जन्मसु निबिडबद्धः दृढारूढः परिचयो वासना किमु ? विधिवशाद्दैवेच्छया अविदितः कोऽपि निजः संबन्धः जननसंबन्धः किमु ? यत एवं ततो हृदयं कर्तृ अवधानं व्यापारान्तररहिततां रचयति करोति। अथवा एतस्मि–
—————————————————————————————————————

सुमन्त्रः— भूयसां जीविनामेव धर्म एष यत्र स्वरसमयी349 कस्यचित्क्वचित्प्रीतिः, यत्र लौकिकानामुपचारस्तारामैत्रकं चक्षुराग इति। तदप्रतिसंख्येयनिबन्धनं प्रमाणमामनन्ति350

अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति॥१७॥

कुमारौ— (अन्योन्यमुद्दिश्य।)

एतस्मिन्मसृणितराजपट्टकान्ते
मोक्तव्याः कथमिव सायकाः शरीरे।
यत्प्राप्तौ मम परिरम्भणाभिलाषा–
दुन्मीलत्पुलककदम्बमङ्गमास्ते॥१८॥

किं चाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना
शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येदृशः।
किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे
वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते॥१९॥

——————————————————————————————————————

न्दृष्टे सति मम हृदयं कर्म गुणातिशयादिषु त्रिषु अन्यतमावधानता अवधानं अवहितं करोतीति। द्विकर्मणि च ल्युडित्यप्याहुः॥१६॥ भूयसामित्यादि। यत्र यस्यां प्रीतौ। तारामैत्री मैत्री तारा कनीनिका तत्प्रेम वा॥ चक्षूराग आदराद्वीक्षणम्। ‘चक्षुःप्रीतिर्भवेद्यत्र’ इत्युक्तचक्षूराग इति च लौकिकानां जनानामुपचारो व्यवहारस्तादृशी कस्यचित्पुरुषस्य क्वचित्पुरुषे स्वरसमयी अक्रूररसा अकृत्रिमा वा प्रीतिरिति यत् एषः। विधेयप्राधान्यात्पुंस्त्वम्। भूयसां महीयसां जीविनां प्राणभृतां धर्मः स्वभावः। अप्रतिसंख्येयनिबन्धनमविचारणीयमूलं तत्प्रेम प्रमाणं यथार्थानुभवविषयमामनन्ति असकृद्वदन्ति। अहेतुरिति। यः अहेतुर्निष्कारणकः पक्षपातः आत्मीयत्वप्रतिसंधानमूलकानुकूलज्ञानरूपस्तस्य अहेतुकपक्षपातस्य प्रतिक्रिया निवर्तनव्यापारः नास्ति न संभवति। स्नेहात्मकः प्रेममयः सः तन्तुः भूतानि प्राणिनः अन्तः सीव्यति अन्तः स्यूतानि करोति॥१७॥ एतस्मिन्निति। राजपट्टंनीलरक्तपट्टंवस्त्रं तद्वत्कान्ते कमनीय एतस्मिन् लवे चन्द्रकेतौ वा। परिरम्भणाभिलाषादालिङ्गनेच्छया। उन्मीलत्पुलक्कदम्बं उद्यद्रोमाञ्चनिकुरम्बम्॥१८॥ किं चेति। किं च पूर्वोक्तादन्यत्। आक्रान्तकठोरतेजसि आक्रान्तं प्राप्तं कठोरं पूर्णं तेजः परामिभवनसामर्थ्यं यस्य तस्मिन्विषये शस्त्रं विना का गतिः शस्त्रसाधनकयुद्धादृते किं कर्तव्यम् ? न किमपीत्यर्थः। तर्हि शरीरसौभाग्यानुरोधेन शस्त्रन्यासः क्रियतामित्यत्राह—शस्त्रेणेति। यस्य शस्त्रस्य ईदृशः महावीरः न जायेत तेन शस्त्रेणापि
——————————————————————————————————————

सुमन्त्रः— (लवं निर्वर्ण्य सास्रमात्मगतम्।) हृदय ! किमन्यथा परिप्लवसे ?

मनोरथस्य यद्बीजं तद्दैवेनादितो हृतम्।
लतायां पूर्वलूनायां प्रसवस्योद्भवः कुतः ?॥२०॥

चन्द्रकेतुः— अवतराम्यार्य सुमन्त्र ! स्यन्दनात्।

सुमन्त्रः— कस्य हेतोः ?

चन्द्रकेतुः—एकस्तावदयं351 वीरपुरुषः पूजितो भवति। अपि च,—खल्वार्य ! क्षत्रधर्मः प352रिपालितो353 भवति। न रथिनः354 इति राजधर्मानुशासनम्।")पादचारमभियुञ्जन्तीति शास्त्रविदः परिभाषन्ते।

सुमन्त्रः— (स्वगतम्।) आः, कष्टां दशामनुप्रपन्नोऽस्मि।

कथं355हीदमनु356ष्ठानं मादृशः प्रतिषेधतु।
कथं वाऽभ्यनुजानातु साहसैकरसां क्रियाम्॥२१॥

चन्द्रकेतुः— यदा तातमिश्रा अपि पितुः प्रियसखं त्वामर्थसंशयेषु पृच्छन्ति तत्किमार्यो विमृशति ?

सुमन्त्रः— आयुष्मन् ! एवं यथाधर्ममभिमन्यसे।

———————————————————————————————————————

किम्? न किमपीत्यर्थः। तर्हि सौकुमार्यवीर्ययोः प्राबल्यदौर्बल्यविचारेण सौकुमायानुसारेण शस्त्रन्यासः क्रियतामित्यत्राह—उद्यतेऽप्यायुधे युद्धविमुखं मामयमेव किं वक्ष्यति ? यत एवं ततः दारुणरसः क्रौर्यैकवेषः शूराणां समयः आचारः स्नेहक्रमं स्नेहव्यापारपरिपाटीं बाधते निवर्तयति॥१९॥ अन्यथा संभाव्यविषयानुसारेण परिप्लवसे चञ्चलीभवसि ? रामसादृश्यात्तदपत्यं लव इति किं शङ्कसे इति भावः। मनोरथस्येति। मनोरथस्य अमिलष्यमाणलवनिष्ठरामापत्यत्वस्य यद्बीजं सीतारूपं तदादितो हृतं गर्भिणीदशायामेव नष्टम्। ‘लूनपूर्वायाम्’ इति पाठे पूर्वं लूना छिन्ना तथाविधायाम्। भूतपूर्वनिर्देशात् लूनशब्दस्य पूर्वनिपातः। ‘पूर्वलूनायाम्’ इति पाठे तु पूर्वस्मिन् काले लूनेत्यर्थः। प्रसवस्य पुष्पस्य॥२०॥ वीरपुरुषः लवः पूजितस्तावद्भवति। द्वयोरवतरणप्रयोजनयोः प्रथमं वीरपुरुषपूजा भवति। क्षत्रधर्मः खल्वपि परिपालितोऽनुष्ठितो भवति। पादचारं पदातिं रथिनो नाभियुञ्जन्तीति न युध्यन्तीति शास्त्रविदः क्षत्रधर्मप्रतिपादकार्थशास्त्रज्ञाः परिभाषन्ते नियच्छन्ति॥ कथं हीति। इदमनुष्ठानं राजपुत्रस्य रथादवतरणंप्रतिषेधतु निषिद्ध्यात्, निवर्तयेदित्यर्थः। साहसैकरसां साहसप्रकृत्येकवेशां
———————————————————————————————————————

एष सांग्रामिको न्याय्य357 एष धर्मः सनातनः।
इयं हि रघुसिंहानां वीरचरित्रपद्धतिः॥२२॥

चन्द्रकेतुः— अप्रतिरूपं वचनमार्यस्य।

इतिहासं पुराणं च धर्मप्रवचनानि च।
भवन्त एव जानन्ति रघूणां च कुलस्थितिम्॥२३॥

सुमन्त्रः— (सस्नेहास्रं परिष्वज्य।)

जातस्य ते पितुरपीन्द्रजितो निहन्तु–
र्वत्सस्य वत्स ! कति नाम दिनान्यमूनि।
तस्याप्यपत्यमनुतिष्ठति वीरधर्मं
दिष्ट्यागतं358 दशरथस्य कुलं प्रतिष्ठाम्॥२४॥

चन्द्रकेतुः— (सकष्टम्।)

359 इति।")प्रतिष्ठे कुलज्येष्ठे360 का प्रतिष्ठा कुलस्य नः।
इति दुःखेन तप्यन्ते त्रयो नः पितरोऽपरे॥२५॥

——————————————————————————————————————

क्रियां अनुष्ठानमभ्यनुजानातु अनुमन्येत्॥२१॥ तातमिश्रा अपि, ‘मिश्र’शब्दः पूज्यवाची। रामादयोऽपि अर्थसंशयेषु अनुष्ठेयाननुष्ठेयसंदेहेषु पितुः प्रियसखं दशरथप्रियसखं त्वां पृच्छन्ति जिज्ञासां बोधयन्ति॥ यथाधर्मं क्षत्रधर्मानतिक्रमेण।एष इति। संग्रामे भवः सांग्रामिकः, एष वीरपुरुषपूजारूपः न्याय्य उचितः। एष धर्मः क्षत्रधर्मपरिपालनरूपः सनातनश्चिरंतनः। इयं पूर्वोक्तद्वयी वीरचारित्रपद्धतिः वीरव्यापारपरिपाटी॥२२॥ अप्रतिरूपं निस्तुलम्। इतिहासमिति। इतिहासं रामायणभारतादिकम्। पुराणं ‘सर्गश्च प्रतिसर्गश्च’ इत्याद्युक्तलक्षणम्। धर्माः नित्यनैमित्तिकादयः प्रोच्यन्ते प्रकाश्यन्ते एभिरित्यर्थे ‘करणाधिकरणयोश्च’ (पा.३।३।११७) इति ल्युट्। मन्वादिस्मृतयस्ता इत्यर्थः। कुलस्थितिं कुलमर्यादाम्॥२३॥जातस्येति। वत्स चन्द्रकेतो ! पितुर्जातस्य त्वत्पितुरस्माच्छिशोरिन्द्रजितो निहन्तुर्वत्सस्य लक्ष्मणस्य अमूनि दिनानि। एतावान् जीवितकाल इति यावत्। कति नाम कियन्ति नाम ? यद्वा,—वत्सस्य जातस्वामूनि दिनानि कति नामेत्यन्वयः। वत्सस्य लक्ष्मणस्य यज्जातं जन्म तत्संबन्धिदिनानि। जन्मप्रभृतिदिनानीत्यर्थः। तस्याप्यपत्यं कर्तृ वीरधर्ममनुतिष्ठति अनुष्ठितं करोति। प्रतिष्ठामागतमास्पदं प्राप्तं माहात्म्यं प्राप्तम्। ‘प्रतिष्ठा स्थितिमाहात्म्ये’ इति यादवः। दिष्ट्येत्या–
——————————————————————————————————————

** सुमन्त्रः—**अहह, हृदयमर्मदारणान्येव चन्द्रकेतोर्वचनानि।

** लवः— **हन्त, मिश्रीकृतक्रमो361 रसो वर्तते,—

यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी
तथैवास्मिन्दृष्टिर्मम कलहकामः पुनरयम्।
रणत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनु-
र्धृतप्रेमा बाहुर्विकचविकरालव्रणमुखः362॥२६॥

** चन्द्रकेतुः—**(अवतरणं निरूपयन्।) आर्य! अयमसावैक्ष्वाकश्चन्द्र363केतुरभिवादयते।

** सुमन्त्रः—** अहितस्यैव364 पुनः पराभवाय महानादिवराहः कल्पताम्।अपि च,—

देवस्त्वां सविता घिनोतु समरे गोत्रस्य यस्ते पति365
स्त्वां मैत्रावरुणोऽभिनन्दतु गुरुर्यस्ते गुरूणामपि।
ऐन्द्रावैष्णवमग्निमारुतमथो सौपर्णमोजस्तु366 ते
देयादेव च रामलक्ष्मणधनुर्ज्याघोषमन्त्रो जयम्॥२७॥

—————————————————————————————

नन्दे॥२४॥ अप्रतिष्ठे इति। कुलज्येष्ठे रामे अप्रतिष्ठे367 अनास्पदे। अनपत्ये सतीति यावत्। त्रयः पितरः लक्ष्मणभरतशत्रुघ्नाः॥२५॥ हृदयमर्मणां हृदयमध्यप्रदेशानां दारणानि छेदकानि, दुःखजनकानीत्यर्थः। यथेति। कुमुदिनी कुमुद्वतीसरस्योषधिर्वा इन्दौ चन्द्रे समुपोढे सति समुपागते सति यथाऽऽनन्दं संतोषं व्रजति तथा मम दृष्टिरस्मिन् चन्द्रकेतौ समुपोढे सति आनन्दं व्रजति। एवकारः सादृश्यद्योतनार्थः। रणत्कारेण रणदिति शब्देन क्रूरं भयंकरं क्वणितं घण्टादिरणितं येन तथोक्तेन गुणेन ज्यया गुञ्जदव्यक्तं गुरु महद्यद्धनुस्तस्मिन्धृतः प्रेमा कृता प्रीतिर्येन तथोक्तः। विकचानि विस्तृतानि, विकरालानि अतिदृढानि व्रणानि मुखे अग्रे यस्य तथोक्तः। अयं मम बाहुः पुनः बाहुस्तु। दृष्टिवैषम्यार्थः ‘पुनः’शब्दः। कलहकामः युद्धाकाङ्क्षी। भवतीत्यर्थः। अतो रतिक्रोधस्थायिकयोः शृङ्गारवीरयोर्मेलनान्मिश्रितयोः रसयोः क्रमः परिपाटिर्वर्तत इति पूर्वेण संबन्धः। ‘पुंभावं मनसा ययुः’ इति न्यायेन कुमुदिनीदृष्टान्तात् शृङ्गाररसोत्पत्तिरिति द्रष्टव्यम्॥२६॥ अहितस्यैवानभिमतस्यैव पराभवायावमानायादिवराहः प्रलयार्णवमग्नभूमेरुद्धर्ता वराहरूपेणावतीर्णो भगवान्कल्पतां तस्मिन् समर्थो भवतु। देव इति। देवः सविता सूर्यः। धिनोतु प्रीणयतु।

** लवः—**अतीव नाम368 शोभसे रथस्थ एव। कृतं कृतमत्यादरेण।

** चन्द्रकेतुः—**तर्हि महाभागोऽप्यन्यं रथमलंकरोतु।

** लवः— **आर्य ! प्रत्यारोपय रथोपरि राजपुत्रम्।

** सुमन्त्रः—** त्वमप्यनुरुध्यस्व वत्सस्य चन्द्रकेतोर्वचनम्।

** लवः—**को विचारः स्वेषूपकरणेषु ? किं त्वरण्यसदो वयमनभ्यस्तरथचर्याः।

** सुमन्त्रः—**जानासि वत्स ! दर्पसौजन्ययोर्यदाचरितम्369। यदि पुनस्त्वामीदृशमैक्ष्वाको राजा रामभद्रः पश्येत्तदायमस्य370 स्नेहेन हृदयमभिष्यन्दयेत्।

** लवः—** अन्यच्च चन्द्रकेतो ! सुजनः स राजर्षिः श्रूयते। (सलज्जमिव।)

यदि371 च वयमप्येवंप्रायाः क्रतुद्विषतामरौ
क इव372 न गुणैस्तं राजानं जनो बहु मन्यते।
तदपि खलु मे स व्याहारस्तुरङ्गमरक्षिणां
विकृतिमखिलक्षत्राक्षेपप्रचण्डतयाकरोत्॥२८॥

—————————————————————————————

मैत्रावरुणः वसिष्ठस्त्वाममिनन्दतु। इन्द्रस्य विष्णोश्च इदं ऐन्द्रावैष्णवम्। ‘देवताद्वन्द्वे च’ (पा. ७।३।२१) इति आनङ्। अग्नेर्मारुतस्य चेदमाग्निमारुतम्। ‘इद्वृद्धौ’ (पा. ६।३।२८) इति इत्। सौपर्णं गरुडदैवत्यमोजः पराक्रमः। ज्याघोष एव मन्त्रः। अयं परामिभवं देयाद्दद्यात्। ‘एतेर्लिङि’ (पा. ७।४।२४) इत्येत्वम्॥२७॥ शोभसे हृद्यो भवसि। अत्यादरेण कृतम्। अवरोहणं न कार्यमिति भावः॥ तर्हि मदवरोहणे अनिष्टे॥ प्रत्यारोपय आरोपय। राजपुत्रं चन्द्रकेतुम्॥ त्वमप्यनुरुध्यस्व यथा चन्द्रकेतुस्त्वद्वचनं रथादनवरोहणेनानुरोधितवान् तथा त्वमपि तद्वचनं रथा—रोहणेनानुसर॥ स्वेषु स्वीयेषूपकरणेषु रथादिषु। अरण्ये सीदन्ति वसन्तीत्यरण्यसदः। ‘सत्सूद्विष—’ (पा. ३।२।६१) इत्यादिना क्विप्। अनभ्यस्तरथचर्याः अपरिचितरथगतयः॥ दर्पसौजन्ययोः यदाचरितं पराक्रमसख्यमत्योरगुणोऽयमाचारस्तं जानासीत्यर्थः॥ अयं लवः अस्य रामभद्रस्य हृदयमभिष्यन्दयेत् द्रावयेत्॥ यदि चेति। वयमयं क्रतुद्विषतां यज्ञादिधातुकानामरौ शासितरि रामभद्रविषये एवंप्राया यदि प्रेमपात्रभूताश्चेत्कइव को वा तं राजानं रञ्जकं तं रामभद्रं गुणैः शीलादिमिः हेतुभिः न बहु मन्यते, सर्वोऽपि तं संभावयतीत्यर्थः। सौजन्यस्य को विरोध इत्याह— तदपि तथापि अखिलक्षत्राक्षेपः सकलराजतिरस्कारस्तेन प्रचण्डतया क्रूरतया तुरङ्गमरक्षिणामश्वमेधाश्वरक्षकाणां विकृतिं मन्युं स व्याहारश्च ‘तां पताकां हरामि वः’ (४।२८)

—————————————————————————————

** चन्द्रकेतुः—**किं नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्षः?

** लवः—**अस्त्विहामर्षो मा भूद्वा। अन्यदेतत्पृच्छामि—दान्तं हि राजानं राघवमनुशुश्रुमः। स किल नात्मना दृप्यति, नाप्यस्य प्रजा वा दृप्ता जायन्ते। तत्किं मनुष्यास्तस्य राक्षसीं वाचमुदीरयन्ति?

ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः।
सा योनिः सर्ववैराणां सा हि लोकस्य निष्कृतिः373॥२९॥

इति ह स्म तां निन्दन्ति। अथेतरामभिष्टुवन्ति,—

कामं दुग्धे विप्रकर्षत्यलक्ष्मीं
कीर्तिं सूते दुर्हृदो374 निष्प्रलान्ति।
शुद्धां शान्तां मातरं375 मङ्गलानां
धेनुं धीराः सूनृतां वाचमाहुः॥३०॥

** सुमन्त्रः—**परिभूतोऽयं376 बत कुमारः प्राचेतसान्तेवासी। वदत्ययमभ्युपपन्नामर्षेण संस्कारेण।

** लवः—**यत्पुनश्चन्द्रकेतो ! वदसि किं नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्ष इति तत्पृच्छामि—किं व्यवस्थितविषयः क्षत्रधर्म इति।

** सुमन्त्रः—**नैव खलु जानासि देवमैक्ष्वाकं येनैवं वदसि। तद्विरमातिप्रसङ्गात्।

—————————————————————————————

इत्यादिकः। अथवा तुरङ्गमरक्षिणां व्याहारः ‘सप्तलोकैकवीरस्य’ (४।२७) इत्युक्तिः मे विकृतिं मन्युं अकरोत्॥२८॥ दान्तमनहंकारमनुशुश्रुमः श्रुतवानस्मि। आत्मना स्वयं न दृप्यति नाहंकरोति, प्रजा वा दृप्ता न जायन्ते। राक्षसीं वाचं दृप्तवाचम्। तदाह—ऋषय इति। योनिः कारणम्। निष्कृतिः परिभवहेतुः॥२९॥ इतरां वक्ष्यमाणाम्। काममिति। काममभिलषितं दुग्धे प्रपूरयति। अलक्ष्मी विप्रकर्षति दूरीकरोति। कीर्ति गुणवत्ताप्रथांसूते जनयति। दुर्हृदः शत्रून् निष्प्रलान्ति अतिशयेन नाशयति। सूनृता वागिति शेषः। शुद्धां दोषशून्यां शान्तां कार्कश्यरहितां मङ्गलानां मातरं हेतुं धेनुं स्वरूपेण भोग्यां धीराः ध्यानशीलाः सूनृतां शुद्धामाहुरिति योज्यम्। इतीतरामभिष्टुवन्तीति पूर्वेणान्वयः॥३०॥ अभ्युपपन्नामर्षेण उत्पन्नासहनेन संस्कारेण वासनया। तातप्रतापोत्कर्षेऽप्यमर्ष इति यद्वदसि अत्रोच्यत इति शेषः। व्यवस्थितविषयः रामभद्रमात्रनियताधिकरणकः क्षत्रधर्मः क्षत्रियासाधारणपराक्रमातिशयादिः॥ अतिप्रसङ्गादनिष्टप्रस-

सैनिकानां प्रमाथेन सत्यमोजायितं त्वया।
जामदग्न्यस्य दमने न हि निर्बन्धमर्हसि॥३१॥

** लवः—**(सहासम्) आर्य ! जामदग्न्यस्य दमनः स राजेति कोऽयमुच्चैर्वादः377?

सिद्धं ह्येतद्वाचि वीर्यं द्विजानां
बाह्वोर्वीर्यं यत्तु तत्क्षत्रियाणाम्।
शस्त्रग्राही ब्राह्मणो जामदग्न्य–
स्तस्मिन्दान्ते का स्तुतिस्तस्य राज्ञः?॥३२॥

** चन्द्रकेतुः—**(सोन्माथमिव।) आर्य सुमन्त्र ! कृतमुत्तरोत्तरेण।

कोऽप्येष संप्रति नवः पुरुषावतारो
वीरो न यस्य भगवान्भृगुनन्दनोऽपि।
पर्याप्तसप्तभुवनाभयदक्षिणानि
पुण्यानि तात ! चरितान्यपि यो न वेद॥३३॥

** लवः—**को हि रघुपतेश्चरितं महिमानं च न जानाति, यदि नाम किंचिदस्ति वक्तव्यम्। अथवा शान्तम्,—

वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते
सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते।

—————————————————————————————

ञ्जनाद्विरम विरतो भव। ‘जुगुप्साविराम—’ (वा.१०७९) इति पञ्चमी। सैनिकानामिति। प्रमाथेन प्रकृष्टविलोडनेन ओजायितमोजस्वीभूतम्। भावे क्तः। जामदग्न्यस्य दमने परशुरामस्य जेतरि रामभद्रे विषये। निर्बन्धं रूक्षवादम्॥३१॥ सिद्धमिति। द्विजानां विप्राणां वाचि वीर्यं पराभिभवसामर्थ्यमिति यत्। क्षत्रियाणां बाह्वोर्वीर्यमिति यत् एतत्सिद्धं प्रसिद्धं किल। जामदग्न्यः शस्त्रग्राही ब्राह्मणः। तस्मिन्दान्ते तस्य राज्ञः तद्दमनकरामभद्रस्य स्तुतिः गुणाभिधानिका का? न किमपीत्यर्थः॥३२॥ कोऽपीति। यस्य परशुरामश्च वीरो न। यज्ज्ञानविषयावीरत्ववान् भृगुनन्दनः। यः पुरुषः सप्तानां भुवनानां समाहारः सप्तभुवनं, तस्याभयं भयनिवारणं तदेव दक्षिणा प्रत्युपकारनिरपेक्षं स्वाभ्युदयमुद्दिश्य दानं सा पर्याप्ता पूर्णा येषु तथोक्तानि तातचरितानि पुण्यानि रामभद्रवृत्तलक्षणगुम्फकर्माणि शुभकर्माणि तथा तु न वेद न जानाति। एष नवः पुरुषावतारः कोऽपि। क्षेपेऽयं ‘किं’ शब्दः। अत्र रामचरितलक्षणक्रतूनां जगदभयदानमेव दक्षिणेति वर्णनाद्रूपकालंकारः॥३३॥ यदि नाम किंचिदस्ति वक्तव्यम्। वक्तव्यं किंचिदस्ति किमित्यर्थः।वृद्ध इति। अविचारणीयचरितास्ते वृद्धास्तिष्ठन्तु। वयोमात्रं तेषां गौरवहेतुरिति भावः। सुन्दस्त्रीमथने ताटकावधेऽपि अकुण्ठयशसः अप्रतिहतकीर्तयः। कुतोमुखानि

यानि त्रीण्यकुतोमुखान्यपि378 पदान्यासन्खरायोधने
यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः379॥३४॥

** चन्द्रकेतुः—**आः तातापवादिन्! भिन्नमर्याद! अति हि नाम प्रगल्भसे।

** लवः—** अये, मय्येव भ्रुकुटीमुखः संवृत्तः।

** सुमन्त्रः—** स्फुरितमनयोः क्रोधेन। तथा हि,—

क्रोधेनोद्धतधूतकुन्तलभरः सर्वाङ्गजो वेपथुः380
किंचित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः।
धत्ते कान्तिमिदं च वक्त्रम381नयोर्भङ्गेन भिन्नभ्रुवो-
श्चन्द्रस्योद्भेट382लाञ्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च॥३५॥

** लवः—** कुमार कुमार! एह्येहि। विमर्दक्षमां भूमिमवतरावः।

( इति निष्क्रान्ताः सर्वे।)

इति पञ्चमोऽङ्कः।

<MISSING_FIG href=”../books_images/U-IMG-1727324020Untitled.jpg”/>

————————————————————————————————————————————————

पराङ्मुखानि पदानि पादन्यासपराङ्मुखानीति वाचा वक्तुमपि जुगुप्सया कुतोमुखानीत्युक्तम्। तदिदं शौर्यातिशयकार्यम्। अत्रात्यन्तमासन्नो भूत्वा खरः स्थितः तदा रामभद्रश्चापकर्षणार्थं पदत्रयं निवृत्य तं जघानेति प्रसिद्धिः। इन्द्रसूनुनिधने बालिवधे यत्कौशलं नैपुण्यमन्तर्धानपूर्वकत्वरूपं तत्राप्यभिज्ञो जनः वर्तते। हुमिति परिहासे॥३४॥ तातापवादिन् रामभद्रविषयदोषवादिन् ! भिन्नमर्याद अतिक्रान्तसमुदाचार ! भ्रुकुटीमुखः क्रोधप्रयुक्तभ्रूभङ्गयुक्तवदनः॥ अनयोर्लवचन्द्रकेत्वोः। क्रोधेनेति**।**उद्धताः धूताश्चलन्तः कुन्तलाः केशभराः यस्मिन् स तथोक्तः। कोकनदच्छदस्य रक्तारविन्दपत्रस्य रज्यतः रक्तीभवतः। भ्रुवोर्भङ्गेन भीमम्। अनयोरिदं वक्त्रं च। उद्भटलाञ्छनस्य प्रकटलक्ष्मणः चन्द्रस्य उद्भ्रान्तभृङ्गस्य कमलस्य च कान्तिं धत्ते। वक्त्रमित्येकवचनोक्तिः संतानैक्यप्रयुक्तात्यन्तसारूप्यद्योतनाय। निदर्शनालंकारः॥३५॥ एह्यागच्छ। विमर्दक्षमां युद्धयोग्यां भूमिमवतरावः। इति निष्क्रान्ताः सर्वे॥

वाधूलवंशजनुषो भूसारनिवासराघवार्यस्य।
उत्तररामचरित्रव्याख्यायामवसितः पञ्चमोऽङ्कः॥

इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतलस्पर्शिनी-
समाख्यायामुत्तररामचरितव्याख्यायां पञ्चमोऽङ्कः।
——————

षष्ठाङ्कस्य कथावस्तु

प्रस्तुतेऽङ्के विद्याधर–विद्याधरीसंवादात्मकमिश्रविष्कम्भकद्वारा नानाविधमयानकास्त्रसंकुलस्य लव-चन्द्रकेत्वोरायोधनस्य वर्णनं कविसंप्रदायमनुसृत्य समनुष्ठितं कविना। शूद्रधर्मनिषिद्धं तपोनुष्ठानं वितन्वतोऽत एव दण्ड्यस्य शम्बूकस्य वधात्प्रतिनिवृत्तो रघुनन्दनो भयानकं समरमवेक्ष्य युद्ध्यतोश्चन्द्रकेतुलवयोरन्तरे स्वविमानमवतार्य स्निग्धमधुरेण युद्धप्रतिषेधकवचसा तौ प्रतिबोधितवान्। वाल्मीकिप्रणीतरामायणस्य नायको महापुरुषोऽयं रामचन्द्र इत्यधिगम्य तत्संगदितं च निशम्य तद्गौरवाल्लवः शान्तोऽभूत्; चन्द्रकेतुरपि प्रणतः सन् ‘अयं वयस्यः सर्वगुणगणालंकृतो वीरोऽपरो मूर्तिमानस्त्रवेदो ब्रह्माण्डसंरक्षणाय क्षात्रधर्म इवात्रावतीर्ण इति संभावयामि’इति तं प्रशशंस। लवश्च पूर्वप्रयुक्तान्यस्त्राणि रामानुज्ञया समुपसंहृतवान्। तेन सुप्रसन्नो रामः ‘कस्माद्गुरोरस्त्रास्त्रोपदेशस्त्वया समधिगतः?’ इति लवं पप्रच्छ। स च ‘स्वतःप्रकाशान्यावयोरस्त्राणि’ इत्युक्त्वा विरराम। तत्रोपस्थितं ज्यायांसं कुशं च परिचाययामास। रामश्चस्वप्रेयसीसंवादि तयोराकृतिगुणजातं समवलोक्याकृत्रिमानुरागबद्धः समभवत्। रामस्तयो रूपसादृश्येन सीतायाश्चिरपरिचितगुणादिकं पुरावृत्तं च स्मृत्वा रुरोद। तं तादृशमवलोक्य कुशः ‘प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति’ इत्युवाच। आयोधनवार्तया जाताशङ्कं लवं समाहितवान्। एतस्मिन्नेवावसरे चन्द्रकेतुलवयोर्युद्धवार्तांनिशम्य सभयान्वाल्मीकि-वसिष्ठदशरथ-कौसल्यादीन्समागमिष्यमाणान् रामः संभावयितुमुदतिष्ठत्।

(ततः प्रविशति विमानेनोज्ज्वलं विद्याधरमिथुनम्।)

** विद्याधरः—**अहो नु खल्वनयोर्विकर्तनकुलकुमारयोरकाण्डकलहप्रचण्डयोरुद्द्योतितक्षत्रलक्ष्मीकयोरत्यद्भुतोद्भ्रान्तदेवासुराणि विक्रान्तविलसितानि383। तथा हि प्रिये ! पश्य,—

रणत्करणझञ्झणक्वणितकिङ्किणीकं धनु-
र्ध्वनद्गुरुगुणाटनीकृतकरालकोलाहलम्।
वितत्य किरतोः शरानविरतं पुनः शूरयो-
र्विचित्रमभिवर्तते भुवनभीममायोधनम्॥१॥

जृम्भितं च विचित्राय मङ्गलाय द्वयोरपि।
स्तनयित्नोरिवामन्ददुन्दुभेर्दुन्दुमायितम्॥२॥

तत्प्रवर्त्यतामनयोः प्रवीरयोरनवरतमविरलमिलितविकचकनककमलकमनीयसंहतिरमरतरुतरुणमणिमुकुलनिकरमकरन्दसुन्दरः पुष्पनिपातः।

**विद्याधरी—**ता किं ति पुरो आआसं दुद्दंततरलतडिच्छडाकडारं384 अवरं विअ झत्ति संवृत्तं? [तत्किमिति पुर आकाशं दुर्दर्शतरलतडिच्छटाकडारमपरमिव झटिति संवृत्तम्?]

**विद्याधरः—**तत्किं नु खल्वद्य?

————————————————————————————————————————

युद्धस्य ‘दूराध्वानवधम्’ इति दृश्यत्वप्रतिषेधाद्विष्कम्भेण तदाह—विद्याधरमिथुनमित्यादिना॥ विकर्तनः सूर्यः। अकाण्डकलहेन उभयोरप्येकत्वेन वास्तवहेतुरहितवैरेण प्रचण्डयोः क्रूरयोरुद्द्योतिता क्षत्रलक्ष्मीः ययोस्तथोक्तयोः। अत्यद्भुतेनातिविस्मयेन उद्भ्रान्ता देवासुरा यैस्तथोक्तानि विक्रान्तस्य विक्रमस्य विलसितानि। अहो विस्मयनीयानीत्यर्थः। रणदिति**।** रणत्करणेन रणदिति शब्दहेतुव्यास्फालनेन झणझणत्कारक्वणितयुक्तम्। ध्वनन् गुरुगुणः ज्या यया तथोक्तया अटन्या धनुष्कोट्या कृतः करालो भीषणः कोलाहलो यस्य तथोक्तं धनुर्वितत्य मण्डलीकृत्य विस्तार्य शरानविरतं किरतोर्वर्षतोः लवचन्द्रकेत्वोः॥१॥ स्तनयित्नोरिव गर्जन्मेघस्येव। अमन्ददुन्दुमेर्दुन्दुमायितं दुन्दुमशब्दः जृम्भितं प्रवृत्तम्॥२॥ अनयोर्लवचन्द्रकेत्वोस्तादर्थ्येन अविरलमिलिता कमलकमनीयसंहतिर्येन तथोक्तः, पुष्पनिपातः पुष्पवृष्टिः॥ तडिच्छटया विद्युज्जालेन कडारं कपिलं आकाशमन्यदिव जातमित्यर्थः। तत्किं नु ‘खलु नु’

त्वष्ट्टयन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुज्ज्वलम्।
पुटभेदो ललाटस्थनीललोहितचक्षुषः॥३॥

आं ज्ञातम्। जातक्षोभेण चन्द्रकेतुना प्रयुक्तमप्रतिरूपमाग्नेयमस्त्रम्, यस्यायमग्निवच्छरसंपातः385। संप्रति हि,—

अवदग्धबर्बरितकेतुचामरै-
रपयातमेव हि विमानमण्डलैः।
दहति ध्वजांशुकपटावलीमिमां
नवकिंशुकद्युतिसविभ्रमः शिखी॥४॥

आश्चर्यम्, प्रवृत्त एवायमुच्चण्डवज्रखण्डावस्फोटपटुरटत्स्फुलि386ङ्गगुरुरुत्तालतुमुललेलिहानोज्ज्वलज्ज्वालासंभारभैरवः भगवानुषर्बुधः। प्रचण्डश्चास्य सर्वतः संपातः। तत्प्रियामंशुकेनाच्छाद्य सुदूरमपसरामि।
(तथा करोति।)

**विद्याधरी—**दिट्ठिआ एदेण विमलमुत्तासेअसीअलसिणिद्धमसिण-

———————————————————————————————————————

किमिति पदद्वयमस्य च वक्ष्यमाणवाक्यद्वयेनान्वयः। त्वष्ट्रिति। त्वष्टृशाणचक्रभ्रमिभ्रान्तमार्तण्डज्योतिः किम्? उज्ज्वलः ललाटस्थनीललोहितचक्षुषः रुद्रललाटनेत्रस्य पुटभेदी नु उन्मीलन्नु। अथवा किंन्वित्येकमेव पदम्। मार्तण्डज्योतिरुज्ज्वल इत्यैकपदं पुटभेदविशेषणम्। ज्योतिरिवोज्ज्वलतीति तदर्थः॥३॥ जातक्षोभेण प्रकृतिविपर्यासता। आग्नेयमग्निदैवत्यम्। शरसंपातः इषुधारा। अवदग्धेति। अवदग्धानि प्रायेण दग्धानि बर्बरितानि यानि दाहजबर्बरध्वनियुक्तानि केतवः क्षुद्रध्वजाश्चाभराणि वालव्यजनानि येषां तथोक्तैः। अपयातम्। भावे क्तः। नवपलाशकुसुमकान्तिसदृशः शिखी अग्निः। ध्वजा महाकेतवः तेषामंशुकानि चीरांशुकानि तान्येव पटाः। सामान्यविशेषशब्दयोः कर्मधारयः। ‘उत्तरीये वस्त्रमात्रे सूक्ष्मवस्त्रेऽपि चांशुकम्’ इति रत्नमाला। ‘अंशुक’पदं सूक्ष्ममात्रपरं गोबलीवर्दन्यायेन। तेषामावलीम्। ध्वजलक्षणकान्तिव्याजपुञ्जानिति वार्थः। अत्र ध्वजाश्च अंशुकपटाश्चेति विग्रहः। व्याजपर्यायः ‘कपट’शब्दः। अंशव एव ध्वजव्याजेन वर्तन्त इति लाभात्तेजिष्ठत्वं ध्वजानां लभ्यते। किं चायमाग्नेयाग्निरग्निमपि दहतीति असंबन्धेऽपि संबन्धादतिशयोक्तिरिति अपह्नवेन सह संकरः॥४॥ वज्रखण्डस्याशनिशकलस्य अवस्फोटः स्फुटनं तद्वत्पटु तीक्ष्णं यथा तथा रटन् स्फुलिङ्गगुरुः कणबहुलः। उत्तालतुमुलं यथा तथा अतिशयितसंकुलं यथा तथा लेलिहानः भृशं कवलनपरः। लिहधातोर्यङ्लुकी चानश्। उज्ज्वलज्ज्वालासंभारेण ज्वालातिशयेन भैरवः भयंकरः। उषर्बुधः अग्निः, अस्याग्नेः संपातः सम्यक्पतनम्। प्रचण्डः अतितीक्ष्णः॥ विमलमुक्ताशैलवत् निर्दोषमौक्तिकपर्वतवत् शीतलेन स्निग्धेन स्नेहयुक्तेन मसृणेन चाकचक्यवता मांसलेन स्फीतेन। सर्वत्र विशेषणसमासः।

मंसलेण णाहदेहप्पंसेण आणंदसंदलिदघुण्णामाणवेअणाए अद्धोदिदो एव्व अंदरिदो मे संदावो। [दिष्ट्या एतेन विमलमुक्ताशैलशीतलस्निग्धमसृणमांसलेन नाथदेहस्पर्शनानन्दसंदलितघूर्णमानवेदनया अर्धोदित एवान्तरितो मे संतापः।]

**विद्याधरः—**अयि, किमत्र मया कृतम्? अथवा,—

387किंचिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥५॥

**विद्याधरी—**कहं अविरलविलोलघुण्णमाणविज्जुल्लदाविलासमंसलेहिं मत्तमयूरकण्ठसामलेहिं ओत्थरीअदि णभोंगणं जलहरेहिं? [कथमविरलविलोलघूर्णमानविद्युल्लताविलासमांसलैर्मत्तमयूरकण्ठश्यामलैरवस्तीर्यते नभोङ्गणं जलधरैः?]

**विद्याधरः—**हन्त, कुमारलवप्रयुक्तवारुणास्त्रप्रभावः खल्वेषः। कथमविरलप्रवृत्तवारिधारासंपातैः प्रशान्तमेव पावकास्त्रम्?

विद्याधरी — पिअं मे पिअं मे। [प्रियं मे प्रियं मे।]

**विद्याधरः—**हन्त भोः, सर्वमतिमात्रं दोषाय। यत्प्रलयवातोत्क्षो388भगम्भीरगुलुगुलायमानमेघमेदुरितान्धकारनीरन्ध्रनद्धमिव एकवारविश्वग्रसनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगनिद्रानिरुद्ध-

——————————————————————————————————————

आनन्देन संदलिता वर्तिता वेदना यस्मिंस्तथोक्तः। अन्तरितस्तिरोहितः॥ मया किमत्र कृतम्? न किमपीत्यर्थः। न किंचिदपीत्यादि। पूर्वं व्याख्यातम्॥५॥ विलोलाः वेपमानाः। घूर्णमाना वेष्टमानाः। अवस्तीर्यते आच्छाद्यते। ‘अवतीर्यते’इति च पाठः॥ आग्नेयास्त्रप्रतिद्वन्द्वत्वाद्वारुणास्त्रं प्रयुक्तम्। धारासंपातैर्धारासम्यक्पतनैः प्रशान्तं निर्वापितम्॥ अतिमात्रं प्रमाणातिक्रान्तं दोषाय, कल्पत इति शेषः। प्रलयवातेन कल्पान्तमारुतेन उत्क्षोभाः अतिशयितक्षोभयुक्ताः गम्भीरा अनल्पाः गुलुगुलायमानाः ‘गुलुगुलु’ इत्याकारकवर्णध्वनियुक्ता ये मेघास्तैर्मेदुरितेन सान्द्रितेन अन्धकारेण नीरन्ध्रमविरलं नद्धमिव बद्धमिव। एकेन वारेण क्षणेन विश्वस्य प्रपञ्चस्य ग्रसनेन कवलनेन। एकवारः इहानावृत्तिर्वा। विकटं निम्नोन्नतं विकरालं विशेषेण भीषणं कालमुखं मृत्युवक्त्रं तस्मिन्विवर्तमानमिव विकुर्वाणमिव। युगान्ते कल्पान्ते योगनिद्रया ध्यानात्मकस्वापेन निरुद्धानि सर्वाणि द्वाराणि यस्य तथोक्तं यन्नारायणोदरं समस्तवस्त्वाधारभूतलक्ष्मीनायकोदरम्। तस्मिन्निविष्टमिव भूतम्। जात्येकवचनम्। प्राणिन इत्यर्थः। विपद्यते विपदं प्राप्नोति। वायव्यं वायुदैवत्यम्। ‘वाय्वृतु–’

सर्वद्वारं नारायणोदरनिविष्टमिव भूतं विपद्यते389। साधु चन्द्रकेतो ! साधु। स्थाने वायव्यमस्त्रमीरितम्। यतः,—

विद्याकल्पेन मरुता मेघानां भूयसामपि।
ब्रह्मणीव विवर्तानां क्वापि प्रविलयः कृतः॥६॥

**विद्याधरी—**णाध ! को दाणिं एसो ससंभमोक्खित्तकरम्भमदुत्तरीअंचलो दूरदो एव्व महुरसिणिद्धवअणपडिसिद्धजुद्धव्वावारो एदाणं अंदरे विमाणवरं ओदरावेदि? [ नाथ ! क इदानीमेव ससंभ्रमोत्क्षिप्तकरभ्रमदुत्तरीयाञ्चलो दूरत एव मधुरस्निग्धवचनप्रतिषिद्धयुद्धव्यापार एतयोरन्तरे विमानवरमवतारयति? ]

विद्याधरः—( दृष्ट्वा। ) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः।

शान्तं महापुरुषसंगदितं390 निशम्य
तद्गौरवात्समुपसंहृतसंप्रहारः।
शान्तो लवः प्रणत एव च चन्द्रकेतुः
कल्याणमस्तु सुतसंगमनेन राज्ञः॥७॥

तदितस्तावदेहि। (इति निष्क्रान्तौ। )

मिश्रविष्कम्भः।

<MISSING_FIG href="../books_images/U-IMG-1727459731Untitled1.jpg"/>

————————————————————————————————————————————

(पा. ४ \।२\। ३१ ) इति यत्प्रत्ययः। ईरितं प्रेरितमिति यत्तत्स्थाने युक्तम्। यतः यस्मात्।विद्येति। विद्याकल्पेन तत्त्वमस्यादिवाक्यविहिततत्त्वज्ञानसदृशेन मरुता वायुना कर्त्रा भूयसां बहुतराणां मेघानां ब्रह्मणि निर्विशेषसन्मात्रे कूटस्थे चैतन्ये विवर्तानामिव अधिष्ठानविषयसत्ताकव्यावहारिकघटपटादिविकल्पानामिव प्रविलयः निवृत्तिः कृतः। इदं चाद्वैतप्रक्रियया व्याख्यातम्, परमार्थतस्तु विद्याकल्पेन दर्शनसमानाकाराविच्छिन्नस्मृतिसंतानात्मकसद्विद्यादिसदृशेन मरुता ब्रह्मणि निखिलचेतनाचेतनशरीरके समस्तकल्याणगुणाकरे श्रीमति नारायणे विवर्तानामिव विशेषणीभूतचिदचिद्वारकविलक्षणविकारभूतदेहेन्द्रियादीनामिव प्रविलयः कृतः जगदुपादानस्य ब्रह्मणः कार्यत्वनियतनामरूपप्रहाणलक्षणात्यन्तिकलय एव तदपृथक्सिद्धविशेषणभूतजीवस्य मोक्षः। स च ‘तमेवं विदित्वा’—(श्वे.६।१५) इत्यादिश्रुतिभिर्भक्तिसाध्य इति। एवमुक्तिः ‘ब्रह्मैव सन् ब्रह्माप्येति’ (बृ.४\।४\।६ ) इत्युक्तेः॥६॥ प्रतिषिद्धः निवर्तितः युद्धव्यापारो येन तथोक्तः। अन्तरे मध्ये प्रतिषेधवाक्येन तयोस्तत्प्रतिघाताय मध्ये रथस्थापनेन तन्निवर्तयतीति भावः। शम्बूकवधात् शम्बूकवधं निर्वर्त्य।ल्यब्लोपे पञ्चमी।शान्तमिति। शान्तं कार्कश्यरहितं महापुरुषस्य रामस्य संगदितं वचनं निशम्य

( ततः प्रविशति रामो लवः प्रणतश्चन्द्रकेतुश्च। )

रामः—(पुष्पकादवतरन्।)

दिनकरकुलचन्द्र ! चन्द्रकेतो !
सरभसमेहि दृढं परिष्वजस्व।
तुहिनशकलशीतलैस्तवाङ्गैः
शममुपयातु ममापि चित्तदाहः॥८॥

(उत्थाप्य सस्नेहास्त्रं परिष्वज्य) अप्यनामयं391 नूतनदिव्यास्त्रयोधनस्य तव?

चन्द्रकेतुः— कुशलमत्यद्भुतप्रियवयस्यलाभाभ्युदयेन392। तद्विज्ञापयामि मामिव विशेषेण स्निग्धेन चक्षुषा पश्यत्वमुं वीरमनरालसाहसं तातः393

रामः—(लवं निरूप्य।) दिष्ट्याअतिगम्भीरमधुरकल्याणाकृतिरयं सवयसो394 वत्सस्य।

त्रातुं लोकानिव परिणतः कायवानस्त्रवेदः
क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै।
सामर्थ्यानामिव समुदयः संचयो वा गुणाना-
माविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः॥९॥

——————————————————————————————————————

तद्गौरवाद्राभविषयकगरीयस्त्वबुद्ध्या समुपसंहृतः निवृत्तः संप्रहारः युद्धं येन तथोक्तः लवः शान्तः निवृत्तव्यापारोऽभूत्। चन्द्रकेतुश्च प्रणत एव। यत एवं ततः सुताभ्यां लवचन्द्रकेतुभ्यां संगमनेन समागमेन राज्ञः रामस्य कल्याणमस्तु। विद्याधरेण ज्ञातत्वात्सुतेत्युक्तिः॥७॥ दिनकरेति। दिनकरकुलचन्द्र, सूर्येण सह तदीयस्यास्मद्वंशस्य आह्लादक प्रसिद्धचन्द्र ! सूर्यं प्रति चन्द्रत्वाभावेनास्य तं प्रत्यपि चन्द्रत्वमाधिक्ये पर्यवस्यति। अत एव ‘ममापि चित्तदाह’ इत्युक्तिः संगच्छते। ममापि एवमत्यन्ततप्तस्यापि मम। अनेन सहस्रभानुतापापेक्षयापि स्वतापस्य भूयस्त्वं गम्यते। शमं निर्वाणमुपयातु प्राप्नोतु॥८॥ नूतनदिव्यास्त्रायोधनस्य नूतनामानुष्यांस्त्रकरणकयुद्धस्य। नूतनं दिव्यास्त्रैरायोधनं यस्येति बहुव्रीहिः। तवेति शेषः। अनामयमारोग्यम्॥ अत्यद्भुतस्य आश्चर्यकरस्य प्रियवयस्यस्य लाभ एवाभ्युदयस्तेन। स्निग्धेन स्नेहवता चक्षुषा। अनरालसाहसमकुटिलयुद्धादिव्यापारम्। अमुं लवम्। अतिगम्भीरा अक्षोभ्या कल्याणी मङ्गलावहा आकृतिराकारो यस्य तथोक्तः। दिष्ट्या आनन्दहेतुः। त्रातुमित्यादि। लोकान् चतुर्दशभुवनानि त्रातुं रक्षितुं कायवान्मूर्तिमान् सन् परिणतः जातः अस्त्रवेदः अस्त्रमन्त्रभागस्तद्वत्स्थितः। ब्रह्मकोशस्य ब्रह्माण्डस्य गुप्त्यैरक्षणाय तनुं मूर्तिं श्रितः प्राप्तः क्षात्रो धर्म इव स्थितः। शौर्यवीर्यादिरूपक्षत्रिय-

** लवः—**(स्वगतम्।) अहो पुण्यानुभावदर्शनोऽयं महापुरुषः।

आश्वास395 इव भक्तीनामेकमायतनं महत्।
प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः॥१०॥

आश्चर्यम्,—

विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन-
स्तदौद्धत्यं क्वापि व्रजति विनयः प्रह्वयति माम्।
झटित्यस्मिन्दृष्टे किमिति परवानस्मि यदि वा
महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः॥११॥

** रामः—** तत्किमयमेकपद एव मे दुःखविश्रामं ददात्युपस्नेहयति

———————————————————————————————————————

स्वभाव इव स्थितः। सामर्थ्यानामारब्धकार्यनिर्वहणशक्तीनां समुदय इव स्थितः। गुणानां धैर्यादीनां संचयो वा समूह इव स्थितः। ‘वा स्याद्विकल्पोपमयोः’ इति कोशः। जगत्पुण्यनिर्माणानां जगत्पुण्यानुष्ठानानां राशिरिव स्थितोऽयं वत्सस्य वयस्य इति पूर्वेण संबन्धः। आविर्भूय प्रत्यक्षीभूय स्थितः। जगत्पुण्यनिर्माणराशिरिव स्थितः। अभूतोपमा॥९॥ पुण्ये अनुभावदर्शने यस्य तथोक्तः। अनुभावः प्रभावः। दर्शनं साक्षात्कारः॥ आश्वास इति। भक्तीनां स्नेहपूर्वानुध्यानानामाश्वास इव स्थितः दुःखविस्मरणपूर्वकाह्लाद इव स्थितः। भक्तयोऽन्यत्र हि क्रियमाणा विषयदोषेण दुःख्यन्ति। तासां रामे क्रियमाणानां विषयसौष्ठवेणाह्लादो जायते। तद्धेतौ तत्त्वारोपः। एकमद्वितीयं महद्विपुलं भक्तीनामायतनं स्थानं च। ‘आश्वासस्नेहभक्तीनामेकलम्बनं महत्’ इति च पाठान्तरम्। आश्वासः द्वेषभावः। स्नेहः प्रणयः, भक्तिः स एव। भावनाप्रकर्षेण प्रत्यक्षसमानाकारतामापन्न एव तासां मुख्यविषयभूत इत्यर्थः। प्रकृष्टस्य लोकोत्तरस्य धर्मस्य सुकृतस्य मूर्तिसुन्दरः प्रसाद इव स्थितः महापुरुष इति पूर्वेणान्वयः। उक्तं च ‘रामो विग्रहवान्धर्मः’ इति। प्रसाद इह फलप्रदानोन्मुखता॥१०॥ विरोध इति। विरोधः वैरम्। विश्रान्तः विरतः। निर्वृतिघनः आनन्दसान्द्रः। रस्यते चर्व्यत इति रसः अपरोक्षावभासरूपः। प्रसरति प्राप्नोति। तद्विपुल्मौद्धत्यं दर्पहेतुकसंभावनारूपं क्वापि व्रजति। विनयः महाजनसंनिधौ स्वोत्कर्षाननुसंधानरूपः। मां प्रह्वयति नमयति। अस्मिन्महापुरुषे दृष्टे सति साक्षात्कृते सति किमिति परवानस्मि कस्माद्धेतोः परतन्त्रोऽस्मि? यदि वा अथवा तीर्थानामिव गङ्गादिपावनसलिलानामिव महतां पुरुषाणां महार्घः अमूल्यः। श्लाघ्य इति यावत्। अतिशय उत्कर्षः कोऽपि, अनन्यादृश इत्यर्थः। इमं च श्लोकं बहवो बहु मन्यन्ते॥११॥ एकपद एव एक क्षण एव दुःखविश्रामं दुःखनिर्वृतिं ददाति। कुतोऽपि निमित्तादनिर्धारिताद्धेतोरन्तरात्मानमुपस्नेहयति स्नेहयुक्तं करोति।

च कुतोऽपि निमित्तादन्तरात्मानम्। अथवा स्नेहश्चनिमित्तसव्यपेक्ष इति विप्रतिषिद्धमेतत्।

व्यतिषजति पदार्थानान्तरः कोऽपि हेतु-
र्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते।
विकसति हि पतङ्गस्योदये पुण्डरीकं
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः॥१२॥

** लवः—**चन्द्रकेतो ! क एते?

** चन्द्रकेतुः—**प्रियवयस्य ! ननु तातपादाः।

** लवः—**ममापि धर्मतस्तथैव, यतः प्रियवयस्येति भवतोक्तम्। किंतु चत्वारः किलभवन्त्येवं396व्यपदेशभागिनस्तत्रभवन्तो रामायणकथापुरुषाः। तद्विशेषं ब्रूहि।

**चन्द्रकेतुः—**ज्येष्ठतात इत्यवेहि।

** लवः—**(सोल्लासम्।) कथं रघुनाथ एव? दिष्ट्या सुप्रभातमद्य यदयं देवो दृष्टः। (सविनयं निर्वर्ण्य।) तात! प्राचेतसान्तेवासी लवोऽभिवादयते।

**रामः—**आयुष्मन् ! एह्येहि। (इति सस्नेहमालिङ्ग्य।) अयि वत्स ! कृतमत्यन्तविनयेन अङ्गेनमामपरिश्लथं परिरम्भस्व397

—————————————————————————————————————————————————

अथवा,—पूर्वोक्तपक्षाभावे निमित्तसव्यपेक्षः हेतुसापेक्षः स्नेहश्च निमित्तसव्यपेक्षश्चेति। यत् स्नेहत्वनिमित्तसापेक्षत्वरूपं विप्रतिषिद्धं व्याहतम्। व्यतिषजतीति। कोऽपि हेतुः भवितव्यतारूपः यस्यान्तरत्वमलौकिकत्वं पदार्थानन्तःकरणप्रभृतिवस्तुजातं व्यतिषजति अन्योन्यलग्नान्करोति। अन्तर्भावितण्यर्थोऽयं धातुः। कर्तरि कर्मव्यतिहाराभावान्नात्मनेपदम्। प्रीतयः अत्यन्तानुकूलत्वज्ञानरूपस्नेहः। बहिरुपाधीन् बाह्यहेतून्न संश्रयन्ते खलु खोत्पादकत्वेन नापेक्षन्त इति प्रसिद्धम्। दृष्टान्तमाह—विकसतीत्यादि। पतङ्गस्य सूर्यस्य। चन्द्रकान्तः शिलाविशेषः। अत्र मार्दवस्याप्रयोजकत्वसूचनाय द्वितीयदृष्टान्तः॥१२॥ धर्मतः पुण्यात्। मित्रस्य पिता स्वस्य पितेति शास्त्रस्यायमर्थः स्वपितृविषये यादृशमनुवर्तनं तादृशं मित्रपितृविषयकं महते श्रेयसे कल्पत इति। एवं च मद्धर्महेतुकपितृत्ववानित्यर्थः। एवंव्यपदेशस्य ‘तातपाद’ शब्दस्य भागिनः स्वामिनः। भागो हि स्वंभागी स्वामी। ‘तातपाद’शब्दस्य वाच्यतया स्वामिनः अर्थप्रत्यायनार्थत्वाच्छब्दस्य वाच्यशेषत्वं वाचकस्य। तत्रभवन्तः पूजनीयाः रामायणकथापुरुषाः रामायणनामककाव्यप्रबन्धप्रधाननायकाः।

परिणतकठोरपुष्करगर्भच्छदपीनमसृणसुकुमारः।
नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः॥१३॥

लवः—(स्वगतम्।) ईदृशो मां प्रत्यमीषामकारणस्नेहः। मया पुनरेभ्य एवाभिद्रोग्धुमज्ञेनायुधपरिग्रहः कृतः। (प्रकाशम्।) मृष्यन्तां398 त्विदानीं लवस्य बालिशतां तातपादाः।

** रामः—**किमपराद्धं वत्सेन?

**चन्द्रकेतुः—**अश्वानुयात्रिकेभ्यस्तातप्रतापाविष्करणमुपश्रुत्य वीरायितमनेन।

**रामः—**नन्वयमलंकारः क्षत्रियस्य।

न तेजस्तेजस्वी प्रसृतमपरेषां विषहते
स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः।
मयूखैरश्रान्तं तपति यदि देवो दिनकरः
किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति॥१४॥

चन्द्रकेतुः— अमर्षोऽप्यस्यैव शोभते महावीरस्य। पश्यन्तु हि तातपादाः प्रियवयस्यनियुक्तेन जृम्भकास्त्रेण399 विक्रम्य स्तम्भितानि सर्वसैन्यानि400

————————————————————————————————————————————

तद्विशेषं तेषु विशेषं तातपादत्वव्याप्यरामत्वाद्यन्यतमधर्मविशिष्टत्वं ब्रूहि बोधय॥ प्राचेतसान्तेवासी वाल्मीकिशिष्यः॥ परीति। परिणतस्य विकसितस्य कठोरस्य समग्रस्य पुष्करस्य पद्मस्य गर्भच्छदवदातपाद्यनभिहतान्तरपत्रवत् पीनः मांसलः मसृणः दन्तुरतारहितः सुकुमारः मृदुलः चन्दननिष्यन्दवच्चन्दनद्रववत् जडः शीतलः। अत्र एकमात्राधिक्यम्। ‘चन्दननिष्यन्दजड’ इति संबुद्ध्यन्तपाठोऽपि॥१३॥ अमीषाम्। रामस्येत्यर्थः। एभ्यः अभिद्रोग्धुमेतद्विषये अपकर्तुम्। ‘क्रिया–’(पा. २।३।१४) इति चतुर्थी। आयुधपरिग्रहः कृतः। बालिशतां मूर्खतां मृष्यन्तां सहन्ताम्॥ किमपराद्धं कोऽनिष्टाचारः?॥ अश्वस्य मेघ्याश्वस्य आनुयात्रिकाः अनुयात्रायां नियुक्तास्तेभ्य इति पञ्चमी। आविष्करणं प्रकाशनमुपश्रुत्याकर्ण्य वीरायितं वीरवदाचरितम्॥ अयं वीरायितम्। विधेयप्राधान्यात्पुंस्त्वम्। अलंकारः शोभाकरः॥ न तेज इति। प्रसृतमपरेषां तेजः पराभिभवनसामर्थ्यं न विषहते न सहत इति यत् सः प्रकृतिनियतत्वादुपादानकारणव्याप्तत्वादकृतकः अनागन्तुकः स्वो भावः धर्मः। सत्कार्यवादे कारणगुणाः कार्ये उपलभ्यन्ते। मयूखैः किरणैरश्रान्तमविरतमाग्नेयो ग्रावा अग्न्युत्पादकसूर्यकान्तशिला निकृत इव परिभूत इव तेजांसि वमति

रामः—(सविस्मयखेदं निर्वर्ण्य।स्वगतम्।) अहो, वत्सस्य ईदृशः प्रभावः। (प्रकाशम्।) वत्स ! संह्रियतामस्त्रम्। त्वमपि चन्द्रकेतो ! निर्व्यापारतया विलक्षणानि सान्त्वय बलानि।

(लवः प्रणिधानं नाटयति।)

चन्द्रकेतुः— यथा निर्दिष्टम्। (इति निष्क्रान्तः।)

**लवः—**तात ! प्रशान्तमस्त्रम्।

रामः— सरहस्यप्रयोगसंहारजृम्भकास्त्राणि401 दिष्ट्या वत्सस्यापि संपद्यन्ते।

ब्रह्मादयो ब्रह्महिताय तप्त्वा
परः सहस्रं402 शरदस्तपांसि।
एतान्यदर्शन्गु403रवः पुराणाः
स्वान्येव तेजांसि तपोमयानि॥१५॥

अथैतामस्त्रमन्त्रोपनिषदं भगवान्कृशाश्वः परःसहस्राधिकसंवत्सरपरिचर्यानिरतायान्तेवासिने कौशिकाय प्रोवाच। स भगवान्मह्यमिति गुरुपूर्वानुक्रमः। कुमारस्य कुतः संप्रदाय इति पृच्छामि।

**लवः—**स्वतःप्रकाशान्यावयोरस्त्राणि।

रामः— (विचिन्त्य।) किं न संभाव्यते। प्रकृष्टपुण्योपादानकः404 कोऽपि महिमा स्यात्। द्विवचनं तु कथम् ?

**लवः—**भ्रातरावावां यमौ।

रामः— स तर्हि द्वितीयः क्व405?

—————————————————————————————————————

उद्गिरति। दृष्टान्तालंकारः॥ अमर्षोऽपि न केवलं तेजः किंतु मन्युरपि शोभते हृद्यो भवति। स्तम्भितानि निर्व्यापाराणि॥ संह्रियतामाकृष्यताम्। जृम्भकास्त्रप्रयुक्तपीडाया अननुभूतत्वात्, निर्व्यापारतया विलक्षणानि विस्मयान्वितानि। सान्त्वय मधुरोक्तिभिर्मोदय॥ प्रणिधानं ध्यानम्, प्रयोगो नियोजनम्, संहार आकर्षणम्। सरहस्यौ अङ्गन्यासाद्यनुष्टानसहितौ प्रयोगसंहारौ येषां तथोक्तानि। संपद्यन्ते स्थितानि भवन्ति॥ ब्रह्मादय इति व्याख्यातम्॥१५॥ अस्त्रमन्त्रोपनिषदं अस्त्रमन्त्रमयीभुपनिषदम्। परःसहस्राधिकसंवत्सरं परिचर्यानिरताय कौशिकाय विश्वामित्राय। भगवान् कौशिकः। पूर्वेषां गुरूणामनुक्रमः परम्परासंप्रदायः गुरुमुखोपदेशः। कुतः कस्मात् ?॥ स्वतःप्रकाशानि गुरूपदेशं विना ज्ञातानि॥ किं न संभाव्यते? सर्वं संभा-

(नेपथ्ये।)

** दाण्डायन !**

आयुष्मतः किल लवस्य नरेन्द्रसैन्यै-
रायोधनं ननु किमात्थ सखे ! तथेति।
अद्यास्तमेतु भुवनेषु च राज406शब्दः
क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु॥१६॥

रामः—

अथ कोऽयमिन्द्रमणिमेचकच्छवि-
र्ध्वनिनैव वद्धपुलकं करोति माम्।
नवनीलनीरधरधीरगर्जित-
क्षणबद्धकुड्मलकदम्बडम्बरम्॥१७॥

लवः— अयमसौ नम ज्यायानार्यः कुशो नाम भरताश्रमात्प्रतिनिवृतः।

रामः— (सकौतुकम् ) तर्हि वत्स ! इत एवैतमाह्वयायुष्मन्तम्।

**लवः—**यदाज्ञापयति। (इति निष्क्रान्तः।)

(ततः प्रविशति कुशः।)

कुशः— (सक्रोधं कृतधैर्यं धनुरास्फाल्य।)

दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादामनो-
र्दृप्तानां दमनाय दीपितनिजक्षत्रप्रतापाग्निभिः।

———————————————————————————————————————

वितमेवेति भावः। प्रकृष्टपुण्योपादानकः प्रभूतसुकृतादिकरणकः। द्विवचनं तु आवयोरिति षष्ठीद्विवचनम्॥ आयुष्मत इति। आयुष्मतः अनुजतया तथोक्तिः। नरेन्द्रसैन्यैः राजसैनिकैरायोधनं ननु युद्धं किम्। तथेत्यात्थ किम्।भुवनेषु ‘राज’शब्दः अस्तंनाशमेतु प्राप्नोतु। क्षत्रस्य क्षत्रियजातेः शस्त्राण्येव शिखिनः वह्नयः शमं निर्वाणं यान्तु प्राप्नुवन्तु॥१६॥ अथेति। इन्द्रमणिमेचकच्छविः इन्द्रनीलवन्नीलच्छविः। अथेति प्रश्ने। कदम्बस्येव डम्बरं विभ्रमो यस्येति विग्रहः॥१७॥ ज्यायानग्रजः॥ इत एव अत्रैव। एतं कुशम्॥ सक्रोधंकृतधैर्यं च यथा तथा। दत्तेति। अभयमेव दक्षिणा अभयदक्षिणा। इन्द्रस्य अभयदक्षिणा दत्ता यैरिति बहुव्रीहिः। भगवतः षाड्गुण्यवतः वैवस्वताद्विवस्वतपुत्रात् आमनोः मनुमारभ्य दृप्तानां दमनाय शिक्षणाय दीपितः ज्वलितः निजः असाधारणः क्षत्रप्रताप एवाग्निर्यैस्तथोक्तैः। ‘दहनाय’ इत्यपि पाठः आदित्यैः सूर्यवंश्यैः ‘दित्यदित्या—’(पा. ४।१।५१) इति ण्यः। नृपतिभिः विग्रहो यदि

आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो
दीप्तास्त्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः॥१८॥

(विकटं परिक्रामति।)

रामः— कोऽप्यस्मिन्क्षत्रियपोतके पौरुषातिरेकः। तथा हि,—

दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा
धीरोद्धता नमयतीव गतिर्धरित्रीम्।
कौमारकेऽपि गिरिवद्गुरुतां दधानो
वीरो रसः किमयमेत्युत दर्प एव॥१९॥

लवः—(उपसृत्य।) जयत्वार्यः।

** कुशः—**नन्वायुष्मन् ! किमियं वार्ता युद्धं युद्धमिति?

**लवः—**यत्किंचिदेतत्। आर्यस्तु दृप्तं भावमुत्सृज्य विनयेन वर्तताम्।

कुशः— किमर्थम्?

**लवः—**यदत्र देवो रघुनन्दनः407 स्थितः। स408रामायणकथानायको ब्रह्मकोशस्य गोप्ता।

———————————————————————————————————————

विरोधश्चेत्ततः तदा दीप्तानामस्त्राणां स्फुरन्त्यस्तरलाः उग्रास्तीक्ष्णा या दीधितयस्तासां शिखया कोट्या नीराजिता आर्तीकृता ज्या मौर्वी यस्य तथोक्तं ममैतद्धनुः। धन्यं प्रशस्तम्॥१८॥ विकटं विषमं परिक्रामति। दृष्टिरिति। तृणीकृतः अनादृता जगत्त्रयसत्त्वसारः लोकत्रयबलोत्कर्षो यया सा। धीरोद्धता धीरा चासौ उद्धता चेति विग्रहः। कौमारेऽपि बाल्येऽपि गिरिवत्पर्वत इव। गिरिर्हिउत्पत्तिप्रभृतिगुरुत्ववान्, वृक्षादयस्तु नैवम्; किंतु परिणामविशेषेण गुरुत्वं भजन्ति। किं वीरो रस एतिशत्रुकृतापराधादिना प्रज्वलनरूपक्रोधस्थायिकस्वसंवेद्यः प्रकाशविशेषः किमेति। रसालम्बने रसत्वारोपाद्धेत्वलंकारः। दर्पः युद्धकण्डूलता॥१९॥ आयुष्मन् इति लवं प्रति संबोधनम्। युद्धं युद्धमिति वार्ता प्रवृत्तिः युद्धमासीदिति जनवादः श्रूयते। स किं सत्य इत्यर्थः॥ एतद्युद्धं यत्किंचिदल्पम्, न प्रश्नार्हमित्यर्थः। आर्यस्तु, ज्येष्ठभ्रातृप्रयुक्तपूजाद्योतनाय ‘आर्य’शब्दप्रयोगः। दृप्तं भावं दर्पात्मकस्वभावमुत्सृज्य त्यक्त्वा। दृप्तमित्यत्र भावे क्तः। विनयेन निकर्षप्रतिसंधानेन। उपलक्षणे तृतीया॥ देवः पूज्यः रघुनन्दनः रामः अत्र स्थित इति यत्तस्माद्विनयेन वर्ततामिति पूर्वेणान्वयः। ब्रह्मकोशस्य ब्रह्माण्डस्य गोप्ता रक्षकः॥ स महात्मा अनन्यसामान्यस्वभावः रामः। आशंसनीयमभिलषणीयं पुण्यं सुकृतमूलं दर्शनं साक्षात्कारो यस्य तथोक्तः।

**कुशः—**आशंसनीयपुण्यदर्शनः स महात्मा। किंतु स कथमस्माभिरुपगन्तव्य इति संप्रधारयामि।

लवः— यथैव गुरुस्तथोपसदनेन।

कुशः— कथं हि नामैतत् ?

** लवः—** अत्युदात्तः सुजनश्चन्द्रकेतुरौर्मिलेयः प्रियवयस्येति सख्येन मामुपतिष्ठते। तेन संबन्धेन धर्मतस्तात एवायं राजषिः।

**कुशः—**संप्रत्यवचनीयो राजन्येऽपि प्रश्रयः।

(उभौ परिक्रामतः।)

लवः— पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसंभाव्यमानविविधलोकोत्तरसुचरितातिशयम्।

कुशः—(निर्वर्ण्य।)

अहो प्रासादिकं रूपमनुभावश्च पावनः।
स्थाने रामायणकविर्देवीं वाचमवीवृधत्409॥२०॥

तात! प्राचेतसान्तेवासी कुशोऽभिवादयते।

——————————————————————————————————————

भवतीति शेषः। ‘अस्तिर्भवन्तीपरः’ इत्युक्तेः। अप्राप्तस्य प्रयोजनस्य प्राप्तुमिच्छा आशंसा। किंतु एवं सत्यपि अस्माभिर्मया कथमुपगन्तव्य इति संप्रधारयामि केन प्रकारेण उपस्थातव्यमिति मीमांसे॥ यथैवेति। यथा गुरुः पिता। उपसदनेन। समीपानुभजनेन। ‘प्राप्य’ इति पूरणीयम्। तथैव उपसदनेनात्रापि प्राप्य इत्यध्याहारः॥ एतद्गुरुवदुपसदनीयत्वं कथं कस्माद्धेतोः? अत्युदात्तः अत्युच्चस्वभावः। सुजनः समीचीनजनः, सौजन्यवानिति यावत्। और्मिलेयः ऊर्मिलापुत्रः। स्त्रीभ्यो ढक्। सख्येन सखित्वेन मामुपतिष्ठते संश्लिष्यते। ‘उपाद्देव—’ (वा.२६९२) इत्यात्मनेपदम्। तेन संबन्धेन चन्द्रकेत्वभ्युपगतमैत्रीरूपसंबन्धेन॥ संप्रति धर्मतस्वातत्वे राजन्ये रामेऽपि प्रश्रयो विनयः अवचनीयो निर्दुष्टः॥ आकारः महापुरुषलक्षणयुक्तविग्रहसन्निवेशः, अनुभावः प्रभावः, गाम्भीर्यमक्षोभ्यत्वम्, एतैः संभाव्यमानोऽनुमीयमानः विविधो नानाप्रकारः लोकोत्तरो विश्वातिशायी सुचरितानां सुकर्मणामतिशय उत्कर्षः यस्य तथोक्तम्॥ अहो इति। प्रसादः पारुष्यराहित्यं तस्मिन् भवं प्रासादिकम्। प्रसादगुण एवास्य रूपस्य उपादानकारणमिति भावः। रूपं विग्रहः। पावनः स्वसंबन्धानामन्येषामपि शुद्धिहेतुः। अनुभावः व्यवसायविशेषश्च। अहो विस्मयनीयावित्यर्थः। रामायणकविः रामायणप्रणेता वाल्मीकिलक्षणकविः देवीं वाचं वाग्देवीमवीवृधत् इति स्थाने युक्तम्। वृधधातोर्णिचि लुङि चङि

**रामः—**एह्येह्यायुष्मन् !

अमृताध्मातजीमूतस्निग्धसंहननस्य ते।
परिष्वङ्गाय वात्सल्यादयमुत्कण्ठते जनः॥२१॥

(परिष्वज्य, स्वगतम्।) तत्किमित्ययं च दा410रकः?

अङ्गादङ्गात्सृत इव निजस्नेहजो देहसारः
प्रादुर्भूय स्थित इव बहिश्चेतनाधातुरेकः।
सान्द्रानन्दक्षुभितहृदयप्रस्रवेणावसिक्तो411
गाढाश्लेषः स हि मम हिमच्योतमाशंसतीव॥२२॥

**लवः—**ललाटन्तपस्तपति घर्मांशुः। तदत्र सालवृक्षच्छायायां मुहूर्तमासनपरिग्रहं करोतु तातः।

**रामः—**यदभिरुचितं वत्सस्य।

(परिक्रम्य यथोचितमुपविशन्ति।)

————————————————————————————————————————

द्वित्वम्॥२०॥ अमृताध्मेति। अमृताध्मातजीमूत इव सुधापूरितकालमेघवत्स्निग्धं संहननं गात्रं यस्य तथोक्तस्य। ‘गात्रं वपुः संहननम्’ इत्यमरः। ते तव परिष्वङ्गाय आलिङ्गितुमुत्कण्ठते। ‘सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यभिमन्यते। तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः॥’ इत्युक्ताभिलाषवान्भवति। ‘अयं जन’ इत्युक्तेः दयनीयत्वरूपवस्तुध्वनिः॥२१॥ किमित्ययं च दारकः?। अङ्गादङ्गादित्यादि। अत्र गद्यस्थ ‘अयं’ पदस्य पद्यस्थ’स’शब्देन संबन्धात् दारकविशेषणत्वम्। एवं च सोऽयं समस्तविलक्षणो बुद्धिस्थश्च दारकः बालकः। अङ्गादङ्गात् सर्वेभ्योऽङ्गेभ्यः सृतः झरितः स्नेहजः स्नेह एव मैत्र्येव स्नेहः द्रवर्द्रव्यं तस्मिन् जातः निजः नैसर्गिकः। देहे रूपलावण्यसौन्दर्यसमुदायात्मके शरीरे यः सारः उत्कृष्टरूपलावण्यसौन्दर्यसमुदाय इव स्थितः। स्वरसग्राहिणो जलादिद्रवद्रव्यं असंयोज्यैव स्वरसं गृह्णन्ति तद्वदुत्कृष्टेऽपि स्नेहलक्षणद्रवद्रव्यसंबन्धेन गाढाश्लेषरूपसंघट्टनवशाद्बहिःसृतः ‘स्वदेहसार इव’ इत्युत्प्रेक्षा, ‘स्नेहज’ इतिश्लिष्टरूपकानुप्राणिता च। अत्र ‘अङ्गादङ्गात्संभवसि हृदयादधिजायसे’ इति श्रुतिः प्रत्यभिज्ञाप्यते। एकः चेतनाधातुश्चैतन्यैकरसे आत्मवस्तुनि एकदेशे बहिः प्रादुर्भूय स्थित इव साक्षात्कारार्हः सन् स्थित इव। सान्द्रानन्दक्षुभितस्य घनतरानन्देन क्षोभं प्राप्तस्य हृदयस्य प्रस्रवेण प्रकृष्टसेकेनावसिक्तः आर्द्रीकृतः गाढः दृढः श्लेष आश्लेषो यस्य तथोक्तः सन् सोऽयं दारकः गाढाश्लेषः सन् हिमच्योतं हिमवर्षमाशंसतीव सूचयतीव। किमिति विस्मये॥२२॥ ललाटन्तपः ललाटं तपतीति विग्रहः। खच्प्रत्यये मुमागमः। मध्याह्नसूर्य इति भावः। तदा हि सर्वासु

** रामः—**(स्वगतम्।)

अहो प्रश्रययोगेऽपि गतिस्थित्यासनादयः।
साम्राज्यशंसिनो भावाः कुशस्य च लवस्य च॥२३॥

वपुरवियुतसिद्धा एव लक्ष्मीविलासाः
प्रतिकलकमनीयां कान्तिमुद्भेदयन्ति।
अमलिनमिव चन्द्रं रश्मयः स्वे412 यथा वा
विकसितमरविन्दं बिन्दवो माकरन्दाः॥२४॥

भूयिष्ठं413 च रघुकुलकौमारमनयोः पश्यामि।

कठोरपारावतकण्ठमेचकं
वपुर्वृषस्कन्धसुबन्धुरांसयोः414
प्रसन्नसिंहस्तिमितं च वीक्षितं
ध्वनिश्च माङ्गल्यमृदङ्गमांसलः॥२५॥

(निपुणं निरूपयन्।) अये, न केवलमस्मद्वंशसंवादिन्याकृतिः।

अपि जनकसुतायास्तच्च तच्चानुरूपं
स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति।

————————————————————————————————————————

दिक्षु ललाटातपसंयोगोऽपरिहार्यः। अन्यदा न तथा। यथोचितं पितृत्वपुत्रत्वानुगुणम्। अहो इति। प्रश्रययोगेऽपि विनयसंबन्धेऽपि। साम्राज्यशंसिनः सार्वभौमत्वसूचकाः गतिस्थित्यासनादयः। ‘आदि’शब्देनोक्तिवीक्षणादिपरिग्रहः। भावाः क्रियाः सन्ति। अहो विस्मयनीयम्॥२३॥ वपुरिति। अवियुतसिद्धाः अपृथक्सिद्धाः लक्ष्मीविलासाः लावण्यातिशयाःप्रतिकलकमनीयामनुक्षणरमणीयां कान्तिं चारुतां वपुः शरीरं कर्म। वपुःकान्तिमुद्भेदयन्ति। द्विकर्मकोऽयं धातुः उत्पादयन्तीत्यर्थः। स्वे स्वीयाः रश्मयः मयूखाः अमलिनं निष्कलङ्कं चन्द्रमिव। माकरन्दाः मकरन्दसंबन्धिनः बिन्दवः कणाः विकसितं त्यक्तमुकुलीभावमरविन्दमिव च वपुःकान्तिमुद्भेदयन्ति॥२४॥ अनयोः कुशलवयोः भूयिष्ठं अतिशयेन बहु रघुकुलकौमारं रघुवंशसंबन्धिबालत्वम्। कठोरेति। कठोरपारावतकण्ठवत् प्राप्तयौवनकपोतकण्ठवन्मेचकं नीलम्। वृषस्कन्धवद्वृषभककुदिव सुबन्धुरं सुन्दरमंसं भुजशिखरं ययोस्तथोक्तयोः। प्रसन्नसिंहवत्कार्कश्यरहितसिंहवीक्षितवत् स्तिमितमतरलम्। माङ्गल्यमृदङ्गवन्मङ्गलार्थमृदङ्गध्वनिवन्मांसलः स्फीतः। हितादित्वाद्यत्प्रत्यये सति प्रज्ञाद्यणि च आदिवृद्धौ माङ्गल्यशब्दसिद्धिः॥२५॥ निपुणं निरूपयन् सम्यग्विचारयन्। आकृतिरस्मद्वंशसंवादिनी केवलं न भवति। अस्मद्वंशसंवादः अस्मत्कुलसादृश्यं सोऽस्यास्तीति विग्रहः।अपीति। तच्च तच्चावयवादिकं गुणजातम्। एवं च जनकसुतायाः सीतायाः अनुरूपं सदृशं तच्चावयवादिकमिह शिशुयुग्मे कुशलवयोः स्फुटं व्यक्तम्। तच्च गुणजातं च

ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो-
रभिनवशतपत्रश्रीमदास्यं प्रियायाः॥२६॥

शुक्लाच्छदन्तच्छविसुन्दरेयं
सैवोष्ठमुद्रा स च कर्णपाशः।
नेत्रे पुनर्यद्यपि रक्तनीले
तथापि सौभाग्यगुणः स एव॥२७॥

(विचिन्त्य।) तदेतत्प्राचेतसाध्युषितमरण्यं यत्र किल देवी परित्यक्ता। इयं चानयोराकृतिर्वयोऽनुभावश्च। यत्स्वतः प्रकाशान्यस्त्राणीति च415। तत्रापि स्मरामि खलु तदपि चित्रदर्शनप्रासङ्गिकं शस्त्राभ्यनुज्ञानं416 प्रबुद्धं स्यात्। न ह्यसंप्रदायिकान्यस्त्राणि पूर्वेषामपि शुश्रुमः। अयं417 विस्मयसंप्लवमानसुखदुःखातिशयो हृदयस्य मे विप्रलम्भः418। यमाविति च भूयिष्ठमात्मसंवादः419। जीवद्वयापत्यचिह्नो हि देव्या द्विगुणीभाव आसीत्। (सास्रम्।)

————————————————————————————————————————————————

नैपुणेनावहिततया उन्नेयं निश्चयार्हमस्ति विद्यते। क्रियाद्वयान्नैकशेषः। अभिनवशतपत्रस्य नूतनकमलस्य श्रीरिव श्रीर्यस्य तथोक्तमास्यंपुनरक्ष्णोर्गोचरीभूतमिव ननु भूयोऽपि चक्षुर्विषयीभूतमिव ननु संभाव्यते। द्वादशसु संवत्सरेषु चक्षुरगोचरमद्य गोचरतां गतमिति च्विप्रत्ययेन लभ्यते॥२६॥ शुक्लाच्छदन्तच्छविसुन्दरेयं ओष्ठमुद्रा अधरोत्तरोष्ठसंनिवेशः सैव सीताया एव। कर्णपाशः स एव सीतासंबन्ध्येव। नेत्रे पुनः अनयोः सीतायाश्च दृशौ तु रक्तनीले यद्यपि अनयोः रक्तेसीताया नीले एव। तथापि सौभाग्यगुणः सौन्दर्यगुणः स एव एकरूप एव॥२७॥ प्राचेतसाध्युषितं वाल्मीकिकर्तृकवासाधिकरणम्। यत्रारण्ये। आकृतिरवयवसंस्थानविशेषः। इयमीदृशम्। वयः द्वादशवत्सरपरिमितमित्यर्थः। अनुभावश्च प्रभावश्च ईदृश इति शेषः। अस्त्राणि जृम्भकाणि स्वतःप्रकाशानि गुरूपदेशेन विना ज्ञातानीति यत्। तत्रापि चित्रदर्शने प्रासङ्गिकं प्रसङ्गानुप्रसक्तं शस्त्राभ्यनुज्ञानं सर्वथा तत्प्रसवमुपस्थास्यन्तीत्यत्र कृतं प्रबुद्धं स्यात्तथा संपादनेन प्रकटं भवेदिति स्मरामीत्यन्वयः। हि यस्मादसंप्रदायकानि गुरूपदेशक्रमरहितानि अस्त्राणि पूर्वेषामपि मनुप्रभृतीनामपि नेति शुश्रुमस्तस्मात्प्रबुद्धं स्यादिति तत्रापि स्मरामीति पूर्वेण संबन्धः। विस्मये संप्लवमानः अमज्जन्सुखदुःखातिशयः हृदयस्य विप्रलम्भः विप्रयोगशृङ्गारः। प्रायेण हि स्वरूपसंतापेन प्रियजनसंयोगविप्रयोगौ सुखदुःखहेतू भवतः। ‘विस्मयसंप्लवमान’इत्यनेन विस्मयस्य प्रवाहात्मकत्वं ध्वन्यते; अजले प्लवनासंभवात्। यमाविति द्वाविति। ‘आत्मसंवादः प्रकृतानुभूयमानयमत्वानुरूपस्वपूर्वानुभवः। भूयिष्ठम्, बहुतम इत्यर्थः। सामान्ये

परां कोटिं स्नेहे420 परिचयविकासादधिगते421
रहोविस्रब्धाया अपि सहजलज्जाजडदृशः।
मयैवादौ ज्ञातः करतलपरामर्शकलया
द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया॥२८॥

(रुदित्वा।) तत्किमेतौ पृच्छामि केनचिदुपायेन।

**लवः—**तात ! किमेतत्?

बाष्पवर्षेण नीतं वो जगन्मङ्गलमाननम्।
अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम्॥२९॥

**कुशः—**अयि वत्स !

विना सीतादेव्या किमिव हि न दुःखं रघुपतेः
प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति।
स व स्नेहस्तावानयमपि वियोगो निरवधिः
किमेवं त्वं पृच्छस्यनधिगतरामायण इव॥३०॥

रामः—(स्वगतम्।) अये, तटस्थ आलापः। कृतं प्रश्नेन। मुग्ध–
———————————————————————————————————————

क्लीबत्वम्। जीवद्वयं यदपत्यं तस्य चिह्नं सूचितं यस्मिंस्तथोक्तः। परामिति। स्नेहे परिचयस्य संततसाक्षात्कारस्यविकासादतिशयात्परां कोटिमपकर्षसमानाधिकरणोत्कर्षमधिगते प्राप्ते सति। रहोविस्रब्धाया अपि लज्जाविरोधिस्वैरस्थित्यापादकदशाविशेषार्हाया अपि। अर्हे क्तः। सहजलज्जाजडदृशः अपरिहरणीयलज्जागुणेनाधीरलोचनायां आदौ प्रथमं करतलपरामर्शकलयापाण्युदरपरिमार्जनविद्ययां। ‘कला’शब्देन सूक्ष्मदर्शनं ध्वन्यते। ग्रन्थिः भस्त्रिका द्विधा अपत्यद्वयरूपप्रकारद्वययुक्तः ज्ञातः निश्चितः। तदनु मज्ज्ञानानन्तरं कैर्दिवसैः कतिपयदिवसैस्तयापि ज्ञातः सीतयाप्यवगतः॥२८॥ केनचिदुपायेन अनिर्धारणीयेन व्याजेन॥ बाष्पवर्षेणेति। जगन्मङ्गलं जगदभ्युदयहेतुभूतं वः आननमवश्यायेन हिमेनावसिक्तस्य पुण्डरीकस्य सिताम्भोजस्य। विरहपाण्डिम्ना पुण्डरीकत्वोक्तिः। चारुतां शोभां नीतं प्रापितम्। निदर्शनालंकारः॥२९॥ विनेति। सीतादेव्या विना सीतावियोगं विना रघुपतेः किं वा दुःखं न? सर्वं दुःखात्मकम्। कृत्स्नं जगत् प्रियानाशे प्रियाया अदर्शने अरण्यं भवति हि। स च स्नेहः सीताविषयकः प्रणयः स तावानपरिमितः। वियोगः निरवधिरवसानशून्यः। अनधिगतरामायण इवानधीतरामायण इव पृच्छसि ?॥३०॥ तटस्थः अस्मज्जिज्ञासितसीतापुत्रत्वात्स्पर्शनेन उक्तमित्यर्थः। आकस्मिकः निष्कारणिकः संप्लवाधिकारः प्लुतगमनान्वयः, दुर्लभविषयमनोरथायासः किमर्थं इति यावत्।

हृदय ! कोऽयमाकस्मिकस्ते संप्लवाधिकारः422? एवं चनिर्भिन्नहृदयावेगः शिशुजनेनाप्यनुकम्पितोऽस्मि। भवतु तावदन्तरयामि। (प्रकाशम्।) वत्सौ ! रामायणं रामायणमिति श्रयते भगवतो वाल्मीकेः सरस्वतीनिष्यन्दः प्रशस्तिरादित्यवंशस्य तत्कौतूहलेन यत्किंचिच्छ्रोतुमिच्छामि।

**कुशः—**स कृत्स्न एव संदर्भोऽस्माभिरावृत्तः। स्मृतिप्रत्युपस्थितौ तावदिमौ बालचरितस्यासाते423 द्वौ श्लोकौ।

रामः— उदीरयतं वत्सौ !।

** कुशः—**

प्रिया तु सीता रामस्य दाराः पितृकृता इति।
गुणै रूपगुणैश्चापि प्रीतिर्भूयोऽप्यवर्धत
424॥३१॥

तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत्।
हृदयं त्वेव जानाति प्रीतियोगं परस्परम्॥३२॥

**रामः—**कष्टमतिदारुणो हृदयमर्मोद्धातः। हा देवि ! एवं किलैतदासीत्। अहो निरन्वयविपर्यासविप्र425लम्भस्मृतिपर्यवसायिनस्तावकाः426 संसारवृत्तान्ताः।

——————————————————————————————————————

अन्तरयामि छादयामि। सरस्वत्याः वाण्याः निष्यन्दः द्रवः। आदित्यवंशस्य प्रशस्तिः प्रख्यातिहेतुः। रामायणं रामायणमिति श्रूयते। श्रवणबहुत्वाभिप्रायं द्विरुक्तम्। तत्र तदेकदेशं यत्किंचिच्छ्रोतुं इच्छामि। कौतूहलं हर्षः॥ कृत्स्न एव सकल एव संदर्भः ग्रन्थः आवृत्तः उपाध्यायासहकारेण स्वमात्रेणोच्चारणानुकूलावृत्तिविशेषः कृतः। स्मृतिं प्रत्युपस्थितौ अद्य स्मृतिविषयभूतौ। बालचरितस्य बालकाण्डस्यान्ते सर्गान्ते द्वौ श्लोकौ द्वे पद्ये॥ वत्सौ संबोधनद्विवचनम्। उदीरयतं वदतम्। विधौ लोण्मध्यमद्विवचनम्॥ प्रिया त्विति। सीता पितृकृता दारा इत्येव रामस्य गुणैः शीलादिभिः। रूपगुणैरभूषितेष्वप्यङ्गेष्विति लक्षणलक्षितरूपप्रभृतिगुणैश्च प्रीतिर्भूयोऽप्यवर्धत॥२१॥ तथैवेति। तथैव यथा रामस्य सीता प्रिया तथा रामः सीतायाः प्रियोऽभवत्। हृदयं त्वेव। एवकारेण सीतारामयोरपि स्वप्रीतिज्ञानव्यावृत्तिः। प्रीतियोगं प्रीतेरुत्तरोत्तरवृद्धिसंनाहम्। ‘योगः संनहन—’ इत्युक्तेः। जानाति॥३२॥ हृदयमेव मम मर्मस्योद्धातः प्रहारः दारुणः दुःसहः। हा देवीत्यादि। एतद्वक्ष्यमाणमेवमासीद्वक्ष्यमाणप्रकारेणासीत्। यद्वा,—प्रिया तु—’ इत्यादिश्लोकद्वयोक्तमेवमासीद्यथोक्तमभूत्। हा दुःख्यते। अहो इत्यादि। निर-

क्व तावानानन्दो निरतिशयविस्रम्भबहुलः
क्व वाऽन्योन्यप्रेम क्व च नु गहनाः कौतुकरसाः।
सुखे वा दुःखे वा क्व नु खलु तदैक्यं हृदययो-
स्तथाप्येष प्राणः स्फुरति न तु पापो विरमति॥३३॥

भोः कष्टम्,–

प्रियागुणसहस्राणां क्रमोन्मी427लनतत्परः।
य एव दुःसहः428 कालस्तमेव स्मारिता वयम्॥३४॥

––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––

न्वयविपर्यासे निरन्वयविनाशे ‘अयं तु विप्रलम्भः’ इत्युक्तेः विश्लेषस्य निरन्वयविनाशत्वोक्तिः। दीपस्य निर्वाणजन्यो ध्वंसः निरन्वयविनाशः। तस्यैव उत्तरोत्तरदशासंक्रमणलिङ्गानुमेयो ध्वंसोऽन्यः। सीताया मरणरूपेऽस्मिन्निरन्वयविनाशे विप्रलम्भस्मृतिपर्यवसायिनः। विप्रलम्भश्च स्मृतिश्च विप्रलम्भस्मृती। विप्रलम्भो वञ्चनं तच्च परेच्छाधीनभ्रमः। स्मृतिर्भूतपूर्वविषयकं ज्ञानम्। तत्पर्यवसायिनस्तद्विषयतामात्रवन्तः दैववञ्चनास्मरणमात्रविषयाः संसारवृत्तान्ताः प्रणयभोगादयः, नतु वस्तुसत्तावन्त इति भावः। यद्वा,–निरन्वयविपर्यासात्मको विप्रलम्भः अन्यतरनाशात्मकविरहहेतुकविप्रलम्भशृङ्गारस्तस्मिन् स्मृतिपर्यवसायिनः स्मृतिविषयतामात्रवन्तो भवन्तीत्यर्थः। अभिलाषेर्ष्याप्रवासकलहविरहहेतुत्वेन विप्रलम्भशृङ्गारस्य पञ्चविधत्वात्। ‘संभोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः। संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्तयोः॥’ इत्यादिकमिहानुसंधेयम्। युक्तश्चायमर्थो नाटकस्थविप्रलम्भशृङ्गारपरत्वस्वारस्यात्। केचित्तु–अन्वयश्च विपर्यासश्च अन्वयविपर्यासौ।अन्वयव्यतिरेकावित्यर्थः। तौ न विद्येते येषां ते निरन्वयविपर्यासाः। अन्वयव्यतिरेकशून्या इत्यर्थः। विप्रलभ्यन्ते भ्राम्यन्ते एभिरिति विप्रलम्भाः। बाहुलकात्करणे घञ्प्रत्ययः। अवयव्यतिरेकशून्यत्वेन सद्विलक्षणतया तुच्छत्वेन विषयतासंबन्धेन भ्रममात्रहेतवः स्मृतिपर्यवसायिनः स्मृतिमात्रविषयातीतघटादिवदर्थक्रियाकारित्वविधुरा इति व्याचक्षते। क्वेति। निरतिशयेनानपकृष्टेन विस्रम्भेण भोगदशायां स्वैरस्थित्युपपादकः लज्जाविरोधिज्ञानविशेषेण बहुलः स्फारः सः तावानपरिमेय आनन्दः। क्व गत इति शेषः। अन्योन्यस्य प्रेम परस्परविषयकं च परस्पराधिकरणकं च प्रेम प्रणयः क्व ?।गहना अगाधाः कौतुकरसाः भोगाभिलाषाः क्व? हृदययोः मम तस्याश्च मनसोः सुखे वा दुःखे वा सुखदुःखानुभवकाले तदैक्यमभिन्नत्वं च। तच्छब्देन हृदयैक्यस्य दौर्लभ्यं द्योत्यते। तथापि एतेषु सर्वेषु गतेष्वपि पापः मरणप्रतिबन्धकपापवान्। पापगुणसारत्वात्पापत्वव्यपदेशः। एष प्राणः आत्मा स्फुरति, न विरमति न नश्यति॥३३॥ प्रियेति। प्रियागुणसहस्राणां सौन्दर्यसौजन्याद्यनन्तगुणानाम्। ‘संख्यायां द्विबहुत्वे स्तः’ इत्युक्तेः बहुवचनम्। क्रमेण उन्मीलनतत्परः प्रकाशनासक्तः क्व कालः दुःसहः ?।तमेव कालं वयं स्मारितास्तद्विषयकस्मरणवन्तः कृताः॥३४॥

यदा किंचित्किंचित्कृतपदमहोभिः कतिपयै-
र्यदीषद्विस्तारि स्तनमुकुलमासीन्मृगदृशः।
वयःस्नेहा429कूतव्यतिकरघनो यत्र मदनः
प्रगल्भव्यापारः स्फुरति हृदि मुग्धश्च वपुषि॥३५॥

**लवः—**अयं तु चित्रकूटवर्त्मनि430 मन्दाकिनीविहारे सीतादेवीमुद्दिश्य रघुपतेः श्लोकः।

त्वदर्थमिव विन्यस्तः शिलापट्टोऽयमायतः431
यस्यायमभितः पुष्पैः प्रवृष्ट इव केसरः॥३६॥

रामः—(सलज्जास्मितस्नेहकरुणम्।) अति हि नाम मुग्धः शिशुजनः विशेषतस्त्वरण्यचरः। हा देवि ! स्मरसि वा तस्य432 तत्समयविस्रम्भातिप्रसङ्गस्य।

———————————————————————————————————————

यदेति। कृतपदं सूचितरेखाकारसंनिवेशं तत् मृगदृशः सीतायाः स्तनमुकुलं कतिपयैरहोभिर्दिवसैरीषद्विस्तारि यस्मिन् काले अभवत्। ‘यतः स्नेह—’ इति पाठे स्नेहाकूतयोः अनुरागाभिलाषयोर्व्यतिकरस्य संपर्कस्य घनः मेदुरता यतः। यादृशकालहेतुक इत्यर्थः। ‘वयःस्नेहाकूत—’ इति पाठे तु—यत्र काले वयसस्तरुणस्य स्नेहस्यानुरागस्य आकूतस्याभिप्रायस्य च व्यतिकरेण घनः सान्द्रः। धर्मपरो धर्मिपरश्चायं शब्दः मदनविशेषणम्। मदनः मन्मथः कर्ता हृदि प्रगल्भव्यापारः सन् मनस्यतिशयितशरपातनादिचेष्टायुक्तः सन्वपुषि मुग्धश्च सन्नप्रकटः सन् स्फुरति वर्तते। तमेव कालं स्मारिता वयमित्यन्वयः। अनेन श्लोकेन मुग्धालक्षणं स्फोरितम्। पात्रयेण ‘उदयद्यौवना मुग्धा’ इति दलमुक्तम्। तुरीयपादेन च ‘लज्जाविजितमन्मथा’ इति दलमुक्तम्॥३५॥ चित्रकूटवर्त्मनि चित्रकूटपर्वतमार्गे मन्दाकिनीविहारे गङ्गातीरनीरक्रीडायां सीतादेवीमुद्दिश्य सीताबोधेच्छया। त्वदर्थमिति। अयं केसरः बकुलवृक्षः यस्याभितः यदीयेषु चतसृषु पार्श्वेषु प्रवृष्ट इव पुष्पकरणकप्रवर्षणकर्तेत्युत्प्रेक्षते। सोऽयमायतः शिलापट्टस्त्वदर्थं विन्यस्त इव। उत्प्रेक्षाद्वयम्। अयममितः केसरः परितो वर्तमानः केसरवृक्षः। यस्य प्रवृष्ट इव भविष्यत्त्वदुपदेशमूलकयदधिकरणकपुष्पवृष्टिकर्तेत्युत्प्रेक्षते। अयं त्वदर्थं विन्यस्त इव। अयं श्लोको रामायणलेखकैः प्रभ्रंशित इति वदन्ति॥३६॥ लज्जा रहस्यप्रकाशनाद्धृदयसंकोचः। स्मितं विस्मयात्। शिशुजनः अतिमुग्धो हि नामेति योज्यम्। अरण्यचरस्तु ‘विशेषतो मुग्धः। तस्य पूर्वानुभूतस्य तस्मिन्समये ‘त्वदर्थम्—’ इत्यादिश्लोकार्थसमये यो विस्रम्भः लज्जाप्रतिघातेन स्वैरस्थित्यापादकज्ञानविशेषः तेन योऽतिप्रसङ्गः भोगातिमात्रता तस्येमित्यर्थः। स्मरसि। ‘अधीगर्थदयेशां—’ (पा.२।३।५२) इति कर्मणि

श्रमाम्बुशिशिरीभवत्प्रसृतमन्दमन्दाकिनी-
मरुत्तरलितालकाकुलललाटचन्द्रद्युति।
अकुङ्कुमकलङ्कितोज्ज्वलकपोलमुत्प्रेक्ष्यते
निराभरणसुन्दरश्रवणपाशमुग्धं मुखम्॥३७॥

(स्तम्भित इव स्थित्वा, सकरुणम्।) अहो न खलु भोः,–

चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः
प्रवासे चाश्वासं न खलु न करोति प्रियजनः।
जगज्जीर्णारण्यं भवति च कलत्रेऽप्युपरते433
कुकूलानां राशौ तदनु हृदयं पच्यत इव॥३८॥

(नेपथ्ये।)

वसिष्ठो वाल्मीकिर्दशरथमहिष्योऽथ जनकः
सहैवारुन्धत्या शिशुकलहमाकर्ण्य सभयाः।
जराग्रस्तैर्गात्रैरथ खलु सुदूराश्रमतया
चिरेणागच्छन्ति त्वरितमनसोविश्लथजटाः434॥३९॥

——————————————————————————————————————————————

षष्ठी। श्रमाम्ब्विति। ‘श्रमाम्बुशिशिरीभवत्’ इदं भिन्नं पदं मुखविशेषणम्। सुरतकालजस्वेदसलिलेन शीतलीभवत्। अलकाकुला कीर्णकुन्तलैर्व्यक्ताचन्द्रसदृशललाटद्युतिः यस्य तथोक्तम्। संजातः कलङ्को यस्मिन् कलङ्कितः, कुङ्कुमेन कलङ्कितो न भवतीत्यकुङ्कुमकलङ्कितः। अत एवोज्ज्वलः लावण्यातिरोधानेन प्रकाशमानः कपोलो यस्य तथोक्तम्। कुङ्कुमस्य कलङ्कत्वोक्त्यान केवलमाभरणस्याभरणं किंतु आभरणासहमिति व्यज्यते। निराभरणस्ताटङ्कमौक्तिकगुच्छादिभूषणरहितोऽपि सुन्दरः यः श्रवणपाशः पाशसदृशकर्णसंनिवेशस्तेन मुग्धं सुन्दरमुत्प्रेक्ष्यते संभाव्यते॥३७॥ चिरं ध्यात्वेत्यादि। अत्र श्लोके स्थितस्य जनस्येत्यध्याहार्यम्। प्रियजनः कर्ता प्रवासे देशान्तरगमने चिरं ध्यात्वा ध्यात्वा स्थितस्य पुरतो निर्माय निहित इव। अनवरतभावनाप्रकर्षयुक्तस्य जनस्य पुरस्तावत्तेन भावनाप्रकर्षेण सृष्ट्वा स्थापित इव। आश्वासं न करोतीति न स्वस्य पुनरागमनेन संतोषं करोत्येव। प्रियजने प्रोषितं ध्यायति सति तदानीमागतप्रोषितस्तेन ध्यानेन मृष्ट इत्युत्प्रेक्षार्ह इति भावः। कलत्रेऽप्युपरते च कलत्रनाशे तु जगत् कर्तृ जीर्णारण्यं शून्यकल्पं भवति। प्रवासवत्पुनरागमनशङ्काभावेन भावनाप्रकर्षस्यालीकत्वान्नाश्वासहेतुरिति भावः। तदनु जगज्जीर्णारण्यकानन्तरं हृदयं कर्तृ कुकूलानां राशौ तुषाग्नीनां समुदाये पच्यत इव पक्वंभवतीव। कर्मकर्तृलकारोऽयम्। आतिदेशिकयगादयः॥३८॥ दशरथमहिष्यः कौसल्यादयः शिश्वोर्लवचन्द्रकेत्वोः कलहं युद्धमाकर्ण्य जरया वार्धक-

**रामः—**कथं भगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चात्रैव? कथं खलु ते द्रष्टव्याः? (सकरुणं विलोक्य।) तातजनकोऽप्यत्रैवायात इति वज्रेणेव ताडितोऽस्मि मन्दभाग्यः।

संबन्धस्पृहणीयताप्रमुदितैर्ज्येष्ठै435र्वसिष्ठादिभि-
र्दृष्ट्वापत्यविवाहमङ्गलविधौ तत्तातयोः संगमम्।
पश्यन्नीदृशमीदृशः पितृसखं वृत्ते महावैशसे
दीर्ये किं न सहस्रधाऽहमथवा रामेण किं दुष्करम्॥४०॥

(नेपथ्ये।)

भो भोः, कष्टम्,—

अनुभावमात्रसमवस्थितश्रियं
सहसैव वीक्ष्य रघुनाथमीदृशम्।
प्रथमप्रबुद्धजनकप्रबोधिता436
विधुराः प्रमोहमुपयान्ति मातरः॥४१॥

——————————————————————————————————————

प्रयुक्तशैथिल्येन ग्रस्तैर्व्याप्तैर्गात्रैरुपलक्षितः। सुदूर आश्रमो यस्माद्रणरङ्गात्तथोक्तम्। तस्य भावः सुदूराश्रमता तया। चिरेण बहुकालेन॥३९॥ कथं द्रष्टव्याः केन प्रकारेण द्रष्टव्याः? तातजनकोऽपि। भार्यापितृत्वात्स्वपितृत्वोपचारः। वज्रेणेव अशनिघातेनेव ताडितोऽस्मि व्यथितोऽस्मि। संबन्धेति। संबन्धस्यापत्यसंबन्धस्य स्पृहणीयतया श्लाघ्यतया प्रमुदितैः प्रकृष्टमोदयुक्तैः वसिष्ठादिभिः। ‘आदि’शब्देन गौतमकौशिकादिपरिग्रहः। अपत्यविवाहमङ्गलविधौ मम तस्याश्च पाणिग्रहणकर्मणि। तत्तातयोस्तथाविधजनकदशरथयोः सङ्गमं संमेलनं दृष्ट्वा महावैशसे वृत्ते सीतात्यागरूपमहाहिंसायां पितृसखं जनकमीदृशमत्यन्तदुःखितमीदृशः पश्यन् वैशसनिमित्तभूतः पश्यन्नहं किं कुतः सहस्रधा अनन्तभासतया न दीर्ये विदारितो न भवामि। अथवा विदारणाभावे रामेण दुष्करं किं? न किमपि। रामेण दुष्करं दारणाभावो वा इतोऽप्यन्यद्वा सर्वं सुकरमिति भावः॥४०॥ अनुभावमात्रेति। अनुभावमात्रेण अनितरसाधारणमहापुरुषत्वेन समवस्थिता समवस्थार्हा निश्चयार्हाश्रीरैश्वर्यं यस्य तथोक्तम्। प्रथमप्रबुद्धेन कौसल्याद्यपेक्षया पूर्वोत्पन्नप्रत्यभिज्ञापकेन जनकेन प्रबोधिताः प्रत्यभिज्ञापिताः मातरः अनुभावमात्रसमवस्थितश्रियमीदृशं रघुनाथं वीक्ष्य विधुराः सत्यः शून्यकरणाः सत्यः प्रमोहं प्रकृष्टां मूर्च्छामुपयान्ति प्राप्नुवन्तीत्यन्वयः

** रामः—**

जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम्।
तत्राप्यकरुणे पापे वृथा वः करुणा मयि॥४२॥

यावत्संभावयामि। (इत्युत्तिष्ठति।)।

कुशलवौ— इत इतस्तातः437

(सकरुणाकुलं परिक्रम्य निष्क्रान्ताः सर्वे।)

इति षष्ठोऽङ्कः।

<MISSING_FIG href="../books_images/U-IMG-1727636668Untitled.jpg"/>

————————————————————————————————————————————

॥४१॥ जनकानामिति। जनकानां रघूणां च कृत्स्नं गोत्रमङ्गलमखण्डं कुलश्रेयः। तत्रापि तथाविधसीतायामपि अकरुणे तद्दुःस्वाधीनदुःखवत्त्वरूपकरुणारहिते मयि वः युष्माकं करुण।मद्दुःखाधीनदुःखवत्ता वृथा। ‘दयया सर्वभूतेषु’ इत्युक्तादृष्टविशेषमात्ररूपप्रयोजनेनापि शून्येत्यर्थः॥४२॥ यावत्संभावयामि अभ्युत्थानाभिवादनादिभिः पुरस्करिष्यामि। ‘यावत्पुरानिपातयोः’ (पा. ३।३।४) इत्युत्तिष्ठति उत्थानममिनयति॥ इत इतस्तातः। अत्रागच्छत्विति शेषः। मार्गदर्शनपरमिदं वाक्यम्॥ निष्क्रान्ताः रङ्गस्थानादिति शेषः। सर्वे। वसिष्ठाद्येतदङ्काभिनेयभूमिकाधारिण इत्यर्थः॥

दाशरथिवंशजनुषो भूसारनिवासवीरराघवार्यस्य।
उत्तररामचरितनाटकव्याख्यायामवसितोऽङ्कः षष्ठः॥

इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतल-
स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां
षष्ठोऽङ्कः।

——————

सप्तमाङ्कस्य कथावस्तु

तत्रभगवता वाल्मीकिमहर्षिणादिष्टो लक्ष्मणः परमपावन्याः सुरसरितः पुलिने सुरुचिरं रङ्गवाटमुपकल्प्य लावण्यवतीभिरप्सरोभिरभिनेयं वाल्मीकिविरचितमन्तर्नाटकं द्रष्टुमुपनिमन्त्रयामासाखिलान्प्रजाजनान्। तत्रोपस्थितानां तेषां समुचितस्थानेषु समुपवेशनं च तेन कृतम्। ततश्चैतदुपनाटकस्य प्रारंभः सूत्रधारादिपात्रप्रवेशेन निष्पन्नोऽभूत्। स्वस्थानापन्ना रामादयः सीतावननिर्वासनानन्तरिकं करुणविप्रलंभरसपरिप्लुतं पुरावृत्तं तत्रावलोकयामासुः। आसन्नप्रसवायाः सीताया गङ्गायामात्मविसर्जनम्, पृथ्वीगङ्गाभ्यां सीतासंरक्षणम्, लवकुशजननम्, कुमारयोः क्षात्रसंस्कारार्थं वाल्मीक्यर्पणमित्यादि वृत्तं यथायथं तत्रावलोक्य रामोऽवचनीयामतिकरुणावस्थां समवाप्तवान्। अथ चास्मिन्नुपनाटकेऽपत्यप्रसवात्परं सीता तिरोहिताऽभूत्। सा च भागीरथीपृथ्विभ्यांसंगता सलिलाद्बहिरागत्य स्वीयजनैः सह संमीलिताऽभवत्। ततश्चारुन्धती पौरानित्थं पप्रच्छ ‘जाह्नवीवसुन्धराभ्यां प्रशस्यमाना त्रैलोक्यपावकेन पावकेन चेत्थं निर्णीतविमलचरिता सीता इयं परिगृह्यताम्, कथमिह भवन्तो मन्यन्ते?’ इति सोपालम्भमापृष्टे सति रङ्गसमोपस्थिताः समस्ता अयोध्याभिजना लज्जयावनतमुखा अभूवन्। कृत्स्नो भूतग्रामो हि सीतां सानुतापं नमश्चकार, सलोकपालाः सप्तर्षयश्च तदा पुष्पवृष्ट्या सीतामभिननन्दुः। वाल्मीकिरपि शुभाशंसनपुरसरं भार्यासुतसमर्पणात्परमिष्टं भूयस्ते किमुपहरामीति रामं पप्रच्छ। रामस्तु जगद्धितकरीं रामायणकथां सदा सर्वे परिभावयन्त्विति सानुनयं वव्रे।

(ततः प्रविशति लक्ष्मणः।)

** लक्ष्मणः —**भोः438, किं नु खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौरजानपदाः प्रजाः सहास्माभिराहूय कृत्स्न एव सदेवासुरतिर्यङ्निकायः439 सचराचरो भूतग्रामः स्वप्रभावेण संनिधापितः। आदिष्टश्चाहमार्येण—‘वत्स लक्ष्मण ! भगवता वाल्मीकिना स्वकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टुमुपनिमन्त्रिताः स्मः। गङ्गातीरमातोद्यस्थानमुपगम्य क्रियतां समाजसंनिवेशः’ इति। कृतश्च मर्त्यामर्त्यस्य भूतग्रामस्य समुचितस्थानसंनिवेशो मया। अयं तु,—

राज्याश्रमनिवासोऽपि440 प्राप्तकष्टमुनिव्रतः।
वाल्मीकिगौरवादार्य इत एवाभिवर्तते॥१॥

—————————————————————————————————————

अथ समग्रप्रयोजनक्रोडीकाररूपनिर्वहणसंधिं सप्तमेन वक्ष्यन् चमत्कृतिविशेषलाभाय परित्यागानन्तरभाविनीं सीतायाः दशामन्तर्नाटकेन विवक्षंस्तदुपक्षेपिकां लक्ष्मणप्रवेशतीं रङ्गरचनामाह–ततः प्रविशति लक्ष्मण इति। ततः षष्ठाङ्कप्रयोगादनन्तरम्। भोः किं नु खल्वित्यादि। भो इति हृदयं प्रति संबुद्धिः। किं नु संनिधापित इति योजना। भगवता षाड्गुण्यवता। ब्रह्म ब्राह्मणाः, क्षत्रं क्षत्रियाः, पौरा अवशिष्टाः पुरवासिजनाः, जानपदा देशवासिजनाः, एतैः सहिताः अस्माभिः सह प्रजा आहूय कृत्स्ना एवाखिल एव देवाः इन्द्रादयः, असुराः निर्ऋतिप्रभृतयः, तिर्यञ्चः नागादयः, एतेषां निकायो वर्गस्तेन सहितः भूतानां प्राणिनां ग्रामः समूहः। सचराचरः सस्थावरजङ्गमः। स्वप्रभावेण स्वतपःशक्त्यतिशयेन किं नु संनिधापितः। किं न्विति विस्मये। आर्येण रामेणादिष्ट आज्ञप्तः। स्वकृतिं स्वग्रन्थम्। अप्सरोभिः उर्वशीप्रभृतिभिः प्रयुज्यमानाममिनीयमानां द्रष्टुमुपनिमन्त्रिताः स्मः आवश्यकत्वेनाहूता भवामः। गङ्गातीरं गङ्गाकूलम्। आतोद्यस्य नृत्तगीतवाद्यसमुदायस्य, स्थानं प्रवर्तनाधिकरणमुपगम्य प्राप्य समाजस्य सदसः संनिवेशः यथोचितस्थानविभागः क्रियतामित्यादिष्टश्चाहमिति पूर्वेणान्वयः। सीताया गङ्गाजलादुद्गमनसौकर्याय गङ्गातीरस्य रङ्गत्वकल्पनम्। सलिलादुपैति हीति वक्ष्यते। मर्त्यः मरणार्हः, अमर्त्यः तदनर्हः। मर्त्यश्चासावमर्त्यश्चेति विशेषणयोः समासः। नित्यानित्यात्मकस्येत्यर्थः। भूतग्रामस्य पृथिव्यादिभूतसमुदायस्य समुचितस्थानस्याधिकारानुरूपस्थानस्य संनिवेशं प्रतिष्ठापनम्। पूर्वमाज्ञापनप्रकारकथनम्, अद्य त्वनुष्ठानकथनमिति न पुनरुक्तिः। अयं तु—राज्येति। राज्यं भूमिपरिपालनात्मकराजकर्म तदेवाश्रमः स्वैराचारप्रतिबन्धकनियमविशेषः सुखाल्पत्वदुःखभूयस्त्वाभ्यामाश्रमत्वरूपणम्। प्राप्तं कष्टं दुःखरूपं मुनिव्रतं येन तथोक्तः वाल्मीकौ वाल्मीकेर्वा गौरवाद्गुरुत्व**-**

(ततः प्रविशति रामः।)

**रामः—**वत्स लक्ष्मण ! अपि स्थिता रङ्गप्राश्निकाः ?

लक्ष्मणः— अथ किम्।

रामः— इमौ पुनर्वत्सौ कुमारचन्द्रकेतुसमां प्रतिपत्तिं लम्भयितव्यौ।

**लक्ष्मणः—**प्रभुस्नेहप्रत्ययात्तथैव कृतम्। इदं चास्तीर्णं राजासनम्। तदुपविशत्वार्यः।

रा441मः—(उपविश्य।) प्रस्तूयतां भोः।

सूत्रधारः— (प्रविश्य।) भगवान्भूतार्थवादी प्राचेतसः स्थावरजङ्गमं जगदाज्ञापयति—यदिदमस्माभिरार्षेण चक्षुषा समुद्वीक्ष्य पावनं वचनामृतं करुणाद्भुतरसं च किंचिदुपनिबद्धम्, तत्र काव्य442गौरवादवधातव्यमिति।

——————————————————————————————————————

प्रतिपत्त्या पूजनीयत्वानुसंधानेन॥१॥ रङ्गस्य नाट्यस्थानस्य प्राश्निकाः सामाजिकाः। रङ्गस्थले राज्ञा सह द्रष्टार इत्यर्थः। प्रश्नं ज्ञातव्यार्थजिज्ञासामर्हन्तीति प्राश्निकाः। तदर्हाधिकारीयष्ठञ्। समस्तशास्त्रनिष्णातहृदया इति भावः॥ अथ किमित्यङ्गीकारे॥इमौ वत्सौ। कुशलवावित्यर्थः। कुमारश्चासौ चन्द्रकेतुश्च तेन समां प्रतिपत्तिं लालनीयत्वादिधियं लम्भयितव्यौ प्रापयितव्यौ॥ प्रभो राज्ञः स्नेहेन कुशलवविषयप्रीत्या यः प्रत्ययस्तथैव कार्यमिति व्यवसायः। तस्मादिदं चास्तीर्णं राजासनं सिंहासनस्यास्तीर्णसंभवेऽपि अन्यत्तद्योग्यमासनमास्तीर्णमिति मन्तव्यम्। कृत्स्न एव सदेवासुरेति ब्रह्मन्द्रादीनामपि तत्र संनिधापितत्वोक्त्या तदैकरूप्याय सिंहासनातिरेकेणास्तीर्णार्हासनस्यैव युक्तत्वात्। एतेनात्र कवेः प्रमादवचनं प्रयुक्तम्, अत एव ‘स चापि रामः परिषद्गतः शनैर्बुभूषयासक्तमना बभूव ह’ इति बालकाण्डश्लोके परिषद्गत इति सिंहासनादवरुह्य परिषदि जनानामुत्थानाशङ्कया शनैः स्थित इति व्याख्यातमस्मदाचार्यैः। सर्वे रामादय इत्यर्थः। प्रस्तूयताम्, अभिनय आरभ्यतामित्यर्थः॥ प्रविश्य सूत्रधारः। अन्तर्नाटकीयसूत्रधारः प्रविश्याहेत्यर्थः। भगवान् ज्ञानादिषाङ्गुण्यपूर्णः। भूतार्थं सत्यमभिधेयं वदतीति भूतार्थवादी। ‘सुप्यजातौ’ (पा.३।२।७८) इति णिनिः। ‘युक्ते क्ष्मादावृते भूतम्’ इति कोशः। प्रचेतसो वरुणस्यापत्यं पुमान् प्राचेतसः। स्थावरं च तज्जङ्गमं च विशेषणयोः समासः। आज्ञापयति अकरणदण्डप्रयोजकविधिराज्ञा तां करोतीत्यर्थः। आर्षेणालौकिकेन चक्षुषा दृष्ट्या योगजप्रत्यासत्तिसहकृतपरिशुद्धान्तःकरणेन समुद्वीक्ष्य सम्यगतिशयेन साक्षात्कृत्य। अत्र ‘रहस्यं च प्रकाशं च यथावत्संप्रपश्यसि’ इत्यादिकं द्रष्टव्यम्। पावनं स्वदर्शनादन्येषां शुद्धिजननम्। अनेन ‘काव्यालापांश्च वर्जयेत् इति निषेधोऽन्यपर इति सूचितम्। वचनरूपममृतं सुधा यस्मिंस्तथोक्तम्।

**रामः—**एतदुक्तं भवति साक्षात्कृतधर्माणो महर्षयः443। तेषामृतंभराणि भगवतां परोरजांसि प्रज्ञानानि न कचिद्व्याहन्यन्त इति444 नहि शङ्कनीयानि।

(नेपथ्ये।)

हा अज्जउत्त कुमार लक्खण ! एआइणिं असरणं आसण्णप्पसववेअणं अरण्णेहदासं सावदा मंअहिलसंदि। हा, दाणि मंदभाइणी भाईरहीए अत्ताणं णिक्खिविस्सं। [हा आर्यपुत्र ! कुमार लक्ष्मण ! एकाकिनीमशरणामासन्नप्रसववेदनामरण्ये हताशां श्वापदा मामभिलषन्ति। हा, इदानीं मन्दभाग्या भागीरथ्यामात्मानं निक्षिपामि।]

**लक्ष्मणः—**कष्टं बतान्यदेव किमपि।

————————————————————————————————————————

भोग्यत्वेन सादृश्यरूपणम्। करुणश्चाद्भुतश्च करुणाद्भुतौ रसौयस्मिंस्तत्तथोक्तम्। इष्टजनवियोगजन्यदुःखातिभूमिरूपः शोकः सहकारिभूतविशिष्टदेशकालकाव्यनिपुणनटचेष्टादिवशात्सामाजिकैर्भाव्यमानो निरतिशयस्वप्रकाशानन्दमयरसतां प्रतिपाद्यत इति रसविदां संप्रदायः। अद्भुतश्च तथाविधो विस्मयः। गङ्गाप्रवाहपतनं तत्रत्यप्रस्रववर्णनादिनाद्भुतरसयुक्तत्वम्। किंचिन्मार्गरूपकमित्यर्थः। उपनिबद्धं ग्रथितम्। तत्र रूपके काव्यगौरवात्काव्यस्य रूपकरूपस्य तद्गौरवान्महनीयत्वादवधातव्यं मनसो विषयान्तरसंचारराहित्यरूपमवधानं कर्तव्यमित्याज्ञापयतीति संबन्धः॥ साक्षात्कृतो धर्मोऽलौकिकश्रेयःसाधनरूपो यैस्तथोक्ताः। महान्तश्च ते ऋषयः महर्षयः। ‘ऋषयः सत्यवचसः’ इत्यमरः। ‘अमृतं भराणि’ इति क्वचित्पाठः। इदं च पदद्वयम्। बिभर्तीति भरम्। पचाद्यच्। त्रिलिङ्गत्वान्नपुंसकबहुवचनोत्पत्तौ भराणीति भवति। अमृतमिति कर्मणि द्वितीया। अमृतकर्मकभरणकर्तॄणीत्यर्थः। ‘कर्तृकर्मणोः कृति’ (पा. २।३।६५) इत्यस्मानित्यत्वान्न षष्ठी। तज्ज्ञापकं तु ‘तदर्हम्’ (पा.५।१।११७) ‘अन्तर्धौयेनादर्शनम्’ (पा० १।४।२८) इति निर्देशद्वयमिति स्पष्टं व्याकरणपरिशीलनशालिनाम्। ‘धायैरामोदमुत्तमम्’ (६।७९) इति भट्टिप्रयोगान्नाप्रयुक्तत्वशङ्का। एतेन ‘अमृतंभराणि’ इति कवेः प्रमाद इति वदन् व्याख्याता निरस्तः। अमृतभरणकर्तृत्वं चेह मोक्षसाधनत्वरूपम्। यद्वा, —‘ऋतंभराणीति दारानर्थयन्ति’, ‘ऋतंभरां च मां प्राहुः’ इत्युक्तेः संज्ञाशब्दत्वात्संज्ञायां खच्प्रत्ययः। ‘ऋतंभराभिधानम्’ इत्युक्तेश्च। रजसः पराणि परोरजांसि, परिशुद्धानीत्यर्थः। ‘शुद्धमरजस्कं परोरजः’ इति कोशः। तेषां भगवतां प्रज्ञानानि प्रमादरहितानि ज्ञानानि न व्याहन्यन्ते। अयथार्थानि न भवन्तीत्येतदुक्तं भवतीति पूर्वेणान्वयः। नहि शङ्कनीयानि, अप्रामाण्यसंशयानर्हाणीत्यर्थः॥ नेपथ्येइति। इदं चाङ्काभिनेयसीताप्रवेशाद्युपक्षेपम्। एकाकिनीमेकाम्। आसन्नप्रसववेदनां समीपागतप्रसूतिव्यथाम्। हताशां व्यर्थमनोरथाम्। श्वापदाः दुष्टमृगाः। अमिलषन्ति

** सूत्रधारः—**

विश्वंभरात्मजा देवी राज्ञा त्यक्ता महावने।
प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति॥२॥

(इति निष्क्रान्तः।)
प्रस्तावना।
——————

रामः—(सावेगम्।) देवि देवि ! लक्ष्मणमवेक्षस्व।

लक्ष्मणः— आर्य ! नाटकमिदम्।

रामः— हा देवि दण्डकारण्यवासप्रियसखि ! एष ते रामाद्विपाकः।445

**लक्ष्मणः—**आर्य ! आश्वस्य दृश्यताम्446। प्रबन्धस्त्वार्षः।

रामः— एष सज्जोऽस्मिवज्रमयः।

(ततः प्रविशति उत्सङ्गितैकैकदारकाभ्यां पृथिवीगङ्गाभ्यामवलम्बिता प्रमुग्धा सीता।)

**रामः—**वत्स ! असंविज्ञातपदनिबन्धने447 तमसीवाहमद्य प्रविशामि धारय माम्।

देव्यौ—

समाश्वसिहि कल्याणि! दिष्ट्यावैदेहि ! वर्धसे।
अन्तर्जले प्रसूतासि रघुवंशधरौ सुतौ॥३॥

—————————————————————————————————————

भक्षितुमिच्छन्ति। भागीरथ्यां गङ्गायामात्मानं निक्षिपामि पातयामि॥ विश्वंभरेति। विश्वंभरात्मजा भूमेः सुता। देवी कृताभिषेका। राज्ञा लक्ष्मणेन। प्राप्तः प्रसवः यं स प्राप्तप्रसवस्तम्। गङ्गा च सा देवी च तस्याम्॥२॥ प्रस्तावनेति। अन्तर्नाटकीयप्रस्तावना वृत्तेत्यर्थः॥ सावेगं सभयम्।लक्ष्मणमवेक्षस्व। मयि सापराधेऽपि त्वत्पुत्रं लक्ष्मणं दृष्ट्वा गङ्गायां न पतितव्यमित्यर्थः। नाटकमिदमुच्यमानगङ्गापतनं नाटकं नाटकप्रयोज्याभिनयात्मकम्। न वास्तवमित्यर्थः॥ रामाद्विपाकः रामहेतुकः, दुःखानुभव इत्यर्थः। दण्डकेति विशेषणं तु सामिप्रायम्। मत्सुखं त्वदधीनं, त्वद्दुःखं तु मदधीनमित्यर्थः॥ आर्य ! आश्वस्य दुःखं लघूकृत्य।आर्षः ऋषिप्रणीतः। दर्शनाभावे मुनिः कुप्येदिति हृदयम्॥ वज्रमयः अत्यन्तकठिनः। सज्जोऽस्मि सीताविपत्तिनाटकं द्रष्टुं बद्धपरिकरोऽस्मि॥ उत्सङ्गितः उत्सङ्गेन गृहीत एकैको दारको याभ्यां तथोक्ताभ्यामवलम्बिता धारिता प्रमुग्धा प्रकृष्टमूर्च्छावती॥ असंविज्ञातमविदितं पदनिबन्धनं स्थानसंबन्धो यस्मिंस्तथोक्ते। पदनिबन्धनः पादन्यासो वा। मां धारय पतनप्रतिघातं कुरु॥ समाश्वसिहीति। हे कल्याणि मङ्गलवति।

सीता—(आश्वस्य।) दिट्ठिआ दारए प्पसूदम्हि। हा अज्जउत्त ! [दिष्ट्या दारकौ प्रसूतास्मि। हा आर्यपुत्र !।]

लक्ष्मणः—(पादयोर्निपत्य।) आर्य ! दिष्ट्या वर्धामहे। कल्याणप्ररोहो रघुवंशः। (विलोक्य।) हा, कथं क्षुभितबाष्पोत्पीडनिर्भरः प्रमुग्ध एवार्यः ? (वीजयति।)

देव्यौ— वत्से ! समाश्वसिहि।

सीता— (समाश्वस्य।) भअवदीओ ! का तुम्हे ? मुंचह। [भगवत्यौ ! के युवाम् ? मुञ्चतम्।]

**पृथिवी—**इयं ते श्वशुरकुलदेवता भागीरथी।

**सीता—**णमो दे भअवदि !। [नमस्ते भगवति !।]

भागीरथी— चारित्रोचितां कल्याणसंपदमधिगच्छ।

लक्ष्मणः— अनुगृहीताः स्मः।

भागीरथी— इयं ते जननी विश्वंभरा।

सीता— हा अंब ! ईरिसी अहं तुए दिट्ठा। [हा अम्ब ! ईदृश्यहं त्वया दृष्टा।]

पृथिवी— एहि पुत्रि ! वत्से सीते !।

(उभौ आलिङ्ग्यमूर्च्छतः।)

लक्ष्मणः—(सहर्षम्।) कथमार्या गङ्गापृथिवीभ्यामभ्युपपन्ना ?

**रामः—**दिष्ट्या खल्वेतत्। करुणान्तरं448 तु वर्तते।

भागीरथी— अत्रभवती विश्वभराव्य449थत इति जितमपत्यस्नेहेन।

——————————————————————————————————————

संबुद्धिरियम्। वर्धसे श्रेयस्विनी भवसि। दिष्ट्या आनन्देऽयं शब्दः। अन्तर्जले जले अन्तः। प्रसूतासि उत्पादितवत्यसि। रघुवंशधरौ रघुसंतानैकदेशौ दिष्ट्या दैवेन दुष्टसाधनसंपत्त्यभावात्प्रसूतिप्रतिबन्धकसद्भावाद्दैवमेवात्र कारणमिति भावः। सुन्दरकाण्डस्थदिष्ट्येति पदस्य दैवेनेत्युत्तानार्थो वर्णितः। कल्याणः शुभकरः प्ररोहोऽङ्कुरो यस्य तथोक्तः। मुञ्चतंत्यजतम्। लोट्मध्यमद्विवचनम्। भामिति शेषः॥ श्वशुरकुलस्य पत्युः पितृवंशस्य देवता योगक्षेमनिर्वाहिका भागीरथी। साभिप्रायं नामेह निर्दिष्टम्॥ चारित्रस्य पातिव्रत्यसच्चरितस्य उचितामनुरूपां कल्याणसंपदं श्रेयःसंपत्तिम्। अनुगृहीताः स्मः। रामः सीता अहं च क्षेमोपधायिका आशीर्विषयीकृता इत्यर्थः। सीताक्षेमे सर्वक्षेममिति हृदयम्॥ जननी माता। विश्वंभरेति साभिप्रायम्। पुत्र्यां त्वय्येवमलीकवादिनोऽपि जनान् बिभर्तीति क्षमातिशयव्यञ्जनात्॥ ईदृशी एवमलीकपौरवादेन त्यक्ता विपद्यमाना सती दृष्टा॥ उभौ सीतापृथिव्यौ॥ अभ्युपपन्ना अनु-

यद्वा सर्वसाधारणो ह्येष मनसो450 मूढग्रन्थिरान्तरश्चेतनावतामुपप्लवः संसारतन्तुः। सखि, भूतधात्रि, वत्से, वैदेहि ! समाश्वसिहि।

पृथिवी—(आश्वस्य।) देवि ! सीतां प्रसूय कथमाश्वसिमि ?

सोढश्चिरं राक्षसमध्यवास-
स्त्यागो द्वितीयस्तु सुदुःसहोऽस्याः।

** भागीरथी—**

को नाम पाकाभिमुखस्य जन्तु-
र्द्वाराणि दैवस्य पिधातुमीष्टे॥४॥

**पृथिवी—**भगवति भागीरथ ! युक्तमेतत्सर्वं वो रामभद्रस्य।

न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः।
नाहं न जनको नाग्निर्न तु वृत्तिर्न451 संततिः॥५॥

सीता— हा अज्जउत्त ! सुमरेसि452? [हा आर्यपुत्र ! स्मरसि ?]

——————————————————————————————————————

गृहीता॥ एतन्मातापुत्र्योरालिङ्ग्य मूर्च्छारूपं करुणान्तरं मद्दुःखातिरिक्तं दुःखम्॥ अत्र भवती पूज्या विश्वंभरा क्षमाप्रधाना भूमिः व्यथत इति दुःख्यत इति हेतोरपत्यस्नेहेन जितममिभवः कृतः। अपत्यस्नेहो बलवान्धीरानप्यमिभवतीत्यर्थः। यद्वेति पूर्वकल्पातिरिक्तकल्पद्योतकम्। मनसः हृदयस्य मूढग्रन्थिः मोहात्मको विभागाभावप्रयोजकसंपर्कजनकः। चेतनावतां प्रेक्षावतामान्तर उपप्लवः अभ्यन्तर उपद्रवः संसारतन्तुः संसारसंधायकः एष अपत्यस्नेहः सर्वसाधारणः। न केवलं विश्वंभरायाः किं तु सर्वेषां समानः। दधातीति धात्री पोषयित्री। यद्वा, —दधत्येताविति धात्री। प्राणिनां वर्धयित्रीत्यर्थः। इदं च संबोधनं पृथ्वीं प्रति अभिप्रायगर्भम्॥ सीतां प्रसूय कथमाश्वसिमि कथं केन प्रकारेणाश्वसिमि क्षीणदुःखा भवामि ? मत्सुता संपन्नप्रजेति वा स्वाधीनपतिकेति वा केन हेतुना क्षीणदुःखा भवामीत्यर्थः।सोढइति। राक्षसमध्यवासाच्चिरं सोढः। भूयांसं कालमनुभूत इत्यर्थः। सुदुःसह इति। अस्याः द्वितीयस्त्यागस्तु अलीकजनवादप्रयुक्तत्यागस्तु सुदुःसहः पूर्ववत्सहनानर्ह इत्यर्थः॥ इदमन्तं पृथ्वीवाक्यमनन्तरं गङ्गावाक्यम्॥ गङ्गेति। आहेति शेषः। को नाम जन्तुः प्राणी पाकाभिमुखस्य फलोपधानप्रवृत्तस्य दैवस्य सुकृतदुष्कृतात्मकभाग्यस्य द्वाराणि अनुभवमार्गान् पिधातुं रोद्धुमीष्टे समर्थो भवति ?॥४॥ वः रामभद्रस्य युष्मद्वंश्यस्य रामभद्रस्य। अनेन स्वसंबन्धः परिहृत इति ध्वनितम्॥ एतद्वक्ष्यमाणम्। युक्तं संगतम्। न प्रमाणीकृत इति। बाल्ये बालभावे। बालेन स्वेनेति शेषः। पीडितः उद्वाहकर्मणि गृहीतः पाणिः न प्रमाणीकृतः युक्तायुक्तविचारे निर्णयहेतुर्न कृतः। ‘गृहीत’ इत्यनुक्त्वा’पीडित’ इत्युकेरयं भावः—

पृथिवी— आः, कस्तवार्यपुत्रः ?

सीता— (सलज्जास्रम्।) जह अंबा भणादि। [यथाऽम्बा भणति।]

रामः— अम्ब पृथिवि ! ईदृशोऽस्मि।

भागी०— भगवति वसुंधरे! शरीरमसि संसारस्य। तत्किमसंविदानेव जामात्रे कुप्यसि ?

घोरं लोके विततमयशो या च वह्नौ विशुद्धि-
र्लङ्काद्वीपे कथमिव जनस्तामिह श्रद्दधातु।
इक्ष्वाकूणां कुलधनमिदं यत्समाराधनीयः
कृत्स्नो लोकस्तदिह विषमे किं स वत्सः करोतु॥६॥

**लक्ष्मणः—**अव्याहतान्तः प्रकाशा हि देवताः सत्त्वेषु।

भागी०— तथाप्येष तेऽञ्जलिः।

रामः— अम्ब ! अनुवृत्तस्त्वया भगीरथकुले प्रसादः।

**पृथिवी—**देवि ! नित्यं प्रसन्नास्मि तव। किं त्वसावापातदुःसहः स्नेहसंवेगः453। न पुनर्न जानामि सीतास्नेहं रामभद्रस्य।

———————————————————————————————————————

सामुद्रिकतन्त्रवेत्ता स्वयं रामो मत्सुतापाणिस्थसाध्वीत्वनिश्चायकं रेखाविशेषं दृष्ट्वा निर्दोषेयं चिरानुभवार्हेति सूचनाय दृढं पाणिं गृह्णन्नद्य तद्विसस्मारेति। अन्यथा पाणिग्रहणस्य दोषवत्यास्त्यागाप्रतिबन्धकत्वादिति मन्तव्यम्। प्रमाणीकृत इत्येतदुत्तरत्र यथालिङ्गं विपरिणमयितव्यम्। वृत्तिः शीलम्।संततिर्वंशः॥५॥ यथाऽम्बा भणति, अत्र तथैवेति शेषः॥ ईदृशोऽस्मि अनार्यपुत्रोऽस्मि॥ संसारस्य दम्पतिमातृपुत्रस्वसृदुहित्रादिकुटुम्बसंबन्धस्य शरीरमसि शरीरवत्प्रवृत्तिनिवृत्तिनिबन्धनभूतासि। जामात्रे कुप्यसि जामातृविषयकप्रतिकूलप्रतिसंधानरूपमनःप्रज्वलनवती भवसि। ‘क्रुधद्रुह—’ (पा. १।४।३७) इति चतुर्थी। घोरमिति। अयशः दोषवत्ताप्रथा। लङ्का चासौ द्वीपश्च लङ्काद्वीपस्तस्मिन् द्विर्गता आपो यस्मिन्स द्वीपः। ‘द्व्यन्त—’ (पा. ६।३।९७) इति अकारस्य ईकारः। लङ्काद्वीपे या वह्नौ विशुद्धिस्तामिह जनः कथं श्रद्दधातु प्रत्येतु? कृत्स्नो लोकः समाराधनीय इति यदिदमिक्ष्वाकूणां कुलधनं कुलक्रमागतं धनम्। तत्तस्मादिह विषमे एतस्मिन्धर्मसंकटे स वत्सः रामः किं करोतु॥६॥ अव्याहतः अकुण्ठितः अन्तःप्रकाशः परोक्षज्ञानरूपः यासां तथोक्तः। सत्त्वेषु पदार्थेषु। पृथिव्यपि जानात्येवेति भावः॥ तथापि एवं सत्यपि एषोऽञ्जलिस्ते। ‘अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी’ इति प्रसादन इत्यर्थः॥ अम्ब भागीरथीति संबुद्धिः। अनुवृत्तः भगीरथप्रभृतिमत्पर्यन्तं संबन्धित इत्यर्थः॥ तव नित्यं प्रसन्नास्मि नित्यं त्वदीयविषयकमनःकालुष्यरहितास्मि। किमर्थोऽञ्जलिरित्यर्थः। किंत्वेवं प्रसन्नत्वेऽपि स्नेहस्य संवेगस्त्वरा आपाते श्रवणोत्तरक्षणे दुःसहः सोढु-

दह्यमानेन मनसा दैवाद्वत्सां विहाय सः।
लोकोत्तरेण सत्त्वेन प्रजापुण्यैश्च जीवति॥७॥

रामः— सकरुणा हि गुरवो गर्भरूपेषु।

सीता—(रुदती कृताञ्जलिः।) णेदु मं अत्तणो अंगेसु विलअं अंबा। [नयतु मामात्मनोऽङ्गेषु विलयमम्बा।]

भागी०— किं ब्रवीषि।454 अविलीना वत्से ! संवत्सरसहस्राणि भूयाः।

पृथिवी— वत्से ! अवेक्षणीयौ ते पुत्रौ।

सीता— किं एहिं अणाहेहिं455? [किमेताभ्यामनाथाभ्याम् ?]

रामः— हृदय ! वज्रमसि।

**भागी०—**कथं वत्सौ सनाथावप्यनाथौ456?

सीता— कीरिसं मे अभग्गाए सणाहत्तणं? [कीदृशं मे अभाग्यायाः सनाथत्वम् ?]

देव्यौ—

जगन्मङ्गलमात्मानं कथं त्वमवमन्यसे?।
आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृष्यते॥८॥

लक्ष्मणः— आर्य ! श्रयताम्।

———————————————————————————————————————

मशक्यः। ‘दर्शनक्षण आपातस्तथैवाकर्णनक्षणे’ इति कोशः। स्नेहेन पुत्रीविषयप्रेम्णा संवेगस्तरलत्वं भयं वा। ‘ओविजी भयचलनयोः’ इत्यस्माद्भावे घञ्प्रत्ययश्च। ‘स्तो’ (पा.६।३।२) इति कुत्वं च। रामभद्रस्य सीताविषयकं स्नेहं पुनः प्रेम तु न ज्ञानामीति न जानाम्येव। दह्यमानेनेति। दह्यमानेन भस्मीक्रियमाणेन मनसा करणेन दवाद्धेतोः वत्सां सीतां विहाय त्यक्त्वा लोकोत्तरेण सत्त्वेन धैर्येण प्रजानां पुण्यैः सुकृतैश्च जीवति प्राणं धारयति॥७॥ गर्भाणामिव रूपं येषां तथोक्तेषु। अस्मास्विति शेषः। गर्भस्य यथा स्वरक्षणीयानर्हत्वं मन्त्ररक्षणीयत्वं तद्वद्गुरूणां वयमित्यर्थः॥ विलयदमर्शनम्॥ किं ब्रवीषिकिमिति क्षेपे। संवत्सरसहस्राणि। सहस्रशब्दोऽनन्तवाची। अत्यन्तसंयोगे द्वितीया। अवेक्षणीयौ कटाक्षणीयौ, तदर्थं स्थातव्यमिति भावः॥ अभाग्यायाः पुण्यरहितायाः सनाथत्वं नाथवत्त्वम्॥ जगन्मङ्गलमिति। जगन्मङ्गलं जगतां मङ्गलं यस्मादिति बहुव्रीहिः। अनेन मङ्गलदेवतेति समाख्या स्मारिता। अवमन्यसे परिभवसि। यस्य त्वदात्मनः सङ्गात्संपर्कादावयोरपि जगत्पवित्रत्वेन प्रसिद्धयोरपि पवित्रत्वं स्वसंबन्धादन्येषामपि दोषापनोदकत्वं प्रकृष्यते पूर्वापेक्षया अतिशयितं भवति। कर्मकर्तरि तङ्॥८॥ लोकः शृणोतु।मम

रामः— लोकः शृणोतु।

(नेपथ्ये कलकलः।)

** रामः—**अद्भुततरं किमपि।

सीता— किंत्ति आबद्धकलकलं पज्जलिअं अंतरिक्खं ? [किमित्याबद्धकलकलं प्रज्वलितमन्तरिक्षम् ?]

देव्यौ— ज्ञातम्।

कृशाश्वः कौशिको राम इति येषां गुरुक्रमः।
प्रादुर्भवन्ति तान्येव शस्त्राणि सह जृम्भकैः॥९॥

(नेपथ्ये।)

देवि सीते ! नमस्तेऽस्तु गतिर्नः पुत्रकौ हि ते।
आलेख्यदर्शनादेव ययोर्दाता रघूद्वहः॥१०॥

**सीता—**दिट्ठिआ अत्थदेवदाओ एदाओ। हा अज्जउत्त ! अज्जावि दे पसादा पडिप्फुरंदि। [दिष्ट्या अस्त्रदेवता एताः। हा आर्यपुत्र ! अद्यापि ते प्रसादाः परिस्फुरन्ति।]

**लक्ष्मणः—**उक्तमासीदार्येण सर्वथैतानि त्वत्प्रसवमुपस्थास्यन्तीति।

देव्यौ—

नमो वः परमास्त्रेभ्यो धन्याः स्मो वः परिग्रहात्।
काले ध्यातैरुपस्थेयं वत्सयोर्भद्रमस्तु वः॥११॥

रामः—

क्षुभिताः कामपि दशां कुर्वन्ति ममसंप्रति457
विस्मयानन्दसंदर्भजर्जराः करुणोर्मयः॥१२॥

———————————————————————————————————————

हि सीतायाः शुद्धता व्यक्ता। कौलीनवादिजन एव शृणोत्वित्यर्थः॥ नेपथ्ये इति। जृम्भकास्त्राणां प्रयोगायोग्यत्वेन तदागमनसूचनार्थं ‘नेपथ्ये’ इत्युक्तम्॥ प्रज्वलितं प्रकाशवत्॥ कृशाश्व इति। गुरुक्रमः आचार्यानुपूर्वी। जृम्भकैः सह शस्त्राणि वारुणादीनि प्रादुर्भवन्ति प्रकटीभवन्ति॥९॥ देवीति। पुत्रकौ नो गतिः अस्माकं प्राप्यौ; आलेख्यदर्शनात् प्रथमाङ्कोक्तचित्रदर्शनात्॥१०॥ दिष्ट्येति। एताः अस्त्रदेवताः आनन्दहेतव इत्यर्थः। अद्याप्येवं दोषवादप्रयुक्तपरित्यागकालेऽपि ते प्रसादाःत्वदनुग्रहाः परिस्फुरन्ति प्रकाशन्ते॥ उक्तमासीत्, प्रथमाङ्क इति शेषः॥नम इति। वः परिग्रहाद्युष्मत्कर्तृकस्वीकारात् धन्याः स्मः क्षेमलाभयुक्ता भवामः। काले युद्धादिसमये ध्यातैरागन्तव्यमिति चिन्तितैः। काले युद्धादिसमये वत्सयोरुपस्थेयं संनिधातव्यं, युष्माभिरिति शेषः॥११॥ क्षुभिता इति।

**देव्यौ—**मोदस्ववत्से ! मोदस्व। रामभद्रतुल्यौ ते पुत्रकाविदानीं संवृत्तौ।

**सीता—**भअवदीओ ! को एदाणं स्वत्तिओइदविहिं कारइस्सदि ? [भगवत्यौ ! क एतयोः क्षत्रियोचितविधिं कारयिष्यति ?]

रामः—

एषा वसिष्ठशिष्याणां458 रघूणां वंशनन्दिनी।
कष्टं सीतापि सुतयोः संस्कर्तारं न विन्दति॥१३॥

गङ्गा— भद्रे ! किं तवानया चिन्तया ? एतौ हि वत्सौ स्तन्यत्यागात्परेण भगवतो वाल्मीकेरर्पयिष्यामि।

वसिष्ठ एव ह्याचार्यो रघुवंशस्य संप्रति।
स एव चानयोर्ब्रह्मक्षत्रकृत्यं करिष्यति॥१४॥

यथा वसिष्ठाङ्गिरसौ ऋषिः प्राचेतसस्तथा।
जनकानां रघूणां च वंशयोरुभयोर्गुरुः॥१५॥

रामः— सुविचिन्तितं भगवत्या।

——————————————————————————————————————

क्षुभिताः। क्षोभं प्राप्ताः। विस्मयः अपूवर्वस्तुसंदर्शनजन्यान्तःकरणविकारविशेषः। स चात्र गङ्गापतनतत्रत्यप्रसवजृम्भकप्राप्त्यादिमूलकः आनन्दः स्वसंबन्धसंभावनार्हताप्रयुक्तप्रीतिविशेषः। ताभ्यां जर्जराः व्याकुलिताः। करुणस्य सीतावियोगजन्यदुःखातिशयस्य ऊर्मयः तरङ्गाः मम कामपि दशामनिर्वाच्यामवस्थां कुर्वन्त्युत्पादयन्ति। ‘ऊर्मि’पदेन करुणस्य समुद्रत्वं व्यज्यते॥१२॥ मोदस्वमोदं प्राप्नुहि। इदानीं जृम्भकास्त्रलाभे। संवृत्तौ संजातौ॥ क्षत्रियोचितं क्षत्रियजात्यनुरूपं विधिमुपनयनसंस्कारादिशास्त्रार्थं कः कारयिष्यति ?। एषेति। वसिष्ठशिष्याणां रघूणां वंशनन्दिनी संततेरारान्दहेतुः एषा सीतापि सुतयोः संस्कर्तारं उपनयनादिसंस्कारकाचार्यंन विन्दति न लभते। कष्टम्। दुःख्यत इत्यर्थः॥१३॥ भद्रे मङ्गलवति !एतौ वत्सौ। द्वितीयान्तम्। स्तन्यत्यागात्परेण स्तन्यत्यागकालानन्तरकाले। अर्पयिष्यामि, विद्यादिप्रदानार्थमिति शेषः। एतेन द्वितीयाङ्कविष्कम्भस्थं केनापि देवताविशेषेणेति वाक्यं व्याख्यातम्। वसिष्ठ इति। ब्रह्म च क्षत्रं च ब्रह्मक्षत्रे, तयोरुचितं कृत्यं ब्राह्मणत्वजात्यनुगुणत्रय्यध्यापनं क्षत्रियत्वोचितधनुर्वेदाध्यापनं च करिष्यति॥१४॥ यथेति। जनकानां रघूणां च उभयवंशयोः यथा वसिष्ठाङ्गिरसौ वसिष्ठशतानन्दौ गुरू तथा प्राचेतसः ऋषिर्गुरुः। इदं गङ्गावचनम्॥ १५॥ तैस्तैरुपायैः बहुभिः हेतुभिः वत्सौ कुशलवौ उत्प्रेक्षे वत्सकुशलवत्त्वेन अभिनेयशिशुद्वयं

**लक्ष्मणः—**आर्य ! सत्यं विज्ञापयामि। तैस्तैरुपायैरिमौ वत्सौ कुशलवावुत्प्रेक्षे।

एतौ हि जन्मसिद्धास्त्रौप्राप्तप्राचेतसावुभौ।
आर्यतुल्याकृती वीरौ वयसा द्वादशाब्दकौ॥१६॥

**रामः—**वत्सावित्येवाहं परिप्लवमानहृदयः प्रमुग्धोऽस्मि।

**पृथिवी—**एहि वत्से ! पवित्रीकुरु रसातलम्।

रामः— हा प्रिये ! लोकान्तरं गतासि।

सीता— णेदु मं अत्तणो अंगेसु विलअं अंबा। ण सहिस्सं ईरिसं जीअलोअस्स परिभवं अणुभवितुं। [नयतु मामात्मनोऽङ्गेषु विलयमम्वा। न सहिष्यामीदृशं जीवलोकस्य परिभवमनुभवितुम्।]

**रामः—**किमुत्तरं स्यात्।

पृथिवी— मन्नियोगतः स्तन्यत्यागं यावत्पुत्रयोरवेक्षस्व। परेण तु यथा रोचिष्यते तथा करिष्यामि।

भागी०— एवं तावत्।

(इति निष्क्रान्ते देव्यौ सीता च।)

रामः— कथं प्रतिपन्न एव तावत् ? हा चारित्रदेवते ! लोकान्तरे पर्यवसितासि459। (इति मूर्च्छति।)

——————————————————————————————————————

संभावयामि। हेतूनाह—एतौ हीत्यादिना। तन्त्रेणायं श्लोकचतुष्टयपरः। अभिनेयशिश्वोः कुशलवयोश्च जन्मसिद्धास्त्रत्वादिकं समानं योज्यम्। वयसा जीवनकालेन हेतुना। द्वादशाब्दकौ द्वादशसंख्याकसंवत्सरयुक्तौ। अभिनेयशिश्वोरप्यभिनयकालापेक्षया द्वादशाब्दकत्वं बोध्यम्॥१६॥ वत्साविति। परिप्लवमानहृदयस्तलहृदयः। प्रमुग्धोऽस्मि प्रमूढोऽस्मि॥ रसातलमधोभुवनम्। लोकान्तरमन्यं लोकम्॥ विलयं तिरोहितत्वम्। जीवलोकस्य परिभवं जीवलोककर्तृकतिरस्कारम्॥ उत्तरं पृथिव्याः प्रतिवचनं किं स्यात् ? उत्तरमनन्तरभावि वा॥ मन्नियोगतः मदादेशेन स्तन्यत्यागं यावत्स्तन्यत्यागमभिव्याप्य पुत्रयोरवेक्षस्व, पुत्रौ पश्येत्यर्थः। परेण तु परस्तात्तु यथा रोचिष्यते येन प्रकारेण रुचिर्मविष्यति ते तथाहं करिष्यामीत्यर्थः॥ एवं तावदेवमेव। देव्यौगङ्गापृथिव्यौ। निष्क्रान्ते, रङ्गस्थानादिति शेषः। लोकान्तरे पर्यवसितासि। पर्यवसानं विश्रान्तिः। लोकान्तरमेव गतासीति प्रतिपन्नं निश्चितम्। स्तन्यत्यागात्परत्र रसातलगमनस्य पृथिव्याभ्यनुज्ञातत्वात्

लक्ष्मणः— भगवन्वाल्मीके ! परित्रायस्वपरित्रायस्व। एष ते काव्यार्थः।

(नेपथ्ये।)

अपनीयतामातोद्यम्। भो जङ्गमस्थावराः प्राणभृतो मर्त्यामर्त्याः, पश्यतेदानीं वाल्मीकिनाभ्यनुज्ञातं पवित्रमाश्चर्यम्।

लक्ष्मणः—(विलोक्य।)

मन्थादिव क्षुभ्यति गाङ्गमम्भो
व्याप्तं च देवर्षिभिरन्तरिक्षम्।
आश्चर्यमार्या सह देवताभ्यां
गङ्गामहीभ्यां सलिलादुपैति460॥१७॥

(नेपथ्ये।)

अरुन्धति जगद्वन्द्ये ! गङ्गापृथ्व्यौ जुषस्व नौ।
अर्पितेयं तवावाभ्यां सीता पुण्यव्रता वधूः॥१८॥

**लक्ष्मणः—**अहो आश्चर्यमाश्चर्यम्। आर्ये ! पश्य पश्य। कष्टमद्यापि नोच्छ्वसित्यार्यः।

(ततः प्रविशत्यरुन्धती सीता च।)

** अरुन्धती—**

त्वरस्व वत्से वैदेहि ! मुञ्च शालीनशीलताम्।
एहि जीवय मे वत्सं सौम्यस्पर्शेन पाणिना॥१९॥

———————————————————————————————————————————————

द्वादशानां वत्सराणामतीतत्वाच्च लोकान्तरं गतासीत्येतावन्निश्चितमिति भावः॥ एष ते काव्यार्थः। पर्याप्तं दृष्ट इति शेषः। इतः परं निवर्तितव्यमिति हृदयम्॥ आतोद्यं नृत्तगीतसमुदायः। अपनीयतां निवर्त्यताम्। मर्त्यामर्त्या देवमनुष्यात्मकाः जङ्गमस्थावरात्मकाश्च प्राणभृतः। वृक्षादीनामपि प्राणवत्त्वात्स्थावरोक्तिरविरुद्धा। वाल्मीकिनाभ्यनुज्ञातं करुणाद्भुतरसमित्यत्राद्भुतपदेन प्रकाश्यत्वेन बोधितं पवित्रं निर्दोषमाश्चर्यं पश्यन्तु॥ मन्थादिवेति। गाङ्गमम्भः मन्थादिव मथनादिव क्षुभ्यति क्षोभं प्राप्नोति। अन्तरिक्षं देवैः ऋषिभिश्चव्याप्तम्, कौतुकादिति भावः। आर्या सीता देवताभ्यां गङ्गामहीभ्यां सह सलिलादुपैति प्राप्नोति॥१७॥ नेपथ्ये। अरुन्धतीति। नौ द्वितीयाद्विवचनम् गङ्गापृथ्व्यौ जुषस्व जानीहि नौ जुषस्व प्रीयस्व। तव वधूः ‘स्नुषा इयं सीता आवाभ्यां तवार्पिता॥१८॥ आर्ये इति अरुन्धतीं प्रति संबोधनम्। नोच्छ्वसिति उच्छ्वासं न प्राप्नोति। त्वरस्वेति। शालीनशीलतामधृष्टस्वभावत्वं मुञ्च

सीता— (ससंभ्रमं स्पृशन्ती।) समस्ससदु समस्ससदु अज्जउत्तो। [समाश्वसितु समाश्वसित्वार्यपुत्रः।]

रामः— (समास्वस्य सानन्दम्।) भोः, किमेतत्। (दृष्ट्वा सहर्षाद्भुतम्।) कथं देवी जानकी। (सलज्जम्।) अये, कथमम्बारुन्धती। कथं सर्वे प्रहृप्यन्ते ऋष्यशृङ्गादयोऽस्मद्गुरवः।

अरुन्धती— वत्स! एषा461 भागीरथी रघुकुलदेवता462 ‘तमुवाच महातेजाः सर्वलोकपितामहम्। भगीरथो महाबाहुः कृताञ्जलिपुटः स्थितः॥ यदि मे भगवान् प्रीतो यद्यस्ति तपसः फलम्। सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः॥ गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम्। स्वर्गे गच्छेयुरत्यन्तं सर्वे च प्रपितामहाः॥ देव! याचे ह सन्तत्यै नावसीदेत्कुलं च नः। इक्ष्वाकूणां कुले देव ! एम मेऽस्तु परः परः॥’ इत्यादिना।") देवी गङ्गा सुप्रसन्ना।

(नेपथ्ये।)

जगत्पते रामभद्र ! स्मर्यतामालेख्यदर्शने मां प्रत्यात्मवचनम्। सा त्वमम्ब ! स्नुषायामरुन्धतीव सीतायां शिवानुध्यानपरा भवेति। तदनृणास्मि।

अरुन्धती— इयं ते श्वश्रूर्भगवती वसुंधरा।

(नेपथ्ये।)

उक्तमासीदायुष्मता वत्सायाः परित्यागे ‘भगवति वसुंधरे ! श्लाघ्यां दुहितरमवेक्षस्वजानकीम्’ इति। तदधुना कृतवचनास्मि।

रामः— कृतापराधोऽपि भगवति ! त्वयानुकम्पयितव्यो रामः प्रणमति।

अरुन्धती— भो भोः पौरजानपदाः ! इयमधुना वसुंधराजाह्नवीभ्यामेवं प्रशस्यमाना मया चारुन्धत्या463 च समर्पिता पूर्वं भगवता वैश्वानरेण

————————————————————————————————————————

सौम्यस्पर्शेन चन्द्रवच्छीतलेन पाणिना मे वत्सं जीवय सप्राणं कुरु॥१९॥ एतत्सीतास्पर्शरूपं किं किंहेतुकम् ? कथं देवी जानकी। विस्मयद्योतकः ‘कथं’ शब्दः। लज्जा मनःसंकोचः; स चेहारुन्धतीदर्शनात्॥ भागीरथी भगीरथानीता रघुकुलदेवता। देवी दीप्तिशालिनी। सुप्रसन्ना अनुग्रहं कृतवती॥ आलेख्यदर्शने चित्रदर्शने आत्मवचनं त्वद्वचनम्। अनृणास्मि निर्यातितॠणास्मि। ऋणं ह्यवश्य प्रतिविधेयमिति सादृश्यादेवमुक्तम्॥ आयुष्मता, त्वयेति शेषः। वसुंधरायै वसुंधरां बोधयितुमुक्तमासीदिति वचनं जातम्। श्लाघ्यां दुहितरमवेक्षस्वजानकीमिदं वस्तु उक्तमासीदिति कर्मणिक्तोवा ज्ञेयः। कृतवचनास्मि। उच्यत इति वचन उक्तार्थः कृतः अनुष्ठित

निर्णीतपुण्यचारित्रा सब्रह्मकैश्च देवैः स्तुता सावित्रकुलवधूर्देवयजनसंभवा जानकी परिगृह्यताम्। कथमिह भवन्तो मन्यन्ते ?

**लक्ष्मणः —**आर्य ! एवमम्बयारुन्धत्या च निर्भर्त्सिताः पौरजानपदाः कृत्स्नश्च भूतग्राम आर्यां नमस्कुर्वन्ति। लोकपालाः सप्तर्षयश्च पुष्पवृष्टिभिरुपतिष्ठन्ते।

अरुन्धती— जगत्पते रामभद्र !

नियोजय यथाधर्मं प्रियां त्वं धर्मचारिणीम्।
हिरण्मय्याः प्रतिकृतेः पुण्यां प्रकृतिमध्वरे॥२०॥

सीता— (स्वगतम्।) अवि जाणादि अज्जउत्तो सीदाए दुक्खं पडिमज्जिदुं। [अपि जानात्यार्यपुत्रः सीताया दुःखं परिमार्ष्टुम्।]

रामः— यथा भगवत्यादिशति।

लक्ष्मणः— कृतार्थोऽस्मि।

सीता— पच्चुज्जीविदम्हि। [प्रत्युज्जीवितास्मि।]

**लक्ष्मणः—**आर्येअयं ल464क्ष्मणः प्रणमति।

सीता— वच्छ ! ईरिसो465 तुमं चिरं जीअ। [वत्स ! ईदृशस्त्वं चिरं जीव !।]

———————————————————————————————————————

उक्तार्थो यया तथोक्तास्मि॥ अनुकम्पयितव्य इति दयाविषयः कर्तव्य इति प्रणमति प्रकर्षेण नमस्यति॥ पौराः पुरवासिनः। जानपदाः देशवासिनः एवं प्रशस्यमाना ‘आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृष्यते’ इत्यमिष्टुता। पूर्वं रावणवधानन्तरकाले। वैश्वानरेण अग्निना। निर्णीतपुण्यचारित्रा निश्चितपातिव्रत्या। परिगृह्यतां राज्ञीत्वेन स्वीक्रियताम्। इहास्मिन्नर्थे कथं मन्यन्ते ? किं वो मतमिति भावः॥ भूतग्रामः गोबलीवर्दन्यायेन पौरजानपदातिरिक्ता ग्राह्याः। आर्यां सीतां नमस्कुर्वन्ति। लोकपालाः इन्द्रादयः। सप्तर्षय अत्र्यादयः। पुष्पवृष्टिभिः करणैरुपतिष्ठन्ते पूजयन्ति, आर्यामित्यनुषङ्गः॥ नियोजयेति। प्रियां त्वद्विषयकप्रीतियुक्ताम्। धर्मचारिणीं धर्मानुष्ठानशीलाम्।अध्वरे यागे। हिरण्मय्याः प्रतिकृतेः प्रतिमायाः पुण्यां पावनीं प्रकृतिं प्रतिमां सीतां यथाधर्मं नियोजयाज्ञापय। पुण्यामित्यनेन ‘यस्य भार्या विदूरस्था पतिता दूषिताथवा। अनिच्छुः प्रतिकूला वा’ इत्यादिव्युदासः॥२०॥ यथा भगवत्यादिशति, तथास्त्विति शेषः॥ कृतार्थोऽस्मि सीतारामयोः समागमरूपप्रयोजनसिद्धिमानस्मि। त्यागस्य स्वद्वारकत्वादेवमुक्तम्॥ प्रत्युज्जीवितास्मि ‘यस्त्वया सह स स्वर्गः’ इत्युक्तरामसमागमात्मकपुनरुज्जीवनवती कृतास्मि॥ ईदृशः सन् चिरं जीव मम पत्युश्च समागमं परमं श्रेयो मन्वानःसन्चिरं जीव॥ रामभद्रस्य उपनय रामभद्रसमीपं प्रापय। दिष्ट्या तथैवैतत्। एतत्कु-

अरुन्धती— भगवन्वाल्मीके ! उपनयेदानीं सीतागर्भसंभवौ रामभद्रस्य कुशलवौ। (इति निष्क्रान्ता।)

रामलक्ष्मणौ— दिष्ट्या तथैवैतत् !।

**सीता—**कहिं ते पुत्तआ? [क्व तौ पुत्रकौ?]

(ततः प्रविशति वाल्मीकिः कुशलवौ च।)

**वाल्मीकिः—**वत्सौ ! एष वां रघुपतिः पिता। एष लक्ष्मणः कनिष्ठतातः। ोएषा सीता जननी। एष राजर्षिर्जनको मातामहः।

सीता— (सहर्षकरुणाद्भुतं विलोक्य।) कहं तादो, कहं जादा। [कथं तातः, कथं जातौ।]

**कुशलवौ—**हा तात ! हा अम्ब ! हा मातामह !।

रामलक्ष्मणौ—(सहर्षमालिङ्ग्य।) ननु वत्सौ !युवां466 प्राप्तौ स्थः।

**सीता—**एहि जाद कुस ! एहि जाद लव !चिरस्स मं परिस्सजह लोअंदरादो आअदंजणणिं। [एहि जात कुश ! एहि जात लव ! चिरस्य मां परिष्वजेथां लोकान्तरादागतां जननीम्।]

कुशलवौ—(तथा कृत्वा।) धन्यौ स्वः।

**सीता—**भअवं ! एसा हं पणमामि। [भगवन् ! एषाहं प्रणमामि।]

**वाल्मीकिः—**वत्से ! एवमेव चि467रं भूयाः।

(नेपथ्ये।)

उत्खातलवणो मधुरेश्वरः प्राप्तः।

लक्ष्मणः— सानुषङ्गाणि कल्याणानि।

———————————————————————————————————————

शलवोत्पत्त्यादिकं तथैव पूर्वमस्मच्चिन्तितप्रकारेणैव आसीदिति शेषः॥ क्व तौ पुत्रौ? इदं वाल्मीकिप्रवेशसूचकम्॥ मातामहः मातुः पिता। ‘मातृपितृभ्यां पितरि डामहच्’ (वा० २७०९) कथं जातौ कुशलवौ। जातौ कथमिति चित्तविकासे॥ हा तातेत्यादि। सर्वत्र ‘हा’ शब्दो हर्षद्योतकः। ननु वत्सौ ! युवां प्राप्तौ स्थः। ननु वत्साविति संबोधनम्। चिरस्य परिष्वजेथां बहुकालमालिङ्गयतम्, न तु यत्किंचित्क्षणालिङ्गनेन तृप्तिरिति भावः। परिष्वजेथामिति लोण्मध्यमद्विवचनम्॥ लोकान्तरात् रसातलात्॥ तथा कृत्वा आलिङ्ग्य। धन्यौ स्वः प्रशस्यौ भवावः॥ एवमेव चिरं भूयाः एवमेव पत्यपत्याभ्यां संगतैव भूयाः॥ नेपथ्ये। उत्खात उन्मूलितः लवणः लवणनामकासुरो येन तथोक्तः। मधुरायाः तन्नाम्न्यानगर्या ईश्वरः स्वामी, शत्रुघ्न इत्यर्थः। अस्यापि प्रथमाङ्कारब्धप्रयोजनत्वान्निर्वहणे निवेशः॥ कलत्रपुत्रसमागमादिश्रेयांसि सानुषङ्गाणि। अनुषज्यन्ते अनुसंबध्यन्ते यदित्यनुषङ्गं मङ्गलान्तरम्। कर्मणि घञ्।

**रामः—**सर्वमिदमनुभवन्नपि न प्रत्येमि। यद्वा प्रकृतिरियमभ्युदयानाम्।

वाल्मीकिः— रामभद्र ! उच्यतां किं ते भूयः प्रियमुपहरामि ?

रामः— अतः परमपि प्रियमस्ति ? किं त्विदं भरतवाक्यमस्तु, —

पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सेयं कथा
माङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च।

तामेतां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः
शब्दब्रह्मविदः कवेः परिणतां प्राज्ञस्य वाणीमिमाम्॥२१॥

(निष्क्रान्ताः सर्वे।)
इति सप्तमोऽङ्कः।

<MISSING_FIG href="../books_images/U-IMG-1727718270Untitled.jpg"/>

—————————————————————————————————————————————

‘संबन्धमनुवर्तिष्यत’ इत्याचार्यभगवत्पतञ्जलिप्रयोगेण नपुंसकत्वम्। संपत्संपदमनुबध्नातीति मङ्गलान्तरसहितानीत्यर्थः। शत्रुवधतद्राज्यप्राप्त्योश्च श्रेयस्त्वादनुभवन्नपि साक्षात्कुर्वन्नपि न प्रत्येमि नियतमिति न विश्वसिमि। यद्वेति। न मद्दोष इति भावः। इयमनियतमित्ययं प्रत्ययः। अभ्युदयानां श्रेयसां प्रकृतिः स्वभावः। विधेयप्राधान्यात्स्त्रीत्वम्॥ भूयः पुत्रकलत्रसमर्पणात्परमिष्टं किमुपहरामि उपहारीकरोमि? इदमेव सर्वथा ऋषयः श्रेयो विधास्यन्तीति प्रथमाङ्के सूचितः॥ अतः परमपि उक्तादन्यदपि। किं त्विदं भरतवाक्यमस्तु।एवं सत्यपि वक्ष्यमाणं भरतवचनमस्तु भवनार्हम्। अर्हेलोट्। पाप्मभ्यश्च इति। इयं च प्रशस्तिः। सा प्रसिद्धा इयं बुद्धिस्था कथा रामायणात्मकवाक्यप्रबन्धरूपा कथा। ‘कथ वाक्यप्रबन्धे’ इति धातुः। सा च वाल्मीकीयचतुर्विंशतिसहस्रिका पाप्मभ्यः दुरितेभ्यः जगत्पुनाति विभाजयति। ‘जगत’ इतिषष्ठ्यन्तं विपरिणम्य योजनीयम्। पूङ् धातुः यद्यपि दुरितविभजनात्मकदोषनिर्हरणवाची तथापि पाप्मभ्यः पुनातीति ‘सकीचकैर्मारुतपूर्णरन्ध्रैः’ (रघु० २।१२) इतिवद्व्याख्येयम्। जगतः श्रेयांसि पुत्रमित्रादीनि वर्धयति मोक्षपर्यन्तनि उत्तरोत्तरमधिकानि करोति। अत्र ‘कुटुम्बवृद्धिं’ धनधान्यवृद्धिं’ इत्यादिश्लोकद्वयमनुसंधेयम्। मातेव गङ्गेव माङ्गल्या मनोहरा च। माता हि दुःखविस्मारिणी सुखदा च भवति; गङ्गा पापनाशनीमोक्षदा च भवति, तद्वत् रामायणमपीति भावः शब्दब्रह्मविदः शब्द एव ब्रह्म परिच्छिन्नत्वापरिच्छिन्नत्वाभ्यां परब्रह्मसाम्याद्रूपणम्। तद्विदन्तीति शब्दब्रह्मविदः। बुधाःसहृदयाः। अभिनयाः सात्त्विकाङ्गिकाहार्यवाचिकभेदेन चतुर्विधाः। अभिनयैरितीत्थंभूतलक्षणे तृतीया। अभिनयविशिष्टो यो विन्यासः रचनावैशिष्ट्यं च प्रतिपादकत्वरूपं विन्यस्तं विन्यासेन निष्पन्नं यस्यास्तथोक्तम्। शरीरं चेदानुपूर्वी। प्राज्ञस्य सर्वज्ञशिरोमणेः कवेः भवभूतिकवेः इमां वाणीं परिणतामेनामुत्तररामचरितनाटकरूपभवभूतिवागात्मना यः परिणामः तद्वती-

मेनां श्रीरामायणात्मककथां परिभावयन्तु परितश्चिन्तयन्तु। ‘भू अवकल्कने’। अवकल्कनं चिन्तनमित्युक्तम्। इयं कथा श्रेयांसिवर्धयति एनां परिभावयन्त्वित्यन्वादेशादेनादेशः। वाल्मीकिवागेव भवभूतिवागात्मना परिणतेत्युक्तिः। उत्तररामचरितस्य गाम्भीर्यमाधुर्ये लभ्येते॥ परिभावयन्त्वित्यनेन ‘वृद्धा यदर्पणरसेन विमर्दपूर्वम्’–इति श्लोकार्थोध्वनितः। परिपूर्वकस्य ‘भू सत्तायाम्’ इति पठितस्येवाज्ञानार्थकत्वमिति नास्य तत्प्रसक्तिः। शब्दब्रह्मविदो बुधाः अभिनयैः सह विन्यस्तरूपां प्राज्ञस्य कवेरिमांवाणीं परिणतामेनां परिभावयन्त्विति योजना। एतेन ‘एनाम्’ ‘इमाम्’ इत्यनयोर्न पौनरुक्त्यम्। अभेदसंबन्धेनान्वयवाचकयोरिवप्रकृतिविकृतिवाचकयोरपि समानविभक्तिकत्वनियमादुभयोर्द्वितीयान्तत्वम्। एवं साङ्गं नाटकं वृत्तम्॥२१॥

यदप्यत्राखिलं किंचित्कविनानेन बध्यते।
निरङ्कुशतया तत्तु समाधेयं मनीषिभिः॥

कोशव्याकरणे नात्र लिखिते ग्रन्थगौरवात्।
भावस्य तु गभीरत्वात्स कश्चित्कथितो मया॥

भवभूतेः कवीन्द्रस्य क्व गम्भीरो गिरां भरः?।
क्व मे मतिरतिस्वल्पा सहायोऽत्र हयाननः॥

अनवरतभावनामिर्योऽर्थः क्लेशान्मया लब्धः।
तस्य प्रकाशनीयं व्याख्या विदधातु कौतुकं सुधियाम्॥

इति श्रीवाधूलवीरराघवविरचितायां भवभूतिभावतल-
स्पर्शिनीसमाख्यायामुत्तररामचरितव्याख्यायां
सप्तमोऽङ्कः।

<MISSING_FIG href="../books_images/U-IMG-1727719878Untitled.jpg"/>

समाप्तमिदं नाटकम्।

उत्तररामचरितस्थश्लोकाङ्कवृत्तानां सूची ।

<MISSING_FIG href="../books_images/U-IMG-1727757318Untitled3.jpg"/>

अङ्के श्लो. अङ्के श्लो.
अङ्गादङ्गात्सृतइव (मन्दा.) २२ आगर्जद्गिरिकुञ्जकुञ्ज (शार्दूल.)
अतिशयितसुरा (पुष्पिताग्रा) आयुष्मतः किल लवस्य (वस.) १६
अत्यद्भुतादपि गुणा (वसन्त.) १० आलिम्पन्नमृतमयै (प्रहर्षिणी) ३९
अथ कोऽयमिन्द्रमणि (मञ्जु.) १७ आविर्भूतज्योतिषां (शालिनी) १८
अथेदं रक्षोभिः कन (शिख.) २८ आविवाहसमयाद्गृहे (रथो.) ३७
अद्वैतं सुखदुःखयोः (शार्दूल.) ३९ आश्च्योतनं नु हरि (वसन्त.) ११
अनियतरुदितस्मितं (पुष्पिता.) आश्वास इव भक्ती (अनुष्टुप्) १०
अनिर्भिन्नो गभीर (अनुष्टुप्) आसीदियं दशरथस्य (वसन्त.)
अनुदिवसमवर्ध (पुष्पिताग्रा.) १८
अनुभावमात्रसमव (मञ्जुभा.) ४१ इक्ष्वाकुवंशोऽभिमतः (इन्द्र.) ४४
अन्तःकरणतत्त्व (अनुष्टुप्) १७ इङ्गुदीपादपः सोऽयं (अनुष्टुप्) २१
अन्तर्लीनस्य दुःखा (अनुष्टुप्) इतिहासं पुराणं च (अनुष्टुप्) २३
अन्वेष्टव्यो यदसि (मन्दा.) १३ इदं कविभ्यः पूर्वे (अनुष्टुप्)
अपत्ये यत्तादृग्दुरित (शिख.) इदं विश्वं पाल्यं विधि (शिख.) ३०
अपरिस्फुटनिक्वाणे (अनुष्टुप्) इयं गेहे लक्ष्मीरिय (शिंख.) ३८
अपि जनकसुताया (मालिनी) २६ इह समदशकुन्ता (मालिनी) २०
अपूर्वकर्मचण्डाल (अनुष्टुप्) ४६
अप्रतिष्ठे कुलज्येष्ठे (अनुष्टुप्) २५ ईदृशानां विषाकोऽ(अनुष्टुप्)
अमृताघ्मातजीमूत (अनुष्टुप्) २१
अयं तावद्बाष्पस्त्रुटित (शिख.) २९ उत्पत्तिपरिपूतायाः (अनुष्टुप्) १३
अयं शैलाघातक्षुभित (शिख.) उपायानां भावादवि (शिख.) ४४
अयं हि शिशुरेकको (पृथ्वी)
अयि कठोर यशः किल (द्रुत.) २७ ऋषयो राक्षसीमाहु (अनुष्टुप्) २९
अरुन्धति जगद्वन्द्ये (अनुष्टुप्) १८ ऋषीणामुग्रतपसां (अनुष्टुप्) ५०
अलसललिततमुग्धा (मालिनी) २४
अवदग्धबर्वरि (मञ्जुभाषिणी) एको रसः करुण एव (वस.) ४७
अवनिरमरसिन्धुः (मालिनी) ४८ एतत्पुनर्वनमहो (वसन्त.) २२
अस्मिन्नंगस्त्यप्रमुखाः (इन्द्र) एतद्धि परिभूतानां (अनुष्टुप् ) २४
अस्मिन्नेव लतागृहे (शार्दूल.) ३७ एनद्वैशसवज्रघोर (शार्दूल.) २५
अस्यैवासीन्महति (मन्दा.) २५ एतस्मिन्मदकलमल्लि (प्रहर्षि.) ३१
अहेतुः पक्षपातो(अनुष्टुप् ) १७ एतस्मिन्मसृणितराज (प्रहर्षि.) १८
अहो प्रश्रयोयोगेऽपि (अनुष्टुप्) २३ एतानि तानि गिरिनिर्झ (वस.) २५
अहो प्रासादिकं रूप (अनुष्टुप्) २० एते त एव गिरयो ( वसन्त.) २३
एते ते कुहरेषु गद्गद (शार्दू.) ३०
अङ्के श्लो. अङ्के श्लो.
एतौ हि जन्मसिद्धानौ (अनु.) १६ चूडाचुम्बितकङ्कप (शार्दूल.) २०
एष वः श्लाघ्यसंबन्धी (अनु.) ज.
एष साङ्ग्रामिकोऽन्या (अनु.) २२ जगन्मङ्गलमात्मानं (अनुष्टुप्)
एषा वसिष्ठशिष्याणां (अनु.) १३ जनकानां रघूणां च (अनु.) १७
क. जनकानां रघूणां च (अनु.) ५१
कठोरपारावतकण्ठ (वंश.) २५ जनकानां रघूणां च (अनु.) ४२
कण्डूलद्विपगण्डपि (शार्दूल.) जातस्य ते पितुरपीन्द्र (वस.) २४
कतिपयकुसुमोद्गमः (पुष्पि.) २० जामातृयज्ञेन वयं (इन्द्रवज्रा) ११
कथं हीदमनुष्ठानं (अनुष्टुप् ) २१ जीवत्सु तातपादेषु (अनुष्टुप्) १९
कन्यां दशरथो रा (अनुष्टुप्) जीवयन्निव ससाध्वस (रथो.) २४
कन्यायाः किल पूजय (शार्दू.) १७ जृम्भितं च विचित्राय (अनु.)
करकमलवितीर्णै (मालिनी) २५ ज्याजिह्वया वलयि (वसन्त.) २९
करपल्लवः स तस्याः (आर्या ) ४१ त.
कामं दुग्धे विप्रकर्षं (शालिनी) ३० तटस्थं नैराश्यादपि (शिख.) १३
किं चाक्रान्तकठोर ( शार्दूल.) १९ तत्कालप्रियजनविप्र (प्रहर्षिणी) ३०
किं त्वनुष्ठाननित्य (अनुष्टुप्) तथैव रामः सीतायाः (अनु.) ३२
किमपि किमपि म (मालिनी) २७ तुरगविचयव्यग्रानुर्वी (हरिणी) २३
किरति कलितकिं (मालिनी) ते हि मन्ये महात्मानः (अनु.) ४८
किसलयमिव मुग्धं (मालिनी) त्रस्तैकहायनकुरङ्ग (वसन्त.) २८
कुवलयदलस्निग्धश्या (हरि.) १९ त्रातुं लोकानिव परि (मन्दा.)
कृशाश्वः कौशिको राम (अनु.) त्वदर्थमिव विन्यस्तः (अनु.) ३६
कृशाश्वतनया ह्येते (अनुष्टुप्) १५ त्वमेव ननु कल्याणि (अनुष्टुप्) १०
कोऽप्येष संप्रति न (वसन्त.) ३३ त्वया जगन्ति पुण्यानि (अनु.) ४३
क्रोधेनोद्धतधूतकुन्तल (शार्दू.) ३५ त्वया सह निवत्स्यामि (अनु.) १८
क्लिष्टो जनः किल जनै (वस.) १४ त्वरस्ववत्से वैदेहि (अनुष्टुप् ) १९
क्व तावानानन्दो निर (शिख.) ३३ त्वं जीवितं त्वमसि मे (वस.) २६
क्षुभिताः कामपि दशां (अनु.) १२ त्वं वह्निर्मुनयो वसिष्ठ (शार्दूल.)
ग. त्वष्टृयन्त्रभ्रमिभ्रान्त (अनुष्टुप्)
गुञ्जत्कुञ्जकुटीरकौशिक(शार्दू.) २९ द.
गृहीतो यः पूर्वं परिण (शिख.) ४० दत्ताभये त्वयि यमा (वसन्त.) ११
घ. दत्तेन्द्राभयदक्षिणै (शार्दूल.) १८
घोरं लोकेवि ततमय (मन्दा.) ददतु तरवः पुष्पै (हरिणी) २४
च. दधति कुहरभाजां (मालिनी) ११
चतुर्दश सहस्राणि (अनुष्टुप्) १५ दर्पेण कौतुकवता (वसन्त.) ११
चिरं ध्यात्वा ध्यात्वा नि (शि.) ३८ दलति हृदयं शोको (हरिणी) ३१
चिराद्वेगारम्भी प्रसृत (शिख.) २६
अङ्के श्लो. अङ्के श्लो.
दह्यमानेन मनसा (अनुष्टुप्) पुरा यत्र स्रोतः पुलि (शिख.) २७
दिनकरकुलचन्द्र (पुष्पिताग्रा ) पूरोत्पीडे तटाकस्य (अनुष्टुप्) २९
दिष्ट्या सोऽयं महाबाहु (अनु.) ३२ पौलस्त्यस्य जटायुषा (शार्दूल.) ४३
दुःखसंवेदनायैव (अनुष्टुप्) ४७ प्रत्युक्तस्येव दयिते (अनुष्टुप्) ४६
दृष्टिस्तृणीकृतजग (वसन्त.) १९ प्रसाद इव मूर्तस्ते (अनुष्टुप्) १४
देवस्त्वां सविता धिनो (शार्दू.) २७ प्रियप्राया वृत्तिर्वि (शिखरिणी)
देवि सीते नमस्तेऽस्तु (अनु.) १० प्रियागुणसहस्राणां (अनुष्टुप्) ३४
देव्या अपि हि वैदेह्या (अनु.) प्रिया तु सीता रामस्य (अनु.) ३१
देव्या शून्यस्य जगतो (अनु.) ३३
न. बाष्पवर्षेण नीतं वो (अनुष्टुप्) २९
न किंचिदपि कुर्वाणः (अनु.) १९ ब्रह्मादयो ब्रह्महिताय (उप.) १५
न किंचिदपि कुर्वाणः (अनु.) ब्रह्मादयो ब्रह्महिता (उपजाति) १५
न किल भवतां देव्याः (हरि.) ३२
न तेजस्तेजस्वी प्रसृत (शिख.) १४ भो भो लव महाबाहो (अनु.)
नन्वेष त्वरितसुम (प्रहर्षिणी) भ्रमिषु कृतपुटान्त (मालिनी) १९
न प्रमाणीकृतः पा (अनुष्टुप्)
नमो वः परमास्त्रेभ्यो (अनु.) ११ मनोरथस्य यद्वीजं (अनुष्टुप्) २०
नवकुवलयस्निग्धै (हरिणी) २२ मन्थादिव क्षुभ्यति (इन्द्रवज्रा ) १७
नियोजय यथाधर्मं (अनुष्टुप्) २० महिम्नामेतस्मिन्विनय (शिख.) २१
निष्कूजस्तिमिताः क्व (शार्दू.) १६ मा निषाद प्रतिष्ठां (अनुष्टुप्)
नीरन्ध्रबालकदली (वसन्त.) २१ मुनिजनशिशुरेकः (मालिनी)
नीवारौदनमण्डभु(शार्दूल.) मेघमालेव यश्चाय (अनुष्टुप्) २४
नूनं त्वया परिभवं (वसन्त.) २३ म्लानस्य जीवकुसुम (वसन्त.) ३६
नैताः प्रियतमा वाचः (अनु.) ३४
य एव मे जनः पूर्व (अनुष्टुप्)
पञ्चप्रसूतेरपि तस्य (उपजाति) १६ यत्र द्रुमा अपि मृगा (वसन्त)
पतनविरलैः प्रान्तो (हरिणी) २० यत्रानन्दाश्च मोदाश्च(अनु.) १२
परां कोटिं स्नेहे परि(शिख.) २८ यत्सावित्रैदीपितं भू (शालिनी) ४२
परिणतकठोरपुष्कर (आर्या) १३ यथा तिरश्चीनमलात (उप.) ३५
परिपाण्डुदुर्बलकपोल (मञ्जु.) यथा वसिष्ठाङ्गिरसौ (अनुष्टुप्) १५
पश्चात्पुच्छं वहति वि (मन्दा.) २६ यथेच्छाभोग्यं वो वन (शिख.)
पश्यामि च वनस्था (अनुष्टुप्) १७ यथेन्दावानन्दं व्रजति (शिख.) २६
पातालोदरकुञ्जपुञ्ज (शार्दूल.) १४ यदस्याः पत्युर्वा रहसि (शिख.) १४
पाप्मभ्यश्च पुनाति वर्ध (शार्दू.) २१ यदा किंचित्किंचित्कृत (शिख.) ३५
पुत्रसंक्रान्तलक्ष्मीकै (अनुष्टुप्) २२ यदि च वयमप्येवंप्रा (हरि.) २८
यदि नो सन्ति सन्त्येव (अनु.) २८
अङ्के श्लो. अङ्के श्लो.
यदृच्छासंवादः किमु (शिख.) १६
यं ब्रह्माणमियं देवी (अनुष्टुप्) शम्बूको नाम वृष (अनुष्टुप्)
यथा पूतंमन्यो निधि (शिख.) १० शान्तं महापुरुषसंग (वसन्त.)
यस्यां ते दिवसास्त (शार्दूल.) २८ शिशुर्वा शिष्या वा यद (शिख.) ११
येनोद्गच्छद्विसकिसलय(मन्दा.) १५ शुक्लाच्छदन्तच्छविसु (इन्द्र.) २७
योऽयमश्वः पताकेय (अनु.) २७ शैशवात्प्रभृति तोषितां (रथो.) ४५
श्रमाम्बुशिशिरीभव (पृथ्वी) ३७
रणत्करणझञ्झण (पृथ्वी)
राज्याश्रमनिवासो (अनुष्टुप्) स एष ते वल्लभशाखि (उप.)
संख्यातीतैर्द्विरदतुरग (मन्दा.) १२
लीलोत्खातमृणाल (शार्दूल.) १६ सतां केनापि कार्येण (अनु.) ४१
लौकिकानां हि साधूनां (अनु.) १० संतानवाहीन्यपि मानु (इन्द्र.)
संबन्धस्पृहणीयता (शार्दूल.) ४०
वज्रादपि कठोराणि (अनुष्टुप्) संबन्धिनो वसिष्ठादी (अनु.) १६
वत्सायाश्च रघूद्वह (शार्दूल.) ३२ समयः स वर्तत इवैष (मञ्जु.) १८
वपुरवियुतसिद्धा (मालिनी) २४ समाश्वसिहि कल्याणि (अनु.)
वसिष्ठ एव ह्याचार्यो (अनुष्टुप्) १४ सर्वथा व्यवहर्तव्यं (अनुष्टुप्)
वसिष्ठाधिष्ठिता र्दे (अनुष्टुप्) स राजा तत्सौख्यं स च (शि.) १२
वसिष्ठो वाल्मीकिर्दशरथ (शि.) ३९ सस्वेदरोमाञ्चितकम्पि (उप.) ४२
वितरति गुरुः प्राज्ञे (हरिणी) स संबन्धी श्लाघ्यः प्रिय (शि.) १३
विद्याकल्पेन मरुता (अनुष्टुभ् ) सिद्धं ह्येतद्वाचि वीर्यं (शालि.) ३२
विना सीतादेव्या किमि (शि.) ३० सीतादेव्या स्वकरक (मन्दा.)
विनिकर्तित एष वी (औपच्छ.) सुहृदिव प्रकटय्य (द्रुतविलं.) १५
विनिश्चेतुं शक्यो न (शिख.) ३५ सैनिकानां प्रमाथेन (अनुष्टुप्) ३१
विरोधो विश्रान्तः प्रस (शिख.) ११ सोढश्चिरं राक्षसमध्य (इन्द्र.)
विलुलितमतिपूरैर्बाष्प (मालि.) २३ सोऽयं शैलः ककुभ (मन्दा.) ३३
विश्वंभरात्मजा देवी (अनुष्टुप्) स्निग्धश्यामाः क्वचि (मन्दा.) १४
विश्वंभरा भगवती (वसन्त.) स्नेहं दयां च सौख्यं च (अनु.) १२
विस्रम्भादुरसि निपत्य (प्रह.) ४९ स्नेहात्सभाजयितुमे (वसन्त)
वीचीवातैः शीकरक्षो (शालि.) स्पर्शः पुरा परिचि (वसन्त.) १२
वृद्धास्ते न विचारणीय (शार्दू.) ३૪ स्मरसि सुतनु तस्मिन् (मालि.) २६
वेलोल्लोलक्षुभितकरु (मन्दा.) ३६
व्यतिकर इव भीम (मालिनी) १३ हा हा देवि स्फुटति (मन्दा.) ३८
व्यतिषजति पदा (मालिनी) १२ हा हा धिक्परगृहवास (प्रह.) ४०
व्यर्थं यत्र कपीन्द्रस (शार्दू.) ४५ हृदि नित्यानुषक्तेन (अनुष्टुप्)
हे हस्त दक्षिण मृतस्य (वस.) १०

भवभूतिग्रन्थत्रयगतसमश्लोकसंकलनात्मकं

परिशिष्टम्।

<MISSING_FIG href="../books_images/U-IMG-1727758574Untitled3.jpg"/>

१. रामः—किं त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति।
संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता॥
(उत्तर० १–८)

विश्वामित्रः—किं त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति।
संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता॥
(महावीर० ४–३३)

२. रामः—** ब्रह्मादयो ब्रह्माहिताय तप्त्वा परःसहस्रं शरदां तपांसि।
एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि॥ **( उ० १–१५)

रामः—**ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रं शरदस्तपांसि।
एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि॥ **(उ० ६–२५)

विश्वामित्रः—**ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रं शरदस्तपांसि।
एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि॥ **(म०वी० १–४२)

३. रामः—**जनकानां रघूणां च संबन्धः कस्य न प्रियः।
यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः॥ **(उत्तर० १—१७)

राजा—**जनकानां रघूणां च संबन्धः कस्य न प्रियः।
यत्र दाता ग्रहीता च कल्याणप्रतिभूर्भवान्॥ **(महावीर० १—५७)

४. लक्ष्मणः—**पुत्रसंक्रान्तलक्ष्मीकैर्यद्वृद्धेक्ष्वाकुभिर्धृतम्।
धृतं बाल्ये तदार्येण पुण्यमारण्यकव्रतम्॥ **(उत्तरराम० १—२२)

जनकः—**पुत्रसंक्रान्तलक्ष्मीकैर्यद्वृद्धेक्ष्वाकुभिर्धृम्।
त्वया तत्क्षीरकण्ठेन प्राप्तमारण्यकव्रतम्॥ **(महावीर० ४—५१)

५. रामः—एतस्मिन्मदकलमल्लिकाक्षपक्षा व्याधूतस्फुरदुरुदण्डपुण्डरीकाः।
बाष्पाम्भः परिपतनोद्गमान्तराले संदृष्टाः कुवलयिनो मया विभागाः॥
(उत्तर० १–३१)

मकरन्दः—**एतस्मिन्मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीकाः।
बाप्पाम्भःपरिपतनोद्गमान्तराले दृश्यन्तामविरहितश्रियो विभागाः॥ **(मालतीमाधव. ९—१४)

६. रामः—**उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः।
तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः॥ **(उत्तर० १–१३)

दशरथः—**निसर्गतः पवित्रस्य किमन्यत्पावनं तव।
तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः॥ **(महावीर० ४—२७ )

७.रामः—**नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
मूर्ध्नि स्थितिर्न चरणैरवताडनानि। **(उत्तर० १–१४)

माधवः—**नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
मूर्ध्नि स्थितिर्न मुसलैर्बत कुट्टनानि। **(मालती० ९–५१ )

८. लक्ष्मणः—**संबन्धिनो वसिष्ठादीनेष तातस्तवार्चेति।
गौतमश्च शतानन्दो जनकानां पुरोहितः॥ **(उत्तर० १–१६)

विश्वामित्रः—** अपि प्रवृत्तयज्ञोऽस्मैविदेहाधिपतिः सुखी।
गौतमश्च शतानन्दो जनकोनां पुरोहितः॥ **(महावीर० १–१९ )

९. रामः—जीवयन्निव ससाध्वसश्रमस्वेदबिन्दुरधिकण्ठमर्प्यताम्।
बाहुरैन्दवमयूस्वचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः॥
(उ० रा० १–३४)

माधवः—** जीवयन्निव समूढसाध्वसस्वेदबिन्दुरधिकण्ठमर्प्यताम्।
बाहुरैन्दवमयूस्वचुम्बितस्यन्दिचन्द्रमणिहारविश्रमः॥ **(मा० मा० ८–३ )

१०. रामः—**म्लानस्य जीवकुसुमस्य विकासनानि संतर्पणानि सकलेन्द्रियमोहनानि।
एतानि ते सुवचनानि सरोरुहाक्षि ! कर्णामृतानि मनसश्च रसायनानि॥ **(उत्तरराम० १–३६)

माधवः—** म्लानस्य जीवकुसुमस्य विकासनानि संतर्पणानि सकलेन्द्रियमोहनानि।
आनन्दनानि हृदयैकरसायनानि दिष्ट्या मयाप्यधिगतानि वचोमृतानि॥ **(मालतीमाध० ६–८)

११. रामः—**जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम्।
यां देवयजने पुण्ये पुण्यशीलामजीजनः॥ **(उत्तरराम० १–५१)

रामः—**जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम्।
तत्राप्यकरुणे पापे वृथा वः करुणा मयि॥ **(उत्तरराम० ६–४२)

१२. आत्रेयी—**मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥ **(उत्तरराम० २–५)

**मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥ **(वा० मा० बाल० २–१५)

१३. शम्बूकः—** चतुर्दश सहस्राणि चतुर्दश च राक्षसाः।
त्रयश्च दूषणखरत्रिमूर्धानो रणे हताः॥ **(उत्तरराम० २–१५)

जटायुः—** चतुर्दश सहस्राणि चतुर्दश च राक्षसाः।
त्रयश्च दूषणखरत्रिमूर्धानो रणे हताः॥ **(महावीर० ५–१३)

१४. रामः—** न किंचिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥ **(उत्तरराम० ६–१९)

विद्याधरः—**न किंचिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥ **(उत्तरराम० ६–५)

शम्बूकः—**इह समदशकुन्ताक्रान्तवानीरमुक्तप्रसवसुरभिशीतस्वच्छतोया वहन्ति।

फलभरपरिणामश्यामजम्बूनिकुञ्जस्खलनमुखरभूरिस्रोतसोनिर्झरिण्यः॥**

अपि च,–

**दधति कुहरभाजामत्र भल्लूकयूनामनुरसितगुरूणि स्त्यानमम्बूकृतानि।
शिशिरकटुकषायः स्त्यायते सल्लकीनामिभदलितविकर्णग्रन्थिनिष्यन्दगन्धः॥ **(उत्तरराम० २–२०।२१)

श्रमणा— इह समदशकुन्ताक्रान्तवानीरमुक्तप्रसवसुरभिशीतस्वच्छतोया वहन्ति।
फलभरपरिणामश्यामजम्बूनिकुञ्जस्खलनमुखरभूरिस्रोतसो निर्झरिण्यः॥

अपि च,—

**दधति कुहरभाजामत्र भल्लूकयूनाङ्गनुरसितगुरूणि स्त्यानमम्बूकृतानि।
शिशिरकटुकषायः स्त्यायते सल्लकीनामिभदलितविशीर्णग्रन्थिनिष्यन्दगन्धः॥ **(महावीर० ५ — ४०।४१ )

माधवः—** फलभरपरिणामश्यामजम्बूनिकुञ्ज-
स्खलनतनुतरङ्गामुत्तरेण स्त्रवतीम्॥ **(मालतीमाधव० ९।२४ )

सौदा०—**दधति कुहरभाजामत्र भल्लूकयूनामनुरसितगुरूणि स्त्यानमम्बूकृतानि।
शिशिरकटुकषायः स्त्यायते सल्लकीनामिभदलितविकर्णग्रन्थिनिष्यन्दगन्धः॥ **(मालतीमाधव० ९—६)

१५. शम्बूकः—** गुञ्जस्कुञ्जकुटीरकौशिकघटाघुक्कारवत्कीचक-
स्तम्बाडम्बरमूकमौकुलिकुलः क्रौञ्चाभिधोऽयं गिरिः। **(उ० २—२९)

माधवः—**गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारसंवेल्लित-
क्रन्दत्फेरवचण्डधात्कृतिभृतप्राग्भारभीमैस्तटैः॥ **(मालती० ५—१९)

१६. तमसा—**परिपाण्डुदुर्बलकपोलसुन्दरं
दधती विलोलकबरीकमाननम्। **(उत्तरराम० ३—४)

कामन्दकी—** परिपाण्डुपांसुलकपोलमाननं
दधती मनोहरतरत्वमागता। **(मालतीमाधव० २—४ )

१७. रामः—**लीलोत्खातमृणालकाण्डकवलच्छेदेषु संपादिताः
पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः।
सेकः शीकरिणा करेण विहितः कामं विरामे पुन-
येत्स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम्॥ **(उत्तरराम० २— १६)

माधवः—**लीलोत्खातमृणालकाण्डकवलच्छेदेषु संपादिताः
पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः।
सेकः शीकरिणा करेण विहितः कामं विरामे पुन-
र्न स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम्॥ **(मालतीमाध० ९—३४)

१८. रामः—**दलति हृदयं शोकोद्वेगाद्द्विधा तु न भिद्यते
वहति विकलः कायो मोहं न मुञ्चति चेतनाम्।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात्
प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम्॥ **(उत्तरराम० ३—३१)

माधवः—** दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते
वहति विकलः कायो मोहं न मुञ्चति चेतनाम्।
ज्वलयति वनूमन्तर्दाहः करोति न भस्मसात्
महरति विधिर्मर्मच्छेदी न कृन्वति जीवितम्॥ **(मालवी० ९—१२ )

—————————————

]


  1. “‘विन्देम देवतां’, ‘वन्देम देवतां वाचं’.” ↩︎

  2. “महाकालाभिधेयं चण्डीश्वरस्थानं सांप्रतमपि प्रथितं वरीवर्त्युज्जयिन्याम्। तथा च मेघदूतेऽपि — ‘भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य’ इति।” ↩︎

  3.  ↩︎
  4. “‘अद्य भग॰’ .” ↩︎

  5. “‘लाञ्छनो भवभूतिः’.” ↩︎

  6. “भवभूतिस्तु विदर्भाभिजनः सप्तमशतकोत्तरार्धीयकान्यकुब्जनृपस्य यशोवर्मणः सभायामासीदिति ‘कविर्वाक्पतिराजश्रीभवभूत्यादिसेवितः। जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम्’ इति राजतरङ्गिणीतः (४।१४४ ↩︎

  7. “‘जातू॰’.” ↩︎

  8. “‘ब्राह्मण’” ↩︎

  9. “’॰वश्येवानुवर्तते’” ↩︎

  10. “‘कार्यवशात्’.” ↩︎

  11. “‘कार्यवशात्’” ↩︎

  12. “‘यदि’” ↩︎

  13. “‘हृतानन्दना॰’.” ↩︎

  14. “‘हृतानन्दना॰’” ↩︎

  15. “‘चारणानि’.” ↩︎

  16. “‘चारणानि’” ↩︎

  17. ““॰न्तागता ब्र”.” ↩︎

  18. ““॰न्तागता ब्र”” ↩︎

  19. “’॰सानुत्सव’” ↩︎

  20. “‘राघवमातरः’” ↩︎

  21. “‘पुनरसौ’” ↩︎

  22. “‘गतः’” ↩︎

  23. “‘व्यवहर्तव्ये’” ↩︎

  24. “‘देव्यामपि हि वैदेह्यां’” ↩︎

  25. “’॰गृहे’” ↩︎

  26. “‘स्यात् ततोऽतिकष्टं’ इ” ↩︎

  27. “‘देवताश्च’” ↩︎

  28. “‘समाश्वसिहि’” ↩︎

  29. “‘अस्मान् वियोक्तुं’” ↩︎

  30. “’॰भावाः’” ↩︎

  31. “‘समग्गस्स’” ↩︎

  32. “‘आवुत्तो’ (= भगिनीभर्ता ↩︎

  33. “’॰ऽनुधावति’” ↩︎

  34. “‘दोहदो’.” ↩︎

  35. “‘दोहदो’” ↩︎

  36. “‘सम्पादयितव्य’” ↩︎

  37. “‘यद्यदेषा’” ↩︎

  38. “‘ऋष्यशृङ्गेण’.” ↩︎

  39. “‘द्रक्षामि’” ↩︎

  40. “‘किमादिष्टः’” ↩︎

  41. “‘आह’” ↩︎

  42. “‘लोकानां’” ↩︎

  43. “‘राहवकुल॰” ↩︎

  44. “‘विश्राम्यतां भगवानष्टा’” ↩︎

  45. “‘वीथिकायां’” ↩︎

  46. “‘कियन्तमवधिं यावत्’” ↩︎

  47. “’॰विशुद्धि’” ↩︎

  48. “‘कष्टं’.” ↩︎

  49. “‘कष्टं’” ↩︎

  50. “‘अशिवं’.” ↩︎

  51. “‘अशिवं’” ↩︎

  52. “‘भोदु’.” ↩︎ ↩︎

  53. “‘कृशाश्वात्’” ↩︎

  54. “‘सहस्राः शरदः’.” ↩︎

  55. “‘सहस्राः शरदः’” ↩︎

  56. “‘अपश्यन्’” ↩︎

  57. “‘खुडिद’” ↩︎

  58. “‘द्रष्टव्यं’” ↩︎

  59. “‘तस्मिं’.” ↩︎ ↩︎

  60. “‘तस्मिं’” ↩︎ ↩︎

  61. “‘अपि’” ↩︎ ↩︎

  62. “‘वत्स’” ↩︎ ↩︎

  63. “‘नवे दारपरिग्रहे” ↩︎

  64. “‘नवे दारपरिग्रहे’” ↩︎

  65. “प्रतनुविरलैः” ↩︎

  66. “‘कुन्तलैः’” ↩︎

  67. “‘मुकुलैः’” ↩︎

  68. “‘मधुरैरम्बानां’” ↩︎

  69. “‘एषा मन्थरा’.” ↩︎

  70. “‘अनुत्तरं’” ↩︎

  71. “‘वृत्तान्तोऽन्तरितः’” ↩︎

  72. “‘कृतम्’” ↩︎

  73. “तथा हि रघुवंशे कालिदासः (७।७१ ↩︎

  74. “‘अमर्षात्’” ↩︎

  75. “‘पितुः प्रपिता॰’” ↩︎

  76. “‘तापं’” ↩︎

  77. “‘उददीधरत्’” ↩︎

  78. “‘ध्यानपरा’” ↩︎

  79. “‘एदं’” ↩︎

  80. “‘लुलित’” ↩︎

  81. “‘संजात’” ↩︎

  82. “’॰श्रमतरूणि’” ↩︎

  83. “‘शमिनो’” ↩︎

  84. “‘सुरस॰’” ↩︎

  85. “‘अपि च’” ↩︎

  86. “‘एषा पञ्चवट्यां शूर्पणखा’” ↩︎

  87. “‘जेव्व’” ↩︎

  88. “‘विप्रयोग॰’” ↩︎

  89. “‘जधा तथा भोदु’” ↩︎

  90. “‘ते बाष्पौघः’” ↩︎

  91. “‘भराध्मात॰’.” ↩︎

  92. “‘भराध्मात॰’” ↩︎

  93. “‘करोति’” ↩︎

  94. “‘अन्यतः क्षि॰’” ↩︎

  95. “‘गृध्रराजस्य’” ↩︎

  96. “‘ऋष्यमूकपरि॰’” ↩︎

  97. “‘श्रमणा’” ↩︎

  98. “‘भुवो वि‍॰’” ↩︎

  99. “‘धूसर॰’” ↩︎

  100. “‘अचिरं’.” ↩︎

  101. “‘अचिरं’” ↩︎

  102. “‘अत्र… संविष्टौ भवावः’” ↩︎

  103. “’॰मजणिदाए निद्दाए’” ↩︎

  104. “‘समुन्मीलयति च’” ↩︎

  105. “‘तानि वचनानि सरोरुहाक्ष्याः’” ↩︎

  106. “‘सइस्सं’” ↩︎

  107. “‘अयि’” ↩︎

  108. “‘प्रसुप्तैव’” ↩︎

  109. “‘अये’” ↩︎

  110. “‘स्वप्नोद्वेगं’” ↩︎

  111. “‘यत्स्नेहसारे’” ↩︎

  112. “‘प्रेम’” ↩︎

  113. “‘कञ्चित्’” ↩︎

  114. “‘तीव्रसंवेगी’” ↩︎

  115. “‘प्रसृप्तम्’” ↩︎

  116. “‘यत्पूरितं’” ↩︎

  117. “‘शुद्धं’” ↩︎

  118. “‘निमि॰’” ↩︎

  119. “‘तच्चतिदूर॰’” ↩︎

  120. “‘प्रियैः’” ↩︎

  121. “‘पृथगाशयां प्रियाम्’” ↩︎

  122. “‘सौनिको’” ↩︎

  123. “अस्पर्शनीयः’” ↩︎

  124. “‘आहितम्’” ↩︎

  125. “‘तां’.” ↩︎

  126. “‘रणरण॰’” ↩︎

  127. “‘आरुहामि’” ↩︎

  128. “अस्याग्रे ‘णमो अज्जउत्तचरणकमलाणं सअलगुरुअणाणं’” ↩︎

  129. “‘इयं’” ↩︎

  130. “’॰च्छं भोग्यं वो’” ↩︎

  131. “‘तपसो’” ↩︎

  132. “अगं विन्ध्यपर्वतं स्त्यायति स्तभ्नातीति अगस्त्यः, यथोक्तं ब्रह्मपुराणे अगस्त्यो दक्षिणामाशामाश्रित्य नभसि स्थितः। वरुणस्यात्मजो योगी विन्ध्यवातापिमर्दनः॥ इति।” ↩︎

  133. “‘तत्र’” ↩︎

  134. “‘ऋषीणां’” ↩︎

  135. “‘आ जन्म॰’.” ↩︎

  136. “चित्रं” ↩︎

  137. “‘प्रतिभाचक्षुः’” ↩︎

  138. “‘मण्डितः’” ↩︎

  139. “अस्ति.” ↩︎

  140. “‘उपकल्पिताः’” ↩︎

  141. “‘अवाप्त॰’” ↩︎

  142. “‘हन्त’” ↩︎

  143. “‘कठोरीभूतः’.” ↩︎

  144. “‘गात्रं’.” ↩︎

  145. “‘प्रसादोपादानः’” ↩︎

  146. “‘लोकनाथाः’” ↩︎

  147. “‘जनस्थाने’” ↩︎

  148. “‘सङ्कुलवि॰’” ↩︎

  149. “‘घोर’” ↩︎

  150. “‘स्वच्छाम्भसः’” ↩︎

  151. “‘भयानकस्य’” ↩︎

  152. “‘हृतीहारमतेवासौ’” ↩︎

  153. “‘दुःसहैः’” ↩︎

  154. “‘पर्वतैः’” ↩︎

  155. “‘मध्यमारण्यकानि।’” ↩︎

  156. “’॰लतानि’” ↩︎

  157. “’॰नीर॰’” ↩︎

  158. “’॰तश्यामलातो॰’” ↩︎

  159. “‘घनीभूतः’” ↩︎

  160. “‘तथापि तत्पूर्व॰’” ↩︎

  161. “‘स्नेहो बला॰’” ↩︎

  162. “‘संबन्धि॰’” ↩︎

  163. “‘तामद्य’” ↩︎

  164. “‘भवत्॰” ↩︎

  165. “’॰तविमानावतरण॰’” ↩︎

  166. “(‘इतस्तर्हि देवः प्रवर्तयतु पुष्पकं ↩︎

  167. “’॰घूत्कार॰’” ↩︎

  168. “‘क्रौञ्चवतः’” ↩︎

  169. “तल्लक्षणं चोक्तं दशरूपके (१।३४ ↩︎

  170. “‘पर्युपास्तिरनुनयः’ इति दशरूपके (१।३४ ↩︎

  171. “‘प्रकृष्टतां गतेन’” ↩︎

  172. “‘अतितरां’.” ↩︎

  173. “‘सबन्धनं’.” ↩︎

  174. “’°निप्रमादस्था॰’” ↩︎

  175. “पुटप कविधिरुक्तः शार्ङ्गधरसंहितायां ‘पुटपाकस्य मात्रेयं लेपस्यांगारवर्णता। लेपं च द्व्यंगुलं स्थूलं कुर्याद्वांगुष्ठमात्रया’ इति।” ↩︎

  176. “’॰नागमनं॰’” ↩︎

  177. “’॰रीं विलोकितुमा॰’” ↩︎

  178. “‘राजधानीस्थित॰’” ↩︎

  179. “‘चारिणीं’” ↩︎

  180. “‘निष्क्रम्य’” ↩︎

  181. “‘अभूताहरणं छद्म’ इति तल्लक्षणम्।” ↩︎

  182. “’ ॰कुसुम॰’” ↩︎

  183. “‘प्रमादः प्रमादः’” ↩︎

  184. “प्रमादः प्रमादः’” ↩︎

  185. “‘निस्वाने’” ↩︎

  186. “सप्तमश्लोकस्य टीका नोपलब्धा।” ↩︎

  187. “‘जनस्थानं’” ↩︎

  188. “‘तत्’.” ↩︎

  189. “‘आमीलंत॰’.” ↩︎

  190. “‘आतप्त॰’” ↩︎

  191. “‘संतापजां’” ↩︎

  192. “‘मग्गिस्सदि’ (=मार्गिष्यते ↩︎

  193. “तल्लक्षणं ‘अधिबलमभिसंधिः’ (द. रू. १।४० ↩︎

  194. “‘ममावि’” ↩︎

  195. “‘कीदिसो मे हिअआणुबंधो त्ति ण आणामि’ (=कीदृश इव मे हृदयानुबन्ध इति न जानामि ↩︎

  196. “‘जाणं’ (=येषां ↩︎

  197. “‘अहिउजिस्सदि (=अभियोक्ष्यते ↩︎

  198. “‘कथं देवो रघुनन्दनः’” ↩︎

  199. “‘तारिसंपि’” ↩︎

  200. “‘बहुशो यदेभ्यः” ↩︎

  201. “‘यः’.” ↩︎

  202. “‘पश्यन्ती प्रियं भूयाः’” ↩︎

  203. “‘प्रस्तरोद्भेदयोग्यः’” ↩︎

  204. “‘पिआरुहो (=प्रियार्हो ↩︎

  205. “‘किमिहोत्तरेण’” ↩︎

  206. “‘अज्जउत्तं प्रलित्तं पदीवेसि’” ↩︎

  207. “‘रोइदि’” ↩︎

  208. “’॰निर्वापणानि’” ↩︎

  209. “‘एव धार्यते’” ↩︎

  210. “‘गाढोद्वेगं’” ↩︎

  211. “‘किल’” ↩︎

  212. “‘भावाः परि॰’” ↩︎

  213. “‘सखि’” ↩︎

  214. “‘मोहिदम्हि एदेहिंअज्जउत्तवअणेहिं’” ↩︎

  215. “‘दंशः’” ↩︎

  216. “‘एव्वं म्हि’” ↩︎

  217. “‘अतिनिष्कम्प॰’” ↩︎

  218. “‘तत्तत्प्रिय॰” ↩︎

  219. “‘उद्दामोयं’” ↩︎

  220. “‘मया धी॰’” ↩︎

  221. “उपमेयं ‘स्नेहार्द्राःशोकदारुणा वाचः’ इत्याद्यसत्यतामापाद्य ‘सविषा मधुनो धारा’ इति उपमानं सत्यतया स्थापनादत्रापह्नुतिः। प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः (का.प्र. १०।१४६ ↩︎

  222. “‘संखोएण’” ↩︎

  223. “‘किंपि पमुद्धं मे हिअअं’” ↩︎

  224. “‘अभ्यापन्नः’” ↩︎

  225. “‘तदन्वतः’” ↩︎

  226. “’॰मस्मगूढ॰’” ↩︎

  227. “‘संदावेसि’ (=संतापयसि ↩︎

  228. “‘पमूढो’” ↩︎

  229. “‘पमूढो” ↩︎

  230. “‘मलिधारस्स’” ↩︎

  231. “‘त्वत्पाणिस्पर्श एव’” ↩︎

  232. “‘चिरसब्भाव सोम्म॰’” ↩︎

  233. “‘हरंतेण’” ↩︎

  234. “‘सिज्जंतणीसहविवलहत्थो वेअणसीलो भवसो विअ’” ↩︎

  235. “‘तुहिननिकरौपम्य॰’” ↩︎

  236. “अनेन सीताया विषादः स्फुटं प्रतीयते।” ↩︎

  237. “इदं वाक्यं सीतायाःउन्मादावस्थाxxxxxxx” ↩︎

  238. “‘अन्वर्थ एवाय॰’” ↩︎

  239. “‘अविरत॰’” ↩︎

  240. “दैन्यं सम्यग्द्योतयतीदं सीतावचनम्।” ↩︎

  241. “‘जाम्बवतोऽपि यत्र न’” ↩︎

  242. " ‘बहुमण्णाविदम्हं तं पुब्वविरहं’” ↩︎

  243. “‘नन्वावामायुष्मतोः’” ↩︎

  244. “‘वर्षवर्धनमङ्गलानि’” ↩︎

  245. “‘अश्वमेधाय’” ↩︎

  246. “‘परिच्चाअलज्जासल्लं’” ↩︎

  247. “ईर्ष्या व्यज्यते वाक्येनानेन।” ↩︎

  248. “इदं च वाक्यं सीताया लज्जातिशयं द्योतयति।” ↩︎

  249. “असूयाविजृम्भितमिदं सीतावाक्यम्।” ↩︎

  250. “इदं हि वचनं सीताया निर्वेदावस्थां सूचयति” ↩︎

  251. “‘पुण्णिमाचंद’.” ↩︎

  252. “एक एव करुणविप्रलंभरसो विभिन्नोद्दीपनहेतुकतया विलक्षणत्वाभासकोऽत्रावxxते। यथा सलिलं पवनादिहेतुभिः जलभ्रमि-बुहृद्ध-तरङ्गादिविकारोपनतं तत्तन्नाम्ना पृथxxxआपाततः सलिलतो वैलक्षण्याभासकं च भवति, वस्तुतस्तु तत्सर्वं यथा केवलं xxxx तंददित्वाशवः।” ↩︎

  253. “‘वाश्रयते’” ↩︎

  254. “विप्रलम्भानुप्राणितः करुणोऽयं रस इति भावः। तल्लक्षणं चोक्तं वाचस्पतिमिश्रप्रमुखैः — ‘यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये। विमनायते यदेकस्तदा भवेत् करुणविप्रलम्भः॥’ इति।” ↩︎

  255. “त्वमि” ↩︎

  256. “‘त्वमि’” ↩︎

  257. “‘अकालणाणं’” ↩︎

  258. “‘ठविरसत्थस्स’” ↩︎

  259. “‘दाण्डायनः’, ‘भाण्डायनः’” ↩︎ ↩︎

  260. “‘वाग्वो वा विमो वा’” ↩︎

  261. “समांसमधुपर्कविषये त्वपरार्कः — ‘महान्तमुक्षाणं बलीवर्दं तदलाऽत्रेजं श्रोत्रियाय मधुपर्कार्हाय गृहमागतायोपकल्पयेत् पचेत्, संस्कुर्यादिति भावः’ इत्याह।” ↩︎

  262. “यथोक्तं याज्ञवल्क्येन (१।१०९ ↩︎

  263. “मधुपर्के च यज्ञे च पितृदैवतकर्मणि। अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः’ ‘एष्वयेषु पञ्चन्हिसन् वेदतत्त्वार्थविद्विजः। आत्मानं च पशुं चैव गमयत्युत्तमां गतिम्॥ (मनुः ५।४१–४२ ↩︎

  264. “दधि सर्पिर्जलं क्षौद्रं सिता चैतैश्च पञ्चभिः। प्रोच्यते मधुपर्कः’ इति निर्मोसो मधुपर्कः। वसिष्ठस्तु - क्षत्रियाभ्यागताय सर्पिष्मदन्नं पचतीति इत्याह।” ↩︎

  265. “‘कतिपये संवत्सराः’” ↩︎ ↩︎

  266. “‘चिरन्तनप्रियसुहृदं’” ↩︎

  267. “‘संवृत्तं’” ↩︎

  268. “‘यत्’” ↩︎

  269. “‘तथा ब्रह्मवादी पुराणराजर्षिः’” ↩︎

  270. “‘यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम्। पराको नाम कृच्छ्रोऽयं सर्वबाष्पावनोदनः’ (मनुः ११।२१५ ↩︎

  271. “कृन्तति पापं कुच्छ्रं नाम तपः, संतपने भवं सांतपनम्, ‘गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्। एकरात्रोपवासश्च कृच्छ्रंसांतपनं स्मृतम्’ (मनुः ११।२१२ ↩︎

  272. “‘आत्तरसधातुरनवष्टम्भो नाद्यापि’” ↩︎

  273. “‘तद्वत्तु या दैवतं’” ↩︎

  274. “‘विपाकः’” ↩︎

  275. “‘इत्येष’” ↩︎

  276. “‘महानध्यवसायः’” ↩︎

  277. “‘समुब्भवंति’” ↩︎

  278. “‘एवं गदें’” ↩︎

  279. “ब्रह्मणः पारः स्वरूपप्रत्यक्षत्वम्, तस्यायनं प्राप्तिसाधनं विज्ञानशास्त्रमित्यर्थः।” ↩︎

  280. “‘राएसी’ (= राजर्षिः ↩︎

  281. “‘मङ्गल्या’” ↩︎

  282. “‘पौरजानपदा नाग्निशुद्धिं’” ↩︎

  283. “‘परिलघूनि’” ↩︎

  284. “‘जगतः’” ↩︎

  285. “‘उम्मीलंति’” ↩︎

  286. “‘दारान्नस्निग्धं’” ↩︎

  287. “‘परमं दूषितमभूत्’” ↩︎

  288. “‘निष्यन्दं’” ↩︎

  289. “‘सुखप्रदः’” ↩︎

  290. “‘विधिरहो विशिनष्टि मनोरुजं’” ↩︎

  291. “’॰मंडणं पप्फुरंतसुद्धविहसिदं’” ↩︎

  292. “‘यथा हि शान्ता’” ↩︎

  293. “‘तथैव’” ↩︎

  294. “’॰विधोऽस्य॰’.” ↩︎

  295. “‘राजपुत्रि’” ↩︎

  296. “‘निषिक्ता’” ↩︎

  297. “‘शिष्टासमनेऽवनध्यायः’ इति वचनाज्जनकादीनामागमनहेतुकोऽधानध्यायो बटूनां पठनराहित्यम् इति भावः।” ↩︎

  298. “‘कलकलः’” ↩︎

  299. “‘दाव’” ↩︎

  300. “‘तथा हि’” ↩︎

  301. “चर्मोक्तं राजन्येभ्यः पारस्करेण—‘रौरवं राजन्यस्य’ इत्यादिना।” ↩︎

  302. “‘क्षत्रियस्य तु मौर्वी ज्या’ इति मनुः।” ↩︎

  303. “‘कार्पासं माञ्जिष्ठं क्षौमं क्षत्रियस्य’ इति वसिष्ठः।” ↩︎

  304. “‘ब्राह्मणो बैल्वपालाशौ क्षत्रियौ वटखादिरौ। पैप्पलौदुम्बरौ वैश्यो’इत्यनेन विरोवोऽत्र।” ↩︎

  305. “‘बालकं’” ↩︎

  306. “‘शिशुतामौग्ध्यमसृणो’” ↩︎

  307. “‘अज्ञातनामक्रमाभिजनान्’” ↩︎

  308. “‘संपूर्णः’ " ↩︎

  309. “समxxxxx” ↩︎

  310. “देव” ↩︎

  311. “‘पृच्छामः’” ↩︎

  312. “‘सन्दर्भान्त॰’” ↩︎

  313. “‘अपनोदनार्थं’” ↩︎

  314. “‘प्रसवक्रमेण’” ↩︎

  315. “‘यमजौ’” ↩︎

  316. “नाटकरूपेणेत्यर्थः, रसवान् करुणरसानुप्राणितंशृङ्गाररसमयः।” ↩︎

  317. “‘कीदृशः’” ↩︎

  318. “‘एकलिआए’” ↩︎

  319. “‘अस्मि’” ↩︎

  320. “‘परित्ताहिपरित्ताहि’” ↩︎

  321. “‘वाऽऽख्यातैः’.” ↩︎

  322. “‘वाऽऽख्यातैः’” ↩︎

  323. “‘पूरयतु कौतुकं वत्सः।’” ↩︎

  324. “अत ‘शत’ पदं तन्न्यूनतापरिहारार्थम्, अनेकत्वख्यापकं वा; अन्यथा ‘संख्यातीतद्विरदतुxxxxxxx(५।१२ ↩︎

  325. “‘एवं बलमिदं’” ↩︎

  326. “‘इह न प्रत्ययः तद्गत्वा पृ॰’” ↩︎

  327. “‘ते सन्ति’” ↩︎

  328. “’॰मध्ये वराकश्चरतु’” ↩︎

  329. “‘ह्यायुधीय॰’” ↩︎

  330. “‘कृतमश्वेनानेन’” ↩︎

  331. “‘विस्फुरितशस्त्राः’” ↩︎

  332. “‘मुद्गारि’” ↩︎

  333. “‘प्रोद्वेल्लत्॰’” ↩︎

  334. “‘सैन्यकाये’” ↩︎

  335. “’॰ऽप्रसिद्धः प्र॰’” ↩︎

  336. “‘किमस्य’” ↩︎ ↩︎

  337. “’॰ज्वरं’” ↩︎

  338. “‘उत्तम्भयन्’” ↩︎

  339. “‘मुण्ड॰’” ↩︎

  340. “’॰वृत्य युद्धाभिसारिणः’” ↩︎

  341. “‘असि’” ↩︎

  342. “‘भेध्य॰’” ↩︎

  343. “‘अभिनववयःकाम्यकाग्रे भवद्भिः’” ↩︎

  344. “‘परिकरः’” ↩︎

  345. “‘अस्मत्सैन्यघोषः प्रशाम्यति’” ↩︎

  346. “‘अवतीर्यते’” ↩︎

  347. “‘किमु किमु गुणा॰’” ↩︎

  348. “यच्चोक्तं रामायणे (बा. स. २१।१३ ↩︎

  349. “‘भूयसा जीवधर्म एष यद्रसमयी’” ↩︎

  350. “‘तमप्रतिसंख्येयमनिबंधनं प्रेमाणं’” ↩︎

  351. “‘एकतः’” ↩︎

  352. “‘समनुगतः’.” ↩︎

  353. “‘समनुगतः’” ↩︎

  354. “‘न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम्’ (मनुः ७।९१ ↩︎

  355. “‘न्याय्यमनु’.” ↩︎

  356. “‘न्याय्यमनु’” ↩︎

  357. “‘न्यायः’” ↩︎

  358. “‘दिष्ट्या गतं’” ↩︎

  359. “अत्र भावसाम्यद्योतकः कालिदासीयः श्लोकः ‘नूतं मत्तः परं वंश्याः ‘पिण्डविच्छेददर्शिनः। न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः’ (रघु. १।६६ ↩︎

  360. “‘रघुज्येष्ठे’” ↩︎

  361. “’॰कृतो रसक्रमो’” ↩︎

  362. “’॰लोल्बणरसः’” ↩︎

  363. “‘सावित्रश्चन्द्र॰’” ↩︎

  364. “‘अजितं पुण्यमूर्जस्वि ककुत्स्थस्येव ते महः। श्रेयसे शाश्वतो देवो वराहः परिकल्पताम्॥’” ↩︎

  365. “‘पिता’” ↩︎

  366. “‘ओजोऽस्तु’” ↩︎

  367. “संदतिर्वेशस्य प्रतिष्ठेत्यभिधीयते, अतः तद्विरहिते इत्याशयः।” ↩︎

  368. “‘कुमार, अति हि नाम’” ↩︎

  369. “‘यथोचितमाचरितं’” ↩︎

  370. “‘तदा तस्य…..अभिष्यन्देत’” ↩︎

  371. “‘वयमपि न खल्वेवंप्रायाः ऋतुप्रतिघातिनः’” ↩︎

  372. “‘इह’” ↩︎

  373. “‘निर्ऋतिः’.” ↩︎

  374. “‘दुष्कृतं या हिनस्ति’.” ↩︎

  375. “‘तां चाप्येतां मातरं’.” ↩︎

  376. “‘परिपूतस्वभावोऽयं’.” ↩︎

  377. “‘किं वर्ण्यते’.” ↩︎

  378. “‘अपराङ्मुखानि’; ‘अकुतोभयानि’.” ↩︎

  379. “अत्राप्रधानस्यरामसूनोः कुमारलवस्य परप्रतापोत्कर्षसहिष्णोर्वीररसोद्दीपनाय सकलप्रबन्धजीवितसर्वस्वभूतस्य प्रधाननायकगतस्य वीररसस्य ताडकादमन–खररणापसरण–वालिव्यापादनादिजनविहितापवादप्रतिपादनेन स्ववचसा कविना विनाशः कृत इत्यनुचितमेतत्’ इत्याह—क्षेमेन्द्रस्त्वौचित्यविचारचर्चायाम्।” ↩︎

  380. “‘चूडामण्डलबन्धनं तरलयत्याकूतजो वेपथुः’.” ↩︎

  381. “‘कान्तिमकाण्डताण्डवितयोर्भङ्गेन वक्त्रं’.” ↩︎

  382. “‘उत्कट॰’.” ↩︎

  383. “‘विक्रान्तचरितानि’.” ↩︎

  384. “‘उण अआंडविस्फुरितङि॰’.” ↩︎

  385. “‘अग्निच्छटासं॰’.” ↩︎

  386. “‘रवस्फुलि॰’.” ↩︎

  387. “‘अकिञ्चि॰’.” ↩︎

  388. “‘वातावलिक्ष्मे॰’.” ↩︎

  389. “‘प्रवेपते’.” ↩︎

  390. “‘शब्दं महापुरुषसंविहितं’.” ↩︎

  391. “अपि नाम कुशलं तव दि” ↩︎

  392. “प्रियदर्शनस्य लवस्य” ↩︎

  393. “‘वा मत्तः” ↩︎

  394. " ‘वयस्यो’” ↩︎

  395. “‘आश्वासस्नेहभ॰’.” ↩︎

  396. “‘खलु भवतामेवं॰’.” ↩︎

  397. “‘अनेकवारमपरिश्लथंपरिष्वजस्वमां’.” ↩︎

  398. “‘मृष्यन्तु’.” ↩︎

  399. “‘कास्त्रनिष्कस्पस्तंभि॰’.” ↩︎

  400. “‘सर्वतः’.” ↩︎

  401. “‘वत्स, सरहस्यप्रयोगसंहाराण्यस्त्राण्याम्नायवन्ति’.” ↩︎

  402. “‘परःसहस्राः’.” ↩︎

  403. “‘अपश्यन्’.” ↩︎

  404. “’॰ण्यपरिपाको पादा॰’.” ↩︎

  405. “‘कः’.” ↩︎

  406. “’॰ष्वधिराज॰’.” ↩︎

  407. “’॰पतिस्तिष्ठति। स च स्निह्यत्यावयोरुत्कण्ठते च युष्मत्संनिकर्षस्य।’.” ↩︎

  408. “‘कुशः—स रामायण॰’.” ↩︎

  409. “‘व्यवीवृतत्’.” ↩︎

  410. “‘किमपत्यमयं दा॰’.” ↩︎

  411. “‘प्रस्रवेनेव सृष्टो, गात्रं श्लेषे यदमृतरजःस्रोतसा सिञ्चतीव’.” ↩︎

  412. “‘ते मनोज्ञाः’.” ↩︎

  413. “‘भूग्निष्ठां कुमारच्छायां’.” ↩︎

  414. “’॰रांसकम्’.” ↩︎

  415. “‘तत्र विमृशामि’.” ↩︎

  416. “‘अस्त्राभ्यनुज्ञानमुद्गतं’.” ↩︎

  417. “‘च संप्लवमानं….सुखाति’.” ↩︎

  418. “‘विस्रंभयते’.” ↩︎

  419. “‘भूयिष्ठं च मया द्विधा प्रतिपन्नो दे॰’.” ↩︎

  420. “‘पुरा रूढे स्नेहे’.” ↩︎

  421. “’ दुपचिते’.” ↩︎

  422. “‘पारिप्लवो विकारः’.” ↩︎

  423. “‘अन्त्येऽध्याये’.” ↩︎

  424. “‘प्रकृत्यैव प्रिया सीता रामस्यासीन्महात्मनः। प्रियभावः स तु तया स्वगुणैरेव वर्धितः’.” ↩︎

  425. “’॰विरसवृत्तयो विप्र॰’.” ↩︎

  426. " ‘॰स्तापयंति ‘.” ↩︎

  427. “‘एकोन्मी॰’.” ↩︎

  428. “‘दुःस्मरः’.” ↩︎

  429. “‘यतः स्नेहा॰’.” ↩︎

  430. “‘मन्दाकिनीचित्रकूटवनवि॰’.” ↩︎

  431. “‘अग्रतः’.” ↩︎

  432. “‘तस्य प्रदेशस्य’.” ↩︎

  433. “‘कलत्रव्युपरमे’.” ↩︎

  434. “’॰ऽपि श्रमजडाः’.” ↩︎

  435. “‘जुष्टे’.” ↩︎

  436. “’॰प्रमूढजनकप्रबोधनात्’.” ↩︎

  437. “हा तात हा मातरः हा जनक !” ↩︎

  438. “‘अद्यखलु’.” ↩︎

  439. “’॰र्यगुरगनायकनि॰’.” ↩︎

  440. “’॰निवासेऽपि’.” ↩︎

  441. “‘लक्ष्मणः’.” ↩︎

  442. “‘कार्य॰’.” ↩︎

  443. “‘ऋषयः’.” ↩︎

  444. “‘इत्यनभिशंक॰’.” ↩︎

  445. “‘रामाद्दैववि॰’.” ↩︎

  446. “‘दृश्यतां तावत्प्रबन्धार्थः।’” ↩︎

  447. “’॰मनिबंधनबन्धतमसमिव प्र॰’.” ↩︎

  448. “‘करुणोत्तरं’.” ↩︎

  449. “’॰ऽपि नाम व्य॰’.” ↩︎

  450. “‘मानसो मोह॰’.” ↩︎

  451. “‘नानुवृत्तिः’.” ↩︎

  452. “’॰उत्तं सुमाराविदम्हि’.” ↩︎

  453. “’॰दुःसहस्नेहसंवेगेनैवं ब्रवीमि’.” ↩︎

  454. “‘रामः—किमन्यद्ब्रवीतु ?’.” ↩︎

  455. “अणाधम्हि, किं एदेहिं” ↩︎

  456. “कथं त्वंसनाथाप्यनाथा?” ↩︎

  457. “‘सांप्रतं’.” ↩︎

  458. “‘ष्ठगुप्तानां’.” ↩︎

  459. “‘कथं विलय एव वेदेह्याः संपन्नः? हा देवि, दंडकारण्यवासिप्रियसखि, हा चारित्रदेवते लोकांतरं पर्यवस्थितासि।’.” ↩︎

  460. “’॰दुदेति’.” ↩︎

  461. “‘भगवती भगीरथगृहदेवताः गङ्गा’.” ↩︎

  462. “रघुकुलदेवतात्वं चोक्तं रामायणे (वा. ४२।१५ ↩︎

  463. “‘ममारुन्धत्याः’.” ↩︎

  464. “‘एष निर्लज्जो ल॰’.” ↩︎

  465. “‘वच्छसरिसो’.” ↩︎

  466. “‘पुण्यैः’.” ↩︎

  467. “‘ईदृश्येव चि॰’.” ↩︎