०५ सुन्दरकाण्डम्

अथ सुन्दरकाण्डम् ।

जितं भगवता तेन हरिणा लोकधारिणा ।
अजेन विश्वरूपेण निर्गुणेन गुणात्मना ॥ १ ॥
पौलस्त्यदर्पविपुलं विलङ्घ्य जलधिं कपिः ।
विस्मयानन्दनिस्पन्दां विदधे विवुधावलीम् ॥ २ ॥
तमालतालतालीसहिन्ताललवलीवनैः ।
तगरागुरुपुंनागलवङ्गगहनैर्व्रजन् ॥ ३ ॥
स हेमवप्रजच्छन्नां रत्नाद्युतिदुकूलिनीम् ।
लङ्कामङ्के त्रिकूटस्य ददर्श दयितामिव ॥ ४ ॥
स संक्षिप्य वपुः क्षिप्रं महोत्सवमिवाधनः ।
निपपाताशु लङ्कायां चोत्तरद्वारशेखरे ॥ ५ ॥
ततः क्षपाचरपुरीरत्नमन्दिररश्मिभिः ।
तिरस्कृत इवासक्तं जगामास्तं दिवाकरः ॥ ६॥
अथाययौ तमःस्तोकमयूरच्छदभूषणा ।
तारकामौक्तिकस्मेरा शर्वरी शर्वरीशनैः ॥ ७ ॥
कण्ठेषु नीलकण्ठानां गण्डेषु मददन्तिनाम् ।
तमः प्रगल्भतां लेभे कुन्तलेषु च योषिताम् ॥ ८ ॥
यामिनी कामिनीस्निग्धस्नानधौतकचत्विषि ।
बभार तिमिरस्फारे तारा कुसुमसंक्षयम् ॥ ९ ॥
गवाक्षजातावदनैरिन्द्रनीलगृहेर्मुहुः ।
पीतो गीर्णमिवासक्तं ससर्प विपुलं तमः ॥ १०॥


१. ‘च’ शा०.

२. ‘ल’ शा०,

दिव्यरत्नमयी लङ्का दीप्रदीप्तांशुभिर्वभौ ।
नभःप्लवनभीत्येव वद्धा कनकशङ्कुभिः ॥ ११ ॥
रराज रजनीराजपुत्रीदीपावलीवृता ।
बिभ्राणा चर्मकमयीं कलिकामालिकामिव ॥ १२ ॥
दीपांशुशवलैलर्लङ्का नीलरत्नगृहैर्वभौ।
वभ्रुभ्रूश्मश्रुभिर्व्याप्ता परैरिव निशाचरैः ॥ १३ ॥
अथोद्ययौ निशाकान्तः शिवचूडामणिः शशी।
दिग्वधूमण्डनकलाविलासमणिदर्पणः ॥ १४ ॥
लेभे स्फटिकहर्म्येषु क्रान्तस्तरलकान्तिषु ।
विधुः सुधाब्धिकल्लोलदोलाकेलिसुखं पुनः ॥ १५ ॥
रेजुमर्मनोजविजयध्वजचामरचारवः ।
तुषारहारकर्पूरतारास्तारापतेः कराः ॥ १६ ॥
हरप्लुष्टे स्मरे चन्द्रे सलिले लाञ्छनच्छलात् ।
पतिते विवभुः कीर्णाः शीकरा इच तारकाः १७ ॥
स्मरस्मेरातपत्रेण रजनीस्मितकान्तिना ।
व्योममानसहंसेन शुशुभे शशिना निशा ॥ १८ ॥
चन्द्रोदयप्रहृष्टानां निशाचरमृगीदृशाम् ।
बभूव वदनैव्या॑प्तालङ्का शशिशतैरिव ॥ १९ ॥
ज्योत्स्नानवसुधापानसमुद्भूतो महोदधिः ।
वभौ क्षिप्तपरावृत्तः स्फीतफेनसितांशुकः ॥ २० ॥
हेमप्राकारजघने लङ्कायाः क्षुभितोऽम्वुधिः ।
परिखामेखलाकृष्टिं वीचिहस्तैरिवाकरोत् ॥ २१ ॥
बद्धकोशेषु मधुपाः कमलेषु न लेभिरे ।
हृदयेषु गुणज्ञानां दोषलेशा इवान्तरम् ॥ २२ ॥
विकासविषदे ज्योत्स्नां प्रासादाभिमुखी शनैः ।
इन्दोः कुमुद्वतीं चक्रुः प्रेमदूता इवांशवः ॥ २३ ॥


१.‘चम्पक’ शा०.

२. ‘पुरा’ शा०. ३. ‘दोद्द्योतां’ शा०.

यवुश्चन्द्रकरसोराः कुमुदामोदमन्थराः ।
सुदृशां सुरतक्लान्ति विच्छेदसुहृदोऽनिलाः ॥ २४ ॥
कान्ता कान्ताङ्कपर्यङ्के ज्योत्स्नास्वच्छोत्तरच्छदे ।
वभुर्मधुनलीमत्ता मूर्ता इव रतिश्रियः ॥ २५ ॥
स्फुटस्फटिकसौधेषु स्फीतचन्द्रांशुहारिषु ।
वभुः कान्ताः सुधासिन्धुतरङ्गान्तर्गता इव ॥ २६ ॥
प्रक्षालित इव क्षीरैः कर्पूरैरिव पूरिते ।
जगति ज्योत्स्नया जाते घटिते स्फटिकैरिव ॥ २७ ॥
उत्प्लुत्य लघुसंचारः सौधप्राकारशेखरैः ।
रक्षसां सुखसुप्तानां भवनान्यविशत्कपिः ॥ २८ ॥
मणिवेश्मप्रहस्तस्य महापार्श्वस्य वादिनः ।
विभीषणस्येन्द्रजितः कुम्भकर्णस्य मालिनः ॥ २९ ॥
वक्रस्य वज्रदंष्ट्रस्य धूम्राक्षस्य शठस्य च ।
विद्युज्जिह्वस्य भीमस्य संपातेर्जन्बुमालिनः ॥ ३० ॥
विकटस्य सुदंष्ट्रस्य सारणस्य शुकस्य च ।
विरूपाक्षस्य मत्तस्य घसस्य प्रघसस्य च ॥ ३१ ॥
महोदरमहाकायविद्युन्मालिसुमालिनाम् ।
प्रविश्यापश्यदुधानसक्तकान्तामधूत्सवम् ॥ ३२ ॥
सुगन्धिश्वासलोलोर्मिदोलारूढचलोत्पलम् ।
मधुप्रियार्पितं रामा मूर्तं रागमिवाययुः ॥ ३३ ॥
प्रियासमागमः सारः सत्यं विभवसंपदाम् ।
दयितासंगमस्यापि जीवतां पानकेलयः ॥ ३४ ॥
हर्म्यं चन्द्रोदयः कान्तामधुगीतं सुहृत्कथः ।
एतास्ताः पूर्वपुण्यानां स्फीताः फलसमृद्धयः ॥ ३५ ॥
रागो लीला च सुदृशां लावण्यं नवयौवनम् ।
जैत्रमस्त्रं स्मरस्यैतन्मदेनास्फुरितं यदि ॥ ३६ ॥


१. ‘मदा लीना’ शा.. २. ‘पुण्यपूर्णानां’ शा०.

लोलाक्षस्खलितालापं सुगन्धिमधुपाटलम् ।
धन्यास्ते पद्मवदना वदनाब्जं पिबन्ति ये ॥ ३७॥
नमो मदाय महते स्वस्ति रागाय रागिणाम् ।
मानिनी यत्प्रसादेन स्वयं कण्ठावलस्विनी ॥ ३८ ॥
इति सारानुकूलाभिः कथामिः सहते मधु ।
वधूबिम्बाधरासङ्गलग्नरागमिवापपुः ॥ ३९ ॥
प्रागल्भ्यशिक्षागुरुणा विश्वाससुहृदो वभुः ।
सुरतारम्भदूतेन मदेन मदिरेक्षणः ॥ ४० ॥
पूर्व दृशि ततश्चित्ते कपोलयुगले ततः ।
प्रौढतां प्रययौ रागः प्रमदानां महोत्सवे ॥४१॥
मधुस्रस्तांशुकं तासां वपुर्दृष्ट्वैव कामिनाम् ।
पदे पदे धृतिच्छेदं खलप्रीतिरिवाययौ ॥ ४२ ॥
भेजिरे वल्लभोत्सङ्गं प्रेमकोपेऽपि ताः स्वयम् ।
न नाम सहते मानं मदश्चपलचक्षुषाम् ॥ ४३ ॥
रतस्यायं न मानस्य कालः कमललोचने ।
इतीचासां मियाकृष्टा जगुर्मुखरमेखलाः ॥ ४४ ॥
कृतास्पदे हृदि मुदा मदेन मदनेन च ।
प्रियापराधाः सुदृशामवकाशं न लेभिरे ॥ ४५ ॥
यदुत्सक्ताः समुत्सृष्टा लज्जाविनयवर्जिताः ।
मुग्धानामभयं चेष्टाः सा मदस्य प्रगल्भता ॥ ४६ ॥
शशाशङ्ककिरणोत्तंसे हर्म्ये हरिणचक्षुषाम् ।
मधूत्सवे मदोत्तंसे रागोत्तंसमभून्मनः ॥ ४७ ॥
इति चन्द्रोदयः ॥ १ ॥

विविच्य मदनोद्यानपालीं वेश्मसु मन्त्रिणाम् ।
रत्नांशुहासिनी प्राप राजधानीं प्लवंगमः ॥ ४८॥


१. “विचित्य प्रमदो शा०.

मणिदर्पणसंक्रान्तप्रतिमैश्चन्द्ररश्मिभिः ।
शुभ्राभ्रपक्षविक्षेपैः प्लवमानामिवाम्बरे ॥ १९ ॥
से प्रविश्य महाभोगं कैलासशिखरोपमम् ।
भवनं दशकण्ठस्य ददर्शोल्लिखिताम्बरम् ॥ ५० ॥
रक्षितं राक्षसैरात्तस्त्रैरञ्जनमेचकैः ।
कालकूटावृतप्राप्तं सुधाम्बुधिमिवोद्गतम् ॥ ५१ ॥
संगीतवेश्मभिर्वारा गृहैरापणमन्दिरैः ।
विमाननवसंभारैर्व्याप्तं निखिलकौतुकैः ॥ ५२ ॥
अपश्यत्तत्र तुरगान्प्रमाणावर्तहेषितैः ।
श्लाध्या सत्त्वनवोदारैस्त्रैलोक्यजयशंसिभिः ॥ ५३ ॥
स ददर्श दशास्यस्य चतुर्दन्तान्मदद्विषान् ।
कैलासोच्छासनभयात्सेवायातानिवाचलान् ॥ ५४ ॥
वर्णकं विविधाश्चर्यवर्गसर्गे प्रजापतेः ।
रत्नांशुलेखाविन्यासैः खप्रभावमिवोद्वमन् ॥ ५५ ॥
वेल्लप्रभावा भ्रूभङ्गतर्जितामरभूधरम् ।
विमानं पुष्पकं नाम ददर्श त्रिदशद्विषः ॥ ५६ ॥
दुर्लभा त्रिदशेन्द्रस्य कुतो वैश्रवणस्य सा ।
रावणस्य गृहे लक्ष्मीं मारुतिर्यां व्यलोकयत् ॥ ५७ ॥
अथान्तःपुरमैश्वर्यस्फारकल्पतरोः फलम् ।
स राक्षसपतेर्दिव्यं विवेशानेककौतुकम् ॥ ५८ ॥
कपाटसंपुटैः श्लिष्टैः स्फाटिकैः स्फुटकान्तिभिः ।
असंवृतमिबोद्भूतप्रभावावरणं मुहुः ॥ ५९ ॥
मुक्ताप्रालम्बधवलं तप्तकाञ्चनजालकम् ।
प्रवालनीलवैडूर्यस्तम्भसंभारविभ्रमम् ॥ ६० ॥


१. ‘मन्दिर’ शा.. २. ‘तां’ शा०. ३. ‘खड्गै’ शा०. ४. ‘प्रान्तं’ शा०.

५. ‘दारा’ शा०. ६. ‘त्पताका शा०.

मणिकुट्टिमसंक्रान्तसितस्रग्दाममण्डलम् ।
शासनाद्दशकण्ठस्य शेपेणेव धृतं स्वयम् ॥ ६१ ॥
स्फीतरनकृतालोकं वृद्धकञ्चुकिरक्षितम् ।
पातालमिव मातङ्गभुजंगीभङ्गिभूपितम् ॥ ६२ ॥
चन्दनागुरुकर्पूरधूपधूमान्धकारितम् ।
निशाचरपतिप्रीत्या निशयेव समाश्रितम् ॥ ६३ ॥
ददर्श तत्र सुरतक्लान्तकान्ताजनं कपिः ।
चित्रन्यस्तमिव प्रौढनिद्रामुद्रितलोचनम् ॥ ६४ ॥
दृश्यस्तनोरुजघनं तासां कान्ततरं वपुः ।
विलोक्य विवभुर्दीपा विस्मयादिव निश्चलाः ॥ ६५ ॥
कुचैः कान्तनखोच्छिष्टैः पीतदष्टाधरैर्मुखैः ।
प्रत्यग्ररतवृत्तानां तरुणीनाममुच्यत ॥ ६६ ॥
हेमगौरोरुयुगलं नखोल्लेखैर्मृगीदृशाम् ।
रतिच्युतैरिचाकीर्णं बभौ कुङ्कुमकेसरैः ॥ ६७ ॥
तासां प्रियहठाकर्षहेलाविलस्तवेणिका ।
मध्ये सुष्वाप निभृतरतिखिन्नेव शर्वरी ॥ ६८ ॥
क्लमस्रस्तोत्तरीयास्ताः खेदवारिकणैर्वभुः ।
रतित्रुटितहाराप्रसंसक्तैरिव मौक्तिकैः ॥ ६९ ॥
निद्रानिमीलिते तासां लोचनोत्पलकानने ।
स्वप्रभाप्रतिभा प्राप क्षणं कर्णोत्पलावली ॥ ७० ॥
प्रोच्छूनारुणगण्डैस्ताः कुण्डलाताण्डवाहतैः ।
ऊचुः स्रस्तैः संचिकुरैविपरीतरतोत्सवम् ॥ ७१ ॥
तासां रतिरणसस्तकणोत्पलदलच्युता।
लेखेव त्रिवली कूले लीना रोमावली वभौ ॥ ७२ ॥
सुप्तपारावते मूकमेखले रतिमन्दिरे ।


१. ‘णाव’ शा.. २. ‘सार’ शा०. ३. ‘वृत्तान्तां’ ४. ध यकुल’ शा०.

निस्पन्ददीपे विवभौ निःशब्दविजयी स्मरः ॥ ७३ ॥
सुरकिंनरगन्धर्वनागविद्याधरात्मजाः ।
दृष्ट्वा रावणकान्तास्ताः कपिर्विस्मयमाययौ ॥ ७ ॥
उपसृत्य शनैः स्फाररत्नपर्यङ्कशायिनम् ।
स ददर्श दशग्रीवं पर्यस्तमिव मन्दरम् ॥ ७५ ॥
मदनिद्राप्रबन्धेन मदिरामोदशालिना।
श्वासानिलेन महता क्षिपन्तं मधुपावलीः ॥ ७६ ॥
सहारेणोरसा रक्तचन्दनार्द्रेण भूषितम् ।
उदयाद्रितटेनेव शशिसंध्याभ्रशोभिना ॥ ७७ ॥
त्रैलोक्यदक्षिणैः प्रौढकान्तालिङ्गनदक्षिणैः ।
भुजैर्नीलमणिस्तम्भप्रभैर्दीप्ताङ्गदैर्वृतम् ॥ ७८ ॥
संक्रान्तदीपैर्भ्राजिष्णुं रत्नकेयूरशेखरैः ।
नीलाचलमिव व्याप्तं दीप्तौपधिवनैर्निशि ॥ ७९ ॥
सर्वाभरणरत्नाप्रविम्वितप्रमदावनम् ।
यातं रामारसोत्कण्ठ्यात्कामिनीमयतामिव ॥ ८० ॥
मन्दारमालां शबलां पारिजातस्य पल्लवैः ।
मूर्तामिव क्षतां कण्ठे वहन्तं त्रिदिवश्रियम् ॥ ८१ ॥
विभ्राणं हंसधवलं वासः श्वासतरङ्गितम् ।
क्षीरार्णचमिवोद्भूतकान्ताकान्तामुखेन्दुभिः ॥ ८२ ॥
आरुह्य रत्नसोपानैः शीर्पान्ते मणिवेदिकाम् ।
चिरं रावणमालोक्य हनूमान्विस्मितोऽभवत् ॥ ८३ ॥
वीणावेणुमृदङ्गेपु निपण्णाः प्रौढनिद्रया ।
प्रियास्तस्य वभुः पार्श्वे वाद्यानामिव देवताः ॥ ८४ ॥
संपूर्णचन्द्रवदनां मदनानन्दकौमुदीम् ।
मन्दोदरी ददर्शाथ कपिस्त्रैलोक्यसुन्दरीम् ॥ ८५ ॥

१. ‘शुशुभे शा.. २. ‘कृत्ता’ शा०.

मनःसंवनने सक्तां नयनानन्दवर्षिणीम् ।
शक्तिं रतिपतेर्मूर्तां सुधांशोर्वाधिदेवताम् ॥ ८६ ॥
नखोल्लेखैः सनाथाभ्यां वालपल्लवपाटलैः ।
कुचकाञ्चनकुम्भाभ्यां विहितानङ्गमङ्गलाम् ॥ ८७ ॥
तां विलोक्यानवद्याङ्गीं पर्याप्तेन्दुशतद्युतिम् ।
सीतेयमिति विज्ञाय हृष्टः कपिरचिन्तयत् ॥ ८८ ॥
लावण्येन्दुमहोरूपमहोकान्तिसुखी तनुः ।
इयं सा मन्मथमयी वरं रामस्य वल्लभा । ८९ ॥
अथवा राघववधूः कथमेवंविधा भवेत् ।
न श्रुताः स्त्रस्तचारित्रा रघूणां कुलयोषितः ॥ ९०!!
सेयं त्रैलोक्यजयिनः प्राज्यसाम्राज्यदेवता ।
मूर्ता रतिपतेः शक्तिः सक्ता रावणवेश्मनि ॥ ९१ ॥
इति निश्चित्य मनसा पौलस्त्यान्तःपुराङ्गनाः ।
मारुतिर्लघुसंचारिर्द्रष्टुमन्याः समुद्ययौ ॥ ९२ ॥
विचित्रभक्ष्यभोज्यार्थपानकामवसेविते ।
आस्तीर्णहेममाणिक्यस्तम्भमृङ्गारभाजने ॥ ९३ ॥
कल्पपादपपुष्पाढ्ये नाभिकर्पूरधूपिते ।
चचार मारुतिः पश्यन्मन्दिरे मन्दिरे श्रियम् ॥ १४ ॥
तेषु तेष्वथ देशेषु स राममहिषीं शनैः ।
विचिन्त्याचिन्तयत्क्षिप्रं निष्फलोद्योगदुःखितः ॥ ९५ ॥
अहो नु हेलयावाप्तः कियान्किल्बिषसंचयः ।
मया विवसनाः स्पष्टं पश्यता परयोपितः ॥ ९६ ॥
अनिच्छयैव सुकृतं दुष्कृतं वा पुराकृतैः ।
कर्मानुबन्धवैचित्रैः जन्तूनां जातु जायते ॥ १७ ॥
संकल्पेनाप्यसंस्पृष्टा योपितो ब्रह्मचारिणः ।
कथं ममापि निर्वस्त्रपरस्त्रीदर्शनोद्यमः ॥ ९८ ॥


१. ‘ण्वाद’ शा०. २. ‘नून’ शा..

२१

उन्मूलिता हि मर्यादाः प्रच्छन्नच्छिन्नपौरुषाः ।
सद्वृत्तपरिपन्थिन्यो जयन्ति विधिवामताः ॥ ९९ ॥
अथवा चेतसा सत्यं निःसङ्गेन मयाङ्गनाः।
दृष्टा विधातृवैचित्र्यमयःकनकपुत्रिकाः ॥ १००!!
न मनो म्लानिमातङ्कः कश्चिन्मे शीलविप्लवः ।
शुभाशुभविचेष्टासु प्रमाणं देहिनां मनः ॥ १०१ ॥
सप्रासादगृहोद्याना दृष्टेयं निखिला पुरी ।
न तु दृष्टा जनकजा मूढेनैव मयात्मधीः ॥ १०२ ॥
इयमुद्योगशक्तिर्भे दुराशेवानुतापिनी ।
असाधुजनसेवेव वत निष्फलतां गता ॥ १०३ ॥
न भवन्ति फलावाप्तिलप्तक्लेशाः समुद्यमाः ।
उत्साहविमुखे नित्यमप्राप्ते स्पष्टतां विधौ ॥ १०४ ॥
सत्कर्मारम्भसंभारफलं हरति हेलया।
कृपावतरणे पाशच्छेदी सर्वात्मना विधिः ॥ १०५ ॥
पौरुषोत्साहयोगेऽपि याति यद्वन्ध्यतां श्रमः ।
सा गुणद्वेपिणो धातुः स्वच्छन्दप्रभविष्णुता ॥ १०६ ॥
विघ्नाघ्राता महोद्योगा फलसिद्धिरनित्यता ।
विनाशप्रेक्षको लोकः कथमासाद्यते यशः ॥ १०७ ॥
आश्चर्यचर्याविपुलः कृतः केवलमुद्यमः ।
त्रपाकरः परस्याग्रे कथ्यमाना फलं विना ॥ १०८ ॥
इहाप्यदृष्ट्वा वैदेहीं वृथैवोल्लङ्घ्यसागरम् ।
किं वक्ष्याम्यबलोद्योगयोगः प्लवगपुंगवम् ॥ १०९॥
गृहीत्वायं किमायातो लम्बमानभुजद्रुमः ।
इति वक्ष्यन्ति मां सर्वे सांप्रतं हसिताननाः ॥ ११० ॥
सीता मया न दृष्टेति कालकूटोत्कटं वचः ।
श्रुत्वैव जीवितं व्यक्तं रामस्त्यक्ष्यति सानुजः ॥ १११ ॥


१. ‘वीराः स्वासूयह’ शा०.

कुलचूडामणौ तस्मिन्प्रयाते कीर्तिशेपताम् ।
कथं रघुकुलस्यापि जीविताशा भविष्यति ॥ ११२ ॥
वरं सुहृत्क्षयोद्विग्नः सुग्रीवो मित्रवत्सलः ।
सामात्यभृत्यखजनस्तनुत्यागं करिष्यति ॥ ११३ ॥
इति सर्वक्षयं घोरं द्रष्टुं गच्छाम्यहं कथम् ।
अदृष्टेष्टवियोगस्य तपो मे नान्यदुत्तमम् ॥ ११४ ॥
विपुलक्लेशवैफल्यदुःखसंतप्तचेतसाम् ।
विधिवैमुख्यदग्धानां विवेकः श्रमवारिदः ॥ ११५ ॥
इष्टे नष्टे सुखे भ्रष्टे कष्टे निकटवर्तिनि ।
अमूढमनसां युक्तं वैराग्याभरणं तपः ॥ ११६ ॥
अस्मिन्पयोनिधेस्तीरे निनिकेतो निराश्रयः ।
हस्तादौ वा मुखादौ वा भवाम्येष गतस्पृहः ॥ ११७ ॥
शरीरत्यागयोग्यैव मानम्लानिरियं मम ।
शाम्यति प्रौढमनसा स्वातस्य प्रशमाम्बुभिः ॥ ११८ ॥
अज्ञाते जानकीवृत्ते किं वृथैव हतेन मे ।
रावणेनातिसिक्तेन स्त्रीसनाथासभूमिषु ॥ ११९ ॥
अथवा विचिता नेयमशोकवनिका मया ।
रक्ताशोकवटैस्तस्यां रतिराग इव स्थितः ॥ १२० ॥
शर्वर्यां स्तोकशेषायामिति संचिन्त्य मारुतिः ।
जगामाशोकवनिका पुष्पपातोपमैः पदैः ॥ १२१ ॥
इत्यन्तःपुरपरिचयः ॥२॥
सुरान्सरामसुग्रीवान्मनसा प्रणिपत्य सः ।
वल्ली विलासिनीवृत्तललितामविशन्महीम् ॥ १२२ ॥
सुजवेन ब्रज-वृक्षमञ्जरीर्वक्षसा क्षिपन् ।
हेमवृक्षरजःपुञ्जे बभूव कनकप्रभः ॥ १२३ ॥


१. ‘नूनं’ शा. २. दुर्य शा०.

नानारत्नच्छदैर्दिव्यैः सौरभैः सुरपादपैः ।
सपुष्पवाष्पैराकीर्णः कृतातिथ्य इबाबभौ ॥ १२४ ॥
अशोकवनिकां तस्मिन्गाहमाने मनोजवे ।
समुद्भूतैरलिकुलैर्बभूवुः श्यामला दिशः ॥ १२५ ॥
विहङ्गैर्नीलरक्ताङ्गैः कूजद्भिः कनकच्छदैः ।
प्रवालचञ्चुचरणैः स्त्रस्तैर्व्याप्तमभून्नभः ॥ १२६ ॥
प्रवर्धमानबेगस्य तस्य गात्रानिलैर्मुहुः ।
वनिका प्रोषितेवाभूत्यक्तपुष्पविभूषणा ॥ १२७ ॥
लोलालिमालाकबरी सा तरङ्गितमानसा ।
दीक्षेव शुशुभे सस्तकिञ्जल्कपटलांशुका ॥ १२८ ॥
सा लुप्ततिलका स्रस्तचन्दनागुरुपल्लवा ।
बभौ रतान्तक्लान्तेव क्लिष्टबिम्बफलाधरा ॥ १२९ ॥
बभार पुष्पमालां सा छिन्नां वेश्येव रागिणा ।
कपिसिंहेन नखरोल्लेखितस्तबकस्तनी ॥ १३० ॥
तस्यां निष्पत्रकुसुमा न वभुः कपिकम्पिताः ।
पादपाः प्रौढकितवैर्मुग्धा इव पराजिताः ॥ १३१ ॥
तत्र केचिददृश्यन्त तरवो हृतवल्कलाः ।
वेश्याभिर्भुक्तसर्वस्वा विटा इव निरम्बराः ॥ १३२ ॥
विपुलाः पादपाः क्षिप्रं कपिना निष्फलीकृताः ।
बभूवुः शोकजनका दैवेनेव मनोरथाः ॥ १३३ ॥
आयासिता तरुश्रेणी मारुतेर्वेगविप्लवैः ।
अकम्पत प्रजेवोग्रैर्लुण्ठिता राजवल्लभैः ॥ १३४ ॥
सरत्रकदलीकुञ्जे कान्ताकल्पलतावने ।
मन्दारोदारवीथीषु केलिकल्लोलिनीतटे ॥ १३५ ॥
हेमपङ्कजिनीपुञ्जे क्रीडावैडूर्यपर्वते ।
तत्र तत्र च बभ्राम वैदेहीदर्शनाशया ॥ १३६ ॥
इत्यशोकवनिकाप्रवेशः ॥ ३ ॥

अथेन्द्रनीलतरुभिर्मुक्ताकुसुमहासिभिः ।
आलिङ्गितमिव प्रौढस्कन्धैर्विटपबाहुभिः ॥ १३७ ॥
मणिस्तम्भसहस्रेण धृतं कनकवेदिकम् ।
कपिर्ददर्श प्रासादं स्वसंकल्पमिवोन्नतम् ॥ १३८ ।
तत्र काञ्चनशाखस्य महतः शिंशिपातरोः ।
अपश्यन्मारुतिर्मूले नारीं कमललोचनाम् ॥ १३९ ॥
कनकस्निग्धगौरेण नयनानन्दबन्धुना ।
देहकान्तिवितानेन संदेहितशशिप्रभाम् ॥ १४० ॥
विरहापाण्डुरमुखां चिन्तया तनुतां गताम् ।
रहितां सितपक्षेण सुधाकरकलामिव ॥ १४१ ॥
अपरिम्लानचरितां परिम्लानाधराननाम् ।
विच्छिन्नजीवितस्नेहामविच्छिन्नमनोरथाम् ॥ १४२ ॥
आबद्धवेणिकां वक्रपद्मनेत्रोत्पलाशयाम् ।
दीर्घां पश्चादिवालीनां वहन्तीं भृङ्गसंततिम् ॥ १४३ ॥
पाणिखा(?)पारुणच्छायाकपोलोल्लिखिता धृतिम् ।
दुःखाग्निधूमनिवहैरिव वाष्पाकुलेक्षणाम् ॥ १४४ ॥
कुलविद्यामनभ्यासादनङ्गस्येव विस्मृताम् ।
इन्दोरम्रावलिप्तस्य द्युतिं निपतितामिव ॥ १४५ ॥
तां वीक्ष्य राक्षसस्त्रीभिर्विरूपाक्षीभिरावृताम् ।
व्याघ्रीभिरिव घोराभिर्मृगीं चकितलोचनाम् ॥ १४६ ॥
सहसा विस्मयावेशवशगः प्लवगः क्षणम् ।
विमर्शहर्षकारुण्यनिश्चलः समचिन्तयत् ॥ १४७ ॥
इयं श्रीः पुण्यलावण्यसुधासिन्धुसमुद्गता ।
विलासपारिजातस्य स्वसा कुसुमक्रोमला ॥ १४८ ॥
प्रांशुवंशोदिता तन्वी शुचिशीला दुकूलिनी।
साम्राज्यविजयारम्भवैजयन्ती मनोभुवः ॥ १४९ ॥


१. ‘हासित’ शा०.

यदि चिन्ताकुला नेयं रतिः प्रोषितभर्तृका ।
तत्सैव निश्चितं कान्ता राममानसमानसी ॥ १५० ॥
इयमेव तदारमाभिर्दृष्टा रक्षोहृता सती।
उत्सृष्टपुष्पाभरणा लतेव पवनाकुला ॥ १५१ ॥
इयं सा रघुनाथस्य धृतिर्दूरतरं गता।
विदिता जीविताशेव वियोगतनुतां गता ॥ १५२ ॥
अस्याः कृते कीर्तिलता फलिता सा जटायुषः ।
साधुवादोल्लसत्सर्वजनजिह्वाग्रपल्लवा ॥ १५३ ॥
अस्याः कृते सितच्छन्नतिलका कलशस्तनी ।
प्राप्ता श्रीः कपिराजेन चारुचामरहासिनी ॥ १५४ ॥
अस्याः कृते कपिवरैः पृथ्वी सगिरिसागरा ।
दर्शनायोद्यतैः क्रान्ता दिवाकरकरैरिव ॥ १५५ ॥
अहो वताप्रतिहता प्रतिकूलविलासिनी ।
सर्वत्र विवृतद्वारा दैवशक्तिर्गरीयसी ॥ १५६ ॥
विपदः सर्वगामिन्यो दुर्लङ्घ्या भवितव्यता ।
कष्टं कुटिलचेष्टस्य विधेरस्खलिता गतिः ॥ १५७ ॥
त्रैलोक्यरक्षादक्षस्य रधुनाथस्य जीवतः ।
लक्ष्मणस्य च वीरस्य वैदेही विपदां पदम् ॥ १५८ ॥
इमां विना विशालाक्षी कथं जीवति राघवः ।
नियतान्यथ वायूंषि सर्वथा न न जीव्यते ॥ १५९ ॥
वियोगहारितरतेर्विपुले व्यसनानले ।
जीवितालम्ववसुधा प्रियावाप्तिमनोरथः ॥ १६० ॥
इति चिन्तयतस्तस्य चिरं निर्वर्ण्य जानकीम् ।
कार्यवैफल्यजा चिन्ता क्षपेव तनुतां ययौ ॥ १६१ ॥
इति सीतादर्शनम् ॥ ४ ॥


१. ‘मन्मथा’ शा.. २. ‘विधिरस्खलितादरः’ शा०.

३. ‘लम्बनसुधा’ शा०.

ततः प्रपेदे प्रत्यूषसंध्यारुणरुचिः शशी ।
पाणिखापभराताम्रप्रोपितावदनद्युतिम् ॥ १६२ ॥
प्रवृत्तेष्वग्निहोत्रेषु प्रभाते ब्रह्मरक्षसाम् ।
सभ्रूभङ्ग इव व्योम्नि धूमलेखातरङ्गिते ॥ १६३ ॥ .
उदिते गगनाम्भोधिकौस्तुभे विपुलप्रभे ।
मित्रे जगत्रयीनेत्रशतपत्रविकासिनि ॥ १६४ ॥
कुमुद्वतीं परित्यज्य लक्ष्मीर्भेजे सरोजिनीम् ।
प्रायः पर्यायगामिन्यः संपदो विपदस्तथा ॥ १६५ ॥
पद्मसेवाप्रणयिनः कुमुद्वत्यां च निष्ठुराः ।
समृद्धिसचिवाश्चेरुबित्ता इव मधुव्रताः ॥ १६६ ॥
व्योम्नः श्यामा विरहिणस्तारकाझुकणावली ।
बालमित्रकरोन्सृष्टा जगामादर्शनं शनैः ॥ १६७ ॥
बभौ स्वर्णमयी लङ्का व्याप्ता वालातपश्रिया ।
कुङ्कुमोन्मृष्टगात्रेव शोणांशुकवती वधूः ॥ १६८ ॥
सुरकिंनरगन्धर्वविद्याधरमृगीदृशाम् ।
नृपप्रावोधिकैगीतैर्विजिते भृङ्गशिञ्जिते ॥ १६९ ॥
क्षणं दशाननस्थानप्रारम्भक्षुमिते जने ।
सेवासंदर्शनव्यग्रसमग्रामात्यमण्डले ॥ १७० ॥
सीतां सुनिश्चितं ज्ञात्वा तरुपल्लवसंभृतः ।
पश्यन्नलक्ष्यस्तामेव कपिस्तस्थौ क्षपावधि ॥ १७१ ॥
अथाम्बरसरश्चम्बिरविबिम्बाम्बुजं शनैः ।
प्रम्लानदिननालान्ते परिश्रान्तमलम्वत ॥ १७२ ॥
दीप्तिमौषधिशैलेषु तापं विरहिणीषु च ।
निक्षिप्येव जगामास्तं वित्रस्तकिरणो रविः ॥ १७३ ॥
सूर्यरत्नगृहैर्लङ्का वासरस्याशु गच्छतः ।
क्षणमंशुकसंसक्ता हस्तालम्बमिवाकरोत् ॥ १७४ ॥


१. ‘कुमुदल्यागनिष्टुराः’ शा०.

स्फारस्फटिकहर्म्येषु कान्ताकेलिमितेषु च ।
ध्वजांशुकेषु च दिनं सावशेषमिवाभवत् ॥ १७५ ॥
ततः संध्यासवापूर्णं तमःस्तोमोत्पलावृतम् ।
तारकाकुसुमसेरं बभौ गगनभाजनम् ॥ १७६ ॥
शोणरत्नगृहालोकरक्तचन्दनचर्चिता ।
राक्षसीमुक्तकेशेव तमोभिरभवत्क्षपा ॥ १७७ ॥
निशि प्रवर्धमानेव नीलरत्नगृहावली ।
चिरायातस्य तमसः प्रत्युत्थानमिवाकरोत् ॥ १७८ ॥
अथो निशीथमन्थाद्रिव्याप्ते गगनसागरे ।
उद्ययौ विकटध्वान्तकालकूटे सुधाकरः ॥ १७९ ॥
अशोकवनिकोद्देशे बभौ विम्वं क्षपापतेः ।
छत्रीभूतमिवाशेषपुष्पकोशोद्गतं रजः ॥ १८० ॥
चन्द्रांशुहाससुभगे रराज रजनीमुखे ।
कुमुदामोदमत्तालिमालालोलालकावली ॥ १८१ ॥
प्रौढे निशाकरालोके सीतां मारुतनन्दनः।
ददर्श हर्षरहितां बद्धामिव करेणुकाम् ॥ १८२ ॥
विरहानलसंतप्तश्वासधूसरिताननाम् ।
संततानुकणामर्षकषायारुणलोचनाम् ॥ १८३ ॥
अपश्यत्तां समावृत्त्य स्थिता विकृतविग्रहाः ।
नानाप्राणिमुखीर्घोरा नानायुधपरिग्रहाः ॥ १८४ ॥
एकानेकोग्रविस्तीर्णप्रांशुहस्खाङ्गभूपणाः ।
रक्षःपतिसमादिष्ट राक्षसीस्तीवविक्रमाः ॥ १८५ ॥
ताभिरप्यर्दितां वाग्भिर्भर्तृशोकपरायणाम् ।
तरुस्कन्धगतः सीतां दृष्ट्वाभूदुःखितः कपिः ॥ १८६ ॥
अथार्धरात्रे निःशब्दे प्रौढपानमदोत्कटः ।
दष्टः कन्दर्पसर्पण व्यबुध्यत दशाननः ॥ १८७ ॥


१. ‘तीक्ष्ण’ शा.

सजृम्भारम्भनिःश्वासैः प्रेङ्खोलितनखैर्मुहुः ।
प्रदीपैर्विहितालोकः सप्रणामैरिवागतः ॥ १८८ ॥
उत्थाय पदसंरम्भश्लश्रमाल्यवरांशुकः ।
निद्राकपायनयनः क्षणं सीतामचिन्तयत् ॥ १८९ ॥
स सीताचिन्तनोद्भूतं धर्तुं विषमसायकम् ।
न शशाकोत्पथारूढं मूर्खं नवमिवेश्वरः ॥ १९० ॥
सलोलहारस्रग्दामभूषणः पुष्पशेखरः ।
जगामाशोकवनिकां चूर्णमान इवाचलः ॥ १९१ ॥
तं विकोलकलवाणसखेलाहंसमालिनः ।
अनुजग्मुः प्रियतमा महोदधिमिवाध्वगाः ॥ १९२ ॥
ता हेमदीपभृङ्गारच्छन्नवेत्रकराः पुरः ।
तस्यावभुर्मेरुतटे जाता हेमलता इव ॥ १९३ ॥
जयालोकय मार्गोऽयमेते सेवासमागताः ।
इति तस्याकुलालापः ससर्प स्त्रीजनः पुरः ॥ १९४ ॥
दूरादागच्छतस्तस्य कान्ताकङ्कणनिःखनम् ।
रशनानूपुरारावं तारं शुश्राव मारुतिः ॥ १९५ ॥
स ददर्श तमायान्तं योपिद्भिः परिवारितम् ।
मूर्तं मदमिवाशेषलोकधैर्यापहारिणम् ॥ १९६ ॥
स्फुटं विज्ञाय पौलस्त्यमसामान्येन तेजसा ।
धीरोऽपि मारुतिर्द्रष्टुं नाभूत्सप्रतिभः क्षणम् ॥ १९७ ॥
स तस्य त्रिदशैश्वर्यसंहाराश्चर्यकारिणः ।
तेजसा शङ्कितः क्षिप्रमभूत्पल्लवसंवृतः ॥ १९८ ॥
सीतापि रावणं वीक्ष्य दिव्याभरणदीप्तिभिः ।
नीलाभ्रमिव विद्युद्भिः कुर्वाणं कपिला दिशः ॥ १९९ ॥
भज्यमानेव सहसा बेपमानानुवर्षिणी ।
शीकरानिलवेगेन नलिनीय समाहता ॥ २०० ॥


१. ‘हेमतटे’ क-ख. २. ‘सेनाः समानताः’ शाक-ख.

अधोमुखीससंकोचमूरुप्रच्छादितोदरी ।
वाहुस्तम्बिकवन्धेन विनिगृह्य पयोधरौ ॥ २०१ ॥
भयशोकावमानानां तुल्यं निपतिता वशे ।
विवेश स्वमिवाकारं ह्रिया भूविवरार्थिनी ॥ २०२ ॥
सीतामालोक्य पौलस्त्यः क्षितिं दैत्यहृतामिव ।
सहसा राक्षसाकृष्टां मन्त्रहीनामिवाहुतिम् ॥ २०३ ॥
दीर्घदुःखानलक्रान्तां प्राणत्यागसुखार्थिनीम् ।
रामसंगमसंकल्पैर्दूतैराश्वासितामिव ॥ २०४ ॥
उत्कण्ठाकुण्ठितधृतिर्जगाद जलदस्वनः ।
कुर्वन्नुद्याननलिनीं हंसालीं भयविह्वलाम् ॥ २०५ ॥
अद्यापि वामनयने किमस्मान्नाभिभाषसे ।
पेशले वज्रकठिनः कोऽयं ते हृदि दुर्ग्रहः ॥ २०६॥
प्रसादामृतदिग्धेन मुग्धे मधुरचक्षुषा ।
विलोकयन्ति यत्कान्तास्तत्तासां चारुभूषणम् ॥ २०७॥
इयं ते ललिता मूर्तिर्वीराणां धृतिहारिणी ।
त्रिजगज्जयिनः शक्तिं मूर्ती मन्ये मनोभुवः ॥ २०८ ॥
भूषणैर्भूपयात्मानं लायध्येनापि भूपितम् ।
गुणैरिवापरिम्लानं रूपं यौवनभूषितम् ॥ २०९ ॥
संभोगरहिता सुभ्रु नेयं ते शोभते तनुः ।
गुणज्ञैरपरामृष्टा सुकवेरिव भारती ॥ २१० ॥
दष्टाधरं रतिक्लान्तं विस्त्रस्तकबरीभरम् ।
सुदृशां भाति संभोगसौभाग्याभरणं वपुः ॥ २११ ॥
प्रसीद मे प्रणयिनः कुरु चारुस्मितं वचः ।
कामं कामः सकामोऽस्तु कार्मुके सफलश्रमः ॥ २१२ ॥
किं मे संदर्शनादेव तनुं तन्धि निगूहसे ।
अकामां कामिनीं सत्यं न संस्पृशति रावणः ॥ २१३ ॥

त्यज भीरु भयं मा मे भव प्रीतिपराङ्मुखी ।
अयं त्वच्चरणानम्रो मौलिः क्षमां परिचुम्बति ॥ २१४ ॥
सेना सुभटहीनेव शशिहीनेव शर्वरी ।
समृद्धिस्त्यागहीनेव भोगहीना न शोभसे ॥ २१५ ॥
असंभोगपरिम्लाना वाङ्गी प्रक्षीणयौवना ।
कान्ता कस्य न दुःखाय श्वभ्रजातेव वल्लरी ॥ २१६ ॥
सौभाग्यरहिताः कान्ताः कामं कानकपुत्रिकाः ।
यदि कान्तनखोल्लेखखण्डिता न कुचस्थली ॥ २१७ ॥
वैडूर्यहेमहर्म्येषु चन्द्रिकोल्लासहासिषु ।
खैरं वरासवक्षीत्रा भैज मां सुन्दरि स्वयम् ॥ २१८ ॥
सुखसख्यसारसेरा मदोद्यानमधुक्षपाः ।
न भवन्ति चिरं चारुनयने यौवनश्रियः ॥ २१९ ॥
सुखेषु यदि वैमुख्यं संभोगे यदि नादरः ।
अद्वितीयमिदं धात्रा तकिमर्थ कृतं वपुः ॥ २२० ॥
त्वां वीक्ष्य मम लोलाक्षि रोचते न वधूजनः ।
भृङ्गः कल्पलतां प्राप्य वल्लीपु रमते कथम् ॥ २२१ ॥
देवि त्रैलोक्यजयिनः श्रियं मे विश्वविश्रुताम् ।
प्रसादसुमुखी क्षिप्रं देहि यस्मै त्वमिच्छसि ॥ २२२ ॥
मद्भुजोपार्जिताशेषसाम्राज्यविजयोऽर्जितः ।
स्वजन्मपूजां भजतां जनको जनकस्तव ॥ २२३ ॥
स्त्रीविरामेण रामेण विस्मृतेन शुचिस्सिते ।
शुष्कवल्कलिना तेन क्रियते निष्फलेन किम् ॥ २२४ ॥
मतिस्ते यातु सुश्रेणि रतिलीलानुकूटताम् ।
सुरसीमन्तिनीसीम्नि क्रियतामासनग्रहः ॥ २२५ ॥
विद्याधरीकरोदश्चचामरोच्चालितांगुका ।
दर्शनानुग्रहव्यग्रा भव त्रिदशयोषिताम् ॥ २२६ ॥


१. ‘खगी’ इति स्यात. २. ‘मदिराक्षि भजस्व नाम् शा०.

इति राक्षसराजस्य वचः श्रुत्वा मनस्विनी ।
कोपशोकानलाक्रान्ता विधाय तृणमन्तरे ॥ २२७ ॥
कुर्वाणा कुचयोरथुकणैर्मुक्तावलीमिव ।
क्षितिं निरीक्ष्यमाणैव जगाद जनकात्मजा ॥ २२८ ॥
संकल्पस्त्यज्यतामेष खदारयादरोऽस्तु ते ।
न मामर्हसि संप्राप्तुमेकपत्नीं कुलोचिताम् ॥ २२९ ॥
अहं रामस्य नान्यस्य विद्येव विदितात्मनः ।
दयिता दानशीलस्य शुद्धा कीर्तिरियोचिता ॥ २३० ॥
स्वदारहरणे ज्ञात्वा दुःखामर्षविषव्यथाम् ।
परस्त्रीहरणे बुद्धिरपशोः कस्य जायते ॥ २३१॥
परदारपरामर्धकुत्सया कुत्सितात्मनाम् ।
पुरुषोत्तमरक्ता श्रीर्न करोति पदं गृहे ॥ २३२ ॥
कथं सन्तो न सन्तीह सन्तोऽपि न वदन्ति वा ।
तदुक्तं न प्रमाणं वा तव नाशाभिलापिणः ॥ २३३ ॥
जाता विध्वस्तशीलस्य निर्लजस्य प्रमादिनः ।
चारुचामरहासिन्यो न भवन्ति विभूतयः ॥ २३४ ॥
विजितं दर्पमोहाभ्यां निर्लजमजितेन्द्रियम् ।
विपदः स्वयमायान्ति वेश्या मुग्धमिवेश्वरम् ॥ २३५ ॥
भूपतेर्व्यसनासङ्गः प्रजानां क्षयलक्षणम् ।
अपर्वणि सहस्रांशोरिव राहुसमागमः ॥ २३६ ॥
निसर्गदुर्गमों मार्गः क्षत्रवर्गो निरर्गलः ।
कष्टं केनोपदिष्टोऽयमनिष्टपिशुनेव च ॥ २३७ ॥
सर्वथा रघुनाथस्य प्रतापः कोपसंभृतः ।
विचरिष्यति लङ्कायां धूमकेतुरिवोदितः ॥ २३८ ॥
रामचापच्युतैर्वाणैरासन्नो रक्षसां क्षयः ।
यद्यस्ति ते सुहृत्कश्चित्प्रतीकारो विचिन्त्यताम् ॥ २३९ ॥


१. ‘राजान’ ख. २. ‘ते’ शा०.

अवश्यं त्वयि मग्नायाः पयःपङ्काशये श्रियः ।
दीर्घरामशरश्रेणी हस्तालम्बं करिष्यति ॥ २४० ॥
रुचिरैरचिरायातै रामलक्ष्मणसायकैः 1
अयशःशेषतामेव प्रयास्यसि निपातितः ॥ २४१ ॥
रामबाणमये लोके दिक्षु सर्वासु सर्वतः ।
विचार्यानार्य जानीहि क्व ते रक्षा भविष्यति ॥ २४२ ॥
जन्मान्तरेषु दुर्वृत्तनरकामिच्छलेन ते ।
प्रशान्तिं रामकोपाग्निर्न हतस्यापि यास्यति ॥ २४३ ॥
इति सीतावचः श्रुत्वा परुषं राक्षसेश्वरः ।
तां प्रत्युवाच निःश्वस्य कोपादाताम्रलोचनः ॥ २४४ ॥
यान्ति प्रगल्भतां सान्त्वैरवमानैश्च वश्यताम् ।
स्त्रियः कुटिलचारिण्यः प्रणयस्य न भाजनम् ॥ २४५ ॥
अनुकूलविरुद्धस्य प्रतिकूलाभिलापिणः ।
सर्वथा विषमः पन्थाः मन्मथस्य प्रसादिनः ॥ २४६ ॥
विमुखीष्वन्यकामासु यद्वामावधिका रुचिः ।
सा ह्यगम्याभिकामस्य कामं कामस्य बामता ॥ २४७॥
ललना परुषं ब्रूते तत्रापि प्रणयी जनः ।
अहो विरक्तसक्तस्य रागस्यानुचिता गतिः ॥ २४८ ॥
नीचानां निम्नगानां च योपितां च स्वभावतः ।
धृतानामपि यत्नेन नोन्नते जायते रतिः ॥ २४१ ॥
वधार्हासि च वैदेहि मम विप्रियकारिणी ।
किं करोम्येष दुर्वृत्तस्त्वां रक्षति मनोभवः ॥ २५० ॥
वचः क्रकचतुल्यं ते विपौषविषमं मनः ।
रामस्यापि कथं नाम त्वं नित्यकठिने प्रिया ॥ २५१ ॥
मानं मार्ष्टि मतिं हन्ति जनयत्येव लाघवम् ।
एवंरूपः प्रयत्नोऽस्याः प्रायेणाविषये रतिः ॥ २५२ ॥


१. ‘वधयोग्याति’ शा..

अद्याप्ययं जनः सीते त्वत्प्रसाद प्रतीक्षते ।
सद्वृत्त इव रागोऽयं सदोषेष्वपि वत्सलः ॥ २५३ ॥
सर्वथा यदि सावज्ञा न करिष्यति मे वचः ।
याते मासद्धये वध्या भविष्यसि न संशयः ॥ २५४ ॥
इति संतर्जितां सीतां सुरगन्धर्वयोषितः ।
दृष्ट्वा नेत्रौष्ठसंज्ञाभिस्तदाश्वासं प्रचक्रिरे ॥ २५५ ॥
सावदन्निर्भया शोकसंतप्ता मैरणैषिणी ।
रक्षन्ती वाससा गात्रे रक्षोदर्शनदूषणम् ॥ २५६ ॥
एवं प्रलापिनः पाप कथं जिह्वा न शीर्यते ।
परेषां दारचौरस्य दण्डाः प्राणेषु ते क्षमाः ॥ २५७ ॥
सैन्यराष्ट्रेषु दुर्गेषु स्वमित्रेषु परात्मसु ।
दुःसहो रामकोपाग्निरास्थां मिथ्यैव मा कृथाः ॥ २५८ ॥
स्तोकवासरशेषेयं तव श्रीरायुषा सह ।
स्वयं वितर सर्वस्वं न प्रेतमनुयाति तत् ॥ २५९ ॥
भविष्यति तवावश्यं रामाद्धीतस्य संयुगे ।
भुजेषु भारभूतेषु शस्त्रग्रहविडम्बना ॥ २६० ॥
त्वद्वधूर्वाप्पिसलिलैस्त्वत्संकल्पकलङ्कितम् ।
क्षालयन्तीमिवात्मानं लङ्कां द्रक्ष्यति राघवः ॥ २६१ ॥
इति ब्रुवाणां वैदेहीं कामक्रोधमयेन सः ।
संसारेणेव घोरेण चक्षुषा क्षणमैक्षत ॥ २६२ ॥
संरम्भक्षुभिता कोपकम्पव्याकुलकुण्डलम् ।
दृष्ट्वा लङ्गेश्वरं कान्ता वभाषे पुण्यमालिनी ॥ २६३ ॥
परामुखीं त्यज विभो सीतां परुपवादिनीम् ।
भजस्त्र स्वां प्रियतमां त्वत्प्रेमबहुमानिनीम् ॥ २६४ ॥


१. ‘कोप’ शा. २. ‘निधने’ शा०. ३. ‘राष्ट्रार्थदुर्गेयु मित्रमन्निवरात्मसु’ शा..

४. ‘वत्संपर्क’ शा०,

परस्परगुणाबद्धप्रेमप्रणयभूपणः ।
उत्तमाभिमतो रागः खलरागो ह्यतः परः ॥ २६५ ॥
इति प्रियावचः श्रुत्वा जानकीतर्जने स्वयम् ।
राक्षसीगणमादिश्य रावणोऽन्तःपुरं ययौ ॥ २६६ ॥
ततः प्रभाते पौलस्त्यराक्षस्यः कोपकम्पिताः ।
सीतामूचुर्विरूपाक्ष्यो भेरीगम्भीरनिःस्वनाः ॥ २६७ ॥
चतुर्थो ब्रह्मणः श्रीमान्वीरो विश्रवसः सुतः ।
धन्यस्ते प्रणयी मूढे पौलस्त्यस्त्रिजगजयी ॥ २६८ ॥
भाग्यहीनस्य किं वान्यन्मिथ्या समुपदिश्यते ।
परित्यजति यः स्फीतं निधानं स्वयमागतम् ॥ २६९ ॥
भ्रूक्षेपमात्रानुमितामाज्ञां यस्य सुरासुराः ।
वहन्ति नम्राः सततं मौलिमालाग्रशालिनीम् ॥ २७० ॥
वरुणः करुणापात्रं शक्रो वक्रमतिः पुनः ।
मारुतो विरतावेगस्तरणिः किरणोज्झितः ॥ २७१ ॥
धनदो धनदोषान्तः पावकोऽपावकव्रतः ।
यमः ससंयमो यस्य रोचतां ते स रावणः ॥ २७२ ॥
प्रीत्या प्रणत इत्येवं सावमंस्था दशाननम् ।
तस्येच्छया त्रयो लोका भवन्ति न भवन्ति च ॥ २७३ ॥
प्रणयाद्यदि दर्पान्धे न करिष्यसि नो वचः ।
तदास्मद्दन्तिदन्ताग्रदलिता क्षयमेष्यसि ॥ २७४ ॥
कोमलानि तवाङ्गानि पानक्रीडावदंशताम् ।
गतानि यावदस्माकं तावत्कुरु यथोचितम् ॥ २७५ ॥
इति संतर्जिता सीता ताभिर्वाप्पाम्बुवर्षिणी ।
उवाच सर्वं क्रियतां रामो में दैवतं पतिः ॥ २७६ ॥
त्रैलोक्यख्यातयशसस्तस्य रामस्य वल्लभा ।
न जीवितक्षयभयात्करोत्यनुचिते मतिम् ॥ २७७ ॥


१. “विरमद्वेगः’ शा..

इति ब्रुवाणा वैदेही नेत्राम्बुस्नपितस्तनी ।
वल्लीवालिकुलालापा वेपमाना प्रलापिनी ॥ २७८ ॥
रामं निरीक्षमाणेव संकल्पोल्लिखितं पुरः ।
रुरोदाभ्यधिकं दुःखं तसै वक्तुमिवोद्यता ॥ २७९ ॥
ततस्ताः शूलपरशुप्राप्तपट्टिशतोमरैः ।
उद्यतैरुद्ययुः सीतां घोरा नक्तंचरस्त्रियः ॥ २८० ॥
इति सीतातर्जनम् ॥ ५ ॥
अथोचे त्रिजटा नाम प्रसिद्धा वृद्धराक्षसी ।
बालेयं मैथिली मिथ्या हठादायास्यते सती ॥ २८१ ॥
इयं गुणगणोदारा कल्याणस्येव भाजनम् ।
इदमभ्युदयस्यैव सर्वदा मन्दिरं वपुः ॥ २८२ ॥
श्रूयतां शर्वरीशेपे मया स्वप्नोऽद्य यादृशः ।
दृष्टो न दृष्टपूर्वोऽपि न श्रुतो न विचिन्तितः ॥ २८३ ॥
पिबन्सभूधरां भूमिं शोणितं च सिताम्बरः ।
दृष्टः स्वग्ने मया रामः शुक्लमाल्यानुलेपनः ॥ २८४ ॥
लक्ष्मणश्च तथा दिव्यः शुक्लवस्त्रावृतः पुरः।
आरूढो दन्तशिविकां दिव्यां गगनगामिनीम् ॥ २८५ ॥
हृतां नागसहस्रेण कैलासशिखरोपमाम् ।
समुद्रवलितं श्वेतपर्वतं जनकात्मजा ॥ २८६ ॥
आरुह्य रामसहिता प्रविष्टा नगरीमिमाम् ।
चतुर्दन्तगजारूढौ सहितौ रामलक्ष्मणौ ॥ २८७ ॥
पुनश्च पुष्पकारभढौ दृष्टौ सीतामुपस्थितौ ।
भर्त्रा कृतकरालम्बा तमारुह्य महागजम् ॥ २८८ ॥
पाणिना स्पष्टचन्द्रार्का सीता लङ्कामुपागता ।
रथेनाश्वयुजा रामः पाण्डुरर्पभशोभिना ॥ २८९ ॥
पुनश्च सानुजः श्रीमान्समायातः पुरीमिमाम् ।
पुष्पकानान्निपतितो मया दृष्टश्च रावणः ॥ २९० ॥

हसत्रक्ताम्बरो मुण्डः कृप्यमाणः क्षितौ स्त्रिया ।
रथेन खरयुक्तेन रक्तस्रगनुलेपनः ॥ २९१ ॥
स व्रजन्दक्षिणामाशां प्रविष्टो गोमयह्रदम् ।
काली कमलपन्नाक्षी प्रमदालोलिताम्बरा ॥ २९२ ॥
दशग्रीवं गले वद्धा दिशं याता यमाश्रिताम् ।
शिशुमारवराहोष्ट्रवाहनो राक्षसैर्वृतः ॥ २९३ ॥
सगीतवाद्यैर्नृत्यद्भिः पुनर्यातो दशाननः ।
तैलं पीत्वा सुवृत्ताभिर्हसन्तीभिश्च सर्वतः ॥ २९४ ॥
स्त्रीभिः परिवृता लङ्का सज्वालापतिताम्बुधौ ।
कुम्भकर्णादयो रक्तवसना गोमयहूदम् ॥ २९५ ॥
प्रविष्टाः श्वेतशैलं तु समारूढो विभीषणः ।
प्रत्यासन्नोदयो रामः क्षयासन्नो दशाननः ॥ २९६ ॥
घोरां संतर्जनामेतां तस्मान्नार्हति जानकी ।
नेत्रोरुबाहुस्पन्दश्च दक्षिणोऽस्या विलक्ष्यते ।
शुभं शाखाश्रयो नित्यं सीतां वदति वायसः ॥ २९७ ॥
इति त्रिजटास्वप्नः ॥ ६ ॥
चिन्तयन्ती तु वैदेही रामं राजीवलोचनम् ।
दुःसहं चात्मनो दुःखं प्राणत्यागोत्सुकाभवत् ॥ २९८ ॥
भर्तुर्दूतैरिवागत्य किंचिदाश्वासिता शनैः ।
धृतिं लेभे जनकजा निमित्तैः शुभशंसिभिः ॥ २९.९ ॥
हनूमानिति तत्सर्वं दृष्ट्वा श्रुत्वा च संवृतः ।
अचिन्तयत्क्षणं तस्याः सतीवृत्तेन विस्मितः ॥ ३०० ॥
कथं नु रात्रिशेषेऽस्मिन्भत्सितां राक्षसीगणैः ।
सीतामाश्चास्य गच्छामि रामं जीवितनिःस्पृहाम् ॥ ३०१ ॥
तूर्णमेतामसंभाप्य याते मयि यथागतम् ।
जाने जीवितमद्यैव जहाति जनकात्मजा ॥ ३०२ ॥


1. ‘पतिताः’ शा०. २. ‘विलोक्यते’ शा..

गतोऽहं लहिताम्भोधिर्लङ्कां दृष्ट्वा च जानकी ।
न तु संभापितत्येचं कथं वक्ष्यामि राघवम् ॥ ३०३ ॥
त्रस्ता पौलस्त्यमायासु मया संभाषिता सती ।
न दास्यति प्रतिवचः सीता यत्नशतैरपि ॥ ३०४ ॥
अहं संभाषणे त्वस्या राक्षसैर्यदि लक्षितः ।
तत्सर्वथा प्रयत्नोऽयं कलहान्तो भविष्यति ॥ ३०५ ॥
असंपूर्णे च कार्येऽस्मिन्युद्धं विविधसंशयम् ।
राघवप्रतिसंदेशे विघ्नतामुपयास्यति ॥ ३०६ ॥
विरलः सोद्यमो लोकः सामग्री बह्वपायिनी।
युद्धं संदिग्धमेकस्य विपरीतनिधिर्विधिः ॥ ३०७ ॥
तस्माद्युक्तिं समाश्रित्य स्वैरं लघुतरस्वनः ।
रघुनाथकथामस्याः करोम्यग्रे सुधामयीम् ॥ ३०८ ॥
इति संचिन्त्य हनुमान्विटपान्तरिताकृतिः ।
ससर्ज वाणीं वैदेहीश्रोत्रपात्राभिगामिनीम् ॥ ३०९ ॥
बभूव भूरियशसामिक्ष्याकूणां कुलोचितः ।
राजा दशरथो नाम धाम त्रिदशसंपदाम् ॥ ३१॥
रामः सुधाद्युतिस्तस्य सूनुर्गुणमहोदधिः ।
निर्दोषा कौमुदी यस्य कीर्तिराश्चर्यकारिणी ॥ ३११ ॥
सीतां दशाननस्तस्य स्वविनाशाय मायया ।
जायां जहार वीरस्य बने निवसतः सतः ॥ ३१२ ॥
स चारान्वानरान्वीरान्करानिव दिवाकरः ।
विक्षिप्य दिक्षु तां द्रष्टुमुद्यतः पद्मिनीमिव ॥ ३१३ ॥
विस्रम्भसाक्षिणीं स त्वां मनोवृत्तिमिवात्मनः ।
प्रोषितां कुशलं सीते देवः पृच्छति राघवः ॥ ३१४ ॥
इति त्रिवाक्सुधासारैः सीतामाप्लाव्य मारुतिः ।
विररामातिसंतापे क्षिप्रवर्षीव वारिदः ॥ ३१५ ॥


१.‘मा’ शा..

कर्णामृतं तदाकर्ण्य लहसा तरलेक्षणा ।
कीर्णोत्पलदलाश्चक्रे लोलैरालोकितैर्दिशः ॥ ३१६ ॥
किमेतदिति संभ्रान्ता सत्यमित्याप्तजीवित ।
मायेयमिति सासूया मिथ्यैतदिति मूर्छिता ॥ ३१७ ॥
स्वप्नोऽयमिति सावज्ञा निद्रास्मीति च सादरा ।
अस्त्वेतदिति सोत्कण्ठा न सीता निश्चयं ययौ ॥ ३१८ ॥
हर्षशोकभयाक्रान्तमाक्रान्तं दीर्घचिन्तया ।
मनः ससंशयं तस्याश्चक्रारूढमिवाभवत् ॥ ३१९ ॥
दूतः कथं रघुपतेरियतीं भूमिमागतः ।
विरुद्धस्य कथं धातुर्बुद्धिर्विपरिवर्तते ॥ ३२० ॥
विप्रलम्भवलैस्तैस्तैरसंतुष्टोऽथवा विधिः ।
दग्धं दहति दुःखेन हतमाहन्ति केवलम् ॥ ३२१ ॥
इति चिन्ताकुला तन्वी समुन्नाम्यं मुखाम्बुजम् ।
ददर्श शिंशिपास्कन्धे निभृताङ्गं प्लवंगमम् ॥ ३२२ ॥
अरिष्टसूचकः खग्ने दृश्यते यदि वानरः ।
प्रत्यक्षदर्शनादस्य न चायं स्वप्नविभ्रमः ॥ ३२३ ॥
रावणः कपिरूपोऽयं मायाशतविशारदः ।
परस्त्रियं समाहर्तुं कितवो मां समीहते ॥ ३२४ ॥
इत्यनेकविकल्पाभून्मोहनिस्पन्दलोचना ।
अवरुह्य तरुस्कन्धाद्वक्तुं तामाययौ कपिः ॥ ३२५ ॥
स तां विनीतः शनकैः प्रससर्प यथा यथा ।
तथा तथा रावणोऽयमित्याशइत जानकी ॥ ३२६ ॥
सोऽव्रवीद्देवि दूतोऽहं रामस्य यशसां निधेः ।
मनोरथमिवोल्लङ्घ्य समुद्रं त्वामुपागतः ॥ ३२७ ॥
त्वदनुस्मरणध्यानतत्परस्त्वत्कथाजपः ।
कुशली राघवः सीते कानने विरहव्रते ॥ ३२८ ॥


१, ‘भ्याम्बुजाननम् शा. २. ‘ल्पोऽप’..

हत्वा शक्रसुतं वीरं वालिनं वानरेश्वरम् ।
सुग्रीवाय ददौ राज्यं त्वत्कृते रघुनन्दनः ॥ ३२९ ॥
सुग्रीवः कुशलो देवि रामस्य दयितः सुहृत् ।
सेतुस्त्वद्विरहाम्भोधौ त्वदन्वेषणवान्धवः ॥ ३३० ॥
रामः कमलपत्राक्षः सिंहस्कन्धो महाभुजः ।
शशीव राकारहितस्त्वत्कृते तनुतां गतः ॥ ३३१ ॥
सुग्रीवः शाश्वतीं कीर्तिं त्वामवाप्तुं च राघवः ।
कृतक्षणावेककाया लतासक्त फलद्वये ॥ ३३२ ॥
रामस्य दारहरणं सुग्रीवेण च संगमः ।
इयती रावणवधे सामग्री विधिनिर्मिता ॥ ३३३ ॥
त्यक्त्वाहमागतः सीतामिति नित्यमधोमुखः।
ह्रिया शुष्यति सौमित्रिर्याच्ञयेव कुलोन्नतः ॥ ३३४ ॥
स ते कृताञ्जलिर्मातः कुशलं परिपृच्छति ।
तप्तस्तापेन रामस्य सूर्यकान्तो रवेरिव ॥ ३३५ ॥
इति ब्रुवाणो जानक्या पृष्टः पवननन्दनः ।
सुग्रीवसख्यं विपुलामूचे रामकथा पुरः ॥ ३३६ ॥
निखिलं रामवृत्तान्तं निवेद्यास्यै प्लवंगमः ।
प्रददौ रामनामाङ्कं प्रत्ययायाङ्गुलीयकम् ॥ ३३७ ॥
सा तदादाय लोलाक्षी हर्षबाप्पाप्लुतस्तनी ।
अभूत्पतिमिवालोक्य पुलकालंकृताकृतिः ॥ ३३८ ॥
सावदन्मम दिष्ट्यासौ पतिर्जीविति राघवः ।
अशेषं राक्षसकुलं यस्य कोपानलाहुतिः ॥ ३३९ ॥
रामसुग्रीवयोः सख्यं स विन्ध्यो नाम राक्षसः ।
वृद्धो न्यवेदयन्मह्यं जनस्थानादुपागतः ॥ ३४० ॥
कच्चित्स्मरति मे नाथः कच्चिन्न शिथिलादरः ।
कच्चिन्न दारहरणप्रतीकारो विलम्बते ॥ ३४१ ॥


१.‘न’ शा.

यद्यहं तस्य वीरस्य दयिता हृदये स्थिता ।
तत्किमद्यापि लङ्केयं न विशीर्णा सराक्षसा ॥ ३४२ ॥
दैवं प्रमाणमाश्रित्य नोद्योगे यः प्रवर्तते ।
तेन कैण्टगतच्छिद्रे घटे जलमिबोद्धृतम् ॥ ३४३ ॥
देशकालोपपन्नस्य पौरुषस्याविरोधिनः ।
अविसंवादिनी यस्माद्वाणस्येव फलोद्गतिः ॥ ३४४ ॥
अपि पौरुषमास्थाय रामः प्रक्षालयिष्यति ।
इमां पराभवम्लानिं रावणान्तःपुराश्रुभिः ॥ ३४५ ॥
इति सीतावचः श्रुत्वा बभाषे पवनात्मजः ।
जीविताशां कथं रामस्त्वां विस्मरति वल्लभाम् ॥ ३४६ ॥
भूमिशायी निराहारः स्वशरीरेऽपि निःस्पृहः ।
मुनिरेव सुसंवृत्तः किं तु रागोऽस्य वर्धते ॥ ३४७ ॥
अचिरेणैव काकुत्स्थः करिष्यति महीमिमाम् ।
पौलस्त्यगात्रैः पतितैर्गिरिदुर्गवतीमिव ॥ ३४८ ॥
दशाननकीकर्षप्रौढरामशराङ्गुलिः ।
करः करालः कालस्य प्रवेक्ष्यति पुरीमिमाम् ॥ ३४९ ॥
लङ्केयं रघुनाथस्य नाद्यापि श्रुतिगोचरम् ।
गता तेन विलम्बोऽत्र मृत्योरागमनोत्सवे ॥ ३५० ॥
स्कन्धपीठाधिरूढां त्वामवैवादाय खेचरः ।
राघवं लङ्घिताम्भोधिर्गच्छामि यदि मन्यसे ॥ ३५१ ॥
त्वां प्राप्य राघवः क्षिप्रं क्षपयिष्यति राक्षसात् ।
खस्थे चित्ते हि निष्पत्तिः कार्याणामुपजायते ॥ ३५२ ॥
वानराणां प्रियाः शैलास्तैः समूलफलोदकैः ।
तृप्तः समाज्ञारुचिरं सानुजं विपुलाशयम् ॥ ३५३ ॥


१. ‘कार्यं शतच्छिद्र शा०, २. ‘नित्यं’ शा०. ३. ‘श्रित्व’ शा०. ४. ‘रा’शा..

५. ‘क्षसान्क्षि’ शा. ६. ‘घवः’ शा.

शपे त्वञ्चरणाभ्यां च तूर्णं द्रक्ष्यामि राघवम् ।
इति ब्रुवाणं प्लवगं प्रत्यभाषत जानकी ॥ ३५४ ॥
कथं नु मुष्टिमात्रस्त्वमितो मां नेतुमर्हसि ।
श्रुत्वैतदस्यै स्वं रूपं कपिर्महददर्शयत् ॥ ३५५ ॥
अवज्ञां प्रीतिवाक्येऽपि न सहन्तेऽभिमानिनः ।
प्रवर्धमानः सहसा पुनर्विन्ध्य इवोत्थितः ॥ ३५६ ॥
प्रभाव इव रामस्य विश्वव्यापी बभूव सः ।
करावलम्बनं नूनं सहे नान्यस्य जातुचित् ॥ ३५७ ॥
इहैव पश्य साधो त्वं क्रियत्संतर्जितां सतीम् ।
दंष्ट्राकरालवदनः सोऽवदत्सनिशाचराम् ॥ ३५८ ॥
लङ्कां नेतुं समर्थोऽहं विकटाट्टाहालमालिनीम् । .
तमूचे मैथिली हर्षविस्मयोत्फुल्लोचना ॥ ३५९ ॥
जाने त्वां तेजसां राशिं मारुते क्षम्यतां भवान् ।
अवज्ञामन्थरं वक्तुं प्रगल्भन्ते महत्स्वपि ॥ ३६० ॥
मुग्धाः स्वभावात्प्रायेण योषितस्तरलाशयाः ।
गगनं गरुडस्येव व्रजतस्ते तरस्विनः ॥ ३६१ ॥
वेगेन धर्तुमात्मानमवला कथमुत्सहे ।
व्योम्ना प्रभञ्जनजवे मामादाय गते त्वयि ॥ ३६२ ॥
अभिद्रुतेषु रक्षःसु विद्धि मामम्बुधौ च्युताम् ।
न च मे परगात्रेपु स्पर्शो युक्तः कुलस्त्रियाः ॥ ३६३ ॥
तस्मात्त्वं गच्छ सावेगं स्वयमायातु राघवः ।
पश्य मां मलदिग्धाङ्गीं तर्जितां राक्षसीगणैः ॥ ३६४ ॥
प्रियां रामस्य महिषीं दीनां स्थण्डिलशानियीम् ।
इति सीतावचः श्रुत्वा हनूमान्साश्रुलोचनः ॥ ३६५ ॥
पुनः शरीरं संक्षिप्य तामूचे शीलशालिनीम् ।
भवत्या सत्यमेवैतधुक्तमुक्तं कुलोचितम् ॥ ३६६ ॥


१, ‘गोपुरान् शा०. २, त्वद्वचसां तूर्ण शा०. ३. ‘भर्त्सितां’ शा..

सदृशं भापसे सर्वं शीलस्याभिजनस्य च ।
तीर्णोऽब्धिर्विचिता लङ्का त्वमिहस्थावलोकिता ॥ ३६७ ॥
अभिज्ञानं तु रामाय किमादाय ब्रजाम्यहम् ।
एतदाकर्ण्य वैदेही पुनः प्रोवाच मारुतिम् ॥ ३६८ ॥
वाच्यः संप्रत्ययायैव त्वया रहसि राघवः ।
विलोलमञ्जरीपुञ्जकिजल्कै रञ्जितानिले ॥ ३६९ ॥
विकटे चित्रकूटस्य रम्ये मन्दाकिनीतटे ।
अहं त्वदङ्कपर्यङ्के के जलकेलिश्रमाकुला || ३७० ॥
निषण्णा त्वन्मुखाम्भोजलोललोचनषट्पदा ।
ऐषीकेनानिलजवः शक्रसूनुसहेलया ॥ ३७१ ॥
नखोल्लेखविधायी मे काणः काकः कृतस्त्वया ।
अद्यापि हृदये लीना ललाटे लिखितापि च ॥ ३७२ ॥
त्वया मनःशिलोल्लेखलीलातिलकमञ्जरी ।
अभिमान इवायं मे रामप्रणयसंभवः ॥ ३७३ ॥
त्वदुक्तिप्रत्ययायास्तु मणिं वेणीविभूपणम् ।
इत्युक्त्वा वेणिकामस्मै विमुच्य रुचिरं मणिम् ॥ ३७४ ॥
प्रददौ वासरालोकमिव पुञ्जीकृतं निशि ।
मणेः प्रभाकस्तस्य तिरस्कृतनिशाकरः ॥ ३७५ ॥
रामदर्शनयात्रायां हर्षहास इबावभौ ।
दत्त्वा मणिं कपिं सीता पुनरूचे कृताञ्जलिः ॥ ३७६ ॥
अधुना त्वत्प्रभावाङ्के रामकार्यं विवर्धते ।
हृतेति लोकविदितं त्रस्तेति स्त्रीजनोचितम् ॥ ३७७ ॥
शुष्यतीति प्रलापो यः संस्थास्मीत्यतिनिष्ठुरम् ।
विस्तृतास्मीत्यनुचितं दयितास्मीति चापलम् ॥ ३७८ ॥
जीवन्तीत्यतिलज्जेयं शोकातेति किमद्भुतम् ।
अस्मिन्दुःखार्णवे मग्नां रघुनाथः कृपानिधिः ॥ ३७९ ॥


१. ‘कटके शा०. २. ‘मे’ शा.. ३. ‘भ’ शा०. ४. ‘भवन् शा..

विचाराचारसहितो मां समुत्तारयिष्यति ।
अथ वा सर्वमेव त्वं जानीषे धीमतां वर ॥ ३८० ॥
स्वयैव तस्य ह्युचितं तत्तद्वाच्यः पतिर्मम ।
इति निद्रायमाणासु राक्षसीषु प्लवंगमः |
श्रुत्वा सीतावचः क्षिप्रं तामामन्य शनैर्ययौ ॥ ३८१ ॥
इति हनुमत्सीतासंभाषणम् ॥ ७ ॥
सीतां प्रदक्षिणीकृत्य प्रस्थितः पवनात्मजः ।
वर्धमानवपुर्वीरः कार्यशेषमचिन्तयत् ॥ ३८२ ॥
रामकार्यं कृतं तावद्यदर्थं प्रेषिता वयम् ।
तदुक्ताभ्यधिकं कर्तुमधुना मे मनोरथः ॥ ३८३ ॥
एककार्यविसृष्टानामनेकार्थविधायिनाम् ।
स्वामिसन्मानसफलं जीवितं वर्धमायिनाम् ॥ ३८४ ॥
निशि सुप्तजनां लङ्कां दृष्ट्वा चोर इवाखिलाम् ।
गमिष्याम्यपरिज्ञातः कथं भुजबलोऽर्जितः ॥ ३८५ ॥
स्वीकारविमुखा घोरा न भिद्यन्ते सुसंहताः ।
नार्थिनो जितवित्तेशा युद्धार्हा एव राक्षसाः ॥ ३८६ ॥
तस्मादशोकवनिकां दयितां राक्षसप्रभोः ।
युद्धदूतीं करोम्येष निखिलोद्धूलितद्रुमाम् ॥ ३८७ ॥
इति संचिन्त्य हनुमान्रसपूर्णाश्रुवर्षिणः ।
बभञ्ज पादपान्स्रस्तपुष्पपल्लवभूषणान् ॥ ३८८ ॥
अश्वकर्णैर्निपतितैर्नागैश्च शकलीकृतैः ।
रणाङ्गणमिवोद्यानमभूदस्तशिलीमुखम् ॥ ३८९ ॥
दवेषु पतितेष्वग्रे वभुर्विवलिता लताः।
उद्धूतालिकुलालापैः साक्रन्दा इव योषितः ॥ ३९० ॥
महातरूणां पततां त्रस्तानां च पतन्त्रिणाम् ।
पूरिताशावकाशेन शब्देन बुबुधे जनः ॥ ३९१ ॥


१. ‘न जाने केन वचसा’ शा०. २. ‘सं’ शा०, ३. ‘वैशस्याम्. ४, रम्यमुचितं शा०.

बालप्रवालशालेषु रत्नतालीवनेषु च ।
सुवर्णकर्णिकारेषु भग्नेष्वनिलजन्मना ॥ ३९२ ॥
किमेतदिति संभ्रान्ता विस्मयामपनिश्चलाः ।
राक्षस्यो ददृशुर्वीरं तोरणे तरणिप्रभम् ॥ ३९३ ॥
विदारितोऽयं मन्दारश्छिन्ना कनककेतकी ।
चारुचामीकरमयश्च्युतश्चुतोऽयमुन्नतः ॥ ३९४ ॥
पाटितः पाटलश्चायमशोकः शकलीकृतः ।
इत्यभूद्विपुलः शब्दः क्षणदाचरयोषिताम् ॥ ३१५ ॥
ताः समभ्येत्य वैदेहीमूचुर्विकृतविग्रहाः ।
उन्मूलिततरुः कोऽयं खैरं संभाषितस्त्वया ॥ ३९६ ॥
तच्छ्रुत्वा साब्रवीनाहं जानाम्येनं तरखिनम् ।
मायाविनो गतिं वेत्ति मायी युष्मद्विधो जनः ॥ ३९७ ॥
इति ब्रुवाणां निर्भर्त्स्य सीतां नक्तंचरस्त्रियः ।
अन्तःपुरोदरगतं गत्वा रावणमूचिरे ॥ ३९८ ॥
देव संभाषिता सीता स्वैरं स्वैरेण वाङ्ग्मयैः ।
भग्नं च प्रमदोद्यानं वानरेण तरस्विना ॥ ३९९ ॥
रतिभोगप्रणयिनी सा तवात्यन्तवल्लभा ।
अशोकवनिका तेन चपलेन प्रधर्षिता ॥ ४०० ॥
भ्रष्टकर्पूरतिलका विनष्टागुरुपल्लवा ।
संतर्जिता तु दुष्टेन भग्निता वाटिका शुभा ॥ ४०१ ॥
मदनाक्रान्ततिलका विमर्दच्युतचन्दना ।
अशोकाः शोकदास्तत्र निष्फला बकुलावली ॥ ४०२ ॥
त्रस्ता सर्वविहंगाली लवङ्गालीनकेसरा ।
निर्दयेन त्वया भुक्ता सुकामारीव कामिनी ।
सा तवोद्यानवसुधा लूना तेन प्रमादिना ॥ ४०३ ॥
देवी मन्दोदरी येभ्यः कर्णपूराय पल्लवम् ।

त्वदाज्ञयैव लभते तरवस्ते निपातिताः ॥ ४०४ ॥
सहकारवने भग्ने छिन्ने चन्दनकानने ।
मदनस्य न जानीमः क भविष्यति संश्रयः ॥ ४०५॥
हृतपुष्पाम्बरा तेन गाढदन्तनखक्षतैः ।
सापि कल्पतरुश्रेणी वेश्येव विवशीकृता ॥ ४०६ ॥
तेनार्दितद्विजगणा विनष्टगुणमण्डला ।
जनता कुनृपेणेव परिभूता सरोजिनी ॥ ४०७ ॥
न विसृष्टो बलवता यदि नाम स केनचित् ।
तत्कथं केलियोगस्य कपेः सा प्रभविष्णुता ॥ ४०८ ॥
वरुणेन नवीभूतः कायमस्य प्रगल्भता ।
वराकः कः कुबेरो वा शक्तिर्नास्त्येव वज्रिणः ॥ ४०९ ॥
रामेण प्रेषितो नूनं स दूतः कपिरूपधृक् ।
यत्सीतासंश्रयस्तेन रक्षितः शिशिंपातरुः ॥ ४१० ॥
स सुरो वासुरो वास्तु वानरो वा नरोऽथ वा ।
देव प्रयातु सहसा त्वत्कोपानिपतङ्गताम् ॥ ४११ ॥
खल्पोऽप्यनल्पतां याति मेघस्तोक इवाम्बरे ।
नीचावमानमलिनो मन्युर्मनसि मानिनाम् ॥ ४१२ ॥
इति तासां वचः श्रुत्वा सभ्रूभङ्गां मुखावलीम् ।
स चक्रे वक्रहोमाग्निलग्नधूमलतामिव ॥ ४१३ ॥
इत्यशोकवनिकामङ्गः ॥ ८ ॥
प्रौढकोपाग्नितप्तोऽपि तूष्णीमासीद्दशाननः ।
विचारमन्थरासत्यमल्पेषु महतां रुषः ॥ ४१४ ॥
तेन मानससंभूता निर्दिष्टा रक्षसां गणाः ।
निग्रहाय कर्वीराः किंकरा राम निर्ययुः ॥ ४१५ ॥
अथाशीतिसहस्राणि गदामुद्गधारिणाम् ।
रक्षसां मेघवक्राणां चक्रुर्ग्रस्ताम्बरा दिशः ॥ ४१६ ॥


१. ‘मावलीमि’ शा०. २. ‘र्णानां शा०.

ते गत्वा ददृशुर्घोरं प्लवंगं गिरिविग्रहम् ।
चैत्यप्रासादमारूढमदृश्यं तेजसां निधिम् ॥ ४१७ ॥
शस्त्रवीचिचया लोलं संरम्भात्समभिद्रुतम् ।
रक्षसांगणमालोक्य ननाद पवनात्मजः ॥ ४१८ ॥
तस्य शब्देन संत्रस्तस्त्रैलोक्याश्चर्यकारिणा।
नवो बभूव लङ्कायां कालहुंकारसंभ्रमः ॥ ४१९ ॥
व्यशीर्यत तदाक्रान्तः प्रासादो रत्नशेखरः ।
शकाशनिहतः क्षिप्रं रोहणादिरिवापरः ॥ ४२० ॥
निर्घोपस्तस्य लाङ्गूलसावेगास्फालनोद्भवः ।
लेभे भुवनगर्भपु सुचिराभ्यासदीर्घताम् ॥ ४२१ ॥
उत्सृष्टां राक्षसभटैः शस्त्रवृष्टिं निरन्तराम् ।
स विधूयैव जग्राह परिघं तोरणाश्रयम् ॥ ४२२ ॥
स तेन राक्षसवनं जघान घननिःस्वनः ।
क्षणाद्येनाभवद्भुमिश्छन्ना स्फारशिरःफलैः ॥ ४२३ ॥
स राक्षसक्षयारम्भे जगाद निनदन्मुहुः ।
दिग्भिर्मत्ताभ्यनुमतः प्रीत्या प्रतिरवैरिव ॥ ४२४ ॥
जयत्याज्ञाहतारातिग्रामो रामः सलक्ष्मणः ।
तत्प्रसादसितच्छत्रः सुग्रीवश्च महीपतिः ॥ ४२५ ॥
जगचूडामणेस्तस्य दूतोऽहं जानकीपतेः ।
रक्षःक्षयेऽसिन्विपुले प्रारम्भविजयध्वजः ॥ ४२६ ॥
न रावणसहस्रं मे समरे गणनास्पदम् ।
मद्विसृष्टाश्च सन्त्यन्ये तद्भृत्यपरमाणवः ॥ ४२७ ॥
इति तस्य वचः श्रुत्वा गगनस्थस्य राक्षसाः ।
तमदृश्यं ततश्चक्रुर्घोरेशस्त्रास्त्रवृष्टिभिः ॥ ४२८ ॥
ततः समभिपत्याशु वेगेन पवनात्मजः ।
विदधे परिघाघातैः कदनं पिशिताशिनाम् ॥ ४२९ ॥


१. ‘दैव’ शा०. २. ‘रक्षासागर’ शा०. ३. ‘कम्प’ शा०. ४. ‘रचिएरेषु’ शा.

निष्पिष्टे किंकरकुले हतशेषा निशाचराः ।
तूर्णं न्यवेदयन्गत्वा दशग्रीवाय तत्क्षणम् ॥ ४३० ॥
नवावतारस्फारेण समाक्रान्तः स मन्युना ।
आदिदेश प्रहस्तस्य तनयं जम्बुमालिनम् ॥ ४३१ ॥
इति किंकरवधः ॥९॥
स विसृष्टः कपिवधे स्वामिना मानकारिणा।
स्थी कनकसंनाहः प्रययौ धन्विनां वरः ॥ ४३२ ॥
तमायान्तं समालोक्य स्थितस्तोरणशेखरे ।
हृष्टो जजृम्भे हनुमान्समरारम्भसादरः ॥ ४३३ ॥
तं जम्बुमाली निशितैर्बाह्वोरुरसि चाशुगैः ।
दूरादपूरयह्बाणैर्गिरिं सूर्य इवांशुभिः ॥ ४३४ ॥
क्रुद्धः पवनजस्तूर्णमादाय विपुलां शिलाम् ।
चिक्षेप तस्मै स च तां चिच्छेद दशभिः शरैः ॥ ४३५ ॥
हनुमान्सालमुत्पाट्य तें समभ्याद्रवज्जवात् ।
तं चाकीर्णं शरैश्चक्रे वृक्षं विक्षिप्य राक्षसः ॥ ४३६ ॥
ततः परिघमादाय घोरघोषभ्रमं युधि ।
अपातयत्कपिवरः स्यन्दनाज्जम्बुमालिनम् ॥ ४३७ ॥
परिघाघातनिष्पिष्टमलक्ष्यावयवं वपुः ।
कालसूदाहृतं तस्य श्लक्ष्णमांसमिवाभवत् ॥ ४३८ ॥
श्रुत्वा प्रहस्ततनयं निष्पिष्टसरथायुधम् ।
सप्त मन्त्रिसुतान्वीरानादिदेश दशाननः ॥ ४३९ ॥
इति जम्बुमालिवधः ॥ १० ॥
सप्तसप्तिप्रभास्तस्य दीप्तकङ्कटकुण्डलाः ।
ते समेत्य हैरिं चक्रुः पिङ्गं हेमशरांशुभिः ॥ ४४० ॥
वाणवृष्टिं तदुत्सृष्टां विलङ्घ्याधिकविक्रमः ।
अलातचक्रप्रतिमः क्षणं वभ्राम मारुतिः ॥ ४४१॥


१. ‘सप्त’ शा०. २. ‘कपिं’ शा..

तलाघातैर्नखैर्दन्तैः पद्भ्यामूरुजवेन च ।
हत्वा तान्मारुतिस्तीर्णमनायातानिवाकरोत् ॥ ४४२ ॥
ससैन्यान्मन्त्रितनयान्हतानाकर्ण्य रावणः ।
पञ्चसेनाग्रकान्कोपादादिदेश कर्वधे ॥ ४४३ ॥
इति मन्त्रितनयवधः ॥ ११ ॥
ते विरूपाक्षयूषाक्षदुर्घरप्रघसाः समम् ।
भासकर्णश्च तं देशमाययुर्विपुलैर्वलैः ॥ ४४४ ॥
अप्रमादेन योद्धव्यमित्युक्त्वा प्रभुना स्वयम् ।
ते मारुतिं समभ्येत्य चक्रुः शरमयं वपुः ॥ ४४५ ॥
दुर्धरेणाधिकं वाणैराहतः कपिकुञ्जरः ।
खं समुत्पत्य सहसा पपातास्य रथे जवात् ॥ ४४६ ॥
तद्गात्राभिहता क्षिप्रं साश्वसूतरथध्वजः ।
बभूव दुर्धरोऽन्येषां यमवर्त्मपुरःसरः ॥ ४४७ ॥
दुर्धरेऽभिहते वीरे पुनरुत्पतितं नमः ।
तं विरूपाक्षयूपाक्षावुत्पत्त्यामिद्रुतौ जवात् ॥ ४४८ ॥
मुद्गराभ्यां समं ताभ्यां कपिर्वक्षसि ताडितः ।
तौ समादाय बाहुभ्यां निपपात महीतले ॥ ४४९ ॥
ततः सालप्रहारेण तौ हत्वा कपिपुंगवः ।
प्रघसं भासकर्णं च वायुवेगः समाद्रवत् ॥ ४५० ॥
स ताभ्यां वीक्षितः क्षिप्रं शूलपट्टिशसायकैः ।
गिरिशृङ्गेण गुरुणा निष्पिपेष निशाचरौ ॥ ४५१ ॥
पञ्चसेनाप्रगान्वीरान्विज्ञाय युधि पातितान् ।
पौलस्त्यः स्वसुतं युद्धे श्लक्ष्णमक्षं निरैक्षत ॥ ४५२ ॥
इति दुर्धरादिवधः ॥ १२ ॥
स हेमसंनाहवृतः सैन्येन महता वृतः ।
प्रययौ ककुभः कुर्वन्ध्वजपट्टाट्टहासिनीः ॥ ४५३ ॥


१. ‘भ्रममयं’ शा०. २. वज्रवेगः’ शा०. ३. ‘युद्वदक्षमक्षं’ शा०.

तस्मिन्समुद्यते योद्धं चकम्प साचला मही ।
क्षोभोऽभवन्महाम्भोधेः प्रववौ न च मारुतः ॥ ४५४ ॥
स हेमपुङ्खैर्विशिखैः समापूर्य प्लवंगमम् ।
उन्ननादः सुरस्त्रीणां संत्रासगुरुतां गतः ॥ ४५५ ॥
सुरराजरणोत्साहबजोल्लिखितवक्षसम् ।
कुमारमक्षं हनुमान्सावष्टम्भमयोधयत् ॥ ४५६ ॥
ततो बभूव गगने योधयोः समरोत्सवः ।
निरालम्बस्य च कपेः सरथस्य च रक्षसः ॥ ४५७ ॥
तुलाभिधातोन्मथितस्तस्य मारुतिना रथः ।
पपात गगनाकारः सच्छत्रध्वजकूवरः ॥ ४५८ ॥
स खड्गः श्यामले व्योम्नि विचरन्खड्गचर्मभृत् ।
धैर्यराशेरपि कपेर्मतिमोहमिवाकरोत् ॥ ४५९ ॥
ततश्चरणयोर्वीरं तमादाय प्लवंगमः ।
सहस्रशः परिभ्राम्य क्षितौ क्षिप्रमपातयत् ॥ ४६० ॥
तं पिष्टमुकुटं कीर्णकेयूरं दलिताङ्गदम् ।
निर्मथ्योद्गीर्णरुधिरं व्यसुं तत्याज मारुतिः ॥ ४६१ ॥
अबालचरिते वाले हते तमिन्सुरद्विपि ।
शशी मुमोच सुचिरात्स्वर्गविष्टं ससाध्वसम् ॥ ४६२ ॥
इत्यक्षवधः ॥ १३ ॥
हते कुमारे पौलस्त्यो न शुशोच रुषा ज्वलन् ।
न ह्यमर्षपदे शोकः प्रभवत्यभिमानिनाम् ॥ ४६३ ॥
स निश्वसन्क्षणं ध्यात्वा जगादेन्द्रजितं सुतम् ।
प्रभावेण प्लवंगस्य परं विस्मयमागतः ॥ ४६४ ॥
कियती विक्रमश्लाघा क्रियते जयिनस्तव ।
अन्वर्थयुक्तं नामैव यस्य लोकेषु गीयते ॥ ४६५ ॥


१. ‘क्रुधा’ शाक.

२. दुःखं’ शा..

अल्पेऽप्यनल्पचरिता युज्यन्ते यद्भवद्विधाः ।
शत्रुलेशासहत्वं तत्स्वनयस्याभिशङ्किनः ॥ ४६६ ॥
कपेश्चिन्त्यो वधे तस्य विसृष्टाः सैन्यनायकाः ।
हतास्तेऽपि वधे सेयमद्भुताज्ञापंगल्भता ॥ ४६७ ॥
दुर्धरप्रमुखा वीरा वानरेण निपातिताः ।
दैवमत्र परं मन्ये धिगास्तां पौरुषे वृथा ॥ ४६८ ॥
प्रभावे नास्ति विश्वासः शक्तिर्नूनमनिश्चिता ।
कालैन्द्रजालिकस्यास्य विचित्रं किं न दृश्यते ॥ ४६९ ॥
दैवप्रतीपं चरतस्तववैकस्य विश्रुता ।
सर्वत्राकुण्ठितोत्साहा शक्तिः स्वच्छन्दचारिणी ॥ ४७० ॥
अधुना वानरवधे त्वमेवास्मिन्प्रतिक्रिया ।
तस्यापि यत्कृतान्तस्य दंष्ट्रोन्मूलनलम्पटः ॥ ४७१ ॥
इति शासनमादाय जनकस्य सुरेन्द्रजित् ।
व्याडैश्चतुर्भिः संयुक्तं रथमारुह्य निर्ययौ ॥ ४७२ ॥
तस्मिन्युद्धोद्यते विश्वप्रलयारम्भविभ्रमः ।
बभूव सर्वभूतानां भुवनाकल्पविप्लवः ॥ ४७३ ॥
कालुप्यकलिले व्योम्नि ध्वान्तध्वस्तजगत्रये ।
बभूवुर्दुर्निमित्ता ये रेणुप्रावरणा दिशः ॥ ४७४ ॥
ततः क्षणमभूव्द्योम्नि युद्धं रक्षःप्लवंगयोः ।
निःसरत्सायकशिलाज्वलज्जाताग्निपिङ्गलम् ॥ ४७५ ॥
अथेन्द्रजिद्भुजोत्सृष्टशरासारनिरन्तरे ।
अलग्नाङ्गश्चचारैव वीरो मारुतिरम्बरे ॥ ४७६ ॥
विशिखेषु विलक्षेषु विलक्ष्येष्विव रक्षसः ।
क्षणं ध्यात्वा जिघृक्षुस्तं वीरो ब्रह्मास्त्रमाददे ॥ ४७७ ॥
प्रादुर्भूते ततस्तस्मिन्नस्रे पाशशतैः कपिः ।
बद्धः क्षितौ निपतितः कार्यशेषमचिन्तयत् ॥ ४७८ ॥


१. ‘प्रगल्भते’ शा० २. ‘ब्यूहै’ क. ३. संभ्रमः’ शा०

ब्रह्मास्त्रवारणे शक्तिरस्ति मे ब्रह्मणो वरात् ।
तथापि धारयाम्येतदस्त्रं मन्त्रस्य गौरवात् ॥ ४७९ ॥
पाशवद्धस्य चावश्यं दर्शनं मे भविष्यति ।
दशकण्ठसभास्थाने संवादश्च चिरं स्थितः ॥ ४८० ॥
इति चिन्तयतस्तस्य तूर्णं विग्रहमाग्रहात् ।
रज्जुवल्कलवल्लीभिर्वबन्धुः पिशिताशिनः ॥ ४.८१ ॥
रज्जुबद्धस्य तस्यास्त्रपाशाः क्वापि स्वयं ययुः ।
न महान्तः सहन्ते हि प्राकृतैः समशीर्षकाम् ॥ ४८२ ॥
अस्त्रमुक्तोऽपि मिथ्यैव दर्शयन्वन्धुमात्मनः ।
कृष्यमाणश्च रक्षोभिः सर्वं सेहे महाकपिः ॥ ४८३ ॥
इति हनुमद्रहणम् ॥ १४ ॥
ततो निशाचरैर्नीतः क्षिप्रं रक्षापतेः सभाम् ।
प्रभामिव प्रतापाग्ने रक्तरत्नां ददर्श सः ॥ ४८४ ॥
तां प्रविश्य वृतां वीरः श्रेणीभिस्त्रिदशद्विषाम् ।
स्फाररत्नासनासीनं राक्षसेन्द्रं व्यलोकयत् ॥ ४८५ ॥
द्राग्वध्यो बहिरेवायं दृष्टेन किमनेन नः ।
इत्यनल्पोऽभवज्जल्पस्तत्र तं वीक्ष्य रक्षसाम् ॥ ४८६ ॥
कपिर्दृष्ट्वा दशग्रीवं त्रैलोक्यविजयोर्जितम् ।
सृजन्तं रत्नमुकुटत्विषा बालातपश्रियम् ॥ ४८७ ॥
चामराश्चितहस्तानां कान्तानां गण्डभित्तिषु ।
चित्रपत्रनखोल्लेखाः कुर्वाणं भूषणांशुभिः ॥ ४८८ ॥
सुस्कन्धैः स्फारकेयूरकिरणारुणपल्लवैः ।
हारांशुकुसुममेरैर्भूषितं भुजपादपैः ॥ ४८९॥
वज्राद्रिभङ्गगुरुभिर्वक्षोभिर्व्यक्तविक्रमैः ।
आसेव्यमानं रक्षोभिस्त्रिजगज्जयलक्षणैः ॥ ४९० ॥
निर्भर्त्सितो वेत्रिगणैः पुरः परुषवादिभिः ।
अचिन्तयत्क्षणं गाढं विस्मयावेगनिश्चलः ॥ ४९१ ॥

अहो धैर्यममर्यादमहो साम्राज्यमूर्जितम् ।
अहो सुरासुरलाध्याः सावष्टम्भा विभूतयः ॥ ४९२ ॥
अहो बतास्य पुरतः प्रकम्पन्ते महौजसः ।
न वाचांसि न चेतांसि न तेजांसि तपांसि वा ॥ ४९३ ॥
वलं कैलासमूलेषु प्रतापः खुरवेश्मसु ।
प्रयाति लक्ष्यतामस्य श्रीराश्रितगृहेषु च ॥ ४९४ ॥
समस्तभुवनैश्वर्यमहत्येष न संशयः ।
यदि न स्यादयं पापः क्रूरः क्रूरतरैर्वृतः ॥ ४९५ ॥
सदाचारः श्रियो मूलं प्रभावे गुणसंभवः ।
इति प्रवादोऽप्येतेन बलान्मन्ये तिरस्कृतः ॥ ४९६ ॥
अहो दुर्नयपक्षस्य व्यसनस्यायता गतिः ।
इयतीं भूमिमारूढा ह्रियन्ते येन संपदः ॥ ४९७ ॥
इति विस्मयनिस्पन्दे चिन्तयत्यनिलात्मजे ।
कोऽयं कस्य कुतो वेति प्रहस्ते रावणोऽब्रवीत् ॥ ४९८ ॥
ततो जगाम प्लवगं प्रहस्तः शासनात्प्रभोः ।
प्रीतिप्रसादितोष्ठाग्राद्दयां संदर्शयन्निव ॥ ४९९ ॥
कपे कथय कस्यासि न भयं विद्यते तव ।
न हि नाम निपात्येषु पतन्ति प्रभुदृष्टयः ॥ ५०० ॥
मन्ये न प्रेषितस्तावत्त्वं शक्रवरुणादिभिः ।
ललाटे लोकपालानां न शक्तिर्लिखितैव सा ॥ ५०१ ॥
लङ्काभिलाषिणो विष्णोः कुतः सा प्रभविष्णुता ।
ते तस्य जीर्णाः सततं स्वाङ्गेप्वेव मनोरथाः ॥ ५०२ ॥
माया कथय कत्येयमात्मक्षयविधायिनी ।
वदतस्तव मोक्षोऽस्ति मौने निःसंशयो वधः!! ५०३ ॥
इति ब्रुवाणे सावज्ञं प्रहस्ते पवनात्मजः ।
उवाच रावणाग्रेऽपि प्रतिभाभरणं वचः ॥ ५०४ ॥

३५

त्रिदशैर्नास्ति मे सख्यं प्रेषितोऽहं न विष्णुना ।
उद्यानं राक्षसपतेर्दर्शनाय मया हतम् ॥ ५०५ ॥
शक्तेनापि प्रतीकार मयास्त्रं न निवारितम् ।
अस्त्रपाशविमुक्तोऽहं स्वयं त्वां द्रष्टुमागतः ॥ ५०६ ॥
दूतोऽहं रघुनाथस्य जयिनो जानकीपतेः ।
सुग्रीवस्य च तत्प्रीतिप्राप्तराज्यनिजश्रियः । ५०७ ॥
कुशलं प्रीतिकुशलः स्पृष्ट्वा स्पष्टीकृताशयः ।
समादिशति देवस्त्वां सुग्रीवः सूर्यनन्दनः ॥ ५०८ ॥
विस्रम्भधाम्नः सुहृदः प्रभोः सर्वप्रदस्य वा ।
मया गृहीतं रामस्य सीतान्वेषणशासनम् ॥ ५०९ ॥
तस्य देवस्य भृत्येषु मद्विधेष्वभिमानिपु ।
जीवत्लु कः स्वयं शेते कृत्वा किल्विषविप्लुषम् ॥ ५१० ॥
अहं तु सुग्रीवगिरा हनूमान्पवनात्मजः ।
सीतां विचेतुं जलधिं विलङ्घ्याप्तः पुरीमिमाम् ॥ ५११ ॥
अस्मद्विशिष्टा बहवो दिक्षु सुग्रीवशासनात् ।
चरन्ति जानकीहेतोरगम्यासु महीष्वपि ॥ ५१२ ॥
इह सीता मया दृष्टा निरुद्धा वलिना त्वया ।
च्युतेव दुनिमित्ताय तन्वी शशिकला दिवः ॥ ५१३ ॥
सदाचारनिरुद्धेषु निषिद्धेष्वास्मघातिषु ।
धीधना न निवर्तन्ते त्वद्विधाः किल कर्मसु ॥ ५१४ ॥
नयप्रणयिनी लक्ष्मीः सत्त्वप्रणयिनी धृतिः ।
कुलीनानां भवत्येव धर्मप्रणयिनी मतिः ॥ ५१५ ॥
न शीलविकला वृत्तिर्न चासत्यत्रतं वचः ।
न विभूतिर्यशःशून्या भवत्युचितचेतसाम् ॥ ५१६ ॥
नेयं विराजते राजन्वजितेवामृतत्विषा ।
निशा नयोज्झिता लक्ष्मीरक्षीणतिमिरावृता ॥ ५१७ ॥

न हि पश्यामि तं देशं कालशक्तिरिवायता ।…
सा लक्ष्मणशरश्रेणी यत्र भग्नमनोरथा ॥ ५१८ ॥
इदं रक्षःपते रक्ष. लकालंकरणं वपुः ।
न नाम रामविशिखाः क्षमन्ते क्षणमप्रियम् ॥ ५१९ ॥
कस्तां शक्नोति तरसा धर्तुं जनकनन्दिनीम् ।
चरन्ति यत्कृते पश्चान्मार्गणा राममार्गणाः ॥ ५२० ॥
दिग्जयार्जितमैश्वर्यं कायक्लेशार्जितं तपः ।
सर्वमेकपदे नष्टं परदारधिया तव ॥ ५२१ ॥
इमाः शीलविरामेण कामेन गुणवैरिणा ।
रणाभिमानवामेन न क्षम्यन्ते विभूतयः ॥ ५२२ ॥
मार्गो न दुर्गमः कश्चिन्मृत्यो दुर्नयरूपिणः ।
दीर्घव्यसनहस्तस्य समस्ताकृष्टिशालिनः ॥ ५२३ ॥
व्यक्ता शक्तिस्तपस्तीव्रं श्रुता श्रीरमलं कुलम् ।
दुर्नयेन निगीर्णोऽयमहो गुणगणस्तव ॥ ५२४ ॥
त्यज्यतां जानकी नूनं राघवश्च प्रसाद्यताम् ।
मृत्योरायतपक्षस्य विफलः क्रियतां श्रमः ॥ ५२५ ॥
संक्षेपः श्रूयतामेष बुद्धिरात्महिते यदि ।
जानकीमपरित्यज्य नास्त्येव तव जीवितम् ॥ ५२६ ॥
इति सावज्ञकोपाग्निगम्भीरपरुषं वचः ।
श्रुत्वा दशमुखस्तूर्णमादिदेश कपर्वधम् ॥ ५२७ ॥
आदिष्टे राक्षसेन्द्रेण वधे पवनजन्मनः ।
वभाषे भ्रातरं कीर्तिभ्रंशभीरुर्विभीपणः ॥ ५२८ ॥
विचाररुचिरालोकविवेककलितोदया ।
शास्त्रानुगा तव मतित्रैलोक्याक्रान्तिदूतिका ॥ ५२९ ॥
क्रोधेन क्षोभमायाति न गम्भीरो महाशयः ।


१. ध्वस्तं शा०. २. ‘लाभिमान’ शा०. ३. ‘तर्ग’ शा.

शफरीस्फुरितेनेव सत्त्वराशिर्महोदधिः ॥ ५३० ॥
कृतमेकेन कपिना दुःसहं महदप्रियम् ।
तवापि यन्न मर्यादां भिनत्ति क्रोधविप्लवः ॥ ५३१ ॥
तथापि वधदण्डोऽस्मिन्दूते साधुविगर्हितः
न कस्यांचिदवस्थायां दूतो वध्यः क्षमाभुजाम् ॥ ५३२ ॥
वैरूप्यं केशगात्रेषु दग्धलक्ष्माकषाहतीः ।
दूतोऽर्हति न दृष्टस्तु वधो दूतस्य कर्हिचित् ॥ ५३३ ॥
परोक्तवादिनो दूताः कस्तेषां निग्रहे गुणः ।
यैरयं प्रेषितस्तेषु दण्डः क्रोधोचितः क्षमः ॥ ५३४ ॥
इति भ्रातुर्वचः श्रुत्वा जगांद दशकंधरः ।
दह्यतामस्य लाङ्गूलं प्रियपुच्छा हि वानराः ॥ ५३५ ॥
ततः शासनमादाय राक्षसेन्द्रस्य राक्षसाः ।
दीप्तं चक्रुः कपे पुच्छं तैलवस्त्रविवेष्टितम् ॥ ५३६ ॥
अथ ज्वालितलाङ्गूलः कृष्यमाणः क्षपाचरैः ।
स लङ्कां दग्धुमखिलां क्षणं सेहे पराभवम् ॥ ५३७ ॥ .
अयं स प्रमदोद्यानं भग्नं येन सराक्षसम् ।
इत्युच्चचार विपुलः पटहानुगतो ध्वनिः ॥ ५३८ ॥
हृष्टाः समेत्य वैदेहीमूचुर्नक्तंचरस्त्रियः ।
स तैः संदह्यते सीते सुहृत्संभाषणोचितः ॥ ५३९ ॥
एतदाशाधृतिच्छेददुःसहं विषमं वचः ।
आकर्ण्य सीता तद्वह्निव्याप्तेव सहसाभवत् ॥ ५४० ॥
सा शोकविवशां ध्यात्वा वाष्पनिर्झरवर्षिणी ।
हनुमद्वह्निसंतापशान्तये स्वयमभ्यधात् ॥ ५४१ ॥
सतीवृत्तेन यदि मे किंचिदस्ति तपःफलम् ।
तेनास्तु भगवान्वह्रिर्मारुतैः शशिशीतलः ॥ ५४२ ॥
इत्यर्थितस्तया क्षिप्रं प्रदक्षिणशिखः शिखी।

हिमसंघातशीतोऽभूपितुर्मित्रं हनुमतः ॥ ५४३ ॥
ततश्छित्त्वा स सहसा निबिडं भुजबन्धनम् ।
उत्पपातोग्रलाङ्गूलज्वालावलयिताम्बरः ॥ ५४४ ॥
छिन्नेप्वशेषपाशेपु मुक्तस्रस्ताखिलग्रहः ।
योगीव निर्वभौ व्योम्नि स ज्योतिर्मयतां गतः ॥ ५४५ ॥
स नदद्धोरनिर्घोषदीप्तलाङ्गूलविप्लवः ।
बभार प्रलयाभ्रस्य तडित्पुञ्जजुषः प्रभः ॥ ५४६ ॥
ततो निपत्य हनुमान्पुरद्वाराग्रशेखरे ।
लङ्कां परिधमादाय वभञ्ज च ददाह च ॥ ५४७ ॥
वह्निना हेमवर्णेन धूमेन जलदत्विषा । ।
अभूत्पीतांशुकाङ्केव लङ्का मेचककञ्चका ॥ ५४८ ॥
ज्वलनेनोग्रवेगेन ज्वलितेप्वथ वेश्मसु ।
चक्रे ज्वालावली दिक्षु हेमस्रग्दामविभ्रमम् ॥ ५४९ ॥
ततो विनिर्ययुस्तूर्णं त्रस्तास्तरललोचनाः ।
धूगमालावलयिता देवता इव वेश्मनाम् ॥ ५५० ॥
तासां कपोलपत्राभाः कर्णे कुवलयश्रियः ।
धूमलेखा वभुर्नाभिमूले रोमलता इव ॥ ५५१ ॥
स्फुलिङ्गैः शुशुभे व्योम मुहूर्तावर्तवर्तितैः ।
स्फुरन्मणिगृहोदग्ररत्नजीवैरिवोद्गतैः ॥ ५५२ ॥
व्याप्ताः सप्तार्चिषः प्राज्यज्वालाजालैर्बभुर्दिशः।
प्रत्यग्रकनकाट्टालवलद्वीचिचयैरिव ॥ ५५३ ॥
संवर्तकाभ्रगम्भीरः प्रलयारम्भसूचकः।
घोरः कलकलाशब्दः प्रययौ कृष्णवर्त्मनः ॥ ५५४ ॥
असंप्राप्तो हि हैमेषु प्रजज्बालेव वेश्मसु ।
दीप्तोऽपि मणिगेहेषु नादृश्यत हुताशनः ॥ ५५५ ॥
कचिद्विनाशप्रारम्भसंभारोङ्कारसंकुलैः ।

काव्यमाला।

कचिद्विश्वतिरस्कारमार्जनीवल्लरीनिभैः ॥ ५५६ ॥ कचित्सुदीप्तविलठत्सुमेरुशिखरोपमैः । कचिद्धूमपिशाचस्य पिङ्गश्मश्रुशिखासखैः ॥ ५५७ ॥ कचिद्गृहविहंगानां हेमपञ्जरविभ्रमैः । क्वचिद्योमाव्धिपर्यन्तविद्रुमद्रुमसोदरैः ॥ ५५८ ॥ क्वचिन्मेघगजेन्द्राणां हेमसंनाहसंनिभैः । कृशानोरर्चिपां चक्रैरपूर्यन्त दिशो दश ॥ ५५९ ॥ स्फुलिङ्गालिकिसलयो धूमश्यामलपल्लवः । शिखाशाखोऽपि विटपो लङ्कातङ्काफलोऽभवत् ॥ ५६० ॥ हनुमत्परिघावातभग्नानां मणिवेश्मनाम् । प्लुष्टानां पततां शब्दस्तीत्राक्रन्द इवविभौ ॥ ५६१ ॥ ज्यालामालाकुला लङ्का जलधौ प्रतिविम्विता । तापनिर्वापणायैव निमग्नान्तरदृश्यत ॥ ५६२ ॥ वेगदीर्घीकृताश्चेरुर्व्योम्नि वह्निकणाश्विरम् । रामचापच्युता हेमनाराचनिचया इव ॥ ५६३ ॥ विमानध्वजपालीपु पवनाकुलपल्लवः । अवाप पावकः क्षिप्रं लीलापाटलपद्धतिम् ॥ ५६४ ॥ सगोपुरपुरद्वारसभाभवनभित्तिषु । सालाट्टाहालप्रतोलीषु दीप्तासु पतितास्वपि ॥ ५६५ ॥ एष दूरे स्थितस्तूर्णसमं प्राप्तो हता वयम् । अनिलोत्तालिते वह्रौ बभूवेति जनस्वनः ॥ ५६६ ॥ ततः क्षपाचरान्कूरक्रोधानायुधवर्षिणः । उत्पाट्य कनकस्तम्भ जधान पवनात्मजः ॥ ५६७ ॥ ज्वालास्तम्भभुजं वह्निं समास्तम्भायुधं कपिम् । त्रन्ताः सर्वत्र ददृशुर्विश्वरूपं क्षपाचराः ॥ ५६८ ॥ अत्रान्तरे जनकजां सरमा नाम राक्षसी।

‘वोद्यायौ’ शा. 2. ‘पटलपट्टताम्’ शाक.

उवाच स्वैरमामाप्य चिन्तासंतापिताशयाम् ॥ ५६९ ॥
सखि निर्मुक्तपाशोऽसौ वीरो वानरयूथपः ।
प्रज्वाल्य निखिलां लङ्कां निहत्य सुभटान्गतः ॥ ५७०॥
इति लङ्कादीपनम् ॥ १५ ॥
इति पीयूषवर्षेण तया सिक्तैव मैथिली ।
अनलानिलयोश्चक्रे नमस्कारं मनखिनी ॥ ५७१ ॥
दग्ध्वा दशास्यनगरीं ज्वलनेन बलीयसा ।
पश्चात्तापाकुलश्चिन्तामवाप पवनात्मजः ॥ ५७२ ॥
अहो प्रमादिना मोहादसमीक्षितकारिणा ।
क्रुद्धेन दहता लङ्कां मया दग्धैव जानकी ॥ ५७३ ॥
धीरास्ते कीर्तिशुभ्राणां भाजनं सर्वसंपदाम् ।
न ये प्रचण्डकोपाग्नेर्यान्ति क्रीडापतङ्गताम् ॥ ५७४ ॥
यदर्थे विपुलः क्लेशः कृतः सैव हता मया ।
तरोः फलाभिकामेन मूलमुन्मूलितं पुनः ॥ ५७५ ॥
मूढेन कार्यसर्वस्वं स्वहस्तेन हतं मया ।
अस्मिन्नेव पताम्यग्नौ घोरे चा मकराकरे ॥ ५७६ ॥
सिद्धोऽप्यर्थः प्रनष्टो मे चपलस्य प्रमादिनः ।
काकतालीयसंप्राप्तो विभवः कुमतेरिव ॥ ५७७ ॥
निमित्तानि च पश्यामि शुभशंसीनि केवलम् ।
अप्यग्निना दक्षिणेन रक्षिता सा पतिव्रता ॥ ५७८ ॥
इति चिन्ताकुलः क्षिप्रं मारुतिर्व्योमचारिणाम् ।
स्थितां शुश्राव वैदेहीमाश्चर्यकथने मिथः ॥ ५७९ ॥
ततः प्रहृष्टोऽतिजवादशोकवनिकां पुनः ।
गत्वा दृष्ट्वा च वैदेहीं समाश्वास्याभिवाद्य च ॥ ५८० ॥
आरुरोह गिरेः शृङ्गं समुद्रं तर्तुमुद्यतः ।


१. ‘चिन्तां प्रपेदे शा०.

मारुतिः सत्त्वसंपन्नः सोत्साह इव वीर्यवान् ॥ ५८१ ॥
लङ्घानाकान्तिगुरुणा भूधरस्तेन पीडितः ।
स त्रिंशद्योजनोत्सेधः क्षणात्क्षितिसमोऽभवत् ॥ ५८२ ॥
ततः स गगनं शाणोल्लीढनीलमणिप्रभम् ।
व्यगाहत महोत्साहः सहस्रांशुरिवापरः ॥ ५८३ ॥
पितुः समानचरितः स्कन्धवन्धयुतान्पुरः ।
क्षिपन्स मेघसंघातान्योगाभ्यासमिवाकरोत् ॥ ५८४ ॥
मैनाकं पुनरङ्गुल्या स्पृष्ट्वा प्रीत्यर्थमुद्गतम् ।
द्रुमैः श्यामां गिरितटीं स ददर्शोदधेस्तटे ॥ ५८५ ॥
तस्योरुवेगमाकर्ण्य नादं चानन्दलक्षणम् ।
जगाद जाम्बवान्हर्षादङ्गदं भङ्गदं द्विषाम् ॥ ५८६ ॥
कृतार्थो नूनमायातस्तरखी मारुतात्मजः ।
यदस्य श्रूयते वेगनिर्घोपो बलवत्तरः ॥ ५८७ ॥
एष संदृश्यते दूरान्मारुतिमहसां निधिः ।
सुपर्ण इव सावेगः सुमेरुरिव पक्षवान् ॥ ५८८ ॥
इति जाम्बवतो वाक्यमाकर्ण्य हरियूथपाः ।
समुत्थायोन्नतग्रीवा ददृशुस्तं सविस्मयाः ॥ ५८९ ॥
वृक्षानन्ये समारुह्य शिखराणि गिरेः परे ।
प्रहर्षविवशास्तस्थुर्हनुमद्दर्शनोत्सुकाः ॥ ५९० ॥
समापतन्तं वेगेन तं प्लवंगगणाः पराः ।
कृताञ्जलिपुटाः सर्वे प्रणेमुः प्रणयानताः ॥ ५९१ ॥
निपत्य मारुतिस्तूर्णं महेन्द्रगिरिशेखरे ।
निषसाद कृतातिथ्यः पादपैः पुष्पवर्षिभिः ॥ ५९२ ॥
तं निशाचरशस्त्रास्त्रलेखोल्लिखितविग्रहम्!
परिप्वज्याङ्गदमुखाः प्रीतेरन्तं न लेभिरे ॥ ५९३ ॥
स प्रणम्य गुरुं वृद्धं जाम्बवन्तं कृताञ्जलिः ।


१. ‘स्कन्धवद्विधुतान्’ स्व; ‘स्कन्धवन्धधुरान्’ शा..

युवराजं च सानन्दं देवी दृष्टेत्यभाषत ॥ ५९४ ॥
तस्य सुस्पष्टदंष्ट्रांशुसुधाधाराकुलं वचः ।
जीवप्रदं कपिवराः श्रोत्राञ्जलिपुटैः पपुः ॥ ५९५ ॥
कथं दृष्टेति पृष्टोऽत्र मारुतिर्वालिसूनुना ।
वैदेहीदर्शने सर्व यथावृत्तं न्यवेदयत् ॥ ५९६ ॥
इति हनुमत्पुनरागमनम् ॥ १६ ॥
दृष्टां जनकजां श्रुत्वा सतीं शोकानलाकुलाम् ।
भग्नामशोकवनिका किंकरांश्च निपातितान् ॥ ५९७ ॥
जम्बुमालिमुखान्वीरानक्षं च क्षितिपात्मजम् ।
दग्धां च निखिला लङ्का प्रहृष्टोऽवददङ्गदः ॥ ५९८ ॥
मारुते शत्रुशल्येन सुहृदानन्ददायिना ।
कृतकृत्येन भवता कृतं कृत्यं यथोचितम् ॥ ५९९ ॥
अहो महत्त्वयैवाग्र्यं भुवनाक्रान्तिजं यशः ।
प्राप्तं प्रतापनिधिना देवेनेव विवस्वता ॥ ६०० ॥
प्रभूनां सुहृदां चित्ते कार्यकाले स्फुरन्ति ये ।
तेषां सिद्धार्थयशसां धन्यानां साधु जीवितम् ॥ ६०१॥
महत्ते पौरुषोद्योगविपुलोत्साहसेवनम् ।
भयादिवातिकुटिलं दैवमप्यनुवर्तते ॥ ६०२ ॥
विलङ्घितोऽधिर्भवता सती दृष्टा च जानकी ।
परिभूतश्च पौलस्त्यः कर्तव्यं किमतः परम् ॥ ६०३ ॥
अधुना तां समाहृत्य सतीं हत्वा च रावणम् ।
भवद्भिः सहितो वीरैर्द्रष्टुमिच्छामि राघवम् ॥ ६०४ ॥
इन्द्रजिद्यदि मायावी दिव्यास्त्रग्रामदुःसहः ।
तथापि न वयं तेषां युद्धे परिभवात्सदम् ॥ ६०५ ॥
कथयामि ध्रुवं शक्ति तद्वधे स्वयमात्मनः ।
परात्मनिन्दाश्लाघासु मौनिनो हि मनीषिणः ॥ ६०६ ॥

अस्य जाम्ववतः शौर्यस्तवेन वयमीश्वराः ।
वक्तुं रविप्रतापस्य प्रमाणं कः प्रगल्भते ॥ ६०७ ॥
मारुते दृष्टसारस्त्वं क्षणदाचरसंक्षये ।
तवास्मिन्विक्रमारम्भे पुनरुक्ता गुणस्तुतिः ॥ ६०८ ॥
अयं च सततं तुल्यः पनसो मनसो जवी ।
न कस्यैतत्सुविदितं यः क्षमस्त्रिजगज्जये ॥ ६०९ ॥
नलो न लोके विदितो यदि विक्रमकर्मसु ।
तध्यभ्रेऽह्नि न जानाति जनो जाने दिवाकरम् ॥ ६१० ॥
स्थितौ च मैन्दद्विविधौ कार्येऽस्मिन्नश्विनः सुतौ ।
याभ्यां जित्वा सुरान्पीतं पीयूपं यशसा सह ॥ ६११ ॥
अनादिष्टोऽपि रामेण सुग्रीवेण च मानिना ।
अस्सद्विधानामुचितो दशाननवधोद्यमः ॥ ६१२ ॥
समर्थानां परार्थेषु प्रार्थना क्वोपयुज्यते ।
स्वयं प्रतापयत्यर्कः पृथ्वीं शेषो विभर्ति च ॥ ६१३ ॥
तस्माल्लङ्कामितो गत्वा करोम्येष यथोचितम् ।
सीता दृष्टा न चानीता वक्तुमित्युत्सहे कथम् ॥ ६१४ ॥
इत्यङ्गदवचः श्रुत्वा वृद्धः प्रोवाच जाम्बवान् ।
अवाच्यं कृतमप्येतत्काकुत्स्थाय न रोचते ॥ ६१५ ॥
रामेण रावणवधः प्रतिज्ञातो जनाग्रतः ।
स कथं तद्विसंवादं सहते सत्यसंगरः ॥ ६१६ ॥
मनोरथक्षयायैव तस्यायं त्वत्समुद्यमः ।
सेयं यदि परा भक्तिः तस्मिन्का नाम वैरिता ॥ ६१७ ॥
शत्रुस्ते निहतोऽसाभिरिति रामस्य नेप्सितम् ।
प्रच्छादनं प्रतापस्य न सहन्ते हि मानिनः ॥ ६१८ ॥
तस्माद्यथोक्तं कृत्वैव गच्छामो रघुनन्दनम् ।
इति ब्रह्मसुतेनोक्ते तथेत्यूचुः प्लवंगमाः ॥ ६१९ ॥


१. ‘ऽभिमानिनः’ शा..

ततः प्रमोदसमदा वारणा इव वानराः ।
गन्तुं समुद्ययुर्वीरा वालिवायुसुताग्रगाः ॥ ६२० ॥
ते निरन्तरसंघातघनग्रस्तनभस्तलाः ।
हर्षाधिकजवा जग्मुः सुपक्षा इव भूधराः ॥ ६२१ ॥
व्यस्ताभ्रकञ्चुकैस्तेषां लाङ्गुलैर्वलितैर्भुहुः ।
भोगिभोगनिभैर्व्याप्तं खं पातालमिवावभौ ॥ ६२२ ॥
रामाय प्रियमाख्यातं सोत्कण्ठाः समरोत्सुकाः ।
ते सुग्रीवप्रियं प्रापुः क्षणान्मधुवनं महत् ॥ ६२३ ॥
मधूनि तत्र दिव्यानि पीयूषरसवन्ति च ।
खयंग्रेहांणि हरयो हनुमन्तं ययाचिरे ॥ ६२४ ॥
हनुमानपि संहृष्टस्तेषामर्थे कृताञ्जलिः ।
युवराजं मधुवनप्रवेशाज्ञामयाचत ॥ ६२५ ॥
यथेष्टमत्र क्रियतां मधुपानाशनोत्सवः ।
इत्यङ्गदाज्ञया तूर्णं विविशुः कपयः समम् ॥ ६२६ ॥
ते प्रदिश्यामृतमयं दिव्यामोदं फलासवम् ।
मधु भुक्त्वा यथाकामं मदेन मदनिर्भराः ॥ ६२७ ॥
वृक्षानारुरुहुः केचित्केचिद्युयुधिरे फलैः ।
अपरे जहसुर्नादैः शाखाश्चान्ये ललम्बिरे ॥ ६२८ ॥
धावद्भिश्च पतद्भिश्च कर्षद्भिश्च परस्परम् ।
प्रनृत्यद्भिश्च कपिभिः सर्वं वनमकम्पत ॥ ६२९ ॥
तैनिषेधरुषा मत्तैस्ताडितः काननाधिपः ।
तानद्रवद्दधिमुखः कोपादुद्यम्य पादपम् ॥ ६३० ॥
तमभ्येत्याङ्गन्दः कोपात्परित्यज्यार्यगौरवम् ।
भुवि निप्पिप्य विदधे भग्नोरुभुजकंघरम् ॥ ६३१ ॥



१. ‘फलामि’ ख: शा०.

स मोहमूर्छानिःस्पन्दः शनकैर्लब्धजीवितः ।
प्रययौ यत्र सुग्रीवः काकुत्स्थाम्यां सह स्थितः ॥ ६३२ ॥
इति मधुवनविलोपनम् ॥ १७ ॥
निपत्य गगनात्तूर्णं पादयोः प्लवगप्रभोः ।
स कृच्छ्रेण पृथुश्वासस्खलिताक्षरमभ्यधात् ॥ ६३३ ॥
देव दिव्यं तवोद्यानं त्रिदशैरप्यर्पितम् ।
अगदप्रमुखैर्भुक्तं प्रहारैरभिहन्य माम् ॥ ६३४ ॥
वलान्मधूनि पीतानि तानि दिव्यरसानि तैः ।
तद्विधं ते न चेष्टन्ते मृत्युना तेन चोदिताः ॥ ६३५ ॥
श्रुत्वा दधिमुखेनैतत्कथितं वानरेश्वरः ।
किमेतदिति पृष्टश्च लक्ष्मणेन तदाभ्यधात् ॥ ६३६ ॥
अवश्यं जानकी दृष्टा हनुमत्प्रमुखैः सती ।
न तेषामकृतार्थानामेवंरूपो भवेन्मदः ॥ ६३७ ॥
स्वाधीनमङ्गदादीनां कामं मधुवनं मम ।
विश्रान्तास्तूर्णमायान्तु मद्गिरा ते तरखिनः ॥ ६३८ ॥
इति ब्रुवाणे सुग्रीवे सादरं विगतक्लमः ।
सौमित्रिणा तथेत्युक्त्वा ययौ दधिमुखः क्षणात् ॥ ६३९ ॥
स प्रसाद्याङ्गदमुखान्प्रशान्तमदविप्लवान् ।
भर्तुः शासनमादाय गुणोदारानपूजयत् ॥ ६४० ॥
ततस्ते रामसुग्रीवदर्शनाभ्यधिकोत्सुकाः ।
ययुर्व्योम्ना समुत्पत्य नन्दन्तो जलदा इव ॥ ६४१ ॥
रामलक्ष्मणसुग्रीवान्दूरादालोक्य सादरान् ।
अवरुह्याम्बरात्तूर्णं पद्भ्यामभिमुखं ययुः ॥ ६४२ ॥
अद्गदप्रमुखा वीरास्ते भारुतिपुरःसराः ।
प्रभुं ववन्दिरे तेन सानन्दमभिवन्दिताः ॥ ६४३ ॥
इति वानरप्रत्यागमनम् ॥ १८॥

ततो जगाद हनुमान्प्रणम्य रघुनन्दनम् ।
प्रीतिप्रसादितेनाक्ष्णा सुग्रीवेण निरीक्षितः ॥ ६४४ ॥
देव देववधूः श्लाघ्या सती जीवति जानकी ।
दृष्टा च संक्षयक्लिष्टा लेखेव शशिलक्ष्मणः ॥ ६४५ ॥
श्रुत्वैतदमृतावादसोदरं हनुमद्वचः ।
ऊचे रामः शिखण्डीव नवाम्भोदस्वनोदितः ॥ ६४६ ॥
दिष्टया जीवति वैदेही देहबद्धा धृतिर्मम ।
कथं दृष्टा क वा दृष्टा कथं वा मयि वर्तते ॥ ६४७ ॥
मद्वियोगेन महता तन्वी प्रतनुतां गता ।
कान्तिमात्रावशेषेण मन्ये सा वपुषा स्थिता ॥ ६४८ ॥
इत्युक्ते रघुनाथेन जगाद पवनात्मजः ।
पारेसमुद्रं लङ्कायां मया दृष्टा तव प्रिया ॥ ६४९ ॥
एकवेणीव्रता दीर्घध्याननिश्चललोचना ।
मलिना गाढशोकाग्निधूमेनेवाश्रुवर्षिणी ॥ ६५० ॥
दशाननगृहोद्याने राक्षसीभिः सुरक्षिता ।
लक्षिता त्वद्वियोगेन तप्तनिश्वासलक्ष्मणा ॥ ६५१ ॥
यत्तस्यास्तीव्रचारित्रतपोदीप्तेन चक्षुषा ।
नाद्यापि दग्धः पौलस्त्यः सा तस्यापि प्रगल्भता ॥ ६५२ ॥
अथ वा प्लुष्ट एवासौ तत्प्रकोपकृशानुना ।
त्वद्वाणमाला येनास्मिन्हेतुमात्रं भविष्यति ॥ ६५३ ॥
इत्युक्त्वा विस्तरेणास्सै सीतासंदेशभाषितम् ।
अभिज्ञानकथां तस्याः स्ववृत्तं च न्यवेदयत् ॥ ६५४ ॥
निखिलं विनिवेद्याथ मारुतिर्मेथिलीवचः ।
रामस्य प्रत्ययायैव ददौ तं वेणिकामणिम् ॥ ६५५ ॥
रामोऽपि मणिमादाय बाप्पाम्बुभिरपूरयत् ।
विरहानलसंतप्तं तस्या मूर्तमिवाशयम् ॥ ६५६ ॥


१. ‘वित्फारिताक्षेण’ शा.. २. ‘कृता’ शा०.

ततः स विदधे रत्नं दयितादयितं हृदि ।
चिरप्रवासादायातं स्थिरं धैर्यमिवात्मनः ॥ ६५७ ॥
धृतिं लेभे परिप्वज्य स श्लाघ्यां पावनेस्तनुम् ।
वैदेहीदर्शनेनेव यातामतिपवित्रताम् ॥ ६५८ ॥
सोऽब्रवीत्सुमहत्कर्म कुर्वतो मारुते तव ।
यशः स्फीतं भवाम्भोधौ यादमक्षयसेतुताम् ॥ ६५९ ॥
सुहृदं च प्रभूणां च बन्धूनां स्वजनस्य च ।
मनोरथफलप्राप्त्यै त्वद्विषो जायते जनः ॥ ६६० ॥
इत्युक्त्वा वल्लभाप्राप्तिसंकल्पाकृष्टमानसः ।
रामः समुद्रतरणं मध्ये विघ्नममन्यत ॥ ६६१ ॥
स चिरं सागरं ध्यात्वा वियोगमिव दुस्तरम् ।
पपात विस्मृतधृतिर्विपुले दुःखसागरे ॥ ६६२ ॥
तं शोकविवशं ज्ञात्वा मकराकरचिन्तया ।
जगाद प्रणयानम्रः सुग्रीवो मित्रवत्सलः ॥ ६६३ ॥
कोऽयं तवापि विदुषः सुमतेधैर्यवारिधेः ।
विक्रमावसरे व्यस्तविवेकः शोकविप्लवः ॥ ६६४ ॥
त्यज्यतां हृदयादर्शश्यामिकां स्नेहदूतिकाम् ।
शुचं वैक्लव्यजननीं क्लेशपाशपिशाचिकाम् ॥ ६६५ ॥
उत्साहशत्रुणानेन शोकः शोकेन वर्धते ।
संचयेन कदर्यस्य लोभाभ्यास इवानिशम् ॥ ६६६ ॥
उत्साहदर्पदयिताः कालेऽसिन्विजयोर्जिताः ।
उचिताः शितशस्त्रास्त्रपरुपाः पौरुपश्रियः ॥ ६६७ ॥
पप्रच्छ दुर्गरचनां लङ्कायां पवनात्मजम् ।
सोऽब्रवीत्परिस्वागुप्तवप्रप्राकारदुर्गमा ॥ ६६८ ॥
परिघार्गलितद्वारप्रकटाज्वालमालिनी ।
यन्त्रशस्त्रास्त्रसंबाधा त्रिकूटोत्तुङ्गशायिनी ॥ ६६९ ॥


१. धैर्यं साक्षादिवात्मनः शा०. २. ‘कान्ति’ शा०. ३. दुस्तरे’ शा०, ४. ‘मोह’ शाक.

अदृश्या त्रिदशैर्लङ्का नदी निर्झरशालिनी |
रक्षसां प्रयुतं तत्र पूर्वद्वाराभिसंश्रयम् ॥ ६७० ॥
पद्मं तत्रोत्तरद्वारि पश्चिमे द्वारि चार्बुदम् ।
नियुतं दक्षिणद्वारि शूलमुद्गरधारिणाम् ।
वारेण तिष्ठति न्यस्तं रावणेन दिवानिशम् ॥ ६७१ ॥
क्रियतामुद्यमस्तूर्णं रघुनाथ रिपुक्षये ।
दुर्गमं त्वत्प्रतापस्य दैवस्येव न युज्यते ॥ ६७२ ॥
इति रामः प्रहृष्टस्य श्रुत्वा हनुमतो वचः ।
सुग्रीवमवदनीत्या दयितादर्शनोत्सुकः ॥ ६७३ ॥
अमिन्मुहूर्ते विजये मध्याह्ने शुभलक्षणे ।
उत्तराफाल्गुनीयुक्ते जययात्रा ममोचिता ॥ ६७४ ॥
इत्युक्त्वा सह संनद्वैर्वानरानीकनायकैः ।
नील सेनाग्रगं कृत्वा प्रतस्थे रघुनन्दनः ॥ ६७५ ॥
मध्ये प्लवंगसैन्यानां राघवः पवनात्मजम् ।
ययौ श्रीमान्समारुह्य वैनतेयमिवाच्युतः ॥ ६७६ ॥
लक्ष्मणोऽप्यङ्गदारूढः सुग्रीवाग्रगमग्रजम् ।
जगाद जयशंसीनि निमित्तानि विलोकयन् ॥ ६७७ ॥
एष वाति सुस्वस्पर्शः पवनः शुभसूचकः ।
सर्वथैवार्य पर्याप्तस्तव हस्तगतो जयः ॥ ६७८ ॥
ग्रहाः सूर्यादयो व्योम्नि प्रसन्नास्तरुणार्चिपः ।
तवोदयं वदन्त्येते त्रिशङ्कुश्च महीपतिः ॥ ६७९ ॥
विशाखाख्यं च नक्षत्रं रघूणां निरुपप्लवम् ।
मूलं राक्षसनक्षत्रं पीडितं धूमकेतुना ॥ ६८० ॥
शंसन्ति मैथिलीलाभं दक्षिणा मृगपक्षिणः ।
भ्रातुः श्रुत्वेति काकुत्स्थः प्रीतिं सीतामिवासवान् ॥ ६८१ ॥
पूरिताशावकाशेन कपिसैन्येन सर्पता ।

स बभौ सागरेणेव सेवितः क्षोभभीरुणा ॥ ६८२ ॥
विन्ध्याचलमतिक्रम्य मलयं च महागिरिम् ।
रामः प्राप्य महेन्द्रादि ददर्श मकराकरम् ॥ ६८३ ॥
तरङ्गैः पवनावेगतुङ्गैरालन्धिताम्बरम् ।
दीप्तरत्नप्रभागर्भैः सतडिद्भिरिवाम्बुदैः ॥ ६८४ ॥
फणारत्नांशुकपिशैलद्धिर्व्यालमण्डलैः ।
वढवाग्निस्फुलिङ्गाङ्कैर्धूमावर्तैरिवावृतम् ॥ ६८५ ॥
शुभ्रात्रेण स्फुरत्फेनं नमसा मिश्रतां गतम् ।
सत्संगतमिवाजस्रमविघातान्तरं परैः ॥ ६८६ ॥
तं महाशयमालोक्य वन्धुप्रीत्यैव सागरम् ।
अवरुह्य महेन्द्राग्रात्काकुत्स्थोऽव्धितटीं ययौ ॥ ६८७ ॥
तटमालानिविष्टेषु कपिसैन्येषु सर्वतः ।
निपसाद स्वयं रामो वेलाकूलशिलातटे ॥ ६८८ ॥
इति समुद्रदर्शनम् ॥ १९॥
ततः कल्लोलसंघट्टघोषट्टितदिक्तटे ।
तटे निविष्टः सुग्रीवं जगाद रघुनन्दनः ॥ ६८९ ॥
एप सत्त्वनिधिः श्रीमानपारः पाथसां निधिः।
अधुना तरणोपायस्तूर्णमस्मिन्विचिन्त्यताम् ॥ ६९० ॥
अप्रमत्तास्तु देशेऽस्मिन्भवन्तु हरियूथपाः ।
विनिवेशश्च सैन्यानां यथास्थानं निधीयताम् ॥ ६९१ ॥
मन्त्रश्च क्रियतामसिन्पृथक्संभूय वा क्षणम् ।
कार्यमेतदनल्पं हि समुद्रस्यास्य लञ्चनम् ॥ ६९२ ॥
आरम्भाः पुरुषद्रव्यदेशकालफलोचिताः ।
विनिपातप्रतीकारैः कार्यसिद्धिविधायिनः ॥ ६९३ ॥
इति सुग्रीवमादिश्य शनैः सौमित्रिमब्रवीत् ।


१. ‘कपिलै’ का ख.

शोकसंतप्तनिश्वासैः शोपयन्निव सागरम् ॥ ६९४ ॥
अहन्यहनि भावानां म्लानिः समुपजायते ।
अयं तु मे नवीभूतः शोकः सीतावियोगजः ॥ ६१५ ॥
मद्वियोगाग्नितापेन सा तन्वी तनुतां गता ।
वृत्तिः परार्थनादैन्यभीरोरिव यशस्विनः ॥ ६९६ ॥
इयतीं भूमिमुल्लङ्घ्य सीतां दृष्ट्वा समीरणः ।
एप बन्धुरिवाश्वासकारी स्पृशति मां पुनः ॥ ६९७ ॥
असौ सुधापरिचयी धन्योऽयं मे मनोरथः ।
क्षणेन शतशो दृष्ट्वा सीतां स्पृष्ट्वाभ्युपैति सः ॥ ६९८ ॥
इमं महाजलनिधिं वियोगाचलदुःस्थिरम् ।
अपि पश्येयमुल्लङ्घय वैदेहीचरणाम्बुजम् ॥ ६९९ ॥
जीवन्ती तामहं श्रुत्वा संप्रति श्रोत्रजीवितः ।
कदा दृष्ट्वा भविष्यामि चिरं लोचनजीवितः ॥ ७०० ॥
निमेषलेशोऽप्यगमद्विघ्नतां यद्विलोकने ।
व्यवधानं कथं मध्ये तस्या जलधिमुत्सहे ॥ ७०१ ॥
आरम्भमात्रसाध्येऽपि दयितादर्शनोत्सवे ।
प्रतीक्ष्यते च मे चेतः क्षणमप्यधिकोत्सुकम् ॥ ७०२ ॥
अपैति हृदयैः कीर्णा नेयं मे विरहव्यथा ।
जन्तोर्ललाटफलके लिखितेवाक्षरावली ॥ ७०३ ॥
इति प्रलापिनः श्रुत्वा सौमित्रिर्जानकीपतेः ।
प्रदध्यौ विविधोपायैर्महोदधिविलङ्घनम् ॥ ७०४ ॥
ततः शनैः प्रयातेऽह्रि बभूव तमसा जगत् ।
चक्रवाकवियोगाग्निधूमेनेवान्धकारितम् ॥ ७०५ ॥
इति क्षेमेन्द्रविरचिते रामायणकथासारे सुन्दरकाण्डम् ।