चित्रसीतापरिग्रहम्

विस्तारः (द्रष्टुं नोद्यम्)

Below is a kavya, composed by me, on the auspicious occasion of Bhumipujana. The poem, in 22 verses, composed entirely in the dushkara Gomutrikabandha, narrates the story of Shri Rama till his marriage with Sita.

इति शङ्करः।

  • कर्ता - राजारामजशङ्करः
  • गोमूत्रिकाबन्धे ऽस्ति।

चित्रसीतापरिग्रहम्

विश्वास-प्रस्तुतिः

वीरोऽभूद्विनयोद्भासी पुरा दशरथाभिधः ।
दूरोद्यद् विजयो नासीद् धराधीशस् तथाविधः ॥१॥

मूलम्

वीरोऽभूद् विनयोद्भासी पुरा दशरथाभिधः ।
दूरोद्यद्-विजयो नासीद्-धराधीशस् तथाविधः ॥१॥

विश्वास-प्रस्तुतिः

नयोन्नति-धुरीणस्य चिरार्चित-पुर-द्विषः ।
अयोध्येति पुरी तस्य व्यराजत वरत्विषः ॥२॥

मूलम्

नयोन्नति-धुरीणस्य चिरार्चित-पुर-द्विषः ।
अयोध्येति पुरी तस्य व्यराजत वरत्विषः ॥२॥

विश्वास-प्रस्तुतिः

अतुल्यस्य रण-क्षोणी-श्रिताजस्रोत्सव-श्रियः ।
नेतुस् तस्य गुण-श्रेणी-स्फीतास् तिस्रो ऽभवन् स्त्रियः ॥३॥

मूलम्

अतुल्यस्य रण-क्षोणी-श्रिताजस्रोत्सव-श्रियः ।
नेतुस् तस्य गुण-श्रेणी-स्फीतास् तिस्रो ऽभवन् स्त्रियः ॥३॥

विश्वास-प्रस्तुतिः

राज्ञोऽमित्रजितस् तस्य जयार्हवरतेजसः ।
यज्ञोऽपुत्रत्वतप्तस्य श्रेयान् प्रववृतेऽथ सः ॥४॥

मूलम्

राज्ञोऽमित्रजितस्तस्य जयार्हवरतेजसः । यज्ञोऽपुत्रत्वतप्तस्य श्रेयान्प्रववृतेऽथ सः ॥४॥

विश्वास-प्रस्तुतिः

धौताशयस् ततोऽवाप
क्रतुवैभव-भावितान् ।
सुतान् न्यायरतो भूपश्
चतुरो भद्र-भाषितान् ॥५॥

मूलम्

धौताशयस्ततोऽवाप क्रतुवैभवभावितान् ।
सुतान्न्यायरतो भूपश्चतुरो भद्रभाषितान् ॥५॥

विश्वास-प्रस्तुतिः

लसद्-भुज-द्वय-स्थेम
प्रजा-प्रेम-समाश्रयम् ।
कौसल्या ऽजनयद् राम-
व्याजाद् धाम रमाप्रियम् ॥६॥

मूलम्

लसद्भुजद्वयस्थेम प्रजाप्रेमसमाश्रयम् ।
कौसल्याजनयद्रामव्याजाद्धाम रमाप्रियम् ॥६॥

विश्वास-प्रस्तुतिः

समस्त-लक्षणोपेतः
स्वामिच्छायाम् उपाश्रितः ।
सुमना लक्ष्मणो जातः
सुमित्रायास् त्रपा-भृतः ॥७॥

मूलम्

समस्तलक्षणोपेतः स्वामिच्छायामुपाश्रितः ।
सुमना लक्ष्मणो जातः सुमित्रायास्त्रपाभृतः ॥७॥

विश्वास-प्रस्तुतिः

पित्रुल्लास-कृतं जैत्रं
सुकेशी भरताह्वयम् ।
शत्रु-घ्न-सहितं पुत्रं
कैकेय्य् अभजतास्मयम्+++(→दर्पहीनम्)+++ ॥८॥

मूलम्

पित्रुल्लासकृतं जैत्रं सुकेशी भरताह्वयम् ।
शत्रुघ्नसहितं पुत्रं कैकेय्यभजतास्मयम् ॥८॥

विश्वास-प्रस्तुतिः

शूराव् अलङ्गुणौ जातु कौशिको वाग्विभूषितः ।
श्रीराम-लक्ष्मणौ यातु+++(धान)+++-क्लेशितोऽवाप भूपतः ॥९॥

मूलम्

शूरावलङ्गुणौ जातु कौशिको वाग्विभूषितः ।
श्रीरामलक्ष्मणौ यातुक्लेशितोऽवाप भूपतः ॥९॥

विश्वास-प्रस्तुतिः

शिवाश्रयरतो धीमान्निरस्तमहिमक्षतिः ।
तावादाय स्मितोद्दामावरण्यमगमद्यतिः॥१०॥

मूलम्

शिवाश्रयरतो धीमान्निरस्तमहिमक्षतिः ।
तावादाय स्मितोद्दामावरण्यमगमद्यतिः॥१०॥

विश्वास-प्रस्तुतिः

रामेषु-निहता घातं प्राप्य मर्मणि ताडका ।
भीमेऽध्वनि गता पातं काप्य् अधर्म-पताकिका ॥११॥+++(५)+++

मूलम्

रामेषुनिहता घातं प्राप्य मर्मणि ताडका ।
भीमेऽध्वनि गता पातं काप्यधर्मपताकिका ॥११॥

विश्वास-प्रस्तुतिः

शरासार-कृताश्चर्यौ दीप्र-+++(स्वेद)+++घर्म-जलौ ततः ।
वीराव् अरक्षताम् आर्यौ विप्र-कर्म खलौघतः ॥१२॥

मूलम्

शरासारकृताश्चर्यौ दीप्रघर्मजलौ ततः ।
वीरावरक्षतामार्यौ विप्रकर्म खलौघतः ॥१२॥

विश्वास-प्रस्तुतिः

हैमपक्षेण कान्तेन करालं सुघनस्वनम् ।
रामश्चिक्षेप काण्डेन क्षाराब्धौ सुन्दनन्दनम् ॥१३॥

मूलम्

हैमपक्षेण कान्तेन करालं सुघनस्वनम् ।
रामश्चिक्षेप काण्डेन क्षाराब्धौ सुन्दनन्दनम् ॥१३॥

विश्वास-प्रस्तुतिः

सुबाहू रक्षसाम् ईशस् तेनात्त-रण-केलिना ।
स्वबाणैर् अञ्जसा नाशम् अनायि रघुकेतुना ॥१४॥

मूलम्

सुबाहू रक्षसामीशस्तेनात्तरणकेलिना ।
स्वबाणैरञ्जसा नाशमनायि रघुकेतुना ॥१४॥

विश्वास-प्रस्तुतिः

शमामृत-सुखाधारो धीनिधिस् तौ किशोरकौ ।
समापित-मखाचारो मुनिरस्तौद्यशोऽधिकौ ॥१५॥

मूलम्

शमामृतसुखाधारो धीनिधिस्तौ किशोरकौ ।
समापितमखाचारो मुनिरस्तौद्यशोऽधिकौ ॥१५॥

विश्वास-प्रस्तुतिः

पृथिवी-महितो ज्ञानी भूतनाथ-पदार्चकः ।
मैथिलामन्त्रितो मौनी प्रतस्थेऽथ सदारकः ॥१६॥

मूलम्

पृथिवीमहितो ज्ञानी भूतनाथपदार्चकः ।
मैथिलामन्त्रितो मौनी प्रतस्थेऽथ सदारकः ॥१६॥

विश्वास-प्रस्तुतिः

शापोपाधिहृता धूल्या रामाङ्घ्रेर् मण्डिताध्वनि । तपोनिधि-स्तुताहल्या क्षेमा शर्मयुताजनि ॥१७॥

मूलम्

शापोपाधिहृता धूल्या रामाङ्घ्रेर्मण्डिताध्वनि ।
तपोनिधिस्तुताहल्या क्षेमा शर्मयुताजनि ॥१७॥

विश्वास-प्रस्तुतिः

प्रथितोदग्र-नामैष इति ध्यायन् सभास्थितः ।
मैथिलो दर्शनात् तोषम् एति स्म यतिभास्वतः ॥१८॥

मूलम्

प्रथितोदग्रनामैष इति ध्यायन्सभास्थितः ।
मैथिलो दर्शनात्तोषमेति स्म यतिभास्वतः ॥१८॥

विश्वास-प्रस्तुतिः

आनाययन् नराध्यक्षो धनुर् मुनिगिरा ऽतुलम् ।
येनाजयत् पुरा त्र्यक्षो दानुजानि पुराण्यलम् ॥१९॥

मूलम्

आनाययन्नराध्यक्षो धनुर्मुनिगिरातुलम् ।
येनाजयत्पुरा त्र्यक्षो दानुजानि पुराण्यलम् ॥१९॥

विश्वास-प्रस्तुतिः

सुताम् अर्हति मे सद्यो ननु वीरो नये स्थिराम् ।
धृतान्तर्-हठम् एतद् यो धनुर् आरोपयेत्तराम् ॥२०॥

मूलम्

सुतामर्हति मे सद्यो ननु वीरो नये स्थिराम् ।
धृतान्तर्हठमेतद्यो धनुरारोपयेत्तराम् ॥२०॥

विश्वास-प्रस्तुतिः

इत्युक्ते महता राज्ञा स रामो धर्मराजितः ।
यत्युत्तम-कृताम् आज्ञाम् आराध्य धनुराश्रितः ॥२१॥

मूलम्

इत्युक्ते महता राज्ञा स रामो धर्मराजितः ।
यत्युत्तमकृतामाज्ञामाराध्य धनुराश्रितः ॥२१॥

विश्वास-प्रस्तुतिः

दरोद्गत+++(=ईषदुद्गत)+++स्मितोदारः सताम् आपद् विशोधनः ।
आरोप्य तत् ततो वीरः सीताम् आप यशोधनः ॥२२॥

मूलम्

दरोद्गतस्मिरोदारः सतामापद्विशोधनः ।
आरोप्य तत्ततो वीरः सीतामाप यशोधनः ॥२२॥

विश्वास-प्रस्तुतिः

निबबन्ध शङ्करकवी रामालय-भूमि-पूजनावसरे ।
सीतापरिग्रहावधि रामकथां चित्रकाव्यमयीम् ॥२३॥

मूलम्

निबबन्ध शङ्करकवी रामालयभूमिपूजनावसरे ।
सीतापरिग्रहावधि रामकथां चित्रकाव्यमयीम् ॥२३॥