०४ किष्किन्धाकाण्डः

ततः शिखरिशृङ्गस्थः सुग्रीवः प्रणतान्पुरः ।
उवाच हनुमन्मुख्यान्सचिवान्वालिशङ्कितः ॥ १ ॥
शौर्याभिमानाभरणौ नवौ कमललोचनौ ।
विजयव्यञ्जनभुजावेतौ शङ्कास्पदं मम ॥ २ ॥
प्रयुक्तौ वालिना नूनं वीराचस्मद्वधोद्यतौ ।
तपोवने सायुधयोः संचारः कथमन्यथा ॥ ३ ॥
वाली नास्मासु निश्चिन्तश्छिद्रान्वेषी च सर्वथा ।
वक्रः श्रीरक्षणे राज्ञां कर्कशो हि नयक्रमः ॥ ४ ॥
एतौ तस्मादितो गत्वा त्वं ज्ञात्वेङ्गितचेष्टितम् ।
पृष्ट्वा वृत्तान्तमखिलं कृत्यं जानीहि यत्क्षमम् ॥ ५ ॥
सुग्रीवेणेत्यभिहिते हनुमान्पवनात्मजः ।
प्रययौ ब्राह्मणवपुर्योगेन रघुनन्दनौ ॥ ६ ॥


१. ‘कुलः’ ख.

स तावुवाच कान्तेन गम्भीरेण महौजसा ।
कथितोदग्रवृत्तान्त१७२ च यशसामथ तेजसाम् ।
नयनग्राहिणी सत्यमियमात्मदशाकृतिः ॥ ८ ॥
सूर्याचन्द्रमसौ व्योम्नि शक्रोपेन्द्रौ त्रिविष्टपे ।
युवां परं यदि वने नरनारायणावृषी ॥ ९ ॥
दूतोऽहं वानरपतेः सुग्रीवस्य महौजसः ।
सचिवो हनुमान्नाम प्रीत्यर्थं समुपागतः ॥ १० ॥
श्रुत्वैतदमृताखादमधुरं राघवो वचः ।
तथ्यं स्मरन्दनोर्वाक्यं लब्धां सीताममन्यत ॥ ११ ॥
ततो न्यवेदयत्सर्वं लक्ष्मणो रामशासनात् ।
कुलं नाम च वैदेहीहरणं च हनूमते ॥ १२ ॥
दनुना कथितो ह्यस्य सुग्रीवः कार्यसिद्धये ।
सोऽयं शरण्यो लोकानां सुग्रीवं नाथमिच्छति ॥ १३ ॥
सुखं शेते भुजबलं यस्याश्रित्य शचीपतिः ।
सीताविरहितः सोऽयं रामः संश्रयमिच्छति ॥ १४ ॥
लक्ष्मणेनेति कथितं निशम्य पवनात्मजः ।
ताभ्यामेव सह प्रायात्स्वालयं हर्षनिर्भरः ॥ १५ ॥
ततो रामं स्थितः सालस्याविदूरे कपीश्वरः ।
सुपुष्पितवनैकान्ते भ्रमरैरुपकूजिते ॥ १६ ॥
तस्यैकां पर्णबहुलां शाखां छित्त्वा सुपुष्पिताम् ।
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥ १७ ॥
ताबासीनौ तथा दृष्ट्वा हनूमानपि लक्ष्मणम् ।
सालशाखां समानीय विनीतं स न्यवेशयत् ॥ १८ ॥
ततो विदितवृत्तान्तस्तद्गिरा प्लवगाधिपः ।
फणीव वल्कलं जीर्णं भयं तत्याज वालिजम् ॥ १९ ॥

उपसृत्य स संप्राप्तो रामं प्रीतिपुरःसरः ।
दंष्ट्रांशुपुष्पितमुखं प्रोवाच रचिताञ्जलिः ॥ २० ॥
हनूमता मे कथिता गुणाभरणता तव ।
आत्मानं बहु मन्येऽहं सफलं त्वत्समागमात् ॥ २१ ॥
अहो नु जीवितं श्लाघ्यं ममेदं यद्भवान्मया ।
अभिगम्याधिगम्योऽपि स्वयं सख्यं समीहते ॥ २२ ॥
अयं मे प्रसृतः पाणिः पाणिमालम्बते तव ।
दृशोः परिणतं पूर्वं सौगन्धं संप्रवर्तताम् ॥ २३ ॥
सुग्रीवस्येति वचसा रामेण प्रीतिशालिना ।
पीडिते पाणिना पाणौ हनुमान्वह्निमादधे ॥ २४ ॥
सख्यं राघवसुग्रीवौ कृत्वा पावकसाक्षिकम् ।
प्रहृष्टौ मित्त्रलाभेन तस्थतुर्हृष्टमानसौ ॥ २५ ॥
इति सुग्रीवसख्यम् ॥ १ ॥

ततः प्रोवाच काकुत्स्थं प्रह्वः प्लवगपुंगवः ।
दंष्ट्रांशुभिर्गुणाबद्धां प्रीतिमामन्त्रयन्निव ॥ २६ ॥
प्रियावियोगतप्तस्य तव राघव दुःसहम् ।
दुःखं ममापि संचारि करोति हृदये पदम् ॥ २७ ॥
अधुना त्यज्यतां शोकः प्रत्ययो यदि मद्रािम् ।
विपुले स्कन्धपीठेऽस्मिन्भारोऽयं मे निधीयताम् ॥ २८ ॥
सत्यं सीतां तव गिरा रसातलगतामपि ।
उद्धरामि हतारातिर्वराह इव मेदिनीम् ॥ २९ ॥
सीता दृष्टा हृतास्माभिर्दशास्येन विहायसा ।
क्रोशन्ती राम रामेति करुणं लक्ष्मणेति च ॥ ३० ॥
चतुर्भिः सचिवैः सार्धं स्थितं मां वीक्ष्य सा गिरौ
मुमोच रुचिरं वासो माल्यमाभरणानि च ॥ ३१ ॥
रुचिरा रावणस्याङ्कात्स्रस्तेयं भूषणावलिः ।
चक्रे नीलाभ्रसंदर्भभ्रष्टचक्रायुधभ्रमम् ॥ ३२ ॥

इत्युक्त्वा वानरपतिश्चारु वस्त्रं सभूषणम् ।
अदर्शयद्गुहान्यस्तं रामाय मणिभास्वरम् ॥ ३३ ॥
राघवोऽपि तदादाय विन्यस्य निबिडं हृदि ।
क्व प्रियेति विलप्योच्चैर्निपपात महीतले ॥ ३४ ॥
चिरेण संज्ञामासाद्य बाष्पसंरुद्धलोचनः ।
सोऽभवद्धननीहारपटच्छन्न इवांशुमान् ॥ ३५ ॥
स शोकामर्षसंतापपिशुनं निःश्वसन्मुहुः ।
सुग्रीवमूचे सुगतः कां दिशं दशकंधरः ॥ ३६ ॥
सोऽब्रवीन्न दिशं तस्य स्थानं वा पापकर्मणः ।
जाने किंतु तमन्वेष्टुमश्रान्तोऽयं ममोद्यमः ॥ ३७ ॥
गगने भुवि पाताले स्थलेऽथ सलिलेऽपि च ।
स्थितस्यापि दशास्यस्य मत्सेना पृष्ठपातिनी ॥ ३८ ॥
विक्रमस्यैव कालोऽयं शोकस्यावसरोऽत्र कः ।
त्वद्विधा यदि शोचन्ति तत्का मम धृतेर्गतिः ॥ ३९ ॥
क्व विपन्निङ्गगावेगनिष्कम्पाः साधुभूधराः ।
क्व वैक्लव्यकुटुम्बिन्यो मोहध्वान्तनिशाः शुचः ॥ ४० ॥
विवेकविपदालोकमतयः शास्त्रलोचनाः ।
न मूढसुलभस्यास्य शोकस्यायतनं बुधाः ॥ ४१ ॥
स्वाधीने पौरुषोत्साहे त्वदधीने रिपुक्षये ।
आज्ञाधीनेषु चास्मासु कोऽयं चित्तविपर्ययः ॥ ४२ ॥
इति सुग्रीववचनं निशम्य रघुनन्दनः ।
मुखमुन्मृज्य वस्त्रेण धैर्येण च मनोमणिम् ॥ १३ ॥
उवाच तथ्यमुक्तोऽहं बन्धुना सुहृदा त्वया ।
कृतं नाम सुहृत्कार्यं कुर्वते यद्भवद्विधाः ॥ ४४ ॥
दुःखे विवेकवक्तारः सुखे विनयवादिनः ।
पुण्यभाजां भवन्त्येव सुहृदो हृदयप्रियाः ॥ ४५ ॥

अधुना त्वदधीनं मे कृतं प्रणयवत्सल ।
अन्वेषणे सुररिपोर्यत्नस्तूर्णं विधीयताम् ॥ ४६ ॥
जाने तव हृतं राज्यं भ्रात्रा निकृतिचेतसा ।
तत्कृत्यसंविभागेन धन्योऽयं क्रियतां जनः ॥ ४७ ॥
एते ममाप्रतिहता निहतारातिमण्डलाः ।
कार्तिकेयवने जाताः शराः शिखरिभेदनाः ॥ ४८ ॥
इति रामवचः श्रुत्वा सुग्रीचो हर्षनिर्भरः ।
अभिनन्द्यास्य सौहार्दमुवाच प्रणयानतः ॥ ४९ ॥
तदैव संपदां सत्यं यातो भाजनतामहम् ।
यदैव मे गुणोदारः प्रसादाभिमुखो भवान् ॥ ५० ॥
आर्या तव स्थिरा मैत्त्री गुणैकग्राहिणी सताम् ।
खलानां दोषसाराणां प्रीतिः श्रीरिव चञ्चला ॥ ५१ ॥
धनं परिच्छदं भोगाञ्जीवितं सर्वमेव वा ।
प्रतिपन्नास्त्यजन्त्येव परार्थे विमलाशयाः ॥ ५२ ॥
कान्तिः सुधाकरस्येव दिनभर्तुरिव प्रभा ।
तवेयं सहजा सत्यं प्रणयिप्रतिपन्नता ॥ ५३ ॥
अभग्नविक्रमो वाली विश्रुतो भुवनत्रये ।
विकलाः किल संकल्पा यज्जये जयिनामपि ॥ ५४ ॥
स भिनत्ति महाशैलान्बलजिज्ञासया बली ।
अवमत्य मुहूर्तेन संध्यायां सप्त सागरान् ॥ ५५ ॥
दुःसहो महिषाकारः पुरा दुन्दुभिदानवः ।
जगच्चचार युद्धार्थी बलिनं नाससाद च ॥ ५६ ॥
स महोदधिमभ्येत्य ययाचे युद्धमुद्धतम् ।
तमूचे जलधिर्भीतो युद्धार्हस्ते हिमाचलः ॥ ५७ ॥
स तुषाराचलं गत्वा शृङ्गपातैः खुराञ्चनैः ।
विषमैः कायकाशैश्च चकाराकुलशेखरम् ॥ ५८ ॥


१. ‘वत’ख. २. ‘मन्ये’ क-ख.

ततोऽभिविग्नः शैलेन्द्रः क्षणं ध्यात्वा तमब्रवीत् ।
दुन्दुभे न क्षमस्तेऽहं नियुद्धे बलशालिनः ॥ ५९ ॥
किष्किन्धायां कपिपतिर्वाली नामास्ति दुर्मदः ।
युद्धश्रद्धां स ते वीर क्षणेन क्षपयिष्यति ॥ ६० ॥
इत्युक्तः शैलराजेन किष्किन्धामेत्य दुन्दुभिः ।
तदादिष्टमुपवनं व्यधाद्भग्नद्रुमं हरेः ॥ ६१ ॥
तत्कोपादथ तं वाली समाकृष्याचलोपमम् ।
व्यसुं चकार यस्यैतत्कङ्कालमिह दृश्यते ॥ ६२ ॥
कस्यचित्त्वथ कालस्य दुन्दुभेः पूर्वजः सुतः ।
स्त्रीहेतोर्वैरमापेदे मायावी नाम वालिना ॥ ६३ ॥
स रजन्यां समभ्येत्य किष्किन्धां युद्धलालसः ।
विदधे प्रलयाम्भोदघोषैर्भुवनसंभ्रमम् ॥ ६४ ॥
ततस्तूर्णं स निष्पत्य कोपाविष्टे ममाग्रजः
तं कालरूपिणं दैत्यं मया सह समाद्रवत् ॥ ६५ ॥
प्लवगेन्द्रं समालोक्य संरम्भावेगदुःसहम् ।
त्रस्तो दुद्राव मायावी चन्द्रालोकविलोकितः ॥ ६६ ॥
वालिनाभिसृतो वेगान्मया सह मनोजवः ।
तृणजालवृतं घोरं विवेश विपुलं वनम् ॥ ६७ ॥
मां निधाय बिलद्वारे पश्चाद्वाली विवेश च ।
तस्मिन्प्रविष्टे विवरं साग्रः संवत्सरो ययौ ॥ ६८ ॥
ततोऽहं शङ्कितो भ्रातृवियोगव्याकुलाशयः ।
अपश्यं रुधिरावेगं सफेनं निर्गतं बिलात् ॥ ६९ ॥
भ्रातरं निहतं मत्वा पतितः शोकसागरे ।
निष्प्रतीकारवैलक्ष्यप्राणत्यागोत्सुकोऽभवम् ॥ ७० ॥
ततोऽहं सचिवैरेत्य स्थितिविप्लवशङ्कितैः ।
राज्येऽभिषिक्तोऽस्मि ततो मुक्तभ्रातृवधव्यथः ॥ ७१ ॥

कालेन हत्वा पाताले वाली मायाविनं रणे ।
ददर्शाभ्येत्य मां राज्ये स्थितं कोपानलाकुलः ॥ ७२ ॥
स मया पूर्ववत्प्रीत्या विनयेनाभिपूजितः ।
प्रणयं मे न जग्राह किल्बिषात्कलुषाशयः ॥ ७३ ॥
राजा त्वमेव दासोऽहं न राज्ये मे स्पृहाभवत् ।
इत्युक्तोऽपि मया प्रीत्या प्रसादं मयि नाययौ ॥ ७४ ॥
मिथ्याकलङ्ककलिला लीला स्निग्धजनाशये ।
सर्वथा दैवविहिता विदेशा केन वार्यते ॥ ७५ ॥
सोऽब्रवीत्सचिवान्सर्वान्भ्रात्रानेन दुरात्मना ।
सक्तस्य मे रिपुवधे शिलया पिहितं बिलम् ॥ ७६ ॥
अविज्ञाताशयेनेति साधुमध्ये विगर्हितः ।
विक्रीत इव मूकोऽहमभवं व्यथितः परम् ॥ ७७ ॥
कर्मणा सदृशे दोषे निर्दोषस्यापि लक्ष्यते ।
अदृश्यैव पुनः शुद्धिः केन प्रत्युत्तरक्रिया ॥ ७८ ॥
ततोऽहमेकवसनो हृतदारधनः पुरात् ।
निर्वासितः परिचितैश्चतुर्भिः सचिवैः सह ॥ ७९ ॥
सोऽहं मिथ्यानिकारेण निरस्तः शौर्यशालिना ।
वालिना निवसाम्यस्मिन्मतङ्गाश्रमकानने ॥ ८० ॥
पुरा स दुन्दुभिं हत्वा रक्तार्द्रं तत्कलेवरम् ।
चिक्षेप पादाङ्गुष्ठेन योजनं विजयोर्जितः ॥ ८१ ॥
तावता वक्त्रनिसृताः स्फारा रुधिरबिन्दवः ।
मतङ्गस्याश्रमे पेतुः पवनावर्तनर्तिताः ॥ ८२ ॥
तच्छापाद्वानरपतेरगम्योऽयं महाचलः ।
येनास्मिन्विगताशङ्कास्तस्मिन्नपि रिपौ वयम् ॥ ८३ ॥


१. ‘पवाद’ ख. २. ‘लीला स्निग्धजनस्य च’ क-ख. ३. ‘वद कामेन’ स. ४. ‘विक्रीड’ ख.

शुष्कास्थिनिचयः कायः सोऽयमास्तेऽत्र दुन्दुभेः ।
विभ्रष्टः शैलशिखरादिव प्रालेयसंचयः ॥ ८४ ॥
एते सप्त महातालाः शरेणैकेन वालिना ।
विद्धाः प्रवृद्धवयसा निःसाराश्च कृताः पुरा ॥ ८५ ॥
माला हेममयी दत्ता पित्रा शक्रेण तस्य सा ।
यस्याः प्रभावात्सततं युद्धेषु स गतक्लमः ॥ ८६ ॥
सौहार्दे प्रणयादुच्चैर्वैमुख्यं मयि मा कृथाः ।
स कथं भवता युद्धे जेतुं शक्यः शरैः सखे ॥ ८७ ॥
सुग्रीवेणेति कथिते शुष्कं दुन्दुभिविग्रहम् ।
पादाङ्गुष्ठेन चिक्षेप रामोऽपि दशयोजनम् ॥ ८८ ॥
तद्दृष्ट्वा कर्म रामस्य साश्चर्यमपि वानरः ।
उवाच भूतभयदं चिन्तयन्वालिविग्रहम् ॥ ८९ ॥
खेदो यदि न मद्वाक्ये विस्रम्भप्रणयो यदि ।
आर्द्रोऽयं वालिना क्षिप्तः शुष्कत्वे कास्य तुल्यता ॥ ९० ॥
शरेणैकेन विद्वेषु त्वया तालेषु सप्तसु ।
सर्वथा वालिहन्तारं जाने त्वां छिन्नसंशयः ॥ ९१ ॥
इति वालिवैरोपाख्यानम् ॥ २ ॥
श्रुत्वेति सुग्रीववचश्चापमाकृष्य राघवः ।
शरं चिक्षेप निर्वृत्तघोषेणापूरयन्दिशः ॥ ९२ ॥
स सप्त तालान्निर्भिद्य रामचापच्युतः शरः ।
गिरिं भित्त्वा क्षितितलं विवेशाहिरिव श्वसन् ॥ ९३ ॥
कृत्वातिदुष्करं कर्म हसो भूत्वा मनोजवः ।
राममेवाजगामाशु स कौतुककरः शरः ॥ ९४ ॥
ततः कृत्वाञ्जलिं मूर्ध्ना क्ष्मां स्पृशन्पृथुविस्मयः ।
परीक्षालज्जितो राममूचे हृष्टः कपीश्वरः ॥ ९५ ॥
सप्ततालभिदा व्यक्तं विशिखेनाशुगामिना ।
नीतं तव यशः सप्तलोककर्णावतंसताम् ॥ ९६ ॥

अधुनैव हतः शत्रुः सोदरव्यञ्जनः स मे ।
निःसंशयोदयप्राप्तो मयायं त्वत्समाश्रयः ॥ ९७ ॥
परीक्षालाधवकृतं मन्युं मे मा कृथा विभो ।
यथोक्तकारिणः प्रीत्या व्यसनार्तेषु साधवः ॥ ९८ ॥
पराभवोद्धृतौ यत्नः क्रियतामद्य मे त्वया ।
भवन्तु वालिसुहृदो विपन्नविभवोत्सवाः ॥ ९९ ॥
इति ब्रुवाणं सुग्रीवं परिष्वज्य जयोत्सुकम् ।
सितांशुपुष्पां काकुत्स्थः सफलां गिरमाददे ॥ १०० ॥
अद्यैव गत्वा किष्किन्धां नादेनाहूय वालिनम् ।
आकर्णाकृष्टचापस्य कुरु मे दृष्टिगोचरम् ॥ १०१ ॥
अयं मे वह्निदीप्तोऽपि त्वत्प्रियायोद्यतः शरः ।
यातु वालिवधूबाष्पदुर्दिने वारुणास्त्रताम् ॥ १०२ ॥
राघवेनेत्यभिहिते सुग्रीवः प्रययौ पुरः ।
किष्किन्धामुद्धतगतिस्तं रामोऽनुजगाम च ॥ १०३ ॥
ततो ननाद मन्थाद्रिध्वानधीरं प्लवङ्गमः ।
चिरं चकम्पिरे येन दिशः स्वस्ताम्बरा इव ॥ १०४ ॥
तेन शब्देन महता प्रौढोन्मादविषाकुलः ।
निर्ययौ मन्दिराद्वाली बिलादिव महोरगः ॥ १०५ ॥
स सुग्रीवं पुरो दृष्ट्वा विपुलक्रोधविस्मयः ।
गाढं भुजाभ्यां जग्राह चिरात्प्रियमिवागतम् ॥ १०६ ॥
तयोर्युद्धमभूद्घोरं कम्पिताखिलभूतलम् ।
जानुबन्धभुजाकर्षकरास्फालनकर्कशम् ॥ १०७ ॥
तस्मिन्क्षितिधराम्भोधिक्षोभकारिणि संगरे ।
भयमाविरभूद्धोरं भूतानां क्षयशङ्किनाम् ॥ १०८ ॥
तौ निर्विशेषावालोक्य प्रमाणाकृतिविक्रमैः ।
रामः सुहृद्वधभयान्न मुमोच शिलीमुखम् ॥ १०९ ॥


१.‘प्रभो’ ख. २. ‘सुहदं’ ख. ३. ‘भय’ ख.

ततः प्रहारभग्नाङ्गः सुग्रीवो वालिनिर्जितः ।
जगाम जीविताकाङ्क्षी त्वरितं निजकाननम् ॥ ११० ॥
घोराभिघाताभिहतो रुधिरोद्गारमूर्छितः ।
ऋष्यमूकतटे श्रान्तः सोच्छ्वासो निषसाद सः ॥ १११ ॥
ततः सानुजमायान्तं हनूमत्प्रमुखैः सह ।
रामं जगाद सुग्रीवः क्षणमालोकयन्क्षितिम् ॥ ११२ ॥
अहो मे हीनभाग्यस्य विफलस्त्वत्समाश्रयः ।
विपरीतमिदं जातं पीयूषादिव मे विषम् ॥ ११३ ॥
मिथ्या वालिवधोद्योगः किं गृहीतः स्वयं त्वया ।
हृदये शल्यमादत्ते प्रतिश्रुतिविपर्ययः ॥ ११४ ॥
न्यस्तस्त्वया मृत्युमुखे कस्मादहमुपेक्षितः ।
सोऽयमालम्बनच्छेदः कृतः कूपावपातितः ॥ ११५ ॥
इति ब्रुवाणं सुग्रीवं रामो लज्जानताननः ।
उवाच कोपमात्सर्यकारणं शृणु मे सखे ॥ ११६ ॥
युद्धे युवां मया दृष्टौ सदृशाभरणाम्बरौ ।
तुल्यप्रमाणवर्णाङ्गस्वरालोकनचेष्टितौ ॥ ११७ ॥
अतोऽयं त्वद्वधभयान्मया वज्राग्रदारुणः ।
अमोघपाती न त्यक्तः सत्यं प्राणहरः शरः ॥ ११८ ॥
अधुना प्रत्यभिज्ञायै पुंनागकुसुमोज्ज्वलाम् ।
मालां कुरु विशालोरस्तटव्योमसुरापगाम् ॥ ११९ ॥
एषोऽहं धनुरप्येतदयं मृत्युकरः शरः ।
वालिनो निधने रामः किं पुनः पुनरुच्यते ॥ १२० ॥
इति रामस्य वचसा सुग्रीवोरसि लक्ष्मणः ।
नागपुष्पमयीं मालां चक्रे कान्तास्मितोज्वलाम् ॥ १२१ ॥
स तया विबभौ भाविविजयव्यञ्जनस्रजा ।
शुभ्राभ्रमालाभरणः श्रीमानिव सुराचलः ॥ १२२ ॥


१. ‘मुत्सार्य’ स्यात्.

ततः प्रतस्थे सुग्रीवः किष्किन्धां राघवानुगः ।
तारेण नलनीलाभ्यां सह वायुसुतेन सः ॥ १२३ ॥
इति सुग्रीववालियुद्धम् ॥ ३ ॥
ते व्रजन्तः समुत्तीर्य सरिद्गिरिवनावनिम् ।
ददृशुर्नीलजीमूतश्यामलं कदलीवनम् ॥ १२४ ॥
कस्येदमिति रामेण पृष्टः कपिपतिर्वनम् ।
गच्छन्नेव शशंसास्य पुण्यं चारु सदाफलम् ॥ १२५ ॥
अत्र सप्तजना नाम मुनयोऽन्तर्जलव्रताः ।
सप्तभिर्वत्सरशतैः सशरीरा दिवं गताः ॥ १२६ ॥
पुण्योऽयमाश्रमस्तेषामगम्यः पक्षिणामपि ।
दृश्यते होमधूमोऽत्र दिव्यश्च श्रूयते ध्वनिः ॥ १२७ ॥
देशः पुण्यः प्रणम्योऽयमेतदाकर्ण्य राघवः ।
मनसा मुनिचक्रं तद्ववन्दे स तपोवनम् ॥ १२८ ॥
किष्किन्धामथ संप्राप्य काञ्चनाट्टालमालिनीम् ।
घोरं ननाद सुग्रीवः पुष्करावर्तनिःस्वनः ॥ १२९ ॥
तेनाकम्पितविश्वेन शब्देनाकम्पकारिणा ।
अभूदभूतसंभूतो भूतानां कम्पविप्लवः ॥ १३० ॥
किष्किन्धाद्रिगुहागेहसक्तकिंनरकामिनाम् ।
बभूवोद्भ्रान्तदयितागाढलिङ्गनविभ्रमः ॥ १३१ ॥
तं शब्दं पवनस्कन्धसंघट्टस्फालनोद्धतम् ।
शुश्रावान्तःपुरगतो वाली मधुमदाकुलः ॥ १३२ ॥
स तस्य ललनाकेलिवल्लरीकुसुमाकरः ।
मदः क्वापि ययौ नादक्रोधाविष्कृतचेतसः ॥ १३३ ॥
कोपेन ज्वलितः क्षिप्रं कल्पान्तहुतभुक्प्रभः ।
बभार विश्वसंहारव्यापारपिशुनं वपुः ॥ १३४ ॥


१. ‘तत्र’ ख. २. ‘युधः’ शा०.

तं निष्पतन्तं वेगेन सुग्रीवाह्वानदुःसहम् ।
तारा तारापतिमुखी परिष्वज्य प्रियावदत् ॥ १३५ ॥
शुभ्रावपातसचिवं संत्यक्तक्रोधविप्लवम् ।
केवलं धैर्यमालम्ब्य कर्तुमर्हसि सांप्रतम् ॥ १३६ ॥
न जल्पन्ति न शृण्वन्ति न कुर्वन्त्यपरीक्षितम् ।
विचाररुचिरा लोकाः साधवो दीर्घदर्शिनः ॥ १३७ ॥
समः समस्तजन्तूनामपि क्रोधमदोदयः ।
विचाराभिहतावेगः सतां न कुरुते पदम् ॥ १३८ ॥
निरस्तः संयुगे भग्नः स तथापि तवानुजः ।
निराशः केन दर्पेण पुनर्योद्धुमिहागतः ॥ १३९ ॥
अवश्यं संश्रयस्तेन प्राप्तो नीतिमता स्थिरः ।
कुतोऽन्यथा नवस्तस्य प्रसह्य त्वज्जयोद्यमः ॥ १४० ॥
अभिभूतो बलवता रिपुर्बलवदाश्रयः ।
नवप्रभावदर्पेण नाहत्वा विनिवर्तते ॥ १४१ ॥
सुग्रीवेणाश्रितो धन्वी रामो दशरथात्मजः ।
शौर्यशीलो दयाम्भोधिरिति मामङ्गदोऽवदत् ॥ १४२ ॥
बलिना संधिमिच्छन्ति युध्यन्ते हीनशक्तिना।
सदा तुल्यमुपेक्षन्ते श्रीकामा विजिगीषवः ॥ १४३ ॥
जितोऽपि पुनरायातः शङ्के जीवितनिःस्पृहः ।
सहसापातिना दीपः पतङ्गेनापि हन्यते ॥ १४४ ॥
भ्राता संभाव्यतामेष राघवश्च प्रसाद्यताम् ।
प्रणामेनापि भूपानां स्थाने विभवरक्षणम् ॥ १४५ ॥
प्रियावचनमाकर्ण्य वाली विगतसाध्वसः ।
उवाच निःश्वसन्प्रौढकोपस्मितसिताननः ॥ १४६ ॥
भग्नग्रीवोऽपि सुग्रीवो गतश्चेत्पुनरागतः ।
शौर्यशाली कथं वाली सहते तत्पराभवम् ॥ १४७ ॥


१. ‘धैर्यण शा०.

न नाम निधनं दुःखं जातोऽवश्यं विपद्यते ।
सजीवमेव मरणं मानभङ्गो हि मानिनाम् ॥ १४८ ॥
शूराः शत्रुयशःशुभ्रकर्मपाटनलम्पटाः ।
परप्रणाममलिनं भुञ्जते विभवं कथम् ॥ १४९ ॥
नास्ति रामेण मे युद्धं सुग्रीवः संगरे पुनः ।
प्रयास्यत्येव भग्नाङ्गः स वध्यो मम नानुजः ॥ १५० ॥
इत्युक्त्वा वलितग्रीवः परिष्वज्य प्रियाप्रियः ।
अपुनर्दर्शनायैव तारामामन्त्र्य निर्ययौ ॥ १५१ ॥
स सुग्रीवं समासाद्य दृष्ट्वा निष्कम्पमोजसा ।
विस्मितो मुष्टिनाभ्येत्य जघान घनगर्जितः ॥ १५२ ॥
तन्मुष्टियुद्धमभवज्जगतां कम्पकारणम् ।
घोरशब्दं शिलाघातैस्तयोः पर्वतयोरिव ॥ १५३ ॥
गाढप्रहाराभिहतौ तौ स्फाररुधिरारुणौ ।
बभतुः किंशुकाशोकौ फुल्लाविव रणाङ्गणे ॥ १५४ ॥
ततो सालेन सुग्रीवो वालिनं हेममालिनम् ।
अताडयत्क्षितौ येन सोऽपि शैल इवापतत् ॥ १५५ ॥
तूर्णमुत्थाय सुग्रीवं कुपितः स बलोत्कटः ।
दोर्भ्यामादाय विदधे मृत्योः कवलनोचितम् ॥ १५६ ॥
संकटे वर्तमानं तं दूरादालोक्य राघवः ।
रुधिरोद्गारिणं भेजे सुहृन्निधनसंशयम् ॥ १५७ ॥
स संधाय शरं घोरं कालदंष्ट्रोत्कटाननम् ।
स्वर्गारोहणसोपानं विससर्जाशु वालिने ॥ १५८ ॥
स तेनाभिहतो वेगान्निपपात महीतले ।
जगतां दुर्निमित्ताय भ्रष्टः सूर्य इवाम्बरात् ॥ १५९ ॥
स दृष्ट्वा रुधिरष्ठीवी राघवं गद्गदस्वरः ।
ऊचे संस्तभ्य कृच्छ्रेण जीवितच्छेदिनीं व्यथाम् ॥ १६० ॥

मामन्यरणसंसक्तं त्वया हत्वा यशस्विना ।
राम त्यक्तार्यवृत्तेन किं नाम सुकृतं कृतम् ॥ १६४ ॥
आत्मानमनुशोचामि न तारां चारुलोचनाम् ।
हते मयि हतो मन्ये प्रियः पुत्रो ममाङ्गदः ॥ १६२ ॥
इत्युक्त्वा श्वासतरलप्राणः संचारनिःस्पृहः ।
मुहूर्तं निश्चलस्तस्थौ वाली मीलितलोचनः ॥ १६३ ॥
इति वालिवधः ॥ ४ ॥
तस्मिन्निपतिते वीरे प्रवरे सत्त्वशालिनाम् ।
तं देशमाययौ रामः शनैः सौमित्त्रिणा सह ॥ १६४ ॥
तं वीक्ष्य वाली प्रोवाच किंचिदुन्मील्य लोचने ।
स्रस्तं भारमिवासक्तां हेममालां परामृशन् ॥ १६५ ॥
कुले महति जातस्य गुणिनः सत्त्वशालिनः ।
न कामादार्य मर्यादाविध्वंसी धीः प्रवर्तते ॥ ४६६ ॥
राम एव सदाचारः सर्वभूतहिते रतः ।
कथमेकपदे नष्टमिति मे विषदं यशः ॥ १६७ ॥
औचित्यचारुचरिते शङ्का मे नाभवत्त्वयि ।
विपन्नघाती काकुत्स्थ इति कस्याशये स्पृशेत् ॥ १६८ ॥
लोकेषु रुचिरा कीर्तिराचारः पुनरीदृशः।
दम्भध्वजानां जानाति को नु मिथ्याविनीतताम् ॥ १६९ ॥
पातकं मैथिलीलाभलोभेन भवता यदि ।
अविचार्य कृतं राम तत्रापि श्रूयतामिदम् ॥ १७० ॥
संध्यासमाधौ सप्ताब्धिचारिणा रावणः पुरा ।
कक्षायां स मया क्षिप्तः सीतां तव जहार यः ॥ १७१ ॥
सुग्रीवसेवारजसा मिथ्यैवासि कलङ्कितः ।
तमहं रावणं बद्ध्वा किं न दद्यां तव प्रियाम् ॥ १७२ ॥


१. ‘हासिनीम्’ शा०. २. ‘महतः’ शा०. ३. ‘मर्यादाध्वंसे चेतः’ शा०. शा०. ५. ‘प्रच्छन्नपापी शा०.

उचितं मन्निजभ्राता सुग्रीवः श्रियमश्नुते ।
नोचितं यत्सतां मार्गाद्रामः प्रीत्या परिच्युतः ॥ १७३ ॥
इत्युक्तो वानरेन्द्रेण रामः किंचिदधोमुखः ।
उवाच घर्षणामन्युप्रलीनकरुणाकणः ॥ १७४ ॥
अहो बतात्यधर्मस्य गतिं जानासि वानर ।
भ्रातृजायारतः पाप किं साधुरिव भाषसे ॥ १७५ ॥
अन्यस्य दोषं पश्यन्ति सुसूक्ष्ममपि तत्पराः ।
स्वनेत्रमिव नेक्षन्ते स्वदोषं मलिना जनाः ॥ १७६ ॥
भ्रातृजायारतवधो नाधर्मो मम रूपतः ।
राजदण्डविशुद्धानां गतिः सुकृतिनामिव ॥ १७७ ॥
राजानो मृगयाशीलास्त्वं च शाखामृगो मया ।
निहतः कानने हिंस्रस्तत्र का नाम वा च्युतः ॥ १७८ ॥
राघवेनेत्यभिहिते चिन्तयन्भवितव्यताम् ।
वाली विगलितक्रोधः क्षम्यतामित्युवाच तम् ॥ १७९ ॥
ततः श्रुत्वा हतं तारा वालिनं भुजशालिनम् ।
अग्रे कृत्वाङ्गदं पुत्रं शोचन्ती तूर्णमाययौ ॥ १८० ॥
स समभ्येत्य दयितं परिष्वज्यायतेक्षणा ।
दुःखाब्धिमग्ना प्रोवाच सृजन्ती बाष्पदुर्दिनम् ॥ १८१ ॥
अहो नु रामवाणेन जीवितं हरता तव ।
अदृश्यपातिना दूराद्दारितं हृदयं मम ॥ १८२ ॥
उन्मील्य नयने नाथ शिशुं पश्याङ्गदं सुतम् ।
दीर्घप्रवासिनः पुत्रदर्शनं ते पुनः कुतः ॥ १८३ ॥
सततं कण्ठनिहितां हेममालामिमां प्रियाम् ।
स्वर्गस्त्रीसंगमव्यग्रः कथं मामिव नेक्ष्यसे ॥ १८४ ॥
दृष्टिः प्रसादमधुरा पुत्रप्रणयिनी क्व ते ।
प्रेमामृतमयः क्वासौ दयितासंगमोत्सवः ॥ १८५ ॥


१. ‘यन्निजभ्रातुः’ शा०. २. ‘सुधा’ शा०.

२४

रुमा यदि हता भार्या सुग्रीवस्य प्रिया त्वया ।
ततः प्राणैः कृता शुद्धिर्निर्दोषा त्वहमांहता ॥ १८६ ॥
वीर मानोन्नतग्रीव सुग्रीवाग्नौ निवेश्य माम् ।
भ्रातृशोणितसंसिक्तां भजस्व विपुलां श्रियम् ॥ १८७ ॥
पत्यौ समस्तसंकल्पकल्पवृक्षे तिरोहिते ।
पिता बन्धुः सुतो भ्राता निष्फलः किल योषिताम् ॥ १८८ ॥
सीता यदि हृता सर्वैरेकीभूतैः सुरासुरैः ।
तत्प्राप्तिप्रवरो वाली राम किं नाश्रितस्त्वया ॥ १८९ ॥
वैदेहीविरहे शापं वितरामि न ते सती ।
किं तु प्राप्तामपि चिरं न सीतामुपभोक्ष्यसे ॥ १९० ॥
अहो रागान्धमनसामविवेकपरिप्लवः ।
सुग्रीवः संश्रयो येषां वाली येषां वधोचितः ॥ १९१ ॥
अहो रामस्य मोहो वा दैवं वा वालिनः परम् ।
चूतश्छिन्नः श्रितो निम्बः पान्थेन क्रियतेऽत्र किम् ॥ १९२ ॥
इति प्रलापिनी तारा तारेव गगनच्युता ।
क्षितौ पपात च्छिन्नाग्रहारमुक्ताश्रुवर्षिणी ॥ १९३ ॥
तां तथा शोकविवशां क्रोशन्तीं करुणस्वनाम् ।
सपत्नीभिर्वृतां वृद्धः प्रोवाचान्तःपुराधिपः ॥ १९४ ॥
कष्टं शक्रसुतो वाली शक्रतुल्यः क्षयं गतः ।
मुग्धे किं क्रियते धात्रा देहिनो न स्थिराः कृताः ॥ १९५ ॥
अस्मिन्नित्यमविच्छिन्ने दीर्घे संसारवर्त्मनि ।
गच्छन्प्रियः प्रियस्यापि न मुहूर्तं प्रतीक्षते ॥ १९६ ॥
प्रियाणामप्रियाणां च जगतो जीवितस्य च ।
अवश्यं निधनं ज्ञात्वा कः शोकः कर्तुमर्हति ॥ १९७ ॥
शोच्यं शोचति नामासौ यः परेण न शोच्यते ।
शोचत्यासन्ननाशोऽपि सेयमन्धपरम्परा ॥ १९८ ॥

तरङ्गभङ्गुरा भोगा दृष्टनष्टा विभूतयः ।
धनं यौवनमायुश्च नित्यशोकस्य किं शुचा ॥ १९९ ॥
भूतानामनुभूतानां संभूतानां क्षयः क्षणे ।
प्रियाणां च प्रयातानां न शोकात्पुनरागमः ॥ २०० ॥
इति वृद्धे वदत्यस्या न शोकस्तनुतां ययौ ।
वियोगहृतचित्तानामुपदेशः क्व भेषजम् ॥ २०१ ॥
इति ताराप्रलापः ॥ ५ ॥
वाली लोचनमुन्मील्य विलोक्याङ्गदमग्रतः ।
रामसुग्रीवमुख्यानामुवाच शनकैः परः ॥ २०२ ॥
न जीवितपरित्यागदुःखं स्पृशति मे मनः ।
शोकोऽयं यन्न पश्यामि चन्द्रमन्ध इवात्मजम् ॥ २०३ ॥
भ्रातः सुग्रीव कारुण्याज्जीर्णं मन्युं निरस्य मे ।
पुत्रः पाल्योऽङ्गदः प्रीत्या सोऽयं भृत्यस्तवाधुना ॥ २०४ ॥
शिरश्चरणयोः पुत्र सुग्रीवस्य कृपावतः ।
क्षिप क्षितिपतेरस्य विनयेनैव जीवसे ॥ २०५ ॥
हेमपद्ममयीं मालां शक्रदत्तामिमां मम ।
दिव्यां गृहाण सुग्रीव मूर्तामिव नृपश्रियम् ॥ २०६ ॥
एतत्प्रभावान्नाद्यापि निर्गच्छन्त्यसवो मम ।
इत्युक्त्वा तां ददौ तस्मै मालां कमलपुष्कराम् ॥ २०७॥
प्रियाप्रलपितं शृण्वन्नङ्गदन्यस्तलोचनः ।
आलिङ्ग्यैवावनिं वाली ततस्तत्याज जीवितम् ॥ २०८ ॥
अङ्गदोऽथ ससुग्रीवः प्रवरैः सह वानरैः ।
वालिनः साग्निसंस्कारां चकार सलिलक्रियाम् ॥ २०९ ॥
रामाज्ञया ततस्तूर्णं छत्त्रव्यजनलाञ्छनः ।
अभिषेकोत्सवः सज्जः सुग्रीवस्य बभौ पुरः ॥ २१० ॥


१. ‘प्रभूतानां ख. २. ‘मुपायोगस्त्व’ क. ३. ‘कनक’ शा०.

अभिषिक्तेऽथ सुग्रीवे जाम्बवत्प्रमुखैः स्वयम् ।
यौवराज्यश्रियं भेजे राघवस्य गिराङ्गदः ॥ २११ ॥
ततः प्रावृषमालोक्य राघवः समुपस्थिताम् ।
निःसंचारोचितं कालं ज्ञात्वा सुग्रीवमब्रवीत् ॥ २१२ ॥
अहं वर्षाक्षयाकाङ्क्षी तटे माल्यवतो गिरेः ।
निवसामि त्वमप्यस्मान्कृत्यकाले समेष्यसि ॥ २१३ ॥
इति सुग्रीवमामन्त्र्य सीताविरहनिःसहः ।
सौमित्त्रिणा सह ययौ रामः प्रस्रवणं गिरिम् ॥ २१४ ॥
इति सुग्रीवाभिषेकः ॥ ६ ॥

इति श्रीक्षेमेन्द्रविरचिते रामायणकथासारे किष्किन्धापर्व ।


??

ततः पयोधरव्यूहैर्विततं विबभौ नमः ।
हरहुंकारदग्धस्य धूमैरिव मनोभुवः ॥ १ ॥
कदलीकुञ्जगर्भेषु तालतालीवनेषु च ।
वराहगजयूथेषु लीनेवासीद्धनच्छविः ॥ २ ॥
ततः पुष्पभुवः कीर्णा बभुर्जलकणैर्नवैः ।
अब्धिलब्धाम्बुभिर्मेघैर्मुक्तैर्मुक्ताफलैरिव ॥ ३ ॥
अथ निःसूत्रसंचारहारा धाराधरश्रियः ।
धाराधरा वने पेतुः परिहारा धृतेरिव ॥ ४ ॥
इन्द्रायुधप्रभापुञ्जैः प्रेनृत्तैश्च शिखण्डिभिः ।
घनानां च वनानां च स्पर्धेवासीत्परस्परम् ॥ ५ ॥
ववुर्विरहसंतापपिशुनाः शीकरानिलाः ।
निःश्वासा इव रामस्य करुणाश्रुकणाकुलाः ॥ ६ ॥
शिखण्डिताण्डवे गर्जत्पर्जन्यमुरजोर्जिते ।
बभार घननीहारः प्रवेशपटविभ्रमम् ॥ ७ ॥


१. ‘पर्वतै’ शा०,

प्रशातपतिता घर्षबिन्दुभिः सहतारकाः ।
विद्युद्दीपैर्जलधराः समन्वेष्टुमिवोद्यताः ॥ ८ ॥
महिषाः पल्वलोत्तीर्णा वर्षाक्षालितकर्दमाः ।
क्षितौ बाल्यान्निपतिताश्चेरुर्मेघसुता इव ॥ ९ ॥
द्विपाः सभृङ्गदंष्ट्राग्रभिन्नसंसक्तपुष्कराः ।
बभ्रमुर्वर्षकलुषा मूर्ताः पद्माकरा इव ॥ १० ॥
कष्टं विदलितोऽस्माभिः संमदे पतितः शशी ।
इत्येव मेघाश्चक्रन्दुः फुल्लामालोक्य केतकीम् ॥ ११ ॥
कृत्वाभिसारिका धौतनेत्राञ्जनवृताननाः ।
प्रययुश्चन्द्रविद्वेषाद्वैरपानमिवाम्बुदाः ॥ १२ ॥
खे बभ्राम बलाकाली दिग्वधूहसितच्छटा ।
मेघनष्टमिवान्वेष्टुं निशानाथं कुमुद्वती ॥ १३ ॥
श्यामां कदम्बकुसुमसितां पीनपयोधराम् ।
प्रौढां प्रावृषमालोक्य रामः सौमित्त्रिमब्रवीत् ॥ १४ ॥
दिवाकरकरापीतं देवानाममृतं परम् ।
एते वर्षन्ति विषदा जलदा विषसंहतिम् ॥ १५ ॥
निम्नोन्नतसमीभूते सलिलैः स्थगिताः पथि ।
प्रोषितानां प्रियासङ्गा जयोद्योगाश्च भूभृताम् ॥ १६ ॥
मेघजालेन संरुद्धः शोकेनाहमिवांशुमान् ।
न दृश्यते शशिकला जानकीव सितस्मिता ॥ १७ ॥
एष फुल्लार्जुनः श्रीमान्कदम्बरुचिरो गिरिः।
अभिषिक्तोऽम्बुदैः स्निग्धैः सुग्रीव इव शोभते ॥ १८ ॥
भान्तिमेघाम्बुसंसिक्तास्तमालकबरीभराः ।
रजोविमुक्ताः ककुभः स्नेहस्नाता इवाङ्गनाः ॥ १९ ॥
कालः कालः प्रिया दूरे मार्गाश्च जलनिर्गमाः ।
चिरं न सहते चेतः किमन्यज्जीवितं गतम् ॥ २० ॥


१. ‘प्रसाद’ शा०. २. ‘द्ययुः शा०. ३. ‘भूताना’ शा..

यथोक्तकारी सुग्रीवः कालेऽस्मिञ्जलसंकुले ।
सहसोद्योगयात्रायां मिथ्यैवायास्यते कथम् ॥ २१ ॥
वनवासपरिक्लिष्टं तं चिरावाप्तवल्लभम् ।
वक्तुं स्वकार्यं तात्पर्यादकाले कथमुत्सहे ॥ २२ ॥
उपकारफलं तुल्यं देहीति विगतत्रपः ।
यो वक्ति निजमौचित्यं लुनीते स्वकरेण सः ॥ २३ ॥
स मे प्रियावियुक्तस्य ज्ञात्वा जीवितसंशयम् ।
प्रियं प्रियस्य सुहृदः स्वयमेव करिष्यति ॥ २४ ॥
इति कृच्छ्रेऽप्यनौचित्यविमुखं राघवानुजः ।
राघवस्य वचः श्रुत्वा तथेति प्रत्यपद्यत ॥ २५ ॥
इति प्रावृड्वर्णनम् ॥ १॥

निःसपत्नं निजं राज्यं प्राप्य प्लवगपुंगवः ।
बभूव वल्लभासक्तो राज्यं संत्यज्य मन्त्रिषु ॥ २६ ॥
तं विस्मृतसुहृत्कार्यं दयितारतिलालसम् ।
उवाच हनुमानेत्य दंष्ट्रांशुविषदाननः ॥ २७ ॥
साधवः पदमासाद्य विपुलं विपुलाशयाः ।
संपदं बहु मन्यन्ते मित्त्रोच्छिष्टसुखोत्सवाम् ॥ २८ ॥
रत्नभूम्यादिलाभानां मित्रलाभो महोदयः ।
आत्मकार्यं न कुरुते मित्त्रकार्यं करोति यः ॥ २९ ॥
इमां प्राणपणेनापि श्रियमिच्छन्ति मानिनः ।
सुहृदामुपकाराय द्विषतां विग्रहाय च ॥ ३० ॥
व्यवहारे सदाचारं मित्त्रं विभवसंभवे ।
शक्तौ परोपकारं च स्मरन्ति सुकृतोचिताः ॥ ३१ ॥
गुणः साधोर्बहुगुणः पात्रे दानमिवोज्ज्वलम् ।
अकृतज्ञो विनष्टोऽसौ बीजमुप्तमिवोषरे ॥ ३२ ॥
अल्पमप्युपकारं च मेरुतुल्यं स्मरन्ति ये ।
विस्मरन्त्यपकारं च धन्या श्रीस्तत्समागमात् ॥ ३३ ॥

राघवेण कृतं यत्ते राघवो यत्करोति ते ।
तत्कार्यकालो यात्येष तब लज्जाकरः परः ॥ ३४ ॥
प्राणपीडामपि चिरं सहते विरहार्दितः ।
स्वयं न प्रेरयत्येव सत्त्वमौचित्यसागरः ॥ ३५ ॥
दुष्करेष्वपि कार्येषु परेषां सततोदिताः।
खकार्याभ्यर्थनादैन्यमौनिनो मानिनः परम् ॥ ३६ ॥
रामस्य कृत्यं कुरुते निःसंख्या हरिवाहिनी ।
वयं विधेयास्त्वं नाथः किमन्यज्जृम्भतां यशः ॥ ३७॥
समीरणसुतस्येति वचः श्रुत्वा कपीश्वरः ।
संदिदेशातुलबलं नीलं सेनासु नायकम् ॥ ३८ ॥
कपीनां विपुलं सैन्यं शैलद्वीपान्तचारिणाम् ।
निःशेषं मे समायातु पूर्णमासी परोऽवधिः ॥ ३९ ॥
सप्तरात्रमतिक्रम्य दृश्यते यस्य नागमः ।
राजदण्डहतेनायं लोकस्तेन न दृश्यते ॥ ४० ॥
इति सर्वान्समादिश्य प्लवगान्प्लवगेश्वरः ।
विवेशान्तःपुरं कान्तासंभोगालिङ्गनोत्सुकः ॥ ४१ ॥
अथ गौरीपतिगलश्यामले जलदागमे ।
वृत्ते बभूव रामस्य शरद्विरहशोकदा ॥ ४२ ॥
वृष्टिच्छेदविभक्तासु दिक्षु नीले नभस्तले ।
कान्तिर्जगाम जनतानयनानन्दबन्धुताम् ॥ ४३ ॥
याते जलधरासारे रोम बाप्पावशेषताम् ।
हंसा सचामरस्फारा विवभुः कमलाकराः ॥ ४४ ॥
हंसैः सप्तच्छदैः काशैः कुमुदैश्चन्द्ररश्मिभिः ।
दिशः शुभ्रीकृता जग्मुः काकुत्स्थस्यैव कालताम् ॥ ४५ ॥
शिखण्डिकेकाः कटुतां प्रियतां हंसनिःस्वनाः ।
ययुः खावसरे सर्वः प्रायेण जनरञ्जकः ॥ ४६ ॥


१. ‘इति’ शा०, २. ‘नाम’ क. ३. ‘मत्ततां’ क.

विबोधितेषु पझेपु भृङ्गमङ्गलपाठकैः ।
श्रीः संचचार शिजानकलहंसकनू पुरा ॥ ४७ ॥
कालसिंहेन महता दारितेष्वभ्रदन्तिषु ।
कुम्भमुक्ताप्रकरतां खे ययुस्तारतारकाः ॥ ४८ ॥
सप्तच्छदेषु नीपेषु पनसेष्वसनेषु च ।
बन्धुजीवेषु च शरल्लीनेव समलक्ष्यत ॥ ४९ ॥
वने मौनव्रतास्तस्थुर्वीतरागाः शिखण्डिनः ।
सदाचारा विचार्येव संसारविशरारुताम् ॥ ५० ॥
विसाङ्कुररसादम्बुबिम्बितेन्दुकलाकृतौ ।
जहसुः कुसुमैर्वाप्यो हंसमुंद्धतकर्दमम् ॥ ५१ ॥
व्याकीर्णकेशराकारकिरणार्कोरुकर्णिकम् ।
खं स्त्रस्तशुभ्राभ्रदलं जरत्कमलतां ययौ ॥ ५२ ॥
गलिताम्बुदुकूलेषु तटेषु जघनेष्विव ।
राजहंसनखोल्लेखास्तन्वीनां सरितां बभुः ॥ ५३ ॥
दारितानां शरद्ध्याध्या सूर्यांशुनखरैः खरैः ।
रक्तं मेघवराहाणां बन्धुजीवेष्विवापतत् ॥ ५४ ॥
कुमदोत्करसंक्रान्तरजःकर्पूरपाण्डुरः ।
ययौ गजेषु भृङ्गौघः कर्णचामरचारुताम् ॥ ५५ ॥
निशाः शशाङ्कविषदाः फुल्लसप्तच्छदा दिशः।
वभुः परस्परं सख्यः सनर्महसिता इव ॥ ५६ ॥
इति शरद्वर्णनम् ॥ २ ॥
हंसहासां शशिमुखीं फुल्लोत्पलबिलोचनाम् ।
कान्तां शरदमालोक्य रामः सौमित्रिमभ्यधात् ॥ ५७ ॥
इयं सा साधुसेवेव संपूर्णफलशालिनी ।
भाति सज्जनमैत्रीव शरद्विमलमानसा ॥ ५८ ॥


१. रूपेषु’ क. २. ‘विसाङ्कुरे’ इति भवेत्.. ३. ‘कुमुदै ख. ४. ‘उद्धत्य’ शा०-ख.

अगस्त्यस्योदयेनैया निर्विषं कुरुते विषम् ।
शरत्कस्मादकस्मान्मे विषं वर्षति दुःखिनः ॥ ५९ ॥
वरं शरन्न ते प्रावृड्वरं प्रावृण्न मे शरत् ।
इति मिथ्यैव संकल्पः सर्वमार्तस्य दुःसहम् ॥ ६० ॥
सीतासमागमोपाये सुहृत्सुचिरचिन्तितः ।
आशाबन्ध इवाद्यापि सुग्रीवो मे न दृश्यते ॥ ६१ ॥
गेयं कर्णे गले मालां प्रियामङ्के मुखे सुराम् ।
कृत्वा विहरति व्यक्तं स मत्कार्यपराङ्मुखः ॥ ६२ ॥
लटभाभोगसौभाग्यविभवानुभवोत्सवम् ।
परकार्यानुरोधेन त्यक्तमुत्सहते नु कः ॥ ६३ ॥
कथं त्यजति सुग्रीवः प्रियां कण्ठावलम्बिनीम् ।
पुनर्नैवोपयुक्तस्य ममार्थे स्वार्थपण्डितः ॥ ६४ ॥
खकार्यतात्पर्यवतां परार्थश्लथचेतसाम् ।
सुखार्थे त्यक्तमानानां निन्द्यं जन्म दुरात्मनाम् ॥ ६५ ॥
अयाचितोपकाराणां प्राणैरप्युपकारिणाम् ।
महात्मनां भवत्येव परचिन्ताकुलं मनः ॥६६॥
पूर्वोपकारिणां पापाः सुहृदां ये पराङ्मुखाः ।
क्रव्यादा अपि मांसेषु सत्यं तेषां पराङ्मुखाः ॥ ६७ ॥
पदस्था विषमस्थानां मित्राणां न भवन्ति ये ।
आयासिता तैर्जननी गर्भभारेण केवलम् ॥ ६८ ॥
मम प्रियाविहीनस्य मूढबुद्धेः परायणम् ।
किष्किन्धां त्वमितो गत्वा सुग्रीवं वद लक्ष्मण ॥ ६९ ॥
चत्वारो वार्षिका मासा याता मम वियोगिनः ।
कथमद्यापि न वयं याताः स्मृतिपथं तव ॥ ७० ॥
अहो नु विस्मृतवचाः सुहृत्कार्यपरिच्युतः ।
स्त्रीणामपि मुखं स्पष्टं निर्लजः कथमीक्षसे ॥ ७१ ॥


१. ‘तव स्मृतिपथं गताः’ शा०,

वैक्रस्यानेकजिह्वस्य भोगमात्राभिमानिनः ।
कस्य नोद्वेगजननी सखे तव भुजंगता ॥ ७२ ॥
तदेवेदं धनुर्दीप्तं स एवायं शिलीमुखः ।
वालिनं यदि ते द्रष्टुं मतिर्जाता तदुच्यताम् ॥ ७३ ॥
इति भ्रातुर्वचः श्रुत्वा लक्ष्मणस्तप्तमानसः ।
तमुवाच व्रजाम्येष चपलस्य कपेः पुरीम् ॥ ७४ ॥
तमार्य त्यक्तमर्यादं सौजन्यव्यञ्जनं शठम् ।
वक्ष्यन्ति तव संदेशं ममैते निशितेषवः ॥ ७५ ॥
इति क्रोधानलेद्धस्य लक्ष्मणस्योत्कटं वचः ।
रामः श्रुत्वा तमवदद्विचारव्यस्तमानसः ॥ ७६ ॥
सौमित्रे मा क्रुधस्तस्मै स एवास्त्वपवादभाक् ।
सन्तः कृतापराधेऽपि प्रसादमधुराशयाः ॥ ७७ ॥
प्रणयात्सुहृदित्युक्तः सकृदप्युचिताशयैः ।
कालेन दृष्टदोषोऽपि नार्हत्येव विमाननाम् ॥ ७८ ॥
अनार्यमार्यवृत्तेन सत्येनावृत्तकारिणम् ।
रिपुमप्युपकारेण वशीकुर्वन्ति साधवः ॥ ७९ ॥
अल्पेऽपि दोपे प्राणेपु दण्डो यैर्विनिपात्यते ।
प्रकृतिस्थाः प्रसादे ये कृच्छ्रा तैः सह संगतिः ॥ ८० ॥
दोषग्रहणदक्षाणां विरज्यन्ते सुहृज्जनाः ।
मिथ्याभिमानस्तब्धानां लुब्धानामिव सेवकाः ॥ ८१ ॥
इति भ्रात्रा समादिष्टः सौमित्रिर्निःश्वसन्ययौ ।
किष्किन्धां वानरभुजस्तम्भसंभारदुर्गमाम् ॥ ८२ ॥
संप्राप्य विद्रुमस्तम्भरत्नप्राकारतोरणाम् ।
नगरीं सूर्यपुत्रस्य सुग्रीवस्य प्रभामिव ॥ ८३ ॥
क्रोधोद्धतगतिः पादन्यासकम्पितभूतलः ।
विवेश गणयन्वीरान्प्लवगाङिरिविग्रहान् ॥ ८४ ॥


1:“वक्रस्या’ इति स्यात्, २. ‘प्रायेण शा०.

तं कोपादधिकाताम्रलोचनं सज्जकार्मुकम् ।
संरम्भाप्तायुधास्तूर्णं कपयः पर्यवारयन् ॥ ८५ ॥
ते तस्य क्रोधदीप्तस्य कल्पान्तदहनद्युतेः ।
अशक्ताः संमुखे स्थातुं दुद्रुवुर्विगतप्रभाः ॥ ८६ ॥
स ददर्श निशानाथकान्तिसंतानतस्करम् ।
स्फाटिकं हेमहोर्म्योचशृङ्गं सुग्रीवमन्दिरम् ॥ ८७ ॥
द्वारान्तिकमुपेत्याथ वेणुवीणामृदुखनैः ।
एकीकृतं स शुश्राव गीतं किंनरयोषिताम् ॥ ८८ ॥
गीतमन्तःपुरे श्रुत्वा सुग्रीवस्य विलासिनः ।
रामं च दुःखितं स्मृत्वा रुपा जज्वाल लक्ष्मणः ॥ ८९ ॥
प्रकोपदुःसहे तस्मिन्संनद्धानां महौजसाम् ।
वानराणां बलैर्धोरैर्निरुद्धे राजवर्त्मनि ॥ ९० ॥
ज्याघोषं सिंहनादं च कृत्वा ब्रजन्पुनः पुनः ।
पुरद्वारे स शुश्राव यौवराड् वालिनन्दनः ॥ ९१ ॥
लक्ष्मणो वानरान्दृष्ट्वा वाच्यमानो महाभुजः ।
सुग्रीवं नलनीलं च क्षयं तेषामवैत्पुरीम् ॥ ९२ ॥
तद्वाक्यादङ्गदस्तूर्णं सुग्रीवस्य तमागतम् ।
न्यवेदयदतिक्रुद्धं क्षयोद्यतमिवान्तकम् ॥ ९३ ॥
क्षुभ्यत्कपिवलाम्भोधिशब्देन व्योमसर्पिणा ।
तारया च सुखासक्तः सुग्रीवः प्रतियोधितः ॥ १४ ॥
हनुमन्चलनीलाद्यैः सुषेणविनताङ्गदैः।
लक्ष्मणागमनोद्विमः स मन्त्रिभिरचिन्तयत् ॥ ९५ ॥
तमूचे वायुतनयः संदेहान्दोलिताशयम् ।
सर्वथा प्रणिपत्यैव प्रसाद्यो राघवानुजः ॥ ९६ ॥
कान्ताप्रणयकोपेषु सुहृदां च प्रसादने ।
शोभते महतामेव विनयावनतं शिरः ॥ ९७ ॥


१. ‘कुर्वन्प्रायात्’ शा० २. ‘युवराड्’ स्यात्,

पूर्वोपकारिणा यत्ते रामेण सुहृदा कृतम् ।
अल्पा प्रतिकृतिस्तस्य तदर्थे जीवितव्ययः ॥ ९८ ॥
उपवत्सत्यं भारायते सताम् ।
यावत्प्रत्युकारकणस्तापकारेण न स तेनैव तारितः ॥ ९९ ॥
श्रुत्वैतन्मारुतसुतेनोक्तं तपननन्दनः ।
उवाच सत्यमुचितं कथितं भवता हितम् ॥ १० ॥
इदं तु नाभिजानामि यत्क्रुद्धः किल लक्ष्मणः ।
न मयोक्तं कृतं वापि मोहात्किंचिदसांप्रतम् ॥ १०१ ॥
छिद्रप्रवेशिभिर्नूनं द्विजिह्वैरेष मे सुहृत् ।
भेदप्रणिहितैर्जिह्मैर्वाग्विषेणाकुलीकृतः ॥ १०२ ॥
सत्योपलिप्तैरनृतैर्वाक्यैः प्रत्ययकारिभिः ।
दोषदृश्यैकवेशैश्च पैशुन्यं कुर्वते खलाः ॥ १०३ ॥
तूर्णमन्विष्यतां तावत्सौमित्रेः क्रोधकारणम् ।
न ह्यविज्ञातविषये प्रवर्तन्ते प्रतिक्रियाः ॥ १०४ ॥
रामात्तदनुजाद्वापि न भयं विद्यते मम ।
अदोषे कुपितः किं तु तीव्रशोककरः सुहृत् ॥ १०५ ॥
अतिकृच्छ्रेण लभ्यन्ते रक्ष्यन्ते च प्रयत्नतः ।
कष्टैर्नेष्टानि साध्यन्ते मित्राणि च धनानि च ॥ १०६ ॥
अवज्ञोपेक्षिते प्रेम्णि संधानं दुष्करं पुनः ।
जतुलेशेन संश्लेषः कथं नु स्फुटिते मणौ ॥ १०७ ॥
त्रुट्यत्यतिशयाकृष्टं हठाश्लिप्टे विपद्यते ।
सौहार्दं कष्टसंधार्यं मृणालीनालपेशलम् ॥ १०८ ॥
एतदेव महदुःखं ममान्तःशल्यदुःसहम् ।
यत्प्रयत्नार्जितं मित्रं मिथ्यादोषेण नश्यति ॥ १०९ ॥
इदं दहति मे चेतो यदयुक्तोपकारिणः ।
जीवतापि न रामस्य पापेनोपकृतं मया ॥ ११० ॥


१. किं नु शा. २. ‘यद्यत्नेनार्जितं’ शा..

इति सुग्रीववचनं निशम्योवाच मारुतिः ।
प्रेमवन्धनसूत्रालीमिव दंष्ट्रांशुभिः सृजन् ॥ १११ ॥
मित्रोपकारविरहव्याकुलस्य गुणोचिता ।
तवैषा शोभते चिन्ता यशःप्रणयदूतिका ॥ ११२ ॥
श्लथाम्बुजस्तनी प्रायः शरद्गलितयौवना ।
दृश्यते न च रामस्य यात्राकाले तवोद्यमः ॥ १.१३ ॥
प्रियाविरहतप्तेन प्रणयात्कुपितेन ते ।
भ्राता विसृष्टो रामेण वीतक्रोधो विधीयताम् ॥ ११४ ॥
इत्युक्तो मन्त्रिणां मध्ये मन्त्रज्ञेन हनूमता ।
तथेत्यूचे कपिपतिः कालातिक्रमलज्जितः ॥ ११५ ॥
अन्तःपुरं प्रविश्याथ लक्ष्मणः शुभलक्ष्मणम् ।
ददर्श रम्यपर्यङ्गे सुग्रीवं दयितासखम् ॥ ११६ ॥
कान्ताकरतलाधूतचामरोदञ्चितांशुकम् ।
सुमेरुमिव संसर्पिचन्द्रांशुधवलाम्बुदम् ॥ ११७ ॥
विराजमानं हारेण जाह्नवीनिर्झरत्विपा ।
मन्दरं सागरोत्तीर्णमिव फेनावलीयुतम् ॥ ११८ ॥
दिव्याभरणसंभारप्रभापटलपाटलम् ।
बालार्कमिव संक्रान्तकामिनीकुचकुङ्कुमम् ॥ ११९ ॥
वल्लभालिङ्गानालग्नकपोलागुरुपल्लवम् ।
पारिजातमिव स्फारिसौरभाहूतषट्पदम् ॥ १२० ॥
विलासमारुतालोलललनावल्लरीयुतम् ।
उद्यानमिव कामस्य मन्दरोद्दामशेखरम् ॥ १२१ ॥
तं भोगसुभगं दृष्ट्वा भ्रातुर्दुःखेन पीडितः ।
भूयो जगाम सौमित्रिः कोपात्कालाग्नितुल्यताम् ॥ १२२ ॥
तं विलोक्यैव सुग्रीवः कृतातिथ्यं पुरोधसा ।
कान्तासखः समुत्तस्थौ संरम्भगलितांशुकः ॥ १२३ ॥


१.‘क्रान्त’.शा..

तं न सेहे हरिर्द्रष्टुं संवित्कालव्यतिक्रमात् ।
चिरं प्रणामव्याजेन वैलक्ष्यविनताननः ॥ १२४ ॥
रुमया सहिता तारा प्रणनाम कृताञ्जलिः ।
नमत्कर्णोत्पलरजोलेखाशवलितस्तनी ॥ १२५ ॥
स्वमेव वदनं पश्यन्संक्रान्तं मणिकुट्टिमे ।
ऊचे हरीन्द्रः सौमित्रिमासनं गृह्यतामिति ॥ १२६ ॥
तं लक्ष्मणोऽवदद्दूताः कृतार्था एव सत्कृतिम् ।
भजन्ते पूजयोच्छिष्टैः किं दूतैः कार्यनिष्फलैः ॥ १२७ ॥
शृणु तावत्कपिपते यत्प्रियाविरहार्दितः ।
संविध्यतिक्रमक्रुद्धस्त्वामाह रघुनन्दनः ॥ १२८ ॥
हन्तोचिता तवैवेयं शाखामृग कृतघ्नता ।
येनात्मसुखलुब्धेन विप्रलब्धः सुहृज्जनः ॥ १२९ ॥
कुलं खजनमात्मानं सुकृतं च निहन्ति यत् ।
तदसत्यं कथं नाम तव वल्लभतां गतम् ॥ १३० ॥
ऐश्वर्यविषसंदर्भमूर्छामीलितलोचनः ।
प्रियानपि न पश्यन्ति सुहृत्स्वजनबान्धवान् ॥ १३१ ॥
कृतघ्नः सर्वभूतानां वध्यः सर्वात्मना कपे ।
न स्मरत्यचलं स्फूर्जमुपकारं निगीर्य यः ॥ १३२ ॥
अस्ति विप्रवधादीनां पापानां महतामपि ।
निष्कृतिर्न कृतघ्नानामित्युवाच प्रजापतिः ॥ १३३ ॥
धौता हरजटाजूटभ्रष्टगङ्गाजलैरपि ।
कृतघ्नधारणमलं मही मन्ये न मुञ्चति ॥ १३४ ॥
इति त्वामाह सुग्रीव रामः सत्यपराक्रमः ।
येन वालिवधे न्यस्तः शोकः कोपपदे द्विषाम् ॥ १३५ ॥
अहो नु स्त्रीप्रधानस्य समदस्य प्रमादिनः ।
विस्मृतं मित्रकार्ये ते मूर्खस्येव सुभाषितम् ॥ १३६ ॥

संत्यक्तसर्वकार्याणां प्रशान्तनिजतेजसाम् ।
स्त्रीप्रणामपरिम्लानमानं धिग्जन्म रागिणाम् ॥ १३७ ॥
गीतेनेव कुरङ्गस्य पतङ्गस्येव तेजसा ।
स्त्रीसङ्गेन तवासन्नः सत्यं नाशः प्लवङ्गम ॥ १३८ ॥
सर्वेषां योषितः सन्ति भोगाः कस्य न वल्लभाः।
किं तु त्वत्सदृशः कोऽस्ति यातं कालं न वेत्ति यः ॥ १३९॥
इति कोपाकुलालापे ब्रुवाणे राघवानुजे ।
तारा ताराधिपमुखी तमूचे वल्गुनादिनी ॥ १४० ॥
नायं लक्ष्मण कोपस्य वचसः परुषस्य च ।
अर्हः सुहृत्कपिपतिः सर्वथा प्रणयी तव ॥ १४१ ॥
तवेन्दुसुन्दरादस्मान्मुखात्कमललोचन ।
वचःस्फुलिङ्गाः पतिताः सत्यं नः कर्मविप्लवात् ॥ १४२ ॥
नासत्यवादी न शठो न कृतघ्नो न दुर्जनः ।
सुग्रीवो रामकार्ये तु योगीव ध्याननिश्चलः ॥ १४३ ॥
अत्युन्नतो महाभोगः श्रीमान्वगुणचामरः ।
रामणैव यशःस्तम्भः कल्पस्थायीकृतः पदे ॥ १४४ ॥
चन्द्रिकाभरणे हर्म्ये कान्ताकुचपुरःसरः ।
सुखं न शेते सुग्रीवस्तप्तः काकुत्स्थचिन्तया ॥ १४५ ॥
पुरा जितेन्द्रियः सोऽपि विश्वामित्रस्तपोनिधिः ।
प्रयातं विपुलं कालं न मेने मेनकारतः ॥ १४६ ॥
विवशास्त्रिदशा यत्र मुनयो यत्र मोहिताः ।
प्रियासमागमे तस्मिन्मनः कस्य न लीयते ॥ १४७ ॥
रिपुक्षयसहायस्ते भ्रातस्ते दयितः सुहृत् ।
यथा रामस्तथैवायं पूज्यः श्रीमान्कपीश्वरः ॥ १४८ ॥
हत्वा दशास्यं समरे सीतामात्य दुर्लभाम् ।
एष प्रदास्यति क्षिप्रं रामस्य प्रीत्युपायनम् ॥ १४९ ॥

को वा रामस्य साहाय्ये पुरः समुपयुज्यते ।
तथापि प्रणयस्यैया वचसि प्रभविष्णुता ॥ १५० ॥
सप्ताव्धिवेलाविश्रान्तशासनस्यास्य शासनात् ।
जगत्कपिमयं सर्वं रामकार्य भविष्यति ॥ १५१ ॥
इति तारावचः श्रुत्वा मधुरं मधुराशयः ।
मृदुस्वभावः सौमित्रिः प्रसादं सहसा ययौ ॥ १५२ ॥
न कस्य गाढसौहार्दं प्रेम प्रणयपेशलम् ।
ललनावदनाम्भोजनिर्गतं वाङ्मधु प्रियम् ॥ १५३ ॥
प्रसन्नवदनं दृष्ट्वा लक्ष्मणं वानरेश्वरः ।
भयं चिन्तां च तत्याज न तु लज्जामनङ्गजाम् ॥ १५४ ॥
स माल्यं कण्ठसंसक्तं रतिसंभोगलक्षणम् ।
छित्त्वा जगाद प्रणतः सौमित्रि मित्रवत्सलः ॥ १५५ ॥
नष्टं यशश्च राज्यं च येन मे पुनराहृतम् ।
कृतं नाद्यापि तत्कार्यं धिङ्मां निष्फलजीवितम् ॥ १५६ ॥
गुणौषैस्तस्य देवस्य शक्तः कर्तुं प्रतिक्रियाम् ।
यस्य सप्तार्णवव्यापि सप्ततालभिदो यशः ॥ १५७ ॥
युधि हेलाहतेनैव विराधेनाविराधितौ ।
प्राज्यौ यस्य भुजस्तम्भौ कबन्धवधवान्धवौ ॥ १५८ ॥
तस्य संग्रामसाहाय्ये व्यग्रस्य मम केवलम् ।
भक्तिमात्रोपकरणं तथाप्येष समुद्यमः ॥ १५९ ॥
मोहाध्यतिक्रमो यश्च स मम क्षम्यतां त्वया ।
न कस्यानेकदोषोऽपि सुहृत्काय इव प्रियः ॥ १६० ॥
इति श्रुत्वा कपिपतेर्वचनं राघवानुजः ।
तमूचे सत्त्वसारस्य सर्वमेतत्तवोचितम् ॥ १६१ ॥
ममार्य शोकतप्तस्य क्षन्तव्यं परुषं त्वया ।
सद्भिः पदप्रहारोऽपि व्यसनार्तस्य सह्यते ॥ १६२ ॥


१. ‘गुणे कस्तस्य शा..

आर्यस्य दैवनिर्दिष्टः सुवृत्तो विषदाशयः ।
दर्पणः सुखदुःखेषु त्वं सुहृत्संमुखः सदा ॥ १६३ ॥
सहायेन त्वयावश्यं सुहृदा रघुनन्दनः ।
अचाप्स्यति हतारातिः सीतां कीर्तिमिव प्रियाम् ॥ १६४ ॥
सखे तूर्णमितो गत्वा प्रौढकोपानलाकुलः ।
यत्नेनाश्वास्यतामार्यस्त्वया निर्दिष्टकारिणा ॥ १६५ ॥
प्रेमपात्रेण सुहृदा दर्शनामृतवर्षिणा ।
दुःखदाहं त्यजत्येव प्रियेणाश्वासितं मनः ॥ १६६ ॥
लक्ष्मणेनेत्यभिहिते तथेत्युक्त्वा हरीश्वरः ।
परिवृत्याननं किंचिदुवाच पवनात्मजम् ॥ १६७ ॥
कुलाचलेषु सर्वेषु समुद्रेषु वनेषु च ।
दिक्षु द्वीपेषु गगने निर्मनुष्यासु भूमिपु ॥ १६८ ॥
ये शैलजलदप्रख्या वसन्ति हरियूथपाः ।
तूर्णमायान्तु ते दूतैस्त्वद्विसृष्टैर्मदाज्ञया!! १६९ ॥
राजाज्ञादूषका ये तु नायान्ति मदमोहिताः ।
शरीरे दुःसहस्तेषां दण्डः क्षिप्रं निपात्यताम् ॥ १७० ॥
इत्युक्ते प्लवगेन्द्रेण हनूमद्वाक्यचोदिताः ।
कपीनां भीमवेगानां कोट्यस्तूर्णं दिशो ययुः ॥ १७१ ॥
इति हनुमध्यादेशः ॥ ३ ॥
उदयास्ताचलशिरःशिखरेभ्यो महीयसाम् ।
कपीनां दश तित्रश्च कोट्यस्तूर्ण समाययुः ॥ १७२ ॥
स्फुरत्केसरताराणां हरीणां हरितेजसाम् ।
शतानि सप्तकोटीनामाययुः स्फटिकाचलात् ॥ १७३ ॥
हिमाद्रिवासिनां दिव्यफलमूलरसाशिनाम् ।
क्षिप्रं कोटीसहस्राणां सहस्रं समुपाययौ ॥ १७४ ॥
भीनानां भीमवेगानां दीप्ताङ्गारकवर्चसाम् ।
सहस्रं कपिकोटीनामाययौ विन्ध्यभूधरात् ॥ १७५ ॥

क्षीरोदकच्छकूलेभ्यस्तमालवनगन्धिनाम् ।
निःसंख्या कपिवीराणां प्रवाहिन्यः समाययुः ॥ १७६ ॥
निरुद्धभास्करालोके प्रसर्पितबलार्णवे ।
हनूमत्प्रेरिता दूतास्ते प्रापुस्तुहिनाचलम् ॥ १७७ ॥
दिव्यानरसनिष्पन्दे यज्ञे माहेश्वरे पुरा ।
फलमूलानि जातानि ते तत्र ददृशुर्मुदा ॥ १७८ ॥
सुधास्वादानि दिव्यानि क्षुत्क्लमापहराणि ते ।
समादाय ययुस्तूर्णं तानि सुग्रीवमण्डलम् ॥ १७९ ॥
निवेद्य वानरेन्द्राय ते तद्दिव्यमुपायनम् ।
प्रथमं वानरचमूं शशंसुः समुपागताम् ॥ १८० ॥
प्रस्तुतोऽथ गिरौ रामं द्रष्टुं हनुमतो गिरा।
भीतभीतोऽभवत्क्षिप्रं दोलालोलाशयः कपिः ॥ १८१ ॥
ततः प्लवगसैन्येन महता प्लवगेश्वरः ।
आरुह्य रत्नशिविकां प्रतस्थे राघवाचलम् ॥ १८२ ॥
स माल्यवन्तमासाद्य सेनासंच्छादिताम्बरः ।
ससर्प रामाभिमुखं पद्भ्यामेव कृताञ्जलिः ॥ १८३ ॥
लक्ष्मणेने युतं दृष्ट्वा सुग्नीवं हनूमन्मुखैः ।
सैन्येन च समायान्तं रामस्तत्याज विक्रियाम् ॥ १८४ ॥
कृतागसि पुरः प्राप्ते सतां मन्युर्विलीयते ।
दर्शनान्तं हि महतां प्रियेषु कलुषं मनः ॥ १८५ ॥
इति सुग्रीवयात्राः ॥ ४ ॥
निवारितसितच्छत्रं दूरविश्रान्तचामरम् ।
मौलिरत्नप्रभासूत्रैरिव बद्धोन्नताञ्जलिम् ॥ १८६ ॥
गाढं दोर्भ्यां परिष्वज्य राघवः सुहृदं प्रियम् ।
समाभाष्य च सामात्यमूचे विश्रम्यतामिति ॥ १८७ ॥


१. ‘द्रष्टुं राम’ शा. २. ‘णानुगतं’ शा..

ततः सुखोपविष्टं तं जगाद रघुनन्दनः ।
अपि विस्मृतमित्रस्य सुखिनः कुशलं तव ॥ १८८ ॥
त्यक्तस्वपरकार्याणां चिरसक्ता विभूतयः ।
राज्ञां भोगाभिभूतानां न भवन्ति भवादृशाम् ॥ १८९ ॥
प्रणयेनैतदुक्तोऽसि क्रियतामधुनोचितम् ।
अनुद्गीर्णो हि वचसा मन्युर्नैवोपशाम्यति ॥ १९० ॥
इति रामस्य वचनं वीतक्रोधो निशम्य सः ।
लब्धाश्वासोऽपि वैलक्ष्यादतिनम्राननोऽवदत् ॥ १९१ ॥
हेलावितीर्णराज्यस्य प्रत्याहृतयशःश्रियः ।
मानद त्वत्प्रसादस्य सर्वदस्यः किमुच्यते ॥ १९२ ॥
असेवाप्रतिपन्नस्य प्रीत्या पूर्वोपकारिणः ।
ये शठा नोपयुज्यन्ते भारैर्मज्जति तैर्मही ॥ १९३ ॥
वयस्यस्यातिदर्पोऽयं भक्तस्येति किमद्भुतम् ।
अधुना मम भृत्यस्य दृश्यतां कार्यगौरवम् ॥ १९४ ॥
इदं प्लवगसैन्यं मे सहसैव समागतम् ।
अतोऽप्यतिगुणं भूरि क्रमेण समुपैष्यति ॥ १९५ ॥
इमे सेनानगा वीरा वयं भृत्याः प्रभुर्भवान् ।
हत्वा दशास्यं त्रैलोक्यजयाय क्रियतां मतिः ॥ १९६ ॥
इत्याकर्ण्य हरीन्द्रस्य विनयाभरणं वचः ।
तं प्रत्युवाच काकुत्स्थः परिष्वज्य कृताञ्जलिम् ॥ १९७ ॥
नैतच्चित्रं तव सखे गुणिनः सत्त्वशालिनः ।
स्वभाव एव महतां परकार्यार्थमुद्यमः ॥ १९८ ॥
धुतिरिन्दोः प्रभार्कस्य दीप्तिर्वह्नेतिर्भुवः ।
सतां च प्रकृतिः सत्यं परकार्यरतं मनः ॥ १९९ ॥
तदैव जानकी लब्धा निहताश्च मयाहिताः ।
यदैव दक्षिणेन त्वं मम धात्रापितः सुहृत् ॥ २०० ॥


१. ‘सुहृदः शा०.

इत्यादरेण सानन्दं ब्रुवाणे रघुनन्दने ।
अपारः कपिसैन्याब्धिरपरोऽपि समाययौ ॥ २०१॥
बालार्कवर्णैर्हेमाभैः शरवर्णैः शशिप्रभैः ।
कोटिसहस्रैर्दशभिर्मेरुकन्दरवासिभिः ॥ २०२ ॥
वीरः शतबलिर्नाम कपिः श्रीमानदृश्यत ।
पिता सुषेणस्तारायाः कोटीनां कोटिभिर्वृतः ॥ २०३ ॥
समाययौ जगद्व्यापी सुमेरुरिव जङ्गमः ।
पिता हनुमतः श्रीमान्केसरी स्फारकेसरः ॥ २०४ ॥
गवाक्षः पनसो धीमान्सन्नादः शरभो गजः ।
रुमण्वानृषभो वीरो गवयो गन्धमादनः ॥ २०५ ॥
वीरौ च मैन्दद्विविदौ कोटीनां कोटिभिर्वृतः ।
मेघागममिवाकाले दर्शयन्तः समाययुः ॥ २०६॥
वीरः पद्मसहस्रेण वृतः शङ्कुशतेन च ।
युवराजोऽङ्गदः श्रीमान्प्रत्यदृश्यत दुर्जयः ॥ २०७ ॥
वृतः कोटीसहस्राभ्यां तारस्तारानुजो वली ।
हनुमांश्च महाभागः सैन्यानां प्रस्थितः पुरः ॥ २०८ ॥
इन्द्रजानुः कपिवरः कपिकोट्या वृतो वरः ।
वृतो द्वादशकोटीभिर्वीरो दधिमुखः कपिः ॥ २०९ ॥
वृतः खर्वसहस्रेण कुमुदः कुमुदप्रभुः ।
एकविंशतिकोटीनामीश्वरश्च दरीमुखः ॥ २१० ॥
विजयो दुन्दुभो रम्भः संपाती जाम्बवान्नलः ।
शतार्चिः शरगुल्मश्च वेगदर्शी महाहनुः ॥ २११ ॥
सुनेत्रोल्कामुखौ चेति वानराः कामरूपिणः ।
प्रत्यदृश्यन्त शैलाभाः प्रकम्पगुरवो भुवः ॥ २१२ ॥


१. ‘पद्मकोट्या समावृतः शा..

रचिताञ्जलयः सर्वे सुग्रीवं प्रणिपत्य ते ।
तदादिष्टेषु देशेषु ससैन्याः समुपाविशन् ॥ २१३ ॥
इति बलागमनम् ॥ ५॥
ततः शासनमादाय राघवस्य हरीश्वरः ।
उवाच विनतं नाम वीरं वानरयूथपम् ॥ २१४ ॥
पूर्वी दिशमितो गत्वा त्वमाखण्डलमण्डिताम् ।
जानीहि रावणहृतां विचिन्त्य जनकात्मजाम् ॥ २१५ ॥
यमुनां यमुनाद्रिं च जाह्नवीं सरयूमपि ।
कौशिकी तमसां नन्दा गोमतीं मागधीं पुरीम् ॥ २१६ ॥
विदेहपुण्डूवङ्गाङ्गकिरातशकबन्धुरान् ।
कर्णप्रावरणाकालमुख्यान्पवन राक्षसान् ॥ २१७ ॥
अन्तर्जलचरान्धोरान्समुद्रद्वीपसंश्रयान् ।
सुवर्णकुड्यपर्यन्तं जम्बूद्वीपस्य भूधरान् ॥ २१८ ॥
शिबिरं नाम गगनासङ्गिशृङ्गं सुरालयम् ।
कालोदकं च जलधिं यत्रालक्ष्याः क्षपाचराः ॥ २१९ ॥
छायाग्रहं ब्रह्मशप्ताः कुर्वन्ति किल देहिनाम् ।
ब्रह्मस्वहारिणः पूर्वं विप्रास्ते नरकं गताः ॥ २२० ॥
वसन्ति तमसि स्फारे सदा क्षुत्क्षामकुक्षयः ।
ततो रक्तजलं नाम समुद्रं घोरदर्शनम् ॥ २२१ ॥
गृहं विहगराजस्य विशालं कूटशाल्मलिम् ।
गोशृङ्गं च महानीलमब्धिमध्यात्समुत्थितम् ॥ २२२ ॥
यत्र शृङ्गनिभा भीमा मन्देहा नाम राक्षसाः ।
शृङ्गेभ्यः सलिले प्रातर्लभन्ते च पतन्ति च ॥ २२३ ॥
ततः शशाङ्कधवलं क्षीरोदममृतास्पदम् ।
यस्य मध्येऽशुमान्नाम जातो रजतभूधरः ॥ २२४ ॥
रजताम्भोजनलिनी रम्यो रजतपादपः ।
दिव्यां सुदर्शनां नाम हेमहंससरोजिनीम् ॥ २२५ ॥

तां सेवन्ते सदा सिद्धः सयक्षोरगकिंनराः ।
ततो घृतोदधिं गत्वा यत्रासौ वडवानलः ॥ २२६ ॥
पयः प्राश्नात्यविरतं क्रोशतां जलवासिनाम् ।
हैमं तस्योत्तरे कूले योजनानि चतुर्दश ॥ २२७ ॥
गिरिं सहस्रशिरसं शेषेणासेवितं स्वयम् ।
उदयाद्रिं ततो गत्वा शृङ्गं सौमनसं ततः ॥ २२८ ॥
वालखिल्यैः परिवृतं त्रिविक्रमपदाङ्कितम् ।
विचित्य निखिलं सीता भवद्भिदृश्यतां सती ॥ २२९ ॥
अतः परमगम्यैव प्राची दिक्तिमिरावृता ।
मासः परोऽवधिः सीतान्वेषणेऽस्मिन्मयोदितः ॥ २३० ॥
शरीरपरमो दण्डस्तदतिक्रमकारिणाम् ।
इत्युक्त्वा विनतं पूर्वं विसज्य दिशमाशुकृत् ॥ २३१ ॥
सोऽब्रवीजाम्बवन्मुख्यान्सनीलाङ्गदवायुजान् ।
भवद्भिर्दृश्यतामाशा दक्षिणा मम दक्षिणैः ॥ २३२ ॥
नर्मदालिङ्गितो विन्ध्यस्ततो वेगवती नदी।
कृष्णवर्णा सवरदा देविका वायुमत्यपि ॥ २३३ ॥
मेकलोत्कलिका जम्बूर्वाहिनी वेत्रवत्यपि ।
दशार्णा निषधाद्याश्च देशाः पुण्डूककोसलाः ॥ २३४ ॥
श्रीखण्डशैलो मलयाः कावेरीवलयोचितः ।
स पाण्ड्यविषयः श्रीमानगम्याश्रममण्डितः ॥ २३५ ॥
ततो विधातुरादेशादतरङ्गो महोदधिः ।
हेमशृङ्गरतटे यस्य महेन्द्रः शक्रसेवितः ॥ २३६ ॥
समुद्रादुद्गतश्चान्यो गिरिश्चन्द्रार्कयोः सुहृत् ।
यस्येन्दुः सेवते शृङ्गं रौप्यं हैमं च भास्करः ॥ २३७ ॥
पारेसमुद्रं विद्युत्त्वान्विश्वकर्मकृतो गिरिः!
उशीरभोजनामा च ततोऽद्रिः काञ्चनद्रुमः ॥ २३८ ॥


१. विदित्वा’ ख. २. ‘निखिले’ शा०,

देहान्तकाले पश्यन्ति तान्वृक्षान्सर्वजन्तवः ।
पितृलोकस्ततो घोरः कान्ता यमपुरी ततः ॥ २३९ ॥
यस्यां कनकवैडूर्यस्तम्भभूरिप्रभा सभाम् ।
धर्मासनगतः श्रीमानध्यास्ते भगवान्यमः ॥ २४० ॥
महर्षेः पुण्यतपसस्तृणाझेराश्रमस्ततः ।
कल्पवृक्षैः परिवृतः स्वर्गणोपेत्य सेवितः ॥ २४१ ॥
विचित्य ज्ञायतां तूर्णं देशेष्वेतेषु मैथिली ।
अतः परमनालोकमसूर्यमजनं जगत् ॥ २४२ ॥
मासोऽस्मिन्नवधिः कार्ये वध्यो मे तद्व्यतिक्रमी ।
हनुमत्स्कन्धविन्यस्तं रामकार्यमिदं महत् ॥ २४३ ॥
ममावश्यं सफलतां यशसा सह यास्यति ।
सुग्रीवस्येति वचनं दृशैकविनिवेशितम् ॥ २४४ ॥
श्रुत्वा रामः प्रियालाभे बवन्धाशां हनूमति ।
स तस्मै निजनामाङ्कं प्रत्ययाय मृगीदृशः ॥ २४५ ॥
पिङ्गरत्नप्रभासङ्गैर्विततारामुलीयकम् ।
वायुपुत्रस्तदादाय सहाङ्गादपुरःसरैः ।
प्रणम्य रामसुग्रीवौ प्रययौ दक्षिणां दिशम् ॥ २४६ ॥
इत्यङ्गुलीयकदानम् ॥ ६॥
ततः सुषेणं सुग्रीवः श्वशुरं सैन्यनायकम् ।
उवाचान्विष्यतामाशा सीतार्थे पश्चिमा त्वया ॥ २४७ ॥
खराष्ट्राभीरवाह्लिकामद्रशूर्पानकादिपु!
पुन्नागकेतकवने शङ्खतालीवनेषु च ॥ २४८ ॥
सिन्धुकेकयकौ वीरसृञ्जयेषु महोदधौ ।
मरीचिपत्तने पुण्ये सिन्धुद्वीपे जले स्थले ॥ २४९ ॥
कन्दरासु सुमेरोश्च सिन्धुसागरसंगमे ।
शतशृङ्गे गिरौ सिंहः सपक्षरुत्कटैर्वृते ॥ २५० ॥


१. ‘दृशैव विनिवेदितम् शा०. २. शृङ्गनाडीवनेषु च शा०.

स्त्रीराज्ये मरुदेशेषु पुण्ये पञ्चनदे ततः ।
काश्मीरमण्डले तक्षशिलायां शाकले पुरे ॥ २५१ ॥
आरट्टवाह्लिकाम्बोजखशचीनवनेषु च ।
मणिमत्पर्वतोद्देशे पश्चिमाब्धौ तथा परे ॥ २५२ ॥
पारियात्रस्य शिखरे गन्धर्वगणदुर्जये ।
समुद्रपादसंजाते चक्रवर्त्यचलोत्तमे ॥ २५३ ॥
यत्र चक्रं सहस्रारं दृश्यते वज्रमण्डलम् ।
सहस्रावर्तकलिले यस्सिन्देशे जनार्दनः ॥ २५४ ॥
हत्वा पञ्चजनं तीव्रं हयग्रीवं च दुःसहम् ।
अवाप पाञ्चजन्याख्यं शङ्खं चक्रं च दीप्तिमत् ॥ २५५ ॥
चराहशैले बिपुले तस्मिन्प्राग्ज्योतिषे पुरे ।
यस्मिन्स नरको नाम घोरो वसति दानवः ॥ २५६ ॥
ततः सहस्रधाराङ्के गिरौ हेमद्रुमेषु च ।
पर्वतानां सहस्रेषु हेमवल्लीतृणेषु च ॥ २५७ ॥
अद्रेः कनकशृङ्गस्य शेखरे भास्करप्रभे।
रत्नप्रासादभवने वरुणेन कृतास्पदे ॥ २५८ ॥
हेमताले च विपुले शैलाभे स्कन्दशेखरे ।
अस्ताचले सहस्रांशुतापप्रोद्भूतपावके ॥ २५९ ॥
द्रष्टव्या रावणहृता भवता जनकात्मजा ।
एतावान्दृश्यते लोको निरालोकस्ततः परः ॥ २६० ॥
जानकीविचये मासः सर्वेषामवधिर्मतः ।
इत्युक्त्वा कपिभूपालः सुषेणं पश्चिमां दिशम् ॥ २६१ ॥
विसृज्याग्रे शतवलं प्रोवाच हरियूथपम् ।
उत्तरां त्वमितो गत्वा दिशं धनदपालिताम् ॥ २६२ ॥
विचित्य सानुगस्तूर्णं जानीहि जनकात्मजाम् ।
तङ्गनानृषिकान्म्लेच्छांस्तुक्खारान्रमणाञ्छकान् ॥ २६३ ॥


१. ‘कानने वने’ शा० शोधितः, क-पुस्तके च. २. ‘नीच’ ख. ३. ‘तुरुष्का’ शा०.

दरदारशैलकुखांश्च दिव्यं धाम हिमाचलम् ।
देवदारुवनोपेतं भूर्जलोभ्रकुटाचितम् ॥ २६४ ॥
कालशैलं हेमगर्भं भूधरं च सुदर्शनम् ।
दिव्यं देवसमं नाम गिरिधातुरसाकरम् ॥ २६५ ॥
असश्चाभूतसंचार खं नदीनंदवर्जितम् ।
शतयोजनविस्तीर्ण संतप्तं सूर्यरश्मिभिः ॥ २६६ ॥
तदतीत्य ततश्चन्द्रसहस्रपरिपाण्डुरम् ।
चन्द्रकान्तभयोत्तुङ्गशृङ्गं स्फटिकभूधरम् ॥ २६७ ॥
पुरी यत्र कुबेरस्य निर्मिता विश्वकर्मणा ।
ततस्त्रिककुभं नाम गिरिं हेमाद्विमानसम् ॥ २६८ ॥
नदी नागह्नदा नाम यस्मात्पुण्या परिस्रुता ।
यस्य शृङ्गत्रयं हेमवैडूर्यरजतोर्जितम् ॥ २६९ ॥
अग्नित्रयमभूदमिहोत्रिणो विश्वकर्मणः ।
सर्वभूताहुतिस्तत्र सर्वमेघो महामखः ॥ २७० ॥
रुद्रेणाकारि येनाभूत्स भूतेशो महेश्वरः ।
यस्माच कुहटा नाम प्रवृत्ता पावना नदी ॥ २७१ ॥
ततः क्रौञ्चगिरिं घोरं विलं सिद्धर्षिसेवितम् ।
सर्वस्य स्वकृतं धाम मैनाकं वर्त्मशेखरम् ॥ २७२ ॥
किंनरीणां निजोद्यानं पुण्यं सप्तर्षिसेवितम् ।
श्रीमान्यत्र कुबेरस्य विभवो मूर्तिमानिव ॥ २७३ ॥
गजः करेणुभिः सार्धं हेमाब्जं गाहते सरः ।
ततस्तमालतालीसलवङ्गतगरोचितम् ॥ २७४ ॥
सुदर्शना हेमनदी रुचिरं गन्धमादनम् ।
ततः कालागुरुश्यामं मन्द्रराद्रिं शुचिहदम् ॥ २७५ ॥
कालकूटामृतस्फारैलिंसं मन्थोदतैरिव ।
यत्र सा घृतपिण्डोदे सरसि ब्रह्मसेविते ॥ २७६ ॥


१. ‘न्वितम्’ ख. २. ‘वन’ शा. ३. दन्लादिरपि शिववाची. ४. ‘रत्न’ ख.

२७

सशब्दा साट्टहासेव दिवः पतति जाह्नवी।
नदी वैतरणी यत्र मांसपङ्कास्थिनिर्भरा ॥ २७७ ॥
रक्तोदका यक्षरक्षःसेविता केशशैवला ।
‘पिशाचोरगगन्धर्वशरीरशकलाकुला ॥ २७८ ॥
स मन्दरमतिक्रम्य धूमकेतुं महीधरम् ।
हैमं शरवनं यत्र कार्तिकेयस्य जन्मभूः ॥ २७९ ॥
उदीच्यां स्वशरा यत्र कपिला वेत्रनिम्नगा।
शैलोदा नाम तटिनी ततो यस्यास्तटद्वये ॥ २८० ॥
वेणवः कीचका नाम व्याक्षेपैस्तारयन्ति ये ।
कुरूनथोत्तरान्दिव्यां नीलां प्राणहरां नदीम् ॥ २८१ ॥
पारे स्वर्गोपमा यस्याः समा मणिमयी मही ।
हेमपद्माश्च पद्मिन्यः कल्पवृक्षाश्च पुष्पिताः ॥ २८२ ॥
यत्र चैत्ररथाभिख्ये बने क्षीरघृतापगाः ।
दिव्यभोगाश्च ललना नित्यसौभाग्ययौवनाः ॥ २८३ ॥
गुहां गुहसहस्राढ्यां ततश्च तिमिरावतीम् ।
यस्यामप्सरसो लीना दृश्यन्ते विविधाद्भुताः ॥ २८४ ॥
तस्य देशस्य रम्यत्वाद्विस्मृतत्रिदशागमाः ।
सुरवारविलासिन्यः शप्तास्ताः शतमन्युना । २८५ ॥
अहन्यहनि नश्यन्ति प्रातः प्रातर्भवन्ति च ।
तस्यां गुहायां घोरायां वसन्ति स्मृतिवर्जिताः ॥ २८६ ॥
ततः सोमगिरि सोमप्रभ रुद्रैः कृतास्पदम् ।
कौतुकाह्रह्मभवनं शृङ्गैर्द्रष्टुमिवोद्गतम् ॥ २८७ ॥
तपोवनं मनोर्यत्र ब्रह्मसूनोः प्रजापतेः ।
शशिस्थानं ततो गत्वा सर्वकामफलप्रदम् ॥ २८८ ॥
यत्र सा राक्षसी घोरा महोलूखलमेखला ।
तं तं विचित्य देशं च ज्ञातव्या जनकात्मजा ॥ २८९ ॥


१. ‘उदेस्य स्वशिरो यत्र कपिलावर्तपाथसि’ शा० ख.

मासावधिव्यपगमे वृध्यास्ते चिरकारिणः ।
इत्यादिश्योत्तरामाशां वीरं शतबलिं विभुः ।
विसृज्य तूर्णमभवन्निर्वृत्तो वानरेश्वरः ॥ २९० ॥
इति दिग्वर्णनम् ॥ ७॥
छादिताशावकाशेषु गतेषु जबशालिषु ।
प्लवगेष्वथ सुग्रीवं प्रोवाच रघुनन्दनः ॥ २९१ ॥
अतो बताखिलो लोकः कथं दृष्टस्त्वया सखे ।
लोकानेतान्विजानाति सूर्यस्त्वं वा तदात्मजः ॥ २९२ ॥
इति पृष्टो वयस्येन व्याजहार कपीश्वरः ।
यदाहं वालिना भ्रात्रा वैरेणाभिसृतः पुरा ॥ २९३ ॥
ततो मनोजवस्तूण देशेष्वेतेषु विद्रुतः ।
इति सुग्रीववचनं रामः श्रुत्वा प्रियोत्सुकः ॥ २९४ ॥
यातानां कपिवीराणां दिनसंख्यापरोऽभवत् ।
याते ततः शनैर्मासे विचित्य विनतः कपिः ॥ २९५ ॥
पूर्वी दिशं जनकजामहष्दैव समाययौ ।
प्रत्यागतः शतवलिस्तथैवान्विष्य चोत्तराम् ॥ २९६ ॥
सुषेणः पश्चिमामाशामनुचित्य न्यवर्तत ।
तेषु प्राप्तेष्वनालोक्य मैथिलीं रघुनन्दनः ॥ २९७ ॥
तब्द्यावृत्तां बबन्धाशामेकीभूतां हनूमति ।
अङ्गदानुगतास्तेऽपि प्लवगा हनुमन्मुखाः ॥ २९८ ॥
रामकार्यदृढोत्साहाः प्रापुर्विन्ध्यभुवं पुनः ।
दुर्गेषु गिरिजालेपु गुहासु गहनेषु च ॥ २९९ ॥
विचित्य सीतां विविशुस्ते वनं निर्मगद्विपम् ।
निर्जने निर्द्वमे तस्मिन्कानने विपुलं तपः ॥ ३०० ॥
घोरो मुनिश्चचारोग्यं दण्डिनामातिकोपनः ।
नष्टस्तसिन्वने तस्य दशवर्षः सुतः पुरा ॥ ३०१ ॥


१. ‘वध्या मे’ ख.

तच्छापादभवत्सर्वं तन्निर्जलमृगद्रुमम् ।
कृच्छ्रणोत्तीर्य तं देशं वनमन्यत्प्रविश्य ते ॥ ३०२ ॥
ददृशुर्घोरमसुरं मारीचतनयं पुरः ।
तमुद्तं महाकायं हन्तुकामं प्लवङ्गमान् ॥ ३०३ ॥
अङ्गदस्तूर्णमाय जघानोरसि मुष्टिना ।
महता वनवेगेन बलिना वालिसूनुना ॥ ३०४ ॥
पपात रुधिरोद्गारगद्गदोगस्वरोऽसुरः ।
तस्मिन्हते तदन्विष्य ते वनं बहुगह्वरम् ॥ ३०५ ॥
उपविश्य परिश्रान्ता रामकार्यमचिन्तयन् ।
तानूचे हनुमान्वीरः कृत्स्नेयं विचिता मही ॥ ३०६ ॥
न तु दृष्टा जनकजा मिथ्यैवायं परिश्रमः ।
परीक्षितानि यत्नेन द्विधा कृत्वा तृणान्यपि ॥ ३०७ ॥
सीता नासादितास्माभिः संपद्भाग्यच्युतैरिव ।
क्रियते किं वृथैवायं निष्फलः कालसंक्षयः ॥ ३०८ ॥
प्राणव्ययेनापि जनैरप्राप्यं प्राप्यते कुतः ।
इति वायुसुतेनोक्ते विचार्यविददङ्गदः ॥ ३०९ ॥
विपुलोद्योगिनामेताः स्वाधीनाः कार्यसिद्धयः ।
उत्साहशक्तिहीनेभ्यः सिद्धोऽप्यर्थः पलाय्यते ॥ ३१० ॥
अदृष्टेष्वन्यदेशेषु द्रष्टव्या जानकी पुनः ।
निष्फलागमनक्रुद्धः सुग्रीवः केन सह्यते ॥ ३११ ॥
अङ्गदेनेत्यभिहिते सोत्साहाः कपियूथपाः ।
हृष्टाः सर्वे तथेत्युक्त्वा विन्ध्यमारुरुहुर्गिरिम् ॥ ३१२ ॥
घने रोध्रवने तस्य सप्तच्छदवनेषु च ।
विचित्य सीतां जग्मुस्ते कन्दरासु दरेषु च ॥ ३१३ ॥
ते गत्वा दूरमध्वानं श्रमतृष्णानिपीडिताः ।
तुल्यं जलं च सीतां च यत्नेन द्रष्टुमुद्यताः ॥ ३१४ ॥

ततः स्निग्धद्रुमच्छन्नं गम्भीरं ददृशुर्विलम् ।
सूचितं हंसचक्राह्नैर्निर्गच्छद्भिर्निरन्तरैः ॥ ३१५ ॥
प्रविश्य जललुब्धास्ते सुधोरतिमिरं विलम् ।
परस्परमवष्टभ्य निःसंज्ञा योजनं ययुः ॥ ३१६ ॥
तृषार्तास्ते समासाद्य कृच्छ्रेणालोकिनीभुवम् ।
मणिहेममयं दिव्यं ददृशुर्भास्वरं पुरम् ॥ ३१७ ॥
तत्र हेमालिनीरम्ये कचत्काञ्चनपादपे ।
दृष्ट्वा हेमासनासीनां तापसीं विस्मयं ययुः ॥ ३१८ ॥
कृष्णाजिनकृतासङ्गप्रोत्तुङ्गकुचकुव्जला ।
खमुखेन्दुप्रणयिना निशीथेनेव सेविता ॥ ३१९ ॥
रुद्राक्षमालिकाव्यग्रं बिभ्रती पाणिपङ्कजम् ।
अलिमालावलयितकल्पवल्लीव पल्लवम् ॥ ३२० ॥
लावण्यशीकरासारैर्नयनामृतवर्षिणी।
सहसास्तंगतस्येन्दोरिव प्रव्रजिता द्युतिः ॥ ३२१ ॥
विसितैर्हनुमन्मुख्यैस्तद्दर्शनगतक्लमैः ।
कासि कस्येति पृष्टैव वभाषे मृदुभाषिणी ॥ ३२२ ॥
मयो मायानिधिः पूर्वं तपसा दानवेश्वरः ।
प्रजापतिवरात्प्राप सर्वमौशनसं धनम् ॥ ३२३ ॥
इह हेममयोद्यानं कृत्वा हेममयं परम् ।
व्रतैरमरतां प्राप्तुं स चिरं यत्नवानभूत् ॥ ३२४ ॥
अथाप्सरसि हेमायां प्रसक्तं रक्तमानसम् ।
निनाय नष्टनियमवश्यतां तत्पुरंदरः ॥ ३२५ ॥
हेमायाः सुरसुन्दर्यास्ततस्तुष्टः प्रजापतिः ।
इदं हेमपुरं दिव्यं प्रददौ रतमन्दिरम् || ३२६ ॥
अहं तु मेरुसावर्णेमनोः पुत्री स्वयंप्रभा ।
इदं रक्ष्यामि भवनं हेमाया दयितासखी ॥ ३२७ ॥

इह मूलफलं दिव्यं भक्षयित्वा गतक्लमाः ।
वदन्तु निजवृत्तान्तं भवन्तस्तत्त्वमूचितम् ॥ ३२८ ॥
इति स्वयंप्रभावाक्यं श्रुत्वा प्लवगपुंगवाः ।
भुक्त्वा पीत्वा च सुखिनः स्ववृत्तान्तं न्यवेदयन् ॥ ३२९ ॥
ततो विस्मृतमार्गास्ते मासमानं बिले स्थिताः ।
ययुः स्वयंप्रभादेशात्कपयो मीलितेक्षणाः ॥ ३३० ॥
शक्रवज्राहतिकृताद्विलात्तस्मात्प्लवङ्गमान् ।
स्वयमुत्तार्य कारुण्यात्सा स्वं प्रत्याययौ पदम् ॥ ३३१ ॥
इति बिलप्रवेशः ॥ ८॥
निजहस्ताग्रसंरुद्धलोचनास्ते विनिर्गप्ताः ।
उन्मील्य नेत्रे शनकैः समुद्रं ददृशुः पुरः ॥ ३३२ ॥
स्फटिकस्तम्भसंभारप्रभैः कल्लोलबाहुभिः ।
प्रभञ्जनसमुद्धूतैर्नभोयातमिवोद्गतम् ॥ ३३३ ॥
तरङ्गतटसंघट्टविस्फुटः शुक्तिसंपुटैः ।
सतारकमिव व्योम हसन्तं व्यक्तमौक्तिकैः ॥ ३३४ ॥
प्रतिबिम्बितशुभ्राभ्रव्यूहेन धवलोदरम् ।
पुत्रं मैनाकमन्वेष्टुं मग्नेनेव हिमाद्रिणा ॥ ३३५ ॥
जलद्विपकरोदीर्णशीकरासारदुर्दिनैः ।
कुर्वाणमौर्वतप्तस्य निर्वापणमिवाम्भसः ॥ ३३६ ॥
विस्फुरन्मकरस्फारस्फालितैर्वीचिसंचयैः ।
दिशां दिशन्तमालोलदुगूलवलनामिव ॥ ३३७ ॥
मुक्तांशुकुसुमैश्चित्ररत्नच्छायाग्रपल्लवैः ।
तरङ्गैरुद्धताप्तं पारिजातशतैरिव ॥ ३३८ ॥
आपूरितं नदीवृन्दैर्निगीर्णं वडवाग्निना ।
नोसिक्तं न परिक्षीणमाशयं महतामिव ॥ ३३९ ॥
सुधासहोदरैर्व्याप्तं शङ्खैः शीतांशुबान्धवैः ।
यशोभिरिव रामस्य हृदयानुप्रवेशिभिः ॥ ३४० ॥

शूत्कारघोरनिर्घोषसलिलावर्तमण्डलैः ।
कुर्वाणमिव कल्पान्तप्रारम्भोंकारविभ्रमम् ॥ ३४१ ॥
पयोभिर्गगनालग्नैः क्षणेन श्वभ्रपातिभिः ।
संपदामिव सुव्यक्तं दर्शयन्तमनित्यताम् ॥ ३४२ ॥
लोलफेनदुकुलाभिः सकम्पैर्वीचिमारुतैः।
तरङ्गिणीभिः प्रौढाभिर्विहितालिङ्गनोत्सवम् ॥ ३४३ ॥
स्फूर्जफेमानिलस्फारपरिवृत्तोदकैः क्षणम् ।
व्योमीकृतनिजाकारं सरिन्नाथीकृताम्बरम् ॥ ३४४ ॥
अपारमप्लवं सारं संसारमिव दुस्तरम् ।
अनेकाश्चर्यमालोक्य ते घोरं मकराकरम् ॥ ३४५ ॥
उपविश्यातिनिर्विण्णाः पाणिन्यस्ताननाः क्षणम् ।
न लेभिरे कपिवराश्चिन्ताब्धिपतिता धृतिम् ॥ ३४६ ॥
इति समुद्रदर्शनम् ॥ ९ ॥
तानङ्गदोऽब्रवीदॄष्ट्वा हेमन्तं प्रत्युपस्थितम् ।
मासोऽस्माकं विले यातः सुग्रीवेन धृतोऽवधिः ॥ ३४७ ॥
अधुना निष्फलक्लेशविनष्टोत्साहसंपदाम् ।
इहैव नस्तपो मन्ये साधुवादोचितं सताम् ॥ ३४८ ॥
इयान्क्लेशो धृतोऽस्माभिर्भर्तृपिण्डोपजीविभिः ।
संसारोच्छित्तये कस्सान्न कृतस्त्यक्तविप्लवैः ॥ ३४९ ॥
सन्तः संतोषशृङ्गस्थास्तृष्णाकल्लोलिनीजले ।
उन्मग्मांश्च निमगांश्च पश्यन्ति जनसंततिम् ॥ ३५० ॥
अथ वा यदि नास्त्येव विवेकः साधुसंमतः ।
तत्सुग्रीवभयं घोरं येनापैति तदुच्यताम् ॥ ३५१ ॥
स हि तीक्ष्णः प्रकृत्यैव रामेण च विवर्धितः ।
प्राणेष्वेवापराधेऽस्मिन्व्यक्तं नः प्रहरिप्यति ॥ ३५२ ॥
यौवराज्यमिदं दत्तं न तेन स्वेच्छया मम ।
किं नु रामस्य वचसा यत्रितेनैतदर्पितम् ॥ ३५३ ॥

अद्य लब्धान्तरः स्पष्टं लोकप्रत्ययकारिणा ।
कार्यनैष्फल्यदोषेण मय्येच प्रहरिष्यति ॥ ३५४.॥
प्राप्यः सदा प्रणामेन प्रभुर्वक्रावलोकिताम् ।
सत्यं विभवमानोऽयमवमानशतैः समः ॥ ३५५ ॥
स जातः प्रथिता यस्य पुण्याः संतोषसंपदः ।
नान्यवक्रावलोकिन्यस्तरुण्यो वा विभूतयः ॥ ३५६ ॥
सत्सु निर्झरझङ्काररम्येषु फलशालिपु ।
वनेषु विभवोग्राणां भ्रूभङ्गः सहते कथम् ॥ ३५७ ॥
धिक्सेवां क्षमतां लक्ष्मीः स्वजनेष्वयमञ्जलिः ।
स्तब्धग्रीवस्य न सहे सुग्रीवस्योत्कटं वचः ३५८ ॥
वियोगरोगैः किं भोगैः किं विप्रियमयैः प्रियैः ।
कि कान्ताभिः क्षणान्ताभिर्यदि मानोन्नतं मनः ॥ ३५९ ॥
उद्वेगमध्या दुःखान्ता विचारविरसाः सदा ।
आयान्त्य एव शोभन्ते वेश्या इव विभूतयः ॥ ३६० ॥
अधुना सर्वदुःखानां कारणं निलयं शुचः ।
शरीरं पातकमिव क्षपयाम्युचितैर्व्रतैः ॥ ३६१ ॥
इत्यङ्गदवचः श्रुत्वा वानराः साश्रुलोचनाः ।
प्रशंसन्तोऽस्य संतोषं प्रत्यभाषत चिन्तितम् ॥ ३६२ ॥
उक्तं च सदृशं सत्त्वाभिमानस्य स्वयोचितम् ।
श्रमे बन्ध्ये विधौ वामे वैराग्यं शोभते सताम् ॥ ३६३ ॥
युवराज तवैवासौ दोपेऽस्मिन्कपिभूपतिः ।
प्रधानदण्डकृत्सत्यं विनाशाय भविष्यति ॥ ३६४ ॥
तदैव निहतानस्सान्विद्धि सिद्धिनिराकृतान् ।
कालस्त्रिशूलं स यदा भ्रूभङ्गं दर्शयिष्यति ॥ ३६५ ॥


१. ‘सह्यते’ ख, २. ‘उक्तं सत्त्वाभिमानस्य राजपुत्रद्वयोचितम् शा० शोधितम्.

३.त्वयोदितम्’ ख.

इति तेषां भयान्तानां वचनं वालिनन्दनः ।
श्रुत्वा जगाद युष्माभिस्त्यज्यतामेष संभ्रमः ॥ ३६६ ॥
अस्मिन्नेव विले दुर्गे निवसामः सुसंभृताः ।
न रामः प्रभवत्यत्र न सुग्रीवो न लक्ष्मणः ॥ ३६७ ॥
अविलयश्च देशोऽयं बहुमूलफलोदकः ।
शक्रोऽप्यत्र जयायैति याति भग्नमनोरथः ॥ ३६८ ॥
श्रुत्वैतदङ्गदवचः शङ्कितः पवनात्मजः ।
सुग्रीवगुणरक्तेन चेतसाचिन्तयत्क्षणम् ॥ ३६९ ॥
अहो नु हारितं राज्यं सुग्रीवेण सहानुगैः ।
[आपूर्यमाणं शश्वञ्च तेजोवृद्धिपराक्रमैः ॥ ३७० ॥
शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ।
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः ॥ ३७१ ॥
शुश्रूषमाणं ताराया गुरोरिव पुरंदरम् ।
भर्तुरर्थे पराक्रान्तो युक्तः शास्त्रविशारदः ॥ ३७२ ॥
स चतुर्णामुपायानां तृतीयं मण्डदर्शनम् ।
चतुर्दशगुणैर्युक्तं वाङ्गदं प्रति वायुजः ॥ ३७३ ॥]
यस्याङ्गदोऽपि दुर्गेऽस्मिन्प्रतिपक्षदशां श्रितः ।
बुद्धिमानेष नीतिज्ञः शूरः सप्रतिभो युवा ॥ ३७४ ॥
आश्रयो गुणरतानां धैर्याब्धिर्वेधसा कृतः ।
चतुर्दशगुणः सूनुः शक्रपुत्रस्य वालिनः ।
कस्य शङ्कास्पदं नायं दुर्गमित्रवलोचितः ॥ ३७५ ॥
हनूमानिति संचिन्त्य तं वञ्चयितुमुद्यतः ।
ऊचे तदनुरक्तानां भेदाकृष्टिसहं वचः ॥ ३७६ ॥
वीर वानरराज्येऽस्मिन्नार्हस्त्वत्सदृशोऽस्ति कः ।


१. “निवासः सत्सु संवृतः शा०. २. कोष्टकान्तर्गताः श्लोकाः ख-पुस्तके शारदा- लिपिपूर्वपाठे च न सन्ति. .

२८

वेधसा कुलशैलानां सारेणैवासि निर्मितः ॥ ३७७ ॥
विभिन्ने त्वयि सुग्रीवादोलाचपलचेष्टिताः।
न त्वदीयास्त्वदीया वा भविष्यन्ति प्लवंगमाः ॥ ३७८ ॥
सर्वस्य सर्वमप्यल्पं सर्वं खात्म्यं समीहते।
न हि नाम जनः कश्चिद्विभवस्थस्य तुष्यति ॥ ३७९ ॥
खदेशविप्रकृष्टे च त्वयि दुर्गवनाश्रये ।
स्वपुत्रदारसोत्कण्ठास्त्यक्ष्यन्ति त्वां निजानुगाः ॥ ३८० ॥
ये खदेशे सदा नम्रा वाङ्मात्रेणेव सेविताः ।
रत्नभारैरपि तते विदेशे यान्ति वश्यताम् ॥ ३८१ ॥
पदस्थेनापदस्थस्य सुग्रीवेण तवाङ्गद ।
न विरोधः क्षमः सत्यं पतङ्गस्येव बह्निना ॥ ३८२ ॥
न दुर्गं विलदुर्ग तु वज्रिवज्रावदारितम् ।
अत्र लक्ष्मणवाणानां खेच्छाप्रणयिनी गतिः ॥ ३८३ ॥
देशभङ्गे कुतोऽर्थस्ते हीनार्थस्य कुतोऽनुगाः ।
तृणेऽपि चलतस्त्रासो निःसहायस्य जायते ॥ ३८४ ॥
पदस्थस्यैव सुहृदः पदस्थस्यैव संश्रिताः ।
नानुयाति च्युतं मित्रे रक्तोऽपि कमलाकरः ॥ ३८५ ॥
अपुत्रश्चैव सुग्रीवस्त्वं पुत्रस्तस्य धर्मतः ।
क्रमागतं निजं राज्यं मा कृथाश्चरणाहतम् ॥ ३८६ ॥
इत्युक्तं वायुपुत्रेण प्रभुभक्तिपुरःसरम् ।
श्रुत्वानन्दस्तं जगाद संरम्भलुलिताङ्गदः ॥ ३८७ ॥
भ्रातुर्ज्येष्ठस्य येन प्राक्पिहितं शिलया विलम् ।
राज्यप्रदः सुखस्थेन येन रामोऽपि न स्मृतः ॥ ३८८ ॥
कस्तस्मिन्कुटिलाचारे विश्वासं याति बुद्धिमान् ।
यो भ्रातृरुधिरादिग्धां निर्धणः श्रियमश्नुते ॥ ३८९ ॥.
मिथ्यैतदुक्तं भवता राज्यकामं न मे मनः । ..

खस्ति तुभ्यमिहैवाहं शरीरं त्यक्तमुद्यतः ॥ ३९० ॥
इत्युक्त्वा वालितनयः कुशानास्तीर्य संयतः ।
उपस्पृश्योदकं मौनी सानुगः समुपाविशत् ॥ ३९१ ॥
दक्षिणाग्रेषु गर्भेषु ते कृत्वोत्तरतः शिरः ।
स्थिताः सवाष्पनयनाः प्रशशंसुस्तदाङ्गदम् ॥ ३९२ ॥
इति वानरप्रायोपवेशः ॥ १० ॥
अत्रान्तरे गृध्रपतिर्विन्ध्यकन्धरनिर्गतः ।
भ्राता जटायुषो ज्येष्ठः संपातिः प्रत्यदृश्यत ३९३
स दृष्ट्वा वानरवलं प्रहृष्टः समचिन्तयत् ।
अहो नु काले देवेन निर्दिष्टं मम भोजनम् ॥ ३९४ ॥
इत्याकलय्य शनकैस्तं देशं प्रससर्प सः ।
अङ्गन्दोऽपि तमायातं विलोक्योवाच वानरान् ॥ ३९५ ॥
अयं सत्यं महाकायः कालः कलि"“ताखिलः ।
संहर्तुमस्मान्संप्राप्तः काकुस्थाज्ञाव्यतिक्रमात् ॥ ३९६ ॥
कार्यं न कृतमस्माभिर्भर्तृपिण्डः कृतो वृथा ।
वृधोऽयं गर्हितः प्राप्तः कस्येदं कर्मणः फलम् ॥ ३९७ ॥
धन्यो जटायुरेबैकस्त्यक्तासुरपि जीवति ।
पुण्ये राघवकार्याग्नौ हुता येन निजा तनुः ॥ ३९८ ॥
किं वा सुकृतिनस्तस्य सुकृतं वक्ष्यते परम् ।
भाविनामपि येनोप्तं हृदये देहिनां यशः ॥ ३९९ ॥
एतदाकर्ण्य संपातिर्दुःखितो भातृवत्सलः ।
उवाच केन निहतो राघवार्थे ममानुजः ॥ ४०० ॥
इत्युक्ते गृध्रराजेन तस्मै निखिलमङ्गदः ।
चरितं रघुनाथस्य वैदेहीहरणं तथा ॥ ४०१ ॥
वधं तदर्थे वीरस्य रावणेन जटायुपः ।
रामसुग्रीवयोः सख्यं दिक्षु सीतानिरीक्षणम् ॥ ४०२ ॥

न्यवेदयद्यथावृत्तं कपीनां च कृतार्थताम् ।
सर्वमाकर्ण्य संपातिस्तमूचे साश्रुलोचनः ॥ ४०३ ॥
रावणेन हतो वीरः प्रियो भ्राता ममानुजः ।
तं हन्तुमद्य शक्तोऽहं न नाम जरसार्दितः ॥ ४०४ ॥
प्रतिभाश्च प्रभावाश्च विभावाश्च शरीरिणाम् ।
कलापाकपरिम्लाना यान्त्येव स्मृतिशेषताम् ॥ ४०५ ॥
मोहः प्रज्ञावलं हन्ति जरा पिबति यौवनम् ।
जीवितं मृत्युरादत्ते सर्वमश्नात्यनित्यता ॥ ४०६ ॥
अहं युवा जटायुश्च वृत्ते वृत्रवधे पुरा ।
स्पर्धयाभिद्रुतौ व्योग्नि मार्तण्डरथवर्मना ॥ ४०७ ॥
उदयाद्भास्करस्याग्रे प्रस्थितावस्तभूधरम् ।
आवामवाप्तौ मध्याह्ने व्योममध्ये महाजवौ ॥ ४०८ ॥
ततः प्रदीप्तकिरणज्वालावलयमालिनः ।
चण्डरश्मेः प्रतापेन जटायुर्विवशोऽभवत् ॥ ४०९ ॥
आच्छादितोऽथ कृपया पक्षाभ्यां स मयानुजः ।
जनस्थाने निपतितो मूर्छितः पर्वताकृतिः ॥ ४१० ॥
दृष्टाः सूत्रोपमा नद्यः शैला वल्मीकसंनिभाः।
मेरुलक्षप्रमाणश्च मया दृष्टो दिवाकरः ॥ ४११ ॥
निर्दग्धपक्षः पतितस्ततोऽहं विन्ध्यपर्वते
विनष्टसंज्ञः संतप्तो मांसपिण्डोपमाकृतिः ॥ ४१२ ॥
पडूरात्रेणाथ मां किंचित्प्राप्तसंज्ञं कृपानिधिः ।
भरणे कृतसंकल्पं मुनिरूचे निशाकरः ॥ ४१३ ॥
शरीरं न त्वया त्याज्यं कृच्छ्रेऽप्यस्मिन्विहंगम ।
रामस्य चरितं श्रुत्वा पक्षौ तब भविष्यतः ॥ ४१४ ॥
वलोत्साहोपपन्नश्च भविष्यसि पुनर्युवा ।
मुनेरिति वचः श्रुत्वा स्थितोऽहं चिरमाशया ॥ ४१५ ॥

स्थितस्य मे विन्ध्यतटे साग्रं वर्षशतं ययौ ।
सीता हृता मया दृष्टा रावणेन विहायसा ॥ ४१६ ॥
इति गृध्रपतेर्वाक्यं श्रुत्वा सर्वे प्लवंगमाः ।
तं पप्रच्छ क्व सा देशे स्थिता देवीति शंस नः ॥ ४१७ ॥
इति पृष्टः कविवरैर्भ्रातुः कृत्वाम्बुधेस्तटे ।
जलक्रियां विनिःश्वस्य शोकार्तस्तानभापत ॥ ४१८ ॥
मम निर्दग्धपक्षस्य क्षीणवृत्तेर्गतौजसः ।
पुत्रः स्वपार्श्वः सततं ददात्याहृत्य भोजनम् ॥ ४१९ ॥
एकदा स दिनस्यान्ते संप्राप्तश्चिरकारिणम् ।
मया क्षुत्कोपतप्तेन पृष्टो मां प्रत्यभाषत ॥ १२० ॥
महेन्द्रस्य गिरेः शृङ्गे सर्वेषां व्योमचारिणाम् ।
एकायनगतो मार्गस्तत्र दृष्टं महाद्भुतम् ॥ ४२१ ॥
अञ्जनाचलतुल्येन दशवक्रेण रक्षसा ।
ह्रियमाणा मया दृष्टा नारी ललितलोचना ॥ ४२२ ॥
क्रोशन्ती राम रामेति लक्ष्मणेति च सस्वरम् ।
मुहुरालोकिता सास्रैः कारुण्याव्द्योमचारिभिः ॥ ४२३ ॥
तां वीक्ष्य रक्षोयुद्धाय समाभूदुद्धतं मनः ।
ततोऽहं सान्त्वविनयैर्वञ्चितस्तेन मायिना ॥ ४२४ ॥
विघ्नकारणमेतन्मे जातं न क्रोद्भुमर्हसि ।
इति पुत्रवचः श्रुत्वा क्रुद्धोऽहमवदं पुनः ॥ ४२५ ॥
धिक्तां न रक्षिता किं सा त्वया दशरथस्नुषा ।
राजा दशरथः श्रीमान्रामलक्ष्मणयोः पिता ॥ ४२६ ॥
वीरः सुहृन्मम परं तत्सुतौ मे सुतोपमौ ।
इत्युक्त्वाहं खतनयं चिरचिन्तापरः स्थितः ॥ ४२७ ॥
अशक्तस्तत्प्रतीकारदानशील इवाधरः ।
अस्मिन्नेव क्षणे जातौ पुण्यरामकथामृतैः ॥ ४२८ ॥


१. ‘गतं शा.. २.‘नं’ शा०.

पक्षौ ममाप्तवीर्यस्य सर्वे पश्यन्तु वानराः ।….
इहस्थ एव पश्यामि लङ्कायां जनकात्मजाम् ॥ ४२९ ॥
सप्तमी गतिरस्माकं सौपर्णं च विलोचनम् ।
वयमाहारतात्पर्यात्प्रकृत्या च विहंगमाः ॥ ४३० ॥
योजनानां शतं सार्धं पश्यामस्तीक्ष्णचक्षुषा ।
पुराणोऽहं जलनिघेर्लङ्घने न तथा क्षमः ॥ ४३१॥
खस्ति वोऽस्तु व्रजाम्येष हिमवन्तमतो गिरिम् ।
तरन्तु वानराः क्षिप्रं सर्वे विक्रमशालिनः ।
समुद्रं रावणपुरीं प्रविशन्त्वनिवारिताः ॥ ४.३२ ॥
श्रुत्वेति संपातिवचस्तमुवाचाथ जाम्बवान् ।
त्वमेवोपायमस्माकं चिन्तयाम्भोधिलङ्घने ॥ ४३३ ॥
रामकार्यं यथास्माकं तथा तब विशेषतः।
तस्मात्साधो त्वमेवान परमं नः परायणम् ॥ ४३४ ॥
इति जाम्बवतः श्रुत्वा संपातिः पुत्रमस्सरत् ।
स्मृतः सोऽप्याययौ क्षिप्रं पक्षाक्षेपधुताम्बुधिः ॥ ४३५ ॥
ततो विदितवृत्तान्तः स पितुर्वचसा खगः ।
सपार्श्वः प्रणतः सर्वानुवाच गरुडोपमान् ॥ ४३६ ॥
युवराजोऽङ्गदः श्रीमान्मामारुह्य मनोजवम् ।
उल्लङ्घय जलधिं यातु लङ्कां रावणपालिताम् ॥ ४३७ ॥
इति गृध्रकुमारस्य वचः श्रुत्वा बलोर्जितम् ।
प्रत्युवाचाङ्गदो मानी पूजयित्वाथ तद्वचः ॥ ४३८ ॥
साधो कृतं त्वया सर्वं सुहृत्प्रणयशालिना ।
त्रैलोक्यलङ्घनसहाः किं तु सन्तीह वानराः ॥ ४३९ ॥
उपलब्धैव वैदेही सुहृदस्त्वत्पितुर्गिरा ।
अधुना नास्ति नः किंचिदगम्यं व्यवसायिनाम् ॥ ४४० ॥


१. ‘तत्किं’ ख.

इत्युक्तो वालिपुत्रेण संपातिः सह सूनुना ।
जगामाभिमतामाशां नवपक्षावृताम्बरः ॥ ४४१ ॥
इति संपातिदर्शनम् ॥ ११॥
ततो जलनिधेस्तीरमुपसृत्य प्लवंगमाः ।
ददृशुर्जलकल्लोलमालावलयिता दिशः ॥ ४४२ ॥
जगजलमयं किंखित्व दिशः च नमः क भूः ।
इति चिन्तयतां येषां क्षणं मोह इवाभवत् ॥ ४४३ ॥
तं दानवकुलाकीणर्णं भीमनिर्घोषभीषणम् ।
ते विलोक्यैव जलधिं निद्रां निशि न लेभिरे ॥ ४४४ ॥
उपविश्य प्रभातेऽथ संक्रान्ताः स्वमरीचिभिः ।
स्फुटं प्रभाते जलधां सहस्रगुणतामिव ॥ ४४५ ॥
हस्तिहस्तोपमैः शैलशृङ्गाभैर्मेघसंनिभैः ।
तरङ्गैः पूरितैयार्व्योम्नि वभूवुः शिथिलोद्यमाः ॥ ४४६ ॥
तानब्रवीदङ्गदोऽब्धिसंदर्भाघटिताशयान् ।
धीराणामपि कोऽयं वः संरम्भः कातरोचितः ॥ ४४७ ॥
अदृश्यः सत्त्ववसतिर्गम्भीरो विपुलाशयः ।
स्थितिमानेष जलधिर्भवद्भिरुपमीयते ॥ ४४८ ॥
अधैर्यलुप्तचित्तानां पौरुषं परिहीयते ।
लोभप्रतुष्टसत्त्वानामौचित्यं धनिनामिव ॥ ४४९ ॥
अपरिम्लानधैर्याणां पौरुषोत्साहशालिनाम् ।
अभिमानैकसाराणां किमसाध्यं महात्मनाम् ॥ ४५० ॥
लङ्घने जलधेरस्य करोतु सुदृढं मनः ।
यः स्फुटस्फाटिकगिरिस्फीते यशसि सादरः ॥ ४५१ ॥
जायते कृतिनस्तस्य मतिः सागरलङ्घने ।
करिष्यति यशो यस्य सोऽतः सागरलङ्घनम् ॥ ४५२ ॥


१. ‘प्रयाते जलद्यो’ शा. २. ‘शयः’ शा०. ३. ‘तां’ शा०. ४, ‘सतः’, शा.

प्रियरामस्य सुहृदः सुग्रीवस्य हितं प्रभोः।
क्रियतामुचितं वीरा विचार्य वलमात्मनः ॥ ४५३ ॥
इत्युक्ते युवराजेन गंजो वानरयूथपः ।
किंचिल्लज्जानतशिरा मध्ये विपुलरंहसाम् ॥ ४५४ ॥
उवाच गन्तुं शक्तोऽहं यत्नेन दशयोजनीम् ।
गवाक्षोऽप्यवदद्वारिनिधौ तद्विगुणां गतिम् ॥ ४५५ ॥
त्रिगुणां शरभः श्रीमानृपभोऽपि चतुर्गुणाम् ।
गतिं पञ्चगुणामूचे तरखी गन्धमादनः ॥ ४५६ ॥
मैन्दश्च षड्गुणां सप्तगुणां च द्विविधो वली ।
उवाचाष्टगुणां वीरः सुषेणः सागरे गतिम् ॥ ४५७ ॥
ततः पितामहसुतः श्रुतेन यशसा धिया ।
वृद्धः प्रवृद्धचरितः शनैः प्रोवाच जाम्बवान् ॥ ४५८ ॥
अस्माकमप्यभूत्पूर्वं स कश्चिद्गतिविक्रमः ।
वयमद्य जराजर्णाः शीर्णतारुण्यविभ्रमाः ॥ ४५९ ॥
इयं यौवनपद्मस्य दुःसहा तुहिनाहतिः ।
जरावलद्विपेन्द्रस्य कालसिंहनखावली ॥ ४६० ॥
वशीकृतं करोत्येव हीनोत्साहबलप्रभम् ।
वृद्धं नारीव सुप्रौढा जरा तारुण्यतस्करी ॥ ४६१ ॥
स्मराम्यवाहनं देवमजाते गरुडे हरिम् ।
अचन्द्रचूडमीशानमवृतेऽमृतमन्यते ॥ ४६२ ॥
मया दृष्टाः सुबहुशो देवासुररणोत्सवाः ।
येषु वन्दीकृताः शूरैस्त्रैलोक्यविजयश्रियः ॥ ४६३ ॥
वृद्धोऽप्यद्याम्वुधौ गन्तुं शक्तः शिथिलविग्रहः ।
दशोनं वा नवोनं वा योजनानामहं शतम् ॥ ४६४ ॥
सदा समस्तभावानां काले संकोचकारिणि ।
ह्यो वृत्तमद्य कथितं सत्यं न मन्यते जनः ॥ ४६५ ॥


१. ‘यं शा०. २. ‘वहवो’ शा.

अतीतचरिते वृद्धे विपुलं वक्तुमुद्यते ।
हसन्ति यदि नो बालास्तदिदं श्रूयते मम ॥ ४६६ ॥
त्रिसप्तकृत्वः पृथिवी वलियज्ञे मया पुरा ।
प्रदक्षिणीकृता विष्णोस्त्रैलोक्याक्रमणे क्षणात् ॥ ४६७ ॥
अस्ताचलमहं गत्वा मुहूर्तेनोदयाचलात् ।
गन्धर्वकिंनरैर्जुष्टं प्रयातः स्फटिकाचलम् ॥ ४६८ ॥
अद्य प्रवयसः शक्तिः स्फीता मम न तादृशी ।
कालशक्तिर्हि भावानां प्रत्यारसपायिनी ॥ ४६९ ॥
इति जाम्बवतः श्रुत्वा नरः प्रोवाच वानरः ।
योजनानां शतमहं प्रयामि रहितं त्रिभिः ॥ ४७० ॥
एवं तत्र ब्रुवाणेषु प्लवंगेष्वङ्गदान्तिके ।
नोवाच हनुमान्किचिद्वैर्यगम्भीरसागरः ॥ ४७१ ॥
अथाङ्गदोऽवदत्क्षिप्रं विचार्य मकराकरम् ।
तरामि योजनशतं महाब्धिं नात्र संशयः ॥ ४७२ ॥
किं तु जाने भवत्येव प्रत्यावृत्तौ मम श्रमः!
तथापि रामकार्येऽस्मिन्गणयामि न जीवितम् ॥ ४७३ ॥
निःसंशयो वधस्तावत्सुग्रीयादफलागमे ।
ससंशयोऽब्धितरणे वरस्तस्सादसंशयः ॥ ४७४ ॥
अङ्गदेनेत्यभिहिते पुनः प्रोवाच जाम्बवान् ।
प्रेष्येष्वस्मासु जीवत्सु स्वयं याति कथं प्रभुः ॥ ४७५ ॥
त्वं मूलं कार्यवृक्षस्य वयं पुष्पफलोपमाः ।
गतं मूलं भवत्येव सर्वं मूले सुरक्षिते ॥ ४७६ ॥
जानाम्यहं महासत्वं सागरं यस्तरिष्यति।
इह स्थितोऽपि न ज्ञातो ह्यस्माभिर्मोहितैरिव ॥ ४७७ ॥
दूरस्थो ज्ञायते सर्वः पर्वते ज्वलनादिवत् ।
चूडामणिः शिरस्थोऽपि दृश्यते न स्वचक्षुषा ॥ ४७८॥


१. ‘समः’शा

२. ‘यो शा०.

प्रभञ्जनसुतः श्रीमानेष प्लवगपुंगवः ।
तरखी हनुमान्वीरः शक्तः सागरलङ्घने ॥ ४७९ ॥
ऐश्वर्यमन्दिरस्तम्भः सुग्रीवस्यायमुन्नतः ।
रामकार्ये व्रजत्यस्मिन्विजयध्वजतां पुरः ॥ ४८० ॥
हनूमत्कार्यकालेऽस्मिन्किममान्नाभिभाषसे ।
स्कन्धात्तकार्यभारो वा नूनं मौनी महाजनः ॥ ४८१ ॥
गुणैस्त्वं सर्वभूतेभ्यो वरो रलैरिवाम्बुधिः ।
बलं ते भुजयोर्भूरि गरुडस्येव पक्षयोः ॥ ४८२ ॥
शापात्पुराप्सराः कान्ता विद्याख्या मुक्तिकास्थला ।
वानर्यभूदञ्जनाख्या पत्नी केसरिणः कपेः ॥ ४८३ ॥
सा खेच्छारूपिणी दिव्यं रूपं कृत्वा गिरेस्तटे ।
विचचाराम्बुदश्यामे काले कुवलयेक्षणा ॥ ४८४ ॥
मञ्जर्या इव किंजल्कपटलं पीतमंशुकम् ।
दृष्टा दूरुजघने जहारास्या प्रभञ्जनः ॥ ४८५ ॥
कम्पमानस्ततो वायुस्तां परिप्वज्य मूर्छितः ।
एकपत्नीव्रतक्रुद्धामुवाच रचिताञ्जलिः ॥ ४८६ ॥
न मया दूषिता सुश्रु त्वं भुक्ता मनसैव तु ।
त्रैलोक्यविश्रुतगुणस्तनयस्ते भविष्यति ॥ ४८७ ॥
पवनेनेति कथिते जातस्त्वं तेजसां निधिः ।
वायुतुल्यगतिः श्रीमान्क्षेत्रे केसरिणः सुतः ॥ ४८८ ॥
उदितं रविमादातुं फललोभात्ततो भवान् ।
दिवमुत्पतितो बाल्यात्माग्योजनशतत्रयम् ॥ ४८९ ॥
पतितस्याथ शैलाग्राद्वामो हनुरभज्यत ।
तव येनासि लोकेषु विख्यातो हनुमानिति ॥ ४९० ॥
स त्वमेको महत्यस्मिन्कार्यारम्भे कृतक्षणः ।
दातुमर्हसि नः पुण्यां यशोरक्षणदक्षिणाम् ॥ ४९१ ॥


१. ‘पुंजठा’ शा०. २. ‘पुण्ययशो’ शा..

पूर्वपुण्यफले जन्म कर्म स्फीतयशः फलम् ।
सुहृनीतिफला सिद्धिस्त्वद्विधानां महात्मनाम् ॥ ४९२ ॥
उत्तिष्ठ कुरु साहाय्यं रामस्य यशसां निधेः ।
महतामेव कार्याणां सिद्ध्यै जन्म भवादृशाम् ॥ ४९३ ॥
इति जाम्बवतो वाक्यमाकर्ण्य पवनात्मजः ।
व्यवर्धत महोत्साहश्चन्द्रोदय इवाम्बुधिः ॥ ४९४ ॥
स समुद्भूय लाङ्गूलं जृम्भा रम्भा यताननः ।
स्फुरत्स्फारांशुजालस्य बभारांशुमतः श्रियम् ॥ ४९५ ॥
सोऽब्रवीदृष्टदंष्ट्रांशुमालां गगनगामिनीम् ।
कुर्वन्मनोरथस्येव लङ्कागमनवर्तिनीम् ॥ ४९६ ॥
एष व्यसनविस्फारं तरामि मकराकरम् ।
रामकार्यपवित्रं च करोमि भवतां वचः ॥ ४९७ ॥
उत्पाट्याविकटाहालमालिनीमवटे बलात् ।
क्षिपामि लङ्कामातकां शङ्काकुलितरक्षसाम् ॥ ४९८ ॥
शतकृत्वः समुल्लङ्घय महीं सगिरिसागराम् ।
अविश्रान्तः करोम्येव जगत्प्रथमराक्षसम् ॥ ४९९ ॥
तीर्थे पुरा प्रभासाख्ये गजो विजितदिग्गजः ।
चचार शङ्खधवलो नाम तापसकण्टकः ॥ ५०० ॥
मुनीनां हितकामेन पुरा दर्पासहिष्णुना ।
मम केसरिणा पित्रा स हतो वायुकुञ्जरः ॥ ५०१ ॥
ततस्तस्य भरद्वाजो ददौ मुनिवरो वरम् ।
मारुतस्य प्रभावेण तनयस्ते भविष्यति ॥ ५०२॥
सोऽहं मुनिवराज्जातः पितुस्तुल्यपराक्रमः ।
त्रैलोक्यलङ्घने शक्तः कियानेष महोदधिः ॥ ५०३ ॥


१. ‘फलं’ शा०. २. ‘प्रभाम् शा०. ३. ‘संगि’ शा०. ४. ‘आतशदा.’

५. ‘व्याल’ शा०.

न ममोत्पततो वेगात्सहते पादयोर्भरम् ।
गगनाक्रान्तियोगेन बलेनापीडिता मही ॥ ५०४ ॥
महेन्द्रगिरिमारुह्य लङ्घयामि महोदधिम् ।
एष मे सहते वेगं निकारमिव सज्जनः ॥ ५०५ ॥
इत्युक्त्वा सहितः सर्वैर्वानरैर्वालिनन्दनः ।
आरुरोह महेन्द्राद्रिं मूर्तं सारमिवात्मनः ॥ ५०६ ॥
पीताब्धिसलिलैर्मेघैर्द्विपैश्च मदमन्थरैः ।
व्याप्तं दिव्यद्रुमाकीर्णं शिखरोल्लिखिताम्बरम् ॥ ५०७ ॥
सिद्धकिंनरगन्धर्वललनाचरणाङ्कितम् ।
प्रहृष्टमिव शष्पाग्रजातरोमाञ्चकञ्चुकम् ॥ ५०८ ॥
उच्चैस्तटमहासानुः स्कन्धोरुशिखरः कपिः ।
स बभौ शैलशिखरे द्वितीय इव भूधरः ॥ ५०९ ॥
आलोकयन्तमखिलं जलधिं लङ्घनोद्यतम् ।
तं द्रष्टुमाययुर्देवाः सह सिद्धर्षिचारणैः ॥ ५१० ॥
क्रामतस्तस्य स गिरिश्चरणाभ्यां निपीडितः।
ननाम धातुसलिलं भूरिरक्तमिवोद्वमन् ॥ ५११ ॥
शिलानिपीडितव्यालविषोल्कानलमालितः ।
शान्तिं स लेभे भग्नोरुचन्दनप्रसवाम्बुभिः ॥ ५१२ ॥
तरवः फुल्लशवलाः शिलाश्च समनःशिलाः ।
निपेतुः सागरे स्फारजलस्फालवृंताम्बराः ॥ ५१३ ॥
मूलाद्विचलिते तस्मिन्गिरौ सागरवासिनः ।
धभूवुर्वृद्धमकरा मथनायासशङ्किनः ॥ ५१४ ॥
एकेन पीडितः प्रौढः कपिनाश्चर्यकारिणा ।
याच्ञायैव महासत्त्वो गिरिर्वानतां ययौ ॥ ५१५ ॥


१. ‘भृता’ शा०. २. ‘गामि’ शा०, ३. ‘तः’ शा०. ४. ‘वले शा०.,५.‘प्रौढं’ ६. ‘कपेरा’ शा०. ७.‘णः शा. ८. ‘याच्ञयौ’ शा०.

गुहागृहेषु दैत्यानामायुधन्यस्तचक्षुषाम् |
स जगाम गिरिक्षोभः प्रियासंभोगविघ्नताम् ॥ ५१६ ॥
त्रासात्समुत्पतन्तीनां विद्याधरमृगीदृशाम् ।
रशनानूपुरारावैर्वभूव मुखरं नमः ॥ ५१७ ॥
ततः प्रणम्यः शक्रार्कविष्णुरुद्रचतुर्मुखान् ।
सानुजं मनसा रामं सागरं चोत्पपात सः ॥ ५१८ ॥
ससूर्याय महेन्द्राय पवनाय स्वयंभुवे ।
भूतेभ्यः स नमस्कारं चकार हरिपुंगवः ॥ ५१९ ॥
प्राञ्जलिः प्राङ्मुखं कृत्वा सगणायात्मयोनये ।
मनसावन्ध रामं च लक्ष्मणं च महारथम् || ५२० ॥
सागरं सरितश्चैव प्रणम्य शिरसा कपिः ।
ज्ञातीस्तान्संपरिष्वज्य कृत्वा चापि प्रदक्षिणम् ॥ ५२१ ॥
स तस्य शिखराग्रस्थस्थले नागवरायुते ।
तिष्ठन्कपिवरस्तस्मिन्द्वितीयोऽर्क इवावभौ । ५२२ ॥
लाङ्गूलच्छद्मना चास्य समुद्धूतो जयध्वजः ।
रराजौर्वपरिक्षिप्तो मन्दरस्येव वासुकिः ॥ ५२३ ॥
निस्त्रिंशनीलमाकाशं समाविश्य महाजवः ।
उरुवातैः स विदधे महाब्धेविंशरारुताम् ॥ ५२४ ॥
विवभौ तेजसा तस्य स्फारेण कपिलं नमः ।
और्वानलशिखोद्गारघोरं रूपमिवाम्बुधेः ॥ ५२५ ॥
तं कीर्णकुसुमाः क्षिप्रमनुजग्मुर्महीरुहाः ।
गुणानुरक्ताः सुहृदः प्रियं जनमिवाध्वनि ॥ ५२६ ॥
स प्राज्य भुजपक्ष्मभ्यां गाहमानः खमां वभौ ।
सुपर्ण इव विक्रान्तः पीयूपहरणोद्यतः ॥ ५२७ ॥
तस्य कक्षोरुपवनोद्भूतैर्घनघनारवैः ।
बभूव सर्वभूतानामकालप्रलयभ्रमः ॥ ५२८ ॥


१. ‘वातेन शा०. २. ‘क्षमां शा०.

खे खयं छाययाम्भोधौ लाङ्गूलेन महीयसा ।
ययौ त्रिभिरिवाकारैस्त्रैलोक्ये विश्रुतः कपिः ॥ ५२९ ॥
वेगदीर्घीकृतेनास्य लाङ्गूलेन महीयसा ।
नमः प्रभाभरोद्भासि सीमातीतमिवामवत् ॥ ५३० ॥
पिवन्निव नभः कृत्स्नमालिङ्गन्निव दिग्वधूः ।
वर्त्म क्षिपन्निवातीतं स ययौ विधुताम्बुधिः ॥ ५३१ ॥
त्रिंशद्योजनदीर्घास्य दशयोजनवर्तुला ।
छाया चकार जलधौ संसपिंजलदभ्रमम् ॥ ५३२ ॥
पवनाकुञ्चितप्रान्तशुभ्राभ्रवलयः क्षणम् ।
प्रययौ स्कन्धयोस्तस्य स्फारकेसरमारुतः ॥ ५३३ ॥
ज्ञात्वा सागरवंशस्य दूतं रामस्य सागरः ।
तं गन्तुं चोद्यतं दूरं तद्विश्रान्तिमचिन्तयत् ॥ ५३४ ॥
हिरण्यनाभं मैनाकं सुतं गौरीगुरोर्गिरेः ।
स समेत्य जगादाशु सलिलान्तरवर्तिनम् ॥ ५३५ ॥
पातालवासिनां रब्धं पिधातुमिह वज्रिणा ।
न्यस्तस्त्वं दैत्यसंघानां कामरूपी बलोचितः ॥ ५३६ ॥
हनुमानामकार्यार्थं प्रयात्याशु विहायसा ।
शिखराण्यस्य विश्रान्त्यै त्वं दर्शयितुमर्हसि ॥ ५३७ ॥
इत्यम्बुधिगिरा क्षिप्रं हेमरत्नमयो गिरिः।
उद्ययौ काञ्चनच्छायं यत्प्रभाभिरभून्नभः ॥ ५३८ ॥
तं दृष्ट्वा हेमशिखरं विघ्नं मत्वा कपीश्वरः ।
उरःपवनवेगेन विदधे खर्वशेखरम् ॥ ५३९ ॥
तस्यातिमात्रमालोक्य वेगं पुलकितो गिरिः ।
दिव्यदेहस्तमवदद्विन्द्योच्चैर्मुदा मुहुः ॥ ५४० ॥


१. ‘प्रतिविम्बेन चान्तरे’ शा०, २. ‘तले’ शा०. ३. ‘स ययौ निभिराकारै शा..

४. ‘सीमन्तित शा. ५. ‘वारतां’ शा०. ६. “न्वितः’ शा.

सागरस्तव विश्रान्त्यै सगरान्वयगौरवः ।
मां विसृज्य प्रियातिथ्यसफलां प्रीतिमिच्छति ॥ ५४१ ॥
महीधराणां पक्षेषु पुरा कृत्तेषु वज्रिणा ।
इह क्षिप्तः सपक्षोऽहं त्वत्पित्रा मातरिश्वना ॥ ५४२ ॥
स त्वं कृतोपकारस्य तनयस्तस्य तत्समः ।
स्थातुमर्हसि मे मूर्घ्नि प्रणयाच्च महोदधेः ॥ ५४३ ॥
इत्युक्तः शैलराजेन हनूमान्प्रत्यभाषत ।
गृहीतैव मया पूजा भवतः सागरस्य च ॥ ५४४ ॥
किं त्वविश्रान्त एवायं मम मार्गः प्रतिज्ञया ।
न चास्ति मे क्लमः कश्चिन्मिथ्या कालात्ययेन किम् ॥५४५॥
इत्युक्त्वा मेनकं तूर्णं मानिनां प्रवरः कपिः ।
अङ्गुल्यग्रेण तं स्पृष्ट्वा जगाम पवनोपमः ॥ ५४६ ॥
तत्कर्मतुष्टः शक्रोऽपि मैनाकस्य वर ददौ ।
येन वज्रभयं घोरं स तत्याज चिरार्जितम् ॥ ५४७ ॥
इति मैनाकदर्शनम् ॥ १२ ॥
अत्रान्तरे सत्त्वसारं वलं ज्ञातुं हनूमतः ।
देवैर्विसृष्टा सुरसा नागमाता समाययौ ॥ ५४८ ॥
सा कृत्वा राक्षसं रूपं विकृतं भयदं महत् ।
विवृत्य वक्रमवदद्दिष्ट्या पश्यामि भोजनम् ॥ ५४९ ॥
तामूचे हनुमान्मीत्या रामकार्ये कृते पुनः ।
सर्वथा स्वयमभ्येत्य यास्यामि तव भक्ष्यताम् ॥ ५५० ॥
साव्रवीत्पाणिपतितं न त्यजामि प्लवंगम ।
अभीष्टं लभ्यते दैवात्त्यक्तं न पुनरेति तत् ॥ ५५१ ॥
अवाप्तमपि संत्यज्य यस्तत्प्राप्तिं प्रतीक्षते ।
स कालवञ्चितो मूढः पुनस्तस्य न भाजनम् ॥ ५५२ ॥


१. ‘मानकृत्’ शा.

एतदाकर्ण्य हनुमानुवाच विपुलाकृतिः ।
विग्रहस्यास्य मे ग्रासरक्ष्यं प्रकटयाननम् ॥ ५५३ ॥
इत्युक्ता तेन सा वक्रं चकार दशयोजनम् ।
कपिर्वभूव तत्तुल्यः सा चक्रे द्विगुणं मुखम् ॥ ५५४ ॥
हरिः सप्तगुणश्चासीत्साभूदष्टगुणानना।
तस्सिन्नष्टगुणाकारे सा चक्रे शतयोजनम् ॥ ५५५ ॥
वक्रं विनिर्गतजलं द्वितीयमिव सागरम् ।
तदृष्ट्वाङ्गुष्ठमात्रोऽभूत्क्षणेन पवनात्मजः ॥ ५५६ ॥
स प्रविश्याननं तस्या निर्गत्य च मनोजवः ।
तामूचे त्वद्वचः सत्यं दाक्षायणि कृतं मया ॥ ५५७ ॥
इत्युक्त्वा स ययौ क्षिप्रं राहुमुक्त इवोड्डपः ।
वन्दितस्त्रिजगद्वन्द्यैः पुरंदरवरैः सुरैः ॥ ५५८ ॥
स बभौ स्वर्गमार्गेण विमानध्वनहासिना ।
प्रसर्पन्हव्यमादाय सुरार्थमिव पावकः ॥ ५५९ ॥
इति सुरसादर्शनम् ॥ १३ ॥
अस्मिन्नवसरे राहुजननी सिंहिकाभिधा ।
चक्रे छायाग्रहं घोरा व्यावृतस्य हनूमतः ॥ ५६० ॥
संनिरुद्धस्तया वीरः सहसा स्तब्धविग्रहः ।
तां ददर्शोग्रपातालविशालवदनां पुरः ॥ ५६१ ॥
विलोक्य वर्धमानां तां पुनः संक्षिप्य विग्रहम् ।
विवेश वदनं तस्याश्चण्डांशुरिव विग्रहम् ॥ ५६२ ॥
वज्रवेगो निपात्यासौ कृत्तमूलनिवन्धनम् ।
हृत्पद्ममुज्जधानास्याः स्फुरन्नखर्धिसाङ्कुरम् ॥ ५६३ ॥
सा पपात हता तेन विधूतमकराकरा ।
नासास्यश्रोत्रविवरप्रसरद्रतनिर्झरा ॥ ५६४ ॥
इति सिंहिकावधः ॥ १४ ॥


१. ‘क्षमं’ शा.. २. ‘गच्छत्स्व शा. ३. ‘विरेजे’ शा०.

तस्मिन्नत्यद्भुते भूते हते तत्र हनूमता ।
मुमुचुः पुष्पनिकरं सुरसिद्धर्पिकिंनराः ॥ ५६५ ॥
स व्रजन्स्वप्रतापाग्नितप्तानां ककुभामिव ।
लाङ्गूलेनाञ्चता चक्रे वीजनव्यजनभ्रमम् ॥ ५६६ ॥
क्षणं गात्रानिलैस्तस्य चक्रिरे तरलीकृताः ।
दंष्ट्रांशुनखशाखासु तारा कुसुमविभ्रमम् ॥ ५६७ ॥
व्योम्नि व्रजन्स विदधे विबुधावनीषु
नानाविमानवनकेतुदुकूलपालीम् ।
ऊरुप्रबन्धपृथुवेगविनिर्गतोग्र-
वातैः प्रचण्डतरताण्डवकेलिलीलाम् ॥ ५६८ ॥
मूर्ध्नि च्छत्राभिरामैः श्वसनविवलितैः पार्श्वयोश्चामरामैः
कण्ठे मालायमानैरुरसि तनुतरैरुत्तरीयानुकारैः ।
पृष्ठे लाङ्गूललीलावलनपरिचितैः स्कन्धयोः केसरामैः
शुभ्रैरभ्रैरदभ्रैः किमपि कपिपतिर्वेगगामी रराज ॥५६९॥
वेगस्पृष्टेन धृत्वा गगनजलनिधौ सेतुबन्धानुकारं
दत्त्वा स्फारे मुहूर्तं दिनकरकमले नाललीलाविलासम् ।
लाङ्गुलेनाशु कृत्वा दिशि दिशि स मुहुर्मानदण्डाभियोगं
लङ्कातङ्काभिशङ्काप्रथमपरिचयं केतुनेवादिदेश ॥ ५७० ॥
अथ तरलतमालोत्तालतालीप्रियालां
प्रबलसरलसालोद्दालतालप्रवालाम् ।
अगुरुतगरगौरस्फारकर्पूरसारा-
मविरलवनमालां सोऽब्धिकूले ददर्श ॥ ५७१ ॥
अलङ्घयमुल्लङ्घय महाम्बुराशिं प्रभावतुल्यं दशकंधरस्य ।
तले प्रलम्बास्यगिरे विशाले जलप्रलम्बाम्बुदवत्पपात ॥ ५७२ ॥
किंलिन्मुक्तावसाने जलनिधिमथनान्निर्गतो मन्दराद्रि-
र्मैनाकः किं विशङ्कः सुरसमरजये किं सुपर्णा सुधार्थी।


१. ‘तटे’ शा०,

३०

चिन्तानिस्पन्दनेत्रैरिति सुररमणीमण्डलैरीक्ष्यमाणः
सोऽभूदल्पप्रमाणः सपदि रघुपतेर्वाञ्छितावाप्तिसिद्ध्यौ ॥५७३॥
इति सागरलङ्घनम् ॥ १५ ॥

इति क्षेमेन्द्रविरचिते रामायणकथासारे किष्किन्धाकाण्डः समाप्तः ।