०६ युद्धकाण्डः

१. ‘मनस्विनः’ शा०. २.‘याम’ शा०,

३. ‘मुहुः’ शा.

अस्सिन्नवसरे वृद्धा जननी रक्षसां प्रभोः ।
उवाच धीमतां धुर्यं पुत्रं निशि विभीषणम् ॥ १ ॥
विचित्य निखिला लङ्कां रावणातङ्ककारिणा ।
तेन वानरवीरेण दृष्टा राघववल्लभा ॥२॥
जनापवादमूलोऽयं राज्ञः किल्विषपल्लवः ।
प्रत्यासन्नफलप्रायः प्रौढो दुर्नयपादपः ॥ ३ ॥
शत्रुसंतोषजननी मुहृदुःखविधायिनी ।
अधर्मकर्मणि मतिर्भूभुजां क्षयदूतिका ॥ ४ ॥
निःशङ्कं पातकं कृत्वा रमते विभवेषु यः ।
पीत्वा हालाहलं घोरं मालाकण्ठः स नृत्यति ॥ ५ ॥
शुचिशीलदुकूलिन्यो यशश्चन्दनचर्चिताः ।
गुणरक्ताः सतां सत्यं प्रभावाभरणः श्रियः ॥ ६॥
त्यजन्ति मूर्खं दुर्वृत्तं धर्महीनं प्रमादिनम् ।
गुणवर्गानुसारिण्यः स्वभावेन विभूतयः ॥ ७ ॥
दोषासक्तिर्गुणद्वेषः श्रीविनाशस्य लक्षणम् ।
पतिष्यतां मतिः प्रायः किल्विपाभिनिवेशिनी ॥ ८ ॥
सीतामिह स्थितां ज्ञात्वा व्यक्तं तस्य कपेर्गिरा।
रामः करिष्यति शरैः क्षणाक्षोणीमराक्षसाम् ॥ ९ ॥
स्वरदूपणसंहारकारिणस्तस्य विक्रमम् ।
रक्षःकङ्कालमालिन्यो वदन्ति वनभूमयः ॥ १० ॥
प्रौढः प्रतापो रामस्य रावणस्य च दुर्नयः ।
सर्वथायं प्रवृत्तोऽग्निः शुष्केन्धनसमागमः ॥ ११ ॥
पश्य विद्वेपिणो राज्ञो मन्त्रतन्त्राभिवर्तिनः ।
व्याधयो दुर्वलस्येव निधनायैव शत्रवः ॥ १२ ॥
निपात्यते सुखेनैव शत्रुभिर्व्यसनी जनः ।
कल्लोलिनीकूलजलैश्छिन्नमूल इव द्रुमः ॥ १३ ॥


१. ‘नित्यं शा

विचिन्त्य राघवं पुत्र महन्मे जायते भयम् ।
दारापहारकुपितं कथमुत्सहते युधि ॥ १४ ॥
कालं व्यालं गले कृत्वा धृत्वा मूर्त्ं हुताशनम् ।
दंष्ट्रामाक्रम्य सिंहस्य मूढः शेते दशाननः ॥ १५ ॥
पौलस्त्यस्य प्ररूढोऽयं विनाशविषपादपः ।
स लङ्काज्वलनो यस्य नवः किसलयोद्गमः ॥ १६ ॥
वात्सल्यं यदि ते भ्रातुस्तद्गत्वा ब्रूहि तं हितम् ।
श्रियं सहायुषा येन संत्यजन्नोन्नतोन्नताम् ॥ १७ ॥
इत्युक्त्वा राक्षसेन्द्रस्य युक्तं माता विभीषणम् ।
विरराम चिरं ध्यात्वा दुःसहं रामविक्रमम् ॥ १८ ॥
इति विभीषणमातृवाक्यम् ॥ १॥

ततः प्रभाते विस्फाररत्नादिशिखरोपमम् ।
ययौ विभीषणस्तूर्णं दशकंधरमन्दिरम् ॥ १९ ॥
स प्रविश्य सभासीनं महामात्यैः समावृतम् ।
ददर्श तेजसां राशिं शेखरं त्रिदशद्विषाम् ॥ २० ॥
सुरकिंनरगन्धर्वनिषेधप्रभविष्णुभिः ।
वेत्रिभिर्भ्रूसमुत्क्षेपनिवारितजनस्वनम् ॥ २१ ॥
रूढवज्रशिखोल्लेखगण्डस्थगितकुण्डलम् ।
प्रणताननुगृह्णन्तं सामन्तानवलोकनैः ॥ २२ ॥
त्यक्तालका कुबेरेण चिरशून्यामरावती ।
ध्वस्तपातालमित्यादिसंदेशे श्रवणोत्सुकम् ॥ २३ ॥
तापं संहर तिग्मांशो नीचैर्गच्छ समीरण ।
मौनी भवाग्रे त्वमिति प्रोद्गताग्रेसरस्व नः ॥ २४ ॥
वक्षःप्रकारगम्भीरतन्भसंभारदोर्द्रुमम् ।
अधृष्यं सर्वभूतानां कारागारमिव श्रियः ॥ २५ ॥


१. ‘मूर्ध्नि’ शा.. २. ‘मात्वशतैर्वृतम् शा.. ३. ‘स्खलित’ क-स,

लङ्केश्वरं समालोक्य रत्नाभरणभास्वरम् ।
सुरस्त्रीचामरोल्लासविलाप्तोल्लुलितांशुकम् ॥ २६ ॥
प्रणम्य सूचिता भिक्षा प्रणयेन विभीषणः ।
भेजे तद्भ्रूविनिर्दिष्टं प्रीतिशासनमासनम् ॥ २७ ॥
निवातसुप्तजलधिप्रभे निःशब्दनिश्चले।
तस्मिन्सदसि गम्भीरे प्रगल्भः सोऽभ्यधात्प्रभुम् ॥ २८ ॥
इयं सुरासुरादेशजययात्रोत्सवाशिषाम् ।
भाजनं भवतो लक्ष्मीरक्षीणोत्साहलक्षणा ॥ २९ ॥
इयती भूमिमारूढा संपत्संपन्नपौरुपा ।
लज्जैषा महती याति यदि दुर्नयवाच्यताम् ॥ ३० ॥
विभूतिरयशःस्पृष्टा शिष्टाचारोज्झिता मतिः ।
चेप्टासाधुजनानिष्टा न भवत्युन्नतात्मनाम् ॥ ३१ ॥
सुरासुरशिरोरत्नमालाललितशासनः ।
प्रभावो विभवोद्गारः कस्यान्यस्य यथा तव ॥ ३२ ॥
गुणमानकुलाचारप्रभावविनयादयः ।
निपतन्त्युन्नतिं याता रूक्षास्तस्माद्विशेषतः ॥ ३३ ॥
इयं श्रीनिरनुक्रोशा वेश्येयं बहुगामिनी ।
सरागविमुखी नित्यं व्यसनिभ्यः पलायते ॥ ३४ ॥
राजन्घोराणि दृश्यन्ते निमित्तानि गृहेपु नः ।
यदैव रामस्य वधूः प्रविष्टा दुःखदूतिका ॥ ३५ ॥
अग्निहोत्रे न भात्यग्निर्हविः क्रिमिकुलाकुलम् ।
गजाश्वसंप्रहृष्टं च लङ्का क्रव्यादनादिता ॥ ३६ ॥
तदेषां दुर्निमित्तानां प्रायश्चित्तमिद परम् ।
यदेषा त्यज्यते तूर्णं काकुत्स्थायैव मैथिली ॥ ३७ ॥
इति भ्रातुर्वचः श्रुत्वा मुखान्यालोक्य मन्त्रिणाम् ।
निजगाद दशग्रीवः कोपजिह्मानताननः ॥ ३८॥

भवद्भुजवलाधीना मम विश्वजयश्रियः ।
मन्त्रतन्त्रानपेक्षिण्यः परां प्रौढिमुपागताः ॥ ३९ ॥
यत्स्वजात्युचितं तेन कपिना चापलं कृतम् ।
तस्य मानावलेपस्य मन्मन्त्रोपगमः क्षमः ॥ ४० ॥
क्व गतः प्लवगो जीवन्कृत्वा लङ्कापराभवम् ।
येनायमवकाशोऽस्य मन्त्रस्य विवृतः पुरः ॥ ४१॥
अधमस्योचिता शत्रोर्नोपेक्षा न प्रतिक्रिया ।
तस्मात्संदेहदोलायां मन्त्रस्यैव प्रयोजनम् ॥ ४२ ॥
श्रेयान्मन्त्रो मतिष्वैक्यं मध्यमोऽप्यन्तरं गतः ।
विवादद्वेषविक्लिष्टो मन्त्रः क्लेशफलोऽधमः ॥ ४३ ॥
व्यसनी तापसोऽस्माकं चिन्तास्थानं न राघवः ।
न मे तद्विक्रमे चिन्ता तपस्तस्य तु चिन्त्यताम् ॥ ४४ ॥
इति राक्षसराजेन निर्दिष्टे मन्त्रिमण्डले ।
ऊचे प्रहस्तः संचिन्त्य प्रणतः पृतनापतिः ॥ ४५ ॥
देव देववधूव्यस्तवियोगस्य तव स्तवः ।
गतो गतार्थतां विश्वविजयश्च नवो नवः ॥ ४६॥
कुञ्जरारेर्मृगाघाते संरम्भः कोपयुज्यते ।
न मन्त्रः क्रियते कश्चित्सहस्रांशोस्तमःक्षये ॥ ४७ ॥
चिन्ताशान्तिपरा नित्यं मन्त्रैर्मन्दपराक्रमाः ।
शुष्यन्ति सिद्धिमेषां तु विधत्ते विधिरन्यथा ॥ १८ ॥
विक्रमोत्साहशीलानां सर्वत्राभग्नतेजसाम् ।
स्पष्टता स्वयमायान्ति पन्थानः कुटिला अपि ॥ १९ ॥
त्वत्रतापहतैश्चर्ये सहसैव शतक्रतौ ।
लजां बृहस्पतिर्धत्ते स्वनयग्रन्थभारिकः ॥ ५० ॥


१. ‘पक्रमः’ शा०. २. ‘न्यत्त’ शा०. ३. ‘लनान्वितः स वनेषु नचोऽति भारवा. हक: ख-शा..

पदच्युतः फलाहारस्तापसः काननाश्रयः ।
कस्य शङ्कास्पदं नाम रामः परिमिताशयः ॥ ५१ ॥
सुग्रीवप्रमुखैः सार्धं यदि रामः समेष्यति ।
का क्षतिर्नः कपिशिरःफलैः क्रीडा भविष्यति ॥ ५२ ॥
साम साधुषु योक्तव्यं दानं लुब्धजनोचितम् ।
भेदो हि शङ्किषु श्रेयान्दण्डस्तब्धेषु भेषजम् ॥ ५३ ॥
छिन्नं हनुमता साम दानं नीचेषु नोचितम् ।
क्व भेदो निःसहायस्य दण्डार्हा राघवः परम्!! ५४ ॥
दुर्बलेन पुनश्छिन्नं साम रामेण सर्वदा ।
बलिनोऽपि वयं कस्मान्नीचदर्पं सहामहे ॥ ५५ ॥
प्रस्तुतो यदि रामस्य न दौरात्म्यात्परिक्षयः ।
तत्कथं तद्विधो दूतस्त्वद्विधेषु विसृज्यते ॥ ५६ ॥
इयं सरलता राजन्यमयोऽपि विचिन्त्यते ।
उपायाः क्वोपयुज्यन्ते भोगभोक्तसमागमे ॥ ५७ ॥
प्रहस्तेनेति कथिते वज्रदंष्ट्रपुरोगमाः ।
दर्पान्धाः प्रवरामात्या दशकंधरमूचिरे ॥ ५८ ॥
मन्त्रारम्भोऽयमस्थाने किमर्थं क्रियते वृथा ।
नोचिता रिपुचर्चापि वानरेप्यल्पकेषु नः ॥ ५९ ॥
देव कैलासकूटेपु विवुधार्यजयोर्जितम् ।
रथचक्रसमुल्लेखैर्लिखितं भवताशयः ॥ ६० ॥
मयेन मायानिधिना दानवेन्द्रेण ते भयात् ।
निजकन्याच्छलेनैव मूर्ता शक्तिरिवार्पिता ॥ ६१ ॥
पुराणि लोकपालानां भग्नोद्यानगृहाणि यत् ।
त्वदाज्ञाध्वजपट्टस्य तद्भ्रुक्षेपस्य चेष्टितम् ॥ १२ ॥
इति दर्पाद्रुवाणेपु महामात्येपु रावणः ।
क्रोधाध्मातो महापार्श्वः श्वसन्नाग इवाभ्यधात् ॥ ६३ ॥

असमानजने साम कृपया यदि युज्यते ।
तत्सौजन्यं जनो जातु भयमेवाभिमन्यते ॥ ६४ ॥
मनुष्यस्य वधे देव चिन्तास्माकं न शोभते ।
न जम्बुकवधे सिंहः स्वप्नेऽपि कुरुते मतिम् ॥ ६५ ॥
अधुना स्वस्ति मन्त्राय मन्त्रिभ्यश्चायमञ्जलिः ।
भृत्यलेशाज्ञया तूर्णं क्रियतां वानरक्षयः ॥ ६६ ॥
सरामलक्ष्मणस्यास्य कपिसैन्यस्य भक्षणम् ।
मह्यं भृत्याय भवता प्रमाणीक्रियतां विभो ॥ ६७ ॥
इति ब्रुवाणे दर्पान्धे महापार्श्वे मदोदरः ।
कोपात्तद्वाक्यमाक्षिप्य जगाद जगतां रिपुः ॥ ६८ ॥
पतङ्गपुत्तिकादंशपिपीलकसरीसृपाः ।
वानरा वा कथं नाम शङ्कास्थानं भवादृशाम् ॥ ६९ ॥
पराभवास्पदं कस्माद्वयं निर्जितनिर्जराः ।
वनेषु लुब्धकैर्वध्या बलिनः केन वानराः ॥ ७० ॥
मनोरथविकल्पानां स्वच्छन्दा कियती गतिः ।
यैस्तृणीक्रियते मेरुर्मेरुतां नीयते तृणम् ॥ ७१ ॥
नूनं देव न जानीषे प्रभावं वयमात्मनः ।
परमात्मा जगद्व्यापी खस्वभावमिवेश्वरः ॥ ७२ ॥
अपर्याप्ता हरिचमूः सालतालशिलायुधा ।
कुक्षिकोणैकदेशेऽपि पर्याप्तं न हि भोजनम् ॥ ७३ ॥
मद्दंष्ट्रायन्त्रसंघट्टनिप्पिष्टाः प्लवगा मिथः ।
एकीभूता इव प्रीत्या यान्तु प्रेतपतेः पुरीम् ॥ ७४ ॥
इति तेषां वचः श्रुत्वा राक्षसानाममर्षिणाम् ।
बभाषे भीषणं भ्रातुर्नाशं ज्ञात्वा विभीषणः ॥ ७९ ॥
प्रमादमदमत्तानां श्वभ्रे निपततां बलात् ।
मृणालतन्तुना केन क्रियते गतिसंयमः ॥ ७६ ॥


१. ‘मेन’ शा. २’मिषः’शा..

आश्चर्यनिधये मायाविधये विधये नमः ।
चिन्त्यमानोऽपि यः क्षिप्रं विदुषामपि वञ्चकः ॥ ७७ ॥
छन्दानुगास्तव प्रायः प्रियाः स्वच्छन्दवादिनः।
प्रियं वदन्ति न हितं यदेतेऽप्यत्र मन्त्रिणः ॥ ७८ ॥
नमोऽस्तु प्रियवादिभ्यो धूर्तेभ्यः स्वामिनां पुरः ।
ये पथ्यं कटुकं वक्तुं स्वप्नेष्वपि न शिक्षिताः ॥ ७९ ॥
अमुष्मिन्विभवोद्याने शीर्णे तिष्ठन्ति न क्वचित् ।
लक्ष्मीलताषट्चरणा धूर्ता मधुरवादिनः ॥ ८० ॥
ऐश्वर्यं यदि रक्ष्यं चेत्प्रियं यदि च जीवितम् ।
तत्स्वयं त्यज्यतां तूर्णं काकुत्स्थायैव मैथिली ॥ ८१ ॥
कथाशेपोत्सवा यावन्न लङ्का शून्यतां गता ।
रामायैव स्वयं तावद्दीयतां देव मैथिली ॥ ८२ ॥
अप्रमादी महोत्साहः स्थितः सद्धर्मवर्तमनि ।
न रामः संयुगे जेतुं शक्यः सर्वैः सुरासुरैः ॥ ८३ ॥
अपरित्यक्तशीलानां शूराणामप्रमादिनाम् ।
सत्यव्रतानां धीराणां जयश्रीरपराङ्मुखी ॥ ८४ ॥
गुणानुरागी लोकोऽयं प्रतिष्ठा लोकसंभवा ।
प्रतिष्ठा यशसो मूलं यशोलुब्धा विभूतयः ॥ ८५ ॥
नयानुयायिनी लक्ष्मीरप्रमादोदयो जयः ।
प्रभावप्रभवा शक्तिर्गुणमार्गानुगं यशः ॥ ८६ ॥
श्रीरियं नीतिनलिनी विलासकलहंसिका ।
नश्यत्येव परित्रस्ता दृष्ट्वा दुर्नयदुर्दिनम् ॥ ८७ ॥
जितेन्द्रियाणां संत्यक्तसङ्गानां विदितात्मनाम् ।
योगिनां भूमिपालानां सफला मन्त्रसिद्धयः ॥ ८८ ॥
भव शीलधरो राजन्व्यसने मा कृथा मतिम् ।
त्यक्त्वा कुमतिमायान्ति सदाचारं विभृतयः ॥ ८९ ॥


१.‘वः प्रि’ शा.

विघ्नन्ति बहवोऽप्येकमेको हन्ति बहूनपि ।
अमर्यादं सदा युद्धं तस्मिन्नप्रत्ययो जयः ॥ १० ॥
श्रुतशीलबलौचित्यप्रभावविभवादयः ।
गुणधर्मफलाः सर्वे धर्मायत्तगतिर्जयः ॥ ९१ ॥
राजन्सुखसुखस्यायं न कालः प्रणयोचितः ।
प्रियः शिखाग्रहेणापि व्यसनाद्विनिवार्यते ॥ ९२ ॥
सतः सत्त्वसहायस्य धैर्यराशैर्यशस्विनः ।
प्रौढः प्रतापो रामस्य सर्वत्रास्खलितोदयः ॥ ९३ ॥
यदि प्रियजने प्रेम यदि भोगेष्वतृप्तता ।
यदि प्राणेषु वः प्रीतिस्तत्काकुत्स्थः प्रसाद्यताम् ॥ ९४ ॥
उक्ते विभीषणेनेति किंचिदागतविक्रियः ।
उवाच विधिवैमुख्यविप्रलब्धो दशाननः ॥ १५ ॥
खड्गमेघशिखण्डिन्यो भुजालानकरेणुकाः ।
वीरवक्रावलोकिन्यः सत्यमेता विभूतयः ॥ ९६ ॥
बन्धुभावादहो मोहः लेहः सरलतापि वा ।
भ्रातुर्भीरुस्वभावस्य प्रकृतिर्वा तवेदृशी ॥ ९७ ॥
कुलाचारमतिक्रम्य कथमस्मद्विधो जनः ।
मानमुत्सृज्य वर्तेत त्रैलोक्ये रक्ष्यतां गतः ॥ ९८ ॥
येनेश्वरः पथा याति स्पष्टेन कुटिलेन वा ।
महाजनानुगो नित्यं जनस्तेनैव गच्छति ॥ १९ ॥
तापसस्य मया योऽयं कृतः कान्तापराभवः ।
स चिन्त्यमानस्तत्त्वेन दोषो यदि गुणोऽत्र कः ॥ १०० ॥
किं विरक्तस्य संभोगैरश्रमस्याश्रमेण किम् ।
पूर्वापरविरुद्धोऽयमाचारस्तस्य दुर्मतेः ॥ १०१ ॥
क्व पांसुशय्या विपिने जरन्मृगगणाश्रये ।
क्व नूपुरवती कान्ता शिञ्जानमणिनूपुरा ॥ १०२ ॥


१. ‘भ्रातभी’ स्यात्. २. ‘त्रैलोक्यालक्ष्यातां’ ख. ३८

क्व वृद्धसंनिधि वनं संभोगार्हं क्व यौवनम् ।
क्व युद्धयात्रा सुरथा क च पङ्गुमनोरथाः ॥ १०३ ॥
क्व शौर्यं क्व जटाबन्धः क्व शस्त्रं क्व च वल्कलम् ।
सर्वथा कुटिलाचारो विपरीतः स तापसः ॥ १०४ ॥
कथमर्हति तां रामः स्त्रीरत्नं जनकात्मजाम् ।
त्रैलोक्यजयिनो यस्यां मद्विधा बद्धकौतुकाः ॥ १०५ ॥
खरमुख्या हतास्तेन यन्मर्त्येनापि राक्षसाः ।
देवादन्यत्र कस्यैषा शक्तिः स्वेच्छाविलासिनी ॥ १०६ ॥
कथं केलिकपेर्लङ्कादहने सा गतिर्भवेत् ।
यदि न स्यात्परं चित्रक्रीडाद्भुतनिधिर्विधिः ॥ १०७ ॥
यस्येयं विश्वनिर्माणवैचित्र्यप्रभविष्णुता ।
शक्तिं कस्तस्य दैवस्य पौरुषेणातिवर्तते ॥ १०८ ॥
युद्धं यदि बलादीनां खड्गादीनां यदि श्रियः ।
शक्त्यपेक्षो यदि जयो मम चिन्तास्पदं नु किम् ॥ १०९ ॥
इति क्रोधं नियम्यैव भाषमाणे दशानने ।
ऊचे विभीषणो राजन्सीतैव त्यज्यतामिति ॥ ११० ॥
ततः कोपोष्मसंजातस्वेदसंसिक्तमाननम् ।
संप्रमृज्यांशुकान्तेन व्याजहारेन्द्रजिद्वचः ॥ १११ ॥
दूरादेव प्रणामाः पण्डिता गुरवो द्विजाः ।
तद्दोषे ह्यतिसंगत्या दृष्टे श्रद्धा विनश्यति ॥ ११२ ॥
स्वभाषितपरिच्छेदविवक्षावसरोचिताः ।
व्यवहारविचारेषु वाह्याः पण्डितबुद्धयः ॥ ११३ ॥
धीमान्सर्वज्ञ इत्येष प्राज्ञोऽस्माकं विभीषणः ।
कुलवैलक्ष्यजननी लक्षितास्य न भीरुता ॥ ११४ ॥
अहो नु रथ्यावन्दीव राममेव प्रशंसति ।
यदयं नैव जानीमः केनास्योपहृता धृतिः ॥ ११५ ॥


१. ‘परिमृज्यांशु शा०. २. ‘कीर्ति ’ शा०. ३. ‘पूज्यो’ शा०.

का नाम कृपणे तस्मिन्यस्य चिन्ता कुतापसे ।
सुरासुररणोत्साहविजयो विस्मृतः स किम् ॥ ११६ ॥
नीचोत्कर्षकथादुःखं सहते नोन्नतं मनः ।
येनेयं विक्रमश्लाघा क्रियते स्वयमात्मनः ॥ ११७ ॥
अद्यापि लोचनपथे धत्ते पिष्टः क्षितौ मया ।
द्वेषोष्मणा रजोभिश्च तुल्यं कलुषतां हरिः ॥ ११८ ॥
ऐरावणरदाकृष्टिच्छद्मना प्रसभं मया ।
मूलमुन्मूलितं मन्ये सुरराजयशस्तरोः ॥ ११९ ॥
समरे लोकपालानां विद्रुतानां भयान्मम ।
नाद्यापि पदवी लब्धा वधूभिर्वनवर्त्मसु ॥ १२० ॥
तस्य मे तापसकथा मिथ्याशौर्यमयी पुरः ।
क्रियमाणा कथं नाम नो प्रयात्युपहास्यताम् ॥ १२१ ॥
इति शक्रजितो वाक्यं श्रुत्वोवाच विभीषणः ।
बिभ्राणः कोपरजनीचन्द्रिका हसितच्छटाम् ॥ १२२ ॥
अद्याप्यपकबुद्धिस्त्वं बालकः पेशलाशयः ।
बलावलं विजानीषे न परस्य न चात्मनः ॥ १२३ ॥
पुत्ररूपो ध्रुवं शत्रुस्त्वं पितुर्दुर्नयोचितः ।
यदस्यातिप्रमत्तस्य राघवात्क्षयमिच्छसि ॥ १२४ ॥
ब्रह्मशापोपमास्तीक्ष्णाः शराः शिखरिभेदनाः ।
सह्यन्ते येन रामस्य जनो जातो न जातु सः ॥ १२५ ॥
सीता समर्म्यतां तस्मै रत्नैः सह सुरोचितः ।
कृच्छ्रे त्यक्त्वापि सर्वस्वं रक्षेचात्मानमात्मवित् ॥ १२६ ॥
हन्ता मारीचमुख्यानां वीरः सुग्रीवराज्यदः ।
रामः कामं नरेन्द्रोऽस्तु कानने वास्तु तापसः ॥ १२७ ॥
कर्मणामेष संकल्पः काकुल्यो यद्वनेचरः ।
दाता त्रैलोक्यराज्यानां भस्मशायी महेश्वरः ॥ १२८ ॥

अस्मत्क्षयाय स परं निविष्टो जलधेस्तटे ।
सर्वैः स्वयमितो गत्वा सर्वस्वेन प्रसाद्यताम् ॥ १२९!
तेन क्लेशनिमित्तेन वित्तेन निष्कलेन किम् ।
यत्कुलस्यात्मनो वापि रक्षार्थं नोपयुज्यते ॥ १३० ॥
न भुक्तेषु न भुक्तेषु वृद्धानां विनयेष्विव ।
धनादानेषु लुब्धानां निधनावधिरादरः ॥ १३१ ॥
धनेन रक्ष्यतामात्मा स पुनर्धनभाजनम् ।
न त्वात्मनि गते वित्तं पुरुषाननुगच्छति ॥ १३२ ॥
श्रुत्वैतत्कलुषं भ्रातुर्वचः कोपारुणेक्षणः ।
श्वसन्बभूव पौलस्त्यः कम्पव्यालोलकुण्डलः || १३३ ॥
गम्भीरं कोपमालोक्य शीलज्ञास्तस्य मन्त्रिणः ।
चकम्पिरे चिरं धीरा भूकम्पादिव भूधराः ॥ १३४ ॥
सोऽवदत्पाणिना पाणिं निष्पिष्य स्वेदसंप्लुतः ।
दीप्तरत्नाङ्गदालोकैर्निर्धष्याग्निं सृजन्निव ॥ १३५ ॥
प्रियायैवाप्रियेणोक्तं श्रुत्वा कोपोत्कटं वचः ।
विरक्तस्य स्मितेनापि जायेते कोपसाध्वसे ॥ १३६ ॥
पापदुष्प्टेन मनसा भाषसे प्रतिभान्वितम् ।
हितमप्यप्रमाणं तन्मम पथ्यमिवाशुचि ॥ १३७ ॥
रागद्वेषविकल्पेषु प्रमाणं सर्वथा मनः ।
रतौ दन्तक्षतैः प्रीतिस्तैरेव कलहे व्यथा ॥ १३८ ॥
अहो बत वयं सर्वे वञ्चिताः सरलाशयाः ।
येषां विभीषणे मिथ्या गुणसंभावनाभवत् ॥ १३९ ॥
दम्भदिग्धगुणस्यास्य किं पाण्डित्येन किं धिया ।
अभिमानमयं यस्य धैर्यं नास्त्येव जीवितम् ॥ १४० ॥
पूर्वापकारिणा संधिं शत्रुणा यः समीहते ।
मन्त्रे वा विक्रमे वापि स किमायास्यते पशुः ॥ १४१॥

अपनीतायुधो रामः शरणं यदि मा व्रजेत् ।
तदेतदुक्तं युक्तं स्याद्विनयः कस्य न प्रियः ॥ १४२ ॥
शत्रुलेशप्रणाशं मे प्रमाणं सुभटाः परे ।
भीरुस्वभावः कार्येऽस्मिन्बहिरास्तां विभीषणः ॥ १४३ ॥
रामे यद्यस्य रमते बुद्धिर्विबुधमानिनः ।
तत्तमेव प्रयात्वेष विरक्तः केन सह्यते ॥ १४४ ॥
इति ब्रुवाणे सावेगं क्रोधान्धे दशकंधरे ।
ससंरम्भेष्वमात्येषु पुनरूचे विभीषणः ॥ १४५ ॥
वल्लभं सर्वजन्तूनां जीवितं यस्य न प्रियम् ।
उन्मार्गगामिनस्तस्य हितवादी कथं प्रियः ॥ १४६ ॥
अधर्मं स्वविनाशाय यः समाचरति स्वयम् ।
किमात्मशत्रुणा तेन प्रीतेन कुपितेन वा ॥ १४७ ॥
किं चित्रं यदि धर्मस्थे रामे मे रमते मतिः ।
आनन्दाय न कस्येन्दुः सुधानिष्पन्दसुन्दरः ॥ १४८ ॥
प्रमादी प्रार्थ्यमानोऽपि पथ्यं गृह्णाति नैव यः ।
सत्यं तस्य विनाशेन नृत्यन्ति स्वजना अपि ॥ १४९ ॥
स मन्त्रो मन्त्रिभिर्यत्र व्यसनाद्वार्यते नृपः ।
शिष्टचित्तग्रहायैव प्रमत्तस्यानुभाषणम् ॥ १५० ॥
स्वभ्रापातोद्यतो राजा मन्त्रिणोऽनुमतप्रदाः ।
सेयं विनाशसामग्री दैवेन घटिता परम् ॥ १५१ ॥
श्रुत्वैतत्कोपसंतप्तः समुत्थाय दशाननः ।
साम्राज्यमिव पादेन जघानाशु विभीषणम् ॥ १५२ ॥
स पपात हतस्तेन तेजस्वी कनकासनात् ।
अस्ताचलादिव रविः शर्वर्यन्तरितोदयः ॥ १५३ ॥
तमभ्यधावदाकृष्य खड्गं व्यालोलकुण्डलः ।
रावणश्चक्रचापाङ्कस्तडितत्पिङ्ग इवाम्बुदः ॥ १५४ ॥

स निरुद्धः प्रहस्तेन बाहुभ्यां प्रियवादिना ।
निजमासनमासाद्य निःश्वसन्पुनरभ्यधात् ॥ १५५ ॥
तूर्ण निष्कास्यतामेष निलयान्निरपत्रपः ।
क्लैब्याद्भयाद्वा यस्येयं जाता शत्रुस्तवे मतिः ॥ १५६ ॥
परपक्षप्रियो वक्तुं नार्हत्येष पुरो मम ।
न तथा दुःसहः शत्रुर्यथा शत्रुसमाश्रितः ॥ १५७ ॥
ज्ञातिभ्यो भयमुत्पन्नं वह्निर्वेणुवनादिव ।
प्रभावद्वेषिणो नित्यं ज्ञातयो गूढशत्रवः ॥ १५८ ॥
ज्ञातयो ज्ञातसंचाराश्छिद्रेषु व्यसनैषिणः ।
न सहन्ते गुणोद्विग्नास्तुल्या कुलजनोन्नतिम् ॥ १५९ ॥
न दानेन न मानेन नोपकारैर्न संस्तवैः ।
ज्ञातयः परितुष्यन्ति क्षयसंदर्शनादृते ॥ १६० ॥
शिक्षाहस्तिसमाकृप्टैः श्रूयन्ते हस्तिभिः पुरा ।
श्लोका पद्मवने गीताः कूटपाशवशंगतैः ॥ १६१ ॥
विपशस्त्राग्निसर्पेभ्यो न भयं विद्यते नृणाम् ।
सुप्ताभिघातप्रतिमं घोरं ज्ञातिकृतं भयम् ॥ १६२ ॥
स्वार्थप्रधानविद्वेषाद्रूढमायाप्रहारिणः ।
नेच्छन्ति ज्ञातयो वृद्धिं स्वजनस्य क्षयोत्सुकाः ॥ १६३ ॥
दुर्जनात्पातकमिव स्त्रीचित्तादिव चापलम् ।
अहिवक्रादिव भयं नापैति ज्ञातितो भयम् ॥ १६४ ॥
तस्मात्क्षिप्रं प्रयात्वेव यत्रास्य रमते मतिः।
प्रिया प्रियत्वं लोकस्य चक्षुषः केन वार्यते ॥ १६५ ॥
इत्युक्ते दशकण्ठेन संरम्भललिताङ्गदम् ।
प्रहस्तो हस्तमुद्यम्य भ्रान्तभ्रूयुगलोऽभ्यधात् ॥ १६६ ॥
क्रुद्धस्ते रावणो राजा दिशो गच्छ विभीषण ।
न ह्यतुष्टे दशग्रीवे भुज्यन्ते भोगसंपदः ॥ १६७ ॥


१. ‘निष्काल्यता’ शा.. २. ‘विषया’ शा०. ३. ‘समाश्रयः’ शा०.

सोऽपि वैश्रवणः श्रीमाननेनाज्ञाव्यतिक्रमात् ।
भ्रूभङ्गनष्टविभवो भ्राता ज्येष्ठो विवासितः ॥ १६८ ॥
उक्त्वेति हस्तेनाकृप्य प्रहस्तो रावणानुजम् ।
उवाच गच्छ गच्छेति क्रोधाध्मातः पुनः पुनः ॥ १६९ ॥
ततो हरिप्रभृतिभिश्चतुर्भिः सचिवैः सह ।
विभीषणो गदापाणिर्विवेशाकाशमाशुगः ॥ १७० ॥
इति विभीषणनिष्काशनम् ॥ २॥
स दृष्ट्वा मातरं तूर्णं प्रणिपत्याभिवाद्य च ।
निवेद्यास्य यथावृत्तं प्रययौ व्योमवर्त्मना ॥ १७१ ॥
तस्य कुण्डलकेयूरमौलिरत्नांशुभिर्दिशः।
ययुर्नृत्यन्मयूराणां वनानां तुल्यरूपताम् ॥ १७२ ॥
व्रजन्तं तेजसा राशिं चलत्पीतांशुकाञ्चलम् ।
तं मेरुमिव संध्याभ्रमालितं ददृशुः सुराः ॥ १७३ ॥
रामाभिमुखमायान्तं तं सुग्रीवपुरोगमाः ।
शङ्किताः प्लवगा वीक्ष्य युद्धायैव समुद्ययुः ॥ १७४ ॥
संरब्धान्वानरान्वीरान्दृष्ट्वा धीमान्विभीषणः ।
समुद्रस्योत्तरे पार्श्वे तस्थौ स्वेक्षणनिश्चलः ॥ १७५ ॥
दूरात्स्वनेन महता घनघोपानुकारिणा ।
सुग्रीवं दर्शनोद्ग्रीवं सानुगं स समभ्यधात् ॥ १७६ ॥
भो भोः प्लवङ्गमाः सर्वे राक्षसोऽहं विभीषणः ।
रावणस्यानुजो वीरं द्रष्टुमिच्छामि राघवम् ॥ १७७ ॥
त्यज्यतां जानकी भ्रातर्मयेत्युक्तो दशाननः ।
हितं वचो न जग्राह मुमूर्श्हुरिव व भैषजम् ॥ १७८ ॥
तै रावणादिभिः सर्वैः कोपादतिविमानितः ।
गुणानुरागाद्यातोऽहं शरणं रघुनन्दनम् ॥ १७२ ॥


१. ‘मन्त्रिभिः’ शा.. २. ‘तेनासनविनाशेन शा०.

संत्यक्तपापं स्वजनं सदाचारजनप्रियम् ।
निवेदयत रामाय मामकिल्बिषमागतम् ॥ १८० ॥
इति तस्य वचः श्रुत्वा सुग्रीवोऽभ्येत्य राघवम् ।
राक्षसाचारचकितस्तदुक्तं सर्वमभ्यधात् ॥ १८१ ॥
ज्ञात्वा रामः समायातं सानुगं रावणानुजम् ।
विचिन्त्य निश्चलः क्षिप्रं प्रोवाच कपिकुञ्जरान् ॥ १८२ ॥
यूयं प्रमाणं कार्येऽस्मिन्धीधना भुजशालिनः ।
विभीषणस्यागमने यदुक्तं तद्विचिन्त्यताम् ॥ १८३ ॥
इत्युक्ता रघुनाथेन केचिदूचुः प्लवंगमाः ।
पापः शत्रुप्रयुक्तोऽयं सर्वथा वधमर्हति ॥ १८ ॥
उवाच त्यत्क्वायं कश्चिद्यदि भ्रातरमागतः ।
तत्परेषां कथं नाम क्रूरः स्निग्धो भविष्यति ॥ १८५ ॥
जात्यैव स्वजने प्रीतिर्जन्तोरव्यभिचारिणी ।
न जातु जम्बुकीपुत्रः स्तनं पिबति गोः कचित् ॥ १८६ ॥
ततो जगाद हनुमान्रामं विरचिताञ्जलिः ।
मर्मवेदी परस्यायं न तु त्याज्यो विभीषणः ॥ १८७ ॥
विरक्तस्य कुवृत्तस्य रावणस्य प्रमादिनः ।
कोशं दुर्ग बलं राष्ट्र चक्ष्यत्येव न संशयः ॥ १८८ ॥
दुर्वृत्तं स्वजनं त्यक्त्वा यदि साधूनयं श्रितः ।
तदस्य गुणलुब्धस्य न ह्यविश्वासकारणम् ॥ १८९ ॥
स्वभावानुगुणा प्रीतिर्दूरस्थेऽप्यंशुमालिनि ।
समीपस्थेऽपि सलिले न संश्लेपोऽम्बुजन्मनाम् ॥ १९० ॥
इति वायुसुतेनोक्ते निशम्योवाच राघवः ।
सदोषः सगुणो वास्तु न मे त्याज्यो विभीषणः ॥ १९१ ॥
अनुरक्तो विरक्तो वा मामुद्दिश्यायमागतः ।
वन्ध्यं मनोरथं तस्य न कर्तुमहमुत्सहे ॥ १९२ ॥


१. ‘प्यस्तु’ शा..

परित्यजति निर्लज्जः प्राप्तं यः शरणार्थिनम् ।
मानं धर्मं श्रियं कीर्तिं सर्वत्र स परित्यजेत् ॥ १९३ ॥
श्रूयते हि कपोतेन लुब्धकः शरणागतः ।
भार्यानिषूदकोऽभ्येत्य स्वमांसेन निमन्त्रितः ॥ १९४ ॥
भीरुः प्राणान्परित्यज्य रक्षणीयो ह्यरक्षितः ।
हृत्वास्य सुकृतं याति कण्डरित्यभ्यधान्मुनिः ॥ १९५ ॥
मयास्य दत्तमभयं तूर्णमायातु राक्षसः ।
कृताञ्जलिषु भीतेषु पेशला रघवो वयम् ॥ १९६ ॥
इति रामस्य वचसा सुग्रीवः सानुगो नभः ।
समुत्पत्यानिनायाशु परिप्वज्य विभीषणम् ॥ १९७ ॥
ततः स रामपादाजश्लिष्टमौलिमणिर्वभौ ।
कण्ठे स्वच्छनखच्छायाच्छलेनालिङ्गितः श्रिया ॥ १९८ ॥
त्वामहं शरणं यातः पौलस्त्येनावमानितः ।
इति ब्रुवाणं तं रामः प्रोवाच प्रणयोचितम् ॥ १९९ ॥
विभीषण सुहृन्मे त्वं प्रेमविस्वम्भभाजनम् ।
मनो मे दर्शनादेव त्वयि सत्यं प्रसीदति ॥ २०० ॥
लङ्का त्वया परित्यक्ता समित्रधनवान्धवा ।
मदर्थे तत्प्रियांशस्य फलं मे गृह्यतां सखे ॥ २०१ ॥
इत्युक्त्वा लक्ष्मणानीतैः तूर्ण रत्नाकरान्बुभिः ।
सोऽभिपिच्यैव विदधे लक्षाधीशं विभीषणम् ॥ २०२॥
तेन रामप्रसादेन गुरुणा नतकन्धरः ।
सोऽचिन्तयच्चिरं धीमान्वहुशस्तत्प्रतिक्रियाम् ॥ २०३ ॥
भ्रातृशत्रु स सुग्रीवं दृष्ट्वा सप्रतिभोऽभवत् ।
तत्तु लज्जानतः क्षिप्रं लक्ष्मणं भ्रातृवत्सलम् ॥ २०४!!
इति विभीषणपरिग्रहः ॥३॥
तमुवाचाथ हनुमानस्य तावन्महोदधेः ।
उपायं ब्रूहि तरणे सत्यं धुर्योऽसि धीमताम् ॥ २०५ ॥

सोऽब्रवीद्वानरं रामः शरणं यातु सागरम् ।
पितामहेन रामस्य सगरेणैप निर्मितः ॥ २०६ ॥
उक्त विभीषणेनेति वीरौ सुग्रीवलक्ष्मणौ ।
उपपन्नतरं वाक्यं तत्तस्य प्रशशंसतुः ॥ २०७ ॥
ततस्तीरे निराहारः कुशानास्तीर्य राघवः ।
तपस्तिस्रः क्षपाश्चक्रे दर्शनाय महोदधेः ॥ २०८ ॥
त्रिरात्रोपोपिते रामे निर्विकारे च सागरे ।
बभूव चिन्ताकुलिता निःस्पन्दा हरिवाहिनी ॥ २०९ ॥
ततो निःश्वस्य संतप्तः कोपसंरक्तलोचनः ।
उवाच रामः सौमित्रिं नेत्रे विक्षिप्य पत्रिषु ॥ २१० ॥
पश्य लक्ष्मण दृप्तस्य जलराशेरसाधुताम् ।
न नयेन न च प्रीत्या यो नीच इव तुष्यति ॥ २११ ॥
प्रणयेनोग्रतामेति काठिन्यं याति सेवया ।
न स कश्चिदुपायोऽस्ति गृह्यते येन दुर्जनः ॥ २१२ ॥
प्रयुक्ता नूनमास्थाने प्रणयप्रशमक्षमाः ।
प्रयान्त्यगुणतामेव मानम्लानिकराः परम् ॥ २१३ ॥
आत्मप्रशंसामुखरनिकृतं क्रूरकर्मणम् (१) ।
भयाङ्कुशविधेयोऽयं जनः सत्कुरुते जनम् ॥ २१४ ॥
विजयः कीतिरैश्वर्यं सत्यं सामा न लभ्यते ।
तीक्ष्णानुवर्ती लोकोऽयं पौरुषेणैव भुज्यते ॥ २१५ ॥
क्व प्रीतिर्गुणसंसक्तसाधुसारङ्गयागुरा ।
ऋरता क्व च दुर्वृत्तदुष्टाश्चोग्रकशाहतिः ॥ २१६ ॥
पारुप्यवश्यः प्रणयश्चेह सर्वात्मना जनः ।
नयं भयं न जानीते क्षमामक्षमतामपि ॥ २१७ ॥
शरासनं महाघोरं चापमानय लक्ष्मण ।
करोम्येनं विपर्यस्तमर्यादं यादसां निधिम् ॥ २१८ ॥

मद्वाणवह्निसंतापक्वाथ्यमानोऽद्य सागरः ।
वडवाग्निशिखाकारं शरणं यातु शीतलम् ॥ २१९ ॥
शरैर्निकृत्तनिःशेषसत्त्वरक्ताकुलोऽम्बुधिः ।
धत्तां नदीवधूमध्ये जुगुप्सायतनं वपुः ॥ २२० ॥
इत्युक्त्वा धनुरादाय विशिखं च शिखिप्रभम् ।
गम्भीरक्षोभसंरम्भभ्रान्तं स विदधेऽम्बुधिम् ॥ २२१ ॥
बभुः ससर्पमकरैर्व्याप्तः शिखरिसंनिभैः ।
शरोद्भूतैर्विवलिताः कल्लोलेरखिला दिशः ॥ २२२ ॥
परिवृत्तेऽम्बुधौ लोलजलाश्वपुरुषद्विपे ।
शरत्रस्ताः समुत्तस्थुर्दैत्याः पातालवासिनः ॥ २२३ ॥
शङ्खरश्मिनखैर्दीप्तै रत्नताम्रतलैर्मुहुः ।
कल्लोलाञ्जलिभिश्चक्रे रामयाच्ञामिवोदधिः ॥ २२४ ॥
शरनिर्घोषसावेगसलिलावर्तशूत्कृतैः ।
मन्युदुःखाकुलः क्षिप्रं निःश्वासैरेव वारिधिः ॥ २२५ ॥
जलस्फारखनैरुधद्वीचित्राहुर्महोदधिः ।
देव संहर कोपाग्निमित्युवाचेव राघवम् ॥ २२६ ॥
दिक्षु ध्वान्तनिरुद्धासु संरुद्धे, भुवनत्रये ।
सूर्यचन्द्रप्रधानानि तिर्यग्ज्योतीपि खे ययुः ॥ २२७ ॥
इति समुद्रक्षोभणम् ॥ ४ ॥
ततो विधूय सहसा वीचिचक्रं महोदधिः ।
कृताञ्जलिः समुत्तस्थौ स्रग्वी रुचिरकुण्डलः ॥ २२८ ॥
रविभूषितश्चन्द्रलक्ष्मीकौस्तुभसोदरैः ।
वस्त्रैश्च पारिजातस्य पाटलैरिव पल्लवैः ॥ २२९ ॥
मन्दाकिनीपुरोगाभिर्नदीभिश्चामरानिलः ।
सोत्कण्ठं च सलज्जं नर्तितोष्णीषपल्लवः || २३० ॥


१. क्षुभिते’ शा०.

देहकान्तिवितानेन वैडूर्यविमलत्विषा ।
विदधान इवासक्तं सर्वं जलमयं जगत् ॥ २३१ ॥
चन्द्रकान्तशलाकेन मुक्ताप्रारम्भशोभिना ।
फेनौघेनोद्गतेनेव स्वच्छश्छत्रेण सच्छविः ॥ २३२ ॥
सप्तास्यैर्दीप्तरत्नाकैर्व्यक्तस्वस्तिकलाञ्छनैः ।
सेवितस्तु महाभागैर्भिगिर्भिर्बद्धमण्डलैः ॥ २३३ ॥
स्फुरत्पीयूपकल्लोलमालाधवलवर्चसा ।
श्रीविहारेण हारेण साट्टहास इवोरसि ॥ २३४ ॥
सोऽब्रवीत्सितदन्तांशुपुष्पिताधरपल्लवः ।
समस्तमौक्तिकच्छायामन्तस्थां दर्शयन्निव ॥ २३५ ॥
भोः काकुत्स्थ न मिथ्यैव विक्रियां गन्तुमर्हसि ।
महाभूतैः सह वयं न मर्यादातिवर्तिनः ॥ २३६ ॥
न कामान्न च संरम्भान्न भयान्न च गौरवात् ।
मर्यादामुत्सहे त्यक्तुं शाश्वते वर्त्मनि स्थितः ॥ २३७ ॥
त्वत्तस्तेजस्विनोऽप्यन्ये जलस्थलपथार्थिनः ।
कथमेवंविधैः क्षोभैर्न मे कुर्याः पराभवम् ॥ २३८ ॥
अभीष्टं ते करोम्येष सगरान्वयमानभृत् ।
अचिन्त्यमद्भुतं लोके सागरे स्थलदर्शनम् ॥ २३९ ॥
बद्धं सेतुं द्रुमैः शैलैः स्तम्भिते सलिले मया ।
तरन्तु वानराः क्षिप्रं नास्त्येषां मत्कृतं भयम् ॥ २४० ॥
उत्तरे कृमिकूलाख्यो देशः पुण्यतरो मम ।
आभीरैर्दस्युभिर्घिरैरावृतः पापकर्मभिः ॥ २४१ ॥
मदर्थमुद्यतो वाणस्तेषु प्रक्षिप्यतामयम् ।
इत्यम्बुधिगिरा रामचिक्षेप ज्वलितं शरम् ॥ २४२ ॥
स देशस्तेन निर्दग्धो मरुकान्तारतां ययौ ।
निर्व्यालो राघववरात्क्षीरौषधिफलाकुलः ॥ २४३ ॥


१. ‘कर्नु’ शा०.

ततो जलनिधिः प्रीत्या काकुत्स्थमवदत्पुनः ।
राजा दशरथो नाम ममाभूद्दयितः सुहृत् ॥ २४४ ॥
पुरा देवासुरे युद्धे स चाहं च समागतौ ।
एकीभावमिवापन्नौ सुरसाहाय्यकर्मणि ॥ २४५ ॥
स निर्जितामररिपुर्वर लेभे सुरेश्वरात् ।
कुलचूडामणेर्यस्य त्वज्जन्म प्रथमं फलम् ॥ २४६ ॥
अयोध्यायां गृहे तस्य मासमध्युषितः सुखम् ।
सौहार्दप्रीतिसर्वस्वैरुपचारैरकृत्रिमैः ॥ २४७ ॥
सोऽहं तव पितुर्मित्रं तत्स्नेहे निष्प्रतिक्रियः ।
मन्ये कृतघ्नमात्मानं स्पृष्टं पापशतैरपि ॥ २४८ ॥
अद्याहमनृणो भूत्वा तत्पुत्रोपकृतौ स्थितः ।
भजे प्रीतिसुखोच्छ्वासविश्रान्तिं चिरसंचिताम् ॥ २४९ ॥
एष वानरवीरोऽत्र विश्वकर्मसुतो नलः ।
सेतुं बध्नातु गम्भीरे स्तम्भितेऽम्भसि संभृतम् ॥ २५० ॥
इत्युक्तो वारिनिधिना नलः काकुत्स्थशासनात् ।
सह प्लवंगमगणैरुद्ययौ सेतुकर्मणि ॥ २५१ ॥
इति समुद्रदर्शनम् ॥ ५॥
ततः प्रहृष्टाः कपयः सालतालकुलाचलात् ।
उन्मूल्योन्मूल्य जलधौ चिक्षेप क्षुभितेऽम्भसि ॥ २५२ ॥
सलिले पात्यमानानां गिरीणां वानरर्पभैः ।
उदभूत्प्रलयावार्तसूचकः क्षोभविभ्रमः ॥ २५३ ॥
मज्जतां भूभृतां सत्त्वकलिले सलिले मुहुः ।
असूच्यन्त गजाबन्धा भ्रान्तैरुपरि बुहृदैः ॥ २५४ ॥
तस्मिन्नत्यद्भुते तत्र प्रारब्धे सेतुकर्मणि ।
देवाः ससिद्धगन्धर्वा द्रष्टुं व्योम्ना समाययुः ॥ २५५ ॥


१. ‘सुरवरो वरं’ शा०,

अहो वत प्रभावोऽयं राघवस्यातिपौरुषः ।
केन दृष्टं कदा नाम महाब्धौ सेतुबन्धनम् ॥ २५६ ॥
अहो तु पौरुषेणायं रामेणाश्चर्यकारिणा ।
सेतुः सेतुरिवावद्धो दैवाल्लङ्गनकर्मणि ॥ २५७ ॥
अयं दिगन्तव्यापी सेतुर्जलधिपारगः ।
यशसा सह रामस्य कल्पस्थायी भविष्यति ॥ २५८ ॥
अहो प्रतापनिधिना रामेणाश्चर्यकारिणा ।
अलङ्घ्यशासनेनायं नदीनाथः स्थिरीकृतः ॥ २५९ ॥
एष मज्जत्ययं मनः स्थितोऽयं न विकम्पते ।
सेतुबन्धे बभूवेति सुराणां व्योम्नि निःस्वनः ॥ २६० ॥
चतुर्दशसु बद्धेषु योजनेषु प्लवंगगैः ।
आश्चर्यदर्शनात्तृप्त इव सूर्योऽस्तमाययौ ॥ २६१ ॥
सा कदा दृश्यते लङ्का सेतुः संपूर्यते कदा ।
कपीनामिति कृच्छ्रेण सोत्कण्ठानां ययौ निशा ॥ २६२ ॥
क्रमेणैवं दिनैः षड्भिर्भूधरैर्वानराहृतैः ।
बबन्ध निश्चलं सेतुं विश्वकर्मसुतो नलः ॥ २६३ ॥
मलयाग्रात्प्रवृत्तं तं लङ्कामूलमुपागतम् ।
दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ २६४ ॥
सेतुं निबद्धमालोक्य सुग्रीवो हर्षनिर्भरः ।
सज्जीकृतवलाम्भोधिः काकुत्स्थाय न्यवेदयत् ॥ २६५ ॥
अथ सुग्रीवसहितः सलक्ष्मणविभीषणः ।
अग्रे प्लवगसैन्यानां धन्वी रामः स्वयं ययौ ॥ २६६ ॥
ततः कोटिसहस्राणां वानराणां तरस्विनाम् ।
प्रययुः सेतुना तेन शङ्कुपद्मयुतानि च ॥ २६७ ॥
असूचीविवरे तस्मिन्त्रजति प्लवगार्णवे ।
अलब्धमार्गाः पयसा नभसापि च ते ययुः॥ २६८ ॥


१. ‘मानुपः’ शा०. २. ‘स्थलीकृतः’ शा०. ३. ‘नभसा च परे’ शा०,

संघैरविवरं तेषां तीर्णानां तरतामपि ।
अवसानपरिच्छेदैर्नालक्ष्यत परिक्षयः ॥ २६९ ॥
इति सेतुवन्धः ॥ ६ ॥
परं पारं समुद्रस्य संप्राप्ते रघुनन्दने ।
आरुरोह परां कोटिं प्रमोदस्त्रिदिवौकसाम् ॥ २७० ॥
ततः स्वयं समभ्येत्य प्रहृष्टः सरितां पतिः ।
उवाच राघवं प्रीत्या सुधां वर्षन्निवांशुभिः ॥ २७१ ॥
न राम मुनिवेशोऽयं जयारम्भे तवोचितः ।
युद्धमर्हन्ति राजार्हैहर्भूषणैर्भूषिता नृपाः ॥ २७२ ॥
अपास्यैव जटाबन्धं परित्यज्य च वल्कलम् ।
गृहाण हेमकवचं दिव्यान्याभरणानि च ॥ २७३ ॥
इत्युक्त्वा सागरस्तस्य दिव्यं भूपतिभूपणम् ।
बबन्ध रघुनाथस्य भास्वरं लक्ष्मणस्य च ॥ २७४ ॥
आमुक्तकवचः श्रीमान्सदीप्ताङ्गदकुण्डलः ।
केयूररुचिरो नूनं रत्नशैल इवाबभौ ॥ २७५ ॥
सरत्नकवचो विश्वं बिभ्राणः प्रतिविम्बितम् ।
विष्णोर्जगन्निवासस्य तुल्यरूप इवाभवत् ॥ २७६ ॥
ततः समुद्रवचसा स प्रविश्य जलान्तरम् ।
प्रणम्य वरुणं देवं तेनाशीभिर्विवर्धितः ॥ २७७ ॥
तमामन्य मुहूर्तेन पुनरभ्येत्य राघवः ।
सागरे स्वपदं याते बभूव समरोत्सुकः ॥ २७८ ॥
क्षणात्त्रिकूटकटकदिक्तटेषु च वानरैः ।
मीलितेषु दृशं रामः पौलस्त्यनगरे ददौ ॥ २७९ ॥
इति भूपणप्रदानन् ॥ ७ ॥
लङ्काशैलनिविष्टेषु परेषु पृथुपौरुषाः ।
उदतस्थुर्महामात्या दशग्रीवं सभास्थितम् ॥ २८० ॥


५. ‘हारकेयूररुचिरो रत्न ’ शा.

तानब्रवीत्स विज्ञाय बद्धं सेतुं महार्णवे ।
आश्चर्यामर्षसंरम्भलज्जासंजातविक्रियः ॥ २८१ ॥
अहो न सुखसंसक्तैरवलिप्तैः प्रमादिभिः ।
भवद्भिर्मन्त्रिभिः शत्रुर्वर्धमानोऽप्युपेक्षितः ॥ २८२ ॥
बद्धः सेतुर्महाम्भोधौ पारं प्राप्ताश्च शत्रवः ।
अनुप्तचारैर्युपमाभिर्दोषोऽयं न विचिन्तितः ॥ २८३ ॥
अप्रवृद्धेषु दोषेषु चिकित्सा पूर्वमेव यत् ।
राज्याब्धिकर्णधाराणां मन्त्रिणां मन्त्रितैव सा ॥ २८४ ॥
व्यसनोपहता यूयं यदि कार्यपराङ्मुखाः ।
मन्त्रविक्रमयोरेकस्तदहं स्वयमास्थितः ॥ २८५ ॥
इत्युक्ते राक्षसेन्द्रेण लज्जिते मन्त्रिमण्डले!
उवाच शृणुतामीषामिन्द्रजिद्विजयोर्जितः ॥ २८६ ॥
तात संभावना केयं मिथ्यैवानुचिते जने ।
भवद्भुजानां को नाम बिभर्ति प्रतिमल्लताम् ॥ २८७ ॥
विवासितसुरेन्द्रस्य का चिन्ता मानुषे तव ।
भीरवो भयदाः कस्य वानरा वनचारिणः ॥ २८८ ॥
इत्युक्ते मेघनादेन प्रहस्तप्रमुखास्ततः ।
आविद्धायुधसंभारास्तदेवोचुः पुनः पुनः ॥ २८९ ॥
अथातिकायो मेधावी पुनः प्रोवाच रावणम् ।
राजन्राज्ञां स्वधर्मेण वर्तनं व्यसनौषधम् ॥ २९० ॥
प्रजानां यत्परित्राण दस्यूनां यत्प्रमार्जनम् ।
स राज्ञां परमो मन्त्रः शेषः स्वैरकथारसः ॥ २९१ ॥
परार्थे परदारेषु न येषां धीः प्रवर्तते ।
तेषां पवित्रयशसां कलत्रं सर्वसंपदः ॥ २९२ ॥
जात्या रामो न नः शत्रुर्न चासौ भूम्यनन्तरः ।
सीतापहारकोपोऽस्य तत्प्रदानेन शाम्यति ॥ २९३ ॥


१. ‘नुविरज्यते’ क०. २. ‘संबाधा’ शा. ३. ‘शत्रु’ शा०.

त्रैलोक्यरक्षाभूतानां कुलश्लाघाभिमानिनाम् ।
परदारापहरणं कथं युक्तं भवादृशाम् ॥ २९४ ॥
रामाय त्यज्यतां सीता म्लानमुत्सृज्यतां यशः ।
वञ्चना क्रियतां तूर्णं कालस्याकालपातिनः ॥ २९५ ॥
इत्युक्तमतिकायेन हितं श्रुत्वा दशाननः ।
तमनाहत्य दर्पान्धः प्रोवाच शुकसारणौ ॥ २९६ ॥
प्रच्छन्नाभ्यामितो गत्वा भवद्भ्यां हरिवाहिनी ।
दृश्यतां युवयोरेव तत्संख्याने प्रगल्भता ॥ २९७ ॥
इति भर्त्रा समादिष्टौ तौ कृत्वा वानराकृतिम् ।
जग्मतुर्लघौसंचारौ यत्रास्ते रघुनन्दनः ॥ २९८ ॥
अपारे वानराम्भोधौ तौ चिरं गूढचारिणौ ।
नाग्रं न मध्यमन्तं वा प्रापतुर्यत्नमास्थितौ ॥ २९९ ॥
जगत्कपिमयं सर्वमेकीभूतमिवानिशम् ।
दृष्ट्वा शिखरिशृङ्गस्थौ तौ निःस्यन्दौ बभूवतुः ॥ ३०० ॥
ततो विभीषणश्छन्नं चरन्तौ शुकसारणौ ।
परिज्ञाय महामायौ राघवाय न्यवेदयत् ॥ ३०१ ॥
विभीषणगिरा तूर्णं गृहीतौ तौ प्लवंगमैः ।
न्यस्तौ रामस्य पुरतः क्षणं नो किंचिदूचतुः ॥ ३०२ ॥
तौ निर्वर्ण्य चिरं रामः सितधौताधरद्युतिः ।
उवाच दृश्यतां सेना विस्रब्धं त्यज्यतां भयम् ॥ ३०३ ॥
अयमस्म्येष सौमित्रिः श्रीमानेष विभीषणः ।
सुग्रीवाधिष्ठितं चैतद्वानराणां महद्वलम् ॥ ३०४ ॥
अपर्याप्ता हरिचमूः पौलस्त्याय निवेद्यताम् ।
क्षयाय रक्षसां सेयमक्षया निपतिप्यति ॥ ३०५ ॥
इति दत्ताभयौ तेन प्रगल्भौ क्षणदाचरौ ।
कृताञ्जलिपुटौ राममूचतुः सस्मिताननौ ॥ ३०६!!

४०

दृष्टाः सुबहवोऽस्माभिर्देवासुरवलार्णवाः ।
एताः प्लवगवाहिन्यः कौतुकाय न नः परम् ॥ ३०७ ॥
प्रभविष्णुः प्रभावोऽयं किंत्वद्भुततरस्तव ।
स्थलीकृतं जलं येन भ्रूक्षेपेण महोदधेः ॥ ३०८ ॥
पवनः प्लवणो यस्यां सेयं पौलस्त्यपालिता।
मही कपिभिराक्रान्ता किमतः परमद्भुतम् ॥ ३०९ ॥
विधेरेवाद्भुतनिधेस्त्रैलोक्याश्चर्यकारिणी।
अचिन्त्यविभवा शक्तिर्दृष्टा तव किमुच्यते ॥ ३१०॥
इत्युक्त्वा तौ प्रययतुर्विमुक्तौ भयसंकटात् ।
विसृष्टौ सत्त्वशीलेन रामेण क्षणदाचरौ ॥ ३११॥
तौ समेत्य दशग्रीवं प्रणिपत्य हितैषिणौ ।
यथादिष्टं निवेद्यास्मै न विश्रान्तिमवापतुः ॥ ३१२ ॥
अपारस्य बलाम्भोधेरप्रवेशस्य दर्शनम् ।
विभीपणेन ग्रहणं मोक्षणं राघवेण च ॥ ३१३ ॥
सुग्रीवस्य प्रभावं च गाम्भीर्यं लक्ष्मणस्य च ।
विक्रमं वानराणां च सोच्छ्वासं तावभाषताम् ॥ ३१४ ॥
ततः सूर्यपथोत्सेधसौधारूढं दशाननम् ।
द्रष्टुं समुद्यतं सेनामूचतुः शुकसारणौ ॥ ३१५ ॥
एष वानरवीराणां श्रीमानग्रे स्थितो नलः ।
विश्वकर्मसुतो यस्य नादेनाकम्पते जगत् ॥ ३१६ ॥
पंद्माकिंजल्कगौरोऽयं वीरो मेरुरिवापरः ।
वृतः पद्मसहस्रेण शूरः शङ्कुशतेन च ॥ ३१७ ॥
जृम्भायुतमुखो लङ्कां पिबन्निव निरीक्षते ।
दीप्ताङ्गदो गदास्फारकेसरो वालिनन्दनः ॥ ३१८ ॥
एप प्रजापतेः सूनुर्जाम्बवान्पृथुविक्रमः ।
गुरुभार्गवयोर्बुद्धौ सहते तुल्यतां न यः ॥ ३१९ ॥


१. ‘पवनाः पङ्गवो’ ख. २. ‘सूर्योत्पथो’ शा०. ३. ‘सेनाना’ शा०. ४. ‘बुद्ध्या’ शा०,

वरुणस्यैप पुत्रश्च हेमकूटो मदोत्कटः ।
पयसामिव सैन्यानां संख्या यस्य न विद्यते ॥ ३२० ॥
एष धर्मसुतो वीरः सुषेणः कपियूथपः ।
सोमपुत्रो दधिमुखो नीलश्च दहनात्मजः ॥ ३२१ ॥
यमस्य पुत्राः पञ्चैते पितुस्तुल्यपराक्रमाः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ ३२२ ॥
एष स्फटिकशैलाभः कुमुदो नाम यूथपः ।
वेगवान्विनतो रम्भः क्रथनः पनसो हरः ॥ ३२३ ॥
एष सूर्यसुतः श्रीमान्सुग्रीवो वानरेश्वरः ।
यस्येयं महती सेना दृष्टिदोलाविलासिनी ॥ ३२४ ॥
एपोऽक्षहन्ता हनुमानुमापतिवरोर्जितम् ।
भवन्तमपि यश्चक्रे प्रौढलझाग्नितापितम् ॥ ३२५ ॥
एतौ च मैन्दद्विविदौ कुमारावश्विनीसुतौ ।
याभ्यां ब्रह्मवरात्पीतमाकण्ठममृतं दिवि ॥ ३२६ ॥
एप सत्त्वोदधिः श्रीमान्दैवधुर्यो धनुष्मताम् ।
लङ्कामालोकयन्नास्ते रामः कमललोचनः ॥ ३२७ ॥
अस्य पार्थे स्थितः शौर्यगाम्भीर्योदार्यलक्षणः ।
लक्ष्मणः कार्मुकासज्जज्यामार्जनकृतक्षणः ॥ ३२८ ॥
एष त्वदनुजो रामप्रणामानतशेखरः ।
प्रासादालोकनेनास्य बहुमानोन्नताशयः ॥ ३२९ ॥
कोटीशतसहस्राणां सहस्र शङ्ख उच्यते ।
शतं शङ्खसहस्राणां वृन्दं संख्याविदो जगुः ॥ ३३० ॥
तेषां शतसहस्रं तु पद्ममित्यभिधीयते ।
तेषां शतसहस्रं तु महापद्म विदुर्बुधाः ॥ ३३१ ॥
कपिसैन्ये महापद्मसंख्या नैवान विद्यते ।
चुलुकैः परिसंख्यातुं शक्यं जलनिर्जलम् ॥ ३३२॥

दृशा सूर्यस्य वा तेजो न त्वेतद्विपुलं बलम् ।
प्रभो प्रसीद प्रणयामृत्यानां भृत्यवत्सल ।
संधिस्तवास्तु रामेण दीयतामस्य मैथिली ॥ ३३३ ॥
इति श्रुत्वा तयोर्वाक्यं रावणः क्रोधमूर्च्छितः ।
तौ निर्भर्त्य वलज्ञाने चारानन्यानवासृजत् ॥ ३३४ ॥
विभीषणपरिज्ञाते रामेण परिरक्षिते ।
चारचक्रे पुरः प्राप्ते त्रस्ते वन्ध्यपरिश्रमे ॥ ३३५ ॥
निविष्टे सानुजे रामे सुवेलस्य गिरेस्तटे ।
लङ्काद्वारेषु रुद्धेषु वानरानीकनायकैः ॥ ३३६ ॥
विद्युज्जिह्वं समानाय्य सचिवं राक्षसेश्वरः ।
संमन्त्र्य सुचिरं तेन तूर्णं सीतान्तिकं ययौ ॥ ३३७ ॥
इति चारप्रवेशः ॥ ८ ॥
सतीमधोमुखी प्राप्य वेपमानां भयाकुलाम् ।
बालां मृगीमिव व्याघ्रः प्रोवाच चकितेक्षणाम् ॥ ३३८ ॥
सीते यस्योपरि कृतस्त्वया साधुपरिश्रमः ।
स स्वयं पतितः पङ्गुः प्लवशील इवावटे ॥३३९ ॥
छिन्नग्रीवः स सुग्रीवः सोऽजदचूर्णिताङ्गदः ।
हतश्च स विनिप्पिष्टहनुश्च हनुमान्भुवि ॥ ३४० ॥
त्यज रामगतां प्रीतिं विच्छिन्नालम्बना स्वयम् ।
भजस्व भोगविभवं रम्भोरु भवने मम ॥ ३४१ ॥
इत्युक्त्वा तां दशग्रीवः संकेताद्वहिरास्थिताम् ।
आनिनाय महाकार्यं विद्युज्जिह्वं सुसंज्ञया ॥ ३४२ ॥
स प्रविश्याज्ञया भर्तुः प्रणतः सशरासनम् ।
मायारामशिरस्तुल्यं चिक्षेप रुचिरं पुरः ॥ ३४३ ॥
तदृष्ट्वा जानकी घोरं वैरैस्वं जीवितासहम् ।
तस्थौ कृतोपकारेव क्षणं मोहेन निश्चला ॥ ३४४ ॥


१.वैशसं’ शा..

अत्रान्तरे समुद्रान्तः प्रविश्याकुललोचनः ।
बलाध्यक्षोऽथ स द्वास्थः संज्ञयास्सै न्यवेदयत् ॥ ३४५ ॥
इति मायाशिरोदर्शनम् ॥ ९॥
ततः प्रयाते पौलस्त्ये संज्ञामासाद्य जानकी ।
शुशोच साश्रुनयना प्राणत्यागकृतक्षणा ॥ ३४६ ॥
आर्यपुत्र कथं राम संकल्पानल्पपल्लवा ।
आशालतेयं नि ना फलकाले मम त्वया ॥ ३४७ ॥
गन्तुमभ्यर्थितस्याद्य जीवितस्यायमञ्जलिः।
येन व्यवहितं पत्युर्न पश्यामि मुखाम्बुजम् ॥ ३४८ ॥
उत्तीर्णाब्धि समासाद्य लङ्कां राक्षससंकुलाम् ।
ईप्सितं न त्वया प्राप्तं मम भाग्यविपर्ययात् ॥ ३४९ ॥
आरुह्य मेरुशिखरं पतिताहमधोमुखी ।
प्राप्तोऽपि निकटं यस्याः प्रयातस्तव दर्शनम् ॥ ३५० ॥
इयती भूमिमभ्येत्य कृत्वा कर्म सुदुष्करम् ।
असंदर्य मुखाम्भोजं कथं नाथ गतोऽसि मे ॥ ३५१ ॥
प्रिय क्षणं प्रतीक्षस्व प्रियां भार्यामनागसम् ।
परित्यज्य न गच्छन्ति सत्यशीला भवद्विधाः ॥ ३५२ ॥
इति प्रलापिनी वालां निममां शोकसागरे ।
निराशां दर्शने पत्युर्वद्धाशां जीवितक्षये ॥ ३५३ ॥
उवाच सरमा नाम राक्षसी प्रीतिवत्सला ।
तद्दुःखानलसंप्राप्ततीवसंतापवेदना ॥ ३५४ ॥
अयि मुग्धे न जानासि दशग्रीवस्य वक्रताम् ।
मायाविलसितैस्तैस्तैर्दुःखं ते विदधाति यः ॥ ३५५ ॥
अपि भर्तुः प्रभावज्ञा कथं मिथ्या विमूर्छसि ।
स्वभावसुलभा सत्यं स्त्रीणामत्यन्तभीरुता ॥ ३५६ ॥


१. ‘संक्रान्त’ शा०.

को नाम राघवं हन्तुमात्तचापं :प्रगल्भते ।
प्रभावं यस्य वक्तीव सेतुसीमन्तितोऽम्बुधिः ॥ ३५७ ॥
समाश्वसिहि नास्त्येव रामस्य परतो भयम् ।
मायाशिरस्तु पापेन विद्युजिह्वेन निर्मितम् ॥ ३५८ ॥
एष रामवलाम्भोधिनिर्घोषः श्रूयते महान् ।
पिनष्टि भुवनव्यापी धृति यः सर्वरक्षसाम् ॥ ३५९ ॥
स्वजनप्रार्थितोऽप्येष जनन्या च दशाननः ।
नायाति स्पष्टतां चक्रः प्रत्यासन्नपरिक्षयः ॥ ३६० ॥
कुरङ्गशृङ्गाकुटिला सहसैव दुरात्मनाम् ।
देवस्येव गतिः केन सरलीक्रियते मतिः ॥ ३६१ ॥
कलुषस्यैव वृध्द्यैव नीचमार्गानुसारिणः ।
वार्यते केन कौटिल्यं खलस्य सलिलस्य च ॥ ३६२ ॥
दुर्जनस्य श्वपुच्छस्य व्यालस्योष्ट्रगलस्य च ।
मन्त्रैर्नौषधैर्वापि ऋजुता जातु जायते ॥ ३६३ ॥
विनष्टः सर्वथा पापः पौलस्त्यो विश्वकण्टकः ।
धर्मारामस्य रामस्य सत्यं हस्तगतो जयः ॥ ३६४ ॥
इति श्रुत्वैव सहसा सिक्केवामृतवृष्टिभिः ।
भयं शोकं च तत्याज जानकी लब्धजीविता ॥ ३६५ ॥
इति सरमावाक्यम् ॥ १०॥
ततः सज्जीकृतबलं सभासीनं दशाननम् ।
वृद्धामात्यः समभ्येत्य माल्यवानभ्यभापत ॥ ३६६ ॥
विधेयः साधुवृत्तानां विदुषां हितवादिनाम् ।
न याति विनयं भ्रंशवाच्यतां वसुधाधिप ॥ ३६७ ॥
देशकालोचितौ यस्य सततं संधिविग्रहौ ।
भ्रूक्षेपमानानुगताः पार्श्वस्थास्तस्य संपदः ॥ ३६८


१. ‘वा वेत्ति’ शा.

कुर्यान्न्यूनबलः संधिं ज्यायान्कुर्वीत विग्रहम् ।
तुल्यक्षयभयान्नित्यमुपेक्षितसमः समम् ॥ ३६९ ॥
न मह्यं रोचते युद्धं रामेण बलशालिना ।
सीताप्रदानमात्रेण तेन संधिस्तवोचितः ॥ ३७० ॥
जयस्यायतनं धर्मः पापं वर्म क्षयस्य च ।
धर्मपक्षे स्थिता देवा रामस्य विजयैषिणः ॥ ३७१ ॥
अधर्मप्रभवाण्येव निमित्तानि गृहेषु नः ।
सीताहेतोः प्रदृश्यन्ते येषामग्रफलं क्षयः ॥ ३७२ ॥
कृष्णा स्त्री पाण्डुरैर्दन्तैईसन्ती लोहितांशुका ।
रथ्यासु संचरति यत्तत्क्षयस्यैव लक्षणम् ॥ ३७३ ॥
यद्वलिं भुञ्जते प्रेता जायन्ते गोषु यत्खराः ।
नकुलेष्वाखयो यस्य तद्विनाशस्य लक्षणम् ॥ ३७४ ॥
दुर्जयो राघवः सत्यं पापपक्काश्च राक्षसाः ।
अवतारप्रकारोऽसौ विष्णोर्दैत्यकुलच्छिदः ॥ ३७५ ॥
इति माल्यवतो वाक्यं श्रुत्वा क्रोधानलाकुलः ।
उवाच मन्त्रिणां मध्ये ससंरम्भो दशाननः ॥ ३७६ ॥
दृष्टापरविमर्दस्य वर्गविध्वंससाक्षिणः ।
वज्रोल्लेखविलुप्तस्य कुतस्ते भयमागतम् ॥ ३७७ ॥
अवश्यलुप्तसत्त्वानां वृद्धानां शिथिलात्मनाम् ।
समर्पितस्तव मया सत्यं स्थविरगौरवात् ॥ ३७८ ॥
हीनोऽपि नावमन्तव्यो वलिभिः शत्रुरित्यसौ ।
चिन्तितस्तापसस्तस्माद्भयसंभावनैव का ॥ ३७९ ॥
इति अवाणे साक्षेपं कुपिते राक्षसेश्वरे ।
बभूव माल्यवान्मौनी निःशब्दे मन्त्रिमण्डले ॥ ३८० ॥
इति माल्यवद्वाक्यम् ॥ ११ ॥
लज्जिते स्वगृहं याते माल्यवत्यानतानने ।
संमत्र्य रावणः क्षिप्रं दुर्गरक्षाविधिं व्यधात् ॥ ३८१ ॥

स प्रहस्तं समादिश्य पूर्वद्वाराभिगुप्तये ।
निधाय दक्षिणद्वारे महापार्श्वमहोदरौ ॥ ३८२ ॥
स्वयमिन्द्रजितं वीरं पुत्रं विन्यस्य पश्चिमे ।
आदिदेशोत्तरद्वारे सानुगौ शुकसारणौ ॥ ३८३ ॥
विभीषणगिरा ज्ञात्वा लङ्कागुप्ति परैः कृताम् ।
रामोऽपि द्वारसंरोघविधानं विदधे स्वयम् ॥ ३८४ ॥
पूर्वद्वारं तदादेशान्नीलो जग्राह यूथपः ।
अन्दो दक्षिणं वीरः पश्चिमं पवनात्मजः ॥ ३८५ ॥
स्वयं सलक्ष्मणो रामः परिपीड्य तथोत्तरम् ।
दिदेश मध्यमानीके ससुग्रीवं विभीषणम् ॥ ३८६ ॥
इति सैन्यप्रविभागः ॥ १२॥
अथोदतिष्ठद्गम्भीरः प्रलयाम्मोधरध्वनिः ।
निर्घोषः कपिसैन्यानां रक्षसां क्षयलक्षणः ॥ ३८७ ॥
तेन शब्देन संभ्रान्तभुवनक्षयकारिणा ।
लङ्का चकम्पे साध्वीव विध्वंसातङ्कशङ्किता॥ ३८८ ॥
अथाह्याङ्गदं रामो विभीषणमते स्थितः ।
उवाच गच्छ मद्वाक्यादृप्तं ब्रूहि दशाननम् ॥ ३८९ ॥
न धनेषु न भोगेषु न मित्रेषु न वन्धुषु ।
न प्राणेषु तव प्रीतिः सर्वं यत्त्यक्तुमर्हसि ॥ ३९० ॥
त्वया हेममृगव्याजावञ्चिता यद्वने वयम् ।
कौशलं तव तत्रैव न रणे बाहुतोरणे ॥ ३९१ ॥
भिक्षुरूपस्य ते शून्या न तपोवनभूरियम् ।
इमास्ताः कार्मुकक्रूरहुंकारमुखराजयः ॥ ३९२ ॥
जीविताशां त्यज व्याजहृतां वा जनकात्मजाम् ।
वधो मोक्षश्च ते पाप भुजे वाक्ये च मे स्थितौ ॥ ३९३ ॥


१. ‘रक्षासंशय’ शा..

एतत्कपिपतेः सैन्यमते वयमिदं यतः।
क्रियतामग्निपतनं यदि खिन्नोऽसि जीविते ॥ ३९४ ॥
इति शासनमादाय रामस्य शिरसाङ्गदः ।
उत्पत्य प्रययौ व्योम्ना पक्षवानिव पर्वतः ॥ ३९५ ॥
अथासाद्य दशग्रीवं सचिवैः परिवारितम् ।
रामसंदेशमावेद्य जगाद पुनरङ्गदः ॥ ३९६ ॥
अनल्पमिदमैश्वर्यं कण्ठच्छेदपणार्जितम् ।
उन्मत्त इव सर्वस्वं कथं त्यजसि राक्षस ॥ ३९७ ॥
यदि त्वमेकः क्षीणायुस्तरिक्षपास्मानमम्वुधौ ।
किं कृतं पुत्रपौत्रैस्ते येषां निधनमिच्छसि ॥ ३९८ ॥
खरास्ते मृत्युनखराः खरप्राणापहारिणः ।
शराः शरासनोष्णांशुकरा राम करैधृताः ॥ ३९९ ॥
इति श्रुत्वैव कोपामिज्वालाविभ्रमभङ्गुरैः ।
भ्रूभङ्गैरभ्यधात्पिङ्गैर्वधं दशमुखः कपेः ॥ ४०० ॥
ततो गृहीतः सहसा राक्षसैर्गिरिविग्रहः ।
जग्राह गगनं वेगादङ्गदः शत्रुभङ्गदः ॥ ४०१ ॥
स तान्विधूयातिजवाद्भुजभग्नानतापयत् ।
दूरप्रपातसंमोहनष्टसंज्ञामहीतले ॥ ४०२ ॥
निपात्य चरणाग्रेण राजप्रासादमुन्नतम् ।
प्रययौ वालितनयः काकुत्स्थो यस्य सानुगः ॥ ४०३ ॥
इत्यङ्गदवाक्यम् ॥ १३ ॥
अथ प्राकारमारुह्य दृष्ट्वा लङ्का प्लवंगमैः ।
निरुद्धां रावणो यो मादिदेश निशाचरान् ॥ ४०४ ॥
निर्गतेष्वथ रक्षःसु भीत्येवादर्शनं ययुः ।
व्रजद्गजघटाघण्टाटङ्कारबधिरा दिशः ॥ ४०५ ॥


१. ‘धनुः’ शा०.

कोटीशतसहस्राणि वानराणां तरस्विनाम् ।
प्राकाराजालशृङ्गाणि समारुह्य समन्ततः ॥ ४०६ ॥
स्थविरे घोरकल्पान्तघनघोपधनखनैः ।
नाद वनसंघसंकटास्फोटकारिभिः ॥ ४०७ ॥
जयत्यविजितः श्रीमान्सानुजो जानकीपतिः ।
देवः सुग्रीवसाम्राज्यप्रार्थनाकल्पपादपः ॥ ४०८ ॥
राजा जयति सुग्रीवः शुभ्रा विभ्राजते गुणैः ।
रामकीर्तिः पताकेव यस्य श्रीविश्वविश्रुता ॥ ४०९ ॥
इति गम्भीरनिर्घोषैर्गर्जन्तः कपियूथपाः ।
प्राकारपरिखाजालविनाशाय समुद्ययुः ॥४१० ॥
इति समुद्रपर्व ॥ १४ ॥
अथाहभ्यत सैन्येषु क्षुभिताम्भोधिनिःस्वनः ।
रजनीचरराजस्य समरारम्भदुन्दुभिः ॥ ४११ ॥
ततः काञ्चनसंनाहैर्वाजिभिः स्यन्दनैर्द्विपैः ।
रक्षसां दीप्तशम्बैश्च विवभुः पिङ्गला दिशः ॥ ४१२ ॥
वभूव संग्रहारार्हः कपिराक्षससैन्ययोः ।
समागमः सागरयोः प्रलयोद्धृतयोरिव ॥ ४१३ ॥
पुरः प्रवृत्ते समरे घोषघट्टितदिक्तटे।
शिलाशस्त्रास्त्रनिपचीलाकुलमभून्नमः ॥ ४१४ ॥
खङ्गाभिघातसंघट्टघोरश्चटचटो रवः ।
तदमृद्भुवनव्यापी बेणूनां स्फुटतामिव ॥ ४१५॥
अश्रूयत ततः स्फूर्जद्वज्रनिप्पेयसोदरः ।
राममुष्टिमाकृष्टिधीरस्य धनुषो ध्वनिः ॥ ४१६ ॥
रामचापच्युताश्चेरुर्वीराणां धृतिहारिणः ।
संग्रामलक्ष्मीविक्षिप्तकटाक्षचपलाः शराः ॥ ४१७ ॥


1. ‘दाल’मा.२. ‘ऊचिरे’शा.. ३. ‘ट्टाल’ शा०.

प्रतापदहनज्वालारणदुर्दिनविद्युतः ।
ताः शरश्रेणयश्चक्रुः कालजृम्भाविजृम्भितम् ॥ ४१८ ॥
आजघानोरसि क्रोधादिन्द्रजिद्गदयाङ्गदम् ।
रथं मनोरथमिव प्राङ्ममथाङ्गजस्य च ॥ ४१९ ॥
वानरौ रम्भविनतौ सालतालशिलायुधौ ।
अतिकायस्य चक्राते संरोधं शरवर्षिणः ॥ ४२० ॥
महोदरशरैर्विद्धः सुषेणः शिलया रथम् ।
साश्वसूतध्वजं तस्य जघान धनगर्जितः ॥ ४२१ ॥
जाम्बवान्खरपुत्रस्य मकराक्षस्य रक्षसः ।
वृक्षं चिक्षेप तं चासौ चिच्छेद निशितैः शरैः ॥ ४२२ ॥
सायकैः परितप्तोऽथ जाम्बवान्मुष्टिभिः क्षणात् ।
स्फारं जघानास्य रथं वृद्धोऽपि तरुणोधमः ॥ ४२३ ॥
वृक्षायुधः शतवलिविद्युजिह्व समाद्रवत् ।
कुम्भस्यात्मजं कुम्भं नीलो जग्राह यूथपः ॥ ४२४ ॥
देवान्तकेन युयुधे गवाक्षः पृथगूक्षधृक् ।
ऋषभः सारजेनाथ त्रिशिराः शरभेण च ॥ ४२५ ॥
नरान्तकेन पनसः कुमुदेनाप्यकम्पनः ।
धूम्राक्षेणोगशखेण केसरी हनुमत्पिता ॥ ४२६ ॥
महापाघेण बलिना तरस्वी गन्धमादनः ।
शुकेन वेगदर्शी च पतनेन नलस्तथा ॥ ४२७ ॥
मेघमाली हनुमता मित्रघ्नेन विभीषणः ।
प्रसघेन च सुग्रीवो विरूपाक्षेण लक्ष्मणः ॥ ४२८ ॥
मिथस्तेषां प्रहरतां घोरे समरकर्मणि ।
वपूंषि ययुरभ्यासात्सहस्राकारतामिव ॥ ४२९ ॥
अग्निकेतुर्वलोदग्रः सुमन्त्रो रश्मिकेतनः।
यज्ञकोपश्च काकुत्स्थमदृश्यं चक्रिरे शरैः ॥ ४३०


१. ‘कर्णा’ शा०, २. ‘सघ्रो’ शा०.

तेषां शिरांसि चिच्छेद रामः सपदि पत्रिभिः ।
यैरभूत्पातितैर्मृत्योः पादन्यासोपलावली ॥ ४३१ ॥
मैन्दोऽपि मुष्टिघातेन वज्रमुष्टिमपातयत् ।
द्विविदो निष्पपाताथ शैलाभमशनिप्रभम् ॥ ४३२ ॥
जघान नीलः शैलेन निकुम्भं शरवर्षिणम् ।
इति तेपामभूद्वन्द्वं सत्तानां युद्धमुद्धतम् ॥ ४३३ ॥
इति द्वन्द्वयुद्धम् ॥ १५ ॥
ततः शस्त्रशिलासारत्रासादिव दिवाकरः ।
करावृतमुखः प्रायादस्तमस्ताद्रिमस्तकात् ॥ ४३४ ॥
कालदेहाः समागत्य ततस्तिमिरराक्षसाः ।
निःशेषमापपुः संध्यारागमोहितमम्बरे ॥ ४३५ ॥
सप्तभूते क्षणे तस्मिन्ययुनिःशेषतां दिशः।
तमोभि|रसंघवेतालैरिव घट्टिताः ॥ ४३६ ॥
सुग्रीवाज्ञासमायातभिन्नाञ्जनसमप्रभैः।
ऋक्षयूथैरिव व्याप्तं तमोभिरभवन्नमः ॥ ४३७ ॥
रक्षःकायैर्गजैः ख स्तमो वान्तमिवाभवत् ।
उणीपैश्चामरेश्छत्रैः क्वचिद्स्तमिवाभवत् ॥ ४३८ ॥
वाजिननाः खुररवैः स्पन्दनाश्चक्रनिःस्वनैः ।
घण्टाशब्देन जगतः सूचिताः समरे ययुः ॥ ४३९ ॥
वौ तमसि रामस्य हेमपुरशरावली ।
लीना कनकलेखेव नीले व्योमकपाश्मनि ॥ ४४० ॥
सा कालरात्रिर्विस्पष्टताराविकटदन्तुरा!
तमोभिर्मुक्तकेशीव भूतानां भयदाभवत् ॥ ४४१॥ .
बभूव समरोद्धृतधूलिनीहारसंवृता ।
रक्षःशस्त्रास्त्रभीतेव नेत्रोन्मीलिततारका ॥ ४४२ ॥


1. ‘द्वे’. शा..

राक्षसोऽहं प्लवङ्गोऽहमिह तिष्ठ स्थिरो भव ।
इत्यजृम्भन्त दन्तांशुजटिलाः सुभटोक्तयः ॥ ४४३ ॥
तिष्ठ स्थितोऽहं युध्यस्व निहतोऽसि त्वमाहतः ।
इतिशब्दैः प्रवीराणां क्षतावेवोद्गतं तमः ॥ ४४४ ॥
रक्षोभिर्भाष्यमाणानां कपीनां तैश्च रक्षसाम् ।
बभूवाकर्षनिष्कर्षहर्षसंघर्षनिःस्वनः ॥ ४४५ ॥
रक्षःशिरोभिः काकुत्स्थशरोत्कृतैरभून्मही ।
पक्वैरिव फलैर्व्याप्ता तमस्तालवनच्युतैः ॥ ४४६ ॥
चुकूज रघुनाथस्य यत्र यत्रोद्यतं धनुः ।
अराक्षसा क्षणेनैव तत्र तत्राभवक्षितिः ॥ ४४७ ॥
ते शुद्धपक्षाः काकुत्स्थलेहनाराचसंचयाः।
स्मितस्सेरा इंव दिशो जहुस्तिमिरकञ्चुकान् ॥ ४४८ ॥
यशःसौगन्ध्यलुब्धास्ते वीरवनाजपातिनः ।
विचेलुः समरोद्याने कामं रामशिलीमुखाः ॥ ४४९ ॥
वर्तमाने रणे तस्मिन्संहारे कपिरक्षसाम् ।
अवर्तमाने तिमिरे दिक्षु संघट्टितास्तिव ॥ ४५० ॥
अङ्गदेनेन्द्रजित्क्षिप्रं हताश्वो हतसारथिः ।
वीरैरनुचरैः सार्धं धीमानन्तरधीयत ॥ ४५१ ॥
रक्तोष्णीषाम्बरः स्रग्वी यागभूमि प्रविश्य सः ।
आयसस्रुक्स्रुवो न्यस्तविभीतक्रसमित्कुशः ॥ ४५२ ॥
प्रवृद्धं वह्निमादाय सर्वायुधकृतस्तरः ।
छागस्य जीवतः कण्ठात्कृष्णस्यादाय शोणितम् ॥ ४५३ ॥
जुहाव विधिवन्मन्त्रैः प्रयतः सिद्धये युधि ।
अथोदतिष्ठत्कनकस्यन्दनं पावकप्रभः ॥ ४५४ ॥
प्रदक्षिणशिखाद्बह्नेर्हेमरागो धृतध्वजः ।
तमारुह्योग्रनिर्घोषमन्तर्धानं गतः क्षणात् ॥ ४५५ ॥


१. ‘सृष्ट’ शा०. २. हि ककुभां जदुः’ शा०. ३. ‘सुर’ शा०. ४. ‘त्तवाण’ शा..

इन्द्रजित्समरे प्रायात्तमोभिस्तरुणैर्वृतः ।
स रामलक्ष्मणौ स्फारशरजालवृताम्बरौ ॥ ४५६ ॥
अदृश्यौ व्योमगश्चक्रे घोराभिः शरवृष्टिभिः ।
रामसौमित्रिविशिखास्तमन्तहितमम्बरे ॥ ४५७ ॥
अप्राप्यानुगताः पेतुः खलमेवागता इव ।
प्रच्छन्नं चरतस्तस्य घोरमायाविधायिनः ।
शस्त्रवृष्टिं शरैघोरां चिच्छेद रघुनन्दनः ॥ ४५८ ॥
पीता इव दिशः सर्वा निगीर्णमिव चाम्बरम् ।
क्षिप्तानि भुवनानीव तेनामन्यन्त वानराः ॥ ४५९ ॥
वेगावपातिनस्तस्य शरैरशनिदारुणैः ।
दारितावपि निष्कम्पौ राघवौ युधि तस्थतुः ॥ ४६० ॥
तौ भूरिरुधिरासारसंसिक्ताखिलविग्रहौ ।
उत्फुल्लकिंशुकाशोकसंकाशौ वर्धतः क्षणम् ॥ ४६१ ॥
अप्राप्ये विपुले शत्रौ विलक्षे शरसंचये ।
उवाच रामं सौमित्रिः कोपान्नाग इव श्वसन् ॥ ४६२ ॥
अनुजानीहि मामार्य ब्रह्मास्त्रेण निशाचरम् ।
निर्दहाम्यफलोद्योगलज्जा युधि कथं सहे ॥ ४६३ ॥
मण्डलीकृतचापस्य लक्ष्मणस्येपुवर्षिणः ।
श्रुत्वैतद्वचनं धीरः प्रत्यभाषत राघवः ॥ ४६४ ॥
ब्रह्मास्त्रेण कथं नाम जगत्सर्वं सराक्षसम् ।
दग्धुमिच्छसि संरम्भादेकस्येन्द्रजितः कृते ॥ ४६५ ॥
भ्रातः क्षणं प्रतीक्षस्व लक्ष्यतामेप यातु नः ।
सारतां ज्ञास्यसि ततः शराणां शैलभेदिनाम् ॥ ४६६ ॥
विभूतिरिव दृप्तानां चपलानामिवोन्नतिः ।
मायावलानामचिरं भवति प्रभविष्णुता ॥ ४६७ ॥
मायाव्यवहितस्यास्य गूढं गगनचारिणः ।


१. ‘वर्धतुः’ शा..

सावेगाः प्लवगाः शत्रोर्गतिं ज्ञातुं न पुंगवाः ॥ ४६८ ॥
इत्युक्त्वा रघुनाथेन निर्दिष्टाः कपियूथपाः ।
दिशासु विविशुर्व्योम सज्जाः शत्रजितः क्षये ॥ ४६९ ॥
नीला नीलात्मजगजास्ते भैन्दद्विविदाङ्गदाः ।
शरभर्षभसंपातिहराश्चरुर्नभरतले ॥ ४७० ॥
तेषां गरुडवेगानां गतिं गगनवासिनाम् ।
शरैरवारयद्धोरैरिन्द्रजिद्विजयोर्जितः ॥ ४७१ ॥
अदृश्यनाशनिस्पर्शविशिखै शमाहताः ।
ते तेन तमसि स्फीते निपेतुः पर्वता इव ॥ ४७२ ॥
ततः स्फारशरासारैनिःसूत्रान्तरपातितैः ।
चकार राघवौ वज्रशिखाप्रेताविवेन्द्रजित् ॥ ४७३ ॥
भुजङ्गवदनैाप्तौ ज्यालामालोल्वनैः शरैः ।
विरुद्धचापव्यापारौ दुर्लक्षौ तौ बभूवतुः ॥ ४७४ ॥
कल्पान्तवाताभिहतौ तौ च कल्पद्रुमाविव ।
तौ चन्द्रे दुर्निमित्ताय च्युते सूर्य इवाम्बरात् ॥ ४७५ ॥
तद्वदं साट्टहासेन नादेनाघट्टयन्दिशः।
जगाम गगनव्यापी विश्राव्य स्वयमिन्द्रजित् ॥ ४७६ ॥
इति रात्रियुद्धे इन्द्रजिज्जयः ॥ १६ ॥
विष्णुशक्रोपमो दृष्ट्वा पतितौ रामलक्ष्मणौ ।
सुग्रीवमुख्यास्तं देशमाययुः सविभीषणाः ॥ ४७७ ॥
ते राधवासक्तदृशः सुग्रीवहनुमन्मुखाः ।
विद्धा इवापीतविषैः सर्वमर्मसु सायकैः ॥ ४७८ ॥
मनोरथरथभ्रष्टाः श्वभ्रे निपतिता इव ।
भङ्गाभिमानविभवा मेरुशृङ्गादिव च्युताः ॥ ४७९ ॥
भिन्ने प्रवाहने ममा वणिजा जलधाविव ।
दस्युभिर्म्लेच्छदेशेषु विक्रीताः श्रोत्रिया इव ॥ ४८० ॥

नीचयाच्यावमानेन संतप्ता इव साधवः ।
दुःखसंत्रासदैत्यानां लज्जिताः प्रययुर्वशम् ।
हस्तन्यस्तललाटाग्रं सुग्रीवं साश्रुलोचनम् ॥ ४८१ ॥
दुःखक्रोधानलाक्रान्तमभापत विभीषणः ।
युद्धान्येवंविधान्येव विजये नास्ति निश्चयः ॥ ४८२ ॥
चला सिद्धिर्विधौ वक्रे पौरुषे सफलं क्वचित् ।
त्यज्यतामेप संतापः शूरः शोच्यो न राघवः ॥ ४८३ ॥
अवश्यं जन्मवीराणां वधाय विजयाय वा ।
अच्छन्नं समरच्छिन्नैरचलं वीचिचञ्चलैः ॥ ४८४ ॥
अनल्पमल्पैरसुभिर्लभन्ते सुभटा यशः ।
मा कृथा मोहसुलभं शोकं शत्रुपराभवे ॥ ४८५ ॥
अभिमानधनानां हि भुजायत्ता प्रतिक्रिया ।
सखे क्षणं प्रतीक्षस्व मोहं त्यक्ष्यति राघवः ॥ ४८६ ॥
नास्ति मृत्युभयं सत्यं सत्यधर्मानुयायिनाम् ।
न मोहः कृच्छ्रकालेपु व्यसनव्याधिभैषजम् ॥ ४८७ ॥
धैर्यादीनानि कार्याणि सर्वथा धैर्यशालिनाम् ।
त्वयि प्रतापतिग्मांशो मोहमेघनिमीलिते ॥ ४८८ ॥
नौरिवाकर्णधारेयं मन्यते हरिवाहिनी।
इत्युक्ता सलिलेनास्य प्रमृज्य नयने स्वयम् ।
आश्वासं विदधे वीरः प्लवगानां विभीषणः ॥ ४८९ ॥
शयितौ वीरशयने राघवौ हनुमन्मुखाः ।
तृणाञ्चनेऽपि चकिता ररक्षुर्यनमास्थिताः ॥ ४९० ॥
गिरा शक्रजितो त्वा निहतौ रामलक्ष्मणौ ।
रावणस्तं परिप्वज्य विदधे नगरोत्सबम् ॥ ४९१ ॥
पुष्पकं सममारोप्य राक्षसीभिस्तु रक्षिताम् ।
सीतामदर्शयत्तस्यै शरतल्पगतं पतिम् ॥ ४९२ ॥

सा तं दृष्ट्वैव सहसा मोहेन महता हता।
संज्ञामासाद्य शनकैर्विललापाश्रुगद्गदम् ॥ ४९३ ॥
अहो तु पुण्यहीनाया ललाटे मम संकटे ।
त्वत्समागमपीयूषप्राप्तिर्न लिखिता पुनः ॥ ४९४ ॥
दाक्षिण्यं तत्क्व ते नाथ क्वा सा प्रीतिरकृत्रिमा ।
यद्धि मामसुरावाप्तां दृष्ट्वा नैवाभिभाषसे ॥ ४९५ ॥
कोऽयं कठोरपर्यन्तः कठिनो मन्युविप्लवः ।
चक्षुषा प्रेमदिग्धेन कथं मां न निरीक्षसे ॥ ४९६ ॥
प्रयच्छ में प्रतिवचः पश्य प्रणयिनीं दृशा।
प्रसादाल्लालितः पूर्वं नावज्ञां सहते जनः ॥ ४९७ ॥
अपि ते हृदयं कच्चिदध्यास्ते न पराङ्गना ।
अपि नाम न ते नेहः प्रवासान्मयि विस्मृतः ॥ ४९८ ॥
अहोऽसि तव धैर्याब्धे निहिताशेषरक्षसा ।
अहो उल्लङ्घिताम्भोधेर्गोष्पदं पतनं तव ॥ ४९९ ॥
सुचिरायासतप्ताया नेदानीं दर्शनं तव ।
जीवितत्यागमात्रेण परलोके समागमः ॥ ५०० ॥
पाणिपादतलाशक्रै रेखाकमलमण्डलैः ।
वैधव्यं सूचितमिदं कथं मे शुभलक्षणैः ॥ ५०१ ॥
ये भर्तृशस्तां मामाहुः कन्यालक्षणकोविदाः ।
ते दैवज्ञाः कथं नाम जाता वितथवादिनः ॥ ५०२ ॥
नीलाः केशाः समाः सूक्ष्माः परिच्छिन्ने भ्रुवौ च मे
शङ्खो नेत्रे वरौ पादौ गुल्फी च न शिरोन्नतौ ॥ ५०३ ॥
दन्ताः प्रगुणरामाश्च तनुवृत्तशिखा नखाः ।
स्तनौ सुसंहतौ पीनौ सुवृत्तौ मग्नचूचुकौ ॥ ५०४ ॥
गम्भीरो नाभिदेशश्च कान्तिःसिग्धा च मे मृदुः ।
ममेदं येन वैधव्यं न तत्पश्यामि लक्षणम् ॥ ५०५ ॥

४२

चित्रं शत्रुकुलस्यायं हन्ता युधि निपातितः ।
अधुना पौरुषस्येव सिद्धिर्दैवेन मुद्रिता ॥ ५०६ ॥
परदेशे प्रियां त्यक्त्वा गन्तुं नार्हसि राघव ।
मनोवृत्तिरिवाहं ते सर्वत्र सहचारिणी ॥ ५०७ ॥
इति प्रलापिनीं सीतां धर्मज्ञा प्रियवादिनी ।
उवाच त्रिजटा स्वैरं तत्सतीव्रतवत्सला ॥ ५०८ ॥
अलं मिथ्याविषादेन पुत्रि जीवति ते पतिः ।
मुखवर्णेन पश्यामि रामस्य शुभमग्रतः ५०९॥
अनष्टधैर्याः: प्लवगा रामं रक्षन्ति यद्भुवि ।
यत्सैत्यानि न दीर्णानि तदेव शुभलक्षणम् ॥ ५१० ॥
न भाग्यहीना वैदेहि त्वं सत्त्वोचितलक्षणा ।
ममभाग्यो जनः सत्यं पुष्पकेन न धार्यते ।
पुप्पकेन हृता तूर्णमशोकवनिकां ययौ ॥ ५११ ॥
इति रामदर्शनम् ॥ १७॥
ततः संज्ञां समासाद्य कृच्छ्रेणोन्मीललोचने ।
वज्राङ्गधाशविवशैः प्लवगैः परिवारितः ॥ ५१२ ॥
विलोक्य लक्ष्मणं दीनं शयानं रुधिरौक्षितम् ।
बाप्पच्याप्तमुखो रामः क्षामस्वरमभापत ॥ ५१३ ॥
हा सुखभ्रष्टसौमिने मदर्थ त्यक्तजीवित ।
भूमिमालिङ्गय सुप्तोऽसि कथं मम पराङ्मुखः ॥ ५१४ ॥
सर्वत्र सुहृदः सन्ति सन्ति संवन्धवान्धवाः ।
अभिन्नजन्मदेहस्य दुर्लभः स सहोदरः ॥ ५१५ ॥
मन्त्री बन्धुः सुतः शिप्यः सुहृयोधः पथानुगः ।
लक्ष्मणेन समो भ्राता भाग्यहीनैर्न लभ्यते ॥ ५१६ ॥
भग्नाभिमानसर्वस्वः कथं जीवितुमुत्सहे ।
छिन्नोऽयं यस्य सौमित्रिर्दक्षिणो दक्षिणो भुजः ॥ ५१७ ॥


१.‘मः’शा..

भ्रातः सीतावियोगेऽपि नोक्तोऽसि परुपं मया ।
समन्युरिव मां कस्मान्न कस्मान्नाभिभाषसे ॥ ५१८ ॥
क्वासौ मदाज्ञाप्रणयी मयि सेवारसस्तव ।
मुखसुप्तो यदद्यापि निर्भयो न विवध्यसे ॥ ५१९ ॥
इति प्रलापमुखरे लक्ष्मणक्षिप्तचक्षुषि ।
राघवे शरनिःस्पन्दे प्लवगास्तत्यजुर्धृतिम् ॥ ५२० ॥
विद्रुते सागरस्फारे हरिसैन्ये सहस्रधा ।
धूम्रं यूथपमाहूय सुग्रीवः स्वयमभ्यधात् ॥ ५२१ ॥
एते दृष्ट्वा समायातुं गदापाणिं विभीषणम् ।
इन्द्रजिद्भयसंभ्रान्ता विद्रुताः सर्ववानराः ॥ ५२२ ॥
भटानां भयभग्नानां धिग्जीवितमजीवितम् ।
रणे मृत्युर्वने मृत्युर्गुहे मृत्युश्च देहिनाम् ॥ ५२३ ॥
इत्यादिष्टः कपीन्द्रेण धूम्रो वानरयूथपः ।
विपुलं भुजमुद्यम्य जगाम प्लवगर्षभान् ॥ ५२४ ॥
रामशासनसर्वस्वः श्रीमानेष विभीषणः।
नेन्द्रजिद्व्याजयुद्धाप्तमिथ्याविजयगर्वितः ॥ ५२५ ॥
उत्सृज्य भीरुमुसलं भयं भुजबलोर्जिताः ।
जयाय रघुनाथस्य क्रियतां सैन्यसंग्रहः ॥ ५२६ ॥
इति धूम्रस्य वचसा परावृत्ते वलार्णवे ।
रामं निश्चेष्टमालोक्य विललाप विभीषणः ॥ ५२७ ॥
तृणीकृतदशास्यस्य प्रभुमाश्रित्य यन्मम ।
अभिमानोन्नतिरभूत्सोऽयं शेते शराहतः ॥ ५२८ ॥
प्रसादविशदा लोकाः सितपूर्वाभिभाषिणः ।
भाग्यहीनैर्न लभ्यन्ते प्रभवो मानदाः सदा ॥ ५२९ ॥
अहो वत नृशंसेन रक्षसा कूटबोधिना ।
निघ्नता राघवौ वीरौ निहतोऽहं निराश्रयः ॥ ५.३० ॥

श्वेतं गजं चतुर्दन्तं चामरच्छत्रलाञ्छनम् ।
अहो मुहूर्तमालोक्य पतितोऽहमधोमुखः ॥ ५३१ ॥
दुराचारो गजस्त्यक्तः काकुत्स्थोऽप्याश्रितः कृती।
कृतं कृत्यं मया साधु विधिसिद्धिषु कः प्रभुः ॥ ५३२ ॥
अहो वेश्येव निःस्नेहा वक्रा दुर्जनधीरिव ।
सर्वथा खलमैत्रीव दुरन्ता वेधसो गतिः ॥ ५३३ ॥
नमः सुघटितारम्भविनाशप्रभविष्णवे ।
विधेये पौरुषोत्कर्षस्पर्शमात्रासहिष्णवे ॥ ५३४ ॥
इति शोकाकुलः शोचन्साश्रुनेत्रो विभीषणः ।
पस्पर्श सलिलार्द्रेण पाणिना राघवो मुहुः ॥ ५३५ ॥
तं जगादाथ सुग्रीवः सखे दुःखसमुद्भवः ।
त्यज्यतामेष वैक्लव्यसंकल्पे स्त्रीजनोचितः ॥ ५३६ ॥
तव स्वच्छनखच्छायारचितोष्णीषविभ्रमः ।
अभिषेकोत्सवं मौलौ रामपाणिर्विधास्यति ॥ ५३७ ॥
सानुजं राममादाय सुषेणेन सहाङ्गदः ।
किष्किन्धा यातु सन्नद्धः सह सर्वैः प्लवङ्गमैः ॥ ५३८ ॥
अहमेको हनुमता सह लङ्कामराक्षसाम् ।
कृत्वा सीतां समादाय पश्चादेष्यामि राघवौ ॥ ५३९ ॥
सौहार्दस्य प्रसादस्य प्रणयस्य प्रियस्य च ।
राज्यदानस्य चानर्ण्यं गच्छाम्यद्य न संशयः ॥ ५४० ॥
अस्य स्फीतयशस्वच्छच्छन्नस्य व्यजनस्य च ।
हरिचन्दनकर्पूरपरिरम्भस्य भूयसः ॥ ५४१ ॥
मणिकङ्कणकेयूरमौलिहारभरस्य च ।
अनङ्गमङ्गलासङ्गललनालिङ्गनस्य च ॥ ५४२ ॥
माल्यांशुकमकारस्य संभोगस्य गरीयसः ।
इमौ मे सदृशं बाहू सुहृत्कार्यं करिष्यतः ॥ ५४३ ॥

राममानप्रसादस्य शक्या तस्य प्रतिक्रिया ।
त्यक्तैः पुनः पुनर्जातैर्न शरीरशतैरपि ॥ ५४४ ॥
यदि देवासुरैः सार्धं योत्स्यते मां दशाननः ।
तथापि तस्य कुपिते मयि नास्त्येव जीवितम् ॥ ५४५ ॥
इत्युक्ते वानरेन्द्रेण सुषेणः कपियूथपः ।
उवाच धृतिमालम्ब्य चिन्तयन्दुःखभेषजम् ॥ ५४६ ॥
देवासुररणे पूर्वमसुरैर्निहताः सुराः ।
मन्त्रौषगणैः प्रापुर्जीवितं गुरुणार्पितैः ॥ ५४७ ॥
क्षीरोदधौ पर्वतयोरन्तरे द्रोणचन्द्रयोः ।
ताः सन्त्यौषधयो यत्र बभूवामृतमन्थनम् ॥ ५४८ ॥
श्वच्छवीकरणी दिव्या विशल्या जीवनी तथा ।
संधिनी चेति तास्तूर्णं हरन्तु हनुमन्मुखाः ॥ ५४९ ॥
सुषेणेनेत्यभिहते चिन्तास्तब्धे बलार्णवे ।
अवतीर्याम्बराद्दिव्यद्युतिरभ्याययौ मुनिः ॥ ५५० ॥
इति सुग्रीववाक्यम् ॥ १८ ॥
स समासाद्य काकुत्स्थं भगवान्नारदः स्वयम् ।
स्वैरं जगाद जनता हिताय सततं यतः ॥ ५५१ ॥
रामरामाविरामस्त्वं युद्धे त्रिदशविद्विषाम् ।
देवो नारायणः श्रीमान्परमात्मा सनातनः ॥ ५५२ ॥
भगवन्भुवनारम्भव्यापारेषु प्रजासृजः ।
त्वदनुप्राणिता शक्तिः संहारेषु हरस्य च ॥ ५५३ ॥
हिरण्याख्यवधे व्यस्ता वराहेण वराहवे ।
त्वया वसुंधरोद्धारधीरेण धरणीधराः ॥ ५५४ ॥
त्वया दैत्या द्विपेन्द्रस्य लीलाकेसरिणा नखैः ।
यशांसि मौक्तिकानीव लुण्ठितानि सहासुभिः ॥ ५५५ ॥
त्रैलोक्याक्रान्तिविभवः प्रययौ बलिसंयमे ।
ब्रह्माण्डमण्डपे दण्डपादस्थे मानदण्डताम् ॥ ५५६ ॥

ज्वालाजालजटालस्ते परशुर्भार्गवाकृतेः ।
जजृम्भे क्षत्रियवने दीर्घदावाग्निलीलया ॥ ५५७ ॥
सर्वदेवमयात्मा त्वं सर्वयज्ञमयः प्रभुः ।
सर्वदेवमयाकारः पुरुषः सर्वलोककृत् ॥ ५५८ ॥
वैकुण्ठस्त्वमकुण्ठश्रीः पद्मनाभो नभःप्रभः ।
केशवः केशिहर्ता च शेषशायी नरेश्वरः ॥ ५५९ ॥
स्मरस्व सचिवं देव गरुडं गरुडध्वज ।
भुजङ्गपञ्जरं घोरं स क्षिप्रं क्षपयिप्यति ॥ ५६० ॥
इत्युक्त्वा नारदे याते तदैवोवाच मारुतिः ।
देवः काकुत्स्थमभ्येत्य कर्णान्तं स्वार्थसिद्धये ॥ ५६१ ॥
इति नारदवाक्यम् ॥ १२ ॥
ततः सस्सार गरुडं राघवौ विगतज्वरः ।
स चाययौ ध्यातमात्रः पक्षाक्षेपधुताम्बुधिः ॥ ५६२ ॥
पाणिना कृतसंस्पर्शः सानुजस्तेन राघवः ।
निःशल्यो निर्बणश्चासीन्मुक्तपाशः शशिप्रभः ॥ ५६३ ॥
स सूर्यकिरणाकीर्णसुवर्णगिरिसंनिभः ।
खस्थं काकुस्थमामन्य विवेश विशदं नभः ॥ ५६४ ॥
अथोस्थिते पृथुबले रघुनाथे सलक्ष्मणे ।
बभूव सर्वभूतानां निर्विघ्ना हर्पनिर्वृतिः ॥ ५६५ ॥
ततः प्लवगसैन्यानां नादः प्रमदसंभवः ।
उद्भुतभुवनामान्तिगम्भीरारम्भविभ्रमः ॥ ५६६ ॥
तेन शब्देन महता संभ्रान्ताः क्षणदाचराः ।
ददृशुस्तूर्णमभ्येत्य स्वस्थौ दशरथात्मजी ॥ ५६७ ॥
ते गत्वा विस्मयभयभ्रान्ता भन्ममनोरथाः।
तदप्रियमसंभाव्यं रावणाय न्यवेदयन् ॥ ५६८ ॥
इति विशल्यकरणम् ॥ २० ॥


१. ‘समताः’ शा..

सानुजं राघवं ज्ञात्वा पौलस्त्यः प्राप्तजीवित्तम् ।
विवर्णवदनः क्षिप्रं नोचे किंचिदवाङ्मुखः ॥ ५६९ ॥
कार्यं विचार्य संदेहदोलामारूढमात्मनः ।
स धैर्यस्तम्भितोद्वेगः क्रोधाद्धमाक्षमभ्यधात् ॥ ५७० ॥
अदृष्टसंमुखारातेर्ममाप्यल्पतरो रिपुः ।
उपेक्षित इव व्याधिः प्रयातः कृच्छ्रसाध्यताम् ॥ ५७१ ॥
सेयं पराभवग्लानिरयशोधूलिधूसरा ।
त्वद्यशःसितवस्त्रेण मयाद्य परिमृज्यते ॥ ५७२ ॥
रामलक्ष्मणसुग्रीवविभीषणवधाय ते ।
न्यस्तोऽयं तु जयो भारसुरसंहारकारिणः ॥ ५७३ ॥
इति माल्यमिवादाय शिरसा शासनं प्रभोः ।
रथी राक्षससैन्येन धूम्राक्षः सह निर्ययौ ॥ ५७४ ॥
राक्षसैर्मन्त्रिमित्रैश्च भीषणैः परिवारितः ।
धूम्राक्षो विदधे गच्छन्धूलिधूम्रा दिशो दश ॥ ५७५ ॥
तस्योपरिकृतच्छाये गृध्रचक्रे प्रसर्पति ।
क्षिप्रं प्राप सितच्छत्रं सव्यापारदरिद्रताम् ॥ ५७६ ॥
दुष्प्रहारो बभूवाथ रणे स भटदारणे ।
हरिसैन्येन महता रक्षसां पृथुवक्षसाम् ॥ ५७७ ॥
एहि राक्षस युध्वस्व तिष्ठ कातर वानर ।
इत्यभूद्धीषणः शब्दो विपुलस्तुमुले युधि ॥ ५७८ ॥
धूम्राक्षशरनिर्भिः प्लवगैगिरिविग्रहः ।
निपतद्भिरभूद्भूभिर्दोलाकेलिविलासिनी ॥ ५७९ ॥
वानरप्रवराः प्रौढभुजोत्सृष्टैर्महाद्रुमैः ।
विपुलाभिः शिलाभिश्च चक्रिरे रक्षसां क्षयम् ॥ ५८० ॥
विदारितेषु सैन्येषु धूम्राक्षेण तरस्विना ।
तमभ्यधावत्तेजस्वी गृहीत्वा मारुतिः शिलाम् ॥ ५८१ ॥


१. ‘म्ला’ शा०. २. ‘दुर्निमित्तैः’ शा०.

क्षिप्तां तेन शिलां वीक्ष्य क्षिप्रकारी निशाचरः ।
गुर्वीं गदां समादाय रथाद्भूमिमवातरत् ॥ ५८२ ॥
साश्वसूतध्वजस्तस्य निष्पिष्टः शिलया रथः ।
सहसा प्रलयं यायान्मूढस्येव मनोरथः ॥ ५८३ ॥
स भग्नस्यन्दनः कोपात्क्षपिताशेषराक्षसम् ।
वक्षस्यताडयद्वेगाद्गदया मारुतात्मजम् ॥ ५८४ ॥
तस्योत्तमाङ्गे चिक्षेप गिरिशृङ्गं प्लवङ्गमः ।
तेन निप्पिष्टसर्वाङ्गः स पपात रणाङ्गणे ॥ ५८५ ॥
धूम्राक्षे निहिते घोरे त्रस्ताः सर्वे निशाचराः ।
हनुमद्विक्रमं गत्वा पौलस्त्याय न्यवेदयन् ॥ ५८६ ॥
इति धूम्राक्षवधः ॥२१॥
जितनाके हते तस्मिन्रावणः सैन्यनायकम् ।
विससोर्जितं शत्रुहृत्कम्पनमकम्पनम् ॥ ५८७ ॥
रथिनो व्रजतस्तस्य रणाग्रं भर्तुराज्ञया ।
दीर्घप्रवासे प्रययुर्मन्त्रिमित्राणि दूरताम् ॥ ५८८ ॥
ततो बभूव संमर्दः कपीनां वीर्यशालिनाम् ।
राक्षसैरक्षयवलैरकम्पनपुरःसरैः ॥ ५८९ ॥
गजवाजिरथोद्भुतधूलिप्रावरणा दिशः।
नादृश्यन्त महामेघसंघातैरिव मीलिताः ॥ ५९० ॥
रणाङ्गणोद्गतरजस्स्तोमस्रस्तनमस्तले ।
युद्धे लोको निरालोकः शस्त्रशब्दैरबुध्यत ॥ ५९१ ॥
ततः सुभटशैलाग्रनिर्यद्रुधिरनिर्झरैः ।
व्याप्ते महीतले शान्ति मूलच्छिन्नं ययौ रजः ॥ ५९२ ॥
अकम्पनसनामानि वानराणां रणेपिणाम् ।
चक्रुराच्छादनानीव शरीराणि परस्परम् ॥ ५९३ ॥


१. ‘ये’ शा०. २. ‘यो’ शा०. ३. ‘दुनिमित्तानि दूतता’ शा०. ४. ‘सस्पन्दः शान ५.शिराप्तानि’ शा.

महापादपमुत्सृज्य तं समभ्याद्रवद्रुषा ।
विशालवक्षा हनुमान्सानुमानिव पर्वतः ॥ ५९४ ॥
तस्य तं गगनावर्तभ्रान्तिनिर्घोषभीषणम् ।
विशिखैरशनिस्पर्शैर्वृक्षं चिच्छेद राक्षसः ॥ ५९५ ॥
तद्बाणविद्धः सोऽप्यन्तशैलशृङ्गः समाययौ ।
रुधिरोद्वारिभिर्गात्रैर्धातुस्रावीव भूधरः ॥ ५९६ ॥
वज्रवेगैर्गिरिशिरश्चिच्छेदाकम्पनः शरैः ।
शिखाविखण्डनोद्भूतज्वालावलयपिङ्गलैः ॥ ५९७ ॥
अथापरं समासाद्य पादपं तत्पदानुगान् ।
जघान हनुमान्वेगाद्विद्धः शत्रुपतत्रिभिः ॥ ५९.८ ॥
अकम्पनशरोत्कृत्ते तस्मिन्नपि महाद्रुमे ।
विपुलं सालमुन्मूल्य तं जघानानिलात्मजः ॥ ५९९ ॥
दुमाभिघाताभिहत्तः कम्पमानोऽप्यकम्पनः ।
तेनैव सह वृक्षेण क्षिप्रं शकलतां ययौ ॥ ६०० ॥
इत्यकम्पनवधः ॥२२॥
त्रैलोक्याकम्पनं श्रुत्वा युद्धे हतमकम्पनम् ।
कम्पमानवपुःकोपात्तूष्णीमासीद्दशाननः ॥ ६०१ ॥
स प्रहस्तं समादिश्य समरे सैन्यनायकम् ।
अमन्यताहितत्रातं यातं नामावशेषताम् ॥ ६०२ ॥
प्रहस्तोऽप्यप्रशस्तेषु निमित्तेपु विनिर्वयौ ।
बाणसंमानमाराणां कर्तुमानृण्यमुद्यतः ॥ ६०३ ॥
स द्विपेन्द्रघटाबन्धैः पिहिताखिलदिङ्मुखैः ।
लेभे प्रलयकालस्य मेघघोरस्य तुल्यताम् ॥ ६०४ ॥
कृष्णाः कनकसंनाहा वभुस्तस्य रथे हयाः ।
अच्छिन्नविद्युद्विद्योत इव व्योम्नि बलाहकाः ॥ ६०५ ॥


१. ‘खाम’ शा०. २. ‘भा शा०.

ततः प्रहस्तसैन्येन पूरिते समरे पुनः ।
बभूव कृच्छ्रसंचारा वानराणामनीकिनी ॥ ६०६ ॥
एष रक्षःपतेर्बाहुः प्रत्यक्ष इव दक्षिणः ।
प्रहस्तो निर्गतो योद्धुमित्यभूज्जननिःस्वनः ॥ ६०७ ॥
ततः समरसंघट्टनिर्घोषः कपिरक्षसाम् ।
रामरावणयोरर्थे परित्यक्तात्मनामभूत् ॥ ६०८ ॥
हरिसेना विशालेषु रक्षःखङ्गेषु बिम्बिता ।
लेभे रामप्रभावेण सहस्रगुणितामिव ॥ ६०९ ॥
व्रजतां रक्षसां सेना कदर्यश्रीरिवाययौ ।
संकोचं मन्त्रचिन्तासु शास्त्रहीनस्य धीरिव ॥६१०॥
ग्रहस्तहस्तकृष्टस्य निर्वादी धनुषो ध्वनिः ।
प्रययौ प्रलयारम्भे मेघनिर्घोषघोरताम् ॥ ६११॥
सायकास्तद्भुजोत्सृष्टा यत्र यत्र बलाम्बुधौ ।
निपेतुस्तत्र तत्राभून्मुहूर्तावर्तविभ्रमः ॥ ६१२ ॥
सा कपिस्वामिसंनाहवर्मणां वज्रसारता ।
यच्छस्त्रास्त्रनिपातेऽपि शूराणां नाभवढ्यथा ॥ ६१३ ॥
वानराद्रिद्रुमाघातभग्नाङ्गा अपि राक्षसाः ।
अभिमानाङ्कुशाङ्कास्ते न बभूवुः पराङ्मुखाः ॥ ६१४ ॥
प्लवङ्ग भिन्नरिमातङ्गैरुत्कृत्ताङ्गैस्तुरङ्गमैः ।
पतितैर्भूरभूव्याप्ता भटैश्वोच्छिन्नकंकटैः ॥ ६१५ ॥
क्षिप्रं कवन्धरुद्धास्वरथरथ्यासु सर्वतः।
निःसंचारेपु सैन्येषु निरुच्छ्वासोऽभवज्जन ॥६१६ ॥
समुन्नदः कुम्भहनुमहानादस्तरंधमः ।
एते प्रहस्तसचिवाश्चक्रिरे राक्षसाः क्षयम् ॥ ६१७ ॥
द्विविधः शैलशृङ्गेण निप्पिपेष तरंधमम् ।
महाद्रुमाभिघातेन दुन्दुभश्च समुन्नदम् ॥ ६१८ ॥

महानादं जघानाथ शिलया बुधि जाम्बवान् ।
तरुणस्तरुणाचारश्चक्रे कुम्भहनूं व्यसुम् ॥ ६१९ ॥
हतेषु तेषु वीरेषु प्रहस्तो हस्तिदुर्मदः ।
निबिडालोडनक्रीडां शत्रुसैन्यह्रदे व्यधात् ॥ ६२० ॥
तस्मिन्गजगणैर्बाणाधारोद्धरणदुर्दिनैः ।
ससर्प शोणितनदी शरीरतरुहारिणी ॥ ६२१ ॥
प्रहस्तप्रहतां दृष्ट्वा वानराणामनीकिनीम् ।
तमभ्यधावद्वेगेन नीलः सेनासुनायकः ॥ ६२२ ॥
तयोः सन्नद्धयोर्युद्धे त्रैलोक्यत्रासकारिणि ।
क्षणं प्रेक्षकतां प्रापुः प्रेक्षिकाः कपिराक्षसाः ॥ ६२३ ॥
नीलेनाभिहतः कोपात्पृथुः स्कन्देन शालिना ।
प्रहस्तः शरजालेन निनाय तमदृश्यताम् ॥ ६२४ ॥
तं शरासारमत्युग्रं नीलो मीलितलोचनः ।
जग्राहाभिनवं वर्षघर्मान्त इव कुञ्जरः ॥ ६२५ ॥
ततस्तरुप्रहारेण प्रहस्तस्य मनोजवान् ।
जधान नीलसंनाहान्नीलः क्षिप्रं तुरङ्गमान् ॥ ६२६ ॥
हताश्वः सोऽभिपत्याशु मुसलेन प्लवङ्गमम् ।
निजघान ललाटाग्रे तं वृक्षेण स चोरसि ॥ ६२७ ॥
उद्भ्रान्तमुसलं रक्षः साक्षात्कालमिवोद्यतम् ।
नीलः शिलां समुत्क्षिप्य चक्रे स्फुरितमस्तकम् ॥ ६२८ ॥
भग्नोत्तमाङ्गे सावेगं प्रहस्ते पतिते युधि ।
रक्षसां नाभवत्कश्चिद्भग्नसंस्तम्भनं विभुः ॥ ६२९ ॥
इति प्रहस्तवधः ॥ २३ ॥
सेनानाथे हते तस्मिन्रणयज्ञे हुतात्मनि ।
समं समस्तसामन्तैर्निर्ययौ रावणः स्वयम् ॥ ६३० ॥
ततः प्रलयसंरम्भभैरवाम्भोधरध्वनिः।
रुराव रावणस्याग्रे प्रथमारम्भदुन्दुभिः ॥ ६३१ ॥

अभूद्द्वजचयैर्व्योम्नि सैन्याकारैश्च दिक्षु च ।
अभूद्भटभुजस्तम्भस्तम्भिता मरुतां गतिः ॥ ६३२ ॥
प्रधानाधिष्ठितैः सैन्यैः पूर्यमाणा दिशो दश ।
दृष्ट्वा प्रप्रच्छ काकुत्स्थः स्थितमग्रे विभीषणम् ॥ ६३३ ॥
बलैर्महीध्रविपुलैर्ध्वजपिञ्जरिताम्बरैः ।
योद्धुमभ्येति संनद्धः कोऽस्माकं सुभटः पुरः ॥ ६३४ ॥
प्रणयादिति रामेण पृष्टः प्रह्वो विभीषणः ।
उवाच निर्दिशन्दूरादङ्गुल्या सैन्यनायकान् ॥ ६३५ ॥
अग्ने यः सर्वसैन्यानां रथे सूर्य इवोदितः।
एष स्वर्गौकसां भोगवियोगगुरुरिन्द्रजित् ॥ ६३६ ॥
अस्य कुण्डलकेयूरभासुरस्य किरीटिनः ।
प्रताप इव भात्येष ध्वजः कनकनिर्मितः ॥ ६३७ ॥
अस्यैतत्कूजति धनुः पर्जन्योर्जितगजितम् ।
एपोऽतिकायः प्रवरो रथिनां दृश्यते पुरः ॥ ६३८ ॥
यश्चान हेमसंनाहं रथमारुह्य वल्गति ।
एप देवान्तको नाम सत्यनामा निशाचरः ॥ ६३९ ॥
एष मत्तद्विपशिरः शृङ्गाग्रे त्रिशिरास्ततः ।
एष रक्षःपतेः सूनुर्मकराक्षः क्षपाचरः ॥ ६४० ॥
एते कुम्भनिकुम्भोगमहोदरसुमालिनः ।
सदा संग्रामयज्ञेषु त्रिदशक्षयदीक्षिताः ॥ ६४१ ॥
अशेषभुवनध्वंसे प्रचण्डप्रलयानलाः ।
एते ते रावणामात्याः स्वर्गोल्लुण्ठनदस्यवः ॥ ६४२ ॥
सेनाग्रे परिसर्पन्ति ये पद्धयां राक्षसप्रभोः ।
त एते विवुधध्वंससाक्षिणः क्षणदाचराः ॥ ६४३ ॥
यः सहस्रशलाकेव च्छत्रेण स्वच्छकान्तिना।
नीलः शैल इवाभाति शुभाप्रवलयोज्ज्वलः || ६४४ ॥

एप विश्वजयोदग्रः पुलस्त्यो राक्षसैर्वृतः ।
प्रभूतभूतसंघातैरिव देवः पिनाकभृत् ॥ ६४५ ॥
स एप सप्तभुवनाकान्तिस्वच्छन्दशासनः ।
जानकीदुःखकोपाग्निर्दग्धशक्तिर्दशाननः ॥ ६४६ ॥
तस्यैतच्चन्द्रधवलं कैलासोल्लासजं यशः ।
त्वद्भ्रूभङ्गेन जलदश्यामलेन निमीलितम् ॥ ६४७ ॥
एतद्विभीषणेनोक्तं निशम्य रघुनन्दनः ।
दिवं विलोक्य पौलस्त्यमुवाचोत्फुल्ललोचनः ॥ ६४८ ॥
अहो प्रभावगम्भीराश्चक्षुर्वाणीमनोमुषः ।
रक्षःपतिभुजस्तम्भाः सावष्टम्भा विभूतयः ॥ ६४९ ॥
इयं दूरे कुबेरस्य दुर्लभैव शतक्रतोः ।
अस्य श्लाघ्यतमा श्रीः स्याद्धर्मेणाच्छुरिता यदि ॥ ६५० ॥
अहो नु विपरीतेषु विधिरत्यधिकादरः ।
यः करोत्यायतां लक्ष्मीमयशः स्पर्शदूषिताम् ॥ ६५१ ॥
प्रायेणासहसामान्यनिर्देषोत्कर्षसंपदाम् ।
स्वकृतेष्वपि कौटिल्यं गुणद्विष्टस्य वेधसः ॥ ६५२ ॥
प्रक्षीणसंचयश्चन्द्रः सापायाः सुखसंपदः ।
क्रियते क्रियते कर्तुनिर्विचारस्य वाच्यता ॥ ६५३ ॥
इति निर्वर्णयत्रामः प्रशशंस दशाननम् ।
सादराः सापराधेऽपि गुणलुब्धा हि साधवः ॥ ६५४ ॥
ततः समुदभूद्विश्वप्रलयारम्भभीषणः ।
पौलस्त्योश्चण्डदोर्दण्डकृष्टको दण्डनिःस्वनः ॥ ६५५ ॥
कैलासोल्लासनसहैः प्राप्तः पौलस्त्यबाहुभिः ।
भित्वाहतिशरीराणि पातालं विविशुः शराः ॥ ६५६ ॥
हन्यमानेषु सैन्येषु रावणेन प्रमाथिना ।
तमभ्यधावद्वेगेन सुग्रीवः पर्वतायुधः ॥ ६५७ ॥


१. ‘चामरः शा०.

सुग्रीवदोर्युगाक्षिप्तं सपक्षमिव तं गिरिम् ।
चिक्षेप विशिखैर्वज्रशिखैर्दशमुखः क्षणात् ॥ ६५८ ॥
शैले शकलतां याते मृत्युदंष्ट्राकरं शरम् ।
चिक्षेप राक्षसपतिः सुग्रीवायोग्रविक्रमः ॥ ६५९ ॥
स सर्प इव शुकारी भित्त्वा प्लवगमाशुगः ।
वलक्षपक्षनिवहः प्रविवेश रसातलम् ॥ ६६० ॥
शराभिघातव्यथिते पतिते वानरेश्वरे ।
योद्धमभ्याययुः सर्वे कराः प्लवगपुंगवाः ॥ ६६१ ॥
सालतालशिलावृष्टिं तैः क्षिप्तामक्षयां क्षणात् ।
क्षिप्रकारी दशग्रीवः छित्त्वा चिक्षेप सायकान् ॥ ६६२ ॥
वज्रवेगैः शरैः क्षिप्तास्तैमन्दद्विविदादयः ।
क्षितौ निपेतुः सावेगाश्छिन्नमूला इव द्रुमाः ॥ ६६३ ॥
भग्नेषु कपिसैन्येपु सौमित्रिः शत्रुदारणः ।
रामशासनमादाय दशकण्ठं समाद्रवत् ॥ ६६४ ॥
कोपादापतिते तस्मिन्वीरे धुर्ये धनुष्मताम् ।
हनुमानग्रतो गत्वा लकेश्वरमयोधयत् ॥ ६६५ ॥
तमब्रवीद्दशग्रीवः कपे दर्शय पौरुपम् ।
विहीनविक्रमं हन्तुं प्रवर्तन्ते न मद्भुजाः ॥ ६६६ ॥
इत्युक्ते राक्षसेन्द्रेण जगाद पवनात्मजः ।
किमक्षस्य वधे दृष्टं न त्वया मम पौरुषम् ॥ ६६७ ॥
निस्पिष्टराक्षसभटो मुप्टिरेप ममोद्यतः ।
करोत्यद्य शरीरं ते क्षिप्रं प्रोपितजीवितम् ॥ ६६८ ॥
इति ब्रुवाणं प्लवगं रथोपश्लिष्टमभ्यधात् ।
दशास्यो दशभिहस्सैः शुभ्रीकृत्य दिशो दश ॥ ६६९ ॥
कपे प्रहर निःशङ्कं निहितस्य ततो मया ।
तव प्रागल्भ्यजा कीर्तिश्चिरमेपा विजृम्भताम् ॥ ६७०

इत्युक्तः पृथुवेगेन तलेनोरसि मारुतिम् ।
जधान रावणो येन स मुहूर्तमकम्पत ॥ ६७१ ॥
सहसैव समाश्वस्तो हनुमान्प्रौढविक्रमः ।
तलेन वनसारेण रक्षःपतिमताडयत् ॥ ६७२ ॥
तलेनाभिहतस्तेन लोलबाहुर्दशाननः ।
चचाल व्याकुलततुर्दशशृङ्ग इवाचलः ॥ ६७३ ॥
सोऽवदत्साधु ते वीर्य कपे योग्योऽसि मे रिपुः ।
मे सारणः प्रहारेण येनाहमसि कम्पितः ॥ ६७४ ॥
सावलेप वचः शत्रोः श्रुत्वैतत्पवनात्मजः ।
जगाद स्वभुजे चक्षुः सासूयं प्रतिपादयन् ॥ ६७५ ॥
धिग्बलं मम पौलस्त्य लोकलज्जाकरं परम् ।
यन्न यातोऽसि मन्मुष्टिनिष्पिष्टश्लक्ष्णचूर्णताम् ॥ ६७६ ॥
इति ब्रुवाणस्यात्युग्रक्रोधान्निर्धूतविश्रुतम् ।
वेगादपातयन्मुष्टिं कपेर्वक्षसि राक्षसः ॥ ६७७ ॥
गाढप्रहारसंजातमूर्छा विपुलमानसे ।
हनूमति दशग्रीवः सावेगं नीलमाद्रवत् ॥ ६७८ ॥
मारुतिर्लव्धसंज्ञोऽथ सक्तं नीलेन रावणम् ।
द्वन्द्वयुद्धविधौ धर्मं स्मरं नैनं समाद्रवत् ॥ ६७९ ॥
ततः शरभरासारैर्विद्धः पावकसंभवः ।
क्रोधात्प्रज्वलितो नीलः पौलस्त्यायासृजद्गिरिम् ॥ ६८० ॥
तं बाणैर्नवभिश्छित्वा गिरिं वृक्षांश्च रावणः ।
नीलं शरशतैश्चके मेघच्छन्नमिवाचलम् ॥ ६८१ ॥
ततो नीलः समाश्रित्य मायामद्भुतविक्रमः ।
विश्वात्मानमिवात्मानं सर्वत्र समदर्शयत् ॥ ६८२ ॥
ध्वजे धनुषि बाणान्ते किरीटाग्रे च पावकिम् ।
दुर्लभं राक्षसपतेर्वीक्ष्य कोपाकुलोऽभवत् ॥ ६८३ ॥


१. ‘खे शा.. २. ‘ग्रहः’ शा०. ३. ‘गो’ शा०.

महास्त्रमभिमन्त्र्याशु घोरमाग्नेयमाशुगम् ।
रक्षश्चिक्षेप नीलाय सप्तलोकक्षयक्षमम् ॥ ६८४ ॥
वक्षस्यभिहतो नीलस्तेनास्त्रेणोग्रतेजसा ।
विसंज्ञः प्राप तद्भूमौ पित्रा रक्षितजीवितः ॥ ६८५ ॥
ततः सौमित्रिरभ्येत्य कर्णान्ताकृष्टकार्मुकः ।
उवाच रावणं धीरः पादचारी रथस्थितम् ॥ ६८६ ॥
अभ्येहि राक्षसपते युध्यस्व समरे मया ।
अभङ्गविक्रमं जेतुं न त्वामर्हन्ति वानराः ॥ ६८७ ॥
इति वादिनमक्षोभ्यं क्षुब्धचेता दशाननः ।
अभ्यघाल्लक्ष्मणं कोपकम्पव्याकुलमण्डलः ॥ ६८८ ॥
दिष्टया मे तापसपशो दृशोर्यातोऽसि गोचरम् ।
त्वत्संदर्शनपर्यन्तं सत्यं जीवितमद्य मे ॥ ६८९ ॥
मूकस्येवाभिवादेच्छा पङ्गोरिव जवोद्गतिः ।
अन्धस्येवादरश्चित्ते श्रद्धा मेऽस्त्येव ते युधि ॥ ६९० ॥
योद्धुमिच्छसि दर्पान्ध केवलं बालचापलात् ।
एतैः कैलाशसंघट्टस्पष्टाङ्कविकटैर्भुजैः ॥ ६९१ ॥
इत्युक्ते राक्षसेन्द्रेण लक्ष्मणः पुनरब्रवीत् ।
निःसाराणां भवन्त्येव सत्यं वाचि प्रगल्भता ॥६९२ ॥
इत्युक्त्वा लक्ष्मणक्षिप्तान्रामः सेन्द्रेण सायकान् ।
चिच्छेद विशिखैस्तीक्ष्णैस्तत्संकल्पानिवायतान् ॥ ६९३ ॥
ततः सौमित्रिपौलस्त्यपत्रिजालैरवान्तरैः ।
अदाभ्रभ्रैरिव भ्रान्तमेकच्छत्रमभून्नभः ॥ ६९४ ॥
सायकेनाथ सौमित्रि ललाटे रावणोऽभिनत् ।
ब्रह्मदत्तेन सोल्लेखं कर्मणेवाविनाशिना ॥ ६९५ ॥
कृच्छ्रेण शरनिर्भेदव्यथां संस्तम्भ्य लक्ष्मणः ।
कृन्तचापं रिपुं चके विशिखाघातमूर्छितम् ॥ ६९६ ॥


१. ‘शाला शा०.

संज्ञां प्राप्य दशग्रीवः शक्तिं कालानलोल्बणम् ।
ससर्ज लक्ष्मणायोग्रां मूर्तां शक्तिमिवात्मनः ॥ ६९७ ॥
ज्वालाजटिलयातस्य शक्त्याभिहतवक्षसः ।
मुहूर्तं वैष्णवो भागः स्वयं स्मृतिपदं ययौ ॥ ६९८ ॥
विश्वेश्वरांशदृप्तेन सबलेनाभिपूरितः ।
अभ्येत्य लङ्काधिपतिं जघानोरसि मुष्टिना ॥ ६९९ ॥
मुष्टिप्रहारामिहतस्तूर्णमापूर्णितेक्षणः ।
जानुभ्यामवनिं गत्वा निपपात दशाननः ॥ ७०० ॥
च्युते निजाभिमानेन सह त्रिदशविद्विषि ।
सुरसिद्धर्षिसंघानां बभूवानन्दनिःस्वनः ॥ ७०१ ॥
ततः समीरणसुतो दोर्भ्यामालिङ्गय लक्ष्मणम् ।
निनाय रावणाभ्यासं मूर्तं जयमिवौर्जितम् ॥ ७०२ ॥
सापि रक्षःपतेः शक्तिर्जीवशक्तिरिव खयम् ।
अभ्याययौ कृच्छ्रगतं पतिं कुलवधूरिव ॥ ७०३ ॥
पुनः समुद्यते योद्धं लब्धप्राणे दशानने ।
तद्वाणाशनिसंपातैर्बभूव प्लवगक्षयः ॥ ७०४ ॥
ततो मारुतिमारुह्य देवस्तार्क्ष्यमिवाच्युतः ।
अभ्याद्रवद्दशग्रीवं चापं विस्फार्य राघवः ॥ ७०५ ॥
स जहार द्विषां धैर्यं सीतादुःखाब्धिसेतुना ।
हेतुना विश्वरक्षासु राक्षसक्षयकेतुना ॥ ७०६ ॥
समुद्दलितपापेन प्रतापेनेव रूपिणा ।
चापेन शत्रुशापेन क्षिपन्सायकसंचयान् ॥ ७०७ ॥
तं योद्धमागतं दृष्ट्वा दर्पविक्रमविस्मितः ।
रजनीचरराजोऽभूद्भग्नसीतामनोरथः ॥ ७०८ ॥
ततः पौलस्त्यविशिखैर्विद्धं दृष्ट्वानिलात्मजम् ।
त्रोंकारमुखरां मौर्वीं चकर्ष रघुनन्दनः ॥ ७०९ ॥


१. ‘रूप’ शा. २. ‘नों शा०.

पेतुः पौलस्त्यगात्रेषु तीक्ष्णा रामशिलीमुखाः ।
मिथः शौर्यश्चियं दृष्टुं सुचिराबद्धकौतुकाः ।
संकल्पा इव चेरुस्ते रामरावणयोः शराः ॥ ७१० ॥
ततो रामशरोत्कृत्तकेतुर्जेतुर्दिवौकसाम् ।
पपात संपदां शृङ्गं शार्वोर्वर इवोन्नतः ॥ ७११ ॥
चक्रुर्नेमिसमुल्लेखखण्डिताखण्डभूतलम् ।
रावणस्योन्ममाथाथ रथं दशरथात्मजः ॥ ७१२ ॥
शरेण निशिताग्रेण पौलस्त्यस्तेन ताडितः ।
कम्पमानतनुश्चक्रे लोलकुण्डलताण्डवम् ॥ ७१३ ॥
छिन्नं रामार्धचन्द्रेण किरीटं तस्य भूतले ।
ऐश्वर्यमिव रत्नाढ्यं पतितं ददृशुः सुराः ॥ ७१४ ॥
च्युतचापं हतगति तमुवाचाथ राघवः ।
गच्छ श्रान्तोऽसि समरे सकृत्संरक्षितो मया ॥ ७१५॥
आलुलोके तदाकर्ण्य त्रैलोक्यजयगर्वितः ।
क्षणं निजदुराचार मारनम्रामिव क्षितिम् ॥ ७१६ ॥
युधिप्रष्टप्रतिष्ठस्य पृष्ठं यस्य सुरासुरैः ।
न दृष्टं स ययौ स्पष्टं भ्रष्टमानो दशाननः ॥ ७१७ ॥
निर्जितो न तु तत्याज जानकीसंगमस्पृहाम् ।
असुभिः सह निर्बन्धो दुर्वृत्तानां निवर्तते ॥ ७१८ ॥
अहो दुर्नयशस्त्राय कियती तीक्ष्णसारता ।
यत्प्रभावं छिनत्त्याशु वज्रोल्लेखैरखण्डितम् ॥ ७१९ ॥
पतिं साध्वीव विगुणं मातेवानुचितं सुतम् ।
द्वेप्यं वेश्येव दातारं दर्पं नोज्झति मूढता ॥ ७२० ॥
इति रावणभङ्गः ॥ २४ ॥
ततो विवेश पौलस्त्यः स्फारं कनकमन्दिरम् ।
कन्दरं सुरशैलस्य सिंहाक्रान्त इव द्विपः ॥ ७२१ ॥

उपविश्य श्वसत्रत्नप्रदीप्तं काञ्चनासने ।
उवाच सुचिरं ध्यात्वा राक्षसानाक्षसेश्वरः ॥ ७२२ ॥
अहो ममातितीव्राणि तेजांसि च तपांसि च ।
व्यर्थीभूतानि देवस्य शासनात्पौरुषद्विपः ॥ ७२३ ॥
परिनिष्ठितसारेषु प्रभावेषु गुणेषु च ।
पतिता स्वेच्छया धातुः शक्तिर्वैफल्यकारिणी ॥ ७२४ ॥
शक्तिसाध्यानि कार्याणि स्वाधीनाः पौरुषश्रियः ।
अचिन्त्या फलकाले तु सोन्मादस्य विधेर्मतिः ॥ ७२५ ॥
विपन्ने पौरुषोद्योगे क्रियते कस्य वाच्यता ।
एवंविधैव प्रायेण वस्तुशक्तिरनिश्चिता ॥ ७२६ ॥
सततानुभवाभ्यासालोके विस्मृतविस्मयाः ।
जयन्त्यद्भुतवीर्यस्य कुटिलाः केलयो विधेः ॥ ७२७ ॥
दधीच्यस्थ्युद्भवाश्छिन्नाः कुलिशेन कुलाचलाः ।
कैलासतुल्यकल्लोलः पीतश्च मुनिनाम्बुधिः ॥ ७२८ ॥
मर्त्येभ्यो भयमेतन्मे सत्यमूचे प्रजापतिः ।
अयं स नन्दिनिर्दिष्टः कष्टं कपिपराभवः ॥ ७२९ ॥
सालाट्टालप्रतोलीषु द्वारगोपुरवर्त्मसु ।
अधुना क्रियतां रक्षा रक्षोभिर्वलवत्तरैः ॥ ७३० ॥
ब्रह्मशापाभिभूतोऽसौ कुम्भकर्णः प्रबोध्यताम् ।
जयाशा मे सदा यस्मिन्ननुजे स्वभुजे यथा ॥ ७३१ ॥
स ममास्सिन्यदि भ्राता व्यसने नोपयुज्यते ।
तत्तेन स्फारसारण भूमिभारेण किं वृथा ॥ ७३२ ॥
इति राक्षसराजेन समादिष्टाः क्षपाचराः ।
कुम्भकर्णप्रबोधाय विविशुस्तनिकेतनम् ॥ ७३३ ॥
दहशुस्तं प्रविश्योरुरत्नकुट्टिमसंश्रये ।
महार्हशयने सुप्तं कुम्भकर्णं गिरिप्रभम् ॥ ७३४ ॥

तस्य नामा गुहागर्भनिर्गतैः श्वासमारुतैः ।
गतागतमभूत्क्षिप्रं तृणानामिव रक्षसाम् ॥ ७३५ ॥
स शीतचन्दनैर्माल्यैः कीर्णो न बुबुधे यदा ।
तैस्तदा शङ्खभेरीणां सहस्रैश्चक्रिरे स्वनम् ॥ ७३६ ॥
ततो रक्षःसहस्राणि रथकुञ्जरवाजिभिः ।
तस्य विन्ध्यातटे स्फारे चिरं वक्षसि विभ्रमुः ॥ ७३७ ॥
स तैः समाहतोऽप्युग्रप्रगदामुद्गरतोमरैः ।
गाढनिद्रां न तत्याज दृप्ततामिव दुर्जनः ॥ ७३८ ॥
ततस्त्रिदशगन्धर्वसिद्धविद्याधराङ्गनाः ।
विविशुस्तत्प्रबोधाय गीतवाद्यरवाकुलाः ॥ ७३९ ॥
तासां पीनस्तनस्पर्शर्दिव्यचन्दनसौरभैः ।
मधुरैः काकलीगीतैः कुम्भकर्णो व्यबुध्यत!! ७४० ॥
सर्वथा भ्रूसमुल्लासविलासाञ्चितचक्षुषाम् ।
प्रगल्भता पुरंध्रीणामसाध्येष्वपि वस्तुषु ॥ ७४१ ॥
एताः पीयूषहासिन्यः कान्ता कुमुदकोमलाः ।
सर्वेन्द्रियशिलाभेदकठिना वज्रसूचयः ॥ ७४२ ॥
नेत्रे ततः समुन्मील्य पातालविपुलाननः ।
वज्राञ्चितभुजस्तम्भः कुम्भकर्णो व्यजृम्भत ॥ ७४३ ॥
स स्नात्वा हस्तिमहिपैर्मनुष्यैश्च कृताशनः ।
पीत्वा कुम्भसहस्त्राणि रुधिरस्यासवस्य च ॥ ७४४ ॥
सीतानिकारजं श्रुत्वा घोरं भ्रातुः पराभवम् ।
उत्थाय निश्वसन्कोपात्प्रययौ द्रष्टुमग्रजम् ॥ ७४५ ॥
तस्य मेरुशरीरस्य लग्नमर्कपथे शिरः।
दृष्ट्वा बहिः स्थिताः सर्वे वानरा दुद्रुवुर्भयात् ॥ ७४६ ॥
इति कुम्भकर्णप्रबोधः ॥ २५ ॥
किरीटिनं महाकायं दृष्ट्वा रामः क्षपाचरम् ।

पप्रच्छ भयभग्नेषु प्लवगेषु विभीषणम् ॥ ७४७ ॥
किमेतदद्भुततरं लङ्कायां भूतमुत्थितम् । .
ब्रह्माण्डमण्डपे यातं मानस्तम्भाभिरामताम् ॥ ७४८ ॥
अयं शरीरवात्सल्ये चिराद्विन्ध्यः समुद्गतः ।
कर्णकोणे करोत्येष यस्याङ्कः कुण्डलभ्रमम् ॥ ७४९ ॥
विस्मयादिति रामेण पृष्टः प्रेम्णा विभीषणः ।
उवाच कुम्भकर्णोऽयं भ्रात्रा कृच्छ्रविबोधितः ॥ ७५० ॥
एप निर्जितजम्मारिर्जगत्क्षयकृतक्षणः ।
ब्रह्मणैव कृतस्वमो दीर्घनिद्रां प्रवेशितः ॥ ७५१ ॥
अनेन तरसा कृष्टो दन्त ऐरावणाननात् ।
वासवः समरे वीरः प्रहारैर्जर्जरीकृतः ॥ ७५२ ॥
उद्यन्तां कपयस्तूर्णं तीवत्रासनिवृत्तये ।
मन्त्र एष कृतो घोरो मायया राक्षसैरिति ॥ ७५३ ॥
विभीपणस्येतिधिया सैन्याब्धौ निर्भये कृते ।
विवेश रावणं द्रष्टुं कुम्भकर्णो मदोत्कटः ॥ ७५४ ॥
स प्रणम्य दशग्रीवं चरणालीनशेखरः ।
प्रबोधकारणं तेन प्रणयेन दशाननः ।
पृष्टो वभाषे निश्वासैः पूर्वमुक्तमनक्षरम् ॥ ७५५ ॥
अहो मे दयितो भ्राता दिग्जये प्रथमो भुजः ।
सुखसुप्तो न जानीपे नवं वैरिपराभवम् ॥ ७५६ ॥
सीतावियोगग्रस्तेन मनुष्येण पदातिना ।
अस्मत्प्रभावगम्भीरो नदीनाथः स्थलीकृतः ॥ ७५७ ॥
क एवं नाम जानीते लोकपालपुरःसरैः ।
ममापि नगरी लङ्का यत्प्रयत्नेन रक्ष्यते ॥ ७५८ ॥
अस्यावमानपङ्कस्य कलङ्कस्य मलश्रियः ।
शुद्धिस्त्वं निहतारातिवधूबाप्पाम्बुनिर्झरैः ॥ ७५९ ॥


१. रुग्णेषु’ शा०. २. ‘यस्याकः’ इति स्थात. ३. ‘णक’ शा०.

इत्युक्ते राक्षसेन्द्रेण कुम्भकर्णोऽभ्यभाषत ।
हसन्विवृत्तवनेन्दुर्गुहागम्भीरनिस्वनः ॥ ७६० ॥
अहो बत न ते कच्चिद्विपश्चिन्मन्त्रिमण्डले ।
बभूव घोरव्यसनबाधव्याधिचिकित्सकः ॥ ७६१ ॥
सत्यं सीतापहारस्य परिहारस्य संपदाम् ।
पतनं पादपस्येव प्रत्यासन्नमिदं फलम् ॥ ७६२ ॥
राजन्किमेतत्सचिवैः प्रथमं न विचारितम् ।
जायते वा विपन्नेऽर्थे सा पूर्व श्रेयसे मतिः ॥ ७६३ ॥
देशकालविरुद्धेषु कालेषु निद्रिता मतिः ।
आहुतिर्मन्त्रहीनेव न फलाय प्रकल्पते ॥ ७६४ ॥
छन्दानुवर्तिनः पापाहुनयेप्वनुवादिनः ।
मन्त्रिणः शत्रवो राज्ञामज्ञानसुहृदः परम् ॥ ७६५ ॥
मूर्खैरहो सहामात्यैः पशुभिः प्रोषितैरिव ।
आत्मक्षयोद्यतमतिर्भ्राता मम न रक्षितः ॥ ७६६ ॥
एकस्मिन्विवृते रन्ध्र प्रविशत्येव पार्थिवम् ।
हंसश्रेणीव क्रौञ्चाद्रिं घोरानर्थपरम्परा ॥ ७६७ ॥
अपसारितरक्तस्य पट्टवन्धो महीपतेः ।
रोगस्येव विभिन्नस्य लाघवायैव केवलम् ॥ ७६८ ॥
शक्तः कृतोद्यमः शत्रुः स्वेनैवार्थेन तुष्यति ।
यदि तत्किमयं रामो भवद्भिः समुपेक्षितः ॥ ७६९ ॥
न कर्णाभ्यर्णमायातं न च लोचनगोचरम् ।
कदाचित्कस्यचिन्नाम महाब्धौ सेतुबन्धनम् ॥ ७७० ॥
कथं सेतुर्यशः सेतुर्मत्येनाब्धौ विवर्त्यते ।
प्रसारितः स कालेन दी| वाहुः क्षयप्रदः ॥ ७७१ ॥
श्रुत्वैतत्कुम्भकर्णस्य वचनं पथ्यमप्रियम् ।
तमूचे रावणः कोपाद्भ्रुकुटीकुटिलानन्ः ॥ ७७२ ॥

वीरव्रतपरिभ्रष्टं श्रुतं तव मया वचः ।
आयासितोऽसि मिथ्यैव भजस्व शयनं पुनः ॥ ७७३ ॥
कथं वृद्ध इवाचार्यः पुनरुक्तानुशासनैः ।
श्रुतिशूलैः करोषि त्वं व्यथां शुक्तैरिवौषधैः ॥ ७७४ ॥
निर्दया किमतिकान्ते यत्कृतं साध्वसाधु वा ।
प्रतिक्रिया हि दोषस्य वर्तमानस्य चिन्त्यते ॥ ७७५ ॥
विचारावसरस्तावद्यावन्न स्फुरितं शरैः ।
रक्तक्षीबेषु स्वङ्गेषु मन्त्रचिन्तासु कः प्रभुः ॥ ७७६ ॥
श्रीरक्षणक्षमस्यायमुपदेशस्य न क्षणः ।
रजन्यां नेत्रसर्वस्वं दिवा दीपो निरर्थकः ॥ ७७७ ॥
प्रमादाद्योऽयमस्माभिः सुमार्गों विषमीकृतः ।
त्वत्प्रभावसमीभूतः स भवत्वद्भुतोदयः ॥ ७७८ ॥
इति प्रौढप्रकोपस्य भ्रातुराकर्ण्य शासनम् ।
कुम्भकर्णोऽभ्यधारिक्षप्रं वैलक्ष्यविनताननः ॥ ७७९ ॥
आर्य संत्यज्यतामेष शत्रुचिन्ताकृतो ज्वरः ।
त्वद्भूभङ्ग इवात्युग्रः सज्जोऽहं विश्वसंक्षये ॥ ७८० ॥
अवश्यं तु हितं वाच्यं यदुक्तोऽसि मया प्रभो ।
त्रिजगत्क्षयदीक्षासु वयमभ्यधिकादराः ॥ ७८१ ॥
अधुना मद्भुजस्तम्भन्यस्तशत्रुपरिक्षयः ।
कान्ताप्रसादनव्यग्रश्चिरं विचर निर्वृतः ॥ ७८२ ॥
अवानरमसुग्रीवमलक्ष्मणमराघवम् ।
अद्य लोकं करोम्येष त्वच्छासनपरो रणे ॥ ७८३ ॥
एक एवाध गत्वाहमितो निजभुजायुधः ।
क्षपयामि परानीकं सर्वे तिष्ठन्तु राक्षसाः ॥ ७८४ ॥
सोत्सेकं कुम्भकर्णस्य वचः श्रुत्वा महोदरः ।
उवाच रावणाग्रेऽपि प्रगल्भः कार्यगौरवात् ॥ ७८५ ॥

कथं बाल इवाकाले निःसहायोऽपि चापलात् ।
जेतुमिच्छसि काकुत्स्थं हन्तारं त्रिदशद्विपाम् ॥ ७८६ ॥
न ते शौर्यास्पदं गर्वादसंभाव्यं वदन्ति ये ।
उद्योगकारिणी सत्यमत्युक्तिः फलवर्जिता ॥ ७८७ ॥
सर्वैः क्षपाचरगणैः सह गच्छ रणाङ्गणम् ।
कुलानुरूपं युध्यस्व विजयस्तु विधेर्वशे ॥ ७८८ ॥
हतं तु राघवं मिथ्या विश्राव्य जनकात्मजाम् ।
निराशा स्वशां देवः करोतु दशकंधरः ॥ ७८९ ॥
मायायुद्धादयुद्धं वा वरं शंसास्पदं द्विषाम् ।
वद्ध्वा हि निधनं मूर्ध्नि युद्धेप्वाधीयते मतिः ॥ ७९० ॥
वाक्यं महोदरस्यैतदाकर्ण्य क्षितिषानुजः ।
वभ्रूभङ्गदीप्तार्चिर्ददाहेब दिशो दश ॥ ७९१ ॥
स ज्वालाकपिशं शूलं समादाय समुद्ययौ ।
कल्पान्ते सर्वभूतानामभावायेव भैरवः ॥ ७९२ ॥
रत्नांशुमण्डितं मूर्ध्नि बबन्ध मुकुटं स्वयम् ।
तस्य लंकापतिः प्रीत्या दीप्तं स्वमिव शासनम् ॥ ७९३ ॥
आमुक्तकंकटस्यास्य हारं स्फारसितद्युतिम् ।
चचारोरसि पौलस्त्यकालाडेरिव निर्झरम् ॥ ७९४ ॥.
स प्रणम्य दशग्रीवं रथमारुह्य भासुरम् ।
युक्तं खरसहस्रेण च्छत्रप्राच्छादिताम्बरम् ॥ ७९५ ॥
वृतो राक्षससैन्येन प्रययौ योद्धुमुद्यतः।
धनुःशतपरीणाहपव्यामशतविस्तृतः ॥ ७९६ ॥
तस्य प्रसर्पतो भूमिर्जङ्गमस्येव भूभृतः ।
चकम्पे भृशमायस्ता चिरं सगिरिकानना ॥ ७९७ ॥
स दृष्ट्वा वानरानीकं ननाद मदनिर्भरः ।
भयमाविभूरमुद्येन भूतानां महतामपि ॥ ७९८ ॥

शिरसा पूरिताकाशमुरसा वृतदिक्तटम् ।
तं दृष्ट्वा वानराः सर्वे संत्रस्ता दुद्रुवुर्दिशः ॥ ७९९ ॥
भग्नेषु हरिसैन्येषु कुम्भकर्णभयाकुलान् ।
अभ्यधादङ्गदो मानी नादेन हरियूथपान् ॥ ८०० ॥
अलं भयेन नः शूरा महाकायो निशाचरः ।
किं करोत्यधिकं मृत्युरेक एव शरीरिणाम् ॥ ८०१॥
सर्वथा क्षयिणः प्राणास्तृणं येषां यशोर्थिनाम् ।
न तेषां प्रभवत्युग्रं विच्छिन्नालम्बनं भयम् ॥ ८०२ ॥
वयं सुसंहताः सर्वे स्थूलाकारं निशाचरम् ।
शक्ताः प्रापयितुं युद्धे धूर्ता इव वशे स्थितम् ॥ ८०३ ॥
इत्यङ्गदवरा वीराः परावृत्ताः प्लवङ्गमाः ।
अभ्ययुः कुम्भकर्णं ते सालतालाचलायुधाः ॥ ८०४ ॥
सावेगं वज्रसारेषु प्लवंगमभुजौज्झिताः ।
गुरवो गिरयस्तस्य गात्रेषु कणशो ययुः ॥ ८०५ ॥
चिक्षेप द्विविदस्तस्मै पर्वतं स्फारकन्धरम् ।
अप्राप्य कुम्भकर्णं यो निम्पिपेप निशाचरान् ॥ ८०६ ॥
ततः पद्भ्यां महाकायः प्लवगानिगरिगौरवः ।
निष्पिष्य रक्ततटिनीमसृजद्रावणानुजः ॥ ८०७ ॥
प्रवृत्ते धोरनिर्घोषे समरे हरिरक्षसाम् ।
न बभूव क्षणं कश्चिन्मनागपि पराड्मुखः ॥ ८०८ ॥
प्रभुसंमानभारस्य प्राणैरानृण्यकाक्षिणाम् ।
ब्रह्मलोकाभिकामानामभूत्तेषां मिथः क्षयः ॥ ८०९ ॥
अथ प्लवगसैन्यानि मन्थाचल इवाकुलः ।
ममन्थ पृथुनिघोपः कुम्भकणों भयंकरः ॥ ८१०॥
प्रहारोद्यतहस्तस्य तस्य रूपं प्लवंगमाः ।
कालस्येवोल्बणं दृष्ट्वा त्रस्ताः सर्वे ययुर्दिशः ॥ ८११ ॥

तेषु भग्नेषु सहसा परिवृत्याङ्गदोऽवदत् ।
कोऽयं नः संभ्रमाविद्धः संत्रासः स्त्रीजनोचितः ॥ ८१२ ॥
अहो तु जीवितस्यास्य क्षणसंक्षयिणः कृते ।
भग्नैर्भवद्भिर्विक्रीतं स्वहस्तेनाक्षयं यशः ॥ ८१३ ॥
क्रियतामचलं चेतः साध्वसं विनिवार्यताम् ।
कीर्त्यर्थमायुः शूराणां तपोऽर्थं च द्विजन्मनाम् ॥ ८१४ ॥
नेयं पुण्यविहीनानां पतत्यङ्गेषु संगरे ।
मोक्षारोहणसोपानपङ्क्तिः खड्गपरम्परा ॥ ८१५ ॥
समस्यार्थे भवद्भिर्यत्सुग्रीवस्योक्तमग्रतः ।
तत्सद्यः क्रियतां सत्यं सत्यं वित्तं हि मानिनाम् ॥ ८१६ ॥
ते जयन्ति जगत्पूज्याः साधवो धर्मवान्धवाः ।
येपां वसति वाजे मानः सत्यं सरस्वती ॥ ८१७ ॥
शूराणां व्रतमेतावद्याद्धे न पराङ्मुखाः ।
किं तु द्यूत इवैतौ द्वौ भाग्यायत्तौ जयाजयौ ॥ ८१८ ॥
इत्यङ्गदस्य वचसा परावृत्ते बलार्णवे ।
पुनर्बभूव तुमुलं युद्धं प्लवगरक्षसाम् ॥ ८१९ ॥
गवाक्षजाम्म(म्ब)वन्नीलकुमुदद्विविधा(दा)ङ्गदाः ।
मैन्दचन्दनमुख्याश्च कुम्भकर्ण समाद्रवन् ॥ ८२० ॥
तैस्तुल्यं ससृजुस्तसै सालतालकुलाचलान् ।
पपात कुम्भकर्णस्य यैः समुन्मथितो रथः ॥ ८२१ ॥
विरथः शूलमुद्यम्य स चकार कपिक्षयम् ।
भुजसंवट्टविश्लिष्टनिषिष्टाशेपवानरः ॥ ८२२ ॥
ततस्तस्मै समभ्येत्य हनुमान्प्राहिणोगिरिम् ।
कुम्भकोंग्रशूलाग्रभिन्नाद्रिः स पपात च ॥ ८२३ ॥
निशिताग्रेग शूलेन वायुसूनुस्तनान्तरे ।
आहतः कुम्भकर्णेन ननादासृग्वमन्मुखात् ॥ ८२४ ॥


१. ‘व’ शा.

व्यथिते मारुतसुते विद्रुते वानरार्णवे ।
शैलं नीलश्च चिक्षेप विक्षिप्तपृथुपादपम् ॥ ८२५ ॥
स कुम्भकर्णमुष्ट्यग्रताडितो धरणीधरः ।
निपपात नवैश्वर्यमदोद्धत इवाधमः ॥ ८२६ ॥
शरभर्षभमुख्यान्स पाणिभ्यां प्रक्षिपन्मुखे ।
निगीर्यालग्नदन्ताग्रस्तृप्तिं न प्राप राक्षसः ॥ ८२७ ॥
भक्ष्यमाणेषु सैन्येषु सदैन्येषु महत्स्वपि ।
राघवं शरणं जग्मुर्भयार्ताः कपियूथपाः ॥ ८२८ ॥
ततः क्रोधोद्धतगतिः कुम्भकर्ण महाभुजः ।
जघानाभ्येत्य सुग्रीवश्चैत्यवृक्षेण वक्षसि ॥ ८२९ ॥
स तेनाभिहतः क्रोधाद्विहस्य विकटाननः ।
सुग्रीवायासृजद्धोरं शूलं शूलकरं द्विपाम् ॥ ८३० ॥
शूलं सहाराणां निर्मितं वहिपिङ्गलम् ।
पाणिभ्यां जानुसंध्यग्रे बभञ्ज प्लवगेश्वरः ॥ ८३१ ॥
शूलभङ्गात्प्रकुपितः कुम्भकर्णो ज्यलन्निव ।
गिरिशृङ्गेण महता निजधान हरीश्वरम् ॥ ८३२ ॥
तं शैलवेगाभिहतं मूर्छितं पतितं भुवि ।
आदाय प्रययौ लङ्कां प्रहृष्टो रावणानुजः ॥ ८३३ ॥
तं प्रयान्तं समालोक्य स्तूयमानं निशाचरैः ।
दुःखावमानक्रोधान्तः प्रध्यौ पचनात्मनः ॥ ८३४ ॥
अहो गृहीतः सुग्रीवो विसंज्ञः शत्रुणा रणे ।
धिगस्मान्सचिचानस्य मिथ्यावलभुजोनितान् ॥ ८३५ ॥
एप मुष्टिप्रहारेण हत्वाहं क्षणदाचरम् ।
करोमि गुरुसंमानगुरुभारावरोपणम् ॥ ८३६ ॥
अथवा लब्धसंज्ञोऽथ करोत्येप भुजोर्जितम् ।
मोक्षितोऽहं परेणेति लज्जां न सहते ध्रुवम् ॥ ८३७ ॥


१. ‘धातः काख.

तस्मान्नास्योत्सहे कर्तुं यशः शीतांशुमेघताम् ।
करोमि तावत्सैन्यानां भग्नानां विनिवर्तनम् ॥ ८३८ ॥
इति चिन्ताकुले दोलालोलचित्ते हनूमति ।
सुग्रीवः शनकैः संज्ञा सुप्तोत्थित इवाप्तवान् ॥ ८३९ ॥
स विधूय वपुर्वेगादुत्पत्योदग्रविक्रमः ।
चकर्त कुम्भकर्णस्य कुपितः कर्णनासिके ॥ ८४० ॥
स कृत्तनासाश्रवणः स्रवद्रुधिरनिर्झरः ।
भृशं विदारितः पार्थे निप्पिपेष क्षितौ कपिम् ॥ ८४१ ॥
स निष्पिष्टो बलवता राक्षसेन कपीश्वरः ।
खमुत्पत्य ययौ तूर्णं यत्र रामः सलक्ष्मणः ॥ ८४२ ॥
ततः पुनः समभ्येत्य कुम्भकर्णो रणाङ्गणे ।
चकार कदनं घोरं वानराणां तरस्विनाम् ॥ ८४३ ॥
वसारुधिरसिक्ताङ्गो मत्तः कोपेन चाकुलः ।
वानरैः सह चिक्षेप स वक्रे राक्षसानपि ॥ ८४४ ॥
तं दृष्ट्वा त्यक्तमर्यादं स्वपरग्रामघस्मरम् ।
वस्तानि सर्वभूतानि कालोऽयमिति मेनिरे ॥ ८४५ ॥
भक्ष्यमाणेषु सर्वेषु तेन स्वेषु परेषु च ।
तद्वक्त्रश्वभ्रविभ्रष्टा ससर्प रुधिरापगा ॥ ८४६ ॥
ववृधे विपुलोत्सेधं तस्याधिकतरं वपुः ।
यत्नेनाध्यमानस्य दौर्जन्यमिव दुर्मतेः ॥ ८४७ ॥
प्रभन्नेषु प्लवङ्गेषु क्षपितेषु च रक्षसा ।
अम्याद्रवत्तमाकृष्य चापं रामः सलक्ष्मणः ॥ ८४८॥
तं शोणिताक्तसङ्गिं प्रदीप्तमुकुटाङ्गदम् ।
वर्जितं कपिरक्षोभिर्जगाद रघुनन्दनः ॥ ८४९ ॥
अहो वतासि मोहेन महता क्षणदाचर ।
स्वान्परांश्च न जानीषे प्राप्तैश्वर्य इवाधमः ॥ ८५०॥


१. ‘गन्तुं’ शा..

एपोऽहं पापवृत्तानां संहारैककृतक्षणः ।
करोमि त्वां दशास्यस्य यमवर्त्मपुरःसरम् ॥ ८५१ ॥
इति रामवचः शृण्वन्सौमित्रिशरदारितः ।
पुष्करावर्तनिर्घोषं प्रहस्योवाच राक्षसः ॥ ८५२ ॥
नाहं विराधमारीचकवन्धस्वरवालिभिः ।
तुल्यः कथं न जानीषे मां निर्जितसुरासुरम् ॥ ८५३ ॥
काकुत्स्थ कुम्भकर्णोऽहं शक्रादीनां भयंकरः ।
लोकपालवसादिग्धं पश्य मे घोरमुद्गरम् ॥ ८५४ ॥
इति तस्य ब्रुवाणस्य शरीरं रामसायकाः ।
विविशुः कृतरन्ध्रस्य क्रौञ्चाद्रेरिव सारसाः ॥ ८५५ ॥
ते रामकार्मुकोत्सृष्टाः खरप्राणहराः शराः ।
न व्यथा कुम्भकर्णस्य चक्रुः पुप्पमया इव ॥ ८५६ ॥
सुरसंहारसचिवं स समुद्यम्य मुद्गरम् ।
राममभ्याद्रवद्धोरं दिक्षु कुर्वन्भुजभ्रमम् ॥ ८५७ ॥
ततः ससर्ज काकुत्स्थो रौद्रमस्रं धृताखिलः ।
विद्धस्य वनान्निश्चेरुरचिंषो येन राक्षसः ॥ ८५८ ॥
हृदि निर्मग्नवाणस्य मुद्गरो गिरिगौरवः ।
स पपात करात्तस्य प्राच्यो जय इवौर्जितः॥ ८५९ ॥
ततो भुजायुधः क्रोधान्नष्टसंज्ञ इवाकुलः ।
घोरं चकार संहारं स पुनः कपिरक्षसाम् ॥ ८६० ॥
पुनर्मुद्रमादाय सोऽभ्यधावप्लवंगमान् ।
पादव्यस्तक्षितिः कुर्वन्नवकाशभिवाम्बुधः ॥ ८६१ ॥
तं ज्ञात्वा घोरगम्भीरक्षयव्यापारधीरितम् ।
उवाच लक्ष्मणश्चिन्तासंतप्तः कपियूथपान् ॥ ८६२ ॥
अथ सर्वे समारुह्य शरीरं भूधराकृतेः ।
कुर्वन्तु गात्रसंमर्दं भवन्तो गुरुविक्रमाः ॥ ८६३ ॥


१. “विरुद्ध’ शा..

लक्ष्मणेनेत्यभिहिते गवाक्षकुमुदाङ्गदाः ।
जाम्बवद्गजनीलाद्यास्ते समारुरुहुर्जवात् ॥ ८६४ ॥
तानारूढान्प्रयत्नेन नवबद्ध इव द्विपः ।
विधूय गात्रं बलवान्दिक्षु चिक्षेप राक्षसः ॥ ८६५ ॥
ततः प्रभञ्जनास्त्रेण रामस्तस्य समुद्गरम् ।
भुजं चिक्षेप सावेगपातनिप्पिष्टवानरम् ॥ ८६६ ॥
कृत्तवामभुजः सोऽथ वृक्षमुद्यम्य राक्षसः ।
क्रुद्धोऽभ्यधावत्काकुत्स्थं नादेनाघट्टयन्दिशः ॥ ८६७ ॥
भुजं ससालं तमपि स्फाराजगरभीषणम् ।
ऐन्द्रेणारेण चिच्छेद रामस्तस्याद्रिगौरवम् ॥ ८६८॥
महता पतता तेन दोपणा निप्पिष्टविग्रहाः ।
प्रलयं प्रययुर्गाढं संश्लिष्टाः कपिराक्षसाः ॥ ८६९ ॥
ततश्छिन्नभुजस्यास्य रक्तनिर्झरवर्षिणः ।
चरणावर्धचन्द्राभ्यां चिच्छेद रघुनन्दनः ॥ ८७० ॥
स कृत्तबाहुचरणः पातालविकृताननः ।
राममभ्याद्रबद्धोरः सूर्यं राहुरिवाकुलः ॥ ८७१ ॥
हेमपुङ्खैर्मुखं तस्य शरैः शिखरिदारणैः ।
अपूरयन्मुहूर्तेन राघवो लाघवोर्जितः ॥ ८७२॥
शक्रदत्तं शरं चास्सै चिक्षेपाशु क्षयंकरम् ।
यत्तस्य विपुलं वक्षो भित्त्वा भूतलमाविशत् ॥ ८७३ ॥
ततः प्रचण्डमार्तण्डमण्डलाम्राज्यतेजसः ।
रामः शिरः शरेणास्य चिक्षेप शिखरोपमम् ॥ ८७४ ॥
तस्मिन्निपतिते वेगात्स्फारे शिरसि रक्षसः ।
पेतुश्चर्णीकृता लङ्काप्राकाराट्टालमेखलाः ॥ ८७५ ॥
काये निपतिते तस्य पिष्टे प्लवगमण्डले ।
दिक्षु सूर्यप्रकाशानामवकाशश्चिरादभूत् ॥ ८७६ ॥

उत्पाताभिहते लोके लोलसागरमेखला ।
लङ्का चकम्प सातङ्का संत्रस्तेव वराङ्गना ॥ ८७७ ॥
पातिते कण्टके तस्मिन्मुनीनां सदिवौकसाम् ।
हतो हत इति प्रौढः प्रादुरासीजनस्वनः ॥ ८७८ ॥
इती कुम्भकर्णवधः ॥ २६ ॥
भ्रातरं निहतं दृष्ट्वा भग्नमानो दशाननः ।
पपात शोकसंतापमूर्च्छितः काञ्चनासनात् ॥ ८७९ ॥
तं दृष्ट्वा पतितं भूमौ देवान्तकनरान्तकौ ।
त्रिशिराश्चातिकायश्च रुरुदुस्तत्लुताः शुचा ॥ ८८० ॥
महोदरमहापाधौं कुम्भकर्णानुजौ नृपम् ।
दृष्ट्वा निश्चेष्टसर्वाङ्गं शोकतप्तौ बभूवतुः ॥ ८८१ ॥
कृच्छ्रेण संज्ञमासाद्य शोकशङ्कुशरैर्वृतः ।
पौलस्त्यः प्रसरद्वाप्पः प्रललापाकुलाशयः ॥ ८८२ ॥
हा कुम्भकर्ण त्रैलोक्यजययात्रापुरःसर ।
सुरेन्द्रसेनासरसीविलोडनमहागज ॥ ८८३ ॥
किं जीवितेन विच्छिन्नजयाशालम्बनस्य मे ।
कुम्भकर्णश्च्युतो यस्य दक्षिणः सहजो भुजः ॥ ८८४ ॥
अहो बत मया मोहात्सुखसुप्तो विबोधितः ।
अपुनदर्शनायैव शेते कृतभुजाननः ॥ ८८५ ॥
किं कृतं विप्रियं भ्रातस्तव प्रणयिनो मया ।
असिन्व्यसनकाले मां यत्परित्यज्य गच्छसि ॥ ८८६ ॥
हेलानिर्जितजम्भारिः कथं भुवनमङ्गदः ।
हतोऽसि युधि मर्येन जम्बुकेनेव कुञ्जरः ॥ ८८७ ॥
अधुना मम का सीता धिप्राज्यं जीवितेन किम् ।
कुम्भकर्णविहीनस्य हन्त शून्या जगत्रयी ॥ ८८८ ॥
स्वयं मे दुर्नवतरौ विपाकः फलसंततेः।
विभीषणवचो येन तथ्यं पथ्यं च न श्रुतम् ॥ ८८९ ॥

स मया विनयी धीमान्भक्तो भ्राता विवासितः ।
यद्वाक्यातिक्रमादेप स्वयं प्राप्तः पराभवः ॥ ८९० ॥
इति प्रलापिनः श्रुत्वा वचनं मानिनः पितुः।
उवाच त्रिशिरा दुःखं नियम्यान्तः समुत्थितम् ॥ ८९१ ॥
एवमेतन्महाराज धर्ममुक्तं यदुक्तवान् ।
विभीषणस्तद्भवता न गृहीतं हितं पुनः ॥ ८९२ ॥
अधुना किं प्रलापेन पश्चात्तापेन किं वृथा ।
अतीतं नानुशोचन्ति साधवो धैर्यसागराः ॥ ८९३ ॥
त्वदर्थे कुम्भकर्णस्य श्लाघ्यो जीवितसद्व्ययः ।
साधुवादस्ततुत्यागे धन्यानामेव जायते ॥ ८९४ ॥
न ते शोच्याः शुचियशःपूर्णचन्द्रोदयाचलाः ।
प्रधने निधनं येषां निधनन्यस्तचक्षुषाम् ॥ ८९५॥
क्रियतामुचितं चैव भुजानां विक्रमस्य च ।
रणे हतानां शूराणां न शोकेन प्रतिक्रिया ॥ ८९६ ॥
रथो धनुः शराः शौर्य शक्तिः शक्तिश्च ते दृढा ।
कुम्भकर्णवधक्रोधः क्षिप्रं शत्रुपु पात्यताम् ॥ ८९७॥
स्थितेप्वस्मासु ते तात विधेयेषु भुजेप्विय ।
को रामः कश्च सौमित्रिः के वराकाः प्लवङ्गमाः ॥ ८९८ ॥
इति त्रिशिरसो वाक्यान्मन्दशोके दशानने ।
अतिकायप्रभृतयस्तथेत्यूचुर्मदोत्कटाः ॥ ८९९ ॥
ततस्ते निर्ययुर्मूर्ना पितुरादाय शासनम् ।
महोदरमहापार्श्वौ तत्पितृव्यौ च सानुगौ ॥ ९००॥
ते समासाद्य विपुलं कपिसैन्यमहोदरम् ।
चक्रिरे शरवर्षेण दुःसहः क्षोभविभ्रमः ॥ ९०१ ॥
ततः कपिप्रधानानां यातुधानबलैः सह ।
निर्विभागमभूयुद्धं शिलाशस्त्रास्त्रदुःसहम् ॥ ९०२॥


१. शस्त्रविशेपः, २. सामर्थ्यविशेषः,

रथो रथेन निष्पिष्य कुञ्जरेणैव कुञ्जरः ।
रक्षसा राक्षसो युद्धे वानरेणैव वानरः ॥ ९०३ ॥
अथातिकायत्रिशिरौ देवान्तकनरान्तकैः ।
दारिताः प्लवगाः पेतुश्छिन्नपक्षा इवाद्रयः ॥ ९०४ ॥
राक्षसैर्वाध्यमानेपु प्लवगेष्वङ्गन्दो बली।
सुग्रीवशासनात्तूर्णं नरान्तकमुपाद्रवत् ॥ ९०५ ॥
नरान्तकोऽपि तुरगारूढः प्रासं महाजवम् ।
चिक्षेप वालिपुत्रस्य वक्षसि प्रौढविक्रमः ॥ ९०६ ॥
स शिलापीठकठिने प्रासस्तस्योरसि क्षणात् ।
भग्नाननः पपाताग्रे याच्ञाभङ्गादिवाधनः ॥ ९०७ ॥
ततस्तस्याङ्गदः कोपात्तुरङ्गं वल्गु वल्गितम् ।
चक्के मुष्टिप्रहारेण शीर्णवत्रशिरोधरम् ॥ ९०८ ॥
निहताश्वोऽभिसृत्याशु क्रोधाकान्तो नरान्तकः ।
जघान मुष्टिना वालिसूनुं मूर्ध्नि बलोत्कटः ॥ ९०९ ॥
स रक्तनिझरोद्गारी धातुसिक्त इवाचलः ।
मुष्टिना वज्रकल्पेन निजघान नरान्तकम् ॥ ९१० ॥
इति नरान्तकवधः ॥ २७ ॥
हते नरान्तके घोरे देवान्तकमहोदरौ ।
त्रिशिराश्चागदं क्रुद्धा लब्धलक्षं समाद्रवत् ॥ ९११ ॥
देवान्तकाय चिक्षेप महापादपमङ्गदः ।
तं चाशुकारी निशिराश्चकार तिलशः शरैः ॥ ९१२ ॥
शालशैलावली तस्मै प्राहिणोदङ्गदः क्रुधा ।
वभञ्ज त्रिशिराः क्षिप्रं परिघाग्रेण तामपि!! ९१३ ॥
ऐरावणसमं तत्र समारुह्य सुदर्शनम् ।
गजं महोदरश्चके तोमरच्छिन्नमजदम् ॥ ९१४ ॥
देवान्तकेन च जवात्परिघेनाझदो हतः ।


१. ‘परिघेणाहतोऽङ्गद: शा०.

गजदन्तं समुत्पाट्य जघानोरसि तं बली ॥ ९१५॥
वीरैस्त्रिभिस्तैर्युगपत्प्रदीप्तायुधवृष्टिभिः।
राक्षसैरावृतस्तीनं न चचालाङ्गदो युधि ॥ ९१६ ॥
ततः समेत्य हनुमान्नीलश्च कपियूथपौ।
चक्राते तैस्त्रिभिर्युद्धं शिलाशस्त्रास्त्रदुःसहम् ॥ ९१७ ॥
शरोत्कृत्तमहाशैलं ततो देवान्तकं क्रुधा ।
मुष्टिपाताहतं चक्रे गतासुं पवनात्मजः ॥ ९१८ ॥
इति देवान्तकवधः ॥ २८॥
हते देवान्तके नीलः शरैस्त्रिशिरसार्दितः।
महोदराय चिक्षेप संज्ञामासाद्य भूधरम् ॥ ९१९ ॥
स तेन गाढनिप्पिष्टो दुर्लक्षावयवः क्षितौ ।
‘निपपात समातङ्गः प्रध्वस्ताङ्कुशतोमरः ॥ ९२०॥
इति महोदरवधः ॥ २९ ॥
हतं पितृव्यमालोक्य त्रिशिराः क्रोधमूर्छितः ।
शरैश्चकार कदनं वानराणां तरखिनाम् ॥ ९२१ ॥
स शक्तिं वायुपुत्राय प्राहरत्प्राणहारिणीम् ।
तमापतन्तीमादाय बभल्ल पवनात्मजः ॥ ९२२ ॥
शक्तिमङ्गक्रुधा खड्गमाकृष्ट क्षणदाचरः।
आजधानोरसि स्फारे हनुमन्तं महाभुजः ॥ ९२३ ॥
खड्गप्रहारकुपितः सोऽथ वक्षसि राक्षसम् ।
निजघान तलाग्रेण वज्रनिप्पेषपातिना ॥ ९२४ ॥
स तेनाभिहतः कोपानिपपात च्युतायुधः ।
भ्रान्तां वसुमती पश्यन्मूर्छितः कनकप्रभाम् ॥ ९२५ ॥
हत्वा निपतितस्यास्य करवालं करात्कपिः ।
शिरांसि त्रीणि चिक्षेप शिखराणीव भूभृतः ॥ ९२६ ॥
इति त्रिशिरोवधः ॥ ३० ॥

हते त्रिशिरसि क्रुद्धो महापार्श्वः प्रतापवान् ।
गुर्वी गदां समुद्यम्य निष्पिपेप प्लवंगमान् ॥ ९२७ ॥
ऋपभस्योरसि गदां स तां त्रिदशभङ्गदाम् ।
अपातयद्यथा संज्ञां कृच्छ्रेण कपिराप्तवान् ॥ ९२८ ॥
जवेनास्य गदां हृत्वा वानरो वरुणात्मजः ।
तथा जघान येनासौ मूर्छितः प्रापतव्यसुः ॥ ९२९ ॥
इति महापार्श्ववधः ॥ ३१ ॥
अतिकायो रथेनाथ सहस्राश्वेन नादिना ।
राहुध्वजेन महता धन्वी राममुपाद्रवत् || ९३० ॥
तमापतन्तमालोक्य रत्नाङ्गदकिरीटिनम् ।
ऊचे विभीषणं रामः कोऽयं शौर्यार्जिताकृतिः ॥ ९३१ ॥
विभीपणस्तगवदत्पौलस्त्यस्यायमग्रजः ।
अतिकायो महोत्साहः प्रजापतिवरोर्जितः ॥ ९३२॥
एष धैर्यनिधि(मान्सुवृत्तः श्रुतवान्वशी ।
धर्मे नित्यं नये मन्त्रे सत्ये सत्त्वे च विश्रुतः ॥ ९३३ ॥
अवध्यः सर्वभूतानां तरखी मानिनीसुतः ।
गायन्ति यस्य चरितं दिवि देवमृगीदृशः ॥ ९३४ ॥
उक्त विभीषणेनेति चिरं रामस्तमैक्षत ।
गुणलुब्धा विरुद्धेऽपि सादरा एव साधवः ॥ ९३५ ॥
अतिकायोऽथ निःशस्त्रमनभीतपराब्बुखान् ।
वर्जयन्युध्यमानानां चकार समरे क्षयम् ॥ ९३६ ॥
तेनाहतेपु सैन्येषु शरैरशनिदारुणैः ।
मैन्दद्विविदमुख्यानां बभूवापूर्वसंभ्रमः ॥ ९३७ ॥
तमभ्येत्याथ सौमित्रिरमित्रं त्रिदिवौकसाम् ।
पात्रीचकार वाणानां दीप्तानामिव मन्युना ॥ ९३८ ॥
अतिकायभुजोत्सृष्टान्सायकान्स्तम्भसन्निभान् ।

चिक्षेप लक्ष्मणः क्षिप्रं वज्राश्रिनिशितैः शरैः ॥ ९३९ ॥
तस्य ज्यातलघोषेण निर्घोपणाशनेरिव ।
बभूव रक्षसां कोऽपि कम्पः कपिमदप्रदः ॥ ९४० ॥
असकृद्विनिकृत्तेषु लक्ष्मणेनाशुकारिणा ।
शरैः शरसहस्रेषु विस्मितोऽभून्निशाचरः ॥ ९४१ ॥
सोऽथ सौमित्रिणा गाढं ललाटे पत्रिणा हतः ।
श्रमस्वस्तारुणोष्णीप इवाभूद्भरिशोणितः ॥ ९४२ ॥
रक्षसा सायकेनाथ हतो वक्षसि लक्ष्मणः ।
पुग्यच्छत्र इवाशोकश्चकाशे रुधिरोक्षितः ॥ ९४३ ॥
अथाग्नेयं ससर्जस्मै महास्त्रं राघवानुजः ।
तच्चातिकायः सौरेण चकारास्त्रेण निष्फलम् ॥ ९४४ ॥
ऐपीकमभिमन्यास्त्रं जघानास्त्रेण लक्ष्मणः ।
आग्नेयं पवनास्त्रेण प्रतिजघ्ने च तद्रिपुः ॥ ९४५ ॥
ततः सौमित्रिनिर्मुक्ता पत्रिणो वज्रघातिनः ।
अतिकायस्य कवचे ब्राह्मे भग्नाः क्षितिं ययुः ॥ ९४६॥
ब्रह्मदत्तवरं रक्षो ब्रह्मास्त्रेणैव बाध्यते ।
इति कर्णे समभ्येत्य लक्ष्मणं मारुतोऽभ्यधात् ॥ ९४७ ॥
अथ प्रादुश्चकारास्त्रं ब्राह्मं दशरथात्मजः ।
त्रैलोक्यत्रासगुरुणा येन विश्वमकम्पत ॥ ९४८ ॥
तदस्त्रमतिकायस्थ दीप्तायुधपरम्पराम् ।
हत्त्वा जहाराशु शिरः स्फुरन्मुकुटकुण्डलम् ॥ ९४९ ॥
अतिकाये निपतिते शिखरे त्रिदशद्विपाम् ।
ययौ सहस्रधा क्षिप्रं श्वभ्रभ्रप्टेव वाहिनी ॥ ९५० ॥
इत्यतिकायवधः ॥ ३२ ॥
श्रुत्वातिकायप्रमुखान्निहतात्रावणः सुतान् ।
भ्रातरौ च महावीरौ महापार्श्वमहोदरौ ॥ ९५१ ॥


१. ‘वज्रादि’ शा.

शोकमन्युसमाविष्टः कष्टं व्यसनमाश्रितः ।
शुशोच साश्रुनयनः काले फलति दुर्नयः ॥ ९५२ ॥
तमुवाचेन्द्रजिद्वीरः शेखरस्त्रिदशद्विपाम् ।
तात विक्रमकालेऽस्मिन्न शोकं कर्तुमर्हसि ॥ ९५३ ॥
शत्रुक्षये भुजाधीने बाप्पैर्नारीजनोचितैः ।
हासायतनमात्मानं कुर्वते हितमानिनः ॥ ९५४ ॥
चिन्ता तवापि निर्मग्ना यदि शत्रुकृता हृदि ।
तत्किमेभियंशोभिर्मे मिथ्याशत्रुजयोर्जितैः ॥ ९५५ ॥
अद्य लोकं विधायाहमवानरमराघवम् ।
अवमानोदधेः पारं गच्छाम्यायुधसेतुना ॥ ९५६ ॥
मेघनादो निगद्येति तूर्णं गत्वा निकुम्भिलाम् ।
असितच्छागकण्ठास्त्रैर्वहिं हुत्वा च पूर्ववत् ॥ ९५७ ॥
जगामान्तहितो युद्धमहीं ब्रह्मास्त्रदुर्जयः
जगत्प्रलयसंक्षोभं सहसा दर्शयन्निव ॥ ९५८ ॥
अदृश्यत ततो रात्रिः संहारसहचारिणी।
तस्य मायेव दुर्लक्ष्या कालरात्रिर्बनौकसाम् ॥ ९५९ ॥
घोरा हरिशरीरेषु शस्त्रपातपरम्परा ।
पपात वितता व्योन्नः सर्वतः प्राणहारिणी ॥ ९६० ॥
प्रयरेषु प्लवङ्गेषु शरशूलपरश्वधैः ।
राक्षसैर्भाव्यमानेषु नि?पस्तुमुलोऽभवत् ॥ ९६१ ॥
छिन्नजानुशिरोग्रीवैश्युतपादशिरोरुभिः ।
पतितैर्वानरवरैर्दु संचारा बभूव भूः ॥ ९६२ ॥
नलनीलसुपेणेषु कुमुदद्रिविदादिपु ।
गवाक्षगजमुख्येपु निहतेषु तरखिषु ॥ ९६३ ॥
हतशेषेषु भग्नेषु शस्त्रवृष्टिनिरन्तरा ।
एकीभूता पपातेव रामलक्ष्मणयोर्युधि ॥ ९६४ ॥

निहते वानरानीके शरैराच्छादिताकृतिः ।
जगाद लक्ष्मणं रामः शस्त्रवृष्टिविदारितम् ॥ ९६५ ॥
पश्य शक्रजितो युद्धं ब्रह्मास्त्रेण प्रमाथिना ।
निरुद्धे भुवनालोके ककुभः संहृता इव ॥ ९६६ ॥
अहो बत ममानेन सैन्यं निर्दलितं क्षणात् ।
पक्वं क्षेत्रमिवाकाले मेघनाशनिवर्षिणा ॥ ९६७ ॥
निःसंचारा दिशः सर्वा अदृश्या व्योम्नि राक्षसाः ।
ब्रह्मास्त्रमप्रतिहतं नात्र विद्मः प्रतिक्रियाम् ॥ ९६८ ॥
इति ब्रुवाणः प्रसभं रामः शस्त्रास्त्रसंचयैः ।
विदारितः स सौमित्रिनिश्चेष्टः समपद्यत ॥ ९६९ ॥
कृत्वा तदद्भुतं युद्धं शक्रजिद्विजयोर्जितः ।
प्रविश्य लकां विदधे हर्षमानोत्सव(?) पितुः ॥ ९७० ॥
इतीन्द्रजिद्युद्धम् ॥ ३३ ॥
घोरे तस्मिन्निरालोके निःशब्दे यामिनीमुखे ।
कपिसैन्ये निपतिते प्रसुप्त इव भूतले ॥ ९७१ ॥
एको विभीपणस्तत्र धीरः सह हनूमता ।
संचचार हतान्द्रष्टुं प्रज्वाल्योल्कां शराकुलः ॥ ९७२ ॥
सुग्रीवादमुख्यानां प्लवगानां प्रहारिणाम् ।
सप्त संनिहताः कोट्यः कपीनां तत्र राक्षसैः ॥ ९७३ ॥
तान्दृष्ट्वा निहतान्वीरौ वायुपुत्रविभीषणौ ।
जाम्बवन्तं ददृशतुः किंचिदालक्ष्यजीवितम् ॥ ९७४ ॥
शरतल्पगतं वृद्धं मर्मच्छेदव्यथातुरम् ।
तं सुप्तकरणग्रामं धीमानूचे विभीषणः ॥ ९७५ ॥
कच्चिदार्य तव प्राणास्तिष्ठन्ति दलिताकृतेः ।
विलुप्तविभवस्यान्ते सुहृदः सज्जना इव ॥ ९७६ ॥


१. मेघनादेन वर्पिणा’ शा०, २. ‘हय मानो’ स्यात्.

विभीषणवचः श्रुत्वा कण्ठप्राप्ताल्पजीवितः ।
तं शनैर्जाम्बवानूचे कृच्छ्रेणाल्पतरस्वनः ॥ ९७७ ॥
त्वत्संगमो मे पौलस्त्य दिष्टया प्रचलितायुपः ।
त्वां स्वरेणाभिजानामि न तु पश्यामि चक्षुपा ॥ ९७८ ॥
इष्टसंदर्शनं दानं सुकृतोदीरणं जनैः ।
दीर्घप्रवासे प्राणानां दुःखसंमार्जनं परम् ॥ ९७९ ॥
कच्चिज्जीवति तेजस्वी हनुमान्वायुनन्दनः ।
कच्चिन्नु तद्विरहितं निरालोकमिदं जगत् ॥ ९८० ॥
इति क्षपाचरः श्रुत्वा वचस्तस्य विभीषणः ।
तमुवाच धियो ज्ञातुं मारुतेरेच शृण्वतः ॥ ९८१ ॥
अहो बत वयं सर्वे निरपेक्षाः स्वजीविते ।
ययोरर्थे न तौ कस्मादार्य पृच्छसि राघवौ ॥ ९८२ ॥
प्रभु सुग्रीवमुत्सृज्य युवराज तथाङ्गदम् ।
दयितान्सुहृदश्चान्यान्कस्मात्पृच्छसि मारुतिम् ॥ ९८३ ॥
तस्मिन्सनिहिते रामः सर्वथा कुशलास्पदाम् ।
तस्मिन्हते हतं सैन्यं तस्मिजीवति जीवति ॥ ९८४ ॥
श्रुत्वैतद्वचनं तस्य यथार्य रावणानुजः ।
उवाच जीवन्नेष त्वां हनुमान्द्रष्टुमागतः ॥ ९८५ ॥
ततोऽभिवाद्य हनुमाजाम्बवन्तं यशोनिधिः ।
ततो बभूव निप्यन्दस्तब्यथाव्यथितेक्षणः ॥ ९८६ ॥
वायुसूनुं स्थितं ज्ञात्वा धृतिमासाद्य जाम्बवान् ।
तमुवाच परं पारं प्राप्तः शोकोदधेरिव ॥ ९८७ ॥
एह्येहि हरिशार्दूल गात्रं मे स्पृश पाणिना ।
दिष्टया त्वामक्षततनुं पश्याम्यानन्दद्वान्धवम् ॥ ९८८ ॥
सुग्रीवादमुख्यानां कपीनां राघवस्य च ।
घोरे विनाशकालेऽस्मिंस्त्वमेवैकः परायणम् ॥ ९८२ ॥

सुकृतस्य विवेकस्य हेम्नः साधुजनस्य च ।
उपयोगो विशेषेण कृच्छ्रकाले शरीरिणाम् ॥ ९९० ॥
विलङ्घय जलधिं धीरो हिमवन्तं च भूधरम् ।
सुवर्णशृङ्गमृपभं कैलासशिखरं तथा ॥ ९९१ ॥
दीप्तौषधिं गिरिं दिव्यं तन्मध्ये प्राप्य दुर्गमम् ।
औषधीर्भासुराकाराश्चतस्त्रस्तूर्णमाहर ॥ ९९२ ॥
विशल्या जीवनी वा संधिनी चेति तास्त्वया ।
इहानीताः करिष्यन्ति व्यसनेऽस्मिन्प्रतिक्रियाम् ॥ ९९३ ॥
इति जाम्बवतो वाक्यं निशम्य पवनात्मजः ।
तथेत्युक्त्वा ययौ क्षिप्रमुरुवेगहताचलः ॥ ९९४ ॥
नभसा जतस्तस्य नादेनाकल्पकारिणा ।
लङ्कायां रक्षसां कोऽपि बभूव प्रलयभ्रमः ॥ ९९५ ॥
स हिमाचलमासाद्य व्याप्तं मुनितपोधनैः ।
ब्रह्मकोशं पदं धान्नां रजताद्रिं च सिद्धिदम् ॥ ९९६ ॥
शक्रालयं रुद्रनगं प्रमोक्षं तुरगाननम् ।
ब्रह्मशीर्य यमस्थानं वज्रं वैश्रवणालयम् ॥ ९९७ ॥
सूर्यधाम ब्रह्मपदं कार्नुकं च पिनाकिनः ।
नासां वसुंधरायाश्च कैलासं स हिमाचलम् ॥ ९९८ ॥
स विलचच समादाय दीप्तमौषधिपर्वतम् ।
तूर्णं तद्रहणवासात्सहसान्तर्हितोपधम् ॥ ९९९ ॥
तदन्तर्धानकुपितो नादेनावृत्य रोदसीम् ।
स शृङ्गमोपधिगिरैरुत्पाट्य प्रययौ जवात् ॥ १००० ॥
मुहूर्तेन समासाद्य स्वसैन्यं तेजसां निधिः ।
दिशो वितिमिराः सर्वाश्चकारौपधिरश्मिभिः ॥ १००१ ॥
अथौषधीनां गन्धेन विशल्यौ रामलक्ष्मणौ ।
रूढब्रणौ क्षणात्संज्ञां नष्टशोकाववापतुः ॥ १००२॥


१.स्नेहः शा.

आमोदेनौषधिगिरेर्विप्रकीर्णेन वायुना ।
वानरेपु विशल्येपु क्षिप्रं सुप्तोत्थितेष्विव ॥ १००३ ॥
हनुमान्कृतकार्यस्तं दीप्तमौषधिशेखरम् ।
गत्वा निजपदे तूर्णं निक्षिप्य पुनराययौ ॥ १००४ ॥
इत्यौपध्यानयनम् ॥ ३४ ॥
ततः प्रहृष्टाः प्लवगाः परिष्वज्य परस्परम् ।
नादेन चक्रिरे क्षोभं राक्षसक्षयशंसिना ॥ १००५ ॥
ते शासनं समासाद्य सुग्रीवस्य महौजसः ।
उल्कासहस्त्रैः प्रज्वाल्य दीप्तां लङ्कां प्रचक्रिरे || १००६ ॥
क्रोधेनेव प्लवङ्गानां निशि सा ज्वालिता पुरी ।
चुक्रोश विदुयत्कान्तारशनानूपुरैरिव ॥ १००७ ॥
वह्वेश्चटचटारावं मुखरस्य प्रधावतः
उत्सवे प्राकृतस्येव संरम्भोऽभूदितस्ततः ॥ १००८ ॥
मणिवेश्मसु हृधेपु प्रासादेपु परेषु च ।
ज्वालाहस्तैर्मुहुश्चके संविभागमिवानलः ॥ १००९ ॥
जलाशयेभ्यः सलिलं प्रतिविम्बाग्निपिङ्गलम् ।
समादातुमपि प्राप्तौ न पस्पर्श भयाजनः ॥ १०१० ॥
दीप्ता रामप्रतापेन पुनरुक्तेन चाग्निना ।
निशीथे विबभौ लङ्का तटे हेमगिरेरिव ॥ १० ११ ॥
अनिलोडूलितज्वालाकलापबदनोऽनलः ।
दग्धा न वेति नगरी ददर्शति पुनः पुनः ॥ १०१२ ॥
तेन वहिप्रकाशेन दिगन्तालोककारिणा ।
ग्रस्तेव क्षणदा क्षिप्रं रक्षसां पक्षपातिनी ॥ १०१३ ॥
ततः प्रदीप्तामालोक्य प्राकाराट्टालमालिकाम् ।
लकानल इव क्रोधात्मजज्वाल दशाननः ॥ १०१४ ॥
सैन्येन महता तद्गिरा कुम्भकर्णजौ।
निकुम्भकुम्भौ संग्रामं जग्मतुर्भङ्गदौ द्विषाम् ॥ १०१५ ॥

घोरैः प्रवृत्ते समरे रक्षसां वानरैर्निशि ।
उन्मीलिता इव दिशो चभुदीप्तायुधांशुभिः ॥ १०१६ ॥
निर्मर्यादे रणे तस्मिन्नाविष्टेषु भटेष्विव ।
कम्पनः कम्पितारातिर्जघान गदयाङ्गदम् ॥ १०१७ ॥
गदाभिघातपतितः समाश्वस्य प्लवङ्गमः ॥


बाणेनाकर्णकृप्टेन विव्याध द्विविधं(द) हृदि ॥ १०१८ ॥
द्विविधे(दे) भूधराकारे विह्वले पतिते भुवि ।
मैन्दः शिलां समुद्यम्य कुम्भमत्याद्रवद्रुपा ॥ १०१९ ॥
क्षिप्तां तां तेन वलिना शिलां विपुलविग्रहः ।
जघान पञ्चभिर्वाणैः कुम्भो मैन्दं च पत्रिणा ॥ १०२० ॥
मूर्छिते पतिते भूमौ मैन्दे हृदि शराहते ।
अङ्गदो मातुलनेहाकुम्भाय प्राहिणोद्रुमम् ॥ १०२१ ॥
कुम्भश्छित्त्वा शरैस्तूर्ण तरुशैलपरस्पराम् ।
अगदं विदधे धन्वी स्रवद्रुधिरनिर्झरम् ॥ १०२२ ॥
शराभिघाताकुलिते मूर्छिते वालिसंभवे ।
कुम्भमभ्याद्रवत्कोपारकपयो जाम्बवन्मुखाः ॥ १०२३ ॥
ते कुम्भशरवर्षेण वृता निःस्पन्दविग्रहाः ।
नैवाभिमुखमाजग्मुः प्रययुनं च लज्जया ॥ १०२४ ॥
ततोऽभिपत्य सुग्रीवः सालतालशिलाशतैः ।
क्षिप्तैश्चकार ककुभः कुम्भक्रोधान्निरन्तराः ॥ १०२५ ॥
छित्त्वा द्रुमशिलाः कुम्भः शरैरापूर्य सर्वतः ।
वीरश्चकार सुग्रीवं सूर्यं मेघैरिवावृतम् ॥ १०२६ ॥
सुग्रीवो रथमाप्लुत्य कराभ्यां तस्य कार्मुकम् ।
द्विधा विधाय प्रोवाच धीरो युध्यस्व राक्षसौ ॥ १०२७ ॥


१. त्रुटिचिह्नं तु पुस्तकेषु न दृश्यते, तथापि संदर्भभङ्गेनानुमीयते त्रुटि:.

रावणाभ्यधिकं दर्पे कुम्भकर्णाधिकं बले ।
मेघनादाधिकं शौर्ये जानामि त्वां निशाचर ॥ १०२८ ॥
पश्य मे भुजयोर्वेगं वज्रनिष्पेपगौरवम् ।
इति ब्रुवाणं सुग्रीवं मुष्टिना राक्षसोऽवधीत् ॥ १०२९ ॥
मुष्टिप्रहारपिष्टास्थिसंजातामिः कपीश्वरः ।
मुष्टिनैवोग्रवेगेन जघान क्षणदाचरम् ॥ १०३० ॥
मुष्टिघातेन निर्मिन्नः कुलिशेनेव भूधरः ।
पपात भूतले कुम्भः प्रभूतोद्भूतशोणितः ॥ १०३१ ॥
इति कुम्भवधः ॥ ३५ ॥
सुग्रीवेण हते कुम्भे निकुम्भः कपिवाहिनीम् ।
पिपेष परिघाघातैर्धोरनिर्घोषभीषणः ॥ १०३२॥
अपातयत्स परिषं दृढं वक्षसि मारुतेः ।
विपुलापातवेगेन सहसा शतधा गतम् ॥ १०३३ ॥
गाढमहाराभिहतश्चकम्पे पवनात्मजः ।
कैलाश इव पौलस्त्यभुजस्तम्भसमुद्धृतः ॥ १०३४ ॥
व्यथां संस्तम्भ्य हनुमान्मुष्टिना क्षणदाचरम् ।
निजघानास्थिनिप्पेषजातज्वालाजटाजुपा ॥ १०३५ ॥
मुष्टिघाताहतः कोपान्निकुम्भः पवनात्मजम् ।
जहार भुजबन्धेन बद्धागाढनिपीडितम् ॥ १०३६ ॥
स रक्षसा गृहीतोऽपि मुष्टिना तमताडयत् ।
तत्पीडितेन तेनासौ विमुक्तो भुजपञ्जरात् ।
पृष्ठे निपतितं चक्रे व्यसुं भगशिरोधरम् ॥ १०३७ ॥
इति निकुम्भवधः ॥ ३६ ॥
हते निकुम्भे भूतानां भयस्थाने हनूमता ।
प्लवङ्गसंगरे भङ्गः कोऽप्यभूत्पिशिताशिनाम् ॥ १०३८ ॥
ततः सैन्येन महता वृतो रावणशासनात् ।
अभ्याययौ खरसुतो मकराक्षः क्षपाचरः ॥ १०३९ ॥

स शरैरशनिस्पर्शैविदार्य हरिवाहिनीम् ।
क्व रामः क्व च सौमित्रिरित्यपृच्छन्परान्मुहुः ॥ १०४० ॥
ततो राघवमासाद्य कर्णान्ताकृष्टकार्मुकम् ।
सोऽब्रवीदद्य गच्छामि पारं पितृवधात्क्रुधः ॥ १०४१ ॥
शरवृष्टिं तदुत्सृष्टां छित्त्वा रामः शितैः शरैः ।
सूतं रथं धनुश्चास्य चिच्छेदाङ्गुतविक्रमः ॥ १०४२ ॥
स शूलं राघवायोग्रं चिक्षप ज्वलनप्रभम् ।
ददृशुस्त्रिदशास्तच्च कृत्तं रामशरैस्त्रिभिः ॥ १०४३ ॥
शूलभङ्गक्रुधा क्षिप्रं मुष्टिमुद्यम्य राक्षसः ।
दष्टौप्टस्तिष्ठ तिठेति गर्जन्राघवमाद्रवत् ॥ १०४४ ॥
ततः प्रादुश्चकारोग्रमस्त्रं रामो विभावसोः ।
निर्भिन्नहृदयो येन निपपात निशाचरः ॥ १०४५ ॥
इति मकराक्षवधः ॥ ३७॥
मकराक्षे हते कोपादिन्द्रजिद्विजयोर्जितः ।
पुनरभ्याययौ युद्धभुवं रक्षोवलैर्वृतः ॥ १०४६ ॥
आवृते राक्षसानीके बद्धप्लक्षैः प्लवंगमैः ।
चकार तेषां संहारं क्रुद्धो रुद्र इवेन्द्रजित् ॥ १०४७ ॥
एकेनैकेन वाणेन वानरान्नव सप्त च ।
दारयन्प्रधने धन्वी यातुधानश्चचार सः ॥ १०४८॥
गन्धमाध(द)नमुख्येपु नलनीलाङ्गदादिपु ।
तद्वाणभिन्नदेहेषु विद्रुतेपु दिशो दश ॥ १०४९ ॥
पुनः प्रविश्य नगरं पितुरादाय शासनम् ।
पूर्वोक्तेनैव विधिना हुत्वा तूर्ण हुताशनम् ॥ १०५० ॥
अन्तर्हितः स्वमुत्पत्य रथी ब्रह्मास्त्रदुर्जयः ।
प्रययाविन्द्रजिद्वीरो यत्र रामः सलक्ष्मणः ॥ १०५१ ॥
स ववर्ष शरासारं तयोरुपरि दुःसहम् ।
येन बाणमयो लोकः क्षणेनाभून्निरन्तरः ॥ १०५२ ॥

रामसौमित्रिविशिखैरनासादितराक्षसैः ।
निर्वृते शस्त्रसंघाते विस्मयोऽभूहिवौकसाम् ॥ १०५३ ॥
ततो निर्विविघेरैिः शरैः शिखरिभेदिभिः ।
इन्द्रजिद्भुजनिर्मुक्तैस्तावदृश्यौ बभूवतुः ॥ १०५४ ॥
सर्वभूतक्षयभयान्निवार्य करुणानिधिः ।
ब्रह्मास्त्रं नाम सौमित्रिं रामः सेहे शरोत्करम् ॥ १०५५ ॥
रथे मायामयीं सीतां कृत्वा कपटविग्रहः ।
अथेन्द्रजित्कृपाणेन कृपणां हन्तुमुद्ययौ ॥ १०५६ ॥
गिरिशृङ्गं समुद्यम्य तं मारुतिरभिद्रुतः ।
ददर्श मेरुसंभ्रान्तस्तत्सीतावधवैशसम् ॥ १०५७ ॥
घोरं नृशंस पापिष्ठ विषमं कर्म मा कृथाः ।
इति ब्रुवाणो हनुमान्साश्रुनेत्रस्तमाद्रवत् ॥ १०५८ ॥
सानुगं मारुतसुतं कोपादावार्य सायकैः ।
खङ्गेन हत्वा साक्रन्दा सीतां चिक्षेप राक्षसः ॥ १०५९ ॥
इति मायासीतावधः ॥ ३८ ॥
तदृष्ट्वा मलिनं कर्म मारुतिः पिशिताशिनः ।
उत्ससर्न जवात्प्राज्यभुजः शैलोपमा शिलाम् ॥ १०६० ॥
तां दृष्ट्वेन्द्रजितः सूतो रथं वश्यतुरङ्गिणम् ।
हित्वा दूरापसारेण व्यक्तां चक्रे महाशिलाम् ॥ १०६१ ॥
सा दुराशेव विपुला शिला निष्फलतां गता।
भूमिं भित्त्वासिवेगेन गुर्गी पातालमाविशत् ॥ १०६२ ॥
क्रोधशोकाभिभूतानां हरीणां सह राक्षसैः ।
शरीरनिरपेक्षाणां घोरं युद्धमवर्तत ॥ १०६३ ॥
ततो निकुम्भिलां गत्वा होमं कर्तुं प्रचक्रमे ।
महारम्भेण विधिना विजयायेन्द्रजिद्द्विषाम् ॥ १०६४ ॥
प्रजज्वालानलस्तस्य यागे मन्त्राभिसंस्कृतः ।
दैत्यशोणितसंसिक्तस्फुरदिन्द्रायुधद्युतिः ॥ १०६५ ॥

सर्वात्मना सन्निविष्टान्प्राणत्यागकृतक्षणान् ।
वध्यमानान्कपिवरानुवाच पवनात्मजः ॥ १०६६ ॥
उत्सृज्य राक्षसभयं नियतध्वं प्लवङ्गमाः ।
यदर्थमयमुद्योगः सैव सीता हता सती ॥ १०६७ ॥
निवेद्य वृत्तं रामाय वयं भाग्यतिरस्कृताः।
यथोचितं करिष्यामः स यत्पूर्व करिष्यति ॥ १०६८ ॥
इत्युक्त्वा महतीं सेनां विनिवर्त्य शनैः कपिः ।
शोकाभितप्तः प्रययौ सानुगो यत्र राघवः ॥ १०६९ ॥
साहाय्ये रघुनाथेन विसृष्टं बहुभिर्बलैः ।
दृष्ट्वा पुरः समायान्तं जाम्बवन्तं सहानुगः ॥ १०७० ॥
तेनैव सह संप्राप स रामं सानुलोचनः ।
वाग्वज्रपाते स क्षिप्रं नैव स प्रतिभोऽभवत् ॥ १०७१ ॥
वृत्तं कपिबलैयुद्ध श्रमश्वासप्रयासितैः ।
दृष्ट्वा मारुतिमायान्तं राधवः सादरोऽभवत् ॥ १०७२ ॥
तमुवाच ततो धैर्य विहाय हरिपुंगवः ।
दुर्जनेनेव शोकेन महता मुखरीकृतः ॥ १०७३ ॥
तमसामास्पदीभूतस्त्यक्तधैयोंचितस्थितिः ।
त्वामहं दुःसहं देव विज्ञापयितुमुद्यतः ॥ १०७४ ॥
संहारसारे संसारे ते धन्याः सुखभागिनः ।
अदृष्ट्वैव क्षयं यान्ति दुःखं प्रियजनस्य ये ॥ १०७५ ॥
हता शक्रजिता सीता कोशन्ती करुणखना।
विनष्टचेष्टैरस्माभिर्नृशंसैरवलोकिता ॥ १०७६ ॥
इति श्रुत्वैव सहसा मोहेन महता हतः ।
पपात भूमौ काकुत्स्थः स्त्रस्तबाणशरासनः ॥ १०७७ ॥
तं परिप्वज्य पतितं भुजाभ्यामथ लक्ष्मणः ।
उवाच निष्फलः क्लेशः समन्तात्खिन्नमानसः॥१०७८ ॥

अहो बत सदाचारे लोको मिथ्यैव सादरः ।
पण्डस्येव सुतो यस्य कश्चिन्नास्ति फलोदयः ॥ १०७९ ॥
धिग्धर्मं यददुःखार्दा धार्मष्ठा दुःखभागिनः ।
नमः पापाय संसक्तो यस्मिन्सात्युदयो जनः ॥ १०८० ॥
आर्येण धर्मो मिथ्यैव क्लेशाय परिरक्षितः ।
किं तेन कृच्छूकालेषु यो न रक्षति धीरताम् ॥ १०८१ ॥
धर्मानुरोधादार्येण त्यक्तं राज्यं पितुर्गिरा ।
विनष्टो यत्परित्यागादर्थोऽनर्थनिबर्हणः ॥ १०८२ ॥
विपन्नार्थस्य सहसा कुलीनस्यार्यचेतसः ।
मन्दाग्नोरिव वर्धन्त दोषाः शोषाय केवलम् ॥ १०८३ ॥
निवर्तन्ते दरिद्राणां प्रवर्तन्ते ससंपदाम् ।
धनाधीनाः क्रियाः सर्वा वेश्या इव शरीरिणाम् ॥ १०८४ ॥
अन्धः संदर्शनस्येव बधिरः श्रवणस्य वा ।
स्मृत्वा क्रियाकलापस्य दरिद्रो दीर्यते शुचा ॥ १०८५ ॥
शीलं तेषां कुलं तेषां तेषामेव प्रगल्भता ।
भूतिर्विभूषणं येषां गजेन्द्राणामिवोज्ज्वला ॥ १०८६ ॥
यशस्तेजः श्रुतं रूपं वयः प्रज्ञा कुलं धनम् ।
धनेन लभ्यते सर्व धनमेतैर्न लभ्यते ॥ १०८७ ॥
वालकः केलिलीलासु संभोगावसरे युवा ।
वृद्धः संमानपूजासु धनवानेव नापरः ॥ १०८८ ॥
लज्जया निर्धनो बन्धुः पर इत्युच्यते जनैः ।
परैः परोऽभिमानार्थमीश्वरो वन्धुरुच्यते ॥ १०८९ ॥
मित्राणां बान्धवानां च न ते जीवन्ति जन्तवः ।
वित्तं न विद्यते येषां जीवितस्यापि जीवितम् ॥ १०९० ॥
धर्मकामौ हतौ तेन येन नोपार्जितं धनम् ।
छिन्नं पुष्पफलं तेन मूलं येन हतं तरोः ॥ १०९१ ॥


१. “पण्डस्येव’ शा०. २. ‘स्तेषां शा.

जनास्त्यजन्ति स्वजनं नोन्मत्तं न च कुष्ठिनम् ।
धनहीनो प्रयत्नेन पुत्रेण त्यज्यते पिता ॥ १०९२ ॥
सादरो न दरिद्रस्य जनः सर्वगुणैरपि ।
शिल्पिनश्छिन्नहस्तस्य स्नानशीलवतैरिव ॥ १०९३ ॥
राज्यं संत्यजता त्यक्तं सर्वमार्येण सर्वदा ।
सीताहरणदुःखस्य वनवासो हि कारणम् ॥ १०९४ ॥
उत्तिष्ठ रघुशार्दूल पश्य पौलस्त्यनं मया ।
निहतं युधि दर्पान्धं लङ्कां दग्धां च सायकैः ॥ १०९५ ॥
लक्ष्मणेनेत्यभिहिते युद्धासक्तो विभीषणः ।
संघातं विपुलं दृष्ट्वा शनैस्तं देशमाययौ ॥ १०९६ ॥
स विलोक्य स्थितं रामं भूतलाखण्डलं भुवि ।
सिच्यमानं हरिवरैर्जलैरुत्पलगन्धिभिः ॥ १०९७ ॥
किमेतदिति तान्पृष्ट्वा श्रुत्वा सीतां तथा मृताम् ।
धिगेतदिति सासूयमवदत्सस्मिताननः ॥ १०९८ ॥
देवोत्तिष्ठ न तां हन्ति कश्चिज्जीवति रावणे ।
तस्य तत्प्रणये वाञ्छा न हतस्यापि शाम्यति ॥ १०९९ ॥
इयं तु महती चिन्ता संप्रवृत्तो यदिन्द्रजित् ।
निकुम्भिलायां हुत्वानि घोरे संहारकर्मणि ॥ ११०० ॥
न त समाप्तकर्माणं जेतुं शक्ताः सुरासुराः ।
कर्मण्यपूर्णे तस्याशु क्रियतामुद्यमो वधे ॥ ११०१ ॥
तूर्ण प्रयातु तं हन्तुं सौमित्रिस्तव शासनात् ।
हता मायामयी सीता शोकं मिथ्यैव मा कृथाः ॥ ११०२ ॥
अपूर्णे यागसमये यस्त्वामेष्यति युद्धधीः ।
वध्योऽसि तस्येत्यवदत्पूर्वमिन्द्रजितं विधिः ॥ ११०३ ॥
विभीपणस्येति वचः सत्यार्थ रघुनन्दनः ।
निशम्य शान्तसंतापस्तथेति प्रत्यपद्यत ॥ ११०४ ॥
इति रामाश्वासनम् ॥ ३९ ॥

ततः प्लवगसैन्येन वृतो राघवशासनात् ।
प्रययौ लक्ष्मणो योद्धुं संनद्धो रावणात्मजम् ॥ ११०५ ॥
गत्वा विभीषणादिष्टवर्त्मना स निकुम्भिलाम् ।
ददर्श राक्षसव्यूहं मेघसंघातसंनिभम् ॥ ११०६ ॥
तत्ततो राक्षसानीकं विभीषणगिरा शरैः ।
विदार्येन्द्रजितश्चक्रे स सुदृश्यां क्रतुक्षितिम् ॥ ११०७ ॥
दारितं लक्ष्मणशरैर्यानरैश्च प्रहारिभिः ।
खसैन्यमिन्द्रजिदृष्ट्वा यागमुत्सृज्य निर्ययौ ॥ ११०८ ॥
असमाप्ते मखविधौ निर्गते रावणात्मजे ।
वभूव समरे घोरे सैन्ययोः सुभटक्षयः ॥ ११०९ ॥
विचित्ररत्नकवचः किरीटी रत्नकुण्डलः ।
रथेन घोरघोपेण मारुतिं समुपाद्रवत् ॥ १११० ॥
दृष्ट्वेन्द्रजितमायातं बिभीपणनिवेदितम् ।
आकृष्टचापरतस्याशु सौमित्रिः पुरतोऽभवत् ॥ ११११ ॥
लक्ष्मणस्यान्तिके दृष्ट्वा धीसहायं विभीषणम् ।
कोपादुवाच सासूय इन्द्रजित्प्रज्वलन्निव ॥ १११२ ॥
कुलमानसदाचारभ्रष्टः शोच्योऽसि वालिश ।
स्वजनं यत्परित्यज्य शत्रूणां भृत्यतां गतः ॥ १११३ ॥
मानावमाननियन्त्रस्नेहभूः क निजो जनः ।
क्क परः प्रस्तुतोदारपूजाशैथिल्यशल्यकृत् ॥ १११४ ॥
न दुर्जनोऽपि स्वजनस्त्याज्योऽमिजनगौरवात् ।
सुसेवितोऽपि सुजनो न स्वास्किल परः सदा ॥ १११५ ॥
लिग्धं परिचितं त्यक्त्वा प्रयान्ति चपलाः परम् ।
परस्य भाजने मृष्ट जनो जानाति भोजनम् ॥ १११६ ॥
स्वजनं यः परित्यज्य प्रयाति निरपत्रपः ।
परस्य स कथं मित्रं भविष्यति निजो जनः ॥ १११७ ॥

धिक्त्वां सत्त्वपरिभ्रष्टं शठं नीचानुकारिणम् ।
दास्येऽभिरमते बुद्धिर्यस्योत्सृष्टनिजश्रियः ॥ १११८ ॥
स्वत्संदर्शनसंक्रान्तपातकस्यास्य चक्षुपः ।
जायते नैव वैमल्यं सत्यं वर्षशतैरपि ॥ १११९ ॥
इत्युक्ते मेघनादेन वचः श्रुत्वा विभीषणः ।
उवाच विपुलाक्षेपकोपस्मितसिताननः ॥ ११२० ॥
अहो खजनवात्सल्यागुणवानिव भाषसे ।
पापभीत्या मयेत्युक्तो दुराचारः पिता तव ॥ ११२१ ॥
क्षुद्रश्च द्वेपवांस्त्याज्यः स्वजनोऽपि विपश्चिता।
वान्धवं सहजं नास्ति साधवो बान्धवः सताम् ॥ ११२२ ॥
त्याज्य एव मम भ्राता मह्यं पापं न रोचते ।
यो यद्धृतः स तद्वृत्ते रमते नात्र संशयः ॥ ११२३ ॥
उपालम्भो ममैकस्य मिथ्यैव क्रियते त्वया ।
जीवितेन निजेनापि यूयं व्यक्ताः प्रमादिनः ॥ ११२४ ॥
निकुम्भिलावने हुत्वा न्यग्रोधान्तहितेन यत् ।
युद्धं कृतं त्वया पाप चौरकर्म तदुच्यते ॥ ११२५॥
अधुना लक्ष्मणशरैः शस्त्रैरिव दिवौकसाम् ।
स्वदुर्नयैरियाल्युअर्हतो मन्तासि मे वचः ॥ ११२६ ॥
विभीषणवचः श्रुत्वा कोपाद्दशमुखात्मजः ।
उपसैन्यं च सौमित्रिं शरासारैरपूरयत् ॥ ११२७ ॥
लक्ष्मणोऽपि शरैस्तस्य प्रतिजग्राह सायकान् ।
ज्याकर्षाशनिनिर्घोषघोषैरापूरयन्दिशः ॥ ११२८ ॥
लेभे तं शब्दमाकर्ण्य वैवर्ण्यं रावणात्मजः ।
आरूढमेव जानाति शूरः शूरं हि यो यथा ॥ ११२९ ॥
शब्दादुद्विजते शत्रोः शूर एव पराङ्मुखः ।
पूर्वं पलायनमतेनिर्लज्जस्य भयं कुतः ॥ ११३० ॥

तं विवर्णमुखं दृष्ट्वा हृदयज्ञो विभीषणः ।
उवाच लक्ष्मणं भग्नः शत्रुस्ते वधमर्हति ॥ ११३१ ॥
ततः कार्मुकमाकृष्य सौमित्रिः शत्रुसूदनः ।
रजनीचरराजस्य पुत्रं पत्रिमयं व्यधात् ॥ ११३२ ॥
स लक्ष्मणशरैर्विद्धः संज्ञां कृच्छ्रेण मीलितः ।
समासाद्य निरालोकाः कुर्वन्वागीदेशो दश ॥ ११३३ ॥
हनुमत्प्रमुखान्वीरान्विदार्य सविभीषणान् ।
लक्ष्मणस्येन्द्रजिच्चक्रे स मृगस्येव पञ्जरम् ॥ ११३४ ॥
तस्य हेममयं दीप्तं कवचं राघवानुजः ।
चिच्छेद विशिखै त प्रतापमिव रक्षसः ॥ ११३५ ॥
स विध्वस्ततनुत्राणः स्रवद्रुधिरनिर्झरः ।
उदधेर्विदधे रक्ततटिनीनवसंगमम् ॥ ११३६ ॥
स तीवक्रोधविधुरः प्रवृद्धचरितो रणे ।
चकार कपिसंहारं निजदोर्दण्डतोमरैः ॥ ११३७ ॥
ततो विभीषणगिरा चक्रुस्तीव्रपराक्रमाः ।
जाम्बवन्मारुतिमुखाः संक्षयं रक्षसां क्षणात् ॥ ११३८ ॥
सोत्साहान्धिपुलोत्साहस्तानुवाच विभीषणः ।
विलोक्येन्द्रजितं युद्धे वर्धमानमिवानलः ॥ ११३९ ॥
हन्यतां राक्षसबलं भवद्भिर्बलवत्तरैः ।
अल्पावशेष कार्येऽस्मिन्विलम्बो नात्र वः क्षमः ॥ ११४० ॥
खयं निसूदयाम्येष समरे भातुरात्मजम् ।
राघवार्थं ममाकार्यं लोके किंचिन्न विद्यते ॥ ११४१ ॥
उपेक्षितो दहत्येप क्षणेनैव प्लवंगमान् |
स्वहस्तेन वधस्तस्य स्वयं मे जायते घृणा ॥ ११४२ ॥
इत्युक्त्वा राक्षसचमूं राक्षसेन्द्रानुजः स्वयम् ।
जघान घननिर्घोषेर्बाणैरशनिगौरवैः ॥ ११४३ ॥

तं शरैरशनिस्पर्शैः शीघ्रं संपूर्य शक्रजित् ।
सायकाचितसर्वाङ्गं विदधे लक्षणं पुनः ॥ ११४४ ॥
तयोरत्यद्भुतं युद्धं जम्भारिप्रमुखाः सुराः ।
द्रष्टुं समाययुः सर्वे विमानोद्भासिताम्बराः ॥ ११४५ ॥
तयोराधानसंधानलक्ष्यलाघवसौष्ठवे ।
ददर्श नान्तरं कश्चिद्वैचित्र्ये कृतहस्तयोः ॥ ११४६ ॥
त्रस्तेषु सुरसिर्विसंधेपु पिहिते रचौ ।
तमसा संवृताः प्रापुः प्रलयोपद्रवं दिशः ॥ ११४७॥
ततः शरेण सौमित्रिः सूतं तस्य न्यपातयत् ।
विमुक्तसंयमाननुः प्लवगाश्च तुरङ्गमान् ॥ ११४८ ॥
विरथो रावणसुतः शरैराच्छाद्य लक्ष्मणम् ।
विभीषणवधायोग्रं याम्यमस्त्रमथासृजत् ॥ ११४९ ॥
कुवेरास्त्रेण सौमित्रिस्तदस्त्रं शत्रुदारणम् ।
अभिहत्याददे रौद्रं महास्त्रं वज्रिणार्पितम् ॥ ११५० ॥
सत्यधर्मास्पदं रामो यदि सत्येन तेन मे।
अस्त्रं प्रयातु साफल्यमित्युक्त्वा समसर्जयत् ॥ ११५१ ॥
तेनोत्कृत्तं महास्त्रेण पपातेन्द्रजितः शिरः ।
लडद्विम्बितमार्तण्डमण्डलोचण्डमण्डलम् ॥ ११५२ ॥
इतीन्द्रजिद्वधः ॥ ४०॥
प्रतापेन प्रभावेण महत्त्वेन च विश्रुतः ।
तेजस्विषु सहस्रांशुर्वरो यश्च सुरारिपु ॥ ११५३ ॥
तस्मिञ्जगत्रयीशत्रौ वीरे सौमित्रिणा हते ।
प्रवृत्तस्त्रिदशैस्तूर्णं बभूव भुवनोत्सवः ॥ ११५४ ॥
हरीणां हर्षमत्तानां प्रभन्नानां च रक्षसाम् ।
तदभूधरव्यापी निस्खनो लोमहर्षणः ॥ ११५५ ॥
विभीषणप्रभृतिभिर्मारुतिप्रमुखैः सह ।
हतामित्रो ययौ द्रष्टुं सौमित्रिस्तूर्णमग्रजम् ॥ ११५६ ॥

हतमिन्द्रजितं श्रुत्वा निकृत्ताङ्गं च लक्ष्मणम् ।
दृष्ट्वा बभूव हृष्टश्च व्यथितश्च स राघवः ॥ ११५७ ॥
स भ्रातरं परिष्वज्य धृत्वाङ्के साश्रुलोचनः ।
पस्पर्शास्य तनुं शल्यसंहतस्रुतशोणितम् ॥ ११५८ ॥
शासनादथ रामस्य सुषेणः कपियूथपः ।
विशल्यकरणी दिव्यामाजहार महौषधिम् ॥ ११५९ ॥
तां लक्ष्मणः समानाय विशल्यो निर्बणः क्षणात् ।
बभूव बलवान्वस्थः काकुत्स्थेनाभिपूजितः ॥ ११६० ॥
अत्रान्तरे दशमुखः श्रुत्वा पुत्रं निपातितम् ।
न ददर्श न शुश्राव छिन्नशीर्ष इव क्षणम् ॥ ११६१ ॥
स लब्धसंज्ञः शनकैः शुशोचाकुलितेन्द्रियः ।
शोकक्रोधाग्निसंतप्तैर्दिशः श्वासैदहन्निव ॥ ११६२ ॥
हा शक्रविजयोदारयशःकुसुममाधव ।
अस्मिन्व्यसनकाले मां व परित्यज्य गच्छसि ॥ ११६३ ॥
अहो बत तवेन्द्रस्य भयदीक्षागुरुर्गुरुः ।
भुजस्तम्भः कथं नाम लक्ष्मणे लघुतां गतः ॥ ११६४ ॥
शिरसामुन्नतिः श्लाघ्या द्वाभ्यामेव ममाभवत् ।
वत्स त्वया च पुत्रेण वरेण च पिनाकिनः ॥ ११६५ ॥
अधुना मम का शोभा राज्येऽस्मिन्का च जीविते ।
कुलचूडामणिर्यस्य हतः पुत्रः सुरेन्द्रजित् ॥ ११६६ ॥
हा हा पुत्र व यातोऽसि दर्शय क्षणमाननम् ।
संभावय हतं चेतो नैराश्यं न यथा भवेत् ॥ ११६७ ॥
इति प्रलापिनस्तस्य शोकः पुत्रवियोगजः ।
ययौ मृतस्थान इव प्रौढेन क्रोधवह्निना ॥ ११६८ ॥
तस्य स्रोतोमुखैः सर्वैरमर्पदहनोद्भवः ।
जगत्क्षयक्षमाश्चित्रं घोरा निश्चेरुरर्चिपः ॥ ११६९ ॥

स मूलकारणं मत्वा सीतामिन्द्रजितो वधे ।
आकृष्टखङ्ग्स्तां हन्तुमशोकवनिकां ययौ ॥ ११७० ॥
करालकरवालोग्रं तं दृष्ट्वा क्रुद्धमागतम् ।
दशाननसहस्राणि दिक्षु सीता व्यलोकयत् ॥ ११७१ ॥
सीतां व्यवसितुं हन्तुं रावणं क्रोधमूर्छितम् ।
उवाच दोामाकृप्य सुपार्थो वृद्धराक्षसः ॥ ११७२ ॥
अवदाततरे जन्म कुले कमलजन्मनः ।
विश्रुतं चरितं दिक्षु निजगद्विजयोर्जितम् ॥ ११७३ ॥
श्रुतिः श्रुतवती शान्ता मतिर्मानोन्नतं शिरः ।
यथा तव तथान्यस्य कस्य लोके विलोक्यते ॥ ११७४ ॥
स त्वं सत्त्ववतामयः स्त्रीवधे कथमुद्यतः ।
द्विजोत्तमः सुरापाने श्रोत्रियः श्रुतवानिव ॥ ११७५ ॥
श्रुतं विवेकः कारुण्यं दमः साधुसमागमः ।
मोहप्रपञ्चे पञ्चैते पापसंचयवञ्चकाः ॥ ११७६ ॥
त्यजैतामवलां वाला मा कृथाः कीर्तिविप्लवम् ।
हतो यैरिन्द्रजिद्वीरः कोपस्तेपु निपात्यताम् ॥ ११७७ ॥
सुपार्श्वनेत्यभिहित विनिवृत्य दशाननः ।
आदिदेश निजानीकं सज्जः संग्रामकर्मणि ॥ ११७८ ॥
ततो विनिर्ययुधौरा राक्षसा युद्धदुर्मदाः ।
मेघव॑स्ता इव दिशः कुर्वन्तो गजवाजिभिः ॥ ११७९ ॥
उदिते तिग्मकिरणे युद्धं तेषां प्लवंगमैः ।
अवर्तताश्मशस्त्रास्त्रनिर्धर्षामलपिङ्गलम् ॥ ११८० ॥
शतं शतं वानराणामेकैकस्य तु रक्षसः ।
अदृश्यता संसक्तनखदन्तप्रहारिणाम् ॥ ११८१ ॥
ततः प्रविततं दिक्षु राक्षसक्षयदीक्षितम् ।
चुकूज चापं रामस्य विरामस्यास्य संपदाम् ॥ ११८२ ॥


१. ‘ग्रस्ता’ शा०.

अर्धोद्धृतैश्च कृष्टैश्च निप्पतद्भिश्च निर्गतैः ।
रामवाणच्युतैर्वाणैर्नादृश्यन्त दिशो दश ॥ ११८३ ॥
हतो हस्ती च्युतः सप्तिरयमुन्मथितो रथः ।
इत्यभूद्विपुल: शब्दो राक्षसानामितस्ततः ॥ ११८४ ॥
ते शराशनिनिर्भिन्ना दिवि दिक्षु महीतले ।
क्षणं रामसहस्राणि ददृशुर्भयविद्रुताः ॥ ११८५ ॥
नाश्यत रणे रामश्चक्रं दीप्तमदृश्यत ।
हेमपृष्ठस्य धनुषो दिक्षु भ्रान्तस्य केवलम् ॥ ११८६ ॥
तेन संमोहनास्त्रेण मोहितास्ते निशाचराः ।
जघ्नुः परस्परं शक्तिशूलप्रासासिपट्टिशः ॥ ११८७ ॥
छिन्नोरुबाहुचरणैः स्तव्धवक्रशिरोधरैः ।
निःसंचाराभवद्भूमिः पतितैः पिशिताशिभिः ॥ ११८८ ॥
हतेषु रक्षोलक्षेषु भनेषु भुजशालिषु ।
हतशेषा ययुस्तूर्णं यत्रास्ते दशकन्धरः ॥ ११८९ ॥
इति रामास्त्रयुद्धम् ॥ ४१ ॥
ततो निहतनाथानां क्षणदाचरयोपिताम् ।
उदभूच्छोकतप्तानां प्रलापः करुणस्वनः ॥ ११९० ॥
अहो बत हृता सीता शिखेवामेर्मनस्विनी ।
रक्षसां राक्षसेन्द्रेण क्षयायैव प्रमादिनी ॥ ११९१ ॥
को हि रामस्य समरे शक्तः सोढुं शराशनिम् ।
याता नक्तंचरा यस्य प्रतापानिपतङ्गताम् ॥ ११९२ ॥
कष्टं प्राणप्रवासाय कृतं रामाय विप्रियम् ।
विराधखरमारीचप्रमुखैः क्षणदाचरैः ॥ ११९३ ॥
न केनचिदयं रामः कथितो रावणस्य किम् ।
यस्य ज्यातलनिर्घोषैर्गीयते धनुपा यशः ॥ ११९४ ॥
केतुतां चालिकङ्कालं कोपकापालिकस्य यः ।
निनाय स कथं रामो राक्षसेन्द्रेण न श्रुतः ॥ ११९५ ॥

सेतुबन्धानुबन्धेन लङ्कासंरोधवन्धुना ।
कुम्भकर्णवधेनापि न प्रबुद्धो दशाननः ॥ ११९६ ॥
शिरश्छेदोपमेनापि वधेनेन्द्रजितः परम् ।
लाभोऽयं यदि पौलस्त्य शेषं युद्धं समाप्यते ॥ ११९७ ॥
इयं रामशरैर्लङ्का प्राकाराजालकेलिभिः ।
स्पष्टीकृता कृतान्तस्य दुर्गमार्गनिराकुला ॥ ११९८ ॥
इत्युच्चचार विपुलप्रलापो जननिस्वनः ।
रामाप्रलापदग्धानां राक्षसानां गृहे गृहे ॥ ११९९ ॥
क्रुद्धस्तं शव्दमाकर्ण्य सामात्यो राक्षसेश्वरः ।
निर्ययौ रथसंघातरेणुग्रस्तनभस्तलः ॥ १२०० ॥
ततो बभूव भूतानां भयकृद्भूमिकम्पनः ।
गम्भीरारम्भसंरम्भो विमर्दः कपिरक्षसाम् ॥ १२०१ ॥
रणे रावणनाराचनिचयैरायतोज्झितैः ।
वज्राहता इव नगाः पेतुर्वानरयूथपाः ॥ १२०२ ॥
यत्र यत्र प्रतापोग्रपौलस्त्याप्ताः शिलीमुखाः ।
तत्र तत्रोदभून्नादः प्रधानवधसूचनः ॥ १२०३ ॥
दशग्रीयभुजोत्सृष्टशरकृत्तभुजाननैः ।
वानरैः पतितै मिरभूमिर्वाजिनामभूत् ॥ १२०४ ॥
लकेश्वरशरासारदारिते हरिमण्डले ।
ददर्श राघवौ दूरादाकृष्टोरुशरासनौ ॥ १२०५ ॥
स तौ सावेगमभ्येत्य मण्डलीकृतकार्मुकः ।
चकार शरनीहारैश्चन्द्रसूर्याविवावृतौ ॥ १२०६ ॥
क्षिप्त राक्षसराजेन द्वीप्तां वाणपरम्पराम् ।
चिच्छेद राघवः क्षिप्रं चन्द्राधवदनैः शरैः ॥ १२०७ ॥
घोरे व्यतिकरे तस्मिन्सुभटप्राणहारिणि ।
जधान रावणामात्यौ विरूपाक्षमहामुखौ ॥ १२०८ ॥

सुग्रीवो विग्रहोदग्रं महानादं तथाङ्गदः ।
तत्क्रोपादथ पौलस्त्यः स्वस्ति हर्ता दिवौकसाम् ।
नाराचमालां चिक्षेप ललाटे रघुभूपतेः ॥ १२०९ ॥
स रत्नमुकुटोद्देशे संहतासक्तया तथा ।
नीलोत्पलस्रजा क्षिप्रं कृतोत्तंस इवावभौ ॥ १२१० ॥
रौद्रं ततोऽस्त्रं रामेण क्षिप्तं रक्षःक्षयक्षमम् ।
रुद्रदत्तवरे भङ्गं ययौ रावणवर्मनि ॥ १२११ ॥
असुरास्वचितैर्वाणैाप्रसिंहगजाननैः ।
दिशः संछाद्य पौलस्त्यश्चक्रे त्रैलोक्यसंभ्रमम् ॥ १२१२ ॥
काकुत्स्थः पावकास्त्रेण घोरं हत्वा महासुरम् ।
दिशो वितिमिराः सर्वाश्चकार तरणिप्रभाः ॥ १२१३ ॥
रावणास्त्रं ततो रौद्रमयं मायाविनिर्मितम् ।
जघानायुधसंबाधं गन्धर्वास्त्रेण राघवः ॥ १२१४ ॥
दारितेषु महास्त्रेषु क्रोधान्धो दशकन्धरः ।
रामं प्रच्छाद्य विशिखै गर्न धनसंनिभः ॥ १२१५ ॥
सायकैः सारथेर्वत्रं ध्वजचक्रं च लक्ष्मणः ।
चापं च राक्षसेन्द्रस्य चिच्छेदाछुतविक्रमः ॥ १२१६ ॥
ततो विभीषणोऽभ्येत्य मेघसंघातसंनिभम्!
उन्ममाथ रथं भ्रातुः शरैर्भग्नतुरङ्गमम् ॥ १२१७ ॥
हताश्वादथोत्प्लुत्य रथात्मव्यथितः क्रुधा ।
विभीषणाय चिक्षेप शक्तिं शक्तां रिपुक्षये ॥ १२१८ ॥
वेगसूत्कारिणी घोरा सनिश्वासेव पन्नगी।
सा पपात क्षितितले कृता रामेपुभिस्त्रिभिः ॥ १२१९ ॥
तं शक्तिभङ्गकुपितं विभीषणवधोद्यतम् ।
प्रतिजग्राह सौमित्रिः पत्रिभिः शत्रुमेदिभिः ॥ १२२० ।
शोणपट्टोपमज्वालामष्टघण्टारवोत्कटाम् ।
परां मयकृतां शक्तिं लक्ष्मणायोत्ससर्ज सः ॥ १२२१ ॥

सा तस्य हृदयं भित्त्वा त्रिदशत्रासकारिणी ।
विवेश नैव वसुधां वसुधामप्रमाथिनी ॥ १२२२ ॥
शक्तिस्यूतं निपतितं लक्ष्मणं वीक्ष्य राघवः ।
वभ्राम मूर्छितः क्षिप्रमन्तरे क्रोधशोकयोः ॥ १२२३ ॥
समाश्रुलोचनः कोपाद्विग्रहे गिरिविग्रहम् ।
शरैर्निर्विर्विरैश्चक्रे दुर्लक्षं राक्षसेश्वरम् ॥ १२२४ ॥
वाणपातादपावृत्ते भन्नशौर्ये दशानने ।
विसंगं प्रातरं रामः शुशोच भ्रातृवत्सलः ॥ १२२५ ॥
ततः सुपेणनिर्दिष्ट हनुमान्गरुडोपमः ।
आनिनायोपधिगिरि मन्थाचलमिवाच्युतः ॥ १२२६ ॥
सुपेणेनोद्धृतां तस्मात्तूर्णं संजीवनोपधिम् ।
आघ्राय नासायोगेन लक्ष्मणः स्वास्थ्यमाप्तवान् ॥ १२२७ ॥
इति लक्ष्मणविशल्यकरणम् ॥ ४१ ॥
अत्रान्तरे समारुह्य घोरं मायाविनिर्मितम् ।
रथं पृथुयोदग्रं दशग्रीवः समाययौ ॥ १२२८ ॥
क्रूरक्रोधोद्धतं युद्धं ततः पुनरवर्तत ।
काकुत्स्थस्य क्षितिस्थस्य रथस्थस्य च रक्षसः ॥ १२२९ ॥
तयोः स्फारशरासारमेधयोद्धयमानयोः ।
नैतदेकरथं तुल्यं युद्धमित्यूचिरे सुराः ॥ १२३० ॥
ततः कान्तस्वरोदाररत्नाभरणभासुरः ।
सहनसंख्यैतुरगैः संयुक्तो बल्गुवल्गिभिः ॥ १२३१ ॥
विलोलकिंकिणीजालवैजयन्तीध्वजोर्जितः ।
अदृश्यतोगनिघोंपो मातलिप्रेरितो रथः ॥ १२३२ ॥
वातोद्यतपताकेन स्वच्छच्छनापहासिना ।
अवतीर्याम्बरात्तेन रथेन सुरसारथिः ॥ १२३३ ॥
उवाच प्रणतो रामं मुकुटावर्जिताञ्जलिः ।
दत्तकान्तिच्छलेनास्य जयोग्णीपमिवावार्पयन् ॥ १२३४ ॥

एप ते त्रिजगज्जेतुः शत्रुवित्रासनिखनः ।
दीप्तः सचापकवचः सर्वायुधविभूषितः ॥ १२३५ ॥
विसृष्टः सुरराजेन दशास्यदलनक्षमः ।
संग्रामाश्चर्यचर्यासु रथः पूर्णमनोरथः ॥ १२३६ ॥
इत्युक्ते शक्रसूतेन संपूज्य रघुनन्दनः ।
आरुरोह रथं दिव्यं जयं सूर्तमिवागतम् ॥ १२३७ ॥
ततो बभून दिव्यास्त्र प्रभावोद्धान्तखेचरम् ।
रामरावणयोर्युद्धं संशयायासितामरम् ॥ १२३८ ॥
नागास्त्रं रावणेनातं सुपर्णास्त्रेण राघवः ।
निवार्य विदधे दिक्षु पक्षाक्षिप्तमहानिलम् ॥ १२३९ ॥
ततः शरसहस्रेण रामं सरथसारथिम् ।
अभिपूर्यो ससर्नोग्रां रक्षः शस्त्रपरम्पराम् ॥ १२४० ॥
शरनिर्मिनसर्वाङ्गे मूछिते राधवे क्षणम् ।
व्यथां लक्ष्मणसुग्रीवविभीषणमुखा ययुः ॥ १२४१ ॥
दशास्ये विशतिभुजे वर्द्धमानपराकमे ।
प्राजापत्ये बुधेनैत्य नक्षत्रे परिपीडिते ॥ १२४२ ॥
अङ्गारकेन ज्येष्ठाख्ये राघवक्षं निपीडिते ।
साचला चञ्चला चोर्वी सुधाब्धिध्वाननादिनी ॥ १२४३ ॥
चन्द्रवर्णेन सूर्येन रेणुपूर्णेन वायुना ।
स निर्घातेन भूतानां घोरमाविरभूद्भयम् ॥ १२४४ ॥
राघवोऽथ समाश्वस्य कोपरक्तान्तलोचनः ।
चकर्ष कार्मुकं येन विवों रावणोऽभवत् ॥ १२४५ ॥
रामवाणवृते लोके पौलस्त्यः शूलमुत्कटम् ।
अयं न भवसीत्युत्क्या रामाय प्राहिणोत्क्रुधा ॥ १२४६ ॥
शूलध्वंसाय रामेण मुक्ता शरपरम्परा ।
तदग्नि()देशमासाद्य भस्मसादभवत्क्षणात् ॥ १२४७ ॥

ततः सुरपतेः शक्तर्दीप्ता रामभुजोर्जिता ।
पीता बभञ्ज सावेगं शूलं शूलमिवौषधिः ॥ १२४८ ॥
शूलविध्वंसकुपितं रावणं वाणवर्पिणम् ।
उवाच राघवः कोपस्मितप्रस्फुरिताधरः ॥ १२४९ ॥
दिष्टयावबोधितः पाप दिवारात्रं विचिन्तितः ।
चक्षुषोर्गोचरं यातस्त्वमद्य सुचिरेण नः ॥ १२५० ॥
वैदेही भिक्षुरूपेण विजने कानने त्वया ।
हृता हेममृगव्याजादहो वीरव्रतं कृतम् ॥ १२५१ ॥
परदारापहरणे ब्रह्मशीलस्य दुर्मतेः ।
तवैतानि न लजन्ते वक्राणि न परस्परम् ॥ १२५२ ॥
समरे यदि वीरोऽसि तत्संदर्शय पौरुषम् ।
निर्जने हरणे स्त्रीणां खापिनाम (१) प्रगल्भते ॥ १२५३ ॥
वन्धुस्वजनमित्राणां शोच्याः शूलविनाकृताः ।
ऐश्वर्य क्षणिकं येपु जलं भग्नघटेष्विव ॥ १२५४ ॥
इन्द्रजित्प्रमुखाः पुत्राः कुम्भकर्णादयोऽनुजाः ।
इयं विभूतिरात्मा च दुर्नयामौ त्वया हुताः ॥ १२५५ ॥
धिक्त्वां परवधूचौरं क्षुद्र क्षुद्रपथे स्थितम् ।
किं करोमि शरस्पोंऽप्येष मे त्वयि नोचितः ॥ १२५६ ॥
इत्युक्ते चण्डकोदण्डमण्डलोदरनिर्गतः ।
रामेपवस्तं विविशुस्तमः सूर्यकरा इव ॥ १२५७ ॥
शरनिर्भिन्नसर्वाङ्गस्तेजोविरहितः क्षणम् ।
बभूव गलितोत्साहः शिथिलो राक्षसेश्वरः ॥ १२५८ ॥
विवर्णवदनं दृष्ट्वा सारथिस्तं ससंभ्रमम् ।
अपसृत्य रथेनाशु जहार समराङ्गनात् ॥ १२५९ ॥
लब्धधैर्योऽथ पौलस्त्यो विलोक्यापसृतं रथम् ।
सूतं बभापे भ्रूभङ्गधूमकोपानलाकुलः ॥ १२६० ॥


1. ‘चापिता न’ स्यात.

अहो तु सुमृतेनापि स्नेहसस्मानवृत्तिना।
सुभृत्येन त्वया सूत प्रभुभक्तिः प्रदर्शिता ॥ १२६१ ॥
मानिनो रणसक्तस्य मूर्ध्नि लज्जारजस्त्वया ।
क्षपिता शत्रुमध्ये मे किं नाह सुकृतं कृतम् ॥ १२६२ ॥
मिथ्यैव लज्जाजननी देहरक्षा मम त्वया ।
कृता परेषां हासाय मूर्खणेव गुणस्तुतिः ॥ १२६३ ॥
नूनं शत्रुप्रयुक्तेन मानम्लानिरियं च मे ।
विहिता भवता युद्धे वीरवृत्तान्तसाक्षिणा ॥ १२६४ ॥
इति कोपेन सासूयं भाषमाणे दशानने ।
रथी सारथिना रक्ष्य इति सूतस्तमभ्यधात् ॥ १२६५ ॥
ततः प्रजविनाश्वेन रथेन घननादिना ।
रावणे पुनरायाते प्रादुरासीजनखनः ॥ १२६६ ॥
ऐन्द्रं धनुः समादाय रामे मेघ इवोद्यते ।
दुनिमित्ता व्यदृश्यन्त रावणस्य रथं प्रति ॥ १२६७ ॥
प्रवृत्ते दारुणे युद्धे रामलङ्काधिनाथयोः ।
प्रेक्षकत्वं प्रयातेषु रक्षःसु प्लवगेषु च ॥ १२६८ ॥
क्रमेण बर्द्धमानेषु चित्रलाघवकर्मसु ।
रामचक्रे जये बुद्धिं भरणे च दशाननः ॥ १२६९ ॥
शत्रुध्वजं रावणेन क्षिप्ताश्छेत्तुं शिलीमुखाः ।
वृथा जग्मुस्तमप्राप्य दूता अप्रतिभा इव ॥ १२७० ॥
अथ रामशरोत्कृत्तः केतुर्नक्तंचरप्रभोः ।
पपातोत्पातसूर्याचिः प्रताप इव मूर्तिमान् ॥ १२७१ ॥
केतौ निपतिते तस्सिनक्षसां तनुतां ययौ ।
आशाबन्धोरिव जये भुजयोजीवितेषु च ॥ १२७२ ॥
ततः क्षपाचरपतिः शस्त्रवृष्टिं निरन्तराम् ।
चिक्षेप राघवायोग्रां मूर्ती मायामिवात्मनः ॥ १२७३ ॥


१. ‘समरे शा०.

रामन्तां सायकैश्छित्वा कवचं काञ्चनाचितम् ।
धनुश्च राक्षसपतेश्चकर्ताभ्यर्चितः सुरैः ॥ १२७४ ॥
रावणः क्रोधदीप्तोऽथ संक्रान्तज्वलनैरिव ।
विविधैरायुधैश्चक्रे रामं निप्पन्दकार्मुकम् ॥ १२७५ ॥
गोचरे पतितं शत्रु देव कस्मादपेक्षसे ।
विभीषणप्रभृतयो राममित्यूचिरे मुहुः ॥ १२७६ ॥
ततस्तरुणजीमूतसंघातप्रतिमान्हयान् ।
रिपोर्जबान काकुत्स्थरते चासत्राक्षसा हताः ॥ १२७७ ॥
शरेण सारथेः कायाश्छिरस्तरलकुण्डलम् ।
हृतं विलोक्य रामेण चकम्पे रावणः क्रुधा ॥ १२७८ ॥
तस्यौद्यतायुधस्याथ मुकुटं रघुनन्दनः ।
उन्ममाथापचन्द्रेण साम्राज्यस्येव जीवितम् ॥ १२७९ ॥
भल्लेनोत्पतता वेगाद्वक्रमेकं सुरद्विपः ।
रामश्चिच्छेद नबभिर्वकदृष्टं सविस्मयैः ॥ १२८० ॥
दृष्ट्वा कृत्तावशेषाणि न निजं मेनिरे क्षणात् ।
दशमेनैव वक्रेण पापं मन्येऽधिकं कृतम् ॥ १२८१ ॥
च्युतानि नव वत्राणि पुरो दृष्टानि तेनयत्
ज्वलत्कुण्डलमालोक्य वत्रमण्डलमग्रतः ।
सस्सार रावणः पूर्व निकृत्तवदनाहुतीः ॥ १२८२ ॥
स शक्तिं प्राहिणोद्दीप्तां कोपवह्नः शिखामिव ।
लक्ष्मणायोपरि क्षीणशक्तिश्छिन्नैर्मुरपि ॥ १२८३ ॥
सा शक्तिलक्ष्मणशरैर्याता शतसहस्रधा ।
पौलस्त्यजीविताशेव नैव क्वचिदृश्यत ॥ १२८४ ॥
म विभीषणसुग्रीवलक्ष्मणानाद्रवत्क्रुधा ।
कितवस्त्यक्तमर्यादसर्वम्वमिव निर्जितः ॥ १२८५ ॥
विलोक्यादृष्टपूर्वाणि पतितानि मुखानि सः ।
मदतान्द्रीं परित्यज्य रामं रामममन्यत ॥ १२८६ ॥

स क्रुधादायुधवनं प्रवणं दारणे रिपोः ।
धीरः ससर्ज नोत्साहं त्यजन्त्यन्येऽपि मानिनः ॥ १२८७ ॥
रणे प्रगल्भमालोक्य तं पर्यन्तेऽपि मातलिः ।
उवाच राघवं मेघघोषगम्भीरनिस्वनः ॥ १२८८ ॥
द्वौ शत्रुदलने श्लाघ्यो वैकुण्ठस्त्वं च राधवः ।
यौ दृष्टौ कृत्तवक्राभ्यां राहुणा रावणेन च ॥ १२८९ ॥
एकशीर्षावशेषेऽयं जय्यस्ते जयतां वर ।
त्रैलोक्यजयिनं शत्रुं हेलया किमुपेक्षसे ॥ १२९० ॥
ब्रह्मास्त्रेण जहि क्षिप्रं भगवेगं क्षपाचरम् ॥
अयं व्याधिरिवासाध्यो वध्यः कालव्यतिक्रमात् ॥ १२९१ ॥
इति मातलिना वीरः प्रेरितो रघुनन्दनः ।
ब्रह्मास्त्रमादधे दीप्तं यदगस्त्यादवाप्तवान् ॥ १२९२ ॥
सर्वदेवमयं दृष्ट्वा रामेणास्त्रमुदीरितम् ।
सस्मार सुरसंघातखिपुरारिपराक्रमम् ॥ १२९३ ॥
स धूमदहनोद्गारं तदस्त्रं घोरनिस्वनम् ।
पपात राघवोत्सृष्टं हृदये राक्षसप्रभोः ॥ १२०४ ॥
पौलस्त्यवक्षो निर्भिद्य स शरोऽस्त्राभिमन्त्रितः ।
राममेवाययौ तूर्णं प्रत्यग्ररुधिरारुणः ॥ १२९५ ॥
ततः पपात पौलस्त्यः स्रस्तसायककार्मुकः ।
कृत्तः सीतानिकारेण क्रकचेनेव पादपः ॥ १२९६ ॥
तस्मिन्निपतिते वीरे शेखरे त्रिदशद्विपाम् ।
अताड्यत सुरैर्व्योम्नि काकुत्स्थजयदुन्दुभिः ॥ १२९७ ॥
शत्रुं शल्यमिवोन्मूल्य स्वस्थः पारं परं ययौ ।
वियोगस्याभियोगस्य प्रकोपस्य च राघवः ॥ १२९८ ॥
इति रावणवधः ॥ १२ ॥

इति क्षेमेन्द्रविरचिते रामायणकथासारे संपूर्ण युद्धकाण्डम् ।