मुरैरवध्यं समरे हतं श्रुत्वा दशाननम् ।
तं देशमाययुस्तूर्णं रावणान्तःपुराङ्गनाः ॥ १॥
ताश्छिन्नहारकेयूरधम्मिल्लकुसुमस्रजः ।
लङ्केश्वरं निपतितं ददृशुर्वल्लभं भुवि ॥ २ ॥
गतासुं गाढमालिङ्गय तं कुरङ्गविलोचनाः ।
सृजन्त्यो बाप्पसलिलं शुशुचुः शोकविहलाः ॥ ३ ॥
कथं सुरासुरपुरप्रोद्गीतगुरुविक्रमः ।
त्रिविक्रमविजेता त्वं मानुषेण रणे हतः ॥ ४ ॥
विवशास्त्रिदशा येन कृताः प्रथितपौरुषाः ।
स त्वमद्य कथं नाम शेपे निःशेपितः परैः ॥ ५ ॥
एते ते शेरते राजन्कैलासोल्लासलाञ्छनाः ।
भुजाः स्तम्भनिभा भूमौ मन्त्रान्ता भुजगा इव ॥ ६ ॥
विकीर्णहारं वक्षस्ते रुधिरोद्वान्तु चन्दनम् ।
ललनाकेलिशयनं पांशुदिग्धं न शोभते ॥ ७ ॥
आकृष्टशिष्टाचारेण निप्पिष्टगुणसंपदा ।
अत्र सीतापहारेण कृतान्तेनासि मोहितः ॥ ८॥
शिखेवाग्नेः पतङ्गेन रूपलुब्धेन जानकी ।
मृत्युरात्मविनाशाय स्वयमालिङ्गितस्त्वया ॥ ९ ॥
प्रत्यासन्नविनाशेन श्रुतं तद्विस्मृतं श्रुतम् ।
स्थलीकृतोऽन्वुधिर्येन कुम्भकर्णश्च पातितः ।
स मर्त्य इति किं मिथ्या काकुत्स्थश्चिन्तितस्त्वया ॥ १० ॥
अपाकृतं च बन्धूनां वचनं हितवादिनाम् ।
मुखं रजःपुटेनेव किं हिया विनिगूहसे ॥ ११ ॥
सोताहृतेरसि हृतः किमस्माभिः कृतं तव ।
देहि प्रतिवचो नाम न प्रियां त्यक्तुमर्हसि ॥ १२ ॥
१.‘मन्त्रात्ता’शा.
अहो च पाशहस्तेन त्वं युक्त्यैव प्रमाथिना ।
जानकीकरिणीलोभादाकृष्टो नरकुञ्जरः ॥ १३ ॥
स्वदारान्क्व परित्यज्य परस्त्रीलुब्ध गच्छसि ।
तव केनोपदिष्टोऽयं विवेकः साध्वसंमतः ॥ १४ ॥
अधुना बन्धुभिर्वीरैः पतितस्य स्वदुर्नयात् ।
राघवस्तव संस्कारं चौरस्येवाभियुज्यते ॥ १५ ॥
धिगेतत्पवनौदश्चद्वीचिसंचयचञ्चलम् ।
ऐश्वर्यं यत्त्वमद्यैव परायत्तौदैहिकः ॥ १६॥
क्व सा सुरासुरशिरःशायिनी विश्वकम्पिनी ।
आज्ञा तवाप्रतिहता निहतारातिसंपदः ॥ १७॥
यत्र यत्र दृशः पेतुस्तव पद्मवनोपमाः ।
तत्र तत्राबभौ श्रीमानञ्जलिप्रणयी जनः ॥ १८ ॥
स त्वमेको निपतितः क्षितौ क्षितिभृतां वर ।
भृत्यशेषोऽपि यस्याग्रे नास्ति ऋव्यादवारणे ॥ १९ ॥
भृत्याः सनाथाः सामात्याः सनाथा पृथिवी पुनः ।
नाथे त्वयि गते नाथ विनाथस्तु वधूजनः ॥ २० ॥
इति मन्दोदरी देवी सर्वाश्चान्तःपुराङ्गनाः ।
चक्रुर्मुन्मदनोधानसंभोगस्मरणाकुलाः ॥ २१ ॥
इत्यन्तःपुरप्रलापः ॥ १ ॥
ततो विभीषणं रामः सदाचाराधिरभ्यधात् ।
सत्कारः क्रियतां भ्रातुः सान्त्व्यतां च वधूजनः ॥ २२ ॥
एतद्विभीषणः श्रुत्वा तं जगाद कृताञ्जलिः ।
नृशंसस्यास्य सत्कारे न मे चेतः प्रवर्तते ॥ २३ ॥
कृतघ्नं त्यक्तसहृत्तं निष्कृपं निरपत्रपम् ।
वायसा अपि नाश्नन्ति कथं दहति पावकः ॥२४॥
परामुन्नतिमासाद्य श्वभ्रे क्षिपति यस्तनुम् ।
तस्यात्महन्तुर्मूहस्य क्रियते केन सस्क्रिया ॥ २५.!!
५०
शक्त्या क्रूरान्गुणैर्दृप्तान्प्रभावेण प्रमादिनः ।
ऐश्वर्येण कदर्यांश्च धिगनार्यान्वृथोन्नतान् ॥ २६ ॥
परदारपरासर्पसंजातेनाजितेन्द्रियः ।
जनवादेन दग्धोऽयं तकि दग्धस्य दह्यते ॥ २७ ॥
इति ब्रुवाणं रामस्तं प्रीत्या स्पृष्ट्वाशु पाणिना ।
उवाच प्रणयस्मेरत्विषा कुसुमिताधरः ॥ २८ ॥
उद्वृत्तो दैन्यमापन्नः शत्रुर्व्यसनमागतः ।
माननीयोऽभिरक्ष्यश्च विशेषेण मनस्विभिः ॥ २९ ॥
महाजनो वा दीनो वा वयस्यः शत्रुरेव वा ।
गतासवः समा रागद्वेषः कस्य कलेचरे ॥ ३० ॥
गुणिनो गुणहीना वा ज्ञातयः प्रच्युताः पदात् ।
अनुमाद्याश्च पूज्याश्च स्थितिरेपा सतां सदा ॥ ३१ ॥
हतेऽस्मिन्पतिते कोपं परित्यज्य विभीषण ।
यातजीवस्य कः शत्रुर्विग्रहान्तो हि विग्रहः ॥ ३२ ॥
तस्मात्कुरुष्व सत्कारं पातुर्निजकुलोचितम् ।
अकार्यमपि ते कार्य सुहृदो वचनं मम ॥ ३३ ॥
शासनादिति रामस्य वन्धूनामग्रजस्य च ।
वृद्धामात्यैरविन्धाथिदधे देहसक्रियाम् ॥ ३४ ॥
कृतोदकः समाश्चास्य वृद्धैरन्तःपुराङ्गनाः ।
निदेशकारी रामस्य पुरस्तस्थौ विभीषणः ॥ ३५ ॥
इति रावणसत्क्रिया ॥२॥
ततो विमुक्तकवचः शिथिलीकृतकार्मुकः ।
विसृज्य मातलिं रामः प्रीत्या सौमित्रिमब्रवीत् ॥ ३६ ॥
अधुना वत्स सुहृदः सतः पूर्वोपकारिणः ।
विभीषणस्याभिषेकं द्रष्टुमिच्छति मे मनः ॥ ३७॥
अनुरक्तस्य भक्तस्य रतस्य च हिते सदा ।
स्निग्धस्य सुहृदः कृत्ला पृथिवी मूल्यमल्पकम् ॥ ३८ ॥
विभीषणो निजयशःशुभ्रोष्णीषविभीषणः ।
अलंकरोतु लङ्कायां प्रशान्तातङ्कमासनम् ॥ ३९ ॥
एवंविधः सदाचारस्तरूणां कुसुमागमः।
पुण्यैः प्रजाभिः श्रुतवान्धर्मात्मा लभ्यते प्रभुः ॥ ४० ॥
धनी दाता गुणी नम्रः शूरः शान्तो द्विजः क्षमी ।
मूलं कृतयुगस्यैतद्धर्मशीलश्च भूपतिः ॥ ४१ ॥
सत्वे सत्ये दमे धैर्ये कुले शीले श्रुतौ श्रुते ।
विभीषणसमः कोऽस्ति वुधेषु विबुधेषु च ॥ ४२ ॥
प्रौढप्रकाशयशसा गुणिना पक्षपातिना ।
लङ्कातेजस्विनानेन द्यौरिवार्केण राजितः ॥ १३ ॥
सद्वर्त्मनि स्थितं पुत्रममित्रं व्यसनाहतम् ।
मित्रं च विभवारूढं पश्यन्ति सुकृतौचिताः ॥ ४ ॥
रत्नोत्तमानि चत्वारि सन्ति संसारवारिधेः ।
मित्रं कार्याय सक्तं च संपूर्णश्च सुधाकरः ॥ ४५ ॥
सोऽयं मम सुहृन्मान्यः स्नेहप्रणयभाजनम् ।
क्रियतामभिषेकार्द्रः प्रत्यग्रविभवोचितः ॥ ४६ ॥
इत्युक्ते रघुनाथेन लक्ष्मणः शुभलक्ष्मणः ।
मङ्गलैर्विदधे मित्रं क्षेत्र साम्राज्यसंपदाम् ॥ १७ ॥
हेमरत्नघटन्यस्तसौषधिफलाक्षतैः ।
बभौ शक इव श्रीमानभिषिक्तो विभीपणः ॥ १८ ॥
विभीषणाभिषेकेऽभूत्स कोऽप्यम्यग्रहोदयः ।
प्राज्यो यस्य फलं राज्यमाभूमिगिरिसागरम् ॥ ४९ ॥
इति विभीषणाभिषेकः ॥ ३ ॥
शासनाद्रघुनाथस्य हनुमान्हर्पनिर्भरः
गत्वा विजयवृत्तान्तं रामपत्न्यै न्यवेदयत् ॥ ५० ॥
१. ‘प्रशङ्का शा०. २. सैन्ये दमे धर्म’ शा०. ३. ‘तोज्ज्वला मा०. ४. ‘शाची
वस’ शा०. ५. ‘कोऽपि न ग्रहो’ शा०.
सा भर्तुर्वचनं श्रुत्वा प्रहर्षित्तम्भिताशया ।
न शशाक क्षणं वक्तुं क्षीवेवामृतनिर्झरैः ॥ ५१ ॥
ततश्चिरेण वैदेही बभाषे पवनात्मजम् ।
आनन्देन निरुद्धं मे वचनं न प्रवर्तते ॥ ५२ ॥
प्रियाख्यानस्य पृथिवी मूलस्यास्य ददानि किम् ।
इति दैन्येन मे चेतः संतोपं नाधिगच्छति ॥ ५३ ॥
इति ब्रुवाणां वैदेहीं मारुतिः प्रत्यभाषत ।
इदं मे वचनं मातः परमं पारितोपिकम् ॥ ५४॥
हतामित्रं कुशलिनं तव पश्यामि यत्पतिम् ।
याभिस्त्वं तर्जिता कृच्छ्रे राक्षसीभिर्भयाकुला ॥ ५५ ॥
आज्ञैव विग्रहं तासां प्रसादो मे विधीयताम् ।
इत्युक्ते वायुपुत्रेण जगाद जनकात्मजा ॥ ५६ ॥
प्रेप्यासु परतत्रासु वीर न क्रोद्भुमर्हसि ।
अपराधे वधाहेऽपि क्षमावानुन्नताशयः ॥ ५७ ॥
इति व्याघ्रस्य पुरतो मुनिः कश्चिदभापत ।
आर्यपुत्रं कुशलिनं द्रष्टुमिच्छामि मारुते ॥ ५८ ॥
इति सीतावचः श्रुत्वा स ययौ यत्र राघवः ।
तस्मै निवेद्य सानन्दां जायां जनकनन्दिनीम् ॥ ५९ ॥
उवाच हनुमान्देवं देवी त्वां द्रष्टुमिच्छति ।
श्रुत्वा हनुमतो वाक्यं विचार्य सुचिरं धिया ॥ ६० ॥
हर्षशोकसमाविष्टः कृच्छ्रेणोवाच राघवः ।
कृतोदको गताशोचः स्वयं राजा विभीषणः ॥ ६१ ॥
स्नातामलंकृतां सीतां समादायोपगच्छतु ।
इति रामस्य वचसा लङ्कां गत्वानिलात्मजः ॥ ६२ ॥
विभीषणाय सीतार्थं यथावृत्तं न्यवेदयत् ।
ततः स्नाता शशिमुखी वस्त्राभरणभूपिता ॥ ६३ ॥
तां रत्नशिबिकारूढां पुरस्कृत्य विभीषणः ।
वृद्धामात्यैः परिवृतः काकुत्स्थं समुपाययौ ॥ ६४ ॥
आगतां जानकी दृष्ट्वा वानराः कौतुकाकुलाः ।
उन्मुखा विपुलं वर्त्म निःसंचारं प्रचक्रमुः ॥ ६५ ॥
किं नु वक्ष्यति वैदेही रामः किं प्रतिवक्ष्यति ।
कान्तिर्वा कीदृशी तस्या यदर्थ रावणो हतः ॥ ६६ ॥
समागमो वा दम्पत्योः कीदृशोऽयं भविष्यत्ति ।
इत्यनेकविकल्पोऽभूज्जल्पस्तेषामनल्पकः ॥ ६७ ॥
ततो विभीषणोऽभ्येत्य राममूचे कृताञ्जलिः ।
निरस्य वेत्रिप्रवरैर्जनं दर्शनसंगतम् ॥ ६८ ॥
जयश्रीरिव ते मूर्ता जानकी विक्रमार्जिता।
इयमग्रे स्थिता देव कौमुदीवामृतत्विपः || ६९ ॥
इत्युक्तं राक्षसेन्द्रेण श्रुत्वा रघुपतिः क्षणम् ।
प्रमोदक्रोधदैन्यानां तुल्यं प्राप विधेयताम् ॥ ७० ॥
सोऽवदत्किमयं मिथ्या जनः प्रोत्सार्यते पुरः ।
युद्धे ममैते स्वजनाः कथं नु परतां गताः ॥ ७१ ॥
यत्कृतो विस्मयो मूर्त इव सेतुमहोदधौ ।
वत सा कीदृशी सीतेत्येषामेवास्ति संशयः ॥ ७२ ॥
पुत्रपक्षे प्रजा राजस्तस्मात्पश्यन्तु जानकीम् ।
व्यसनोत्सवयुद्धेषु नादृश्या राजयोपितः ॥ ७३ ॥
नान्तःपुरैर्न वासोभिर्न जनोत्सारणैः पुरः ।
भवन्ति पूजिता नार्यः शीलं तासां समुन्नतिः ॥ ७४ ॥
विद्येवात्मविवेकन सत्येनेव सरस्वती।
प्रज्ञेव धर्ममार्गेण नारी शीलेन पूज्यते ॥ ७५ ॥
इत्युक्ते रघुनाथेन प्लवङ्गाः सह राक्षसैः ।
सीतां समुपसर्पन्ती दहशुर्विन्सयाकुलाः ॥ ७६ ॥
सीतादर्शनसंक्रान्तप्रकोपाताम्रलोचनम् ।
सर्वे राघवमालोक्य शल्यविद्धा इवाभवन् ॥ ७७ ॥
मानार्हमालिनी भर्त्रा मानसंभापिता सती ।
लज्जिता स्वानि गात्राणि विवेशेव विषादिनी ॥ ७८ ॥
चिरदर्शनवैलक्ष्यविक्लया सा विमानिता ।
तन्वी लतेव तुहिनस्फारभारानताभवत् ॥ ७९ ॥
अनुरागावमानामितप्तामालोक्य मैथिलीम् ।
मा कस्यचित्प्रियः कश्चिद्भूयादित्यवदज्जनः ॥ ८० ॥
चिरसंभृतलावण्यललितामवलोक्य ताम् ।
विवर्णवदनो रामः कोपस्नेहाकुलोऽभवत् ॥ ८१ ॥
दृशं तद्वदनाम्भोजादपसार्य विनिश्वसन् ।
वर्जयन्दर्शनस्पर्शं काकुत्स्थः क्ष्मां निरैक्षत ॥ ८२ ॥
सुग्रीवलक्ष्मणमुखाः प्रत्याख्यातामधोमुखीम् ।
तां दृष्ट्वा वाससा वक्राण्याच्छाद्य रुरुदुः शुचा ॥ ८३ ॥
वलिना संनिरुद्धेन ततः कोपामिना ज्वलन् ।
भृकुटीधूमलेखां कः काकुत्स्थः शक्कितोऽवदत् ॥ ८४ ॥
मानिना दारहरणे कर्तव्यं यत्कुलोचितम् ।
तदस्माभिः कृतं तावद्वैर्यनिर्यातनं युधि ॥ ८५ ॥
लज्जावमानपङ्केन लिप्तं यन्मेऽखिलं यशः ।
क्षालितं निहितारातिवनिताबाप्पनिझरैः ॥ ८६ ॥
शत्रुहस्तात्त्वमाकृष्टा न भ्रष्टा शल्यमानिता।
अधुना गच्छ वैदेहि स्वाधीनास्ते दिशो दश ॥ ८७ ॥
मानिनः परिभूतस्य दातुः कृशधनस्य च ।
शङ्कितस्य च दारेषु कुतो निद्रा कुतः सुखम् ॥ ८८ ॥
रक्षद्भिरार्यमर्यादां साधुशब्दपदैर्वधूः ।
सापशब्दाविपश्चिद्भिर्वाणीव परिवर्ज्यते ॥ ८९ ॥
1. ‘व्योमा’ क-ख.
देवराणां गृहे वा त्वं सुग्रीवस्य गृहेऽथवा ।
पुरे वा राक्षसेन्द्रस्य वस देशान्तरेषु वा ॥ ९० ॥
गृहे स्थितां रावणस्य निर्लज्जस्याजितात्मनः ।
कथं नु धारयामि त्वां मालां परिधृतामिव || ९१ ॥
इति प्रियेण निर्दोषा मिथ्यादोषेण दूषिता ।
असूत्रहारं कुचयोश्चक्रे सीताशुविन्दुभिः ॥ ९२ ॥
अवमानेन कोपेन लज्जया विस्मितेन च ।
सुकुमारं मनस्तस्या भागीकृतमिवाभवत् ॥ ९३ ॥
स वाससा बाप्पजलं परिमृज्य मृगेक्षणा ।
उवाच वाष्पसंतप्ता दीर्घं निश्वस्य मानिनी ॥ ९४ ॥
अहो विसदृशं नाथ पुरुष जनसंनिधौ ।
श्राविताहं कुलवधूरवधूतगुणा त्वया ॥ ९५ ॥
स्थाने मनस्ते साशकं स्त्रियो हि तरलाशयाः ।
किं तु मां नाभिजानासि शीलज्ञोऽपि कथं प्रभो ॥ ९६ ॥
कुले जनकराजस्य जाता दशरथस्नुपषा ।
पली ननाम रामस्य सहते दूषणामिमाम् ॥ ९७ ॥
प्राकृतस्त्रीसमुचितैः किं प्रलापैरसंगतैः ।
अस्य मिथ्याव्यलीकस्य प्रमाणं मे हुताशनः ॥ २८ ॥
चितां रचय सौमित्रे पत्युर्वकेन्दुनिर्गताम् ।
उल्कामादाय हृदये कथं जीवितुमुत्सहे ॥ ९९ ॥
इति सीतावचः श्रुत्वा लक्ष्मणः शोकविद्दलः ।
अधोमुखस्य रामस्य विज्ञायेङ्गितचेष्टितम् ॥ १०० ॥
विदधे दुःखसदृशं ज्वलितं जातवेधसम् ।
शीलशैलस्य वैदेह्या मिथ्यादोपस्य भेषजम् ॥ १०१ ॥
पावकाभिमुखी गत्वा ततो जनकनन्दिनी ।
अभ्यधादवमानस्य प्रायश्चित्तार्थिनी सती ॥ १०२ ॥
मनोवाक्कायचेष्टार्भियथाहं राघवात्परम् ।
दैवतं नाभिजानामि तेन मां पातु पावकः ॥ १०३ ॥
इत्युक्त्वा ब्राह्मणेभ्यश्च देवेभ्यश्च मनस्विनी ।
प्रणामं मनसा कृत्वा प्रविवेश हुताशनम् ॥ १०४ ॥
इति वह्निप्रवेशः ॥ ४ ॥
ततः शचीपतिः श्रीमाल्लोकपालैः सहाखिलैः ।
अदृश्यत स्वयं ब्रह्मा देवश्च गिरिजापतिः ॥ १०५ ॥
ते सूर्यशतसंकाशैर्विमानैः पूरिताम्बराः ।
शक्रममावविभवो राजा दशरथस्तथा ॥ १०६ ॥
राक्षसक्षयसंहृष्टा राममूचुः कृताञ्जलिम् ।
किरन्त इव दन्तांशुनिवहैः कुसुमस्त्रजः ॥ १०७ ॥
कथं पृथग्जन इव प्रजानाथ कुलोचितम् ।
परित्यजसि निर्दोषां सीतां कीर्तिमिवात्मनः ॥ १०८ ॥
अहो वत न जानासि स्वयमात्मानमच्युत ।
कथं जगन्निवासस्य प्रभावो विस्मृतस्तव ॥ १०९ ॥
इत्युक्ते सादरं व्योम्ना सहस्राक्षमुखैः सुरैः ।
शक्रेण प्रेरितो वक्तुं स्वयमूचे प्रजापतिः ॥ ११० ॥
देवो नारायणः श्रीमान्पद्मनाभो विभुर्भवान् ।
स्वेच्छामात्रसमुन्मेषो यस्यायं विश्वसंभ्रमः ॥ १११ ॥
चराचरस्य स्रष्टारं भ्रातारं जगतामपि ।
संहर्तारं च पर्यन्ते त्वामाहुः कारणं त्रिधा ॥ ११२ ॥
सर्वयज्ञमयं धाम सर्वदेवमयं वपुः ।
सर्वदेवमयश्चात्मा कस्यान्यस्य यथा तव ॥ ११३ ॥
पराकाशावकाशेऽस्मिन्नकोऽस्त्वं सदोदितः ।
हंसो हिरण्यवर्णश्च मानसोरुसरोरुहे ॥ ११४ ॥
पुरुषस्याप्रमेयस्य शाश्वतस्य प्रजापतेः।
स्तुतौ शक्तात्र नैवैषा तावती यदि भारती ॥ ११५॥
सर्वावतारलीलासु तव विस्रम्भसाक्षिणी ।
लक्ष्मीः क्षितिसमुद्भूता सती जनकनन्दिनी ॥ ११६ ॥
इति महापुरुषस्तवः ॥ ५॥
उक्ते पितामहेनेति भगवान्भूतभावनः ।
स्वयं विभावसुः सीतामादाय प्रत्यदृश्यत ॥ ११७ ॥
स समभ्येत्य काकुत्स्थं तेजोनिधिरभापत ।
निर्दोषां राम वैदेहीं गृहाणाभिजनोज्ज्वलाम् ।
विमोहजननीं मिथ्या न शङ्कां कर्तुमर्हसि ॥ ११८ ॥
इत्युक्ते वह्निना रामस्तमुवाच कृताञ्जलिः ।
गृहीतेयं मया देव वैदेही तव शासनात् ॥ ११९ ॥
शुद्धस्वभावां सततं ननु जानामि जानकीम् ।
किं त्वस्या विहिता शुद्धिौंकप्रत्ययकारिणी ॥ १२०॥
सर्वथा रञ्जनीयोऽयं जनो निदोपदोपभाक् ।
लोकप्रत्ययसारो हि सदाचारपरिग्रहः ॥ १२१ ॥
उक्त्वेति सीतां जग्राह राघवो वह्निनापिताम् ।
स्वयं महेश्वरेणापि पवित्रितगुणस्तवः ॥ १२२ ॥
ततो दशरथः पुत्रं राममूचे दिवि स्थितः ।
सत्य ममैव नान्यस्य पुत्र मानोन्नतं शिरः ॥ १२३ ॥
धन्योऽहं यस्य मे राम त्वं सुतस्त्रिदशार्चितः ।
स्नुषा चेयं सती सूता पावकी कुलसंततेः ॥ १२४ ॥
यशःशुभ्रांशुकः श्रीमान्सत्यधर्मविभूषणः ।
स्वच्छन्ददेहविरही भविष्यसि वरान्मम ॥ १२५ ॥
श्रुत्वेति राघवो वाक्यं पितुः प्रणतशेखरः ।
उवाच तात धन्योऽहं प्रसादेन तदानुना ॥ १२६ ॥
मद्विप्रवासकोपस्ते योऽभूत्केकयां प्रति ।
भरते वा तदुद्भूतस्तयोः शापो निवर्तताम् ॥ १२७ ॥
इत्युक्ते रघुनाथेन तथेत्युक्त्वा नभोगतः ।
गुणैः प्रशंसन्सौमित्रिं नृपः सीतामपूजयत् ॥ १२८ ॥
किं तदा नीतिचक्रेण प्रेरितो राघवः प्रियम् ।
हतानां कपिवीराणां ययाचे जीवितं विभुः ॥ १२९ ॥
ततः पीयूषवर्षेण शक्रोत्सृष्टेन वानराः ।
लब्धजीवाः समुत्तस्थुः सर्वत्रेच्छाफलोदकाः ॥ १३० ॥
ततो रामं समाभाप्य पूजयित्वा पुनः पुनः।
सुराः ससिद्धगन्धर्वाः प्रययुः प्रीतिशालिनः ॥ १३१ ॥
इति लोकपालदर्शनम् ॥६॥
ततो रामस्य वचसा रत्नैरापूर्य वानरान् ।
स्वपुरीमुद्यतो गन्तुं तमुवाच विभीषणः ।
शक्रस्येवाभिषेकं ते द्रष्टुमिच्छामि मानद ॥ १३२ ॥
इदं च पुष्पकं नाम विमानाय्यं मनोजवम् ।
मयोपनीतमारुह्य सनाथीक्रियतां विभो ॥ १३३ ॥
एतदाकर्ण्य काकुत्स्थस्तथेत्युक्त्वा वधूसखः ।
आरुरोह विमानं तत्सानुजः सविभीषणः ॥ १३४ ॥
ततो वानरराजस्य सैन्ये चलजयोजिते ।
भुवनोल्लङ्घनायैव त्रिविक्रम इवोद्यते ॥ १३५ ॥
राघवेणाभ्यनुज्ञातमथ कैलाससंनिमम् ।
जगाहे गगनं वेगात्पुप्पन कीर्णपुष्पकम् ॥ १३६ ॥
जबोद्धृतपताकेन केतुना पुप्पकं दिशाम् ।
चक्रे रत्नांशुमायूरव्यंजिनेनैव जीवनम् ॥ १३७ ॥
पुष्पकेन ब्रजबामो व्योग्नः क्ष्मामवलोकयन् ।
जगाद जानकी दन्तज्योत्स्नारञ्जितदिङ्मुखः ॥ १३८ ॥
एतदायोधनं यत्र सीते ते निधनं गताः ।
इन्द्रजित्प्रमुखा वीरास्तदर्थे क्षणदाचराः ॥ १३९ ॥
१. ‘व्यजनेनेव वीजनम्’ इति स्यात.
अयं तरङ्गसंघट्टविस्फुटः शुक्तिमौक्तिकैः ।
व्यक्ताट्टहासो जलधिर्लङ्काविभ्रमदर्पणः ॥ १४० ॥
अयं स पौलस्त्य इवोग्रसत्वः क्रान्तोऽम्बुधिर्मारुतनन्दनेन ।
उल्लोलदोलावलयेन यस्य लङ्कावधू ति दुकूलिनीच ॥ १४१ ॥
अयं स सेतुर्गिरिभिर्निबद्धः सीमन्तिताम्भोधिरिवावभाति ।
यशांसि येन प्लवगर्षभाणां भुजोर्जितानां सततं तरन्ति ॥ १४२ ॥
वेलावने श्यामलतालतालीतालीसहिन्तालतमालयाली ।
भात्यस्य भर्गाग्निपतङ्गवृत्तेधूमावली वासमसायकस्य ॥ १४३ ॥
सोऽयं गिरीन्द्रः सुमहान्महेन्द्रः क्लान्तः कपीन्द्रेण विलङ्घनेऽब्धेः ।
मानोन्नतः साधुरिवाकुलीनो याच्या हि सा खर्वशिरा बभूव ॥१४॥
एतन्महन्माल्यवतो महाद्रेः संदृश्यते शृङ्गमनङ्गरङ्गम् ।
यत्कन्दरे वानरराजजुष्टा रनोज्ज्वला राजति राजधानी ॥ १५ ॥
त्वया विहीनेन मयास्य सानौ कृच्छ्रेण पीतो विधिनोपरीतः ।
वियोगमुह्यन्मनसाप्यकाले कालः सकालो नवमेघकालः ॥ १४६ ॥
सेन्द्रायुधान्यम्बुदमण्डलानि नृत्यन्मयूराणि च काननानि ।
स्मृत्वा ममाद्याप्यधिवासलीनं वियोगदुःखं न जहाति चेतः॥१४७॥
एतत्तदम्भोजरजःपिशङ्गं पम्पासरस्मारसनादहृद्यम् ।
नीता निशास्त्वद्विरहे मयास्य तीरे वियुक्तैः सह चक्रवाकैः ॥ १४८ ॥
सोऽयं जनस्कारनिवासपूज्यो वनस्पतिर्यत्र स गृध्रराजः ।
हतस्त्वदर्थे जनसाधुवादं शृणोति सर्वत्र यशःशरीरः ॥ १४९ ॥
मुनेरगस्त्यस्य पवित्रकीर्तेरतपःपवित्रस्य तथायमत्रेः ।
पुण्याश्रमस्तीव्रभवाध्वतापः श्रमापहस्त्यक्तविरोधसत्वः ॥ १५० ॥
सोऽयं गिरिनिरिधौतसानुः संदृश्यते जानकि चित्रकूटः ।
बभूव सौजन्यसुधाकरेण समागमो मे भरतेन यत्र ॥ १५१ ॥
अग्र्यं विभात्यग्रकलत्रमधेस्त्रिमार्गगा स्वर्गनिसर्गमार्गः ।
यस्यां त्रिलोक्याः कथयत्यजस्रं पवित्रतां त्र्यम्बकमौलिमाली ॥ १५२ ॥
इथं कलिन्दाद्रिगजेन्द्रसान्द्रमदाम्बुशोभां यमुना विभर्ति ।
तरङ्गिणीभूपितमध्यदेशा रोमावलीवावनिनायिकायाः ॥ १५३ ॥
अत्राश्रमो विश्रमहेतुरक्ष्णां पुण्यो भरद्वाजमुनेविभाति ।
यस्याविदूरे नगरी गुहस्य विलोक्यते प्रीतिरिवाक्षया मे ॥ १५४ ॥
इयं सरित्सा सरयूरयोध्यावधूनिबद्धा मणिमेखलेच ।
करोति वेल्लत्कलहंसमालाकोलाहलैविभ्रमशिञ्जितानि ॥ १५५ ॥
एषाप्ययोध्या रघुराजधानी स्फारस्फुटस्फाटिकसौधभाभिः ।
भात्युल्लिखन्ती निखिलं खमुच्चैर्मूर्तेव राज्ञो भरतस्य कीर्तिः ॥ १५६॥
उक्त्वेति रामः स्वपुराप्तकामस्तूर्ण विमानादवरुह्य वीरः ।
ज्ञानेक्षणं ज्ञातसमस्तवृत्तं नत्वा भरद्वाजमुनि प्रतस्थे ॥ १५७ ॥
इति पुनराख्यायिकम् ॥७॥
सत्यः समुद्भूतविकासपुष्पाः फलाकुलास्तस्य पुरः समस्ताः ।
अश्रान्तसंतोषवसन्तकान्ता वृक्षा भरद्वाजवराबभूवुः ॥ १५८ ॥
निशम्य तस्मात्कुशलं गुणाब्धेः कृतं च दीप्तं भरतस्य राज्ञः ।
पुनः प्रहर्षाय समीरसूनुं मनःसमानं विससर्ज वक्तुम् ॥ १५९ ॥
गत्वा ततो राघवशासनेन कपिः पितुः स्वस्य गति क्षणेन ।
गुहाय सर्वं विनिवेद्य वृत्तमवाप ध> भरतस्य धाम ॥ १६० ॥
स तं निशातव्रतकर्षिताङ्गं ददर्श दर्शोदितचन्द्रतुल्यम् ।
जटाधरं राज्यमिवाभिरामं रामं विना प्रव्रजितं वनान्ते ॥ १६१ ॥
निवेद्य तस्मै निरवद्यवृत्तेर्वृत्तं समस्तं रघुनन्दनस्य ।
सीतावियोगव्यसनार्तिकृच्छ्रं दशाननोच्छेदभयोजितं च ॥ १६२ ॥
प्राप्तं च सुग्रीवविभीषणाद्यैर्जयोदयश्रीसचिवैः सहैव ।
सीतासहायं तमुदारशीलं कपिप्रवीरो विरराम वाक्यात् ॥ १६३ ॥
श्रुत्वा समुत्तीर्य बनवतं तं समागतं प्रातरमात्तजीवः ।
नवेन हर्षेण निरुद्धमूर्तिनिस्पन्दमूर्तिर्भरतो वभूव ॥ १६४ ॥
२.‘वृ’ शा०. ३. “प्त’ शा..
१.रः प्रका’ शा.
स धैर्यमासाद्य शनैः समस्तं पुनर्जगज्जातमिवाकलव्य ।
हर्षाश्रुसंपूर्णविलोचनाग्रः स्पृशन्करायेण कपिं जगाद ॥ १६५ ॥
दिष्ट्या स देवः कुशली हतारिस्त्वत्तः श्रुतः स्वं विषयं प्रविष्टः ।
किं ते प्रियाख्यानमुखस्य मूल्यं कोटीसहस्राणि ददानि हेम्नः ॥१६६॥
सर्वात्मना वर्षशतादपीह जीवन्तमायाति नरं प्रहर्षः ।
इत्येष सत्यः किल लोकवादः कल्याणशंसी प्रतिभाति मेऽद्य ॥१६७||
उक्त्वेति सर्वाः प्रकृतीनियोज्य पुरोत्सवालंकृतिसस्क्रियासु ।
सामात्यभृत्यो जननीजनेन सार्धं प्रतस्थे भरतोऽग्रजाग्रम् ॥ १६८ ॥
इति भरतानन्दः ॥ ८॥
स वानरानीकमहाधिमध्ये दृष्ट्वा समायान्तमनन्तवीर्यम् ।
मान्यं विमानस्थगिताम्बरायं रामं प्रहृष्टः प्रणनाम दूरात् ॥ १६९ ॥
तमादराद्दीर्घतरप्रवाससमागतौत्सुक्यपरीतचेताः ।
रामः सरामोऽप्यविमानशृङ्गमुत्सङ्गसक्तं मुहुरालिलिङ्ग ॥ १७० ॥
ततः समुत्सृज्य विमानमुच्चैः स्वयं कुवेराय विसृज्य तच्च ।
वशिष्टमाप्तं पुरतो ववन्दे रघूद्वहः स्वं जननीजनं च ॥ १७१ ॥
निवेदिते न्यास इव स्वराज्ये रामस्य हर्षाभरतेन राज्ञः ।
समुच्चचारासमसाधुचादैर्जनस्य सौजन्यगुणप्रबादः ॥ १७२ ॥
गुणप्रकर्षे भरतस्य तत्र सौभ्रात्रजे राघववर्ण्यमाने ।
जनस्तथेत्याह विलजिताभ्यामन्यन्न सुग्रीवविभीपणान्याम् ॥ १७३ ॥
यथोचितं नूतनसंगमेन हृष्टाः परिष्वज्य मिथः प्रणामैः ।
ते भ्रातरस्ताश्च परं जनन्यः सीता च सर्वे च चिरं ननन्दुः ॥१७॥
पौलस्त्यकारागृहवन्धमुक्तनाकोकसां हर्पफलैः कलत्रैः ।
आकीर्यमाणः कुशुमैविवेश ततः पुरीं स्वां रघुराजचन्द्रः ॥ १७५ ॥
इति भरतसमागमः ॥९॥
स्नाता विमुक्तव्रतकेशबन्धाः पुप्पोज्ज्वला रत्नविभूपिताश्च ।
ते राघवास्तत्र चभुर्वसन्ते वृक्षा इवाप्तान्तरुणस्वभावन् ॥ १७६ ॥
१. ‘मी’ शा. २. ‘वि’ शा०.
प्रसादिता भूषणरत्नमाल्यैः कौशल्यया मैथिलराजपुत्री ।
लतेव तन्वी नवचैत्रलक्ष्म्या विभ्राजिता चारुतरा बभूव ॥ १७७ ॥
ततः कपीन्द्रस्य गिरा चतुर्भ्यो रत्नाकरेभ्यः सलिलेन पूर्णान् ।
आजग्मुरादाय सुवर्णकुम्भान्नदीशतेभ्यश्च तदङ्गदाद्याः ॥ १७८ ॥
वसिष्ठमुख्यैर्मुनिभिः समस्तैरथाभिषिक्तो विधिना निजेन ।
रत्नासने शासनसंविभक्तसमान्तचक्रः स रराज राजा ॥ १७९ ॥
यथैष रामश्चरिताभिरामस्तथाविधं नैव नृपं स्मरामः ।
विलोक्य रामस्य महाभिषेकमित्यूचिरे खे सुरसिद्धसंघाः ॥ १८० ॥
लक्ष्मीप्रहर्षस्मितचारु तस्य च्छत्रं यशःखच्छमतुच्छकीर्तेः ।
सानन्दशत्रुघ्नधृते रराज राज्याम्बुधः फेणमहाट्टहासः ॥ १८१ ॥
स वीज्यमानः सितचामराभ्यां हर्षेण सुग्रीवविभीषणाभ्याम् ।
बभौ शशाङ्कच्छविलान्छनाभ्यां नीलाम्बुदाभ्यामिव शैलराजः॥१८२॥
प्रावारकेवूरमहाहहारविभूषणापूरितपात्रहस्ताः ।
सुरासुरेन्द्रैः प्रहिताः समुद्रमुख्यास्तमव्यग्रतयोपतस्थुः ॥ १८३ ॥
ततो ददौ दिव्यविभूषणानि रामो यथार्थ हरिपुंगवेभ्यः ।
यैराबभुर्भूधरविग्रहास्ते मेधा इवेन्द्रायुधसंविभक्ताः ॥ १८४ ॥
विमुच्य हारं हरिणायताक्षी मतेन पत्युः प्रददौ च वाढम् ।
स तेन संपूर्णतुषाररश्मितारेण हारेण रराज वीरः ॥ १८५ ॥
क्षीरेण मन्थोत्थितफेनहाससमुल्लसत्कान्तिरिवामृतान्धिः ।
ततः कृतार्थः सुहृदर्थसिद्धिः संपूर्णमानः प्लवगप्रवीरः ॥ १८६ ॥
रामं समामन्य ययुः पुरी खां संपूर्णमाना दिवि देवसंघाः ।
सौमित्रिरयोपितयौवराज्यं प्राप्यं न जग्राह यदाथितोऽपि ॥ १८७ ॥
तदा नियुक्तः प्रणयेन राज्ञा निदेशकारी भरतः प्रपेदे ।
सधर्ममूलः शतयज्ञशाखः सत्यप्रसूनः सितकीर्तिपुष्पः ।
गुणद्विरेफो विरराज रा"“जसद्रुमस्तापहरः प्रजानाम् ॥ १८८॥
१. ‘ता’ शा०. २. ‘ग्या शा०.
स्वर्गोपमा यदभवत्सकला धरित्री
देवानुकारिचरितो यदभूजनश्च ।
कल्पद्रुमा यदभवन्सकलाश्च वृक्षा
राजा प्रजापतिकृताभिनवस्थितिश्च ॥ १८९ ॥
तस्यादरः सुचरितेन सितातपत्रे
निर्व्याजसत्वविभवेषु न चामरेपु ।
आसीज्जनातिहरणेषु न संचयेषु
धर्मोज्ज्वलेषु च गुणेषु न भूषणेपु ॥ १९० ॥
त्यागेन वित्तं प्रशमेन विद्या शीलेन रूपं क्षमया प्रभावः ।
अश्लाघया तेन गुणाश्च सर्वे विभूषिताः सत्वविभूपणेन ॥ १९१ ॥
स्वच्छाशये कुवलयाभरणे विचित्र-
शब्दैः सदा द्विजवरैरुपजीव्यमाने ।
विभाजते गुणगणैः कृतसंनिधानो
यस्मिन्नवाप कमलाकरनिति श्रीः ॥ १९२ ॥
नृपतिमुकुटरने राघवे शासति क्षमा
गुणगणपरिपूर्णः सर्वसंपत्समृद्धः ।
समुचितनिजकर्मा धर्ममार्गप्रवृत्तः
सुतपरिजनयुक्तः प्राज्यजीवो जनोऽभूत् ॥ १९३ ॥
इति रामाभिषेकः ॥ १० ॥
??
जितं भगवता तेन हरिणा लोकधारिणा ।
अजेन विश्वरूपेन निर्गुणेन गुणात्मना!॥ १ ॥
शरांशुनिहितारातितिमिरं तेजसां निधिम् ।
राज्योदयस्थं मुनयः काकुत्स्थं द्रष्टुमाययुः ॥ २ ॥
अत्रिर्वशिष्ठः पुलहः कश्यपो गोतमस्तथा ।
च्यवनो व्याघ्रकश्चैव देवलो रोमहर्षणः ॥ ३ ॥
कश्यपो दीर्घतपसः पाराशर्यः पराशरः ।
विश्वामित्रोऽथ जाबालिर्भारद्वाजश्च शौनकः ॥ ४ ॥
सनन्दः पिप्पलादश्च लोकाक्षः कपिलस्तथा ।
आपस्तम्भः सुमन्तुश्च बौधायनवलायनौ ॥ ५ ॥
ऋष्यशृङ्गोऽथ कुशिकः गर्गवत्ससनातनाः ।
एते ते मुनयः पूज्याः पृथग्द्रव्यादिसंचयाः ॥ ६ ॥
पूजितास्ते विधानेन प्रधानेन पुरोधसा ।
हेमरत्नासनजुषः प्रणतं राममूचिरे ॥ ७ ॥
दिष्ट्या स निहतो वीर रावणः सानुगस्त्वया ।
स्मृतेऽपि यस्मिन्मुञ्चन्ति न संत्रासं दिवौकसः ॥ ८॥
दिष्ट्या कुशलिनं राम पश्यामस्त्वां हताहितम् ।
यस्येयं भुनवीर्येण पुनर्जाता जगत्रयी ॥९॥
धर्मासक्तधियो धाम्नां निधयो विधयः स्थितेः ।
त्वद्विधाननुजायन्ते लोकत्राणाय साधवः ॥ १० ॥
रक्ष्यते त्वादृशैरेव मार्गः स्वौकसां हितैः ।
क्रमैस्त्रिविक्रमस्येव त्रैलोक्याक्रमणक्षमैः ॥ ११ ॥
अद्भुतं त्वत्प्रभावेण स्वयमेतत्प्रदर्शितम् ।
महाब्धौ सेतुबन्धश्च वधश्वेन्द्रजितो युधि ॥ १२ ॥
कम्पं यत्कीर्तने वक्ति खुरस्त्रीरशनारवः ।
वधादिन्द्रजितस्तस्य जातः कस्य न विस्मयः ॥ १३ ॥
धनुस्त्रैलोक्यरक्षार्थं यज्ञार्थमखिलं धनम् ।
जीवितं साधुवादार्थमहो श्लाध्यं तब त्रयम् ॥ १४ ॥
इत्युक्ते मुनिचक्रेण शक्रजिद्वधविस्मयम् ।
उवाच विनयानम्रः काकुत्स्थस्तान्सकौतुकः ॥ १५ ॥
कुम्भकर्णदशग्रीवमुखेभ्योऽभ्यधिकः कथम् ।
इन्द्रजित्प्रवरश्चास्य कीदृशो वाभवद्वरः ॥ १६ ॥
प्रणयादिति पृष्टेषु राघवेण महर्षिषु ।
त्रिकालज्ञ ऋषिः श्रुत्वा प्रहसन्दिव्यलोचनः ।
मुनिर्जगादागस्त्यस्तं दक्षिणाशाविशेषकः ॥ १७ ॥
मेरुपार्श्वे तपस्तेपे पुरा कृतयुगे मुनिः ।
तृणाङ्गेराश्रमे पुण्ये पुलस्त्यो ब्रह्मणः सुतः ॥ १८ ॥
तं देशं सुरसिद्धर्पिराजर्षिवरकन्यकाः ।
क्रीडन्त्यः काञ्चनलता कान्तं सततमाययुः ॥ १९ ॥
मत्वा तास्तपसो विघ्नं पुनः प्रोवाच संयमी।
ममाश्रमं या प्रविशेत्सा गर्भ धारयेदिति ॥ २० ॥
श्रुत्वैतत्कन्यकाः सर्यास्तं देशं नाययुः पुनः ।
तृणविन्दोस्तु राजर्षेर्न तच्छुश्राव कन्यका ॥ २१ ॥
सा सखीदर्शनरसा तं देशं हरिणेक्षणा।
मुनिं खाध्यायसंसक्तं ददर्शाभ्येत्य निर्भया ॥ २२ ॥
तस्य श्रुतिं श्रुतिसुखामाकर्ष्यालोक्य चाकृतिम् ।
लेभे वसन्तवल्लीव प्रकामकमनीयताम् ॥ २३ ॥
ततः सा व्यक्तसंदर्भगर्भजम्बालमस्थितिः ।
जगामापाण्डुरमुखी लज्जिता पितुराश्रमम् ॥ २४ ॥
राजर्षिर्ध्यनयोगेन सर्व विज्ञाय दिव्यधीः ।
पुलस्त्यायैव तां गत्वा ददौ भिक्षामिवात्मजाम् ॥ २५ ॥
तस्यामजनयत्पुत्रं स मुनिविश्वविश्रुतम् ।
श्रुतिश्रवणजन्मानं नाना विश्रवसं सुतम् ॥ २६ ॥
पितुः समानचरितः स कालेन महातपाः ।
भरद्वाजात्मजां कान्तां पत्नी प्राप पतिव्रताम् ॥ २७ ॥
सा तस्मादुचितं पुत्रं पवित्रचरितं सती।
लेभे वैश्नवणं नाम तुल्यं विश्रवसो गुणैः ॥ २८ ॥
१. ‘म’ शा०.
तस्य वर्षसहस्रेषु प्रयातेषु तपस्यतः ।
ददौ वरान्वरान्प्रीतः सुरैः सह पितामहः ॥ २९ ॥
स प्राप्य लोकपालत्वं वित्तैश्चर्य स पुष्पकम् ।
गत्वा पप्रच्छ पितरं निवासं विभवोचितम् ॥ ३० ॥
सोऽब्रवीत्काञ्चनमयी विश्वकर्मकृता पुरा ।
लङ्का नामास्ति रक्षोभिस्त्यक्ता विष्णुभयापितैः ॥ ३१ ॥
सा तवैवोचिता पुत्र गच्छेत्याकर्ण्य तद्वचः ।
ययौ वैश्रवणस्तूणे तां पुरी रत्नतोरणाम् ॥ ३२ ॥
तस्यां सुरार्चितः श्रीमान्निवसन्गुह्यकेश्वरः ।
काले काले ययौ द्रष्टुं पितरं पुष्पकेन सः ॥ ३३ ॥
इति वैश्रवणोत्पत्तिः ॥ १ ॥
इति कुम्भोद्भवेनोक्तमाकर्ण्य रघुनन्दनः ।
लङ्काख्यानप्रसङ्गेन विस्मितस्तमभाषत ॥ ३४ ॥
पुलस्त्यवंशसंभूताः श्रूयन्ते किल राक्षसाः ।
तेभ्योऽप्यन्ये बभूवुः के लङ्का येषामभूत्पुरी ॥ ३५ ॥
रामेणेति पुनः पृष्टः चुलुकापीतसागरः ।
ऊचे दन्तांशुभिः कुर्वन्दिशो मुक्ताङ्किता इव ॥ ३६ ॥
पुरा प्रजासु जातासु रक्षोभिः क्षुभितैविधिः ।
प्रार्थितो विदधे रक्ष्यरक्षिणौ यक्षरक्षसाम् ॥ ३७ ॥
ततो हेतिः प्रहेतिश्च सत्यधर्मव्रतोऽभवत् ।
हेतेर्मयायामभवद्विद्युत्केशाभिधः सुतः ।
स्वयं संध्या ददौ तस्सै सुतां सालकटां कटाम् ॥ ३८ ॥
विद्युत्केशेन सततं रममाणा धनस्तनी ।
गर्भमाधत्त सा काले विघ्नं संभोगसंपदाम् ॥ ३९ ॥
सा गत्वा तूर्णमुत्सृज्य गर्भं मन्दरकन्दरे ।
विद्युत्केशान्तिकं प्रायादश्रान्तसुरतार्थिनी ॥ ४० ॥
१. ‘रम्ये शा..
स त्वया शिशुरुत्सृष्टः संध्यारुण इवांशुमान् ।
निक्षिप्य वदने पाणि रुरोदाम्वुदनिस्वमः ॥ ११ ॥
व्रजन्गगनमार्गेण देवस्तं वृषवाहनः ।
ददर्श सह पार्वत्या भगवान्भूतभावनः ॥ ४२ ॥
कारुण्यादथ रुद्राण्या स्वयमभ्यर्थितः शिशोः ।
पुरामाकाशगं प्रादादमरत्वं च शंकरः ॥ ४३ ॥
अम्बिकानुग्रहादुग्रतेजः शक्तिपराक्रमः ।
जातमात्रः प्रववृधे ततः प्रभृति राक्षसः ॥ ४४ ॥
स सुकेशाभिधः श्रीमान्राक्षसेन्द्रो वरोऽर्जितः ।
विश्रुतस्त्रिषु लोकेपु हरस्यानुचरोऽभवत् ॥ १५ ॥
ग्रामणी नाम गन्धर्वस्तस्मै देववती सुताम् ।
दत्वा कृतार्थमात्मानं भेने गिरिशगौरवात् ॥ ४६॥
बभूवुस्तनयास्तस्य तस्याममिप्रभास्त्रयः ।
माल्यवांश्च सुमाली च माली च बलशालिनः ॥ ४७ ॥
सर्वभूतैरजय्यास्ते तपसा ब्रह्मणो वरात् ।
अमर्त्यचक्रमाक्रम्य चक्रुर्विस्मृतविक्रमम् ॥ ४८ ॥
ते दुर्गमा पुरी पूर्वनिर्मिता विश्वकर्मणा ।
लङ्कां तद्वचसा प्रापुः शङ्कां खिन्नां समन्ततः॥४९॥
तस्यां वसद्भिस्तैर्दीप्तप्रतापैर्विजिताः सुराः ।
ययुः स्वर्ग समुत्सृज्य प्राणरक्षाकृतक्षणाः
गन्धर्वपुत्रिकास्तिनः प्रापुरते दीप्तचन्द्रिकाः ।
विभवे सर्वरत्नानामयतेनैव संगमः ॥ ५१ ॥
तासां तु सुकृती नाम ज्येष्ठा माल्यवतः प्रिया ।
पुत्रानजनयद्वीरान्युधि ये निहितास्त्वया ॥ ५२ ॥
वज्रमुष्टिविरूपाक्षः सुप्तन्नो दुर्मुखस्तथा ।
मद्गुमान्यज्ञकोपश्च कन्या चैकानिलाधिकाम् ॥ ५३ ॥
सुमाली केतुमत्याश्च पुत्रान्प्राप्य बलाधिकात् ।
प्रहस्तः कम्पनश्चण्डो विकटः कङ्कटामुखः ॥ ५४ ॥
धूम्राक्षः कम्पनो हादी सुपार्श्वः प्रघसस्तथा ।
हासवर्णश्च बलवानिति तुल्यपराक्रमाः ॥ ५५ ॥
पुष्पोत्कटा केकसी च बाका कुम्भीरसा तथा ।
चतस्रः कन्यकाः श्लाघ्या बभूवुर्मुगलोचनाः ॥ ५६ ॥
अभवन्वसुधाख्यायां चत्वारो धर्मवर्तिनः ।
अनिलानिलसंपातिहराख्या मालिनः सुताः ॥ ५७ ॥ .
एतैर्विभीषणामात्यैः सत्वगाम्भीर्यसागरैः ।
यशश्च युद्धविपुलं प्राप्तं दुष्कर्म संस्कृतात् ॥ ५८ ॥
एवं प्रविसृते तेषामक्षये रक्षसां कुले ।
सुराणां संचुकोच श्रीः पद्मिनीव हिमाहता ॥ ५९ ॥
ब्रह्मयज्ञद्विषां तेषां भयेन महतार्दिताः।
निदशाः शरणं जग्मुर्देवदेवं पिनाकिनम् ॥ ६० ॥
पक्ष्मपातात्सुकेशस्य जगतामप्यनुग्रहात् ।
दोलायितमनाः क्षिप्रं तानुवाच वृषध्वजः ॥ ६१ ॥
ते सुकेशस्य तनयाः कथं वश्याः स्वयं मम ।
कार्येऽस्मिन्कुशलो विष्णुरर्थ्यतामसुरान्तकः ॥ ६२ ॥
अथ त्रिनेत्रस्य गिरा गीर्वाणा देवमच्युतम् ।
विष्णुं शरणमभ्येत्य राक्षसेभ्यो भयं जगुः ॥ ६३ ॥
ततस्तेषां प्रपन्नानामभयं भूतभृद्विभुः ।
ददौ नारायणो येन तत्यजुर्मनसो ज्वरम् ॥ ६४ ॥
चारैस्त्रिदशवृत्तान्तं सर्वं विज्ञाय माल्यवान् ।
उवाच भ्रातरौ धीमानिति चिन्ताविचक्षणः ॥ ६५॥
श्रुतमस्माभिरन्विष्य यथा देवेन चक्रिणा ।
दत्तमस्मद्भया नामभयं त्रिदिवौकसाम् ॥ ६६ ॥
अस्मदभ्यधिकः पूर्व येन ते दानवर्षभाः।
प्रतिविम्बभयेनेव चक्रधारां प्रवेशिताः ॥ ६७ ॥
१. ‘क्षया शा०. २. ‘ध्या’ शा०.
स दैत्यदहनो विष्णुः प्रभविष्णुर्वधे द्विपाम् ।
संधेयः सर्वथास्माकं स्पृहा यद्यस्ति जीविते ॥ ६८ ॥
योद्भुमिच्छन्ति ते मूढा हरिणा हरिणा इव ।
दूरात्साचीकृताक्षेण ये कृतान्तेन रक्षिताः ॥ ६९ ॥
अनागतं बलं वेत्ति यः संचिन्त्य बलावलम् ।
अप्रमादोपगूढस्य यस्यैता निर्भया दिशः ॥ ७० ॥
दूरारूढप्रभावेषु न कुर्यादुद्धतं शिरः ।
उत्पतन्निपतत्येव सिंहो मेघजिगीपया ॥ ७१ ॥
इति माल्यवतो वाक्यं श्रुत्वा श्रीरक्षणक्षमम् ।
सुमालिमालिनौ वीरौ सभ्रूभङ्गं तमूचतुः ॥ ७२ ॥
हुतं दत्तं च भुक्तं च जिताश्च यदि विद्विषः ।
किमन्यत्कृतकृत्यानामस्साकमवशिष्यते ॥ ७३ ॥
निधनं धातुरायत्तं जयो भुजयुगानुगः ।
चित्तोचितानि वित्तानि भाग्ययुक्तानि देहिनाम् ॥ ७४ ॥
लोभोऽभिमाने न धने तृष्णा यशसि नायुपि ।
एतावदेव महतां वीरव्रतमखण्डितम् ॥ ७५ ॥
मानमूलस्य यशसः परिरक्षेव जीवनम् ।
कृतान्तेन कृता कस्य मुहूत हस्तधारणा ॥ ७६ ॥
हरिश्चक्रं गदा वास्तु वस्तु तन्न नवं युधि ।
परीक्षा क्रियतां तस्य उभयोविक्रमेन च ॥ ७७ ॥
वराहकेसरिच्छन्नप्रकारैनिनता रिपून् ।
तेनात्मानः प्रकटिता पृष्टयुद्धेष्वशक्तता ॥ ७८ ॥
व्याजध्वजे बलिजये त्रैलोक्याक्रान्तिकारिणा ।
अपवादः खहस्तेन लिखितस्तेन शाश्वतः ॥ ७९ ॥
इत्युक्त्वाग्रजमव्यत्रौ सैन्येन महता वृतौ ।
१. ‘ल’ शा.. २. ‘त’ शा०. ३. ‘स्वायत्तानि’ दा. धैर्येण च महावलौ । सैन्येन सहितौ युद्धं, जग्मतुस्तौ मुरालयम् ॥’ सा. ४. ‘ता:सुटा’ मा.
५.
तेनैव सहितं योद्धं जग्मतुस्तौ सुरालयम् ॥ ८० ॥
सुकेशितनयैर्वीरैर्निरुद्ध स्वर्गवम॑नि ।
उत्पातशतसंबाधा चकम्पे भुवनत्रयी ॥ ८१ ॥
ततो नवघनश्यामस्तडित्पुञ्जोपमांशुकः ।
ऊह्यमानः सुपर्णेन सपक्षणेव मेरुणा ॥ ८२ ॥
शक्रचापगदाखड्गप्रभापरिकरैः करैः ।
किरन्निव प्रतापानि मुरारिः प्रत्यभाषत ॥ ८३ ॥
अथ क्षपाचरोत्सृष्टशरनीहारपीडिताः ।
भीता इव ययुः क्वापि निरालोका दिशो दश ॥ ८४ ॥
ततो युद्धाब्धिपूर्णेन्दुरट्टहासो जयश्रियः ।
ननाद विष्णुना शङ्खः प्राणेन परिपूरितः ॥ ८५ ॥
तेनायुधानि दीप्तानि शब्देन क्षोभकारिणा ।
घट्टितानीव चेतांसि पेतुर्मूर्तानि रक्षसाम् ॥ ८६ ॥
ततो विविशुराधान्ताः शरीराणि सुरद्विषाम् ।
शराः साङ्गसमुद्गीर्णाः प्रदीप्ताः प्राणहारिणः ॥ ८७ ॥
प्रभन्ने राक्षसवले तायपक्षानिलाहते ।
मेघसङ्घ इव सस्ते त्रस्ते ग्रस्त इवेषुभिः ॥ ८८॥
सुमाली विष्णुमभ्येत्य तूर्णं निर्विविरैः शरैः ।
अदृश्यं विदधे व्याप्तं महाद्रुममिवाण्डजैः ॥ ८९ ॥
ततः सुमालिसूतस्य शरेण रुचिरं शिरः ।
हरिर्जहार येनासौ हृतो दूरं ययौ हयैः ॥ ९० ॥
राक्षसे विद्रुते तस्मिन्मालिनः शरवर्षिणः ।
रथं धनुः किरीटं च चिच्छेद मधुसूदनः ॥ ९१ ॥
विरथः स समादाय दीप्तहेमाङ्गदां गदाम् ।
जधान गरुडं मूर्ध्नि येनाभूत्स पराङ्मुखः ॥ ९२ ॥
१.‘च’ शा०. २. ‘तत्रायुधानां दीप्तानां शा०.
३. ‘वाण्डजैः’ शा.
चक्रप्रान्तानलब्बालाकपिलीकृतदितटम् ।
ततश्चक्रं ससर्जास्सै कुपितः कैटभान्तकः ॥ ९३ ॥
भ्रूकुटीकुटिलं तेन कृतमुद्यतकुण्डलम् ।
निपपात शिरः स्फारवलिनो हेममालिनः || ९४ ॥
इति मालिवधः ॥२॥
पतितं राक्षसा वीक्ष्य मालिनं भुजशालिनम् ।
दुद्रुवुः पांशुनिचयाः पवनप्रेरिता इव ॥ ९५ ॥
पृष्ठतो वध्यमानास्ते गदाचक्रासिसायकैः ।
छिन्नस्कन्दोदरग्रीवा निपेतुर्लवणाम्भसि ॥ ९६ ॥
स्वसैन्यं क्षीणमालोक्य क्रोधात्मा तोषमाल्यवान् ।
उवाच शरनिर्मिन्नः परावृत्यासुरान्तकम् ॥ ९७ ॥
अहो नु वीरमर्यादां न जानी जनार्दन ।
विशृङ्खलः खल इव प्रहेष्वतिप्रगल्भसे ॥ ९८ ॥
त्रस्तैः किमेतैनिहतैर्मयि दर्शय पौरुषम् ।
याते वात्र हरो वायुगिरिमासाद्य पङ्कताम् ॥ ९९ ॥
इति माल्यवतः श्रुत्वा वचः प्रोवाच केशवः ।
वध्या ममैते सर्वत्र त्रैलोक्यभयकारिणः ॥ १० ॥
गुणेष्वेव गुणा योज्या दोषा दोषेषु संगताः ।
अमर्यादेपु मर्यादा क्रियमाणा न शोभते ॥ १०१ ॥
इति ब्रुवाणं गोविन्दं शक्त्या विद्युत्मदीप्तया ।
जघानोरसि वेगेन माल्यवान्क्रोधमूर्छितः ॥ १०२ ॥
मग्नां नारायणः शक्तिं तासुद्धृत्य स्खवक्षसः ।
चिक्षेप राक्षसायैव चिन्तामिव दिवौकसाम् ॥ १०३ ॥
मूर्छाविनष्टसंज्ञोऽथ निर्भिन्नहृदयस्तथा ।
चिरेण जीवितं प्राप्य राक्षसः शूलमादधे ॥ १०४ ॥
१. ‘प्राप्तवार्ता’ शा०. २. ‘पु’ शा०. ३. ‘ततः सुधाकुलो रक्षः शति चिक्षेप विजये।
क्षणमात्रं ममो हासो हदये तारितो यया ॥ इति दा० पुस्तके सधिको लिक्षितः,
स दीप्तशूलकपिलः शूलपाणिरिवापरः ।
चैनतेयमभिद्रुत्य मुष्टिना मूयंताडयत् ॥ १०५॥
क्रुद्धस्याथ सुपर्णस्य पक्षवातेन राक्षसाः ।
सुमाल्यमाल्यवान्मुख्याः क्षिप्ता जग्मुर्दिशो दश ॥ १०६॥
ततो लङ्कां परित्यज्य कैटभारिभयार्दिताः ।
पातालं व्यालकलिलं विविशुस्ते निशाचराः ॥ १०७ ॥
इति राक्षसभङ्गः ॥ ३ ॥
एते निशाचरा घोराः ख्याताः सालकटाः कटाः ।
पौलस्त्यास्तु परे विष्णुमूर्तिना ये त्वया हताः ॥ १०८ ॥
ततः कदाचित्पातालादुद्गतोऽम्बुधिसंनिभः ।
दीप्तः कुण्डलकेयूररत्नांशुशरकार्मुकः ॥ १०९ ॥
आदाय यौवनवतीं तनयामायतेक्षणाम् ।
चचार चिन्ताकुलितः सुमाली भूतले स्वयम् ॥ ११० ॥
स ददर्श समायान्तं पुष्पकेन धनाधिपम् ।
ऐश्वर्यमिव साकारं स्पृहणीयं शरीरिणाम् ॥ १११ ॥
पुलस्त्यजं गुरुं द्रष्टुं तं वजन्तं विलोक्य सः ।
सुतामुवाच संजातस्तनलज्जानताननाम् ॥ ११२ ॥
पुत्रे प्रधानकालस्ते तारुण्येन सहामुना ।
करोम्युपेक्षितश्चिन्तां ऋणशेष इवैष नः ॥ ११३ ॥
यचते नाधिकाः कन्यां हीनेभ्यो दीयते कथम् ।
तूर्णे प्रयाति कालश्च धिक्कन्याजन्म दुःखदम् ॥ ११४ ॥
आशेव सहसा वृद्धिं प्रयाता शोककारिणी ।
कष्टं कन्यावमानाय सेवेव महतामपि ॥ ११५॥
येन नैव कृता याना जाता यस्य न कन्यका ।
स्वाधीना यस्य वृत्तिश्च धन्या जीवन्ति ते त्रयः ॥ ११६॥
पितुर्मातुश्च दुःखाय यत्रं च प्रतिपाद्यते ।
कन्या करोति संदेहदोलारूढं कुलत्रयम् ॥ ११७ ॥
१. ‘स्मै’ शा..
सा त्वं गत्वानवद्याङ्गि स्वयं विश्रवसं मुनिम् ।
वरदं वरय प्रीत्या यस्यायं धनदः सुतः ॥ ११८ ॥
इति पित्रा समादिष्टा सा प्रविश्य तपोवनम् ।
लज्जानता मुनेरग्रे तस्थौ कुवलयेक्षणा ॥ ११९ ॥
तामुवाच मुनिर्दृष्ट्वा रूपलावण्यविस्मितः ।
कस्य त्वं चन्द्रवदने किमर्थं वनमागता ॥ १२० ॥
सावदद्भगवन्सर्वं जानीहि ज्ञानचक्षुषा ।
कथं नु त्वद्विधस्याग्रे वक्तुं कन्या प्रगल्भते ॥ १२१ ॥
इत्युक्तः स तया ध्यानायोगेन ज्ञाततत्कथाः ।
तामूचे विश्रवाः सुश्रु जातं यत्ते समीहते ॥ १२२ ॥
दारुणे मां मुहूर्तेऽस्मिन्संध्यायां त्वामुपस्थिता ।
तस्मात्ते दारुणाचारः क्रूरः पुत्रो भविष्यति ॥ १२३ ॥
श्रुत्वैतत्साब्रवीत्कान्ता प्रणिपत्य महामुनिम् ।
कथं मे त्वत्प्रसादस्य सदृशो दारुणः सुतः ॥ १२४ ॥
तामुवाच मुनिः प्रीत्या पश्चिमस्ते भविष्यति ।
असूत तनयं श्यामं मणिवाक्योर्जिताशयम् ।
ब्रह्मण्यो गुणवान्पुत्रः सदाचारो वरानने ॥ १२५ ॥
इति पुष्पोत्कटा प्रीत्या मुनिना भापिता रहः ।
कालेन कालसंकाशमसूत सुतमुत्कटम् ॥ १२६ ॥
दशास्यो विंशतिभुजो दीप्तास्ये कजलविपि ।
उत्पातसदृशे तस्मिञ्जाते जगदकम्पत ॥ १२७ ॥
वर्धमाने दशग्रीवे घोररूपा क्षपाचरी ।
अतिप्रमाणमपरं कुम्भकर्णमजीजनत् ॥ १२८ ॥
पश्चिमोऽप्यभवत्तस्या यथोक्तो मुनिना सुतः ।
सदाचार इव श्लाध्यः सत्वशीलो विभीषणः ॥ १२९ ॥
१. ‘तमूर्जवलमुत्क’ शा.
तेषु प्रवर्धमानेषु राक्षसेषु तपोवने ।
आययौ पितरं द्रष्टुं श्रीमान्वैश्रवणः स्वयम् ॥ १३० ॥
तं दृष्ट्वा पुष्पकारूढं निवासं सर्वसंपदाम् ।
दशग्रीवं समभ्येत्य जननी विस्मितावदत् ॥ १३१ ॥
एष पुत्र तव भ्राता विभवो मूर्तिमानिव ।
कुबेरस्तपसा भाति तिग्मांशुरिव तेजसा ॥ १३२ ॥
भ्रातृत्वे वत्स तुल्येऽपि श्रीमानेष त्वमीदृशः ।
आत्माधीनस्य तपसः फलमेता विभूतयः ॥ १३३ ॥
इति मातुर्वचः श्रुत्वा सानुजो दशकन्धरः ।
जगाम गोकर्णतटं तपसे कृतनिश्चयः ॥ १३४ ॥
ग्रीष्मे पञ्चाग्निसंतप्तः शीते सलिलमध्यगः ।
दशवर्षसहस्राणि कुम्भकर्णोऽभवद्गती ॥ १३५ ॥
ऊर्ध्वबाहुशिरः सूर्यन्यस्तचक्षुर्विभीषणः ।
दशैवाब्दसहस्राणि तपश्चक्रे प्रसन्नधीः ॥ १३६ ॥
दिव्ये वर्षसहस्रेऽथ प्रयाते प्रथमं शिरः ।
निराहारः स्वयं छित्वा जुहावाग्नौ दशाननः ॥ १३७ ॥
एवं सहस्रैर्वर्षाणां नवभिनव निश्चलः ।
हुत्वा शिरांसि दशमं स शिरश्छेत्तुमुद्ययौ ॥ १३८ ॥
ततः पितामहोऽभ्येत्य देवैः सह सविस्मयः ।
तपःफलं वरं वीर गृहाणेति तमभ्यधात् ॥ १३९ ॥
सोऽवदत्सुरगन्धर्वदैत्यकिन्नरभोगिनाम् ।
अवध्योऽहं तव वरात्तृणं मे मानुषादयः ॥ १४० ॥
इत्युक्ते दशकण्ठेन तथेत्युक्त्वा प्रजापतिः ।
स्वेच्छारूपं ददौ तस्मै शिरसां चोद्भवं पुनः ॥ १४१ ॥
ततो वरं गृहाणेति प्रेरितः पद्मजन्मना ।
धर्मे मे रमतां बुद्धिरित्युवाच विभीषणः ॥ १४२ ॥
१. ‘ध्वः स्याम्’ शा..
अमरत्वं ददौ तस्मै धर्मप्रीत्या पितामहः ।
शीलेन लभ्यते सर्वं याच्ञा लज्जैव केवलम् ॥ १४३ ॥
असुराः कुम्भकर्णस्य वरदानोद्यतं ततः ।
ऊचुश्चतुर्मुखं नास्सै बरो देयस्त्वया विभो ॥ १४४ ॥
त्रैलोक्यं भक्षयन्नेष क्रूरो द्ब्रह्मर्षिकण्टकः ।
वरव्याजेन शापोऽस्य दीयतां विश्वशान्तये ॥ १४५ ॥
इत्यर्थितो सुरैर्ब्रह्मा स्मृत्वा देवीं सरखतीम् ।
जिह्वाग्रे कुम्भकर्णस्य विवदे व्यक्तवादिनीम् ॥ १४६ ॥
ततो वरं गृहाणेति खयमुक्तः प्रजासृजा ।
कुम्भकर्णोऽवदद्देव निद्रा मे चिरमीप्सिता ॥ १४७ ॥
षड्भिर्मासैः प्रबुद्धस्य दिनमेकं तु भोजनम् ।
ममास्त्वित्यर्थितस्तेन तथेत्युक्त्वा ययौ विधिः ॥ १४८ ॥
प्रजापतौ चरान्दत्वा देवैः सह तिरोहिते।
नोक्तं युक्तं भयेत्यासीत्कुम्भकर्णोऽतिदुःखितः ॥ १४९ ॥
एवं लब्धवराः सर्वे भ्रातरस्ते क्षपाचराः ।
श्लेष्मान्तकवनं गत्वा प्रहृष्टा रेमिरे चिरम् ॥ १५० ॥
श्रुत्वा लब्धवरान्वीरान्दौहित्रान्वलशालिनः ।
उदतिष्ठत्स पातालात्सुमाली च समाल्यवान् ॥ १५१ ॥
इति पौलस्त्योत्पत्तिः ॥ ४ ॥
प्रहस्तमारीचमुखैः सह कालकटङ्कटाः ।
ते दशग्रीवमाश्रित्य ननन्दुनिर्भयाः सुखम् ॥ १५२ ॥
सानुगस्त्वं परिप्वज्य जगाद दशनांशुभिः ।
सुमाली मालिनं मानं कुलस्य क्षालयन्निव ॥ १५३ ॥
चतुर्मुखवरावाप्त्या दिष्ट्या पुत्र विवर्धसे ।
दिष्ट्या सनाथाः संवृत्ता वयं विष्णुतिरस्कृताः ॥ १५४ ॥
एकः स एव सुकृती स जातः स च जीवति ।
यस्य नाना समुन्नद्धाः सर्वे जीवन्ति बान्धवाः ॥ १५५ ॥
१. ‘त्रैलोक्य’ शा०. २. ‘त्तिभ्य’ शा०. ३. ‘भमेलासीयुम्म मा०.
वंशमुक्तामणिर्लोके कश्चिदेव स जायते ।
यस्याग्रे याति सकलं कुलमुत्तानपाणिताम् ॥ १५६ ॥
त्रिकूटविकटे लङ्का रत्नहेममयी पुरी ।
अस्माकमभवत्कान्ता संतोषजननी रतेः ॥ १५७ ॥
ममानुजे हते वीरे रणे मालिनि विष्णुना ।
भग्नेष्वस्मासु शून्यां तां लङ्कां वैश्रवणोऽविशत् ॥ १५८ ॥
सास्माकं सततं तात पाताले वसतां सताम् ।
विद्येव धीमतां लङ्कां नापैति हृदयात्क्षणात् ॥ १५९ ॥
श्रुत्वास्माभिर्वरोदारं त्वां विष्णुर्भवसंभवाः ।
त्यक्तैव लङ्का शङ्का च लव्धेव हृदये कृताः ॥ १६० ॥
लङ्कां स्फाटिकसौधानां ज्योत्स्नाहासविकासिनीम् ।
निद्रां नायान्ति पाताले सरन्त्यो राक्षसाङ्गनाः ॥ १६१ ॥
समुद्रदर्शनालक्ष्यहर्म्यस्थललैलाननाम् ।
लङ्कामितः कथायातां सदा शोचन्ति राक्षसाः ॥ १६२ ॥
सा धर्मेण स्वयं प्राप्ता मातामहपुरी त्वया ।
नाहत्येव कुवेरस्तां वृद्धो नववधूमिव ॥ १६३ ॥
सुमालिवचनं श्रुत्वा दशास्यः क्ष्मां विलोकयन् ।
वित्तेशो गुरुराराध्य समभ्येत्य वदन्मुहुः ॥ १६४ ॥
ततः काले सुविपुले याते प्रथितविक्रमम् ।
प्रहस्तः प्रश्रयोपेतं दशग्रीवमभाषत ॥ १६५ ॥
विद्वानिव दुराचारः कदयों धनवानिव ।
न पूजते जनो राजन्सप्रभावो निरुद्यमः ॥ १६६ ॥
सौभ्रात्रं गणयन्कस्सान्निजां लङ्कामुपेक्षसे ।
एकद्रव्याभिलाषेण शत्रुर्वैश्रवणस्तव ॥ १६७ ॥
१. ‘भय शा०. २. ‘कामप्रकाशिनाम्’ शा०. ३. ‘गणाननाम्’ शा०. ४. ‘धनैः
राजा’ शा..
स ते स्निग्धो यदि भ्राता लङ्कां नोज्झति किं स्वयम् ।
य एवावनतां नित्यं विजिगीषुः स बान्धवः ॥ १६८॥
किं न श्रुतं त्वया वीर राज्यार्थे योऽभवत्यः ।
सुरासुराणां भ्रातॄणां पुरा कश्यपजन्मनाम् ॥ १६९ ॥
प्रहस्त्येनेत्यभिहिते क्षणं ध्यात्वा दशाननः ।
तमुवाच रेवोद्भूतलङ्कालाभमनोरथः ॥ १७०॥
गत्वा त्वमेव धनदं लङ्कां याचस्व मद्गिरा ।
प्रतिभाप्रभविष्णुस्ते संदेशः कोपयुज्यते ॥ १७१ ॥
इति शासनमादाय प्रहस्तो राक्षसप्रभोः ।
जातपक्ष इव क्षिप्रं जगाम धनदान्तिकम् ॥ १७२॥
स सभाभुवमभ्येत्य देवगन्धर्वसेविताम् ।
पित्रा सह स्थितं देव धनाधिपमभापत ॥ १७३ ॥
श्लेष्मान्तकवनादेत्य त्रिकूटस्स तैटे स्थितः ।
अभिधत्ते दशग्रीवस्त्वां सुमालिमुखैर्वृतः ॥ १७४ ॥
त्वमेव सर्वं जानीषे यथास्माकमिमां पुरीम् ।
परद्रव्यं निजं तावद्यावन्नार्थयते परः ॥ १७५ ॥
साम्नैव त्यज्यतां लङ्का लोभशङ्का निवार्यताम् ।
निरातङ्के कुले चास्मिन्निकलकं यशोऽस्तु नः ॥ १७६ ॥
त्वमेव धनवाल्लोके समृद्धस्त्वत्समोऽस्ति कः ।
दैवायत्तानि वित्तानि भुजाधीनस्तु विक्रमः ॥ १७७ ॥
प्रहस्तेनेत्यभिहिते नोचे किंचिदवाङ्मुखः ।
कुवेरः स्वेदसंसिक्तं ललाटं पाणिना स्पृशन् ॥ १७८ ॥
ततः प्रहस्तं निर्भय॑ कुपितो विश्रवाः स्वयम् ।
उवाच साममधुरं पुत्रप्रीत्या धनाधिपम् ॥ १७९ ॥
त्यज लक्षामिमां वत्स दुराशामिव पण्डितः ।
गौरवेणाभिजानाति वरदृप्तः स राक्षसः ॥ १८० ॥
१. ‘त्स्वयम्’ शा०. २.‘न’ शा०. ३. ‘वीरं’ शा०. ४. ‘वने शा०. ५. ‘पुत्र’शा०.
दर्शने नेत्ररोगात्तः श्रवणे कर्णशूलिनः ।
मूका विनयवाक्येषु भवन्ति विभवस्थिताः ॥ १८१ ॥
काले सुविपुलेऽप्यस्मिन्न स दृष्टो महाशयः ।
यः सोन्मादो न संपद्भिर्विपद्भिर्वा न विक्लवः ॥ १८२ ॥
गौरिवाचाररहितैनिर्विचारैः प्रमादिभिः ।
क्षुद्रैर्गतत्रपैर्वैरं कः कुर्याद्यो न तद्विधः ॥ १८३ ॥
अस्ति चारुतरः श्रीमान्स्फारस्फटितभूधरः ।
लभते तिमिरं यस्य नावकाशं गुहास्वपि ॥ १८४ ॥
शशाङ्कतिलकं कृत्वा तारहारविभूषिता ।
तस्मिन्विलोकयत्येव द्यौर्दर्पणमिवामलम् ॥ १८५ ॥
तटी मन्दाकिनी यस्य कचत्काञ्चनपङ्कजा ।
भाति वक्षसि मालेव लीलालोला महीभृतः ॥ १८६ ॥
तत्रोचितो निवासस्ते विलासवसतेः श्रियः ।
गच्छावः सहितौ क्षिप्रमित्युक्त्वा विरराम सः ॥ १८७ ॥
ततो धनपतिर्गत्वा सद्भृत्यबलवाहनः।
रत्नाङ्कामलकां नाम कैलासे निर्ममे पुरीम् ॥ १८८ ॥
प्रहस्तवाक्याद्विज्ञाय यातं वैश्रवणं स्वयम् ।
अभिषकोत्सवं चक्रे लङ्कां लब्ध्वा दशाननः ॥ १८९ ॥
स ददौ कालखञ्जाय दानवाय निजानुजाम् ।
विद्युज्जिह्वाभिधानाय यत्र शूर्पणवाभिधाम् ॥ १९० ॥
इति लङ्काप्रवेशः॥५॥
ततः कदाचिमृगयारसाकृष्टो दशाननः ।
ददर्श कानने कन्यासहित दानवं मयम् ॥ १९१॥
पौलस्त्येन स पृष्टोऽथ वनवासस्य कारणम् ।
उवाच तस्य भावेन तेजसा तस्य विस्मितः ॥ १९२ ॥
१. ‘ननम्’ शा. २. ‘रत्नाकामलको नाम यत्र सूर्पणखाभिधः’ इत्यधिकम्. ३. ‘स
प्रभावेण शा०.
दानवोऽहं मयो नाम हेमा नाम ममाप्सराः ।
बभूव वल्लभा यस्याः कन्येयं सुन्दरी सुता ॥ १९३ ॥
याते वर्षसहस्त्रेऽथ यस्यां सक्तस्य मे सदा ।
वियोगो दैवयोगेन दुःसहः सुचिरादभूत् ॥ १९४ ॥
तत्संभोगसुखोलासलीलाविभ्रमसाक्षिणीम् ।
ज्वलितामिव पश्यामि हेमहावली गृहे ॥ १९५ ॥
चन्द्रोदयः सुहृद्गोष्ठी हस्ये वीणा मधूत्सवः ।
सत्यं सुखाय कल्पन्ते न वियुक्तस्य चेतसः ॥ १९६ ॥
इयं मन्दोदरी कन्या योग्येव तव वल्लभा ।
स तां संभाषणाचारैर्जायते हि कुलोन्नतिः ॥ १९७ ॥
अस्यास्तौ भ्रातरौ वीरौ दैत्यावपरमानतः ।
त्रैलोक्यविजयोदग्रौ मायावी दुर्मतिस्तथा ॥ १९८ ॥
इत्युक्त्वा दशकण्ठस्य नाम कर्म कुलं वयः ।
श्रुत्वा ददौ तां विधिना मयः कन्यामनिन्दिताम् ॥ १९९ ॥
शक्तिं च दीप्तरत्नाङ्कां मूर्ती शक्तिमिवोत्कटाम् ।
तस्मादवाप पौलस्त्यः सौमित्रिमवधीद्यया ॥ २० ॥
स प्रविश्योत्सवस्मेरलङ्कां मन्दोदरीसखः ।
कुलोचितः परिणयो भ्रातोरविहितोऽभवत् ॥ २०१ ॥
वैरोचनस्य दौहित्री वनज्वालाभिधां ततः ।
आनिनाय स यत्नेन कुम्भकर्णाय कन्यकाम् ॥ २०२ ॥
गन्धर्वाधिपतेः पुत्री शैलूपस्य सुलोचनाम् ।
विभीषणाय स ददौ धर्मचारानुवर्तिनीम् ॥ २०३ ॥
जातां जलागमे दृष्ट्वा तां माता मनसेऽवदत् ।
सरो मा वृद्धिमेहीति तेन सा सरमाभवत् ॥ २०४ ॥
इति रावणदिविवाहः ॥६॥
१. “विस्रम्भ’ शा०, २. ‘दुंदुभि शा०. ३. ‘त्रिरवीद्यथा’ शा.. ४. ‘मानो’ दा.
तेष्वेवं कृतदारेषु देवी मन्दोदरी सुतम् ।
असूत नूतना लक्ष्मीरहंकारमिवोन्नतम् ॥ २०५॥
स ननाद यथा मेघा घोषघट्टितदिक्तटाः ।
मेघनादेति नामास्य तदा चक्रे दशाननः ॥२०६ ॥
स ययौ सहसा वृद्धिं पितुर्मूर्त इवोदयः ।
येनेन्द्रविजयोदग्रं खनाम्ना लिखितं यशः ॥ २०७ ॥
अथाविवेश हृदयं निद्रा नयनवर्त्मना ।
मोहाय कुम्भकर्णस्य प्रौढामरवधूरिव ॥ २०८ ॥
तस्य हेममणिस्तम्भं पड्व्यामशतमग्रजः ।
ततोऽपि षड्गुणायामं निद्रागृहमकारयत् ॥ २०९ ॥
ततो रत्नगृहे तस्य तस्मिन्कैलाससंनिभे ।
ययुर्वर्षसहस्राणि सुखसुप्तस्य रक्षसः ॥ २१० ॥
इतीन्द्रजिज्जन्म ॥ ७ ॥
निद्राभिभूते दुर्वृत्ते प्रजापुण्यैः क्षपाचरैः ।
सक्तो बभूव पौलस्त्यः स्वर्गोधानविलोडने ॥ २११ ॥
स सुरासुरसंहारदीक्षितो राक्षसेश्वरः ।
विश्वक्षयमतिं चक्रे कालः काल इवोत्थितः ॥ २१२ ॥
तेन भग्ने त्रिभुवने स पावनतपोवने।
विद्रुतेषु दशाशेषा त्रिदशेषु दिशो दश ॥ २१३ ॥
व्याप्तैर्वृषमनोद्भूतैर्भूतले भूतलोहितः ।
तमो जजाले पाताले प्रज्वालित इवाहिमिः ॥ २१४ ॥
निःस्वाध्यायवपट्कारे समुत्पन्ने क्रियाक्रमे ।
विकारे निष्प्रतीकारे गते रक्षःप्रकारताम् ॥ २१५ ॥
अनुग्रहाय लोकानां भूतले स्वकुलस्य च ।
लङ्कां दूतं दशास्याय विससर्ज धनेश्वरः ॥ २१६ ॥
१. ‘रलंकार’ क.
२. ‘परवधू’ शा०,
स पौलस्त्यपुरीं गत्वा दूतः प्राप्य विभीषणम् ।
यथायुक्तं निवेद्यास्मै विवेशास्थानमन्दिरम् ॥ २१७ ॥
कुवेरगौरवात्तत्र संप्राप्तकनकासनः ।
स प्रणम्य दशग्रीवं जगाद जगतां हितम् ॥ २१८ ॥
आह त्वां भ्रातरं प्रीत्या देवो वैश्रवणः स्वयम् ।
श्रूयतामवधानेन श्रुत्वा सद्भिर्विचार्यताम् ॥ २१९ ॥
इमा धर्मद्रुमोद्भूता विपुलाः फलसंपदः ।
नापुण्यवद्भिर्लभ्यन्ते विजयव्यञ्जनाः श्रियः ॥ २२० ।
काकतालीययोगिन्यः सर्वस्यैव विभूतयः ।
लब्धानां रक्षणे त्वासां विरलः कुशलो जनः ॥ २२१ ॥
कीर्तयः पुण्यशीलस्य सदाचारस्य संपदः ।
विद्याप्रज्ञाप्रगल्भस्य भवन्ति स्थिरयौवनाः ॥ २२२ ॥
स्पृहणीया जगत्यस्मिंस्तस्यैव प्रभविष्णुता।
निर्भयं सर्वभूतानि यं समाश्रित्य शेरते ॥ २२३ ॥
धिक्तस्य निरपेक्षस्य विभूति रौद्रकर्मणः ।
दीप्तादिव चितावरेयस्मादुद्विजते जनः ॥ २२४ ॥
आचारः साधुवादाय विभवो विनयाय च ।
शक्तिः परोपकाराय भवत्युज्ज्वलजन्मनाम् ॥ २२५ ॥
व्ययेन ज्ञायते वित्तं शीलेन ज्ञायते कुलम् ।
सत्येन ज्ञायते सत्त्वं धर्मेण ज्ञायते श्रुतम् ॥ २२६ ॥
त्रयं परस्परं क्षिप्तं तुल्यमेवं प्रजायते ।
पापाज्जनापवादश्च तसाच विभवक्षयः ॥ २२७ ॥
न तत्कुर्यात्कुले जातः श्रुतवान्विश्रुतो जनः ।
येनोन्नतपदभ्रष्टो याति प्रत्युत वाच्यताम् ॥ २२८ ॥
हसन्तो हेलया कर्म तत्कुर्वन्ति प्रमादिनः ।
जन्मान्तरशतैरन्ते शोचन्ते न भवन्ति यत् ॥ २२९ ॥
यत्त्वया स्वर्गविध्वंसे कृतं किंचिदसांप्रतम् ।
अधुना संयमेनास्तु तस्य प्रक्षालनक्रिया ॥ २३० ॥
स्वर्गोंद्यानानि भग्नानि मुनयो निहताश्च यत् ।
किमेतदुचितं भ्रातः कुले कमलजन्मनः ॥ २३१ ॥
प्रजाक्षये यदि भवेत्सक्तो विश्रवसः सुतः ।
तद्राज्याभिजनश्लाघ्या कस्यान्यस्य भविष्यति ॥ २३२ ॥
वारितोऽपि मया पूर्वं पुनरप्येव वार्यते ।
राक्षसेऽस्मिन्निपतिते निपतत्यश्रुविन्दवः ॥ २३३ ॥
चिन्त्यते निधनोपायः शङ्कितैस्त्रिदशैस्तव ।
व्रतात्प्रतिनिवृत्तेन चिरात्सर्वं मया श्रुतम् ॥ २३४ ॥
मया हिमाद्रिशिखरे दृष्टः शीतांशुशेखरः ।
देवः प्रीतिसमासक्तः सतीप्रणयकेलिषु ॥ २३५ ॥
तत्र कोऽयमिति स्फारलोचनं विस्मयान्मया ।
निक्षिप्तमम्बिकागात्रे निपेनान्तरात्मना ॥ २३६ ॥
ततो देव्याः प्रभावेण तद्वामं मम लोचनम् ।
संपूरितं विषेणेव निष्प्रभं पिङ्गतां ययौ ॥ २३७ ॥
अथो गत्वा मया तीव्र मौनिना तत्कृतं तपः ।
येन मां स्वयमभ्येत्य बभाषे भगवान्भवः ॥ २३८ ॥
अहोरात्रं व्रतमिदं दुश्चरं चरितं त्वया ।
मया कृतं पुरा चैतत्तृतीयो नोपलभ्यते ॥ २३९ ॥
व्रतस्यास्य प्रभावेण सख्यमस्तु मम त्वया ।
एकपिङ्गेक्षणो नाना विश्रुतश्च भविष्यति ॥ २४० ॥
इत्युक्त्वा प्रययौ देवः प्रीतिमान्वृषभध्वजः ।
ततस्तपोवनादेत्य श्रुतं त्वचरितं मया ॥ २४१ ॥
तस्मादस्मान्निवर्तस्व कर्मणः कुलदूषणात् ।
कस्मादकस्माद्बुद्धिस्ते कुपथेनैव धावति ॥ २४२ ॥
इति दूतवचः श्रुत्वा क्रोधधूम्रारुणेक्षणः ।
निष्पिष्य पाणिना पाणिं तं जगाद दशाननः ॥ २४३ ॥
अहो धनाधिनाथोऽसौ ज्येष्ठो लोकहिते रतः ।
आत्मसंभावितो वक्तुं दम्भारम्भात्रगल्भते ॥ २४४ ॥
स देवोऽन्यत्र नास्सासु धनं कस्य न विद्यते ।
ततोऽप्यभ्यधिका ज्येष्ठा मृत्यवर्गे मम स्थिताः ॥ २४५ ॥
अहं यशस्वी लोकेऽस्मिन्यूयमेव यशस्विनः ।
इति तात्पर्यमेवास्य वाक्यस्य स्वामिनस्तव ॥ २४६ ॥
स्वगुणख्यातये नित्यं परेषां भूषणाय च ।
प्रत्ययाय च लोकानां जिह्वा जल्पन्ति कोमलम् ॥ २७ ॥
धनदो यदि नामासौ लोकेऽस्मिन्करुणापरः ।
तत्किं सुविपुलं वित्तं न दीनेभ्यः प्रयच्छति ॥ २४८ ॥
न देवानां न चास्माकं हितं तस्य प्रयोजनम् ।
युक्त्या वदति संदेशैः सख्यं देवेन शूलिना ॥ २४९ ॥
सुरार्थे यदसौ वक्ति तत्तेषां विप्रिये स्थितः ।
अद्यैव तद्वाक्यरुषा करोम्यविबुधं जगत् ॥ २५० ॥
यदसौ स्वगृहे दृप्तः प्रागल्भ्यात
किं तच्छुक इव श्रुत्वा दूत त्वमभिमापसे ॥ २५१ ॥
वध्यानां लोकपालानां कुबेरोऽस्तु पुरःसरः ।
अद्य कैलासशिखरे रथो मे समनोरथः ॥ २५२ ॥
इत्युक्त्वा दूतमुत्कृत्य स्वयं खड्नेन राक्षसः ।
अमात्यैः सहितः षड्भिः प्रतस्थे सानुगो स्थैः ॥ २५३ ॥
स महोदरधूम्राक्षमारीचशुक्रसारणैः ।
प्रहस्तेन च कैलासं सह प्राप प्रतापवत् ॥ २५४ ॥
ततो बभूव यक्षाणां राक्षसः कूटयोधिभिः ।
युद्धं प्रलयमेघानां गर्जद्भिः स्वजनैरिव ॥ २५५ ॥
१. ‘सत्वं शा..
बलिना राक्षसेन्द्रेण भग्नास्ते युधि गुह्यकाः ।
भ्राता प्रभोरिति भयाद्वभूव शिथिलोद्यमः ॥ २५६ ॥
ततः कुवेरनिर्दिष्टा निर्ययुर्यक्षराक्षसाः।
हेमरत्नोरुसंनाहा मेघाः सेन्द्रायुधा इव ॥ २५७ ॥
तेषां प्रवृत्ते तुमुले संग्रामे खण्डितिर्मुकः) ।
चक्रे चक्रेण मारीचं मूर्छितं गुह्यकाग्रणीः ॥ २५८ ॥
लव्धसंज्ञोऽथ मारीचस्तं विद्राव्य भयोत्कटः ।
रणे चकार यक्षाणां क्षयं रक्षःपतेः पुरः ॥ २५९ ॥
विद्रुतेष्वथ यक्षेषु पुरीं प्राप्य दशाननः ।
रत्नतोरणमुत्पाट्य जघान द्वाररक्षिणः ॥२६॥
वध्यमानेषु यक्षेषु लब्धलक्षः क्षपाचरैः ।
धनदस्याज्ञया तूर्ण मणिभद्रः समाययौ ॥ २६१ ॥
धूम्राक्षस्ताडितस्तेन गदया मूनि विह्वलः ।
पतिः क्षमातले वेगात्क्षणं व्यसुरिवाभवत् ॥ २६२ ॥
स दशाननमभ्येत्य शक्तिमानिगरिविग्रहम् ।
शक्तित्रयेन भिन्नोरःकपाटपिकटं व्यधात् ॥ २६३ ॥
ततो जघान गदया मुकुटे तं दशाननः ।
लोकेऽस्मिन्विश्रुतो येन पार्थमौलिर्वभूव सः ॥ २६४ ॥
मणिभद्रेऽपि विजिते वरदृप्तेन रक्षसा ।
निर्घोषैर्घट्टिते लोके निर्ययौ धनदः स्वयम् ।
शुष्कमोष्ठपदायुक्तः शङ्खपद्मादिभिर्वृतः ॥ २६५ ॥
स युद्धभुवमभ्येत्य पौलस्त्यं कुपितोऽवदत् ।
पापान्निवार्यमाणोऽपि विद्वेषादिव दुर्जनः ॥ २६६ ॥
कस्तस्य वैभवेनार्थः प्रभावेन बलेन वा।
क्षपितान्त(?)जनोच्छ्वासमलिनं यस्य जीवितम् ॥ २६७ ॥
१. ‘खण्डितिन्दुकः’ का ‘खण्डकार्मुकः’ शा०.
अहो बत न ते कश्चिदस्ति दुर्नयकृत्सुहृत् ।
विषं भक्षयतो मोहाद्यः करोति करग्रहम् ॥ २६८ ॥
शोचते नित्यशोच्यस्य किं तस्याशुचिचेतसः ।
जीवितान्तरितो यस्य नरकेषु क्षयः क्षयः ॥ २६९ ॥
शरीरावधि जन्तूनां स्वाधीने शुभदुष्कृते ।
समुत्तीर्णः समुत्तीर्णः पतितः पतितस्ततः ॥ २७० ॥
पापी निरयगामी त्वं न मे संभाषणोचितः ।
इत्युक्त्वा विमुखान्बाणैः स चक्रे तस्य मन्त्रिणः ॥ २७१ ॥
ताडितस्तेन गदया मूर्ध्नि नक्तंचरेश्वरः ।
नाकम्पत दुराचारो निन्दयेवोग्रपातकी ॥ २७२ ॥
दिव्यास्त्रदीप्तिदुष्प्रेक्ष्ये प्रवृत्ते समरे तयोः।
युयुधे राक्षसपतिर्मायारूपसहस्रकृत् ॥ २७३ ॥
ततः शस्त्रास्त्रवर्षेण विक्षिताङ्गो धनप्रभुः ।
पपात शोणितासिक्तः स्यन्दने मूर्छितः क्षणम् ॥ २७४ ॥
शङ्खपद्मादिभिस्तस्मिन्नीते नन्दनकाननम् ।
राक्षसेन्द्रो जहारास्य पुष्पर्क रत्नपुष्पकम् ॥ २७५ ॥
इति कुवेरनिर्जयः ॥ ८॥
जित्वा वैश्रवणे श्रीमान्दशग्रीवः सहानुगम् ।
व्रजन्नवाप कौमारं रौक्मं शरवनं महत् ॥ २७६ ॥
तत्रास्य व्रजतो व्योमि स्तब्धतां पुष्पकं ययौ ।
चित्रस्थमिव निस्पन्दपताकाकिंकिणीकुलम् ॥ २७७ ॥
प्रतिग्रहाद्विमानस्य चिन्ताविस्मयनिश्चलम् ।
तमभ्येत्योद्धतगतिः प्राह माहेश्वरो गणः ॥ २७८ ॥
भोः पौलस्त्यगतिर्नेह सुरसिद्धर्पिभोगिनाम् ।
विमानानां स्वयं देवः क्रीडत्यत्र त्रिलोचनः ॥ २७९ ॥
दो मोहः प्रमादो वा तव वा वलचापलम् ।
भवान्स्तब्धितजृम्भारिभुजस्तब्धं न वेत्सि यत् ॥ २८० ॥
इति धीरं गणेनोक्तः प्रकोपकलुषेक्षणः ।
कोऽसौ वास्ते त्रिनयनः प्रोवाचेति स निःश्वसन् ॥ २८१ ॥
पुप्पकादवतीर्याथ शैलमूलमुपेत्य सः ।
नन्दिरुद्रं ददर्शाने स्थितं देवस्य धूर्जटेः ॥ २८२ ॥
तं शूलहस्तमालोक्य भासुरं वानराननम् ।
मुमोचाशनिनिर्घोषमट्टहासं दशाननः ॥ २८३ ॥
तदाट्टहासकुपितः प्रोवाचाञ्चितशेखरः ।
उद्यम्य तर्जनीमग्रे नन्दी भैरवविग्रहः ॥ २८४ ॥
वानराननमालोक्य सोन्मादं हसितं त्वया ।
त्वत्कुले वानरकुलान्मृत्युरेव भविष्यति ॥ २८५ ॥
इति ब्रुवाणं दर्पान्धस्तमनादृत्य राक्षसः ।
गतिग्रहरुषा चक्रे कैलासोन्मूलने मतिम् ॥ २८६ ॥
स शैलमूले विपुले विन्यस्य भुजकाननम् ।
ददौ स्कन्दशिलाबन्धनिर्घोषोद्भूतपावकम् ॥ २८७ ॥
तद्भुजोत्तालपातालनीलमूलशिलातलः ।
चिरं चचाल कैलाशः सविलास इव द्विपः ॥ २८८ ॥
विशृङ्खलपरिभ्रष्टं निर्जलं वारि रक्षसः ।
पीनांसशिखरे प्राप स्फारहारप्रकारताम् ॥ २८९ ॥
शैलकम्पाकुलवधूपरिण्यकोत्सवप्रदः ।
विद्याधराणामभवद्वामाचारोऽपि रक्षसः ॥ २९० ॥
ततो विहस्य भगवान्पादाङ्गुष्ठेन लीलया ।
अपीडयन्मृडः शैलं घूर्णमानमहाद्रुमम् ॥ २९१ ॥
गम्भीरभूधरभरप्राग्भारपरिपीडितः ।
विरुराव दशग्रीवः खण्डिताङ्गदमण्डलः ॥ २९२ ॥
भुजावपीडनरुषा तस्यारावेण रक्षसः ।
ससुरासुरगन्धर्वा विचचार जगत्रयी ॥ २९३ ॥
शंकरस्तेन शब्देन परितुष्टस्तमभ्यधात् ।
प्रायेणोसिक्तचरितः प्रभूणां वल्लभो जनः ॥ २९४ ॥
प्रीतोऽसि तव नादन वलेन च दशानन ।
पुष्पकेन यथाकामं गच्छ खेच्छाविलासकृत् ॥ २९५ ॥
त्रैलोक्यरावणाच्छब्दात्त्वं भविष्यसि रावणः ।
इति स्वयं भगवता कृतनामा निशाचरः ।
पुनः पुष्पकमारुह्य विचचार महीतले ॥ २९६ ॥
इति कैलासोल्लासकम् ॥ ९ ॥
स चलन्भूतले वीरान्क्षत्रियान्बलशालिनः ।
जघानाहूय समरे पौरुपादपराङ्मुखान् ॥ २९७ ॥
ततस्तुहिनशैलस्य शृङ्गमारुह्य रावणः ।
ददर्शैकां तपस्यन्तीं कन्यां लावण्यकौमुदीम् ॥ २९८ ॥
संलक्षदक्षिणकुचां भोगेकृष्णाजिनावृताम् ।
दिवं विनिर्यदर्धेन्दुबिस्वाम्बुधिमतीमिव ॥ २९९ ॥
संपूर्णशर्वचापस्य पुष्पचापस्य जीवनीम् ।
वरावाप्तितपासक्तां गिरिराजसुतामि ॥ ३०० ॥
स्फाटिकेनाक्षसूत्रेण कलितां ललिताननाम् ।
मूर्तां पूर्णेन्दुनक्षत्रराजितां रजनीमिव ॥ ३०१ ॥
दोर्मृणालीलतां पाणिसुप्तानां लोचनोत्पलाम् ।
संचारिणीमिवायातां नन्दिनीं भूतपद्मिनीम् ॥ ३०२ ॥
तां दृष्ट्वा विस्मयावेशनिष्पन्दः क्षणदाचरः ।
कासि कस्येति पप्रच्छ विच्छायवदनः क्षणम् ॥ ३०३ ॥
सा तमूचे कृतातिथ्या मिथ्याचारं निशाचरम् ।
दर्शयन्तीं तपःपुण्यं दन्तांशुनिवहैरिव ॥ ३० ॥
अभूत्कुशध्वजो नाम बृहस्पतिसुतो मुनिः ।
तस्याध्ययनसक्तस्य जाताहं वाड्मयी सुता ॥ ३०५ ॥
१. ‘न्भुज’ ख-शा. २. ‘भोगतृष्णा’ शा०. ३. ‘विम्यां बुधवतीनिव’ शा०.
४. ‘न नाम्’ ख.
साहं देववती नाम सुरगन्धर्वकिंनरैः ।
याचिता सिद्धसाध्यैश्च न च मां प्रददौ पिता ॥ ३०६ ॥
सोऽवदद्विष्णुरेवैकस्तुल्यो मे दुहितुः पतिः ।
कौस्तुभाभरणस्यैषा वनमालेब शोभते ॥ ३०७ ॥
ततो दैत्याधिनाथेन जम्बुना पापचेतसा ।
कालेनेव प्रसुप्तो मे रजन्यां निहतः पिता ॥ ३०८ ॥
तेनैव सह दुःखाग्नितप्तामिव चितां सती ।
बन्धुवाष्पौघजननी प्रविष्टा जननी मम ॥ ३०९ ॥
पितुर्मनोरथेनादौ स्वसंकल्पेन चाकुला ।
करोम्येतदहं तीव्रं तपो नारायणार्थिनी ॥ ३१०॥
जानाम्यहं त्वां पौलस्त्य तपसा दिव्यचक्षुषा ।
इत्युक्ता प्रश्रयोपेतं विरराम सुमध्यमा ॥ ३११ ॥
पुष्पकादवतीर्याथ मन्मथाकुलिताशयः ।
तां समभ्येत्य पौलस्त्यः स्रस्तधैर्योऽभ्यभाषत ॥ ३१२ ॥
अहो विरुद्धं लोलाक्षि तव व्यवसितं श्रुतम् ।
तपोऽर्हति कथं तीब्रमिदं रूपमिदं वयः ॥ ३१३ ॥
तपः संयमसिद्धानां वृद्धानामेव शोभते ।
वपुः पीनस्तनयुगाभोगसंभोगमिच्छति ॥ ३१४ ॥
यदि त्वं तापसा सुभ्र स्वाधीना न मनोभुवः ।
तत्कस्यैताः कृते जाताश्चन्द्रोद्यानमधुश्रियः ॥ ३१५ ॥
इदं कान्ताकचाकर्षसीत्कारोचितमाननम् ।
माननं मन्मथस्यास्तु जटाभिर्न विराजते ॥ ३१६ ॥
अस्थाने तव निर्वन्धः को नाम स जनार्दनः ।
नीचतुल्यो न तुल्योऽसौ शतांशेनापि मे गुणैः ॥ ३१७ ॥
श्रुत्वैतत्कोपदीप्ता सा मैवमित्यनवीन्मुहुः ।
केशपाशं परामृश्य राक्षसस्तामभर्त्सयत् ॥ ३१८ ॥
१. ‘पारामधाकृष्य’ शा०.
ततः सा केशसंस्पर्शन्यक्कारदहनार्दिता ।
तमूचे त्वद्वधे शक्ता न करोमि तपोव्ययम् ॥ ३१९ ॥
जन्मान्तरे वधायैव तव स्यान्मे तनुग्रहः ।
इत्युक्त्वा पश्यतस्तस्य सा विवेश हुताशनम् ॥ ३२० ॥
सैवेयं जानकी जाता त्वत्कलत्रमयोनिजम् ।
कृते युगे देववती त्रेतायां सैव मैथिली ॥ ३२१ ॥
क्षेत्रे हलमुखाकृष्टे जनकस्य महीपतेः ।
श्रीरेषा राम पत्नी ते देवो विष्णुस्त्वमच्युतः ॥ ३२२ ॥
इति देववत्युपाख्यानम् ॥ १० ॥
ततः पुष्पकमारुह्य विचरन्भुवि रावणः ।
उशीरबीजनामानमारुरोह महाचलम् ॥ ३२३ ॥
मरुत्तं तत्र राजानं यजमानं ददर्श सः ।
वयं बृहस्पतिभ्राता संवर्तो यस्य याजकः ॥ ३२४ ॥
यज्ञभूमिस्थिता देवा वरदृप्तं दशाननम् ।
दृष्ट्वा प्रदुद्रुवुर्भीताः कृत्वा रूपविपर्ययम् ॥ ३२५ ॥
शक्रः शिखी यमः काकः कृकलासो धनाधिपः ।
हंसो भूत्वा च वरुणः प्रययुस्ते मनोजवाः ॥ ३२६ ॥
ततो युद्धं प्रयच्छेति रावणेनार्थितः स्वयम् ।
ससंभ्रमो मरुत्तस्तं को भवानित्यभाषत ॥ ३२७॥
तमूचे स स्वयं हासमुक्त्वा नक्तंचरेश्वरः ।
अहो प्रौढावलेपेऽस्मिन्प्रीतोऽस्मि तब भूपते ॥ ३२८ ॥
कस्तापस जगत्यस्मिन्देशोऽस्ति त्रिदिवाधिकः ।
दृश्यते यत्र नोष्णांशुः श्रूयते न च रावणः ।
पौलस्त्यं मां न जानासि भ्रातुर्येन धनप्रभोः ॥ ३२९ ॥
श्रुत्वैतदूचे तं राजा धन्यो जातः कुले भवान् ।
ज्येष्ठो भ्राता गुरुर्येन सदाचारेण मानितः ॥ ३३० ॥
कर्मणा धनहीनेन जननिन्दारजोजुषा ।
दुर्जनः श्लाघते नित्यं लज्जते येन सज्जनः ॥ ३३१ ॥
इत्युक्त्वा चापमादाय सायकांश्च महीपतिः ।
उद्ययौ रावणं योद्धं सर्वतोऽथ तमब्रवीत् ॥ ३३२ ॥
असंपूर्णो निहत्येष राजन्माहेश्वरः क्रतुः ।
दीक्षा हि क्षीणरजसां किल्बिषक्षयसाक्षिणी ॥ ३३३ ॥
क्व दीक्षितः क्षमापात्रसंक्षिप्तसकलेन्द्रियः ।
क्व च क्रोधारजोध्वस्तं युद्धं कलिसमुद्धतम् ॥ ३३४ ॥
इति संवर्तकेनोक्तो मरुत्तः पृथिवीपतिः ।
उत्सृज्य सशरं चापं वभूव निरुपद्रवः ॥ ३३५ ॥
ततः पौलस्त्यसचिवैर्जयशब्दे कृते पुनः ।
ब्रह्मर्षिशोणितपानमत्तो रक्षःपतिययौ ॥ ३३६ ॥
वरान्दत्वा विहङ्गेभ्यस्ततः सुतनृपान्वितः ।
पुनर्यज्ञभुवं देवा मरुत्तप्रीतये ययुः ॥ ३३७ ॥
वर्हे बर्हे सहस्राक्षः सहस्राक्षवरादभूत् ।
अद्यापि चाभ्रशब्देन शक्रप्रीत्यैव नृत्यति ॥ ३३८ ॥
हंसोऽपि हिमकर्पूरशीतांशुरजतद्युतिः ।
वरुणस्य वराज्जातस्तोयेशप्रीतिमान्सदा ॥ ३३९ ॥
कृकलासः सुवर्णाभः सदा सद्रव्यमस्तकः ।
बभूव भासुराकारः श्रीमद्वैश्रवणाश्रयात् ॥ ३४० ॥
बलिभुक्परितृप्तश्च पितॄणां प्रीतिकृत्सदा ।
अरोगश्चिरजीवी च काकोऽभूद्यमशासनात् ॥ ३४१ ॥
एवं ते प्राणिनः प्रापुस्तद्वरात्कृतकृत्यताम् ।
न हि सत्पुरुषैः सङ्गः क्वचिद्भवति निष्फलः ॥ ३४२ ॥
इति मरुत्तसमागमः ॥ ११ ॥
दुष्यन्तः सुरथो गोप्ता गयो गाधिः पुरूरवाः ।
एते चान्ये च भूपाला रावणेन जितास्ततः ॥ ३४३ ॥
अथाभवदयोध्यायामनरण्येन भूभुजा ।
युद्धं राक्षसराजस्य शस्त्रास्त्रग्रामदुःसहम् ॥ ३४४ ॥
ततस्तलाभिघातेन निहतस्तेन भूपतिः ।
निपपात महातालः कृत्तमूल इव क्षितौ ॥ ३४५ ॥
क्षणावशेषजीवोऽपि स जगाद दशाननम् ।
श्लाघमानं स्खविजयं संदष्टदशनच्छदः ॥ ३४६ ॥
निहतः प्राप्तकालोऽहं क्षत्रियः किं प्रगल्भसि ।
भविष्यति तवावश्यं राज्ञो मद्वंशजाद्वधः ॥ ३४७ ॥
इत्युक्ते सत्यशीलेन भूभुजा देवदुन्दुभिः ।
ननाद पुष्पवृष्टिश्च निपपात महीतले ॥ ३४८ ॥
इत्यनरण्यवधः ॥ १२ ॥
एतदाकर्ण्य पप्रच्छ रामः कुम्भोद्भवं मुनिम् ।
किं तदा भगवन्कृत्स्ना वीरशून्याभवन्मही ॥ ३४९ ॥
एवंविधा नृपतयः प्रवराश्चक्रवर्तिनः ।
जिताः स्म इत्यभापन्त कथं वीर दशाननम् ॥ ३५० ॥
न कश्चिदपि संजातः क्षत्रियः क्षत्रियस्तदा ।
दर्पेण सर्वसामान्या ये न प्रक्षालिता युधि ॥ ३५१ ॥
इति रामेण भगवान्पृष्टोऽगस्त्यस्तमब्रवीत् ।
नृपाः कुर्वन्ति किं राम बरदृप्ते क्षपाचरे ॥ ३५२ ॥
ततो माहिष्मतीं येन पुरीं दशमुखो ययौ ।
स सहस्रमुजो यस्यां कार्तवीयोऽर्जुनः पतिः ॥ ३५३ ॥
जयकेलिरते राज्ञि नर्मदा फेनहासिनीम् ।
अन्तःपुरैः सह गते राजधानीं विवेश सः ॥ ३५४ ॥
युद्धार्थी स महामात्यान्मुहुः पप्रच्छ दुर्मदः ।
क्व स राजार्जुनो नाम वीरो भूरिभुजोर्जितः ॥ ३५५ ॥
इति तस्य वचः श्रुत्वा कालज्ञास्तम्य मन्त्रिणः ।
न स्थितो भूपतिरिति प्राहुर्नयविचक्षणाः ॥ ३५६ ॥
ततो विन्ध्याचलं गत्वा शनैर्वद्धमनोरथः ।
मध्याह्ने नर्मदातीरमाससाद दशाननः ॥ ३५७ ॥.
दक्षिणाम्भोधिमहिषीं स्वच्छफेनदुकूलिनीम् ।
तां हंसमालिनीं वीक्ष्य नर्मदा नर्मदां रतेः ॥ ३५८ ॥
प्रहर्षोत्फुल्लनयनश्चिरेणासाथ निर्वृतिम् ।
उवाच मारीचमुखान्सचिवान्विगतक्लमः ॥ ३५९ ॥
लोलफेनावलीहारा चक्रवाकोन्नतस्तनी ।
मनो मे रसयत्येषा तरुणीव तरङ्गिणी ॥३६०॥
एते विन्ध्योपलस्फालस्फारशीकरदन्तुराः ।
भान्ति विश्रान्तिसुहृदो नर्मदातीरमारुताः ॥ ३६१ ॥
इयं विलोक्य मां सुप्तकल्लोलवलया सरित् ।
लीनमीनविहङ्गाक्षी भीतेव निभृतं स्थिता ॥ ३६२ ॥
तपत्यतप्तं तपनः पवनः पङ्गुतां गतः।
सुसंगतविहङ्गापि नो ननाद च नर्मदा ॥ ३६३ ॥
अस्मिन्संतोषविषदे वाहिनीपुलिने मम ।
हरपुष्पोपहाराय भृशमुत्कण्ठते मनः ॥ ३६४ ॥
किं तैः कुविभवैर्भूत पीत्वा संभृतभोजनैः ।
हरार्चनोपकरणे संतता न भवन्ति ये ॥ ३६५ ॥
हरार्चनैकव्यापारा यद्भवन्ति विभूतयः ।
तजन्मान्तरलब्धस्य तत्प्रसादस्य तत्फलम् ॥ ३६६ ॥
एतावदेव विपुलैश्वर्यकल्पतरोः फलम् ।
राजोपचारपूजाभिः पूज्यन्ते यन्महेश्वराः ॥ ३६७ ॥
पूजानुरागहेवाकः पुण्यभानां प्रजायते ।
एकजन्मावशेषाणां भवे भवति भावना ॥ ३६८ ॥
भवद्भिरुपनीतेन पूजोपकरणेन मे ।
प्रवर्ततामयं पूर्णं तूर्णं लिङ्गार्चनोत्सवः ॥ ३६९ ॥
इत्युक्त्वा विरते तस्मिन्सर्वं पूजामयोचितम् ।
पुरः पुष्पाणि निचितं चक्रुस्ते क्षणदाचराः ॥ ३७० ॥
ततो भ्रात्रा कृतजपः शुद्धात्मा हृदि योगकृत् ।
सदाचितं हेममयं लिङ्गमादाय सैकते ॥ ३७१ ॥
सर्वोपचारपूजाभिः पूजयित्वा यथेप्सितम् ।
नामाष्टशतकं गायन्ननर्त दशकन्धरः ॥ ३७२ ॥
विधानेन सदा पूजां कृत्वा सोऽभूज्जगजयी ।
तस्मिन्दिने समुत्सेको विधिहीनक्रियोऽभवत् ॥ ३७३ ॥
सा पूजा महती शंभोदिव्यपुष्पविनिर्मिता ।
खेचराणां क्षणं चक्रे रत्नादिशिखरभ्रमम् ॥ ३७४ ॥
मन्दारैः सौरभोदारैः कचद्भिः काञ्चनाम्बुजैः ।
सुजातैः पारिजातैश्च सा पूजा शुशुभे विभोः ॥ ३७५ ॥
अत्रान्तरे तटस्याधस्तीरे माहिष्मतीपतिः ।
विललासार्जुनो राजा सलिले ललनाशतैः ॥ ३७६ ॥
तस्य कङ्कणकेयूररत्नांशुवलयैर्जलम् ।
बभौ प्रावृङ्घनभ्रष्टैाप्तं चक्रायुधैरिव ॥ ३७७ ॥
तत्करास्फालितजलस्फारशीकरसंततिः ।
तरुणीनां स्तनतटे प्रययौ भारहारताम् ॥ ३७८ ॥
जलं पिञ्जरितं रेजे कामिनीकुचकुङ्कुमैः ।
हेमाम्बुजस्रजो राज्ञः किंजल्कैरिव पूरितम् ॥ ३७९ ॥
भुजानां भूपतिस्तत्र सारं ज्ञातुं तरङ्गिणीम् ।
धृत्वा चकार सावेगं प्रतिस्रोतः पराङ्मुखाम् ॥ ३८० ॥
निरुद्धा बलिना तेन प्रवृद्धेन महाम्भसा ।
मन्युनेव परावृत्ता सा जगाम यथागतम् ॥ ३८१ ॥
अर्धे सलिलकल्लोलदुकूलवलिता सरित् ।
अर्धे भग्नतटे श्रेणीहृततोयांशुकाभवत् ॥ ३८२ ॥
१. ‘तार’ क-ख. २. ‘नग्न’ शा०.
इतः सहस्रगुणिता प्रापाथ तनुतामितः ।
तुल्यं मेघागमशरद्विरक्तेन बभूव सा ॥ ३८३ ॥
राज्ञा भुजसहस्रेण रुद्धा सागरगामिनी ।
मुखं वर्त्मसहस्रेण दत्त्वा दत्त्वा न्यवर्तत ॥ ३८४ ॥
तटी भग्नवरोद्याना तस्याः कूलंकषैर्जलैः ।
तन्मार्गगामिनी दूरात्सा सर्वजनवर्जिता ॥ ३८५ ॥
बभ्राम रावणाज्ञेव पुण्याश्रमविनाशिनी ।
तां रावणकृतां पूजामुन्मत्तेव विशृङ्खला ॥ ३८६ ॥
जहार वीचिहस्तैः सा स्फीतफेनाट्टहासिनी ।
हृतपूजां नदी रक्षश्चक्षुषा क्षणमैक्षत ॥ ३८७ ॥
ईर्ष्यालुरिव सोत्सेका दयितामपकारिणीम् ।
क्षुभितां नर्मदां दृष्ट्वा निर्विकारामिव स्थिताम् ॥ ३८८ ॥
दिदेश संज्ञया ज्ञातुं रावणः शुकसारणौ ।
तौ गत्वा तटिनीमध्ये रोद्धारं सलिलं भुजैः ॥ ३८९ ॥
वृतं कान्तासहस्रेण दृप्तं ददृशतुर्नुपम् ।
तौ तु दृष्ट्वा समभ्येत्य दशकन्धरसूचतुः ॥ ३९० ॥
निरुद्धा कार्तवीर्येण परावृत्ता तरङ्गिणी।
पौलस्त्यः सुचिरान्विष्टं स्थितं श्रुत्वा महीपतिम् ॥ ३९१ ॥
अमर्षहर्षसंपूर्णः सानुगस्तां ययौ भुवम् ।
स तस्य सचिवानेत्य जगाद समरोन्मुखः ॥ ३९२ ॥
क्व स राजार्जुनो नाम सहस्रभुजदुर्मदः ।
दशाननोऽहं युद्धार्थी रसेन स्वयमागतः ॥ ३९३ ॥
न सेहे त्रिजगत्यस्मिन्बीरमानोन्नतं जनम् ।
इति ब्रुवाणं सावेगं मन्त्रिणस्तं बभाषिरे ॥ ३९४ ॥
स्वैरं स्थितो नरपतिः कान्ताकेलिकुतूहली ।
दृश्यो भवति नास्माकं कालेऽस्मिन्मदनिर्भरः ॥ ३९५ ॥
युद्धस्यावसरो नायं क्षपामेकां क्षमस्व नः ।
नायं विबुद्धो युद्धेन प्रातर्गन्तासि भूपतेः ॥ ३९६ ॥
एतदाकर्ण्य पौलस्त्यस्तानाजसचिवान्बली ।
चकार सानुगश्छन्नान्धोराभिः शरवृष्टिभिः ॥ ३९७ ॥
ततः श्रुत्वा नरपतिर्दशाननमसंभ्रमः ।
युद्धार्थिनं समायातमुन्ममज्ज जलान्तरात् ॥ ३९८ ॥
स स्तम्भभुजसंभारः प्रांशुः कनकसप्रभः ।
हेमवृक्षसहस्राङ्कः स सुमेरुरिवाबभौ ॥ ३९९ ॥
मदोद्धतः समादाय गदां जाम्बुनदाङ्गदः ।
समभ्यधावत्तेजस्वी राक्षसेन्द्र क्षितीश्वरः ॥ ४०० ॥
तस्मै प्रहस्तश्चिक्षेप मुशलं ज्वलनाकुलम् ।
जग्राह गदया तच्च सावेगं पृथिवीपतिः ॥ ४०१ ॥
प्रहस्तस्ताडितस्तेन गदया वनवेगया ।
वमन्मुखेन रुधिरं पपात भुवि मूर्छितः ॥ ४०२ ॥
तत्तोऽभूदुद्धतं युद्धं नरराक्षसराजयोः ।
मही यच्चरणन्यासैरुन्ममज ममज्ज च ॥ ४०३ ॥
गदाभिघातप्रभरश्रान्तं युध्यमानयोः ।
तयोः सावेगनिर्घोषैः प्रलयाश्रभ्रमोऽभवत् ॥ ४०४ ॥
गदाप्रहारनिष्पिष्टरत्नाभरणवह्निना।
व्याप्तौ तौ रेजतुवीरौ सविद्योता इवाचलौ ॥ ४०५ ॥
ततः क्षितिपतिः क्षिप्रं सर्वप्राणेन तां गदान् ।
अपातयन्महावेगां राक्षसेन्द्रस्य वक्षसि ॥ ४०६ ॥
रावणस्योरसि दृढे सा पणात द्विधा गता ।
अपमृत्युं धनुर्मात्रं राक्षसो निषसाद च ॥ ४०७ ॥
तं मूर्छितं निपतितं बद्धा जग्राह भूपतिः ।
सुरैः स साधुशब्दाभिः पूजितः पुष्पवृष्टिभिः!॥ ४०८ ॥
१. ‘दुष्कृतं’ शा०.
बन्धनं पवनस्येव समुद्रस्येव शोषणम् ।
आकर्षणमिवार्कस्य सुमेरोरिव पातनम् ॥ ४०९ ॥
दशग्रीवस्य दृष्ट्वैव ग्रहणं क्रोधमूर्छिताः ।
प्रहस्तमारीचिमुखा योद्धमभ्याद्रवन्मुहुः ॥ ४१० ॥
तान्स विद्राव्य तरसा दीप्ताभिः शरवृष्टिभिः ।
बद्धं रावणमादाय प्रविवेश निजां पुरीम् ॥ ४११ ॥
इति रावणग्रहणम् ॥ १३ ॥
पौत्रस्य ग्रहणं श्रुत्वा कथ्यमानं सुरैदिवि ।
कम्पमान इव स्नेहात्पुलस्त्यः स्वयमाययौ ॥ ४१२ ॥
तेनार्थितो नरपतिर्मुनिना ब्रह्मसूनुना ।
तत्याज रावणं बन्धात्सख्यं कृत्वाग्निसाक्षिकम् 11.४१३ ॥
न विश्वासः प्रभावेऽस्ति दों मानाशतिः परम् ।
को जानीते विकाराणां विधेरेव हि संनिधिम् ॥ ४१४ ॥
धनिभ्यो धनिनः सन्ति वादिभ्यः सन्ति वादिनः ।
बलिभ्यो बलिनः सन्ति तस्माद्दर्प विवर्जयेत् ॥ ४१५ ॥
गुणानां संपदां लोके यशसामथ तेजसाम् ।
अविच्छिन्नः प्रकर्षोऽयमुपर्युपरि वर्तते ॥ ४१६ ॥
इति रावणमोक्षः ॥ १४ ॥
बलाधिकान्बाधमानः पुनर्भुवि चचार सः ।
प्रशाम्यति प्रभावो हि देहेन सह देहिनाम् ॥ ४१७ ॥
स शौर्याभ्यधिकं श्रुत्वा वालिनं वानरेश्वरम् ।
तूर्णं जगाम युद्धार्थी किष्किन्धां सचिवैः सह ॥ ४१८ ॥
तं बालिवधसंनद्धं दर्पदुद्धतवादिनम् ।
तारानुजोऽवदद्धीरस्तारो वानरयूथपः ॥ ४१९ ॥
संध्यामुपासितुं वाली यातोऽम्बुधिचतुष्टयम् ।
क्षणं तिष्ठ पुरस्तस्य दर्पं निक्षिप्य यास्यसि ॥ ४२० ॥
१. ‘शस्त्र’ शा.
एता वालिहतानेकवीरककालमालिताः।
दिशो बिभ्रति पौलस्त्य कापालिकवधूव्रतम् ॥ ४२१ ॥
मृत्युना यदि ते मैत्री यदि लममरो वरात् ।
तथापि वालिनं प्राप्य कथाशेपो भविष्यसि ॥ ४२२ ॥
सोत्कण्ठेनेव कालेन हृष्टश्चेन्न प्रतीक्षसे ।
तदितः स्वेच्छया गच्छ सक्षणो दक्षिणार्णवम् ॥ ४२३ ॥
इति ब्रुवाणं कुपितस्तारं निर्भत्स्य रावणः ।
पुष्पकेण ययौ तूर्णं संध्यायां दक्षिणार्णवम् ॥ ४२४ ॥
स तत्र संध्याध्यानस्थं वालिनं मलिनाशयः ।
दृष्ट्वा जिघृक्षन्निःशब्दं पद्भ्यामनुययौ शनैः ॥ ४२५ ॥
लोचने किंचिदुन्मील्य वाली हेमाचलोपमः ।
विलोक्य रावणं पश्चान्न चचाल जपत्रतः ॥ ४२६ ॥
अभिप्रायं स विज्ञाय रावणस्य महाभुजः ।
तं जग्राह तपस्यान्ते सुपर्ण इव पन्नगम् ॥ ४२७ ॥
लम्बबाहुवनं वाली कक्षायां राक्षसेश्वरम् ।
कृत्वा स्वमुत्पपाताशु नखैरुल्लेखकारिणम् ॥ ४२८ ॥
तमाद्रवन्तं गगने क्रुद्धाः पौलस्त्यमन्त्रिणः ।
वालिवेगानलहताः पेतुर्मेधा इव क्षितौ ॥ ४२९ ॥
स समुद्रत्रये संध्यामर्चयित्वा यथाविधि ।
अश्रान्तः स्वपुरं प्राप कक्षानिक्षिप्तराक्षसः ॥ ४३० ॥
विमुच्य रावणं तत्र वाली स्मितसिताननः ।
उवाच कस्त्वं केनेह विन्यस्तः कथमागतः ॥ ४३१ ॥
सोपहासं निशम्यैतद्वचनं राक्षसेश्वरः ।
श्रमश्वासाकुलतनुः प्रोवाच चूर्णितेक्षणः ॥ ४३२ ॥
अहो बलमसामान्यमहो व्रतगतिः परा ।
तवाप्रतिमसत्त्वस्य येन बद्धोऽलि रावणः ॥ ४३३ ॥
१. ‘जप’ इति भवेत्.
वक्ति तार्क्ष्योपमां कस्ते लज्जेवाविलतुल्यता ।
यदि वा साम्यविरहान्मनसैवोपमीयते ॥ ४३४ ॥
दंशवन्मां समादाय त्वदन्यः को नु दिक्त्रये ।
क्षणेन भ्राम्यति व्यक्तमवधिर्नास्ति तेजसाम् ॥ ४३५ ॥
अहो सुविपुलेऽप्यस्मिन्संसारे विवुधाद्भुते ।
रोमाञ्चकारिचरितो न दृष्टो त्वद्विधो जनः ॥ ४३६ ॥
लज्जा भवेन्मम परं यदि स्यात्त्वत्समोऽपरः ।
एकस्यैव तु शक्तिः कैर्लक्ष्यते ते विधेरिव ॥ ४३७ ॥
अविच्छिन्नधनप्राणं सख्यमस्तु मम त्वया ।
इत्युक्त्वा तेन सौहार्दं स चकाराग्निसाक्षिकम् ॥ ४३८ ॥
मासं वालिगृहे स्थित्वा पूज्यमानो दशाननः ।
जगज्जयाय सचिवैस्तैः समेत्यार्थितो ययौ ॥ ४३९ ॥
एवं त्रैलोक्यजयिनो वालिनो वलशालिना ।
गोष्ठीषु दशकण्ठस्य स्मृतपात्रकृतं यशः ॥ ४४० ॥
सर्गायैव नमस्तस्मै यसिन्काले मनोमुपाम् ।
अद्भुतानामनित्यानां परिसंख्या न विद्यते ॥ ४४१ ॥
इति वालिरावणसख्यम् ॥ १५ ॥
तं मर्त्यलोके वीराणां वधायैव कृतक्षणम् ।
ददर्श नारदो मेघारूढः पुष्पकवाहनम् ॥ ४४२ ॥
सोऽब्रवीत्तिष्ठ पौलस्त्य प्रियं मे तव दर्शनम् ।
यत्त्वं सर्वास्ववस्थासु युद्धान्न विरतः क्वचित् ॥ ४४३ ॥
हरिणा दैत्यसंहारे ताक्ष्येण फणिभक्षणे ।
त्वया जगज्जये चास्मिंस्तोषितोऽहं कुतूहली ॥ ४४४ ॥
कि मिथ्या मर्त्यनिधने प्रयत्नोऽयं तवाधिकः ।
अनिशं येन जागर्ति संक्षयाय स्वयं यमः ॥ ४४५ ॥
जातः प्रजापतिकुले मानुषान्सा वृथावधीः ।
एते हि निहता एव मर्त्या मरणधर्मिणः ॥ ४४६ ॥
पदे पदे सुखोत्सेकदुःखदैन्यभयार्दिताः ।
मूढाः संसारिणः सर्वे धीमतां करुणास्पदम् ॥ ४४७ ॥
यमवक्त्रं विशन्त्येते नदीवेगा इवार्णयम् ।
तस्मिन्नेव जिते सर्वे जगज्जाने त्वया जितम् ॥ ४४८॥
नारदेनेत्यभिहितस्तथेत्युक्त्वा दशाननः ।
प्रतस्थे सचिवैः सार्धं जेतुं वैवस्वतं जवात् ॥ ४४९ ॥
शमनं सर्वभूतानामीश्वरं रक्षसां कथम् ।
जेष्यतीत्यद्भुताक्रान्तो नारदोऽपि ययौ पुनः ॥ ४५० ॥
स गत्वा रावणोद्योगं यमाय च न्यवेदयत् ।
तत्क्षणं चार्कसंकाशं पुष्पकं समदृश्यत ॥ ४५१ ॥
प्रविशन्पुष्पकारूढः पौलस्त्यः प्रेतभूमिषु ।
ददर्श जन्मनिर्माणकर्मवर्मावृतं जनम् ।
करपत्रशिलापाततप्तसैकतपीडितम् ॥ ४५२ ॥
निमग्नान्पूयविस्तासृक्सारवैतरणीजले ।
गिरिसंघनिष्पिष्टान्वनकण्टकपाटिताम् ॥ ४५३ ॥
तप्ततैलवसाकुम्भकाथ्यमानार्थविग्रहान् ।
शस्त्रतुण्डखगाकृष्टजिह्वानयननासिकान् ॥ ४५४ ॥
ज्वालास्तम्भपरिष्वङ्गविलीनमलिनाङ्गकान् ।
ताडितानुल्मुकैः शूलमुसलपासमुद्गरैः ॥ ४५५ ॥
दृष्टा दुष्कृतिनस्तत्र नरकायर्तमूर्छितान् ।
सुकृतोज्वलदेहांश्च रुचिराभरणलजः ॥ ४५६ ॥
दिव्योद्यानगृहामोगसंभोगसुखभागिनः ।
जगद्वितिमिरं सर्व तं देशं पुष्पकांशुभिः ॥ १५७ ॥
प्रभावशक्त्या पौलस्त्यः सर्वानार्तप्रलापिनः ।
उज्जहार हताशेष किंकरो रौरवान्तरात् ॥ ४५८ ॥
मोक्षिते राक्षसेन्द्रेण निरयात्सर्वतो जने ।
बभूव तुमुलः शब्दः संभृतो यमसद्मनि ॥ ४५९ ॥
ततः शमननिष्ठाभिरनिष्टाभिः शरीरिणाम् ।
सेनाभिर्घोररूपाभिर्युद्धं रक्षःपतेरभूत् ॥ ४६० ॥
तस्यास्त्रवृष्टिभिर्व्योम्नि पुष्पकं शकलीकृतम् ।
प्रजापतिवरोदग्रमभून्नवनवं पुनः ॥ ४६१ ॥
दीप्तास्त्रवलयव्याप्तः में सानुगो राक्षसेश्वरः ।
अस्त्रं पाशुपतं क्रुद्धः संदधे रुधिरोक्षितः ॥ ४६२ ॥
तेनास्त्रेण प्रयातेऽथ सैन्ये सपदि भस्मसात् ।
स्वयं विनिर्ययौ मृत्युकालाभ्यां सहितो यमः ॥ ४६३ ॥
तस्मिन्मूतेन दण्डेन सह स्यन्दनमास्थिते ।
विश्वक्षयभयात्क्षिप्रं चकम्पे भुवनत्रयी ॥ ४६४ ॥
तं दृष्ट्वा रावणामात्याः क्रोधदीप्तं रथे स्थितम् ।
निमीलिताक्षाः संत्रासाद्तसत्त्वा विदुद्रुवुः ॥ ४६५ ॥
ततः प्रवृत्ते संग्रामे यमरावणयोः क्रुधा ।
सुरा द्रुहिणरुद्रेन्द्रमुख्यास्तत्प्रेक्षितुं ययुः ॥ ४६६ ॥
सप्तरात्रमभूद्युद्धं निर्विशेष तयोमिथः ।
दिव्यास्त्रशस्त्रज्वलनज्वालाजटिलिताम्बरम् ॥ ४६७ ॥
यमस्य रावणशरैश्छाद्यमानतनोर्मुखात् ।
रक्ताशोक इवोत्फुल्लः क्रोधवहिरजायत ॥ ४६८ ॥
तं मृत्युरवदत्कोपाद्विनिष्पिष्य करे करम् ।
अनुजानीहि मामेकं रक्षःपातकसंक्षये ॥ ४६९ ॥
त्वमेव वेत्सि यद्येता युगान्तेषु मदोत्कटाः ।
दंष्ट्राः सुरासुरग्रामरोमन्थशिथिलीकृताः ॥ ४७० ॥
न तं पश्यामि नागेषु नरेपु त्रिदशेषु वा ।
यमदंष्ट्राघटीयन्त्रान्मुक्तो यः स्वास्थ्यमागतः ॥ ४७१ ॥
हिरण्यकशिपुत्रः शम्बरो नमुचिर्मधुः ।
व्यग्रस्य मे जगद्ग्रासक्षणेनैकेन विस्मृताः ॥ ४७२ ॥
एष त्वामुद्यतो वालः कियान्मे क्षणदाचरः ।
स्वयं विमुञ्च संरम्भं मया स्पृष्टो न जीवति ॥ ४७३ ॥
इति मृत्युवचः श्रुत्वा विश्वसंयमनो यमः ।
पश्य मे बलमित्युक्त्वा स्वयं रावणमाद्रवत् ॥ ४७४ ॥
तदग्रे मुद्गरो घोरः पाशश्च विपुलत्विपः ।
कम्पमानेषु लोकेषु संनिधानं प्रचक्रतुः ॥ ४७५ ॥
ततः कोपात्समुद्यम्य दण्डं दण्डधरो जवात् ।
अभिद्रुते दशमुखे खयं ब्रह्मा समाययौ ॥ ४७६ ॥
सोऽब्रवीन्मद्वराद्दृप्तस्तव वध्यो न रावणः ।
अमोघः सर्वभूतानां कृतो दण्डः क्षयाय च ॥ ४७७ ॥
निहते वा दशमुखे दण्डे वा मोघतां गते ।
असत्यं मामुभयतः स्पृशेत्स्थितिविनाशकृत् ॥ ४७८ ॥
इति साक्षाद्भगवता ब्रह्मणाभिहतो यमः ।
सर्वं तथेति संचिन्त्य सरथोऽन्तरधीयत ॥ ४७९ ॥
लब्धलक्षे दशग्रीवे याते यमजयोजिते ।
अधोमुखा नारदेन सह देवा दिवं ययुः ॥ ४८० ॥
इति यमविसर्गः ॥ १६ ॥
ततो जलधिमार्गेण पातालं राक्षसेश्वरः ।
विशालं व्यालकलिलं प्रविश्य सचिवैः सह ॥ ४८१ ॥
जित्वा बलाद्भोगवतीं पुरी वासुकिपालिताम् ।
गत्वा मणिमयीं दैत्यनगरी रतभासुराम् ।
निवातकवचैः सार्धे वत्सरं युयुधे युधि ॥ ४८२ ॥
तेषां तत्र च संग्रामे तुल्ये तुल्यबलौजसाम् ।
ब्रह्मवाक्यात्कृतं सख्यं प्रीत्यै पावकसाक्षिकम् ॥ ४८३ ॥
१. ‘तस्याग्रे शा०. २. ‘द्विपः शा०.
३. ‘मणि’ शा.
पूज्यमानः स्थितो वर्षं तेषां वेश्मनि रावणः ।
तेभ्यो दुर्नयमायानामेकोनं शतमाप्तवान् ॥ ४८४ ॥
अथाश्मनगरे हत्वा दैत्यानन्यान्सहस्रशः ।
प्राप कैलाससंकाशं शुभं वरुणमन्दिरम् ॥ ४८५ ॥ .
यत्र सा सुरभिर्नाम संज्ञा दिव्योपधिप्रसूः ।
स्थिता चन्द्रामृतोत्पत्तेर्जननी क्षीरवारिधः ॥ ४८६ ॥
तत्रामान्यान्स पप्रच्छ व स राजा जलेश्वरः ।
युद्धार्थी निर्जितयमः प्राप्तोऽहं रावणः खयम् ॥ ४८७ ॥
इति वादिनि सावेगं सानुगे राक्षसेश्वरे ।
अभूत्संनाहसंरम्भस्तुरङ्गरथदन्तिनाम् ॥ ४८८ ॥
ततः सलिलनाथस्य रथे वीराः प्रहारिणः ।
पुत्राः पौत्राश्च सामात्याः सैन्येन सह निर्ययुः ॥ ४८९ ॥
तेषां युद्धमभूत्खड्गप्रभापटलपल्लवम् ।
भिन्नोरुमुक्ताकुसुमं कृत्तवीरशिरःफलम् ॥ ४९० ॥ .
दारिते वरुणानीके रावणेन प्रमाथिना।
पुष्करप्रमुखा व्योम विविशुवरुणात्मजाः ॥ ४९१ ॥
रथिभिः पुष्करैस्तस्य तैर्लङ्काधिपतेरभूत् ।
युद्धं विपुलशस्त्रास्त्रज्वालालोलरसातलम् ॥ ४९२ ॥
तेषां महोदरः क्षिप्रं रथात्पृथुपराक्रमः ।
तान्ममाथ गिरिस्फारान्गदया रिपुभङ्गदः ॥ ४९३ ॥
रणे वरुणपुत्रेषु भग्नेषु भुजशालिनाम् ।
रावणं वरुणामात्यः प्रभासः खयमभ्यधात् ॥ ४९४ ॥
अलं युद्धेन पौलस्त्य न स्थितो यादसां पतिः ।
गान्धर्वं निखिलं श्रोतुं ब्रह्मलोकमितो गतः ॥ ४९५ ॥
१. ‘मायानां शतमेकं समाप्तवान्’ इति रामायणे. २. ’ भि’ क-ख. ‘क्षरन्ती च पयस्तन सुरभि गामवस्थिताम्’ इति रामायणे. ३. ‘स्वधा’ इति भवेत. ४. ‘महासः’
इति रामायणे.
श्रुत्वैतद्वरुणं जित्वा तत्पुरं दशकन्धरः ।
वीरश्चचाल पाताले लब्धलक्षः सहानुगः ॥ ४९६ ॥
ततश्चारुतरं हेमरुचिरं रत्नमन्दिरम् ।
हसन्तमिव संसक्तव्यक्तमौक्तिकजालकैः ॥ ४९७ ॥
ददर्श चन्द्रकान्तोरुशेखरं रावणः स्थितम् ।
अपरेणैव रूपेण पाताले स्फटिकाचलम् ॥ ४९८ ॥
कस्येदमिति तेनाशु प्रहस्ते प्रेरिते पुरः ।
प्रविश्य सप्तकक्षाभिः ज्वालामन्तर्व्यलोकयत् ॥ ४९९ ॥
तन्मध्ये पुरुषं दीप्तं मौलिनं हेममालिनम् ।
तदालोकेन जातेन हासेन महता मुहुः ॥ ५०० ॥
कुर्वाणं धैर्यविध्वंससाध्वसायासकारिणा ।
दृष्ट्वा प्रहस्तो निर्गत्य रावणाय न्यवेदयत् ॥ ५०१॥
पुष्पकादवरुह्याथ प्रविश्य दीप्तभूपणम् ।
ददर्श द्वारि पौलस्त्यः पुरुपं मुशलायुधम् ॥ ५०२ ॥
तं दृष्ट्वा जातरोमाञ्चः स साकम्पो व्यचिन्तयत् ।
चिन्ताकुलं स पुरुषः प्रोवाच धननिःस्वनः ॥ ५०३ ॥
युद्धार्थिनं त्वामायातं जानामि जगतां रिपुम् ।
अत्राहं बलिरत्रास्ते केन युद्धं समीहसे ॥ ५०४ ॥
एतद्दशाननः श्रुत्वा कोपकण्टकिताकृतिः ।
बलिना योद्भुमिच्छामीत्युक्त्वैवान्तरमाविशत् ॥ ५०५ ॥
स ददर्श वलिं तत्र पवित्रचरितव्रतम् ।
विभवे भुवनव्यापी वैश्वरूप्यं चमार यः ॥ ५०६ ॥
यस्य त्यागसमुद्भूता लाध्यस्य तनुता श्रियः ।
आर्थिभिः खिन्नशाखस्य चन्दनस्यैव शोभते ॥ ५०७ ॥
दानेनातिप्रमाणेन यस्य वद्धस्य विष्णुना ।
विविक्तं त्रिषु लोकेषु भ्रमति स्वेच्छया यशः ॥ ५०८ ॥
१. ‘पुनः’ शा०. २. ‘शाला’ शा..
केनान्येन वदान्येन क्रियतामुपमा बलेः ।
त्यागेनात्युन्नतिं नीतो येन स्वल्पोऽपि याचकः ॥ ५०९ ॥
स्पृहणीयैव समरे शूरस्येव विरूपिता ।
तुल्यं(?) संपत्सहस्रेण दातुर्दानोद्भवा विपत् ॥ ५१० ॥
तं दृष्ट्वा तेजसां राशिं प्रगल्भोऽपि दशाननः ।
अभून्निष्प्रतिभः प्राप्य मूल् विद्वत्सभामिव ॥ ५११ ॥
तमुत्सङ्गे समारोप्य दूरागमनकारणम् ।
प्रीतिप्रसारितोष्ठाग्रः पप्रच्छ स्वच्छधीर्वलिः ॥ ५१२ ॥
तं रावणोऽवदद्बद्धं श्रुत्वाहं त्वां मुरारिणा ।
शक्तः प्राप्तोऽस्मि मोक्षाय निर्जिताशेषनिर्जरः ॥ ५१३ ॥
दशास्यवचनं श्रुत्वा हासोल्लाससिताननः ।
उवाच रुचिरं कुर्वन्पाताले चन्द्रिका बलिः ॥ ५१४ ॥
एष द्वारि स्थितः श्यामः किरीटी दीर्घकुण्डलः ।
पुरुषः शाश्वतः श्रीमान्बद्धोऽहं येन लीलया ॥ ५१५ ॥
मधुकैटभमुख्यास्ते हिरण्याक्षपुरोगमाः ।
तस्योदरदरीं सर्वे प्रविष्टाः कालरूपिणः ॥ ५१६ ॥
एष स्रष्टा च संहर्ता विश्वरूपः सनातनः ।
यं मोक्षगामिनः सिद्धा यतयः पर्युपासते ॥ ५१७ ॥
सर्वात्मा भगवानेप प्रत्यक्षोऽपि न दृश्यते ।
प्रकाशबन्धुर्मोहान्धैः सहस्रांशुरिवाम्बरे ॥ ५१८ ॥
तं जेतुं तव संकल्पो हास्य कस्य न जायते ।
पूर्णेन्दुयाच्ञा रुदिते(?) बालस्येव फलाशया ॥ ५१९ ॥
इत्युक्त्वा बलिना श्रुत्वा ततो निर्गत्य रावणः ।
न तं ददर्श पुरुषं देहस्थमिव मूढधीः ॥ ५२० ॥
स समुन्मज्य पातालात्तेनैवाम्बुधिवर्मना ।
शशाङ्कलोकं निःशङ्कः प्रतस्थे जेतुमञ्जसा ॥ ५२१ ॥
इति पातालविजयः ॥ १७ ॥
१. वामनोऽप्युरुक्रमतां नीत इति भावः.
व्योम्नि व्रजन्विमानेन मेरुशृङ्गमवाप्य सः ।
विमानान्यर्कवर्णानि पश्यन्सुकृतिनां पुरः ॥ ५२२ ॥
पप्रच्छ विस्मितस्तेषां प्रभाव पर्वतं मुनिम् ।
स पृष्टो दशकण्ठेन देवर्षिस्तमभाषत ॥ ५२३ ॥
एष सूर्यपथोत्तीर्णः संन्यासी मोक्षमास्थितः ।
भासुरः सोमपश्चायं ब्रह्मवादी रथे स्थितः ॥ ५२४ ॥
अयं शक्राधिकैश्वर्यो रणानलहुताकृतिः ।
अयं सुवर्णदः श्रीमानेते सुकृतिनः परे ॥ ५२५ ॥
मान्धाता चैव राजर्पिविवखानिव राजते ।
एतदाकर्ण्य पौलस्त्यः स्वर्गमार्ग व्यगाहत ॥ ५२६ ॥
विजेतुं भूपतेस्तन तेनाहूतस्य मानिनः ।
बभूव सुमहद्युद्धं जम्भेनेव शचीपतेः ॥ ५२७ ॥
तस्मिन्नस्त्रास्त्रसंघघट्टिताशेषदिक्तटे ।
संहारो(?)घोरसमरे भुवनानि चकम्पिरे ॥ ५२८ ॥
ततः पाशुपतं राजा क्षीणे दिव्यास्त्रमण्डले ।
अस्त्रं जग्राह येनाभूत्रिजगत्क्षोभविभ्रमः ॥ ५२९ ॥
तां युद्धभुवमभ्येत्य महपिंप्रवरौ तयोः ।
पुलस्त्यगालवौ सख्यं चक्रतुर्विश्वशान्तये ॥ ५३० ॥
इति मान्धातृयुद्धम् ॥ १८ ॥
ततो दशसहस्राणि योजनानां मरुत्पथम् ।
प्रथमं हंसमालाङ्कं जगामाक्रम्य रावणः ॥ ५३१ ॥
तत्तुल्यमपरं वातस्कन्धमाचक्रमे जवात् ।
आग्नेयाः पक्षिणो ब्राह्मा त्रिविधा यत्र वारिदाः ॥ ५३२ ॥
तृतीयं धाम सिद्धानां तुर्थ भूतगणाश्रितम् ।
पञ्चमं दिन्द्विपक्षिप्तगङ्गाम्बुहिमशीकरम् ॥ ५३३ ॥
षष्ठं सुपर्णनिलयं सप्तमं मुनिसेवितम् ।
अतिक्रम्य दशग्रीवः स्फीतां च व्योमवाहिनीम् ॥ ५३४ ॥
अशीति योजनानां तु सहस्राणीन्दुमण्डलम् ।
शतलक्षांशुविषदं भयदं प्राप्य रावणः ॥ ५३५ ॥
पपात सानुगस्तत्र यत्स शीतसमाहतः ।
सा कापि महती शक्तिर्हिमस्य दहनामिका ॥ ५३६ ॥
तं प्रहस्तोऽवदद्दन्तवाद्यप्रस्खलिताक्षरः ।
निवर्तस्व दशग्रीव निधनायेह संनिधिः ॥ ५३७ ॥
श्रुत्वैतत्कोपसंतप्तः पौलस्त्यः सोममण्डले ।
चिक्षेप दीप्तान्नाराचान्प्राप्तजीवितसंशयः ॥ ५३८ ॥
ततः स्वयं समभ्येत्य स्वयंभूस्तमभापत ।
इतः पुत्र निवर्तख संरम्भ मा कृथाः परम् ॥ ५३९ ॥
प्राणक्षये स्वरक्षार्थं मन्त्रराजं गृहाण च ।
रौद्रं नामाष्टकशतं विजयो येन लभ्यते ॥ ५४० ॥
शिवः शिवग्रदो लोके भवो भवविनाशनः ।
हरः क्लेशहरो देवः शिवः सर्वार्थसिद्धिदः ॥ ५४१ ॥
विभुः स्वयंभूर्भगवान्भर्गः सर्गलयोदयः ।
शंभुः स्तम्भितजम्भारिभुजस्तम्भो महेश्वरः ॥ ५४२ ॥
सर्वदेवमयो वेत्ता विदितो वेदवादिनाम् ।
योगज्ञो योगिनां ध्येयः परमात्मा सनातनः ॥ ५४३ ॥
भूतकृद्भूतहृद्भूतभर्ता भूतिसिताकृतिः ।
स्तोत्रेणानेन विश्वेशः शंकरः परितुष्यति ॥ ५४४ ॥
इत्युक्त्वा राक्षसेन्द्राय नामाष्टशतकं विधिः ।
दत्त्वा जगाम भगवान्सिद्धर्पिगणवन्दितः ॥ ५४५ ॥
इति सोमलोकगमनम् ॥ १९ ॥
ततः प्रभृति निवृत्तो वरदृप्तो दशाननः ।
जहार सुरगन्धर्वनागर्किनरकन्यकाः ॥ ५४६ ॥
१. ‘धर्म’ शा०.
बलाधिकः समादाय कलत्राणि दिवौकसाम् ।
ययौ तत्कर्मणा क्रन्दसंपूरितदिगन्तरः ॥ ५४७ ॥
परदारोत्सुकः पापः परदारापहारकः ।
क्षयं प्रयास्यतीत्यूचुस्तं सुरासुरयोपितः ॥ ५४८ ॥
ततो जगज्जयोद्भूतः सदाभरणविग्रहः ।
संपूर्णविग्रहः प्राप लङ्कां राक्षसकुञ्जरः ॥ ५४९ ॥
अथ शूर्पणखा नाम तत्र लङ्कापतेः वसा ।
निपत्य पादयोर्दुःखाद्वाष्पाम्बुवदनावदत् ॥ ५५० ॥
अहो बत महाराज त्रैलोक्यजयिना त्वया ।
उचितं श्लाघनीयं च बन्धुकार्य महत्कृतम् ॥ ५५१ ॥
सुहृदामुपकाराय बन्धूनामुदयाय च ।
अर्थ्यते विभवः सद्भिर्भोजनं कस्य दुर्लभम् ॥ ५५२ ॥
विश्वप्रसिद्धयशसा भुवनप्रभविष्णुना ।
विभवे संविभागार्हः पतिमें निहतस्त्वया ॥ ५५३ ॥
कालेया नाम ये दैत्याः समरे निहतास्त्वया ।
तेषां मध्ये मम पतिर्विद्युजिह्वो निपातितः ५५४ ॥
श्रुत्वैतदप्रियं क्षिप्रं लज्जमानो दशाननः ।
तां समाश्वास प्रोवाच राक्षसं मां विलोकयन् ॥ ५५५ ॥
भ्राता ममाधिकगुणः प्रियो मातृस्वलुः सुतः ।
पूजयिष्यति मद्वाक्यात्वरः स्वजननीमिव ॥ ५५६ ॥
मयास्य दण्डकारण्ये खं राज्यं प्रतिपादितम् ।
निर्देशकारी वश्यश्च तत्रायं ते भविष्यति ॥ ५५७ ॥
याते भर्तरि नारीणां संभोगविभवे गते ।
अयाच्ञा सुलभा वृत्तिः दुःखशूलापहारिणी ॥ १५८ ॥
इत्युक्त्वा दण्डकारण्यं ससैन्यं दूपणानुगम् ।
विससर्ज सुरारातिः खरं शूर्पणखां च ताम् ॥ ५५६ ॥
इति दण्डकारण्यप्रदानम् ॥ २० ॥
१, ‘कालकेया इति स्याताः’ इति रामायणे.
ततो निकुम्भिलां नाम लङ्कापर्यन्तकाननम् ।
सोऽपश्यच्चैत्ययूषाङ्कं मेघनादकृतैर्मखैः ॥ ५६० ॥
पुत्रं कृष्णाजिनधरं स परिष्वज्य दीक्षितम् ।
शुश्राव तव्यवसितं सर्वमौशनसाद्विजात् ॥ ५६१ ॥
अग्निष्टोमोऽश्वमेधश्च ऋतुर्वहुसुवर्णकः ।
राजसूयो गोसवश्च वैष्णवश्च सुतेन ते ॥ ५६२ ॥
संप्राप्ता दुर्लभा यज्ञाः पूणे माहेश्वरे क्रतौ 1
रणोपकरणं दिव्यं लब्धं रुद्रस्य शासनात् ॥ ५६३ ॥
संप्राप्ता तामसी माया स यज्ञोऽद्य समाप्यते ।
एतदाकर्ण्य पौलस्त्यः पुत्रमूचे स्मिताननः ॥ ५६४ ॥
न शोभनं कृतं वत्स यत्त्वया मम शत्रवः ।
यज्ञेष्वभ्यर्चिता देवाः क्षये येषामहं स्थितः ॥ ५६५ ॥
इत्युक्त्वा सह पुत्रेण राजधानी विवेश सः ।
चक्रे शत्रुजिता सार्ध सैन्यं संनाहसंभृतम् ॥ ५६६ ॥
विभीषणस्तु ता दृष्ट्वा हृतास्त्रिदशयोषितः ।
उवाच भ्रातरं धीमान्पापाचारपराङ्मुखः ॥ ५६७ ॥
त्रैलोक्यविजयो राजन्परदाराविमर्षिणः ।
ऋतुर्न श्रोत्रियस्येव तवायं न विराजते ॥ ५६८ ॥
निर्दयत्यागसंभोगैः क्षीयन्ते नैव संपदः ।
श्रीलतामूलपरशुः प्राप्तो यावन्न दुर्नयः ॥ ५६९ ॥
श्रुतेन शोभते प्रज्ञा वाणी सत्येन शोभते ।
शमेन शोभते विद्या लक्ष्मीः शीलेन शोभते ॥ ५७० ॥
परित्यज्य कलत्राणि धाणि त्रिदिवौकसाम् ।
स्वचिन्ता क्रियन्तां तावत्सदाचारानुवर्तिनी ॥ ५७१ ॥
पुष्पोत्कटायास्तनया कन्या कुम्भीनसी बलात् ।
मधुना राक्षसेनैव निशि नीता प्रमाथिना ॥ ५७२ ॥
श्रुत्वैतत्क्रोधसंतप्तः श्वसन्नूचे दशाननः ।
प्रबुद्धः कुम्भकणोंऽद्य मेघनादः कृतक्षणः ।
गच्छामस्त्रिदशाञ्जेतुं लङ्का संरक्ष्यतां त्वया ॥ ५७३ ॥
इत्युक्त्वा विपुलानीक: पौलस्त्यः सह मन्त्रिभिः ।
निर्ययौ ककुभः कुर्वव्रजोजीमूतलाञ्छनाः ॥ ५७४ ॥
दैत्यैः सुरेन्द्रविद्वपादनुयातस्तरखिभिः ।
पूर्व मधुपुरं गत्वा स ददर्शाग्रजां पुरः ॥ ५७५ ॥
तया पादप्रणामेन भर्तृप्रीत्यार्थितो हि सः ।
तद्वैधव्यानुपाताच विरराम मधोर्वधात् ॥ ५७६
तं स्वर्गविजयोद्योगे कृत्वा सेनापुरःसरम् ।
स कैलासतटीं प्राप्य न्यपीदन्मुक्तवाहनः ॥ ५७७ ॥
इति सेनानिवेशः ॥ २१ ॥
विश्रान्तकटके तस्मिन्स्फाटिके कटके गिरेः ।
शृङ्गं विद्याधरीहर्म्यमारुरोह दशाननः ॥ ५७८ ॥
अथ कर्पूरधवलः श्यामामुखविशेषकः ।
प्राप तारापतिर्व्योम मानसे राजहंसताम् ॥ ५७९ ॥
प्राप ज्योत्स्नाट्टहासेन स्पष्टतां स्फटिकाचलः ।
बभौ चन्द्रोदयोद्भूतसुधाम्भोधिरिवापरः ॥ ५८० ॥
कुसुमामोदमुदिता बभ्रमुर्भमराः परम् ।
तदा विरहिणीसृष्टा मूर्ताः कामाक्षरा इव ॥ ५८१ ॥
पृष्टे कैलासशृशेषु चन्द्रस्य प्रतिविम्वितैः ।
विम्बितैः प्रतिविम्बैश्च बभूवेन्दुमयं जगत् ॥ ५८२ ॥
घनैर्निशाकरालोकैर्नखोल्लेखसहैरिव ।
घटिताः स्फाटिकेनेव शुभ्राः शुशुभिरे दिशः ॥ ५८३ ॥
चन्द्रांशुमालाधवलैः फुडैर्मन्दारपादपैः ।
मुहुर्जहास कैलासः शोभां चन्दनशाखिनाम् ॥ ५८४ ॥
सुराभिसारिकापीनस्तनोत्सङ्गतरङ्गिणः ।
पवनाश्चन्दनामोदप्रमोदसुहृदो ववुः ॥ ५८५ ॥
निशाकरकरैः स्मेरस्मरचामरचारुभिः ।
रेजे द्यौर्वीज्यमानेव स्पर्शशीलिततारका ॥ ५८६ ॥
धम्मिल्लपुष्परचनाव्यग्रसिद्धबधूजने ।
सोत्कण्ठा किंनरीगीतमीलितालिकुलस्वने ॥ ५८७ ॥
व्रजन्विद्याधरीस्वैरनारीनूपुरनादिते ।
ज्योत्स्नाहासिनि कैलासे प्रीतिं प्राप्य दशाननः ॥ ५८८ ॥
सोऽचिन्तयदियं कान्ता कामिनी कौमुदी विना ।
करोति हृदि संतापं लुब्धश्रीरिव निष्फला ॥ ५८९ ॥
अस्मिन्नवसरे रम्भा रम्भोरुरभिसारिका ।
आययौ वर्मना तेन कान्ता खर्गविलासिनी ॥ ५९० ॥
सरपुण्यरसामान्यैावण्यैरेव भूषिता ।
गृहीतरतिनेपथ्या मिथ्यारचितभूषणा ॥ ५९१ ॥
तारा हारांशुविशदा ज्योत्स्नस्वच्छदुगूलिनी ।
मूर्तेव शशिनः स्फीता कीर्तिः कैलासचारिणी ॥ ५९२ ॥
धम्मिल्लकुसुमामोदकृष्टशिञानसंमदैः ।
आवेद्यमाना गमनाचारैरिच मनोभुवः ॥ ५९३ ॥
तां मुखेन्दुद्युतिसुधाधौताखिलदिगन्तराम् ।
जहर्ष रावणो दृष्ट्वा मरौ मन्दाकिनीमिव ॥ ५९४ ॥
स सादरः समुत्थाय पाणौ कमलकोमले ।
आलम्व्योवाच रभसात्तां नवानन्दकौमुदीम् ॥ ५९५ ॥
स्वयमागमने सुभ्रु कस्यायं तदनुग्रहः ।
कस्य मन्मथसाम्राज्यमौलिमूनि विराजते ॥ ५९६ ॥
इदं मधुमदाताम्रलोललोचनमाननम् ।
केन दष्टोष्ठसीत्कारतारं धन्येन धीमता ॥ ५९७ ॥
१. ‘र्शोन्मिलि’ शा. २. ‘कान्तिः’ शा.
को नाम त्रिजगत्यस्मिन्प्राप्तः स्मरनिधानताम् ।
दोर्मृणालीयते यत्ते याति यस्योपदानताम् ॥ ५९८ ॥
कस्य जन्मान्तरे वक्षः ख विदलितं युधि ।
इयं कुचतटी यस्सिन्याति चन्दनचौरताम् ॥ ५९९ ॥
पूर्णपुण्यपणप्राप्यं संभोगविभवास्पदम् ।
कस्ते स्वर्गमिवानर्घ नितम्बमधिरोहति ॥ ६०० ॥
रोमावलीपताकाङ्क्ष मेखलाकिंकिणीयुतम् ।
श्रोणीविमानं कस्येदं सजं सुकृतिशालिनः ॥ ६०१ ॥
निवर्तस्व न शक्नोमि त्वां त्यक्तुं चारुलोचने ।
अयत्नोपनतां रम्भे सुधां त्यजति कः सुधीः ॥ ६०२ ॥
शक्तिः प्रभावः प्रभुता भोगः संभोगसंपदाम् ।
सुदुर्लभानां लाभश्च तीव्रस्य तपसः फलम् ॥ ६०३ ॥
इति तस्य वचः श्रुत्वा वलिनस्तनुमध्यमा ।
कम्पमाना तमवदद्वल्लीवानिललोलिता ॥६०४ ॥
स्नुषाहं तव धर्मेण लकेश्वर विमुञ्च माम् ।
प्रभविष्णुरमर्यादं ()स्थितिलोपोऽपि दुःसहः ॥ ६०५ ॥
य एव विश्रुतः श्रीमान्भ्राता वैश्रवणस्तव ।
तस्य पुत्रो गुणनिधिः पारियों मे नलकूबरः ॥ ६०६ ॥
इदमेतत्कृते सर्वं संभोगार्हं प्रसाधनम् ।
सौभाग्यलुब्धाः कामिन्यो मधुरेप्वधिकाइराः ॥ ६०७ ॥
कुले महति जातानां सुधियां श्रुतशालिनाम् ।
अकीतिर्न भवत्येव न च शीलच्युता मतिः ॥ ६०८ ॥
इति ब्रुवाणां रक्षस्तां न मुमोच स्पृहामिव ।
प्रबलः कुलजां लज्जा सहते नहि मन्मथः ॥ ६०९ ॥
तां रावणः परित्यज्य भयमीलितलोचनाम् ।
चकर्ष स्पर्शरसिकः कम्पमानधनस्तनीम् ॥ ६१०॥
सा वलाद्वलिना तेन मातङ्गेनेव दूषिता ।
अभूल्लावण्यनलिनीपरिम्लानमुखाम्बुजा ॥ ६११॥
ततः सुरतविस्रस्तकवरीकुसुमच्छदा ।
अधोमुखी वेपमाना खण्डिताधरपल्लवा ॥ ६१२ ॥
स्तनौ नखमुखोच्छिष्टौ गृहमाना मनखिनी ।
सोच्छासा प्रययौ रम्भा खेदधौतानुलेपना ।
सा कुवेरपुरीं गत्वा समेत्य नलकूबरम् ॥ ६१३ ॥
पादयोर्विनिपत्यास्य ववृत्तान्तं न्यवेदयत् ।
स दृष्ट्वा दयितां भुक्तां रावणेन प्रमादिना ॥ ६१४ ॥
पीतोज्झिताधरः क्रोधात्मजज्वाल विलोकयन् ।
ततः सलिलमादाय पाणिना धनदात्मजः ॥ ६१५॥
उपस्पृश्योत्ससर्जोग्रं शापं पापस्य रक्षसः ।
अकामां योषितं कामात्स यदा धर्षयिष्यति ॥ ६१६ ॥
सप्तधा यास्यति शिरस्तदा तस्य न संशयः ।
इति शापं प्रतीहार्य प्रदत्तानुमतं सुरैः ॥ ६१७ ॥
मुक्तहालाहलो नाग इव तस्थौ विनिश्वसन् ।
घोरं श्रुत्वा दशग्रीवस्तं शापं जीवितापहम् ॥ ६१८ ॥
इति नलकूबरशापः ॥ २२ ॥
ततस्त्रिदिवमासाद्य सहसैन्यैर्दशाननः ।
संनाहव्यग्रगीर्वाणं गणं गहनमाविशत् ॥.६१९ ॥
क्रुद्धे रावणसैन्येन समन्तात्रिदशालये ।
विष्णुः शरणमायातमभापत शतक्रतुम् ॥ ६२० ॥
तन्नाप्तकालो वध्यो मे वध्योऽपि दशकन्धरः ।
युक्त्या बुध्यस्व देवेश काले हन्तास्मि तं युधि ॥ ६२१ ॥
इत्युक्ते विष्णुना शक्रः सह सर्वैमरुद्गणैः ।
युयुधे युधि संनद्धः पौलस्त्येन प्रहारिणा ॥ ६२२ ॥
१. ‘वित्रस्त’ शा० शो०, २. ‘रुद्धे’ इति स्यात्. ३. नावाप्त’ शा०. ४. ‘देव’ शा०,
वस्वादित्याश्विरुद्रेन्दुशस्त्रास्त्रज्वलिते रणे ।
जीमूतव्यूहमलिना विवभुः क्षणदाचराः ॥ ६२३ ॥
समरे दुःसहे तस्मिन्संसारे युधि रक्षसाम् ।
सुमालिना राक्षसेन युयुधे वसुरष्टमः ॥ ६२४ ॥
तौ मिथः शरनिर्घोषहेमज्वालाविभीषणौ ।
दीप्तौषधिवनौ तत्र(8) शिखाविव बभूवतुः ॥ ६२५ ॥
शरैः पूरितगात्रोऽथ वसुर्दीप्तैः सुमालिनः ।
रथमुन्मथ्य विशिखैर्गदां चिक्षेप मूर्धनि ॥ ६२६ ॥
गदानिपातदलिते हते वीरे सुमालिनि ।
वध्यमानेषु रक्षःसु युयुधे रावणात्मजः ॥ ६२७ ॥
इति सुमालिवधः ॥ २३ ॥
मेघनादोऽथ समरे दयितं वज़िणः सुतम् ।
जित्वा जयन्तं समरे रक्षसा हर्षमादधौ ॥ ६२८ ॥
ततो बभूव तुमुलं युद्धं पौलस्त्यशक्रयोः ।
प्रापुः प्रेक्षकतां यसिन्विस्मिताः सासुराः सुराः ॥ ६२९ ॥
कुम्भकर्णोऽपि देवानां शैलशस्त्रास्त्रवृष्टिभिः ।
चकार कदनं घोरं कृतान्तमिव(?) देहिनाम् ॥ ६३० ॥
ततः सर्वैः सुरैः सार्धं रक्षसां त्रिदशेश्वरः ।
संहारं विदधे धीरस्तमसामिव भास्करः ॥ ६३१ ॥
सुरसैन्यविशेषाय क्रुद्धो योद्धं दशाननः ।
तं वज्रपाणिः सावेगं शरवरवाकिरत् ॥ ६३२ ॥
ग्रस्तश्चक्रेण पौलस्त्य इति नादे समुत्थिते ।
रथेनं घनघोषेण मेघनादः समाययौ ॥ ६३३ ॥
मायातिरोहितः शक्र स समाच्छाद्य सायकैः ।
उन्ममाथ रथे तस्य विजये च मनोरथम् ॥ ६३४ ॥
१. निशि दीप्तौपविवरशिलाविव शा०.
क्रुद्धमैरावणारूढं पुरस्तं रावणात्मजः ।
वबन्ध विवुधानीकमध्ये विध्वस्तविक्रमम् ॥ ६३५ ॥
प्रहृष्टस्तं समादाय रणे विद्रवितामरः ।
पित्रा सह ययौ लङ्कामिन्द्रजिद्विपुलैर्वलैः ॥ ६३६ ॥
जित्वा हृत्वा रणे शक्रं गते शऋजिति खयम् ।
सह विश्वसृजा सर्वे लङ्कामेव ययुः सुराः ॥ ६३७ ॥
ततः प्रजापतिगिरा मुमोचेन्द्र जगज्जये।
बभूव चेन्द्रजिन्नामा विश्रुतो रावणात्मजः ॥ ६३८ ।
वीरः पितामहवरादमरत्वमवाप च ।
अन्यत्रावसमाप्ताभिहोमस्य रणसंगमात् ॥ ६३९ ॥
मुक्तस्तेनामरपतिर्भममानोऽतिलज्जितः ।
तस्थौ प्रजापतेरग्रे मूकश्चिरमधोमुखः ॥ ६४० ॥
तमब्रवीत्कमलभूश्चिन्तां मिथ्यैव मा कृथाः ।
शक्र स्वदुर्नयेनैव प्राप्तमेतत्फलं त्वया ॥ ६४१ ॥
एकवर्णवयोरूपाः पुरा सृष्टा मया प्रजाः ।
विशेपायैव तासां च निर्मिता ललना ततः ॥ ६४२॥
उच्चित्योच्चित्य भूतानामङ्गेभ्यो रूपमुत्तमम् ।
अहल्या नाम सा कान्ता कृता शशिमुखी मया ॥६४३ ॥
स्पृहास्पदं सा लोकस्य तव चाभ्यधिकं सती ।
न्यासीकृता स्वयं हस्ते गौतमस्य मुनेर्मया ॥ ६४४ ॥
चिरादभ्रष्टशीलाया तस्मै सा प्रतिपादिता।
पत्नी बभूव प्रययुनिराशाश्च दिवौकसः ॥ ६४५ ॥
धर्षितायां त्वया त्वस्यां मुनिः कोपानलाकुलः ।
त्वां शापादफलं चक्रे तेने मेयवृषो भवान् ॥ ६४६॥
बन्धस्ते शत्रुणा चायं मुनेस्तस्यैव शासनात् ।
अहल्या च शिलारूपा रामसंदर्शनावधिः ॥ ६४७॥
१. ‘पुरस्थं’ स्यात्. २. ‘येन मेपच्यो’ शा..
सर्वसाधारणं रूपं ततः प्रभृति चाभजत् ।
कदाचिद्गौतमे याते लातुं नद्यां यथाविधि ॥ ६४८ ॥
विचित्रतच्चरित्रेभ्यो राज्यमाशङ्कय नश्वरम् ।
गृहीतमुनिरूपश्च तदाश्रममगाद्रुतम् ॥ ६४९ ॥
त्वं प्राप्य गौतममुनेराश्रमद्वारमजसा ।
आहूतवान्मुनिवधूरर्गलं वार्यतामिति ॥ ६५० ॥
अज्ञातकैतवा साथ भार्या साध्वी महामुनेः ।
आश्रमस्था तमोरामात्स्वभारमवैक्षत ॥ ६५१ ॥
ततोऽहल्या निजं ज्ञात्वा भर्तारमसमञ्जसम् ।
निरर्गलद्वारमादौ तदज्ञालाभसादरा ॥ ६५२ ॥
त्वं प्रविश्यैव तां साध्वी हृतशीलमहानिधिम् ।
अकार्षीः पापनिरतो भवदुःखमचिन्तयन् ॥ ६५३ ॥॥
ततः स गौतममुनिः स्वानं कृत्वा यथोचितम् ।
आजगामोजुहाव खां पली यज्ञार्थकोविदाम् ॥ ६५५ ॥
हे पत्नि वार्यतां क्षिप्रमर्गलं द्वारसंश्रयम् ।
क्षणिकस्य कृते मूढरः सुखस्येव हि भुञ्जते ।
नरकेष्वक्षयाः पीडाः कामबाणवशीकृताः ॥ ६५४
रममाणेति शुश्राव त्वया सह ससंभ्रमा ॥ ६५६ ॥
स्वं ततः शापवित्रस्तः कृत्वा शीलनिधिव्ययम् ।
प्रविष्टो दुंलिमेतस्या भ्रामरं रूपमाश्रयन् ॥ ६५७ ॥
ततस्तां निजभा स गौतमस्तमसा वृतः ।
अभाषत कथं पनि चकितवाभिलक्ष्यसे ॥ ६५८ ॥
नून शीलमहारत्नं हृतं केनाप्यसाधुना ।
न चेदीग्विधोद्भूतदुःखावस्थासि कि प्रिये ॥ ६५९ ॥
नूनं स निजसाम्राज्यविभ्रंशाशविचेतनः ।
शको पराक एवं मे चकाराग्निविडम्बनात् ॥ ६६० ॥
१. ‘रक्षणम्’ शा०२. ‘योनि’ शा.
भ्रामरं रूपमाश्रित्य प्रविष्टो भगमण्डलम् ।
तत्सहस्रभगो भूयाः सर्वाङ्गेषु महाधम ॥ ६६१ ॥
यदा गवाक्षां स्नात्वैव वितस्तासिन्धुसंगमे ।
स्नास्यसि त्वं तदा शक सहस्रनयनो भव ॥ ६६२ ॥
इत्थं परस्त्रीसङ्गेन प्राप्यते दुःखमव्ययम् ।::
यतस्ते मुनिशापेन बद्धः सोऽयं विलभ्यते ॥ ६६:३ ॥
पापः संभजते च त्वां परदारापहारिणम् ।
वैष्णवं ऋतुमाराध्य धूतपापः शचीपते ॥ ६६४ ॥
भुक्त्वा राज्यं चिरं कालं न भविष्यति रावणः-1;
इत्युक्त्वा त्रिदशाधीशः स्थिति त्रातुं प्रजासृजा ।
जगाम सहितो देवैश्चिन्तयन्त्रावणक्षयम् ॥ ६६५ ॥
इत्याहल्यम् ॥२४॥
कालेन महता रावणः सचिवैः सह ।
व्रजन्नवाप विपुलं द्वीपं पश्चिमवारिधः ॥ ६६६ ॥
ददर्श पुरुषं तत्र निर्धूमज्वलनप्रभम् ।
हेमाचलमिव व्याप्तचण्डमार्तण्डतेजसा ॥ ६६७ ॥
युद्धार्थी रावणस्तस्मै दीप्तशस्त्रपरंपराम् ।
प्राहिणोन्न चकम्पे च पुरुपो दीप्तविग्रहः ॥ ६६८ ॥
देवदेव तपोयज्ञदानलोकमयाकृतिः ।
स विश्वात्मा वभौ तत्र सुरसिद्धनमस्कृतः ॥ ६६९ ॥
मुष्टिना पीडितस्तेन हेलयैव दशाननः ।,
पपाताञ्जनशैलाभः कृत्तपक्ष इव क्षितौ ॥ ६७०॥
मूर्छिते पतिते तस्मिन्भगवान्कपिलः क्षणम् ।
विवेश पातालतलं विद्युत्पुञ्ज इवाम्बुधिम् ॥ ६७१ ॥
लव्धसंज्ञो दशग्रीवः सचिवेभ्यो निशम्य तम् ।
देवं प्रविष्टं पातालं प्रविवेशोनखड्गभृत् ॥ ६७२ ॥
१. ‘विमलं’ इति स्यात्. २. ‘क्षणात्’ शा०,
तत्राञ्जनसवर्णानां दिव्याभरणवाससाम् ।
दृष्टास्तेन प्रवृत्तानां तिस्त्रः कोट्यः प्रभावताम् ॥ ६७३ ॥
तुल्यवर्णवलाकारान्दृष्ट्वा तान्कपिलात्मजान् ।
बभूव रावणः क्षिप्रं जातरोमाञ्चकञ्चुकः ॥ ६७४॥
ततः स शेषनिर्मोककान्तिस्वच्छोत्तरच्छदे ।
शयानं दिव्यशयने ददर्श पुरुषं परम् ॥ ६७५ ॥
पीतांशुकोपमानेन तेजसा व्याप्तविग्रहम् ।
नाभिपद्मरजःपुञ्जपटेनेवावगुण्ठितम् ॥ ६७६ ॥
तस्याग्रे ललिताकारां कीर्तिसंतानकौमुदीम् ।
ददर्श लक्ष्मीमक्षेण पीयूपकिरणाननाम् ॥ ६७७ ॥
सुतारचामरकरां लीलाकमललान्छनाम् ।
शशाङ्कपद्मयोर्लग्नामिव वैरिनिवारणे ॥ ६७८ ॥
नयनग्राहिणीं निद्रामिव दूराद्विलोक्य ताम् ।
सस्माराकुलिताः क्षिप्रं पूर्णमानाशेयोऽवदत् ॥ ६७२ ॥
आदातुकामस्तां मोहात्पतङ्गोऽग्निशिखामिव ।
ससर्प सर्पकुटिलां गतिमाश्रित्य राक्षसः ॥ ६८० ॥
तस्य व्यवसितं ज्ञात्वा समुत्सायीशुकं मुखात् ।
उन्मील्य नयने विष्णुर्जहासोचैविलोक्य तम् ॥ ६८१ ॥
ज्वलता तेजसा तस्य छिन्नमूल इव द्रुमः ।
पपात राक्षसपतिमोहमूर्छितमानसः ॥ ६८२ ॥
तमुवाच ततो देवः किंचिदागतजीवितम् ।
उत्तिष्ठ राक्षस क्षिप्रं रक्ष्यस्त्वं ब्रह्मणो वरात् ।
सदाचारपरिभ्रष्टो वध्योऽसि न चिरान्मम ॥ ६८३ ॥
एतदाकर्ण्य शनकैर्लब्धसंज्ञो दशाननः ।
सहसोद्गतरोमाञ्चस्तमुवाच कृताञ्जलिः ॥ ६८४ ॥
भगवन्यदि मे मृत्युस्त्वत्करे वेधसा धृतः ।
१. ‘यशो’ क-ख.
तदेकस्त्रिजगत्यसिन्धन्योऽहं यशसां निधिः ॥ ६८५ ॥
इत्युक्त्वा स ददर्शास्य लीनं विश्वात्मनस्तनौ ।
ससुरासुरगन्धर्वं त्रैलोक्यं सचराचरम् ॥ ६८६ ॥
गत्वा ततो दशग्रीवस्तान्प्राप्य सचिवान्निजान् ।
प्रययौ शनकैर्लङ्कामाश्चर्य तद्विचिन्तयन् ॥ ६८७ ॥
इति महापुरुषदर्शनम् ॥ २५ ॥
इत्युक्तमग्रे रामस्य मुनिना कुम्भयोनिना ।
आकर्ण्य सर्वे स्मृत्वा च तथेत्यूचे विभीषणः ॥ ६८८ ॥
ततः समुद्यतं गन्तुमगस्त्यं राघवोऽब्रवीत् ।
भगवन्भवतः सर्वमस्माभिः श्रुतमद्भुतम् ॥ ६८९ ॥
प्राप्तप्रतापः पौलस्त्यः पुत्रश्चास्य किमुच्यते ।
अहं प्रभावमधिकं तेभ्यो मन्ये हनूमतः ॥ ६९० ॥
अचिन्त्यश्वासकृल्लोके कालः सर्गे प्रजापतिः ।
युद्धे च हनुमानेष चतुर्थो नोपलभ्यते ॥ ६९१ ॥
कस्य शक्तिरिवाश्रान्तमकराकरलइने ।
देवादन्यत्र पवनात्तत्पुत्राद्वा हनूमतः ॥ ६९२ ॥
हतोऽनेन न यद्वाली सुग्रीवहितकारणात् ।
तद्विस्मृतप्रभावोऽयं मन्ये स्वप्न इवाभवत् ॥ ६९३ ॥
इत्युक्तं रघुनाथेन श्रुत्वा कुम्भोद्भवो मुनिः ।
उवाच सत्यमन्तस्थं यत्त्वयोक्तं हनूमति ॥ ६९४ ॥
अञ्जनायामयं जातः क्षेत्रे केसरिणोऽनिलात् ।
शिशुर्वालार्कमादातुमुत्पपात बलाशयात् ॥ ६९५ ॥
एतस्मिन्नेव काले तु राहुः पर्वणि भास्करे ।
सहायातो ददर्शाग्रे कपि सूर्यग्रहोद्यतम् ॥ ६९६ ॥
तं दृष्ट्वा कुपितो राहुर्गत्वा शक्रं समास्थितम् ।
उवाच बत मिथ्यैव युष्माकं सत्यवादिता ॥ ६९७ ॥
१. ‘श्रान्ता’क-ख.
शिरश्छित्त्वा कृतो यो मे ग्रासाभ्यासविनोदनम् ।
कथमेतौ च चन्द्रार्को त्वयान्यत्र समन्वितौ ॥ ६९८ ॥
सूर्यग्रहे मयायैव पृष्टो राहुस्तदम्बरे ।
येन स्फारशरीरेण प्रायः क्षिप्तो मुखे रविः ॥ ६९९ ॥
इत्युक्तो राहुणा शक्रः स्थितिविप्लवशक्तिः ।
ययावैरावणारूढः कृत्वा राहुं पुरःसरम् ॥ ७०० ॥
पुरंदरं समाश्रित्य निर्भयं सिंहिकासुतः ।
विस्तार्य वदनं श्वभ्रं सहस्रांशुं समाद्रवत् ॥ ७०१ ॥
तं विलोक्यैव हनुमानभ्यधावजिगीषया ।
शक्र शक्रेति चुक्रोश राहुस्तं भयविद्रुतः ॥ ७०२ ॥
न भेतव्यं त्वयेत्युक्त्वा वज्रिणा पवनात्मजः ।
ऐरावणं समादातुं बलाद्वालः समाद्रवत् ॥ ७०३ ॥
हनुं जघान वज्रेण तं कोपात्पाकशासनः ।
येनाद्रौ पतितस्यास्य वामो हनुरभज्यत ॥ ७०४ ॥
पुत्रप्रहारकुपितस्ततो देवः प्रभञ्जनः ।
चकार सर्वथा तानि काष्ठभूतानि भूतकृत् ॥ ७०५ ॥
इति हनुमजन्मवर्णनम् ॥ २६ ॥
ततो जगत्क्षयभयाद्देवैरभ्यर्थितः स्वयम् ।
गत्वा वायुप्रसादाय ब्रह्मा पुत्रमजीवयत् ॥ ७०६ ॥
पितामहकरस्पृष्टं तनयं लब्धजीवितम् ।
आसाद्य हृष्टः पवनः खस्थश्चके जगत्क्षणात् ॥७०७॥
ततः प्रजापतिगिरा वरान्पवनसूनवे ।
प्रददुस्त्रिदशाः सर्वे येनायं प्रवरोऽभवत् ॥ ७०८ ॥
हनुमानिति नामास्य कृत्वा वनविभेदिनीम् ।
ददौ शतक्रतुर्विद्यां तेजोभावं च भास्करः ॥ ७०९ ॥
अमरत्वं च वरुणः स्वदण्डादभयं यमः ।
निष्कम्पतां गदाघाते स्वायुधेषु च वित्तपः ॥ ७१० ॥
शूलपाशुपतादिभ्योऽप्यभयं भगवान्भवः ।
ब्रह्मास्त्रब्रह्मदण्डाद्यैरवध्यत्वं प्रजापतिः ॥ ७११ ॥
सर्वायुधप्रतीघातं विश्वकर्मास्त्रशस्त्रकृत् ।
इत्येष वरसंपूर्णः पितुर्गेहे व्यवर्धत ॥ ७१२ ॥
ततस्तपोवनं गत्वा मुनीनां बालचापलात् ।
कपिर्विकारमकरोद्धनदादेष निर्भयः ॥ ७१३ ॥
वल्कलार्जिनभाण्डेषु कृत्वा पूर्णवनेन ते ।
मुनयो विस्मृतवलं चक्रुः क्रोधावशादिमम् ॥ ७१४ ॥
कश्चित्कालं बभूवायं शापाद्विस्मृतविक्रमः ।
तस्माद्वालिवधे बुद्धिर्नास्य स्वप्नेऽप्यजायत ॥ ७१५ ॥
सूर्याद्वयाकरणं साङ्गमुदयादस्तपर्वतम् ।
व्रजन्नवाप्तवानेष वासरेण महामतिः ॥ ७१६ ॥
आश्चर्याणामयं भूमिः सत्त्वानामिव सागरः ।
कोऽस्य शक्तो गुणान्वक्तुं यो न जिह्वासहस्रभृत् ॥ ७१७ ॥
इत्युक्ते मुनयः सर्वे राममामन्त्र्य सानुगम् ।
अगस्त्यप्रमुखा जग्मुः पुण्यं स्वं स्वं तपोवनम् ॥ ७१८ ॥
इति ऋषिप्रयाणम् ॥ २७ ॥
अथापरेऽह्नि काकुत्स्थः साभिषकोत्सवागतान् ।
रत्नैः संपूज्य भूपालान्विससर्ज निजा दिशः ॥ ७१९ ॥
मैथिलो जनकः श्रीमान्युधिजित्केकयाधिपः ।
प्रमर्दितः काशपतिर्भूपाश्चान्ये सहस्रशः ॥ ७२० ॥
व्रजन्तो राममामत्र्य चक्रिरे छत्रचामरैः ।
साट्टहासमिवाशेषे गजवाजिमयं जगत् ॥ ७२१ ॥
आसाद्य पूजामतुलां पुनः प्लवगपुंगवाः ।
सुग्रीवाङ्गदमुख्यास्ते किष्किन्धां प्रययुस्ततः ॥ ७२२ ॥
१. ‘जग्मुः शा..
असमाप्तसुरास्वादसुहृत्प्रेममहोत्सवः ।
जगाम रामसर्वस्वं हृष्टो लङ्कां विभीषणः ॥ ७२३ ॥
ततः समुद्यतो गन्तुं हनूमान्प्रेमनिर्भरः ।
उवाच राघवं वीरस्तृप्तिमप्राप्य दर्शनम् ॥ ७२४ ॥
स्वत्कथामृतपाथेयः शिखरेषु महीभृताम् ।
चिरं प्रीतिमवाप्स्यामि सुकृतस्मरणात्तव ॥ ७२५ ॥
यशः श्रोष्यामि ते यावद्गीतमप्सरसां गणैः ।
तावत्पुण्यमिदं श्लाघ्यं जीवितं मे भविष्यति ॥ ७२६ ॥
इति ब्रुवाणं प्रणयात्काकुत्स्थः पवनात्मजम् ।
परिष्वज्यादरादूचे बाप्पपूर्णायतेक्षणः ॥ ७२७ ॥
महाहैस्त्रिदशश्लाध्यः स्थिरो लोके भविष्यति(?) ।
(१) समस्तभवनोङ्गीतमायुषो वयसश्च मे ॥ ७२८ ॥
निष्कारणप्रणयिना यत्त्वयोपकृतं सखे ।
कन्यका यौवनमिव स्वाङ्गे जीर्ण तदेव नः ॥ ७२९ ॥
यशोधनस्य विख्यातगुणरत्ननिधेस्तव ।
उपकारफलं तुल्यं न पश्यामि जगन्नये । ७३० ॥
इत्युक्त्वा सगुणोदारं स सदा हृदयस्थितम् ।
सौहार्दमिव साकारं हारं कण्ठे न्यवेशयत् ॥ ७३१ ॥
ततः प्रयाते काकुत्स्थः स्वपदं पवनात्मजे ।
हरिराक्षससैन्येन चिरेण धृतिमाप्तवान् ॥ ७३२ ॥
इति नृपकपिरक्षःप्रयाणम् ॥ २८ ॥
ततः सीतामुखाम्भोजमधुपो रघुनन्दनः ।
निनाय मदनोदग्रसंभोगसुभगाः क्षपाः ॥ ७३३ ॥
ज्योत्स्नास्मिते हर्म्यतले कानने कुसुमस्मिते ।
हारस्मिते तनतटे लेभे स सुकृती रतिम् ॥ ७३४ ॥
1. ‘पानेषु’ शा०,
२. ‘स्तनतटे’ स्यात्.
अत्रान्तरे व्योममार्गादवतीर्याशु पुष्पकम् ।
विमानोऽप्यवदहिव्यवपुपा रघुनन्दनम् ॥ ७३५.12
विसृष्टोऽहं रघुपते राज्ञा वैश्रवणेन ते।
भुजोर्जितस्य क्रियतां मम भोगादनुग्रहः ॥ ७३६ ॥
तमुवाचार्घ्यकुसुमैः संपूज्या रघुनन्दनः ।
वैरं हि विहरत्वेष समेष्यसि समं स्मृतः ॥ ७३७ ॥
श्रुत्वैतत्पुष्पके पूर्व प्रयाते खेच्छया दिवम् ।
विवेशाशोकवनिका राघवो जानकीसखः ॥ ७३.८ ॥
तत्र लावण्यनलिनीं तां फुल्लकमलाननाम् ।
प्रीतिं समश्चिरं लेभे नलिनी च विलोकयन् ॥ ७३९ १०
स सीतावेदनोपण्यप्रीत्या निक्षिप्य लोचने ।
मुहुः शशिनि पझेव जगन्मेने प्रियामयम् ॥ ७४० ।
ससंभोगमुखाम्भोजसनाथीकृतमन्मथः।
विललास विलासाङ्के शशाङ्कवदनासखः ॥ ७४१ ॥
स कदाचित्प्रियतमामुवाच प्रेमनिर्भरः ।
पिबन्निव दृशा तस्या वदनं मदनामृतम् ॥. ७४२.॥
आपाण्डुरमुखे सुभ्रु सचन्द्रेव विभावरी ।
दृश्यसेऽभिनवारम्भग विर्भूतलक्षणा ॥ ७४३ ॥
किमयं ते प्रियं देवि करोतु प्रणयी जनः ।
न दुर्लभं जगत्यस्मित्यत्र ते रमते मतिः ॥ ७४४ ॥
इति प्रियेण प्रणयात्पृष्टा जनकनन्दिनी ।
तमुवाच सितमुखी सृजन्ती चन्द्रिका पुरः ॥ ७४५
पुण्यानि मुनिसेव्यानि काननानि त्वया सह ।
चिरं स्मृतानि मे द्रष्टुं क्षणमुत्कण्ठते मनः ॥ ७४६ ॥
इति कान्तावचः श्रुत्वा तां तथेत्यभिधाय च ।
अन्तःपुरचरो रामः कामं निर्वृतिमाप्तवान् ॥ ७४७ ॥
१. ‘वदनं पश्यन्’ शा०.
अथ कक्षान्तरं रामो गत्वान्तःपुरमन्दिरम् ।
नानाकथाभिश्चित्राभिश्चिरं तस्थौ सुहृद्धृतः ॥ ७१८ ॥
विजयो मधुमान्भद्रः कश्यपः पिङ्गलः कुरुः ।
सुराजको वैजदन्तो मागधश्च मनीषिणः ॥ ७४९ ॥
नवैते नन्दसुहृदा रामस्य हृदयप्रियाः ।
परिहासकथाशीलैस्तैः स गोष्ठीरतोऽभवत् ॥ ७५० ॥
ततः कथान्ते पप्रच्छ भद्रं राजा यशःप्रियः ।
पुरे जनपदे वास्मिन्प्रवादः कीदृशो मम ॥ ७५१ ॥
किमाहुर्मे शुभं लोके किमाहुरशुभं जनाः ।
ज्ञात्वा मनोभयं कुर्यान्निदोषं गुणसंग्रहम् ॥ ७५२ ॥
गुणदोषं स्फुटं वाच्यं सुहृद्भिः सर्वथा जनः ।
छन्नदोषं गुणं वक्ति यः स मित्रमुखो रिपुः ॥ ७५३ ॥
इत्युक्ते रघुनाशेन मन्द्रः प्राञ्जलिरब्रवीत् ।
राजन्नानाविधो लोकः परनिन्दास्तुतिव्रतः ॥ ७५४ ॥
शुभाशुभकां कामं जनः सूर्योऽपि भाषते ।
शक्तिर्दशाननवधे कथमत्यद्भुतं तव ॥ ७५५ ॥
जनः सीतापहारे च शीलशङ्कासहिष्णुताम् ।
अनाश्चर्यद्वयं लोके राघवस्यैव दृश्यते ॥ ७५६ ॥
क्षमा कलत्रदोषे च सेतुबन्धश्च सागरे ।
वयमप्यधुना सर्वे दारदोपान्सहामहे ॥ ७५७ ॥
महाजनानुयायिन्यः प्रायेण सततं प्रजाः ।
इति प्रवादो लोकस्य मिथ्पादोपैकदर्शिनः ।
मिथः कथासु रथ्यासु गृहेषूपवनेषु च ॥ ७५८ ॥
इत्येतदशनिस्पर्श वचो निपतितं हृदि ।
आकर्ण्य राघवो दुःखाच्चकारूढ इवाभवत् ॥ ७५९ ॥
१. ‘सुहृद्गतः’ शा०. २. ‘विजयो मधुमत्तश्च कादयपो मङ्गलः कुलः । मुरान्ति
कालियो भद्रो दन्तवकः सुमागधः । इत्येवं वा० रामायणे. ३. ‘राजदन्तो’ शा.
स तान्विसृज्य सुहृदश्चिन्तासंतप्तमानसः।
द्वाःस्थं विसृज्यानुमतानानिनाय निजानुजान् ॥ ७६० ॥
इति जनापवादः ॥ २९॥
ततो भरतसौमित्रिशत्रुघ्नास्तूर्णमागताः ।
प्रविश्य राम ददृशुः प्रणामनतशेखराः ॥ ७६१ ॥
तं बाष्पपूर्णनयनं शोकम्लानमुखाम्बुजम् ।
ते दृष्ट्वा संभ्रमोद्धान्ता बभूवुः कम्पिताशयाः ॥ ७६२ ॥
सहसा हारिते हर्षे वीक्ष्यमान इवावनौ ।
उपविश्य बभुबुस्ते चिन्ताशान्तमुखत्विषः ॥ ७६३ ॥
चिरं ध्यात्वाप्यपश्यन्तस्ते भ्रातुः शोककारणम् ।
किं वक्ष्यतीति निष्पन्दं पप्रच्छुः खमिवाशयम् ॥.७६४ ॥
तानुवाच ततो रामः शोकसंतप्तमानसः ।
अयं मे हृदये सक्तः शोकशङ्कुरिवापरः ॥ ७६५॥
दारापवादसंजातो यत्काकुत्स्थकुलेन वा ।
धर्मो जानाति वैदेहीमन्तरात्मा ममैव या ॥ ७६६ ॥
शीलं न वेत्ति कस्तस्यालोको निर्दोषनिन्दकंः ।
अस्मिन्सीतापवादाग्नौ पतितस्य ममाधुना ॥ ७६७ ॥
न जाने तापशमनी विद्यते का प्रतिक्रिया।
श्रूयते पुरुषस्येह यावत्कीर्तिरविप्लुता ॥ ७६८ ॥
तावत्स जीवति परः श्वासैरायास्यते जनः ।
अकीर्तिमलिनः पुंसः पुत्रपौत्रास्त्रपातिनी ॥ ७६९ ॥
नरकाग्नेः स्थितस्याग्रे धूमलेखेव जायते ।
धिक्तं भ्राम्यति यस्योग्रपापपककलङ्किता ॥ ७७० ॥
उन्मत्तेव जगत्यस्सिन्नपवादपिशाचिका ।
अपि प्राणाधिका सीता त्यज्यते तृणवन्मया ॥ ७७१ ॥
न तु कीर्तिं सहे लोके शतांशेनापि खण्डिताम् ।
दुःखं वो यदि मदुःखे भक्तिर्यदि परा मयि ॥ ७७२ ॥
तद्भवद्भिर्वचः कार्य देयं प्रतिवचो न मे ।
ईप्सितं प्रतिषेधाय ब्रूयाद्योऽनुनयं मम ॥ ७७३ ॥
शापितः स मयैवाग्रे भुजाभ्यां जीवितेन च ।
सुमन्त्राधिष्ठितं प्रातः सौमित्रे यात्रिकं रथम् ॥ ७७४ ॥
सीतामारोप्य गङ्गायाः पारे पारे परित्यज ।
जानकी विजनेऽरण्ये वाल्मीकेराश्रमे मुनेः ॥ ७७५ ॥
उत्सृज्य तूर्णमागच्छ यदलङ्घयं वचो मम ।
अभिप्रायश्च वैदेह्यास्तपोवनविलोकने ॥ ७७६ ॥
तस्मात्तवाप्रियाख्यानवैलव्यं न भविष्यति ।
इत्युक्त्वा राघवो रात्रिं निनायाब्दशतोपमाम् ॥ ७७७ ॥
न बाला न प्रकुपितः कुञ्जरेन्द्र इव श्वसन् ।
प्राप्तः सुमन्त्रसंयुक्तं रथमादाय लक्ष्मणः ॥ ७७८ ॥
उवाच सीतामभ्येत्य गूढशोकानलाकुलः ।
अनुजानाति देवस्त्वां तपोवनविलोकने ॥ ७७९ ॥
आदेश इव शीघ्रस्ते पत्युः सज्जीकृतो रथः ।
एतदाकर्ण्य वैदेही हर्षनिर्भरमानसा ॥ ७८० ॥
जग्राहाभरणं भूरि प्रदातुं मुनियोषिताम् ।
ततः समारुह्य रथं वजन्ती जनकात्मजा ॥ ७८१ ॥
अभ्यधादनिमित्तेन व्याप्ता शोकेन लक्ष्मणम् ।
अकस्माद्वेचते चित्तं वाम स्फुरति लोचनम् ॥ ७८२ ॥
औत्सुक्यं चाधिकं जातं पतिसंदर्शने मम ।
शून्यां पश्यामि पृथिवीमरतिर्वाधते परम् ॥ ७८३ ॥
सानुजस्य क्षितिपतेः स्वयं शंसन्ति देवताः ।
इत्युक्त्वा लक्ष्मणं सीता रजनी गोमतीतटे ॥ ७८४ ॥
अतिवाह्य पुनः प्रातः प्रतस्थे रथमाश्रितः (१) ।
ततो गङ्गां समुत्तीर्य नावा कल्लोलमालिनीम् ॥ ७८५ ॥
१. ‘द्वेपते’ स्यात्.
परं पारं जनकजामवाप्तां लक्ष्मणोऽब्रवीत् ।
अहो ममातिकठिनं जीवितं वज्रनिर्मितम् ॥ ७८६ ॥
धन्यास्ते निधनं येषां स्वाधीनं शोकविप्लवे ।
दृष्टनष्टाः प्रियजनाः सुखिनः स्वल्पजीवितैः ॥ ७८७ ॥
न पश्यन्ति वियोगोऽग्रे यो दुर्विलसितं विधः (१) ।
अप्युक्तमानं प्राणेषु निपतत्येव यद्विषम् ॥ ७८८ ॥
नृशंसक्रूरचरितं तदहं कर्तुमुद्यमः ।
इति ब्रुवाणं शोकाग्निसंतप्तं साश्रुलोचनम् ॥ ७८९ ॥
पप्रच्छ भ्रातृशापेन तं सीताशोककारणम् ।
अहो सुखपरिम्लानवदनो दैन्यधूसरः ॥ ७९० ॥
सोऽवदत्कृच्छूपतितः सीतामुत्कम्पिताशयाम् ।
धिङ्मां वचोविषं यस्य सर्पस्येव मुखाच्युतम् ॥ ७९१ ॥
घोरां करोति ते मातर्दुःसहं हृदयव्यथाम् ।
मिथ्यार्पवादः संजातः पुरे जनपदे तव ॥ ७९२ ॥
मातश्छिन्दन्ति मर्माणि हृदये राघवस्य यः ।
गुणदोषविपर्यासविलासरसिकः सदा ॥ ७९३ ॥
स्वच्छन्दवादी लोकोऽयं केन प्रत्याय्यते गिरा ।
परापवादे सततं स्वव्यापारपराङ्मुखः ॥ ७९४ ॥
यथा जनोऽयं वदते न तथा गुणकीर्तने ।
तपोवनेऽस्मिन्वाल्मीकेर्मुनेर्मित्रस्य नः पितुः ॥ ७९५ ॥
जनापवादभीतेन त्यक्तासि जगतीभुजा ।
सदपूर्वतरं श्रुत्वाप्यप्रविष्टो वशानये (2) ॥ ७९६ ॥
किमेतदिति निस्पन्दा विचिन्त्योवाच जानकी।
अहो नु मम रामेण किं कृतं दुष्कृतं पुरा ॥ ७९७ ॥
निर्दोषैर्यद्गुणोदारैर्धर्मदारैवियुज्यते ।
तदाज्ञां कुरु सौमित्रे त्यज मां दुःखभागिनीम् ॥ ७९८ ॥
२. ‘प्रविष्टपिवाशय शा०.
१. ‘पराध’ क-ख.
जीवितत्यागशापेन कथं वा योजयामि तम् ।
आर्यपुत्र क्व नु सेरकान्तं कमललोचनम् ॥ ७९९ ॥
जनापवादभीरोस्ते द्रक्ष्यामि वदनं पुनः ।
हा नाथ त्वद्विहीनाहं कथं नु विजने वने ॥ ८०० ॥
करोमि करुणासिन्धो दारुणप्राणधारणम् ।
वपुर्मे भक्षतां सिंहयातुधानाविदं बने ।
जनापवादशोकामिमाजनं न जनेश्वरः ॥ ८०१ ॥
इति प्रलापिनीं सीतां बाप्पपूरप्लुतस्तनीम् ।
न शशाक परं वक्तुं सौमित्रिः शोकविक्लवः ॥ ८०२ ॥
स तां प्रणम्य प्रययौ दुःखभारस्खलद्गतिः ।
परित्यज्य वने शून्ये सीतां धृतिमिवात्मनः ॥ ८०३ ॥
शरीरशोषण तीनं न कुर्युर्मुनयस्तपः ।
पर्यन्तविरसं सर्वं न स्यात्संसारिणां यदि ॥ ८०४॥
स मुहुर्वलितग्रीवः सीतामेकां विलोकयत् ।
निनिन्द पातकस्पष्टमिवात्मानं विनिश्वसन् ॥ ८०५ ॥
दृक्पथादपयातेऽथ लक्ष्मणे जनकात्मजा।
हा राघवेति चुक्रोश मूर्छिता निपपात यत् ॥ ८०६ ॥
चिरेण संज्ञामासाद्य सा चकार पलापिनी।
निष्पन्दमीनमकरां सचिन्तामिव जाह्वीम् ॥ ८०७ ॥
शोचन्तीं भुवि विभ्रष्टविद्या विद्याधरीमिव ।
तां दृष्ट्वा सानुनयनास्तापसा विस्मयं ययुः ॥ ८०८ ॥
तामभ्येत्य कृपासिन्धुर्मुनिशिष्यैनिसेवितः ।
सुतामिव समाश्चास्य शनैर्वाल्मीकिरभ्यधात् ॥ ८०९ ॥
पुत्रि जानामि निर्दोषा त्यक्ता त्वं रघुभूभुजा ।
तापस्यः पालयन्ति त्वां स्वाधीनोऽयं तवाश्रमः ॥ ८१० ॥
१. ‘यातुक्रव्याधाना’ शा.. २. ‘विरक्तपातवः क-ख. ३. “दिमुना फा-स.
करुणार्द्रमनाः सीतामित्युक्त्वा भगवान्मुनिः ।
न्यवेशयत्तापसीभिः सान्त्व्यमाना तपोवने ॥ ८११ ॥
इति सीतापरित्यागः ॥ ३० ॥
व्रजन्रथेन सौमित्रिः शोकसंतप्तमानसः ।
सुमन्तं नेत्रजं वारि वर्षन्मेघ इवाभ्यधात् ॥ ८१२ ॥
दृष्ट्वा प्रवासदुःखस्य महतो धैर्यवारिधः ।
आर्यस्य शोकनैराश्यादजर्योऽयं भविष्यति ॥ ८१३ ॥
धिङ्मां निष्करुणं पापमार्यदुःखैकसाक्षिणम् ।
त्यक्ता सीता गिरा येन मया श्वभ्रादिवोज्झिता ॥ ८१४ ॥
प्रियसंगमनैराश्यदुःसहव्यसनाकुलम् ।
स्वहस्तेनैव हत्वा तां प्रविश्यामि (१) कथं पुरीम् ॥ ८१५ ॥
अपुनःसंगमत्यागपरिभाषणनिष्ठुरः ।
सीतां कापालिको द्रष्टुं लक्ष्मणो नापरः क्षमः ॥ ८१६ ॥
नृशंसो मत्समः कोऽस्ति येन सीता विलोकिता ।
सहसा निष्प्रतीकारत्यागसंभ्रमकातरा ॥ ८१७ ॥
इति शोचन्तमसकृद्द्वादानुशयमूर्छितम् ।
उवाच लक्ष्मणं धीमान्सुमन्त्रो मन्त्रिणां वरः ॥ ८१८ ॥
देवस्य गतयश्चित्राः कालः सर्वकशस्तदा ।
एवंविधैव भावानां पर्यन्ते विशरारुता ॥ ८१९ ॥
भवितव्यमिदं सर्वं त्वरिपतुः पुरतो मया ।
उक्तं दुर्वाससा साक्षाद्वसिष्ठस्याश्रमे श्रुतम् ॥ ८२० ॥
इति सौमत्रिमाश्वास्य सुमन्त्रः कौशिकीतटे ।
निनाय नयतत्त्वज्ञस्तेनैव सहितः क्षपाम् ॥ ८२१ ॥
अथान्यस्मिन्दिनस्यान्ते प्रविश्य विमनाः पुरीम् । ,
विपार्त इव सौमित्रिर्धातुर्मन्दिरमाविशत् ॥ ८२२ ॥
१. ‘दधार्योऽयं शा..
स ददर्श प्रियाहीनं राघवं साश्रुलोचनम् ।
नीहारपटलस्पृष्टं भाविहीनमिवोडपम् ॥ ८२३ ॥
मुहुर्निरीक्षमाणं मां सीताचारित्रसाक्षिणीम् ।
मिथ्यापवादसंतप्तं तं प्रविश्यानुजोऽवदत् ॥ ८२४ ॥
देव सीता परित्यक्ता कानने तव शासनात् ।
मा शुचः सर्पकुटिलाः कालस्य गतयः किल ॥ ८२५ ॥
भावाभवो(?)ऽस्मिन्भूतानामभावश्वश्रवर्तिनाम् ।
अन्तवन्तः स्वभावेन प्रभावविभवादयः ॥ ८२६ ॥
देहिनां सुखसंभोगैर्विभवं (1) बसु जीवितम् ।
कालः पिबति किंजल्कं पुष्पाणामिव पट्पदः ॥ ८२७ ॥
असारसारे संसारे वैरस्योपरता मतिः ।
सुखं दुःखे समुत्खातं विपरीताश्च संपदः ॥ ८२८ ॥
कालपाकपरिज्ञानं सुखं शुष्यति देहिनाम् ।
जराघातं हि पुष्पस्य न पुनर्जायते मधु ॥ ८२९ ॥
भोगा वियोगरोगेण जरया चारु यौवनम् ।
आक्रान्तमन्ते सर्वस्य निधनेन च जीवितम् ॥ ८३० ॥
परावरज्ञो भावानामार्य संसारतत्त्ववित् ।
विवेकालोकविकलं न शोकं कर्तुमर्हसि ॥ ८३१ ॥
मोहः करोति न पदं हृदये विजितात्मनाम् ।
नहि रलप्रदीपानां प्रविशत्यन्तरं तमः ॥ ८३२ ॥
एतदेव पर लक्ष्म निधानानां महात्मनाम् ।
यत्कृच्छ्रेषु न सीदन्ति न नृत्यन्ति सुखेषु च ॥ ८३३ ॥
विद्यानां दर्पणं चेतः सत्यस्य वसतिर्मतिः ।
धृतेर्वेश्म विवेकश्च येषां मुह्यन्ति ते कथम् ॥ ८३४ ॥
लक्ष्मणेनेत्यभिहिते निशम्य रघुनन्दनः ।
तमुवाच शुचं त्यक्त्वा सदाचारविचारधीः ॥ ८३५ ॥
१. कोष्टकान्तर्गतश्लोकानां स्थान रिक्तमेव दृश्यते क-ख-पुस्तस्योः.
६०
एवमेतत्समुचितं यथा वदसि लक्ष्मण ।
कालप्रवाहो बलवान्मार्गनाशाय गच्छति ॥ ८३६ ॥
इदं दहति मे चेतः स्वितित्वात्तकृपस्य यत् ।
चत्वारो वासरा याताः प्रजाकार्याण्यशृण्वतः ॥ ८३७ ॥
अयमेव नरेन्द्राणां हेतुर्नरकसंचये।
लम्बन्ते दुष्प्रवेशे यद्द्वारे कार्यार्थिनो जनाः ॥ ८३८ ॥
श्रूयते किल विप्रेभ्यो नृगो नामा महीपतिः ।
गवां कोटीः सहस्त्राणि पुष्करेषु ददौ पुरा ॥ ८३९ ॥
ब्राह्मणस्याग्निवेशस्य होमधेनुः पयखिनी ।
सङ्घमध्यगता तेन विप्राय प्रतिपादिता ॥ ८४० ॥
तामन्वेष्टुं स सुचिरं वनेषु नगरेषु च ।
द्विजश्चचार न च तां प्रियां विद्यामिवाप्तवान् ॥ ८४१ ॥
ततः काले कनखले विवत्सां जीर्णविग्रहाम् ।
स तां ददर्श दयितां धेनुं ब्राह्मणवेश्मनि ॥ ८४२ ॥
एह्येहि बहले दूरादित्याहूता द्विजेन सा ।
प्रीत्या हुंकारिणी सासा तमेवानुययौ जवात् ॥ ८४३ ॥
प्रतिग्रहाप्तां तां दृष्ट्वा ह्रियमाणां द्विजेन गाम् ।
ब्राह्मणेभ्यः “द्विवादोऽभूत्तयोस्ततः ॥ ८४४ ॥
नृगेण मह्यं दत्तेयं जातेयं स्वगृहे मम ।
इति प्रवादमुखरौ जग्मतुस्तौ नृगालयम् ॥ ८४५ ॥
सुचिरं स्थितयोस्तत्र विवादे निर्णयार्थिनोः ।
गम्भीरे राजसदने प्रवेशो नाभवत्तयोः ॥ ८४६ ॥
बहुभिर्दिवसैः कृच्छ्राक्षुत्क्षामौ प्रापितं नृपम् ।
ऊचतुर्मन्युसंताप]मुनिरन्तांविवाक्षरैः ॥ ८४७ ॥
१. ‘विवदन्ती ततोऽन्योन्यं दातारमभिजग्मतुः । तौ राजभवनद्वारि न प्राप्तौ नृग- शासनम् । अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः ॥ इति रामायणानुसारेण ‘नापता’
इति पाठः स्यात्.
कार्यार्थिनां प्रजानाशे राजन्यस्मान्न दृश्यसे ।
तस्माददृश्यः श्वश्रेऽस्मिन्कृकलासो भविष्यसि ॥ ८१८ ॥
अष्टादश युगे काले प्रयाते यदुनन्दनः ।
वसुदेवात्मजो विष्णुः शापात्त्वां मोक्षयिष्यति ॥ ८४९ ॥
वसिष्ठवंशे भगवान्कुरुवंशप्रवर्तकः ।
व्यासः कलियुगे धर्म्यं तदा काव्यं करिष्यति ॥ ८५० ॥
इत्युक्त्वा तौ द्विजौ धेनुं दत्त्वान्यस्मै द्विजाय ताम् ।
जग्मतुः शापदष्टश्च पश्चात्तापं ययौ नृगः ॥ ८५१ ॥
सोऽभिषिच्य वसुं पुत्रं श्वभ्रदेशं सुखोचितम् ।
जालवल्लीद्रुमैः: कृत्वा जगाम कृकलासताम् ॥ ८५२ ॥
इति नृगशापः ॥ ३१ ॥
तस्मात्तूर्णं नृपः कार्यं कार्यार्थिजनदर्शनम् ।
महाजनो दहत्येव यदि द्वारि विलम्बते ॥ ८५३ ॥
इक्ष्वाकूणामभूद्वीरो निमिर्नाम महीपतिः ।
यः स्वयं स्वर्गसदृशं वैजयन्तं व्यधात्पुरम् ॥ ८५४ ॥
वसिष्ठस्तेन यज्ञार्थ कृतः कुलगुरुर्मुनिः ।
तमुवाचास्मि शक्रेण ऋतौ पूर्वतरं वृतः ॥ ८५५ ॥
मुनिं गौतममभ्यर्च्य स राजा याजकं ततः ।
चकार हिमवत्पाधै यज्ञं तीरे महोदधेः ॥ ८५६ ॥
पञ्च वर्षसहस्त्राणि दीक्षितस्याभवन्मखे ।
त्रिदशेन्द्रस्य दीक्षा तु पञ्चवर्षशतान्यभूत् ॥ ८५७ ॥
ततः समाप्ते विधिवत्पूर्व यज्ञे शतक्रतोः ।
यज्ञभूमिं निमेः प्रायाद्वसिष्ठो होत्रकर्मणि ॥ ८५८ ॥
स राजा दर्शनाकाही तत्र यावत्प्रतीक्षते ।
प्रौढनिद्रान्वितस्तावद्भूपतिर्न व्यबुद्धचत ॥ ८५९ ॥
१. ‘राजदर्शना’ स्यात्.
तं वसिष्ठः शशापाथ चिरं यस्मान्न दृश्यसे ।
तस्माददृश्यो नृपते देहहीनो भविष्यसि ॥ ८६० ॥
ततः प्रबुद्धस्तच्छापं श्रुत्वोवाच महीपतिः ।
सुप्तः शप्तोऽस्मि भवता त्वमप्येवं भविष्यसि ॥ ८६१ ॥
शापाद्वसिष्ठभूपालौ मिथः प्राप्तौ विदेहताम् ।
अदृश्यौ वासनात्मानौ वायुभूतौ विचेरतुः ॥ ८६२!!
इति वसिष्ठनिमिशापः ॥ ३२ ॥
याचितोऽथ वसिष्ठेन देहाथै कमलोद्भवः ।
तमूचे गच्छ तेजस्त्वं मैत्रावरुणमाविश ॥ ८६३ ॥
अत्रान्तरे सुधासिन्धुमित्रो वरुणसंगतः ।
पुरो ददृशतुः कान्तामुर्वशी स्वेच्छयागताम् ॥ ८६४ ॥
प्रीता तुल्यं वृता ताभ्यां सा बभापे सुमध्यमा ।
मित्रेण पूर्वमेवाहं वृता नान्यं भजे प्रियम् ॥ ८६५ ॥
इति ब्रुवाणां वरुणस्तामुवाच सुलोचनाम् ।
तेजःकुम्भे क्षिपाम्यद्य मयि त्वं भावमुत्सृज ॥ ८६६ ॥
अस्तु ते सह मित्रेण प्रीतये रतिसंगमः ।
इत्युक्त्वा स निजं तेजः प्रज्वलज्ज्वलनोपमम् ॥ ८६७ ॥
कुम्भे निक्षिप्य भावं च तस्मिन्व्यसृजदुर्वशी ।
ततस्तमागतं मित्रः प्रकोपाकुलितोऽभ्यधात् ॥ ८६८ ॥
भावमन्यत्र निक्षिप्य किं मां प्राप्तासि पुंश्चलि ।
मनुष्यलोकं चपले किंचित्कालमुपागता ।
त्वं पुरूरवसो राज्ञः कामं भोग्या भविष्यसि ॥ ८६९ ॥
इत्युर्वशीशापः ॥ ३३ ॥
ततः कुम्भवृतात्तस्मात्तेजस्वी तेजसो मुनिः ।
त्रैलोक्यपूज्यो भगवानगस्त्यः प्रागजायत ॥ ८७० ॥
१. ‘म्येष’ शा०:
उर्वशीशापसंक्रान्तमैत्रधाम्ना तु तेजसः ।
वारुणादथ संस्पृष्टोऽप्यपरो मुनिरुद्गतः ॥ ८७१ ॥
वसिष्ठस्तेजसा राशिः स मैत्रावरुणो मुनिः ।
गुरुर्बभूव भगवानिक्ष्वाकूणां परायणम् ॥ ८७२ ॥
मुनयोऽपि निमेर्यज्ञे शरीरं मन्त्रसंस्कृतम् ।
रक्षन्तः कर्मणः पारं प्रययुर्दैवतैः सह ॥ ८७३ ॥
ततः सुराणां वचसा लोचनेषु शरीरिणाम् ।
निमेषवासी सततं बभूव नृपतिर्निमिः ॥ ८७४ ॥
मुनिभिस्तस्य पुत्रार्थ यज्ञान्ते मथितारणिः ।
अजीजनन्मिथिं नाम [जननाजननी नृपम् ॥ ८७५ ॥
मिथिना मिथिला नाम] विदेहेषु कृता पुरी।
निमिर्यत्र विदेहोऽभूद्विदेहास्ते जनाः स्मृताः ॥ ८७६ ॥
इति मैथिलसंभवः ॥ ३४ ॥
एतदाकर्ण्य रामेण कथितो राघवानुजः ।
निनिंद्रामखिलां रात्रिं तमपृच्छत्पुनः पुनः ॥ ८७७ ॥
दीक्षितो गुणवान्वीरो राजा शक्राधिकोऽपि सः ।
क्षमां निमिर्वसिष्ठस्य तस्मान्न कृतवान्वशी ॥ ८७८ ॥
कोपना कातराः क्षुद्रा भवन्ति विभवे खलाः ।
क्षमयैव विभाव्यन्ते कुलीनाः प्रभविष्णवः ॥ ८७९ ॥
इति सौमित्रिणा पृष्टः काकुत्स्थः पुनरब्रवीत् ।
कोपः समुद्तो घोरः कस्याचौरमपेक्षते ॥ ८८० ॥
न क्षमां क्षमते कोषः साधुतामिव दुर्जनः ।
चण्डालेनेव येनात्मा स्पृष्टो यात्यपवित्रताम् ॥ ८८१ ॥
१. कोष्टकान्तर्गतपाठः शारदालिपिपुस्तके नोपलभ्यते. २. ‘जननाजनकोऽभवत्-’ इति रामायणानुसारेण ‘जननाजनक’ इति पाठो भवेत्, ३. ‘व्यमाञ्चेत’ क ख. ४. ‘चार
प्रतीक्षते’ शा०
पुरा ययातिना राज्ञा शप्तेनोशनसा रुषां ।
शक्तेनापि प्रतीकारे शान्तमेव जितात्मना ॥ ८.८२. ॥
नहुषस्याभवत्पुत्रो ययातिः पृथिवीपतिः ।
शुक्रात्मजा देवयानी तस्याभूत्प्रथमा वधूः ॥ ८८३ ॥
सुता च दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ।
देवयानी यदुं पुत्रं शर्मिष्ठा पूर्वमात्मजम् ॥ ८८४ ॥
सुषुवाते नरपतेस्तयोः पूरुरभूत्प्रियः ।
ततो यदुर्देवयानी जननी शिशुरब्रवीत् ॥ ८८५ ॥
द्वेष्यां त्वं भूपते मातरहं च त्वदगौरवात् ।
धन्योऽयं मातृसौभाग्यात्पूरुभूपतिवल्लभः ॥ ८८६ ॥
इति पुत्रवचः श्रुत्वा देवयानी भृशं शुचा ।
किरन्ती बाप्पसलिलं सस्सार पितरं सती ॥ ८८७ ॥
स्मृतमात्रस्तया शुक्रः संप्राप्तो ज्ञानलोचनः ।
शुश्राव पुच्या कथितं भर्तृद्वेषोद्भवं शुचम् ॥ ८८८ ॥
स सुतावत्सलस्तत्र शशाप नृपति रुषा ।
येनासौ यौवनं त्यक्त्वा जराजीर्णोऽभवत्क्षणात् ॥ ८८२ ॥
अतृप्तः कामिनीभोगे दुःखितोऽथ महीपतिः ।
अयाचत यदुं पुत्रं तारुण्यं जरयादितः ॥ ८९० ॥
तमब्रवीद्यदुः पूरुं याचस्व दयितं सुतम् ।
भोगभागी हि सहते स्नेहेन क्लेशयातनाम् ॥ ८९१ ॥
इत्युक्ते यदुना राजा तं शशाप रुषा ज्वलन् ।
अराज्यभागिनो जाता वंशे येनास्य यादवाः ॥ ८९२ ॥
ततः पूरुर्ददौ पित्रे जरामादाय यौवनम् ।
विजहार नृपो येन कंचित्कालं प्रियासखः ॥ ८९३ ॥
कालेन तस्मै नृपतिनिजपुत्राय यौवनम् ।
राज्यं च दत्त्वा सुकृती तपसा प्रययौ दिवम् ॥ ८९४ ॥
एवं शुक्रेण शप्तेऽसौ प्रतिशापं महीपतिः ।
शक्तोऽपि न ददौ तस्मै प्रादात्क्रुद्धो यथा निमिः ॥ ८९५ ॥
इति ययातिशापः ॥ ३५ ॥
रामस्येवं कथयतस्तारकास्नुकणाकुला ।
सा चैत्ररात्रिरमला सतीवेन्दुमुखी ययौ ॥ ८९६ ॥
ततो रघुपतिः प्रातः कृतकृत्यः सहानुजैः ।
मुनिर्मन्त्रिनृपाकीणी प्रविवेश विभुः समाम् ॥ ८९७ ॥
तं राजभास्करं सर्वे सभासीनं ववन्दिरे ।
यस्योदयेषु निदोषा भवन्ति सकला दिशः ॥ ८९८ ॥
ततो नृपाज्ञया तत्र द्वारि कार्यार्थिनं जनम् ।
विचिन्त्य लक्ष्मणः क्षिप्रं प्रविश्योवाच राघवम् ॥ ८९९ ॥
न कश्चिदृश्यते देव कार्यार्थी याचकोऽपि वा ।
त्वयि राजनि नास्त्येव विप्लवो दैवमानुषः ॥ ९०० ॥
स राजा राजते राज्ये प्रजानां धर्मपालनात् ।
नो चरन्ति पुरे यस्य दीनाः कार्यार्थिनश्चिरम् ॥ ९०१ ॥
त्वयि शासति निःशेषां पृथिवीं पृथिवीपतौ ।
उपतापोऽस्ति लोकस्य न शारीरो न मानुषः ॥ ९०२ ॥
इति ब्रुवाणः सौमित्रिः पुनः कार्यार्थदर्शने ।
नियुक्तः सादरं राज्ञा दृष्ट्वाभ्येत्यावदत्पुनः ॥ ९०३ ॥
द्वारि देवः स्थितो दीनः प्रहाराभिन्नमस्तकः ।
एकः श्वा वक्तुकामश्च सभादर्शनमिच्छति ॥ ९०४ ॥
इत्युक्ते शासनात्तूर्णं भूपतिः श्वा प्रविश्य सः ।
उवाच कौतुकालोललोके सदसि निर्भयः ॥ ९०५ ॥
भूतानां भूपतेरन्यत्परित्राणं न विद्यते ।
भुजेन धर्मस्तम्भेन भूतधात्रीं विभर्ति यः ॥ ९०६ ॥
१. ‘विचित्य’ स्यात, २. “र्थिनां गिरः’ शा.. ३. ‘न्म:‘मा.
यशःशशाङ्कशुभ्रस्य प्रतापानलतेजसः ।
धर्मोऽस्मिन्दृश्यते लोके प्रभावाद्भूतभासुरः ॥ ९०७ ॥
इयं ते सर्वसामान्या भूतेष्वभयदा स्थितिः ।
सभायामुत्सहे वक्तुं प्रगल्भः श्वापि नाम यत् ॥ ९०८ ॥
भिक्षुः सर्वार्थसिद्धाख्यो ब्राह्मणावसथे स्थितः ।
तेन दण्डप्रहारेण कृतोऽहं भिन्नमस्तकः ॥ ९०९ ॥
इत्युक्ते सारमेयेन द्वाःस्थेनाहूय तं द्विजम् ।
अनागसि प्रहारस्य हेतुं पप्रच्छ राबवः ९१० ॥
अदोषः किमयं ब्रह्मन्दण्डेन श्वा हतस्त्वया ।
दयावान्सर्वभूतेषु ब्राह्मणो मैत्र उच्यते ॥ ९११ ॥
वाग्विषो भुजगोत्तीर्णः सर्वच्छेदी परश्वधः ।
भ्रूभङ्गभीमो दहनः क्रोधो मृत्युः शरीरिणः ॥ ९१२ ॥
यज्ञो जपस्तपो दानं सत्यं च सुकृतं कृतम् ।
क्रोधेनाशुचिना स्पृष्टं सर्वं यात्यपवित्रताम् ॥ ९१३ ॥
यस्यात्मा संनिकर्षस्थः क्रोधावगेन विस्मृतः ।
स कथं परलोकस्यं धर्म स्मरति दुर्मतिः ॥ ९१४ ॥
स श्वा सदन्तनिष्पेषभीषणः सह्यते न कैः
यस्य क्रोधपिशाचेन घोरेणाधिष्ठितं मनः ॥ ९१५ ॥
कालस्यान्यः प्रकारोऽयं क्रुद्धो यस्मिन्प्रयात्यलम् ।
सुहृद्वन्धुः पिता पुत्रः शरीरं चोपहारताम् ॥ ९१६ ॥
पश्यति द्रविणं लुब्धः कामी पश्यति कामिनीम् ।
पश्यति अममुन्मत्तः क्रुद्धः किंचिन्न पश्यति ॥ ९१७ ॥
क्रोधे संनिहितो वह्निः क्रोधे संनिहितं विषम् ।
क्रोधे संनिहितो मृत्युः क्रोधो नरकदैशिकः ॥ ९१८ ॥
इत्युक्ते भूभुजा विप्रः प्रोवाच रचिताञ्जलिः ।
मया क्रोधाभिभूतेन कृतं किंचिदसांप्रतम् ॥ ९१९ ॥
१. ‘वशेन’ शाक
भिक्षाकाले व्यतिक्रान्ते क्षुत्क्षामेन क्रुधा मया ।
अयं श्वा मार्गमावृत्य स्थितो दण्डेन ताडितः ॥ ९२० ॥
कृतमेतन्मया पापं शासनीयोऽस्मि ते नृप ।
भवता कृतदण्डस्य नास्ति मे नरकाद्भयम् ॥ ९२१ ॥
ब्राह्मणेनेत्यभिहिते सामात्या दण्डसंशये ।
कौत्सवसिष्ठात्रिभृग्वाङ्गिरसगौतमाः ॥ ९२२ ॥
विप्रः सूक्ष्मापराधेषु न दण्ड्यो भूभुजा कचित्
धर्मस्थैरित्यभिहिते सारमेयोऽवदन्नपम् ॥ ९२३ ॥
प्रतिश्रुतं मे भवता किं कार्यमिति भूपते ।
अनुग्राह्यो विशेषेण दृष्टिपातादहं तव ॥ ९२४ ॥
क्रियतां मद्वचस्तस्माद्विजोऽयमभिषिच्यताम् ।
कालाञ्जरे कौलपत्ये गोब्राह्मणसुरान्प्रति ॥ ९२५ ॥
इत्युक्ते सारमेयेन सोऽभिषिक्तो महीभुजा ।
मातङ्गवरमारुह्य ययौ देवद्विजाधिपः ॥ ९२६ ॥
तस्मिन्प्रमुदिते याते मन्त्रिणः पृथुविस्मयाः।
वरोपमोऽयं शापोऽस्य दत्त इत्यूचिरे पृथक् ॥ ९२७ ॥
ततः स्मितप्रभापुञ्जशवलाधरपल्लवः ।
उवाच राघवः सर्व श्वा जानात्येव कारणम् ॥ ९२८ ॥
उक्त्वेति राज्ञा सृष्टोऽथ स श्वा जन्मान्तरस्मृतिम् ।
अवदद्विदितानोकसूक्ष्मधर्मार्थसंचयः ॥ ९२९ ॥
अहं कुलपतिः सत्रे धर्मनित्योऽभवं पुरा ।
शुचिर्देवद्विजार्थेषु संविभागी जितेन्द्रियः ॥ ९३० ॥
तथापि तापसी योनिमापन्नोऽस्म्यधमामिमाम् ।
को जानाति कदा किं मे मतिमोहेन विस्मृतम् ॥ ९३१ ॥
अयं तु पुरुषः क्रूरो ब्रह्मबन्धुः कुधा ज्वलन् ।
सस्पृहः कौलपत्येन न जाने कि भविग्यति ॥ ९३२ ॥
१. कालाञ्जने’ क.
गोब्राह्मणसुरार्थेषु स गच्छेदधिकारताम् ।
पापशापसखी यस्य नरकाभिमुखी मतिः ॥ ९३३ ॥
स्पृहां कुर्यादमर्यादः स ब्राह्मणजने धने ।
यस्यावीचौ परिचये सुचिरोपचिता मतिः ॥ ९३४ ॥
जातोत्कण्ठाः प्रतीक्षन्ते यस्योगनरकाग्नयः ।
कुर्यात्सुरालये स्वाम्यं स ब्राह्मणर्धनाधिपः ॥ ९३५ ॥
इत्युक्तस्तेन रामोऽभूद्विस्मयस्सेरलोचनः ।
गत्वाप्यनशनेन श्वा वाराणस्यां व्यपद्यत ॥ ९३६ ॥
इति कौलपतिकम् ॥ ३६ ॥
ततः कदाचिदभ्येत्य मुनयश्चयवनादयः ।
पाद्यासनादिसत्कारैः पूजिता राममूचिरे ॥ ९३७ ॥
निघ्नता मलिनाचारानसकृत्क्षणदाचरान् ।
त्वया प्रतापनिधिना जगद्वितिमिरं कृतम् ॥ ९३८ ॥
पुत्रो मधोर्दैत्यपतेर्लवणो नाम दुःसहः ।
अधुना बाधते लोकान्रावणस्य स्वसुः सुतः ॥ ९३९ ॥
एकपुत्रावधि प्राप्तं तत्पित्रा त्रिपुरान्तकात् ।
शूलं शूलमिवासह्यं स बिभर्ति दिवौकसाम् ॥ ९४० ॥
शासनादेव रुद्रस्य रौद्रकर्मा जगज्जयी ।
स शूलरहितो वध्यः सशूलः क्षयकृविषाम् ॥ ९४१ ॥
दिक्प्रतीची कृता तेन मुनिशून्यतपोवना ।
स कालः सर्वभूतानां प्रमाणमधुना भवान् ॥ ९४२ ॥
एतन्मुनिवचः श्रुत्वा रामो विरचिताञ्जलिः ।
करोमि भवतामिष्टमित्युक्त्वा विससर्ज तान् ॥ ९४३
ततो ययाचे शत्रुघ्नः काकुत्स्थं पृथुविक्रमः ।
लवणस्य वधारम्भे शासनं शत्रुशासनः ॥ ९४४ ॥
१. ‘धनापहत्’ शा..
स रामेणाभ्यनुज्ञातो लवणाधिष्ठिते पुरे ।
अभिषिक्तश्च विधिवत्प्रतस्थे रथिनां वरः ॥ ९४५ ॥
दीप्तं तस्मै ददौ रामः सायकं ब्रह्मनिर्मितम् ।
बभूवुस्तत्प्रभापुञ्जैः कृशानुकपिशा दिशः ॥ ९४६ ॥
शूलेन रहितो वध्यः स दैत्य इति संविदा ।
सैन्यस्याग्रे जगामैकः शत्रुघ्नः शक्रविक्रमः ॥ ९४७ ॥
स ब्रजब्रजनीमेकां वाल्मीकेराश्रमे मुनेः ।
उवाच विहितातिथ्यस्तेन वन्यफलाम्बुभिः ॥ ९४८ ॥
तत्र यूपाङ्कितां भूमिं विलोक्य भरतानुजः ।
मुनि पप्रच्छ कस्यैषा यज्ञभूर्भगवन्निति ॥ ९४९ ॥
सोऽब्रवीत्पूर्वपुरुषो बभूवेक्ष्वाकुभूभुजाम् ।
सुदासो यस्य सौदासः पुत्रोऽमित्रमहाशनिः ॥ ९५० ॥
स वालो मृगयाशीलः कानने सिंहरूपिणौ ।
ददर्श राक्षसौ याभ्यां गहनं निर्मगं कृतम् ॥ ९५१ ॥
एकरततो हतस्तेन सायफेनाभवासुः ।
तत्कोपादपरं रक्षः प्रदध्यौ तत्प्रतिक्रियाम् ॥ ९५२ ॥
अथ कालेन सौदासोऽप्यश्वमेधं महाऋतुम् ।
आजहार वसिष्ठेन कृतकृत्यः पुरोधसा ॥ ९५३ ॥
ततः स राक्षसोऽभ्येत्य यज्ञस्यान्ते नरेश्वरन् ।
वसिष्ठरूपी मायावी ययाचे मांसभोजनम् ॥ ९५४ ॥
तथेत्युक्ते नरेन्द्रेण सूदरूपोऽपि राक्षसः ।
मानुष्यमांसं संस्कृत्य तस्थौ भोज्यगृहे पुरः ॥ ९५५ ॥
उपनीतं तदशनं राज्ञा राक्षससंस्कृतम् ।
दृष्ट्वा वसिष्ठः कुपित्तत्तस्मै शापमवास जत् ॥ ९५६ ॥
राजन्द्वादशवर्षाणि पुरुषादो भविष्यसि ।
तच्छ्रुत्वा सोऽपि शापान्बु कोपाज्जग्राह पाणिना ॥ ९५७ ॥
मदयन्ती तमवदद्भार्या क्रुद्धं महीपतिम् ।
मुनिर्वसिष्ठः पूज्योऽयमस्माकं कुलदैवतः ॥ ९५८ ॥
ततः पत्नीगिरा राजा तोयं जग्राह पादयोः ।
निधौतपादो येनासौ ययौ कल्माषपादताम् ॥ ९५९ ॥
तस्येयं यज्ञवसुधा सौदासस्य महीपतेः ।
कथयित्वैव वाल्मीकिर्विरराम मुनीश्वरः ॥ ९६० ॥
इति सौदासस्योपाख्यानम् ॥ ३७ ॥
तस्मिन्नवसरे तत्र पुण्ये मुनितपोवने ।
असूत सीता यमजौ कुमारावश्विनाविव ॥ ९६१ ॥
ततः शिष्यैः प्रियाख्यानादाहूतः करुणानिधिः ।
वाल्मीकिर्विदधे रक्षां कुशैलिकयोस्तयोः ॥ ९६२ ॥
तौ रक्षता कुशलवैस्तेन तेजखिना वने ।
शिशू कुशलवावेव दिव्यरूपौ वभूवतुः ॥ ९६३ ॥
रामस्य तनयो जातौ श्रुत्वा प्रमदनिर्भरः ।
निशां निनाय शत्रुघ्नः श्यामां प्रावृट्पयोधरैः ॥ ९६४ ॥
प्रभाते मुनिमामन्त्र्य स गत्वा सप्तभिर्दिनैः ।
अनयद्यमुनातीरे च्यवनस्याश्रमे निशाम् ॥ ९६५ ॥
कथान्ते च्यवनं तत्र स पप्रच्छ कुतूहलात् ।
दैत्यः स भूतभयकृल्लवणः किंपराक्रमः ॥ ९६६ ॥
इति पृष्टो मुनिस्तेन वभाषे भृगुनन्दनः ।
लवणस्याद्भुतं कर्म घोरं वक्तुं न पार्यते ॥ ९६७ ॥
यौवनाश्वः पुरा राजा मान्धाता पृथिवीं वशे ।
कृत्वा पराक्रमोदारश्चक्रे शक्रासने स्पृहाम् ॥ ९६८ ॥
तं जेतुमुद्यतं वीरं सुरलोकं सुरेश्वरः ।
उवाच पृथिवी पूर्णा न जिता भूपते त्वया ॥ ९६९ ॥
१. ‘मुद्यतो’ शा०.
अजित्वैव महीं जाता किं ते स्वर्गजये मतिः ।
अभग्नशासनस्याज्ञां लवणः कुरुते न ते ॥ ९७० ॥
एतदाकर्ण्य मान्धाता ह्रिया क्षिप्रमधोमुखः ।
निरुत्तरो ययौ जेतुं लवणं दानवं भुवि ॥ ९७१ ॥
ततो युद्धमभूद्घोरं चिरं दैत्यनरेन्द्रयोः ।
अभूतां सर्वभूतानां येन संत्रासविस्मयौ ॥ ९७२ ॥
प्रहस्य लवणेनाथ प्रदीप्तं शूलमोजसा ।
क्षिप्तं क्षितिपतिं चक्रे क्षणेन युधि भस्मसात् ॥ ९७३ ॥
निर्दग्धे भूपतौ तस्मिन्सभृत्यबलवाहने ।
शूलं तत्कृतकृत्यस्य ययौ दैत्यपतेः करम् ॥ ९७४ ॥
तस्मात्स शूलरहितो वध्यो युद्धेषु नान्यथा ।
श्वो हन्तासि तमित्युक्त्वा संजहार गिरं मुनिः ॥ ९७५ ॥
ततः प्रभाते शत्रुघ्नो गत्वा लवणकाननम् ।
वहन्तं प्राणिनां भारं तं ददर्शागतं चिरात् ॥ ९७६ ॥
आहूतस्तेन लवणः कोपादुत्पाट्य पादपम् ।
गर्जत्पर्जन्यनिर्घोषमभ्यधावद्भुजोर्जितम् ॥ ९७७ ॥
क्षिप्तं तेन जबाहृक्षं शत्रुघ्नः पत्रिभिदैः ।
चकार पञ्चतां घोरैर्देहिदेहमिवान्तकः ॥ ९७८ ॥
वृक्षेषु क्षीयमाणेषु क्षिप्तेषु बहुशः शनैः ।
शत्रुघ्नं मूर्ध्नि चिक्षेप लवणस्तरुमाततम् ॥ ९७९ ॥
वेगादभिहतस्तेन वजेणेव सुराचलः ।
विकीर्णहेमकवचः पपात भरतानुजः ॥ ९८० ॥
तदभून्मूर्छिते तस्मिन्हाहाकारो दिवौकसाम् ।
संदेहदोलाकुलितं मुनीनां चाभवन्मनः ॥ ९८१ ॥
हतं विज्ञाय शत्रुघ्नं न दैत्यः शूलमग्रहीत् ।
नश्यतामवलेपो हि मणिमन्त्रौषधादिषु ॥ ९८२ ॥
लब्धसंज्ञोऽथ शत्रुघ्नः क्रूरमाकृष्य कार्मुकम् ।
वितीर्णं रघुनाथेन तं दीप्तं संदधे शरम् ॥ ९८३ ॥
प्रादुर्भूते शरे तस्मिञ्बालालीढनभस्तले ।
बभूव सर्वभूतानां मोहः प्रलयसूचकः ॥ ९८४ ॥
ततः पितामहं सिद्धसुरगन्धर्वकिंनराः ।
ऊचुर्लोकक्षये सृष्टः शरो न लवणक्षये ॥ ९८५ ॥
प्रजापतिस्तानवदन्मधुकैटभयोर्वधे ।
मुरारिणा निर्मितोऽयं दुरितापहरः शरः ॥ ९८६ ॥
पश्यन्तु दारिततनुं शरेणानेन दानवम् ।
भवन्तो विगतायासा नास्ति वः सायकाद्भयम् ॥ ९८७ ॥
इत्युक्ते पद्मगर्भेण स्वस्थे त्रिदशमण्डले ।
शत्रुघ्नेनावृतो द्वारि शूलं न प्राप दानवः ॥ ९८८ ॥
ततः स सायकः स्फारं निभिद्यौरःस्थलं जवात् ।
लवणस्य प्रविश्य क्षमा पुनः शत्रुघ्नमाययौ ॥ ९८९ ॥
इति लवणवधः ॥ ३८ ॥
लवणे निहिते शूलं रुद्रस्यैव करं चयौ ।
सुरसिद्धर्षिगन्धर्वाः शत्रुघ्नश्चाभ्यपूजयन् ॥ ९९० ॥
स तद्वरात्पुरीं तत्र मथुरा नाम निर्ममे ।
यमुनावेणिकां कान्तां हेमजालनितम्बिनीम् ॥ ९९१ ॥
शूरसेने जनपदे निर्दिष्टा रुचिरा पुरी ।
अर्धचन्द्रायुताकारा सा तोरणवती वभौ ॥ ९९२ ॥
ततो द्वादशभिर्वर्षेः काकुत्स्थालोकनोत्सुकः ।
शत्रुघ्नः प्रययौ सैन्यैरयोध्यां विपुलैर्वृतः ॥ ९९३ ॥
स ब्रजब्रजनीमेकां वाल्मीकेराश्रमे वसन् ।
शुश्राव रामचरितं गीयमानपदं सुरैः ॥ ९९४ ॥
निशि तेनामृतेनेव पूरिताश्रवणं चिरम् ।
त्रिदिवस्थामिवात्मानं स मेने हर्षनिर्भरः ॥ ९९५ ॥
इति मथुराप्रवेशः ॥ ३९ ।
गत्वा ततः कतिपयैर्वासरैर्भरतानुजः ।
अयोध्यां राघवं द्रष्टुं प्रविवेश नृपालयम् ॥ ९९६ ॥
प्रणम्य राघवं तत्र चरणालीनशेखरः ।
प्रीत्या तेन परिष्वक्तो यथावृत्तं जगाद सः ॥ ९९७ ॥
स्थित्वा तत्र प्रियतरैः पूज्यमानो महीभुजा ।
कालेन मथुरामेव जगाम भ्रातुराज्ञया ॥ ९९८ ॥
ततः कदाचिदत्यन्तापूर्वदुःखादितो द्विजः ।
स्कन्धे गृहीत्वा पृथुकं राजद्वारमुपाययौ ॥ ९९९ ॥
सोऽवदत्पुत्रशोकेन महता पीडिताशयः ।
अहो बतायं वृद्धस्य जीवितं च गतः सुतः ॥ १००० ॥
न मया दुष्कृतं किंचित्कृतं धर्मानुवर्तिना।
व्यसुं पश्यामि च शिशुं कस्येदं कर्मणः फलम् ॥ १००१
नाकालमृत्युर्न व्याधिर्न दुर्भिक्षं न तस्कराः ।
भवन्ति सत्त्वसंपन्ने धर्मनित्ये महीपतौ ॥ १००२ ॥
अकालमृत्युर्दुर्भिक्षः प्रभवः करूणध्वनिः ।
न श्रूयते जनपदे नृपाणां पुण्यकर्मणाम् ॥ १००३ ॥
क्रियाहीना द्विजन्मानः स्वैरिण्यः कुलयोषितः ।
भवन्ति राज्ञि दुर्वृत्ते जनाश्चाकालमृत्यवः ॥ १००४ ॥
असम्यक्पालिता राज्ञा दुःसहल्लेशभागिनी ।
अकालनिधनाक्रान्ता हा प्रजे क गमिप्यसि ॥१००५ ॥
राजा पापानि कुरुते दुर्बलः पीड्यते जनः ।
अपथ्यमपरो भुङ्गे शीलेनायास्यतेऽपरः ॥ १००६ ॥
कुराज्ये जीवितं नास्ति सुखं वरमराजक अपने ।
विधवैव परं नारी न तु कापुरूषाश्रया ॥ १००७ ॥
१. ‘लीने शा०.
जीर्णो जीवाम्यहं वृद्धः पञ्चवर्षः शिशुर्मृतः ।
अहो नु राजदोषेण कष्टमापतितं मम ॥ १००८ ॥
मृते सुते न जीवामि ब्राह्मणी निधनोद्यता।
अहो पापस्य नृपतेर्ब्रह्महत्यापरम्परा ॥ १००९ ॥
एतदाकर्ण्य काकुत्स्थः क्षिप्रं संक्रान्ततव्यथः ।
केदार इव केदारजलेनापूरितोऽभवत् ॥ १०१० ॥
स सभायां समानाय्य सामात्यं मुनिमण्डलम् ।
न शशाक क्षणं वक्तुं दुःखसंतापचिन्तया ॥ १०११ ॥
ततो वसिष्ठजावालिकौत्सगौतमनारदाः ।
मार्कण्डेयात्रिमौद्गल्या वामदेवपुरोगमाः ॥ १०१२ ॥
भृगुप्रभृतयश्चान्ये सकात्यायनकाश्यपाः ।
तस्थुर्दुःखाकुले राज्ञि चित्रन्यस्ता इवाचलाः ॥ १०१३ ॥
कारणं वालनिधने तेषु पृष्टेषु भूभुजा ।
तमभाषत देवर्षिः क्षणं संचिन्त्य नारदः ॥ १०१४॥
पुरा कृतयुगे राजन्नेकवण समक्रियम् ।
मृत्युहीनमनायासमभूद्ब्रह्ममयं जगत् ॥ १०१५ ॥
ततस्त्रेतायुगे ब्रह्मक्षत्रं समतपोवलम् ।
वैश्यशूद्रोपकरणं बभूवावधिजीवितम् ॥ १०१६ ॥
अनृताख्यं ततः पादमधर्मों निदधे परम् ।
त्रिपाद्बभूव धर्मश्च रागद्वेषाकुले जने ॥ १०१७ ॥
अधर्मस्य ततः पादो द्वितीयः समपद्यत ।
तेन द्वापरसंज्ञोऽसौ युगोऽधर्मस्तदा द्विपात् ॥ १०१८ ॥
तस्मिन्युगे प्रवृत्ते तु वैश्यानां शनकैस्तपः ।
तपो नास्त्येव शूद्रस्य नोपदेशं न च व्रतम् ॥ १०१९ ॥
जुहोति शूद्रो यद्वह्निं शूद्रो यत्कुरुते तपः ।
गुरुर्भवति शूद्रो यत्तत्पूर्णं लक्षणं कलेः ॥ १०२० ॥
जनः शूद्रप्रधानोऽयं ब्राह्मणः शूद्रसेवकः ।
विमूढाः शूद्रशिष्याश्च कलौ प्रबलविप्लवे ॥ १०२१ ॥
विपयान्ते च तीव्रस्ते शूद्वस्तपसि वर्तते ।
तेन पापविपाकेन ब्राह्मणस्य मृतः सुतः ॥ १०२२ ॥
तस्मादन्विष्य राजेन्द्र स्वयं कुरु यथोचितम् ।
चतुर्भागहरो राजा प्रजानां पुण्यपापयोः ॥ १०२३ ॥
नारदेनेत्यभिहिते रामः सौमित्रिमब्रवीत् ।
तैलद्रोण्यां शिशोरस्य संनिधानं विधीयताम् ॥ १०२४ ॥]
इत्युक्त्वा पुष्पकं नाम स्मृतमात्रमुपस्थितम् ।
आरुह्य प्रययौ व्योमा खड्गवाणधनुर्धरः ॥ १०२५ ॥
स प्रतीची दिशं पूर्वमवलोक्योत्तरां ततः ।
पूर्वी च न जने किंचिद्ददर्श कुकृतं स्थितेः ॥ १०२६ ॥
गत्वाथ दक्षिणामाशां गिरेरुत्तरपार्थतः ।
ददर्श पङ्कजरजःपुञ्जपिञ्जरितं सरः ॥ १०२७ ॥
तत्रापश्यत्तपः क्षामं लम्बमानमधोमुखम् ।
पुरुषं तीव्रं निर्बन्धं साकारमिव दुब्रहम् ॥ १०२८ ॥
तमुवाच ततो रामः कस्त्वमुग्रतपोनिधिः ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा सत्यमुच्यताम् ॥ १०२९ ॥
सत्यमेवामृतं लोके तपः सत्ये प्रतिष्ठितम् ।
व्रतं हि सत्योच्छिष्टानां कायक्लेशाय केवलम् ॥ १०३० ॥
इति पृष्टः स रामेण प्रोवाच व्रतनिश्चलः ।
अधोमुखेन वपुषा वैपरीत्यं वदन्निव ॥ १०३१ ॥
सशरीरो दिवं गन्तुं तपसा कृतनिश्चयः ।
शूद्रोऽहं शम्बुको नाम प्रार्थये सुतरां विभो ॥ १०३२ ॥
१. कोष्टकान्तर्गताः श्लोकाः फा-ख-पुतकयोनापलब्धाः. शारदालिपिनो लिखिताः.
६२
एतदाकर्ण्य काकुत्स्थः कुपितस्तस्य विक्लवात् ।
शिरश्चिच्छेद खड्गेन मूलं दुःखतरोरिव ॥ १०३३ ॥
तत्र शक्रादयः प्रीत्या त्रिदशाः पुष्पवर्षिणः ।
ऊचुर्वरं गृहाणेति वराह रघुनन्दनम् ॥ १०३४ ॥
सोऽवदद्वरदा यूयं यदि से पुण्यभागिनः ।
तदसौ ब्राह्मणस्यैव पुत्रः प्रामोतु जीवितम् ॥ १०३५ ॥
इत्युक्ते सत्वनिधिना रामेण त्रिदिवौकसः ।
तमूचुस्त्यज संतापं संप्राप्तं तेन जीवितम् ॥ १०३६ ॥
यदैव कृत्तं भवता शिरः शूद्रतपस्विनः ।
सह त्वज्जयशब्देन तदैव शिशुरुत्थितः ॥ १ १०३७ ॥
अगस्त्यस्याश्रमं राम गच्छामस्तत्र नस्त्वया ।
नेत्रपानामृतस्यन्दी भविष्यति समागमः ॥ १०३८ ॥
दीप्ता समाप्तिरचैव कुम्भयोनेस्तपोवनी ।
स हि द्वादशभिर्वर्षेरुत्थितोऽन्तर्जलान्मुनिः ॥ १०३९ ॥
इत्युक्त्वा तेषु यातेषु ब्रजन्रामो व्यलोकयत् ।
काननं कुसुमामोदमत्तालिवलयाकुलम् ॥ १०४० ॥
इति शम्बुकवधः ॥ ४० ॥
तत्रालयविवादेन संजातकलहौ मिथः ।
गृध्रोलूको समभ्येत्य वृद्धौ राघवमूचतुः ॥ १०४१ ॥
इन्द्रस्त्वं परमैश्वर्यात्सोमस्त्वममृतपदः ।
पावकः पापदहनाद्दण्ड्यानां शासनाद्यमः ॥ १०४२ ॥
सर्वदेवमयो देवो विष्णुस्त्वं सर्वतोमुखः ।
अस्मिन्विवादसंदेहे प्रमाणं भूपते भवान् ।
ममालयं हरत्येष हरत्येष ममालयम् ॥ १०४३ ॥
इति तद्वचनं श्रुत्वा रामः पप्रच्छ तौ पृथक् ।
वसतोरालये कालः प्रयातो युवयोः कियान् ॥ १०४४ ॥
अथ गृध्रोऽवदभूमिमनुष्यैरूर्ध्ववाहुभिः ।
व्याप्ता यदाभून्निलयरतदा प्रभृति मे प्रभुः ॥ १०४५ ॥
उलूकोऽप्यवद्वृक्षैर्यदाभूद्भूमिरावृता ।
तदा प्रभृति मे राजन्नालयोऽयमनावृतः ॥ १०४६ ॥
एतत्तयोर्वचः श्रुत्वा वृद्धामात्यैः सह स्थितः ।
विचार्य राघवः क्षिप्रं स्थितिज्ञः स्वयमभ्यधात् ॥ १०४७ ॥
सर्गेऽसिन्पद्मनाभस्य नाभिपद्ममुखाकृतेः (१) ।
विष्णुः स्वाङ्गमलोत्पन्नौ जघान मधुकैटभौ ॥ १०४८ ॥
तन्मेदसा मेदिनी भूरभूत्पूर्वं द्रुमावृता ।
पश्चान्मनुष्यैः संपूर्णा तस्माद्गृध्रः पराजितः ॥ १०१९ ॥
इत्युक्ते कुपिते रामे वागुवाचाशरीरिणी ।
त्वद्दर्शनान्तःशापोऽस्य गृद्ध्रस्याद्य क्षयं गतः ॥ १०५० ॥
नृपतिर्ब्रह्मदत्तोऽयं मासमालोक्य भोजने ।
गौतमेन पुरा शप्तः प्रयातो गृद्ध्रतामिमाम् ॥ १०५१ ॥
एतदाकर्ण्य विरतप्रकोपे रधुनन्दने ।
गृध्ररूपं परित्यज्य ब्रह्मदत्तो दिवं ययौ ॥ १०५२ ॥
इति गृङोलकिकम् ॥ ११ ॥
अथागस्त्यं समभ्येत्य पूजयित्वा ययुः सुराः ।
रामोऽपि प्राप्य सानन्दस्तं ववन्दे कृताञ्जलिः ॥ १०५३ ॥
तस्मै मुनिवरः पूजां प्रीतः कृत्वा नृपोचिताम् ।
तरुणार्कप्रभादीप्तं दिव्यमाभरणं ददौ ।
तं राघवोऽब्रवीन्नायमुचितो नः प्रतिग्रहः ॥ १०५४ ॥
शासनं च तवालङ्घ्यं भगवन्युक्तमुच्यताम् ।
इत्युक्ते रघुनाथेन कुम्भयोनिरभाषत ॥ १०५५ ॥
अराजके पुरा सर्गे तेजोभागैदिवौकसाम् ।
क्षुतात्स्वयंभुवा सृष्टः क्षुप इत्यभवन्नृपः ॥ १०५६ ॥
शक्रांशो प्रभुता राज्ञो वरुणांशः स्वरूपतः ।
धनदांशी धनादानदाने दैण्डे यमांशतः ॥ १०५७ ॥
तस्मादैन्द्रेण भागेन रत्नान्यहन्ति पार्थिवाः ।
इत्युक्तो मुनिना रामो गृहीत्वा तदभाषत ॥ १०५८ ॥
इदमाभरणं दिव्यं पुरे मूर्तमिवाद्भुतम् ।
सूर्यप्रभं कुतः कान्तं कस्यैतदभवत्पुरा ॥ १०५९ ॥
इति पृष्टो मुनिवरः काकुत्स्थेन तमब्रवीत् ।
श्रूयतामिदमाश्चर्य खयमालोकितं मया ॥ १०६० ॥
पुराहं निद्रितखगे पुष्पिते निर्जने वने ।
चित्रस्थ इव निःशब्दे फलाव्ये शतयोजने ॥ १०६१ ॥
भ्रान्त्वा मनोहरं स्वच्छमुत्फुल्लकमलोद्भवम् ।
असंस्पृष्टमनाघ्रातमपश्यं कौतुकाकुलः ॥ १०६२ ॥
अदूरे सरसस्तस्मादृष्टः स्पष्टः शवो मया ।
अनष्टचारुरूपत्वात्स जीव इव कान्तिमान् ॥ १०६३ ॥
अतोऽहं विस्मयात्तत्र मुहूर्त निश्चलः स्थितः ।
अवश्यं रनरुचिरं विमानं हंससंयुतम् ॥ १०६४ ॥
तसिन्विमाने पुरुषः श्रीमानप्सरसां गणैः ।
सेवितो गीतवाद्येन मया दृष्टः शशिप्रभः ॥ १०६५ ॥
अवरुद्ध विमानाग्राचारुकेयूरकुण्डलः ।
विलोलहारः शनकैः प्रययौ स शवान्तिकम् ॥ १०६६ ॥
यथाकामं ततो भुक्त्वा मांसं तस्यातिपीवरम् ।
सलिलं सरसि स्पृष्ट्वा सोऽविशत्वं विमानगः ॥ १०६७ ॥
पश्चादेत्य मया पृष्टः को भवान्दीप्तविग्रहः ।
आहारो गर्हितः किं ते श्रुत्वैतत्सोऽप्युवाच माम् ॥ १०६८॥
१. ‘भूपतेराज्ञा’ क-ख. २. ‘मुरूपता’ शा०. ३. ‘दया’ शा०. ४, ‘दण्डो’ स्यात्.
५. ‘पर’ स्यात्. ६. ‘सूत’ क-ख, ७. ‘त्पलम्’ क-ख. ८. ‘ततो’ क. ९. ‘भ्युवाच’ क.
अहं विदर्भराजस्य सुदेवस्य यशोनिधिः ।
पुत्रः श्वेत इति ख्यातः सुरथश्च ममानुजः ॥ १०६९ ॥
भुक्त्वा वर्पसहस्राणि राज्यं निहतकण्टकम् ।
अभिषिच्यानुजं काले यातोऽहं तपसे वनम् ॥ १०७० ॥
त्रीणि वर्षसहस्राणि कृत्वाहं कानने तपः ।
यातोऽथ ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥ १०७१ ॥
संजातक्षुत्पिपासेन पृष्टस्तत्राशनं मया ।
ब्रह्मावदत्तवाहारः कायोऽयं पीवरो निजः ॥ १०७२ ॥
आश्रमे न त्वया दत्तं राजन्भोजनमर्थिने ।
शरीरं पूरितं चेदं तद्भक्षय यथारुचि ॥ १०७३ ॥
दत्तमासाद्यते सर्वमदत्तं लभ्यते कुतः ।
भोगबीजमनुप्तं हि कर्मक्षेत्रे न जायते ॥ १०७४ ॥
लोकेऽस्मिन्नित्यतृप्तेऽस्मिन्क्षुधा शुष्यसि भूपते ।
भोजनार्थी क्षुधाक्रान्तो यतिस्ते विमुखो गतः ॥ १०७५ ॥
कालेनाभ्येत्य कारुण्यादगस्त्यस्तपसां निधिः ।
स्वमांसाशनवीभत्सात्कृच्छ्रात्त्वां तारयिष्यति ॥ १०७६ ॥
इत्युक्तोऽहं भगवता स्वयं कमलयोनिना।
इदं पूर्वशरीरं तद्भक्षयामि नवं सदा ॥ १०७७ ॥
सत्त्वं मयाद्य भगवन्दृष्टः किल्विपसंक्षयात् ।
दिव्यं मे प्रतिगृह्येदं भूषणं दुःखमुद्धर ॥ १०७८ ॥
श्रुत्वाहमेतत्तेनोक्तं करुणाकूणिताशयः ।
खेहादकरवं तस्य भूपणानां प्रतिग्रहम् ॥ १०७९ ॥
विनष्टपूर्वदेहोऽथ दिव्येन वपुषान्वितः ।
विमानेन ययौ राजा श्वेतः पुण्यार्जितां दिवम् ॥ १०८० ॥
तदेतद्भूषणं तस्मान्मथा प्राप्तं महीपते ।
खमेवास्योचितं धाम प्रकाशस्येव भास्करः ॥ १०८१ ॥
इति श्वेतोपाख्यानम् ॥ १२ ॥
१. ‘क्त्वैवं का
अगस्त्येनेति कथितं श्रुत्वा रामोऽब्रवीत्पुनः ।
निर्सगं तदनं कस्माद्भगवन्वर्जितं जनैः ॥ १०८२ ॥
कौतुकादिति रामेण पृष्टस्तमवदन्मुनिः ।
इक्ष्वाकोरभवद्दण्डः पुत्रः पुत्रशतानुगः ॥ १०८३ ॥
दुराचारं विदित्वा तं विन्ध्यगह्वरभूमिषु ।
पिता भूमिपतिश्चक्रे निर्जिताशेपभूपतिः ॥ १०८४ ॥
स तन्त्र मधुमत्ताख्यं कृत्वा स्वर्गोपमं पुरम् ।
पुरोहितं चोशनसं प्रजाकार्यरतोऽभवत् ॥ १०८५ ॥
ततः कदाचित्कुसुमोल्लासहासविकासिनि ।
मधौ मधुकरालापविनिवारितसंयमे ॥ १०८६ ॥
बलानिलचलत्फुल्ललताहूतमनोभवे ।
राजा चचार रुचिरे भार्गवाश्रमकानने ॥ १०८७ ॥
तत्र कन्यामसामान्यलावण्यनलिनी नवाम् ।
ददर्श रतिसादृश्यलजया मलिनीकृताम् ॥ १०८८ ॥
शुक्रात्मजां तामरजां राजा राजीवलोचनाम् ।
विलोक्य मन्मथाविष्टो ययाचे रतिसंगमम् ॥ १०८९ ॥
सावदद्गुरुपुत्री ते न गम्याहं महीपते ।
रूपलुब्धः क्षयोत्सङ्गं पतङ्ग इव मा गमः ॥ १०९० ॥
इति ब्रुवाणामरजां राजा रागरजोवृतः ।
उवाच निर्जने लब्धां कथं त्वां त्यक्तुमुत्सहे ॥ १०९१ ॥
जाने त्वां पितुरायत्तां किंतु प्राणपणो मम ।
कार्याकार्यविचारोऽस्ति कस्य जीवितसंशये ॥ १०९२ ॥
सरस्फारानिलोद्भूतं मानसं स्तम्भ्यते कथम् ।
अदभ्रश्वभ्रविभ्रष्टं कः पयो धर्तुमीश्वरः ॥ १०९३ ॥
इत्युक्त्वा तां बलात्कन्यां विधूतकरपङ्कजाम् ।
नलिनीमिव मातङ्गो दूषयित्वा जगाम सः ॥ १०९४ ॥
१.‘चकार’ क-ख. २. ‘लुब्यो’ शा०.
अथाश्रमं समभ्येत्य शुक्रः पुत्रीमधोमुखीम् ।
ददर्श साश्रुनयनामरजां रजसा प्लुताम् ॥ १०९५ ॥
शुक्रशापात्पपाताथ पुरे दण्डस्य भूपते ।
पांशुवृष्टिर्यया दग्धः स सराष्ट्रः क्षयं ययौ ॥ १०९६ ॥
उदभूद्दण्डकारण्यं दण्डशापाज्जनोज्झितम् ।
अरजायाः पदं तत्र पित्रादिप्टमभूत्सरः ॥ १०९७ ॥
इति दण्डशापः ॥४३॥
इत्याश्चर्यकथां श्रुत्या पूजितः कुम्भयोनिना ।
प्रभाते तं समामन्त्र्य राघवः स्वपुरीं ययौ ॥ १०९८ ॥
राजधानीं प्रविश्याथ सभाभवनमेत्य सः ।
रत्नासनस्थितो द्वाःस्थं दिदेशानुजदर्शने ॥ १०९९ ॥
ततः प्रविश्य सोत्कण्ठौ नृपौ भरतलक्ष्मणौ ।
प्रणम्य ब्राह्मणशिशोजीवितावाप्तिमूचतुः ॥ ११०० ॥
तौ कथान्ते रघुपतिर्बभापे यशसां निधिः ।
राजसूयसमारम्भे वर्तते मे मनोरथः ॥ ११०१ ॥
अशेषविजयप्राज्यं राज्यं तदभिधीयते ।
यज्ञोपकरणे यस्मिन्प्रवृद्धा धनसंपदः ॥ ११०२॥
सुकृतोद्यानवल्लीभिः किमेताभिर्विभूतिभिः ।
यशोभिः पुष्पिता दिक्षु राजसूयोज्ज्वलैर्न या ॥ ११०३ ॥
श्रुत्वैतद्भरतो धीमात्राममूचे कृताञ्जलिः ।
अर्हस्त्वमेव भूपाल राजसूयस्य कोऽपरः ॥ ११०४ ॥
यज्ञानां प्रवरश्चासौ भवानिव महीभुजाम् ।
अन्ते तु राजसूयस्य भवत्येव जगत्क्षयः ॥ ११०५ ॥
सोमस्य राज्ञः संपूर्णे राजसूये सुधानिधेः ।
क्षयोऽभूज्ज्योतिषां घोरः संग्रामे तारकामये ॥ ११०६ ॥
वरुणस्यापि निर्वृत्ते तस्मिन्यज्ञे जलौकसाम् ।
दारुणः सर्वलोकानां संहारः संगरेऽभवत् ॥ ११०७ ॥
शतक्रतोरपि पुरा यस्मिन्यज्ञे महीयसि ।
देवासुरमभूयुद्धं चिरं विश्वक्षयक्षमम् ॥ ११०८ ॥
यज्ञान्ते सर्वभूतानां हरिश्चन्द्रस्य भूपतेः ।
बभूवाडीवके युद्धे स्थावराणां च संक्षयः ॥ ११०९ ॥
तस्मात्त्वं पृथिवीपाल सर्वसत्त्वहिते रतः ।
त्रैलोक्यायासदं यज्ञं तं कथं कर्तुमर्हसि ॥ १११०॥
भरतेनेत्यभिहिते प्रशशंस सुह्रन्नृपः ।
अभयं सर्वभूतानां यज्ञः क्रतुशताधिकः ॥ ११११
ततो जगाद सौमित्रिः प्रणतः पृथिवीपतिम् ।
राजसूयसमो राजन्नश्वमेधो महामखः ॥ १११२ ॥
बभूव विश्वविजयी वृत्रो नाम महासुरः ।
शतयोजनविस्तीर्णो घनस्तद्द्विगुणोन्नतः ॥ १११३ ॥
विष्णुनाप्यायतबलस्तं शक्रस्तपसि स्थितम् ।
तदाविष्टेन वज्रेण जघान घनविक्रमम् ॥ १११४ ॥
आलिलिङ्ग ततः शक्रं ब्रह्महत्या पिशाचिका ।
अदृश्यः सर्वभूतानामाक्रान्तः सोऽभवद्यथा ॥ १११५ ॥
ततो विष्णुगिरा देवाः शक्रं किल्बिषशान्तये ।
अश्वमेधे कृतोद्योगास्तं गत्वा चक्रिरे स्फुटम् ॥ १११६ ॥
संपूर्णे विधिवत्तस्मिन्नश्वमेधे शतक्रतोः ।
सुरैश्चतुर्धा विन्यस्ता ब्रह्महत्या मुमोच तम् ॥ १११७ ॥
जलस्थिता विशत्येव सा तत्राशुचिकारणम् ।
वृक्षेषु च स्थिता वृक्षच्छेत्तारं यातु पर्वसु ॥ १११८ ॥
रजस्वलासु नारीषु स्थित्वा विशति तद्गतम् ।
स्थिता चतुर्थेनांशेन सा ब्राह्मणवधे स्वयम् ॥ १११९ ॥
१. ‘द्यया’ स्यात्,
२. चतुर्मास्था पूर्णोदनदीपु इत्यर्थः,
भागैश्चतुर्भिरायातं तस्यां देवैः सुरेश्वरः ।
प्रभावादश्वमेधस्य पुनः स्वपदमाययौ ॥ ११२० ॥
इति वृत्रोपाख्यानम् ॥ १४ ॥
कथितं लक्ष्मणेनैतदाकर्ण्य रघुनन्दनः ।
उवाच हर्षपेयूषं स्मृतकान्त्या सृजन्निव ॥ ११२१ ॥
सत्यमेतद्यदेवोक्तं सुमित्रानन्दन त्वया ।
अश्वमेधसमं लोके विद्यते न हि पावनम् ॥ ११२२ ॥
श्रूयते किल पुत्रोऽभूत्कर्दमस्य प्रजापतेः ।
इडो नाम क्षितिपतिर्बाह्लीकेषु यशोनिधिः ॥ ११२३ ॥
स विश्वविजयो राजा प्रजासंरक्षणव्रतः ।
सोमवत्सर्वभूतानां बभूव प्रियदर्शनः ॥ ११२४ ॥
ततः कदाचित्पुप्पेषुमित्रे चैत्यमहोत्सवे ।
स सैन्यकानने राजा चचार मृगयारसात् ॥ ११२५ ॥
नानाकुसुमसंछन्ननवकाननकौतुकात् ।
स स्कन्दजन्मवसुधां रौक्मं शरवणं ययौ ॥ ११२६ ॥
श्रीकण्ठस्तत्र भगवाञ्शेखरेन्दुप्रभामृतैः ।
जीवयन्निव पुष्पेषु विजहार सतीसखः ॥ ११२७ ॥
स्वैरिणः शासनात्तत्र देवस्य गिरिजापतेः ।
स्त्रीत्वं प्रापुर्गणाः सर्वे खगवृक्षमृगैः सह ॥ ११२८ ॥
सर्वभूतगणे तत्र स्त्रीभूते सचराचरे ।
विललास विलासाङ्कः शशाङ्काभरणो भवः ॥ ११२९ ॥
तं देशं भूपतिः प्राप्य सभृत्यबलवाहनः ।
सहसा विस्मितमयः स्त्रीरूपः समपद्यत ॥ ११३० ॥
स रुद्रशासनं ज्ञात्वा तमेव शरणं गतः ।
उपोपितश्चिरं स्तोत्रजपध्यानरतोऽभवत् ॥ ११३१ ॥
१. स्पृश’ क.
तमुवाच ततो देवः प्रहस्य गिरिजापतिः ।
पुरुषत्वं विना राजन्यदभीष्टं तदुच्यताम् ॥ ११३२ ॥
एतदाकर्ण्य भूपालः किंचिद्भग्नमनोरथः ।
प्रत्याख्यातो भगवता भवानीं शरणं ययौ ॥ ११३३ ॥
मासं भविष्यसि वधूः पुमान्मासं भविष्यसि ।
मासि मासि निजं रूपमतीतं न स्मरिष्यसि ॥ ११३४ ॥
इति देव्या वचः श्रुत्वा स्त्रीभूतैः सहितोऽनुगैः ।
स गत्वान्यवनं दिव्यं ददर्श रुचिरं सरः ॥ ११३५ ॥
तस्येशशासनात्त्यक्ततनोरिव मनोभुवः ।
अभूदुच्चकुचाभोगजघनाभरणं वयुः ॥ ११३६ ॥
सा नूपुररवाकृष्टकलहंसाकुला शनैः ।
चचार सरसस्तीरे श्रीरिवाम्भोरुहोदरात् ॥ ११३७ ॥
ततः सोमसुतः श्रीमान्विपुले तपसि स्थितः ।
बुधो रूपनिधिः कान्तां तामपश्यत्सुलोचनाम् ॥ ११३८ ॥
आताम्रपाणिनलिनां चरणारुणितावनिम् ।
दृष्ट्वा जहर्ष विम्बोष्ठीं स तां रागमयीमिव ॥ ११३९ ॥
ततः स्मरशरासारपातपक्षानिलैरिव ।
न बभूव धृतेः पात्रं बुधः प्रोद्धूतमानसः ॥ ११४० ॥
अथाङ्गना तदनुगाः स जगाद प्रियं वचः ।
किं नार्यः शैलकटके वासोऽस्मिन्नभिधीयते ॥ ११४१ ॥
एष निर्झरझाङ्काररम्यपुष्पफलोचितः ।
देशः किंपुरुषैस्तत्र क्रियतां प्रियसंगमः ॥ ११४२ ॥
इति तस्य गिरा शैलतटे किंपुरुषाश्रिते ।
किं नार्य इति तेनोक्ताः किंनार्यस्ता ययुः स्त्रियः ॥ ११४३ ॥
ततः स तासु यातासु कान्तां तामेत्य सादरः ।
उवाच नवलावण्यपण्यविक्रीतमानसः ॥ ११४४ ॥
आनन्दस्यन्दिनी कान्तिरियं तव सितस्मिते ।
विभाति व्याहता लोके कीर्ति मन्ये मनोभुवः ॥ ११४५ ॥
तस्य कीर्णसुधासिन्धोरिन्दोः शर्वशिरोमणेः ।
स्मरमित्रस्य पुत्रोऽहं वुधः सुभ्रु भजस्व माम् ॥ ११४६ ॥
एतदाकर्ण्य मधुरं सा बुधस्य सुमध्यमा ।
मन्मथेन वशं नीता तथेति प्रत्यपद्यत ॥ ११४७ ॥
सौभाग्यभामिनी तेन रममाणा घनस्तनी ।
सा मेने माधवं मासं नीतं क्षणमिव क्षणात् ॥ ११४८ ॥
मासावसाने शयनादुत्क्षिप्ता सहसैव सा ।
बभूव विस्मृतातीतस्त्रीभावः स महीपतिः ॥ ११४९ ॥
सोऽपृच्छदुधमभ्येत्य राजाहं मृगयारसात् ।
प्रविष्टः कानने सैन्यं न जाने तत्क्व मे गतम् ॥ ११५० ॥
सैन्यहीनः क्व गच्छामि वनेऽस्मिन्निवसाम्यहम् ।
राज्यं ममानुजो वीरः शशिबिन्दुः करिष्यति ॥ ११५१ ॥
इत्युक्ते भूभुजा तेन बुधस्तं प्रत्यभाषत ।
शिलावर्षेण गहने भृत्यास्तत्र निसूदिताः ॥ ११५२ ॥
त्वया सुप्तेन न ज्ञाता भविष्यन्त्यपरेषु नः ।
कंचित्कालं प्रतीक्षस्व वनेऽस्मिन्पूजितो मया ॥ ११५३ ॥
बुधेनेति ब्रुवाणेन स कुर्वन्विबुधाः कथाः ।
मासे प्रयाते कान्तैव साभूद्विस्मृतपौरुषा ॥ ११५४
अथ मासं सिपेवे सा बुधं निधुवनैषिणी ।
मासं च पुरुषो भूत्वा चक्रे पौराणिकाः कथाः ॥ ११५५ ॥
ततः सा नवमे मासि पूर्णे पूर्णेन्दुसुन्दरम् ।
असूत सूर्यसंकाशं पुरूरवसमात्मजम् ॥ ११५६ ॥
तं जातमात्रं निक्षिप्य पुत्रं चन्द्रगृहे बुधः ।
चकार भूपतेश्चिन्तां स्त्रीभावविनिवृत्तये ॥ ११५७ ॥
१. ‘व्याहतां’ स्यात्.
स समानाप्य संवर्तच्यवनप्रमुखान्मुनीन् ।
रुद्रप्रसादनोपाये क्रियां तां तामचिन्तयत् ॥ ११५८ ॥
स्वेच्छागतः पिता राज्ञा कर्दमोऽथ प्रजापतिः ।
तानुवाचाश्वमेधेन तुष्टोऽस्त्येव महेश्वरः ॥ ११५९ ॥
ततो बुधाश्रमे तस्मिन्संपूर्णे नृपतेः ऋतौ ।
तुतोष शर्वस्तद्वाक्यात्पुरुषश्चाभवन्नृपः ॥ ११६० ॥
प्रतिष्ठानपुरे जातस्तत्पुत्रोऽभूत्पुरूरवाः ।
तस्मान्नास्त्यश्वमेधस्य प्रभावे सदृशः क्रतुः ॥ ११६१ ॥
राघवेनेत्यभिहिते हृष्टौ भरतलक्ष्मणौ ।
अश्वमेधसमारम्भे जातोत्कण्ठौ ननन्दतुः ॥ ११६२ ॥
इतीडापुरुषीयम् ॥ ४५ ॥
ततः समाययुः सर्वे मुनयो विनयावनेः ।
यज्ञारम्भे नरपतेर्ब्रह्मलोकाद्दिवो भुवः ॥ ११६३ ॥
उत्सृष्टे लक्ष्मणोदारे हये लक्ष्मणरक्षिते ।
आहूते सारगैर्दूतैः सुग्रीवे सविभीषणे ॥ ११६४ ॥
रामशासनमानेन प्राप्तेष्वखिलराजसु ।
गोमत्यां नैमिषतटे कृते यज्ञनिवेशने ॥ ११६५ ॥
राशिभिर्हेमरत्नानां पूरिते गिरिसंनिभैः ।
पृथक्पृथग्मुनिवरैर्वाटेष्वध्यासितेषु च ॥ ११६६ ॥
अवर्ततातिशक्रस्य राज्ञो यज्ञः सदोचितः ।
नानार्थिसार्थसंपूर्णसर्वाशाकल्पपादपः ॥ ११६७ ॥
सोमं स्वप्नेऽपि नायाति दूरे वरुणशक्रयोः ।
सा श्रीः कुतः कुबेरस्य यज्ञे रामस्य याभवत् ॥ ११६८ ॥
तत्र हेममयी सीता कुशलैः शिल्पिभिः कृता ।
शुशुभे राघवप्रीत्या वनात्स्वयमिवागता ॥ ११६९ ॥
तस्थौ शिष्यर्वृतस्तत्र वाल्मीकिस्तेजसां निधिः ।
द्रष्टुं मुनिसभां प्राप्तः साक्षादिव प्रजापतिः ॥ ११७० ॥
मुनेस्तस्याज्ञया तत्र कुमारौ कान्तविग्रहौ ।
गन्धर्वाविव लोकेषु श्रवणामृतवर्षिणौ ॥ ११७१ ॥
गातुं रामयशः प्राप्तौ कैलासादिव किंनरौ ।
मूर्तौ पुष्पाकरस्येव मासौ षट्पदनादितौ ॥ ११७२ ॥
वीणावेणुस्वनेनैव मीलितं मूर्छनाजुषा ।
कलकण्ठौ कुशलवौ रामायणमगायताम् ॥ ११७३ ॥
उद्गीतश्रवणाश्चर्यविस्मयालोलमौलयः ।
क्षीबा इवाभवन्सर्वे पूर्णमानानना जनाः ॥ ११७४ ॥
राघवः सानुजो भूपा मुनयः कपिराक्षसाः ।
चित्रन्यस्ता इव बभुः काव्ये गीते च विस्मिताः ॥ ११७५ ॥
तौ वीक्ष्य विस्मयालोललोके सदसि सर्वतः ।
बभूवानन्दसंकल्पमयो जल्पः परस्परम् ॥ ११७६ ॥
अहो गीतगहो काव्यमहो रूपं कुमारयोः।
न विनस्त्रिदिवे ब्रह्मभुवने वा ययोर्यथा ॥ ११७७ ॥
रामस्य सदृशावेतौ दर्पणे विम्बिता इव ।
जटावल्कलमात्रेण वैलक्षण्यमुपागतौ ॥ ११७८ ॥
रामस्य तनयावेव यदि विद्याधराविमौ ।
तत्किं विद्याधरोत्सङ्गे श्रुतोऽस्माभिर्न भूपतेः ॥ ११७९ ॥
इति तेषां कथयतां रामस्य चरितं सदा ।
कर्मान्तरेषु यज्ञेषु सर्गबन्धमगायताम् ॥ ११८० ॥
न तौ जगृहतुर्दत्तं बहु हेम महीभुजा ।
धने पतति न स्निग्धा दृष्टिरुन्नतजन्मनाम् ॥ ११८१ ॥
केनेदं विहितं काव्यमिति पृष्टौ महीभुजा ।
वाल्मीकिना कृतमिति प्रणतौ तौ तमूचतुः ॥ ११८२ ॥
ततस्तौ तनयौ ज्ञात्वा चक्षुपा हृदयेन च ।
राघवः साश्रुनयनः प्रोवाच दयितां स्मरन् ॥ ११८३ ॥
हनुमत्प्रमुखाः सर्वे वाल्मीकिं तपसां निधिम् ।
विज्ञापयन्तु वचसा मम निर्घृणचेतसः ॥ ११८४ ॥
निर्दोषां भगवञ्जाने जानकीं जनसंभवात् ।
अपवादान्मया त्यक्ता कीर्तिलुब्धेन केवलम् ॥ ११८५ ॥
सा ते सदसि पूर्णेऽस्मिन्नेकीभूते जगन्मये ।
करोतु शपथं सीता प्रत्ययं यात्वयं जनः ॥ ११८६ ॥
वचनं राघवस्यैतद्वाल्मीकेस्ते न्यवेदयन् ।
वाल्मीकिरपि तत्सर्वं तथेति प्रत्यपद्यत ॥ ११८७ ॥
ततः प्राप्ते मुनिमये व्याप्ते सदसि राजभिः ।
जानक्याः शपथं द्रष्टुमेकीभूतोऽभवज्जनः ॥ ११८८ ॥
अदृश्यत ततः सीता सास्त्रा किंचिदधोमुखी ।
सरस्वतीव ब्रह्माणं वाल्मीकिमनुगामिनी ॥ ११८९ ॥
ह्रिया मुहुः करोत्सृष्टकषायायतलोचना ।
दृष्ट्वा हेममयीं पत्नीमिव संजातमत्सरा ॥ ११९० ॥
पूज्यमाना मुनिवरैरिक्ष्वाकुकुलपावनी ।
भूभृत्समागमे तस्मिन्गङ्गेवाकुलतां गता ॥ ११९१ ॥
ततो हालाहलाशब्दस्तां दृष्ट्वा सासुलोचनाम् ।
बभूव सर्वभूतानां साधुवादपुरःसरः ॥ ११९२ ॥
जनमध्यमथासाद्य वाल्मीकिरवदन्मुनिः।
इयं सीता सती राम प्रत्ययं गन्तुमागता ।
नभस्तटीव पङ्केन लिप्ता वितथवादिभिः ॥ ११९३ ॥
यदि राम महीपाल मुनयो मुनयो वयम् ।
असत्यं यदि नास्मासु तत्सीता शीलशालिनी ॥ ११९४ ॥
इमौ ते तनयौ राम कामपुष्पाकराविव ।
मनस्तत्रैव नेत्रे च वयं धर्मश्च साक्षिणः ॥ ११९५ ॥
इत्युक्ते मुनिना तत्र कृतासनपरिग्रहे ।
१. ‘न्मुनये’ शा..
देवगन्धर्वसिद्धानां बभूव गगने रवः ॥ ११९६ ॥
ततो जगाद काकुत्स्थः शृण्वतां सर्वदेहिनाम् ।
जानाम्यपापां वैदेहीं जानामि यमजौ सुतौ ॥ ११९७ ॥
न ममाप्रत्ययो देव्या मनोवृत्तिरिवात्मनः ।
करोतु शपथं सीता जनवादः प्रमृज्यताम् ॥ ११९८ ॥
कुले जन्म यशः शुभ्रं कुलमानोन्नतं मनः ।
अपवादभयान्नित्यं हृदये शोकशङ्कवः ॥ ११९९ ॥
इत्युक्ते रघुनाथेन जानकी रचिताञ्जलिः ।
उवाचाधोमुखी हर्षं वीक्ष्यमाने(णे)व हारितम् ॥ १२००!!
यथा मे राघवादन्यो न संकल्पेन दैवतम् ।
तेन सत्येन विवरं भूतधात्री ददातु मे॥ १२०१ ॥
मनोनयनवाक्चेष्टास्वप्नैरव्यभिचारिणी।
यद्यहं रघुनाथस्य तन्मे रन्ध्रं ददातु भूः ॥ १२०२ ॥
इत्युक्ते रधुनाथस्य पत्न्या तूर्ण महीतलात् ।
उदतिष्ठद्धृतं मूर्ध्ना भुजगैः काञ्चनासनम् ॥ १२०३ ॥
उपविष्टा ततस्तस्मिन्वसुधा सर्वसाक्षिणी ।
आदाय पाणिना सीतां पातालमविशत्पुनः ॥ १२०४ ॥
अदर्शनं प्रयातायां तस्यां सर्वे सभास्थिताः ।
बभूवुर्मोहविवशाः पुष्पवृष्टिः पपात च ॥ १२०५ ॥
इति वसुधाप्रवेशः ॥ ४६॥
अथ दुःखाग्निसंतप्तः काकुत्स्थः साश्रुलोचनः ।
शून्यं जगन्मन्यमानस्तनुहीन इवाभवत् ॥ १२०६ ॥
स कोपादवदद्देवी मही सीतां प्रयच्छतु ।
श्वश्रूर्ममैषा न रुपा जीवितं हन्तुमर्हति ॥ १२०७ ॥
ममापि विवरं भूमिर्ददातु दयितार्थिनः ।
पत्नीं वा भूमिरहितं करोमि जगदन्यथा ॥ १२०८ ॥
इत्युक्त्वा धनुषि क्रोधाद्वाणेषु च ददौ दृशम् ।
वसुधाभेदसंनद्धं ब्रह्मा तमवदद्दिवः ॥ १२०९ ॥
न कर्तुमर्हसि वृथा संतापं रघुनन्दन ।
भवं स्मरस्व वक्तुं मे न युक्तं जनसंनिधौ ॥ १२१० ॥
इत्युक्त्वान्तर्हिते व्योम्नि सह देवैः प्रजासृजि ।
भूतलादुद्गता वाणी प्रोच्चचाराशरीरिणी ॥ १२११॥
श्रमं मिथ्यैव काकुत्स्थ मा कृथा मैथिलीकृते ।
आयासः केवलं मुला गगनग्रहणग्रहः ॥ १२१२ ॥
सा पितॄणां स्वधा नित्यं सुधा तृप्तिर्दिवौकसाम् ।
विष्णोर्वक्षसि सा लक्ष्मीः सिद्धानां मूर्ध्नि सा स्थिता॥१२१३॥
तद्दर्शनरसः कोऽपि यदि ते न निवर्तते ।
तदेतौ तद्वपुर्जातौ पुत्रौ पश्यामृतोपमौ ॥ १२१४ ॥
एतदाकर्ण्य नृपतिर्वीरः संस्तम्भ्य विक्रमम् ।
पुत्रौ गृहीत्वा यज्ञान्ते हेमपूर्णा महीं ददौ ॥ १२१५ ॥
पुनर्यज्ञशतैरिष्ट्वा दत्त्वा च विपुलं वसु ।
प्रशान्तोपप्लवे राज्ये स रराज जनेश्वरः ॥ १२१६ ॥
इत्यश्वमेधः ॥ ४७ ॥
अथ रामाज्ञया गत्वा भरतो मातुलान्तिकम् ।
गन्धर्वनगरे वीरान्गन्धर्यान्युधि दुर्मदान् ॥ १२.१७ ॥
त्रिकोटिसंख्यानुन्मथ्य कालास्त्रेण प्रमाथिना।
गान्धारविषयं चक्रे नगरीभ्यां विभूषितम् ॥ १२१८ ॥
भरतस्तत्र विदधे स्वपुत्रौ तक्षपुष्कलौ ।
तयोः पुर्योर्महीपालौ कृत्वा च स्वपुरीं ययौ ॥ १२१९ ॥
प्राप्य तक्षशिलां तक्षः पुष्करः पुष्करावतीम् ।
इक्ष्वाकुकुलतुल्येन यशसा तौ विरेजतुः ॥ १२२० ॥
इति गान्धारविषयः ॥ १८ ॥
१. ‘भावं’ शा०. २. ‘पुष्टया’ क-ख.
ततः पुरीद्वयं रामश्चक्रे लक्ष्मणपुत्रयोः ।
अङ्गदस्य च वीरस्य चन्द्रकेतोश्च भूपतेः ॥ १२२१ ॥
अङ्गदस्याङ्गदीयाख्या साभूद्भूमिपतेः पुरी।
चन्द्रवत्यभिधा चन्द्रकेतोरप्यपराभवत् ॥ १२२२ ॥
इति लक्ष्मणपुत्राभिपेकः ॥ ४९ ॥
ततः कदाचिदभ्येत्य कालस्तापसविग्रहः ।
विवेश वेश्म रामस्य लक्ष्मणेन निवेदितः ॥ १२२३ ॥
रामेण पूजितः सोऽथ कृतासनपरिग्रहः ।
अवदन्निर्जने किंचिद्वक्तुकामोऽस्मि भूपते ॥ १२२४ ॥
अस्मिन्यः प्रविशेन्मन्त्रे स वध्य इति संविदा ।
लक्ष्मणेनेत्यभिहिते तयोः स्वैरमभूत्कथा ॥ १२२५ ॥
ततो जगाद भूपालं तपसा प्रश्रयात्पुनः ।
विसृष्टोऽहं भगवता स्वयं कमलजन्मना ॥ १२२६ ॥
यः स ते नाभिजाज्जातः पद्मनाभसरोरुहात् ।
कृतकृत्यं जगत्कार्ये त्वामाह स चतुर्मुखः ॥ १२२७ ॥
कैटभारे जगद्भारं हरता रक्षितं त्वया ।
विलुण्ठ्यमानं रक्षोभिर्देवानां विशदं यशः ॥ १२२८ ॥
एकादशसहस्राणि वर्षाणां राज्यमूर्जितम् ।
कृतं तद्वैष्णवं धाम निजमासाद्यते न किम् ॥ १२२९ ॥
शक्तिर्विश्वपरित्राणे विश्वनिर्माणशालिनी ।
सुरकार्यैकनिरता न त्वया रहितस्य मे ॥ १२३० ॥
प्रजापतेरिति वचस्तुभ्यमावेदितं मया ।
कालोऽहं पूर्वतनयस्तव मायासमुद्भवः ॥ १२३१ ॥
एतत्कालवचः श्रुत्वा प्रहस्योवाच राघवः ।
यदाहं भगवान्ब्रह्मा पुत्र सर्व करोमि तत् ॥ १२३२ ॥
इति कालवाक्यम् ॥ ५० ॥
एवं तयोः कथयतोर्दुर्वासाः कोपनो मुनिः ।
अभ्येत्य भूपतिर्द्वारं तूर्ण लक्ष्मणमभ्यधात् ॥ १२३३ ॥
राघवं द्रष्टुमिच्छामि कार्यमात्यन्तिकं मम ।
श्रुत्वैतदूचे सौमित्रिर्व्यग्रः क्षितिपतिर्मुने ॥ १२३४ ॥
भवान्मुहूर्तं क्षमतामित्युक्ते लक्ष्मणेन सः ।
उवाचादर्शने राज्ञः पुरं सर्व दहाम्यहम् ॥ १२३५ ॥
एतदाकर्ण्य सौमित्रिर्निश्चित्यात्मवधं धिया ।
मुनेरागमनं तूर्णे काकुत्स्थाय न्यवेदयत् ॥ १२३६ ॥
विसृज्य कालं भूपालस्तं ददर्शादरान्मुनिम् ।
पूजितस्तेन विधिना स मुनिस्तमभाषत ॥ १२३७ ॥
सहस्रं राम वर्षाणां प्रयातं भोजनस्य मे।
तूर्ण त्वत्तस्तदिच्छामि यथायुक्तं विधीयताम् ॥ १२३८ ॥
उक्त्वेत्यत्रिसुतः सिद्धमुपनीतं महीभुजा ।
पवित्रमन्नं भुक्त्वैव जगामाभिमतां दिशम् ॥ १२३९ ॥
ततः सौमित्रिमालोक्य दुःखसंतप्तमानसः ।
क्षणं रघुपतिर्दैन्यान्नोचे किंचिदवाङ्मुखः ॥ १२४० ॥
तं लक्ष्मणोऽवदद्देव प्रतिज्ञां मा वृथा कृथाः ।’
जहि मां स्नेहमुत्सृज्य लोके सत्यत्रतो ह्यसि ॥ १२४१ ॥
स्नेहानुबद्धो मिथ्यैव सर्वत्रायं शरीरिणाम् ।
एवंरूपैव कालस्य निःसारतरला गतिः ॥ १२४२ ॥
लक्ष्मणेनेत्यभिहिते वसिष्ठप्रमुखैर्नृपः ।
विचार्य सत्यसंदेहं(१) सास्रुस्तत्याज लक्ष्मणम् ॥ १२४३ ॥
लक्ष्मणः सरयूं गत्वा निरुद्धसकलेन्द्रियः ।
चिन्तयद्वैष्णवं धाम निरुच्छ्वासोऽभवत्क्षणात् ॥ १२४४ ॥
तं गृहीत्वा स्वयं शक्रः सानुगस्त्रिदिवं ययौ ।
रामोऽपि तद्विरहितः शून्या मेने दिशो दश ॥ १२४५ ॥
इति लक्ष्मणत्यागः ॥ ५१॥
अथ निश्चित्य मुनिमिर्महाप्रस्थानमात्मनः ।
रामः कुशं कुशावत्यां तनयं विदधे नृपम् ॥ १२४६ ॥
अभिषिच्य लवं धीरः श्रावस्त्यां वसुधाधिपम् ।
शत्रुघ्नं शीघ्रगैर्दूतैरानिनाय सहानुगम् ॥ १२४७ ॥
सुबाहुः शत्रुघाती च शत्रुघ्नतनयौ नृपौ ।
बभूवतुः पितुर्वाक्यान्मथुराविदिशाधिपौ ॥ १२४८ ॥
नृपस्ततः समादाय काषायवसनं व्रतम् ।
उवाचानुव्रतारम्भौ वायुपुत्रविभीषणौ ॥ १२४९ ॥
पृथिव्यां प्रथिता यावन्मकथा विचरिष्यति ।
युवयोर्यशसा सार्ध तावदायुर्भविष्यति ॥ १२५० ॥
इत्युक्त्वा राघवः सास्रुः प्रणयाद्विनिवर्त्य तौ।
मौनी कुशान्समादाय निर्ययौ गलितग्रहः ॥ १२५१ ॥
सव्ये पार्श्वे बभूवास्य मूर्ता भूः श्रीश्च दक्षिणे ।
वेदाः सर्वे द्विजाकाराः सावित्री च स्वरूपिणी ॥ १२५२ ॥
ओंकारोऽथ वषट्कारो मुनयः कुलभूधराः ।
सान्तःपुराः प्रकृतयः पौरजानपदैः सह ॥ १२५३ ॥
सुग्रीवप्रमुखास्तेऽपि कृतकृत्याः प्लवंगमाः ।
अनुजग्मुः प्रजानाथ भूतैः सह चराचरैः ॥ १२५४ ॥
सरयूपुलिनं प्राप्ते शनै राम प्रजापतिः ।
अदृश्यत सुरैः सार्ध विमानोद्भासिताम्बरैः ॥ १२५५ ॥
सोऽब्रवीद्भूपते दिष्ट्या पदं प्राप्तोऽसि शाश्वतम् ।
भगवन्प्रविश व्यक्तां स्वाधीनां वैष्णवीं तनुम् ॥ १२५६ ॥
इत्युक्ते ब्रह्मणा समो वैष्णवीं तनुमाश्रितः ।
तमभाषत कल्प्यन्तां लोका मदनुयायिनः ॥ १२५७ ॥
ततः संतानका नाम लोका ब्रह्मविनिर्मिताः।
बभूवुः सर्वभूतानां रघुनाथानुगामिनाम् ॥ १२५८ ॥
१. ‘याचिनाम्’ शा.
रामे स्वपदमारूढे ते जनाः सरयूजले ।
त्यक्तमोहाः प्रभालोलैर्विमानैस्त्रिदिवं ययुः ॥ १२५९ ॥
सुग्रीवप्रमुखाः सर्वे त्रिदशांशाः प्लवङ्गमाः ।
तां तां मूर्तिं समाश्रित्य स्वं स्वं धाम प्रपेदिरे ॥ १२६० ॥
शून्या वर्षशतान्यासीदयोध्या रामवर्जिता ।
न यावदृषभो नाम बभूव भुवि भूपतिः ॥ १२६१ ॥
कर्णे कृताश्च हृदये निहिताश्च सद्भि-
र्मूर्ध्ना धृताश्च मणयो रुचिरा इवैते ।
रामस्य चारुचरितामृतदुग्धसिन्धो-
रानन्दचन्द्रजनकस्य गुणा जयन्ति ॥ १२६२ ॥
इति दुरितविरामः कीर्तिकान्ताभिरामः
सुजनहृदयरामः कोऽप्यभूद्यः स रामः ।
प्रकृतमनुसरामः पापपाशं तरामः
सुकृतभुवि चरामस्तस्य नाम स्मरामः ॥ १२६३ ॥
इति स्वर्गारोहणम् ॥ ५२ ॥
इति क्षेमेन्द्रविरचिते रामायणकथासारे उत्तरकाण्डः समाप्तः ।