अथ रामस्य संभोगसुभगोऽभिनवोऽभवत् ।
मैथिलीवदनाम्भोजमधुपस्य रसोद्भवः ॥ ६३१ ॥
तयोर्मनोरथरथः प्रणयोदारसारथिः ।
प्रेमोपदिष्टेन पथा विवेश हृदयं स्मरः ॥ ६३२ ॥
नवं वयो वपुः कान्तं प्रेम प्रौढं तयोर्ययौ ।
संपूर्णगुणसाम्राज्ये रामस्यैकातपत्रताम् ॥ ६३३ ॥
केलिल्कान्तं वपुस्तन्व्याः पीतोच्छिष्टाधरं मुखम् ।
स्वेदोन्मृष्टं च तिलकं रामो मेने नवं नवम् ॥ ६३४ ॥
ततो मातामहपुरं भरतः पितुराज्ञया ।
शत्रुघ्नानुगतः प्रायन्मातुलेनाभियाचितः ॥ ६३५ ॥
स तत्र गुणरत्नानां महोदधिरिवापरः ।
जग्राह सकलां विद्यां गुरुभ्यो विमलाशयः ॥ ६३६ ॥
सच्छास्त्राभिगमात्तस्य धर्मसंक्रान्तिदर्पणम् ।
मनो बभूव विशदं मार्जितं सुकृतैरिव ॥ ६३७ ॥
भरते सानुजे राज्ञः कैकेयस्य पुरे स्थिते ।
उत्कण्ठाकुलितो भेजे चिन्तां दशरथो नृपः ॥ ६३८ ॥
रामः सर्वगुणग्रामरमणीयोऽधिकं पितुः ।
हृदयोद्गीतचरितः प्रजानामभवत्प्रियः ॥ ६३९ ॥
वाणी सत्यसुधाधौता विवेकाभरणं मनः ।
प्रसादमधुरा दृष्टिः सत्त्वस्तवकिता मतिः ॥ ६४० ॥
विनयानर्घ्यमाणिक्यमुकुटालंकृतं शिरः ।
श्रवणासक्तशास्त्रार्थमण्डलोज्जवलमाननम् ॥ ६४१ ॥
त्रैलोक्यरक्षाकेयूरलक्षणो दक्षिणो भुजः ।
सव्यः सीतापरिष्वङ्गसंगतानङ्गमङ्गलः ॥ ६४२ ॥
करस्त्यागाङ्गदोदारः कीर्तिप्रणयिनी तनुः ।
यशस्तिलकिता लक्ष्मीस्तस्याभूद्गुणशालिनः ॥ ६४३ ॥
स सदा धृतिसंपन्नां सर्वभूतभवक्षयाम् ।
क्षमामुवाह मनसा मूर्ध्ना शेष इव क्षमाम् ॥ ६४४ ॥
तं समग्रगुणोदारं प्रजाप्रियहिते रतम् ।
यौवराज्याभिषेकार्हममन्यत महीपतिः ॥ ६४५ ॥
रामाभिषेकानुमतं पृष्ठाः संसदि तेन ते ।
ब्राह्मणा मन्त्रिणो भूपाः पौराद्याश्च बभाषिरे ॥ ६४६ ॥
क्रियतामीप्सितं राजन्यत्ते मनसि वर्तते ।
रामोऽर्हत्यखिलां धर्तु क्ष्मामनन्तगुणो विभुः ॥ ६४७ ॥
सुकृताप्तगुणौधेन गुणोपार्जितकीर्तिना ।
कीर्तिरञ्जितलोकेन राघवेण विभाति भूः ॥ ६४८ ॥
इति तेषां वचः श्रुत्वा प्रहृष्टः पृथिवीपतिः ।
आदिदेशाभिषेकाय संभारं भूरिमङ्गलैः ॥ ६४९ ॥
चैत्रे पुष्येन्दुयोगेन कल्पिते विपुलोत्सवे ।
आभिषेचनिकं सर्व युक्ताः सज्जं प्रचक्रिरे ॥ ६५० ॥
सुमन्त्रेण समाहूतस्ततो भूपतिशासनात् ।
रामः प्रविश्य प्रणतो भेजे निर्दिष्टमासनम् ॥ ६६१ ॥
तमुवाच नृपो मूर्त मनोरथमिवात्मजम् ।
मौलौ दन्तांशुभिस्तस्य सितोष्णीषमिवार्पयन् ॥ ६५२ ॥
महीयसि मनोर्वंशे सद्वृत्तः सद्गुणोचितः ।
पुत्र मुक्तामणिच्छायो जातस्त्वं भूषणं भुवः ॥ ६५३ ॥
क्रमप्राप्तामिमां वीर महीं पाहि मदाज्ञया ।
तुल्यपुत्रार्पणाः श्वाघ्या रघूणां हि विभूतयः ॥ ६५४ ॥
यज्ञदानतपःशुक्लामस्पृष्टां दोषशीकरैः ।
सत्पुत्रस्कन्धविन्यस्तां धन्याः पश्यन्ति संपदम् ॥ ६५५ ॥
स्वयमामुक्तमुकुटं द्रष्टुमिच्छामि ते मुखम् ।
बिम्बितं स्वमिवादर्शे पुनरासन्नयौवनम् ॥ ६९६ ॥
विपरीतनिमित्तानि दृष्ट्वा मे त्वरते मनः ।
को जानाति भवाम्भोधिबुहुदस्यायुषो गतिम् ॥ ६५७ ॥
प्रातस्ते भविता श्रीमानभिषेकमहोत्सवः ।
इत्युक्ते भूभुजा रामस्तथेति नृपमब्रवीत् ॥ ६९८ ॥
पित्रा विसृष्टो गत्वाथ राघवोऽन्तःपुरं निजम् ।
दत्तं स्वयं वसिष्ठेन भेजे व्रतमुपोषितः ॥ ६५९ ॥
प्रयतः सह वैदेह्या पवित्रे कुशसंस्तरे ।
ध्यायन्नारायणं रामस्तस्थौ निशि हुतानलः ॥ ६६० ॥
ततो बभूव पौराणां प्रभातोदयकाङ्क्षिणाम् ।
अभिषेकोत्सवारम्भव्यग्राणां हर्षनिःस्वनः ॥ ६६१ ॥
गजेन्द्रतुरगोदारप्रत्यग्रश्रीविभूषितः ।
प्रत्यासन्नामृतस्याब्धेर्जनोऽभूदुषमाक्षमः ॥ ६६२ ॥
(अथाभिषेकारम्भः।)
प्रासादादवलोक्याथ पुरं हर्षसमाकुलम् ।
कौमारदासी कैकेय्या मन्थरा विस्मिताभवत् ॥ ६६३ ॥
पप्रच्छ सा समभ्येत्य धात्रीं संजातकौतुका ।
अदृष्टपूर्वः पौराणां किमयं हर्षविप्लवः ॥ ६६४ ॥
कस्मान्महार्थान्विप्रेभ्यो राममाता प्रयच्छति ।
इति धात्री तया पृष्टा स्फुरितेव मुदावदत् ॥ ६६५ ॥
रामस्य भविता प्रातर्यौवराज्यमहोत्सवः ।
तच्छ्रुत्वा वज्रभिन्नेव दुःखिता मन्थरा ययौ ॥ ६६६ ॥
शैशवे किल रामेण पुरा प्रणयकोपतः ।
चरणेनाहता तत्र चिरं कोपमुवाह सा ॥ ६६७ ॥
निर्विशन्ती विषापूर्णभुजङ्गीव विभीषणा ।
कैकेयीमन्दिरं प्रायात्कुब्जा कुटिलचारिणी ॥ ६६८ ॥
विबोध्य शयनासक्तां कैकेयीं सा समभ्यधात् ।
कोषावेगसमुत्सृष्टगौरवव्याकुलाक्षरम् ॥ ६६९ ॥
उत्तिष्ठ मूढहृदये कोऽयं निद्रादरस्तव ।
अथ वा निर्विवेकानां दुःखं विशति नान्तरम् ॥ ६७० ॥
अहो बतासि निःशल्या क्षीबेव प्राकृताङ्गना ।
दूरं प्रपातपतितं नात्मानमवबुध्यसे ॥ १७१ ॥
सपत्नीसंगमे धृत्वा सौभाग्याभरणोद्धतम् ।
अधुना वह दौर्भाग्यलज्जाविनतमाननम् ॥ ६७२ ॥
मन्थराया वचः श्रुत्वा कैकेयी चकिता भृशम् ।
किंस्वित्ते कुशलं पत्युरिति पप्रच्छ तां पुनः ॥ ६७३ ॥
साब्रवीत्किं न जानीषे भयं महदुपस्थितम् ।
रामस्य भविता प्रातर्यौवराज्यमहोत्सवः ॥ ६७४ ॥
अहो नु कुटिलाचारः पतिर्दशरथस्तव ।
कण्ठबद्धशिला यस्त्वां जलधौ क्षेप्तुमुद्यतः ॥ ६७५ ॥
सा त्वं भूपालमहिषी भूमिपालसुता सती ।
पुत्रराज्योर्जितां पश्य कौसल्यां प्रेमकारिणीम् ॥ ६७६ ॥
सुभगे केवलैर्वाक्यैर्लातासि महीभुजा ।
फलेन योजिता त्वद्य कौसल्या पुण्यभागिनी ॥ ६७७ ॥
त्वदंशे राज्यविच्छेदमद्यैव निधनं वरम् ।
न तत्तुल्यं नृपद्वारे दर्शनावसरे क्षणम् ॥ ६७८ ॥
धिक्तवेदं वृथारूपं गुणसौभाग्यवर्जितम् ।
हैमीव पुत्रिका पत्युर्मन्ये त्वं नाम वल्लभा ॥ ६७९ ॥
कौसल्यातनयो राजा दासश्च भरतोऽधुना ।
श्रुत्वेति हृदयं किं ते दीर्यते न सहस्रधा ॥ ६८० ॥
मन्थराया वचः श्रुत्वा कैकेयी हर्षनिर्भरा ।
उवाच हेमाभरणं दत्त्वास्यै पारितोषकम् ॥ ६८१ ॥
दिष्टचाभिषेको रामस्य श्रूयते गुणशालिनः ।
स मे बहुमतः पुत्रो मन्थरे भरताधिकः ॥ ६८२ ॥
इति ब्रुवाणां कैकेयीं मन्थरा कोपकम्पिता ।
उत्सृज्याभरणं दूरे निःश्वस्योवाच दुःखिता ॥ ६८३ ॥
कथं विषादावसरे नृत्यस्युन्मादिनी यथा ।
प्रत्यासन्नविनाशानां प्राङ्नश्यन्त्यथ वा धियः ॥ ६८४ ॥
प्रभावः कुलमैश्वर्य शक्तिः कीर्तिश्च शाश्वती ।
नश्यत्येकपदे यस्य क्षयस्तस्य महोत्सवः ॥ ६८५ ॥
शोच्या न शोचसि व्यक्तं मूढे दैवविमोहिता ।
अभ्रपात इव प्रातर्भविता तस्य दुःसहः ॥ ६८६ ॥
चित्रं स्निग्धासि रामेऽपि परपुत्रकवत्सता ।
हरिणो जननीं वेत्ति न हि व्याघ्रो मृगाशनः ॥ ६८७ ॥
रक्षणीयोऽधुना तावद्भरतो रामविक्रमात् ।
राज्यमेतावदेवास्य यद्गूढं न निपात्यते ॥ ६८८ ॥
श्रुतवत्यसि यश्चक्रे बहुमायः पुरंदरः ।
भ्रातॄणां दितिपुत्राणां नागानां वा खगेश्वरः ॥ ६८९ ॥
वक्रं श्रुत्वेति कुब्जाया वचनं हृदयोपमम् ।
चक्रे रामस्य कैकेयी गुणश्लाघां पुनः पुनः ॥ ६९० ॥
ततः शनैश्चरैस्तस्या वाक्यैः सा कलुषाभवत् ।
मानसं दूषयत्येव घोरं हि खलवाग्विषम् ॥ ६९१ ॥
कालकूटप्रकारोऽयमपरः खलसंगमः ।
विकारः क्रियते येन क्षिप्रं सत्त्ववतामपि ॥ ६९२ ॥
कैकेयी लोभशङ्कोत्थैः स्पृष्टा किल्बिषशीकरैः ।
किं करोमीति पप्रच्छ मन्थरां शङ्किताशया ॥६९३ ॥
साब्रवीद्देवि याचस्व पत्युः कोपपराङ्मुखी ।
भरतस्याभिषेकं च रामस्य च विवासनम् ॥ ६९४ ॥
चतुर्दश समा रामो वनं यातु पितुर्गिरा ।
सुचिरं बद्धमूलश्च लभतां भरतः श्रियम् ॥ ६९५ ॥
पुरा देवासुरयुधि शम्भरेण शतक्रतोः ।
स्वपुरे वैजयन्ताख्ये घोरः सैन्यक्षयः कृतः ॥ ६९६ ॥
राजा दशरथस्तत्र यातः शक्रसहायताम् ।
शस्त्रक्षततनुर्विद्याबलात्संरक्षितस्त्वया ॥ ६९७ ॥
कृतज्ञेन वरौ तेन दत्तौ ते प्रीतिशालिना ।
न्यासीकृतौ त्वया तौ च तस्मिन्नेव निजेच्छया ॥ ६९८ ॥
कुरु प्रणयिनी पत्युस्तूर्णमेव तदर्थनाम् ।
सुतस्त्वेकेन ते राजा रामोऽन्येन वनेचरः ॥ ६९९ ॥
प्रकोपाबद्धमौनायाः सबाष्पायितचक्षुषः ।
करिष्यति न चावज्ञां प्रणयी तव वल्लभः ॥ ७०० ॥
एतदाकर्ण्य कैकेयी भेजे मुखसुखं क्षणात् ।
पश्चात्तापफलं हर्षं गुडदिग्धविषोपमम् ॥ ७०१ ॥
प्रायेण मुग्धहृदयाः शिशवो भूमिपाः स्त्रियः ।
ह्रियन्ते लुब्धकैर्नीचैः कुरङ्गा इव कानने ॥ ७०२ ॥
कैकेय्या ब्राह्मणः पूर्व मूल् बाल्ये विडम्बितः ।
तच्छापादभवत्तस्या मतिः कीर्तिपराङ्मुखी ॥ ७०३ ॥
सा मन्थरां परिष्वज्य दत्त्वास्यै हेमकुण्डले ।
मेने मतिमतां श्रेष्ठां बृहस्पतिवधूमिव ॥ ७०४ ॥ .
विरूपमपि सा तस्याः प्रशशंस मुहुर्वपुः ।
निन्द्येन गुणसंपत्तिं पश्यन्ति हि वशीकृताः ॥ ७०५ ॥
सा ययौ तद्गिरा तूर्ण कोपागारं वरार्थिनी ।
सर्वथा खलवाक्येषु स्त्रियो मूर्खाश्च सादराः ॥ ७०६ ॥
वियुक्तमाल्याभरणा विचेष्टन्ती महीलले ।
सा तस्थौ म्लानवसना व्याप्तेवायशसा क्षणात् ॥ ७०७ ॥
इति मन्थरावाक्यम् ॥ १६ ॥
अत्रान्तरे नरपतिर्दयितादर्शनोत्सुकः ।
प्रविश्यान्तःपुरं कान्तां नापश्यच्चारुलोचनाम् ॥ ७०८ ॥
स च्छत्रधारिणीवाचा ज्ञात्वा कोपगृहे स्थिताम् ।
चकितस्तूर्णमभ्येत्य ददर्श त्यक्तभूषणाम् ॥ ७०९ ॥
तां ग्रीष्ममारुतग्रस्तकुसुमामिव मञ्जरीम् ।
दृष्ट्वा न लेभे भूपालभ्रमरः स्रस्तधीर्धृतिम् ॥ ७१० ॥
सापि क्ष्मापालमालोक्य जग्राहाभ्यधिकां रुषम् ।
प्रायः प्रागल्भ्यमायान्ति तरुण्यः स्थविरे वरे ॥ ७११॥
सोऽब्रवीद्देवि कोऽयं ते प्रौढः कोपपरिग्रहः ।
नाभिनन्दति येनेदं भूषणं मामिवाग्रतः ॥ ७१२ ॥
प्रिये ब्रूहि प्रवृद्धस्य प्रकोपस्यास्य कारणम् ।
सत्यमात्मापि मे बध्यस्त्वत्कोपे हेतुतां गतः ॥ ७१३ ॥
दयिते मौनमुत्सृज्य प्रसादस्मितपुष्पिता ।
लतेव मधुरालापैः किर कर्णरसायनम् ॥ ७१४ ॥
उच्यतां क्रियते कोऽद्य निवृत्तविभवः क्षणात् ।
धवलोष्णीषहासिन्यास्तूर्णं वा भाजनं श्रियः ॥ ७१५ ॥
प्रसीद वद किं देवि करवाणि तवेप्सितम् ।
त्रैलोक्यदुर्लभं नास्ति मयि प्रणयशालिनी ॥ ७१६ ॥
इत्युक्ते नरनाथेन कैकेयी प्रत्यभाषत ।
चिन्तासंतप्तनिःश्वासधूसराधरपल्लवा ॥ ७१७ ॥
पुरा मे ब्राह्मणो विद्यां प्रसादाभिमुखो ददौ ।
यया देवासुररणे मया संरक्षितो भवान् ॥ ७१८॥
तत्संतोषाद्वरौ मह्यं प्रवरौ दत्तवानसि ।
यौ मया त्वयि निक्षिप्तौ तावेवाद्य प्रयच्छ मे ॥ ७१९ ॥
इति श्रुत्वैव कैकेय्या सस्मितः सोत्सुको नृपः ।
करेणोन्नम्य वदनं वक्तुं समुपचक्रमे ॥ ७२० ॥
एतावतैव दयिते कोऽयं ते कोपविभ्रमः ।
स्वाधीनौ ते बरौ सुभ्रु कर्तव्यमभिधीयताम् ॥ ७२१ ॥
यदिच्छसि तदाद्यैव ददानि सुभगे तव ।
जीवितेनापरेणेव रामेणापि स्फुटं शपे ॥ ७२२ ॥
इत्युक्ते भूभुजा स्पष्टं कैकेयी कुटिलावदत् ।
राज्ञः सत्यप्रतिज्ञस्य वचः शृण्वन्तु देवताः ॥ ७२३ ॥
वरेणैकेन नृपतेश्चीराजिनजटाधरः ।
चतुर्दश समा रामः प्रयातु विजनं वनम् ॥ ७२४ ॥
अपरेण वरेणाद्य यौवराज्यं ममात्मजः ।
लभतां भरतः श्रीमानित्युक्त्वा विरराम सा ॥ ७२५ ॥
ततो नरपतिर्मूर्ध्नि वज्रेणेव समाहतः ।
किमेतदिति नाज्ञासीच्चक्रारूढ इव क्षणम् ॥ ७२६ ॥
स पपात क्षितितले कृत्तमूल इव द्रुमः ।
अङ्के धृत इवोर्वर्या मूर्छितो वसुधाधिपः ॥ ७२७ ॥
पौरुषप्रतिरोधिन्यस्तर्जन्यः सर्वसंपदाम् ।
सकला विपदस्तत्र प्रभुत्वं यत्र योषिताम् ॥ ७२८ ॥
फलं व्यसनवृक्षस्य विनाशविषशाखिनः ।
अयशः पथि रूढस्य मनो योषित्सु सादरम् ॥ ७२९ ॥
गण्यन्ते पुरुषास्तावद्यावन्नायान्ति वश्यताम् ।
धैर्यध्वंसपताकासु भ्रूभङ्गाज्ञासु योषिताम् ॥ ७३० ॥
स समाश्चास्य शनकैर्मेने कैकेयजां पुनः ।
लतां मलयजस्येव करालव्यालमालिताम् ॥ ७३१ ॥
तामुवाच रुषाकान्तः श्वसन्नाग इवाहतः।
उल्केयं वदनात्कस्मादकस्मान्निर्गता इव ॥ ७३२ ॥
अहो बत भुजङ्गी त्वं घोरहालाहलेक्षणा ।
सेविता प्रीतिलुब्धेन मुग्धेन सततं मया ॥ ७३३ ॥
रामः शुभ्रैर्गुणगणैः सर्वलोकस्य संमतः ।
पङ्कजिन्या इव शशी कथं ते द्वेष्यतां गतः ॥ ७३४ ॥
बत प्रत्यग्रपापेयं मतिस्तव समुद्यता ।
मां शोकव्यालकलिते क्षेप्तुं मोहरसातले ॥ ७३५ ॥
प्रियं सर्वव्यवस्थासु जीवलोकप्रकाशकम् ।
त्यजामि सुकृतावाप्तं जीवितं कथमात्मजम् ॥ ७३६ ॥
गुणाभरणमम्लानयशःपीयूषसागरम् ।
परित्यक्तुं न शक्तोऽस्मि रामं राजीवलोचनम् ॥ ७३७ ॥
रामं त्यजेत्यनुचितं जीवितक्रकचं वचः ।
कथं नाम सहे हेलाक्षतवृत्तगुणं तव ॥ ७३८ ॥
प्रसीद चरणानम्रशिरसः कुरु मे गिरम् ।
पश्य राममवामेन चक्षुषा भरतं यथा ॥ ७३९ ॥
इत्युक्तेऽपि सकृद्भार्या दुर्ग्रहान्न चचाल सा ।
दैवप्रेरितचित्तानां वचोभिः का प्रतिक्रिया ॥ ७४० ॥
साब्रवीत्सत्यसंधस्य कृतज्ञस्य महीपतेः ।
तव दत्तापहरणं जृम्भतामयशश्चिरम् ॥ ७४१ ॥
रथ्यावस्करमार्जन्य इव पङ्ककलङ्किताः ।
असत्यचपला वाचो न भवन्ति भवादृशाम् ॥ ७४२ ॥
पुना राज्योद्धुरां तावत्कौसल्यां न सहे विभो ।
त्वत्तिरस्कारदुःखेऽस्मिन्भेषजं मे विषाशनम् ॥ ७४३ ॥
स्वं दत्तं शिविना मांसमलकेनेक्षणद्वयम् ।
सत्यं सत्यप्रतिज्ञानां नानुतापः प्रतिश्रुते ॥ ७४४ ॥
अहं प्राणपणेनापि त्वत्तः प्राप्य वरद्वयम् ।
रामप्रवासनिःशल्यां करोमि भरतश्रियम् ॥ ७४५ ॥
सर्वथा स्वस्ति यशसे राजन्नित्ययमञ्जलिः ।
कृतो धर्मोऽस्त्वधर्मो वा निश्चयो मम नान्यथा ॥ ७४६ ॥
इत्युक्त्वा साभवत्तप्तनिःश्वासैर्धूसरद्युतिः ।
ब्रह्मशापाग्निधूमेन स्पृष्टेव मलिनानना ॥ ७४७ ॥
विलोक्य निश्चलां राजा प्रियामप्रियभाषिणीम् ।
हा रामेति वदन्साधुः पपात भुवि मूर्छितः ॥ ७४८ ॥
स तामुवाच निःश्वस्य संमोहोपहतप्रभः ।
आकृष्टः सत्यशापेन पुत्रस्नेहेन चाभितः ॥ ७४९ ॥
नूनं भूताभिभूतासि क्षिप्ता कालेन वा मयि ।
कुतोऽन्यथा तवाप्येष सदाचारविपर्ययः ॥ ७५० ॥
नृशंसाः पापसंकल्पाः संश्रुतपरिपन्थिनः ।
परप्राणापहारेण वाञ्छन्त्येवात्मनः श्रियम् ॥ ७५१ ॥
भक्ताया मम निर्दोषः पुत्रो राज्ञा विवासितः ।
इति ब्रुवाणां कौसल्यां किं वक्ष्यामि गतत्रपः ॥ ७५२ ॥
वृद्धेन रागिणा राज्ञा निरस्तो गुणवान्सुतः ।
इति लोके कथं श्रोष्याम्ययशोवर्धिनीर्गिरम् ॥ ७५३ ॥
नूनं त्वं निर्मिता धात्रा किल्विषैरेव केवलैः ।
तव यन्नास्ति हृदये दारुणे करुणाकणः ॥ ७५४ ॥
व्यक्तमन्तर्विषैर्मिथ्यामधुरैः प्रणयैरहम् ।
त्वयोपचरितः पापे येषां पाकोऽयमीदृशः ॥७५५ ॥
अहो बताहमाकृष्टः कान्तारूयेण मृत्युना ।
दुःखहालाहलोग्रेण सत्यशापमहाहिना ॥ ७५६ ॥
धिक्कृता सर्वलोके नु शापपापकलङ्किता ।
अकीर्तिरिव मे मूर्ता बत यातासि शोच्यताम् ॥ ७९७ ॥
याते रामे गते धैर्यं हते मयि भृशं शुचा ।
राज्यविस्मृतवैधव्या भव पूर्णमनोरथा ॥ ७५८!!
इति प्रलपतस्तस्य नक्षत्राश्रुकणाकुला ।
शशिशुभ्रा ययौ रात्रिः शोकेनेवातिपाण्डुरा ॥ ७५९ ॥
निशेयं क्षीयतां दीर्घा मा च मेऽस्तु दिनोदयः ।
इति शोकाकुलो राजा चिन्तयन्न ययौ धृतिम् ॥ ७६० ॥
इति वरयाचनम् ॥ १७ ॥
अस्मिन्नवसरे रामः सूतमागधबन्दिनाम् ।
शृण्वन्गुणगणोदारा यशःकुसुमिता गिरः ॥ ७६१ ॥
मनःशुद्धिरतो देवं स्मरन्विष्णुं वधूसखः ।
शशीव रोहिणीयोगे विवभौ विमलाम्बरः ॥ ७६२ ॥
रत्नांशुपल्लवोदारश्छत्रचामरपुष्पितः ।
हर्षस्फीतफलो लोके बभूवोत्सवपादपः ॥ ७६३ ॥
सुकल्पिते वसिष्ठाद्यैरभिषेकविधौ क्रमात् ।
सुमन्त्रोऽन्तःपुरद्वारं ययौ तूर्ण महीपतेः ॥ ७६४ ॥
सुखसुप्तं नृपं ज्ञात्वा प्रविश्य निभृतं शनैः
विबुधस्तत्प्रबोधाय मधुरां गिरमादधे ॥ ७६५ ॥
रवेरिवोदयं देव प्रतीक्ष्यन्ते प्रजास्तव ।
राघवस्याभिषेकार्हः पुष्ययोगोऽतिवर्तते ॥ ७६६ ॥
मूर्ध्नि श्रीमानयं धत्ते भास्वानुदयभूभृतः ।
पूर्वदिक्कामिनीन्यस्तहैममङ्गलकुम्भताम् ॥ ७६७ ॥
एताः कुङ्कुमपङ्केन समुत्सृष्टा इवाखिलाः ।
सूर्योदयोत्सवे देव भान्ति पीताम्बरा दिशः ॥ ७६८ ॥
उत्तिष्ठ पृथिवीपाल सत्पुत्रमणिदर्पणे ।
संक्रान्तां सुकृतोदारां पश्य कीयुज्वलां श्रियम् ॥ ७६९ ॥
सज्जोऽयं विपुलारम्भः संभारो मङ्गलोचितः ।
त्वद्दर्शनसुधासारप्रतीक्षान्तरितोत्सवः ॥ ७७० ॥
प्रणतानन्तसामन्तमौलिरत्नारुणप्रभाम् ।
सभां संभावय विभो स्वप्रभामिव भास्करः ॥ ७७१ ॥
इति वादिनमज्ञातवृत्तं वृत्तपरिच्युता ।
शनैरुवाच कैकेयी सुमन्त्रं गाढमत्सरा ॥ ७७२ ॥
पुत्रोत्सवनवोत्कण्ठहर्षावाप्तप्रजागरः ।
अयं सत्यधनो राजा नाद्यापि प्रतिबुध्यते ॥ ७७३ ॥
गच्छ राममिहैवास्य पुत्रं संमतमानय ।
उक्त्वेति देवी सासूयं क्षितिपालमुदैक्षत ॥ ७७४ ॥
विभ्रष्टविद्यापतितो विद्याधर इवाम्बरात् ।
विवर्णवदनो राजा शशीव दिनधूसरः ॥ ७७५ ॥
उवाच निःश्वसन्दीर्घ जायासमययन्त्रितः ।
करीन्द्रः करिणीयुक्त इव पाशवशीकृतः ॥ ७७६ ॥
किं नाम सुप्तं पतितं सुमन्त्र समुदीक्षसे ।
राम सूर्योदये यस्य रात्रिरक्षयतां गता ॥ ७७७ ॥
मां सत्यसमयाख्येन कालपाशेन वेष्टितम् ।
गृहीतं पश्य बलिना जायारूपेण लक्ष्मणा ॥ ७७८ ॥
श्रुत्वेति राजवचनं शरेणेव विदारितः ।
अपहृत्य सुमन्त्रोऽभूत्क्षणमुद्भ्रान्तमानसः ॥ ७७९ ॥
निर्बन्धात्परुपैर्वाक्यैः कैकेय्या पुनरुक्तितः ।
उवाच विह्वलो राजा सुमन्त्रं मोहमूर्छितः ॥ ७८० ॥
न सुप्तोऽस्मि महामात्य निद्रा शोकवतां कुतः ।
बहिश्चरं जीवितं मे गच्छ राममिहानय ॥ ७८१ ॥
इत्यादिष्टो नृपतिना रथेन जवशालिना।
सुमन्त्रः प्रययौ तूर्ण संशयाकुलिताशयः ॥ ७८२ ॥
अभिषेकोत्सवोत्कण्ठाकुले सज्जनवर्त्मनि ।
व्रजन्रामस्य शुश्राव गुणालंकरणं यशः ॥ ७८३ ॥
स राममन्दिरं प्राप्य मेरुकन्दरसुन्दरम् ।
हेमहर्भ्योद्गतोत्तुङ्गप्रभापिङ्गीकृताम्बरम् ॥ ७८४ ॥
सेवाप्तानन्तसामन्तसमागमनिरन्तरः ।
शनैः कक्ष्याः समुत्तीर्य प्रापान्तःपुरमान्तरम् ॥ ७८५ ॥
प्रविश्यावेदितः सोऽथ ददर्श रघुनन्दनम् ।
सीताकराञ्चितस्मेरचामरोच्छ्वासितांशुकम् ॥ ७८६ ॥
वक्षसा चन्दनार्द्रेण स्फारिहाराट्टहासिना ।
विराजितं निर्झरिणा तटेनेव हराचलम् ॥ ७८७ ॥
विस्फारिधीरललितामाताम्ररुचिरां दृशम् ।
लक्ष्मीविलासहसितं(?) सृजन्तं पद्मिनीमिव ॥ ७८८ ॥
गुणालंकृतचारित्रं सत्त्वालंकृतमानसम् ।
विनयालंकृतैश्वर्य दृष्ट्वालंकरणं भुवः ॥ ७८९ ॥
प्रणम्योवाच विनतं हर्षार्हावाप्तसत्कृतिः ।
सुमन्त्रस्तद्गुणानन्दपुलकालंकृताननः ॥ ७९० ॥
धन्या ते जननी राम कौसल्या पुत्रमानिनी ।
अदितेरपि या शङ्के शक्रमातुः स्पृहास्पदम् ॥ ७९१ ॥
देवो दशरथस्तूर्णं कैकेय्या सह मन्दिरे ।
स्थितः स्थितिमतामग्र्यं भवन्तं द्रष्टुमर्हति ॥ ७९२ ॥
श्रुत्वैतत्प्रतिगृह्याशु शिरसा शासनं गुरोः ।
जगाम रामो विपुलः शृण्वन्पौरजनांशिषः ॥ ७९३ ॥
रथेन घनघोषेण गृहोद्यानशिखण्डिनाम् ।
स व्रजन्विदधे क्षिप्रं ताण्डवाडम्बरोत्सवम् ॥ ७९४ ॥
स्फारालंकाररत्नाग्रबिम्बितासंख्यसैनिकः ।
विश्वाकृतिरिवोपेन्द्रः शुशुभे ससुदर्शनः ॥ ७९५ ॥
स भूषणारुणमणिप्रभावलयितो बभौ ।
साक्षाज्जनानुरागेण कृतास्पद इवाबभौ ॥ ७९६ ॥
सादराः सुरसुन्दर्य इव पौरवराङ्गनाः ।
पुष्पाणि ववृषुस्तस्मै वातायनविमानगाः ॥ ७९७ ॥
तस्य लक्ष्मणहस्ताग्रसक्तचामरमारुतैः ।
ययौ कपोलकर्पूररजोव्याजैर्दिशो यशः ॥ ७९८ ॥
धनदोऽयं स यक्षेन्द्रः स विष्णुरयमच्युतः ।
अयं कामः स चानङ्ग इत्यूचुः पौरयोषितः ॥ ७९९ ॥
तासां कटाक्षविक्षेपवलयोत्पलधामभिः ।
क्षणं बभूव रामस्य मायूरच्छत्रविभ्रमम् ॥ ८०० ॥
पितुरन्तःपुरं प्राप्य वृद्धकञ्चुकिरक्षितम् ।
पातालमिव रोचिष्णुरत्नां शुकपिशोदरम् ॥ ८०१॥
प्रविश्यालोक्य पितरं प्रणनाम सलक्ष्मणः ।
लिम्पन्निवास्य चरणौ चारुचूडामणित्विषा ॥ ८०२ ॥
ततः प्रणम्य कैकेयीं चिन्तानलसमुत्थितैः ।
धूमैरिवागतच्छायं ददर्श वसुधाधिपम् ॥ ८०३ ॥
रामं विलोक्य नृपतिर्बाष्पाविलविलोचनः ।
पुत्रेत्युक्त्वा परं वक्तुं न शशाक ह्रिया नतः ॥ ८०४ ॥
तां वीक्ष्य विक्रियां राज्ञो विसंज्ञ इव राघवः ।
किमेतदिति संभ्रान्तश्चिन्तासंतापमाययौ । ८०५ ॥
सोऽब्रवीज्जननीं.नम्रः कैकेयीं रचिताञ्जलिः ।
मातः कुतोऽयं नृपतेर्गम्भीरः खेदविप्लवः ॥ ८०६ ॥
वयमाज्ञाप्रणयिनः प्रतिकूलेषु का कथा ।
निःसपत्नश्च विभवः खेदकारणमुच्यताम् ॥ ८०७ ॥
विनापराधं कुपितो यद्यपुण्यैर्मयि प्रभुः ।
तत्प्रसादय मातस्त्वं ममैनं सुतवत्सला ॥ ८०८ ॥
राघवेनेत्यभिहिते कैकेयी सादरावदत् ।
न विषण्णो नरपतिः कोपसंभावना कुतः ॥ ८०९ ॥
किं त्वेष मे प्रतिश्रुत्य कृतज्ञः प्रवरौ वरौ ।
वाच्यतामनुतापेन प्रयातः सत्यलोभयोः ॥ ८१० ॥
अधुनास्य त्वदायत्तं सत्यवल्लीफलं यशः।
अयशो चा मृषावादात्साधुधिक्कारकर्बुरम् ॥ ८११ ॥
श्रुत्वैतद्विगताशङ्कः समुच्छ्वसितमानसः ।
उवाच रामः कैकेयीमौचित्यामृतसागरः ॥ ८१२ ॥
अहो बत गुरोः कार्ये मदायत्तेऽपि संशयः ।
निजालोकपरिच्छेद्ये रवेरिव तमःक्षये ॥ ८१३ ॥
अहं हि शासनादस्य प्रलयानिलवर्तिनम् ।
विशामि दहनं दीप्तं घोरं वा मकराननम् ॥ ८१४ ॥
इति वादिनमम्लानं सत्वसंपूर्णमानसम् ।
हृष्टा जगाद कैकेयी रामं कीर्तिपराङ्मुखी ॥ ८१५ ॥
देवासुररणे पूर्व मयायं रक्षितो नृपः ।
विततार वरौ तौ च सुचिरादद्य याचितौ ॥ ८१६ ॥
चतुर्दश समा राम तवारण्ये विवासनम् ।
अद्यैव यौवराज्ये च भरतस्याभिषेचनम् ॥ ८१७ ॥
अधुनैव भवान्यातु जटाचीरधरो वनम् ।
व्रज मुञ्च महीपालं सत्यशापपरिग्रहात् ॥ ८१८ ॥
श्रुत्वेति मातुर्वचनं रामः प्रहसिताननः ।
जगाद दर्शयन्दन्तकान्त्या सत्त्वमिवोज्ज्वलम् ॥ ८१९ ॥
एषोऽसि सज्जो विजनं वनं गन्तुमविक्रियः ।
अविचार्यैव रामस्य कार्यं किं गुरुशासनम् ॥ ८२० ॥
एकैव महती चिन्ता ममेयं ज्वलते हृदि ।
यन्मां कृतागसमिव स्वयं नाभाषते. नृपः ॥ ८२१ ॥
बाष्पदुर्दिनसंसिक्तां क्षितिपः क्ष्मां विलोकयन् ।
करोति मम मौनेन शोकोत्कीर्णान्तरं मनः ॥ ८२२ ॥
भरतो मातुलगृहाद्दूतैर्जवनशालिभिः ।
अभिषेकाय. संभारे तूर्णमानीयतामितः ॥ ८२३ ॥
इति ब्रुवाणं कैकेयी रामं सत्यसुधानिधिम् ।
अद्यैव गम्यतां तूर्णमित्युवाच पुनःपुनः ॥ ८२४ ॥
स सत्यसंकल्पहयं महोत्साहजवं क्षणात् ।
आरूढः सत्त्वधवलं गन्तुं निश्चयमादधे ॥ ८२५ ॥
ततः सवेगबाष्पस्य निःसंज्ञस्य महीपतेः ।
निपीड्य चरणौ रामो निर्ययौ यशसां निधिः ॥ ८२६ ॥
वनवासाहितधिया कोपसंरब्धचक्षुषा ।
स लक्ष्मणेन सहितः कौसल्यामन्दिरं ययौ ॥ ८२७ ॥
अभिषेकोत्सुका तत्रदेवताराधनव्रता ।
रामेणावेदितं श्रुत्वा तद्वृत्तान्तं मुमोह सा ॥ ८२८ ॥
प्रतिलभ्य ततः संज्ञां विललापाश्रुगद्गदा ।
चक्रभ्रान्तिपरावृत्तिं वदन्ती सुखदुःखयोः ॥ ८२९ ॥
अहो बत जगत्यस्मिन्वन्ध्या धन्यतराः स्त्रियः ।
याः स्वप्नेऽपि न जानन्ति पुत्रस्नेहविषव्यथाम् ॥ ८३० ॥
पूर्णपुण्यगुणप्राप्तः पुत्रलाभः सुधायते ।
तदेति तद्वियोगोग्रकालकूटच्छटा न चेत् ॥ ८३१ ॥
वरं कण्टकिनी जाता जर्जरी विपिने लता।
न त्वेकवत्सा जननी सर्वदा दुःखभागिनी ॥ ८३२ ॥
रामोऽपि तनयो यस्याः प्रयाति विजनं वनम् ।
सापि जीवति दुःखेन धिक्स्त्रीणां जीवनं दृढम् ॥ ८३३ ॥
रामो गुणगणारामः पुत्रः पित्रा विवासितः।
माता जीवति तन्मन्ये स्नेहः क्वापि तिरोहितः ॥ ८३४ ॥
निधानं स्नेहसंपत्तिं सुखप्राप्तं तथामृतम् ।
वत मे हतभाग्यायाः कृच्छ्रलब्धं पलायते ॥ ८३५ ॥
इति प्रलापिनीं रानमहिषीं पतितां भुवि ।
आश्वास्य रामो विदधे ससंज्ञां धैर्यसागरः ॥ ८३६ ॥
ततो जगाद सौमित्रिः कोपादागतसाध्वसः ।
कल्पान्तोत्क्रान्तमर्यादः कम्पोद्भूत इवाम्बुधिः ॥ ८३७ ॥
व्यसिनीस्थविरो राजा यदि स्त्रीवश्यतां गतः ।
तदस्माकं किमायातं ये त्यजामः खकं पदम् ॥ ८३८ ॥
बलिनोऽपि धिया हीना मत्तप्राया नृपद्विपाः ।
करिणीनामिव स्त्रीणां वश्या यान्ति पराभवम् ॥ ८३९ ॥
भरतेन प्रयुक्तोऽयं यदि वक्रो नयक्रमः ।
तत्रेदं गुरुतां याति मम वक्रतरं धनुः ॥ ८४० ॥
स्वयं गृहोपयोग्या श्रीः क्रियतां जृम्भतां तव ।
भुजो भार्गवमत्तेभमदकण्डूयनद्रुमः ॥ ८४१ ॥
लक्ष्मणेनेत्यभिहिते ययाचे जननी पुनः ।
वनवासनिषेधाख्यां रामं जीवितदक्षिणाम् ॥ ८४२ ॥
ततः सत्त्वोदधिः स्फीतयशःपरिचितं वचः ।
धर्म्य समादधे रामः समानं स्वच्छचेतसः ॥ ८४३ ॥
कुले महति जातस्य कार्य मे शासनं गुरोः ।
चिच्छेद रेणुकाकण्ठं भार्गवः पितुराज्ञया ॥ ८४४ ॥
वात्सल्यविक्लवा मातर्विषादं मा कृथा वृथा ।
वनवासावधौ वृत्ते प्राप्तं द्रक्ष्यसि मां पुनः ॥ ८४५ ॥
लक्ष्मण क्ष्माभृतां धैर्य गाम्भीर्यं च महोदधेः ।
जाने तव तथाप्येष कोपतप्तोऽभिवीज्यसे ॥ ८४६ ॥
धिक्तान्कुलाधमान्येषु गुरुब्राह्मणशासनात् ।
शठेषु याति शाठ्यत्वं प्रतिषेधविकुण्ठताम् ॥ ८४७ ॥
मनोरथाप्तिः कैकेय्या यथा नॄणां तथा पितुः ।
भवत्येव वनं याते मयि पुण्योदयात्परम् ॥ ८४८ ॥
क्रियतां विमलं चेतः कोपः शान्त्या च वार्यताम् ।
औचित्यचारु चरितं सहजं हि महात्मनाम् ॥ ८४९ ॥
तितिक्षा शोभते सत्यवीर्यविक्रमशालिनाम् ।
प्रभविष्णुपैदानां च महतामिव संततिः ॥ ८५० ॥
भक्तिर्गुरौ धृतिर्दुःखे क्षमा कोपे दया कृशे ।
एतास्ता यशसः शुभ्राः साम्राज्यविभवस्रजः ॥ ८५१ ॥
क्व सन्तः क्व च दौर्जन्यं क्व गुणाः क्व च वक्रता ।
क्व विवेकः क्व पारुष्यं दूरमेतत्परस्परम् ॥ ८५२ ॥
सौजन्यमनसूया च क्षान्तिर्धैर्यमचापलम् ।
इत्येष विदुषामग्रे गुणमानसमुच्चयः ॥ ८५३ ॥
दैवमेव विजानीहि प्रवासे मम कारणम् ।
न हि पौरुषमत्रास्ति किं वृथा कोपसंभ्रमैः ॥ ८५४ ॥
कुर्वतां यद्विपद्यन्ते फलन्ति यदकुर्वताम् ।
कर्माण्यद्भुतशक्तेस्तद्दैवस्येव विजृम्भितम् ॥ ८५५ ॥
भरतेन सहेमां त्वं शुश्रूषानिरतः पितुः ।
प्रसीद पालय महीं मद्गिरा गतविक्रियः ॥ ८५६ ॥
इति कोपानलज्वालासंतप्तमनुजं शनैः ।
चकार विज्वरं रामो वाक्यपीयूषवृष्टिभिः ॥ ८५७ ॥
ततः सत्यधृतिर्वीरो दाक्षिण्यैककृतक्षणः ।
उवाच लक्ष्मणो राममनुयात्रासमुद्यतः ॥ ८५८ ॥
आर्य जानीहि मां नित्यं छायारूपमिवानुगम् ।
पौरुषं पूर्वकर्मेव न त्वां त्यक्ष्याम्यहं क्वचित् ॥ ८५९ ॥
लक्ष्मणस्येति सुदृढं रामो विज्ञाय निश्चयम् ।
उवाच वीरः कौसल्यां शोकसंतापमूर्छिताम् ॥ ८६० ॥
अनुजानीहि मां मातः सदाचारानुवर्तिनी ।
यथा ते दैवतं भर्ता तथा चायं पिता मम ॥ ८६१ ॥
पुत्रप्रवाससंतापकटुकां वदनात्तव ।
न शृणोति गिरं राजा यथा मातस्तथा कृथाः ॥ ८६२ ॥
इत्युक्त्या पादयोस्तस्याः पपात रघुनन्दनः ।
तत्पादाब्जनखज्योत्स्नां मूर्ध्नि मालामिवोद्वहन् ॥ ८६३ ॥
एवं कथंचिद्गुणवत्पुत्रगौरवयन्त्रिता।
आशीःपुरःसरां माता प्रादादाज्ञामनर्गलाम् ॥ ८६४ ॥
ततो विनिर्ययौ मातुर्मन्दिराल्लक्ष्मणानुगः।
धैर्येण सह चेतांसि जनस्य सहसा हरन् ॥ ८६५ ॥
स समेत्याभिषेकार्हव्रतमङ्गलशालिनीम् ।
ददर्शान्तःपुरे सीतामुत्कण्ठाकुलिताशयाम् ॥ ८६६ ॥
विप्रवासकथां श्रुत्वा सा भर्तुः पितुराज्ञया ।
दुःखितापि धृतिं लेभे सह गन्तुं कृतक्षणा ॥ ८६७ ॥
रामस्तामवदद्देवि प्रयाते मयि काननम् ।
सेव्या भवत्या कौसल्या दुःखविस्मारणैर्नयैः ॥ ८६८ ॥
मद्विप्रवासयोगेऽपि न कार्याः परुषा गिरः ।
भरतश्रोत्रगामिन्यः स हि वृत्तिप्रदो नृपः ॥ ८६९ ॥
इति पत्युर्वचः श्रुत्वा मैथिली कोपकम्पिता।
उवाचोच्चकुचाधातशीर्णाश्रुकणसंततिः ॥ ८७० ॥
अहो बतार्यपुत्रस्यासदृशं श्रूयते वचः ।
अहो प्रिया. प्रणयिनी कथं त्याज्या सता सती ॥ ८७१ ॥
हर्षोऽनुभूतः पित्रा मे मोहात्परिणये वृथा ।
स्वकीर्तिमिव मां भर्ता त्यक्ष्यतीत्यविजानता ॥ ८७२ ॥
स्वभाग्यभागिनः सर्वे पितृमातृसुतादयः ।
सर्वथा पुरुषाणां तु भार्यैका भाग्यभागिनी ॥ ८७३ ॥
रूपस्य वयसः कान्तः सौभाग्यस्य सुखस्य च ।
जीवितस्य च नारीणां जीवितं परमं पतिः ॥ ८७४ ॥
सुखदुःखानुगां खैरकेलिविस्रम्भसाक्षिणीम् ।
न मामर्हसि संत्यक्तुं चेतोवृत्तिमिवात्मनः ॥ ८७५ ॥
विभूतिस्त्यागहीनेव सत्यहीनेव भारती ।
विद्या प्रशमहीनेव न भाति स्त्री पतिं विना ॥ ८७६ ॥
इति जायावचः श्रुत्वा रामः सुदृढनिश्चयम् ।
वनदोषान्बहुविधान्धोररूपानुदाहरन् ॥ ८७७ ॥
पादयोः पतितां सीतामनुयात्राकृतक्षणाम् ।
तत्सौकुमार्यचकितस्तथेति प्रत्यपद्यत ॥ ८७८ ॥
प्रतिषिद्धोऽपि रामेण यत्नात्प्रणयशालिना।
तत्याजारण्यगमने निश्चयं नैव लक्ष्मणः ॥ ८७९ ॥
स रामशासनाद्दिव्ये जग्राह धनुषी स्वयम् ।
अक्षय्यमायुधं चान्यद्राजा यद्वरुणो ददौ ॥ ८८० ॥
ततः सुयज्ञमुख्येभ्यः सरत्नाभरणं धनम् ।
प्रददौ दृढमेवैभ्यो विप्रेभ्यो रघुनन्दनः ॥ ८८१ ॥
ब्राह्मणाँस्त्रिजटाद्याश्च गोसहस्रैश्च काञ्चनैः ।
पूरयित्वा यथाकामं सर्वाशाः कल्पपादपः ॥ ८८२ ॥
अभ्येत्य पितरं वीरः प्रलापमुखराननम् ।
ददर्शान्तःपुरस्त्रीभिर्वृतं व्यथितमानसम् ॥ ८८३ ॥
स तमामन्त्र्य विनयात्सानुजो जानकीसखः ।
गन्तुं समुद्ययौ तूर्णं धैर्यादस्खलिताशयः ॥ ८८४ ॥
प्रस्तुते राघवे गन्तुं प्रजानां मानसैः सह ।
बाष्पाम्बुरुद्धनयनो जगाद जगतीपतिः ॥ ८८५ ॥
धनं रत्नानि सैन्यं च राममेवानुगच्छतु ।
लतामिवात्तकुसुमां प्राप्नोतु भरतः श्रियम् ॥ ८८६॥
एतदाकर्ण्य चकिता कैकेयी तमभाषत ।
सत्योपदिग्धमनृतं भवता बत भाषितम् ॥ ८८७ ॥
निःसारं हृतसर्वस्वं दत्त्वा राज्यं प्रतिश्रुतम् ।.
अयशोरेणुविध्वस्तं वचनं किं करिष्यसि ॥ ८८८ ||
रामवात्सल्यदोषेण मा सत्यमनृतं कृथाः ।
ज्येष्ठः सुतो न किं त्यक्तः सगरेणासमञ्जसः ॥ ८८९॥
शापभूताभिभूतायाः श्रुत्वेति वचनं नृपः ।
रामेणाम्यर्थितः सैन्यरत्नदानान्न्यवर्तत ॥ ८९० ॥
ततो जगाद सिद्धार्थो महामात्योऽतिदुःखितः ।
ज्येष्ठपुत्रपरित्यागाद्भग्नं वः सर्वथा कुलम् ॥ ८९१ ॥
चिक्षेप सरयूमध्ये दारकानसमञ्जसः ।
पौराणां तत्क्रुधा राज्ञा निरस्तः सगरेण सः ॥ ८९२ ॥
रामोऽर्हति कथं नाम त्यागं गुणवतां वरः ।
इत्युक्त्वा निःश्वसन्मन्त्री मन्त्रध्वस्त इवाभवत् ॥ ८९३ ॥
ततश्चीराम्बरं रामः कैकेय्या स्वयमर्पितम् ।
सह जग्राह निर्दैन्यो जानक्या लक्ष्मणेन च ॥ ८९४ ॥
विलपन्तं समाश्वास्य पितरं मातरं तथा ।
सुमन्त्रप्रेरितेनाथ रथेन पृथुरंहसा ॥ ८९५ ॥
रामः प्रतस्थे पौराणां शृण्वन्नाक्रन्दनिःस्वनम् ।
निरीक्ष्यमाणः सास्त्रेण पित्रा विह्वलचेतसा ॥ ८९६ ॥
दृष्टिनष्टे ततो रामे सह स्यन्दनरेणुना ।
निपपात महीपालश्छिन्नमूल इव द्रुमः ॥ ८९७ ॥
स लब्धसंज्ञः प्रलपन्कौसल्यासहितो मुहुः ।
शुशोच निन्दन्कैकेयीं मूर्ता मृत्युमिवात्मनः ॥ ८९८ ॥
इति रामप्रवासनम् ॥ १८ ॥
रामोऽपि रजनीमेकामतीत्य तमसातटे ।
गोमतीं प्रातरुत्तीर्य सरयूं चोर्मिमालिनीम् ॥ ८९९ ॥
पौरान्प्रणयिनः सान्त्वौर्विनिवर्त्य प्रियंवदः ।
कौसलान्समतिक्रम्य रम्ये मन्दाकिनीतटे ।
इङ्गुदीपादपतले निनायाभिमते निशाम् ॥ ९०० ॥
निषादपतिना तत्र गुहेन गुणशालिना ।
पूजितः प्रणयाचारैः प्रतस्थे विगतनमः ॥ ९०१ ॥
ततो विसृज्य विनयात्सुमन्त्रं सुरथानुगम् ।
पितुर्धैर्य समाश्वासन्संदेशप्रतिपादकम् ॥ ९०२ ॥
प्रीत्या गुहं समामन्त्र्य सुहृदं धृतिसागरः ।
न्यग्रोधक्षीरमाहृत्य जटा बद्ध्वा सलक्ष्मणः ॥ ९०३ ॥
नावा तरङ्गदुर्भङ्गां गङ्गामुत्तीर्य भङ्गुराम् ।
त्रस्तसीताचलापाङ्गभङ्गकर्णोत्पलामिव ॥ ९०४ ॥
न्यग्रोधमूले नलिनीतीरे नीत्वा विभावरीम् ।
गङ्गायमुनयोः संधावतिवाह्यापरां निशाम् ॥ ९०५ ॥
भरद्वाजेन मुनिणा पूजितो विनयानतः ।
तद्गिरा चित्रकूटाख्यं पुण्यं प्राप तपोवनम् ॥ ९०६ ॥
तत्र फुल्ललताकुञ्जमञ्जुगुञ्जद्विहंगमम् ।
विलोक्य काननं रामो जगाद जनकात्मजाम् ॥ ९०७ ॥
इमास्ताः पुष्पहासस्य मदषट्पदनादिनः ।
मधोः स्मरसंहायस्य विलासोत्सवभूमयः ॥ ९०८॥
पश्येमाः कीर्णकुसुमाः पल्लवाञ्जलिभिः पुरः ।
आतिथ्यमिव कुर्वन्ति मारुतावनता लताः ॥ ९०९॥
दृष्टिसादृश्यसुहृदस्तव बालकुरङ्गकाः ।
नेत्रत्रिभागवलनैः सृजन्तीवोत्पलस्रजः ॥ ९१० ॥
भ्रश्यत्परागवसना मधुपाव्यक्तभाषिणः ।
पवनाघूर्णिता भान्ति मधुमत्ता इव द्रुमाः ॥ ९११ ॥
इत्युक्त्वा दारुभिस्तत्र राघवो लक्ष्मणाहृतैः ।
कृत्वाश्रमे वास्तुपूजां वैश्वदेवोचितां व्यधात् ॥ ९१२ ॥
इत्याश्रमवास्तुपूजनम् ॥ १९ ॥
रथेन रामशून्येन धैर्यशून्येन चेतसा ।
सुमन्त्रः प्रविवेशाथ हर्षशून्यां पुरीं प्रभोः ॥ ९१३ ॥
अरामं रथमालोक्य प्राप्तं भग्नमनोरथाः ।
चुक्रुशुः शोकविवशाः पौरास्तद्गुणरागिणः ॥ ९१४ ॥
प्रविश्य प्रोषितसुखं विच्छायं नृपमन्दिरम् ।
ददर्शान्तर्दशरथं सुमन्त्रः शोकविह्वलम् ॥ ९१५ ॥
तं शोककृष्णपक्षेण निरीक्ष्य क्षयितप्रभम् ।
प्रणम्य राजशशिनं सोऽभवद्व्यथितेन्द्रियः ॥ ९१६ ॥
दृष्ट्वा सुमन्त्रं नृपतिर्वधूभिः परिवारितः ।
रामं त्यक्त्वागतोऽसीति पपात विलपन्क्षितौ ॥ ९१७ ॥
स लब्धसंज्ञः शनकैः पुत्रस्नेहविषार्दितः ।
पप्रच्छ रामवृत्तान्तं सुमन्त्रं बाष्पगद्गदः ॥ ९१८ ॥
स निवेद्य वनं प्राप्तं राममस्मै कृताञ्जलिः ।
तत्संदेशं जगादाथ धैर्यप्रणयनिर्भरम् ॥ ९१९ ॥
अयोध्याभिमुखः कृत्वा राघवः प्रणतोऽञ्जलिम् ।
देव मद्वक्रसंक्रान्तां विज्ञप्तिं विदधे तव ॥ ९२० ॥
तात त्वच्छासनं मूर्ध्ना चिन्तामणिमिवोद्वहन् ।
धन्यः संतोषराज्येऽस्मिन्प्रीतिं प्राप्तः परामहम् ॥ ९२१ ॥
न धैर्यजलधे कार्यः संतापो मद्वियोगजः ।
चतुर्दश समा विद्धि क्षणवत्क्षपिता मया ॥ ९२२ ॥
भरतं प्रति वात्सल्यशैथिल्यं मा कृथा विभो ।
मन्निविशेषं भवता संभाव्यः स च सर्वदा ॥ ९२३ ॥
इति ब्रुवाणे काकुत्स्थे किंचिदागतविक्रियः ।
सौमित्रिर्निःश्वसन्नूचे क्षितिमालोकयन्क्षणम् ॥ ९२४ ॥
चिन्तामणिगुणं पुत्रं त्यजता बत भूभुजा ।
कुलं स्वव्यसनेनेव यशो नीतं दरिद्रताम् ॥ ९२५ ॥
लक्ष्मणेनेत्यभिहिते जानकी सास्रलोचना ।
निरीक्षमाणा दयितं बाला नोवाच किंचन || ९२६ ॥
सुमन्त्रेणेति कथिते व्यथितः पार्थिवो भृशम् ।
हा रामेति निमद्योच्चैर्मोहान्निःस्पन्दतां ययौ ॥ ९२७ ॥
पुनः प्रत्यागतप्राणः श्रुत्वा रामं जटाधरम् ।
जायासखः स संतापाद्विललापाश्रुगद्गदम् ॥ ९२८ ॥
शोचंश्च सानुजं राम जानकीं च विशेषतः ।
विलापविशिखैस्तीव्रैर्नृपः कौसल्यया हतः ॥ ९२९ ॥
चुक्रोश कृपयाविष्टः कष्टां विपदमास्थितः ।
राहुच्छायोपगूढस्य वहन्नंशुमतः प्रभाम् ॥ ९३० ॥
कृच्छ्रेण प्रययुस्तस्य पञ्च पञ्चत्वकाजिङ्क्षिणः ।
सहस्रयामतां यातास्त्रियामास्तप्तचेतसः ॥ ९३१ ॥
षष्ठेऽहनि ततो राजा शोकसंजातविक्रियः ।
याते निशीथे कौसल्यामवदद्बाष्पगद्गदः ॥ ९३२ ॥
वियोगविषकन्दानां धन्या धैर्यप्रमाथिनाम् ।
रसज्ञा न भवन्त्येव सत्यं सुकृतिनो नराः ॥ ९३३ ॥
स्वयं प्ररोपितस्यैव भविष्णोः कर्मशाखिनः ।
शुभाशुभफलस्फीतिं भुञ्जते बत जन्तवः ॥ ९३४ ॥
स्मृतं पुराद्य कौसल्ये मैया यद्दष्कृतं कृतम् ।
तस्यैवायमपथ्यस्य विपाको जीवितापहः ॥ ९३५ ॥
धन्वी पुरा कुमारोऽहं काले जलदलाञ्छने ।
प्रयातः सरयूकूलं मृगयाकेलिलालसः ॥ ९३६ ॥
निशि तत्र जले मग्ना महिषकोडकुञ्जराः ।
लक्ष्यज्ञेन मया विद्धाः शब्दपातदिदृक्षया ॥ ९३७ ॥
तस्मिन्काले निरालोके ध्वनिराकर्णितो मया ।.
गजबृंहितगम्भीरो निमज्जत्कुम्भसंभवः ॥ ९३८ ॥
तमहं शब्दमुद्दिश्य तीक्ष्णं प्राहिणवं शरम् ।
विद्धः स कुम्भो येनाशु चुक्रोश मुनिपुत्रकः ॥ ९३९ ॥
हा हा बत नृशंसेन केन किल्बिषकारिणा ।
अन्धयोवृद्धयोः पित्रोः पुत्रोऽयमिपुणा हतः ॥ ९४०॥
हते मयि हतौ नूनं तावेव स्तस्तपस्विनौ ।
अहमेव तयोर्दृष्टिर्यष्टिश्च विषमेऽध्वनि ॥ ९४१ ॥
किं करिष्यसि हा मातः क्व गमिष्यसि हा पितः ।
कष्टं कथमहं विप्रः शरेण निधनं गतः ॥ ९४२ ॥
इति श्रुत्वातिकरुणं मुनिसूनोरहं वचः ।
तेन प्रत्यागतेनैव स्वेन बाणेन धारितः ॥ ९४३ ॥
शापेनेवान्धकारेण दारिते सरयूतटे ।
नापश्यं कृतयत्नोऽपि तं विकूजन्तमातुरम् ॥ ९४४ ॥
अथ शोकादिवापाण्डुर्वेपमानाकृतिः शशी।
निशार्धशेषे शुभांशुकेशो वृद्ध इवोद्ययौ ॥ ९४५ ॥
ज्योत्स्नाप्रकटिते तीरे ततोऽपश्यमहं पुरः ।
स्यूतं सुवर्णपुङ्खेन शरेण मुनिपुत्रकम् ॥ ९४६ ॥
विप्रकीर्णजटाजूटं नूतनोद्भिन्नयौवनम् ।
क्रन्दन्तं पतितं दृष्ट्वा तमहं व्यथितोऽपतम् ॥ ९४७ ॥
सोऽपि विप्लुतनेत्रो मां विलोक्य पतितं शुचा ।
उवाच मर्मविच्छेदं व्यथाशिथिलिताक्षरम् ॥ ९४८ ॥
अहो वतैकबाणेन तुल्यमेव हतस्त्वया ।
अहमन्धौ च वृद्धौ च पितरावेकपुत्रकौ ॥ ९४९ ॥
तदर्थमहमायातः समाहर्तुमितः पयः ।
मोहाद्धतस्त्वया तौ तु तृषार्तौ किं करिष्यतः ॥ ९१० ॥
राजन्वज्राग्निसंस्पर्श तूर्णमुद्धर मे शरम् ।
संन्यासिनः सशल्यस्य नार्ह मे मरणं मुनेः ॥ ९५१ ॥
इति प्रलपतस्तस्य जीवितावाप्तचेतसः।
मया मन्युरिवाभ्येत्य हृदयादुद्धृतः शरः ॥ ९५२ ॥
आकृष्टसायके तस्मिन्व्यावृत्तनयनः श्वसन् ।
व्यथां मयि विनिक्षिप्य द्विजस्तत्याज जीवितम् ॥ ९५३ ॥
पूर्व तदुपदिष्टेन ततोऽहं वनवर्त्मना ।
जलकुम्भं समादाय प्रयातस्तत्पितुः पदम् ॥ ९९४ ॥
तत्रान्धौ दम्पती श्रुत्वा तौ मे शब्दं प्रसर्पतः ।
पुत्रदर्शनसोत्कण्ठौ गद्गदाक्षरमूचतुः ॥ ९९५ ॥
चिरेणागच्छता पुत्र भवता केलिशालिना ।
आवयोर्भयसंदेहदोलामारोपितं मनः ॥ ९५६ ॥
एह्येहि यज्ञदत्तास्मत्पाणिसङ्गेन संस्पृश ।
न कोपितः कदाचित्त्वं चिरेण कथमागतः ॥ ९१७ ॥
इति ब्रुवाणयोरग्ने कम्पमानस्तयोरहम् ।
दुःसहं हृदि वाग्वज्रं तद्वृत्तान्त न्यवेदयम् ॥ ९५८ ॥
अहं दशरथः पापः सुकृती न सुतस्तव ।
पुत्रः स ते गजधिया मयैव निहतः प्रियः ॥ ९९९ ॥
अधुना क्रोधजः शापो दुःसहो मयि पात्यताम् ।
अस्य किल्बिषशोकाग्नेरग्रे मन्ये स शीतलः ॥ ९६० ॥
इति श्रुत्वैव गम्भीरदुःखः स्वस्थ इव क्षणम् ।
मामुवाच मुनिर्ध्यात्वा दुर्लङ्घ्या भवितव्यता ॥ ९६१ ॥
स्वयमावेदनेनैव पापस्यास्य स्थवीयसः ।
अविज्ञानान्न ते यातं शिरः शतसहस्रधा ॥ ९६२ ॥
नय मां तत्र यत्रासौ शेते त्वद्वाणमारितः ।
मम चक्षुश्च यष्टिश्च जीवितं च प्रियः सुतः ॥ ९६३ ॥
तमहं द्रष्टुमिच्छामि सभार्यः क्षतजोक्षितम् ।
प्राणाः संप्रस्थिताः क्वापि तत्संस्पर्शः कुतः पुनः ॥ ९६४ ॥
इति ब्रुवाणः स मयानीतो जायासखः शनैः ।
तं देशं यत्र तत्पुत्रः क्ष्मामिवालिङ्गय संस्थितः ॥ ९६५ ॥
उन्नम्य वदनं तस्मै समेत्य भृशमाकुला ।
जननी दुःखसंतप्ता वहन्ती जन्मवासनाम् ॥ ९६६ ॥
अहं ते जनकः पुत्र किर कर्णसुधां गिरम् ।
अन्धोऽहं क्व च यास्यामि त्वदालम्बनजीवितः ॥ ९६७ ॥
गतिं पुण्यकृतां वत्स परमां समवान्पुहि ।
त्वया सहावयोर्नूनं त्रिदिवे संगमः पुनः ॥ ९६८ ॥
इति प्रलप्य सुचिरं मुनिस्तनयवत्सलः ।
शरीरमस्य सत्कृत्य क्रियां चक्रे यथोचिताम् ॥ ९६९ ॥
ततो दिव्यवपुर्दिव्यं विमानं दीप्तमास्थितः ।
उवाच द्योतयन्व्योम्नि पितरौ मुनिपुत्रकः ॥ ९७० ॥
शुश्रूषयैव युवयोः प्राप्तोऽस्मि गतिमुत्तमाम् ।
नापराधोऽस्य नृपतेरीदृशी भवितव्यता ॥ ९७१ ॥
स्वकृतैः कर्मभिर्जन्तुर्जायते परिवर्धते ।
जीर्यते नश्यति पुनः कर्ता कश्चिन्न कस्यचित् ॥ ९७२ ॥
इत्युक्त्वान्तर्हिते तस्मिन्मां वृद्धो मुनिरब्रवीत् ।
अवश्यं नृप भोक्तव्यं पापस्यास्य फलं त्वया ॥ ९७३ ॥
पुत्रशोकेन महता तप्तस्त्यक्ष्यति जीवितम् ।
इत्युक्त्वा दुःखितो देहं सभार्यो मुनिरत्यजत् ॥ ९७४ ॥
इति यज्ञदत्तवधवर्णनम् ॥ २० ॥
सोऽयं ममाद्य कौसल्ये फलितः शापपादपः ।
न हि नाम चलत्येषा विहिता कर्मसंततिः ॥ ९७५ ॥
सज्जाः संनिहिता नित्यं शुभाशुभफलोदयाः ।
तिष्ठन्ति पुरुषस्याग्रे सद्भृत्याः सुभृता इव ॥ ९७६ ॥
एते वियोगशोकाग्नितापक्लेशासहिष्णवः ।
प्राणास्तरलसंचाराः क्वापि गन्तुं समुद्यताः ॥ ९७७ ॥
हा न दृष्टो मया रामः कामं कमललोचनः ।
कुतस्तमिह विक्रान्तं द्रक्ष्यामि पुनरागतम् ॥ ९७८ ॥
सीतैव धन्या रामस्य सततं पार्श्ववर्तिनी ।
कीर्तिः सत्पुरुषस्येव धृतिः सत्त्ववतो यथा ॥ ९७९ ॥
हा राम नयनानन्दसुधासंदोहबान्धव ।
विलप्येति मुहुः प्राणांस्तत्याज जगतीपतिः ॥ ९८० ॥
सुप्तं विज्ञाय नृपतिं कौसल्या शोकतापिता ।
तन्निद्राभङ्गभीताभून्निःशब्दप्रविलापिनी ॥ ९८१ ॥
प्रातः प्रबोध्यमानोऽपि सूतमागधबन्दिभिः ।
दीर्घप्रवासरसिकः क्ष्मापतिर्न व्यबुध्यत ॥ ९८२ ॥
ततस्तं विगतश्वासं प्रशान्तमिव पावकम् ।
अपुनर्दर्शनायैव ददर्श महिषीजनः ॥ ९८३ ॥
इति दशरथविपत्तिः ॥ २१ ॥
अस्तं प्रयातमालोक्य तं राजरजनीपतिम् ।
शोकान्धकारसंरुद्धश्चक्रन्दान्तःपुरे जनः ॥ ९८४ ॥
कौसल्याद्यास्ततो देव्यः प्रलापमुखराननाः ।
चक्रुरश्रुकणैश्छिन्नहारमुक्ताफलप्रभम् ॥९८५ ॥
सवृद्धवालललने शोकव्याकुलिते जने ।
मार्कण्डेयवसिष्ठाद्या निवेद्य सह मन्त्रिभिः ॥ ९८६ ॥
तैलद्रोण्यां विनिक्षिप्य नृपं पुत्रक्रियां विना ।
दूतान्विससृजुर्वीरान्भरतायाभुगामिनः ॥ ९८७ ॥
इति क्षेमेन्द्रविरचिते रामायणकथासारे समाप्तोऽयम् अयोध्याकाण्डः ।