प्राप्तेषु केकयपुरं दिनैर्दूतेषु सप्तभिः ।
स्वैरं बन्धुसमासीनो वयस्यान्भरतोऽभ्यधात् ॥१॥
मया निशावसानेऽद्य स्वप्नो दृष्टोऽतिदारुणः ।
फलं यस्याधिकं मन्ये जीविताधिकसंशयः ॥ २ ॥
शुष्कं समुद्रमद्राक्षं चन्द्रं च पतितं दिवः ।
तमोरुद्धामयोध्यां च कीर्णकेशीमिवाङ्गनाम् ॥ ३ ॥
गुरुश्च शैलशिखरान्मया दृष्टः परिच्युतः ।
कलशे गोमयजले तैलमञ्जलिभिः पिबन् ॥ ४ ॥
स एव च पुनदृष्टो लोहपृष्ठे सिताम्बरः ।
नारीभिः कृष्णपिङ्गाभिर्हसन्तीभिर्निरीक्षितः ॥ ५ ॥
रथेन सरयुक्तेन रक्तमाल्यानुलेपनः ।
पुनरालोकितस्तूर्ण प्रसर्पन्दक्षिणां दिशम् ॥ ६ ॥
इत्येष विषमः स्वसः परं हृदयकम्पनः ।
गम्भीरसंशयाशंसी न जाने किं करिष्यति ॥ ७ ॥
भरतेनेति कथिते सुहृदश्चकिता अपि ।
ऊचुर्धातुविकारेण स्वप्नानामप्रमाणताम् ॥ ८ ॥
तद्गिरा कृतजप्योऽथ संपूजितसुरद्विजः ।
भरतश्चिन्तयन्नेव चकम्पे स्वप्नदर्शनम् ॥ ९ ॥
अत्रान्तरे प्रविश्याशु दूतास्ते संवृताशयाः ।
वसिष्ठशासनं नूनं सर्वे तेऽस्मै न्यवेदयन् ॥ १० ॥
पितुः सर्वत्र कुशलं तैर्मिथ्यैव निवेदितम् ।
निशम्य मन्त्रं भरतो मातामहमुपाययौ ॥ ११ ॥
पूजितो मातुलेनाथ सैन्येन महतावृतः ।
शत्रुघ्नसहितो वीरः प्रतस्थे नगरीं पितुः ॥ १२ ॥
समुत्तीर्य दिनैः पुण्या नदीः शैलवनानि सः ।
ध्वस्तशोभां ददर्शारादयोध्यां विधुताशयः ॥ १३ ॥
विपद्विवासितमुखां शुष्कम्लानजनाननाम् ।
दूरीकृतालिवलयां शुष्काब्जामिव पद्मिनीम् ॥ १४ ॥
निर्भूषणां निरानन्दां विच्छायां विस्मृतस्मिताम् ।
विधवामिव तां वीक्ष्य शङ्कातङ्काकुलोऽभवत् ॥ १५ ॥
अप्रियाख्यानचकितैधृतः सर्वैरधोमुखैः ।
राजधानीं प्रविश्याथ मातुर्मन्दिरमाययौ ॥ १६ ॥
विलोक्य तत्र कैकेयीं पुत्रदर्शननिर्वृताम् ।
प्रणम्य राजलुब्धां तां पप्रच्छ जनकोत्सुकः ॥ १७ ॥
मातर्म्लानमुखः कस्मादकस्मादापदां पदम् ।
उग्रशोकग्रहग्रस्त इवायं लक्ष्यते जनः ॥ १८ ॥
वेणुवीणाम्बरालीनमधुरध्वनिपेशलम् ।
यशः शुभं मृगाक्षीभिः किं तातस्य न गीयते ॥ १९ ॥
वैत्रिणां नामभिर्भूमिपालान्सूचयतां पुरः ।
किं नु न श्रूयते शब्दस्तातस्यास्थानमन्दिरे ॥ २० ॥
भरतेनेत्यभिहिते कैकेयी प्रत्यभाषत ।
यशोवशेषतां यातस्तातः सत्यव्रतस्तव ॥ २१ ॥
राम रामेति बहुशो विलप्य विवशो निशि ।
तत्याज जीवितं राजा सह तद्दर्शनाशया ॥ २२ ॥
वने निष्कासितस्तेन नाम रामः सलक्ष्मणः ।
सेहे न चातिधीरोऽपि तद्वियोगविषव्यथाम् ॥ २३ ॥
इति दुःसहवाग्वज्रताडितो भरतस्तया ।
कृत्तः परशुना मूले बालस्ताल इवापतत् ॥ २४ ॥
स लब्धसंज्ञः शनकैश्चकारूढ इव क्षणम् ।
हा तात तातेति मुहुर्विललापाश्रुगद्गदः ॥ २५ ॥
प्रमृज्य नयने तप्तनिःश्वासग्लपिताधरः ।
पुनः पप्रच्छ जननीं निमग्नः शोकसागरे ॥ २६ ॥
आर्येण किं कृतं मातस्तातस्य बत विप्रियम् ।
स संत्यक्तः स्वयं येन तेन स्तेन इवात्मजः ॥ २७ ॥
किंस्विद्गुरुतरं किंचित्कृतमार्येण पातकम् ।
अथ वा रामचरिते कलङ्ककलना कुतः ॥ २८ ॥
पृष्ट्वा सानुनयेनेति भरतेन विषादिना ।
तत्त्वं जगाद जननी स्त्रीभावसरलाशया ॥ २९ ॥
त्वदर्थ याचितो राजा मया रामनिवासनम् ।
अभिषेकं च भवतः स च तत्कृतवान्कृती ॥ ३० ॥
वरप्रदानसत्येन बद्धस्य मयि भूपतेः ।
चरिष्यत्याज्ञया रामश्चतुर्दश समा वने ॥ ३१ ॥
श्रुत्वेति विप्रियं तूर्णं निन्द्यं मात्रा निवेदितम् ।
श्वपाकीगर्भसंभूतमिवात्मानममंस्त सः ॥ ३२ ॥
सोऽवदद्दुःखसंतप्तः सजुगुप्सः स्वजीविते ।
जीवयन्निव चिन्ताग्निं निःश्वासप्रबलानिलैः ॥ ३३ ॥
बत पातकपङ्केन घनेन प्रविसर्पिणा।
भवत्या स्वेच्छया लिप्तं कुलमात्मा यशश्च मे ॥ ३४ ॥
ज्येष्ठो विवासितः पुत्रो दैवतं निहतः पतिः ।
श्वभ्रे निपातितश्चाहमहो युक्तं त्वया कृतम् ॥ ३५ ॥
कुतस्त्वया कदा लुब्धो ज्ञातः पापोऽहमीदृशः ।
यस्मै गुरुवधादिष्टं राज्यमेतत्प्रयच्छसि ॥ ३६ ॥
हा धिङ्मां पतितं पापं शापेन महता हतम् ।
यस्यापवादजननी जननी त्वमपत्रपा ॥ ३७ ॥
धेनोरिवैकवत्सायाः कौसल्यायाः प्रियः सुतः ।
कथं प्रवाजितोऽरण्यं पुत्रिण्यापि स्वयं त्वया ॥ ३८ ॥
गवां माता पुरा देवी सुरभिर्लाङ्गलार्दितौ ।
दृष्ट्वा सुतौ रुरोदार्ता पृष्टा प्रोवाच वज्रिणा ॥ ३९ ॥
कृशौ पुत्राविमौ दृष्ट्वा भुवि कार्षिकपीडितौ ।
सीदामि परमा प्रीतिः पुत्रान्नान्यात्र देहिनाम् ॥ ४० ॥
इत्युक्त्वा बहुपुत्रापि शुशोच सुरभिः पुरा ।
एकपुत्रापि कौसल्या न जाने कथमास्थिता ॥ ४१ ॥
तातस्याहं क्षये हेतुरयशोधूलिधूसरः ।
द्रक्ष्यामि कथमार्यस्य वात्सल्याभिमुखं मुखम् ॥ ४२ ॥
इत्युक्त्वा प्ररुरोदार्तस्तारगम्भीरनिःस्वनैः ।
कुर्वन्भुवनकोणेषु जगत्सिंहगुहाभ्रमम् ॥ ४३ ॥
ततो विदितवृत्तान्तः क्रुद्धो नाग इव श्वसन् ।
जग्राहाभ्येत्य भरतं शत्रुघ्नः पतितं भुवि ॥ ४४ ॥
सोऽब्रवील्लक्ष्मणेनैव कृतं सर्वमसांप्रतम् ।
वीरो यः क्लेशवत्सेहे राधवस्य विवासनम् ॥ ४५ ॥
अवध्या जननी योषिदात्महा पापमश्नुते ।
आर्यप्रवासनस्यास्य कष्टं नास्ति प्रतिक्रिया ॥ ४६ ॥
कोपादुक्त्वेति शत्रुघ्नो विलोक्य द्वारि मन्थराम् ।
गुल्फदेशे समादाय चकर्षाकीर्णभूषणाम् ॥ ४७ ॥
क्रोशन्त्या वदनं तस्या विपुलं पांसुमुष्टिभिः ।
संपूर्य चक्रे निष्पिष्टतद्भूषणभृतां भुवम् ॥ १८ ॥
सेयं किल्विषकन्दानां निन्द्यानां प्रथमा मही ।
उक्त्वेति तां स तत्याज चिरेण शरणं गताम् ॥ ४९ ॥
ततः संस्तभ्य शोकाग्निं भरतो राममातरम् ।
गत्वा ववन्दे बाष्पाम्बुधौततच्चरणाम्बुजः ॥ १० ॥
निवेदितं तया श्रुत्वा कैकेय्याश्चरितं पुनः ।
लज्जारजःपरिम्लानं शुशोचात्मानमात्मना ॥ ११ ॥
तमुवाचाथ कौसल्या बाष्पव्याकुलिताक्षरम् ।.
धन्या पश्यति कैकेयी पुत्रं पूर्णमनोरथा ॥ ५२ ॥
गतस्ते जनकः स्वर्ग यातः काननमग्रजः ।
भजतामधुना राज्यं जनन्या समुपार्जितम् ॥ १३ ॥
अनुजानीहि मां पुत्र सुमित्रासहितां वनम् ।
व्रजामि लक्ष्मणारामं रामं चन्द्रमिवेक्षितुम् ॥ ५४ ॥
श्रुत्वेति तद्वचः शोकविधुरं मधुराशयः ।
उवाच भरतो दोषं शङ्कमान इवात्मनि ॥ ५५ ॥
कथमङ्के विवृद्धस्य जानीषे न ममाशयस् ।
जनापवादनिन्द्या श्रीः कस्य प्रीणाति मानसम् ॥ ५६ ॥
असत्यः शास्त्ररहितोऽसत्याचारविवर्जितः ।
यदा स्पृशतु गां वह्निं वयस्यगुरुतल्पगः ॥ १७ ॥
प्रजाभागकरग्राही पार्थिवः शस्त्ररक्षिता ।
राजा गृहेऽभिरमतां भृत्ययाचकवञ्चकः ॥ १८ ॥
कृतघ्नः पक्षमाश्रित्य करोतु न्यायनिर्णयम् ।
अदत्त्वा स्वयमश्नातु स्तब्धः पूज्यावमानकृत् ॥१९॥
पतितः साधुविद्वेषी शिशुगोस्त्रीद्विजान्तकः ।
भक्तत्यागी गुरुज्ञश्च स्तेनो विश्वस्तघातकः ॥ ६० ॥
उभे संध्ये शयानश्च मूर्खो यातु प्रमातृताम् ।
षण्मासान्वसतु ग्रामे स्वपुत्रीमुपजीव्यतु ॥ ११ ॥
स सर्वपातकावासः प्रयातु तमसां पदम् ।
यस्यानुमतमार्यस्य गमनं गुणशालिनः ॥ १२ ॥
भरतेनेत्यभिहिते कौसल्या लज्जितावदत् ।
पुत्र जानामि ते भावं शपथं मा कृथाः परम् ॥ ६३ ॥
साधोर्विशुद्धसत्त्वस्य सदा तव विवेकिनः ।
दोषपङ्क इव व्योम्नः कदा केनानुमीयते ॥ १४ ॥
राममातुरिति श्रुत्वा भरतः शोकपीडितः ।
वियोगं चिन्तयन्घोरं न शर्म प्रत्यपद्यत ॥ १५ ॥
आत्मानं कारणं ज्ञात्वा पितुर्भ्रातुश्च किल्बिषे ।
सोऽभूदार्ततरः पीत्वा सुरां मोहादिव द्विजः ॥ १६ ॥
तस्य भूमौ शयानस्य मूर्छाव्यथितचेतसः ।
लज्जानुशयतप्तस्य कृच्छ्रेण रजनी ययौ ॥ ६७ ॥
तमाधिदुर्बलं यक्ष्मक्षीयमाणमिवोडुपम् ।
तस्थुः संपरिवार्यार्त मुनिभिः सह मन्त्रिणः ॥ ६८ ॥
ततोऽतिशोकसंतप्तं श्वासम्लानाननाम्बुजम् ।
श्रेष्ठो मनीषिणामूचे वसिष्ठो भगवान्मुनिः ॥ १९ ॥
संपत्सु च कुलीनानां विपत्सु च विवेकिनाम् ।
स्थैर्य विनयधैर्याभ्यां गाम्भीर्य च विभाव्यते ॥ ७० ॥
मोहध्वान्तनिशीथेन शोकेनातिप्रमाथिना ।
धृतिवल्लीकुठारेण न स्पृशन्ति मनीषिणः ॥ ७१ ॥
शोकोद्गतिरियं पुंसः सततं परिवर्धते ।
श्यामिका दर्पणस्येव हेमन्तस्येव यामिनी ॥७२॥
प्रकाशपरिपन्थिन्यो व्यसनापातदूतिकाः ।
एताः परिचिता जाता न शुचः शुचिचेतसाम् ॥ ७३ ॥
हृतान्सुदयितान्कालाप्रवहेण वलीयसा ।
संसारासारतां ज्ञात्वा न शोचन्ति विवेकिनः ॥ ७४ ॥
कर्तुमर्हसि धर्मेण क्रियां नैर्याणिकीं पितुः ।
इयं विधार्यते केन गच्छन्ती जन्तुसंततिः ॥ ७५ ॥
भवेऽस्मिंल्ललनालोललोचनाञ्चलचञ्चले।
आयूंषि तरलान्येव यौवनानि सुखानि च ॥ ७६ ॥
वियोगमोहकलिले वैक्लव्यव्यसनार्णवे ।
उग्रशोकग्रहग्राहे न सज्जन्ति भवद्विधाः ॥ ७७ ॥
भूरिद्युम्नः पुरा राजा सुकृती त्रिदिवं गतः ।
संततैर्बन्धुवाष्पौघैः क्षीणपुण्य इव च्युतः ॥ ७८ ॥
वसिष्ठेनेत्यभिहिते मन्त्रिभिश्च पुनः पुनः ।
कृच्छ्रादिव पितुश्चके भरतो देहसत्क्रियाम् ॥ ७९ ॥
शास्त्रोचितेन विधिना संस्कारे पृथिवीपतेः ।
वृत्ते निवृत्तविभवं बभूव निखिलं पुरम् ॥ १० ॥
कृतोदकं गताशौचं भरतं शोकमूर्छितम् ।
उपतस्थुः प्रजानाथं चाभिषेकाय मन्त्रिणः ॥ ८१॥
सोऽभिषेकसमारम्भं निवार्य विगतस्पृहः ।
वनयात्रोत्सुकस्तस्थौ रामदर्शनलालसः ॥ ८२ ॥
इति दशरथसंस्कारः ॥ १॥
सोऽब्रवीद्भवतामग्रे रचितोऽयं मयाञ्जलिः ।
राज्यं मे रामपादाब्जसेवारसमहोत्सवः ॥ ८३ ॥
राज्यमर्हति काकुत्स्थस्तस्य दास्योचिता वयम् ।
ज्येष्ठाभिगामिनी लक्ष्मीः सदैव रघुभूभुजाम् ॥ ८४ ||
व्यसनं हि तदैश्वर्यं साप्युन्नतिरधोगतिः ।
न यत्र रामपादाब्जरजसा रञ्जितं शिरः ॥ ८ ॥
विश्वरक्षामणिं तस्माज्ज्येष्ठं ज्येष्ठैर्गुणैर्युतम् ।
रामं प्रसादयिष्यामि वनं गत्वा निजश्रिये ॥ ८६ ॥
इति ब्रुवाणमसकृद्भरतं साश्रुलोचनम् ।
प्रशशंसुर्वसिष्ठाद्या मुनयः सह मन्त्रिभिः ॥ ८७ ॥
सोऽथ सर्वाः पुरस्कृत्य प्रकृतीः सुकृतोज्ज्वलाः ।
प्रतस्थे स्थिरसंकल्पो वनं वारिजलोचनः ॥ ८८ ॥
शनैः प्रसर्पतस्तस्य गजगण्डालिमण्डलैः ।
चरितैरिव कैकेय्या बभूवुर्मलिना दिशः ॥ ८९ ॥
बभूव भूमिपालानां स्वच्छच्छत्रैः सितं नमः ।
भरतस्य गुणोदारं यशो वक्तुमिवोद्गतैः ॥ ९० ॥
व्रजन्वाजिव्रजखुरोद्भूतधूलीपटच्छलात् ।
स्वर्गे दशरथं द्रष्टुं वसुधेवोद्ययौ स्वयम् ॥ ९१ ॥
रथघोषप्रवृत्तानां बर्हिणां बर्हचन्द्रकैः ।
सकटाक्षा इव दिशो ददृशुर्भरतं पथि ॥ ९२ ॥
स ययौ शोधितेनाग्रे वर्त्मना कारुशिल्पिभिः ।
पुण्यैः संमार्जितेनेव सुकृती निजकर्मणा ॥ १३ ॥
प्रयान्तं भरतं दृष्ट्वा रामस्य विनिवर्तने ।
तमेवानुययुः प्रीत्या प्रजास्तद्दर्शनोत्सुकाः ॥ ९४ ॥
सा शस्त्रवीचिनिचया च्छत्रफेनाट्टहासिनी ।
प्राप भागीरथीकूलं शनैर्भरतवाहिनी ॥ ९५ ॥
दिनस्यान्ते संनिविष्टां तामपारां पताकिनीम् ।
गुहो निषादाधिपतिर्दृष्ट्या चिरमचिन्तयत् ॥ १६ ॥
इक्ष्वाकूणामियं सेना तुरङ्गगजगामिनी ।
क्व नु सर्पति वीरेण भरतेनानुपालिता ॥ ९७ ॥
नूनं विभवलुब्धोऽयं रामं हन्तुमुपागतः ।
स्वजनस्नेहहारिण्यः कर्कशा हि विभूतयः ॥ ९८ ॥
यद्ययं वक्रसंकल्पः काकुत्स्थमभिधावति ।
अस्य स्पष्टोपदेष्टारस्तदेते राजमन्त्रिणः ॥ ९९ ॥
इति निश्चित्य मनसा निषादाधिपतिर्गुहः ।
उपायनं समादाय प्रययौ भरतान्तिकम् ॥ १० ॥
प्रणम्य भरतं तत्र यथार्हावाप्तसत्कृतिः ।
शुश्राव तस्य संकल्पं स्थिरं रामनिवर्तने ॥ १०१ ॥
भरतस्तद्गिरा श्रुत्वा रामं चीरजटाधरम् ।
नवीभूतमहाशोकः पपात व्यथितः क्षितौ ॥ १०२ ॥
कौसल्याद्यास्ततोऽभ्येत्य मातरः शोकविह्वलाः ।
तं समाश्चास्य शनकैर्निःशब्दं शुशुचुर्निशि ॥ १०३ ॥
अथापरेऽह्नि भरतो रामसंदर्शनोत्सुकः ।
ययौ गुहोपदिष्टेन गङ्गामुत्तीर्य वर्त्मना ॥ १०४ ॥
स प्रविश्य घनच्छायं प्रयागं नाम काननम् ।
भरद्वाजाश्रमं प्राप लीलोद्यानं तपःश्रियः ॥ १०५ ॥
विद्यावेश्मनि स प्राप निर्मिते विश्वकर्मणा ।
दिव्यां देवोपचाराही भोगसंभोगसंपदाम् ॥ १० ॥
गन्धर्वगणगीतेन नृत्येन सुरयोषिताम् ।
स प्राप्य विपुलां प्रीतिं प्रतस्थे प्रातरुत्सुकः ॥ १०७ ॥
पश्चाद्रजन्तं दृष्ट्वास्य महर्षिर्जननीजनम् ।
तमपृच्छद्विभागेन पृष्टश्च भरतोऽभ्यधात् ॥ १०८ ॥
इयमार्यस्य कौसल्या माता जिष्णोरिवादितिः ।
माता यस्य न लोकेऽस्ति यशसामथ तेजसाम् ॥ १०९ ॥
इयं सुमित्रा भगवन्वीरवृत्तिरिवोचिता ।
यस्या लक्ष्मणशत्रुघ्नौ वीर्यौदार्यचितौ सुतौ ॥ ११० ॥
जनापवादजननी ममेयं जननी विभो ।
कैकेयी दुस्तरे क्षिप्तो ययाहं शोकसागरे ॥ १.११ ॥
शोकान्तेनेति कथितं भरतेन मुनीश्वरः ।
कारणं दैवमेवात्र न कैकेयीत्यभाषत ॥. ११२ ॥
कानने चित्रकूटाख्ये रामं ज्ञात्वा मुनेर्गिरा ।
स्थितं स्थितिमतामग्र्यः प्रतस्थे भरतस्ततः ॥ ११३ ॥
स ससर्प सरत्सेनासमुद्रोत्तुङ्गवीचिभिः ।
धूतध्वजपटैः कुर्वन्कीर्ति पल्लवितामिव ॥ ११४ ॥
धूमालीं चित्रकूटस्य भूभृतस्तस्य सर्पतीम् ।
दूरादालोक्य भरतो रामाश्रमममन्यत ॥ ११५ ॥
इति भरतयात्रा ॥२॥
अत्रान्तरे वनान्तेषु पश्यन्कान्ततमाः श्रियः ।
विजहार विलासाङ्को राघवो दयितासखः ॥ ११६ ॥
स सीतावदनाम्भोजसक्तलोचनषट्पदः ।
उवाच दन्तकिरणैर्मूर्त हर्षमिवोद्धमन् ॥ ११७ ॥
इयं श्रीर्गिरिराजस्य तारनिर्झरहारिणी ।
भाति भूतिर्गजस्येव मनोनयनहारिणी ॥ ११८ ॥
विकासिकुसुमस्फूर्जद्रजःपुञ्जोपजीविनः ।
एते त्वद्वदनामोदसोदरा वान्ति वायवः ॥ १.१९ ॥
इयं विलासवसतिर्विलोलालिकुलालका ।
शिरीषवल्ली पुंनागं त्वमिवालिङ्ग्य मां स्थिता ॥ १२० ॥
रजोभिः कौसुमैर्दिक्षु स्फारकर्पूरपाण्डुरैः ।
एते विभान्ति तरवः सन्तः सच्चरितैरिव ॥ १२१ ॥
गायतीव सरस्यैषा शासनं नवमल्लिका ।
बालिकाकलिकाकोटिसक्तशिञ्जानषट्पदा ॥ १२२ ॥
इमाः कुसुमसंभारभूषिताः पुष्पधन्वनः ।
व्यक्तं रतिसहायस्य भान्ति विश्रान्तिभूमयः ॥ १२३ ॥
स्तवकस्तनसंसक्तपल्लवावर्जिताञ्जलिः ।
धवं प्रसादयत्येषा कुसुमावनता लता ॥ १२४ ॥
पुष्पश्रीर्मधुपालापः कलकोकिलकूजितम् ।
सेयं मदनकन्दस्य सुधासेकपरम्परा ॥ १२५ ॥
पश्य गङ्गामनङ्गारिजटापटलमालिकाम् ।
आनन्दजननीमस्य गिरेर्दूतामिव श्रियम् ॥ १२६ ॥
त्वङ्गत्तरङ्गभ्रूभङ्गभङ्गैरेषा विभाव्यते ।
गाढं गौरीपरिष्वङ्गात्कुपितेव पिनाकिनः ॥ १२७ ॥
लसत्कुसुमहासिन्यो विलासिन्यः सविभ्रमाः।
कूले नृत्यन्ति पश्यास्याः पवनाकुलिता लताः ॥ १२८ ॥
वैदुष्यं शीलवृत्त्येव धृत्येव महतां मनः ।
आभिजात्यं विभूत्येव भूषितं वनमेतया ॥ १२९ ॥
एते त्रिपथगातीरतारशीकरमारुताः ।
अमुक्तमौक्तिकलतां कुर्वन्तीव वनश्रियम् ॥ १३० ॥
निषसाद निगद्येति चारुतीरशिलातले।
अङ्के शशाङ्कवदनां जानकीं विनिवेश्य सः ॥ १३१ ॥
मनःशिलां शिलापार्श्वे कराग्रेणावधृष्य सः ।
ललाटे तिलकं तस्याश्चक्रे बालेन्दुसुन्दरे ॥ १३२ ॥
सुचारुतिलकोदारं वदनं हरिणीदृशः ।
निमेषदोषशून्याभ्यां नेत्राभ्यां स चिरं पपौ ॥ १३३ ॥
सा कपित्रासलोलाक्षी कण्ठे जग्राह राघवम् ।
गाढप्रियपरिष्वङ्गखर्वीभूतपयोधरा ॥ १३४ ॥
तस्याः कटाक्षविक्षेपैरदूरपरिसर्पिणाम् ।
बर्हिणां बर्हभारेण बभूव पुनरुक्तता ॥ १३५ ॥
रामस्य विपुलं वक्षः क्रान्तकान्ताविशेषकम् ।
कौस्तुभाभरणोद्भासिकैटभारेरिवाबभौ ॥ १३६ ॥
सबालकेसरदलैः कुटिलामलकावलीम् ।
अलंचकार वैदेह्याः पुलकालंकृताकृतिः ॥ १३७ ॥
शिलातलं परित्यज्य करेणालम्ब्य जानकीम् ।
स चचार वनान्तेषु करीव करिणीसखः ॥ १३८ ॥
रागिणामिव दीप्तेन ज्वलितं स्मरवह्निना ।
रक्ताशोकवनं प्राप्य गतशोको ननन्दतुः ॥ १३९ ॥
मिथो विहितनेपथ्यौ विकोशाशोकशेखरैः ।
तौ दम्पती विवभतुः कुसुमायुधनाटके ॥ १४० ॥
विहृत्य सुचिरं तत्र जग्मतुस्तौ स्वमाश्रमम् ।
पुरा प्रत्युद्गतेनैत्य लक्ष्मणेनाभिनन्दितौ ॥ १४१ ॥
मांसेन कृष्णसाराणां क्षतानां लक्ष्मणेषुभिः ।
बलिशेषेण वैदेही पत्युर्भोज्यमकल्पयत् ॥ १४२ ॥
मांसशेषस्य रक्षायै समादिष्टा प्रियेण सा ।
पक्षतुण्डनखाघातैः काकेनोद्वेजिता भृशम् ॥ १४३ ॥
इतस्ततो विलुलिता भ्रश्यत्कौशेयकांशुका ।
प्रीतये साभवद्भर्तुर्दृष्टार्धकुचकुड्मला ॥ १४४ ॥
काकेन कोपिता तीव्रं सा दष्टाधरपल्लवा ।
प्रियं प्रणयगर्भेण चक्षुषा क्षणमैक्षत ॥ १४५ ॥
ततः प्रियापरिभवादस्थानेऽप्यात्तसंभ्रमः ।
इषीकामभिमन्त्र्याशु चिक्षेप रघुनन्दनः ॥ १४६ ॥
संतर्जितोऽप्यसंत्रासः पक्षी लब्धवरोऽथ सः ।
अस्त्रेणाभिसृतो वेगाद्बभ्राम भुवनत्रयम् ॥ १४७ ॥
अनवाप्तपरित्राणः स गत्वा तु तपोवनम् ।
पादपीठार्पितशिरा रामं शरणमाययौ ॥ १४८ ॥
ततो रामगिरा दत्त्वा स तदस्त्राय लोचनम् ।
चक्षुषा रक्षितस्तेन काणः काको ययौ जवात् ॥ १४९ ॥
इति काकाक्षिशातनम् ॥ ३॥
अथोच्चचार गम्भीरगजगर्जितमन्थरः ।
मन्थाद्रिजलधिधीरो घोरः पंटहनिःस्वनः ॥ १५० ॥
हयहेषाविशालेन घनघोषानुकारिणा ।
कुपितास्तेन शब्देन समुत्पेतुर्मगेश्वराः ॥ १५१ ॥
स ययौ विपुलः शब्दो विद्याधरमहीभुजाम् ।
त्रस्तकान्तापरिष्वङ्गहर्षपीयूषवर्षताम् ॥ १५२ ॥
उच्चैरुच्चकुचाभोगविनश्यत्त्रिवलीयुताः ।
किमेतदिति संभ्रान्ताः किंनर्यो ददृशुर्दिशः ॥ १५३ ॥
अकाण्डे कोऽयमुच्चण्डप्रलयारम्भविभ्रमः ।
इत्येव चुक्रुशुस्तत्र पक्षिकोलाहलैर्द्रुमाः ॥ १५४ ॥
सैन्यसंमर्दपिशुनं शब्दमाकर्ण्य राघवः ।
तरुमारुह्य पश्यैतदिति प्रोवाच लक्ष्मणम् ॥ १६५ ॥
सालं पुष्पितमारुह्य सौमित्त्रिस्तस्य शासनात् ।
ददर्श चामरच्छत्त्रच्छन्नां भरतवाहिनीम् ॥ १५६ ॥
निगीर्णा इव जीमूतसंघातमलिनैर्गजैः ।
विलोक्य सर्वाः ककुभो रामं सौमित्त्रिरब्रवीत् ॥ १५७ ॥
अयं शस्त्रास्त्रकल्लोलसुभटग्राहघस्मरः ।
सैन्याम्बुधिरपर्याप्तः कानने परिसर्पति ॥ १५८ ॥
मत्तो विभवमानेन नूनं भरत आगतः ।
यदसौ दृश्यते दूरात्कोविदारो रथे ध्वजः ॥ १५९ ॥
प्राज्यं राज्यमवष्टभ्य कैकेयीतनयः स्वयम् ।
कण्टकोन्मूलनायैव नूनं त्वां योद्धुमागतः ॥ १६० ॥
अहो बतातिवक्रेण नयेनामिषदर्शिना ।
बडिशेनेव शफरः कृष्टोऽयं न भविष्यति ॥ १६१ ॥
ऐश्वर्यस्थैर्यकामस्य मद्विसृष्टाः प्रमादिनः ।
भवन्त्वस्योपदेष्टारो निपातगुरवः शराः ॥ १६२ ॥
श्रुत्वेति कोपतप्तस्य लक्ष्मणस्याग्रजो वचः ।
उवाच भरते शङ्कां सौमित्त्रे मा वृथा कृथाः ॥ १६३ ॥
भक्तिमान्भरतो नित्यमस्मासु विशदाशयः ।
धीरस्य तस्य सद्वृत्तं न नाम परिवर्तते ॥ १६४ ॥
कुले महति जातानां धीमतां वृद्धसेविनाम् ।
न भवन्ति विकारिण्यः संपदो हि महात्मनाम् ॥ १६५ ॥
प्राप्तो द्रष्टुमसावस्मान्न वाच्यः परुषं त्वया ।
विकारेऽप्यपरित्राणमाधुर्यं हि सतां वचः ॥ १६६ ॥
राज्ये यदि तवाप्यस्ति कोऽप्यादरलवः स्वयम् ।
ममाज्ञया त्यजत्येव भरतस्तदसंशयम् ॥ १६७ ॥
राघवेणेत्यभिहिते गुरुलज्जानताननः ।
अयाचतेव विवरं प्रवेष्टुं लक्ष्मणः क्षितिम् ॥ १६८ ॥
अवतीर्य स्वशालाग्रात्पार्श्वे भ्रातुरधोमुखः ।
न्यषीददिति तापान्तश्चिन्तयन्वाक्यलाघवम् ॥ १६९ ॥
इति लक्ष्मणकोपः ॥ ४ ॥
भरतोऽपि निजां सेनां विनिवेश्य यथोचितम् ।
सुमन्त्रशत्रुघ्नसखः प्रससर्पाग्रजोत्सुकः ॥ १७० ॥
जननीजनमादाय भवता मम पृष्ठतः ।
आगन्तव्यमिति प्राह सर्वमिष्टमभाषत ॥ १७१ ॥
उपसृत्याथ रुचिरं स दृष्ट्वा भ्रातुराश्रमम् ।
लम्बमानायुधधरं बभूवोद्वाष्पलोचनः ॥ १७२ ॥
सानुजं राममालोक्य दूराच्चीरजटाधरम् ।
मत्वा कारणमात्मानं विललापाश्रुगद्गदः ॥ १७३ ॥
जटाभृदिति दुःखेन हेतुरस्मीति लज्जया ।
प्राप्तो मयेति हर्षेण सोऽभूदाकुलिताशयः ॥ १७४ ॥
मन्दमन्दैर्मुहुः शोकादौत्सुक्यात्त्वरितैर्मुहुः ।
स भ्रातुरन्तिकं प्राप व्रीडाविलुलितैः पदैः ॥ १७५ ॥
रामं नत्वाश्रुसंरुद्धदृष्टिः क्ष्मालग्नशेखरः ।
आर्येत्युक्त्वा निपतितो नान्यद्वक्तुं शशाक सः ॥ १७६ ॥
तं मूर्छितं निपतितं समादाय महाभुजः ।
अङ्के रामः समारोप्य बाष्पदुर्दिनवानभूत् ॥ १७७ ॥
प्रीत्या मूर्ध्नि तमादाय पप्रच्छ स्वच्छमानसः ।
दन्तांशुनिवहेनाग्रे हंसमालामिवावहन् || १७८ ॥
दिष्ट्या पश्यामि वत्स त्वां वात्सल्यप्रणयास्पदम् ।
कच्चित्तातमनामन्त्र्य नागतोऽस्यजनं वनम् ॥ १७९ ॥
कच्चित्स कुशली राजा राजश्रीरजनीविधुः ।
व्योममानसहंसालीर्यस्य कीर्तिर्विराजते ॥ १८० ॥
कुशलिन्यो जनन्यस्ताः कच्चित्ताः कुलदेवताः ।
पुरोधाः कुशली कच्चित्समैत्रावरुणो मुनिः ॥ १८१ ॥
रक्षितात्मा हितामात्यः कोशराष्ट्रविवर्धनः ।
भृतदुर्गो मौलिबलः कच्चित्सन्मित्रवानसि ॥ १८२ ॥
कच्चित्प्राप्ताभिषेकस्य मत्त्रिणस्तव संमताः ।
प्रौढराज्यप्रवहणे संप्राप्ताः कर्णधारताम् ॥ १८३ ॥
मन्त्रः कच्चिदचपलैरामोदैरिव मारुतैः ।
कीर्यते तव संमर्दी सर्वं भिन्नो भिनत्ति सः ॥ १८४ ॥
कच्चित्सुखी प्रजाकार्यविचारपरिपन्थिनीम् ।
निन्द्यां न भजसे निद्रां विवेकालोकयामिनीम् ॥ १८५ ॥
एकोऽपि पण्डितः कच्चित्तव रक्षामणिः श्रियः ।
मूर्खसङ्गभरेणेयं पृथ्वी मिथ्यैव पीड्यते ॥ १८६ ॥
कच्चित्प्रयासि विदुषामुपदेशविधेयताम् ।
कच्चिदूर्णायुपूर्णेव सभा मूर्खैर्वृता न ते ॥ १८७ ॥
सदानिमित्तपिशुनाः क्रूरा दोषावलोकिनः ।
राजश्रीरजनीधूकाः खलाः कच्चिन्न ते प्रियाः ॥ १८८ ॥
दम्भारम्भसमाधाननिसङ्गनिभृता इव ।
कच्चिन्न ते त्वां मुष्णन्ति धूर्ताः श्रीसरसीबकाः ॥ १८९ ॥
कच्चिदाखुखुरोत्खातभुक्तबीजेव मेदिनी ।
सुषिरीक्रियते चौरैर्नाधिकारिगणैस्तव ॥ १९० ॥
ललभावदनाम्भोजविभ्रमभ्रमरावली ।
कच्चिन्न सक्ता दृष्टिस्ते नान्यकार्याणि पश्यति ॥ १९१ ॥
कच्चिदाकर्ण्य सुलभं लोभं परिभवास्पदम् ।
केवलं त्यक्तसत्कार्यैः कदर्यैः सह पश्यसि ॥ १९२ ॥
कच्चित्प्रजाः प्रजानाथ नोग्रदण्डेन बाधसे ।
शरणं नास्ति लोकेषु परित्राता निहन्ति चेत् ॥ १९३ ॥
कच्चिदधर्ममर्यादामुत्क्रम्यार्थान्समीहसे ।
धनं धनं कदर्याणां धर्मस्तु महतां धनम् ॥ १९४ ॥
मूढव्यसनकारिण्यो विकारिण्यः सविभ्रमाः ।
चिरं परिचिताः कस्य वेश्या इव विभूतयः ॥ १९५ ॥
श्रियो धर्मविरोधिन्यो धर्माः संपद्विनाशनाः ।
धर्मार्थोत्सादिनः कामा न भवन्ति महात्मनाम् ॥ १९६ ॥
दानं प्रजापरित्राणं यजनं धर्मरञ्जनम् ।
राज्यकल्पद्रुमस्यैता विपुलाः फलसंपदः ॥ १९७ ॥
ब्राह्मणेषु परा भक्तिः प्रभुशक्तेर्विभूषणम् ।
सा हि धर्मार्थकामानां राज्ञां रक्षामहौषधम् ॥ १९८ ॥
इति कच्चित्कम् ॥ ५ ॥
श्रुत्वेति वचनं भ्रातुर्भरतो विगतस्पृहः ।
उवाच धर्महीनस्य न मे राज्यस्य कारणम् ॥ १९९ ॥
अहो बतातिपापस्य दृढता कियती मम ।
यस्त्वामेवंविधं दृष्ट्वा दुःसहं वक्तुमुद्यतः ॥ २०० ॥
अयोध्यां स्वयमभ्येत्य भज राज्यं क्रमागतम् ।
स ते यातः पिता स्वर्गं धर्ममार्गनिरर्गलम् ॥ २०१ ॥
अहो निन्द्यतरं जन्म मम किल्बिषकारिणः ।
योऽहं नरेन्द्रनिधने त्वत्प्रवासे च कारणम् ॥ २०२ ॥
आर्य त्वयि वनं याते शोकाग्निमिव शोणितम् ।
वसन्व्यसुरभूद्भूमौ त्वामेव विलपन्नृपः ॥ २०३ ॥
निधनेन धराभर्तुरयोध्या न विराजते ।
सुमेरुशृङ्गभङ्गेन दारितेव वसुंधरा ॥ २०४ ॥
गतेऽनन्तगुणे राज्ञि स्वर्गं मज्जति मेदिनी ।
भोगेन्द्रविपुले दोष्णि यद्यार्येण न धार्यते ॥ २०५ ॥
अधुना क्रियतामार्य वत्सलस्य पितुः क्रिया ।
प्रियपाणिच्युतं वारि वाञ्छन्ति पितरोऽधिकम् ॥ २०६ ॥
श्रुत्वेति वज्रसंपातदुःसहं राघवो वचः ।
पपात पादप इव क्षतः कूलंकर्जलैः ॥ २०७ ॥
स लब्धसंज्ञः शनकैरुवाचाकुलितः शुचा ।
हा नाथ क्व नु यातोऽसि त्यक्त्वासान्देहि नो वचः ॥ २०८ ॥
अस्मदर्थपरित्यक्तजीवितस्याधुना तव ।
ददातु नाम रामस्ते निःसंज्ञः कथमञ्जलिम् ॥ २०९ ॥
हा कीर्तिनिर्झरगिरे गुरो गुणमहोदधे ।
द्रक्ष्यामि ते क्व नु मुखं प्रियं श्रोष्यामि वा वचः ॥ २१० ॥
स पिता तव सौमित्त्रे वैदेहि श्वशुरस्तव ।
महीनाथो गतः स्वर्गमनाथाः सर्वथा वयम् ॥ २११ ॥
रामायणमञ्जरी । ९७
इति प्रलापमुखरे रामेऽपि धृतिसागरे ।
सावेगं रुरुधुः सर्वे प्रसरद्वाष्पनिर्झराः ॥ २१२ ॥
ततो रामं समाश्वास्य सुमन्त्रः सानुजं शनैः ।
निनाय जाह्नवीकूलं पितुर्दातुं जलाञ्जलिम् ॥ २१३ ॥
बदरेङ्गुदिपिण्याकं तत्र दर्भेषु राघवः ।
निक्षिप्योवाच निःश्वस्य ध्यायञ्जलभृताञ्जलिः ॥ २१४ ॥
इदं ते वन्यमशनं प्रसीद पृथिवीपते ।
एतदर्हाः खलु वयमेतेनैव यजामहे ॥ २१५ ॥ ॥
एवं ब्रुवाणः काकुत्स्थः सानुजो विहितोदकः ।
गत्वाश्रमं शुचाक्रान्तो हा तातेति वदन्मुहुः ॥ २१६ ॥
रुदतां राजपुत्राणां तत्र तेषां महास्वनम् ।
समाकर्ण्याययुः सर्वे पौरमुख्याः ससैनिकाः ॥ २१७ ॥
यथोचितेन विधिना राघवेणाभिनन्दिताः ।
निजोचितेषु देशेषु सर्वे ते समुपाविशन् ॥ २१८ ॥
अथाययुर्वशिष्ठेन सहिता राममातरः ।
पश्यन्त्यो राघवप्रीत्या राघवाध्युषितं वनम् ॥ २१९ ॥
तत्र भागीरथीतीरे रामेण विहितं पितुः ।
बदरेङ्गुदिपिण्याकं दृष्ट्वा ताः शुशुचुर्भृशम् ॥ २२० ॥
जननीजनमालोक्य वसिष्ठं चाप्युपागतम् ।
प्रणनाम निजं नाम रामः स्वयमुदाहरत् ॥ २२१ ॥
ततस्तं चरणालीनजटामण्डलमाकुलाः ।
जनन्यः पाणिकमलैर्ललाटे जगृहुर्मुहुः ॥ २२२ ॥
दृष्ट्वा शशाङ्कवदनां सीतां वल्कलधारिणीम् ।
क्षणं मुमोह कौसल्या सुमित्त्रा धृतविग्रहा ॥ २२३ ॥
तेषां दुःखकथासक्तचेतसां साश्रुचक्षुषाम् ।
अवश्यायकणोद्वाष्पा प्रययौ यामिनी शनैः ॥ २२४ ॥
१. ‘न्ना’ शा०. २. ‘तैरे’ शा०.
प्रातः समुपविष्टेऽथ वशिष्ठप्रमुखैः सह ।
रामे सभार्ये भरते वक्तुकामे पुरःस्थिते ॥ २२५ ॥
किं वक्ष्यतीति निःशब्दे सोत्कण्ठे स्तिमिते जने ।
निवातनिस्तरङ्गस्य जलधेरुपमां दधे ॥ २२६ ॥
उवाच भीरुर्गम्भीरजलधिध्वानधीरया ।
गिरा गुरुजनानम्रो भ्रातरं भरतः शनैः ॥ २२७ ॥
नेयमार्यस्य पुरतो मम वक्तुं प्रगल्भता ।
सहजप्रणयस्यायमुत्सेको भक्तिसंभवः ॥ २२८ ॥
यशःशेषे नरपतौ निःशेषगुणमण्डने ।
अशेषेयं वसुमती वोढारं त्वां समीहते ॥ २२९ ॥
स ददौ यदि मे राज्यं राजा योषिद्वशीकृतः ।
तत्कथं स्वस्थमनसो ममापि मतिविप्लवः ॥ २३० ॥
तव क्रमागतं राज्यं का स्पृहा राम मादृशाम् ।
कथं न स्कन्धमाधत्ते दिक्कुञ्जरपदे मृगः ॥ २३१ ॥
सत्यं त्वत्पादसेवैव राज्यं विरजसो मम ।
न राज्यं प्राप्तुमर्होऽहं सोमं शूद्र इवाध्वरे ॥ २३२ ॥
लोकप्रदीपे कालेन शान्ते तस्मिन्महीपतौ ।
आर्य प्रजाः प्रतीक्ष्यन्ते सूर्यस्येव तवोदयम् ॥ २३३ ॥
राज्यं परित्यक्तं त्वया तातस्य शासनात् ।
मयोपनीतं दासेन तदिदं प्रतिगृह्यताम् ॥ २३४ ॥
प्रसीद पालय विभो नाथहीनां महीमिमाम् ।
विपदं विस्मरत्येष जनो राजवियोगजाम् ॥ २३५ ॥
भरतेनेत्यभिहिते समस्तजनसंमते ।
रामः सत्यसुधां दन्तत्विषा वर्षन्निवाभ्यधात् ॥ २३६ ॥
संचयानां क्षयोऽवश्यं निपातोऽवश्यमुन्नतेः ।
सङ्गानां विरहोऽवश्यमवश्यं मृत्युरायुषः ॥ २३७ ॥
रामायणमञ्जरी । ९९
धनं विभूतयो योगाः प्रीतयः प्रियसंगमाः ।
आयूंषि च पतन्त्येव क्षयचक्रे शरीरिणाम् ॥ २३८ ॥
स्वभाव एष भावानां यदभावातिपातिनः ।
आयुषश्च स्वभावोऽयं सर्वथा यद्विपद्यते ॥ २३९ ॥
न मे कश्चिदुपायोऽस्ति शक्तिः संक्षयदीक्षिता ।
अधो विधीयते येन कालस्याग्नेरिवोद्गतिः ॥ २४० ॥
तस्यास्य तव चासक्तं ममान्येषामथात्मनः ।
क्षयं सर्वात्मना ज्ञात्वा सन्तः स्वस्थवदास्थिताः ॥ २४१ ॥
अभावावधयो भावा निधनावधि जीवितम् ।
अविवेकस्त्वनवधिर्येनायं जायते भ्रमः ॥ २४२ ॥
धर्मोपदिष्टेन पथा यातः स सुकृती दिवम् ।
न नः शोच्यः पिता यस्य यशःपुण्यमिवाक्षयः ॥ २४३ ॥
मया तु शासनं तस्य न त्याज्यं सत्यवर्तिना ।
को हि सत्यधनो नाम सत्यमेव समुत्सृजेत् ॥ २४४ ॥
राघवेणेत्यभिहिते सत्यपारं तितीर्षुणा ।
उवाच साश्रुनयनः शोकान्तो भरतस्तथा ॥ २४५ ॥
आर्य प्रसीद पापस्य ममाविज्ञातपातिनः ।
मां समुद्धर कैकेय्या क्षिप्तं किल्बिषकर्दमे ॥ २४६ ॥
ईप्सितं शासनं कार्यं गुरोरिति जनश्रुतिः ।
प्राणत्यागप्रमाणं तु नेष्टं ते गमनं पितुः ॥ २४७ ॥
कुटिलोऽयमसत्सेव्यः पन्थास्तव तपस्विना ।
जनत्राणप्रणयिनी यदियं क्षत्त्रसंततिः ॥ २४८ ॥
अथ चेद्धेतुनिर्बन्धः प्रजानामेव पातकैः ।
अरण्ये विवृतास्येव तदहं त्वामनुव्रतः ॥ २४९ ॥
इति ब्रुवाणमसकृद्भरतं दृढनिश्चयम् ।
अपूजयञ्जनाः सर्वे कैकेय्याद्याश्च मातरः ॥ २५० ॥
१. ‘भो शा०. २. ‘व’ शा०.३. ‘र्त्तो’ शा०. ४. ‘त्वद्ग’ शा०. ५. ‘चराम्ये’ शा०.
तमब्रवीत्सत्यसंधो रामः काममलुप्तधीः ।
उचितं भाषसे भ्रातः श्रुतस्याभिजनस्य च ॥ २५१ ॥
किं तु राजा गुरुर्वृद्धः सत्यपाशवशीकृतः ।
पालने नियमस्यास्य प्रमाणीक्रियते मया ॥ २५२ ॥
यथाहं शासनात्तस्य त्यक्त्वा राज्यं वने स्थितः ।
तथा त्वयापि कर्तव्यं राज्यं भ्रातर्ममाज्ञया ॥ २५३ ॥
वरप्रदानसत्येन वृद्धस्य पृथिवीपतेः ।
अस्मद्वात्सल्यमात्रेण मा कृथाः सत्यविप्लवम् ॥ २५४ ॥
भज राज्यं क्रमायातं प्रजानामेव भूतये ।
क्रियतां सत्यसाहाय्यं परलोकगतौ पितुः ॥ २५५ ॥
एतदर्थं समीहन्ते पितरो बहुपुत्रताम् ।
यद्येकोऽपि गयां गत्वा तिमिरात्तारयिष्यति ॥ २५६ ॥
सत्यं रक्ष पितुः पुत्र सत्यं सत्ययशोनिधेः ।
सत्यं तीर्थतपोदानयज्ञेभ्योऽपि विशिष्यते ॥ २५७ ॥
इति रामस्य वदतो व्यथिते भरते पुनः ।
शल्यविद्ध इवावाप्ते मर्मणि क्षिप्रमूढताम् ॥ २५८ ॥
प्रजानां हितमाशंसं जाबालिरवदन्मुनिः ।
प्रतिज्ञापाशनिर्बन्धं रामस्य च्छेत्तुमुद्यतः ॥ २५९ ॥
अहो नु भ्रमते नूनं परतन्त्रस्य ते मतिः ।
शुष्कक्रियावासनया सूक्ष्ममर्थं न पश्यसि ॥ २६० ॥
जन्मोपकरणं माता जन्मोपकरणं पिता ।
प्रीतिमात्रोपकरणं सुहृत्स्वजनबान्धवाः ॥ २६१ ॥
ममायमहमस्येति संबन्धोऽयं निरर्थकः ।
आत्मैव सुखदुःखानां भोक्ता नान्यः शरीरिणाम् ॥ २६२ ॥
संसारवर्त्म पान्थानामनिशं परिसर्पताम् ।
देहिनां पितरो नाम जन्ममात्रप्रतिस्रुवः ॥ २६३ ॥
कथं दशरथस्यान्ते राज्यं त्यजसि निःसुखः ।
तव तस्य च संबन्धो नेदानीं भिन्नवर्त्मनोः ॥ २६४ ॥
अस्मिन्नल्पसुखे नित्यं बहुदुःखे च जीविते ।
सुखलेशं समादाय वर्तते कुशलः किल ॥ २६५ ॥
धनाशौचशरीराणि निघृष्यन्ते यथा यथा ।
तथा तथा भृशं तेभ्यो दुःखमेव प्रजायते ॥ २६६ ॥
यथा कण्टकशाखादि त्यज्यते पुष्पिताद्वनात् ।
धर्मपुष्पार्थिना तद्वत्संत्याज्यः क्लेशविस्तरः ॥ २६७ ॥
धर्मस्कन्धः प्रवृद्धोऽयं कुटिलो ह्यतिकर्कशः ।
सन्तस्तस्मिन्न सज्जन्ति हेलया तत्फलेप्सवः ॥ २६८ ॥
धर्मतन्त्रमविज्ञाय निर्बन्धादात्मपीडया ।
पाठमात्ररता एव न मूर्खाः सुखभागिनः ॥ २६९ ॥
बहुदानसुखे राज्ये जनत्राणमहाफले ।
वाङ्मात्रसंयमैः कस्माद्विमुखोऽसि महामते ॥ २७० ॥
समन्युर्लक्ष्यते कस्मान्न मयोक्तोऽसि नास्तिकम् ।
धर्मं भजन्ते कुशला विवेश्य गुरुलाघवम् ॥ २७१ ॥
इति जाबालिवचनं निशम्य रघुनन्दनः ।
उवाचान्तर्लसत्कोपो मुनिगौरवयन्त्रितः ॥ २७२ ॥
भगवन्नतिवात्सल्यादस्माकं स्निग्धचक्षुषा
उपपत्येव घटितं केवलं भवतोदितम् ॥ २७३ ॥
सत्यच्युतेनाशुचिना किं मनुष्येण कारणम् ।
पात्रेणेवास्तदीपेन कायेनेव गतासुना ॥ २७४ ॥
पुंसः सत्यविहीनस्य सत्त्वभ्रष्टस्य किं श्रिया ।
अन्यस्य चन्द्रकान्त्येव मालयेव गतायुषः ॥ २७५ ॥
राजा चेद्धर्ममर्यादां लोभादुत्क्रम्य वर्तते ।
उन्मूलोपप्लवेनैताः सर्वथा निहताः प्रजाः ॥ २७६ ॥
वैराग्यमिव वृद्धानामौचित्यं महतामिव ।
शुचिशीलमिवार्याणां सत्यं राज्ञां विभूषणम् ॥ २७७ ॥
न लोभात्सत्यमुद्द्रष्टुं भगवन्नहमुत्सहे ।
प्राप्ता अपि विनश्यन्ति सत्यहीनस्य संपदः ॥ २७८ ॥
तरङ्गभङ्गुरा भोगाः कार्पण्यमलिनं धनम् ।
कल्पान्तस्थायि धवलं यशः सत्यं च देहिनाम् ॥ २७९ ॥
कृतास्पदानि निम्नेषु न तिष्ठन्त्युन्नते क्वचित् ।
अव्ययप्रलयान्त्येव सलिलानि धनानि च ॥ २८० ॥
सन्तः संतोषविशदा व्रजन्तः सत्यवर्त्मना ।
धनैरधमसंधार्यैर्विदार्यन्ते न धीधनाः ॥ २८१ ॥
राज्यं विरजसामेव शोभते सत्यवादिनाम् ।
असत्यपङ्कमलिना विभूतिः कोपयुज्यते ॥ २८२ ॥
इति ब्रुवाणमसकृद्वसिष्ठस्तपसां निधिः ।
उवाच रामं वात्सल्यादिक्ष्वाकूणां परायणम् ॥ २८३ ॥
प्रजाहितार्थमुचितं राम जाबालिनोदितम् ।
न हि जानाति धर्मस्य गतिमेष सनातनीम् ॥ २८४ ॥
मनुवंशक्रमायातं त्याज्यं राज्यं निजं न ते ।
रघूणां ज्येष्ठभागिन्यः सर्वदैव विभूतयः ॥ २८५ ॥
कुलाचारं समुत्सृज्य न स्थितिं हातुमर्हसि ।
जन्म प्रजापरित्राणपरतन्त्रं हि भूभुजाम् ॥ २८६ ॥
वेदाचारव्रता विप्राः सन्तः सच्चरितव्रताः ।
कुरु मे वचनं राम जनन्याश्च कुलोचितम् ॥ २८७ ॥
न हि मां पितुराचार्यमवमन्तुमिहार्हसि ।
वसिष्ठस्येति वचनं रामो दृढविनिश्चयः ॥ २८८ ॥
निशम्य सत्यं न त्याज्यं मयेत्यूचे पुनः पुनः ।
ततो जगाद भरतः सुमन्त्रं व्यथितेन्द्रियः ॥ २८९ ॥
कुशैः कल्पय मे शय्यां तपसार्यः प्रसीदति ।
निराहारो निरालम्बस्त्यक्तकर्मा निराश्रयः ॥ २९० ॥
भवाम्येष वने मौनी यावदार्यः प्रसीदति ।
अथ वा भजताभार्यो राज्यं ज्येष्ठक्रमागतम् ॥ २९१ ॥
अहं तु पालयाम्यस्य वनवासव्रतं स्वयम् ।
सुमन्त्रमभिधायेति रामवक्रविलोकिनम् ॥ २९२ ॥
कुशैरास्तरणं भूमौ चकार भरतः स्वयम् ।
तमुवाचाग्रजो भ्राता न तवैतत्कुलोचितम् ॥ २९३ ॥
ब्राह्मणो हि दहत्येव प्रायः शय्याश्रितो जगत् ।
गच्छ मद्वचसा वत्स पाहि धर्मरतः प्रजाः ॥ २९४ ॥
मा भवन्तु कथाशेषा रघूणां कुलसंपदः ।
रामस्येति वचः श्रुत्वा भरतस्य च निश्चितम् ॥ २९५ ॥
भरतप्रेरिताः सर्वे पौरा रामं ययाचिरे ।
ततो भाविकथाभिज्ञविमलज्ञानलोचनाः ॥ २९६ ॥
ऊचुर्मुनीन्द्रा भरतं रामं मा दुर्ग्रहं कृथाः ।
रामः सत्यप्रतिज्ञोऽस्तु राज्यं च भजतां भवान् ॥ २९७ ॥
सत्यव्रतपरिभ्रष्टा क्व दृष्टा रघुसंततिः ।
इत्युक्ते मुनिगन्धर्वसिद्धकिंनरचारणैः ॥ २९८ ॥
बभूव भरतः क्षिप्रं वज्रेणेव समाहतः ।
सोऽपतत्पादयोर्भ्रातुः प्रसीदेति पुनः पुनः ॥ २९९ ॥
वात्सल्यस्याश्रुभिः कुर्वन्नभिषेकक्रिया इव ।
रामस्तमङ्कमारोप्य बभाषे यशसां निधिः ॥ ३०० ॥
त्वत्स्नेहादप्यहं वत्स न सत्यं त्यक्तुमुत्सहे ।
त्वं तु सत्येन महता कुलधर्मेण चामुना ॥ ३०१ ॥
सप्तार्णवप्रणयिनीं शक्तः पालयितुं महीम् ।
गच्छ मद्वचसायोध्यां वैक्लव्यं मा वृथा कृथाः ॥ ३०२ ॥
राघवेणेत्यभिहिते वशिष्ठः पुनरभ्यधात् ।
कुलं कर्म च संकीर्ण न येषां दोषशीकरैः ।
न तेषां जायते जातु कृच्छ्रेऽप्यनुचिता मतिः ॥ ३०३ ॥
न लोभादनुरागाद्वा भर्यादां रघुनन्दनः ।
महायशो भिनत्त्येष वेलामिव महोदधिः ॥ ३०४ ॥
भरत भ्रातुरादाय पादुके पालय प्रजाः ।
दैवतं सर्वकार्येषु देह्यस्मै राम पादुके ॥ ३०९ ॥
इत्युक्ते मुनिना भ्रातुः समादाय स पादुके ।
जननीभिः सह प्रायात्सानुगो भरतः शनैः ॥ ३०१ ॥
इति पादुकादानम् ॥ ६ ॥
पूज्यमानो मुनिगणैरौचित्यगुणगौरवात् ।
स जाह्नवीं समुत्तीर्य पुरीं प्राप्य त्रिभिर्दिनैः ॥ ३०७ ॥
स दृष्ट्वा निर्जनां दूरादयोध्यां विधुताशयः ।
उवाच सारथिं गुप्तनिःश्वासग्लपिताधरः ॥ ३०८ ॥
अहो नु निरलंकारा नववैधव्यधूसरा ।
इयं तातस्य नगरी शोकाक्रान्ता न शोमते ॥ ३०९ ॥
लक्ष्मीविलासनलिनी सेयमानन्दकौमुदी ।
वियोगास्पदतां दूरं तस्यैव स्वेच्छया विधेः ॥ ३१० ॥
कार्पण्यमलिनीव श्रीरसत्यमलिनीव वाक् ।
पुरीयं दृश्यते शून्या मात्सर्यमलिनेव धीः ॥ ३११ ॥
विभूतिर्व्यसनेनेव दैन्येनेवाभिमानिता ।
प्रीतिरप्रणयेनेव शोकेनेयं समाहिता ॥ ३१२ ॥
अत्र विस्रम्भनिभृतामन्ये वन्यमृगद्विपाः ।
स्वजातिदर्शनप्रीतिं लभन्ते चित्रवेश्मसु ॥ ३१३ ॥
निर्भग्नलम्बमानाब्जा ह्रियेवाधोमुखी स्थिता ।
कम्पते केलिसरसी वनमातङ्गदूषिता ॥ ३१४ ॥
अलक्तकार्द्रललनाचरणाङ्कासु भूमिषु ।
दृश्यते व्याघ्रपदवी सिक्ता हरिणशोणितैः ॥ ३१५ ॥ .
प्रत्यग्राग्रखुरोद्धूतकीर्णकुट्टिमचूर्णकात् ।
भित्त्याग्रविवरात्सर्पाः कृष्यन्ते वनबर्हिभिः ॥ ३१६ ॥
नाट्यवेश्मनिषण्णानां सिंहानां गलगर्जितैः ।
क्रियते घोरगम्भीरमुरजास्फालनभ्रमः ॥ ३१७ ॥
हेमरत्नगवाक्षेषु तन्तुजालवितानके ।
तूर्णनाभैर्विरचिते शेरते धनरेणवः ॥ ३१८ ॥
दृष्ट्वा बिम्बितमात्मानं कुपितैर्वनवारणैः ।
दन्ताघातस्फुलिङ्गाङ्काः क्रियन्ते मणिभित्तयः ॥ ३१९ ॥
रामप्रवासपिशुनां नृपहीनामिमां पुरीम् ।
द्रष्टुं विषादजननीं जननीमिव नोत्सहे ॥ ३२० ॥
नन्दिग्रामे करोम्येष राघवागमनावधि ।
भूभारचिन्ता हृदये मौलौ मूर्ध्नि च पादुके ॥ ३२१ ॥
अभिधायेत्ययोध्यायां निधाय जननीजनम् ।
मुनीनां संमतं प्रायान्नन्दिग्रामं स सानुजः ॥ ३२२ ॥
जटी वल्कलभृत्तत्र ब्रह्मचारी फलाशनः ।
उवाह वसुधां वीरः पूजयनरामपादुके ॥ ३२३ ॥
सिंहासने स विन्यस्य मणिकाञ्चनपादुके ।
सततं सकलास्थाने सिषेवे छत्त्रचामरैः ॥ ३२४ ॥
इति भरतव्रतग्रहणम् ॥ ७ ॥
अथ रामोऽपि संचिन्त्य चिरं लक्ष्मणमब्रवीत् ।
भुक्तं वनमिदं त्यक्त्वा गच्छामः काननान्तरम् ॥ ३२५ ॥
विमलत्वाद्वनस्यास्य संचारापिशिताशिनाम् ।
शनकैर्मुनयः सर्वे वनमन्यमितो गताः ॥ ३२६ ॥
इदं च भरतानीकं मदस्यन्दनवाजिभिः ।
मृदितं तच्छकृन्मूत्रपरिक्लिन्नतृणं वनम् ॥ ३२७ ॥
उक्त्वेति सीतानुगतो रामः सौमित्त्रिणा सह ।
पवित्रचरितस्यात्रेर्जगामाश्रममश्रमः ॥ ३२८ ॥
इति भरतपर्व ॥ ८ ॥
तत्र तं तेजसां राशिमृषिं विरचिताञ्जलिः । .
प्रणनाम कृतातिथ्यस्तेन स्निग्धाभिभाषितः ॥ ३२९ ॥
पत्नीं पतिव्रतां तस्य वृद्धसिद्धनमस्कृताम् ।
अनसूयां गिरा पत्युर्ववन्दे जनकात्मजा ॥ ३३० ॥
दशवर्षसहस्राणि यया तीर्थे कृतं तपः ।
फलमूलान्यनावृष्ट्यां जह्नुकन्यां च यासृजत् ॥ ३३१ ॥
दशरात्रायतां रात्रिं चक्रे देवहिताय या ।
तां प्रणम्य व्रतक्षामां जराशुभ्रशिरोरुहाम् ॥ ३३२ ॥
पुण्यां पुण्यार्जितामत्रेर्मूर्तामिव तपःश्रियम् ।
जहर्ष जानकी तस्याश्चरित्रेऽभ्यधिकादरा ॥ ३३३ ॥
अनसूया जगादाथ प्रणतां तां पुरःस्थिताम् ।
शीलव्रतपताकेव कम्पमाना जरावशात् ॥ ३३४ ॥
दिष्ट्या पुत्रि त्वया प्राप्तं सतीव्रतपवित्रितम् ।
सद्यशस्त्रिदशश्लाघ्यं वने पत्युः सपर्यया ॥ ३३५ ॥
नातः परतरं किंचित्कुलस्त्रीणां परं व्रतम् ।
यत्सदा भक्तिपूतेन मनसा भर्तृसेवनम् ॥ ३३६ ॥
संमुखं निहताः शूरा ज्ञाननिष्ठास्तपस्विनः ।
प्रयान्ति परमं धाम भर्तृभक्ता हि योषितः ॥ ३३७ ॥
प्रजानां दैवतं राजा पितरौ दैवतं सताम् ।
विप्राणां दैवतं वह्निर्नारीणां दैवतं प्रतिः ॥ ३३८ ॥
इयं सुधामयी कान्तिरिदं लीलामयं वचः ।
भर्तृभक्तिप्रणयिना शीलेन तव शोभते ॥ ३३९ ॥
गौरीव चन्द्रचूडस्य रोहिणीवामृतत्विषः ।
संमता ह्यसि रामस्य कमला श्रीपतेरिव ॥ ३४० ॥
सुरार्हमपरिम्लानं माल्यं वस्त्रविभूषणम् ।
दिव्यं विलेपनं चेदं गृहाणाश्लिष्टरूपदम् ॥ ३४१ ॥
इत्युक्त्वास्यै ददौ दिव्यं माल्याम्बरविभूषणम् ।
प्रणता प्रीतिदायं च प्रतिजग्राह जानकी ॥ ३४२ ॥
विस्रम्भप्रीतिवात्सल्यान्मुनिपत्न्याथ जानकी ।
पृष्टा जन्मकथामूचे सुधामधुरवादिनी ॥ ३४३ ॥
पुरा जनकभूपालो मेनकां नाककामिनीम् ।
दृष्ट्वा तत्संगमे पुत्रलाभाय विदधे मतिम् ॥ ३४४ ॥
जाते मनोरथे तस्य वागुवाचाशरीरिणी ।
अयोनिजमपत्यं ते भविष्यत्यचिरादिति ॥ ३४५ ॥
ततः क्रतुक्रियारम्भे विपुले तस्य भूपतेः ।
हेमलाङ्गलकृष्टायाः संजाताहं सुता भुवः ॥ ३४६ ॥
कालेन वर्धमानायां मयि पित्रा स्वयंवरः ।
धनुरारोपणपणः कल्पितो नृपसंगमे ॥ ३४७ ॥
अशक्तास्ते नृपा रुद्रचापारोपणकर्मणि ।
मयि शौर्याभिमाने च ययुर्भग्नमनोरथाः ॥ ३४८ ॥
ततो यदृच्छयाप्तेन धनुषो भङ्गकारिणा ।
प्राप्ताहमार्यपुत्रेण सेवासौभाग्यभागिनी ॥ ३४९ ॥
मुनिपली निशम्यैतत्प्रीत्या प्रोवाच जानकीम् ।
मधुरं ते वचः पुत्रि न तृप्तिं विदयाति मे ॥ ३५० ॥
आसन्नेयं शशिमुखी चन्द्रिका रुचिराम्बरा ।
तारांशुहारा त्वमिव श्यामा कुमुदहासिनी ॥ ३५१ ॥
गम्यतामन्तिकं पत्युरित्युक्त्वा विरराम सा ।
सीतापि प्रेयसः पार्श्वं जगाम प्रणिपत्य ताम् ॥ ३५२ ॥
विलोक्य राघवः सीतां भूषितां दिव्यभूषणैः ।
रत्नकल्लोलशबलां पीयूषलहरीमिव ॥ ३५३ ॥
पीताम्बरवतीं पुण्यरेणुव्याप्तां लतामिव ।
विस्मयौत्सुक्यहर्षाणां वश्यतां तुल्यमाययौ ॥ ३५४ ॥
इत्यत्रिदर्शनम् ॥ ९ ॥
ततः प्रातः प्रणम्यात्रिं हृष्टो रामस्तदाज्ञया ।
विवेश दण्डकारण्यं सानुजो दयितासखः ॥ ३५५ ॥
मुनिभिर्विहितातिथ्यो भूपातिशयविस्मितैः ।
उवाच वासवसमः स तत्र त्रिदिवोपमे ॥ ३५६ ॥
तमूचुर्मुनयो ज्ञात्वा रामं विश्रुतविक्रमम् ।
त्वद्वीर्यगुप्तमधुना निर्विघ्नं तात नस्तपः ॥ ३५७ ॥
वर्णाश्रमाणां गुरवस्तपस्त्राणात्तपस्विनाम् ।
त्वद्विधाः पृथिवीपाल हेलया फलभागिनः ॥ ३५८ ॥
इत्युक्त्वा मुनिभिः प्रीत्या पूजितो रघुनन्दनः ।
स्थित्वा तत्र निशामेकां वनं प्रातर्व्यगाहत ॥ ३५९ ॥
स वीरः सह जानक्या व्रजन्धन्वी सलक्ष्मणः ।
ददर्श कज्जलश्यामं निशीथमिव राक्षसम् ॥ ३६० ॥
व्याजृम्भि पिङ्गलश्मश्रुप्रभापरिकराननम् ।
खद्योतापूर्णपर्यन्तगुहागेहमिवाचलम् ॥ ३६१ ॥
मलिनेनातिमहता घनशोणितवर्षिणा ।
निजेन पातकेनेव संवीतं गजचर्मणा ॥ ३६२ ॥
दीप्तशीलिशिखाप्रान्तप्रोतकेसरिकुञ्जरम् ।
अकालप्रलयारम्भमिव भूतभयंकरम् ॥ ३६३ ॥
नासापुटकुटीनिर्यन्निःश्वासप्रलयानिलैः ।
कुर्वाणं फुल्लसालानां कम्पातङ्ककदर्थनाम् ॥ ३६४ ॥
तं वीक्ष्य चकिता सीता लोलैरालोकितैर्दिशाम् ।
चकार हरिणीनेत्रवर्गसर्गमिवासकृत् ॥ ३६५ ॥
सा भयोद्भ्रान्तनयनभ्रमद्भमरविभ्रमा ।
लतेव मारुतावर्तवलिता पतिमैक्षत ॥ ३६६ ॥
राक्षसोऽपि भृशं क्रुद्धः शब्देनापूरयन्दिशः ।
दोर्भ्यामादाय वैदेहीं राघवाभिमुखोऽवदत् ॥ ३६७ ॥
धन्विनौ जटिलौ चित्रं विपरीतव्रतौ युवाम् ।
भक्ष्यौ मे विधिनादिष्टौ स्त्रीसहायौ प्रमादिनौ ॥ ३६८ ॥
दुर्बला मुनयो यत्र दुर्जया यत्र राक्षसाः ।
लज्जैव योषितो यत्र धनुषश्च परिग्रहः ॥ ३६९ ॥
इयं ते ललिता योषिन्मुनिमानसहारिणी ।
प्रमत्तस्येव राजश्रीः प्रसह्य ह्रियते मया ॥ ३७० ॥
राक्षसोऽहं विराधाख्यो विराधितजगत्त्रयः ।
विश्रुतो मुनिमांसादः काननेऽस्मिन्कृतास्पदः ॥ ३७१ ॥
इति संरम्भसावेगं ब्रुवाणे पिशिताशने ।
उवाच लक्ष्मणं रामः प्रियापरिभवार्दितः ॥ ३७२ ॥
सुता जनकराजस्य विवृद्धान्तःपुरे सती ।
पश्य लक्ष्मण मे पत्नी कृष्यते घोररक्षसा ॥ ३७३ ॥
इति भ्रातुर्वचः श्रुत्वा सौमित्रिः प्रत्यभाषत ।
संरम्भः कोऽयमार्यस्य दासे तव पुरः स्थिते ॥ ३७४ ॥
शरान्कोपाङ्कुराकारानित्युक्त्वाप्राहिणोत्खरान् ।
ये भित्त्वा राक्षसं घोरं रक्ताङ्का विविशुः क्षितिम् ॥ ३७५ ॥
विराधोऽप्यधिकं क्रुद्धः शूलं कालानलोल्बणम् ।
लक्ष्मणोरसि चिक्षेप रामस्तच्चाकरोद्द्विधा ॥ ३७६ ॥ .
शराभ्यां राक्षसं भित्त्वा शूलं शूलं दिवौकसाम् ।
तृतीयेनास्य चिच्छेद हृदि जीवितबन्धनम् ॥ ३७७ ॥
स बाणभिन्नहृदयः पतन्भुवि निशाचरः ।
जगाद रुधिरोद्गारवदनो गद्गदाक्षरः ॥ ३७८ ॥
शतह्रदाया जातोऽहं विराधो नाम राक्षसः ।
वीर त्वयाद्य निहतः शापान्मुक्तस्तमोमयात् ॥ ३७९ ॥
पुराहं तुम्बुरुर्नाम गन्धर्वो विभवोन्मदः ।
रम्भासक्तः कुबेरेण शप्तस्तदभिलाषिणा ॥ ३८० ॥
त्वत्तो वधावधिः शापः स चायं क्षपितो मया ।
स्वस्ति तेऽस्तु व्रजाम्येष त्रिदिवं त्वत्प्रसादतः ॥ ३८१ ॥
अवटे क्षिप मे कार्य संस्कारो ह्येष रक्षसाम् ।
शरभङ्गमितो गत्वा पश्य श्रेयःपदं मुनिम् ॥ ३८२ ॥
इतो योजनमुत्क्रम्य सार्धं तस्याश्रमस्थितिः ।
इत्युक्त्वा लक्ष्मणाक्षिप्तशरीरः स दिवं ययौ ॥ ३८३ ॥
इति विराधवधः ॥ १० ॥
हत्वा विराधं काकुत्स्थः परिष्वज्य च वल्लभाम् ।
लक्ष्मणानुगतो वीरः शरभङ्गाश्रमं ययौ ॥ ३८४ ॥
अस्मिन्नवसरे-शक्रः स्यन्दनेनाग्निवर्चसा ।
शरभङ्गं समभ्येत्य बभाषे त्रिदशैः सह ॥ ३८५ ॥
भगवन्पूततपसस्तव स्वाधीनतां गताः ।
सर्वे सुकृतिनां लोका ब्रह्मणः पदमाप्नुहि ॥ ३८६ ॥
इत्युक्त्वा राममायान्तं दूरादालोक्य सानुजम् ।
सहस्रनेत्रस्त्रिदशानुद्धर्षविवशोऽवदत् ॥ ३८७ ॥
अनेन सुमहत्कार्यं सुरकार्यं यशस्विना ।
संपूर्णकृत्यं कालेन द्रक्ष्याम्येनमकिल्बिषम् ॥ ३८८ ॥
इत्युक्त्वा मुनिमामन्त्र्य देवैः सह शचीपतिः ।
दिवमाचक्रमे कुर्वन्प्रभाप्रावरणा दिशः ॥ ३८९ ॥
रामोऽपि सानुगं दूरात्प्रयान्तं वीक्ष्य वज्रिणम् ।
प्रणनाम समभ्येत्य शरभङ्गं कृताञ्जलिः ॥ ३९० ॥
प्रस्थितो ब्रह्मसदनं गन्तुं सोऽपि महामुनिः ।
प्रणयात्कर्तुमातिथ्यं राघवाय व्यलम्बत ॥ ३९१ ॥
सोऽब्रवीत्तपसा राम मया लोकाः सनातनाः ।
संप्राप्तास्तान्गृहाण त्वं पूज्यत्वात्सर्वमर्हसि ॥ ३९२ ॥
इत्युक्ते मुनिना रामो बभाषे विनयानतः ।
दर्शनं भवतामेव ब्रह्मधाम्नोऽधिकं मम ॥ ३९३ ॥
किं तपोभिरपर्यन्तैः किं यज्ञैर्बहुडम्बरैः ।
किं वा जलभृतैस्तीर्थैर्दर्शने त्वादृशां सति ॥ ३९४ ॥
निजपुण्यार्जितांल्लोकान्गमिष्यामि कृतोचितः ।
उक्त्वेत्यपूजयत्तस्य विश्वकारुण्यपुण्यताम् ॥ ३९५ ॥
सुतीक्ष्णस्याश्रमे राम मुनेर्वासस्तवोचितः ।
शरभङ्गो निगद्येति विग्रहं त्यक्तुमुद्ययौ ॥ ३९६ ॥
सप्तधातुमयं देहं सर्पनिर्मोकवन्मुनिः ।
त्यक्त्वाग्नौ पावकाकारः कुमारः समपद्यत ॥ ३९७ ॥
ततः स दिवमाक्रम्य परं शक्रपुरःसरः ।
ब्रह्मधाम ययौ धात्रा विहितस्वागतः स्वयम् ॥ ३९८ ॥
इति शरभङ्गदर्शनम् ॥ ११ ॥
शरभङ्गे गते व्योम्ना तदाश्रमनिवासिनः ।
मुनयोऽभ्याययुः सर्वे रामं सत्यपराक्रमम् ॥ ३९९ ॥
वैखानसा निराहारा वालखिल्या मरीचिषाः ।
अश्मकुण्ठाः पयोभक्षा मृगाजगरगोव्रताः ॥ ४०० ॥
दन्तोलूखलिनो व्योमनिलयाः पवनाशिनः ।
सततं सलिले मग्ना नग्नाः स्थण्डिलशायिनः ॥ ४०१ ॥
पञ्चातपा निरालम्बा वृक्षशाखाग्रलम्बिनः ।
अदृश्या धूमपाः पादाङ्गुष्ठाधाराः फलाशिनः ॥ ४०२ ॥
‘तमूचुर्विनयानभ्रं तमभ्येत्य तपस्विनः ।
चण्डांशुमालाः कपिलाः कुर्वाणास्तेजसा दिशः ॥ ४०३ ॥
एते त्वां मुनयो धन्यं तपोरक्षापरिक्षमम् ।
वर्णाश्रमगुरुं वीरं पश्यन्ति गुणगौरवात् ॥ ४०४ ॥
दातॄणां यज्ञशीलानां यतीनां तीर्थसेविनाम् ।
रक्षणात्क्षितिपाः सत्यं फलषड्भागभागिनः ॥ ४०५ ॥
अरक्षमाणाः क्ष्मापाला ब्राह्मणा ब्रह्मवर्जिताः ।
धनिनो दानहीनाश्च भुवो भाराय केवलम् ॥ ४०६ ॥
अल्पावशेषतां नीता वनेऽस्मिन्राक्षसैर्वयम् ।
तपःक्षयभयात्तेषु शापोऽस्माभिर्न चोज्झितः ॥ ४०७ ॥
राक्षसान्क्षपय क्षिप्रं मुनिसंक्षयदीक्षितान् ।
वयं त्वामधुना वीर शरण्यं शरणं गताः ॥ ४०८ ॥
इति श्रुत्वा मुनिगिरं राघवो रचिताञ्जलिः ।
उवाच सत्त्वधवलं दन्तांशुविशदं वचः ॥ ४०९ ॥
भवन्त एव लोकेषु शरण्याः शरणार्थिनाम् ।
किं त्वाज्ञासंविभागे वः पात्रं पुण्यवतां वरः ॥ ४१० ॥
एषोऽहं भवतामर्थे सज्जः कण्टकशोधने ।
स्वयं मे निश्चयो ह्येष शासनानुग्रहोऽधिकः ॥ ४११ ॥
इत्युक्त्वा तान्समामन्त्र्य सुतीक्ष्णस्याश्रमं मुनेः ।
जगाम रामः कामस्य रम्यं धाम शमस्य च ॥ ४१२ ॥
इति तापसाभयदानम् ॥ १२ ॥
सुतीक्ष्णं तीक्ष्णतपसां तीक्ष्णांशुमिव तेजसाम् ।
निधिं प्रणम्य काकुत्स्थः स्थितिं भेजे तदाज्ञया ॥ ४१३ ॥
तत्र तेन कृतातिथ्यः सुखं नीत्वा विभावरीम् ।
प्रातश्चचार रम्यासु तत्तपोवनभूमिषु ॥ ४१४ ॥
तं सज्जकार्मुकं दृष्ट्वा सायकेष्वधिकादरम् ।
उवाच सीता संचिन्त्य राक्षसक्षयदीक्षितम् ॥ ४१५ ॥
आर्यपुत्र कथं नाम यत्नेनैव निशाचराः ।
मृग्यन्ते ते हि नाद्यापि निकारपदवीं श्रिताः ॥ ४१६ ॥
नोत्तरन्ति प्रकोपस्य पारं किल भवद्विधाः ।
न यावदपराधेन सेतुर्धृतः पुरो महान् ॥ ४१७ ॥
असत्यं शीलविरहः प्राणहिंसा च देहिनाम् ।
प्रकृष्टं पातकं प्राहुर्न यशः कर्मदोहदम् ॥ ४१८ ॥
जन्मापूर्वमसत्यं ते शीलध्वंसस्य का कथा ।
सांप्रतं निर्विकारेषु हिंसा रक्षःसु नोचिता ॥ ४१९ ॥
अधिज्यं ते धनुरिदं नायुद्धेन प्रशाम्यति ।
अवश्यमुद्यतं शस्त्रं प्रतारयति दारुणम् ॥ ४२० ॥
न्यासीकृतं मुनिः कश्चित्कृपाणं केनचित्पुरा ।
ररक्ष सुचिरं हस्ते धृत्वा त्यक्तकमण्डलुः ॥ ४२१ ॥
न्यासपालनकष्टेन स संत्यक्ताखिलक्रियः ।
खड्गग्रहप्रसङ्गेन चक्रे मनसि शूरताम् ॥ ४२२ ॥
स क्रूरतां गतः काले पुण्यान्निजपदाच्युतः ।
अधिज्यं मा कृथाश्चापं नाथ रक्षस्व सांप्रतम् ॥ ४२३ ॥
प्रणयादिदमुक्तोऽसि न परिज्ञानगौरवात् ।
क्षन्तुमर्हसि मे नाथ स्त्रीस्वभावोदितं वचः ॥ ४२४ ॥
श्रुत्वेति जानकीवाक्यं प्रहृष्टो रघुनन्दनः ।
उवाच सीते जानीषे सर्वं वक्तुमनिन्दितम् ॥ ४२५ ॥
रक्षोभिरभिभूतानां रक्षायै निश्चितो मया ।
मुनीनां दीप्ततपसामयमाज्ञापरिग्रहः ॥ ४२६ ॥
इत्युक्त्वा सानुजो रामः प्रययौ मैथिलीसखः ।
पश्यन्निजयशःशुभ्रपुष्पस्मितसिता लताः ॥ ४२७ ॥
स व्रजन्दिवसस्यान्ते शिथिलत्विषि भास्करे ।
सयौवनायां संध्यायां ददर्श विपुलं सरः ॥ ४२८ ॥
सतां वृत्तमिव स्वच्छं वनश्रीमणिदर्पणम् ।
मज्जत्करिकराक्षेपक्षोभशीकरदुर्दिनम् ॥ ४२९ ॥
उत्फुल्लकमलैर्व्याप्तं लोलालिशबलोदरैः ।
मुखैर्मधुमदाताम्रैर्भ्रान्ताक्षैः सुदृशामिव ॥ ४३० ॥
पवनान्दोलितोदारफुल्लेन्दीवरसुन्दरम् ।
लीलाकटाक्षशबलं केलिवेश्म रतेरिव ॥ ४३१ ॥
विलोक्य लोलकल्लोलदोलारूढसरोरुहम् ।
तत्सरः सरसस्तेषां बभूव नयनोत्सवः ॥ ४३२ ॥
तत्र संदेहितामोदमत्तालिकुलनिःस्वनैः ।
गीतवाद्यरवं रामः शुश्राव श्रवणामृतम् ॥ ४३३ ॥
किमेतदिति पृष्टोऽथ मुनिस्तेन कुतूहलात् ।
उवाचेदं वचो राम दमकर्णेः पदं मुनेः ॥ ४३४ ॥
स हि वाताशनः स्थाणुभूतो वर्षायुतं तपः ।
तेपे बभूवुस्त्रिदशा येन प्रभ्रंशशङ्किताः ॥ ४३५ ॥
विघ्नायाप्सरसः पञ्च तैर्विसृष्टास्तदाश्रमम् ।
प्रययुर्यौवनोन्मत्ता मदनोन्मादभूमयः ॥ ४३६ ॥
तासां विवलितापाङ्गसंगतानङ्गविभ्रमैः ।
दमकर्णिर्ययौ क्षिप्रं प्रौढप्रीतिविधेयताम् ॥ ४३७ ॥
महागिरिगुहास्थैर्यमपि चेतो महात्मनाम् ।
पातयन्त्यप्रयत्नेन तरङ्गिण्यो वराङ्गनाः ॥ ४३८ ॥
स्मरस्य यदनायत्तं रागस्वाविषयं च यत् ।
तन्मुनेर्मानसं तासां केलिकार्मुकतामगात् ॥ ४३९ ॥
स सुन्दरतरं कृत्वा नवं लीलामयं वयः ।
ताभिस्तु सहितोऽहानि व्यगाहत महोत्सवः ॥ ४४० ॥
तस्यास्मिन्सरसस्तीरे सुरनारीविलासिनः ।
गीतवाद्यरसोत्सेकः सुगतः श्रूयते ध्वनिः ॥ ४४१ ॥
अत्याश्चर्यमयं श्रुत्वा विस्मितो रघुनन्दनः ।
चिरं तस्थौ ययुर्यावद्वने सार्धाः समा नव ॥ ४४२ ॥
ततः कथापरिचितं मनोरथपथोचितम् ।
रामः सुतीक्ष्णनिर्दिष्टमगस्त्यस्याश्रमं ययौ ॥ ४४३ ॥
इति सुतीक्ष्णाश्रमनिवासः ॥ १३ ॥
स सीतासहितो गच्छन्नगस्त्याश्रमकाननम् ।
उवाच लक्ष्मणं पश्य संतोषविषदा दिशः ॥ ४४४ ॥
आश्रमोऽयं श्रमहरस्तस्य पुण्यात्मनो मुनेः ।
नूनं यदेता जृम्भन्ते हृदयानन्दसंपदः ॥ ४४५ ॥
भृङ्गाक्षमालावलयव्यग्रपल्लवपाणयः।
पलाशिनो वल्कलिनो भान्त्येते मुनयो यथा ॥ ४४६ ॥
प्रशान्तवैररजसां सिंहेभफणिबर्हिणाम् ।
प्रेमप्रणयिनी चेष्टा निर्विकारैव दृश्यते ॥ ४४७ ॥
शीलवृत्तिः शमेनेव दानेनेव दयालुता ।
मुनिना दक्षिणेयं दिग्विभाति द्यौरिवेन्दुना ॥ ४४८ ॥
घोराविल्वलवातापी पुरा दैत्यौ बभूवतुः ।
यत्प्रतापेन सातङ्का बभूव भुवनत्रयी ॥ ४४९ ॥
मायामेषाकृतिं कृत्वा सदा भ्रातरमिल्वलः ।
ब्राह्मणेभ्यो वधायैव ददौ तन्मांसभोजनम् ॥ ४५० ॥
तृप्तानामथ विप्राणां कुक्षिं भित्त्वातिदारुणः ।
वातापी निर्ययौ क्षिप्रमित्यासीद्ब्राह्मणक्षयः ॥ ४५१ ॥
कालेनाथ मुनीन्द्रोऽसौ तेनागस्त्यो निमन्त्रितः ।
सिद्धं वातापिमांसेन संस्कृतं प्राप भोजनम् ॥ ४५२ ॥
एहीति हर्षादाहूते भ्रात्रा भ्रातरि दानवे ।
जीर्णो मयेति विहसन्नुवाचोद्गारवान्मुनिः ॥ ४५३ ॥
इल्वलं भ्रातृनिधनात्क्रुद्धं क्रोधान्महामुनिः ।
ददाह दुरितच्छेदाच्चक्षुषा सूर्यतेजसा ॥ ४५४ ॥
तस्येदमाश्रमपदं पुण्यार्हं कुम्भजन्मनः ।
विन्ध्यो यदाज्ञयाद्यापि धत्ते भूमिसमानताम् ॥ ४५५ ॥
प्रणम्यो भगवानेष चुलकापीतसागरः ।
इत्युक्त्वा राघवः प्रायादगस्त्यभ्रातुराश्रमम् ॥ ४५६ ॥
इतील्वलोपाख्यानम् ॥ १४ ॥
तं प्रणम्य ततो गत्वा प्रहृष्टो रघुनन्दनः ।
अगस्त्यस्याश्रमं पुण्यं विससर्जानुजं पुनः ॥ ४५७ ॥
विनयाल्लक्ष्मणेनाथ शिष्यस्यावेदितो मुनेः ।
विवेश शासनात्तस्य प्रह्वो दशरथात्मजः ॥ ४५८ ॥
विधिना प्रणिपत्याथ सानुजो दयितासखः ।
मुनीन्द्रं तद्विनिर्दिष्टमातिथ्यं प्राप राघवः ॥ ४५९ ॥
सुखोपविष्टे पुरतः काकुत्स्थे मुनिरब्रवीत् ।
स्वगुणैर्गुरुतां यातः सत्कारार्होऽसि राघव ॥ ४६० ॥
पूजामभ्यागतो यस्मान्नासादयति शक्तितः ।
परत्र मिथ्यासाक्षीव स मांसं निजमश्नुते ॥ ४६१ ॥
अतिथिर्विमुखो यस्य याति पूजां विना गृहात् ।
स तस्य पापं विन्यस्य पुण्यं हृत्वा पलायते ॥ ४६२ ॥
पूज्यस्त्वमस्य जगतो राजा विरजसां वरः ।
गृहाण वैष्णवं चापं विहितं विश्वकर्मणा ॥ ४६३ ॥
यः सर्वदितिजेन्द्राणां ययौ निधनदूतताम् ।
सायकं ब्रह्मदत्तं च तूणावक्षय्यसायकौ ॥ ४६४ ॥
तप्तहेमप्रभं खड्गं जयायैव ददानि ते ।
अभेद्यं च तनुत्राणमिदं वज्रभृतः प्रियम् ।
रथं मातलिसूतं च कार्यकालोपयोगिनम् ॥ ४६५ ॥
इत्युक्त्वासौ ददौ रत्नं दीप्तं सर्वं रथं विना ।
दत्त्वा पुनरुवाचेदं प्रसादविषदाशयः ॥ ४६६ ॥
कच्चिद्वने न खेदो वः कच्चिन्नोत्कण्ठते मनः ।
तासु राज्यतरुस्फीतफलसंभोगभूमिषु ॥ ४६७ ॥
बालिकेयं सखी सीता सुकुमारी सुखोचिता ।
स्नात्वा त्वद्भक्तिपीयूषैर्म्लानिं नायाति कानने ॥ ४६८ ॥
धन्यो जनकभूपालः साध्वी यस्येयमात्मजा ।
प्रायेण न भवन्त्येव लोके सत्यव्रताः स्त्रियः ॥ ४६९ ॥
विभवेष्वनुरागिण्यो विरागिण्यो विपत्सु च ।
अनार्याः कृच्छ्रसंभार्याः पुरुषाणां हि योषितः ॥ ४७० ॥
सुबद्धा अपि शीर्यन्ते म्लानिं यान्ति क्षणेन च ।
दूरस्था एव शोभन्ते पुष्पमाला इवाङ्गनाः ॥ ४७१ ॥
यासामोष्ठपुटे रागः परं मलिनता हृदि ।
गुणभ्रान्त्येव मुष्णन्ति जानीते कस्तदाशयम् ॥ ४७२ ॥
आसन्नदोषाश्चपलाः क्रूरकर्मपरिग्रहाः ।
एता मुहूर्तरागिण्यो घोराः संध्या इव स्त्रियः ॥ ४७३ ॥
इयं तु लोलाभरणा भर्तृव्रतपरायणा ।
रवेः प्रभेव ते सीता न दोषासङ्गभागिनी ॥ ४७४ ॥
इयं वनमही सीतापादन्यासपवित्रिता ।
सेव्यतामधुना प्राप्ता त्वद्बाहुबलपालिता ॥ ४७५ ॥
पुरा भार्गवशापेन देशोऽयं दण्डभूभुजा ।
त्यक्तो निरुदकच्छायो बभूवातिभयंकरः ॥ ४७६ ॥
योजनार्धसहस्त्रेऽस्मिन्पादे विन्ध्यस्य दक्षिणे ।
पर्जन्या नैव ववृषुर्ववुश्च न समीरणाः ॥ ४७७ ॥
ततोऽहं सुरकार्यार्थी संघर्षे मेरुविन्ध्ययोः ।
हिमाद्रिशिखराच्छून्यां प्राप्तः श्वेतामिमां पुरीम् ॥ ४७८ ॥
प्रावृट्जलदारम्भसंभावितनवाङ्कुरा ।
अथेयं विहिता भूमिर्मया सर्वभयोज्झिता ॥ ४७९ ॥
कालेनाथ पुनर्घोरैर्व्याप्तेयं राक्षसैर्मही ।
तत्र त्वद्दोष्णि संनद्धे संरम्भो न ममोचितः ॥ ४८० ॥
इत्युक्ते मुनिना रामो धन्यतामात्मनोऽवदत् ।
दर्शनाभाषणैस्तस्य हर्षपूर्णाश्रयोऽभवत् ॥ ४८१ ॥
इत्यगस्त्यदर्शनम् ॥ १५ ॥
ततो गोदावरीतीरे रम्ये पञ्चवटीतटम् ।
जगामागस्त्यनिर्दिष्टं स्थितये रघुनन्दनः ॥ ४८२ ॥
स गच्छन्पथि रुद्धांशुं सपक्षमिव भूधरम् ।
ददर्श तेजसां राशिर्वृद्धं गृध्रं जटायुषम् ॥ ४८३ ॥
राक्षसोऽयमिति ज्ञात्वा मुनित्राणकृतक्षणः ।
अभ्यद्रवद्वधायास्य रामः सौमित्त्रिणा सह ॥ ४८४ ॥
सोऽब्रवीद्गृध्रराजोऽहं जटायुरिति विश्रुतः ।
विस्रम्भभूरभून्मित्रं राजा दशरथो मम ॥ ४८५ ॥
ज्येष्ठे प्रजासृजां सर्गे योऽभूद्दक्षः प्रजापतिः ।
बभूवुः कन्यकास्तस्य भूतसंतानमातरः ॥ ४८६ ॥
अदित्याद्यासु देवीषु संभूते कश्यपान्मुनेः ।
सुरासुरमुखे तासु विश्वसर्गे समन्ततः ॥ ४८७ ॥
असूत विनता पुत्रौ काश्यपौ तेजसां निधी ।
आदित्यसूतमरुणं गरुडं च खगेश्वरम् ॥ ४८८ ॥
अरुणस्यास्मि तनयः संपाती च ममाग्रजः ।
युवां सख्युः क्षितिपतेर्दिष्ट्या पश्यामि पुत्रकौ ॥ ४८९ ॥
इत्युक्त्वा गृध्रराजेन परिष्वक्तौ नृपात्मजौ ।
ननन्दतुस्तमभ्यर्च्य दयितं सुहृदं पितुः ॥ ४९० ॥
इति जटायुसमागमः ॥ १६ ॥
ततो मरकतश्यामतालतालीमनोरमाम् ।
रामे पञ्चवटीं प्राप्ते चक्रे सौमित्त्रिराश्रमम् ॥ ४९१ ॥
तत्र प्रसन्नमधुराः स्निग्धाः पश्यन्वनस्थलीः ।
उवाच रामः सौमित्त्रिं नयनानन्दनिर्भरः ॥ ४९२ ॥
एते गोदावरीतीरतारशीकरमारुताः ।
लतावधूनां कुर्वन्ति स्फारं कामलता इव ॥ ४९३ ॥
अदूरे पद्मिनी चेयं दृश्यते हंसनूपुरा ।
क्रियते मधुपैर्यस्यां विलोलालकविभ्रमः ॥ ४९४ ॥
एताः सिद्धवधूहस्तन्यस्तसेकोचिता लताः।
तासां भजन्ते सादृश्यं संभिन्नैः स्तबकस्तनैः ॥ ४९५ ॥
उत्कण्ठाकोमलं केलिगीतं किंनरयोषिताम् ।
शृण्वन्ति वलितग्रीवाः स्तब्धकर्णाः कुरङ्गकाः ॥ ४९६ ॥
विद्याधरीणां कोऽप्येष रतिशय्यारसो नवः ।
अनिशं यान्ति मञ्जर्यो यत्पल्लवदरिद्रताम् ॥ ४९७ ॥
मञ्जुगुञ्जद्विहङ्गेषु काननेषु समन्ततः ।
विश्रान्ता इव दृश्यन्ते स्वान्तसंतोषसंपदः ॥ ४९८ ॥
शुभ्राभ्रनिकराकारनिर्झरैः श्वेतपातिमिः ।
भान्ति शीकरनीहारदुकूलिन्यो वनश्रियः ॥ ४९९ ॥
वाताः ससौरभाः शीता मधुरो मधुपध्वनिः ।
शस्यश्यामा मही चेति काननेऽस्मिन्महोत्सवः ॥ ५०० ॥
इत्युक्त्वा पल्लवगृहे स निनाय मनोहरे ।
रजनीं रजतोद्द्योतग्रहराजिविराजिताम् ॥ ५०१ ॥
प्राप्तो गोदावरीं रामः ससीतः सानुजो ययौ ।
कलहंसकुलक्वाणशिञ्जानरशनामिव ॥ ५०२ ॥
अथातिदारुणः प्रातः खलः क्रुद्ध इव क्षुधा ।
दुःसहो दिनपर्यन्तेऽचिरारक्षीब इवाधमः ॥ ५०३ ॥
सुखसेव्यश्च मध्याह्ने च्युतो नीचः पदादिव ।
निरुद्धाशो घनौघेन लोभेनेव दिनेश्वरः ॥ ५०४ ॥
शीतादकृत्रिमोत्कम्पः सीत्काराचार्यतां गतः ।
रोमोद्गमगुरुः स्त्रीणां हेमन्तः प्रत्यदृश्यत ॥ ५०५ ॥
दिशो हेमन्तनीहारधूसरा वीक्ष्य लक्ष्मणः ।
व्योम धूमान्धकारं च जगाद रघुनन्दनम् ॥ ५०६ ॥
आर्य हेमन्तसंनाहव्याप्तस्य व्योमदन्तिनः ।
धत्ते तुषारनिकरः करशीकरवर्षताम् ॥ ५०७ ॥
कथावशेषसौभाग्यास्तुहिनम्लानपङ्कजाः ।
एता विभान्ति पद्मिन्यो जरयेव वराङ्गनाः ॥ ५०८ ॥
लज्जयेव घनच्छायो दृश्यते न च दृश्यते ।
शशी धूसरतां यातः कुलीन इव मानुषः ॥ ५०९ ॥
धर्मराजप्रियामाशां सेवमानो दिवाकरः।
शीलभ्रष्ट इव नृपः प्रयातो निष्प्रतापताम् ॥ ५१० ॥
परिम्लानमुखच्छायाः सोच्छ्वासाः संततानिलैः ।
याच्ञ्येव महान्तोऽपि लुब्धतां यान्ति वासराः ॥ ५११ ॥
रजन्यो दीर्घतां यातास्तमसा निष्कला अपि ।
दुराशा इव मुग्धानां लुब्धेषु कुटिलात्मसु ॥ ५१२ ॥
क्षीणदोषः क्व यातोऽसौ कालो विपदमानसः ।
इतीव दुःखिता बाष्पं दिशो वर्षन्ति धूसराः ॥ ५१३ ॥
संत्यक्तपत्त्राभरणा विस्मृतस्तबकस्मृताः।
मौनव्रता इवाभान्ति लताः प्रोषितषट्पदाः ॥ ५१४ ॥
भुजोपधानास्वेतासु हिमशीतासु रात्रिषु ।
त्वद्भक्त्या भरतः शेते दुःखेन भुवि भूपतिः ॥ ५१५ ॥
यातास्त्रयोदश समा वर्षशेषत्रतोऽधुना ।
मयूर इव पर्जन्यं भरतस्त्वां प्रतीक्षते ॥ ५१६ ॥
लक्ष्मणेनेत्यभिहिते भरतस्नेहविक्लवः ।
गोदावरीतटे स्नात्वा ययौ रामः स्वमाश्रमम् ॥ ५१७ ॥
इति हेमन्तवर्णनम् ॥ १७ ॥
ततः शूर्पनखा नाम राक्षसी रावणस्वसा ।
रामं यदृच्छया याता ददर्श मदनद्युतिम् ॥ ५१८ ॥
सिंहस्कन्धं महाबाहुं कान्तं कमललोचनम् ।
शौर्यशृङ्गारयोर्योग्यमिव संकेतमन्दिरम् ॥ ५१९ ॥
तं वधूसहितं दृष्ट्वा सा बभूवाभिलाषिणी ।
कान्तिं रतिसनाथस्य बिभ्राणं पुष्पधन्वनः ॥ ५२० ॥
सा बभाषे विरूपाक्षी रामं राजीवलोचनम् ।
भेरीभैरवगम्भीरस्वरा मधुरभाषिणम् ॥ ५२१ ॥
को भवान्कानने कान्तः स्त्रीसहायो धनुर्धरः ।
जटी श्रीमान्न च नृपो न च रक्तो न वा मुनिः ॥ ५२२ ॥
विपरीतोऽयमाचारो यद्वने स्त्रीसहायता ।
वेशश्च नानुरूपोऽयं यच्चापं यच्च वल्कलम् ॥ ५२३ ॥
इति पृष्टस्तया रामः स्वभावसरलाशयः ।
निजजन्मकथामूचे वनवासे च कारणम् ॥ ५२४ ॥
तच्छ्रुत्वा सावदत्कामबाणसंपातकातरा ।
दिग्दाहमिव कुर्वाणा दृक्पातैर्बभ्रुदारुणैः ॥ ५२५ ॥
अहं शूर्पनखा नाम खरदूषणयोः स्वसा ।
भ्रातरो मे दशग्रीवकुम्भकर्णविभीषणाः ॥ ५२६ ॥
निःसारां मन्दसंचारां निःसहामबलामिमाम् ।
मानुषीं त्यज संभोगे न यस्यां निर्दयोत्सवः ॥ ५२७ ॥
सेयं निर्माल्यमालेव त्यागमर्हति ते वधूः ।
हेमपद्ममयीं मालामिव कण्ठे कुरुष्व माम् ॥ ५२८ ॥
देशेष्वमर्त्यसेव्येषु रमस्व सहितो मया ।
गुल्फरज्जुरियं योषा त्यज्यतां धीमता त्वया ॥ ५२९ ॥
इति ब्रुवाणामसकृत्सस्मितो रघुनन्दनः ।
तामुवाच स्थितामग्रे दृश्यां निर्दिश्य लक्ष्मणम् ॥ ५३० ॥
१६
अयं सुमुखि मे भ्राता रतिशून्य इव स्सरः ।
युवाकृतदारविधिरिच्छति त्वादृशीं वधूम् ॥ ५३१ ॥
राघवेणेत्यभिहिते सा सौमित्रिमभापत ।
दिव्यसंभोगसुभगो भव वीर भजस्व माम् ॥ ५३२ ॥
सोऽब्रवीदस्य दासोऽहमार्यस्यारण्यचारिणः ।
अनेन रूपेण कथं दासपत्नी भविष्यसि ॥ ५३३ ॥
आर्यस्यैवोचिता सुभ्रु भार्या सौभाग्यभागिनी ।
भवती चारुसौन्दर्या विजयन्ती जगत्त्रये ॥ ५३४ ॥
निशम्यैतद्गता रामं तं त्यक्त्वा लक्ष्मणोन्मुखी ।
चक्रे स्मरानिलालोला सा दोलेव गतागतम् ॥ ५३५ ॥
ततो वैलक्ष्यमापन्ना सुचिरात्स्मरमोहिता ।
ज्ञात्वा तत्संगमे विघ्नं सीतामभ्याद्रवत्क्रुधा ॥ ५३६ ॥
काली करालवदना सा सीतां हन्तुमुद्यता ।
बभूवेन्दुकलालुब्धराहुच्छायानुकारिणी ॥ ५३७ ॥
तामाकृष्य रुषा रामः क्षणं लक्ष्मणमब्रवीत् ।
दुरन्तः परिहासोऽयं न हिंस्राः केलिभाजनम् ॥ ५३८ ॥
आशीविषैः परिष्वङ्गः पिशुनैर्गुह्यमन्त्रणम् ।
अवश्यं भयमादत्ते परिहासश्च दुर्जनैः ॥ ५३९ ॥
वज्राशनिविनिष्पेषनिर्घोषविषमस्वनैः ।
पश्यास्यास्तर्जनैरेव मैथिली मोहमागता ॥ ५४० ॥
इत्युक्तो रघुनाथेन लक्ष्मणस्तु भयाकुलः ।
चिच्छेद करवालेन राक्षस्याः कर्णनासिकम् ॥ ५४१ ॥
जलार्द्रभेरीगम्भीरभैरवस्वरराविणी ।
सदा पीतं वमन्तीव मुखेनासृग्जगाम सा ॥ ५४२ ॥
नासिकारक्तसंसिक्तविस्रास्रस्रुतिनिर्झरा ।
गृहं भ्रातुः खरस्यैत्य सा स्ववृत्तान्तमभ्यधात् ॥ ५४३ ॥
इति शूर्पनखाविरूपणम् ॥ १८ ॥
खरः खरतराकोपः स्वसुराकर्ण्य निग्रहम् ।
दिदेश राघवौ हन्तुं चतुर्दश निशाचरात् ॥ ५४४ ॥
वने शूर्पनखादिष्टवर्त्मना ते प्रहारिणः ।
अभ्येत्य ददृशुः कान्तासखं काकुत्स्थमास्थितम् ॥ ५४५ ॥
रामोऽपि राक्षसान्दृष्ट्वा पुनः शूर्पनखाग्रगान् ।
आरोप्य लीलया चापं बभूव समरोन्मुखः ॥ ५४६ ॥
उत्सृष्टामथ तैः कोपाद्दीप्तायुधपरम्पराम् ।
विच्छेद विशिखैः क्षिप्रं राघवश्चित्रलाघवः ॥ ५४७ ॥
ततश्चतुर्दश शरान्संतप्तकनकोक्षितान् ।
प्राहिणोद्यैर्बभुः क्षिप्रं विद्युत्परिचिता इव ॥ ५४८ ॥
ते राक्षसान्विनिर्भिद्य स्पष्टान्विकटकङ्कटान् ।
विविशुर्वसुधां दीप्तास्तेषां जीवा इवोत्कटाः ॥ ५४९ ॥
ततो निपतितान्वीक्ष्य छिन्नपक्षानिवाचलान् ।
राक्षसान्राक्षसी भीत्या क्रन्दन्ती प्रययौ द्रुतम् ॥ ५५० ॥
खरोऽपि तद्गिरा ज्ञात्वा राघवाग्निपतङ्गताम् ।
यातान्निशाचरान्वीरान्संनद्धो निर्ययौ द्रुतम् ॥ ५५१ ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।
सेनाग्रे निर्ययुस्तस्य त्रिदशत्रासकारिणः ॥ ५५२ ॥
स तप्तकाञ्चनरथध्वजकङ्कटकार्मुकः ।
बभौ दावानलव्याप्तः संचारीव महीधरः ॥ ५५३ ॥
अथ राक्षससंभारात्कम्पमाने महीतले ।
दुर्निमित्तगणः प्रायाद्धोरविप्लवतुल्यताम् ॥ ५५४ ॥
रक्षःसैन्यसमुद्धूतधूलिग्रस्ते नभस्तले ।
विन्यस्य लक्ष्मणे सीतां रामः कवचमादधे ॥ ५५५ ॥
आमुक्तहेमकवचः सज्जप्राज्यशरासनः ।
सुरद्विषां पुरस्तस्थौ स धूर्जटिरिवापरः ॥ ५५६ ॥
ततः क्षणेन रक्षोभिः पूरिते राघवाश्रमे ।
उदभूद्धोरगम्भीरः समराम्बरदुन्दुभिः ॥ ५५७ ॥
तेन शब्देन महता त्रस्ताः समृगपक्षिणः ।
दुद्रुवुस्तापसास्तूर्णमपुनर्वलिताननाः ॥ ५५८ ॥
ततस्ते राक्षसा दृष्ट्वा पुरतस्तेजसां निधिम् ।
राघवं कान्तमत्युग्रं तस्थुश्चित्रार्पिता इव ॥ ५५९ ॥
सैन्यं निश्चलमालोक्य खरः प्रोवाच दूषणम् ।
किमयं ध्वजिनीसङ्गः परसैन्यं न दृश्यते ॥ ५६० ॥
एतदालोक्यतां तावदित्युक्तस्तेन दूषणः ।
रथेन पृथुवेगेन सैन्यमध्याद्विनिर्ययौ ॥ ५६१ ॥
स दृष्ट्वा राममत्युग्रकोदण्डं स्थितमग्रतः ।
चण्डांशुमिव दुर्धर्षपरिवेषं जगत्क्षये ॥ ५६२ ॥
परावर्त्य रथं तूर्णमभ्येत्य खरमब्रवीत् ।
एष रामः स्थितो धन्वी रक्षसां गतिविघ्नकृत् ।
येनैषां स्थगितानीव चेतांसि वचनानि च ॥ ५६३ ॥
श्रुत्वेति क्रोधहविषा खरो वह्निर्ज्वलन्निव ।
अभ्याद्रवत्स्वयं रामं रथेन धननादिना ॥ ५६४ ॥
ततः क्षपाचराः सर्वे परिवार्य समन्ततः ।
अदृश्यं चक्रिरे रामं प्रदीप्तायुधवर्षिणः ॥ ५६५ ॥
तस्य निर्भिद्यमानस्य घोराभिः शस्त्रवृष्टिभिः ।
किंशुकाशोकसंकाशं शोणितेनाभवद्वपुः ॥ ५६६ ॥
ततः शितशरासारैर्निर्यद्भिः किरणोत्करैः ।
चण्डांशुरिव दुःप्रेक्ष्यः सोऽभवत्त्रिदशद्विषाम् ॥ ५६७ ॥
तेषां स्फुरत्प्रभापूरैः केयूरमणिकङ्कटैः ।
हेमदीप्तशिरस्त्राणां कुण्डलैर्हेममण्डितैः ॥ ५६८ ॥
भुजदण्डैः सकोदण्डैः सतोमरकरैः शरैः ।
मातङ्गैर्भिन्नसर्वाङ्गैश्छिन्नकायैर्महाहयैः ॥ ५६९ ॥
रथैरुन्मथितैश्छिन्नैश्छत्रैर्ध्वजगजैरपि ।
चकार मेदिनीं रामश्छन्नामद्भुतविक्रमः ॥ ५७० ॥
प्रभग्ने रक्षसां सैन्ये दूषणो मुनिदूषणः।
चकारादृश्यमभ्येत्य रामं निर्विवरैः शरैः ॥ ५७१ ॥
द्रुतशस्त्रशिलावर्षैर्दूषणाश्रमनिर्भरैः ।
राक्षसैश्छाद्यमानोऽसौ धैर्याद्रिर्न व्यकम्पत ॥ ५७२ ॥
जघान दूषणस्यास्य रथं रामः प्रमाथिनः ।
सोऽप्यस्मै प्राहिणोद्धोरं गदापरिघपट्टिशम् ॥ ५७३ ॥
ततश्चकर्त भल्लाभ्यां निर्जितारिव्रजौ भुजौ ।
रामो विरामः पापानां दूषणस्य सभूषणौ ॥ ५७४ ॥
स पपात पृथूरस्कः कृतबाहुर्द्रुमः सृजन् ।
उत्तिष्ठति पुनः किंस्विदिति कम्पमिव क्षितेः ॥ ५७५ ॥
दूषणे निहते घोरकोपदीप्ताः समाययुः ।
महाकपालः स्थूलाक्षः प्रमाथी चेति दानवाः ॥ ५७६ ॥
ते शूलपट्टिशप्रासवर्षिणस्तेजसां निधेः ।
रामस्य पुरतश्चक्रुर्मेघलीलां रवेरिव ॥ ५७७ ॥
ततो राघवदोर्दण्डकृष्टकोदण्डनिर्गता ।
बाणपङ्क्तिरभूत्तेषां वीथीव यमसद्मनि ॥ ५७८ ॥
सायकानामथ शतैः शतानि पिशिताशिनाम् ।
सहस्त्रैश्च सहस्राणि जघान रघुनन्दनः ॥ ५७९ ॥
१. ‘क्रूर’ ख.
क्षयक्षणे राक्षसास्तं प्राप्तमेकमनेकताम् ।
ददृशुर्विश्वसंहारविश्वरूपमिवान्तकम् ॥ ५८० ॥
ततः स्वयं समायातो योद्धुं क्रोधोद्धतं खरम् ।
निवार्य त्रिशिरा नाम राक्षसो राममद्रवत् ॥ ५८१ ॥
स ललाटे त्रिभिर्बाणैदीप्तैर्विव्याध राघवम् ।
ये प्रभाजटिलास्तस्य हेममालातुलां ययुः ॥ ५८२ ॥
ततो मनोरथमिव च्छित्त्वा तस्य रथं शरैः ।
स शिरांस्यहरत्त्रीणि शिखराणि गिरेरिव ॥ ५८३ ॥
हते त्रिशिरसि क्रूरे रामेणाश्चर्यकारिणा ।
भग्नेषु युधि रक्षःसु स्वयमभ्याद्रवत्खरः ॥ ५८४ ॥
ततः खरशरासारापूरिते भुवनोदरे ।
बभूव सर्वभूतानां संहाररजनीभ्रमः ॥ ५८५ ॥
रामबाणहताग्राणां तेषां राक्षसपत्त्रिणाम् ।
ज्यालाभिर्विद्युदुद्दाममालाङ्कमभवन्नभः ॥ ५८६ ॥
ततश्चकर्त्त रामस्य मुष्टेश्चापं खरः शरैः ।
रत्नकाञ्चनचित्रं च कवचं विकचप्रभम् ॥ ५८७ ॥
अथान्यं वैष्णवं चापमादाय रघुनन्दनः ।
हेमप्रभापरिकरं ध्वजं चिच्छेद रक्षसः ॥ ५८८ ॥
ध्वजस्य पततस्तस्य स्फुटैर्मणिकणाश्रुभिः ।
रक्षःश्रीः प्ररुरोदेव नववैरिपराभवात् ॥ ५८९ ॥
दीप्ते निपतिते तस्य ध्वजे साक्षादिवौजसि ।
वेश्येव कृपणस्याभूद्वीर्यसाम्यात्पराङ्मुखी ॥ ५९० ॥
ततः खरस्यातिखरैः शरैर्दशरथात्मजः ।
दारितः प्रोन्ममाथास्य रथं सारथिकार्मुकम् ॥ ५९१ ॥
स हताश्वं समुत्सृज्य स्यन्दनं शरविक्षतः ।
भुवि तस्थौ गदापाणिर्निहताशेयसैनिकः ॥ ५९२ ॥
१. ‘त्रिशिखो’ शा०. २. ‘संहारे’ शा० ३. ‘मुष्टौ’ ख. ४, ‘कनक’ ख.
विषमे वर्तमानं तं विहस्योवाच राघवः ।
विभूतिस्ते क्षयं याता पापमेवाक्षयं पुनः ॥ ५९३ ॥
बत वाताकुलाश्वत्थदललोलाः खलश्रियः ।
शरीरशेषतां यातो यद्भवान्रक्षसां विभुः ॥ ५९४ ॥
न रथो न गजो नाश्वो न मित्त्राणि न मन्त्रिणः ।
न बान्धवा वा तिष्ठन्ति पर्यन्ते सुकृतादृते ॥ ५९५ ॥
कानि कानि न मिन्त्राणि स्निग्धाः के के न बान्धवाः ।
संपद्व्यतिकरे पुंसां के न नाम निरन्तराः ॥ ५९६ ॥
स्फुरन्ति तावदैश्वर्यकुसुमप्रकराः पुनः ।
सर्वसंमार्जनी यावन्नोदेति कलुषा मतिः ॥ १९७ ॥
अधुना तनुशेषोऽसि क्व नु ते ते पदानुगाः ।
स्वार्जितान्येव कर्माणि प्रेयान्त्येव सहायताम् ॥ ६९८ ॥
यत्त्वया मुनयः पाप भक्षिताः क्षणदाचर ।
तदेवाद्य पुरः सर्वं पातकं तव धावति ॥ १९९ ॥
नीचानां दुःसहायानामैश्वर्यक्रूरकर्मणाम् ।
स्वप्नदृष्टमिवाशेषं प्रयाति स्मृतिशेषताम् ॥ ६०० ॥
धर्मद्विषः प्रवृद्धस्य दुर्वृत्तस्य प्रमादिनः ।
त एते मद्भुजोत्सृष्टा गुरवो गुरवः शराः ॥ ६०१ ॥
राघवेणेत्यभिहिते खरः क्रोधाकुलोऽवदत् ।
प्राकृतान्राक्षसान्हत्वा मूर्ख मिथ्या प्रगल्भसे ॥ ६०२ ॥
अहो मोहादहंकारक्षीबः खलु विकथ्यसे ।
भवन्ति महतामेव संपदो विपदस्तथा ॥ ६०३ ॥
अनया गिरिघातिन्या गदया वज्ज्रवेगया ।
शिरश्चतुरजिह्वस्य तव यातु सहस्रधा ॥ ६०४ ॥
इत्युक्त्वास्मै गदां घोरां प्राहिणोत्कीर्णपावकाम् ।
१. विभूतयः’ शा०. २. ‘प्रभुः’ ख. ३. ‘गच्छन्त्यन्ते’ ख. ४. ‘तवैते’, ‘एते ते’ इति वा स्यात्.
तरवस्तेजसा यस्याः प्रययुर्भस्मशेषताम् ॥ ६०५ ॥
तामापतन्तीं कणशः काकुत्स्थः सायकैर्व्यधात् ।
असंभृतां रिपुवधे जयाशामिव रक्षसाम् ॥ ६०६ ॥
इयं ते प्रत्ययस्थानं मया निर्दारिता गदा ।
किमन्यद्वलसर्वस्वं यथा दर्प इवाभवत् ॥ ६०७ ॥
इत्युक्त्वा राघवः क्रूरैः शरैः खरमपूरयत् ।
खरोऽपि तरुमुन्मूल्य राममेवाद्रवत्क्रुधा ॥ ६०८ ॥
स्रवद्रुधिरपूरस्य तस्य हस्तगतं तरुम् ।
चकार रामस्तिलशो जयशेषावलम्बनम् ॥ ६०९ ॥
अथ रक्तवसामोदमत्तोऽथ पिशिताशनः ।
राममेवाभ्ययाद्वेगाद्राहुः सूर्यमिवोत्कटः ॥ ६१० ॥
ततो घोरतरं रामः शरं वज्रधरप्रियम् ।
तं ससजोर्जितबलः संक्षयायैव रक्षसः ॥ ६११ ॥
निर्गन्धस्तेन सहसा निषपात निशाचरः ।
अकस्मात्माप्तविभवो दुर्नयेनैव दुर्जनः ॥ ६१२ ॥
हते नक्तंचरे तस्मिन्प्रहृष्टाः परमर्षयः ।
अभ्येत्यापूजयन्रामं सुरसिद्धगणैः सह ॥ ६१३ ॥
इति खरदूषणवधः ॥ १९ ॥
ततः शूर्पनखा दृष्ट्वा रक्षसां भीमकर्मणाम् ।
कृतमेकेन रामेण घोरं कदनमाहवे ॥ ६१४ ॥
जगाम रावणं स्मृत्वा लङ्कामातङ्कदूषिता ।
व्योम्ना महाब्धिमुत्तीर्य शोकामर्षपुरःसरा ॥ ६१५ ॥
सा प्रविश्य विमानाग्रसंगतं दशकन्धरम् ।
ददर्श सचिवैः क्रूरैः सेव्यमान सभातले ॥ ६१६ ॥
रक्तचन्दनशोणेन लक्षितं पृथुवक्षसा ।
नीलसंध्यारुणाभेन तटेनेवाञ्जनाचलम् ॥ ६१७ ॥
१. ‘सुसंभृता’ ख.
शेषभोगानुकारेण हारेण हिमवर्चसा ।
स्कन्धोल्लासितकैलासनिर्झरेणेव शोभितम् ॥ ६१८॥
स्वर्वधूचामराधूतकिंचित्स्रस्तसितांशुकम् ।
वेलापवनपर्यस्तफेनकूटमिवाम्बुधिम् ॥ ६१९ ॥
अहंकारस्य महतो वेधसेव विनिर्मितम् ।
निवासभवनं भूरि भुजस्तम्भविभूषणम् ॥ ६२० ॥
बभ्रुभ्रूश्मश्रुकिरणप्रदीप्ताननकाननम् ।
क्षयाभ्रमिव संवर्तदहनोद्गारदारुणम् ॥ ६२१ ॥
वक्त्रं स्कन्धान्तरासक्ततमःसंघट्टपाटलैः ।
स्पष्टदंष्ट्रांशुपटलैः समुद्घाटितदिक्तटम् ॥ १२२ ॥
मण्डितं कुण्डलैः कर्णदोलारचितताण्डवैः ।
कल्पान्तमिव मार्तण्डमण्डलैर्बहुभिर्वृतम् ॥ ६२३ ॥
विचित्ररत्नमुकुटैराक्षिपन्तं गिरेः प्रभाम् ।
तुङ्गशृङ्गवनोत्सङ्गनृत्यश्चित्रशिखण्डिनः ॥ ६२४ ॥
अभिभूतेन्दुमहसा यशसा त्रिदिवौकसाम् ।
भयपुञ्जे कृतेनेव च्छत्त्रव्याजेन सेवितम् ॥ ६२५ ॥
ग्रस्तलोकेश्वरैश्वर्यैरुन्मूलितसुरोत्सवैः ।
आसनैरायुधैर्दीप्तं विद्युद्भिरिच तोयदम् ॥ ६२६ ॥
विधत्ते जययात्रासु यस्य प्रारम्भदुन्दुभिः ।
त्रस्तप्रियापरिष्वङ्गसंविभागं दिवौकसाम् ॥ ६२७ ॥
यद्भयान्निभृतं भानुरुदेत्यब्जस्मितावधि ।
चरन्ति च शनैर्वल्लीविलासावधयोऽनिलाः ॥ ६२८ ॥
रणे विमानितारातिर्यशस्त्रैलोक्यपुष्पकम् ।
यो जहार कुवेरस्य विमानाग्र्यं च पुष्पकम् ॥ ६२९ ॥
१. ‘शिखरेणेव’ ख. २. ‘सेवितम्’ ख, शा०. ३. ‘विलास’ ख. ४. ‘विभूषितम्’ ख. ५. ‘संरक्त’ ख. १७
जयाय सर्वजगतां हुत्वा वह्नौ शिरांसि यः ।
सुरासुरप्रतापाग्निग्रासशिक्षामिवाकरोत् ॥ ६३० ॥
यत्सैनिककरालूनकल्पपादपपल्लवाः ।
क्रन्दन्तीव भयोद्भ्रान्तैर्भमरैर्नन्दनश्रियः ॥ ६३१ ॥
ऐरावणोऽपि यद्भीत्या भृङ्गानां दानवर्जितः ।
कदर्य इव भृत्यानां यातो निरुपजीव्यताम् ॥ ६३२ ॥
सुन्दरीं सुन्दरी नाम तक्षकस्य प्रियां प्रियाम् ।
यो जहार विषाहारं तं दृष्ट्वा विरहादिव ॥ ६३३ ॥
दृष्ट्वा तमूचे सोच्छ्वासा छिन्ननासा निशाचरी ।
जननी दुर्निमित्तानाममङ्गलकुटुम्बिनी ॥ ६३४ ॥
अहो बत दुरारोहं शृङ्गमासाद्य संपदाम् ।
आसन्नदुःसहापातः प्रसुप्तो न विवुध्यसे ॥ ६३५ ॥
भूपतिं विभवक्षीबमविज्ञातक्षयोदयम् ।
ग्राम्यं विदग्धनारीव न संपद्भजते चिरम् ॥ ६३६ ॥
कार्यकालमतिक्रान्तं सुखासक्तो न वेत्ति यः ।
अक्षयाः संक्षयमुखे हुतास्तेन विभूतयः ॥ ६३७ ॥
दुर्दर्शनं व्यसनिनं त्यजन्ति नृपतिं प्रजाः ।
पतिं वृद्धमिवेर्ष्यालुं कामिन्यो नवयौवनाः ॥ ६३८ ॥
सर्वत्रानुप्तचारस्य प्रजाकार्याण्यपश्यतः ।
अन्धस्य द्यूतगोष्ठीव स्ववशा श्रीर्न भूपतेः ॥ ६३९ ॥
कवीनां प्रतिभा चक्षुः शास्त्रं चक्षुर्विपश्चिताम् ।
ज्ञानं चक्षुर्महर्षीणां चराश्चक्षुर्महीभृताम् ॥ ६४० ॥
क्लीबो यथा गृहाचारं न वेत्ति गृहिणीजितः ।
राष्ट्रवृत्तिं न जानीते रतिवश्यस्तथा नृपः ॥ ६४१ ॥
अहो बत परां कोटिमारूढोऽसि प्रमादिनः ।
विभवस्तव विभ्रष्टो दीर्यते यशसा सह ॥ ६४२ ॥
कथं नाम न जानीषे घोरं व्यसनमागतम् ।
आसन्नक्रकचाग्रेण लूनेयं श्रीलता तव ॥ ६४३ ॥
राक्षसाः खरमुख्यास्ते रामेण रणशालिना ।
नीताः सर्वे जनस्थाने दयिता बाष्पशेषताम् ॥ ६४४ ॥
अनुद्योगहतारम्भा यरवेयं प्रभविष्णुता ।
प्रयान्ति प्रसभं तस्य तेजांसि च यशांसि च ॥ ६४५ ॥
मदमन्थरसंचारा विलासालसदृष्टयः ।
दीपा इव न पश्यन्ति नृपाः स्वमपि विग्रहम् ॥ ६४६ ॥
लोकपालान्समुत्पाट्य प्राप्य त्रैलोक्यधीरताम् ।
चित्रं हतान्मनुष्येण नानुजान्वेत्सि सानुगः ॥ ६४७ ॥
अल्पप्रदो बहुक्रोधः कृतवैरो निरुद्यमः ।
प्राप्नोत्यवज्ञां नृपतिर्वेश्यारागीव निर्धनः ॥ ६४८ ॥
छिनत्त्येवायसं शस्त्रमद्रव्यं विषयं विषम् ।
नीचावसानप्रभवो मन्युर्मर्माणि मानिनाम् ॥ ६४९ ॥
जितक्रोधस्य वीरस्य बन्दीकृतसुरस्त्रियः ।
तवाप्यभग्नमानस्य मानुषेण पराभवः ॥ ६५० ॥
लक्ष्मणेन सह भ्रात्रा रामो दशरथात्मजः ।
रक्षसां दण्डकारण्ये मन्ये कालः समुत्थितः ॥ ६५१ ॥
सीता नाम वरारोहा दृष्टा तस्य मया वधूः ।
सोऽपि यद्वदनेनेन्दुः प्रयातः पुनरुक्तताम् ॥ ६५२ ॥
सा कान्तिरपरिम्लाना ते गुणा गणनोचिताः ।
नवं च तद्वपुस्तस्याः स्त्रीणामपि विलोभनम् ॥ ६५३ ॥
त्वदर्थं हर्तुमिच्छामि यावत्तां चारुलोचनाम् ।
रामानुजादयं तावन्मया प्राप्तः पराभवः ॥ ६५४ ॥
इति रावणतर्जनम् ॥ २० ॥
इति शूर्पनखावाक्यमाकर्ण्य दशकंधरः ।
भ्रूभङ्गैर्दशभिः कुर्वन्कम्पलोला दिशो दश ॥ ६५५ ॥
कोऽयं रामः कथं रामः किंधर्मः किंपराक्रमः ।
इति कोपाकुलालापनिर्घोषैः पूरयन्सभाम् ॥ ६५६ ॥
जन्म कर्म च रामस्य श्रुत्वा स्वस्रा निवेदितम् ।
विषादामर्षसंघर्षस्वेदार्द्रवदनः श्वसन् ॥ ६५७ ॥
ध्यात्वा मुहूर्तमाकम्पवक्त्रव्यावर्तिकुण्डलः ।
विसृज्य सचिवान्सर्वान्रथशालां ययौ स्वयम् ॥ ६५८ ॥
स तत्र मेघनिर्घोषैः पिशाचचदनैः स्वरैः ।
युक्तं समारुह्य रथं क्षणाद्व्योम व्यगाहत ॥ ६५९ ॥
स व्रजन्रोषदीप्तोऽपि सीतामेव व्यचिन्तयत् ।
मृत्युस्थानेऽपि मूर्खाणां करोति मदनः पदम् ॥ ६६० ॥
रथेन हेमदीप्तेन व्रजतस्तस्य खे वपुः ।
बभौ कनककूटस्य नीलाद्रेरिव सर्वतः ॥ ६६१ ॥
स मन्दमारुतान्दोलिचन्दनागुरुपल्लवे ।
तमालतालहिन्तालश्यामले जलधेस्तटे ॥ ६६२ ॥
ददर्श दिव्यं न्यग्रोधं सुचन्द्रं नाम विश्रुतम् ।
शतयोजनदीर्घाभिर्हेमशाखाभिरुज्ज्वलम् ॥ ६६३ ॥
तस्य शाखाग्रदेशेषु वालखिल्या मरीचिषाः ।
वैखानसाश्च मुनयश्चरन्ति विपुलं तपः ॥ ६६४ ॥
अमृताहरणे यस्मिन्नादाय गजकच्छपौ ।
तार्क्ष्यः कनकशैलाभः शाखायां समुपाविशत् ॥ ६६५ ॥
चरणाक्रान्तिभग्नां तां शाखां मुनिजनावृताम् ।
तद्रक्षायै समादाय ययौ व्योम्ना खगेश्वरः ॥ ६६६ ॥
निषादविषयं हत्वा तया विपुलविग्रहः ।
गत्वा जहार पीयूषं निर्जितत्रिदिवेश्वरम् ॥ ६६७ ॥
तं दिव्यं तरुमारुह्य ददर्श दशकंधरः ।
पारेसमुद्रमुन्निद्रतरुरम्यं तपोवनम् ॥ ६६८ ॥
१. ‘रूपः’ शा०. २. ‘क्रोध’ शा०. ३. विचिन्तयन्’ शा०. ४. ‘नीलाभ्रै’ शा०.
अचिरात्संस्थितं तत्र कृष्णाजिनजटाधरम् ।
पुराणसचिवं प्राप मारीचं रजनीचरम् ॥ ६६९ ॥
पूजितस्तेन विनयात्तमुवाच दशाननः ।
कुर्वन्निगरिगुहागर्भं गर्जत्पर्जन्यविभ्रमम् ॥ ६७० ॥
सचिवो धीमतां धुर्यः कार्याणां प्रथमा गतिः ।
भवानेव सदास्माकं श्रीरक्षापरिखाचलः ॥ ६७१ ॥
अभग्नप्रणयो नित्यं त्रैलोक्यविजयोत्सवे ।
त्वद्बुद्धिविभवः पूर्वं पश्चान्मम पराक्रमः ॥ ६७२ ॥
तुल्यं द्वावेव मे यातौ जगज्जयसहायताम् ।
मन्त्रश्च मायागम्भीरः खड्गव्यग्रश्च मे भुजः ॥ ६७३ ॥
ममायं श्रूयतामद्य यदपूर्वः पराभवः ।
लज्जन्ते यत्कथामात्रे मन्मुखानि परस्परम् ॥ ६७४ ॥
भ्रातरो मे महाशूरा जन्मस्थाने धृताः पुरा ।
खरमुख्या हतास्तेऽद्य मनुष्येण पदातिना ॥ ६७५ ॥
चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम् ।
हतानि मम रामेण भगिनी च विरूपिता ॥ ६७६ ॥
कान्ता तस्यास्ति दयिता सीतानाम सितस्मिता ।
लावण्यबिन्दवो यस्याः पुपुषुः कमलेन्दवः ॥ ६७७ ॥
मायामृगतनुं कृत्वा तां पुरो रत्नविग्रहम् ।
हत्वा सलक्ष्मणं रामं हन्तुमिच्छामि तामहम् ॥ ६७८ ॥
ततस्तया स रहितः क्रियाहीन इव द्विजः ।
लुप्तशक्तिर्मम परं सुखच्छेद्यो भविष्यति ॥ ६७९ ॥
श्रुत्वेति वक्रं मारीचः क्षपाचरपतेर्वचः ।
तमूचे त्रासशुष्कास्यः कम्पमानः कृताञ्जलिः ॥ ६८० ॥
बत लङ्कापते कोऽयं जातस्ते मतिविप्लवः ।
अन्तं यास्यति यो मन्ये विभवस्य कुलस्य च ॥ ६८१ ॥
१. ‘जन्मापूर्वः’ शा०.
धूर्ताः प्रियं वदन्त्येव मूर्खाः शृण्वन्ति च प्रियम् ।
न वदन्ति न शृण्वन्ति सर्वथा साधवोऽप्रियम् ॥ ६८२ ॥
ऐश्वर्यपद्ममधुपा धूर्ता मधुरवादिनः ।
विशन्त्येवाशयं राज्ञामवमानपराङ्मुखाः ॥ ६८३ ॥
धूर्तानां मधुरा वाणी मधुरा वल्लभा यथा ।
न तथेन्दुर्न मदिरा न मृगाक्षी न वल्लकी ॥ ६८४ ॥
हितोपदेशविद्वेषकलुषाभिमुखी मतिः ।
जनस्य जायते जातु विनाशायोद्यते विधौ ॥ ६८५ ॥
अकार्यप्रणयी घोरो राज्ञां प्रायेण दुर्नयः ।
महतो राज्यवृक्षस्य मूलघाती परश्वधः ॥ ६८६ ॥
देहिनां नूनमासन्ने दुःसहव्यसनानले ।
प्रथमं मोहधूमेन मलिनीक्रियते मतिः ॥ ६८७ ॥
समदप्रमदापाङ्गभङ्गभङ्गुरविभ्रमाः ।
सत्यं विभूतयो राज्ञां मतिमोहपिशाचिकाः ॥ ६८८ ॥
म्लायन्ति क्षिप्रभोगेन निःसारविरसान्तराः ।
वेश्या चित्रद्युतिर्माला श्रीश्च दूरमनोहरा ॥ ६८९ ॥
कष्टं केनोपदिष्टस्ते दुःसहो मोहविभ्रमः ।
घोरस्ते संपदां योऽयं क्षयहेतुरिवोत्थितः ॥ ६९० ॥
अहो बत न जानीषे रामस्याद्भुतकर्मणः ।
चारहीनः प्रमादी च यशस्त्रैलोक्यविश्रुतम् ॥ ६९१ ॥
विश्वामित्रमखत्राणे स शरं प्राहिणोन्मयि ।
क्षिप्तोऽहं जलधेः पारे यत्पक्षपवनैः क्षणात् ॥ ६९२ ॥
कथं नु दयितां तस्य सीतामग्निशिखामिव ।
शिशुदंष्ट्रामिव हरेर्मोहादादातुमिच्छसि ॥ ६९३ ॥
चूडामणिमिवादाय शिरसा शासनं पितुः ।
चरत्यरण्ये काकुत्स्थः क्षपयन्घोरराक्षसान् ॥ ६९४ ॥
दुरन्तमृत्युचरणे मैथिलीहरणे मया ।
नवातङ्कहतां लङ्कां विधवामिव मा कृथाः ॥ ६९५ ॥
ये मदत्यक्तमर्यादा न शृण्वन्ति हितं वचः ।
तेषां मृत्युं प्रयातानां न पुनः संगमः श्रिया ॥ ६९६ ॥
मुनिमांसाशनक्रूरो राक्षसाभ्यामहं सह ।
कदाचिद्दण्डकारण्ये संप्राप्तो राघवाश्रमम् ॥ ६९७ ॥
स मां सानुगमालोक्य मुनिरक्षाकृतक्षणः ।
धनुराकृष्य दीप्ताग्नां प्राहिणोत्सायकत्रयीम् ॥ ६९८ ॥
त्रस्तो जवादहं मुक्तस्तौ तु रात्रिंचरौ हतौ ।
आयुःशेषे कृतान्तोऽपि नूनं याति वयस्यताम् ॥ ६९९ ॥
ततः प्रभृति संन्यस्तशस्त्रोऽयं त्यक्तकिल्विषः ।
त्रासात्तापसतां यातो वैराग्यं रक्षसां कुतः ॥ ७०० ॥
तपोवनेऽस्मिन्पश्यामि सजटावल्कलान्भयात् ।
वृक्षानपि पृथुस्कन्धान्राघवान्सशिलीमुखान् ॥ ७०१ ॥
दिवि दिक्षु क्षितौ स्वप्ने सजने विजने पुनः ।
सत्यं रामसहस्राणि भयात्पश्यामि तन्मयः ॥ ७०२ ॥
राज्यं रात्रिश्च रामा च रागो राजाथ राशयः ।
रामनामाङ्कवर्णाङ्कास्त्रासं संजनयन्ति मे ॥ ७०३ ॥
त्याज्या यदि न ते लक्ष्मीर्जीवितं यदि वल्लभम् ।
तन्मुञ्च रामवैरेच्छां प्रमाणं यदि मद्वचः ॥ ७०४ ॥
इति नीतिमतः पथ्यं मारीचस्येति तद्वचः ।
श्रुत्वा बभाषे लङ्केशः किंचिदागतविक्रियः ॥ ७०५ ॥
अहो बतातिवीरस्य तवाप्यसदृशं वचः ।
श्रूयते कालजीर्णं वा सर्वमेव विपर्ययात् ॥ ७०६ ॥
प्रतिपक्षपदे मर्त्यस्तत्रापि नयचिन्तनम् ।
किं किं लज्जार्हमस्माभिः सीतालोभेन न श्रुतम् ॥ ७०७ ॥
१. ‘तेषामुष्णीसहासिन्या’ ख; ‘तेषामुत्रस्य यातानां शा० २. ‘नामाद्यवर्णा’ ख,
अधुनैवंविधं वृद्ध न वक्तव्यं त्वया वचः ।
कर्तव्यमेव तु पुनर्भक्तियोगान्मयेप्सितम् ॥ ७०८ ॥
यदि रामशरापातसंपाताद्भयमीक्षसे ।
प्रियं कार्यमकृत्वा मे जीविताशापि ते कुतः ॥ ७०९ ॥
तस्मात्कुरुष्वाभिमतं मम प्रणयिनो विभोः ।
स्वामिसंमानपाथेयं धर्म्यं च निधनं सताम् ॥ ७१० ॥
श्रुत्वेति दशकण्ठस्य मारीचः कठिनं वचः ।
उवाच निःश्वसन्ध्यात्वा दैवस्याज्ञामकुण्ठिताम् ॥ ७११ ॥
अहो बत दुरन्तोऽयं दुःसहस्तव दुर्ग्रहः ।
यः शमं यास्यति व्यक्तं सहैश्वर्यसुखादिभिः ॥ ७१२ ॥
प्रत्यासन्नविनाशानां हितविद्वेषकारिणाम् ।
आतुराणामिवापथ्ये प्रायेणाभ्यधिका रुचिः ॥ ७१३ ॥
स्वच्छन्दकारिणो धातुः शासनान्न्यायवर्त्मनः ।
भ्रष्टं कः क्षमते धर्तुं श्वभ्रादिव महागजम् ॥ ७१४ ॥
सुचिराद्बत शत्रूणां फलितस्ते मनोरथः ।
ऐश्वर्यतुङ्गशृङ्गाग्रात्स्वयं निपतितोऽसि यत् ॥ ७१५ ॥
रामोऽभिरामचरितो विरामः शत्रुसंपदाम् ।
गुणारामः कथं नाम चरामस्तस्य विप्रियम् ॥ ७१६ ॥
मोहादहृदयस्यान्तर्यत्नन्यस्तं हितामृतम् ।
न राहोरिव निःशेष मुहूर्तमपि तिष्ठति ॥ ७१७ ॥
तस्मात्प्राणपणेनाद्य करोम्यभिमतं तव ।
प्रत्युपस्थितनाशानां नाशायैव हि संगमः ॥ ७१८ ॥
इतो रघुपतेर्बाणस्त्वमितो मृत्युचोदितः ।
किं करोमि त्वदर्थं मेऽवरं रामाद्वधो वरः ॥ ७१९ ॥
शृणु चेदं समुत्पाद्य वैरं रामेण धन्विना ।
त्रिदिवे भुवि पाताले न ते स्थानं भविष्यति ॥ ७२० ॥
१. ‘नः प्रभोः’ क.
करोमीति वचः श्रुत्वा मारीचस्य दशाननः ।
शतकर्ण इव क्षिप्रं कुम्भकर्णाग्रजोऽभवत् ॥ ७२१ ॥
इति मारीचवाक्यम् ॥ २१ ॥
ततः स्यन्दनमारोप्य मारीचं राक्षसेश्वरः ।
निजव्यसनविस्तीर्णं विवेश विवशो वनम् ॥ ७२२ ॥
दण्डकारण्यमासाद्य तालतालीनिरन्तरम् ।
पुंनागबकुलाशोककर्णिकारवनोज्ज्वलम् ॥ ७२३ ॥
निषण्णनिर्भयमृगाकीर्णकान्ततपोवनम् ।
फुल्लवल्लीवितानाग्रगुञ्जन्मञ्जुकपिञ्जलम् ॥ ७२४ ॥
निर्यन्निर्झरझाङ्कारश्रुतिमन्थरकुञ्जरम् ।
संसर्पत्फेनपटलीदुकूलधवलापगम् ॥ ७२५ ॥
संचरद्दिव्यललनाचरणाङ्कितसैकतम् ।
मुनिकन्यावलिन्यग्रपुष्पनीवारपल्लवम् ॥ ७२६ ॥
वराहमहिषश्यामं समेघौघमिवाम्बरम् ।
साट्टहासमिव स्फारिस्फुरत्केसरिकेसरम् ॥ ७२७ ॥
जटालमिव संचारिचमरीचारुचामरम् ।
बहुनेत्रमिवालोलशिखण्डिकृतताण्डवम् ॥ ७२८ ॥
सरोमाञ्चमिवोदञ्चन्नवशष्पमुखाङ्कुरम् ।
जातस्वेदमिवोन्मीलदवश्यायपयःकणम् ॥ ७२९ ॥
सनिःश्वासमिव स्फूर्जत्कुसुमामोदमारुतम् ।
साकम्पमिव सावेगविहङ्गाघूर्णितद्रुमम् ॥ ७३० ॥
प्रहृष्टमिच सूर्यांशुविकसन्नलिनीवनम् ।
नवोन्मादमिवोत्तुङ्गप्लवङ्गवलयाकुलम् ॥ ७३१ ॥
उद्वीक्ष्य कुसुमोद्भूतरेणुप्रावरणं वनम् ।
ऊचे क्षपाचरपतिः मारीचं प्रणयानतः ॥ ७३२ ॥
अयं स सीताललितालोकनामृतनिर्झरः ।
धाम कामस्य मारीच रुचिरो राघवाश्रमः ॥ ७३३ ॥
१८
भिन्नेन्द्रनीलसच्छायनिबिडैः कदलीवनैः ।
विभात्येषा शुकश्यामकञ्चुकीवाश्रमस्थली ॥ ७३४ ॥
अत्र सा मन्मथमही मैथिली पृथुलोचना ।
व्यक्तं वसति वैलक्ष्यकारिणी हारिणी दृशाम् ॥ ७३५ ॥
अन्तर्हितो भवन्क्षिप्रं सिद्ध्यै मायामहोदधेः ।
इत्युक्तो दशकण्ठेन मारीचः प्रययौ पुरः ॥ ७३६ ॥
सोऽभवद्रत्नहरिणः कचस्काञ्चनमौक्तिकः ।
समस्तकौतुकवासो रसो मूर्त इवाद्भुतः ॥ ७३७ ॥
प्रवालशृङ्गो रत्नाभः स बभौ मौक्तिकाङ्कितः ।
सफेनमणिकल्लोलः संचारीव महोदधिः ॥ ७३८ ॥
रत्नान्युच्चित्य विहितः सजीवो रावणाज्ञया ।
हस्तोपायनसारङ्ग इव रोहिणभूभृताम् ॥ ७३९ ॥
गर्भवासे सुधाम्भोधौ संक्रान्तमणिमौक्तिकः ।
च्युतोऽङ्कादिव चन्द्रस्य दशग्रीवभयान्मृगः ॥ ७४० ॥
चतुरश्चारुसंचारी संचरन्नाश्रमे पुनः ।
ययौ सितासिताताम्रो वनलक्ष्मीकटाक्षताम् ॥ ७४१ ॥
कुसुमावचयासक्ता मैथिली तं व्यलोकयत् ।
संसारवैचित्र्यकृतो विधातुरिव वर्णकम् ॥ ७४२ ॥
निर्वर्ण्य तमभूत्सीता क्षिप्रमाश्चर्यनिश्चला ।
वस्तु सातिशयं कस्य न मुष्णाति हठान्मनः ॥ ७४३ ॥
विस्मिता राममभ्येत्य सा बभाषे सितस्मिता ।
हसन्ती पुष्पवल्लीनां भृङ्गान्वदनसौरभैः ॥ ७४४ ॥
आर्यपुत्र विचित्रोऽयं कनकाङ्गः कुरङ्गकः ।
करोति नयनानन्दं मणिमद्विन्दुसुन्दरः ॥ ७४५ ॥
आस्तीर्णमासनं कान्तमस्य चित्रेण चर्मणा ।
उचितं त्वत्सनाथायाः शयनं च ममेप्सितम् ॥ ७४६ ॥
इति सीतावचः श्रुत्वा दृष्ट्वा हेममयं मृगम् ।
उवाच रामः सौमित्त्रिं स्मितधौताधरद्युतिः ॥ ७४७ ॥
पश्य लक्ष्मण चित्राङ्गः सारङ्गो रत्नभूतिभिः ।
करोति त्वचि लुब्धाया जानक्याः कौतुकोत्सवम् ॥ ७४८ ॥
जृम्भमाणस्य पश्यास्य पद्मरागमयीमिव ।
जिह्वां दशनमुक्तालीमध्यनायकतां गताम् ॥ ७४९ ॥
चतुर्भिविद्रुममयैः शृङ्गः कुटिलकोटिभिः ।
कीर्णांशुभिः करोत्येष दिशः पल्लविता इव ॥ ७९० ॥
एषोऽहमस्य पदवीं व्रजाम्याकृष्टकार्मुकः ।
भवता त्वप्रमत्तेन रक्ष्या जनकनन्दिनी ॥ ७५१ ॥
इत्युक्त्वा चापमाकृष्य रामः सारङ्गमाद्रवत् ।
तूर्णं व्रजन्तं वेगेन मनोरथमिवात्मनः ॥ ७५२ ॥
इति मृगदर्शनम् ॥ २२ ॥
क्व दृष्टो हेमहरिणः का स्पृहा तस्य चर्मणि ।
प्रायेणादीयते मोहः कर्मणा महतामपि ॥ ७५३ ॥
क्वचिदन्तर्हितं क्षिप्रं क्वचित्प्रकटविग्रहः ।
मेघपुञ्जावृते व्योम्नि शशीव स ययौ मृगः ॥ ७५४ ॥
जगाम रामस्तेनाशु कृष्टो विस्मयकारिणा ।
चित्रमायाप्रसङ्गेन संसारेणेव सक्तधीः ॥ ७५५ ॥
तस्मै मुमोच काकुत्स्थः सायकं ब्रह्मनिर्मितम् ।
प्राग्भिन्नहृदयो येन मृगोऽभूत्क्षणदाचरः ॥ ७५६ ॥
तालमात्रं समुत्प्लुत्य स पपात शराहतः ।
दंष्ट्राकरालवक्राग्रनिर्यद्रुधिरनिर्झरः ॥ ७५७ ॥
मायया स समालम्ब्य रामस्य सदृशं वरम् ।
हा लक्ष्मण हतोऽस्मीति चुक्रोश करुणस्वरम् ॥ ७५८ ॥
१. ‘भङ्गिभिः’ शा०. २. ‘प्राप्य’ ख; ‘मध्ये’ स्यात्.
भ्रातुराक्रन्दनं श्रुत्वा लक्ष्मणो नूनमेष्यति ।
रावणस्तद्विरहितामवाप्स्यति स: मैथिलीम् ॥ ७५९ ॥
इति ध्यात्वा विनद्योच्चैर्लक्ष्मणेत्याकुलेन्द्रियः ।
प्राणाँस्तत्याज मारीचो न च भक्तिं निजप्रभोः ॥ ७६०॥
इति मारीचवधः ॥ २३ ॥
रामस्तं निहतं दृष्ट्वा निशाचरमशङ्कतः ।
पूर्वं कथयतिः प्रायो मनः पुंसः शुभाशुभम् ॥ ७६१ ॥
अदूरान्मैथिली श्रुत्वा पत्युरार्तस्वरं सती ।
रक्षःपराभवत्रस्ता तूर्णं लक्ष्मणमभ्यधात् ॥ ७६२ ॥
गच्छ जानीहिः सौमित्त्रे मित्त्रं भ्रातरमागतम् ।
रक्षसां बहुमायानां वीरं निपतितं मुखे ॥ ७६३ ॥
स ते गुरुः सखा बन्धुः प्रियाः प्राणा बहिश्चराः ।
अरण्ये निःसहायोऽस्मिन्नार्हत्यरिपराभवम् ॥ ७६४ ॥
वचः श्रुत्वेति जानक्याः सौमित्त्रिर्धैर्यसागरः ।
तामूचे मा कृथाः शङ्कां मिथ्यैवार्यपराक्रमे ॥ ७६५ ॥
रणेष्वभिमुखस्तस्य न जातोऽद्यापि किं तु ते ।
ललनासुलभं स्नेहवैक्लव्यं जृम्भतेतराम् ॥ ७६६ ॥
नूनं रामं न जानीषे भर्तुर्विक्रममूर्जितम् ।
त्रायस्वेति कथं भ्रातुस्तस्य वक्त्रे वचः स्फुरेत् ॥ ७६७ ॥
व्रजामि कथमार्येण कृष्णसारानुकारिणा ।
धृतोऽहं तव रक्षायै राक्षसा हि वहुच्छलाः ॥ ७६८ ॥
लक्ष्मणेनेत्यभिहिते निशम्य जनकात्मजा ।
ऊचे त्रासाद्धि दैत्यानां कोपस्य च वशं गता ॥ ७६९ ॥
अभग्नविक्रमस्यापि निश्चितौ न जयाजयौ ।
निगीर्णः किं न वृत्रेण देवो वज्रधरः पुरा ॥ ७७० ॥
भ्रातुराक्रन्दनं श्रुत्वा कथं निःसंभ्रमो भवान् ।
भ्रातरः शत्रवो नूनं पुंसामेकार्थभागिनः ॥ ७७१ ॥
स्वजनाद्भयमस्तीति तत्त्वज्ञाः सत्यमूचिरे ।
क्षयक्षणेषु जागर्ति नः विज्ञातान्तरः परः ॥ ७७२ ॥
क एवं नाम जानीते मिथ्याप्रणययन्त्रितः ।
यद्भ्रातापिः प्रियो भ्रातुर्विनिपातं प्रतीक्षते ॥ ७७३ ॥
व्यक्तं स्फुरति ते कापि पापादनुचिता मतिः ।
जानन्नपि न जानीषे येन मां भर्तृजीविताम् ॥ ७७४ ॥
श्रुत्वेति सीतावक्त्रेन्दोः कलङ्कमिव वाच्यताम् ।
भीतो बभूव सौमित्त्रिर्वज्रेणेव विदारितः ॥ ७७५ ॥
सोऽब्रवीत्प्राञ्जलिः सीतां मातस्त्वं दैवतं मम ।
न युक्तमुत्सहे वक्तुं वाग्बाणनिहतस्त्वया ॥ ७७६ ॥
दृढग्रहा अप्यबलाः पेशलाः कुटिलाशयाः ।
मित्त्रभ्रातृविभेदिन्यः सर्वथा कुटिलाः स्त्रियः ॥ ७७७ ॥
गुणा जनापवादान्ताः दुष्पुत्रान्ताः कुलस्त्रियः ।
स्त्रीभेदान्ताः सुहृत्स्नेहा दुर्नयान्ताश्च संपदः ॥ ७७८ ॥
मातस्त्वया दुरुक्तेऽस्मिन्साक्षिणो हि वनेचराः ।
व्रजामि राघवं द्रष्टुं पान्तु त्वां वनदेवताः ॥ ७७९ ॥
इत्युक्त्वा विमनास्तूर्णं परिम्लानाननः श्वसन् ।
जगाम रामपदवीं लक्ष्मणः क्ष्मां विलोकयन् ॥ ७८० ॥
इति लक्ष्मणप्रयाणम् ॥ २४ ॥
अत्रान्तरे दशग्रीवे प्रविष्टे काननं स्वयम् ।
भयाच्चकम्पिरे वृक्षाः प्रययौ न च मारुतः ॥ ७८१ ॥
त्वङ्गत्तुङ्गतरङ्गाग्रभङ्गिन्योऽपि शनैः शनैः।
तरङ्गिण्यो ययुर्भीत्या मूकसारसनूपुराः ॥ ७८२ ॥
ततः पिधाय विपुलं विग्रहं दशकंधरः ।
भिक्षुरूपोऽभवद्वृद्धः स्नायुशेषतनुः श्वसन् ॥ ७८३ ॥
१. ‘भाविनः’ क; शा०.
मुण्डः कमण्डलुच्छत्त्रदण्डाङ्कः श्रमकम्पितः ।
योगीव ध्यानलोलाक्षः सीतामन्तर्विचिन्तयन् ॥ ७८४ ॥
भुजङ्ग इव संछन्नः कुटिलस्तृणपल्लवैः ।
ददर्शाभ्येत्य वैदेहीं राहुः शशिकलामिव ॥ ७८५ ॥
आसीनां पर्णशालाग्रे पीतकौशीयकांशुकाम् ।
लतामिवानिलोदञ्चत्पुष्पकिञ्जल्कपिञ्जराम् ॥ ७८६ ॥
तामुत्फुल्लपलाशाक्षीं संवीक्ष्य नलिनाननाम् ।
जगाम कामस्य वशं वशीकृतजगत्त्रयः ॥ ७८७ ॥
लुलितां व्याजभीत्येव सकम्पविकलाक्षराम् ।
प्रत्यग्रमदनाकारो गद्गदां गिरमादधे ॥ ७८८ ॥
शृङ्गारशिक्षाकरिणी हरिणी हारिलोचना ।
का त्वं लावण्यनलिनी मलिनीकृतचन्द्रिका ॥ ७८९ ॥
इमौ ते कुरुतः कान्तिं करौ कमलकोमलौ ।
तारुण्यपारिजातस्य नवपल्लवविभ्रमम् ॥ ७९० ॥
इयं ते कान्तितटिनी हारफेनावली सिता ।
चक्रवाकयुगेनेव स्तनद्वन्द्वेन भूषिता ॥ ७९१ ॥
क्षयक्षीणस्य शशिनो दग्धस्य च मनोभुवः ।
धात्रा त्वं निर्मिता सुभ्रु कच्चित्संजीवनौषधिः ॥ ७९२ ॥
रक्ताधरदलं नेत्रभ्रमरं स्मितकेसरम् ।
इदं ते भाति कान्तिश्रीनिवासकमलं मुखम् ॥ ७९३ ॥
नेदमप्सरसां रूपं गन्धर्वीणां कथैव का ।
दूरे विद्याधरस्त्रीणां कासि कस्य कुतोऽथ वा ॥ ७९४ ॥
अस्मिन् घोतरव्यालरक्षःपक्षिगणे वने ।
कथमेकैव वससि स्रस्तेवेन्दुद्युतिर्दिवः ॥ ७९५ ॥
गेहे त्रैलोक्यजयिनामिदमर्हति ते वपुः ।
उत्तुङ्गरत्नहर्म्याग्रशृङ्गोत्तुङ्गावतंसकम् ॥ ७९६ ॥
इति क्षपाचरपतेः श्रुत्वा जनकनन्दिनी ।
चकारातिथ्यसत्कारं निर्व्याजमुनिगौरवात् ॥ ७९७ ॥
तस्मै निजकुलं रामवृत्तान्तं च निवेद्य सा ।
मद्भर्तुर्लप्स्यसे पूजां प्रतीक्षस्वेत्युवाच तम् ॥ ७९८ ॥
स सीतावचनं श्रुत्वा प्रसह्य हरणोत्सुकः ।
तामूचे दन्तकिरणैर्दंष्ट्रां प्रकटयन्निव ॥ ७९९ ॥
अहं स विश्वविजयी वसतिः सर्वसंपदाम् ।
द्रावणस्त्रिदशेन्द्रस्य रावणो लोकरावणः ॥ ८०० ॥
हेमप्रकारजघना सरिन्नाथोर्मिमेखला ।
रत्नांशुकवती लङ्का निःशङ्कायतनं मम ॥ ८०१ ॥
अविश्रान्तोत्सवा सा श्रीस्ते भोगाश्चावियोगिनः ।
त्वत्संगमेन मे यान्तु त्रैलोक्यस्पृहणीयताम् ॥ ८०२ ॥
भ्रातुर्वैश्रवणस्यापि विमानं मानिनो मया ।
अग्र्यमैश्वर्यवृक्षस्य पुष्पकं पुष्पकं हृतम् ॥ ८०३ ॥
सुरैस्त्रैणं तृणं मन्ये न धीर्विद्याधरीषु मे ।
शोचामि सुभ्रु वीक्ष्य त्वामन्यस्त्रीक्षपितं वयः ॥ ८०४ ॥
धिक्सुखं त्वद्विहीनानां का विभूतिस्त्वया विना ।
अकाम एव कामोऽसौ यस्य त्वं नावलम्बनम् ॥ ८०५ ॥
प्रसादः क्रियते सुभ्रु विहारस्तव रोचताम् ।
मया सह विशालाक्षि लङ्कोपवनभूमिषु ॥ ८०६ ॥
यत्प्रसादं प्रतीक्षन्ते सुरगन्धर्वकिंनराः ।
प्रणयी ते जनः सोऽयं स्वदारेषु निरादरः ॥ ८०७ ॥
श्रुत्वैतत्कोपसंतप्ता वज्रपातोपमं वचः ।
जगाद जानकी रूक्षं सती मानेन निर्भया ॥ ८०८ ॥
अहो बतातिविषमं विषं पातुं समीहसे ।
यस्वामोदेन समदः सानुगो न भविष्यसि ॥ ८०९ ॥
गुणरत्नसुधाम्भोधिर्नयनानन्दबान्धवः ।
औचित्यस्योचितं धाम श्यामः कमललोचनः ॥ ८१० ॥
विश्वरक्षामणिर्वीरः पतिर्मे धन्विनां वरः ।
प्रांशुः प्राज्यभुजस्तम्भस्तम्भितारिमनोरथः ॥ ८११ ॥
भगीरथ इवानल्पसर्पत्कीर्तिसुरापगः ।
यस्याग्रे न प्रकाशन्ते तेजांसि च तपांसि च ॥ ८१२ ॥
प्रतापधाम्नस्तस्याहं रामस्य सहचारिणी ।
प्रभेव भास्वतो नित्यं निशाचरकुलाशनेः ॥ ८१३ ॥
तां स्प्रष्टुमिच्छसि कथं मोहान्मां त्यक्तजीवितः ।
जिह्वामिव गजारातेर्जृम्भमाणस्य जम्बुकः ॥ ८१४ ॥
मोहोऽयं ते निपातो वा विपाकः कुकृतस्य वा ।
ऐश्वर्यं कुलमात्मानं यत्स्वयं हन्तुमिच्छसि ॥ ८१५ ॥
आसन्नदुःसहापातात्त्वत्तो व्यक्तं क्षपाचर ।
संपन्मूलहताद्वृक्षाद्विहंगालीव विद्रुता ॥ ८१६ ॥
रामस्य विप्रिये कस्त्वं मत्तेभस्येव गर्दभः ।
शार्दूलस्येव शशकः सुपर्णस्येव वायसः ॥ ८१७ ॥
इति सीतावचः श्रुत्वा सकोपो राक्षसेश्वरः ।
ऊचे कन्दर्पकारुण्यात्क्रूरोऽपि मधुराक्षरम् ॥ ८१८ ॥
न मामर्हसि लोलाक्षि प्रत्याख्यातुं शुचिस्मिते ।
यस्याज्ञा त्रिदशाधीशशिखाशेखरशालिनी ॥ ८१९ ॥
असिन्ममाननवने रुषा भ्रूभङ्गसंगते ।
निपतन्ति विमानेभ्यः स्रस्तायुधधराः सुराः ॥ ८२० ॥
नोप्णांशुस्तापमादत्ते मद्भयाद्भीरुमारुताः ।
नोद्धतं परिसर्पन्ति विनीताः सेवका इव ॥ ८२१ ॥
अस्तु त्रैलोक्यलक्ष्मीस्ते सपत्नी मत्परिग्रहात् ।
त्वत्संगमसुधासिक्ता भवन्तु मम संपदः ॥ ८२२ ॥
अल्पायुषा मनुष्येण किं रामेण हतौजसा ।
तं कञ्चुकं भुजंगीव त्यज दिव्योपभोगिनी ॥ ८२३ ॥
श्रुत्वा तत्कोपताम्राक्षी कम्पिता जनकात्मजा ।
आज्यप्रज्वलितेवाग्नेः शिखा प्रोवाच रावणम् ॥ ८२४ ॥
विनष्टाः सर्वथा सर्वे वराकाः क्षणदाचराः ।
येषां परोक्षे त्वद्दोषाद्विनाशोऽयमुपस्थितः ॥ ८२५ ॥
धिगेतां गर्हितां लोके दुराचारानुजीविताम् ।
यया सुप्ताः क्षयं यान्ति निर्दोषा अपि सेवकाः ॥ ८२६ ॥
विमुञ्च परदारेच्छां मा गमः प्रलयं मुधा ।
रामदर्शनपर्यन्तं जीवितं किं न शोचसि ॥ ८२७ ॥
याते चापप्रणयितामार्यसूनोर्भुजद्रुमे ।
पाप प्रयास्यसि क्षिप्रं दुर्नयख्यातिशेषताम् ॥ ८२८ ॥
क्षणाद्दिक्षु निरुद्धासु रामचापच्युतैः शरैः ।
मातुरप्युदरे नूनं न ते स्थानं भविष्यति ॥ ८२९ ॥
विद्युद्विलासिनां व्योमि दिगन्तव्यापिनां भुवि ।
सर्वथा रामबाणानां पातालेऽप्यहता गतिः ॥ ८३० ॥
करिष्यत्युपदेशं ते मृत्योर्भ्रूभङ्गभङ्गुरा ।
चापवल्ली रघुपतेस्त्रैलोक्योत्सेकतर्जनी ॥ ८३१ ॥
अभेद्यतां वक्षसस्ते कुलिशोल्लेखलक्ष्मणः ।
करिष्यन्ति हतां घोरा राघवस्य शराः खराः ॥ ८३२ ॥
करपत्रशिलापाकवज्रकण्टकसंकटैः ।
अवश्यमुत्खाततनू रामवाणैः प्रतुष्यसि ॥ ८३३ ॥
इत्युक्तः परुषं रामपत्न्या नक्तंचरेश्वरः ।
निष्पिष्य पाणिना पाणिं घोरं स्वं वपुराददे ॥ ८३४ ॥
सोऽभूत्त्रिदशसंनाशकारिवक्रवनोत्कटः ।
स्पष्टदंष्ट्रावटाट्टालघटाघटितदिक्तटः ॥ ८३५ ॥
१. ‘न तां’ शा०. १९
शुभ्रानविभ्रमास्तस्य ययुर्दंष्ट्रांशुसंचयाः ।
व्योमाब्धिमध्यविस्फारफेनकूटाट्टहासताम् ॥ ८३६ ॥
मिथःसंघट्टसंजातस्फुलिङ्गा कुण्डलावली ।
वभौ तस्यार्कमालेव कल्पान्तोल्काग्निवर्धिनी ॥ ८३७ ॥
रक्तमाल्याम्बरधरः प्रदीप्तविविधायुधः ।
सोऽभूद्दावानलालोलः ससंध्याभ्र इवाचलः ॥ ८३८ ॥
तुषारतारस्तस्योच्चैः स्फटिकस्यन्दनिर्झरः ।
बभार हारः करकावृष्टिशोभां घनाकृतेः ॥ ८३९ ॥
उद्ययुर्भूरिकेयूरकान्तिकन्दलिनो भुजाः ।
अहंपूर्विकयेवास्य जानकीहरणोत्सुकाः ॥ ८४० ॥
सोऽब्रवीत्क्षुभिताम्भोधिघोरनिर्घोपभीषणम् ।
दोलालीलामिव मुहुर्भ्रूभङ्गैरादिशन्दिशाम् ॥ ८४१ ॥
मूढे हितं न जानीषे तत्त्वेनाभिहितं मया ।
असत्यप्रणयाः सत्यशङ्किन्यः सर्वथा स्त्रियः ॥ ८४२ ॥
पश्य भ्रूक्षेपमात्रेण विश्वविप्लवकारिणा ।
स्वर्गं करोमि पाताले पातालं वा सुरालये ॥ ८४३ ॥
भजस्व जितमृत्युं मां त्यज मर्त्यं क्षणायुषम् ।
क्लीवस्तत्याज राज्यं यः स्त्रीवाक्येन विनष्टधीः ॥ ८४४ ॥
नद्यो निम्नानुसारिण्यः कदर्याभिरताः श्रियः ।
नार्यो नीचानुरागिण्यो धूर्ताधीनाश्च बुद्धयः ॥ ८४५ ॥
प्रायः प्रीतिर्विरूपेषु निर्गुणेष्वधमेषु च ।
बालानामबलानां च नित्याभ्यासेन जायते ॥ ८४६ ॥
सान्त्विताप्यप्रियं ब्रूषे प्रणयं नाभिमन्यसे ।
दर्पात्परिभवन्त्येव योषितो हृदि लालिताः ॥ ८४७ ॥
एष स्वयं प्रसह्य त्वां हराम्यधमरागिणीम् ।
सुखभोग्याः स्त्रियः सत्यमाक्रम्यैव वशीकृताः ॥ ८४८ ॥
१. ‘हार’ शा०.
अतोऽन्यदुत्सहे वक्तुं घोरमप्रियवादिनि ।
किं करोम्यतिदुर्वृत्तं मनो मग्नमिदं त्वयि ॥ ८४९ ॥
इत्युक्त्वा तां स जग्राह क्रोधान्धो राक्षसाधिपः ।
उर्वोः केशेषु चाकृष्य करेण कदलीमिव ॥ ८५० ॥
तं दृष्ट्वाञ्जनशैलाभं हरन्तं जानकीं वलात् ।
दंष्ट्राकरालं सत्रासं दुद्रुवुर्वनदेवताः ॥ ८५१ ॥
तस्यादृश्यत निर्घोषघोरः काञ्चनपिङ्गलः।
खरयुक्तो रथः स्फूर्जद्विद्युद्दीप्त इवाम्बुदः ॥ ८५२ ॥
स वैदेहीं समादाय स्यन्दनेन पताकिना ।
खं विवेश भयोद्भ्रान्तां स्वर्नदीं दर्शयन्निव ॥ ८५३ ॥
गृहीता तेन सा तन्वी बभौ तालवनत्विषा ।
अकालकालमेघेन प्राचीव शशिनः कला ॥ ८५४ ॥
सा श्वभ्रपतितेवोग्रभयमीलितलोचना ।
किमेतदिति नाज्ञासीत्क्षणं मोहहतेव धीः ॥ ८५५ ॥
कृच्छ्रेण संज्ञामासाद्य करुणं विललाप सा ।
उद्ग्रीवैराश्रममृगैः साश्रुमालोकिता मुहुः ॥ ८५६ ॥
हा लक्ष्मण विमूढाहं भ्रातुस्ते दयिता सती ।
हृता त्वद्वाक्यविमुखी रक्षसा धीमतां वर ॥ ८५७ ॥
हा नाथ ह्रियमाणां मां राक्षसेन वलीयसा ।
त्रैलोक्यरक्षासंनद्ध प्रियां कथमुपेक्षसे ॥ ८५८ ॥
स्वस्त्यस्तु वः कर्णिकारचूतपल्लवकेसराः।
रक्षसा रामरहिता हृताहमबला बलात् ॥ ८५९ ॥
गोदावरि नमामि त्वां गिरीणामयमञ्जलिः।
सर्वे शंसत रामाय रक्षसा वल्लभा हृता ॥ ८६० ॥
सत्त्वेभ्यश्च मुनिभ्यश्च नमः कीर्तिः प्रयातु वः ।
परित्रस्तजनत्राणपवित्रकथनप्रथाम् ॥ ८६१ ॥
१. ‘राक्षसेन हृतां प्रियाम्’ ख.
श्रुत्वैतन्नोचिरे किंचित्सत्रासास्त्रिदशा अपि ।
को रावणोग्रदहने स्वयं पतितुमीश्वरः ॥ ८६२ ॥
इति सीतापहरणम् ॥ २५ ॥
तस्याः क्रन्दितमाकर्ण्य जटायुर्गृध्रभूपतिः ।
उवाच रावणं दूरात्पादपे महति स्थितः ॥ ८६३ ॥
जनापवादकलिले पौलस्त्यकुलमुन्नतम् ।
अहो नु पातकश्वभ्रे पातितो भवता स्वयम् ॥ ८६४ ॥
लोभः परवधूवाञ्छा नृशंसत्वमसत्यता ।
शुद्धजन्मपटे पुंसामेताः कर्दमविप्रुषः ॥ ८६५ ॥
लज्जैषा यदि भूपालः परदारान्परामृशेत् ।
त्रातारो यदि हन्तारो रक्षितारो तु तत्र के ॥ ८६६ ॥
प्रभविष्णुर्न तत्कुर्यात्साधूनां संगमेषु यत् ।
प्राप्नोति पृथुधिक्कारगर्हाभारकदर्थनाम् ॥ ८६७ ॥
रामस्य शुद्धयशसः पत्नी धर्मनिधेः कुलात् ।
हरतस्तव वक्त्राणि न लज्जन्ते परस्परम् ॥ ८६८ ॥
अरुणस्यात्मजं धर्म्ये पुराणं सत्पथि स्थितम् ।
वृद्धं जटायुषं नाम गृध्रराजमवैहि माम् ॥ ८६९ ॥
त्वया हर्तुं न शक्यैषा मयि जीवति जानकी ।
अरणिर्वृषलेनेव शत्रुश्रीरिव भीरुणा ॥ ८७० ॥
अहो नु मदनान्धेन रामस्य हरता प्रियाम् ।
कण्ठे हारधिया मूढ कालव्यालः कृतस्त्वया ॥ ८७१ ॥
भुञ्जन्ते परिणामार्हं शक्यमेव च कुर्वते ।
फलोचितं च जल्पन्ति साधवो दूरदर्शिनः ॥ ८७२ ॥
अशक्यं पापमलिनं संपदुन्मूलनक्षमम् ।
जीवितान्तकरं घोरं मा कृथाः कर्म गर्हितम् ॥ ८७३ ॥
१. ‘भूधरः’ शा०. २. ‘भ्रातरो’ क-ख.
षष्टिवर्षसहस्राणि प्रयातानि ममायुषः ।
श्रुतमद्यैव दृष्टं च परस्त्रीहरणं मया ॥ ८७४ ॥
कथं मम वचः पथ्यमवधीर्यैव धावसि ।
अधुनैव मया भग्नं पश्यन्तु त्वां नभश्चराः ॥ ८७५ ॥
इति गृध्रपतेः श्रुत्वा वचनं रावणोऽवदत् ।
दंष्ट्राकरालमिव खं कुर्वन्कोपस्मितांशुभिः ॥ ८७६ ॥
चिरादन्विष्य लब्धोऽसि नूनं कालेन खेचर ।
निर्भयो यन्ममाप्यग्रे बभाषे प्रतिभान्वितम् ॥ ८७७ ॥
वृद्धोऽपि मां न जानासि लोकेषु प्रथितं कथम् ।
जीर्णं शरीरमथ वा खिन्नस्त्वं त्यक्तुमिच्छसि ॥ ८७८ ॥
येनोप्यते विसंवादिनिर्वाहविपुलं वचः ।
तदसत्यपुरीषस्य निर्गमच्छिद्रमाननम् ॥ ८७९ ॥
इत्युक्त्वा कोपताम्राक्षो राक्षसः पक्षिणां वरम् ।
कर्णिकालीननाराचैस्तीक्ष्णैः क्षिप्रमपूरयत् ॥ ८८० ॥
वज्राग्रनखराभ्यां च चरणाभ्यां विदार्य तम् ।
खगः फुल्लमिवाशोकं चकार रुधिरारुणम् ॥ ८८१ ॥
दशग्रीवभुजोत्सृष्टा गृध्रराजं दशेषवः ।
विविशुः पृथुशूत्काराः सनिःश्वासा इवोरगाः ॥ ८८२ ॥
ततः कोपाकुलः पक्षी पक्षाभ्यां राक्षसप्रभोः ।
बभञ्ज दीप्ररत्नांशुपिञ्जरं सशरं धनुः ॥ ८८३ ॥
तस्य हेममयं दीप्तं प्रतापमिव कङ्कटम् ।
छित्त्वा जघानाशु रथं मनोरथमिवायतम् ॥ ८८४ ॥
पपात राक्षसेन्द्रस्य छत्त्रं तच्चरणाहतम् ।
पुलस्त्यवंशो मलिनो जानकीहरणादिव ॥ ८८५ ॥
छिन्नायुधं हतरथं तमुवाच विहंगमः ।
त्यज रामस्य महिषीं प्राणात्रक्ष सह श्रिया ॥ ८८६ ॥
१. ‘ष्वप्रतिमं’ क.
नेयं श्रीः सहते शुद्धशीलमानससारसी।
धिक्कारमलिनं पाप प्रवादजलदागमम् ॥ ८८७ ॥
तेषामेव विभात्येष निष्कलङ्को यशःशशी ।
शीलं विभूषणं येषां धर्मो बन्धुर्दया प्रिया ॥ ८८८ ॥
अनायत्तं कृतान्तस्य साधूनां जीवितं यशः ।
सश्वासमेव मरणं शीलत्यागः शरीरिणाम् ॥ ८८९ ॥
अवश्यं त्यक्तसद्वृत्तः पौलस्त्य न भविष्यसि ।
न ह्यनासन्ननाशानामुदेति मलिना मतिः ॥ ८९० ॥
इत्युक्त्वा निपपातास्य पृष्टे वज्रनखः खगः ।
स चकम्पे चिरं येन क्षित्तिकम्प इवाचलः ॥ ८९१ ॥
मौलिरत्नांशुशबलैस्तमाकृष्य शिरोरुहैः ।
चक्रे स शक्रचापाङ्क लोलाभ्रमिव भूधरम् ॥ ८९२ ॥
वामेनाङ्केन वैदेहीमवष्टभ्य दशाननः ।
तलाघातेन मुष्टिभ्यां पद्भ्यां च निजघान तम् ॥ ८९३ ॥
स रावणकराघातैस्तैरकम्पितविग्रहः ।
तं संभ्रमाद्भुतरुषां विधेयं विदधे खगः ॥ ८९४ ॥
ततः सीतां समुत्सृज्य संरुषद्दशकंधरः ।
तुण्डाग्रपक्षचरणांश्चिच्छेदास्य महासिना ॥ ८९५ ॥
कृपाणकृत्तसर्वाङ्गं विहंगं पतितं भुवि ।
आर्ताभिसृत्य वैदेही परिष्वज्य शुशोच तम् ॥ ८९६ ॥
एवं शरीरं तत्याज सीतार्थं गृध्रभूपतिः ।
आपन्नत्राणसज्जानां प्राणः सत्त्ववतां तृणम् ॥ ८९७ ॥
इति जटायुवधः ॥ २६ ॥
क्षणशेषायुषि क्षोणीमालिङ्ग्यैव जटायुषि ।
स्थिते रुधिरदिग्धाङ्गे चुक्रोश जनकात्मजा ॥ ८९८ ॥
सा रावणेनाभिसृता संभ्रमव्याकुलांशुका ।
वृक्षानप्यभिदुद्राव संत्रस्ता शरणैषिणी ॥ ८९९ ॥
तस्या भुजङ्गकुटिलं केशपाशं क्षपाचरः ।
जवेनाभ्येत्य जग्राह कालपाशमिवात्मनः ॥ ९०० ॥
तस्यां केशेषु कृष्टायां घोरेण तमसा वृताः ।
दिशो नीलाम्बरेणेव वभूवुः पिहिताननाः ॥ ९०१ ॥
तां वीक्ष्य राक्षसाकृष्टां धुतपल्लवपाणयः ।
मञ्जर्यो मधुपालापाः प्रलापिन्यश्चकम्पिरे ॥ ९०२ ॥
मुखराभरणां व्योम्ना सामादाय जगाम सः ।
क्वणन्मधुकरां वल्लीमुन्मूल्येव महानिलः ॥ ९०३ ॥
बभौ भुजवने तस्य सीतामुखसरोरुहम् ।
दृश्यं क्वचिददृश्यं च शशीव घनपञ्जरे ॥ ९०४ ॥
रावणेन हृतां ज्ञात्वा रामस्य दयितां बलात् ।
कृतं कार्यममन्यन्त चतुर्मुखमुखाः सुराः ॥ ९०५ ॥
ततः पपात चरणान्मुखरो मणिनूपुरः ।
वैदेह्या राक्षसत्रासमुक्ताक्रन्द इव क्षितौ ॥ ९०६ ॥
हारमुक्ताफलान्यस्याः पतितानि चकाशिरे ।
दिवः प्रक्षीणपुण्यानि नक्षत्राणीव भूतले ॥ ९०७ ॥
तस्या विभूषणान्युग्रवेगगामिनि रावणे ।
कुसुमानीव मञ्जर्या व्यशीर्यन्त समन्ततः ॥ ९०८ ॥
उद्भ्रान्तभृङ्गभ्रूभङ्गाः सीतां शाखाभुजैर्मुहुः ।
न भेतव्यमिति प्राहुर्वृक्षाः पक्षिरुतैरिव ॥ ९०९ ॥
सिंहव्याघ्रा अपि रुषा सीताच्छायानुयायिनः ।
दंष्ट्राकरालैर्वदनैर्दशाननमतर्जयन् ॥ ९१० ॥
सीतापराभवामर्षमर्षणानुशयाकुलः ।
वैलक्ष्यादिव चण्डांशुर्बभूवापाण्डुमण्डलः ॥ ९११ ॥
दीप्तमौलिप्रभादामवेगदीर्घीकृतं बभौ ।
दशास्यस्य गतौ हैमं मानसूत्रमिवाम्बरे ॥ ९१२ ॥
१. ‘दिशो दश’ शा०.
गिरिशृङ्गगतान्यत्र साधुरूपान्प्लवङ्गमान् ।
विलोक्य सीता तत्याज भूषणान्युपलब्धये ॥ ९१३ ॥
ततः सागरमुल्लङ्घ्य लङ्कां प्राप दशाननः ।
रामचापच्युत इव क्षिप्रपाती शिलीमुखः ॥ ९१४ ॥
रामपत्नीं समादाय राजधानीं विवेश सः ।
स्वकुलक्षयदावाग्नेः शिखां पूर्वोद्गतामिव ॥ ९१५ ॥
रामस्य चरितं ज्ञातुं गूढानष्टौ स राक्षसान् ।
विससर्ज जनस्थाने सर्वप्राणिविचिन्तकान् ॥ ९१६ ॥
नानारत्नमयीं हेमहर्म्यामन्तःपुराबलीम् ।
दिव्यामदर्शयत्तस्या दर्पान्धो दशकंधरः ॥ ९१७ ॥
रक्षायै राक्षसीस्तस्या विधाय विकृताननाः ।
मेने स्वाधीनतां यातां स तामन्तकमोहितः ॥ ९१८ ॥
सोऽब्रवीद्रक्षसां विश्वजयिनां विश्रुतौजसाम् ।
द्वाचत्वारिंशदुग्राणां कोट्यो मम पदानुगाः ॥ ९१९ ॥
सुरकिंनरगन्धर्वविद्याधरमृगीदृशाम् ।
सीते शतसहस्राणि कामं मम परिग्रहः ॥ ९२० ॥
इयं मणिमयी लङ्का विमानं पुष्पकं च मे ।
दुर्लभं त्रिदशेन्द्राणां मनोरथगतेरपि ॥ ९२१ ॥
सोऽहं त्रिभुवनश्लाघ्यपरिवारपरिच्छदः ।
त्वदधीनः शशिमुखि त्वदालोकनजीवितः ॥ ९२२ ॥
यस्य मे भ्रूलतोत्क्षेपवर्तिन्यो विश्वसंपदः ।
सोऽहं त्वदाज्ञाप्रणयी जयत्यसमसायकः ॥ ९२३ ॥
अस्मिन्कल्पलतोद्याने रमस्व सुभगे मया ।
इदं पीनस्तनोदग्रं न चिरं चारु यौवनम् ॥ ९२४ ॥
त्यज रामगतामाशां नेयं प्राप्यापरैः पुरी ।
संकल्पाः पङ्गवो यस्यां का तत्र मरुतां गतिः ॥ ९२५ ॥
वदनेन्दुरयं लोकलोचनानन्दबान्धवः ।
न ते सितस्मिते भाति विषादजलदावृतः ॥ ९२६ ॥
प्रसीद सुमुखि स्मेरास्त्वत्पादनखकान्तयः ।
मयैताः प्रणतो नीता मौलिमालावतंसताम् ॥ ९२७ ॥
अशिक्षितप्रणामानां मानोन्नतिभृतां सदा ।
शिरसां मम सुश्रोणि नवोऽयं विनयक्रमः ॥ ९२८ ॥
श्रुत्वेति दशकण्ठस्य वैदेही दुःसहं वचः ।
ऊचे धृत्वा तृणं मध्ये निर्भया मरणैषिणी ॥ ९२९ ॥
दुर्वृत्त दुर्नयस्यास्य दर्पस्य विभवस्य च ।
अवश्यं तव काकुत्स्थः क्षयदीक्षां विधास्यति ॥ ९३० ॥
चौरस्येव प्रलापोऽयं वध्यभूमिं श्रितस्य ते ।
मूढ स्वस्थोऽसि मिथ्यैव मृत्योरङ्कगतः कथम् ॥ ९३१ ॥
सुहृद्भिर्विहर क्षिप्रं कुपितं च प्रसादय ।
रामभ्रूभङ्गदृष्टानां न पुनस्तैः समागमः ॥ ९३२ ॥
मण्डलीकृतचापस्य रामार्कस्य शरांशुभिः ।
भविष्यति क्षयोऽवश्यं तमसामिव रक्षसाम् ॥ ९३३ ॥
तपःक्लेशार्जितां लक्ष्मीं रक्ष राक्षसदुर्लभाम् ।
चित्रधूम इवैश्वर्यं विनाशयति दुर्नयः ॥ ९३४ ॥
श्रीलता मूलपरशुर्यशः शीतांशुवारिदः ।
ऐश्वर्यजलधेरौर्वः शुभाय कस्य दुर्नयः ॥ ९३५ ॥
एतास्तव दुराचार जीवितेन सह श्रियः ।
दुर्नयादिष्टमार्गेण यान्ति कालोपहारताम् ॥ ९३६ ॥
मां कोपाकुलितः क्षिप्रं भक्षय क्षणदाचर ।
न प्राप्याहं त्वया पाप श्वपाकेनेव यज्ञभूः ॥ ९३७ ॥
इति ब्रुवाणां वैदेहीं प्रत्युवाच दशाननः ।
अद्यापि परुषं सीते सहते रावणो वचः ॥ ९३८ ॥
संवत्सरेण यदि मे सीते नैष्यति वश्यताम् ।
सूदास्त्वां दारयिष्यन्ति ततो मम महानसे ॥ ९३९ ॥
इत्युक्त्वा राक्षसस्त्रीणां व्याघ्रीणां हरिणीमिव ।
हस्ते चिक्षेप तां तन्वीमशोकवनिकान्तरे ॥ ९४० ॥
सा राक्षसीभिर्घोराभिस्तर्ज्य॑माना वरानना ।
निमग्ना न स(?)माधातुमगाधे व्यसनोदधौ ॥ ९४१ ॥
अत्रान्तरे ब्रह्मवाक्यात्स्वयं देवः सुरेश्वरः ।
विधाय निद्रया मोहं राक्षसीनामलक्षितः ॥ ९४२ ॥
अभ्येत्य सीतां प्रोवाच शुचिचारित्रभूषणाम् ।
पुत्रि रामेण न चिरात्संगमस्ते भविष्यति ॥ ९४३ ॥
इत्याश्वास्य शनैः सीतां तस्यै विग्रहधारणम् ।
दिव्यं ददौ हविस्तृष्णाक्षुत्क्लमापहरं परम् ॥ ९४४ ॥
इति हविःप्रदानम् ॥ २७ ॥
रामोऽपि हेमहरिणाकारं हत्वा क्षपाचरम् ।
सीतामुत्कण्ठितो द्रष्टुं शङ्कमानो न्यवर्तत ॥ ९४५ ॥
स दुःखपिशुनं श्रुत्वा स्वरं गोमायुपक्षिणाम् ।
अज्ञात्वापि वधूवृत्तं हा सीतेति वदन्मुहुः ॥ ९४६ ॥
स दृष्ट्वा लक्ष्मणं दूरात्समायान्तमधोमुखम् ।
राक्षसैर्भक्षितां सीतां निःसंशयममन्यत ॥ ९४७ ॥
कथं त्रस्तकुरङ्गाक्षीं जानकीं विजने वने ।
त्यक्त्वा गतोऽसि सौमित्रे जीवितं मे हृतं त्वया ॥ ९४८ ॥
इति ब्रुवाणः सावेगः शङ्कादिष्टेन वर्त्मना ।
उपसृत्य ददर्शाशु सीतारहितमाश्रमम् ॥ ९४९ ॥
ततः स पतितः श्वभ्रे घोरे वा मकराकरे ।
ज्वालाकराले वह्नौ वा न किंचिद्बुबुधे क्षणात् ॥ ९५० ॥
१. ‘न समेष्यसि वयताम्’ ख-शा०. २ ‘समादातु’ क-शा०.
मनःसुब्रह्मचारिण्या सीतयैव विना कृतः ।
धृत्या सोऽभून्नवोद्भूतप्रभूतव्यसनाहतः ॥ ९५१ ॥
तस्य शोकाभिभूतस्य मोहमीलितचेतसः ।
सीतास्मृतिरपि क्षिप्रं क्वाप्यस्पन्ददृशो ययौ ॥ ९५२ ॥
संज्ञामासाद्य शनकैः सबाष्पं वीक्ष्य लक्ष्मणम् ।
ऊचे प्रिया मम त्यक्ता कथमेकाकिनी त्वया ॥ ९५३ ॥
व्यक्तं कान्तिमयं तस्या वपुः कुसुमकोमलम् ।
राक्षसैर्भक्षितं घोरैः शून्ये धिक्ते प्रमादिताम् ॥ ९५४ ॥
इत्युक्तः शोकतप्तेन भ्रात्रा सौमित्रिराकुलः ।
उवाच दुःखवैलक्ष्यदैत्यानां वशमागतः ॥ ९५५ ॥
त्वत्तुल्यस्वरमाक्रन्दं श्रुत्वा मायामृगस्य सा ।
व्रजेति शङ्कितमतिर्मामूचे दैवमोहिता ॥ ९५६ ॥
आर्यस्य विक्रमज्ञेन वारितापि मयासकृत् ।
उवाच परुषं तत्तद्येन मामविशत्तमः ॥ ९५७ ॥
मयि त्वत्पदवीं याते तद्वाक्यशरदारिते ।
मन्ये भवन्तमन्वेष्टुं सापि स्वयमितो गता ॥ ९५८ ॥
इति भ्रातुर्वचः श्रुत्वा रामः शोकविषाकुलः ।
चक्रारूढ इवाकाशं दिशश्च क्षणमैक्षत ॥ ९५९ ॥
तमेवाश्रममालोक्य तानेव च महीरुहान् ।
सीतामेकामपश्यन्स विललापाश्रुगद्गदः ॥ ९६० ॥
अयि प्रिये कदा नाम मन्युरेवंविधस्त्वया ।
गृहीतो मयि येनासि लताजालैस्तिरोहिता ॥ ९६१ ॥
अयं ते नर्मसचिवः शुकः किमपि मूकताम् ।
गतस्त्वद्विरहाद्विद्वानिव मूढसभां श्रितः ॥ ९६२ ॥
अयं स्तिमिततां यातः शिखी त्वकेलिनर्तकः ।
संचयस्त्वत्कटाक्षाणां राशीभूत इवानिशम् ॥ ९६३ ॥
विलासगतिशिष्यस्ते नूपुरारावतस्करः ।
न केलिकलहंसोऽयं शशीवाह्नि विराजते ॥ ९६४ ॥
संत्यक्तशष्पकवलः शिशुर्लीलाकुरङ्गकः ।
साश्रुस्त्वामीक्षते दिक्षु ग्रीवावलनविभ्रमैः ॥ ९६५ ॥
कोऽयं कठोरः कठिने मयि मानग्रहाग्रहः ।
गम्भीरः केन निर्बन्धो येन मौनं न मुच्यते ॥ ९६६ ॥
अयि प्रसीद सरले किर कर्णसुधां गिरम् ।
मिथ्या मदकलालापमानं मुञ्चन्तुं कोकिलाः ॥ ९६७ ॥
इति शोकानलाक्रान्ते रामे तारप्रलापिनि ।
प्रतिशब्दैर्गिरिगुहाश्चक्रुशुर्गद्गदैरिव ॥ ९६८ ॥
बभूवुर्भूरिमधुपालापशिञ्जानपङ्कजाः ।
आश्रमोपान्तवाप्योऽपि प्रलापमुखरा इव ॥ ९६९ ॥
रामं शोचन्तमालोक्य रोमन्थच्छेदनिश्चलाः ।
हरिण्यो मुमुचुर्वाष्पं निःस्पन्दायतलोचनाः ॥ ९७० ॥
स विचिन्वन्प्रियां वल्लीनिकुञ्जगहने वने ।
बभ्रामोद्भ्रान्तहृदयस्खलद्गतिविशृङ्खलः ॥ ९७१ ॥
फुल्लारविन्दवृन्देषु नीलोत्पलवनेषु च ।
स शुशोच मुखं तन्व्या दृशश्च ललितायताः ॥ ९७२ ॥
स किंजल्करजःपुञ्जपिञ्जरां वीक्ष्य मञ्जरीम् ।
पीतांशुकां शशिमुखीं शङ्कमानः समाद्रवत् ॥ ९७३ ॥
क्व सीतेति स पप्रच्छ चेतनाचेतनान्वने
शुचः प्रियवियोगोत्था दुःसहा महतामपि ॥ ९७४ ॥
सोऽब्रवीदेष बकुलः स्फुटं जानाति मे प्रियाम् ।
व्याप्तः समस्तमधुपैर्दिग्द्वीपान्तरचारिभिः ॥ ९७५ ॥
यत्पादनलिनन्यासस्तवाभूत्कुसुमश्रिये ।
अशोक शंस तां सीतामशोकं कुरु मामपि ॥ ९७६ ॥
१. ‘शोचते’ शा०.
मात्सर्योपहतो नूनं ममायं गजयूथपः ।
लीलागतिसपत्नीं तां कथं कथयति प्रियाम् ॥ ९७७ ॥
नैते वदन्ति दयितां निसर्गविजितास्त्वया ।
चमर्यः केशपाशेन दृग्विभागैः कुरङ्गकाः ॥ ९७८ ॥
हा प्रिये कुत्र दृश्यासि क्व च नः संगमस्त्वया ।
यदेते तरलाः क्वापि गन्तुं प्राणा ममोद्यताः ॥ ९७९ ॥
व्यक्तं मृगानुगेनैव भक्षिता राक्षसेन सा ।
निगीर्णस्तन्मुखशशी सशरीरेण राहुणा ॥ ९८० ॥
क्व सा विलासललिता दृष्टिर्लोलामृतच्छटा ।
रागाब्धिफेनधवलं क्व च तद्विभ्रमस्मितम् ॥ ९८१ ॥
चित्रं नवनवोल्लेखविनोदव्यसनी विधिः ।
चित्रं बल इवाकाले तदुन्मूलनलालसः ॥ ९८२ ॥
जाने निजासनाम्भोजाज्जातं जाड्यं प्रजासृजा ।
पुनः कर्तुमशक्यानि स्वकृतानि निहन्ति यत् ॥ ९८३ ॥
विलासवल्ली निर्लूना हतो विभ्रमपादपः ।
किं नाम न हृतं धात्रा हरता हरिणीक्षणाम् ॥ ९८४ ॥
अक्ष्णोः स्पन्दनमप्यासीद्यस्या विघ्नो विलोकने ।
सा कथं सह्यते कान्ता मनोरथपथं गता ॥ ९८५ ॥
हा प्रिये क्व नु यातासि दर्शय क्षणमाननम् ।
पूर्णेन्दुमिव लावण्यसुधासिन्धुसमुद्गतम् ॥ ९८६ ॥
रतिर्विरहितेनेव शोकान्तेनेव धीरता ।
मतिर्मोहहतेनेव हारितासि प्रिये मया ॥ ९८७ ॥
इत्युक्त्वा मोहमापेदे रामोऽपि धृतिसागरः ।
वियोगसारे संसारे स्नेह एव विपाशनम् ॥ ९८८ ॥
सर्वथा गुणसंनद्धा जीवमत्स्यापहारिणी ।
वियोगे बडिशाकृष्टिः लेहवृत्तिः शरीरिणाम् ॥ ९८९ ॥
१. ‘पुनः’ शा०. २. ‘यास्यामि’ शा०.
संज्ञामासाद्य शनकैरपश्यन्दयितां पुरः ।
दिवापि निखिलं लोकं निरालोकं ददर्श सः ॥ ९९० ॥
स निःस्पन्दतनुः स्थित्वा पङ्कमग्न इव द्विपः ।
पुनर्बभ्राम विपिने विषपीत इव स्खलन् ॥ ९९१ ॥
धृतिं न लेभे वल्लीषु स्थलीषु नलिनीषु च ।
कल्पवल्लीपरिभ्रष्टः स षट्पद इवाकुलः ॥ ९९२ ॥
रम्यं घोरं समं श्वभ्रं प्रियं द्वेष्यं स्थलं जलम् ।
ध्यानैकाग्रः स योगीव सर्वं तुल्यममन्यत ॥ ९९३ ॥
स शशीव निशाहीनः परिम्लानाननद्युतिः ।
विलोकयन्वनमहीं दीनः प्रोवाच लक्ष्मणम् ॥ ९९४ ॥
संचारिणी मनोवृत्तिः क्व मे लक्ष्मण सा प्रिया ।
गतदीपशिखापात्रं तया हीनमवेहि माम् ॥ ९९५ ॥
सीताविरहसंतप्तं व्यक्तमुत्क्रान्तजीवितम् ।
अरक्षितस्मरनिधिं स्वर्गे द्रक्ष्यति मां पिता ॥ ९९६ ॥
रक्षश्चूर्णीकृतं तस्याः स्रस्तमेतद्विभूषणम् ।
हेमरत्नकणैः कीर्णं पश्य पुष्पैश्च मेदिनीम् ॥ ९९७ ॥
द्रुतविद्रुमसंकाशप्रत्यग्ररुचिरश्रुतिः ।
सीताहेतोर्वदत्येषा युद्धं राक्षसयोरिव ॥ ९९८ ॥
इहैव भक्षिता नून राक्षसाभ्यां मृगेक्षणा ।
वनेऽस्मिन्निःसहायस्य धृतिमूर्तिमतीव मे ॥ ९९९ ॥
इतः क्रोशान्तरे पश्य तपनीयमयं महत् ।
छत्रं रत्नशलाकाढ्यं स्रस्तं सूर्यमिवाम्बरात् ॥ १००० ॥
मणिमौक्तिकहेमाङ्कं वैडूर्यगुणमायतम् ।
भग्नं धनुरिदं पश्य मेघसंघादिव च्युतम् ॥ १००१ ॥
विशीर्णं पश्य विपुलं कवचं काञ्चनाचितम् ।
संध्याग्रमिव वातेन पातितं गिरिशेखरात् ॥ १००२ ॥
१. ‘समं सम’ शा०.
सरत्नहेमसंनाहाः पिशाचवदनाः स्वराः ।
एते क्षितौ निपतिता मेघाः सेन्द्रायुधा इव ॥ १००३ ॥
रथाक्षमात्राः कस्येमे मृत्युदण्डोपमाः शराः ।
अमानुषं महाद्धं भग्नाश्च कथयन्ति ये ॥ १००४ ॥
इह त्रस्तकुरङ्गाक्षी सा नूनं मम जीवितम् ।
विजित्य राक्षसं युद्धे राक्षसेनैव भक्षिता ॥ १००५ ॥
लावण्यस्य विलासस्य गुणानां मन्मथस्य च ।
एकत्र क्व तु तत्तुल्यसंगमो भविता पुनः ॥ १००६ ॥
क्व नु सा गजगामिन्या मदलीलालसा गतिः ।
विलासे राजहंसानामुपदेशोपयोगिनी ॥ १००७ ॥
पाणिपल्लविनी तस्यास्तारुण्यतरुमञ्जरी ।
क्व सा विलासवसतिः स्तनस्तबकिता तनुः ॥ १००८ ॥
मृणालवल्लीमसृणे क्व ते भुजलते तनोः ।
यत्पुरा क्रियते कोऽपि कराभ्यां कमलभ्रमः ॥ १००९ ॥
क्व तन्मनःशिलोल्लेखलीलातिलकलाञ्छनम् ।
वदतं नवलावण्यनिधानमिव मुद्रितम् ॥ १०१० ॥
तस्याः स्मितच्छटाचन्द्रकलालावण्यतस्करी ।
क्व सा मूर्तिः स्मरस्येव शृङ्गारोद्यानकौमुदी ॥ १०११ ॥
शोणाधरांशवस्तस्या बिम्बबन्धूकबन्धवः ।
रागसागरसंजाताः क्व ते विद्रुमपल्लवाः ॥ १०१२ ॥
मनःप्रसादविषदाः क्व ते चारुदृशो दृशः ।
विवलल्लीनरत्नाङ्काः सुधावीचिच्छटा इव ॥ १०१३ ॥
कामकार्मुकभङ्गिन्यो भ्रूविलासकलाः क्व ताः ।
नासावंशालिकच्छत्त्रे लीलाकुवलयस्रजः ॥ १०१४ ॥
१. ‘एकता’ शा०. २. ‘किनी’ शा०. ३. ‘यत्परः’ क. ४. ‘कीर्तिः’शा०. ५. ‘मानं’ शा०.
अहो वतातिनैष्ठुर्यं गतस्य कठिनं विधेः।
तस्यामपि क्षये यस्य प्रसह्य प्रसृता मतिः ॥ १०१५ ॥
व्रज जानीहि सौमित्रे यदि जीवति जानकी ।
जलजाहरणे व्यग्रा जाह्नवीपुलिने स्थिता ॥ १०१६ ॥
इति तारप्रलापस्य लक्ष्मणस्तस्य शासनात् ।
भ्रान्त्वा मन्दाकिनीकूले न सा दृष्टेत्युवाच तम् ॥ १०१७ ॥
रावणेन हृतामस्यै सीतां शंसेति खेचरैः ।
प्रेरितापि न पौलस्त्यभयादूचे त्रिमार्गगा ॥ १०१८ ॥
राघवोऽपि प्रियतमावियोगविषविह्वलः ।
आयासं जीवितं मेने निवृत्तनयनोत्सवम् ॥ १०१९ ॥
स लुप्तसर्वस्व इव भ्रष्टो मार्गादिवाध्वगः ।
पुण्यक्षये विमानाग्रात्पतितस्त्रिदिवादिव ॥ १०२० ॥
शोकाग्नितप्तनिःश्वासधूसराधरपल्लवः ।
उवाच हारितधृतिर्गिरिं विरहमोहितः ॥ १०२१ ॥
गुहागहनगेहेषु वैदेही यदि ते स्थिता ।
गिरे तद्भ्रूहि वज्रोऽग्रैः शरैर्मे मा गमः क्षयम् ॥ १०२२ ॥
कूलमञ्जुलकुञ्जे सा यदि कल्लोलिनि त्वया ।
धृता तदेते शोषाय सज्जास्त्वयि ममेषवः ॥ १०२३ ॥
इति ब्रुवाणो महतीं पादमुद्रां महीतले ।
स दृष्ट्वा राक्षसेन्द्रस्य क्रुद्धः प्रोवाच लक्ष्मणम् ॥ १०२४ ॥
मिथ्यैव भर्त्सितः शैलो हृतानेन न मे प्रिया ।
विपुलं पश्य विकृतं राक्षसस्य महत्पदम् ॥ १०२५ ॥
सर्वाङ्गभरनिर्भग्नपादाग्रः खमितो गतः ।
मन्ये स सीतामादाय द्वितीयं नास्ति यत्पदम् ॥ १०२६ ॥
यमश्चेत्तु हतं विद्धि का श्लाघा रक्षसां वधे ।
किं मे प्रयान्ति विशिखाः कालस्यापि न कालताम् ॥ १०२७ ॥
१. ‘यमस्य’ शा०. २. ‘तीरे’ शा०. ३. ‘भ्रष्टः सार्था’ शा०.
किं वा करोमि सौमित्रे तं न पश्यामि खेचरम् ।
पृच्छामि निर्जने कं वा वद गच्छामि कां दिशम् ॥ १०२८ ॥
इति वादिनमामग्नं तं शोकमकराकरे ।
अन्तःशल्याहतमना धीरः प्रोवाच लक्ष्मणः ॥ १०२९ ॥
तुल्यजन्मनि संसारे वैलक्षण्यमिदं सताम् ।
दुःखेऽपि मोहतमसा यदेषां स्पृश्यते न धीः ॥ १०३० ॥
सतां कृच्छ्रेषु पाण्डित्यमद्रव्यं दुःखभेषजम् ।
न तत्सुखे विहारे वा विभवे चोपयुज्यते ॥ १०३१ ॥
गुरवोऽपि निमज्जन्ति व्यसनाब्धावसाधवः ।
मग्नाः परमधो यान्ति लघवोऽप्यबुधाः खलाः ॥ १०३२ ॥
धैर्यं यदि न दुःखेषु नोदये विनयो यदि ।
तदयं शिक्षितो मिथ्या विवेकः क्वोपयुज्यते ॥ १०३३ ॥
यदर्थं शोचति नरस्तच्छोकाहतचेतनः ।
विनश्यति तदप्राप्त्या समूलः सोऽपि नश्यति ॥ १०३४ ॥
धृतिर्दुःखे मतिर्मोहे क्षान्तिः कोपे गुणे नतिः ।
मतिः प्रभावे महतां सततं सहचारिणी ॥ १०३५ ॥
निरस्य शोकवैक्लव्यमार्य धैर्यमहोदधे ।
अन्विष्यतां जनकजा विधिः सिद्धिं विधास्यति ॥ १०३६ ॥
इत्युक्तोऽपि न तत्याज स सीताविरहव्यथाम् ।
शाम्यति प्रौढशोकाग्निर्नोपदेशाम्बुशीकरैः ॥ १०३७ ॥
सोऽब्रवीन्न सदाचारस्थितस्य मम मैथिली ।
दैवेन रक्षिता मन्ये धर्मं नापेक्षते विधिः ॥ १०३८ ॥
धर्ममार्गानुगस्येष्टं यदि नाम विपद्यते ।
तेन नास्तिक्यशङ्कैव विदुषामपि जायते ॥ १०३९ ॥
विधिरद्य सकामोऽस्तु मम वामः शिवोऽस्तु वः ।
सीतामनुगते धैर्ये जीवितं गन्तुमुद्यतम् ॥ १०४० ॥
व्यक्तं मामवमन्यन्ते मृदुं देवाः कृपास्पदम् ।
कथयन्ति न ये सीतां सर्वज्ञा लोकसाक्षिणः ॥ १०४१ ॥
एषोऽहं त्यक्तमर्यादः शनैः शकलिताचलम् ।
करोमि ध्वस्तविबुधं त्रैलोक्यं सचराचरम् ॥ १०४२ ॥
अकिंनरमगन्धर्वमपिशाचमराक्षसम् ।
अपन्नगमभूतं च करिष्याम्यखिलं जगत् ॥ १०४३ ॥
इति ब्रुवाणः सावेगं शोकक्रोधाग्नितापितः ।
विश्वसंक्षयसज्जोऽभूद्धनुराकृष्य राघवः ॥ १०४४ ॥
इति रामप्रलापः ॥ २८ ॥
आर्य संहर कोपाग्निमिति भ्रात्रा विबोधितः ।
सोऽपश्यदग्रे रक्ताक्षं लूनपक्षं जटायुषम् ॥ १०४५ ॥
तं भूधरमिवास्फारं गृध्रमालोक्य भूधरे ।
उवाच रामः कुपितश्चापमाकृष्य लक्ष्मणम् ॥ १०४६ ॥
गृध्ररूपमिमं घोरं पश्य लक्ष्मण राक्षसम् ।
अनेन नूनं सा तन्वी भक्षिता हरिणेक्षणा ॥ १०४७ ॥
इत्युक्त्वा दुःसहक्रोधः संधाय धनुषि क्षणात् ।
क्षुरप्रं वज्रवदनं स गृध्रपतिमाद्रवत् ॥ १०४८ ॥
तमापतन्तमाकृष्टशरं दृष्ट्वा विहंगमः ।
अल्पावशेषजीवोऽपि क्षामस्वरमभाषत ॥ १०४९ ॥
राम राम न नामाहं पापकर्मा निशाचरः ।
गृध्रोऽहं ते पितुर्मित्त्रं जटायुर्वरुणात्मजः ॥ १०५० ॥
सा प्रिया जीवितसुधा नयनानन्दकौमुदी ।
हृता तव दशास्येन प्राणाश्च मम संगरे ॥ १०५१ ॥
त्रातुं समुद्यतं सीतां गृध्रं मां दशकंधरः ।
न्यवधीद्युधि विध्वस्तरथसारथिकार्मुकः ॥ १०५२ ॥
१. ‘मृत्युं देवाः क्षमास्पदम्’ शा०. २. ‘शरैः’ स्यात्. ‘त्यक्तमर्यादोऽहं शरैरचलं पर्वतमपि शकलिता खण्डं कर्ता’ इति व्याख्या भवेत्. ३. ‘शकलितः परम्’ क. ४. ‘ममास्तु विशिखैर्जगत्’ शा०.
मच्चञ्चुचरणोत्कृत्तं तस्यै तच्छत्त्रमुत्तमम् ।
रणोपकरणं चान्यद्दीप्तरत्नविभूषितम् ॥ १०५३ ॥
इति तस्याकुलां श्रुत्वा रुधिरोद्गारगद्गदाम् ।
गिरं रामोऽभवत्क्षिप्रं वज्रेणेव विदारितः ॥ १०५४ ॥
स परिष्वज्य रक्ताढ्यं सीतार्थे क्षपितायुषम् ।
रुरोद सानुजः शोचन्पितुर्मित्रं जटायुषम् ॥ १०५५ ॥
हा सीताकरुणाक्रन्दश्रुतिसंत्यक्तजीवित ।
हा सत्त्वसागरोदारधैर्यमानकुलाचल ॥ १०५६ ॥
वनवासः प्रियादुःखं तत्रापि त्वद्वधश्रुतिः ।
अहो मे भाग्यहीनस्य वज्रपातपरम्परा ॥ १०५७ ॥
इत्युक्त्वा मोहमगमत्क्षणं रामः सलक्ष्मणः ।
उद्गच्छत्प्राणशेषेण वीक्ष्यमाणो जटायुषा ॥ १०५८ ॥
स शनैर्लब्धसंज्ञेन लक्ष्मणेन विबोधितः ।
सीताहरणवृत्तान्तं पप्रच्छ खगशेखरम् ॥ १०५९ ॥
पृष्टो गृध्रपतिस्तेन संस्तभ्य विषमव्यथाम् ।
उवाच सा हृता राम रावणेन विहायसा ॥ १०६० ॥
वृन्दो नाम मुहूर्तोऽसौ यस्मिन्सीतां जहार सः ।
हर्ता विपद्यते तस्मिन्हृतमासाद्यते पुनः ॥ १०६१ ॥
अवश्यं लप्स्यसे सीतां निहत्य युधि राक्षसम् ।
अतः परं न शक्नोमि वक्तुमुद्गतजीवितः ।
हेमाभान्रश्मिमालाङ्कान्भ्रान्तान्पश्यामि पादपान् ॥ १०६२ ॥
इत्युक्त्वा क्षितिसंलीनग्रीवो विक्षिप्तविग्रहः ।
प्रसार्य चरणौ प्राणानुत्ससर्ज तपोनिधिः ॥ १०६३ ॥
तसिन्वीरे दिवं याते सिद्धविद्याधरामराः ।
पुण्यपुण्यार्जितां तस्य प्रशशंसुः शरण्यताम् ॥ १०६४ ॥
अस्मिन्नसारे संसारे विनाशेऽवश्यभाविनि ।
१. ‘सामर्थ्यं’ शा०
पुण्यभाजां भवत्येव परार्थे जीवितव्यथा ॥ १०६५ ॥
रामोऽपि तस्य संस्कृत्य शरीरं शोकविह्वलः ।
धन्याय प्रददौ तस्मै जह्नुकन्याजलाञ्जलिम् ॥ १०६६ ॥
इति जटायुसत्क्रिया ॥ २९ ॥
गाहमानो वनं रामः सीताविरहमोहितः ।
करिणीविरहक्षामः करीव प्रययौ शनैः ॥ १०६७ ॥
सोऽपश्यन्मार्गमावृत्य भूधराकारमुत्थितम् ।
विवृतास्यभुजस्तम्भनिजप्राज्यभुजद्वयम् ॥ १०६८ ॥
कवन्धमन्धतमसां वासबन्धुमकन्धरम् ।
कण्ठकोत्कटरोमाग्रसूचिव्याप्तोग्रविग्रहम् ॥ १०६९ ॥
तं दृष्ट्वा दानवं घोरं मूर्तं दुःखमिवात्मनः ।
बभूव सानुजः क्षिप्रं रामो विस्मयनिश्चलः ॥ १०७० ॥
घोराजगरदीर्घाभ्यां भुजाभ्यां रामलक्ष्मणौ ।
आचकर्ष स पातालगुहाकारोदराननः ॥ १०७१ ॥
वक्त्रे क्षिप्रं समाकृष्टौ तौ तेन बलिनौ बलात् ।
अचलाविव निष्कम्पो जग्मतुस्तस्य नान्तिकम् ॥ १०७२ ॥
कौ युवामिति तौ तेन पृष्टौ विस्मयचेतसा ।
नामजातिकुलोपेतं निजवृत्तान्तमूचतुः ॥ १०७३ ॥
स तच्छ्रुत्वाब्रवीच्चित्रं पापानां निर्विवेकता ।
स्त्रीसखस्य वने वासो लोके लज्जाकरः परम् ॥ १०७४ ॥
पशुतुल्यौ मया मूर्तौ दिष्ट्या प्राप्तौ वने युवाम् ।
अन्यत्र भोजनात्सत्यं नोपयुक्तौ भवद्विधौ ॥ १०७५ ॥
जलार्द्रदुन्दुभिध्वानं श्रुत्वैव तस्य तौ वचः ।
तदुत्तरार्हयोर्दृष्टिं चक्रतुः करवालयोः ॥ १०७६ ॥
तस्याकर्षणसज्जस्य स्कन्दमूलोपहासिना
चिच्छेद दक्षिणं रामो भुजं सव्यं च लक्ष्मणः ॥ १०७७ ॥
१. ‘विप्लवः’ शा. २. ‘उदरास्यं शिलास्तम्भनिभ’ शा०. ३. ‘विस्मित’ ख. ४. ‘श्रुत्वैतत्तस्य तौ वचः’ शा०. ५. ‘त्तरं तयोः’ क.
स कृत्तबाहुः कुलिशच्छिन्नपक्ष इवाचलः ।
पपात रुधिरोद्गारैर्धातुनिर्झरवानिवः ॥ १०७८ ॥
स हृष्टो राममवदत्त्वत्प्रसादादहं विभो ।
विमुक्तः शापजनिताद्वैरूप्यादतिदुःसहात् ॥ १०७९ ॥
दनुर्नाम श्रियः पुत्रः पूर्वजो रूपवानहम् ।
दिवाकरेन्दुवह्नीनामभवत्तुल्यदीधितिः ॥ १०८० ॥
लब्धप्रभावस्तपसा युधि निर्जितवासवः ।
त्रासं दर्पादकरवं मुनीनां घोररूपकृत् ॥ १०८१ ॥
ततः स्थूलशिरा नाम कोपान्मामशपन्मुनिः ।
कबन्धविकृतः पाप घोर एव भविष्यति ॥ १०८२ ॥
रामेण निकृत्तभुजः स्वं रूपं प्रतिपत्स्यसे ।
इत्यहं तेन मुनिना शप्तः कोपाकुलोऽभवम् ॥ १०८३ ॥
शक्रोऽपि लब्धावसरः कुलिशेन जघान माम् ।
येनाहं विशिराः क्षिप्रमिमां यातः कवन्धताम् ॥ १०८४ ॥
आहारार्थमिमी बाहू वक्त्रं चेदं ममोदरे ।
निर्मितं सुरराजेन मांसपिण्डोपमाकृते ॥ १०८५ ॥
सोऽहं त्वया कृत्तभुजः शापान्मुक्तोऽद्य राघव ।
वृत्ते शरीरसंस्कारे निजं प्राप्स्यामि तद्वपुः ॥ १०८६ ॥
लब्धज्ञानः प्रियालाभोपायं वक्ष्यामि ते ततः ।
श्रुत्वैतद्वह्निमादाय रामस्तमदहत्क्षणात् ॥ १०८७ ॥
अथोदतिष्ठत्स चितामध्यात्कमललोचनः ।
दिव्याम्बरधरः स्रग्वी रत्नकेयूरशोभनः ॥ १०८८ ॥
निर्मितश्चन्द्रचूडेन पूर्णचन्द्रनिभाननः ।
रतिप्रलापकारुण्यात्पुष्पचाप इवापरः ॥ १०८९ ॥
विमानेनार्कवर्णेन गगनं वेगशालिना ।
गाहमानः स सहसा जगाद रघुनन्दनम् ॥ १०९० ॥
१.‘शेखरः’ क.
ऋष्यमूकगिरेः शृङ्गे सुग्रीवो वानरेश्वरः ।
निरस्तो वालिना भ्रात्रा मतङ्गस्याश्रमे स्थितः ॥ १०९१ ॥
तेन सख्यं विधाय त्वं सीतामधिगमिष्यसि ।
एष ते दक्षिणः पन्था यत्र पम्पासरो महान् ॥ १०९२ ॥
अनावृष्टिहते काले गुर्वर्थं फलहारिणाम् ।
पुरा मतङ्गशिष्याणां पतिताः स्वेदबिन्दवः ॥ १०९३ ॥
यत्र याता लताजालेष्वपरिम्लानपुष्पताम् ।
यत्र सा सिद्धवसतिर्दृश्यते भास्वरप्रभा ॥ १०९४ ॥
शुद्धमांसफलाहारा शीतवारिगतक्लमा ।
तत्र दिव्यजनाकीर्णे देशे निर्वृत्तिमाप्स्यति ॥ १०९५ ॥
तं गिरिं बदराहारो मतङ्गस्याज्ञया मुनेः ।
शिशुमाराभिधो दैत्यः सततं परिरक्षति ॥ १०९६ ॥
नात्र प्रवेशं लभते पापकर्मा न नास्तिकः ।
स्वप्नदृष्टं शुभं तत्र प्रातः प्रत्यक्षमाप्स्यसि ॥ १०९७ ॥
यस्याभिषेकरुचिरा गिरयो जङ्गमा इव ।
मतङ्गशासनादत्र कुञ्जराननुकुर्वते ॥ १०९८ ॥
स्वस्ति तेऽस्तु व्रज क्षिप्रं चेत्युक्त्वा कमलासुतः ।
खं विवेशांशुभिः कुर्वन्कौमुदीविषदा दिशः ॥ १०९९ ॥
इति कबन्धवधः ॥ ३० ॥
रमणीविरहध्यानविधुरः पाण्डुरद्युतिः ।
रामः पूर्णनिशाहीनः शशीव तनुतां ययौ ॥ ११०० ॥
दिनमुत्फुल्लनयनं निशां वा सनिशाकराम् ।
न स सेहे सुवदनावदनध्याननिश्चलः ॥ ११०१ ॥
स श्रीसुतोपदिष्टेन वर्त्मना शनकैर्व्रजन् ।
ददर्श सिद्धशबरीं मूर्तामिव तपःश्रियम् ॥ ११०२ ॥
१. ‘पीत’ शा०. २. ‘भवांस्तत्र’ ख-शा०. ३. ‘प्स्यसे’ ख; प्स्यते’ शा०.
स्फाटिकेनाक्षसूत्रेण विभूषितकुचस्थलाम् ।
मुखेन्दुस्रुतलावण्यविन्दुमालाङ्कितामिव ॥ ११०३ ॥
ललाटफलकालीनपुण्यभस्मत्रिपुण्ड्रकाम् ।
शुभ्रां धवलसंपृक्तचन्द्रामिव विभावरीम् ॥ ११०४ ॥
तां वल्कलवतीं दिव्यप्रभापटलपल्लवाम् ।
कल्पवल्लीमिवालोक्य क्लमं तत्याज राघवः ॥ ११०५ ॥
विलोक्य सानुजं रामं पूज्यापि प्रणनाम सा ।
वैराग्यधूतमनसामभिमानरजः कुतः ॥ ११०६ ॥
तामूचे राघवः प्रह्वामिदं ते विमलं तपः ।
करोत्यरागसंतोषहर्षस्तबकितं मनः ॥ ११०७ ॥
मोहहीनां मनोवृत्तिं रागद्वेषविषोज्झिताम् ।
कथयत्येव निर्विघ्नप्रसन्नमधुरं वपुः ॥ ११०८ ॥
विधत्ते हृदि वैषद्यं वैमल्यं च सुलोचने ।
पुण्यप्ररोहं च तनौ दर्शनं पुण्यचेतसाम् ॥ ११०९ ॥
परिपूर्णतपःसिद्धिर्मनुना कथितास्ति मे ।
यस्यास्ते गुरवः सिद्धा मुनयो मोक्षगामिनः ॥ १११० ॥
इति रामवचः श्रुत्वा शबरी प्रत्यभाषत ।
साधो त्वद्दर्शनफला तपःसिद्धिरियं मम ॥ ११११ ॥
अजलं तीर्थममलमकायक्लेशदं तपः ।
अजीवितान्ता स्वगतिः सत्यं साधुसमागमः ॥ १११२ ॥
आश्रमोऽसौ मतङ्गस्य यत्र ते गुरवो मम ।
प्रयाताः परमां सिद्धिं ज्ञानपूता हुतानलाः ॥ १११३ ॥
अपरिम्लानकुसुमः प्रत्यग्रकुशपादपः ।
देशोऽयं तत्प्रसादेन सततं परिदृश्यते ॥ १११४ ॥
चिन्तयैव च कुर्वन्ति संनिधिं सप्तसागराः ।
निखिलान्यपि तीर्थानि निवसन्ति तदाज्ञया ॥ १११५ ॥
१. ‘विसमालाशया’ शा०.
वल्कलानि धृतान्यत्र स्नानधौतानि तैः पुरा ।
पश्य नाद्यापि शुष्कानि यातैर्वर्षशतैरपि ॥ १११६ ॥
स्वस्ति तेऽस्तु नमस्तुभ्यमेषाहं त्वदनुज्ञया ।
व्रजामि स्वोचितं धाम हुत्वा ज्ञानानिले तनुम् ॥ १११७ ॥
इत्युत्क्वा सिद्धशबरी शिरसा रामशासनम् ।
आदायाग्नौ तनुं हुत्वा पदं तेजोमयं ययौ ॥ १११८ ॥
इति शबरीदर्शनम् ॥ ३१ ॥
दिव्येन वपुषा तस्यां यातायां गतिमुत्तमाम् ।
स पम्पाभिमुखं गच्छन् रामः सौमित्त्रिमब्रवीत् ॥ १११९ ॥
मन्ये लक्ष्मण पुण्येऽस्मिन्देशे सा मम दुर्दशा ।
परिक्षीणा मनश्चेदं वक्ति सीतासमागमम् ॥ ११२० ॥
कदा नु पूर्णलावण्यसुधानिःस्यन्दसुन्दरम् ।
वदनेन्दुं मृगदृशो द्रक्ष्याम्यानन्दबान्धवम् ॥ ११२१ ॥
इति ब्रुवाणः संतप्तः प्रौढेन विरहाग्निना।
उत्फुल्लकमलं रामः प्राप पम्पाभिधं सरः ॥ ११२२ ॥
विलासवलनालोलललनालोचनानुगैः ।
लीलालिवलयैर्व्याप्तं बालानिलचलोत्पलैः ॥ ११२३ ॥
सुरसिद्धाङ्गनास्नानलीनकालागुरुद्रवैः ।
दग्धमग्नस्मराङ्गारैरिव श्यामीकृतोदकम् ॥ ११२४ ॥
भ्रमद्भिर्भ्रमरैर्जुष्टं रजन्या प्रेरितैरिव ।
कुसुमानां प्रबोधाय प्रीतिदूतैस्तमःकणैः ॥ ११२५ ॥
मज्जद्भिः कुञ्जरकुलैः श्रितं जलधिशङ्कया ।
जलार्थिभिरिवाम्भोधैर्वज्रिभीतैरिवाचलैः ॥ ११२६ ॥
जलकेलिकलालोलविद्याधरमृगीदृशाम् ।
कुचकुङ्कुमकर्पूरपिशङ्गपरिपाण्डुरम् ॥ ११२७ ॥
१. ‘बान्धवम्’ शा०. २. ‘शतैः शा०.
अपि नन्दनभृङ्गानामुद्धूतैः कमलानिलैः ।
विदधानमिवामोदमहोत्सवनिमन्त्रणम् ॥ ११२८ ॥
लक्ष्मीविलाससंचारनपुरारावविभ्रमैः ।
नादितं नलिनास्वादकषायैः कलहंसकैः ॥ ११२९ ॥
तीरोपान्तलतालास्यगुरुभिः शीकरानिलैः ।
आबद्धताण्डवाभोगं मुहुर्मुग्धशिखण्डिभिः ॥ ११३० ॥
अभिजातमिवासन्नजनतापक्लमापहम् ।
सदाचारमिवावासं श्रियो गुणगणाश्रयम् ॥ ११३१ ॥
सतां चित्तमिव स्वच्छं साधुसङ्गमिव स्थिरम् ।
धर्ममार्गमिवानन्तं मनोरथमिवायतम् ॥ ११३२ ॥
सद्विवेकमिव श्लाघ्यं संभोगमिव वल्लभम् ।
संसारमिव साश्चर्यं स्त्रीवृत्तमिव दुस्तरम् ॥ ११३३ ॥
दर्पणं गगनस्येव सागरस्येव सोदरम् ।
कैलासस्येव हृदयं पूर्णेन्दोरिव मन्दिरम् ॥ ११३४ ॥
तद्विलोक्य सरो रामः प्रचलत्कमलोत्पलम् ।
सुगन्धिवक्त्रं लोलाक्ष्याः सस्मार सितकेसरम् ॥ ११३५ ॥
न तत्र लेभे काकुत्स्थः सीताविरहितो रतिम् ।
यत्सत्यं रमणीयानां स्वस्थे मनसि रम्यता ॥ ११३६ ॥
अचारु चारु सुखिनां चारु दुःखाय दुःखिनाम् ।
भव्यः स्वभावो भावानां न तत्त्वेनोपलभ्यते ॥ ११३७ ॥
प्रियाविरहसंतप्तं तं सिषेवे सशीकरैः ।
सरःकमलकिञ्जल्कपिञ्जरैस्तीरमारुतैः ॥ ११३८ ॥
इति पम्पासरोदर्शनम् ॥ ३२ ॥
अथादृश्यत पञ्चेषुमङ्गलो मधुपोत्सवः ।
वियुक्तरमणीकालः कालः कुसुमलाञ्छनः ॥ ११३९ ॥
१. ‘स्त्रीचित्तमिव चञ्चलम्’ क. २. ‘मङ्गलं’ क-ख.
कान्ताकटाक्षतरला मत्ताः कुसुमरेणुभिः ।
चेरुः शिलीमुखास्तुल्यं वसन्तस्य स्मरस्य च ॥ ११४० ॥
मानिनीमानमातङ्गमशोककलिकारजः ।
न सेहे नागगन्धोग्रः केसरी कुसुमाकरः ॥ ११४१ ॥
विबभौ स्तोकसंजातस्तबकस्तनबन्धुरः ।
भृङ्गालकाविलासिन्यो लताः किसलयाधरः ॥ ११४२ ॥
पुष्पप्रहासिनि वने तरूणां नवयौवने ।
निःश्वस्योवाच सौमित्रिं रामो रामाहृताशयः ॥ ११४३ ॥
पश्य लक्ष्मण कालोऽयं दुःसहः समुपस्थितः ।
सीतेव तनुतां याता जीविताशापि येन मे ॥ ११४४ ॥
प्रियाप्रणयसानन्दः कालकूजितकोकिलः ।
विडम्बयति मामेष मन्ये विरहमोहितम् ॥ ११४५ ॥
दयितां मदमत्तोऽयं दात्यूहः परिचुम्बति ।
ममैव मन्दभाग्यस्य दूरीभूतास्य न प्रिया ॥ ११४६ ॥
जगर्ज मञ्जरीकुञ्जे कलं भृङ्गस्तथा तथा ।
विलासहासिनीभोगं यातास्य कलिका यथा ॥ ११४७ ॥
चूतवल्लीमधुकरं मालिनीधूमधूसरम् ।
निवारयति लोलेन पश्य पल्लवपाणिना ॥ ११४८ ॥
एक एव प्रियाहीनो रामोऽसि कुसुमागमे ।
इतीव जीवञ्जीवोऽयं विरौति दयितासखः ॥ ११४९ ॥
परागपीतकुसुमाः कुसुमापीतशेखराः ।
शृङ्गारभरणा भान्ति किंशुकाशोकचम्पकाः ॥ ११५० ॥
अदृश्यः पर्णकुसुमैः कर्णिकारोऽयमुन्नतः ।
कामी च भाति दयिताकुचकुङ्कुमपिञ्जरः ॥ ११५१ ॥
पुष्पितः सिन्धुवारोऽयं स्वैरं श्यामागमोत्सुकः ।
ज्योत्स्नापुञ्जपुटैरेव स्थितश्चन्द्रोऽवगुण्ठितः ॥ ११५२ ॥
१. ‘राग’ क-ख. २. ‘सि कुसुमाकरे’ शा०; ‘रामोऽस्ति’ स्यात्.
आलिङ्गति लतासालं नदी श्लिष्यति भूधरम् ।
अप्यादत्ते नवौत्सुक्यं चैत्रश्चित्रमचेतसाम् ॥ ११५३ ॥
वसन्ते पुष्पसंतानसुभगामोदमन्दिराः ।
हा प्रिये तरवो रम्या ममैते विषपादपाः ॥ ११५४ ॥
इति पुष्पानिलामोदमूर्छितो विरहातुरः ।
रामः शोचन्प्रियतमां बभ्राम गिरिसानुषु ॥ ११५५ ॥
तं सानुजं धनुष्पाणिमृष्यमूकतटे स्थितः ।
दूरादालोक्य सुग्रीवः किमप्याशङ्कितोऽभवत् ॥ ११५६ ॥
ततस्तदनुगाः सर्वे वानराः कम्पिताङ्गकाः ।
उत्प्लुत्योत्प्लुत्य सहसा शिखराच्छिखरं ययुः ॥ ११५७ ॥
जवेन व्रजतां तेषां मलयं निलयं श्रियः ।
उरुवाताहताः पेतुर्वृक्षाः कुसुमवर्षिणः ॥ ११५८ ॥
इति वसन्तवर्णनम् ॥ ३३ ॥
इति श्रीक्षेमेन्द्रविरचिते रामायणकथासारे समाप्तमारण्यपर्व ।