भोगार्हे नवयौवनेऽपि विपिने चीराम्बरो राघव-
स्तत्राप्यस्य परेण दारहरणं क्लेशस्तदन्वेषणे ।
संप्राप्तापि जनापवादरजसा त्यक्ता पुनर्जानकी
सर्व दुःखमयं तदस्तु भवतां श्लाघ्यो विवेकोदयः ॥१॥
स वः पुनातु वाल्मीकेः सूक्तामृतमहोदधिः ।
ओंकार इव वर्णानां कवीनां प्रथमो मुनिः ॥२॥
कश्मीरेष्वभवत्सिन्धुजन्मा चन्द्र इवापरः ।
प्रकाशेन्द्रः स्थिरा यस्य पृथ्व्यस्य कीर्तिकौमुदी ॥ ३ ॥
सदा दानार्द्रहस्तेन महता भद्रमूर्तिना ।
साधु कुञ्जरिता येन प्राप्ता कीर्तिपताकिना ॥ ४ ॥
विद्वज्जनसपर्याप्तपर्याप्तस्वजनोत्सवः ।
कथासारसुधासारं क्षेमेन्द्रस्तत्सुतो व्यधात् ॥ ५ ॥
मुक्तात्मना रणत्तारहारनूपुरमेखला ।
विलासलासिका यस्य वदनं भाति भारती ॥६॥
लोभाभिमानमलिनानि धनानि नित्यं
कान्ताकटाक्षचटुलानि च जीवितानि ।
ज्ञात्वेति चन्द्रधवलानि यशांसि येन
काव्यैः स्थिराणि भुवनेषु निवेशितानि ॥ ७ ॥
आमोदयन्ति सरसान्यतिकोमलानि
विप्रेण रामयशसा प्रणयार्थितानि ।
येनानिशं प्रणयभूषणतां जनस्य
नीतानि काव्यकुसुमान्यसितानि तानि ॥ ८ ॥
गुणागुणतया भान्ति येषु वस्तेषु विस्मयः ।
निर्गुणेषु गुणानेव ये वदन्ति जयन्ति ते ॥ ९ ॥
इति क्षेमेन्द्रविरचिता रामायणमञ्जरी समाप्ता।