गोविन्दाचार्यः

श्रीनारायण-पण्डिताचार्य-विरचितं
सङ्ग्रहरामायणम्
[ श्रीविश्वपतितीर्थ-कृतया भावार्थ-दीपिकया, आचार्यगोविन्द-कृतया सहचन्द्रिकया च भूषितम् ]
[ प्रथमो भागः ]
संशोधकः-सम्पादकः
डा. बन्नञ्जे गोविन्दाचार्यः
प्रकाशनम्
श्रीपेजावराधोक्षजमठः, जगद्गुरु-श्रीमध्वाचार्य-महासंस्थानम्
उडुपी
२०१५
[[P5]]

(VOLUME-1)
SANGRAHA-RAMAYANAM [Samskṛtam], First part,
by Śri Nārāyaṇa Paṇḍitācārya, with commentaries: Bhāvārtha-dīpikā of Viśvapati Tīrtha and Saṅgraha-candrikā of Dr. Bannañje Govindācārya.
Critically Edited by
Dr. Bannañje Govindācārya
Vidyāvācaspati, Vidyāratnākara, Padmashri awardee.
Published by
Sri Pejavara Adhokṣaja Maṭha
Jagadguru Śri Madhvācārya Mahā Samsthāna
Udupi
Karnataka, India
Mob: 9845468508
Editor
First Edition
2015, (Copies: 500)
Pages
72+760
Price
1500 (complete set)
Typeset
Kaddi S. Badarinarayanachar Poornaprajna Vidyapeetha E-Mail: bnkaddi@gmail.com
Printed at
Sri Anirudh Creations
#144, 6th main, Gururaja Layout
Behind Vidyapeetha, Bengaluru-560028
Cell: 9880077876
E-Mail: srikanth.nsil@gmail.com:
[[P6]]

(VOLUME-1)

कृष्णं वन्दे जगद्गुरुम्
[[P7]]

(VOLUME-1)

प्रणतवान् प्राणिनां प्राणभूतं प्रणतिभिः प्रीणये पूर्णबोधम् ॥
[[P8]]

(VOLUME-1)
H.H. Sri Vishveshatirtha Swamiji Sri Pejavara Adhokshaja Matha
Jagadguru Sri Madhwacharya Maha Samsthana
Udupi-576101, Karnataka
Mob: 9845468508

आशीर्वचनम्

श्री-श्रीविश्वेशतीर्थ-श्रीपादाः श्रीपेजावराधोक्षज-मठः
जगद्गुरु-श्रीमध्वाचार्य-महासंस्थानम् उडुपि-५७६१०१, कर्णाटक

जगद्गुरुः आचार्यमध्वगुरुवर्यः महाभारतस्य अद्भुतं संशोधनात्मकं महाभारत-तात्पर्यनिर्णयाभिधानं महोन्नतं ग्रन्थं व्यरीरचत् । विभिन्नप्रदेशगतान् मूलग्रन्थान् परिशील्य यथाह भगवान् व्यासः तादृशम् अधिकृतं महाभारतम् अन्विष्य तदनुसारेण महाभारत-निरूपितं वास्तवम् इतिहासं महाभारत-तात्पर्य-ग्रन्थरूपेण न्यरूरुपत् । संशोधनक्षेत्रे आचार्यमध्व-प्रदत्तम् इदम् अपूर्वम् उपायनम् इति निस्सङ्कोचं सङ्कथयामः । एवं भगवदवतारस्य श्रीरामस्य तथा श्रीकृष्णस्य विविध-पुराणेतिहासेषु समीरितानि चरितानि परिशील्य श्रीराम-कृष्णयोः वास्तव-चरित्र-चित्रणम् अप्य् अत्र ग्रन्थे समावेशितवान् श्रीमद्-आचार्यः ।

श्रीमदाचार्य-वर्यात्यन्त-प्रियान्तेवासिनः पण्डिताचार्य-त्रिविक्रममहोदयस्य प्रियपुत्रः, मध्व-विजयाभिध-सुमधुर-सुमहित-मन्त्र-समान-ग्रन्थ-रचयिता पण्डिताचार्य-नारायण-महाभागः तात्पर्यनिर्णय-ग्रन्थम् अनुसृत्य सङ्ग्रहरामायणाभिधानं काव्यम् इदं निबबन्ध । श्रीमदाचार्य-कृत-मध्वरामायणस्य विस्तरणं वाल्मीकिरामायणस्य सङ्ग्रहणं च विधायोभयोर् अपूर्व-समायोजनं समावेश्य विरचितं रुचिर-ललितं मधुर-रस-धारास्यन्दि काव्यम् इदम् । अस्य च हृद्य-पद्य-शैली सुन्दर-पद-बन्धुरता समावर्जयति समेषाम् अपि मानसम् । अस्मत्-पूर्वाचार्य-श्रीविश्वपतितीर्थ-गुरुवरेण अस्य सरल-सुन्दर-व्याख्याऽपि समारचिता । सङ्ग्रहरामायण-मध्वविजयादि-बहुग्रन्थ-व्याख्यानेन विश्वपतितीर्थ-गुरुवर्यः सज्जनानां महान्तम् उपकारं व्यतनोत् । तत्र-तत्र स्खालित्यम् अप्य् अस्तीति पण्डितः बन्नञ्जे गोविन्दाचार्यः प्रतिपादयति । तस्य चर्चा अत्र न मया विधीयते । तस्य विमर्शं [[P9]] समयान्तरे वितनुमः । अस्माकं विशेषाभिमान-भाजनीभूतः संशोधन-लेखन-प्रवचनादिष्व् अप्रतिम-प्रतिभाशाली निरन्तरं ज्ञान-सेवा-निरतः आचार्य-बन्नञ्जे-गोविन्द-महाशयः सङ्ग्रहरामायण-संशोधनेन साकं तस्य नूतनां व्याख्याम् अपि विरचय्य विशेषतः मध्व-माधव-सेवाम् अतनोद् इति तं सानन्दम् अभिनन्दामः ।

इतः पूर्वम् अप्य् अनेकैः सङ्ग्रहरामायण-प्रकाशनं व्यधायि । समीचीन-मूल-कोशालाभेन तत्र केचन दोषा अपि सम्भवेयुः । अत्र मयाऽधिक-चर्चा न विधीयते । एतादृश-प्रकाशनैः ग्रन्थ-परिरक्षणं कृतम् इति तान् अप्य् अभिनन्दामः । सर्वथा शुद्ध-पाठ-सङ्ग्रहे आचार्य-गोविन्द-परिश्रमं तदीय-सेवां च मुक्तकण्ठं प्रशंसामहे । तदीय-ज्ञान-सेवा निरन्तरं निरन्तरायं प्रचलत्व् इति भगवन्तं सम्प्रार्थयामहे ।

एतान्-मुद्रण-कार्ये विशेष-सहकारिणम् अस्मात्-प्रियशिष्यं कड्डी-बदरीनारायणाचार्यम्, अस्मत्-प्रियशिष्यान् विजयसिंह-कृष्णराज-हयवदनान् अपि तथा मुद्रणालयाध्यक्षं कल्याणि-श्रीकान्तम् अपि भगवान् अनुगृह्णातु ॥

इत्य् अनेक-नारायण-स्मृतयः

श्री-श्रीविश्वेशतीर्थ-श्रीपादाः
[[P10]]

(VOLUME-1)

विषयानुक्रमणिका

बालकाण्डम्

प्रथमः सर्गः
मङ्गलाचरणम् । चतुर्मूर्ति-प्रादुर्भावः । एकस्यानन्तरूपता । अनन्तगुणता । अव्यक्तान्-महदादि-सृष्टिः । ब्रह्माण्ड-सृष्टिः । सनकादि-सृष्टिः । सप्तर्षि-समुद्भवः । मरीचेः काश्यपः । ततो विवस्वान् । ततः श्राद्धदेवः । ततः सूर्यवंशः । सूर्यवंशे दशरथ-जन्म । अपुत्रस्य तस्य अश्वमेध-करण-निश्चयः ॥

द्वितीयः सर्गः
यज्ञ-सम्भार-सम्भरणम् । सुमन्त्रेण सनत्कुमारोक्त-देवगुह्य-कथनम् । ऋश्यशृङ्गानयनम् । यज्ञ-समारम्भः । सकल-लोक-तर्पणम् । ऋश्यशृङ्गेण देवेषु प्रार्थना । देवैर्-ब्रह्मलोक-गमनम् । रावणवधार्थं चतुर्मुखाभ्यर्थनम् । देवैः सह तेन क्षीराब्धौ नारायण-प्रार्थना । नारायण-प्रादुर्भावः ॥

तृतीयः सर्गः
नारायणेन सान्त्वनम् । यागाग्नि-समुत्थेन प्राजापत्य-पुरुषेण पायस-दानम् । राज्ञा पायस-विभागः । चतुर्मुखाज्ञया देवानां वानरादिषु जननम् । रामावतारः । क्रमेण लक्ष्मण-भरत-शत्रुघ्नानां जननम् । अयोध्यायां महोत्सवः । बालानां जातकर्मादि-संस्कारः । शस्त्रास्त्राधिगमः ॥

चतुर्थः सर्गः
विश्वामित्रागमनम् । तेन सह राम-लक्ष्मणयोर्-गमनम् । सरयू-तरणम् । बलातिबलाख्य-मन्त्र-दानम् । गङ्गा-तरणम् । ताटका-संहारः ॥
[[P11]]

पञ्चमः सर्गः
राम-लक्ष्मणाभ्यां ब्राह्माद्यस्त्र-दानम् । सिद्धाश्रम-गमनम् । अत्र वामनावतार-कथनम् । विश्वामित्र-यज्ञारम्भः । मारीच-द्रावणम् । सुबाह्वादीनां संहारः । विदेह-गमनम् । गङ्गावतरणेतिहासः ॥

षष्ठः सर्गः
विशाल-राज-चरितम् । वैशाल्यां सुमतिना सत्कारः । अहल्यावृत्तान्तः । अहल्या-शाप-मोचनम् । जनकस्य यज्ञवाटं प्रति गमनम् । जनक-पृष्टेन विश्वामित्रेण राम-लक्ष्मणयोः परिचायनम् । शतानन्देन विश्वामित्र-प्रशंसा ॥

सप्तमः सर्गः
यागार्थं भू-कर्षणे सीता-प्राप्ति-कथनम् । शिवधनुः-प्राप्ति-कथनम् । रामेण धनुर्भङ्गः । सीतया रामांसे मालार्पणम् ॥

अष्टमः सर्गः
दूतमुखेन वार्तां श्रुत्वा दशरथस्याऽगमनम् । तत्-परेद्युः कुशध्वजानयनम् । वर-वधू-वंश-वर्णनम् । नान्दीश्राद्धम् । भरत-मातुलस्य युधाजित आगमनम् । चतुर्णां रघु-कुमाराणां विवाहः । विश्वामित्र-निर्गमनम् । जनकेन परिबर्ह-दानम् । गृहे-गृहे रामाभिनन्दनम् । दशरथेन स्नुषाभिः सह स्वपुर-प्रस्थानम् । परशुरामागमनम् । रामेण वैष्णव-धनुरारोपणम् । अतुल-संहारः । राज्ञः पुरी-प्रवेशः । अयोध्यायां सीता-रामयो रमणम् ॥
[[P12]]

[[अयोद्ध्या|अयोध्या]]काण्डम्

प्रथमः सर्गः
रामाभिषेक-सन्नाहः । प्रजाभिनन्दनम् ॥

द्वितीयः सर्गः
अभिषेक-सम्भार-सम्पादनम् । रामाय राज्ञा स्वाशय-निवेदनम् । रामाभ्यनुज्ञा । अमङ्गल-निरासाय व्रत-दीक्षार्थम् आदेशः । रामेणोपोषण-पूर्वं दर्भ-शय्या-शयनम् ॥

तृतीयः सर्गः
मन्थराया अभिषेक-वार्ताधिगमः । तया कैकेयी-चित्त-चालनम् । वरद्वय-वरणार्थं चोदनम् । कैकेय्या क्रोधागारे शयनम् । दशरथेन तस्याः सान्त्वनम् । तया राम-वन-गमनार्थं भरताभिषेकार्थं च वरद्वय-याचनम् । दशरथ-मोहः । वराग्रह-त्यागार्थम् अभ्यर्थना । कैकेय्या हठः । एवं विवदमानयोस् तयोः जाता प्रभाता निशा ॥
[[P13]]

चतुर्थः सर्गः
सुमन्त्रेण नृपोद्बोधनम् । रामानयनाय कैकेयी-वचनम् । पुनः सुमन्त्रेण स्तुति-पूर्वं राजा्वानम् । रामम् आनेतुं राजादेशः । रामागमनम् । कैकेय्या वरद्वय-निवेदनम् । रामेण तद्-वचन-स्वीकारः । जनानाम् आर्तनादः । रामेण मातुर्-मन्दिरं प्रति गमनम् ॥

पञ्चमः सर्गः
श्रुतवार्तायाः कौसल्याया विलापः । रामेण मातुः सान्त्वनम् । कुपितस्य लक्ष्मणस्य सान्त्वनम् । कौसल्यया स्वस्ति-प्रार्थनम् ॥

षष्ठः सर्गः
सीतायाः वनगमनाभ्यनुज्ञा । लक्ष्मणस्यापि वनगमनाभ्यनुज्ञा । रामेण सीतया च सर्वस्व-दानम् । त्रिजटाय गोसहस्र-दानम् । पौराणाम् आर्त-वचनम् । रामेण पितृ-गृह-गमनम् । राज-भार्याणां नृपाज्ञया राम-दर्शनार्थम् आगमनम् ॥

सप्तमः सर्गः
रामं दृष्ट्वा राज्ञो मूर्छा । स्त्रीणां रोदनम् । रामेण राज-सान्त्वनम् । सिद्धार्थेन कैकेयी-भर्त्सनम् । कैकेय्या रामादीनां चीर-दानम् । वसिष्ठ-क्रोधः । राज्ञा कैकेयी-भर्त्सनम् । रामेण सर्वेषां सान्त्वनम् । राजाज्ञया सुमन्त्रेण रथस्याऽनयनम् । कौसल्या-सन्देशः । रामेण ससीता-लक्ष्मणेन रथम् आरुह्य प्रस्थानम् ॥

अष्टमः सर्गः
प्रजानां रामानुगमनम् । दशरथस्याऽद्रवणम् । तस्य मूर्छा । कैकेयी-निन्दनम् । कौसल्या-निवेशन-गमनम् । रामस्य निवर्तनाय विप्राणां प्रार्थना । रात्रौ तमसा-तीरे शयनम् । पौरान् व्यामोह्य राम-प्रस्थानम् । गुह-समागमः ॥

नवमः सर्गः
सुमन्त्र-प्रेषणम् । वट-क्षीरेण जटा-धारणम् । गङ्गा-तरणम् । रात्रौ न्यग्रोध-मूले वासः । भरद्वाजाश्रम-गमनम् । यमुना-तरणम् । चित्रकूटाश्रमे वासः ॥

दशमः सर्गः
अयोध्यायां नागराणां राम-चिन्तया काल-यापनम् । सुमन्त्रागमनम् । तेन राज्ञः सान्त्वनम् । षष्ठे दिवसे राज्ञा कौसल्यायै स्वकृत-मुनिकुमार-वध-निवेदनम् । राज्ञो देह-त्यागः । कौसल्या-सुमित्रा-विलापः ॥

एकादशः सर्गः
भरतानयनाय दूत-प्रेषणम् । भरतस्य दुःस्वप्न-दर्शनम् । भरतागमनम् । मात्रा विज्ञात-वृत्तान्तेन भरतेन तस्या गर्हणम् । शत्रुघ्नेन मन्थरा-हननाय प्रवृत्तिः । भरतेन तन्-निवारणम् । राम-मातुः सान्त्वनम् ॥
[[P14]]

द्वादशः सर्गः
तैलद्रोणी-गतं पितुर्-देहं दृष्ट्वा भरत-शोकः । अन्त्य-संस्कारः । रामानयनार्थं सपौरस्य भरतस्य प्रस्थानम् । भरतस्य शुद्ध-भावं विज्ञाय गुहेन गङ्गा-तारणम् । भरद्वाजाश्रमे सर्वेषां सत्कारः । यमुनां तीर्त्वा चित्रकूट-गमनम् । राम-समागमः । भरतेन पितृ-मरण-निवेदनम् । रामेण जलाञ्जलि-दानम् । पुरं प्रत्यागमनार्थं सपौरेण भरतेन मातृभिश् चानुरोधः । चतुर्दश-वत्सरानन्तरम् आगमिष्यामीति रामेण दृढ-वचनम् । पादुका-प्रदानार्थं वसिष्ठ-निवेदनम् । पादुकां सिंहासने निधाय भरतेन नन्दिग्रामे वासः । चित्रकूटे रामेण काकनेत्र-निग्रहः ॥

अरण्यकाण्डम्

प्रथमः सर्गः
विश्रवसो जननम् । कुबेर-जननम् । विद्युत्केश-सन्ततिः । तया लोक-पीडा । विष्णुना मालिवधः । सुमालि-पुत्र्यां कैकस्यां विश्रवसः सकाशाद् रावणादि-जननम् । रावणस्य ब्रह्मणाऽवध्यत्व-वर-दानम् । विभीषणेन भगवद्-भक्ति-वरणम् । कुम्भकर्णेन निद्रा-वरणम् । रावणेन लङ्काक्रमणम् । तस्य मण्डोदर्यां मेघनाद-जननम् । कुम्भकर्णस्य विद्युज्जिह्वया विवाहः । विभीषणस्य सरमया । रावणस्य वेदवती-शापः । अनरण्य-शापः । रावण-दिग्विजयः । कार्तवीर्यार्जुनेन रावण-बन्धनम् । बलिना तत्-पराजयः । बलि-गृहे हरिणा तन्-निरासः । रावणेन त्रिलोक-सुन्दरीणाम् अपहारः । तस्मिन् रामस्य कोपः । तद्-अर्थं दण्डकारण्य-गमनम् ॥

द्वितीयः सर्गः
रामेणात्रेर् आश्रमं प्रति गमनम् । सीता-अनसूया-संवादः । दण्डकारण्य-प्रवेशः । शरभङ्गाश्रम-गमनम् । शरभङ्ग-मुक्तिः । विराध-मोचनम् । राक्षसार्दितानां मुनीनां शरणागतिः । जानकी-रामयोर्-लीला-विवादः । विविधाश्रमेषु वासः । अगस्त्याश्रम-गमनम् । तेन वैष्णव-कोदण्डादि-समर्पणम् । पञ्चवट्यां जटायु-दर्शनम् । पर्णशाला-निर्माणम् ॥

तृतीयः सर्गः
शूर्पणखा-मुख-भङ्गः । चतुर्दश-राक्षसानां रामेण हननम् । ततश् चतुर्दश-सहस्राणां हननम् । दूषण-वधः ॥
[[P15]]

चतुर्थः सर्गः
त्रिशरसो वधः । खरस्य वधः । शूर्पणख्या रावण-कर्णे जपः । रावणेन गोकर्णे मारीच-साहाय्य-याचनम् । मारीचस्य हित-वचनम् । रावणेन तत्-तिरस्कारः । मायामृगात्मना मारीचेन रामाश्रम-सविधे चरणम् ।

पञ्चमः सर्गः
सीताभ्यर्थनया रामेण मृगानुगमनम् । राम-बाणेन मारीच-मृतिः । सीतया लक्ष्मण-भर्त्सनम् । आश्रमाल्-लक्ष्मण-गमनम् । भिक्षु-वेषेण रावणस्याऽगमनम् । सीतापहरणम् । रावण-जटायु-युद्धम् । पञ्च-वानरावासे गिरि-शृङ्गे सीतया स्वाभरण-मोचनम् । तस्या रावणेन अशोक-वनिकायां वासनम् ॥

षष्ठः सर्गः
लक्ष्मणस्य रामाभिगमनम् । जटायुषः संस्कारः । दनुकबन्धोद्धारः । मतङ्गाश्रम-गमनम् । शबरी-मोक्षः । पम्पा-दर्शनम् ॥

किष्किन्धाकाण्डम्

प्रथमः सर्गः
अञ्जनायां केसरिणा हनुमज्-जननम् । बालकस्य हनुमतो महिमातिशयः । तेन सुग्रीव-सख्यम् । भिक्षु-वेषेण हनुमता राम-समीप-गमनम् ॥

द्वितीयः सर्गः
हनुमता परिचय-प्रश्नः स्व-परिचय-दानं च । श्रीरामेण हनुमत्-प्रशंसा । लक्ष्मणेन परिचय-दानम् । हनुमता राम-लक्ष्मणयोः सुग्रीव-समीप-नयनं सख्य-प्रतिज्ञा च । सीता-प्रक्षिप्ताभरण-दर्शनम् । रामेण सुग्रीव-सान्त्वनम् ॥

तृतीयः सर्गः
सुग्रीवेण वालि-कृतापराध-वर्णनम् । रामेण वालि-वध-प्रतिज्ञा । दुन्दुभि-देह-क्षेपः । सप्त-साल-भेदनम् । वालि-वधार्थं किष्किन्धा-गमनम् ॥

चतुर्थः सर्गः
वालि-सङ्ग्रामे सुग्रीव-पराभवः । हनुमता तत्-कण्ठे गजपुष्प-मालार्पणम् । पुनर्युद्धे रामेण बाणेन वालि-पातनम् । वालि-कृतोपालम्भस्य रामेणोत्तर-दानम् । तारा-विलापः । वालिना सुग्रीवाय सन्देशः । तेन मूल-रूप-प्रवेशः ॥

पञ्चमः सर्गः
अन्तःपुर-वृद्धेन तारा-सान्त्वनम् । वालि-देह-संस्कारः । सुग्रीवस्य राज्याभिषेकः । अङ्गदस्य यौवराज्यम् । रामस्य माल्यवत्-कन्दरे वासः ॥
[[P16]]

षष्ठः सर्गः
हनुमता सुग्रीव-बोधनम् । राम-प्रेषितेन लक्ष्मणेन किष्किन्धा-गमनम् । तारया सौमित्रि-सान्त्वनम् । कपीनाम् आनयनम् । सुग्रीवेण राम-प्रपदनम् ॥

सप्तमः सर्गः
राम-सन्निधौ कपीनां समवायः । चतुर्दिक्षु कपीनां प्रेषणम् । दक्षिणां दिशं प्रति हनुमत्-प्रेषणम् । रामेण हनुमद्-हस्ते सीता-प्रत्ययायाङ्गुलीयक-दानम् । इतर-दिग्गतानां मासान्ते पुनर्-आगमनम् । अङ्गदेन मारीच-पुत्र-हननम् । हनुमत्-पुरोगानां मय-गुहा-प्रवेशः । स्वयम्प्रभया तेषां सत्कारः । तत्-सहायेन गुहाया निर्गमनम् । अङ्गद-नैराश्यम् । मारुतिना प्रबोधनम् ॥

अष्टमः सर्गः
दक्षिणोदधि-तीरे कपिभिः प्रायोपवेशन-निर्णयः । तै राम-कथा-वर्णनम् । जटायुषो मरणं श्रुत्वा सम्पाति-प्रश्नः । कपिभिः स्व-वृत्तान्त-कथनम् । जात-पक्षेण सम्पातिना सीता-स्थिति-कथनम् । वानरैः समुद्र-लङ्घने स्व-स्व-सामर्थ्य-प्रकटनम् । जाम्बवता हनुमति लङ्घनार्थं विज्ञापनम् । हनुमता तद्-अङ्गीकारः ॥
[[P17]]

सङ्ग्रहरामायणपीठिका

अथ कलाव् अस्मिन् भीमावतार-समाप्त्य् अनन्तरं चतुर्षु सहस्रेषु त्रिषु च शतेषु संवत्सराणाम् अतिगतेषु, पञ्चत्रिंशे शतके, भगवान् श्रीमध्वोऽवततार, तौळव-मण्डले, श्रीभार्गव-निर्मित-तीर्थ-चतुष्टय-परिगते दुर्गाधिष्ठित-विमान-गिरि-परिशोभिते पवित्रे पाजक-क्षेत्रे । दिष्ट्या तस्मिन् एव पुण्यतमेऽनेहसि, लिकुचान्वय-जातः, अत एव ‘जु’-पदोपाह्वस् तौळव-विपश्चित् पवमानोपसेवनार्थम् आगतस् त्रिनयन इव त्रिविक्रम-पण्डितः परिमण्डित-पण्डित-मण्डलः सम्प्रति ‘कासरगोडु’ इति व्यवह्रियमाणे ‘कबेनाडु’-विषये तौळव-मण्डलाधिपतेः श्रीजयसिंह-भूपतेर् आस्थान-विद्वान् राज-कविर् आस ।

स किल सप्ताष्टानि (सप्त वा अष्टौ वा) दिनानि श्रीमध्वेन सह वादं कृत्वा, उन्मीलितान्तर्नयनः स्व-पूर्वतनैर् अनुसृतं मायावादं विहाय श्रीमध्वान्तेवासी भूत्वा तत्ववाद-दीक्षां बबन्ध । तस्य त्रयः पुत्राः । तृतीयोऽस्य सङ्ग्रहरामायणाख्यस्य पुराण-काव्यस्य प्रबन्धा नारायण-पण्डितः । स्व-जनक इव कविषु कविः, वेदान्तिषु वेदान्ती । समग्रः कुडुम्बोऽप्याचार्य-मध्वानुग्रह-पात्रम् । पण्डितः संसारः । तद्-अनुग्रहस्यैव स्वादु फलम् इदं सङ्ग्रहरामायणम् ।

श्रूयते भगवता श्रीवाजि-वदनेन गदितं मूलरामायणम् इति महारामायणम् इति शतकोटि-ग्रन्थात्मकम् आसीद् इति - ‘मूलरामायणं चैव शतकोटि-प्रविस्तरम्’ इति । सम्प्रत्य् अयं ग्रन्थो नोपलब्धः । प्रायो नष्ट एव अपुनर्-दर्शनाय । अथाप्य् अस्य प्रबन्धुः पिता त्रिविक्रम-पण्डिताचार्यः परिचित-मूलरामायणस् तत्र विहरन्न् आसेति चास्माद् एव ग्रन्थाद् विज्ञायते—‘सूक्ति-रत्नाकरे रम्ये मूलरामायणार्णवे । विहरन्तो महीयांसः प्रीयन्तां गुरवो मम’ (सं.रा.१.१.६) इति । अत्र गुरव इति स्व-पितृ-निर्देश इति सर्वेषाम् ऐककण्ठ्यम् । तेनोह्येत् यद् अयम् अपि प्रबन्धा मूलरामायणार्णवे कृत-स्नान इति ।
[[P18]]

मूलरामायणस्य सङ्ग्रहो वाल्मीकिरामायणम् । उभयोः सार-सङ्ग्रहो श्रीमहाभारत-तात्पर्य-निर्णय-गतं मध्वरामायणम् । वाल्मीकिरामायणस्य मध्वरामायणस्य च सेतुबन्धः श्रीनारायण-पण्डिताचार्य-कृतम् इदं सङ्ग्रहरामायणं नाम । मूलरामायणस्य वाल्मीकिरामायणस्य च सङ्क्षेपोऽयम् । सङ्ग्रहेण रामायणम् इति सङ्ग्रहरामायणम् । सम्यक् गृह्यते अवबुद्ध्यते रामायणं मध्वरामायणं चानेनेति च सङ्ग्रहरामायणम् ।

तद् इदं कथा-विस्ताराय वाल्मीकिरामायणम् अनुकरोति । वाल्मीकिरामायणेऽप्य् अस्फुटे चरितांशे प्रायो मूलरामायणम् । सन्दिग्धेषु च स्थलेषु येषु रामायणं महाभारतं पुराणानि च परस्पर-विरुद्धानीव भासन्ते तत्र निर्णयाय च मध्वरामायणम् ।

आचार्यमध्वेन किल भारत-कथा-निर्णयाय महाभारत-तात्पर्य-निर्णयः प्राणायि । तत्रैव च सङ्क्षेपतो रामायण-कथा च निरणायि । तद्-विस्तरोऽयं रामायण-तात्पर्य-निर्णयः सङ्ग्रहरामायणं नाम ।

श्रूयते किंवदन्ती– दृष्ट्वा चेदं पौराणिकं महाकाव्यं स्वयम् आचार्यमध्वः परं सन्तुतोषेति, सन्तुष्य च ‘अहो सर्षपे कूष्माण्ड-प्रवेशोऽयम्’ इति प्रशशंसेति । तेनाऽचार्यमध्वः प्रबन्धम् इमम् अवलोक्य प्रीत्या प्रबन्धारम् अनुजग्राह स्वयम् आशीर्वचनैर् इति ज्ञायते । तद् इदम् अस्य ग्रन्थस्य प्रामाण्यं द्रढयति, प्रबन्धुश् चाऽप्ततमत्वम् ।

श्रीविश्वपतितीर्थस् तु आचार्यमध्वाभिमत्यैव पण्डिताचार्यो ग्रन्थम् इमं प्रणिनायेत्याह- ‘श्रीमदानन्दतीर्थानाम् अभिमत्या वाल्मीकिरामायणस्य तात्पर्यार्थं वक्तुं प्रवृत्तो नारायण-पण्डिताचार्यः’ इति, ‘वाल्मीकेर् गौः-’(१.१.७) इति श्लोक-व्याख्यानावतरणिकायाम् ।

केचिद् इदं नारायण-पण्डिताचार्यस्य प्रथमा कृतिर् इत्य् अभिप्रयन्ति । तथा हि वैश्वनाथिर्-नारायणाचार्यः शिवस्तुति-टीकायाम्—

‘श्रीरामायण-पारिजात-हरण-श्रीमध्व-चारित्रिकाऽ-
ख्यानं काव्य-गणं विधाय विदधे दिव्यां शिवस्य स्तुतिम्’ इति ।

एतद् अनुसारेण सङ्ग्रहरामायणं प्रथमं व्यरचत् । ततः पारिजात-हरणं नाम यमक-काव्यम् । ततः श्रीमध्व-विजयाभिधं श्रीमध्व-चारित्रिकाख्यानम् । ततः मणिमञ्जरी-शुभोदय-प्रमुखं रामगीत्यादिकं यमक-स्तोत्रात्मकं च खण्ड-काव्य-गणं विधाय अन्ते शिवस्तुतिं चकार । शिवस्तुत्या ग्रन्थ-रचनोपसंहारम् अनिच्छन् सर्वान्ते च श्रीनरसिंह-स्तुतिं निबबन्धेति भाति ।
[[P19]]

स्यान् नाम । शिवस्तुति-नरसिंह-स्तुत्योर् अनुपमा प्रौढा शैली प्रबन्धुर् अपि प्रौढं वयः सूचयतीव । एवं सङ्ग्रह-रामायणेऽपाणिनीयानां छान्दसानां प्रयोगाणां प्राचुर्यं प्रबन्धुर् आचार्य-प्रयोगानुकरणोत्साहं प्रदर्शयत् तस्य तरुणतां विवृणोतीव । एवं महाभारत-तात्पर्य-निर्णयेन सञ्जात-स्फूर्तिः सङ्ग्रहरामायणं व्यरचयत् । महाभारत-तात्पर्येण (यमक-भारतम् इति प्रथितेन) प्राप्त-स्फूर्तिः पारिजात-हरणं व्यरचयत् । ततश् च यत्-कृतिभ्यां जात-स्फुरणः स्वयम् एव प्रबन्धद्वयं प्रणिनाय, यत्-प्रवचन-माधुरीम् आस्वादम् आस्वादं गलित-गर्वः स्व-तातः परम्परागतम् अद्वैत-सम्प्रदायं विहाय मध्वस्यान्तेवासी बभूव, बभूव च तत्ववाद-बद्ध-दीक्षः, तस्य श्रीमध्वस्य जीवन-वृत्तम् अद्भुतं गाढम् अभ्यस्य श्रीमध्व-चरितं प्रबबन्धेत्य् अतिसुन्दरम् ।

एतया चापूर्वतमया गुरु-सपर्यया परिचर्यया च पितेव पुत्रोऽपि भगवत्-पाद-परमानुग्रह-भाजनं बभूवेति युक्तम् उत्पश्यामः । प्रायः सन्यासि-शिष्येभ्योऽप्य् अधिकतरा सेवा पुनर् एताभ्यां पिता-पुत्राभ्यां कृता ।

भगवत्पाद-कृतस्य श्रीमद्-ब्रह्मसूत्र-भाष्यस्यानुपमा व्याख्या तत्वप्रदीपाख्या श्रीत्रिविक्रम-पण्डिताचार्य-रचिता भाति माध्व-वाङ्मयस्य कोटीरताम् आटीकमाना । अथ च श्रीब्रह्मसूत्रानुव्याख्यानस्य टीका नयचन्द्रिका, श्रीविष्णु-तत्व-निर्णयस्य टीका तत्वमञ्जरी चेति द्वे कृति-रत्ने तत्ववाद-कर्णपूरायिते राराज्येते तत्-तनय-कृते । अनुव्याख्यान-सम्बन्ध-दीपिका न्याय-विवरण-सम्बन्ध-दीपिका च केयूरायिते शङ्कर-पण्डिताचार्य-कृते । एवं सर्व-शास्त्रार्थ-सङ्ग्रहाख्यस्य सङ्ग्रह-भाष्यस्य टीका नारायण-पण्डिताचार्य-तनयेन वामन-पण्डिताचार्येण रचिता आनन्दमाला ग्रैवेयकायते, या पुनर् अध्यात्म-चिन्तकानाम् आनन्द-मालैव । तद् एवं गतं सूत्र-प्रस्थानम् ।

अथ चोपनिषत्-प्रस्थाने षण्णाम् उपनिषद्-भाष्याणां वामन-पण्डिताचार्य-कृताष्-टीका वैदिक-वाङ्मयस्यैवापूर्वतमा उपदाः । षड्यष्टिः कण्ठे मुक्तावलीव, पारिहार्याणीव कर-कमलयोः । भगवत्-पादानुग्रह-लब्धम् अपूर्वं वेदार्थ-परिज्ञानं लिकुच-कुल-जानाम् । तद् एवं गतम् उपनिषत्-प्रस्थानम् ।

यद्यपि षण्णाम् एवोपनिषद्-भाष्याणां टीकास्-त्रैविक्रमार्य-दासेन वामन-पण्डितेन रचिताः सम्प्रत्य् उपलब्धाः । न दशानाम् अपि । सम्भाव्यते पितामहस्य पितुश् चाऽज्ञया दशानाम् अप्य् उपनिषद्-भाष्याणां टीकास् तेन विरचिताः स्युर् इति । किन्तु षड् एव साम्प्रतम् उपलभ्यन्ते । तावतैव सन्तोष्टव्यम् - यद् आचार्याभिमतोऽपूर्वो वैदिकः पन्थास्-तेनाऽविष्कृत इति । मन्यामहे यद् अयम् अपि प्राय आचार्य-मुखाद् एव बाल्ये श्रुतोपनिषत्कः स्याद् इति । यदि तदीयम् उपनिषद्-व्याख्यानं नोपालप्स्यत दुष्करम् एव तर्ह्य् अभविष्यद् आचार्यमध्वाभिमतस्य वेदान्तरङ्गस्य चिन्तनम् । अधमर्णा वयं तत्रभवतस्-त्रैविक्रमार्य-दासस्य वामन-पण्डिताचार्यस्य ।
[[P20]]

प्रायः श्रीपद्मनाभ-तीर्थ-नरहरि-तीर्थाभ्यां स्फुटं विवृत-चर् इति न लिकुच-वंशीयैः गीता-प्रस्थान-विवरणाय प्रयतितम् इति भाति । तद् अयं लिकुच-वंशीयानां कृति-सङ्ग्रहः–

त्रिविक्रम-पण्डिताचार्यस्य
१. उषाहरणम् (कौमार एव रचितं महाकाव्यम्)
२. तत्वप्रदीपः (अपूर्वा चानुत्तरा च ब्रह्मसूत्र-भाष्य-टीका)
३. विष्णुस्तुतिः (अपूर्वम् आशु-काव्यम्)
४. वायुस्तुतिः ("")
५. पूर्णबोध-स्तोत्रम् (चतुर्दश-स्तोत्रेषु अष्टमं स्तोत्रम्)
६. मध्वाष्टकम्

पूर्णबोध-स्तोत्रं कल्याणी-देवी-रचितम् इति केचित् । भगवती भ्रान्तिर् एवेयम् । ‘प्रणतवान् प्राणिनां प्राणभूतम्’ इति ध्रुवपदे पुल्लिङ्गेनाऽत्मनो निर्देशाद् । श्रीविश्वपतितीर्थः स्तोत्र-कृतो नाम न निर्दिदेश । अथापि ‘कविवर्याः’ इति सबहुमानं व्याहरति । तेन कवि-कुल-तिलकस्य त्रिविक्रम-पण्डितस्य कृतिर् इयम् इति निर्धार्ये ।

नरसिंह-स्तुतिर् अप्य् एतत्-कृतेति बहवो व्याख्यातारः । अथापि बहु-प्रतन-कोशानुसारेण तौळव-देश-सम्प्रदायतश् च नारायण-पण्डिताचार्यस्येयं कृतिर् इति विज्ञायते ।

शङ्कर-पण्डिताचार्यस्य
१. अनुव्याख्यान-टीका सम्बन्ध-दीपिका ।
२. अनुव्याख्यान-न्यायमाला-न्याय-विवरण-सम्बन्ध-दीपिका ।

द्वौ शङ्करार्यौ लिकुच-वंशोद्भवौ श्रीमध्व-शिष्यौ श्रूयेते । तयोः कतरोऽनयोर्-ग्रन्थयोः प्रणेतेति न स्फुटम् । तयोर् एकः त्रिविक्रम-पण्डितस्यानुजः श्रीमध्व-गुरोर्-ग्रन्थपाल आसीत् । प्रायः स एवानयोः प्रणेता स्याद् इति सम्भाव्यते ।

अपूर्वा चेयं सम्बन्ध-दीपिकाख्या व्याख्या-सरणिः । अनुव्याख्यान-सम्बन्ध-दीपिकायां पूर्वोत्तर-श्लोकयोर् अवतरणिकया केवलं सम्बन्धं दीपयति । न श्लोकान् व्याख्याति । एवम् अपरो ग्रन्थः केवलम् अनुव्याख्यान-न्याय-मालाया [[P21]] न्याय-विवरणस्य च परस्परं सम्बन्धं दीपयित्वा विरमति । विदुषां रसायनम् इदं व्याख्यानं स्व-प्रकाशन-अवकाशं निरीक्षमाणम् आस्ते ।

नारायण-पण्डिताचार्यस्य
१. सङ्ग्रहरामायणम् (पौराणिकं महाकाव्यम्)
२. श्रीमध्वविजयः (चारित्रिकं महाकाव्यम्, सुमध्व-विजय इति वदन्तो नाम-भ्रान्ताः ।)
३. भावदीपः (श्रीमध्वविजयस्यापूर्वा लघु-टिप्पणी, यां भाव-प्रकाशिकाम् इत्य् अप्य् आहुः)
४. प्रमेयनवमालिका (श्रीमध्वविजय-कथा-सङ्ग्रहः । अणुमध्व-विजय इत्य् अर्वाचीनाः । दिष्ट्या अणु-सुमध्व-विजय इति नाम न कृतं तैः । )
५. पारिजात-हरणम् (यमक-काव्यम् । सकृन्-मुद्रितम्, नातिशुद्धम् ।)
६. नयचन्द्रिका (अनुव्याख्यान-टीका)
७. तत्वमञ्जरी (विष्णु-तत्व-निर्णय-टीका)
८. मणिमञ्जरी (विवाद-पदं चारित्रिकं खण्ड-काव्यम्)
९. शुभोदयम् (पौराणिकं खण्ड-काव्यम्)
१०. कृष्णमाला (कृष्ण-चरितानुक्रमः)
११. योगदीपिका (अनुष्ठान-पद्धतिः)
१२. शिवस्तुतिः (प्रबुद्धं स्तोत्र-काव्यम्)
१३. नरसिंहस्तुतिः ("")
१४. दाशरथ्यष्टकम् (चतुर्दश-स्तोत्रेषु एकादशम् )
१५. रामगीत्यष्टकम् ("" द्वादशम्)

क्वचित् प्राचीन-कोशेषु एतद्-अष्टक-द्वयं विना नाम-निर्देशं ‘पूर्वसूरि-कृतम्’ इतीयदेव पठ्यते । बहुषु कोशेषु नारायण-पण्डिताचार्य-कृतम् इति ।
[[P22]]

तदीयत्वेन सम्भाविताः कृतयः
१६. ध्यानमाला (ध्यान-प्रक्रिया)
१७. पूर्णबोध-स्तुतिः (यमक-स्तोत्रम्)
१८. गोविन्द-स्तुतिः ( "" )

अन्यानि च बहूनि यमक-पद्यानि ताळपत्र-कोशेषु दृश्यन्ते - तत्र-तत्र पत्र-पूरणार्थं लिखितानि । शैली-परिशीलनेन तान्यपि नारायण-पण्डिताचार्य-कृतानि स्युर् इति भाति ।

ऐतिह्यविदो वदन्ति—- यमक-भारतम् इति प्रथितस्य महाभारत-तात्पर्यस्यापि व्याख्या नारायण-पण्डिताचार्य-कृताऽऽसीद् इति । स्याद् अपि । स्वयं यमक-काव्य-कर्ता यमक-प्रियः कविर् भगवत्-पाद-कृतं यमक-काव्यं व्याचख्याव् इति सुश्लिष्टम् । तेन विश्वसनीयेयं किंवदन्तीति भाति । तथाऽपि नैतावत्-पर्यन्तम् एकाऽपि तस्य हस्तलिखिता प्रतिकृतिर्-दृष्टिपथम् आपपात ।

सुदिष्टम् एतद् यत् स्वयं भगवत्-पाद-मुखाच्-छ्रुत-यमकार्थस्य श्रीनरहरितीर्थस्य व्याख्या श्रीकृष्ण-प्रकाशिका सम्प्रति समुपलब्धा । तेन विश्व-विस्मयस्य यमक-काव्यस्य भगवत्-पादाभिमता अपूर्वा अर्थाः सुरक्षिता अधुनाऽपि नः सुशक्यावगमा बभूवुः । अपव्याख्यान-जम्बाल-जटिले अध्ययन-पथ-कान्तारे पुनर् इयम् एका मार्गदर्शिनी दीपाटिकेव दीप्यते । अथापि ‘देवानां पतयो नित्यं नो मतं यस्य जानते’ इति पद्ये कं बन्ध-विशेषं निबबन्धाऽचार्य इत्य् अस्फुटम् एव । यदि नारायण-पण्डिताचार्यस्य व्याख्यानम् उपालप्स्यत नूनं स्फुटम् अभविष्यत् कोऽयम् अपूर्वो बन्ध इति ।

अन्ये त् वाहुः– मिथ्यात्वानुमान-खण्डनस्य टीका पद्यमयी नारायण-पण्डिताचार्य-कृता श्रीपेजावर-मठीय-ग्रन्थालये समुपलब्धेति । अदृष्ट-मूल-कोशानाम् अज्ञात-तौळव-लिपीनां भ्रम-विलसितम् एतत् ।

पेजावर-मठीय-ग्रन्थालये समुपलब्धेति तथ्यम् । नारायण-पण्डिताचार्य-कृतिर् इति न तथ्यम् । तस्याष्-टीकाया रचयिता ग्रन्थादौ पद्मनाभतीर्थं प्रणमति । त्रिविक्रम-पण्डिताचार्यस्योल्लेखोऽपि न दृश्यते । नायं लिकुच-वंशीयानां सम्प्रदायः । तेन सा प्रतनाऽपि न लिकुच-कुल-जानां कृतिर् इति निश्चीयेत । शैली च न लिकुच-कवि-संवादिनी । प्रायः श्रीपद्मनाभ-तीर्थस्यान्तेवासिष्व् अन्यतमेन रचिता स्यात् ।

कृष्णामृत-महार्णव-टीकाऽपि नारायण-पण्डिताचार्य-कृताऽऽसीद् इति श्रूयते किंवदन्ती । स्यात् तथ्यम्, न वा स्यात् । अनुपलब्धेर्-न किम् अपि निर्णेतुं शक्यम् ।
[[P23]]

अन्ये च केचन ग्रन्था नारायण-पण्डिताचार्य-रचिता इति वृथा केचिद् आचक्षते । ते चेमे - १. अणुभाष्य-टीका, २. मध्वामृत-महार्णवः, ३. अंशावतारः, ४. मध्व-कवचम्, ५. अणु-वायु-स्तुतिः, ६. तारतम्य-स्तोत्रम्, ७. महालक्ष्मी-स्तुतिः - इति ।

नैते ग्रन्थाः पण्डिताचार्य-कृताः ।
सङ्ग्रह-भाष्य-(अणु-भाष्य)-टीका त्रैविक्रमार्य-दासेन नारायण-पण्डिताचार्य-तनयेन वामन-पण्डिताचार्येण रचिता वर्वर्ति । न चैकं ग्रन्थं विना विशेष-कारणं पिता-पुत्राव् उभाव् अपि व्याचिख्यासतः । अपि च भिन्नस्-त्रैविक्रमार्य-दासानुसृतः पाठः । भिन्नश् च नारायण-पण्डिताचार्य-कृतत्वेन कैश्चिद् अभिगमतायां टीकायाम् उद्धृतः पाठः । न हि पिता-पुत्रयोर्-मूल-पाठे विवाद आसीद् इति युक्तं वक्तुम् । मूल-पाठानुगुणश् च त्रैविक्रमार्य-दास-पाठः । सर्वात्मना तद्-विरुद्धश् चान्य-पाठः । तेन निर्विवादं निश्चीयेत नेयं टीका नारायण-पण्डिताचार्य-कृतेति । तेनास्य ग्रन्थस्य प्रणेता वैश्वनाथिर्-नारायणाचार्य इति विमर्शकानां मतम् एव सुश्लिष्टतरम् । नह्य् अविमृश्य वदन्तो विदन्तो भवन्ति ।

मध्वामृत-महार्णवस् त्व् असह्या कृतिः ।
अवमाननम् इदं लिकुच-कुल-कवेर् यद् अस्याप्रबुद्धस्य ग्रन्थस्य तत्-कृतत्व-कल्पनम् ।

अथांशावतारः । अत्र बहवो भाषा-दोषाः । छन्दो-दोषाश् च । अत्रोदितानि कानिचन प्रमेयाणि महाभारत-तात्पर्य-निर्णयापरिज्ञान-मूलानीति श्रीपलिमारु-मठीय-तत्व-संशोधन-संसदा प्रकाशितस्य म.भा.ता.निर्णयस्य पीठिकायां द्वितीय-सम्पुटे विशदं विवृतम् अस्माभिः । अथापि ग्रन्थोऽयं समग्रतया म.भा.ता.निर्णयानुगुण इति रटन्तोऽद्भुता एव । क्षमतां पण्डिताचार्यस् तान् ।

अत्र सन्ति पद-दोषाः । सन्त्य् अर्थ-दोषाः । अस्ति च्छन्दो-भङ्गः । अस्ति पुनरुक्तिः । अस्ति च व्यर्थ-पदता । न केवलं शास्त्र-प्रमेयेषु, शब्द-रूपेष्व् अपि यः स्खलति स कथं लिकुचान्वयः स्यात् ? एवं स्थितेऽपि येऽंशावतारं लिकुचान्वयेन सम्बध्नन्ति तैः प्रथमं शब्द-रूपावलिः प्रायोऽभ्यसनीया भवति ।

यच् चान्यत् पुनर् अगादि— बहुषु स्व-सङ्गृहीतेषु हस्तलिखितेषु कोशेषु - ‘लिकुच-नारायण-पण्डितानां कृतिः’ इत्य् एवोपसंहार-वाक्यं पठ्यते, तेन लिकुचान्वयस्य नारायण-पण्डिताचार्यस्यैवेयं कृतिर् इति । नन्व् इदं गर्ते पतिष्यतः कुश-काशावलम्बनम् । यत्र मूलम् एव सर्वम् असङ्गतं तत्र का कथा अव्युत्पन्न-जन-लिखितस्य उपसंहारोल्लेखस्य । लिपिकृताम् अकृत-मुखानां प्रमाद एवायम् । यथा मङ्गलाष्टकं श्रीवादिराज-यति-कृतम् इति । यथा [[P24]] वाऽणुभाष्य-व्याख्यानं लिकुचान्वय-नारायण-पण्डिताचार्य-कृतम् इति । न हि शतं लिपिकृतोऽलिखन्न् इति अतथ्यं तथ्यं भवति । न हि शतकृत्व आवर्तनेऽपि मिथ्या पुनर्-अमिथ्या भवति । सर्व एते पिण्डी-शूरा एव ।

आदौ तावद् एको लिपिकारः प्रमाद्यति । अन्येऽक्षर-जीवनास् तम् अनुसरन्ति । एवं कायस्थानां प्रमाद-परम्परैव पर-प्रत्यय-नेय-बुद्धीनां विमर्शकम्-मन्यानां प्रमाण-पदवीं याति । दुरन्तं दिष्टम् एतद् विमर्शन-क्षेत्रस्य, यद् एभिः शुद्धः सम्प्रदायो महता प्रयत्नेन प्रतनैः संरक्षितः क्षणेन कच्चरी-क्रियते ।

सत्यधर्म-तीर्थादिभिर्-यथा स्व-दृष्ट-हस्तलिखित-कोशेषूपलब्धं तथैवोल्लिखितम्, न तत्र विशिष्य विमर्शने प्रयतितम् इति तद् अप्य् अनिर्णायकम् । हस्तलिखित-कोशाः प्रायोऽव्युत्पन्नैर्-लिखिता इति तत्रापि कः साधुः कोऽसाधुर् इति विम्रष्टव्यं भवति । तथा हि–‘नारायणं नमस्कृत्य-’ इत्य् एतद् भारताद्य-पद्यम् इति बहु-कोश-संवादः । ‘नारायणं सुरगुरुम् -’ इति कतिषुचिद् एव कोशेषु । अथापि स एव मूल-पाठ इत्य् आचार्य-वचनाद् अवसीयते ।

उक्तं चाऽचार्यैः मूल-पाठ-निर्णये सदा जागरूकैर्-भाव्यम् इति – ‘क्वचिद् ग्रन्थान् प्रक्षिपन्ति क्वचिद् अन्तरितान् अपि । कुर्युः क्वचिच् च व्यत्यासं प्रमादात् क्वचिद् अन्यथा’ इति । यदि बहुषु हस्तलिखित-कोशेषूपलब्धिर् एव मानत्वे निर्णयनी तर्हीदम् आचार्य-वचनं निर्विषयम् आपद्येत ।

मध्व-कवचम् अनिश्चित-कर्तृकम् । अणु-वायु-स्तुतिर् एका कल्याणी-देवी-कृतेति प्रथा । अपरं च नन्दसूनु-स्तोत्रं त्रिविक्रम-पण्डिताचार्य-शिष्येण केनचित् कृतम् इति विश्वपतितीर्थः । स्याद् अपि नारायण-पण्डिताचार्य-कृतिः ।

तारतम्य-स्तोत्रं च स्यान्-नारायणाह्वेन केनचित् पण्डितेन रचितम् । न लिकुच-कविना । तत्रेदम् एकं स्फुटं गमकम्— सुपर्णस्य पत्नी सुपर्णीति सर्वत्र प्राचीन-प्रयोगेष्व् ऐककण्ठ्यम् । न कापि प्राचीन-ग्रन्थेषु सौपर्णीति प्रयोगो दृश्यते । दृश्यते च तारतम्य-स्तोत्रे - ‘सौपर्णी वारुणी पर्वत-पति-तनया’ इति । ‘वर-निरृति-नामा’ इति च्छन्दो-भङ्गः । तस्मान् नेयं लिकुच-पण्डित-कृतिर् इति निश्चीयेत ।

क्वचिद् व्याख्यातारोऽपि भ्राम्यन्ति । यथा ‘पान्त्व् अस्मान् -’ इत्यादेः पद्यद्वयस्य नख-स्तुतितां वदन्तः । यथा वायुस्तुतेः समग्राया अपि विष्णु-परतां वदन्तः । एतेन महालक्ष्मी-स्तुतिं पण्डिताचार्य-कृतां वदन्तोऽपि व्याख्याताः । वैश्वनाथेः नारायणाचार्यस्य कुल-देवता महालक्ष्मीः । ताम् अयं तुष्टावेति स्फुटम् ।

एवम् एतेषु बहवो ग्रन्थाः वैश्वनाथिना नारायणाचार्येण रचिता इति सम्प्रति निरणायि । सर्वत्रापि नारायणाचार्य इति नाम-साम्यं विमर्शन-प्रज्ञा-वैधुर्यं च भ्रम-मूलम् । तत्रापि नारायणाचार्य-पद-श्रवणे सर्वेषां माध्वानां [[P25]] प्रथम-प्रतिपत्तिः पण्डिताचार्यस्यैव । तस्मात् सर्वम् इदं संशोधन-प्रज्ञा-विधुराणाम् अप्रबुद्धं भ्रान्ति-लसितम् । युक्तम् इदं पाश्चात्यानाम् आभाणकम्-
“if a blind man follows another blind man both of them will fall into a pit”.

नारायण-पण्डिताचार्याग्रजस्य
१. रमेश-गीतिः (चतुर्दश-स्तोत्रेषु द्वितीयं स्तोत्रम्)

अस्या रचयितुर्-नाम नोपलब्धम् । गीत्यन्ते चैवं पठ्यते–‘लिकुच-कवि-नन्दनः सन्-नुपान्त्यः’ इति । निरुपपदो लिकुच-कविस्-त्रिविक्रम-पण्डिताचार्य एव । तस्य त्रयः पुत्राः । तृतीयो नारायण-पण्डिताचार्यः । अयम् उपान्त्य इति द्वितीयः पुत्र इति स्फुटम् । एतम् आगूर्य नान्यत् किम् अपि ज्ञायते । नामधेयम् अपि । तत्-कृतित्वेन लब्धा चेयम् एकैव स्तुतिः ।

वामन-पण्डिताचार्यस्य
नारायण-पण्डिताचार्यः स्व-कृत-नयचन्द्रिकादिष्व् आत्मानं त्रैविक्रमार्यम् आह । तत्-तनयोऽयं वामन-पण्डिताचार्यः पितुर् एव पद्धतिम् अनुसरन्न् आत्मानं त्रैविक्रमार्य-दास इत्य् एव टीकासु निर्दिशति । तस्य च सप्त टीकाः उपलब्धाः–
१. याज्ञीय-मन्त्र-भाष्य-टीका
२. काठकोपनिषद्-भाष्य-टीका
३. तलवकारोपनिषद्-भाष्य-टीका
४. षट्प्रश्नोपनिषद्-भाष्य-टीका
५. आथर्वणोपनिषद्-भाष्य-टीका
६. माण्डूकोपनिषद्-भाष्य-टीका
७. आनन्दमाला (सङ्ग्रह-भाष्य-टीका)

अथ चैका स्तुतिः (चतुर्दश-स्तोत्रेषु प्रथमं स्तोत्रम्) वासुदेव-गीतिर् इति प्रथिता । तत्र ‘लिकुच-तिलकात्मजानां प्रसादाद्-अवर-जनिना कृता’ इति श्रूयते । कोऽयम् अवर-जनिर् इति न स्फुटम् । लिकुच-तिलकात्मजेषु त्रिषु योऽवरः नारायण-पण्डिताचार्यः, तेन जन्यत इति व्याख्याने इयम् अपि वामन-पण्डिताचार्य-कृतिः स्यात् । एवं नृसिंह-गीतिर् अपि (चतुर्दश-स्तोत्रेषु तृतीयं स्तोत्रम्) नारायण-पण्डिताचार्यस्यान्तेवासिष्व् अन्यतमेन वा, तत्-तनयेन वामन-पण्डिताचार्येण वा कृता स्याद् इति भाति ।

कल्याणीदेव्याः
एवं चतुर्दश-स्तोत्रेषु पञ्चमं (अणु-वायु-स्तुतिः), षष्ठं (गोविन्द-स्तोत्रम्), सप्तमं (मुकुन्द-स्तोत्रम्) च कल्याणी-देवी-रचितानीत्य् ऐतिह्यम् । एवम् ऐतिह्ये द्वे कल्याणीदेव्यौ श्रूयेते । एका श्रीमध्व-भगिनी । अपरा लिकुचान्वय-जा [[P26]] त्रिविक्रम-पण्डिताचार्य-भगिनी । अनयोः कतरा पुनर् एतानि जग्रन्थेति न स्फुटम् । प्रायः प्राय-पाठात् लिकुचान्वय-जैव स्याद् इति भाति ।

एतावन्तः सम्प्रत्य् उपलब्धा लिकुचान्वयानां ग्रन्थाः । काल-गर्भे निलीय घुण-भुक्ताः प्रनष्टाः कियन्त इति न जानीमः । अथापि, सम्प्रत्य् उपलब्धा एतावन्त एव तत्ववादे लिकुचान्वयानां मूर्धन्यत्वं स्फुटम् अवगमयति । ऋते चैतेषाम् अध्ययनात् न मध्व-हृदयं शक्यं स्फुटम् अवगन्तुम् इति ।

पौराणिकम् ऐतिहासिकं महाकाव्यम्: सङ्ग्रहरामायणम्

अस्ति तावद् रामायण-सङ्गतं महाकाव्यं महाकविना कालिदासेन ग्रथितं रघुवंशं नाम । नूनं रमणीयं काव्यम् । अथापि तत्र राम-कथाऽतिसङ्क्षिप्ता । क्वचिद् अननुगुणा च रामायणस्य । तथा हि तद्-वचनम्—

स तेजो वैष्णवं पत्त्योर्-विभेजे चरु-सञ्ज्ञितम् ।
द्यावा-पृथिव्योः प्रत्यग्रम् अहर्पतिर् इवार्णवम् ॥

अर्चिता तस्य कौसल्या प्रिया केकय-वंशजा ।
अतः सम्भावितां ताभ्यां सुमित्राम् ऐच्छद् ईश्वरः ॥

ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्-महीक्षितः ।
चरोर्-अर्धार्ध-भागाभ्यां ताम् अयोजयताम् उभे ॥ ( १०.५४-६)

इमं ग्रन्थ-भागं व्याख्यान् मल्लिनाथोऽप्याह- ‘अयं च विभागो न रामायण-संवादी । किन्तु पुराणान्तर-संवादी द्रष्टव्यः’ इति ।

भरतो रामाद् अनन्तरः । ततो लक्ष्मण-शत्रुघ्नौ यमौ जाताव् इति बहूनां रामायण-व्याख्यातॄणां भगवान् भ्रमः । कालिदासोऽपि नापवादः । अत आह—

सुतौ लक्ष्मण-शत्रुघ्नौ सुमित्रा सुषुवे यमौ । ( १०.७१)


अथ भोजराज-कृतं लक्ष्मण-सूरि-कृत-युद्धकाण्डोपेतं चम्पूरामायणं वाल्मीकीयं रामायणम् अविकलम् अनुकरोति । चित्रम् एतत्, यत् पायस-विभागे सोऽपि बभ्रामैव । तथा हि तद्-वचनम्—
[[P27]]

कौसल्यायै प्रथमम् अदिशत् भूपतिः पायसार्धं
प्रादाद् अर्धं प्रणय-मधुरं केकयेन्द्रस्य पुत्र्यै ।
एते देव्यौ तरळ-मनसः पत्युर् आलोच्य भावं
स्वार्धांशाभ्यां स्वयम् अकुरुतां पूर्ण-कामां सुमित्राम् ॥ (१.२३ )

व्याख्याता रामचन्द्रार्यश् चाऽह-
‘अयं विभागो न रामायण-सम्मतः । तत्र चरोर्-अर्धं कौसल्यायै, अवशिष्टार्थं सुमित्रायै, शिष्टार्थं कैकेय्यै, शिष्टं पुनः सुमित्रायै— इत्य् अभिधानात् । किन्तु पुराणान्तर-संवादो द्रष्टव्यः । उक्तं च नरसिंह-संहितायाम्- ‘ते पिण्ड-प्राशने काले सुमित्रायै महामती । पिण्डाभ्याम् अल्पम् अल्पं तु स्व-पत्न्यै प्रयच्छतः’ इति । एवम् अन्यत्रापि सति विरोधे पुराणान्तरात् समाधातव्यम्’ इति ।


अथ हनुमन्-नाटकं महानाटकम् इति च प्रसिद्धम् अनाटकं काव्यम्, दशकण्ठ-वध-सेतुबन्धादीनि बहूनि रस-भव्यानि महाकाव्यानि कवयः प्रणिजगदुः । भासस्य यज्ञफलम् अभिषेक-नाटकं प्रतिमा-नाटकं च, दिङ्नागस्य कुन्दमाला, भवभूतेर्-महावीर-चरितम् उत्तररामचरितम्, शक्तिभद्रस्याऽश्चर्य-चूडामणिः, मुरारेर्-अनर्घ-राघवम्, राजशेखरस्य बालरामायणम्, जयदेवस्य प्रसन्न-राघवम् इत्यादीनि च रम्याणि रूपकाणि । तत्र काव्यत्वस्यैव प्राधान्यम्, नेतिहासस्य । भट्टिकाव्यं पुनर्-व्याकरण-भार-भुग्नम् । न तस्य कवेः स्व-कृतैर्-ऐतिहासिकत्वे रामायणादि-मूलत्वे वा भरः । नापि तत्र सर्वत्र समग्रस्य रामायणस्य सङ्ग्रहश् चेतीदं पण्डिताचार्योपज्ञम् अधि-रामायणं समग्रम् अर्थतः शब्दतश् च यथामूलम् इति महद् इदम् अन्वर्थं पौराणिकम् ऐतिहासिकं चेति शास्त्रीयं महाकाव्यम् ।

सन्ति चान्यानि रामायणानि शेष-रामायणम् इति, अद्भुत-रामायणम् इति, आनन्द-रामायणम् इति, अध्यात्म-रामायणम् इति, पौराणिकत्वेन प्रसिद्धानि । योग-वासिष्ठम् इति, वासिष्ठ-रामायणम् इति च प्रसिद्धं चतुर्विंशति-सहस्र-श्लोकमयं रामायणान्तरं वाल्मीकिनैव रचितम् इति किंवदन्ती । यद्यपि हृद्यानि । अथ पुराण-गतान्य् अपि दर्शन-भाषादि-मयानि । अन्यानि च कानिचिद् वाल्मीकिरामायणादि-विसंवादात् सन्दिग्ध-मूलानीति नान्ततः प्रमाण-पदवीम् अर्हन्ति । वासिष्ठ-रामायणं तु केवलं वसिष्ठेन रामस्याद्वैत-बोधन-कथामयम् । नूनम् अद्वैत-प्रसारायैव निर्मितो ग्रन्थः । चतुरः प्रबन्धा । न नूनं वाल्मीकिः । अर्वाक्तनोऽयं प्रबन्धा पुनर् आचार्य-शङ्कराद् अपि । यदि ततोऽपि प्रतनम् इदम् अभविष्यत्, उदाहरिष्यद् एव स्व-मत-साधनाय प्रबलतमं प्रमाणम् इदं ‘मुनि-वचनम्’ । नैकमपि पद्यम् उज्जहार शङ्कराचार्यः । तेन ज्ञायते नेदं वासिष्ठं रामायणं तदानीम् आसीद् इति ।
[[P28]]


अथ काव्यम् इति किम् उच्यते ? ननु कवि-कर्म काव्यम् । सत्यम् । अथापि न सर्वाणि कवि-कर्माणि काव्यानि भवितुम् अर्हन्ति । ‘किं कर्म किम् अकर्मेति कवयोऽप्य् अत्र मोहिताः’ । तत् काव्यम् इति किम् उच्यत इति ? तद् इदम् उक्तम् अस्मत्-कृतायां काव्य-मीमांसायाम् – ‘शब्द-बोध्य-अर्थ-प्रतिपादन-द्वारा शब्दाबोध्य-अर्थ-द्योतकत्वं काव्यत्वम्’ इति । मौन-गर्भम् अमौनम् इत्य् एतत् । विस्तरस् तु तत्रैव द्रष्टव्यः ।

‘ऐतिहासिकीं पौराणिकीं वा कथां विस्तारयत् शब्दतोऽर्थतश् च महत् काव्येषु महाकाव्यम् इत्य् उच्यते’ इति च । अर्थतो महत्त्वम् इति नायकत्वेन महापुरुष-विशिष्टत्वम् । तद् एतत् सर्वम् अत्र महाकाव्ये स्फुटम् ।


केचित् तु महाकाव्येऽष्टादश वर्णनीयानि परिगणयन्ति-

‘नगरार्णव-शैलर्तु-चन्द्रार्कोदय-वर्णनैः ।
‘उद्यान-सलिल-क्रीडा-मधुपान-रतोत्सवैः ॥
‘विप्रलम्भैर्-विवाहैश् च कुमारोदय-वर्णनैः ।
‘मन्त्र-द्यूत-प्रयाणाजि-नायकाभ्युदयैर् अपि ॥
‘एतैर्-उपनिबद्धं यत् तन्-महाकाव्यम् उच्यते ।
‘एवम् अष्टादशानां यैः कैश्चिन्-न्यूनम् अपीष्यते’ इति ।

इदम् अप्य् अलक्षणम् । न्यूनम् अपीष्यते । अधिकम् अपीष्यते । गतम् अष्टादशत्वम् । महाकाव्ये वर्णनानि च सङ्ख्यया महान्ति भवन्तीत्य् एतावद् एव ।

अथापि दृश्यन्ते कानिचन तान्य् अत्र । राम-सीतयोर्-महिम-वर्णन-लोलुपोऽयं कविः नगरादीनि वर्णयन्न् अपि क्वचित् श्लोकार्धेन, क्वचिद् एकेन श्लोकेन द्वित्राभ्यां वा सङ्क्षेपत एव वर्णयति । न क्वापि वर्णन-लौल्यम् । हितं मितं कथा-पूरकं च वर्णनम् । यथा बाणभट्टस्य कादम्बर्याम् इव गहने वर्णन-विपिने परिभ्रमन् मूल-कथा-पथम् एव न विस्मरेत् । यथा—
अर्णव-वर्णनम्– १.२.४४–६ तथा ५.१.१८.
सीता-रामयोर्-विवाह-वर्णनम्–१.६.३१-६.
सीता-विप्रयोग-वर्णनम् – ३.६.३–१०
वर्षा-वर्णनम्— ४.५.४०.
शरद्-वर्णनम्– ४.५.४५.
किष्किन्धा-वर्णनम्– ४.६.२१–४.
माहेन्द्र-शैल-वर्णनम्–५.१.९-१०.
लङ्का-वर्णनम्–५.२.३५–६ तथा ५.२.४३–५.
मधुपान(शाला)-वर्णनम्–५.३.१६-१७.
कपीनां मधुपान-चापलम् ५.६.५९-६१.
रावणोद्यान-वर्णनम्–५.३.३५-४०.
हनुमद्-युद्ध-वर्णनम्– सुन्दरकाण्डे पञ्चम-षष्ठ-सर्गयोः ।
युद्ध-वर्णनम्– युद्धकाण्डे तृतीय-सर्गाद् आरभ्य त्रयोदश-सर्ग-पर्यन्तम् ।
युद्धार्थं लङ्कां प्रति प्रयाणम्– ६.१.६–१३.
रावण-विभीषण-मन्त्रालोचनम् – ६.१.३४–४५.
रामस्य कपिभिर्-मन्त्रालोचनम्–६.२.४–२१.
समुद्र-राज-वर्णनम्– ६.२.४२–३.
रामाभिषेकाभ्युदयः–६.१६.
सीता-रामयोः रतोत्सवः - ७.१.१०-११ तथा ७.२.१८.
सूर्योदय-वर्णनम्– ७.१.१७.
राम-राज्य-वर्णनम्–७.२.१७.
व्यङ्ग्य-भङ्गया चन्द्र-वर्णनम् - ७.२.१९.
षड्-ऋतु-वर्णनम्– ७.२.२१–२७.
श्रीरामस्य केशादि-पादान्त-वर्णनम्–७.७.१४–३३.
महाप्रयाणम्–७.७.३४–४७.
[[P29]]


code Markdown download content_copy expand_less

[[P30]]

महाकाव्ये ऽत्र रामायणे इव श्रीराम-चन्द्रो नायकः । सीता नायिका । हनूम-लक्ष्मण-भरत-शत्रुघ्ना उपनायकाः । रावणः प्रति-नायक इत्य्-आदि सर्वं स्फुटम् । न महाभारत इव किम् अप्य् अत्र सम्मुग्धं सन्दिग्धं वा ।


अथ कश् चात्र रसः ? मोक्षार्थ-काव्यत्वात् भक्ति-रसः प्रधानः । हरि-गुरू उभे अत्र प्रस्तुते राम इति हनुमान् इति । तेन हरौ गुरौ च भक्तिः । अथ शान्तो ऽपि समग्र-कथानुस्यूतो रसः । भगवन्-निष्ठैव हि मुख्यतः शान्तिर् नाम । तद्-अर्थं बाह्यान्तः-करणयोर् विनिग्रहः । तेन निर्मलस्य मनसः पार-दर्शकता, [[सर्वथाऽनुद्विग्नताजननी|सर्वथानुद्विग्नता-जननी]] प्रसन्नता च ।

अथाष्टाव् अप्य् अवान्तर-रसाः । सीता-रामयोः शृङ्गारः, वियोगे विप्रलम्भ-शृङ्गारः । राम-रावणयोर् युद्धे खरादि-हनने हनुमत्-पौरुषे च वीरः । कपिषु पक्षिषु श्वादिषु प्राणि-मात्रे रामस्य करुणो रसः । कुम्भ-कर्णादिभिः कपीनां युद्धे रौद्र-भयानकाद्भुताः । राम-रावणयोर् युद्धे ऽद्भुतश् च । हनुमता सागर-तरणे छाया-ग्रहादि-निग्रहणे गन्धमादन-आनयने च । कुम्भ-कर्ण-कायात् कपीनाम् उत्पतने हास्यः । शूर्पणखा-प्रसङ्गे हास्यश् च बीभत्सश् च । त्रिजटस्य गो-दाने हास्यो रसः । एवं दश-रस-भरितं रामायणं नाम । सर्वम् एतत् समानं मूल-रामायणे च वाल्मीकि-रामायणे च सङ्ग्रहरामायणे च ।


[[अथाऽचक्षते|अथाचक्षते]] रीतिर् आत्मा काव्यस्येति । अत्र प्रबन्धस्यात्मा का नाम रीतिः ? रसानुगुणा पद-सङ्घटना हि रीतिः । यां शैलीम् आचक्षते । अपरुष-पद-बन्धा नाति-दीर्घ-समासा च श्लक्ष्णा वैदर्भी रीतिः । स्याद् इयं शृङ्गारादौ । वीर-रस-सन्दर्भे न वैदर्भी चमत्कुर्यात् । अथ गौडी-समास-बहुला परुषाक्षरा तीक्ष्णा । स्याद् इयं वीरादौ । नतरां शृङ्गारादौ । तद्-उभयात्मिका पाञ्चाली सर्व-रसानुकूला । यैव पाञ्चाली सैव कार्णाटी च । तद् एवं कार्णाटी रीतिर् अस्य काव्यस्यात्मा ।

क्वचित् श्लक्ष्णा यथा—

जय-जय जगतां पते नमस् ते भवतु जयाङ्कुर एष कल्प-वृक्षः ।
इति वदद्-अभिनन्दि नाकि-वृन्दं कुसुम-चयं प्रववर्ष राम-मौलौ (१.४.५४) इति ।

तीक्ष्ण-प्राया यथा—

लालाटीं भ्रुकुटीं बिभ्रद् भ्रमर-रुणेक्षणः ।
अमित्रघ्नो ऽथ सौमित्रिः प्रोचे प्रेक्ष्यासिम् आत्मनः (२.५.२१) इति । [[P31]] यथा वा- आखण्डलाराति-शिरः प्रचण्डम् उत्खण्डितं काण्ड-वरेण तेन ।
सम्मण्डितं कुण्डल-मण्डलाभ्यां भू-मण्डले भूधरवत् पपात (६.११.७०) इति ।

कार्णाटी रीतिर् यथा-

सम्भ्राम्यन्-नक्र-चक्रादिः सम्भ्राम्यन्न् उदधिः स्वयम् ।
अर्हणं शिरसा बिभ्रद् रूपवान् प्रत्यदृश्यत’ (६.२.४२) इति ।

इतिहासत्वेन सं. रामायणस्य निर्णिक्तता

यथा-मूलं तथैवैतन् न मनाग् अप्य् अतिक्रमणः । तथाऽप्य् अस्ति कश्चिद् विशेषः । रामायणे यद् अस्पष्टम् इव, सन्दिग्धम् इव, तद् अत्र स्फुटम् उदितम् । यथा - लक्ष्मण-भरतयोः को ज्यायान् इति । बहवो भरत इति बभ्रमुः । अस्त्व् अन्येषां कथा । गोविन्द-राज-प्रभृतयः प्रायः सर्वेऽपि रामायण-व्याख्यातारः भरतम् एव ज्यायांसम् आचक्षते । ‘अस्त्येव मन्युर्-भरताग्रजे मे’ इति वदन् कालिदासोऽपि बभ्रामैवेत्य् उक्तम् । ‘कौसल्ययाऽसौ सुखेन रामः प्राक् केकयीतो भरतस् ततोऽभूत्’ इति वदन् भट्टर् अपि ।

रामायणे वाल्मीकिर् आह–पुनर्वसु-नक्षत्रे राम-जननम्, पुष्ये भरतस्य, आश्लेषायां लक्ष्मण-शत्रुघ्नयोर् इति । तद् इदं समेषां भ्रम-कारणम् । नक्षत्रानुगुणं क्रमेण त्रिषु दिनेषु चतुर्णां जननम् इति व्याख्यातारो बभ्रमुः । तेन लक्ष्मण-शत्रुघ्नौ यमाव् इत्य् अपरो भ्रम-मूलो भ्रमः । यद् आह भगवत्-पादः – ‘विपरीत-ज्ञानाद् अपि विपरीत-ज्ञानान्तरं जायते’ इति ।

लक्ष्मण-जैष्ठ्यम् इदम् उपज्ञं भगवत्-पादेन श्रीमहाभा. ता. निर्णये समार्थि । अथापि तद्-वचनं नातीव स्फुटम् इति तद् एतत् सर्वम् अत्र स्पष्टम् उदितं तात्पर्य-निर्णयानुसारेण लक्ष्मणो रामाद् अनन्तरः, भरतस् तदनन्तर इति । तेनेदं विज्ञायते— न चतुर्णां क्रमेण त्रिषु दिनेषु जननम्, नापि सौमित्री यमाव् इति । कथम् अथ नक्षत्र-व्यवस्था ? ननु भोः नक्षत्राणि प्रति-मासं परिवर्तन्ते । तेन मेषे चैत्रे पुनर्वसौ राम-जननम् । ततश् चतुर्थे मासि कर्काटके आषाढे आश्लेषायां लक्ष्मण-जननम् । ततः पुष्य-मासे प्रायो मकरे पुष्य-नक्षत्रे, प्रायः पूर्णिमायां भरत-जननम् । ततः परस्मिन् वत्सरे कर्काटके आश्लेषायां शत्रुघ्न-जननम् इति न कोऽपि विरोधः । तेन सौमित्री यमाव् इति भ्रान्तिर् अपि गर्भ-स्रावेण गलिता । तद् उक्तं वाल्मीकिनाऽपि - ‘राज्ञः पुत्रा महात्मानश् चत्वारो जज्ञिरे पृथक्’ इति । विवृतम् एतद् विश्वपतितीर्थीयेऽस्मत्-कृत-व्याख्यायां च ।


[[P32]] यत्र रामायणे पाठश् चार्थश् च सन्दिग्धः, तत्र बहुषु स्थलेषु शक्यं निर्णेतुम् अनेन सङ्ग्रह-काव्येन, शुद्धः पाठश् चार्थश् च । तथा हि–रामायणे गजादिषु पञ्चसु वानरेष्व् एकः शरभः पठ्यते - ‘गजो गवाक्षो गवयः शरभो गन्धमादनः’ (४.६५.२) इति । नायं शरभः । किन्तु वृषभ इत्याह सङ्ग्रह-कारः - ‘गजो गवाक्षो गवयो वृषाख्यो गन्धमादनः’ (१.३.१९) इति । न हि शरभ इति वृषस्याऽख्या । किन्तु वृषभ इति । एवम् उत्तरत्रापि– ‘आबभाषे गजस् तत्र प्लवेयं दश-योजनम् । गवाक्षो योजनान्य् आह गमिष्यामीति विंशतिम् । शरभो वानरस् तत्र वानरांस् तान् उवाच ह । त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः । ऋषभो वानरस् तत्र वानरांस् तान् उवाच ह । चत्वारिंशद् गमिष्यामि योजनानां न संशयः’ (६५.३-५) इति । स्फुटः पाठ-सङ्करः । अत्र गवयः शरभो बभूव । पूर्वं पञ्चस्व् अनुक्त ऋषभोऽत्र निरूपितः । तद् इमां सर्वाम् असङ्गतिं परिहरिष्यन् सङ्ग्रह-कार आह— ‘योजनानि दश प्रोचे गजः प्लवनम् आत्मनः । विंशद् गवाक्षस् त्रिंशत् तु गवयो योजनान्य् अथ । चत्वारिंशच् च वृषभः’ (४.८.४८–९) इति । अन्यच् चेदं व्याहतम् असङ्गतं वचनं रामायणे - ‘सुषेणस् तु महा-तेजाः सत्ववान् कपि-सत्तमः । अशीतिं प्रतिजानेऽहं योजनानां पराक्रमे’ (९) इति । पूर्व-वचन-विरुद्धम् एतत् । सुषेणो हि पश्चिमां दिशं जगाम । तद् उक्तम्——‘सुषेणं नाम वानरम् । तारायाः पितरं राजा श्वशुरं भीम-विक्रमम् ।…प्रतीचीम् अदिशद् दिशम्’ (४.४२.१–५) इति । स कथम् अकस्माद् इह दक्षिणां दिशम् उत्पपात ? सङ्ग्रह-कारः शुद्धं पाठं दर्शयामास–‘सुषेण-सूनुश् चाशीतिम्’ (४.८.५०) इति । नायं सुषेणः । किन्तु सुषेण-सूनुस् तारः । तेन ‘सुषेणस् तु महा-तेजाः” इत्य् असङ्गतः प्रचलितो रामायण-पाठः । ताम् एताम् असङ्गतिं प्रदर्श्य शुद्ध-पाठं सूचयामास पण्डिताचार्यः । ततश् च ‘सौषेणस् तु महा-तेजाः’ इति वा, ‘सुषेण-सूनुस् तु महा-सत्त्ववान्’ इति, ‘तारस् तु सु-महा-तेजाः’ इति वा मूल-पाठः स्याद् इति विज्ञायते । एवं रामायण-पाठे विद्यमानान् दोषान् प्रदर्श्य संशोधकानां सु-पन्थानम् आविष्कृतवतः पण्डिताचार्यस्याधमर्णाः सर्वेऽपि जिज्ञासवः ।


अयोध्याकाण्डे रामम् आनेतुं भरतस्य वन-प्रस्थाने चैवं पठ्यते-

‘नव नाग-सहस्राणि कल्पितानि यथा-विधि ।
‘अन्वयुर्-भरतं यान्तम् इक्ष्वाकु-कुल-नन्दनम् ॥
‘षष्टी रथ-सहस्राणि धन्विनो विविधायुधाः ।
‘अन्वयुर्-भरतं यान्तं राज-पुत्रं यशस्विनम् ॥’ (८३.३–४) इति ।

सङ्ग्रहे पुनर् एवं पठ्यते—

‘अयुतेभं लक्ष-हयं सरथाष्ट-सहस्रकम्’ (१२.३०) इति । [[P33]] एतेन रामायणस्य प्राचीनः पाठः निर्धायते—- ‘दश नाग-सहस्राणि…’ इति । ‘अष्टौ रथ-सहस्राणि……’ इति च ।

अधिकं सग्रह-चन्द्रिकायां द्रष्टव्यम् ।


क्वचिद् रामायणस्यार्थ-निर्णये सङ्ग्रह-काव्यम् इदं स्थाने सह-करोति । तथा हि रामायण एकं पद्यम्-

‘तपसा दिवम् आरूढाः कपाल-शिरसा सह’ (२.५४.३१)

अत्र ‘कपाल-शिरसा सह’ इत्य् अस्फुटार्थम् । कपाल-प्राय-शिरसा सहेति बहवो रामायण-व्याख्यातारः । तस्य वास्तवम् अर्थं विववार पण्डिताचार्यः-

‘कपाल-शिर-आदीनां सिद्धि-भूमिं तपस्विनाम्’ (२.९.३१) इति । रामायण-व्याख्यातॄणाम् अज्ञाततोऽयम् अर्थः कपाल-शिरा नाम कश्चनर्षिर् आसेति ।


अन्यच् चेदं दशरथस्यान्त्येष्टि-संस्कार-प्रसङ्गे–

‘[[कौश्चीनाम्|क्रौञ्चीनाम्]] इव नारीणां निनादस् तत्र शुश्रुवे ।
‘आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः’ (रा.२.७६.२१) इति ।

अत्र नारीणां सहस्रम् इत्य् अस्फुटं वचनं स्फुटं व्याचख्यौ सङ्ग्रहे पण्डिताचार्यः-

‘चतुर्दश-शत-स्त्रीभिः समं राज-परिग्रहैः ।
‘मातॄर्-विलोक्य क्रोशन्तीर्-विललाप पुनश् च सः (२.११.९) इति ।

अत्र मातॄर् इति पृथग्-उक्तेः परिग्रह इति न पत्नी-वचनम् । तेन परिग्रहाः परिजनाः । सहस्रश इति चतुः-शतोत्तरं सहस्रम् इति स्फुटं विवृतम् ।


[[P34]] इदम् अन्यद् रामायण-गतं वचः-

‘दश-वर्ष-सहस्रं तु निराहारो दशाननः’ (७.१०.१०) इति ।

रावणः १,४०,००,००० वर्षेभ्योऽप्य् अधिकं कालं जिजीवेति सम्प्रदाय-विदः ।
यद् आह भवभूतिः शूर्पणखाम् अधिकृत्य-

‘अनेक-युग-जीविन्यास् त्रेता यस्यास् त्रयोदशी’ इति ।

तत्र दश-वर्ष-सहस्राणीति पुनर् अत्यल्पो मास-कल्पः कालः । नैतत् समीचीनं भाति । अत आह समीचीनां काल-गणनां सङ्ग्रहे पण्डिताचार्यः-

‘तपस्य् अतिष्ठन्न् अतनिष्ठ-वीर्याः सहोदरा दिव्य-समायुतं च’ (३.१.१६) इति ।

तथा च दिव्यानि दश-वर्ष-सहस्राणि, मानुष-मानेन ३६,००,००० वर्षाणि, रावणादीनां तपश्चर्या-कालः । तथा च स्वायुषश् चतुर्थांशम् ईषद्-अधिकं तेऽतपस्यन्न् इति सुन्दरम् ।

ननु कुतो मूलाद् एवं पण्डिताचार्योऽपि निश्चप्रचम् उवाच ? स्वयं कृपया सञ्जग्राह कविः श्रुतानि भगवत्-पाद-प्रवचनेषु, गतानि मूल-रामायणे, पठितानि पुराणान्तरेषु ।

निदर्शन-मात्रम् एतत् । विस्तरस् तु सङ्ग्रह-चन्द्रिकायां द्रष्टव्य इत्य् उपरమ्यते ।


उत्तरकाण्डे सारमेय-न्याय-दान-कथा प्रक्षिप्तेति पाश्चात्यै रामायण-व्याख्यातृभिः परित्यक्ता । एतस्य सर्गस्य प्रक्षिप्तता-विषये प्रायः सर्वेषाम् ऐककण्ठ्यम् । श्रीमहाभा. ता. निर्णयेऽपि कथेयम् अनुदितेत्य् आचार्य-मध्वस्यापि प्रक्षिप्तत्वं सम्मतम् इति पाश्चात्यानां भायात् । परन्तु सप्त-शतकेभ्यः पूर्वतनेऽपि रामायण-कोश-पाठे कथेयम् उपलभ्दा । अतः प्रबन्ध्रा पण्डिताचार्येण साऽपि कथाऽत्र सङ्गृहीता । तेन भगवत्-पादस्यापि सम्मतोऽयं कथा-भाग इति तस्य प्रक्षिप्ततां वदन्तो भ्रान्ता एवेति च निश्चीयेत । तद् एतद् अनुसृतं श्रीराघवेन्द्र-यतिभिः राम-चारित्र-मञ्जर्याम् अपि–‘आर्त-श्व-गदित-कृत्’ इति ।

प्रक्षिप्तत्वं वदताम् अयम् आशयः स्यात् - ‘कथं सारमेयो नर-भाषया राम-सभायां सम्भाषेत ? न शक्यम् एतत् । तस्माद्-अवश्यं प्रक्षिप्तम्’ इति । अहो, प्रायस् तैर्-विस्मृतम्, यद् रामायणे कपयोऽपि व्याहरन्ति । पक्षी जटायुर् अपि व्याहरति । सम्पातिर् अपि । किम् इति तपस्वी सारमेयो न व्याहरेत् ? [[P35]] ननु नायं व्याहरण-मूलः प्रक्षिप्तता-निर्णयः । नरपति-सभायां नराणाम् एव न्याय-निर्णय इति साम्प्रतम् । न तु शुनां पशूनां वा । तद् इदम् अपि निरस्तं राम-चन्द्रेणैव कृतापराधं वानरं वालिनं शिक्षयता । स्याद् अपि नरपति-सभायाम् इयं व्यवस्था । रामो न केवलं नरपतिः । किन्तु जीव-जात-पतिः । तद् इदं तेनैवाऽविष्कृतम्–‘अश्वानां खादनेनाहम् अर्थी नान्येन केनचित्’ इति गुहं प्रति घोषयता, कुर्वता च जटायुषोऽपि संस्कारम् । ततो युक्ता रामस्य सभायां सारमेयस्य न्याय-दान-कथा ।

अपि च स्याद् वा, मा वा भूत् तस्यैतिहासिकता । अर्थवादत्वेनापि महतीं नीतिं बोधयन् स प्रसङ्गोऽवश्यं मूल-गत इत्य् एव सुन्दरम् । भारतादिष्व् अपि श्रूयन्ते इतिसाह-मध्ये तत्र-तत्रार्थवादाः ।


रामायणे कुक्कुर-कथानन्तरम् एकस्मिन्न् अध्याये गृध्रोलूक-न्याय-दान-कथा पठ्यते । सेयं प्रक्षिप्तेति पण्डिताचार्यस्यापि सम्मतम् । अतः सा कथा ग्रन्थ-कृता परित्यक्ता । तद् एवं रामायणस्य पाठ-शुद्धि-निर्णयेऽपि सङ्ग्रहरामायणं महद् उपकरोतीति महान् अयं संशोधकानां लाभः ।


एवं दभ्रातिदभ्रम् अपि प्रमेयं निरूपयन् पण्डिताचार्यः सीता-परित्याग-कथां सर्वथा परितत्याजैव । राम-चरिते महत्त्वपूर्णोऽयं प्रसङ्गः । किम् इति सङ्ग्रह-कारस् तम् एतं न सञ्जग्राहेति विस्मयं नः परमादधाति प्रबन्धुर्-मौनम् । प्रायो जगन्-मातुर्-वियोग-कथाम् अतथ्याम् अपि निरूपयितुं नेयेष सर्वथा कवि-हृदयम् । अत्रानुक्ताम् अपि कथां मणिमञ्जर्यां सञ्जग्राह–

‘सुराणकांस् तमो नेतुं तत्याजेव स जानकीम् ।
‘व्याप्तत्वान्-निरवद्यत्वात् तस्यास्-त्यागः कथं भवेत्’ (२.२३) इति ।


ग्रन्थेऽस्मिन्न् उत्तरकाण्डे चरमः सर्गः प्रबन्धुर्-नूनम् अपूर्वतमं चोपहरणम् - हनुमच्-चरितेनोपसंहारः । न रामायणे कथितम् । किन्तु महा.भा.ता.निर्णये द्वित्रैः श्लोकैः सङ्क्षिप्य कथितं कैम्पुरुषं हनुमच्-चरितं वितस्तार । यत्र हनुमतोपास्यानां भगवतोऽनन्तरूपाणाम् उल्लेखः, तेन चापूर्वाणां शास्त्र-प्रमेयाणाम् आविष्करणम्, श्रवणयोर्-मनसश् च रसायनम् । नूनं साधक-सज्जन-लोकः अस्माद्-उपकाराय पण्डिताचार्यस्य निरन्तरं प्रणय-गर्भां कार्तज्ञ्य-भूयिष्ठां प्रणाम-मालां पादयोर्-उपहरति । [[P36]]

सङ्ग्रहरामायणे साह्वयम्

महाकाव्येऽस्मिन् चतुःषष्टिः सर्गाः (बा. कां. ८ सर्गाः; अयो.१२; अर.६; किष्कि. ८; सुं.६; युद्ध. १६; उत्तर. ८; संहत्य ८+१२+६+८+६+१६+८=६४) । भगवत्याम् ऋक्-संहितायां चतुःषष्टिर्-अध्यायाः । तद् इदं सङ्ख्या-साम्यं रामायणस्य वेद-तुल्यतां स्मारयतीव । तथा हि प्राचां वचनम्–

‘वेद-वेद्ये परे पुंसि जाते दशरथात्मजे ।
‘वेदः प्राचेतसाद् आसीत् साक्षाद् रामायणात्मना’ इति ।

अत्र वेद इत्य् ऋग्वेद एव । तत्र चतुर्विंशतिः शाखाः । चतुर्विंशति-सहस्राणि च ग्रन्था रामायणे । सप्तमे पुनर्-वसु-नक्षत्रे दशावतारेषु सप्तमो रामावतार इति सूचयद् इव काण्ड-सप्तकं वाल्मीकि-रामायण-सङ्ग्रहरामायणयोर्-उभयोर् अपि समानम् ।

अत्र समग्रा पद्य-सङ्ख्या च ३४५६ । तद् इदं पुनर् अध्यात्म-सङ्ख्यायाम् एव पर्यवस्यति ३+४+५+६=१८ । अष्टादशेति पुराण-सङ्ख्या । महाभारत-पर्व-सङ्ख्या । गीताध्याय-सङ्ख्या च । समग्राध्यात्म-रहस्य-सर्वस्व-सङ्ग्रहणी च सङ्ख्या । पञ्चदश कलाः । षोडशः कलावच्छिन्नो जीवः । तद् उक्तं षट्-प्रश्ने- ‘स प्राणम् असृजत । प्राणाच्-छ्रद्धां खं वायुर्-ज्योतिर्-आपः पृथिवीन्द्रियं मनोऽन्नम् अन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च’ इति । ‘षोडशी कला जीव-स्वरूपम्’ इति त्रैविक्रमार्य-दास-वचनम् । सप्तदशी बन्धनी चित्-प्रकृतिः । अष्टादशो मोचकः परम-पुरुषो नारायण इति ।

सं. रामायणे छन्दो-विलासः

अत्र त्रिविधाऽनुष्टुब् भवति - पथ्या-वक्त्रं युग्म-विपुला प्रमाणिका चेति । तथा हि पथ्या-वक्त्र-लक्षणम्-

‘सर्व-पादेषु न स्यातां न-साव् आद्याक्षरात् परम् ।
‘अब्ध्य्-अक्षरेभ्यो य-गणो वक्त्रम् आहुर्-अनुष्टुभः ।
‘युजोर्-अब्धेर्-ज-कारश् चेत् पथ्या-वक्त्रम् उदाहृतम्’ इति ।

सर्वेषु पादेषु प्रथमाक्षरात् परं द्वितीय-तृतीय-तुरीयेष्व् अक्षरेषु नगण-सगणौ न स्याताम् । एवं प्रथम-तृतीययोः पादयोः चतुर्थाक्षरात् परं त्रिष्व् अक्षरेषु य-गणः, द्वितीय-तुरीययोः पादयोर्-ज-गणश् च यदि स्यातां तत् पथ्या-वक्त्रं नामानुष्टुप्-प्रभेद इत्य् अर्थः । [[P37]] तथा च सर्व-पादावच्छेदेन प्रथमाक्षरात् परं नगण-सगणातिरिक्त-गणोपेतत्वे सति सम-पादावच्छेदेन चतुर्थाक्षरात् परं ज-गणोपेतत्वे सति, विषम-पादावच्छेदेन य-गणोपेतत्वं पथ्या-वक्त्र-लक्षणम् इत्य् उक्तं भवति । यथाऽत्र-

मुख्य-प्राणाय भीमाय नमो यस्य भुजान्तरम् ।
नाना-वीर-सुवर्णानां निकषा मायितं बभौ ॥ (१.१.४)

इयम् इह गण-व्यवस्था- म-गणः य-गणः त-गणः ज-गणः
मु । ख्य-प्राणा । य-भीमा । य न । मो-यस्य । भुजान्त । रम् ।
त-गणः य-गणः य-गणः ज-गणः
ना । ना-वीर । सुवर्णा । नां नि । कषाश्मा । यितं-ब । भौ । यथा वा-

आहूता राज-राजेन राज-राज-विभूतिना ।
उपायनान्य् उपानीय भूपा वैश्यवद् आययुः ॥ (१.२.१४)

म-गणः य-गणः ज-गणः ज-गणः
आ । हूता-रा । ज-राजे । न रा । ज-राज । विभूति । ना ।
र-गणः य-गणः त-गणः ज-गणः
उ । पायना । न्य्-उपानी । य भू । पा-वैश्य । वद्-आय । युः । अयुजोश् चतुर्थाक्षरात् परं य-गण-स्थाने भ-गणादिषु सत्सु युग्म-विपुला नामानुष्टुप् । विषम-पादावच्छेदेन य-गणातिरिक्त-गणोपेतत्वम् इत्य् एतत् । विस्तरस् त्व् अस्मत्-कृत-च्छन्दो-मीमांसायां द्रष्टव्यः । तद् यथा—

कवयन्तं राम-कीर्त्या हनूमन्तम् उपास्महे । (१.१.३) य-गणः र-गणः त-गणः ज-गणः
क । वयन्तं । राम-की । र्त्या ह । नूमन्त । मुपास्म । हे । [[P38]] अत्र चतुर्थाक्षरात् परं य-गण-स्थाने र-गणः ।
यथा वा- आत्मारामोऽपि रमया रममाणोऽभिरामया । (१.१.८)

म-गणः न-गणः य-गणः ज-गणः
आ । त्मा-रामो । ऽपि-रम । या र । म-माणो । ऽभि-राम । या । अत्र य-गण-स्थाने न-गणः ।
यथा वा-

सङ्कर्षणाख्यः संहारी जयाजानिर् अजन्य् असौ । (१.१.१२)

र-गणः म-गणः त-गणः ज-गणः
सं । कर्षणा । ख्यस्-संहा । री ज । याजानि । र-जन्य । सौ । अत्र य-गण-स्थाने म-गणः ।
यथा वा–

मरीचि-मुख्या मुनयः प्राणेभ्यः प्राणिनां गुरोः । (१.१.२५)

र-गणः भ-गणः त-गणः ज-गणः
म । रीचि-मु । ख्या-मुन । यः प्रा । णेभ्यः प्रा । णिनां-गु । रोः ।

अत्र य-गण-स्थाने भ-गणः ।
ता इमा युग्म-विपुला नामानुष्टुभः । एवम् अन्यत्रापि । तद् इदं प्रकार-द्वयम् अष्टाक्षर-पादत्वेनैकीकृत्य अनुष्टुबिति श्लोक इति चैकयोक्त्या व्यवहरन्ति । अत्रापि तयोर् एकत्वेनैव परिगणनं क्रियते । प्रमाणिका तु पृथक् परिगणिता । तस्या लक्षणम् उपरिष्टाद् भवति ।


[[P39]] इन्द्रवज्रोपेन्द्रवज्रयोर्-योगे उपेन्द्रमाला नामोपजातिः । त्रिष्टुप्-प्रभेदोऽयम् । एकादशाक्षर-पादत्वं त्रिष्टुप्त्वम् । त-त-जा गुरु-द्वयं चेद् इन्द्रवज्रा । ज-त-जा गुरु-द्वयं चेद् उपेन्द्रवज्रा । सेयम् उपजातिः पाद-व्यत्ययेन चतुर्दश-भेदा भवति । विस्तरस् तु च्छन्दो-मीमांसायाम् ।
यथाऽत्र—

ताम् आपतन्तीम् अवलोक्य पुंसां स्व-धर्म-मार्गं भगवान् विधित्सुः ।
उरः-कवाटं खलु ताटकायाः स्व-पाटवात् पाटितवान् छरेण ॥ (१.४.५३)

अत्र प्रथम-पादे इन्द्रवज्रा । ततस् त्रिषूपेन्द्रवज्रा - त. त. ज. गु. गु.
ताम्-आप । तन्तीम्-अ । वलोक्य । पुं । साम् ।
ज. त. ज. गु. गु.
स्व-धर्म । मार्गं-भ । गवान्-वि । धित् । सुः ।
उरः-क । वाटं-ख । लु-ताट । का । याः ।
स्व-पाट । वात्-पाटि । तवान्-छ । रे । ण ॥ यथा वा-

तां हार-गौरीम् अति-चित्र-गात्रां जह्नोश् च कन्यात्वम् उपागतां सः ।
नीत्वा तद्-अम्भः-परिषिक्त-देहं निनाय नाकं निज-तात-जातम् ॥ (१.५.५३) अत्राऽदितस् त्रिषु पादेष्व् इन्द्रवज्रा । चरमे तूपेन्द्रवज्रा- त. त. ज. गु. गु.
तां-हार । गौरीम्-अ । ति-चित्र । गा । त्राम् ।
जह्नोश्-च । कन्यात्व । मुपाग । तां । सः ।
नीत्वा-त । दम्भः-प । रिषिक्त । दे । हम् ।
ज. त. ज. गु. गु.
निनाय । नाकं-नि । ज-तात । जा । तम् । [[P40]] यथा वा- सज्-ज्ञान-रूपे जगद्-एक-दीपे नाज्ञान-लेशोऽपि घटेत रामे ।
प्रकाश-मूर्ताव्-अहिम-प्रकाशे न हि क्वचिद् ध्वान्त-लवोऽपि लक्ष्यः ॥ (१.६.५७) अत्र पूर्वार्ध इन्द्रवज्रा । उत्तरार्धे चोपेन्द्रवज्रा– त. त. ज. गु. गु.
सज्-ज्ञा-ज्ञान । रूपे-ज । गद्-एक । दी । पे
नाज्ञान । लेशो-ऽपि । घटेत । रा । मे ।
ज. त. ज. गु. गु.
प्रकाश । मूर्ताव्-अ । हिम-प्र । का । शे ।
न-हि-क्व । चिद्-ध्वान्त । लवो-ऽपि । ल । क्ष्यः । यथा वा- ततः परस्मिन् दिवसे स राजा स-राघवं कौशिकम् आत्म-शालाम् ।
आनीय नत्वा परिपूर्ण-कामः स-प्रश्रयो वाचम् उवाच वाग्मी ॥ (१.७.१) अत्र पूर्वार्ध उपेन्द्रवज्रा । उत्तरार्ध इन्द्रवज्रा - ज. त. ज. गु. गु.
ततः-प । रस्मिन्-दि । वसे-स । रा । जा ।
स-राघ । वं-कौशि । कम्-आत्म । शा । लाम् ।
त. त. ज. गु. गु.
आनीय । नत्वा-प । रिपूर्ण । का । मः ।
स-प्रश्र । यो-वाच । मुवाच । वा । ग्मी । यथा वा- यागाय गां गाधिज कर्षतो मे बभूव कन्या भुवनेषु धन्या ।
सीराग्र-मार्गाद् अत एव सीता महानिधि-श्रीर् इव निर्धनस्य ॥ (१.७.२) [[P41]] अत्र विषमयोरिन्द्रवज्रा । समयोरुपेन्द्रवज्रा - त. त. ज. गु. गु.
यागाय । गां-गाधि । ज-कर्ष । तो । मे ।
ज. त. ज. गु. गु.
बभूव । कन्या-भु । वनेषु । ध । न्या ।
त. त. ज. गु. गु.
सीराग्र । मार्गाद्-अ । त-एव । सी । ता ।
ज. त. ज. गु. गु.
महा-नि । धि-श्रीर्-इ । व-निर्ध । न । स्य ।

अत्र पादान्त्यस्य लघोर् अपि गुरुत्व-विवक्षया ‘स्य’ इत्यस्य ‘स्या’ इतिवद् गुरुत्वम् । एवं पाद-भेदेनान्येऽपि प्रकाराः द्रष्टव्याः । केवलेन्द्रवज्रा यथा—


आलोक्य केचिद् धनुर् आप्य केचिद् अन्ये परिस्पृश्य परे प्रचाल्य ।
वीरा अवीरत्वम् अवाप्य याताः केचिद् गतांस् तान् अवलोक्य भीताः ॥ (१.७.८) केवलोपेन्द्रवज्रा यथा– इदं धनु-रत्नम् अलाभि शम्भोः प्रसादितान् नस् तपसा चिरेण ।
विना पिनाकास्त्रम् अचालनीयं विना यथा भू-तलम् आदि-कोलम् ॥ (१.७.४)


अत्र प्रायः सर्गा अनुष्टुब्-बद्धाः । प्रथम-काण्डे सप्तमः सर्गः, द्वितीय-तृतीय-तुरीयेषु प्रथमः, पञ्चमे प्रथम-षष्ठौ, षष्ठे तुरीयाष्टम-द्वादश-चतुर्दश-षोडशाः सर्गाः, सप्तमे च काण्डे प्रथम-द्वितीयौ सप्तमाष्टमौ चेति पञ्चदश सर्गा उपजाति-बद्धाः, मध्ये केवलयेन्द्रवज्रयोपेन्द्रवज्रया च संसृष्टाः । [[P42]]

द्वितीय-काण्डे दशमः सर्गः स्वागत-च्छन्दो-बद्धः । स्वागतम् इति त्रिष्टुप्-प्रभेदः - ‘स्वागतं र-न-भ-ग-गाः पाद-मध्ये यतिर्-न हि’ इति हि तल्-लक्षणम् । तथा हि—

राम-देव-विरहानल-दूनास् तद्-गुणान् जगुर् अथामृत-तुल्यान् ।
नागराः स-वनिताः शिशु-वृद्धा मातरोऽस्य जनकः स्व-जनाश् च ॥ (२.१०.१) र. न. भ. गु. गु.
राम-दे । व-विर । हानल । दू । नाः अवशिष्टा अष्टचत्वारिंशत् सर्गा अनुष्टुब्-बद्धाः सर्गान्ते यथा-कवि-समयं भिन्न-वृत्ताश् च । तत्रापि षष्ठे युद्ध-काण्डे नवमैकादशौ सर्गाव् अनुष्टुब्-उपक्रमाव् उपजात्य्-उपसंहारौ । (९=अनु.६०+उप.२०; ११=अनु.५७+उप.१५) ।


एवम् अत्र बहुलम् अनुष्टुभो भवन्ति । द्वितीया उपेन्द्रमाला नामोपजातिः । तत इन्द्रवज्रा । ततः स्वागतम् । तत उपेन्द्रवज्रा सङ्ख्यानुक्रमेण पञ्चमी । ततः षष्ठी वसन्ततिलका । शक्करी-प्रभेदोऽयम् । चतुर्दशाक्षर-पादत्वं शक्करी-लक्षणम् । ‘वसन्ततिलका प्रोक्ता त-भ-जा ज-ग-गा यदि’ इति वसन्ततिलका-लक्षणम् । अस्या एव नामान्तराणि– सिंहोद्धता, सिंहोन्नता, मधुमाधवी, चेतोहारी चेति ।
यथाऽत्र–

यावन् न निर्दहति रावण-नाम-वह्निर्-विश्वं च दाशरथि-रूपम् उपेत्य तावत् ।
त्वं नाथ तं शमय वीर्य-समुद्र-पूरैर्-भक्तान् अनन्य-शरणान् कुरु वीत-तापान् ॥ (१.२.५१) त. भ. ज. ज. गु. गु.
यावन्-न । निर्दह । ति-राव । ण-नाम । व- । ह्निः ।


ततो मालिनी भवति सप्तमी । ‘मालिन्य् उक्ता न-न-म-य-या शिव-मूर्ति-स्वरैर्-यतिः’ इति तल्-लक्षणम् । अतिशक्वरी-प्रभेदोऽयम् । पञ्चदशाक्षर-पादत्वम् अतिशक्वरी-लक्षणम् । यथाऽत्र—

इति निज-क-नियोगान्-मन्त्रिणाऽऽनीत-मात्रान् नरपतिर् अवलोक्य ब्राह्मणान् ब्रह्म-निष्ठान् ।
अनमद्-अनभिमानो भक्ति-भारेण भूयो हृदि जगद्-अभिरामं वासुदेवं दधानः ॥ (१.१.३७) [[P43]]

न. न. म. य. य.
इति-नि । ज-क-नि । योगान्-मं । त्रिणा-ऽनी । त-मात्रान् । शिव-मूर्ति(८)-स्वरै(७)र्-यतिः-
इति निज-क-नियोगात् । मन्त्रिणा-ऽनीत-मात्रान् । मालिन्य्-उपसंहारं चेदं काव्यम् । तथा हीदं चरम-पद्यम्-

इति पवन-सुताय श्रेष्ठ-भक्ताय रामो हसित-सित-गु-बन्धून् प्रेम-पीयूष-सिन्धून् ।
भुवन-भवन-रक्षा-भङ्ग-लीला-प्रसङ्गान् वितरति कमलायै दत्त-शेषान् अपाङ्गान् ॥ (७.८.३०)


ततः प्रहर्षिणी भवत्य् अष्टमी । ‘प्रहर्षिणी म-नौ ज्रौ गो गङ्गाध्व-ककुभां यतिः’ इति च तल्-लक्षणम् । अतिजगती-भेदोऽयम् । त्रयोदशाक्षर-पादत्वम् अतिजगती-लक्षणम् । यथाऽत्र–

गीर्वाणैर् इति नुतिमद्भिर् अर्ह्यमानः प्रत्यक्षी-भवति पुरा पुराण-मूर्तिः ।
बालार्क-प्रकर-रुचिः पिशङ्ग-वासाः स्वाकल्प-स्फुरित-मणिर्-मनोऽभिरामः ॥ (१.२.५२) म. न. ज. र. गु.
गीर्वाणै । र्-इति-नु । तिमद्भि । र्-अर्थ्यमा । नः ।
गङ्गाध्व(३)-ककुभां(१०) यतिः-
गीर्वाणैः । इति नुतिमद्भिर् अर्ह्यमानः ।


ततः पुष्पिताग्रा नामार्ध-सम-वृत्तं नवमम् ।
सेयं प्रथम-तृतीययोर्-द्वादशाक्षरेति विषम-पादयोर्-जगती । द्वितीय-तुरीययोस्-त्रयोदशाक्षरेति सम-पादयोर्-अतिजगती । तथा चेयं जगत्य्-अतिजगत्योर्-उपजातिः । तथा हि लक्षयन्ति - ‘पुष्पिताग्रा न-न-र-या युक्ते तु न-ज-जा गौ’ इति ।
तथा ह्य् अत्र-

जय-जय जगतां पते नमस् ते भवतु जयाङ्कुर एष कल्प-वृक्षः ।
इति वदद्-अभिनन्दि नाकि-वृन्दं कुसुम-चयं प्रववर्ष राम-मौलौ ॥ (१.४.५४) [[P44]]

न. न. र. य.
१. जय-ज । य-जग । तां-पते । नमस्-ते ।
३. इति-व । दद्-अभि । नन्दि-ना । कि-वृन्दम् ।
न. ज. ज. र. गु.
२. भवतु । जयाङ्कु । र-एष । कल्प-वृ । क्षः ।
४. कुसुम । चयं-प्र । ववर्ष । राम-मौ । लौ ।


स्रग्धरा भवति दशमी । ‘म-र-भ-न-या यौ मुनि-मुनि-मुनिभिः स्यात् स्रग्धरा विभिन्नाङ्गी’ इति च तल्-लक्षणम् । प्रकृति-प्रभेदोऽयम् । एकविंशत्यक्षर-पादत्वं प्रकृति-लक्षणम् । तथा ह्य् अत्र-

श्वेत-द्वीपे यथाऽयं विहरति रमया राजमाने विमाने श्रीमद्-भोगीन्द्र-भोगे गुण-निधिर् अधिकं भासमाने समाने ।
जम्बू-द्वीपेऽत्र पुर्य्यां जनक-तनयया राजयन्त्या जयन्त्या
देव्या रामोऽभिरेमे वृषभ इव जगद् रञ्जयन्त्या जयन्त्या ॥ (१.८.८१) म. र. भ. न. य. य. य.
श्वेत-द्वी । पेयथा । यं-विह । रति-र । मया-रा । जमाने । विमाने ।
मुनि(७)-मुनि(७)-मुनिभि(७)र्-विभिन्नाङ्गी-
श्वेत-द्वीपे यथाऽयम् । विहरति रमया । राजमाने विमाने ।


तत इन्द्रमाला नामोपजातिर्-भवत्य् एकादशी । वंशस्थेन्द्रवंशयोर्-मेलनेनोपजातिर् इयम् । द्वादशाक्षरो जगती-प्रभेदोऽयम् । ‘वंशस्थं स्याज्-ज-त-ज-रा गुहास्य-ऋतुभिर्-यतिः’ इति, ‘इन्द्रवंशा त-तौ ज-रौ’ इति च तयोर्-लक्षणम् । यथाऽत्र–

सुमन्त्र-तन्त्रेषु मखेषु कोविदान् सुमन्त्र हन्ताऽनय शीघ्रम् ऋत्विजः ।
गुरुं वसिष्ठं च समेधयेद् ध्रुवं क्षत्रं खलु ब्रह्म यथाऽनिलोऽनलम् ॥ (१.१.३६) [[P45]]

अत्र पाद-त्रये वंशस्थम् । तुरीय इन्द्रवंशा- ज. त. ज. र.
सुमन्त्र । तन्त्रेषु । मखेषु । कोविदान् ।
त. त. ज. र.
क्षत्रं-ख । लु-ब्रह्म । यथा-ऽनि । लो-ऽनलम् ।
गुहास्य(६)-ऋतु(६)भिर्-यतिः-
सुमन्त्र-तन्त्रेषु । मखेषु कोविदान् ।
क्षत्रं खलु ब्रह्म । यथाऽनिलोऽनलम् । एकैव चात्र केवलेन्द्रवंशा पठ्यते । छन्दः सङ्ख्या द्वादशी । यथा-

सीता-कृतिं दिव्य-परीक्षण-च्छलात् सीता-पतिर्-हव्यवहे निधाय ताम् ।
कैलास-शैलात् पुनर् आगतां प्रियां सीतां स्वयं प्रैक्षत पावकार्पिताम् ॥ (६.१४.४८) वस्तुतः प्रचलित-पाठे द्वितीयः पादः – ‘सीता-पतिर्-हव्यवहे निधाय’ इत्य् एकादशाक्षरः पठ्यते । छन्दः-शास्त्रानभिज्ञानां भ्रान्ति-मूलोऽयं पाठः । अत एव ‘तां रावणापहृतां सीता-कृतिं सीता-प्रतिकृतिम्’ इति तच्-छब्द-प्रतीक-ग्रहण-पूर्वकं व्याचख्यतुर्-विश्वपतितीर्थः श्रीनिवासाचार्यश् च । त. त. ज. र.
सीता-कृ । तिं-दिव्य । परीक्ष । ण-च्छलात् ।
सीता-प । तिर्-हव्य । वहे-नि । धाय-ताम् ।


ततो मन्दाक्रान्ता त्रयोदशी । ‘मन्दाक्रान्ता म-भ-न-ता-तो गाव्-अब्धि-षड्-अगैर्-यतिः’ इति तल्-लक्षणम् । अत्यष्टि-भेदोऽयम् । सप्तदशाक्षर-पादत्वम् अत्यष्टि-लक्षणम् । यथा मङ्गल-पद्यम्-

वन्दे वन्द्यं विधि-शिव-महेन्द्रादि-वृन्दारकेन्द्रैर्-
व्यक्तं व्याप्तं स्व-गुण-गणतो देशतः कालतश् च ।
धूतावद्यं सुख-चितिमयैर्-मङ्गलैर्-युक्तम् अङ्गैः
[[सानाध्यं|सानाथ्यं]] नो विदधद् अधिकं ब्रह्म नारायणाख्यम् ॥ (१.१.१) [[P46]]

म. भ. न. त. त. गु. गु.
वन्देवं । द्यं-विधि । शिवम । हेन्द्रादि । वृन्दार । के । न्द्रैः ।
अब्धि(४)-षड्(६)-अगै(७)र्-यतिः-
सानाथ्यं नो । विदधद् अधिकम् । ब्रह्म नारायणाख्यम् ।


ततः शालिनी चतुर्दशी । ‘शालिनी म-त-ता गौ च यतिः श्रुति-तुरङ्गमैः’ इति तल्-लक्षणम् । त्रिष्टुप्-प्रभेदोऽयम् । यथाऽत्र–

रामाभ्याशं प्राप्य रामानुजन्मा साकं वायोः सूनुना तं ववन्दे ।
सान्द्रानन्दी मन्द-हासी मुकुन्दस् तं सौमित्रिं लालयन्न् आलिलिङ्गे ॥ (६.११.७३) म. त. त. गु. गु.
रामाभ्या । शं-प्राप्य । रामानु । जन् । मा ।
यतिः श्रुति(४)-तुरङ्गमैः(७)-
रामाभ्याशम् । प्राप्य रामानुजन्मा ।


ततो रथोद्धता पञ्चदशी । एकादशाक्षरा त्रिष्टुब् एवैयम् । ‘रथोद्धता र-न-र-ला गो यतिर्-न पदान्तरे’ इति तल्-लक्षणम् । यथाऽत्र-

गौतमात्मज-गिरं स राघवः शुश्रुवान् इति ददर्श कौशिकम् ।
तत्र-तत्र हि कथाः शृणोत्य् असौ सर्व-विच् च जगतो विडम्बयन् ॥ (१.६.५६) र. न. र. ल. गु.
गौतमा । त्मज-गि । रं-स-रा । घ । वः ।


ततो द्रुतविलम्बितं षोडशम् । द्वादशाक्षर-तया जगती-प्रभेदोऽयम् । ‘न-भौ भ-रौ चेद् द्रुतविलम्बितं न यतिः पदि’ इति तल्-लक्षणम् । यथाऽत्र- [[P47]]

इति वसिष्ठ-गरिष्ठ-सभाजनैर्-अभिहितः स्थिर-राम-सभाजनैः ।
दशरथस्-तनयाय महीम् अतः प्रतिददौ सु-नयाय महीमतः ॥ (२.१.३२) न. भ. भ. र.
इति-व । सिष्ठ-ग । रिष्ठ-स । भाजनैः ।


ततः सप्तदशं शार्दूल-विक्रीडितम् । अतिधृति-प्रभेदोऽयम् । एकान्नविंशत्यक्षरत्वम् अतिधृति-लक्षणम् । ‘शार्दूल-विक्रीडितं तु यत्र मः स-ज-साः पुनः । त-त-गाः सूर्य-ऋषिभिर्-विरतिस्-तत्र कीर्तिता’ इति च । यथाऽत्र–

रक्षो-लक्ष-कुलाभिचारम् अखिलं त्रैलोक्य-सौख्याकरं
भ्राम्यन् मन्द-मनीष-मण्डल-मनो-मोहार्णवोद्धूर्णनम् ।
तत्व-ज्ञान-जुषां विडम्बन-महा-नाट्याग्र-रङ्गं वचो
रामाणां परमा रमा स्व-रमणं रामं बभाषे तदा ॥ (३.४.४४) म. स. ज. स. त. त. गु.
रक्षोल- । क्ष-कुला । भिचार । मखिलं । त्रैलोक्य । सौख्या-क । रम् ।
सूर्य(१२)-ऋषि(७)भिर्-विरतिः-
तत्व-ज्ञान-जुषां विडम्बन-महा । नाट्याग्र-रङ्गं वचः ।


तत एका प्रमाणिकाऽष्टादशी । अनुष्टुप्-प्रभेदोऽयम् । ‘प्रमाणिका ज-रौ ल-गौ’ इति तल्-लक्षणम् । अथवा– ‘ल-गौ ल-गौ ल-गौ ल-गौ प्रमाणिका निगद्यते’ । यथाऽत्र -

खलावलेप-खण्डन-स्थिरावतार-विभ्रमः ।
अवेक्षते स्म जानकी-मुखेन्दुम् इन्दिरा-पतिः ॥ (२.१२.१२०) ज. र. ल. गु.
खलाव । लेप-खं । ड । न- ।
स्थिराव । तार-वि । भ्र । मः ॥


[[P48]] तथा चेदम् अत्र छन्दसां सङ्ख्यानं भवति- १. अनुष्टुप् (श्लोकः) - २७०६
२. इन्द्रवज्रोपेन्द्रवज्राभ्याम् उपजातिः - ४८१
३. इन्द्रवज्रा - १०७
४. स्वागतम् - ६१
५. उपेन्द्रवज्रा - ३०
६. वसन्ततिलका - १६
७. मालिनी - १५
८. प्रहर्षिणी - ८
९. पुष्पिताग्रा - ८
१०. वंशस्थेन्द्रवंशाभ्याम् उपजातिः - ८
११. स्रग्धरा - ६
१२. मन्दाक्रान्ता - ४
१३. शालिनी - ३
१४. रथोद्धता - २
१५. द्रुतविलम्बितम् - १
१६. शार्दूल-विक्रीडितम् - १
१७. प्रमाणिका - १
१८. इन्द्रवंशा - १
संहत्य ३,४५६ [[P49]]

एवम् अत्र संहत्य-अष्टादश च्छन्दांसि भवन्ति । कुतूहल-पदम् इदम्, यद्-वैदिकीम् इमां सङ्ख्यां कविर्-द्वेधा छन्दस्सु योजयामास । अत्रोपयुक्तानि छन्दांसि १८ । सर्व-च्छन्दसां सङ्कलित-सङ्ख्याऽप्य् अष्टादश (३+४+५+६ =१८) । तत्रापि अनुष्टुप्, उपजातिः, मध्ये क्वचिद्-इन्द्रवज्रा चोपेन्द्रवज्रा च, स्वागतम् इति पञ्चैव छन्दांसि प्रधानानि सर्ग-बद्धानि । अवशिष्टानि ग्रन्थारम्भे सर्गान्ते च निबद्धानि ।

सं. रामायणे शब्दार्थालङ्काराः

उपमा रूपकं श्लेषः उत्प्रेक्षा स्वभावोक्तिर्-अतिशयोक्तिर्-अर्थान्तर-न्यासो विरोधाभास इतीमे प्रधाना अर्थालङ्काराः । तत्-प्रभेदाश् च शतशो भवन्ति । ते च सर्वेऽत्र यथा-सम्भवं निविष्टाः । विशेषतश् च प्रिय-श्लेषः कविर्-अयं युवेव प्रियाश्लेष-प्रियः ।

श्लेष-गर्भोपमा यथा—

वाल्मीकेर्-गौः पुनीयान्-नो महीधर-पदाश्रया ।
यद्-दुग्धम् उपजीवन्ति कवयस्-तर्णका इव ॥ (१.१.७)

श्लेष-गर्भं रूपकं यथा-

स्वान्त-स्थानन्त-शय्याय पूर्ण-ज्ञान-सरार्णवे ।
उत्तुङ्ग-वाक्-तरङ्गाय मध्व-दुग्धाब्धये नमः ॥ (१.१.५)

श्लेषो यथा-

हाराणाम् इव शुभ्राणां भूपानां भूरि-तेजसाम् ।
सन्तत्यां नायक-च्छायो राजा दशरथोऽभवत् ॥ (१.१.२८)

स्वभावोक्तिर्-यथा—

नमो नागेन्द्र-शय्याय नमो नाना-विलासिने ।
नमोऽनाद्यन्त-मध्याय नमो नारायणाय ते ॥ (१.२.४८)

उत्प्रेक्षा यथा—

अङ्गनानाम् अनङ्गोऽयं त्वादृशानां तु किङ्करः ।
वैरिणां केवलं कालो योगिनां भगवान् हरिः ॥ (१.६.३४) [[P50]] विरोधाभासो यथा– औदार्य-सौन्दर्य-विलास-पूर्वान् सर्वान् गुणान् कः कथयेत देव्याः ।
यान् प्रब्रुवाणश् चतुराननोऽपि कुतूहलेनाचतुराननोऽभूत् ॥ (१.७.३०)

अतिशयोक्तिर्-यथा-

इत्थं लालप्यमानस्य कैकेय्या दारितात्मनः ।
सहस्र-यामा तस्याऽसीत् सा त्रियामाऽपि शर्वरी ॥ (२.३.६७)

अर्थान्तर-न्यासो यथा—

माद्यन् प्रमाद्येत् सुजनोऽपि नूनम् । (४.१.१२)
श्रेष्ठापराधा हि फलन्ति सद्यः । (४.१.१४)
न विक्रिया धीर-धियां भवेद् धि । (७.७.७)

एवम् अन्येऽप्य् अलङ्कार-प्रभेदा यथा-सम्भवम् अभ्यूह्याः । अधिकम् अस्मत्-कृतायाम् अलङ्कार-मीमांसायाम् ।


अथ शब्दालङ्कराः । शब्दानाम् अनुवर्तनेन प्रासनं शब्दानुप्रासः । तत्र अक्षर-विशेषस्य आवृत्त्या वृत्त्यनुप्रासः । सोऽयं कविर्-वृत्त्यनुप्रास-प्रिय इति समग्र-काव्य-व्यापी वृत्त्यनुप्रासो विराजते । यथा—

एको नारायणोऽग्रेऽभूत् पूर्णागण्य-गुणार्णवः ।
आत्मारामोऽपि रमया रममाणोऽभिरामया ॥ (१.१.८) निद्रा-मुद्रा-विलसितं भुक्त्वा विश्वम् अधीश्वरम् ।
तम् अवन्दन्त वेदान्ता नरेन्द्रम् इव बन्दिनः ॥ (१.१.९) तस्य तीरम् अधिष्ठाय कोद्भव-भवादयः ।
तुष्टुवुस्-तुष्ट-मनसो विष्टर-श्रवसं सुराः ॥ (१.२.४७) नमो नागेन्द्र-शय्याय नमो नाना-विलासिने ।
नमोऽनाद्यन्त-मध्याय नमो नारायणाय ते ॥ (१.२.४८) [[P51]] अयं पादादि-यमकोऽपि स्यात् । चतुर्ष्व् अपि पादेष्व् आदौ ‘नमो-ना’ इत्य् अक्षर-त्रयस्यानुवर्तनात् । उर्व्यां सर्वे समासाद्य चापं वीरा वृथा गताः ।
रामो राजीव-नयनः कोदण्डं समखण्डयत् ॥ (१.८.४) पुरा सुरासुर-रणे त्वां निशासु शर-क्षतम् ।
अरक्षं ननु रक्षोभ्यो विद्यया विप्र-दत्तया ॥ (२.३.३४) कोदण्डं काल-दण्डाभं त्वद्-दोर्-दण्डैक-मण्डनम् । (३.२.४५) अमित्राणाम् अमित्रोऽयं सौमित्रे मित्रम् एष नः ॥ (४.२.१३) अद्रयः कन्दुकायन्ते सिन्धवस्-तस्य चान्धवः । (४.३.६) जयति जगति दिव्य-श्री-तनूमान् हनूमान्-अहितम् अवहितात्मा बाह्यम् आभ्यन्तरं च ।
लसति वसति-भूते यस्य चित्ते विचित्रे भुवन-भवन-पूर्णे राम-देवः सदेति ॥ (५.१.२९) हनुमन् भूरि-हिमन् हताः सर्वाहितास्-त्वया ।
खे-चराः खे चरिष्यन्ति त्वां गायन्तो भयं विना ॥ (५.२.२८) जाज्वल्यमानोज्वल-हेति-लीलो धूमायमानोद्धत-धूलि-धूम्रः ।
विसृत्वरः सैन्य-महौघ-सङ्घः सांवर्तको वह्निर् इवोददीपि ॥ (६.१२.६) पूर्ववत् पर्वत-श्रेष्ठं सर्वौषधि-निधिं प्रभुः ।
आनिनाय महा-तेजा वायुजो वायु-वेगवान् ॥ (६.१३.३८) न जातु जातानि न नश्वराणि
न जातु दुःखीनि न दोषवन्ति । (७.८.२१)

अत्राऽदौ ‘न जातु न जातु’ इति लाटानुप्रासोऽपि स्यात् । अर्थ-भेदे यमकम् । अर्थैक्ये लाटानुप्रास इति च भेदः ।
अन्यच्-चेदं लाटानुप्रासस्य स्फुटम् उदाहरणम्-

तत्रोत्सवे मणि-गणो रुचिभिर्-विरेजे तेनैव भूषण-गणो विविधो विरेजे ।
रामोऽथ तेन सह बल्लभया विरेजे भूम्ना चराचरम् इदं सकलं विरेजे ॥ (२.३.६९)


[[P52]] कर्णाटानां प्रियो द्वितीयाक्षर-प्रासः । यथा—

मन्द-चेष्टो महीं यातो वन्दमानोऽपि चेतसा ।
इन्द्र-सूनुर्-उवाचेदम्-इन्दिरेशं पुरोगतम् ॥ (४.४.३५) यथा वा- ऋक्ष-वानर-वीराणां वृक्ष-शैल-प्रहारतः ।
लक्ष्मणस्य शरैश्-चोग्रै रक्षसाम् अभवत् क्षयः ॥ (६.११.२०)

सोऽयम् अनुप्रासः कर्णाटक-कविभिः कुमार-व्यास-लक्ष्मीशादिभिर्-नियत्या समादृतः, कर्णानन्द-करश् चेति कर्णाटानुपासः कर्णानुप्रास इति वाऽन्वर्थाभिधानेनाभिधीयते ।


छेकानुप्रासोऽप्य् अत्र काव्य-शोभा-कृत् प्रचुरम् उपलभ्यते । अव्यवधानेन समान-वर्ण-द्वयस्य द्वित्राणां वा व्यञ्जनानाम् आवर्तनं छेकानुप्रासः । छेका इति गृह-शकुन्ता उच्यन्ते । ‘गृह्याश्-छेकाश् च गेहेषु संसक्ता मृग-पक्षिणः’ इति वैजयन्ती । ते किलैकरूपं द्वित्रिः कूजन्ति ची-चीम् इति कुक्कुक्कू इति । तद्-वद् अयम् अनुप्रास इति ।

विदग्धाश्-छेका उच्यन्ते । तेषां प्रियोऽयम् अनुप्रास इति छेकानुप्रास उच्यते इति विश्वनाथः । ‘अग्राम्ये सरळोदार-विदग्ध-च्छेक-दक्षिणाः’ इति वैजयन्ती । ‘छेको विदग्धे गृह्ये च’ इति च । वस्तुतस्-तूभयार्थ-विवक्षया छेक-पदोपादानम् । अत एव गृह्यानुप्रास इति वा विदग्धानुप्रास इति वा न व्याजहुः ।

‘कठोरेण कुठारेण वैकुण्ठः कण्ठ-सङ्गिना । (१.८.५२)
यान्तं यम् अन्वेति चमूश् चतुरं चतुरङ्गिणी । (२.६.३७)
अङ्के लङ्केश्वरो बिभ्रत् । (३.५.३७)
प्रतिभा प्रतिभाषते । (४.२.२)
अङ्गदो भङ्गदोऽरीणाम् । (४.७.८९)
लङ्काम् अलङ्कार-वतीम् । (५.२.३५) अत्र ‘चतुरं चतुरङ्गिणीम्’ इति ‘प्रतिभा प्रतिभाषते’ इति यमकम् अपि स्यात् । छेकानुप्रास इत्य् एव स्वरसम् । [[P53]] ससार सारं हृदये प्रसादं बभार भारं करुणा-रसानाम् ।
निनाय नायं हनुमन्तम् आराद्-उवाच वाचं च रघु-प्रवीरः ॥ (७.७.२)

अत्रान्तिमे पद्ये वृत्त्यनुप्रासोऽपि । अथ यमकम् । पादान्त्य-यमकं यथा—


श्वेत-द्वीपे यथाऽयं विहरति रमया राजमाने विमाने श्रीमद्-भोगीन्द्र-भोगे गुण-निधिर्-अधिकं भासमानेऽसमाने ।
जम्बू-द्वीपेऽत्र पुर्य्यां जनक-तनयया राजयन्त्या जयन्त्या
देव्या रामोऽभिरेमे वृषभ इव जगद् रञ्जयन्त्या जयन्त्या ॥ (१.८.८१) अत्र छेकानुप्रासोऽपि, वृत्त्यनुप्रासोऽपि । यथा वा– इति वसिष्ठ-गरिष्ठ-सभाजनैर्-अभिहिताः स्थिर-राम-सभाजनैः ।
दशरथस्-तनयाय महीम् अतः प्रतिददौ तनयाय महीम् अतः ॥ (२.१.३२) इत्यादि ।

पादैक्येन यमकं यथा प्रथमतृतीययोः-

प्रभाते जगद् एकान्त-स्सीताया मागधैर्-इति ।
प्रभा ते जगद्-एकान्त-श्रिये राम [[वेरिव|रवेर् इव]] ॥ (२.३.६८)

यथा वा-

को वानरेन्द्रस्य समानतायां वर्तेत यस्यानिले एव तुल्यः ।
को वा नरेन्द्रस्य समानतायां रामस्य यो भाति कृपालुतायाम् ॥ (५.१.२८)

यथा वा-

चतुरङ्गं तु कामं नो युद्धं स्याद् इति गर्जितम् ।
चतुरं गन्तु-कामं नो निद्रां सैन्यम् अवैक्षत ॥ (५.२.५८)

द्वितीय-तुरीययोर्-यथा-

स्तवः सकल-नाथस्य सुमनोभिर्-अलं कृतः ।
भगवान् तैर्-विकीर्णाभिः सुमनोभिर्-अलङ्कृतः ॥ (७.४.४१) [[P54]] पादान्त्ययोर्-यथा— प्राप्ता दिवस्-तत्र विमान-कोटीः मणि-प्रवेकैर्-लसमान-कोटीः ।
प्राप्ता अपश्यंश्-चल-चामराणां
वृन्दं वधूनाम् इह चामराणाम् ॥ (७.७.४६) सर्व-पादान्त्य-यमकं यथा- रामाननाभं हनुमान् अयं तं
खे वीक्ष्य पूर्णेन्दुम् अमानयन्तम् ।
नाथं ह सस्मार समा नयन्तं
भक्तान् सुखेनैव समानयन्तम् ॥ (५.२.५९) यथा वा- एवं-विधायाखिल-शिक्षणाय
रामाय चेतो-नयन-क्षणाय ।
स्वामिन् पदाब्जानत-रक्षणाय
तुभ्यं नमः शोभन-लक्षणाय ॥ (७.८.२४)

आद्यन्तयोः सङ्कीर्णतया यथा-

युद्धे रिपूणां मुसलायमानौ
मालायमानौ जनकात्मजांसे ।
सन्-मण्डले कल्प-लतायमानौ
सत्यं करौ तस्य हि निस्समानौ ॥ (७.७.२४)

यथा वा-

भासा नखा लज्जित-बन्धु-जीवाः
एवं च नो लज्जित-बन्धु-जीवाः ।
पुनर्-नवत्वं दधुर्-ईक्षकाणाम्-
अनादि-पुंसो न पुनर्-नवत्वम् ॥ (७.७.३०) [[P55]] पादाद्यावृत्ति-यमकं यथा— बद्धाञ्जलिर्-मूर्धनि रञ्जित-श्रीर्-रामाय रामाय मनोरमाय ।
ब्रह्माऽथ वृन्दारक-वृन्द-जुष्टं तुष्टाव तुष्टाव अधिकं निमग्नः ॥ (७.७.४८) इत्यादि ।


सं. रामायणे अपाणिनीयाः प्रयोगाः

साधवः शब्दा द्विविधा भवन्ति - पाणिनीया अपाणिनीयाश् च । अपाणिनीया इति पाणिनिना न निरूपिताः, व्याकरणान्तर-सिद्धा इत्य् अर्थः । तेन पाणिनि-नयोऽयम् अयोग-व्यवच्छेदक एव । नान्य-योग-व्यवच्छेदकः । तेन पाणिनीयाः प्रयोगाः साधव एवेति युक्तं वचः । न तु पाणिनीया एव साधव इति । श्रुति-पुराणादिषु प्रयोग-दर्शनात्, व्याकरणान्तर-सिद्धत्वाच् च । तानि च व्याकरणान्तराणि न सर्वाणि सम्प्रत्य् उपलभ्यन्ते । अतो वेदेषु वैदिकेषु च प्रयोग-दर्शनाद् एव तेषां साधुत्वम् अवसीयते । अत एव विद्वद्भिस्-तादृशाः प्रयोगाश्-छान्दसा इत्य् एव परिगण्यन्ते ।

प्रबन्धा कविः पण्डिताचार्यः प्रचुरम् अत्रापाणिनीयानि पदानि प्रयुङ्क्ते । वाल्मीकिर् अपि रामायणे प्रयुङ्क्ते । भगवत्-पादोऽपि मध्व-रामायणे । एवं छान्दस-प्रयोगे प्राचां मुनि-पुङ्गवानां सरणिम् अनुसरन्न् अयं कविः स्वस्य छान्दस-प्रयोग-प्रियताम् आघोषयतीव ।

अङ्कुरित-श्मश्रु-कूर्चः कविर् अयं प्रथमे वयसि प्रबन्धम् इमं प्रणिनायेति प्रथाऽप्य् अत्र संवदते । यौवनोत्साह-सहजं छान्दस-प्रयोग-लौल्यं कौतुकम् आदधाति तत्ववाद-रसिकानाम् । तेन वाल्मीकिर् अप्य् अनुसृतो भवति । भगवत्-पादोऽप्य् अनुसृतो भवति । नार्थतः केवलम् । शब्दतोऽपि । वस्तुतः पुराण-काव्यानाम् इयं छान्दसी परिभाषैव रुचिरा पुराण-प्रियेभ्यो रोचते ।

पाणिनि-मुग्धानां वैयाकरण-पाशानाम् एतत् तथ्यम् अवगमयितुम् एव च छान्दसं पन्थानम् अनुपपात पण्डिताचार्य इति च युक्तम् उत्पश्यामः ।

तथाऽप्य् एकोऽश्रुत-पूर्वः प्रयोगोऽस्मान् अनिर्णये निमज्जयन् कौतुकम् आदधाति–

अपि त्रैलोक्य-जयिनं वत्सा वत्स्यामि वो रिपुम् । (१.३.२) मणिमञ्जर्याम् अपि– वनं प्रति ययौ वत्स्यन्न् अशेषान् अपि राक्षसान् । (१.२७) [[P56]] वत्स्यामीति किं-धातुर् अयं लकारः ? वत्स्यन्न् इति कस्यायं धातोः शतुर्-आगमः ?

‘वत्स्यामि हनिष्यामि’ इति विद्याभूषणार्योऽर्थं वर्णयन्न् अपि धातु-पाठं न पपाठ । ‘वध सम्प्रहारे’ इति विश्वपतितीर्थीये काशी-श्रीनिवासाचार्य-कृत-टीकायां च । अथापि न शङ्का-परिहारः । पाणिनिर्-वध-धातुम् एव न पठति । तत्-पक्षे हन्तेर्-वधादेश एव । तद् अपि न लृटि । प्राचीना यद्यपि वध-धातुं पेठुः । अथापि वधिष्यतीत्य् एव तद्-रूपम् । न वत्स्यतीति । अथापि सर्वत्र हस्तलिखित-कोशेषु टीकासु च ‘वत्स्यामि’ इत्य् एव पठ्यते । उपपत्तिर्-मृग्या ।

सम्प्रत्य् उपलब्ध-धातु-पाठानुसारेण द्वयोर्-धात्वोः ‘वर्त्स्यति’ इति लृटि रूपं भवति । ‘वृतु वर्तने’ इत्यस्य, ‘वृधु वृद्धौ’ इत्यस्य च । अथापि संहारार्थकत्वं दुरुपपादम् एव । यद्यपि चुरादिषु पठितस्य वृधु-धातोः संहारार्थकत्वं सम्भवति । ‘वृधु वर्धने’ इति हि धातु-पाठः । ‘वर्धनं छेदने वृद्धौ’ इति यादव-प्रकाशः । तस्य ‘वर्धयिष्यामि’ इत्य् एव लृटि रूपम्, न तु [[वत्र्यामीति|वत्स्यामीति]] । तस्मात् साम्प्रतं संशीतिर् एव नः शरणं किं-धातुर् अयं लकार इति । अचुरादेर् अपि संहारार्थकत्वाङ्गीकारे ‘[[वत्स्र्स्यामि]]’ इति, ‘वर्त्स्यन्’ इति च मूल-पाठः स्याद् इति भाति ।


अथाऽत्मनेभाषा धातवोऽत्र परस्मै-भाषा भवन्ति । आवरणान्तर्-निक्षिप्तानि पाणिन्याभिमतानि रूपाणि- यूयं तत्रानुमोदत (१.२.२९) (अनुमोदध्वम्)
मुमुदुस्-तौ प्रजा वीक्ष्य (१.४.२९) (मुमुदिरे)
योत्स्यामि वो रिपुन् (१.४.१९) (योत्स्ये)
कपीन्द्रौ प्रत्ययुध्यताम् (४.४.२७) (प्रत्ययुध्येताम्)
युयोध पक्षि-राजस्-तम् (४.८.१३) (युयुधे)
आस्तां हि मन्त्रो योत्स्यामः (६.५.१७) (योत्स्यामहे) तद् एतत् सर्वं सामान्यतः कविभिर्-अभ्युपगतम् । बहुलम् उपलभ्यन्ते पुराणेषु रामायणे भगवत्-पाद-ग्रन्थेषु चेदृशाः प्रयोगाः । अत एव च वदन्ति - ‘चन्द्रादयस् तु मन्यन्ते सर्वस्माद् उभयं पदम्’ इति । [[P57]] तथा हि भगवत्-पाद-प्रयोगाः-

मुमोद सम्प्राप्य च तां स रामः (म.भा.ता.नि. ८.२२३)
तप्ता हि भोज-पतिना मुमुदुर्-नितान्तम् (१४.६)
मुमोद सत्यभामया (१७.२१७)
योत्स्याव तेन नृपति-प्रिय-काम्ययाऽऽवाम् (१३.११८)

‘योत्स्याव’ इत्य् अपूर्वतमः प्रयोगः । ‘अनेन प्रसविष्यध्वम्’ इति गीता-प्रयोगवद् अयं लोलृट् ।

तद्-अन्येन तु युध्यतोऽपतत् (१०.४४)
युध्यन्तम् ईक्ष्य च रिपुम् (१४.३७)
युयोध शक्तितो बली (१७.१९५)
युयोध मन्दम् एव सः (१७.२०८)
युयोध सेनया युतम् (१७.२८८) रामायणे च- ‘गच्छ युध्येत्य्-अनुज्ञातः’ (अर.२०.६) इत्यादिः ।


क्वचिच् च सेटम् अनिटम् आह-

‘रामाज्ञया व्यधात् तर्तुम्’ (२.९.३४) । ‘तरितुम्’ इति, ‘तरीतुम्’ इति च पाणिनीयाः । तर्तुम् इत्य् एव प्रतनाः प्रयुञ्जते । वाल्मीकिर् अपि ।
शीघ्रं ननु शेष्यसे त्वम् (६.४.११) । ‘शयिष्यसे’ इति पाणिनीयाः ।

सेटं च पूर्वं स्वयम् एव प्रयुयोज - ‘शयिष्येऽहं निराहारः’ (२.१२.१५) इति । एवम् अहन्न् इति वक्तव्ये अहनद् इत्य् एव प्रायः प्रयुङ्क्ते वैदिकः कविः - ‘वृत्रं हनति’ इति वैदिकीं वाचम् इव स्मरन् -

सुग्रीवो न्यहनद् बली (६.५.१०)
सालेन न्यहनद् बली (६.५.१२)
सोऽङ्गदं गदयाऽहनत् (६.५.३५)
विभीषणोऽश्वान् न्यहनत् सुरारेः (६.११.६३)
न्यहनद् रावणानुगान् (६.१३.२९)
तत्-तत् प्रत्यहनत् प्रभुः (६.१३.६४) [[P58]] तद् इदम् अपि भगवत्-पाद-प्रयोगानुसरण-लौल्यम् एव । तथा हि प्रयोगास्-तात्पर्य-निर्णये– नैनम् अहनद् वचनाद्-धरेश् च (५.३९)
तान्य् अहनच् च कंसः (१२.१४) इत्याद्याः ।


एवं रिरक्षिषां रिरक्षाम् आह-

पराद्रवन् प्राण-रिरक्षयाऽथ (६.१४.१७) भगवत्-पादोऽप्याह ता. निर्णये- तेनार्थितो यज्ञ-रिरक्षयैव (४.५)
स लोक-धर्माभिरिरक्षया (१०.५६) एष साक्षाद्-धरेर्-अंशो जातो यज्ञ-रिरक्षया (भाग. ४.१५.३) इति च बादरायण-प्रयोगः ।


इदम् अन्यद् इह च्छान्दसम् । विंशतिर् इति वक्तव्ये विंशद् इत्य् आह । ‘विंशत्या’ इति वक्तव्ये विंशद्भिर् इत्य् आह । तेन ज्ञायते विंशच्-छब्दो दशन्-शब्दवन्-नित्य-बहु-वचनान्तस्-त्रिलिङ्गः प्रतनानाम् अभिमत आसीद् इति– विंशत्, विंशत्, विंशद्भिः, विंशद्भ्यः, विंशद्भ्यः, विंशताम्, विंशत्स्व् इति । तथा हि—

विंशद् दशास्यस्य च लोचनानि रक्तानि दृष्ट्वा मद-मन्युमन्ति ।
भुजांश् च विंशद् भुजग-प्रकारान् कुतूहलं प्राप कुलं कपीनाम् ॥ (६.८.४) अत्र हि विंशद् इति द्वितीया-बहु-वचनान्तं पदम् । [[P59]] विंशद्भिर् अप्य् आत्म-भुजैः (६.८.२६)
षोडशाष्टौ च दश च विंशत् त्रिंशत् तथाऽपरान् । (६.९.३९)
अविध्यत् पञ्चविंशद्भिर्-विशिखैर् अथ लक्ष्मणम् । (६.११.३७)

अत्र त्रिंशद् इत्य् अपि बहु-वचनान्तं त्रिलिङ्गं पदं स्याद् इति भाति । अपूर्वम् इदम् अपाणिनीयम् आविष्करणं प्रायो भगवत्-पाद-मुखाद् अधिगत-नव-व्याकरण-निष्पन्न-रूपावतारम् ।

वाल्मीकिर् अप्य् एवम् एवाऽह रामायणे-

षोडशाष्टौ च दश च विंशत् त्रिंशत् तथैव च । (६.६७.७) इति ।

क्वचिद् विंशतिं त्रिंशतिम् इति च प्रयुङ्क्ते वाल्मीकिः-

विंशतिं त्रिंशतिं षष्टिं शतशोऽथ सहस्रशः । (६.१०७.४२)

एवं विंशत् विशतिर्-विंश इत्य् अनियताः प्रतनानां प्रयोगा भवन्ति । तथा हि तात्पर्य-निर्णये—

स पञ्चविंशत् पुनर्-अब्दकानाम् अस्त्राणि चाभ्यस्य पतेर्-भृगूणाम् । (११.४८)

अत्र पञ्चविंशद् इति द्वितीया-बहु-वचनान्तम् ।

अक्षोहिणी-गणितम् अस्य बलं च विंशद्-आसीत् (१३.१०९) अत्र विंशद् इति प्रथमैक-वचनम् । अक्षोहिणी-त्र्य्-अधिक-विंश-युतोऽति-बेल-दर्पोद्धतः सपदि कृष्ण-पुरीं जगाम । (१४.१५) अत्र विंशम् इति विंशतिः । हत्वा सेनां विंशद्-अक्षोहिणीं ताम् (१६.१९) इत्यादि ।


क्वचित् भगवत्-पाद-प्रयुक्तानि प्रतनान्य् एव रूपाणि प्रयुङ्क्ते । तद् यथा-

सङ्घ-पण्डितः (६.१०.११) [[P60]]

‘एवम् उक्त्वाऽर्जुनः सङ्के रथोपस्थ उपाविशत्’ इति गीतायाम् ।

अक्षोहिणीनाम् (६.१२.४) ।

अक्षौहिणीनाम् इति पाश्चात्यम्, ‘अक्षाद्-ऊहिन्यां वृद्धिर्-वक्तव्या’ इति वार्तिकोपज्ञम् । एवम् उल्बणं प्रतना उद्बणम् इति प्रायः प्रयुञ्जते । पण्डिताचार्योऽपि -

उद्बणैः सर्व-वानरैः (६.११.१)
त्रीन् बाणान् उद्बणान् तस्मै (६.११.३९)
उद्बणं बाणम् आदाय (६.१३.२६)
नागान् चक्रे विषोद्बणान् (६.१३.६३)


इदम्-उपज्ञं शुद्ध-प्रायः पाठः

इतः पूर्वं सं.रामायणस्य पञ्चषाणि मुद्रणानि बभूवुर् इति ज्ञायते । प्रथमं मुद्रणं १८१२ मे शा. शके (1890 A.D.) राम-तत्व-प्रकाशाह्वये मुद्रणालयेऽङ्कयित्वा रामचन्द्र-सावन्तात्मजेन आबाजि-सावन्तेन प्रकाशितम् अभूत् । तस्मिन्न् एव वत्सरे मम तात-पादस्य जननम् आस । अतस्-तस्मिन् प्रतनतमे प्रथमे मुद्रणे मम प्रीत्यतिशयः । मूलेन सह विद्याभूषणार्य-रचिता सं. रा. टीकाऽपि तद्-उपक्रमं प्राकाशि ।

ततो दावणगेरे-नगरे श्रीसर्वज्ञाचार्य-सङ्घ-द्वारा सानुवादं बाल-काण्ड-मात्रं प्रकाशितम् (1954 A.D.) । तत्रानुवादकस्य नाम न निर्दिष्टम् । ततो बळ्ळारि-नगरे श्रीमाध्व-ग्रन्थ-प्रकाशन-द्वारा भीमसेनाचार्य-कृतानुवाद-सहितं समग्रं सं.रामायणं प्रकाशितम् (1982 A.D.) ।

ततः परम् अतीवार्वाचीनं प्रकाशन-द्वयं बेङ्गळूरु-नगर एव प्रकाशितं व्यास-मध्व-संशोधन-प्रतिष्ठान-द्वारा । एकं प्रभञ्जनाचार्य-कृत-कर्णाटक-भाषानुवादेन सहितं कन्नड-लिप्यां प्रकटितम् (2008 A.D.) । परस्मिन् वर्षे तद् एव पुनर्-मुद्रितम् (2009 A.D.) । अपरं च मूल-मात्रं देवनागरी-लिपि-मयम् (2011 A.D.) ।

सर्वम् अपपाठ-प्रचुरम् । नैकत्रापि शुद्ध-पाठे भरः । क्वचित् प्रक्षिप्ताः श्लोका अपि मूले निवेश्य मुद्रिताः । उदाहरणार्थम् इमानि पर्याप्तानि (सुन्दरकाण्डे द्वितीय-सर्गे ५५-तम-श्लोकाद् अनन्तरं पठितानि) - [[P61]]

वैष्णवं विष्णु-गायन्तं सदा सत्य-रतं ततः । (?)
विभीषणं लोक-हिते रतं मङ्गलम् ऐक्षत ॥ दुरु-श्वासं गाढ-निद्रम् उन्मत्तं पर्वतोपमम् । (?)
कुम्भकर्णं समालोक्य शिरो धुन्वन् स मारुतिः ॥ ततो विग्रां स भगिनीं राक्षसेन्द्रस्य दुष्कृतिम् ।
विवासिनीं राक्षसानां पलपानाशनैर्-युताम् ॥ (?) नग्नां स्रस्त-शिरः-केशां पानाद्-उन्मत्त-चेतसा(ना)म् । (?)
गायन्तीं विस्वरं हास्यां (स्याद्) दुर्भगां [[श्लक्षणेतराम्|श्लक्ष्णेतराम्]] ॥ (?) करोभयेन शिरसा धुन्वता प्रभयङ्करीम् । (?)
अत्यन्तम् इव नृत्यन्तीं सहितां पिशिताशिभिः ॥ सर्वत्रापि एते श्लोकाः ईषत्-पाठ-भेदेन मूलेन सह मुद्रिता इति विस्मयावहम् इदम् । शब्द-मञ्जरी-पर्यन्त-संस्कृत-भाषाभिज्ञोऽपि नेदृशान् अप्रबुद्धान् श्लोकान् रचयति । किम् उत पण्डिताचार्यः । नैतानि पद्यानि विद्याभूषणार्यो व्याचख्यौ । न विश्वपतितीर्थः । नापि काशी श्रीनिवासाचार्यः । (तस्य शुद्धः पाठः मन्-निकटे वर्तते ।) अथापि मूले निवेशयन्ति । हास्यास्पदम् इदम् ।

व्यास-मध्व-संशोधन-प्रतिष्ठान-प्रकाशनं तु राम-तत्व-प्रकाशे मुद्रितम् अशोधितम् अशुद्धि-प्रचुरं पाठम् एव प्रायोऽक्षरशोऽनुकरोति, तत्रत्यान् मुद्रण-दोषान् अपि प्रायश्-चक्षुषी निमील्य । तेन ‘बेळगावि’-प्रकाशनस्य पिपीलिका-लिपिर् इयम् । तत्र येऽपपाठाः, प्रायस्-तेऽत्रापि । तत्र ये मुद्रण-दोषाः, प्रायस्-तेऽत्रापि । तस्मात् पारायणार्थं शुद्ध-पाठम् अन्वेषमाणानाम् अनुपयुक्तान्य् एव सर्वाण्य् एतानि प्रकाशनानि ।

इदं निदर्शन-मात्रम् । एवं सर्वत्रापपाठस्यैव साम्राज्यम् । तद्-अर्थम् अत्र शुद्ध-पाठ-निर्णयाय बहुधा प्रयतितम् । मठेषूपलभ्यमानाः प्राचीन-हस्तलिखित-कोशा आलोडिताः । अतोऽत्र प्रायेण शुद्धः पाठः इदम्-उपज्ञम् उपहारीक्रियते । अथापि सर्वात्मना शुद्धस्य मूल-पाठस्यानुपलम्भात् क्वचित्-क्वचिन्-मूल-पाठ-निर्णयो दुःशक एव बभूव । तत्र साधुत्वेन सम्भावित एव पाठः समाद्रियत ।

स्पष्टत्वाय एकम् उदाहरणं पर्याप्तम् । उत्तरकाण्डे अष्टमाध्याये सप्तदशं पद्यं बहुधा पेठुः- [[P62]]

‘अपान्तर-प्राज्ञतम-पुरोगान्’ इत्य् एके । अर्थ-दुष्टश्-छन्दो-दुष्टश् चायं पाठः । ‘अपान्तर-प्राज्ञतमः-पुरोगान्’ इत्य् अन्ये । इदम् अप्य् अर्थतोऽसङ्गतम् । ‘अपान्तर-प्राग्-ग्रतमः-पुरोगान्’ इत्य् अपरे । इदम् अपि नाति-स्वरसम् । विश्वपतितीर्थीयेऽपि महान् पाठ-भेदः । लिपिकृतो बहुधा बभ्रमुः । विद्याभूषण-भिक्षु-व्याख्यायाम् अपि तथा । काशी-श्रनिवासाचार्य-टीकायाम् अपि तथा । सर्वत्राव्युत्पन्नानां लिपिकृताम् एव साम्राज्यम् । अत्र तु ‘अपान्तर-प्राज्यतमः-पुरोगान्’ इति सम्भावितः पाठोऽभ्यूह्य मुद्रितः । एवम् अन्यत्रापि ।

मूल-पाठेन साकम्, व्याख्यानान्तरेषु, विशिष्य का. श्री. टीकासु येऽर्थ-विशेषा उक्ताः तेऽप्य् अत्राधष्-टिप्पण्यां मुद्रिताः । सङ्ग्रहरामायण-सम्बन्धि सर्वम् अत्र सङ्गृह्यैकत्र समावेशितम् । तथा यानि-यानि पाठान्तराण्युपलब्धानि, मुद्रितान्य् अमुद्रितानि च तानि सर्वाण्य् अप्य् अत्र अधष्-टिप्पण्यां सन्दर्शितानि । तेनाधिसङ्ग्रहरामायणं सर्व-सङ्ग्रहोऽयम् ।

विश्वपतितीर्थीयानुसारी पाठः प्रायो मूल-पाठतया स्वीकृत्य प्रकटितः । तद् अपि न सर्वथा । यत्र विश्वपतितीर्थादृतोऽपि पाठो नाति-स्वरसोऽर्थतः, तत्र बहु-व्याख्यान-सम्मतः पाठः समादृत इति सुधीभिर्-विभावनीयम् ।

सं. रामायणस्य टीका:

सङ्ग्रहरामायणस्योपाष्टादशाष्-टीका आसन्न् इति किंवदन्ती । सम्प्रति तिस्रष्-टीका मम दृष्टि-पथं गताः । तत्रैका भाव-रत्न-प्रदीपाख्या विद्याभूषण-भिक्षु-रचिता । प्रायः सङ्ग्रहरामायण-टीकासु प्रथमा प्रतना । १८१२-मिते शा.शके, (1890 A.D.) बेळगावि-नगरे, मुद्रयित्वा प्रकाशिता चेयम् । द्वितीया श्रीविश्वपतितीर्थ-विरचिता भावार्थ-दीपिका सम्प्रतीदम्-उपक्रमं प्रकाश्यमाना । तृतीया काशी-श्रीनिवासाचार्य-कृता, अमुद्रिता च । मातृका चेयं लिपिकृत्-प्रमाद-बहुला ।

तत्र विद्याभूषण-भिक्षुः स्व-गुरु-परम्परां किञ्चिद्-इवाऽविश्वकार । तथा हि तस्य प्रास्ताविकं पद्यम्-

[[शोभन्त्य्|शोभन्तेऽ]]म्भोज-नाभ-प्रवण-वर-धियो वादिराजाभिधानाः
श्रीमन्तं वेद-गर्भं मनसि विदधतो वेद-गर्भाभिधानाः ।
श्रेष्ठा गोपीश-पूज्या इति मम गुरवः सज्जन-वात-वन्द्याः
सत्कारुण्यावलोकाः सततमपि शुभन्त्व् अञ्जसा (?) चाप्य् उदाराः ॥ अत्र प्रथम-चरणे–‘शोभन्त्य्-अम्भोज-’ इति सर्वथा लिपिकृत्-प्रमादः । ‘शुम्भन्त्य्-अम्भोज-’ इति वा, ‘शोभन्तेऽम्भोज-’ इति वा मूल-पाठः स्यात् ।
सर्वथाऽसङ्गतश्-चतुर्थ-चरणः । एवं तु स्यात् सम्भावितः शुद्धः पाठः- [[P63]] सत्कारुण्यावलोकाः सुदृशम् अपि दिशन्त्व् अञ्जसा-’ इति । अयं व्याख्याताऽऽत्मानं विद्याभूषणार्यः इत्य् एवोल्लिखति- लिकुच-कवि-वरार्यो मूल-रामायणार्थान्-उदहरद् अथ विद्याभूषणार्योऽस्य टीकाम् ।
व्यधित बुध-मनोज्ञां भाव-रत्न-प्रदीप्तिम्— इति ।

तेनायं यतिर्-वा गृहस्थो वेति मूले न स्फुटम् । यतिर्-आसेति तु प्रथा । मुद्रितम् उपसंहार-वाक्यं च तद् एवाऽह- ‘श्रीमद्-विद्याभूषण-यति-शिरोमणिभिर्-विरचित-भाव-रत्न-टीकायाम्…’ इति । अथाप्य् अस्य कापि मठे वेदान्त-साम्राज्येऽनभिषिक्ततया नाम्नि तीर्थ-पदं नास्ति । तस्माद् विद्याभूषण-तीर्थ इति वचनं भ्रान्ति-मूलम् ।

उपरितन-पद्ये चायम् आत्मनस्-त्रीन् गुरून् उल्लिलेखेति भाति - वादिराजाभिधाना इति, वेद-गर्भाभिधाना इति गोपीश-पूज्या इति च ।

प्रायोऽत्र वादिराजाभिधाना वेद-गर्भाभिधानानां गुरवः, वेद-गर्भास्-तच्-छिष्या इति श्लिष्टम् । माध्व-गुरु-परम्पारासु चत्वारो वेद-गर्भाभिधानाः श्रूयन्ते । श्रीविष्णुतीर्थ-संस्थाने (कुम्भासि-मठे, सम्प्रति सोदे-मठ इति प्रथिते) चतुर्थः, श्रीरामतीर्थ-संस्थाने (सम्प्रति काणियूर-मठ इति प्रथिते) अष्टमः, श्रीनरहरि(सिंह)-तीर्थ-संस्थाने (सम्प्रति अदमारु-मठ इति प्रथिते) द्वादशः, श्रीमद्-अधोक्षज-तीर्थ-संस्थाने (सम्प्रति पेजावर-मठ इति प्रथिते) च त्रयोदशः ।

एतेष्व् अयं वेद-गर्भाभिधानः कतमः स्यात्, यो वादिराजाभिधानाद् अनन्तरः ? नैतेष्व् एकोऽपि प्रसिद्धस्य श्रीवादिराज-यतेर्-अनन्तराः । सर्वेऽपि श्रीवादिराज-यतेः प्रतनाः ।

तत एतत् सम्भाव्यते– श्रीमद्-अधोक्षज-तीर्थ-संस्थाने श्रुतो वेद-गर्भः वादीन्द्र-यतेः शिष्य इति गुरु-परम्परा-श्लोकाद्-अवगम्यते । प्रायः स वादीन्द्र-यतिर् एवात्र वादिराज-पदेनोल्लिखितः स्याद् इति । तदानीम् एव श्रीमद्-उपेन्द्र-तीर्थ-संस्थाने (सम्प्रति पुत्तिगे-मठ इति प्रथिते) गोपीनाथ-तीर्थ इति यति-वर आसीत् । प्रायः स एवात्र गोपीश-पदेनोल्लिखितः ।

त एते त्रयो विद्याभूषणस्य गुरव इति सोऽयं क्रिस्तीये पञ्चदश-शतक आसीद् इति शक्यम् अभ्यूहितुम् । मितम् इदं धावद् व्याख्यानम् । व्याकरणादि-विशेष-जिज्ञासा-विषये दीर्घं मौनं वहति । केवलं प्रायस्-तत्र-तत्र क्लिष्ट-शब्दार्थ-निर्वर्णन-मात्रेण निर्वृतः । अर्थ-निर्वर्णनेऽपि क्वचित् स्खलनं दृश्यते । तद् एतद् उपरिष्टात् स्फुटम् अधष्-टिप्पण्याम् । [[P64]]

अथापि क्वचिद् अवश्यं वक्तव्यानि सङ्क्षिप्यापि स्फुटम् अभिधत्ते । यथा लक्ष्मण-जनने ‘कुळीरेऽभ्युदितौ रवौ’ इत्यस्य व्याख्यानम्–‘रवौ कुळीरे कर्काटके राशाव्-अभ्युदिते सति, आषाढ-मास इत्य् अर्थः’ इति । समीचीनम् आह विद्याभूषणार्यः । रामायण-व्याख्यातारो गोविन्द-राजादयस् तु दशम्यां भरत-जननम्, एकादश्यां लक्ष्मण-शत्रुघ्नयोर्-जननम् इति विभ्रान्ताः ‘कर्काटके लग्ने, मध्याह्न-काले’ इत्य् एव व्याचख्युः ।

अथापि ‘उच्चस्थे ग्रह-पञ्चके’ इत्य् एतद् असङ्गतं व्याचख्यौ–‘ग्रह-पञ्चके अङ्गारक-बुध-गुरु-शुक्र-शनि-नामके स्वोच्च-स्थान-स्थिते सति, मकर-कन्या-कर्काटक-मीन-तुला-नामक-राशिषु यथा-क्रमं स्थिते सतीत्य् अर्थः’ इति । वि.प.तीर्थीयेऽप्य् एवम् । का.श्री.टीकायाम् अप्य् एवम् । विचित्रम् इदं यत् सर्वेऽपि बभ्रमुर् इति । सूर्य-अङ्गारक-गुरु-शुक्र-शनिषूच्चस्थेष्व् इति वक्तव्यम् । ‘मेषं पूषणि सम्प्राप्ते’ इति सूर्यस्य स्वोच्चस्थत्वं मूल एवोक्तम् । तं विहाय पुनः पञ्च-ग्रहाणां परिगणने ग्रह-षट्कस्योच्चस्थत्वं स्यात् । न युक्ता च बुधस्य स्वोच्चे कन्या-राशौ स्थितिः । रवेर्-मेषस्थत्वात्, बुधस्य सदा रवि-सन्निहितत्वात् । एतद्-अनुपपत्ति-परिहाराय विश्वपतितीर्थीये प्रयतितम् इव । तथा हि तद्-वचनम्— ‘न च ज्योतिष-शास्त्र-रीत्या तादृशः कालः कदाऽप्य् असम्भवीति वाच्यम् । ईश्वराचिन्त्य-शक्त्यैतादृश-काल-सम्भवात्’ इति । नैतन्-मनसि लगति । न परिहृतश् च षण्णाम् उच्चत्व-प्रसङ्ग इत्य् अलम् ।


ततः प्रायो वर्षाणां द्वे शते अतिगते । अथ विश्वपतितीर्थः व्याख्यां विरचयामास । अधोक्षज-तीर्थ-संस्थाने (श्री-पेजावर-मठे) गुरु-परम्परायाम् एकविंशोऽयं यतिः ।

अयं ग्रन्थादौ नारायणं मध्वं स्व-सम्प्रदाय-मूल-गुरुम् अधोक्षज-तीर्थं च प्रणम्य ततो जयतीर्थं प्रणमति । ततो विजय-ध्वजम् । ततः श्रीवल्लभ-यतिं स-गौरवं स्मरति । न श्रीवल्लभ इति कोऽपि यतिः पेजावर-मठीय-गुरु-परम्परायां पठ्यते । तथा हि विश्वपतितीर्थान्ता तन्-मठीय-गुरु-परम्परा - १. अधोक्षज-तीर्थः
२. कमलाक्ष-तीर्थः
३. पुष्कराक्ष-तीर्थः
४. अमरेन्द्र-तीर्थः
५. विजय-तीर्थः
६. महेन्द्र-तीर्थः

code Markdown download content_copy expand_less

द्यौ । तत्-कृतिम् उपजीव्याहं प्रवच्मि भागवत-पुराणम्’ इति । [[P65]] ७. विजयध्वज-तीर्थः
८. उत्तम-तीर्थः¹
९. चिन्तामणि-तीर्थः¹
१०. दामोदर-तीर्थः
११. वासुदेव-तीर्थः
१२. वादीन्द्र-तीर्थः
१३. वेदगर्भ-तीर्थः
१४. अणुप्रज्ञ-तीर्थः²
१५. विश्वप्रज्ञ-तीर्थः
१६. विश्वेश्वर-तीर्थः
१७. विश्वभूषण-तीर्थः
१८. विश्ववन्द्य-तीर्थः
१९. विद्याराज-तीर्थः
२०. विश्वमूर्तितीर्थः
२१. विश्वपतितीर्थः

तेन श्रीवल्लभोऽयं कश्चिद्-अन्य एव यतिर्-यो विश्वपतितीर्थस्य विद्या-गुरुर्-आसेति ज्ञायते ।

विद्याभूषणीये न प्रति-पदम् अर्थ-वर्णनम् । न प्रति-श्लोकं व्याख्यानम् । तत इयं मन्दोपकारिणी व्याख्या, यत्र प्रति-पदम् अर्थाः कथ्यन्ते, प्रति-श्लोकं विवरणं क्रियते । धातु-पाठाः कोशाश्-चोद्ध्रियन्ते । तद्-उक्तं तत्रभवता व्याख्यात्रैव-

लकार-धातु-लिङ्गानां विग्रहान्वययोस् तथा ।
प्रकाशनं हि क्रियते बालानां बोध-सिद्धये इति ।

यत्र क्रिया-समभिहारेण एकस्यैव लकारस्य निर्देशः, यथा त्रिषु पद्येषु निरन्तरम् - अभूद्-इति प्रयोगे, भू सत्तायाम्, लुङ् इति त्रिर्-अप्य्-आम्रेडनं व्यर्थ-प्रायम्-इति तद्-इह परित्यक्तम् । तद्-अर्थं टीका-कृतं क्षमां याचे ।

सत्यं बालानां बोध-सिद्धय इयं टीका । अथापि क्वचित्-क्वचित् प्रौढानाम्-अपि मनो रमयति । तथा हि- लक्ष्मण-भरतयोः को ज्यायान्-इति विवदमानानाम्, भरत एव ज्यायान्-इति भ्रान्तानाम्, म.भा.ता.नि. टीकायां भाव-प्रकाशिकायां प्रक्षिप्तं भरत-ज्यैष्ठ्य-वचनं वादिराजीयम्-इति परिमूढानाम्-अप्रबुद्धतमानां समग्र-रामायण-पर्यालोचनेन सम्यग्-उत्तरं व्यतारि, निरासि च भरत-ज्यैष्ठ्य-भ्रमः स-युक्तिकम् । अपूर्वोऽयं ग्रन्थ-भागः श्रीविश्वपतितीर्थस्य बहु-दर्शितां दर्शयति । तत्र-तत्र पाणिनि-नये च पाटवं प्रादर्शि ।

अथापि काव्य-स्वारस्याविष्करणे नातीव सफलेयं टीका । क्वचित्-क्वचित् श्लोकार्थ-कथने धातु-पाठोद्धरणेऽपि स्खलनं दुःखाकरोतीव जिज्ञासूनां चेतः ।

अथ च बहुषु स्थलेषु विद्याभूषण-भिक्षु-व्याख्याया अधमर्णोऽयम् । क्वचिद्-अपि तदीयाम्-एव व्याख्यान-सरणिम्-अविकल्-उद्धरति । तत्रेदम्-एकम्-उदाहरणं पर्याप्तम् । उत्तरकाण्डे ‘स्निग्ध-स्वराः-’ (१.१३) इति पद्यस्य विद्याभूषणीयं व्याख्यानम्- ‘स्निग्ध-स्वराः रम्य-स्वरवन्तः । स्निग्धत्वं नाम कण्ठ-गुणः । स्निग्धोऽरूक्षः, आर्द्र-भाववान्-इत्य्-अर्थः । तत्र स्वराः सप्त पूर्वोक्ताः । तत्र - ‘षड्जं मयूरो वदति गावस्-त्व्-ऋषभ-भाषिणः । अजाविकं तु गान्धारं क्रौञ्चः क्वणति मध्यमम् । पुष्प-साधारणे काले पिकः कूजति पञ्चमम् । धैवतं हेषते वाजी निषादं ब्रुवते गजाः’ । पीडित-पञ्चमाख्याः वशीकृत-पञ्चमाख्य-स्वरवन्तः । पञ्चम-स्वरस्योषः-कालानर्हत्वात् पञ्चम-स्वरम्-अल्प-प्रयोगवन्तं कुर्वन्त इत्य्-अर्थः । अत्र श्रुति-समधिकत्वेनेत्य्-अपि ग्राह्यम् । तत्र पञ्चम-स्वरस्य श्रुति-समधिकत्वं कथम्? इत्थम् – ‘षड्जश्-चतुःश्रुतिर्-ज्ञेय ऋषभस्-त्रिश्रुतिः स्मृतः । द्विश्रुतिश्-चापि गान्धारो मध्यमश्-चतुःश्रुतिः । चतुःश्रुतिः पञ्चमः स्याद् धैवतस्-त्रिश्रुतिः स्मृतः । निषादो द्विश्रुतिश्-चैव षड्ज-ग्रामः स्वरान्तरम्’ इति । तत्र यद्यपि षड्ज-मध्यमाभ्यां समान-श्रुतित्वं पञ्चमस्य । तथाऽपि ऋषभ-गान्धार-धैवत-निषादापेक्षया श्रुति-समधिकत्वम् । ततादि-वाद्य-सहिततयेत्य्-अपि ग्राह्यम् । चतुर्विधं तावद् वाद्यम्— ततम्-आनद्धं घनं सुषिरम्-इति । ततं वीणादिकं वाद्यम् । आनद्धं मुरजादिकम् । घनं कांस्य-तालादिकम् । सुषिरं वंशादिकम् । तद्-युक्तं गायन्त इत्य्-अर्थः । षड्ज-स्वरं षड्ज-नामक-स्वर-विशेषं भिन्नकतां स्व-स्वरूप-मात्रेणावस्थिततां नयन्तः प्रापयन्तः । तत्रायं विभेदः । त्रिप्रकारस्-तावत् षड्ज-स्वरः- ऋषभरूपः, पञ्चमरूपः, स्वात्मरूपश्-चेति । तत्र ऋषभ-रूप-पञ्चम-रूपे पृथक्-कृत्य आत्म-रूपेणैवावस्थितः षड्जो भिन्नक इत्य्-उच्यते । षड्जं भिन्नकं कृत्वा, षड्जानुषक्ताव्-अप्य्-ऋषभ-पञ्चमौ त्यक्त्वा, स्वात्म-रूपेण षड्जं प्रयुञ्जाना इत्य्-अर्थः । अकाकितया श्रावक-गुण-युक्तत्वेन चेत्य्-अपि ग्राह्यम् । तत्र - ‘श्रावकः कण्ठजो गुणः । यो दूराच्-छ्रावयत्य्-अन्ये त्व्-अन्वर्थं मधुरादयः । काकीत्याद्याः कण्ठ-दोषास्-तत्र काकी त्रिलिङ्गकः’ इति वैजयन्ती । ऋषभाख्यं स्वरं विना तं त्यक्त्वा । अरुणोदय-काल ऋषभाख्य-स्वर-विशेषेण गानं कर्तुम्-अनुचितत्वात् तं स्वरं च त्यजन्त इत्य्-अर्थः । वन्दि-गणाः स्तुति-पाठक-समूहाः । पुरान्ते अन्तःपुरे’ इति । अथात्र विश्वपतितीर्थीयं व्याख्यानं दृश्यताम्- ‘स्निग्धो मनोहरः स्वरो येषां ते तथा । स्निग्धत्वं नाम कण्ठ-गुणः, स्निग्धः अशुष्कः अरूक्षः, आर्द्री-भाववान्-इत्य्-अर्थः । स्वरास्-तावत् सप्त प्रसिद्धाः षड्ज ऋषभो गान्धारो मध्यमः पञ्चमो धैवतो निषादश्-चेति । ‘षड्जं मयूरा ब्रुवते गावस्-त्व्-ऋषभ-भाषिणः । अजाविकं तु गान्धारं क्रौञ्चः क्वणति [[P67]] मध्यमम् । पुष्प-साधारणे काले पिकः कूजति पञ्चमम् । धैवतं हेषते वाजी निषादं ब्रुवते गजाः’ । तन्-मध्ये पिण्डितः अल्पीकृतः पञ्चमाख्यः स्वरो यैस्-ते तथोक्ताः । सम्पूर्ण-पञ्चमाख्य-स्वरोच्चारणस्योषः-कालानर्हत्वात् पञ्चम-स्वरम्-अल्प-प्रयोगवन्तं कुर्वन्त इत्य्-अर्थः । अत्र श्रुति-समधिकत्वेनेत्य्-अपि ग्राह्यम् । तत्र कथं पञ्चमस्य श्रुति-समधिकत्वम्? इत्थम् - ‘षड्जश्-चतुःश्रुतिर्-ज्ञेय ऋषभस्-त्रिश्रुतिः स्मृतः । द्विश्रुतिश्-चापि गान्धारो मध्यमश्-चतुःश्रुतिः । चतुःश्रुतिः पञ्चमः स्याद् धैवतस्-त्रिश्रुतिः स्मृतः । निषादो द्विश्रुतिश्-चैव षड्ज-ग्रामः स्वरान्तरम्’ इति । तत्र यद्यपि षड्ज-मध्यमाभ्यां समान-श्रुतित्वं पञ्चमस्य । तथाऽपि ऋषभ-गान्धार-धैवत-निषादापेक्षया श्रुति-समधिकत्वम् । ततादि-वाद्य-विशेषेण सहिततयेत्य्-अपि ग्राह्यम् । चतुर्विधं तावद् वाद्यम् । ततम्-आनद्धं घनं सुषिरम्-इति । ततं वीणादि । आनद्धं मुरजादि । घनं कांस्य-ताळादि । सुषिरं वंशादि । तत्र ततादि-युक्तं गायन्त इत्य्-अर्थः । षड्ज-स्वरं षड्ज-नामकं स्वर-विशेषं भिन्नकतां स्वरूप-मात्रेणावस्थिततां नयन्तः प्रापयन्तः । तत्रायं प्रभेदः । त्रिप्रकारस्-तावत् षड्ज-स्वरः- ऋषभरूपः पञ्चमरूपः स्वात्मरूपश्-चेति । तत्र ऋषभरूपं पञ्चमरूपं च पृथक्-कृत्याऽत्म-रूपेणावस्थितः षड्जो भिन्नक इत्य्-उच्यते । षड्जं भिन्नकं कृत्वा षड्जानुषक्ताव्-अप्य्-ऋषभ-पञ्चमौ त्यक्त्वा स्वात्म-रूपेण षड्जं प्रयुञ्जाना इत्य्-अर्थः । न विद्यते काकिः कण्ठ-दोषो यस्य स तथा तस्य भावस्-तत्ता तया । श्रावकादि-गुण-युक्तत्वेन चेत्य्-अपि ग्राह्यम् । ‘श्रावकः कण्ठजो गुणः । यो दूराच्-छ्रावयत्य्-अन्ये त्व्-अन्वर्था मधुरादयः । काकीत्याद्याः कण्ठ-दोषास्-तत्र काकी नृ-लिङ्गकः’ इति वैजयन्ती । ऋषभ इति आख्या यस्य स तथा तं स्वरं विना त्यक्त्वा । अरुणोदय-काले ऋषभाख्य-स्वर-विशेषेण गानं कर्तुम्-अनुचितत्वात् तं वर्जयित्वेत्य्-अर्थः । वन्दि-गणाः स्तुति-पाठकानां समूहाः, पुरस्य अन्तं मध्यं तस्मिन्, अन्तःपुर इत्य्-अर्थः, ववन्दिरे । वदि अभिवादन-स्तुत्योर्-लिट् ।’

प्रायः प्रतनानाम्-अयं सम्प्रदायः, यत् किम्-अप्य्-अपूर्वं पूर्व-वचनम्, तत् तथैव स्व-प्रबन्धेषूज्जिहीर्षन्ति स्म । तद्-अप्य्-अनाम-निर्देशम् । यत् ते मन्यन्ते स्म तद्-इदम्-उद्धरणं केवलम्, नापहरणम्-इति । अर्वाचीनास्-तु उज्जिहीर्षाम्-एवापजिहीर्षां मन्वानास्-तद्-इदं कृति-चौर्यम्-आचक्षते ।


एवम्-आद्यं व्याख्यान-द्वयं यतिभ्यां प्रणीतम् । अथ तृतीयं गृहस्थस्य काशी-श्रीनिवासाचार्यस्य व्याख्यानम् । अदृष्ट-मुद्रणालयम्-एतत् । अस्य प्रबन्धुर्-विषये सर्वम्-अज्ञातम् । किं-कालोऽयम्, किं-देशोऽयम्, किं-मठोऽयम्, किं-गुरुर्-अयम्, नैकमपि विज्ञायते । एकं देवनागरी-लिपि-बद्धं कोश-मात्रम्-अस्माभिर्-उपलब्धम् । तत्रोपसंहारे ग्रन्थ-कृद्-एवम्-आह– [[P68]]

सीता-राम-प्रसादेन श्रीनिवासेन सूरिणा ।
सङ्ग्रहाख्यस्य विवृतिर्-अकारि श्रीश-तुष्टये ॥

क्वचिद्-एवं पाठान्तरं दृश्यते —

सीता-राम-प्रसादेन श्रीनिवासो यथा-मति ।
सङ्ग्रहाख्यस्य विवृतिम्-अकार्षीच्-छ्रीश-तुष्टये ॥

सर्वथा मौनम्-उवाह ग्रन्थ-कृत् स्व-विषये । काशी-श्रीनिवासाचार्य इति समग्रं नामापि समाप्ति-वाक्याद्-एवावगम्यते—

श्रीमत्-सङ्ग्रहरामायणस्य टीकायां काशी-श्रीनिवासाचार्य-विरचितायाम्…।

टीका-नाम च सुन्दरकाण्डान्ते- ‘इति श्रीमत्-सङ्ग्रहरामायण-टीकायां राम-गुण-रत्न-प्रकाशिकायाम्… प्रायशोऽयं काश्यां समधिगत-नवीन-न्यायः । तेन काशी-पोपाह्वो बभूवेति भाति । अन्यत् सर्वं काल-गर्भे निलीनम् । लिपिकृताम्-अक्षर-जीवनानाम्-अव्युत्पन्नतया तत्र-तत्राशुद्धि-बहुलः पाठः । सरळं व्याख्यानम् । प्रति-श्लोकं व्याख्याति । प्रायः प्रति-पदम् । समस्त-पदेषु विग्रह-वाक्यं दर्शयति । तेन बालोपकारिणी टीकेयम् । अथापि रमणीयं व्याख्यानम् । काव्य-हृदयाविष्करणे पदानाम्-अर्थाविष्करणे व्याकरण-विवरणे च व्याख्याताऽत्मनः कृत-मुखत्वम्-अवगमयति । स्याद्-अयं परिचित-पद-वाक्यः । अथापि क्वचिद्-रामायणाननुगुणं व्याख्याति । तद् यथा अरण्यकाण्डे–‘मधुं पुरस्कृत्य महच्-चकार महेन्द्र-मुख्यैर्-अमरैः सु-युद्धम्’ (१.३०) इत्यत्र का. श्री. व्याख्यानम्- ‘कार्य-कारणयोर्-अभेदोपचारान्-मधु-पुत्रो लवणासुरो मधु-शब्देन गृह्यते’ इति । बालिशं व्याख्यानम् । न जानीमः, किम्-इत्य्-अयम्-अधीती शास्त्रे, तत्र-तत्र दर्शित-प्रौढित्वोऽपि साधुर्-अपि युक्तायुक्त-चिन्तने, अपठित-रामायण-कथ इवेत्थम्-अहो विकत्थते । लवण-पिता मधुर्-एव रावणेन साकं देव-लोकं जिगीषुर्जगामेति स्फुटं रामायणे । अन्ते चाऽत्मनः [[चुचुन्दरीसाम्यम्|छुछुन्दरी-साम्यम्]] आह-

सीतार्थं सेतु-निर्माणे शाखा(टो)मूषको यथा ।
सङ्ग्रहस्य तथा सेवाम्-अकरोद्-इन्दिराश्रयः - इति ।

इन्दिराश्रय इत्य्-अस्फुटं पदम् । प्रायो लक्ष्मीस्-तस्य कुल-देवता स्यात् ।

नवीना टीका सङ्ग्रह-चन्द्रिका

अध्यगामिषत प्राचीन-टीकानां गुणाः । अध्यगामिषत च दोषाः । तद्-एवं सतीष्व्-एतासु टीकासु किम्-अप्य्-अपूर्णम्-इव, क्वाप्य्-असमग्र-विवरणम्-इव, क्वाप्य्-अनुद्घाटित-हृदयम्-इव भाति सङ्ग्रहरामायणम् । अकृत-प्रायैवापाणिनीय-प्रयोगेषु [[P69]] शब्द-साधुत्व-चर्चा । यथा ‘वत्सा वत्स्यामि’ इति । विद्याभूषण-टीकायां को धातुर्-इति न स्फुटम् । ‘वत्स्यामि हनिष्यामि, वध सम्प्रहारे लृट्’ इति विश्वपतितीर्थीयम् । श्रीनिवासाचार्योऽपि निमील्य चक्षुषी प्राचां वचनम्-एवानूवाच–‘वत्स्यामि हनिष्यामि । वध सम्प्रहारे लृट्’ इति । एतावताऽपि न शङ्का-परिहारः । वध-धातुर्-एव पाणिनि-नये न पठ्यते । यद्यपि प्राचीना वध-धातुं पठन्ति । तत्-पक्षेऽपि वधिष्यतीत्य्-आद्य्-एव रूपम्, न वत्स्यामीत्य्-आदि । अतो न शङ्का-शङ्कु-परिहारः । न स्पृष्टम्-एव छन्दो-लक्षणादिकम् । क्वचिद्-अस्पष्टम्-इव । क्वचिद्-अस्वरसम्-इव । अतः काव्य-हृदय-स्पृक् छन्दो-व्याकरणादि-विश्लेषण-परा काव्य-रसिकानां पुराण-कृषिकाणां च हृदयङ्गमा काचिद्-अन्यैव टीकाऽपेक्षितेति बहवो माम्-अभ्यर्थयामासुः । मयि च स एव भावो जजागार । तद्-अर्थम्-एकां नवीनां टीकां सङ्ग्रह-चन्द्रिकां नाम विरचय्यात्र समयोजयम् ।

सङ्ग्रहरामायणान्ते च पारायण-प्रियाणां कृते वाल्मीकि-रामायणान्तर्गतं मन्त्र-तुल्यम्-आदित्य-हृदयम्-अप्य्-अत्र न्यवेशि । तद्-गतापूर्वार्थ-प्रकटनार्थं च तस्यैका मदीया टीका ‘हृदय-चन्द्रिका’ च सहैव समयोजि, येन जिज्ञासूनां मन्त्रार्थावबोधः सुकरः स्याद्-इति ।

ग्रन्थान्ते च शोधकानां जिज्ञासूनां सौकर्याय रामायण-पात्राणां परिचयः, श्लोकानाम्-अकाराद्यनुक्रमणिका च न्यबध्येताम्-इत्य्-अलम् ।

शोधनार्थम्-उपयुक्ता हस्तलिखित-कोशाः

शुद्ध-पाठ-निर्णयार्थं ताल-पत्र-लिखिता आष्टौ मूल-कोशाः परिशीलिताः । तिस्रो विश्वपतितीर्थ-टीकायाः । पञ्च मूल-मात्रस्य ।

तिसृषु टीका-मातृकासु एका श्री-पेजावर-मठीय-पुस्तकालयाद्-आनीता । अतिजीर्णं ताल-पत्रम् । अस्फुटान्य्-अक्षराणि । प्रायः शुद्धः पाठः । आद्यन्त-पत्राणि लुप्तानि ।

द्वितीया श्री-सोदे-मठीया । समीचीना सुस्थितौ विद्यमाना । स्थूलान्य्-अक्षराणि । तत्र-तत्र लुप्तष्-टीका-भागः । अशुद्धि-बहुलः । विश्वपतितीर्थ-शिष्यो गोविन्दाचार्य-नामा लिपिकार इत्य्-अन्ते उल्लिखितम् ।

तृतीया कृष्णापुर-मठीया । समीचीना सुरक्षिता । जनार्दन-भट्टो लिपिकारः । शुद्धः पाठः । पाठ-भेदेषु शुद्ध-पाठ-निर्णयाय बहुलम्-अस्या एवावलम्बनं शरणम्-आसीत् । सुख-पठनीया रमणीया लिपिः । नाति-स्थूला नाति-सूक्ष्मा च । [[P70]]

पञ्चसु च मूल-मात्र-मातृकासु द्वे श्री-पेजावर-मठीये । एका श्री-सुब्रह्मण्य-मठाद्-आनीता । द्वे पुनः श्री-सोदे-मठीये । अनयोर्-एका नागरी-लिपि-बद्धा । अन्याः सर्वास्-तुळु-लिपि-बद्धाः ।

पेजावर-मठीया सुब्रह्मण्य-मठीया च मातृके पाठतः समाने । सोदे-मठीयस्-तुकु-मातृका-पाठः किञ्चिद्-इव भिन्नः । सोदे-मठीया नागरी-लिपि-मातृका उत्तरकाण्डे भगवद्-रूप-वर्णन-प्रसङ्गे विशेषतः समादृता । मुद्रितः पाठः सर्वात्मना भिन्नः । मुद्रिताः असङ्गताः प्रक्षिप्त-श्लोका न क्वापि मातृकासु उपलब्धाः । परस्परं पाठ-भेदश्-च तत्र-तत्र क्वचिद्-एव । तेन शुद्ध-पाठ-निर्णयाय बहूप्-कृतम्-आभिर्-मातृकाभिः ।

मातृकाणां दानेन कृत-महानुग्रहेभ्यः सर्वेभ्योऽपि श्री-चरणेभ्यः स-गौरवं नमो-वाकं प्रशास्महे ।

मातृका-तोलनादिना संशोधन-कर्मणि दिवानिशं कृत-परिश्रमं श्रीमन्तं तोटन्तिल्लाय-कुल-सम्भवं विजयसिंहाचार्यं श्रीरामचन्द्रश्-चिरम्-अनुगृह्णातु ।

अत्रोद्धृतानां रामायण-श्लोकानां काण्ड-सर्गादि-सङ्ख्या गोरखपुरे गीता-प्रेस-द्वारा प्रकटित-पाठानुसारेण निरूपिता । यद्यपि तत्र सन्ति पाठ-भेदाः । तद्-अविवक्षित्वा केवलं सङ्ख्या-मात्रम्-अनुसृतम्-इत्य्-अवगन्तव्यम् ।

लिपि-लेखन-क्रमः

प्राचीनादर्शे, विशिष्य श्रीहृषीकेश-तीर्थेन लिखिते ग्रन्थे, कश्चन विशिष्टो लेखन-क्रमोऽनुसृतो दृश्यते । तम्-एव क्रमम्-अत्राप्य्-अनुससृम । तत्रेदं किञ्चिद् वक्तव्यं भवति ।

पाणिनिः सूत्रयामास- ‘अचो रहाभ्यां द्वे’ (८.४.४६) इति । तेन अच उत्तरौ यौ रेफ-हकारौ ताभ्याम्-उत्तरस्य यरो द्वे भवतः । तेन अर्कः, स्वर्गः, अर्च्चनम्, अर्जुनः, कर्णः, पार्थः, अर्द्दनम्, अर्द्धम्, अर्पणम्, कर्म्म, सूर्य्यः, दुर्लभः- इत्याद्य्-रूप-सिद्धिः ।

एवं हकाराद्-उत्तरस्यापि । तेन ब्रह्मा ब्रम्म्ना भवति । वह्निः [[वहून्निर्भवति|वह्निर्-भवति]] । [[जाह्नवी जाह्नवी|जाह्नवी]] भवति । भागश एतद्-अनुमतम्-आचार्यस्यापि । स रेफात् परस्य यरो द्विर्-भावम्-अनुमन्यते । तेन अर्कः, स्वर्ग इत्यादि युक्तं रूपम् । अथापि हकाराद्-उत्तरस्य यरो न द्वे भवतः । तेन ब्रह्मेत्य्-एव । न ब्रह्म्म्मेति । वह्निर्-इत्य्-एव न वन्निर्-इति । [[जाह्नवीत्येव|जाह्नवीत्य्-एव]] । न [[जाह्नवीति|जाह्नवी]] ॥

तथा च ‘अचो राद् द्वे’ इत्य्-एव पर्याप्तम् । तत्रापि क्वचिद्-अपवाद इष्यते । व-बयोर्-भकारस्य च द्विर्-भावो नेष्यते । तेन सर्वम्, अर्बुदम्, गर्भ इत्याद्य्-एव साधु रूपम् । न सर्व्वम्, अर्ब्बुदम्, गर्ब्भ इत्यादि । तेन [[P71]] ‘ऋते ब-भाभ्यां वाच्-च’ इति वक्तव्यम् । ‘शरोऽचि’ (८.४.४९) इति पाणिनिनैवोक्तम् । तेन कर्षति, कर्शयतीत्यादौ न द्विर्-भाव इति स्थितम् ।

पुनश्-च सूत्रयामास पाणिनिः- ‘अनचि च’ (८.४.४१) इति । अनच्-परस्य अच उत्तरस्य यरो द्वे भवतः । तेन दध्यङ् आथर्वणो दद्ध्यङ् आथर्वणो भवति । मध्वो मध्वो भवति । अनुमतम्-एतद्-अपि तत्ववादाचार्यस्य । परन्त्व्-अत्र व-परस्य धकारस्य द्विर्-भावे तल्-लेखनाय संयुक्तं मुद्राक्षरं नास्ति । तेन ‘मध्वः’, ‘अद्ध्वा’ इत्य्-एव लिखितव्यं भवति । तदा पठितॄणाम्-अस्ति भ्रमावकाशः । ‘सहस्र-शीर्षम्’ इत्यादिवद्-इदम्-अपि विश्लिष्य पठनीयम्-इति विभ्रम्यासुः । एवंकारं मा नाम पठितॄणां विभ्रमो भूद्-इति द्विर्-भावं विनैवात्र प्रकटितम् - ‘मध्वः, साध्व्-अत्र’ इत्यादिषु सर्वत्र ।

धन्यं मन्यतेऽयं जनः

आसीद्-आशा बलवती मम, यद्-अशुद्ध-पाठैर्-असम्बद्धानुवादैश्-च पङ्किलं सङ्ग्रहरामायणं नाम राम-तीर्थं कतक-क्षेपेण शोधनीयम्-इति । आसीद्-आशा, आसीत् तन्-निर्वहण-क्षमा प्रज्ञा, एवम्-उन्मीलितं चक्षुर्-द्वयम् । अथापि क्रिया-शक्ति-रूपं तृतीयं चक्षुर्-न विचकासामासैव । सम्प्रति स पुण्य-कालः समुपस्थितः । श्रीमद्-अधोक्षज-तीर्थ-संस्थानम्-आरूढाः श्रीविश्वेश-तीर्थ-श्री-चरणास्-तृतीयम्-अपि मे चक्षुर्-उदमीलयन्त । हन्त सिद्धं नः समीहितम् । करुणा-वरणाः श्री-चरणाः शुद्ध-पाठ-संशोधने स-व्याख्यानस्य ग्रन्थस्य स-विमर्शं सम्पादने च दिष्ट्या माम्-एव न्ययोजयन् । श्री-पादानुग्रह-भाजनम्-अहम्-अभवम् । पण्डित-मूर्धन्यानां श्रीविद्यामान्य-तीर्थ-श्री-चरण-परिचरण-धन्यानां तत्ववाद-वदावदानां गुरु-चरणानाम्-आशीः-पौरट-कोटीर-परिमण्डितं मे पाण्डित्यम् । धन्योऽयं जनः ।

कृतज्ञताम्-अर्पयामः

श्रीलः साधु-शीलः पण्डितः कड्डी-बदरीनारायणाचार्यः गणक-यन्त्रेण लिप्य्-अङ्कनं यथा-पूर्वम्-अकल्पयत् । स्वयं निस्पृहः सन्न्-अपि माध्व-समये बद्ध-स्पृहः श्रीविश्वेशतीथ-श्री-चरणानाम्-अन्तेवासी च । तस्यातुलायाः सन्तत-सेवाया अपर्याप्तं नूनम्-अस्माकं शब्द-मात्रेण कार्तज्ञ्य-समर्पणम् ।

हस्तलिखत-कोशानां परस्परं तोलनेन शोधयित्वा शुद्ध-पाठ-निर्णये स-परिश्रमं बहु प्रयतितं विदुषा श्री-विजयसिंहेन । तथा मुद्रणे सम्भावितानां लिपि-दोषाणां निवारणाय प्रत्य्-अक्षरं चक्षुर्-निक्षिप्य महता प्रयत्नेन परिशश्राम श्रीमान् कृष्णराज-भट्टः, अनन्त-शयनः, विशिष्य च श्री-हयवदनः । भगवतः सीता-जानेर्-अनुग्रहस्-तेषां त्रयाणाम्-अपि रक्षा-कवचम्-अस्तु निरन्तरम् । [[P72]]

हृद्य-वर्ण-चित्र-रेखा-चित्राणां दानेन प्रकाशनस्यापूर्वं शोभाम्-अतिशाययामास चित्र-कला-परिणतः स्वयं विदेशजोऽपि भारत-मानस-पुत्रः प्रीत्य्-ओरीकृत-तत्ववाद-पद्यः उक्रयीन् (Ukraine) देश-सञ्जातः श्रील उज्ज्वल-नीलमणिः । तम्-अप्य्-अनुगृह्णातां प्राण-नारायणौ ।

मुद्रण-कर्मणि सत्वरम्-ओङ्कृत्य सुन्दरं मुद्रण-कार्यं काले कृतवते ‘अनिरुद्ध-क्रियेशन्स्’ संस्थाम्-अधिकृताय कल्याणि-पदोपाह्वाय श्रीकान्त-शर्मणे भूयो-भूयः सहार्दं कार्तज्ञ्यम्-अर्थयामः ।

इदम्-इदानीं तत्रभवतां स-प्रश्रयम्-उपहरणम्—

मन्मथ-सं.चैत्र-शुक्ल-दशमी
29.3.2015

डा. बन्नचे-पदोपाह्वः आचार्य-गोविन्दः