विश्वास-प्रस्तुतिः
स नैषधस्यार्थपतेः सुतायामुत्पादयामास निषिद्धशत्रुः ।
अनूनसारं निषधान्नगेन्द्रात्पुत्रं यमाहुर्निषधाख्यमेव ॥ १॥
मूलम्
स नैषधस्यार्थपतेः सुतायामुत्पादयामास निषिद्धशत्रुः ।
अनूनसारं निषधान्नगेन्द्रात्पुत्रं यमाहुर्निषधाख्यमेव ॥ १॥
मल्लिनाथः
स इति॥ निषिद्धशत्रुर्निवारितरिपुः सोऽतिथिर्नैषधस्य निषधदेशाधीश्वरस्यार्थपते राज्ञः सुतायां निषधान्निषधाख्यान्नगेन्द्रात्पर्वतात्। अनूनसारमन्यूनबलं पुत्रमुत्पादयामास। यं पुत्रं निषधाख्यं निषधनामकमेवाहुः ॥ 1 ॥
विश्वास-प्रस्तुतिः
तेनोनुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना ।
सुवृष्टियोगादिव जीवलोकः सस्येन संपत्तिफलोन्मुखेन ॥ २॥
मूलम्
तेनोनुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना ।
सुवृष्टियोगादिव जीवलोकः सस्येन संपत्तिफलोन्मुखेन ॥ २॥
मल्लिनाथः
तेनेति॥ उरुवीर्येणातिपराक्रमेण। अत एव प्रजायै लोकरक्षणार्थं कल्पिष्यमाणेन तेन यूना निषधेन पिताऽतिथिः। सुवृष्टियोगात्संपत्तिफलोन्मुखेन पाकोन्मुखेन सस्येन जीवलोक इव। ननन्द जहर्ष ॥ 2 ॥
विश्वास-प्रस्तुतिः
शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः ।
कौमुद्वतेयः कुमुदावदातैर्द्यामर्जितां कर्मभिरारुरोह ॥ ३॥
मूलम्
शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः ।
कौमुद्वतेयः कुमुदावदातैर्द्यामर्जितां कर्मभिरारुरोह ॥ ३॥
मल्लिनाथः
शब्दादीति॥ कुमुद्वत्या अपत्यं पुमान् कौमुद्वतेयोऽतिथिः शब्दादि शब्दस्पर्शादि सुखं सुखसाधनं विषयवर्गं निर्विश्योपभुज्य चिराय तस्मिन्निषधाख्ये पुत्रे प्रतिष्ठापितराजशब्दो दत्तराज्यः सन्। कुमुदावदातैर्निर्मलैः कर्मभिरश्वमेधादिभिरर्जितां संपादितां द्यां स्वर्गम्। आरुरोह ॥ 3 ॥
विश्वास-प्रस्तुतिः
पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः ।
एकातपत्रां भुवमेकवीरः पुरार्गलादीर्घभुजो बुभोज ॥ ४॥
मूलम्
पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः ।
एकातपत्रां भुवमेकवीरः पुरार्गलादीर्घभुजो बुभोज ॥ ४॥
मल्लिनाथः
पौत्र इति॥ कुशेशयाक्षः शतपत्रलोचनः। ‘शतपत्रं कुशेशयम्’ इत्यमरः। सागरधीरचेताः समुद्रगम्भीरचित्त एकवीरोऽसहायशूरः। पुरस्यार्गला कपाटविष्कम्भः। ‘तद्विष्कम्भोऽर्गलं न ना’ इत्यमरः। तद्वद्दीर्घभुजः कुशस्य पौत्रो निषधोऽपि ससागरामेकातपत्रां भुवं बुभोज पालयामास। ‘भुजोऽनवने’ (पा.1।3।66) इति नियमात् परस्मैपदम् ॥ 4 ॥
विश्वास-प्रस्तुतिः
तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः ।
यो नड्वलानीव गजः परेषां बलान्यमृद्गान्नलिनाभवक्त्रः ॥ ५॥
मूलम्
तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः ।
यो नड्वलानीव गजः परेषां बलान्यमृद्गान्नलिनाभवक्त्रः ॥ ५॥
मल्लिनाथः
तस्येति॥ अनलौजा नलाभिधानो नलाख्यस्तस्य निषधस्य तनयस्तस्य निषधस्यान्तेऽवसाने वंशश्रियं राज्यलक्ष्मीं प्राप। नलिनाभवक्त्रो यो नलः। गजो नड्वलानि नडप्रायस्थलानीव। ‘नडशादाद् ड्वलच्’(पा.4।2।88) इति ड्वलच्प्रत्ययः। परेषां बलान्यमृद्गान्ममर्द ॥ 5 ॥
विश्वास-प्रस्तुतिः
नभश्चरैर्गीतयशाः स लेभे नभस्तलश्यामतनुं तनूजम् ।
ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासमिव प्रजानाम् ॥ ६॥
मूलम्
नभश्चरैर्गीतयशाः स लेभे नभस्तलश्यामतनुं तनूजम् ।
ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासमिव प्रजानाम् ॥ ६॥
मल्लिनाथः
नभ इति॥ नभश्चरैर्गन्धर्वादिभिर्गीतयशाः स नलो नभस्तलश्यामतनुं नभःशब्दमयेन नाम्ना ख्यातम्। नभःशब्दसंज्ञकमित्यर्थः। नभोमासमिव श्रावणमासमिव। प्रजानां कान्तं प्रियं तनूजं पुत्रं लेभे ॥ 6 ॥
विश्वास-प्रस्तुतिः
तस्मै विसृज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वम् ।
मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध ॥ ७॥
मूलम्
तस्मै विसृज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वम् ।
मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध ॥ ७॥
मल्लिनाथः
तस्मा इति॥ धर्मोत्तरो धर्मप्रधानः स लनः प्रभवे समर्थाय तस्मै नभसे तदुत्तरकोसलानां प्रभुत्वमाधिपत्यं विसृज्य दत्त्वा जरसा जरयोपदिष्टम्। वार्धके चिकीर्षितमित्यर्थः। मृगैरजर्यं तैः सह संगतम्। ‘अजर्यं संगतम्’ (पा.3।1।105) इति निपातः। पुनरदेहबन्धाय पुनर्देहसंबन्धनिवृत्तये बबन्ध। मोक्षार्थं वनं गत इत्यर्थः। ‘अदेहबन्धाय’ इत्यत्र प्रसज्यप्रतिषेधेऽपि नञ्समासं इष्यते ॥ 7 ॥
विश्वास-प्रस्तुतिः
तेन द्विपानाम् इव पुण्डरीको
राज्ञाम् अजय्यो ऽजनि पुण्डरीकः ।
शान्ते पितर्य्, आहृत-पुण्डरीकं
यं पुण्डरीकाक्षम् इव श्रिता श्रीः ॥ ८॥
मानसतरङ्गिणीकृत्
From him (Nabhas) was born Pundarīka,
whom the [rival] kings could not win any more than the [regular] elephants the [earth-bearing] Pundarika.
After his father attained peace,
the performed the Puṇḍarīka ritual, and opulence was acquired by him like Śrī resorting to Puṇḍarīkākṣa (Visnu).
मूलम्
तेन द्विपानामिव पुण्डरीको राज्ञामजय्योऽजनि पुण्डरीकः ।
शान्ते पितर्याहृतपुण्डरीका(कं) यं पुण्डरीकाक्षमिव श्रिता श्रीः ॥ ८॥
मानसतरङ्गिणीकृत् - टिप्पनी
a tetrad yamaka from kAlIdasa expounding the different senses of the word puNDarIka while describing the eponymous ikShvAku monarch. Multiple inscriptions from circum-gupta age talk of kings performing the pauNDarIka sacrifice (e.g., the Bijayagad inscription of viShNuvardhana).
“(Line 3.)-On the ceremony of the pundarîka-sacrifice (having been performed), this sacrificial post has been caused to be set up by the Varika, the illustrious Vishnuvarhana whose royalty and name are well established,-who is the excellent son of Yashôvardhana; (and) the excellent son’s son of Yashôrâta; (and) the excellent son of the son’s son of Vyâghrarâta, - for the purpose of increasing (his) splendour, sacrifices, religion, welfare (in the other world), prosperity, fame, family, lineage, good fortune, and enjoyment.
मल्लिनाथः
तेनेति॥ तेन नभसा। द्विपानां पुण्डरीको दिग्गजविशेष इव। राज्ञाः मजय्यो जेतुमशक्यः। ‘क्षय्यजय्यौ शक्यार्थे’(पा.6।1।81) इति निपातनात्साधुः। पुण्डरीकः पुण्डकाख्यः पुत्रोऽजनि जनितः। पितरि शान्ते स्वर्गं गते सति। आहृतपुण्डरीका गृहीतश्वेतपद्मा श्रीर्यं पुण्डरीकं पुण्डरीकाक्षं विष्णुमिव श्रिता ॥ 8 ॥
विश्वास-प्रस्तुतिः
स क्षेमधन्वानममोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षम् ।
क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश्चचार ॥ ९॥
मूलम्
स क्षेमधन्वानममोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षम् ।
क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश्चचार ॥ ९॥
मल्लिनाथः
स इति॥ अमोघं धनुर्यस्य सोऽमोघधन्वा। ‘घनुषश्च’(पा.5।4।132) इत्यनङादेशः समासान्तः। स पुण्डरीकः प्रजानां क्षेमविधाने दक्षं क्षमयोपपन्नं क्षान्तियुक्तं क्षेमं धनुर्यस्य तं क्षेमधन्वानं नाम पुत्रम्। ‘वा संज्ञायाम्’ (पा.5।4।133) इत्यनङादेशः। क्ष्मां लम्भयित्वा प्रापय्य। लभेर्गत्यर्थत्वाद्द्विकर्मकत्वम्। क्षान्ततरोऽत्यन्तसहिष्णुः सन्। वने तपश्चचार ॥ 9 ॥
विश्वास-प्रस्तुतिः
अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूत् ।
व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य ॥ १०॥
मूलम्
अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूत् ।
व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य ॥ १०॥
मल्लिनाथः
अनीकिनीनामिति॥ तस्य क्षेमधन्वनोऽपि समरेऽनीकिनीनां चमूनामग्रयायी देवप्रतिम इन्द्रादिकल्पः सुतोऽभूत्। अनीकपदावसानमनीकशब्दान्तं देवादि देवशब्दपूर्वं यस्य नाम ‘देवानीक’ इति नामधेयं त्रिदिवे स्वर्गेऽपि व्यश्रूयत विश्रुतम् ॥ 10 ॥
विश्वास-प्रस्तुतिः
पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन ।
पुत्रस्तथैवात्मजवत्सलेन स तेन पित्रा पितृमान्बभूव ॥ ११॥
मूलम्
पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन ।
पुत्रस्तथैवात्मजवत्सलेन स तेन पित्रा पितृमान्बभूव ॥ ११॥
मल्लिनाथः
पितेति॥ स पिता क्षेमधन्वा समाराधनतत्परेण शूश्रूषापरेण तेन पुत्रेण यथैव पुत्री बभूव तथैव स पुत्रो देवानीक आत्मजवत्सलेन तेन पित्रा पितृमान्बभूव। लोके पितृत्व-पुत्रत्वयोः फलमनयोरेवासीदित्यर्थः ॥ 11 ॥
विश्वास-प्रस्तुतिः
पूर्वस्तयोरात्मसमे चिरोढामात्मोभवे वर्णचतुष्टयस्य ।
धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकम् ॥ १२॥
मूलम्
पूर्वस्तयोरात्मसमे चिरोढामात्मोभवे वर्णचतुष्टयस्य ।
धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकम् ॥ १२॥
मल्लिनाथः
पूर्व इति॥ गुणानामेकनिधिर्यज्वा विधिवदिष्टवांस्तयोः पितृ-पुत्रयोर्मध्ये पूर्वः पिता क्षेमधन्वाऽऽत्मसमे स्वतुल्य आत्मोद्भवे पुत्रे देवानीके चिरोढां चिरं धृतां वर्णचतुष्टडयस्य धुरं रक्षाभारं निधाय यजमानलोकं यष्टृलोकं नाकं जगाम ॥ 12 ॥
विश्वास-प्रस्तुतिः
वशी सुतस्तस्य वशंवदत्वात्स्वेषामिवासीद्विषतामपीष्टः ।
सकृद्विविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान्ग्रहीतुम् ॥ १३॥
मूलम्
वशी सुतस्तस्य वशंवदत्वात्स्वेषामिवासीद्विषतामपीष्टः ।
सकृद्विविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान्ग्रहीतुम् ॥ १३॥
मल्लिनाथः
वशीति॥ तस्य देवानीकस्य वशी समर्थः सुतोऽहीनगुर्नामेति वक्ष्यमाणनामकः। वशं वशकरं मधुरं वदतीति वशंवदः। ‘प्रियवशे वदः स्वच्’(पा.3।2।38) इति खच्प्रत्ययः। तस्य भावस्तत्त्वम्। तस्मादिष्टवादित्वात्स्वेषामिव द्विषतामपीष्टः प्रिय आसीत्। अर्थादेवानीकनिर्धारणं लभ्यते। तथा हि-प्रयुक्तमुञ्चारितं माधुर्यं सकृदेकवारं विविग्नान् भीतानपि हरिणान्ग्रहीतुं वशीकर्तुमीष्टे शक्नोति ॥ 13 ॥
विश्वास-प्रस्तुतिः
अहीनगुर्नाम स गां समग्रामहीनबाहुद्रविणः शशास ।
यो हीनसंसर्गपराङ्मुखत्वाद्युवाप्यनर्थैर्व्यसनैर्विहीनः ॥ १४॥
मूलम्
अहीनगुर्नाम स गां समग्रामहीनबाहुद्रविणः शशास ।
यो हीनसंसर्गपराङ्मुखत्वाद्युवाप्यनर्थैर्व्यसनैर्विहीनः ॥ १४॥
मल्लिनाथः
अहीनगुरिति॥ अहीनबाहुद्रविणः समग्रभुजपराक्रमः। ‘द्रविणं काञ्चनं वित्तं द्रविणं च पराक्रमः’ इति विश्वः। हीनसंसर्गपराङ्मुखन्वान्नीचसंसर्गविमुखत्वाद्धेतोर्युवाऽप्यनर्थैरनर्थकरैर्व्यसनैः पानद्यूतादिभिर्विहीनो रहितो योऽहीनगुर्नाम स पूर्वोक्तो देवानीकसुतः समग्रां सर्वां गां भुवं शशास ॥ 14 ॥
विश्वास-प्रस्तुतिः
गुरोः स चानन्तरमन्तरज्ञः पुंसां पुमानाद्य इवावतीर्णः ।
उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव ॥ १५॥
मूलम्
गुरोः स चानन्तरमन्तरज्ञः पुंसां पुमानाद्य इवावतीर्णः ।
उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव ॥ १५॥
मल्लिनाथः
गुरोरिति॥ पुंसामन्तरज्ञो विशेषज्ञश्चतुरो निपुणः सोऽहीनगुश्य गुरोः पितुरनन्तरम्। अवतीर्णो भुवं प्राप्त आद्यः पुमान् विष्णुरिव। अस्खलितैरप्रतिहतैश्चतुर्भिरुपक्रमैः सामाद्युपायैः। ‘सामादिभिरुपक्रमैः’(7।107) इति मनुः। चतुर्दिगीशश्चतसृणां दिशामीशो बभूव ॥ 15 ॥
विश्वास-प्रस्तुतिः
तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयम् ।
उच्चैःशिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ॥ १६॥
मूलम्
तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयम् ।
उच्चैःशिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ॥ १६॥
मल्लिनाथः
तस्मिन्निति॥ अरीणां जेतरि तस्मिन्नहीनगौ परलोकयात्रां प्रयाते प्राप्ते सति। उच्चैः शिरस्त्वादुन्नतशिरस्कत्वाज्जितः पारियात्रः कुलशैलविशेषो येन तं पारियात्रं पारेयात्राख्यं तदीयं तनयं लक्ष्मी राज्यलक्ष्मीः सिषेवे किल ॥ 16 ॥
विश्वास-प्रस्तुतिः
तस्याभवत्सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः ।
जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतामव्रजदीड्यमानः ॥ १७॥
मूलम्
तस्याभवत्सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः ।
जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतामव्रजदीड्यमानः ॥ १७॥
मल्लिनाथः
तस्येति॥ थस्य पारियात्रस्य। उदारशीलो महावृत्तः। ‘शीलं स्वभावे सद्दृत्ते’ इत्यमरः। शिलापट्टविशालवक्षाः शिलः शिलाख्यः सूनुरभवत्। यः सूनुः शिलीमुखैर्बाणैः। ‘अलिबाणौ शिलीमुखौ’ इत्यमरः। जितारिपक्षोऽपीड्यमानः स्तूयमानः सन्। शालीनतामधृष्टतां लज्जामव्रजदगच्छत्। ‘स्यादधृष्टे तु शालीनः’ इत्यमरः। ‘शालीनकौपीने अधृष्टाकार्ययोः’(पा.5।2।20) इति निपातः ॥ 17 ॥
विश्वास-प्रस्तुतिः
तमात्मसंपन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव ।
सुखानि सोऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञामुपरुद्धवृत्तम् ॥ १८॥
मूलम्
तमात्मसंपन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव ।
सुखानि सोऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञामुपरुद्धवृत्तम् ॥ १८॥
मल्लिनाथः
तमिति॥ अनिन्दितात्माऽगर्हितस्वभावः स पारियात्रः। आत्मसंपन्नं बुद्धिसंपन्नम्। ‘आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च’ इत्युभयत्राप्यमरः। युवानं तं शिलं युवराजं कृत्वैव सुखान्यभुङ्क्त। न त्वकृत्वेत्येवकारार्थः। किमर्थं ‘युवराज’शब्दकरणमित्याशङ्क्यान्यथा सुखोपभोगो दुर्लभ इत्याह-सुखोपरोधीति। हि यस्माद्राज्ञां वृत्तं प्रजापालनादिरूपं सुखोपरोधि बहुलत्वात्सुखप्रतिबन्धकम्। अत एव,उपरुद्धवृत्तम्। उपरुद्धसदृशमित्यर्थः। उपरुद्धः कारादिबद्धः। उपरुद्धस्य स्वयमूढभारस्य च सुखं नास्तीति भावः ॥ 18 ॥
विश्वास-प्रस्तुतिः
तं रागबन्धिष्ववितृप्तमेव भोगेषु सौभाग्यविशेषभोग्यम् ।
विलासिनीनामरतिक्षमाऽपि जरा वृथा मत्सरिणी जहार ॥ १९॥
मूलम्
तं रागबन्धिष्ववितृप्तमेव भोगेषु सौभाग्यविशेषभोग्यम् ।
विलासिनीनामरतिक्षमाऽपि जरा वृथा मत्सरिणी जहार ॥ १९॥
मल्लिनाथः
तमिति॥ रागं बध्नन्तीति रागबन्धिनः। रागप्रवर्तका इत्यर्थः। तेषु भोगेषु विषयेष्ववितृप्तमेव सन्तं किंच विलासिनीनां भोक्त्रीणां सौभाग्यविशेषेण सौन्दर्यातिशयेन हेतुना भोग्यं भोगार्हम्। ‘चजोः कु घिण्यतोः’(पा.7।3।52) इति कुत्वम्। तं पारियात्रं रतिक्षमा न भवतीत्यरतिक्षमापि। अत एव वृथा मत्सरिणी रतिक्षमासु। विलासिनीष्वित्यर्थः। जरा जहार वशीचकार ॥ 19 ॥
विश्वास-प्रस्तुतिः
उन्नाभ इत्युद्गतनामधेयस्तस्यायथार्थोन्नतनाभिरन्ध्रः ।
सुतोऽभवत्पङ्कजनाभकल्पः कृत्स्नस्य नाभिर्नृपमण्डलस्य ॥ २०॥
मूलम्
उन्नाभ इत्युद्गतनामधेयस्तस्यायथार्थोन्नतनाभिरन्ध्रः ।
सुतोऽभवत्पङ्कजनाभकल्पः कृत्स्नस्य नाभिर्नृपमण्डलस्य ॥ २०॥
मल्लिनाथः
उन्नाभ इति॥ तस्य शिलाख्यस्य । उन्नाभ इत्युद्गतनामधेयः प्रसिद्धनामाऽयथार्थं यथा तथोन्नतं नाभिरन्ध्रं यस्य सः। गम्भीरनाभिरित्यर्थः। तदुक्तम्-‘स्वरः सत्त्वं च नाभिश्च गम्भीर्यं त्रिषु शस्यते’। पङ्कजनाभकल्पो विष्णुसदृशः कृत्स्नास्य नृपमण्डलस्य नाभिः प्रधानम्। ‘नाभिः प्रधाने कस्तूरीमदेऽपि क्वचिदीरितः’ इति विश्वः। सुतोऽभवत्। ‘अच्प्रत्यन्ववपूर्वात्सामलोम्नः’ (पा.5।4।75) इत्यत्राजिति योगविभागादुवन्नाभ-वज्रनाभादयः सिद्धाः ॥ 20 ॥
विश्वास-प्रस्तुतिः
ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः ।
बभूव वज्राकरभूषणायाः पतिः पृथिव्याः किल वज्रणाभः ॥ २१॥
मूलम्
ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः ।
बभूव वज्राकरभूषणायाः पतिः पृथिव्याः किल वज्रणाभः ॥ २१॥
मल्लिनाथः
तत इति॥ ततः परं वज्रधरप्रभाव इन्द्रतेजाः संयति सङ्ग्रामे वज्रघोषोऽशनितुल्यध्वनिर्वज्रणाभो नाम तस्योन्नाभस्यात्मजो वज्राणां हीरकाणामाकराः खनय एव भूषणानि यस्यास्तस्याः पृथिव्याः पतिर्बभूव किल खलु। ‘वज्रं त्वस्त्री कुलिशशस्त्रयोः । मणिवेधे रत्नभेदेऽप्यशनावासनान्तरे ॥’ इति केशवः ॥ 21 ॥
विश्वास-प्रस्तुतिः
तस्मिन्गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणमर्णवान्ता ।
उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः ॥ २२॥
मूलम्
तस्मिन्गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणमर्णवान्ता ।
उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः ॥ २२॥
मल्लिनाथः
तस्मिन्निति॥ तस्मिन्वज्रणाभे सुकृतोपलब्धां सुधर्मार्जितां द्यां स्वर्गं गते सति। उत्खातशत्रुमुद्धृतशत्रुं शङ्खणं नाम तत्संभवं तदात्मजमर्णवान्ता वसुधा खनिभ्य आकरेभ्य उदितरुत्पन्नै रत्नोपहारैरुत्कृष्टवस्तुसमर्पणैः। उपतस्थे सिषेवे। ‘जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते’ इति भरत-विश्वौ ॥ 22 ॥
विश्वास-प्रस्तुतिः
तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदमश्विरूपः ।
वेलातटेषूषितसैनिकाश्वं पुराविदो यं व्युषिताश्वमाहुः ॥ २३॥
मूलम्
तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदमश्विरूपः ।
वेलातटेषूषितसैनिकाश्वं पुराविदो यं व्युषिताश्वमाहुः ॥ २३॥
मल्लिनाथः
तस्येति॥ तस्य शङ्खणस्यावसानेऽन्ते हरिदश्वधामा सूर्यतेजाः। अश्विनोरिव रूपस्येत्यश्विरूपोऽतिसुन्दरः। तत्पुत्र इति शेषः। ‘पित्र्यम्’ इति संबन्धिपदसामर्थ्यात्। पित्र्यं पदं प्रपेदे। वालातटेषूषिता निविष्टाः सैनिका अश्वाश्च यस्य तम्। अन्वर्थनामानमित्यर्थः। यं पुत्रं पुराविदो वृद्धा व्युषिताश्वमाहुः ॥ 23 ॥
विश्वास-प्रस्तुतिः
आराध्य विश्वेश्वरमीश्वरेण तेन क्षितेर्विश्वसहो विजज्ञे ।
पातुं सहो विश्वसखः समग्रां विश्वंभरामात्मजमूर्तिरात्मा ॥ २४॥
मूलम्
आराध्य विश्वेश्वरमीश्वरेण तेन क्षितेर्विश्वसहो विजज्ञे ।
पातुं सहो विश्वसखः समग्रां विश्वंभरामात्मजमूर्तिरात्मा ॥ २४॥
मल्लिनाथः
आगध्येति॥ तेन क्षितेरीश्वरेण व्यषिताश्वेन विश्वेश्वरं काशीपतिमाराध्योपास्य विश्वसहो नाम विश्वसखः समग्रां सर्वां विश्वंभरां भुवं पातुं रक्षितुं सहत इति सहः क्षमः। पचाद्यच्। आत्मजमूर्तिः पुत्ररूप्यात्मा स्वयमेव। ‘आत्मा वै पुत्रनामासि’(आश्व.सू.1।15) इति श्रुतेः। विजज्ञे सुषुवे। विपूर्वो जनिर्गर्भविमोचने वर्तते। यथाह भगवान्पाणिनिः-‘समां समां विजायते’ इति ॥ 24 ॥
विश्वास-प्रस्तुतिः
अंशे हिरण्याक्षरिपोः स जाते हिरण्यनाभे तनये नयज्ञः ।
द्विषामसह्यः सुतरां तरूणां हिरण्यरेता इव सानिलोऽभूत् ॥ २५॥
मूलम्
अंशे हिरण्याक्षरिपोः स जाते हिरण्यनाभे तनये नयज्ञः ।
द्विषामसह्यः सुतरां तरूणां हिरण्यरेता इव सानिलोऽभूत् ॥ २५॥
मल्लिनाथः
अंश इति॥ नयज्ञो नीतिज्ञः स विश्वसहः। हिरण्याक्षरिपीर्विष्णोरंशे। हिरण्यनाभे तन्नाम्नि तनये जाते सति। तरूणां सानिलो हिरण्यरेता हुतभुगिव। द्विषां सुतरामसह्योऽभूत् ॥ 25 ॥
विश्वास-प्रस्तुतिः
पिता पितॄणामनृणस्तमन्ते वयस्यनन्तानि सुखानि लिप्सुः ।
राजानमाजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान्बभूव ॥ २६॥
मूलम्
पिता पितॄणामनृणस्तमन्ते वयस्यनन्तानि सुखानि लिप्सुः ।
राजानमाजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान्बभूव ॥ २६॥
मल्लिनाथः
पितेति॥ पितॄणामनृणः। निवृत्तपितॄण इत्यर्थः। ‘प्रजया पितृभ्यः’ इति श्रुतेः। अत एव कृती। कृतकृत्य इत्यर्थः। पिता विश्वसहोऽन्ते वयसि बाधकेऽनन्तान्यविनाशानि सुखानि लिप्सुः। मुमुक्षुरित्यर्थः। आजानुविलम्बिबाहुं दीर्घबाहुम्। भाग्यसंपन्नमिति भावः। तं हिरण्यनाभं राजानं कृत्वा बल्कलवान्बभूव। वनं गत इत्यर्थः ॥ 26 ॥
विश्वास-प्रस्तुतिः
कौसल्य इत्त्युत्तरकोसलानां पत्युः पतङ्गान्वयभूषणस्य ।
तस्यौरसः सोमसुतः सुतोऽभून्नेत्रोत्सवः सोम इव द्वितीयः ॥ २७॥
मूलम्
कौसल्य इत्त्युत्तरकोसलानां पत्युः पतङ्गान्वयभूषणस्य ।
तस्यौरसः सोमसुतः सुतोऽभून्नेत्रोत्सवः सोम इव द्वितीयः ॥ २७॥
मल्लिनाथः
कौसल्य इति॥ उत्तरकोसलानां पत्युः पतङ्गन्वयभूषणस्य सूर्यशाभरणस्य सोमसुतः सोमं सुतवतः। यज्वन इत्यर्थःथ। ‘सोमे सुञः’(पा.3।2।90) इति क्विप्। तस्य हिरण्यनाभस्य द्वितीयः सोमश्चन्द्र इव। नेत्रोत्सवो नयनानन्दकरः कौसल्य इति प्रसिद्ध औरसो धर्मपत्नीजः सुतोऽभूत् ॥ 27 ॥
विश्वास-प्रस्तुतिः
यशोभिराब्रह्मसभं प्रकाशः स ब्रह्मभूयं गतिमाजगाम ।
ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम् ॥ २८॥
मूलम्
यशोभिराब्रह्मसभं प्रकाशः स ब्रह्मभूयं गतिमाजगाम ।
ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम् ॥ २८॥
मल्लिनाथः
यशोभिरिति॥ आ ब्रह्मसभाया आब्रह्मसभं ब्रह्मसदनपर्यन्तम्। अभिविधावव्ययीभावः। यशोभिः। प्रकाशः प्रसिद्धः,स कौसल्योऽतिशयेन ब्रह्मवन्तं ब्रह्मिष्ठम्। ब्रह्मविदमित्यर्थः। ‘ब्रह्म’शब्दान्मतुबन्तादिष्ठन्प्रत्यये ‘विन्मतोर्लुक्’(पा.5।3।65) इति मतुपो लुक्। ‘नस्तद्धिते’(पा.6।4।144) इति टिलोपः। ब्रह्मिष्ठं ब्रह्मिष्ठाख्यं स्वतनुप्रसूतं स्वात्मजमेव निजे स्वकीयेऽधिकारे प्रजापालनकृत्ये। आधाय निधाय। ब्रह्मणो भावो ब्रह्मभूयं ब्रह्मत्वं तदेव गतिस्तामाजगाम। मुक्तोऽभूदित्यर्थः। ‘स्याद्द्ब्रह्मभूयं ब्रह्मत्वम्’इत्यमरः। भुवो भावे क्यप् ॥ 28 ॥
विश्वास-प्रस्तुतिः
तस्मिन्कुलापीडनिभे विपीडं सम्यङ्महीं शासति शासनाङ्काम् ।
प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः ॥ २९॥
मूलम्
तस्मिन्कुलापीडनिभे विपीडं सम्यङ्महीं शासति शासनाङ्काम् ।
प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः ॥ २९॥
मल्लिनाथः
तस्मिन्निति॥ कुलापीडनिभे कुलशेखरतुल्ये। ‘वैकक्षकं तु तत्। यत्तिर्यक्क्षिप्तमुरसि शिखास्वापीडशेखरौ’ इत्यमरः। सुप्रजसि सत्संतानवति। ‘नित्यमसिच्प्रजामेधयोः’(5।4।122) इत्यसिच्प्रत्ययः। तस्मिन् प्रजेशे प्रजेश्वरे ब्रह्मिष्ठे शासनाङ्कां शासनचिह्नां महीं विपीडं निर्बाधं यथा तथा सम्यक्शासति सति। आनन्दजलाविलाक्ष्य आनन्दबाष्पाकुलनेत्राः प्रजाश्चिरं ननन्दुः ॥ 29 ॥
विश्वास-प्रस्तुतिः
पात्रीकृतात्मा गुरुसेवनेन स्पष्टाकृतिः पत्ररथेन्द्रकेतोः ।
तं पुत्रिणां पुष्करपत्रनेत्रः पुत्रः समारोपयदग्रसंख्याम् ॥ ३०॥
मूलम्
पात्रीकृतात्मा गुरुसेवनेन स्पष्टाकृतिः पत्ररथेन्द्रकेतोः ।
तं पुत्रिणां पुष्करपत्रनेत्रः पुत्रः समारोपयदग्रसंख्याम् ॥ ३०॥
मल्लिनाथः
पात्रीकृतेति॥ गुरुसेवनेन पित्रादिशुश्रूषया पात्रीकृतात्मा योग्यीकृतात्मा। ‘योग्यभाजनयोः पात्रम्’ इत्यमरः। पत्ररथेन्द्रकेतोर्गरुडध्वजस्य स्पष्टाकृतिः स्पष्टवपुः। तत्सरूप इत्यर्थः। ‘आकृतिः तथिता रूपे सामान्यवपुषोरपि’ इति विश्वः। पुष्करपत्रनेत्रः पद्मदलाक्षः पुत्रः पुत्राख्यो राजा। यद्वा,-‘पुत्र’ शब्द आवर्तनीयः। पुत्रः पुत्राख्यः पुत्रः सुतः। तं ब्रह्मिष्ठं पुत्रिणामग्रसंख्यां समारोपयत्। अग्रगण्यं चकारेत्यर्थः ॥ 30 ॥
विश्वास-प्रस्तुतिः
वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः ।
उपस्पृशन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वमाप ॥ ३१॥
मूलम्
वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः ।
उपस्पृशन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वमाप ॥ ३१॥
मल्लिनाथः
वंशेति॥ स्पृश्यन्त इति स्पर्शा विषयाः। तेभ्यो निवृत्तलौल्यो निवृत्ततृष्णः। अत एव मघोन इन्द्रस्य सखा मित्रं भावी भविष्यन्। स्वर्गं जिगमिषुरित्यर्थः। स ब्रह्मिष्णो वंशकरेण वंशप्रवर्तकेन तेन पुत्रेण वंशस्थितिं कुलप्रतिष्ठां संभाव्य संपाद्य। त्रिषु पुष्करेषु तीर्थविशेषेषु। ‘दिक्संख्ये संज्ञायाम्’(पा.2।1।57) इति समासः। उपस्पृशन् स्नानं कुर्वन्। त्रिदशत्वं देवभूयमाप ॥ 31 ॥
विश्वास-प्रस्तुतिः
तस्य प्रभानिर्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी ।
तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥ ३२॥
मूलम्
तस्य प्रभानिर्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी ।
तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥ ३२॥
मल्लिनाथः
तस्येति॥ तस्य पुत्राख्यस्य पत्नी पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमास्यां तिथौ। ‘पुष्ययुक्ता पौर्णमासी पौषी’ इत्यमरः। ‘नक्षत्रेण युक्तः कालः’(पा.4।2।3) इत्यण्प्रत्ययः। ‘टिड्ढाणञ्-’(पा.4।1।15) इत्यादिना ङीप्। प्रभया निर्जितः पुष्परागो मणिविशेषो येन तं पुष्यं पुष्याख्यमसूत। द्वितीये पुष्ये पुष्यनक्षत्र इव तस्मिन्नुदिते सति जनः समग्रां पुष्टिं वृद्धिमपुष्यन् ॥ 32 ॥
विश्वास-प्रस्तुतिः
महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा ।
तस्मात्सयोगादधिगम्य योगमजन्मनेऽकल्पत जन्मभीरुः ॥ ३३॥
मूलम्
महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा ।
तस्मात्सयोगादधिगम्य योगमजन्मनेऽकल्पत जन्मभीरुः ॥ ३३॥
मल्लिनाथः
महीमिति॥ महेच्छो महाशयः। ‘महेच्छस्तु महाशयः’ इत्यमरः। जन्मभीरुः संसारभीरुः स पुत्रः सूनौ महीं परिकीर्य विसृज्य मनीषिणे ब्रह्मविद्याविदुषे जैमिनये मुनयेऽर्पितात्मा। शिष्यभूतः सन्नित्यर्थः। सयोगाद्योगिनस्तस्माज्जैमिनेर्योगं योगविद्यामधिगम्याजन्मने जन्मनिवृत्तये मोक्षायाकल्पत समपद्यत। क्लृपेः संपद्यमाने चतुर्थी वक्तव्या। मुक्तोऽभूदित्यर्थः ॥ 33 ॥
विश्वास-प्रस्तुतिः
ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीम् ।
यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिर्ध्रुवः संनमतामरीणाम् ॥ ३४॥
मूलम्
ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीम् ।
यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिर्ध्रुवः संनमतामरीणाम् ॥ ३४॥
मल्लिनाथः
तत इति॥ ततः परं स पुष्यः प्रभवः कारणं यस्य स तत्प्रभवः। तदात्मज इत्यर्थः। ध्रुवेणौत्तानपादिनोपमेयः। ‘ध्रुव औत्तानपादिः स्यात्’ इत्यमरः। ध्रुवसंधिरुर्वीं प्रपेदे। ज्यायसि श्रेष्ठे सत्यसंधे सत्यप्रतिज्ञे यस्मिन् ध्रुवसंधौ संनमताम्,अनुद्धतानामित्यर्थः। अरीणां संधिर्ध्रुवः स्थिरोऽभूत्। ततः सार्थकनामेत्यर्थः ॥ 34 ॥
विश्वास-प्रस्तुतिः
सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः ।
मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृसिंहः ॥ ३५॥
मूलम्
सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः ।
मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृसिंहः ॥ ३५॥
मल्लिनाथः
सुत इति॥ मृगायताक्षो नृसिंहः पुरुषश्रेष्ठः स ध्रुवसंधिर्दर्शात्ययेन्दुप्रियदर्शने प्रतिपञ्चन्द्रनिभे सुदर्शनाख्ये सुते शिशौ सत्येव मृगयाविहारी सन्,सिंहाद्विपदं मरणमवापत्। व्यसनासक्तिरनर्थावहेति भावः ॥ 35 ॥
विश्वास-प्रस्तुतिः
स्वर्गामिनस्तस्य तमैकमत्यादमात्यवर्गः कुलतन्तुमेकम् ।
अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवच्चकार ॥ ३६॥
मूलम्
स्वर्गामिनस्तस्य तमैकमत्यादमात्यवर्गः कुलतन्तुमेकम् ।
अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवच्चकार ॥ ३६॥
मल्लिनाथः
स्वरिति॥ स्वर्गामिनः स्वर्यातस्य तस्य ध्रुवसंधेरमात्यवर्गः। अनाथा नाथहीना अत एव दीनाः शोच्याः प्रकृतीः प्रजा अवेक्ष्य। कुलतन्तुं कुलावलम्बनमेकमद्वितीयं तं सुदर्शनम्। ऐकमत्याद्विधिवत् साकेतनाथमयोध्याधीश्वरं चकार ॥ 36 ॥
विश्वास-प्रस्तुतिः
नवेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन ।
रघोः कुलं कुड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥ ३७॥
मूलम्
नवेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन ।
रघोः कुलं कुड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥ ३७॥
मल्लिनाथः
नवेति॥ अप्रौढनरेन्द्रं तद्रघोः कुलं नवेन्दुना बालचन्द्रेण नभसा व्योम्ना। शावः शिशुरेकः सिंहो यस्मिन्। ‘पृथुकः शावकः शिशुः’ इत्यमरः। तेन काननेन च। कुड्मलं कुड्मलावस्थं पुष्करं पङ्कजं यस्मिंस्तेन तोयेन चोपमेयमुपमातुमर्हम्। आसीत्। नवेन्द्वाद्युपमानेन तस्य वर्धिष्णुताशौर्यश्रीमत्त्वानि सूचितानि ॥ 37 ॥
विश्वास-प्रस्तुतिः
लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः ।
दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ॥ ३८॥
मूलम्
लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः ।
दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ॥ ३८॥
मल्लिनाथः
लोकेनेति॥ स बालो मौलिपरिग्रहात्किरीटस्वीकाराद्धेतोः पितुस्तुल्यः पितृसरूप एव भावी भविष्यति इति लोकेन जनेन संभावितस्तर्कितः। तथा हि-कलभप्रमाणः कलभमात्रोऽपि मेघः पुरोवातमवाप्य। आशा दिशो वृण्वन्गच्छन् दृष्टो हि ॥ 38 ॥
विश्वास-प्रस्तुतिः
तं राजवीथ्यामधिहस्ति यातमाधोरणालम्बितमग्र्यवेशम् ।
षड्वर्षदेशीयमपि प्रभुत्वात्प्रैक्षन्त पौराः पितृगौरवेण ॥ ३९॥
मूलम्
तं राजवीथ्यामधिहस्ति यातमाधोरणालम्बितमग्र्यवेशम् ।
षड्वर्षदेशीयमपि प्रभुत्वात्प्रैक्षन्त पौराः पितृगौरवेण ॥ ३९॥
मल्लिनाथः
तमिति॥ राजवीथ्यां राजमार्गेऽधिहस्ति हस्तिनि। विभक्त्यर्थेऽव्ययीभावः। यान्तं गच्छन्तम्,हस्तिनमारुह्य गच्छन्तमित्यर्थः। आधोरणालम्बितं शिशुत्वात्सादिना गृहीतमग्र्यवेशमुदारनेपथ्यं षड्वर्षाणि भूतः षड्वर्षः। ‘तद्धितार्थ-’(पा.2।1।51) इत्यादिना समासः। ‘तमधीषअटो भृतो भूतो भावी’ इत्यधिकारे ‘चित्तवति नित्यम्’ इति तद्धितस्य लुक्। ईषदसमाप्तः षड्वर्षः षड्वर्षदेशीयः। ‘ईषदसमाप्तौ-’(पा.5।3।67) इत्यादिना देशीयर्प्रत्ययः। तं षड्वर्षदेशीयमपि बालमपि तं सुदर्शनं पौराः प्रभुत्वात्पितृगौरवेण प्रैक्षन्त। पितरि यादृग्गौरवं तादृशे नैव ददृशिरित्यर्थः ॥ 39 ॥
विश्वास-प्रस्तुतिः
कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय ।
तेजोमहिम्ना पुनरावृतात्मा तद्व्याप चामीकरपिञ्जरेण ॥ ४०॥
मूलम्
कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय ।
तेजोमहिम्ना पुनरावृतात्मा तद्व्याप चामीकरपिञ्जरेण ॥ ४०॥
मल्लिनाथः
काममिति॥ स सुदर्शनः पैतृकस्य सिंहासनस्य कामं सम्यक्प्रतिपूरणाय नाकल्पत। बासत्वाद्व्याप्तुं न पर्याप्त इत्यर्थः। चामीकरषिञ्जरेण कनकगौरेण तेजोमहिम्ना पुनस्तेजः संपदा त्वावृतात्मा विस्तारितदेहः सन्,तत् सिंहासनं व्याप व्याप्तवान् ॥ 40 ॥
विश्वास-प्रस्तुतिः
तस्मादधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठम् ।
सालक्तकौ भूपतयः प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ ॥ ४१॥
मूलम्
तस्मादधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठम् ।
सालक्तकौ भूपतयः प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ ॥ ४१॥
मल्लिनाथः
तस्मादिति॥ तस्मात्सिंहासनादपादानात् अधोऽधोदेशं प्रति किंचिदिवावतीर्णावीषल्लम्बौ तपनीयपीठं काञ्चनपीठमसंस्पृशन्तौ अल्पकत्वादव्याप्तौ सालक्तकौ लाक्षारसावसिक्तावस्य सुदर्शनस्य पादौ भूपतयः प्रसिद्धैरुन्नतैर्मौलिभिर्मुकुटैर्ववन्दिरे प्रणेमुः ॥ 41 ॥
विश्वास-प्रस्तुतिः
मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या ।
शब्दो महाराज इति प्रतीतस्तथैव तस्मिन्युयुजेऽर्भकेऽपि ॥ ४२॥
मूलम्
मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या ।
शब्दो महाराज इति प्रतीतस्तथैव तस्मिन्युयुजेऽर्भकेऽपि ॥ ४२॥
मल्लिनाथः
मणाविति॥ अल्पप्रमाणेऽपि मणाविन्द्रनीले प्रभावात्तेजिष्ठत्वाद्धेतोर्महानील इति शब्दो यथा मिथ्या निरर्थको न तथैवार्भकेऽपि शिशावपि तस्मिन् सुदर्शने प्रतीतः प्रसिद्धो महाराज इति शब्दो न मिथ्या युयुजे ॥ 42 ॥
विश्वास-प्रस्तुतिः
पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षात् ।
तस्याननादुच्चरितो विवादश्चचाल वेलास्वपि नार्णवानाम् ॥ ४३॥
मूलम्
पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षात् ।
तस्याननादुच्चरितो विवादश्चचाल वेलास्वपि नार्णवानाम् ॥ ४३॥
मल्लिनाथः
पर्यन्तेति॥ पर्यन्तयोः पार्श्वयोः संचारिते यस्य तस्य बालस्य संबन्धिनः कपोलयोर्लोलावुभौ काकपक्षौ यस्य तस्मादाननादुञ्चरितो विवादो वचनमर्णवानां वेलास्वपि न चस्खाल। शिशोरपि तस्याज्ञाभङ्गो नासीवित्यर्थः। चपलसंसर्गेऽपि महान्तो न चलन्तीति ध्वनिः। उभयकाकपक्षादित्यत्र ‘वृत्तिविषये उभयपुत्र ’ इतिवत् ‘उभ’शब्दस्थाने ‘उभय’शब्दप्रयोगः’ इत्युक्तं प्राक् ॥ 43 ॥
विश्वास-प्रस्तुतिः
निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः ।
तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार ॥ ४४॥
मूलम्
निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः ।
तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार ॥ ४४॥
मल्लिनाथः
निर्वृत्तेति॥ निर्वृत्ता जाम्बूनदपट्टशोभा यस्य तस्मिन्कृतकनकपट्टशोभे ललाटे न्यस्तं तिलकं दधानः स्मेरमुखः स्मितमुखः स राजा। अरिसुन्दरीणां मुखानि तेनैव तिलकेनैव शून्यानि चकार। अखिलमपि शत्रुवर्गमवधीदिति भावः ॥ 44 ॥
विश्वास-प्रस्तुतिः
शिरीषपुष्पाधिकसौकुमार्यः खेदं न यायादपि भूषणेन ।
नितान्तगुर्वीमपि सोऽनुभावाद्धुरं धरित्र्या बिभरांबभूव ॥ ४५॥
मूलम्
शिरीषपुष्पाधिकसौकुमार्यः खेदं न यायादपि भूषणेन ।
नितान्तगुर्वीमपि सोऽनुभावाद्धुरं धरित्र्या बिभरांबभूव ॥ ४५॥
मल्लिनाथः
शिरीषेति॥ शिरीषपुषअपाधिकसौकुमार्यः। कोमलाङ्ग इत्यर्थः। अत एव स राजा भूषणेनापि खेदं श्रमं यायाद्गच्छेत्। एवंभूतः स नितान्तगुर्वीमपि धरित्र्या धुरं भुवो भारमनुभावात् सामर्थ्यात्। बिभरांबभूव बभार। ‘भीह्वीभृहुवां श्लुवञ्च’ (पा.3।1।39) इति विकल्पादाम्प्रत्ययः ॥ 45 ॥
विश्वास-प्रस्तुतिः
न्यस्ताक्षरामक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावद् ।
सर्वाणि तावच्छ्रुतवृद्धयोगात्फलान्युपायुङ्क्त स दण्डनीतेः ॥ ४६॥
मूलम्
न्यस्ताक्षरामक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावद् ।
सर्वाणि तावच्छ्रुतवृद्धयोगात्फलान्युपायुङ्क्त स दण्डनीतेः ॥ ४६॥
मल्लिनाथः
न्यस्तेति॥ अक्षरभूमिकायामक्षरलेखनस्थले न्यस्ताक्षरां रचिताक्षरपङ्क्तिरेखान्यासां लिपिं पञ्चाशद्वर्णात्मिकां कार्त्स्न्येन यावन्न गृह्णाति स सुदर्शनस्तावच्छ्रुतवृद्धयोगाद्विद्यावृद्धसंसर्गात्सर्वाणि दण्डनीतेर्दण्डशास्त्रस्य फलान्युपायुङ्क्तान्वभूत्॥ प्रागेव बद्धफलस्य तस्य पश्चादभ्यस्यामानं शास्त्रं संवादार्थमिवाभवदित्यर्थः ॥ 46 ॥
विश्वास-प्रस्तुतिः
उरस्यपर्याप्तनिवेशभागा प्रौढीभविष्यन्तमुदीक्षमाणा ।
संजातलज्जेव तमालपत्रच्छायाछलेनोपजुगूह लक्ष्मीः ॥ ४७॥
मूलम्
उरस्यपर्याप्तनिवेशभागा प्रौढीभविष्यन्तमुदीक्षमाणा ।
संजातलज्जेव तमालपत्रच्छायाछलेनोपजुगूह लक्ष्मीः ॥ ४७॥
मल्लिनाथः
उरसीति॥ उरस्यपर्याप्तो निवेशभागो निवासावकाशो यस्याः सा। अत एव प्रौढीभविष्यन्तं वर्धिषथ्यमाणमुदीक्षमाणा प्रौढवपुष्मान्भविष्यतीति प्रतीक्षमाणा लक्ष्मीः संजातलज्जेव साक्षादालिङ्गितुं लज्जितेव तं सुदर्शनम्। आतपत्रच्छायाछलेनोपजुगूहालिलिङ्ग। छत्रच्छाया लक्ष्मीरूपेति प्रसिद्धिः। प्रौढाङ्गनायाः प्रौढपुरुषालाभे लज्जा भवतीति ध्वनिः ॥ 47 ॥
विश्वास-प्रस्तुतिः
अनश्नुवानेन युगोपमानमबद्धमौर्वीकिणलाञ्छनेन ।
अस्पृष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः ॥ ४८॥
मूलम्
अनश्नुवानेन युगोपमानमबद्धमौर्वीकिणलाञ्छनेन ।
अस्पृष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः ॥ ४८॥
मल्लिनाथः
अनश्नुवानेनेति॥ युगोपमानं युगसादृश्यमनश्नुवानेनाप्राप्नुवता। अबद्धं मौर्वीकिणो ज्याघातग्रन्थिरेव लाञ्छनं यस्य तेन। अस्पृष्टः खङ्गत्सरुः खङ्गमुष्टिर्येन तेन। ‘त्सरुः खङ्गादिमुष्टौ स्यात्’ इत्यमरः। एवंविधेनापि च तस्य सुदर्शनस्य भुजेन भूमि रक्षावत्यासीत्। शिशोरपि तस्य तेजस्तादृगित्यर्थः ॥ 48 ॥
विश्वास-प्रस्तुतिः
न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् ।
वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः ॥ ४९॥
मूलम्
न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् ।
वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः ॥ ४९॥
मल्लिनाथः
नेति॥ काले गच्छति सति तस्य केवलं शरीरावयवा एव विवृद्धिं प्रसारं न ययुः। किंतु वंशे भवा वंश्या लोककान्ता जनप्रियाः प्रारम्भ आदौ सूक्ष्मास्तस्य गुणाः शौर्यौदार्यादयोऽपि प्रथिमानं पृथुत्वमापुः खलु ॥ 49 ॥
विश्वास-प्रस्तुतिः
स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणाम् ।
तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः ॥ ५०॥
मूलम्
स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणाम् ।
तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः ॥ ५०॥
मल्लिनाथः
स इति॥ स सुदर्शनः पूर्वस्मिञ्जन्मान्तरे जन्मविशेषे दृष्टपाराः स्मरन्निव गुरूणामक्लेशकरः सन्। त्रयाणां धर्मार्थकामानां वर्गस्त्रिवर्गः। तस्याधिगमस्य प्राप्तेर्मूलं तिस्रो विद्यास्त्रयी-वार्ता-दण्डनीतिः पित्र्याः पितृसंबन्धिनीः प्रकृतीः प्रजाश्च जग्राह स्वायत्तीचकार। अत्र कौटिल्यः-‘धर्माधर्मौ त्रय्यामर्थानर्थौ वार्तायां नयानयौ दण्डनीत्याम्’ इति। अत्र दण्डनीतिर्नयद्वारा काममूलमिति द्रष्टव्यम्। आन्वीक्षिक्या अनुपादानं त्रय्यन्तर्भावपक्षमाश्रित्य। यथाह कामन्दकः- ‘त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या मनोर्मताः। त्रय्या एव विभागोऽयं येन सान्वीक्षिकी मता ॥’ इति ॥ 50 ॥
विश्वास-प्रस्तुतिः
व्यूह्यः स्थितः किंचिदिवोत्तरार्धमुन्नद्धचूडोऽञ्चितसव्यजानुः ।
आकर्णमाकृष्टसबाणधन्वा व्यरोचतास्त्रे स विनीयमानः ॥ ५१॥
मूलम्
व्यूह्यः स्थितः किंचिदिवोत्तरार्धमुन्नद्धचूडोऽञ्चितसव्यजानुः ।
आकर्णमाकृष्टसबाणधन्वा व्यरोचतास्त्रे स विनीयमानः ॥ ५१॥
मल्लिनाथः
व्यूह्येति॥ सः। अस्त्रे धनुर्विद्यायां विनीयमानः शिक्ष्यमाणोऽत एव,उत्तरार्धं पूर्वकाय किंचिदिव व्यूह्य विस्तार्य स्थितः। उन्नद्धचूड ऊर्ध्वमुत्कृष्य बद्धकेशः। अ ञअचतमाकुञ्चितं सव्यं जानु यस्य स आकर्णमाकृष्टं सबाणं धनुर्धन्व वा येन स तथोक्तः सन्। व्यरोचताशोभत ॥ 51 ॥
विश्वास-प्रस्तुतिः
अथ मधु वनितानां नेत्रनिर्वेशनीय-
मनसिजतरुपुष्पं रागबन्धप्रवालम् ।
अकृतकविधि सर्वाङ्गीणमाकल्पजातं
विलसितपदमाद्यं यौवनं स प्रपेदे ॥ ५२॥
मूलम्
अथ मधु वनितानां नेत्रनिर्वेशनीय-
मनसिजतरुपुष्पं रागबन्धप्रवालम् ।
अकृतकविधि सर्वाङ्गीणमाकल्पजातं
विलसितपदमाद्यं यौवनं स प्रपेदे ॥ ५२॥
मल्लिनाथः
अथेति॥ अथ स सुदर्शनो वनितानां नेत्रैर्निर्वेशनीयं भोग्यम्। नेत्रपेयमित्यर्थः। ‘निवशो भृतिभोगयोः’ इत्यमरः। मधु क्षौद्रम्। रागबन्धोऽनुरागसंतान एव प्रवालः पल्लवो यस्य तत्। मनसिज एव तरुस्तस्य पुष्पं पुष्पभूतम्। अकृतक्तविध्यकृत्रिमसंपादनम्। सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणम्। ‘तत्सर्वादेः-’(पा.5।9।7) इत्यादिना खप्रत्ययः। आकल्पजातमाभरणसमूहभूतम्। आद्यं विलसितपदं विलासस्थानं यौवनं प्रपेदे। विशिष्टमधुपुष्पाकल्पजातविलासपदत्वेन यौवनस्य चतुर्धाकरणात्सविशेषणमालारूपकमेतत् ॥ 52 ॥
विश्वास-प्रस्तुतिः
प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः
समधिकतररूपाः शुद्धसंतानकामैः ।
अधिविविदुरमात्यैराहृतास्तस्य यूनः
प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥ ५३॥
मूलम्
प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः
समधिकतररूपाः शुद्धसंतानकामैः ।
अधिविविदुरमात्यैराहृतास्तस्य यूनः
प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥ ५३॥
मल्लिनाथः
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ वंशानुक्रमो नामाष्टादशः सर्गः ।
प्रतिकृतीति॥ दूतिभिः कन्यापरीक्षणार्थं प्रेषिताभिः संदर्शिताभ्यो दूतिसंदर्शिताभ्यः प्रतिकृतीनां तूलिकादिलिखितकन्याप्रतिमानां रचनाभ्यो विन्यासेभ्यः। ‘पञ्चमी विभक्ते’(पा.2।3।42) इति पञ्चमी। समधिकतररूपाः। चित्रनिर्माणादपि रमणीयनिर्माणा इत्यर्थः। शुद्धसंतानकामैरमात्यैराहृता आनीता राजकन्या यूनस्तस्य सुदर्शनस्य संबन्धिन्यौ प्रथमपरिगृहीते श्रीभुवौ श्रीश्च भूश्च ते अधिविविदुरधिविन्ने चक्रुः। आत्मना सपत्नीभावं चक्रुरित्यर्थः। ‘कृतसापत्निकाध्यूढाधिविन्ना’ इत्यमरः ॥ 53 ॥
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदास- कृतौ वंशानुक्रमो नामाष्टदशः सर्गः ॥