कुशाग्र-सङ्क्षेपः

Source: TW

विश्वास-प्रस्तुतिः

कोदण्ड-भूषित-करान् मणि-नील-रूपात्
सत्–कञ्-ज–लोचन-वराद् भरताग्रजातात् ।
सौमित्रि-सेवित-पदात् परमाभिरामात्
रामात् परं किम् अपि तत्त्वम् अहं न मन्ये

मूलम्

कोदण्डभूषितकरान्मणिनीलरूपात्
सत्कञ्जलोचनवराद्भरताग्रजातात् ।
सौमित्रिसेवितपदात्परमाभिरामात्
रामात्परं किमपि तत्त्वमहं न मन्ये ॥

(इति शिवप्रसादस्य)

श्रीरामपरमायणम्
(कुशाग्र-विरचितम्)

बालकाण्डः

विश्वास-प्रस्तुतिः

इक्ष्वाकु-वंश-तनयान् नव-नीर-जाभात्
सौमित्र-पूजित-पदान् मुनि-यज्ञ-पालात्।
वैदेह-राज-सुखदाद् अरविन्द-नेत्राद्
रामात् परं किमपि तत्त्वमहं न जाने॥१

मूलम्

इक्ष्वाकुवंशतनयान्नवनीरजाभात्
सौमित्रपूजितपदान्मुनियज्ञपालात्।
वैदेहराजसुखदादरविन्दनेत्राद्
रामात् परं किमपि तत्त्वमहं न जाने॥१

अयोध्याकाण्डः

विश्वास-प्रस्तुतिः

सीतोपगूढ-हृदयाद् अमिताभिरामात्
साकेत-नागर-विलोचन-पुण्य-लाभात्।
तातानुशासन-तृणी-कृत-यौवराज्याद्
रामात् परं किमपि तत्त्वमहं न जाने॥२

मूलम्

सीतोपगूढहृदयादमिताभिरामात्
साकेतनागरविलोचनपुण्यलाभात्।
तातानुशासनतृणीकृतयौवराज्याद्
रामात् परं किमपि तत्त्वमहं न जाने॥२

अरण्यकाण्डः

विश्वास-प्रस्तुतिः

श्रीदण्डकावन-तपो-धन-वीक्ष्यमाणात्
को-दण्ड–भूषित-करान् मृग-मार्गमाणात् +++(←कुसमासः)+++।
सीता-वियोग-विकलाद् अनुजावलम्बाद्
रामात् परं किमपि तत्त्वमहं न जाने॥३

मूलम्

श्रीदण्डकावनतपोधनवीक्ष्यमाणात्
कोदण्डभूषितकरान्मृगमार्गमाणात्।
सीतावियोगविकलादनुजावलम्बाद्
रामात् परं किमपि तत्त्वमहं न जाने॥३

किष्किन्धाकाण्डः

विश्वास-प्रस्तुतिः

वातात्मजोपचरिताद् वन-चारि-वीरात्
सुग्रीव-जीवन-धनाद् उपकार-निष्ठात्।
सङ्ग्राम–भू-पतित-वालि-विलोकितास्याद्
रामात् परं किमपि तत्त्वमहं न जाने॥४

मूलम्

वातात्मजोपचरिताद् वनचारिवीरात्
सुग्रीवजीवनधनादुपकारनिष्ठात्।
सङ्ग्रामभूपतितवालिविलोकितास्याद्
रामात् परं किमपि तत्त्वमहं न जाने॥४

सुन्दरकाण्डः

विश्वास-प्रस्तुतिः

रत्नाङ्गुलीय-वरदात् प्रहितेष्ट-दूतात्
सिन्धोर् विलङ्घन-रतानिल-सूनु-चिन्त्यात्।
चूडा-मणि–च्छवि-विलीन-मनश्-चकोराद्+++(5)+++
रामात् परं किमपि तत्त्वमहं न जाने॥५

विश्वास-टिप्पनी

समस्तपदैकदेशेनान्वयो न प्रशस्तः

मूलम्

रत्नाङ्गुलीयवरदात् प्रहितेष्टदूतात्
सिन्धोर्विलङ्घनरतानिलसूनुचिन्त्यात्।
चूडामणिच्छविविलीनमनश्चकोराद्
रामात् परं किमपि तत्त्वमहं न जाने॥५

युद्धकाण्डः

विश्वास-प्रस्तुतिः

पाथो-धि-सेतु-गत-सैन्य-परीत-यानाद्
रक्षो-मृगार्दन-पराटविकाग्र-गण्यात्।
युद्धे दशानन-शिरोऽर्चित-दिक्-प्रधानाद्
रामात् परं किमपि तत्त्वमहं न जाने॥६

मूलम्

पाथोधिसेतुगतसैन्यपरीतयानाद्
रक्षोमृगार्दनपराटविकाग्रगण्यात्।
युद्धे दशाननशिरोऽर्चितदिक्प्रधानाद्
रामात् परं किमपि तत्त्वमहं न जाने॥६

उत्तरकाण्डः

विश्वास-प्रस्तुतिः

राजाधिराज-महिताज् जन-पूज्यमानाद्+++(←कुसमासः)+++
धर्मानुशासन-परिष्कृत-मर्त्य-लोकात्।
भू-नन्दिनी-सहचराद् अ-निकेत-नाथाद्
रामात् परं किमपि तत्त्वमहं न जाने॥७

मूलम्

राजाधिराज-महिताज् जन-पूज्यमानाद्
धर्मानुशासनपरिष्कृतमर्त्यलोकात्।
भूनन्दिनीसहचरादनिकेतनाथाद्
रामात् परं किमपि तत्त्वमहं न जाने॥७

*पूर्वपदात् संज्ञायामगः (पा॰सू॰ ८.४.३) इत्यनेन संज्ञायां णत्वं भवति। काव्यस्य नामत्वादत्र णत्वं च।