जितं भगवता तेन
हरिणा लोकधारिणा ।
अजेन विश्वरूपेण
निर्गुणेन गुणात्मना ॥ १ ॥
ज्येष्ठो जयति वाल्मीकिः
सर्गबन्धे प्रजापतिः ।
यः सर्व-हृदयालीनं
काव्यं रामायणं व्यधात् ॥ २ ॥
स्वच्छ-प्रवाह-सुभगा
मुनि-मण्डल-सेविता ।
यस्मात् स्वर्गाद् इवोत्पन्ना
पुण्या प्राची सरस्वती ॥ ३ ॥
नुमः सर्वोपजीव्यं
तं कवीनां चक्रवर्तिनम् ।
यस्येन्दु-धवलैः श्लोकैर्
भूषिता भुवनत्रयी ॥ ४ ॥
पुरा मुनिः सभासीनः
स यदृच्छागतं मुनिम् ।
कथाप्रसङ्गे पप्रच्छ
प्रणयाद् इव नारदम् ॥ ५॥
लोकेऽस्मिन् सांप्रतं वीरः
श्रीमान् कः सुकृतोज्ज्वलः ।
कीर्तिर् विराजते यस्य
ज्योत्स्नेव रजनी-पतेः ॥ ६ ॥+++(4)+++
भूषिता सत्त्व-शुभ्रेण
जगती गुणशालिना ।
केन लक्ष्मी-विहारेण
हारेणेव वराङ्गना ॥ ७ ॥
प्रजानां जीवितं को नु
लतानाम् इव माधवः ।
कुरु-क्षेत्रं गुणानां च
रत्नानाम् इव सागरः॥८॥
इति पृष्टो मुनीन्द्रेण
नारदः प्रत्यभाषत ।
मुक्तामणिर् मनोर् वंशे
चरितै रघुनन्दनः ॥ ९ ॥
काव्यमाला।
गुणाभिरामः श्रीरामो
विरामो वैरिसंपदाम् ।+++(4)+++
जगद् येन हरेर् वक्षः-
कौस्तुभेनेव राजितम् ॥ १० ॥
जाया-समय-बद्धस्य
पितुर् दशरथस्य यः।
शिरसा विषमाम् आज्ञां
हेममालाम् इवाग्रहीत् ॥ ११ ॥
दारापहार-कोपाग्नौ
मुखैर् दशमुखस्य यः ।
ददौ रक्ताज्य-संसिक्तै
रसाक्ताः श्रीफलाहुतीः ॥ १२ ॥+++(5)+++
तस्याद्य दोष्णि विन्यस्य
भरं विश्वंभरापतेः ।
शेषः कु+++(=भू)+++-वलयं मूर्ध्ना
घत्ते कुवलयं +++(पुष्पं)+++ यथा ॥ १३ ॥
उक्त्वेति याते देवर्षौ
हर्षनिर्भर-मानसः ।
मुनीन्द्रोऽपि ययौ क्षिप्रं
विस्मयावेश-वश्यताम् ॥ १४ ॥
स गत्वा तमसा-तीरं तीर्थे
स्नात्वा कृतार्चनः ।
चचार शिष्य-सहितः
पुण्यासु वनभूमिषु ॥ १५ ॥
तस्याग्रे क्रौञ्चमिथुनाद्
एकं मन्मथ-मोहितम् ।
स ददर्श निषादेन
निहतं निशितेषुणा ॥ १६ ॥
ततः श्लोकच्छलात् तस्य
शोकानल-समीरितः ।
दयया हृदयालीनो
निर्गतः करुणो रसः ॥ १७ ॥
अहो निष्करुणेनेदं
निषादेन विषादकृत् ।
कृतं कुकृत-शीलेन
कर्म मर्म-विदारणम् ॥ १८ ॥
मा निषाद प्रतिष्टां त्वम्
आलब्धाः शाश्वतीः समाः।
यत्क्रौञ्च-मिथुनाद् एकम्
अवधीः काम-मोहितम् ॥ १९ ॥
इत्युक्त्वा करुणासिन्धुः
समीपस्थं पुनः पुनः ।
श्लोकं पठन् मुहुः शोकाद्
इति शिष्यमभाषत ॥२०॥
ततस्तत्र नदीतीरे
स्थितः शिष्ययुतो मुनिः ।
ददर्श श्लोकसंतोषात्
स्वयं ब्रह्माणमागतम् ॥ २१ ॥ +++(4)+++
मुनिनाभ्यर्चितस् तत्र
पाद्य-पूजासनादिभिः ।
सोऽवदत् पुण्यपीयूषं
दन्तकान्त्या किरन्न् इव ॥ २२ ॥
अहो सारस्वतः कोऽपि
तरुणः करुणावतः ।
अवतीर्णस् तव मुने
प्रसरः सरसः स्वयम् ॥ २३ ॥
रामस्य चरितं चारु
काव्यबन्धो विधीयताम् ।
अस्तु चैवं सुधाधौता
कृतकृत्या सरस्वती ॥ २४ ॥
लोकेष्व् अनेक-कल्पान्त-
स्थायि कर्णामृतं सताम् ।
कुरु रामायणं पुण्यं
यशो निजम् इवोज्ज्वलम् ॥ २५ ॥
इत्य् उक्त्वान्तर्हिते क्षिप्रं
प्रजासृजि मुनीश्वरः ।
कर्तुं प्रचक्रमे राम-
चरितं ज्ञानलोचनः ॥ २६ ॥
उपस्पृश्योदकं मौनी योगी रामकथां पुनः।
प्राचीनाग्रेषु दर्भेषु हृदि कर्तुं समादधे ॥ २७ ॥
प्राप्तराज्यस्य रामस्य वृत्तं वृत्तपदोचितम् ।
भविष्यच्चरितोपेतं सर्गबन्धे विधाय सः ॥२८॥
मुनीन्द्रः पाठयामास रामपुत्रौ वनेचरौ ।
गीतस्वराविष्टपदौ विभक्तमधुरस्वरौ ॥ २९ ॥
कुशो लवश्च तौ ख्यातौ पुरो मुनिमनीषिणाम् ।
अगायतां मुनेः काव्यं भूमिपालसभासु च ॥ ३० ॥
कदाचिद्गूढवेशौ तौ ह्यश्वमेधमखे पितुः ।
रामायणं रसोदारं राघवस्यापि गायताम् ॥ ३१ ॥
कोसलाख्ये जानपदे सरयूतीरसंश्रये ।
अस्त्ययोध्येति नगरी रम्या कर्मावधिर्विधेः ॥ ३२॥
स्फारस्फटिकसौधांशुहासिनी निर्मिता स्वयम् ।
मनुना मनुजेन्द्रेण मूर्ती कीर्तिरिवात्मनः ॥ ३३ ॥
मणिमन्दिरसंभारप्रभावलयमालिता।
कीर्तिकल्लोलिनी कूले बिम्बितेवामरावती ॥ ३४ ॥
१. गीतस्वराविष्टपरौ’ ग. २. ‘रामस्याग्रेऽपि’ ग; परंतु अटो लडि दुर्वारत्वेन ’s यताम्’ इति स्यात्. ३. ‘रसा’ क. ४. ‘कर्म्या’ ग.
सानन्दसुन्दरीवृन्दवदनैः कृतचन्द्रिका ।
राजधानीव चन्द्रस्य पुत्रपौत्रशतैर्वृता ॥ ३५ ॥
तस्यां दशरथो नाम बभूवेक्ष्वाकुनन्दनः ।
भुजेन भूमिवलयं वलयं च बभार यः ॥ ३६ ॥
भिन्नेभमुक्तातारासु स्फारस्वरणरात्रिषु ।
यशश्चन्द्रः स्वयं भेजे राज्यश्रीरभिसारिका || ३७ ॥
गम्भीरः सत्त्वरत्नाढ्यः पुरुषोत्तमसेवितः ।
समुद्रसदृशोऽप्यासीद्विमुद्रो यः सदार्थिषु ॥ ३८ ॥
गजेन्द्रदानसलिलप्रवाहैर्यस्य दिग्जये ।
यमुनालिङ्गनप्रीतिमवाप सरितां पतिः ॥ ३९ ॥
क हारः क च कर्पूरं क च मन्दारमालिका।
इति यद्यशसा व्योनि शुभ्रे खर्गाङ्गना जगुः ॥ ४०॥
युधि पीतमरातीनां यत्खझेनानिशं यशः ।
तद्वान्तं लग्नभिन्नेभकुम्भमुक्ताफलच्छलैः ॥ ४१॥
त्रैलोक्यजयिनः शक्रः कथं तस्योपमास्पदम् ।
अमात्या मुनयो यस्य वशिष्ठश्व पुरोहितः ॥ ४२ ॥
संधिविग्रहकालज्ञाः सर्वप्रकृतिचिन्तकाः ।
भूभारदिग्द्विपाधीरा बभूवुस्तस्य मन्त्रिणः ॥ ४३ ॥
संघिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः ।
अशोको धर्मपालश्च सुमन्त्रश्चेति संमतः ॥ ४४ ॥
पुत्रार्थिनं कदाचित्तं चिन्तासक्तमथाब्रवीत् ।
अश्वमेधकृतोद्योगं सुमन्द्रो मन्त्रिणां वरः ॥ ४५ ॥
देव चिन्तापरिस्पन्दमन्दीकृतवपुः कथम् ।
उत्ताम्यसि, भविष्यन्ति सर्वथा तनयास्तव ॥ ४६ ॥
सनत्कुमारो भगवान्पुरा मुनिसभास्थितः ।
भाविनीं त्वत्कथामूचे विमलज्ञानलोचनः ॥ १७॥
राजा दशरथः पुत्राल्पवित्रचरितव्रतान् ।
ऋष्यशृङ्गस्य यागेन संप्राप्स्यति कुलोचितान् ॥ ४८ ॥
विभाण्डकस्य स मुनेः कश्यपस्यात्मजो मुनिः ।
ऋष्यशृङ्गो नृसङ्गानामनभिज्ञो मृगीसुतः ॥ ४९ ॥
स ब्रह्मचारी विपिने हरिणानामकल्मषः ।
ब्रह्मचारी चचारोग्रं तपस्तपनसंनिभः ॥ १० ॥
अस्मिन्नवसरे राज्ञो लोमपादस्य चाभवत् ।
अवृष्टिरङ्गविषये विप्रशापसमुद्भवा ॥ ११ ॥
विपत्तिशमनं तत्र स ज्ञात्वा ब्रह्मणाज्ञया ।
ऋष्यशृङ्गो बभूवाशु तदानयनसादरः ॥ ५२ ॥
अदृश्यं तेजसा ज्ञात्वा तमपृच्छन्नसंभृतः ।
दिदेश चास्यानयने प्रगल्भा वारयोषितः ॥ १३ ॥
विलासहासकुसुमास्ता लोलालकषट्पदाः ।
ययुस्तपोवनं तस्य रुचिराधरपल्लवाः ॥ ५४॥
विभाण्डकमुनेर्भीत्या लताजालान्तरेषु ताः ।
तस्थुस्तद्रहितं कालं तत्सुतं च समाययुः ॥ ५५ ॥
तान्विलोक्यानभिज्ञोऽपि स जहर्ष जितेन्द्रियः ।
सहजैवाभिलाषेषु जन्तूनां जन्मवासना ॥ ५६ ॥
सानन्दस्तान्स विज्ञाय साधून्मुनिकुमारकान् ।
तत्केलिविभ्रमकलाविलासरसिकोऽभवत् ॥ ५७ ॥
अयत्नालिङ्गनैस्तुङ्गकुचकुम्भपुरःसरैः।
ह्रियमाणः स शनकैर्नीतस्ताभिर्निजां पुरीम् ॥ ५८ ॥
प्राप्तेऽङ्गविषये तस्मिन्नवृष्टिप्रभवा विपत् ।
प्रशशामामृतासारधारैरिव पयोधरैः ॥ ५९ ॥
तत्प्रीत्या लोमपादोऽस्मै शान्तां दुहितरं ददौ ।
अपुत्रस्तत्सुतां पुत्रतुल्यां जग्राह तां पुनः ॥ ६० ॥
स राज्ञस्तस्य जामाता मुनिस्तव च धर्मतः ।
प्रसाद्य भवता नीतः कुशलं ते विधास्यति ॥ ६१ ॥
सुमन्त्रेणेति कथिते वशिष्ठानुमतो नृपः ।
आनिनायाङ्गविषयमृष्यशृङ्गं वधूसखम् ॥ ६२ ॥
इति ऋष्यशृङ्गोपाख्यानम् ॥ १॥
तत्प्रसादादथ श्रीमानश्वमेधो महीपतेः ।
आवर्तत महारम्भसंभारो भूरिदक्षिणः ॥ ६३ ॥
तस्मिन्यज्ञे नरेन्द्राणां मुनीन्द्राणां च संघशः ।
हृष्टानां त्रिदशानां च समाजः सुमहानभूत् ॥ ६४ ॥
विधिना परिपूर्णेऽथ ऋतौ राजशतक्रतोः ।
पुत्र्यामिष्टिमप्यकरोदृष्यशृङ्गस्तदर्थिनः ॥ ६५ ॥
अत्रान्तरे दशास्येन विप्रवासितसंपदः ।
ययुश्चतुर्मुखमुखाः सुराः शरणमच्युतम् ॥ ६६ ॥
ते तमूचुः सुरारातिं वरदानेन वेधसः ।
करोति देवानसुरान्दुर्जयो देव रावणः ॥ ६७ ॥
अवध्यः सर्वभूतानां स मनुष्यादृते युधि ।
तस्माद्दशरथस्याद्य भगवन्व्रज पुत्रताम् ॥ ६८ ॥
चतुर्धा योगमास्थाय विभज्यात्मानमात्मना ।
अवतीर्य धरां विष्णो जहि त्रैलोक्यकण्टकम् ॥ ६९ ॥
इत्युक्ते त्रिदशैर्भीतैस्तथेत्युक्ते च विष्णुना ।
पुत्रेष्ट्यां परिपूर्णायां राज्ञो दशरथस्य च ॥ ७० ॥
उदतिष्ठन्महद्भूतं पावकाकृष्णपिङ्गलम् ।
हेमपात्रं समाधाय दोर्भ्या पायसपूरितम् ॥ ७१ ॥
प्राजापत्यः स पुरुषो मुनेर्वाक्यान्नृपाय तम् ।
पुत्रीयपायसं पात्रं प्रतिपाद्य तिरोदधे ॥ ७२ ॥
तदादाय च भूपालः पायसं मुनिशासनात् ।
देवीभ्यः प्रददौ दिव्यं मूर्त हर्षमिवात्मनः ॥ ७३ ॥
ततोऽर्ध प्राप कौसल्या चतुर्भागं च कैकयी।
चतुर्भागं सुमित्रा च स्वयं तेन द्विधा कृतम् ॥ ७४ ॥
विसृष्टाखिलभूपेन पूजितः पृथिवीभुजा ।
कान्तां शान्तां समादाय राजपुत्रीं ययौ मुनिः ॥ ७५ ॥
अथ कालेन कौसल्या प्रागसूत सुतं सती ।
रामं विरामं द्विषतां देवं सूर्यमिवादितिः ॥ ७६ ॥
सुषुवे भरतं देवी कैकेयी तनयोत्तमम् ।
प्राप लक्ष्मणशत्रुघ्नौ सुमित्रा पुत्रकावपि ॥ ७७ ॥
क्रीडासु विद्याविनये विस्रम्भे चानुगोऽभवत् ।
रामस्य लक्ष्मणो नित्यं शत्रुघ्नो भरतस्य च ॥ ७८ ॥
दन्तैरिवेन्द्रद्विरदो वरुणः सागरैरिव ।
तैः सुतैः शुशुभे भूपः कैटभारिर्भुजैरिव ॥ ७९ ॥
शस्त्रास्त्रग्रामशिक्षाणां विद्यानां विशदाशयः ।
कलानां च बभूवुस्ते संक्रान्तिमणिदर्पणाः ॥ ८० ॥
इति रामादिपुत्रोत्पत्तिः ॥ २ ॥
अथ राजसभासीनं प्रविश्य प्रणता नृपम् ।
तूर्णमचुः प्रतीहारा हेमवेत्रांशुमालिनः ॥ ८१ ॥
देव तीव्रतपस्तेजःपुञ्जपिञ्जरिताम्बरः ।
विश्वामित्रो दिक्षुस्त्वामागच्छन्दृश्यते मुनिः ॥ ८२ ॥
तच्छ्रुत्वा सहसा राजा वशिष्ठसहितः स्वयम् ।
प्रत्युद्ययौ मुनिवरं हर्षपीयूषनिर्भरः ॥ ८३ ॥
स पूज्यः पूजितस्तेन प्रविश्यालंकृतासनः ।
सभायां नृपतिं प्रीत्या पप्रच्छानामयं शनैः ॥ ८४ ॥
ततो जगाद दशनप्रभाकुसुमितां पुनः ।
कुर्वाणः सफलां वाणी विनयेन नरेश्वरः ॥ ८५ ॥
भगवन्भवतः पुण्यहर्षपीयूषवर्षिणः ।
दर्शनं ताण्डवायैव सत्यं मित्रशिखण्डिनाम् ॥ ८६ ॥
त्वद्दर्शनसुधासारसिक्ता सुकृतवल्लरी ।
पुण्यपुष्पोज्ज्वला सूते प्रहर्षमतुलं फलम् ॥ ८७ ॥
इयमेव भवाम्भोधिविरतस्यामृतच्छटा ।
यद्विवेकोदयस्फीतं दर्शनं च भवादृशाम् ॥ ८८ ॥
तपस्तीर्थाभिषेको वा महद्भिर्वा समागमः ।
एतास्ता जन्मरजसः परिमार्जनभूमयः ॥ ८९ ॥
उच्यतां भगवन्यत्ते कृत्यं तत्करवाण्यहम् ।
त्वदाज्ञानुग्रहेणैव कृतकृत्यस्त्वयं जनः ॥ ९० ॥
उक्तो दशरथेनेति विश्वामित्रस्तमब्रवीत् ।
दन्तत्विषा निशानाथं दर्शयन्निव सोमपः ॥ ९१ ॥
जन्म वंशे सहस्रांशोर्गुणाश्च विनयोज्ज्वलाः ।
रुचिराचार भवतामेतत्समुचितं वचः ॥ ९२ ॥
दीक्षितस्य महीपाल बाधन्ते मम राक्षसाः ।
यज्ञं पिहितदिक्चक्राः शोणितासारवर्षिणः ॥ १३ ॥
तेषां विघ्नकृतां यज्ञे विघातायोग्ररक्षसाम् ।
रामं प्रयच्छ मे वीरं बालं बलवतां वरम् ॥ ९४ ॥
तपोवनेषु शमिनां मुनीनां विदधे विधिः ।
तपःक्रतुपरित्राणे राजन्क्षत्रियविक्रमम् ॥ ९५ ॥
बालोऽयमिति रामस्य जये मा संशयं कृथाः ।
वसिष्ठमुख्या मुनयः प्रभावज्ञाः सुतस्य ते ॥ ९६ ॥
इति श्रुत्वा मुनिवचो भूपतिः कम्पिताशयः ।
उवाच भगवन्बालः कथं रक्षःक्षयक्षमः ॥ ९७ ॥
अक्षौहिणीपरिवृते स्थिते मयि सकार्मुके।
शिशौ संभावना केयं घोरे समरकर्मणि ॥ ९८ ॥
सज्जोऽहं ऋतुरक्षायै दीक्षितस्य तव स्वयम् ।
नववर्षसहस्राणि व्यतीतानि ममायुषः ।
चिन्तासंतप्तमनसः पुत्रलाभमनोरथैः ॥ ९९ ॥
सुचिरादुचितः पुत्रो जातो वयसि पश्चिमे ।
नेश्वरोऽहं परित्यक्तुं रामं राजीवलोचनम् ॥ १०० ॥
इति ब्रुवाणमसकृद्भूपालं पुत्रवत्सलम् ।
उवाच कौशिकः किंचिदसूयारचितस्मितः ॥ १०१ ॥
अहो नु कातरस्येव स्नेहमोहहता मतिः ।
तव राजन्न जानीषे यत्पुत्रस्य पराक्रमम् ॥ १०२ ॥
स्वयं किं कृत्यमित्युक्त्वा कार्यकाले विमुद्यति ।
यथागतं व्रजाम्येष तव सत्यच्युतः सुखी ॥ १०३ ॥
इत्युक्त्वा विरते कोपात्कम्पमाने महामुनौ ।
विचचाल तदा पृथ्वी भेजिरे च भयं सुराः ॥ १०४ ॥
ततो जगाद भगवान्वशिष्ठः शमिनां वरः ।
इक्ष्वाकुवंशजो राजन्प्रतिज्ञा मा वृथा कृथाः ॥ १०५ ॥
बहुप्रभावः पुत्रस्ते न शङ्कां कर्तुमर्हसि ।
दुष्टक्षयात्क्षितित्राणात्क्षत्रियः किल जायते ॥ १०६ ॥
गुप्तः स्वयं कौशिकेन मुनिना प्राज्यतेजसा ।
ब्रह्मणेवासुरपतिर्दुर्जयोऽयं हि राघवः ॥ १०७ ॥
मुनेरस्य प्रभावेण रामः कुशलमाप्स्यति ।
आश्रयः पुण्ययशसां तपसां तेजसां च यः ॥ १०८ ॥
प्रजापतिर्भृशाश्वाख्यो दाक्षायिण्यौ वरात्पुरा ।
तेजोनिधिः प्राप भार्ये जयाख्यां सुप्रभां तथा ॥ १०९ ॥
तयोः पुत्रशतं तस्य जातं विविधविग्रहम् ।
यदस्त्रमण्डलं दिव्यं दीप्तमस्त्रविदो जगुः ॥ ११० ॥
विश्वामित्राय निखिलं संघर्षाख्यं तमुत्कटम् ।
अस्त्रग्रामं महावीर्य स ददौ यशसां निधिः ॥ १११॥
सोऽयं विभुः सहस्राणां नेतुमर्हसि राघवम् ।
वशिष्ठेनेति कथिते तथेत्यूचे महीपतिः ॥ ११२ ॥
ततः कृतस्वस्त्ययनं राघवं लक्ष्मणानुगम् ।
कौशिकाय ददौ राजा निमित्तैः शुभशंसिभिः ॥ ११३ ॥
धन्विनौ काकपक्षाङ्कौ बद्धखड्गौ मुनीश्वरः ।
आदाय प्रययौ वीरस्तौ राधवकुमारकौ ॥ ११४ ॥
गत्वा योजनसंख्यार्धे दक्षिणे सरयूतटे ।
स रामाय ददौ विद्ये श्रमातङ्कजरापहे ॥ ११५ ॥
बलामतिवलाख्यां च जयरूपबलप्रदे।
ते प्राप्य तृप्तिसौभाग्यज्ञानदे ब्रह्मसंभवे ॥ ११६ ॥
महार्हतां परां प्राप्तः काकुत्स्थो हृष्टमानसः ।
स्थित्वा तत्र निशां प्रातः सानुजोऽनुययौ मुनिम् ॥ ११७ ॥
स दृष्ट्वा संगमे गङ्गासरय्वोः पुण्यमाश्रमम् ।
कस्येदं तापस क्षेत्रमिति पप्रच्छ कौशिकम् ॥ ११८ ॥
सोऽब्रवीन्मूर्तिमान्कामः पुरा देवमुमापतिम् ।
लक्ष्यीकर्तु कृतोद्वाहं चचार सुचिरं तपः ॥ ११९ ॥
तपोवनेऽसिन्भगवान्वीक्ष्य तं त्रिपुरान्तकः ।
दृशा चकार सहसा विशीर्णाङ्गमसंगधीः ॥ १२०. ॥
विन्ध्यशैलान्तिके तस्य पतितेऽङ्गचये पृथक् ।
स्फीतोऽभूदङ्गविषयो विषयः सर्वसंपदाम् ॥ १२१ ॥
तस्यै तत्संयमे धाम कामस्याभूत्तपोवनम् ।
योऽङ्गनापाङ्गसंयोगादनङ्गोऽपि जगज्जयी ॥ १२२ ॥
इत्युक्तं मुनिना श्रुत्वा रामः कामाश्रमे सुखम् ।
अतिबाह्य निशामेकां प्रतस्थे मुनिपूजितः ॥ १२३ ॥
नावाथ तीर्त्वा सरयूं शब्दं श्रुत्वा घनस्वरम् ।
किमेतदिति पप्रच्छ मुनिं पृष्टः स चाम्यधात् ॥ १२४ ॥
मनसा मानसं नाम सरः कैलासशेखरे ।
ब्रह्मणा निर्मितं तस्मात्प्रसूता सरयूः पुरा ॥ १२५ ॥
जाह्वीसंगतस्यायं तत्प्रवाहस्य निःखनः ।
वन्द्योऽसाविति तेनोक्तो रामोऽपि प्रणनाम तम् ॥ १२६ ॥
ततो दक्षिणतीरस्य वनमासाद्य सानुजः ।
पप्रच्छ कौशिकं घोरसत्त्वसंपातविस्मितः ॥ १२७ ॥
कस्येदमिति रामेण पृष्टस्तमवदन्मुनिः ।
करूषमालवाभिख्यौ श्रुतौ जनपदौ भुवि ॥ १२८ ॥
यत्र वृत्रवधादिन्द्रो वृत्रहत्यामलावृतः ।
मुनिभिः पुण्यसलिलैः क्षुत्क्षामः क्षालितः पुरा ॥ १२९ ॥
मलं स दृष्ट्वा पतितं कारूषाख्यं शरीरजम् ।
स्वस्थः श्रीमान्वरं प्रादाद्देशयोर्धन्यतावहम् ॥ १३० ॥
पुरा सुकेतोर्यक्षस्य ताटका कामरूपिणी ।
नागायुतबला पुत्री बभूव ब्रह्मणो वरात् ॥ १३१ ॥
तरुणीमसुरेन्द्राय सुतां सुन्दाय सुन्दरीम् ।
ददौ तस्यां बभूवास्य मारीचो दुर्जयः सुतः ॥ १३२ ॥
स्वपुत्राय कृतं रूपं सा कृत्वा दुन्दुभिस्वना ।
अगस्त्यग्रामे चक्रे स मतिं मोहात्प्रधर्षणे ॥ १३३ ॥
सा तच्छापादभून्नित्यं विकृताकारदुःसहा ।
राक्षसत्वं च मारीचो जगाम जनकण्टकः ॥ १३४ ॥
मालवानां करूषाणां कुर्वाणास्मिन्वने क्षयम् ।
स्थिता प्रसारितभुजा सा भूतभयदा सदा ॥ १३५ ॥
गोव्रजान्तकरीं घोरां जहि तां जनताहिताम् ।
स्त्रीविचारं परित्यज्य जगतां कार्यगौरवात् ॥ १३६ ॥
श्रूयते किल शक्रेण विलोचनसुता पुरा ।
राक्षसी दीर्घजिह्वाख्या हता विश्वक्षयोदिता ॥ १३७ ॥
अशक्रं लोकमिच्छन्ती दैत्यमाता बलोत्कटा ।
हता सुरशरण्येन विष्णुना प्रभविष्णुना ॥ १३८ ॥
त्वमप्येवं जगद्बन्धुर्मुनित्राणकृतक्षणः ।
पत्रिणा वज्रधारेण तां निपातय ताटकाम् ॥ १३९ ॥
इत्युक्ते मुनिना रामः क्षणं ध्यात्वा तमब्रवीत् ।
प्रमाणं सर्वधर्माणां निश्चये भवतां वचः ॥ १४० ॥
अहं हि भगवन्पित्रा नियुक्तस्तव शासने ।
भवता तस्य वचसा कार्य सर्वात्मना मया ॥ १४१ ॥
इत्युक्त्वाधिज्यमादाय धनुर्वीरपराक्रमः ।
ज्याघोषमकरोद्वनशैलनिष्पेष निःखनम् ॥ १४२ ॥
त्रैलोक्यरक्षाप्रारम्भमङ्गलोंऽकारकारिणा ।
ननृतुर्धनुर्घोषेण तेन त्रिदशबर्हिणः ॥ १४३ ॥
अथादृश्यत तत्कोपात्प्रलयाम्भोधरच्छविः ।
कल्पितेव निरालोकैः कल्पान्तरजनीशतैः ॥ १४४ ॥
दीप्तजिह्वाकरालेन विवृतास्येन भीषणा ।
लोलनीलाचलेनेव ज्वालाचक्रगुहागता ॥ १४५ ॥
जगद्गेहार्गलादीर्घप्रसारितभुजंद्रुमा।
कृतान्ततोरणस्तम्भसंभारभ्रान्तिकारिणी ॥ १४६ ॥
महाद्रिकटकाकारकरालोरःकटीतटा।
ताटका विकटारावघटिताशेषदिक्तटा ॥ १४७ ॥
तामापतन्ती क्रोधाग्निज्वालायितशिरोरुहाम् ।
बाणेन घननिर्घोषां जघान रघुनन्दनः ॥ १४८ ॥
सा रामस्य शरैर्भिन्ना निपपात महीतले ।
तमालवनमालेव छिन्ना कूलंकषैर्जलैः ॥ १४९ ॥
इति ताटकावधः ॥ ३ ॥
तस्यां हतायां सहसा प्रसन्ने भुवनत्रये ।
रामस्य विक्रमं शक्रः प्रशंसन्मुनिमब्रवीत् ॥ १५० ॥
प्रयच्छ स्वच्छयशसे रामायास्त्राणि कौशिक ।
स्वगुणैः पात्रतां नीताः किं नार्हन्ति हि साधवः ॥ १५१ ॥
इत्युक्तस्त्रिदशेन्द्रेण मुनीन्द्रः प्रयतात्मना ।
भृशाश्वास्त्रादि रामाय ददौ सर्वायुधैः सह ॥ १५२ ॥
ब्रह्मास्त्रं दण्डमस्त्रं च धर्मचक्रमशेषगम् ।
कालचक्रं विष्णुचक्रं शाकं वज्रं च दारुणम् ॥ १५३ ॥
शूलं शार्व गदे द्वे च कौमोदकशिवोदके ।
उग्रं ब्रह्मशिरश्चास्त्रमैशीकं शङ्खमद्भुतम् ॥ १९४ ॥
त्रिनेत्रास्त्रं धर्मपाशं कालपाशं सवारुणम् ।
शुष्कार्द्रे पाचने देव नागास्त्रं वैष्णवं तथा ॥ १५५ ॥
आग्नेयं शिखरं नाम वायव्यं क्रौञ्चमद्भुतम् ।
अस्त्रं हयशिरश्चोग्रशक्ती शक्रकुमारयोः ॥ १५६ ॥
घोरं कङ्कालमुसलं कापालं किङ्किणीमपि ।
दिव्यास्त्रं नन्दकं खड्गं गन्धर्वास्त्रं च मोहनम् ॥ १५७ ॥
प्रस्वापनं प्रमथनं वर्षणं च सशोषणम् ।
संतापनं विलापास्त्रं दमनं च मनोभुवः ॥ १५८ ॥
नैषादं मानवं नाम वामनं च सशामनम् ।
संवर्त सौमलं सत्यं मायास्त्रं मोघतेजसम् ॥ १५९ ॥
सोमास्त्रं शैशिरं त्वाष्ट्रं दारुणास्त्रं भगस्य च ।
रौद्रास्त्रं चेति दिव्यानि जग्राह रघुनन्दनः ॥ १६० ॥
पुरः प्रत्यक्षरूपाणि प्राप्तानि च ततो मुनेः ।
सजृम्भकरहस्यानि ससंहाराण्यशेषतः ॥ १६१ ॥
संस्पृश्य पाणिना तानि प्रतिपूज्य विसृज्य च ।
व्रजन्काननमालोक्य रामः पप्रच्छ कौशिकम् ॥ १६२ ॥
इत्यस्त्रप्राप्तिः ॥ ४ ॥
इदं मरकतश्यामतालतालीनिरन्तरम् ।
बृहत्फुल्ललताकुञ्जमञ्जुगुञ्जद्विहङ्गमम् ॥ १६३ ॥
मनोनयननिर्वाणं संतोषविषयं रतेः ।
क्षेत्रं निर्विघ्नविश्रान्तेर्भगवन्कस्य काननम् ॥ १६४ ॥
इति रामेण विनयात्पृष्टो मुनिरभाषत ।
सिद्धाश्रमोऽयं देवस्य विष्णोर्वामनरूपिणः ॥ १६५ ॥
योगेन वामनो भूत्वा यः कान्त्वा भुवनत्रयम् ।
जहार जगतीं कृत्स्नां त्रैलोक्यजयिनो बलेः ॥ १६६ ॥
तदाश्रमपवित्रेऽस्मिन्कानने सिद्धसेविते ।
यज्ञभूर्मम तद्भक्तिसुधाप्लावितचेतसः ॥ १६७ ॥
इत्युक्ते मुनिनाभ्येत्य सिद्धाश्रमनिवासिनः ।
सज्जोऽयं यज्ञसंभारस्तवेत्यूचुस्तमग्रतः ॥ १६८ ॥
अथ. राघववाक्येन दीक्षां कौशिकनन्दनः ।
विवेश वीतविघ्नेन मनसा व्यस्तविप्लवः ॥ १६९ ॥
ततो मुनिगिरा रामः क्रतुत्राणाय सानुजः ।
निर्निद्रः षडहोरात्रं तस्थौ स्थाणुपराक्रमः ॥ १७० ॥
षष्ठेऽहनि मुनेर्वेद्यां ज्वलिते जातवेदसि ।
अभवद्भीमनिर्घोषैर्व्याप्तं नक्तंचरैर्नभः ॥ १७१ ॥
रक्तास्थिवर्षिणां तेषां मेघौघविपुलैर्बलैः ।
ग्रस्ता इवोग्रतिमिरैर्बभूवुरभितो दिशः॥ १७२ ॥
तेषां नभसि गम्भीरसंरम्भैर्घोरविक्रमैः ।
अभवद्भूतभयदैर्भ्रान्तेव भुवनत्रयी ॥ १७३ ॥
तान्वीक्ष्य लक्ष्मणं रामः सितधौताधरोऽवदत् ।
सौमित्रे यज्ञविघ्नानामिमास्ता सैन्यसंपदः ॥ १७४ ॥
पश्य क्षपाचरव्यूहैर्मोहैरिव विकारिभिः ।
नीतं मलिनतां व्योम मनस्तनुभृतामिव ॥ १७९ ॥
इत्युक्त्वा मारुतं रामः प्राहिणोदस्त्रमद्भुतम् ।
दोलाविलासं यत्पक्षपवनैर्लेभिरे दिशः ॥ १७६ ॥
येन मारुतबेगेन क्षिप्तो मूर्छितमानसः ।
पपात योजनशतस्यान्ते मारीचराक्षसः ॥ १७७ ॥
आग्नेयेन चलज्ज्वालाजटिलाग्रेण राघवः ।
ददाह सर्वदाहं च सुबाहुं रक्षसां पतिम् ॥ १७८ ॥
हत्वा तदनुगान्सर्वान्वातास्त्रेण प्रमाथिना ।
निर्विघ्नं राघवश्चक्रे यज्ञक्षेत्रं महामुनेः ॥ १७९ ॥
पतिते सुन्दतनये मारीचे जलधेस्तटे ।
उपसुन्दसुते भग्ने सुबाहौ बलशालिनि ॥ १८० ॥
बभूव सिद्धगन्धर्वगणकिंनरयोषिताम् ।
नवे रामस्य चरिते मिथः कोऽपि कथारसः ॥ १८१ ॥
इति सुबाहुवधः ॥६॥
ततः पूर्णे महायज्ञे राममूचुर्महर्षयः ।
मखोऽयं कौशिकेनाप्तस्त्वत्पराक्रमरक्षितः ॥ १८२ ॥
मिथिलाधिपतेर्यज्ञः शतक्रतुसमश्रियः ।
राज्यकल्पद्रुमफलं जनकस्य भविष्यति ॥ १८३॥
चन्द्रचूडधनुस्तत्र दिव्यं सदसि दृश्यते ।
संकल्पेऽपि न धर्त्तु यत्प्रगल्भास्त्रिदशा अपि ॥ १८४ ॥
तदेहि मिथिलां राम गच्छामः क्ष्मापतेर्मखे।
दुर्धर्षे द्रक्ष्यसि धनुस्तत्र त्रिपुरवैरिणः ॥ १८५ ॥
इत्युक्ते मुनिभिः प्रीत्या सहितैस्तैः सलक्ष्मणः ।
विश्वामित्रं पुरस्कृत्य प्रतस्थौ मिथिलां ततः ॥ १८६ ॥
ते व्रजन्तः समासाद्य शोणं शोणांशुमालिनि ।
संध्यायां तत्तटे तस्थुर्जपहोमकृतक्षणाः ॥ १८७ ॥
रामस्तत्र सुखासीनं विश्वामित्रं पुरस्थितः ।
पप्रच्छ देशः कस्यायमिति रम्यतयाहृतः ॥ १८८ ॥
तमब्रवीन्मुनिवरः पुत्रोऽभूद्ब्रह्मणः कुशः ।
कुशनाभः कुशाम्बाख्यमसूर्तरजसं वसुम् ॥ १८९ ॥
स प्राप तनयान्वीरान्भुजस्तम्भितभूमिपान् ।
व्यधात्कुशाम्बः कौशाम्बीं कुशनाभो महोदयम् ॥ १९० ॥
प्राग्ज्योतिषमसूर्ताख्यो वसुश्चक्रे गिरिव्रजम् ।
घृताच्यां सुरसुन्दर्या कन्यानामभवच्छतम् ॥ १९१ ॥
कुशनाभस्य राजर्षेर्हरिणीहारिचक्षुषः ।
ता यौवनवसन्तेन भूषिताः स्तबकस्तनैः ॥ १९२ ॥
बभुर्विलासललिता लता इव सविभ्रमाः ।
उद्यानकेलिसंसक्तास्ता विलोक्य समीरणः ॥ १९३ ॥
ययाचे संगमं रागान्न चामन्यन्त कन्यकाः ।
सर्वान्तश्चारिणो धैर्यं नाभवत्तस्य रागिणः ॥ १९४ ॥
अभग्नप्रणया शक्तिर्महत्स्वपि मनोभुवः ।
कुलाभिमानात्कन्याभिः स निषिद्धः पितुर्भयात् ॥ १९५ ॥
प्रविश्य सर्वगात्राणि क्रुद्धः कुब्जीचकार ताः ।
प्रभञ्जनेन भन्नास्ताः पितुरेत्य न्यवेदयन् ॥ १९६ ॥
कुञ्जत्वात्कन्यकानां तत्कान्यकुञ्जमभूत्पुरम् ।
अत्रान्तरे ब्रह्मचारी सूरिर्नाम महामुनिः ॥ १९७ ॥
ऊर्णायुपुत्र्या गन्धर्व्या तोषितः परिचर्यया ।
वरादात्मोपमं नाम तस्मात्पुत्रमवाप सा ॥ १९८ ||
ब्रह्मदत्तं महीपालं प्रथितं विपुलैर्गुणैः ।
तस्मै ताः कन्यकाः प्रादात्कुशनाभो महीपतिः ॥ १९९ ॥
विवाहे तत्करस्पर्शपात्रस्वस्थाखिलाङ्गकाः।
कुशनाभोऽथ पुत्रेष्ट्यां गाधिं पुत्रमवाप्तवान् ॥ २०० ॥
तस्याहं तनयो राम स्वसा सत्यवती च मे ।
ऋषीकाय पुरा दत्ता साभवत्कौशिकी नदी ॥ २०१॥
तयैव पुण्यसरिता देशोऽयं कल्मषापहः ।
विभाति धाम धर्मस्य मनोनयननन्दनः ॥ २०२॥
अथावशेषा रजनी नीतास्माभिः कथारसात् ।
निस्पन्दास्तरवोऽप्येते निद्रयेवाभिमुद्रिताः ॥ २०३ ॥
स्नेहस्नुतवधूकेशपाशसंकाशरोचिषः ।
गर्जग्दजमदौघस्य तमसः पश्य यौवनम् ॥ २०४ ॥
उदितेयं शशाङ्कस्य शनकैदृश्यते कला।
तमोमत्तवराहस्य दंष्ट्रेव समरच्युता ॥ २०५ ॥
सेयं शशिकला शर्वमौलिमैत्रीपवित्रिता ।
राजते ध्वस्ततिमिरा ध्वस्तमोहेव धीः सताम् ॥ २०६ ॥
कथयित्वेति विरते मुनौ सा यामिनी शनैः ।
जगाम कुमुदाबन्धुभीतेव भ्रमरावली ॥ २०७॥
इति कौशिकवंशः ॥ ६ ॥
ततः शोणं समुत्तीर्य जाह्नवीं च शनैर्वनम् ।
ते प्राप्य गङ्गापुलिने दिनान्ते चक्रिरे स्थितिम् ॥ २०८ ॥
गङ्गावतरणं तत्र पृष्टो रामेण कौतुकात् ।
मुनिमध्ये सुखासीनो वभाषे कौशिको मुनिः ॥ २०९ ॥
बभूवतुर्दुहितरौ पुरा हिमवतो गिरेः ।
गङ्गा च देवतटिनी गौरी च भववल्लभा ॥ २१० ॥
उग्रेण तपसा देवी वरं प्राप्य पिनाकिनम् ।
विजहार चिरं दिव्यकैलासगिरिसानुषु ॥ २११ ॥
तत्र स्पर्धानुबन्धेन प्रवृत्ते रतिसंगरे ।
अश्रान्तमेवेश्वरयोर्दिव्यं वर्षशतं ययौ ॥ २१२ ॥
अथ ब्रह्ममुखा देवास्त्रस्तास्त्रैलोक्यविप्लवात् ।
अतो भूतं समुद्भूतं धर्तु शक्ष्यति को न्विति ॥ २१३ ॥
ते गत्वा शरणं सर्वे मेघव्यवहिताः पुरा ।
महारतस्य विरतिं प्रणिपत्य ययाचिरे ॥ २१४ ॥
तानुवाच हरः प्रीत्या भगवान्भूतभावनः ।
क्षुभितं मे निजपदात्कस्तेजो धारयिष्यति ॥ २१५ ॥
इत्युक्ते चन्द्रचूडेन जगदुः प्रणताः सुराः ।
दुःसहं भवतस्तेनो धर्तु देवी क्षमा क्षितिः ॥ २१६ ॥
सेयं भूतपरित्राणं भूतधात्री करिष्यति ।
इत्युक्ते त्रिदशैर्देवः क्षितौ वीर्यमिवासृजत् ॥ २१७ ॥
तेन व्याप्तां महीं दृष्ट्वा सुराः सगिरिसागराम् ।
तत्संग्रहाय दहनं सानिलं समचोदयत् ॥ २१८ ॥
तत्तेजो वह्निना व्याप्तं बभूव श्वेतपर्वतः ।
जातरूपमयं दीप्तं तथा शरवणं महत् ॥ २१९ ॥
ततः सुरान्गिरिसुता शशाप कुपिता पुरः ।
अपत्यं वः स्वदारेषु न कदाचिद्भविष्यति ॥ २२० ॥
अपत्यप्रीतिरहिता बहुभोज्या च भूरियम् ।
यास्यत्यनेकरूपत्वमित्युक्त्वा लज्जिताभवत् ॥ २२१ ॥
ततो देव्या सह तपश्चक्रे हिमगिरौ हरः ।
परकार्यसुखाः सन्तः स्वसुखेषु पराङ्मुखाः ॥ २२२ ॥
अत्रान्तरे सुरा ब्रह्मवाक्यात्सेनाधिपार्थिनः ।
गङ्गायां जनयापत्यमित्यूचुर्जातवेदसम् ॥ २२३ ॥
तेनाथ गर्भाधानाय प्रार्थिता व्योमवाहिनी ।
दिव्यरूपाभवद्देवी प्रीतये त्रिदिवौकसाम् ॥ २२४ ॥
सा वीक्ष्य दुःसहं तेजो व्यकीर्यत समन्ततः ।
वीर्येणापूरयत्तां च विकीर्णः सर्वतोऽनलः ॥ २२५ ॥
पूर्णेषु सर्वस्रोतःसु सा बभाषे हुताशनम् ।
तेजस्ते नोत्सहे धर्तुं घोरं व्यथितमानसा ॥ २२६ ॥
इत्युक्त्वा जाह्नवी वह्निवचसा हिमवत्तटे ।
तत्याज सर्वस्रोतोमिर्गर्भमाभासुरं जबात् ॥ २२७ ॥
धरण्यां हेम तदभूत्तानम्रं कृष्णायसं मुखात् ।
मलं त्रपुसनागादिधातुजं विविधं तथा ।
तत्र गर्भे च्युतं सर्व जातरूपमभूद्वनम् ॥ २२८ ॥
स कुमारः शरवणे कृत्तिकाक्षीरवर्धितः ।
कार्तियेकोऽभवद्वह्निसहस्रांशुसमद्युतिः ॥ २२९ ॥
षण्णां स पुत्रको धीरः कृत्तिकानां षडाननः ।
बभूव सुरसेनासु नायकस्तारकान्तकः ॥ २३० ॥
इति कुमारोत्पत्तिः ॥ ७ ॥
बभूव सगरो नाम मनुवंश्यो महीपतिः ।
अयोध्यायां सुधासिन्धुरिव जन्मावधिः श्रियः ॥ २३१ ॥
बभूव केशिनी नाम वैदर्भी तस्य वल्लभा ।
सुमतिश्च सुपर्णस्य भगिनी विनतात्मजा ॥ २३२ ॥
भार्याद्वयमुपाकृत्य पूर्ण वर्षशतं तपः ।
भृगोर्वरीदभिमतं स संतानमवाप्तवान् ॥ २३३ ॥
षष्ठिपुत्रसहस्राणि पुत्रं चैकमवाप्य सः ।
तमेकमसमञ्जाख्यं प्रजाद्विद्विष्टमत्यजत् ॥ २३४ ॥
अंशुमन्तं सुतं तस्य पौत्रमादाय पुत्रवत् ।
स बभूवाश्वमेधाय दीक्षितः पृथिवीपतिः ॥ २३५ ॥
हिमवद्विन्ध्ययोर्मध्ये प्रवृत्ते यज्ञकर्मणि ।
हृतः केनापि भूतेन तस्याश्वोऽदृश्यतां ययौ ॥ २३६ ॥
षष्ठिपुत्रसहस्राणि शासनात्तस्य वाजिनम् ।
उपलब्धुं दिशो जग्मुर्दारिताखिलभूतलाः ॥ २३७ ॥
वध्यमानेषु भूतेषु तैरश्वाहरणक्रुधा ।
दारिते च महीपीठे नादृश्यत ह्यः क्वचित् ॥ २३८ ॥
पुनः पुत्राः समादिष्टास्ते निर्मिन्नमहीतलाः ।
ददृशुर्दिग्गजान्मूर्ध्ना धृतविश्वंभराभरान् ॥ २३९ ॥
विरूपाख्यं महापद्मं भद्रं सुमनसं तथा ।
ते तान्प्रदक्षिणीकृत्य गजान्कैलाससंनिभान् ॥ २४०॥
पाताले ददृशुर्देवं कपिलं वैष्णवं महः ।
कर्तारं घोरतपसां प्रवरं सर्वतेजसाम् ॥ २४१ ॥
ते तमश्वहरं ज्ञात्वा संरम्भात्समभिद्रुताः ।
तद्दृष्टिनष्टाः प्रययुर्भस्मकूटावशेषताम् ॥ २४२ ॥
सगरेण विसृष्टोऽथ पौत्रः साधुरयांशुमान् ।
प्रविश्य पातालतलं दिग्द्विपेन्द्रगिरा वशी ॥ २४३ ॥
ज्वलत्कपिलकोपेन निर्दग्धान्सगरात्मजान् ।
तन्मातुलस्य च गिरा ज्ञात्वा तार्क्ष्यस्य दुःखितः ॥ २४४ ॥
पापापनुत्तये तेषां ज्ञात्वा मन्दाकिनीपयः ।
चरन्तं हयमासाद्य गत्वा पित्रे न्यवेदयत् ॥ २४५ ॥
समाप्ते विधिवद्यज्ञे सगरो भूभृतां वरः।
त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं ययौ ॥ २४६ ॥
ततोंऽशुमानभूद्राजा सुचिरं तेजसां निधिः ।
राज्यं दत्त्वा दिलीपाय पुत्राय गुणशालिने ॥ २४७ ॥
द्वात्रिंशत्स सहस्राणि वर्षाणां तुहिनाचले ।
तपः कृत्वा ययौ दिव्यं धाम धुर्यो महीभृताम् ॥ २४८ ॥
दिलीपोऽब्दसहस्राणां राज्यं कृत्वापि विंशतिम् ।
भगीरथाय पुत्राय श्रियं दत्वा दिवं ययौ ॥ २४९ ॥
श्रुत्वा सगरपुत्राणां पूर्ववृत्तं भगीरथः ।
ऊर्ध्वबाहुस्तपश्चक्रे गोकर्णे स्थाणुनिश्चलः ॥ २५० ।
ततो वर्षशतस्यान्ते तमभ्येत्य प्रजापतिः ।
वरं गृहाणेत्यवदत्तच्छ्रुत्वा स नृपोऽभ्यधात् ॥ २५१ ॥
अवतीर्णेन भगवन्गाङ्गेन नमसोऽम्भसा ।
आप्लावयितुमिच्छामि भस्मीभूतान्पितामहान् ॥ २५२ ॥
सदा निरवसादं च कुलमिक्ष्वाकुभूभृताम् ।
उक्ते भगीरथेनेति तमूचे चतुराननः ॥ २५३ ॥
राजन्गङ्गावतारोऽस्तु कुलं वोऽस्तु सदोदितम् ।
धर्तु सुरापगावेगं किं तु शर्वः प्रसाद्यताम् ॥ २५४ ॥
दिवः सा वेगनिर्घातनिपातक्षुभितं क्षणात् ।
दारयत्येव गङ्गायाः पातालं सप्तमं पयः ॥ २५५ ॥
सहेत कस्तदन्यत्र देवदेवान्महेश्वरात् ।
इत्युक्त्वा पद्मभूर्गङ्गामादिदेश तदीप्सिताम् ॥ २१६ ॥
अथ राजा निराहारनिरुद्धप्राणधारणः ।
वर्ष तपश्चचारैकचरणाङ्गुष्ठनिष्ठितः ॥ २५७ ॥
ततस्तुष्टस्तमभ्येत्य भगवान्भूतभृद्भवः ।
त्वद्वाञ्छितं करोमीति बभाषे शशिशेखरः ॥ २५८ ॥
अधिरुह्याथ शिखरं स तुषारमहीभृतः ।
विप्रकीर्णजटाजूटं जीमूतपटलोपमम् ॥ २५९ ॥
देवदेवश्च प्रोवाच देवस्त्रिदशवाहिनीम् ।
दन्तांशुभिस्तत्प्रवाहः सूत्रपातमिवाचरन् ॥ २६० ॥
ततस्तरङ्गसंघातसंघट्टविकटा सरित् ।
पपात मूर्ध्नि देवस्य स्फीतफेनाट्टहासिनी ॥ २६१॥
सा बभ्राम जटाजूटे चिरं देवस्य धूर्जटेः ।
गम्भीरग्रन्थविज्ञाने मुग्धस्येवाल्पिका मतिः ॥ २६२ ॥
अप्राप्तमार्गा सा तत्र ग्राम्येव नगराङ्गना ।
न ससादार्थमत्यन्तभ्रान्तिश्रान्तेव मूर्छिता ॥ २६३ ॥
ततः संवत्सरे पूर्णे तपसा प्रार्थितो भवः ।
भगीरथेन तत्याज जटां निष्पीड्य जाह्नवीम् ॥ २६४ ॥
सा शंकरशिरःशृङ्गविभ्रष्टा जगतीं ययौ ।
वन्द्यमाना जगद्वन्द्यैः सिद्धैः संविदितात्मभिः ॥ २६५ ॥
स्फुटस्फटिकशैलाभैरदभ्रशुभ्रपातिभिः ।
बभौ क्ष्मां क्षालयन्ती सा निर्घोषोद्वेलितैर्जलैः ॥ २६६ ॥
चलत्कुटिलकल्लोलविलाससलिलेन सा ।
चक्रे बालानिलालोलदुकूलकलनां भुवम् ॥ २६७ ॥
परमेष्ठिमुखैर्देवैरनुयाता महर्षिभिः ।
व्यधाद्वीचिचयैः स्वर्गसोपानपदवीं नृणाम् ॥ २६८ ॥
तस्या विग्रहवान्हर्ष इव राजा भगीरथः ।
पुरो ययौ मुनिगणैः सह पूर्णमनोरथः ॥ २६९ ॥
स पातालतलं नीत्वा गङ्गां सगरजन्मनाम् ।
तत्पुण्यसलिलस्पृष्टभस्मनां स्वर्गतिं व्यधात् ॥ २७० ॥
स्वर्गगान्ब्रह्मणो ज्ञात्वा सकलान्सगरात्मजान् ।
क्रियां तत्सलिलैस्तेभ्यः कृत्वान्तर्निवृतो नृपः ॥ २७१ ॥
सागराश्च बभूवुस्ते खाताः सगरसूनुभिः ।
एवं त्रिपथगा प्राप भुवं भागीरथी नदी ॥ २७२ ॥
इति गङ्गावतरणम् ॥ ७ ॥
ततः प्रभाते शनकैर्व्रजन्तस्ते सकौतुकाः ।
विशालां नगरीं प्रापुर्गङ्गापुलिनमेखलाम् ॥ २७३ ॥
पुरीं दृष्ट्वा विशालाख्यां कान्तां सुमतिभूपतेः ।
पप्रच्छ तत्कथां रामः कौशिकं सोऽप्यभाषत ॥ २७४ ॥
पुरा कृतयुगे पुत्रा दितेर्दैत्या महाबलाः ।
अदितेश्च सुराः सर्वे ममन्थुः क्षीरसागरम् ॥ २७५ ॥
दण्डं मन्दारमादाय दीर्घनेत्रं च वासुकिम् ।
क्षिप्त्वा सर्वौषधीस्तस्मिन्नाकान्ते तैः सुधार्थिभिः ॥ २७६ ॥
पष्टिकोट्यो मृगाक्षीणां दिव्यानामुदितो गणः ।
सरसास्वप्सु जातत्वात्ताः स्वर्गेऽप्सरसः श्रुताः ॥ २७७ ॥
ताः साधारणतां प्रापुरगृहीताः सुरासुरैः ।
ततः समुदभूद्दिव्या कन्यका वारुणी सुरा ॥ २७८ ॥
तत्त्यागादसुरा दैत्या देवास्तसंगमात्सुराः ।
उच्चैःश्रवाः कौस्तुभश्च पीयूषं चोदितं ततः ॥ २७९ ॥
अथो धन्वन्तरिर्जातः सुधापूर्णकमण्डलुः ।
सर्वौषधिगणैः कान्तैः सिद्धिदो भिषजां वरः ॥ २८० ॥
ततोऽभूदुत्कटाटोपः कलाकूटः समुत्प्लवः ।
अतीवायासितस्येव कोपस्तीक्ष्णो महोदधेः ॥ २८१ ॥
अमृतार्थे बभूवोग्रः संग्रामस्त्रिदिवौकसाम् ।
दैत्यानां च चिरं सर्वलोकक्षयपरिश्रमः ॥ २८२ ॥
शतक्रतुस्ततः प्राप्य निहताशेषदानवः ।
सुधां राज्ये स्थितः प्राप विजयव्यञ्जनं यशः ॥ २८३ ॥
हतपुत्रा दितिर्दुःखाद्भर्तारं कश्यपं सती ।
शक्रहन्तारमिच्छामि पुत्रमित्यब्रवीत्क्रुधा ॥ २८४ ॥
तामुवाच कृपाविष्टः कश्यपः शास्त्रलोचनाम् ।
तनयं शक्रहन्तारं वलज्येष्ठं त्वमाप्स्यसि ॥ २८५ ॥
अत्यन्तशुचियुक्ता चेद्गर्भे वार्षसहस्रके।
इति तच्छासनं प्राप्य गर्भ च प्रयता दितिः ॥ २८६ ॥
तपश्चचार सुचिरं वीरासुरजिगीषया ।
छलप्रेक्षी बभूवास्याः परिचर्यापरः सदा ॥ २८७॥
समित्कुशाग्निकुसुमाहारी तत्र शतक्रतुः ।
ततो वर्षसहस्रान्ते कृत्वा पादपदे शिरः ॥ २८८ ॥
निद्रां विमोहिता भेजे दितिः पुण्यैर्मरुत्पतेः
गर्भे प्रविश्य शक्रोऽपि चक्रे वज्रेण सप्तधा ॥ २८९ ॥
प्रबुद्धां रोदनेनास्य दितिं ज्ञात्वा सुराधिपः ।
मा रोदीरिति तं गर्भ वदन्पुनरदारयत् ॥ २९० ॥
ततः प्रभृति शक्रोऽभूद्विश्रुतः पाकशासनः ।
स निर्गत्य दितिं दीनां प्रसाद्य मुदितोऽभवत् ॥ २९१ ॥
तं सप्तधाकृतं वालं वातस्कन्धेषु सप्तसु ।
विदधेऽधिपतिं शक्रो दितेः प्रणयशासनात् ॥ २९२ ॥
मा रोदीरिति शक्रोक्त्या मरुतस्ते महौजसः ।
बभूव त्रितयो येषां विद्युद्वायुरिति श्रुतः ॥ २९३ ॥
विशालस्तत्सुतो राजा यस्येयं विपुला पुरी।
इहाद्य सुमतिर्नाम विशालकुलजो नृपः ॥ २९४ ॥
इति मरुदुत्पत्तिः ॥ ८॥
इत्युक्तं मुनिना श्रुत्वा व्रजन्रामः सलक्ष्मणः ।
संपूजितः सुमतिना ददर्श विपुलं वनम् ॥ २९५ ॥
पुराणैरङ्कितं दृष्ट्वा तत्तपोवनलक्षणैः ।
विश्वामित्रं स पप्रच्छ मुनिं विस्मितमानसः ॥ २९६ ॥
शून्योऽपि रुचिरः कोऽयं दरिद्रो गुणवानिव ।
देशस्तपोवनप्रायस्तपस्विजनवर्जितः ॥ २९७ ॥
राघवेनेति विनयात्पृष्टः प्रोवाच कौशिकः ।
अत्राभवत्पुरा राम गौतमस्याश्रमो मुनेः ॥ २९८ ॥
अहल्या नाम तस्यासीत्तपःश्रीरिव रूपिणी ।
भार्या नवाभिलाषस्य पदं सुरपतेरपि ॥ २९९ ॥
तां भर्त्रा रहितां दृष्ट्वा कदाचित्पाकशासनः ।
रतियाच्ञाप्रणयितो ययौ गौतमरूपभृत् ॥ ३०० ॥
शक्रोऽयमित्यविज्ञाय तमहल्या कुतूहलात् ।
चक्रे संपूर्णसंकल्पं तं सौभाग्यवशीकृतम् ॥ ३०१ ॥
शीलांशुकापहरणप्रगल्भानिलविभ्रमम् ।
अभिलाषलताबीजं ललनानां कुतूहलम् ॥ ३०२ ॥
गौतमोऽथ समभ्येत्य शक्रं स्वसदृशं पुनः ।
ददर्श तूर्ण गच्छन्तं लज्जाविलुलितैः पदैः ॥ ३०३ ॥
लज्जालतापरशुतां यशःशीतांशुमेघताम् ।
मोहश्यामातिमिरतां(१) यातः कस्य न मन्मथः ॥ ३०४ ॥
ततः शक्रस्य सहसा मुनिशापाभिभाषणात् ।
पेततुर्दुनयावस्थासुहृदौ वृषणौ भुवि ॥ ३०५ ॥
गौतमोऽथ समभ्येत्य शीलरत्नविनाकृताम् ।
अहल्यामशपत्कोपाद्भुजङ्गीभावदूषिताम् ॥ ३०६ ॥
चिरमस्मिन्निरालम्बा कानने भस्मशायिनी ।
अदृश्या प्राप्स्यसि शुचं रामसंदर्शनावधि ॥ ३०७ ॥
इत्युक्त्वा गौतमः प्रायादपरं तपसे वनम् ।
सुरेन्द्रो मेषवृषणो मेषादाकृष्य चाभवत् ॥ ३०८ ॥
शापात्संतारयैनां त्वमहल्यां रघुनन्दन ।
चिरगूढपरिक्लेशविनाशः सत्समागमः ॥ ३०९ ॥
कौशिकेनेति कथिते रामोऽभ्येत्य सलक्ष्मणः ।
ददर्श सर्वभूतानामदृश्यां गौतमाङ्गनाम् ॥ ३१० ॥
नीहारजालसंछन्नां कलामिव निशापतेः।
विद्यामिव निरीभासामपि नान्तरविस्मिताम् ॥ ३११ ॥
सा दृष्ट्वा राघवौ प्रीता प्रणामानतशेखरौ ।
लेभे चिन्तानलच्छेदसुचिरोच्छ्वासनिर्वृतिम् ॥ ३१२ ॥
तावभ्यर्च्य गताशङ्का त्यक्तशापा मुनेर्वधूः ।
बभौ कुसुमवर्षेण च्छाद्यमाना सुरैर्दिवि ॥ ३१३ ॥
इत्यहल्याशापमुक्तिः ॥९॥
ततो जनकराजस्य मिथिलां पृथुलश्रियम् ।
ते प्रविश्य मखक्षेत्रं ददृशुर्मुनिसेवितम् ॥ ३१४ ॥
मुनीनां दीप्ततपसां राज्ञां च भुजशालिनाम् ।
ब्रह्मक्षेत्रमयी काचित्तत्र लक्ष्मीरदृश्यत ॥ ३१५ ॥
फुल्लद्मपलाशाक्षौ धन्विनौ रघुनन्दनौ ।
जनः किरीटिनौ वीक्ष्य ययौ विस्मयवश्यताम् ॥ ३१६ ॥
विलोक्य जनसंबाधं मखस्य महतीं श्रियम् ।
एकान्ते कौशिकमुनिः स्थितिं चक्रे स राघवः ॥ ३१७ ॥
विश्वामित्रं स्वयं प्राप्तं ज्ञात्वा जनकभूपतिः ।
प्रत्युद्ययौ पुरस्कृत्य शतानन्दं पुरोहितम् ॥ ३१८ ॥
स पूजयित्वा विधिवन्मुनि मान्यं मनीषिणाम् ।
धन्यताभरणां प्रीतिमवाप बहुमानतः ॥ ३१९ ॥
अनामयं मुनिः पृष्टा तमूचे विनयानतम् ।
अहो विराजसे राजन्सदाचारविभूषणः ॥ ३२० ॥
यज्ञदानोपकाराणां संपत्सूते यशस्तव ।
पुण्यं त्रिभुवनस्यापि शुभ्रं गाङ्गमिवोदकम् ॥ ३२१ ॥
अच्छिन्नदानाभरणः सदा धर्मफलोदयः ।
महात्मनां भवन्त्येव पुण्याः पुण्यविभूतयः ॥ ३२२ ॥
अहो बत विदग्धेन भवता समुपार्जितम् ।
कान्ताकटाक्षचटुलैरक्षयं विभवैर्यशः ॥ ३२३ ॥
इति ब्रुवाणं जनकः कौशिकं तमभाषत ।
दन्तांशुभिर्मुखासक्तं सत्यं संदर्शयन्निव ॥ ३२४ ॥
भगवन्यज्ञसंभारो विभवाडम्बरः परम् ।
सर्वयज्ञफलप्राप्तिः पवित्रं तव दर्शनम् ॥ ३२५ ॥
मनोरथावतीर्णोऽपि धन्यतामादधाति यः।
स साधुसंगमः कस्य न प्रियः कुशलोदयः ॥ ३२६ ॥
कस्येमौ धीरगम्भीरव्यञ्जनोजितमानसौ ।
विक्रान्तलक्षणाकारौ सुकुमारौ कुमारकौ ॥ ३२७ ॥
किमप्युत्सित्ततामेति दर्शनेनानयोर्मनः ।
ययोविजयवृत्तान्तं शंसतीव भुजद्वयम् ॥ ३२८ ॥
सादरं जनकेनेति पृष्टः प्रोवाच कौशिकः ।
राज्ञो दशरथस्यैतौ सुतौ सुकृतशालिनः ॥ ३२९ ॥
शिशू लोकपरित्राणपवित्रचरिताकृती ।
गुणानां धाम रामोऽयं लक्ष्मणश्चास्य चानुजः ॥ ३३० ॥
अस्य मन्मखरक्षायै राक्षसक्षयकारिणः ।
वाता पुष्पोज्ज्वला कीर्तिर्लोककर्णावतंसताम् ॥ ३३१ ॥
महावंशभवं वीरं त्वामिवैष गुणोचितम् ।
आयातस्त्वत्क्रतौ द्रष्टुं धनुर्धीरं पिनाकिनः ॥ ३३२ ॥
इत्युक्तं मुनिना श्रुत्वा जगाद जनकः पुनः ।
धन्योऽहं यस्य मे रामः सभायातः स्वयं गृहम् ॥ ३३३ ॥
पूज्यः समस्तया लक्ष्म्या ममायं रघुनन्दनः ।
अब्धेरिव गृहायातः प्रणयात्पुरुषोत्तमः ॥ ३३४ ॥
इत्युक्ते मिथिलानाथः पूजयन्राघवौ मुदा ।
समागमं मुनीन्द्रेण प्रशशंस पुनः पुनः ॥ ३३५ ॥
विश्वामित्रगिरा ज्ञात्वा शापाद्रामेण मोक्षिताम् ।
अहल्यां जननीं प्रीतः शतानन्दोऽवदन्मुनिः ॥ ३३६ ॥
धन्यो दशरथः श्रीमान्राजा पूर्णमनोरथः ।
यस्य त्वं तनयो राम पुण्यकल्पतरोः फलम् ॥ ३३७ ॥
विश्वामित्रमखत्राणपवित्रेण महीयसा ।
यशसा तव शुभ्रेण भान्ति स्तवकिता दिशः ॥ ३३८ ॥
त्रैलोक्यविजयोदारा कियती तस्य शक्रता ।
श्रेयःस्ववहितः साक्षाद्भगवान्यस्य कौशिकः ॥ ३३९ ॥
कुशसूनोः कुशाख्यस्य पौत्रोऽयं गाधिनन्दनः ।
विश्वामित्रः शशासोर्वौ पुरा सप्ताब्धिमेखलाम् ॥ ३४० ॥
स कदाचिदयं श्रीमान्सैन्येन महता वृतः ।
विचरन्काननान्तेषु वशिष्ठाश्रममाययौ ॥ ३४१ ॥
पूज्येन पूजितस्तेन प्रणयाच्च निमन्त्रितः ।
कृच्छ्रादिव तथेत्यूचे कौशिकः प्रीतियन्त्रितः ॥ ३४२ ॥
विशिष्ठोऽपि समभ्येत्य कामधेनुमभाषत ।
ससैन्योऽद्य मया राजा विश्वामित्रो निमन्त्रितः ॥ ३४३ ॥
तस्मै प्रयच्छ विविधां भोज्यरत्नांशुकश्रियम् ।
इत्युक्ता बहुला तेन ददौ सर्व तदर्थितम् ॥ ३४४ ॥
अथ राजोचितैर्भोगैस्तृप्तः सबलवाहनः ।
रत्नैश्च विविधैः प्रीतः क्ष्मापतिर्विसयं ययौ ॥ ३४५ ॥
स ज्ञात्वा शबलां धेनुं कारणं सर्वसंपदाम् ।
उवाच प्रीतिमासाद्य वशिष्ठं तपसां निधिम् ॥ ३४६ ॥
कामधेनुः परं रत्नं रत्नानां भाजनं नृपः ।
गवां शतसहस्रेण तस्मादेतां प्रयच्छ मे ॥ ३४७ ॥
तमुवाच वशिष्ठोऽपि नाहं कोटिशतैर्गवाम् ।
राशिभिर्वा सुवर्णस्य दास्यामि शबलां क्वचित् ॥ ३४८ ॥
संत्यक्तुं नोत्सहे पुण्यां तपःसिद्धिमिवोत्तमाम् ।
हव्यकव्याग्निहोत्राणां प्राणानां च समाश्रयम् ॥ ३४९ ॥
मत्वैतत्कौशिकोऽवादीद्वजानां हेमशालिनाम् ।
हयानां चेन्दुशुभ्राणां चायुतैः कोटिभिर्गवाम् ॥ ३९० ॥
देहि मे शबलां ब्रह्मन्निर्बन्धोऽनुशयप्रदः ।
इत्युक्तो भूमिपालेन वशिष्ठः पुनरभ्यधात् ॥ ३५१ ॥
राजञ्जीवितसर्वस्वं शबलां न ददामि ते ।
सैव मे परमं रत्नं सैव यज्ञक्रियाफलम् ॥ ३५२ ॥
इति ब्रुवाणो न यदा कामधेनुं ददौ मुनिः ।
तदा जहार बलवान्बलात्कुशिकनन्दनः ॥ ३५३ ॥
ह्रियमाणा वने धेनुर्भूपालेन बलीयसा ।
दुःखिता साश्रुनयना शरणं मुनिमाययौ ॥ ३५४ ॥
सावदद्भगवन्कस्सादकस्मादनपायिनी।
निर्दोषाहं त्वया त्यक्ता हव्यकव्योपयोगिनी ॥ ३५५ ॥
एतच्छ्रुत्वा मुनिवरस्तामुवाच कृपानिधिः ।
न मया त्यज्यसे देवि ह्रियसे प्रसभं मम ॥ ३५६ ॥
बलवान्कौशिको राजा दुर्बला ब्राह्मणा वयम् ।
पश्यामि वाहिनीं शस्त्रवीचीवलयसंकुलाम् ॥ ३५७ ॥
दुःखादिति ब्रुवाणं तं शवला प्रत्यभाषत ।
क्षात्रं बलं नातिबलं ब्रह्मतेजो महद्बलम् ॥ ३५८ ॥
शौर्याधिकः क्षत्रियोऽयं तपस्तेजश्च तेऽधिकम् ।
त्वदनुप्राणितबलं पश्य मामधुना विभो ॥ ३५९ ॥
इत्युक्त्वा ससृजे वीरान्हुंकारेणैव पल्हवान् ।
तान्युद्धे क्षपितान्दृष्ट्वा विश्वामित्रस्य सैनिकैः ॥ ३६० ॥
योनिजान्यवनान्म्लेच्छाञ्छकृतश्चासृजच्छकान् ।
काम्बोजान्दरदाञ्छूरान्बाह्लिकान्सकिरातकान् ॥ ३६१ ॥
तुरुष्कान्सासृजद्वीरान्धोरान्हेमाचलत्विषः ।
ज्वलितानिव दिव्यास्त्रैर्विश्वामित्राभिमन्त्रितैः ॥ ३६२ ॥
(तिलकम्)
तैर्म्लेच्छैर्विकृताकारैः प्रदीप्तविविधायुधैः ।
क्षणेनाभूत्क्षतिपतिर्निहताशेषसैनिकः ॥ ३६३ ॥
ततः शतं नरपतेः पुत्राणां भुजशालिनाम् ।
अभ्याद्रवत्सुसंरब्धं वशिष्ठं तेजसां निधिम् ॥ ३६४ ॥
तानाकृष्टमहाचापखड्गानापतिताञ्जवात् ।
दृष्ट्वा वशिष्ठो विदधे हुंकारेणैव भस्मसात् ॥ ३६५ ॥
हतपुत्रो हतामात्यः सैन्यहीनो महीपतिः ।
सोऽभून्निरुद्धकच्छायो दावदग्ध इवाचलः ॥ ३६६ ॥
प्राज्यं राज्यं परित्यज्य स गत्वा हिमवत्तटम् ।
मौनी तपश्चचारोग्रं पादाङ्गुष्ठधृतिश्विरम् ॥ ३६७ ॥
तस्य वातभुजः काले स्वयमेत्य चतुर्मुखः ।
अर्थितः प्रददौ दिव्यमस्त्रग्रामं वरप्रदः ॥ ३६८ ॥
दिव्यास्त्रबलसंपूर्णः स गत्वा पुनराश्रमम् ।
वशिष्ठस्याकरोत्सर्वत्रस्तशिष्यजनोज्झितम् ॥ ३६९ ॥
ब्रह्मदण्डमथादाय कालदण्डमिवोत्कटम् ।
ददाह दिव्यान्यस्त्राणि वशिष्ठस्तस्य संगरे ॥ ३७० ॥
ततः प्रक्षीणसर्वास्त्रो ब्राह्ममस्त्रमथासृजत् ।
तदपि ब्रह्मदण्डेन ब्रह्मर्षिरफलं व्यधात् ॥ ३७१ ॥
तस्य ब्रह्मास्त्रसंहारकारिणो भैरवं वपुः ।
न सेहिरे सुरा द्रष्टुं रोमकूपोद्गतानलम् ॥ ३७२ ॥
भग्नदर्पस्ततो राजा विश्वामित्रोऽतिदुःखितः ।
धिक्क्षान्त्रं बलमित्युक्त्वा प्रययौ तपसे पुनः ॥ ३७३ ॥
स भार्यासहितश्चके दक्षिणां दिशमाश्रितः ।
तपस्तीव्रं ययुर्येन विस्मयं परमर्षयः ॥ ३७४ ॥
हविष्यन्दो महिष्यन्दो दृढनेत्री महोदयः ।
पुत्रास्तपोवने यस्य जाताः पावकवर्चसः ॥ ३७५ ॥
पूर्वजा हतशेषाश्च तस्याष्टौ बलवत्तराः ।
बभूवुर्भुवि विख्यातास्तनया राज्यभागिनः ॥ ३७६ ॥
पूणे वर्षसहस्रेऽथ तपःसंतापितामरम् ।
ब्राह्मण्यकामं राजर्षि तं ब्रह्मा स्वयमाययौ ॥ ३७७ ॥
सोऽवदत्तपसा लोकास्त्वया राजर्षिसंमताः ।
जिताः संयमिना लब्धं सुकृतं जन्मनः फलम् ॥ ३७८ ॥
इत्युक्त्वान्तर्हिते क्षिप्रं पद्मयोनौ मुनिः शुचा ।
प्रदध्यौ मन्युसंतप्तः श्वसन्नाग इवाहतः ॥ ३७९ ॥
अहो नु नाप्तं ब्राह्मण्यं यत्नेनापि महीयसा ।
तपो निष्फलतां यातं खलानामिव संगतम् ॥ ३८० ॥
इत्युक्त्वा पुनरेवोग्रं स चकार महत्तपः ।
निजधैर्यदृढश्चित्ते निश्चयो हि महात्मनाम् ॥ ३८१ ॥
असिन्नवसरे सत्यसुधाधौताननद्युतिः ।
त्रिशङ्कुर्भूमिपालोऽभूदिक्ष्वाकुकुलभूषणम् ॥ ३८२ ॥
सशरीरो दिवं गन्तुं यियक्षुः स्वपुरोहितम् ।
वशिष्ठमाहूय परं यत्नवानभवत्क्रतौ ॥ ३८३ ॥
प्रत्याख्यातो वशिष्ठेन तस्याशक्यतया क्रतोः ।
वशिष्ठपुत्रानभ्येत्य चक्रे यज्ञे कृतार्थताम् ॥ ३८४ ॥
कृताञ्जलिरुवाचेदं विपदां विनिवृत्तये ।
गुरुणा चरणानम्रः संत्यक्तोऽहमकल्मषः ॥ ३८९ ॥
गुरुणा प्रतिषिद्धोऽहं युष्माञ्छरणमागतः ।
भवद्भिर्यष्टुमिच्छामि गन्तुं विग्रहवान्दिवम्] ॥ ३८६ ॥
[उदेति मृत्युः पीयूषाकिमन्यद्विधुरे विधौ ।
सुहृदः शत्रुतां यान्ति संश्रितश्चाविधेयताम् ॥ ३८७ ॥
आराधिताश्च कुप्यन्ति दैवोद्धूलितसंपदाम् ।
शरण्यं शरणं यातस्त्वामहं वाञ्छिताप्तये ॥ ३८८ ॥
पापं मार्ष्टि शुभं सूते सत्यं साधुसमागमः ।
गुरुणा प्रतिषिद्धोऽहं युष्माञ्छरणमागतः ॥ ३८९ ॥
भवद्भिर्यष्टुमिच्छामि गन्तुं विग्रहवान्दिवम् ।
युष्माभिरपि संत्यक्तो गमिष्यामि परं गुरुम् ॥ ३९० ॥
शतं वशिष्ठपुत्राणां श्रुत्वेति नृपमब्रवीत् ।
अशक्यत्वात्परित्यक्तो गुरुणा सत्यवादिना ।
परान्व्रजसि दुर्वृत्त चण्डालो भव सत्वरम् ॥ ३९१ ॥
वशिष्ठपुत्ररित्युक्तो गत्वा निजपुरीं नृपः ।
अतिबाह्य निशामेकां प्रातश्चण्डालतां ययौ ॥ ३९२ ॥
अघो नीलाम्बरो रक्तवासाः कल्मषभूषणः ।
खलैरिवासिकठिनैरायासैः परिवेष्टितः ॥ ३९३ ॥
तं विलोक्य श्रिया त्यक्तं घोरं निजकुलच्युतम् ।
तत्यजुर्मन्त्रिणः सर्वे पौराश्च व्याकुलाशयम् ॥ ३९४ ॥
अहो नु न चलत्येषा पुरुषप्रतिपन्थिनी ।
अनित्यतेव भावानां भूतानां भवितव्यता ॥ ३९५ ॥
अनित्या कर्मरेखेव भूतानां परिवर्तिनी ।
अहो चटुलकल्लोलकुल्या कुटिलचारिणी ॥ ३९६ ॥
नॄणामुन्मूलयत्येषा पौरुषं कर्मसंगतिः ।
कुशलायोद्यतो राजा यातः प्रत्युत शोच्यताम् ॥ ३९७ ॥
केवलं शरणं प्रायाद्विश्वामित्रं तपोनिधिम् ।
निवेद्य सर्ववृत्तान्तं तस्मै कारुण्यशालिने ॥ ३९८ ॥
इत्युक्त्वा कौशिकोऽवादीत्करुणापूर्णमानसः ।
एषोऽहं तव साहाय्ये सज्जः क्रतुसमीहिते ॥ ३९९ ॥
अनेनैव शरीरेण सुरलोकं प्रयास्यसि ।
इत्युक्त्वा यज्ञसंभारे मुनिः शिष्यानचोदयत् ॥ ४०० ॥
सोऽभवद्याजकस्तस्य वन्द्यो निन्द्यतनोर्नृपः ।
आपन्नत्राणचतुरं चरितं हि महात्मनाम् ॥ ४०१ ॥
ततः सर्वं मुनिकुलं निमन्त्रयितुमादरात् ।
विसृष्टा प्रययुस्तेन सर्वे तूर्णं दिशो दश ॥ ४०२ ॥
अथ प्राप्ते मुनिगणे विश्वामित्रतपोबलात् ।
यथोक्तमवदञ्छिष्यास्तमेत्य महसां निधिम् ॥ ४०३ ॥
भगवन्मुनयः प्राप्ता वशिष्ठतनयान्विना ।
महोदयं च दर्पान्धं तदुक्तं श्रूयतां विभो ॥ ४०४ ॥
स याज्यो यत्र चण्डालः क्षत्रियो यत्र याजकः ।
ब्रह्मर्षयो वयं तत्र कथं यज्ञसभासदः ॥ ४०५ ॥
अहो नु ब्राह्मणाः सर्वे महाविप्लवकारिणा ।
कल्पान्तेनेव गिरयो विश्वामित्रेण पातिताः!! ४०६ ॥
शिष्यैरित्युक्तमाकर्ण्य कौशिकः कोपकम्पितः ।
वशिष्ठपुत्रानशपन्निःश्वसन्सुमहोदयान् ॥ ४०७ ॥
मृत्युदग्धाः श्वमांसादाः सप्तजन्मशतानि ते।
मुष्टिका नाम विकृताः प्रभविष्यन्ति निर्घृणाः ॥ ४०८ ॥
महोदयश्च दुर्वृत्तः प्रयास्यति निषादताम् ।
इत्युक्त्वा सत्यसंकल्पो विरराम महातपाः ॥ ४०९ ॥
तद्भयादभ्युपगते तस्मिन्यज्ञे महर्षिभिः ।
ऋत्विङ्मणिहितारम्भः पूर्णो विधिरवर्तत ॥ ४१० ॥
आहूता यज्ञभागाय नाजग्मुर्देवता यदा ।
कुपितः श्रुवमुद्यम्य तदा मुनिरभाषत ॥ ४११ ॥
राजन्मे पश्य तपसो बलमद्भुतकारिणः ।
सशरीरो दिवं गच्छ सहसा मम तेजसा ॥ ४१२ ॥
इत्युक्तमात्रे मुनिना दिवमाचक्रमे नृपः ।
प्रदीप्तमन्त्रतपसां किमसाध्यं महात्मनाम् ॥ ४१३ ॥
दृष्ट्वा त्रिदिवमारूढं त्रिशङ्कु त्रिदशेश्वरः ।
अधःशिराः पतेत्युक्त्वा हुंकारेणेत्यपातयत् ॥ ४१४ ॥
ततस्त्रि शङ्कुर्निपतंस्त्रायस्वेत्यभ्यधान्मुनिम् ।
अत्रैव तिष्ठ तिष्ठेति तमूचे कौशिकः क्रुधा ॥ ४१६ ॥
ततोऽसृजत्स सप्तान्यान्मुनीन्दक्षिणमार्गगान् ।
परां नक्षत्रमालां च प्रजापतिरिवापरः ॥ ४१६ ॥
तं स्रष्टुमुद्यतं देवा ज्ञात्वा त्रस्ता दिवौकसः ।
ऊचुः सानुशयं कृत्वा दैन्यव्यञ्जनमञ्जलिम् ॥ ४१७ ॥
गुरुशापादशुचितामयं यातो महीपतिः ।
सशरीरो दिवं गन्तुं मुने नार्हति सर्वथा ॥ ४१८ ॥
इति ब्रुवाणान्विबुधानब्रवीत्कौशिको मुनिः ।
त्रिशङ्कुस्वर्गगमने प्रतिज्ञा नान्यथा मम ॥ ४१९ ॥
तिष्ठत्वत्रैव भूपालो नक्षत्रैः सह सत्कृतैः ।
इत्युक्ता मुनिना देवास्तमूचुः शापशङ्किताः ॥ ४२० ॥
योगसंख्याविहीनानि वैश्वानरपथाद्बहिः ।
अक्षयान्यत्र तिष्ठन्तु नक्षत्राणि त्वदाज्ञया ॥ ४२१ ॥
अयं तवाज्ञया राजा तिष्ठत्वत्रैव सर्वथा ।
कीर्तिश्च तव शुभ्रेयं यशःस्तम्भ इवोज्ज्वला ॥ ४२२ ॥
उक्त्वेति याते द्युसदां मण्डले मुनिभिः सह ।
समाप्य कौशिको यज्ञं पुष्करं तपसे ययौ ॥ ४२३ ॥
अत्रान्तरे नृपः श्रीमानम्बरीषाभिधोऽभवत् ।
अयोध्यायां सुधासिन्धुरिव धर्मभृदाकरः ॥ ४२४ ॥
यजमानस्य तस्येन्द्रः पशुं भूमिशतक्रतोः ।
जहार तस्कृते पृथ्वीं विप्रवाक्याच्चचार सः ॥ ४२५ ॥
स तपोवनमासाद्य भृगुतुङ्गे स्थितं मुनिम् ।
ऋचीकं ससुतं भार्यासखं शान्तं व्यलोकयत् ॥ ४२६ ॥
तं प्रणम्य यथावृत्तं निवेद्यास्मै प्रसाद्य च ।
गवां शतसहस्रेण ययाचे तं पशुं सुतम् ॥ ४२७ ॥
ऋचीकस्तमथोवाच ज्येष्ठो नार्हति विक्रयम् ।
पुत्रो ममायं दयितः कुलमस्मिन्प्रतिष्ठितः ॥ ४२८ ॥
3
काव्यमाला इत्युक्त्या मुनिना प्रीत्या तद्भार्याप्यवदन्नृपम् । नृ कनीयांञ्छुनको नाम ममायं दयितः सुतः ॥ ४२९ ॥ नोत्सहेऽहमिमं त्यक्तुं दयितं जीवितादपि । ज्येष्ठः प्रायः प्रियः पुंसां कनीयांसश्च योषिताम् ॥ ४३० ॥ इति मातुर्वचः श्रुत्वा शुनःशेपो मुनेः सुतः । जगाद मध्यमो धीमान्भूमिपालं स्मिताननः ॥ ४३१ ॥ न विक्रेयः पितुर्ज्येष्ठः कनीयान्मातुरीप्सितः । अर्थादेवाद्य विक्रीतो मध्यमोऽहमबान्धवः ॥ ४३२ ॥ इत्युक्ते मुनिपुत्रेण तमेव पशुमीप्सितम् । गवां शतसहस्रेण निनाय वसुधाधिपः ॥ ४३३ ॥ अयोध्याभिमुखं गच्छन्सोऽवसत्पुष्करे निशाम् । तत्रादौ तु शुनःशेपो विश्वामित्रमभाषत ॥ ४३४ ॥ भगवंस्त्वामहं प्राप्तः शरणं तपसां निधिम् । ऋचेपुनाहं विक्रीतो मुनिना मध्यमः सुतः ॥ ४३५ ॥ अस्य राज्ञोऽम्बरीषस्य यातोऽस्मि पशुतां क्रतौ । रक्ष्यतामिति तेनोक्ते स्वसुतान्कौशिकोऽब्रवीत् ॥ ४३६ ॥ मद्गिरा भवतामेकः पशुतां यातु भूपतेः । रक्षणीयः शुनःशेपो मुनिः सर्वात्मना मम ॥ ४३७ ॥ विश्वामित्रवचः श्रुत्वा घोरं पुत्रास्तमूचिरे । परपुत्रस्य रक्षार्थ स्वपुत्रस्त्यज्यते कथम् ॥ ४३८ ॥ मनो विकूणकः कोऽयं धर्मो दुष्कृतसंमतः । श्वमांसाशनतुल्योऽयं स्वपुत्रनिधनोद्यमः ॥ ४३९ ॥ इति पुत्रवचः श्रुत्वा विश्वामित्रः क्रुधा ज्वलन् । श्वमांसवादिनः शापात्तान्निनाय श्वपाकताम् ॥ ४४० ॥ ततोऽब्रवीच्छुनःशेपं गच्छ राज्ञो महाक्रतौ । गाथाद्वयं पठित्वेदं मां स्मृत्वा शुभमाप्स्यति ॥ ४४१ ॥
१. ऋचीकनाम्ना’ भवेत.
इति शासनमासाद्य मुनेर्भूमिभुजा सह ।
प्रययौ तत्क्रतुक्षेत्रं निर्भयो मुनिपुत्रकः ॥ ४४२ ॥
सदस्यानुमतः सोऽथ पवित्रीकृतलक्षणः ।
पवित्रपाशैराविष्टो रक्ताम्बरविलेपनः ॥ ४४३ ॥
आसाद्य वैष्णवं रूपं मनसा कौशिकं स्मरन् ।
पठन्गाथाद्वयं प्राप यूपं विशमनास्पदाम् ॥ ४४४ ॥
ततः प्रीतः सहस्राक्षः फलं बहुगुणं क्रतोः ।
दत्त्वा राज्ञे शुनःशेपं ररक्ष विपुलाशयः ॥ ४४५ ॥
कौशिकोऽपि सहस्राब्दं पुष्करे दुष्करं तपः ।
कृत्वापश्यद्रतस्नातः स्वयं ब्रह्माणमागतम् ॥ ४४६ ॥
स देवैः सहितस्तस्य विना ब्राह्मण्यमुत्तमम् ।
दत्त्वा तपःफलं दिव्यं सहसान्तरधीयत ॥ ४४७ ॥
विश्वामित्रोऽपि तत्प्राप्त्यै पुनस्तीव्रतरं तपः ।
सुरशङ्कास्पदं मानी चकार दृढनिश्चयः ॥ ४४८ ॥
ततः कदाचिदभ्येत्य मेनका नाककामिनी ।
पुष्करे विदधे स्नानं कान्तिसंदेहितोदका ॥ ४४९ ॥
तां विलासस्मितसुधासेकपल्लविताधराम् ।
चलत्कटाक्षविक्षेपरचितश्रवणोत्पलाम् ॥ ४६० ॥
हेमकुम्भयुगेनेव स्तनभारेण भूषिताम् ।
विपुलश्रोणिविपुलां कान्तिकल्लोलिनीमिव ॥ ४५१ ॥
विलोक्य कौशिकमुनिर्ययौ प्रीतिविधेयताम् ।
महतामपि चित्ताब्धिमन्दरः सर्वथा स्मरः ॥ ४५२ ॥
(तिलकम्)
स तस्या निर्भरासङ्गप्रणये प्रेमयन्त्रितः ।
दशवर्षायुतं कालं क्षणं मेने स्मराकुलः ॥ ४९३ ॥
ततोऽनुशयगासाद्य तपोविघ्नमवद्यताम् ।
शरदीव नदीवेगो ह्रियाभूदल्पको मुनिः ॥ ४५४ ॥
प्रक्षाल्य मनसो रागं विवेकविमलोऽभवत् ।
विसृज्य मेनकां चक्रे स चिरं विपुलं तपः ॥ ४५५ ॥
उत्तराद्रितटे तस्य कौशिकीतीरवासिनः ।
तपोयुक्तस्य वर्षाणां सहस्रं शनकैर्ययौ ॥ ४५६ ॥
ततो भीताः सुराः सर्वे समभ्येत्य प्रजापतिम् ।
लभतां कौशिको ब्रह्मशब्दमित्यूचिरे जवात् ॥ ४५७ ॥
देवैरभ्यर्थितो धाता समेत्योवाच कौशिकम् ।
मुने नाद्यापि निर्द्वन्द्वो भवानविजितेन्द्रियः ॥ ४९८ ॥
वशी प्राप्स्यसि कालेन ब्राह्मण्यं ब्रह्मसंमतम् ।
इत्युक्त्वान्तर्हिते क्षिप्रं विश्वयोनौ महामुनिः ॥ ४५९ ॥
ऊर्ध्वबाहुर्निरालम्बश्चक्रे वाताशनस्तपः ।
ग्रीष्मे पञ्चानलः शीते सलिलान्तरमाश्रितः ॥ ४६० ॥
तस्योग्रतपसो भीत्या संभ्रमोऽभूद्दिवौकसाम् ।
सुराङ्गनां ततः शक्रः प्राहिणोत्तज्जिगीषया ॥ ४६१ ॥
सा शापचकिता प्रायात्कौशिकस्य तपोवनम् ।
शक्रवाक्यानुगता मधुना मदनेन च ॥ ४६२ ॥
ततः फुल्ललताजालभ्रमद्भमरमण्डले ।
स्मरबन्दिनि सानन्दे कलालापिनि कोकिले ॥ ४६३ ॥
विलाससरसारम्भां रम्भां संभावितस्मराम् ।
ददर्श कौशिकः कान्तां नयनानन्दकौमुदीम् ॥ ४६४ ॥
(युगलकम्)
स तां दीर्घतपाः स्निग्धचक्षुषा क्षणमैक्षत ।
शोषितेऽपि शरीरेऽस्मिन्नभिलाषो न शुष्यति ॥ ४६५ ॥
तां ज्ञात्वा तपसो विघ्नं सहस्राक्षेण निर्मिताम् ।
स शशापाभवद्येन सा शिला वत्सरायुतम् ॥ ४६६ ॥
मन्मथे मधुना सार्धं याते भग्नमनोरथे ।
कामक्रोधविकारेण पश्चात्तापं ययौ मुनिः ॥ ४६७ ॥
विप्रप्रसादपर्यन्तं तस्याः शापं विधाय सः ।
निरुच्छ्वासोऽभवन्मौनी वर्षायुतमभोजनः ॥ ४६८ ॥
स्थाणुभूते निरालम्बे क्रोधमात्सर्यवर्जिते ।
विघ्नाः शक्रेरितास्तस्मिन्नावकाशं च लेभिरे ॥ ४६९ ॥
तस्य वर्षसहस्रान्ते श्रितान्नव्रतपारणः ।
विप्ररूपः स्वयं शक्रः सर्वमभ्येत्य भुक्तवान् ॥ ४७० ॥
परं वर्षसहस्रं स निरुच्छ्वासोऽभवत्पुनः ।
तत्तालुबिवरोत्थैश्च धूमैर्द्यौः समपूर्यत!! ४७१ ॥
समुद्भ्रान्ते ततो लोके सदेवासुरपन्नगे।
मन्दतेजसि तिग्मांशौ क्षुभिते चाब्धिमण्डले ॥ ४७२ ॥
विदीर्णे गिरिसंघाते कम्पमाने महीतले ।
सुरैरभ्यर्थितो ब्रह्मा स्वयं मुनिमुपाययौ ॥ ४७३ ॥
(युगलकम्)
स तस्मै क्षीणमोहाय ददौ ब्रह्मर्षितां विभुः ।
सोऽकरोत्स्ववशं सर्वान्वेदानमरतां तथा ॥ ४७४ ॥
ततः प्रजापतिं प्रीतं प्राञ्जलिः कौशिकोऽवदत् ।
ब्रह्मसूनुर्वशिष्ठो मां ब्राह्मणोऽसीति भाषताम् ॥ ४७५ ॥
ततः सुरैः समाहूतो वशिष्ठः समभ्येत्य तम् ।
ब्रह्मर्षये स्वस्ति तुभ्यमित्युवाचास्तकिल्विषः ॥ ४७६ ॥
अन्तर्हिते सुरैः सार्ध सहसैव पितामहे ।
सख्यं कृत्वा वशिष्ठेन कौशिकः सुखितोऽभवत् ॥ ४७७ ॥
इत्येवं विविधाश्चर्यचरितो भगवानयम् ।
धन्योऽसि बत काकुत्स्थ गोप्ता यस्य महामुनिः ॥ ४७८ ॥
इति विश्वामित्रोपाख्यानम् ॥ १० ॥
गौतमेनेति कथिते शतानन्देन सादरम् ।
जनकः कौशिकं प्रीत्या पुनः पुनरपूपुजत् ॥.४७१ ॥
ततो दिनान्ते जनकः प्रवृत्ते यज्ञकर्मणि ।
प्रययौ मुनिमामन्त्र्य तत्प्रभावं विचिन्तयन् ॥ ४८०॥
अथ प्रभाते भूपालः समेत्य प्रणतो मुनिम् ।
उवाच किं कृत्यमिति प्रणयावर्जिताञ्जलिः ॥ ४८१ ॥
विश्वामित्रस्तमवदद्दिव्यं तत्रिपुरद्विषः ।
धनुर्धैर्यनिधिर्वीरो राघवो द्रष्टुमर्हति ॥ ४८२ ॥
श्रुत्वैतत्कौशिकेनोक्तं जगाद जनकः पुनः ।
प्रभावमस्य धनुषो जानीषे भगवन्स्वयम् ॥ ४८३ ॥
निमेः षष्ठो देवरातो राजास्माकं पितामहः ।
हस्ते न्यस्तं पुरा तस्य निजं धूर्जटिना धनुः ॥ ४८४ ॥
दक्षयज्ञवधे देवान्विधूय प्राज्यतेजसा ।
अभ्यधाद्भगवान्भोगे लीलाव्यापृतकार्मुकः ॥ ४८५ ॥
यज्ञभागमकृत्वा मे ये यूयं यज्ञभागिनः ।
तेषां वः प्रवराङ्गानि शातयत्वेष पत्रिभिः ॥ ४८६ ॥
इति वादिनमीशानं प्रसाद्य त्रिदिवौकसः ।
शातितः स्वाङ्गतेजोभिः शक्रस्तस्मै महद्धनुः ॥ ४८७ ॥
तदेतत्तेजसां धाम गृहे नः परमार्चितम् ।
धनुरास्ते पुरारातेः परं मन्दरगौरवम् ॥ ४८८ ॥
हलाकृष्टमही जाता जननी कान्तिसंपदाम् ।
लक्ष्मीलावण्यतोयाब्धेः सीता नामास्ति में सुता ॥ ४८९ ॥
अधिज्यं धूर्जटिधनुः शौर्यस्य निकषोपमम् ।
यः करिष्यति स श्लाध्यां सीतां कीर्तिमिवाप्स्यति ॥ ४९० ॥
दर्पप्रचण्डदोर्दण्डाः सीतापरिणयोत्सुकाः ।
चण्डीशचापदण्डेन के नृपा न विडम्बिताः ॥ ४९१ ॥
असक्ता ग्रहणे तस्य का कथा धारणे पुनः ।
तोलने नष्टसंकल्पा लङ्घने जलधेरिव ॥ ४९२ ॥
ते संहता नृपतयस्तुलारोपितविक्रमाः।
चक्रुर्मे नगराबन्धं शङ्काकोपाकुलाशयाः ॥ ४९३ ॥
ततः संवत्सरे पूर्ण क्षीणसैन्याब्धिना मया ।
देवतानां वरात्माप्तं चतुरङ्गं महबलम् ॥ ४९४ ॥
तेन ते विदिताः सर्वे छिन्नच्छत्ररथध्वजाः ।
स्वपुराणि ययौ भूपा ध्वस्तमानमनोरथाः ॥ ४९५ ॥
तामिमां शौर्यशुल्का मे कन्यां कुवलयेक्षणाम् ।
रामः प्राप्स्यति शक्तश्चेत्कार्मुकारोपणे पणे ॥ ४९६ ॥
इत्युक्त्वा मन्त्रिणः सर्वानादिदेश महीपतिः ।
दयित खण्डपरशोधनुरानीयतामिति ॥ ४९७ ॥
अथाष्टचक्रशकटाकृष्टमञ्जूषिकाश्रितम् ।
शतैः पञ्चभिरानीतं नृणां धनुरदृश्यत ॥ ४९८ ॥
ततो जनकराजेन विनयेन निवेदितम् ।
विश्वामित्रो धनुर्दृष्ट्वा जगाद रघुनन्दनम् ॥ ४९९ ॥
इदं तत्रिषु लोकेषु विश्वतं राम कार्मुकम् ।
गृहाण क्रियतामस्य व्यापारः पुरुषोचितः ॥ ५००॥
इत्युक्ते मुनिना रामस्तत्प्रणम्यैश्वरं धनुः ।
जग्राह लीलया कुर्वन्विस्मयाकुलितं जगत् ॥ ५०१ ॥
स तस्य शुशुभे दिव्यकार्मुकप्रणयी भुजः ।
रक्ताङ्गदांशुवलयव्यालैः पशुपतेरिव ॥ ५०२ ॥
क्षणादधिज्यमादाय धनुरद्भुतविक्रमः ।
धन्विना सह दर्पण समाकृष्य बभञ्ज तत् ॥ ५०३ ॥
भज्यमानस्य धनुषो ध्वनिराचार्यतां ददौ ।
अकाण्डताण्डवारम्भे स्वर्गोद्यानशिखण्डिनाम् ॥ ५०४ ॥
गिरीणां सागराणां च व्याघट्टितनभस्तलः ।
स शब्दो घोरनिर्घोषैर्दिदेश विशरारुताम् ॥ ५०५ ॥
भुवनभ्रंशकृद्भीमश्चापभङ्गभवो ध्वनिः ।
स चक्रे शक्रकान्तानां कल्पान्तभ्रान्तिसाध्वसम् ॥ ५०६ ॥
भग्नकार्मुकभङ्गेन मन्दरारावकारिणा ।
चकम्पे लोलसप्ताब्धिमेखला वस्तुधावधूः ॥ ५०७ ॥
नॄणामाविरभूद्दाहः प्रलयारम्भसंभ्रमात् ।
ऋते विदेहाधिपतेः कौशिकाच्च सराघवात् ॥ ५०८ ॥
ततः स विस्मयोत्साहहर्षप्रणयनिर्भरः ।
उचाच वाञ्छितावाप्तिनिर्वृत्तः पार्थिवो मुनिम् ॥ ५०९ ॥
धन्या मे भगवन्पुत्री प्राप्तो रामः पतिर्यया ।
सप्तार्णवप्रणयिनी कीर्तिर्यस्य नवोदिता ॥ ५१० ॥
सदा विसदृशासङ्गकारिणो वाच्यता विधेः ।
चिरादेव निवृत्तोऽयं रामसीतासमागमः ॥ ५११ ॥
अयोध्यां यान्तु मे दूतास्तूर्णं दशरथं प्रति ।
समायात्वत्र सुकृती सूनोः परिणयोत्सवे ॥ ५१२ ॥
इत्युक्त्वा मिथिलानाथः संकल्पानिव शीघ्रगान् ।
नृपाय प्राहिणोद्दूतान्वाजिभिर्जवशालिभिः ॥ ५१३ ॥
तेऽपि तूर्णतरं गत्वा सभासीनं नरेश्वरम् ।
चक्रुर्विदितवृत्तान्तं हर्षपीयूषवर्षिणः ॥ ६१४ ॥
इति धनुर्भङ्गः ॥ ११ ॥
ततो दशरथः श्रीमानाययौ मुनिभिर्वृतः ।
वशिष्ठवामदेवाद्द्यैर्मार्कण्डेयपुरःसरैः ॥ ५१५ ॥
समुद्धूताब्धितुल्येन तस्य सैन्येन सर्पता ।
दिशः शस्त्रप्रभाजालवीचीवलयिता बभुः ॥ ५१६ ॥
मिथिलामथ संप्राप्तं तं राजा जनकः स्वयम् ।
प्रत्युद्ययौ पुरस्कृत्य श्लाघ्यसंबन्धिसंपदम् ॥ ५१७ ॥
रत्नैरभ्यर्चितस्तेन प्रवेश्येक्ष्वाकुनन्दनः ।
बभौ मुनिसभासीनश्चतुर्भिस्तनयैः सह ॥ ५१८॥
ततः प्रणम्य पूजार्हान्वशिष्ठप्रमुखान्मुनीन् ।
प्रशंसञ्जन्म जनको जगाद जगतीपतिम् ॥ ५१९ ॥
अहो बतावतंसत्वं प्राप्तः पुण्यवतामहम् ।
वशिष्ठो यस्य भगवान्भवांश्चाभ्यागतो गृहान् ॥ ५२० ॥
द्वावेव सुकृतोदारौ पितरौ पुत्रिणां वरौ ।
पुत्रेण राघवेन त्वं विष्णुना स च कश्यपः ॥ १२१ ॥
विभाति भूरियशसः कस्यान्यस्य यथा तव ।
भुवनत्रितयोद्गीतं पुत्रमानोन्नतं शिरः ॥ ५२२ ॥
गृहाण राघवाय त्वं शौर्यशुल्कां सुतां मम ।
गुरवो दूततां याताः संबन्धेऽस्मिन्मिथो गुणाः ॥ ५२३ ॥
जनकेनेत्यभिहितो हर्षाद्दशरथोऽवदत् ।
बहु मन्यामहे कन्यां त्वया प्रीतिमिवार्पिताम् ॥ ५२४ ॥
कुले सुविपुले जन्म विद्याविद्योतिता मतिः ।
महाजनैश्च संबन्धः फलं गुरुजनाशिषाम् ॥ १२५ ॥
गुणसौभाग्ययोग्योऽयं भाग्यानां प्रथमोदयः ।
रामस्य श्रेयसे सक्तो यदसौ कौशिको मुनिः ॥ ५२६ ॥
(यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः ।
तथा चतुर्भिः पुरुषः परीक्ष्यते कुलेन शीलेन गुणेन कर्मणा ॥९२७)
इत्युक्ते रघुनाथेन मुनयः प्रणयार्जिताः ।
प्रशशंसुः परिणयं कौशिकं च तपोनिधिम् ॥ ५२८ ॥
यथार्हं पूजितस्याथ जनकेन महीभुजः ।
आनन्देन्दुसुधासिक्ता सुखेन रजनी ययौ ॥ ५२९ ॥
पुनः सभामागतयोः प्रभाते भूपयोर्द्वयोः ।
बभूवानन्तसामन्तैः संघर्ष इव संपदाम् ॥ ५३० ॥
जनकेन विसृज्याथ शतानन्दं पुरोधसम् ।
निजोऽनुजः समभ्यायात्समाहूतः कुशध्वजः ॥ ५३१ ॥
मूकतां वन्दिवृन्देऽथ श्रिते वेत्रभृतां गिरा ।
वशिष्ठो वदतां श्रेष्ठः प्रस्तावोचितमभ्यधात् ॥ ५३२ ॥
राजन्प्रवर्ततां पुत्र्यास्तव वैवाहिको विधिः ।
शुद्धाभिजनयोः श्लाघ्यसंबन्धो युवयोरयम् ॥ ५३३ ॥
अव्यक्तप्रभवस्यासीन्मरीचिर्ब्रह्मणः सुतः ।
कश्यपस्तस्य तनयो विवस्वांस्तस्य चात्मनः ॥ ५३४ ॥
मनुर्विवखतः पुत्र इक्ष्वाकुर्मानवो नृपः ।
पुत्रो विकुक्षिरेक्ष्वाको बाणस्तस्याभवत्दसुतः ॥ ५३५ ॥
पुत्रोऽनरण्यस्तस्याभूत्पृथुस्तस्मादजायत ।
ततस्त्रिशङ्कुरभवद्भुन्धुमारस्तदात्मजः ॥ ५३६ ॥
युवनाश्वः सुतस्तस्य मांधाता तत्सुतो नृपः ।
सुसंधिस्तनयस्तस्य ध्रुवसंधिस्ततोऽभवत् ॥ ५३७ ॥
तत्सूनुर्भरतो राजा तस्याभूदसितः सुतः ।
गरेण सहजातश्च तत्पुत्रः सगरोऽभवत् ॥ ५३८ ॥
तस्यात्मजोऽसमञ्जश्च पुत्रस्तस्यांशुमानपि ।
दिलीपस्तस्य दायादस्तस्य पुत्रो भगीरथः ॥ ५३९ ॥
काकुत्स्थस्तस्य तनयो रघुस्तस्यात्मजो नृपः ।
कल्माषपादस्तत्सूनुः शङ्खनो नाम तत्सुतः ॥ ५४० ॥
सुदर्शनस्तस्य सूनू रक्तवर्णस्तदात्मजः ।
शीघ्रगस्तस्य पुत्रोऽथ निमिस्तस्याभवत्सुतः ॥ ५४१ ॥
तस्याम्बरीषस्तनयो नहुषस्तस्य चात्मजः ।
ययातिर्नाहुषो राजा नाभागश्च ययातिजः ॥ ५४२ ॥
अजस्तस्यात्मजो राजा पिता दशरथस्य यः ।
पुत्रा दशरथस्येमे रामपूर्वा मनस्विनः ॥ ५४३ ॥
सुतां देहि त्वमेतेभ्यो भ्रातुस्ते सन्ति कन्यकाः ।
वशिष्टेनेति कथिते जनकोऽप्यभ्यभाषत ॥ ५४४ ॥
इतीक्ष्वाकुवंशकथनम् ॥ १२ ॥
देवरातो निमेः षष्ठो जनकानामभून्नृपः ।
सुवर्णरोमा तस्याभूद्वंशे महति भूपतिः ॥ ५४५ ॥
राज्यभाक्तस्य पुत्रोऽहं चानुजो मे कुशध्वजः ।
पितरि स्वर्गमारूढे पालितः पुत्रवन्मया ॥ ९४६ ॥
कदाचिदथ रुन्धानो मिथिलां विपुलैर्बलैः ।
सांकाश्याधिपतिर्योद्धं सुधन्वा मामुपाययौ ॥ ५४७ ॥
स विसृज्य मदाध्मातो दूतं समरसंमुखः ।
कुलदैवतमस्माकं ययाचे शांभवं धनुः ॥ ५४८ ॥
स निर्गत्य महावीरः समरोन्माथिनां वरः ।
नीतोऽतिविग्रहरुचिर्यशोविग्रहशेषताम् ॥ १४९ ॥
तं निहत्य सुधन्वानं सांकाश्यं नाम तत्पुरम् ।
कुशध्वजाय दत्त्वाहं हतारिर्निर्वृतोऽभवम् ॥ ५५० ॥
सीतां ददामि रामाय लक्ष्मणाय तथोर्मिलाम् ।
कुशध्वजस्य जामाता भरतोऽप्यस्तु सानुजः ॥ ५५१ ॥
इत्युक्ते भूमिपालेन महादानपुरःसरः ।
महार्हमङ्गलोदारः प्रावर्तत महोत्सवः ॥ ५५२ ॥
गवां लक्षाणि साहस्रं ददौ भूपतिशेखरः ।
गवां लक्षाण्यविश्रान्तं दातुं दशरथे स्वयम् ॥ ५९३ ॥
प्रवृत्ते हेमशृङ्गाढ्या मेरुश्रीरिव भूरभूत् ।
अत्रान्तरे समभ्यायात्पुत्रः केकयभूपतेः ॥ ५९४ ॥
युधाजिद्भरतं द्रष्टु मातुलः प्रीतिलालसः ।
स तत्र पूजामासाद्य लेभे हर्षमहोत्सवम् ॥ ५५५ ॥
सुखोदग्रोत्सवव्यग्रान्धन्याः पश्यन्ति बान्धवान् ।
ततः समाययुः कन्याश्चतस्रश्चारुलोचनाः ॥ ५५६ ॥
मूर्ताः पुष्पशरस्येव कान्तिशक्तिरतिश्रियः ।
अथ जग्राह जानक्या रामो राजीवलोचनः ॥ ५५७ ॥
पाणौ हरिणशावाक्ष्याः पाणि पल्लनवकोमलम् ।
वह्निप्रदक्षिणावृत्ते तारहारांशुहासिनी ॥ ५५८ ॥
सा बभौ श्रीरिवालोलसुधाकल्लोलशालिता।
अधुना मधुना सार्ध विजयी जृम्भतां स्मरः ॥ ५६९ ॥
इतीव नूपुरयुगं जगादास्याः पदे पदे ।
साचीकृतदृशस्तस्याः पक्ष्मच्छायामयं धनुः ॥ ५६० ॥
नीलोत्पलावलीधाम रामः काम इवादधे ।
लज्जानतमुखाम्भोजा पुलकेनेव चर्चिता ॥ ५६१ ॥
कर्णोत्पलपरागेण सा बभौ शबलस्तनी ।
दूरे शशाङ्कशङ्कापि लज्जैव जलजोपमा!! ५६२ ॥
इति सीतामुखे रामः कलयन्निदधे दृशम् ।
लज्जालोलैः स्मरस्मारैर्गूढमानन्दमन्दिरैः ॥ १६३ ॥
लेभे शृङ्गारसाम्राज्यं रामः सीताविलोकितैः ।
सीतानुजां निर्मलेन्दुवदनामूर्मिलाभिधाम् ॥ ५६४ ॥
विधिना लक्ष्मणः प्राप सद्वृत्त इव संपदम् ।
कुशध्वजसुतां लेभे मालवीं भरतस्ततः ॥ ५६५ ॥
श्रुतिकीर्तिं च शत्रुघ्नः श्रुतां कीर्तिमिवापराम् ।
एवमेव महोत्साहोत्सवतूर्यसमन्विते ॥ ५६६ ॥
पुरः पुष्पसमाकीर्णे पूर्णे परिणयोदये।
गीतनृत्याकुलवधूवदनेन्दुशताचिता ।
रत्नदीपांशुविषदा रजनी दिनवद्ययौ ॥ ५६७ ॥
(इति सीताविवाहः समाप्तः ।)
ततः प्रभाते भगवान्विश्वामित्रः क्षितीश्वरौ ।
आमन्त्र्य तपसे प्रायात्स्फटिकाचलकन्दराम् ॥ ५६८ ॥
बहुरत्नमथासाद्य कन्याधनमनुत्तमम् ।
आमन्त्र्य जनकं राजा प्रतस्थे तनयैः सह ॥ ५६९ ॥
व्रजतस्तस्य मत्तेभकर्णतालानिलोत्थितैः ।
बभूवुर्भुङ्गवलयैः श्यामलाः सर्वतो दिशः ॥ ५७० ॥
सुचारुचामरोदारस्वच्छच्छन्नांशुहासिनी ।
गङ्गेव स्फीतफेनाढ्या सा राजध्वजिनी बभौ ॥ ५७१ ॥
ततोऽभवत्समुद्भूतदुर्निमित्तपरम्परा ।
खलसंपदिवात्युग्रा सर्वोद्वेगविधायिनी ॥ ५७२ ॥
प्रकाशकोऽपि भगवान्सूर्योऽभूत्तमसा वृतः ।
विद्वानिवान्यविज्ञानमात्सर्योपहताशयः ॥ ५७३ ॥
निर्धातेन क्षितिर्ध्वस्ताधृतिश्विरमकम्पत ।
तनुर्विवेकहीनस्य क्रोधेनेवाजितात्मनः ॥ ५७४ ॥
रजस्तिरस्कृता लोकाः सन्मार्गपरिपन्थिनः ।
मदस्था इव दुर्निष्ठा बभ्रमुर्भीषणानिलाः ॥ ६७५ ॥
पांसुपूर्णचिताकालरजन्या घोररूपया।
अविद्ययेव भूतानामभवन्मोहविभ्रमः ॥ ५७६ ॥
अथादृश्यत दिग्दाहदारुणोदरमम्बरम् ।
वडवाग्निशिखोद्गारघोरं रूपमिवाम्बुधेः ॥ ५७७ ॥
गम्भीरमोहनिस्पन्दे संदेहान्दोलिते मुहुः ।
सैन्ये संघ इवाग्नीनां भार्गवः प्रत्यदृश्यत ॥ ५७८ ॥
ज्वलज्ज्वलनतुल्येन कुठारेणांससङ्गिना ।
शिखरासक्तसूर्यस्य सुमेरोस्तर्जयन्प्रभाम् ॥ ५७९ ॥
संरम्भश्लथबन्धेन जटाजूटेन बभ्रुणा ।
लम्बविद्युल्लताजालभीमः सांध्य इवाम्बुदः ॥ ५८० ॥
प्रोन्मिषद्विषमाकोपकम्पप्रस्फुरिताधरः।
कुर्वन्क्षत्रान्तकालानामसकृद्गणनामिव ॥ ५८१ ॥
वहन्नर्जुनदोर्दण्डमण्डलच्छेदकोविदे।
खण्डधारे कुठाराग्रे मृत्युदन्तावलीमिव ॥ ५८२ ॥
दधानस्तत्क्षणाधिज्यं प्राज्यमाभासुरं धनुः ।
पार्श्वे विश्वक्षयायातपरिवेशमिवांशुमान् ॥ ५८३ ॥
करेणान्दोलयन्नुद्यत्प्रभापरिकरं शरम् ।
क्षत्रियक्षयसंसक्तरक्तधारमिवाभितः ॥ ५८४ ॥
वसिष्ठमुख्या मुनयस्तं वीक्ष्य भयशङ्किताः ।
स्वस्तीति वादिनस्तूर्ण पूजामस्य प्रचक्रिरे ॥ ५८५ ॥
भार्गवोऽपि समभ्येत्य राघवं घोरविक्रमः ।
उवाच लोकान्महतः सहसालोकयन्निव ॥ ५८६ ॥
राम चण्डीशकोदण्डे कृतं किमिति सांप्रतम् ।
यत्त्वया तदहं मन्ये निखिलं बालचेष्टितम् ॥ ५८७ ॥
भवता तदसंभाव्यं शांभवे चायुधे कृतम् ।
नमः कालाय वलिने येनेदं जीर्यते जगत् ॥ ५८८ ॥
दृश्यतामद्भुततरं ममेदं वैष्णवं धनुः ।
ध्रियतां यदि वीरोऽसि वीरोऽसि यदि कृष्यताम् ॥ ५८९॥
अस्मिन्विज्ञातसारस्त्वं ममापि समरे शिशो।
क्षत्रियक्षयकालाग्नेर्यास्यसि द्वन्द्वयोग्यताम् ॥ ५९० ॥
इति ब्रुवाणे सावज्ञं जमदग्न्ये ससंभ्रमः ।
पुत्रप्रीत्या दशरथस्तमुवाच कृताञ्जलिः ॥ ५९१ ॥
भवता वीतरागेण भगवन्ब्रह्मवादिना।
शस्त्रं शक्रपुरो न्यस्तं कोऽयं युद्धादरः पुनः ॥ ५९२ ॥
प्रदाय कश्यपाय त्वं महीं सगिरिसागराम् ।
संन्यासनिरतः कस्मादकस्माद्योद्धुमागतः ॥ ५९३ ॥
क्व सा मुनिप्रणयिनी पुण्या संतोषशीलता।
क्व चायं युद्धनिर्बन्धः कलुषः क्षत्रियोचितः ॥ ५९४ ॥
विवेकः शमसंतोषौ क्षमा परहितोद्यमः।
सर्वत्र मैत्रमनसामुचितं हि महात्मनाम् ॥ ५९५ ॥
स्निग्धा दृष्टिर्मनोमैत्री वाणी पीयूषवर्षिणी ।
एतास्ताः सत्यतपसां पुण्याः संतोषभूमयः ॥ ५९६ ॥
उक्ते दशरथेनेति तमनादृत्य भार्गवः ।
राममेवावदत्को हि क्रोधान्धः प्रभुरात्मनः ॥ ५९७ ॥
दिव्ये द्वे धनुषी राम शांभवं वैष्णवं तथा ।
शांभवं भवता भग्नं वैष्णवं मम वर्तते ॥ ५९८ ॥
धनुःप्रभवसंघर्षाद्वैकुण्ठशितिकण्ठयोः ।
पितामहोत्साहितयोरभवद्युद्धमुत्तमम् ॥ ५९९ ॥
ततः कार्मुकमत्युग्रमाकृष्टं त्रिपुरारिणा ।
हुंकारेण हरिश्चक्रे चित्रार्पितमिवाचलम् ॥ ६०० ॥
सभर्गे स्तम्भिते तस्मिन्कार्मुके कैटभारिणा ।
तत्प्रहारोद्यते विष्णौ विनयाद्वारिते सुरैः ॥६०१ ॥
वैष्णवं मेनिरे चापं सर्वे विष्णुमिवोत्तमम् ।
क्रुद्धो रुद्रश्च तत्याज जनकेषु निजं धनुः ॥ ६०२ ॥
वैष्णवं भार्गवकुले विष्णुना प्रतिपादितम् ।
ममेदं भासुरं पश्य धनुः क्षत्रकुलोचितम् ॥ ६०३ ॥
कार्तिवीर्यापराधेन कृत्वा निर्भूमिपं जगत् ।
महेन्द्रस्थः समाकर्ण्य धनुर्भङ्गमिहानतः ॥ ६०४ ॥
गृहाण वैष्णवं चापं निजं दर्शय पौरुषम् ।
ततो ममापि समरे यास्यसि प्रतिमल्लताम् ॥ ६०५ ॥ .
इत्युक्त्वा विरते तस्मिन्राधवः प्रत्यभाषत ।
अपराधोचितः क्रोधो न निन्द्यः क्षत्रियेषु ते ॥६०६ ॥
न च जातस्तदा कश्चित्क्षत्रियो विजयोचितः।
योऽपराध्यति नार्ध्येषु न च याति पराभवम् ॥ ६०७ ॥
क्षत्रवृत्तं रजोध्वस्तं धूमश्याम इवानलः ।
तेजस्ते शान्तमेवैतत्संरम्भः कोऽत्र मादृशाम् ॥ ६०८ ॥
इत्युक्त्वा सशरं त्वस्माच्चापमादाय राघवः ।
अधिज्यं विदधे वीरस्तूर्णमद्भुतविक्रमः ॥६०९ ॥
तत्समाकृष्य तरसा सह भार्गवतेजसा ।
नीत्वा कर्णान्तमापूर्ण कीर्णीशुकपिशं शरम् ॥ ६१० ॥
वामकेयूरकिरणाङ्कुरितोरुशरासनः ।
दक्षिणाङ्गदरन्तां शुकृतकर्णावतंसकः ॥ ६११ ॥
अत्रान्तरे पुरारातेरपेशलशरः स्मरः ।
अयमित्यद्भुतकथां जनयन्दिव्ययोषिताम् ॥ ६१२ ॥
ततः सीताचलापाङ्गदृष्टिभागोत्पलाचितः ।
उवाच रामः सासूयं स्मितपल्लविताधरः ॥ ६१३ ॥
पूज्यो मे ब्राह्मणोऽसीति मुने मान्यो मनीषिणाम् ।
शरीरान्तकरं घोरं शरं न विसृजामि ते ॥ ६१४ ॥
गतिं हन्मि तवानेन लोकान्वा तपसार्जितान् ।
अमोघः सर्वथा विष्णोरयं घोरतरः शरः ॥ ६१५ ॥
इति वादिनि काकुत्स्थे सुरा ब्रह्मपुरःसराः ।
सदैत्यसिद्धगन्धर्वा द्रष्टुमद्भुतमाययुः ॥ ६१६ ॥
दिवाकर इवोदग्रे मण्डलीकृतकार्मुके।
राघवे भार्गवो दीप इवाभूद्विगतप्रभः ॥ ६१७ ॥
प्रतापहीनो निःस्पन्दश्चित्रन्यस्त इवाचलः ।
मन्दमन्दस्वरो रामं सोऽवदद्विनयान्वितः ॥ ६१८ ॥
न हन्तुमर्हसि गतिं मम राम महीयसीम् ।
आशां सेवाप्रणयिनीं कुलोन्नत इवेश्वरः ॥ ६१९ ॥
न कश्यपार्पितभुवो निवासोऽयं ममोचितः ।
महेन्द्रशैलं गच्छामि तूर्ण गगनवर्त्मना ॥ ६२० ॥
शरेण जहि मे लोकानमोघो ह्येष दुर्जयः ।
प्रभाव इव मूर्तस्ते न क्वचित्प्रतिहन्यते ॥ ६२१ ॥
धनुषोऽस्य निजं नाथं जाने त्वां विष्णुमच्युतम् ।
नीता मधुमुखा येन दैत्याः क्रोधोपहारताम् ॥ ६२२ ॥
इच्छामात्रेण जगतां प्रलयोदयकारिणा ।
न मे त्वया जितस्यापि लज्जाधूसरमाननम् ॥ ६२३ ॥
इत्युक्ते जामदग्न्येन शरं चिक्षेप राघवः ।
मधुमास इवाशेषा यश्चक्रे विशदा दिशः ॥ ६२४ ॥
ततः प्रदक्षिणीकृत्य रामं भृगुसुते गते ।
हस्ते वारिपते न्यस्ते राघवेण शरासने ॥ ६२५ ॥
हर्षव्याकोशमनसः सेना दशरथस्य सा ।
ससर्प पवनोद्भूतध्वजपट्टाट्टहासिनी ॥ ६२६ ॥
इति रामरामसमागमः ॥ १३ ॥
ततो महोत्सवोत्साहप्रमोदालिङ्गिताङ्गनाम् ।
प्रविवेश पुरीं भूरिभूषां भूमिपुरंदरः ॥ ६२७ ॥
तत्र त्रिभुवनश्लाध्यलावण्यललिताननाम् ।
स्त्रियोऽपि जानकीं वीक्ष्य ययुरुत्कण्ठतामिव ॥ ६२८ ॥
कौसल्याद्यास्ततो देव्यः पुत्रान्वीक्ष्य वधूसखान् ।
मूर्तिमद्भिरिवानन्दैर्मङ्गलैरुदिता बभुः ॥ ६२९ ॥
सेयं सीता शशिमुखी रामोऽयं कमलेक्षणः ।
इत्यभूत्कौतुकोदारः सर्वत्र जननिःस्वनः ॥ ६३० ॥
इत्ययोध्याप्रत्यागमनम् ॥ १४ ॥