१५ श्रीरामस्वर्गारोहणम्

विश्वास-प्रस्तुतिः

कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।
बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्॥ १॥

मूलम्

कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।
बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्॥ १॥

मल्लिनाथः

कृतेति॥ कृतसीतापरित्यागः स पृथिवीपालो रामो रत्नाकर एव मेखला यस्यास्ताम्। सार्णवामित्यर्थः। केवलाम्। एकामित्यर्थः। पृथिवीमेव। बूभुजे भुक्तवान्। नतु पार्थिवीमित्यर्थः। सापि रत्नखचितमेखलाः। पृथिव्याः कान्तासमाधिर्व्यज्यते। रामस्य स्त्र्यन्तरपरिग्रहो नास्तीति श्लोकाभिप्रायः ॥ 1 ॥

विश्वास-प्रस्तुतिः

लवणेन विलुप्तेज्यास्तामिस्रेण तमभ्ययुः ।
मुनयो यमुनाभाजः शरण्यं शरणार्थिनः॥ २॥

मूलम्

लवणेन विलुप्तेज्यास्तामिस्रेण तमभ्ययुः ।
मुनयो यमुनाभाजः शरण्यं शरणार्थिनः॥ २॥

मल्लिनाथः

लवणेनेति॥ लवणेन लवणाख्येन तामिस्रेण तमिस्राचारिणा। रक्षसेत्यर्थः। विलुप्तेज्या लुप्तयागक्रिया अत एव शरणार्थिनो रक्षणार्थिनो यमुनाभाजो यमुनातीरवासिनो मुनयः शरण्यं शरणार्हं रक्षणसमर्थं तं रामं रक्षितारमभ्ययुः प्राप्ताः। यातेर्लङ् ॥ 2 ॥

विश्वास-प्रस्तुतिः

अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुः स्वतेजसा ।
त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम्॥ ३॥

मूलम्

अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुः स्वतेजसा ।
त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम्॥ ३॥

मल्लिनाथः

अवेक्ष्येति॥ ते मुनयो राममवेक्ष्य। रक्षितारमिति शेषः। तस्मिंल्लवणे स्वतेजसा शापरूपेण न प्रजह्रुः। तथा हि-त्रायत इति त्राणं रक्षकम्। कर्तरि ल्यट्। तदभावे शाप एवास्त्रं येषां ते शापास्त्राः सन्तस्तपसो व्ययं कुर्वन्ति। शापदानात्तपसो व्यय इति प्रसिद्धेः ॥ 3 ॥

विश्वास-प्रस्तुतिः

प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियाम् ।
धर्मसंरक्षणार्थेव प्रवृत्तिर्भुवि शार्ङ्गिणः॥ ४॥

मूलम्

प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियाम् ।
धर्मसंरक्षणार्थेव प्रवृत्तिर्भुवि शार्ङ्गिणः॥ ४॥

मल्लिनाथः

प्रतीति॥ काकुत्स्थो रामस्तेभ्यो मुनिभ्यो विघ्नप्रतिक्रियां लवणवधरूपां प्रतिशुश्राव प्रतिजज्ञे। तथा हि-भुवि शार्ङ्गिणो विष्णोः प्रवृत्ती रामरूपेणावतरणं धर्मसंरक्षणमेवार्थः प्रयोजनं यस्याः सा तथैव ॥ 4 ॥

विश्वास-प्रस्तुतिः

ते रामाय वधोपायमाचख्युर्विबुधद्विषः ।
दुर्जयो लवणः शूली विशूलः प्रार्थ्यतामिति॥ ५॥

मूलम्

ते रामाय वधोपायमाचख्युर्विबुधद्विषः ।
दुर्जयो लवणः शूली विशूलः प्रार्थ्यतामिति॥ ५॥

मल्लिनाथः

त इति॥ ते मुनयो रामस्य विबुधद्विषः सुरारेर्लवणस्य वधोपायमाचखअयुः। लुनातीति लवणः। नन्द्यादित्वाल्ल्युः। तत्रैव निपातनाण्णत्वम्। लवणः शूली शूलवान् दुर्जयोऽजेयः। किंतु विशूलः शूलरहितः प्रार्थ्यतामभिगम्यताम्। ‘याञ्चायामभिमाने च प्रार्थना कथ्यते बुधैः’ इति केशवः ॥ 5 ॥

विश्वास-प्रस्तुतिः

आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः ।
करिष्यन्निव नामास्य यथार्थमरिनिग्रहात्॥ ६॥

मूलम्

आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः ।
करिष्यन्निव नामास्य यथार्थमरिनिग्रहात्॥ ६॥

मल्लिनाथः

आदिदेशेति॥ अथ तेषां मुनीनां क्षेमाय क्षेमकरणाय राघवो रामः शत्रुघअनमादिदेश। अत्रोत्प्रेक्ष्यते-अस्य शत्रुघ्नस्य नाम अरिनिग्रहाच्छत्रुहननाद्धेतोः। यथाभूतोऽर्थो यस्य तद्यथार्थं करिष्यन्निव। शत्रुन्दन्तीति शत्रुघ्नः। ‘अमनुष्यकर्तृके च’(पा.3।2।53) इति चकारात्कृतघ्नशत्रुघ्नादयः सिद्धा इति दुर्गसिंहः। पाणिनीयेऽपि बहुलग्रहणाद्यथेष्टसिद्धिः ‘कृततल्युटो बहुलम्’(पा.3।3।113) इति ॥ 6 ॥

विश्वास-प्रस्तुतिः

यः कश्चन रघूणां हि परमेकः परंतपः ।
अपवाद इवोत्सर्गं व्यावर्तयितुमीश्वरः॥ ७॥

मूलम्

यः कश्चन रघूणां हि परमेकः परंतपः ।
अपवाद इवोत्सर्गं व्यावर्तयितुमीश्वरः॥ ७॥

मल्लिनाथः

य इति॥ हि यस्मात्। पराञ्छत्रूंस्तापयतीति परंतपः। ‘द्विषत्परयोस्तापेः’(पा.3।2।39) इति खच्प्रत्ययः। ‘खचि ह्रस्वः’(पा.6।4।94) इति ह्रस्वः। रघूणां मध्ये यः कश्चनैकः। अपवादो विशेषशास्त्रमुत्सर्गं सामान्यशास्त्रमिव। परं शत्रुं व्यावर्तयितुं बाधितुमीश्वरः समर्थः। अतः शत्रुघअनमेवादिदेशेति पूर्वेणान्वयः ॥ 7 ॥

विश्वास-प्रस्तुतिः

अग्रजेन प्रयुक्ताशीस्ततो दाशरथी रथी ।
ययौ वनस्थलीः पश्यन्पुष्पिताः सुरभीरभीः॥ ८॥

मूलम्

अग्रजेन प्रयुक्ताशीस्ततो दाशरथी रथी ।
ययौ वनस्थलीः पश्यन्पुष्पिताः सुरभीरभीः॥ ८॥

मल्लिनाथः

अग्रजेनेति॥ ततोऽग्रजेन रामेण प्रयुक्ताशीः कृताशीर्वादो रथी रथिकोऽभीर्निर्भीको दाशरथिः पुष्पाणि संजातानि यासां ताः पुष्पिताः सुरभीरामोदमाना वनस्थलीः पश्यन्ययौ ॥ 8 ॥

विश्वास-प्रस्तुतिः

रामादेशादनुगता सेना तस्यार्थसिद्धये ।
पश्चादध्यनार्थस्य धातोरधिरिवाभवत्॥ ९॥

मूलम्

रामादेशादनुगता सेना तस्यार्थसिद्धये ।
पश्चादध्यनार्थस्य धातोरधिरिवाभवत्॥ ९॥

मल्लिनाथः

रामेति॥ रामादेशादनुगता सेना तस्य शत्रुघ्नस्य। अध्ययनमर्थोऽभिधेयो यस्य तस्य। धातोः ‘इङध्ययने’इत्यस्य धातोः पश्चादधिरध्युपसर्ग इव। अर्थसिद्धये प्रयोजनसाधनायेत्येकत्र। अन्यत्र,-अभिधेयसाधनाय। अभवत्। ‘अर्थोऽभिधैयरैवस्तुप्रयोजननिवृत्तिषु’ इत्यमरः। यथा’इङिकावध्युपसर्गं न व्यभिचरतः’ इति न्यायेनाध्युपसर्गः स्वयमेवार्थसाधकस्य धातोः संनिधिमात्रेणोपकरोति,सेनापि तस्य तद्वदिति भावः ॥ 9 ॥

विश्वास-प्रस्तुतिः

आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपसां वरः ।
विरराज रथप्रष्ठैर्वालखिल्यैरिवांशुमान्॥ १०॥

मूलम्

आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपसां वरः ।
विरराज रथप्रष्ठैर्वालखिल्यैरिवांशुमान्॥ १०॥

मल्लिनाथः

आदिष्टेति॥ रथप्रष्ठै रथाग्रगामिभिः। ‘प्रष्ठोऽग्रगामिनि’(पा.8।3।92) इति निपातः। मुनिभिः पूर्वोक्तैरादिष्टवर्त्मा निर्दिष्टमार्गो गच्छंस्तपतां देदीप्यमानानां मधअये वरः श्रेष्ठः स शत्रुघ्नः। वालखिल्यैर्मुनिभिरंशुमान्सूर्य इव। विरराज। तेऽपि रथप्रष्ठा इत्यनुसंधेयम् ॥ 10 ॥

विश्वास-प्रस्तुतिः

तस्य मार्गवशादेका बभूव वसतिर्यतः ।
रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने॥ ११॥

मूलम्

तस्य मार्गवशादेका बभूव वसतिर्यतः ।
रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने॥ ११॥

मल्लिनाथः

तस्येति॥ यतो गच्छतः। इण्धातोः शदृप्रत्ययः। तस्य शत्रुघ्नस्य मार्गवशाद्रथस्वन उत्कण्ठा उद्गीवा मृगा यस्मिंस्तस्मिन्वाल्मीकीये वाल्मीकिसंबन्धिनि। ‘वृद्धाच्छः’(पा.4।2।114) इति छप्रत्ययः। तपोवन एका वसती रात्रिर्बभूव। तत्रैकां रात्रिमुषित इत्यर्थः। ‘वसती रात्रिवेश्मनोः’ इत्यमरः। 15.11 ॥
तमृषिः पूजयामास कुमारं क्लान्तवाहनम् । ॥ 11 ॥

विश्वास-प्रस्तुतिः

तमृषिः पूजयामास कुमारं क्लान्तवाहनम् ।
तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः ॥ १२॥

मूलम्

तमृषिः पूजयामास कुमारं क्लान्तवाहनम् ।
तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः ॥ १२॥

मल्लिनाथः

तमिति॥ क्लान्तवाहनं श्रान्तयुग्यं तं कुमारं शत्रुघ्नमृषिर्वाल्मीकिस्तपः प्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिरुत्कृष्टसंभावनाभिः पूजयामास ॥ 12 ॥

विश्वास-प्रस्तुतिः

तस्यामेवास्य यामिन्यामन्तर्वन्ती प्रजावती ।
सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः॥ १३॥

मूलम्

तस्यामेवास्य यामिन्यामन्तर्वन्ती प्रजावती ।
सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः॥ १३॥

मल्लिनाथः

तस्यामिति॥ तस्यामेव यामिन्यां रात्रौ। अस्य शत्रुघ्नस्य। अन्तरस्या अस्तीत्यन्तर्वत्नी गर्भिणी ‘अन्तर्वत्नी च गर्भिणी’ इत्यमरः। ‘अन्तर्वत्पतिवतोर्मुक्’ (पा.4।1।32) इति ङीप्,नुगागमश्च। प्रजावती भ्रातृजाया सीता। क्षितिः संपन्नौ समग्रौ कोशदण्डाविव। सुतावसूत ॥ 13 ॥

विश्वास-प्रस्तुतिः

संतानश्रवणाद्भ्रातुः सौमित्रिः सौमनस्यवान् ।
प्राञ्जलिर्मुनिमामन्त्र्य प्रातर्युक्तरथो ययौ॥ १४॥

मूलम्

संतानश्रवणाद्भ्रातुः सौमित्रिः सौमनस्यवान् ।
प्राञ्जलिर्मुनिमामन्त्र्य प्रातर्युक्तरथो ययौ॥ १४॥

मल्लिनाथः

संतानेति॥ भ्रातुर्ज्येष्ठस्य संतानश्रवणाद्धेतोः सौमनस्यवान्प्रीतिमान् सौमित्रिः शत्रुघ्नः प्रातर्युक्तरथः सज्जरथः सन्। प्राञ्जलिः कृताञ्जलिर्मुनिमामन्त्रअयापृच्छ्य ययौ ॥ 14 ॥

विश्वास-प्रस्तुतिः

स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः ।
वनात्करमिवादाय सत्त्वराशिमुपस्थितः ॥ १५॥

मूलम्

स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः ।
वनात्करमिवादाय सत्त्वराशिमुपस्थितः ॥ १५॥

मल्लिनाथः

स चेति॥ स शत्रुश्च मधूपघअनं नाम लवणपुरं प्राप। कुम्भीनसी नाम रावणस्वसा। तस्याः कुक्षिजः पुत्रो लवणश्च वनात्करं बलिमिव सत्त्वानां प्राणिनां राशिमादायोपस्थितः प्राप्तः ॥ 15 ॥

विश्वास-प्रस्तुतिः

धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः ।
क्रव्याद्गणपरीवारश्चिताग्निरिव जंगमः ॥ १६॥

मूलम्

धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः ।
क्रव्याद्गणपरीवारश्चिताग्निरिव जंगमः ॥ १६॥

मल्लिनाथः

धूमेति॥ किंभूतो लवणः? धूम इव धूम्रः कृष्णलोहितवर्णः। ‘धूम्रधूमलौ कृष्णलोहिते’ इत्यमरः। वसागन्धो हृन्मेदोगन्धः। सोऽस्यास्तीति वसागन्धी। ‘हृन्मेदस्तु वपा वसा’ इत्यमरः। ज्वाला इव बभ्रवः पिशङ्गाः शिरोरुहाः केशा यस्य स तथोक्तः। ‘विपुले नकुले विष्णौ बभ्रुः स्यात्पिङ्गले त्रिषु’ इत्यमरः। क्रव्यं मांसमदन्तीति क्रव्यादो राक्षसाः,तेषां गण एव परीवारो यस्य स तथोक्तः। अत एव जंगमश्चरिष्णुशअचिताग्निरिव स्थितः। कृशानुपक्षे,-धूमैर्धूम्रवर्णः। ज्वाला एव शिरोरुहाः। क्रव्यादो गृध्रादयः इत्यनुसंधेयम् ॥ 16 ॥

विश्वास-प्रस्तुतिः

अपशूलं तमासाद्य लवणं लक्ष्मणानुजः ।
रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम्॥ १७॥

मूलम्

अपशूलं तमासाद्य लवणं लक्ष्मणानुजः ।
रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम्॥ १७॥

मल्लिनाथः

अपशूलमिति॥ लक्ष्मणानुजः शत्रुघ्नोऽपशूलं शूलरहितं तं लवणमासाद्य रुरोध। तथा हि-रन्ध्रप्रहारिणां रन्ध्रप्रहरणशीलानाम्। अपशूलतैवात्र रन्धअरम्। जयः संमुखीनो हि संमुखस्य दर्शनो हि। ‘यथामुखसंमुखस्य दर्शनः खः’(पा.5।2।6) इति खप्रत्ययः। अधिकारलक्षणार्थस्तु दुर्लभ एव ॥ 17 ॥

विश्वास-प्रस्तुतिः

नातिपर्याप्तमालक्ष्य मत्कुक्षेरद्य भोजनम् ।
दिष्ट्या त्वमसि मे धात्रा भीतेनेवोपपादितः॥ १८॥

मूलम्

नातिपर्याप्तमालक्ष्य मत्कुक्षेरद्य भोजनम् ।
दिष्ट्या त्वमसि मे धात्रा भीतेनेवोपपादितः॥ १८॥

मल्लिनाथः

अग्रिमं श्लोकम् ईक्षताम्।

विश्वास-प्रस्तुतिः

इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया ।
प्रांशुमुत्पाटयामास मुस्तास्तम्बमिव द्रुमम्॥ १९॥

मूलम्

इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया ।
प्रांशुमुत्पाटयामास मुस्तास्तम्बमिव द्रुमम्॥ १९॥

मल्लिनाथः

नेति॥ इतीति॥ युग्मम्। राक्षसो लवणः। अद्य मत्कुक्षेः। भुज्यत इति भोजनम्। भोज्यं मृगादिकं नातिपर्याप्तमनतिसमग्रमालक्षअय दृष्ट्वा भीतेनेव धात्रा दिषअट्या भाग्येन मे त्वमुपपादितः कल्पितोऽसि। इति शत्रुघ्नं संतर्ज्य तस्य शत्रुघ्नस्य जिघांसया हन्तुमिच्छया प्रांशुमुन्नतं द्रुमम्। मुस्तास्तम्बमिव अक्लेशेनोत्पाटयामास ॥ 18-19 ॥

विश्वास-प्रस्तुतिः

सौमित्रेर्निशितैर्बाणैरन्तरा शकलीकृतः ।
गात्रं पुष्परजः प्राप न शाखी नैरृतेरितः॥ २०॥

मूलम्

सौमित्रेर्निशितैर्बाणैरन्तरा शकलीकृतः ।
गात्रं पुष्परजः प्राप न शाखी नैरृतेरितः॥ २०॥

मल्लिनाथः

सौमित्रेरिति॥ नैर्ऋतेरितो रक्षःप्रेरितः शाख्यन्तरा मध्ये निशइतैर्बाणैः शकलीकृतः सन्,सौमित्रेः शत्रुघ्नस्य गात्रं न प्राप। किंतु पुष्परजः प्राप ॥ 20 ॥

विश्वास-प्रस्तुतिः

विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलम् ।
प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितम्॥ २१॥

मूलम्

विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलम् ।
प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितम्॥ २१॥

मल्लिनाथः

विनाशादिति॥ रक्षो लवणस्तस्य विनाशाद्धेतोः। महोपलं महान्तं पाषाणम्। पृथक्स्थितं कृतान्तस्य यमस्य मुष्टिमिव। ‘मुष्टि’ शब्दो द्विलिङ्गः। तस्मै शत्रुघ्नाय प्रजिघाय प्रहितवान् ॥ 21 ॥

विश्वास-प्रस्तुतिः

ऐन्द्रमस्त्रमुपादाय शत्रुघ्नेन स ताडितः ।
सिकतात्वादपि परं प्रपेदे परमाणुताम्॥ २२॥

मूलम्

ऐन्द्रमस्त्रमुपादाय शत्रुघ्नेन स ताडितः ।
सिकतात्वादपि परं प्रपेदे परमाणुताम्॥ २२॥

मल्लिनाथः

ऐन्द्रमिति॥ स महोपलः शत्रुघ्नेनैन्द्रमिन्द्रदेवताकमस्त्रमुपादाय ताडितोऽभिहतः सन्। सिकतात्वात्सिकताभावादपि परां परमाणुतां प्रपेदे। यतोऽणुर्नास्ति स परमाणिरित्याहुः ॥ 22 ॥

विश्वास-प्रस्तुतिः

तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः ।
एकताल इवोत्पातपवनप्रेरितो गिरिः॥ २३॥

मूलम्

तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः ।
एकताल इवोत्पातपवनप्रेरितो गिरिः॥ २३॥

मल्लिनाथः

तमिति॥ निशाचरो राक्षसो दक्षिणं दोः। ‘ककुद्दोषणी’ इति भगवतो भाष्यकारस्य प्रयोगाद्दोषशब्दस्य नपुंसकत्वं द्रष्टव्यम्। ‘भुजबाहू प्रवेष्टो दोः’ इति पुंलिङ्गसाहचर्यात्पुंस्त्वं च। तथा च प्रयोगः-‘दोषं तस्य तथाविधस्य भजते’ इति। सव्येतरं बाहुमुद्यम्य। एकस्तालस्तदाख्यवृक्षो यस्मिन्स एकतालः। उत्पातपवनेन प्रेरितो गिरिरिव। तं शत्रुघ्नमुपाद्रवदभद्रुतः ॥ 23 ॥

विश्वास-प्रस्तुतिः

कार्ष्णेन पत्रिणा शत्रुः स भिन्नहृदयः पतन् ।
अनिनाय भुवः कम्पं जहाराश्रमवासिनाम्॥ २४॥

मूलम्

कार्ष्णेन पत्रिणा शत्रुः स भिन्नहृदयः पतन् ।
अनिनाय भुवः कम्पं जहाराश्रमवासिनाम्॥ २४॥

मल्लिनाथः

कार्ष्णेनेति॥ स शत्रुर्लवणः। कार्ष्णेन वैष्णवेन पत्रिणा बाणेन। उक्तं च रामायणे-‘एवमेष प्रजनितो विष्णोस्तेजोमयः शरः’इति। ‘विष्णुर्नारायण कृष्णः’ इत्यमरः। भिन्नहृदयः पतन्,भुवः कम्पमानिनायानीतवान्। देहभारादित्यर्थः। आश्रमवासिनां कम्पं जहार। तन्नाशादकुतोभया बभूवुरित्यर्थः॥ 24 ॥

विश्वास-प्रस्तुतिः

वयसां पङ्क्तयः पेतुर्हतस्योपरि विद्विषः ।
तत्प्रतिद्वन्द्विनो मूर्ध्नि दिव्याः कुसुमवृष्टयः॥ २५॥

मूलम्

वयसां पङ्क्तयः पेतुर्हतस्योपरि विद्विषः ।
तत्प्रतिद्वन्द्विनो मूर्ध्नि दिव्याः कुसुमवृष्टयः॥ २५॥

मल्लिनाथः

वयसामिति॥ हतस्य विद्वेष्टीति विद्विट् तस्य विद्विषो राक्षसस्योपरि वयसां पक्षिणां पङ्क्तयः पेतुः। तत्प्रतिद्वन्द्विनः शत्रुघ्नस्य मूर्न्धि तु दिव्याः कुसुमवृष्टयः पेतुः ॥ 25 ॥

विश्वास-प्रस्तुतिः

स हत्वा लवणं वीरस्तदा मेने महौजसः ।
भ्रातुः सोदर्यमात्मानमिन्द्रजिद्वधशोभिनः॥ २६॥

मूलम्

स हत्वा लवणं वीरस्तदा मेने महौजसः ।
भ्रातुः सोदर्यमात्मानमिन्द्रजिद्वधशोभिनः॥ २६॥

मल्लिनाथः

स इति॥ स वीरः शत्रुघ्नो लवणं हत्वा तदाऽऽत्मानं महौजसो महाबलस्येन्द्रजिद्वधेन शोभिनो भ्रातुर्लक्ष्मणस्य समानोदरे शयितं सोदर्यमेकोदरं मेने। ‘सोदराद्यः’(पा.4।4।109) इति यप्रत्ययः ॥ 26 ॥

विश्वास-प्रस्तुतिः

तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः ।
शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः॥ २७॥

मूलम्

तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः ।
शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः॥ २७॥

मल्लिनाथः

तस्येति॥ चरितार्थैः कृतार्थैः कृतकार्यैस्तपस्विभिः संस्तूयमानस्य तस्य शत्रुघ्नस्य विक्रमेणोदग्रमुन्नतं व्रीडया लज्जयावनतं नम्रं शिरः शुशुभे। विक्रान्तस्य लज्जैव भूषणमिति भावः ॥ 27 ॥

विश्वास-प्रस्तुतिः

उपकूलं च कालिन्द्याः पुरीं पौरुषभूषणः ।
निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः॥ २८॥

मूलम्

उपकूलं च कालिन्द्याः पुरीं पौरुषभूषणः ।
निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः॥ २८॥

मल्लिनाथः

उपेति॥ पौरुषभूषणः। अर्थेषु विषयेषु निर्ममो निःस्पृहः। मधुराकृतिः सौम्यरूपः। स शत्रुघ्नः कालिन्द्या यमुनाया उपकूलं कूले। विभक्त्यर्थेऽव्ययीभावः। मथुरां नाम पुरीं निर्ममे निर्मितवान् ॥ 28 ॥

विश्वास-प्रस्तुतिः

या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता॥ २९॥

मूलम्

या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता॥ २९॥

मल्लिनाथः

येति॥ या पूः। शत्रुघ्नः शोभनो राजा यस्याः पुरः सा सुराज्ञी,सुराज्ञ्या भावः सौराज्यम्। तेन प्रकाशाभिः प्रकाशमानाभिः पौराणां विभूतिभिरैश्वर्यैः। स्वर्गस्याभिष्यन्दोऽतिरिक्तजनस्तस्य वमनमाहरणं कृत्वा,उपनिवेशितोपस्थापितेव बभौ। अत्र कौटिल्यः-‘भूतपूर्वमभूतपूर्वं वा जनपदं परदेशप्रवाहेण स्वदेशाभिष्यन्दवमनेने वा निवेशयेत्’ इति ॥ 29 ॥

विश्वास-प्रस्तुतिः

तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीम् ।
हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये॥ ३०॥

मूलम्

तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीम् ।
हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये॥ ३०॥

मल्लिनाथः

तत्रेति॥ तत्र मथुरायां सौधगतो हर्म्यारूढः स चक्रवाकिनीं चक्रवाकवतीं यमुनाम्। हेमभक्तिमतीं सुवर्णरचनावतीं भूमेः प्रवेणीं वेणीमिव। ‘वेणिः प्रवेणी’ इत्यमरः। पश्यन्पिप्रिये प्रीतः। ‘प्रीङ् प्रीणने’ इति धातोर्दैवादिकाल्लिट् ॥ 30 ॥

विश्वास-प्रस्तुतिः

सखा दशरथस्यापि जनकस्य च मन्त्रकृत् ।
संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि॥ ३१॥

मूलम्

सखा दशरथस्यापि जनकस्य च मन्त्रकृत् ।
संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि॥ ३१॥

मल्लिनाथः

सखेति॥ दशरथस्य जनकस्य च सखा मन्त्रकृन्मन्त्रद्रष्टा स वाल्मीकिरपि। ‘सुकर्मपापमन्त्रपुण्येषु कृञः’(पा.3।2।89) इति क्विप्। उभयोर्दशरथजनकयोः प्रीत्या स्नेहेन मैथिलेयौ मैथिलीपुत्रौ यथाविधि यथाशास्त्रं संचस्कार संस्कृतवान्। जातकर्मादिभिरिति शेषः ॥ 31 ॥

विश्वास-प्रस्तुतिः

स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया ।
कविः कुशलवावेव चकार किल नामतः॥ ३२॥

मूलम्

स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया ।
कविः कुशलवावेव चकार किल नामतः॥ ३२॥

मल्लिनाथः

स इति॥ स कविर्वाल्मीकिः कुशैर्दर्भैर्लवैर्गोपुच्छलोमभिः। ‘लवो लवणकिञ्जल्कपक्ष्मगोपुच्छलोमसु’ इति वैजयन्ती। उन्मृष्टो गर्भक्लेदो गर्भोपद्रवो ययोस्तौ कुशलवोन्मृष्टगर्भक्लेदौ तौ मैथिलेयौ तेषां कुशानां च लवानां चाख्यया नामतो नाम्ना यथासंख्यं कुशलवावेव चकार किल। कुशोन्मृष्टः कुशः। लवोन्मृष्टो लवः ॥ 32 ॥

विश्वास-प्रस्तुतिः

साङ्गं च वेदमध्याप्य किंचिदुत्क्रान्तशैशवौ ।
स्वकृतिं गापयामास कविप्रथमपद्धतिम्॥ ३३॥

मूलम्

साङ्गं च वेदमध्याप्य किंचिदुत्क्रान्तशैशवौ ।
स्वकृतिं गापयामास कविप्रथमपद्धतिम्॥ ३३॥

मल्लिनाथः

साङ्गमिति॥ किंचिदुत्क्रान्तशैशवावतिक्रान्तबाल्यौ तौ साङ्गं च वेदमध्याप्य कवीनां प्रथमपद्धतिम्। कविताबीजमित्यर्थः। स्वकृतिं काव्यं रामायणाख्यं गापयामास। गापयतेर्लिट्। शब्दकर्मत्वात् ‘गतिबुद्धि-’(पा.1।4।52) इत्यादिना द्विकर्मकत्वम् ॥ 33 ॥

विश्वास-प्रस्तुतिः

रामस्य मधुरं वृत्तं गायन्तो मातुरग्रतः ।
तद्वियोगव्यथां किंचिच्छिथिलीचक्रतुः सुतौ॥ ३४॥

मूलम्

रामस्य मधुरं वृत्तं गायन्तो मातुरग्रतः ।
तद्वियोगव्यथां किंचिच्छिथिलीचक्रतुः सुतौ॥ ३४॥

मल्लिनाथः

रामस्येति॥ तौ सुतौ रामस्य वृत्तं मातुरग्रतो मधुरं गायन्तौ तद्वियोगव्यथां रामविरहवेदनां किंचिच्छिथिलीचक्रतुः ॥ 34 ॥

विश्वास-प्रस्तुतिः

इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः ।
तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः ॥ ३५॥

मूलम्

इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः ।
तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः ॥ ३५॥

मल्लिनाथः

इतरेऽपीति॥ रघोर्वंश्या वंशे भवाः। त्रेतेत्यग्नयस्त्रेताग्नयः। तेषां तेज इव तेजो येषां ते त्रेताग्नितेजसः। इतरे रामादन्ये त्रयो भरतादयोऽपि तद्योगात्तेषां योगाद्भरतादिसंबन्धात्पतिवत्नीषु भर्तृमतीषु जीवत्पतिकासु। ख्यातिमतीष्वित्यर्थः। ‘पतिव्रत्नी सभर्तृका’इत्यमरः। ‘अन्तर्वत्पतिवतोर्नुक्’(पा.4।1
।32) इति ङीप्प्रत्ययो नुगागमश्च। पत्नीषु द्विसूनव आसन्। द्वौ द्वौ सूनू येषां ते द्विसूनव इति विग्रहः। क्वचित्संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवत्॥ 35 ॥

विश्वास-प्रस्तुतिः

शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते ।
मथुराविदिशे सून्वोर्निदधे पूर्वजोत्सुकः॥ ३६॥

मूलम्

शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते ।
मथुराविदिशे सून्वोर्निदधे पूर्वजोत्सुकः॥ ३६॥

मल्लिनाथः

शत्रुघातिनीति॥ पूर्वजोत्सुको ज्येष्ठप्रियः शत्रुघ्नो बहुश्रुते शत्रुघातिनि सुबाहौ च तन्नामकयोः सून्वोर्मथुरा च विदिशा च ते नगर्यौ निदधे। निधाय गत इत्यर्थः॥ 36 ॥

विश्वास-प्रस्तुतिः

भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगात् ।
मैथिलीतनयोद्गीतनिःस्पन्दमृगमाश्रमम्॥ ३७॥

मूलम्

भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगात् ।
मैथिलीतनयोद्गीतनिःस्पन्दमृगमाश्रमम्॥ ३७॥

मल्लिनाथः

भूय इति॥ स शत्रुघ्नो मैथिलीतनययोः कुश-लवयोरुद्गीतेन निःस्पन्दमृगं गीतप्रियतया निश्चलहरिणं वाल्मीकेराश्रमम्। भूयः पुनरपि तपोव्ययः संविधानकरणार्थं तपोहानिर्मा भूदिति हेतोः। अत्यगात्। अतिक्रम्य गत इत्यर्थः ॥ 37 ॥

विश्वास-प्रस्तुतिः

वशी विवेश चायोध्यां रथ्यसंस्कारशोभिनीम् ।
लवणस्य वधात्पौरैरीक्षितोऽत्यन्तगौरवम्॥ ३८॥

मूलम्

वशी विवेश चायोध्यां रथ्यसंस्कारशोभिनीम् ।
लवणस्य वधात्पौरैरीक्षितोऽत्यन्तगौरवम्॥ ३८॥

मल्लिनाथः

वशीति॥ वशी स लवणस्य वधाद्धेतोः पौरैः पौरजनैरत्यन्तं गौरवं यस्मिन्कर्मणि तत्तथेक्षितः सन्। रथ्यासंस्कारैस्तोरणादिभिः शोभते या तामयोध्यां विवेश च ॥ 38 ॥

विश्वास-प्रस्तुतिः

स ददर्श सभामध्ये सभासद्भिरुपस्थितम् ।
रामं सीतापरित्यागादसामान्यपतिं भुवः॥ ३९॥

मूलम्

स ददर्श सभामध्ये सभासद्भिरुपस्थितम् ।
रामं सीतापरित्यागादसामान्यपतिं भुवः॥ ३९॥

मल्लिनाथः

स इति॥ स शत्रुघ्नः सभामध्ये सभासद्भिः सभ्यैरुपस्थितं सेवितं सीतापरित्यागाद्भुवोऽसामान्यपतिमसाधारणपतिं रामं ददर्श ॥ 39 ॥

विश्वास-प्रस्तुतिः

तमभ्यनन्दत्प्रणतं लवणान्तकमग्रजः ।
कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणम्॥ ४०॥

मूलम्

तमभ्यनन्दत्प्रणतं लवणान्तकमग्रजः ।
कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणम्॥ ४०॥

मल्लिनाथः

तमिति॥ अग्रजो रामो लवणस्यान्तकं हन्तारं प्रणतं तं शत्रुघ्नम्। कालनेमिर्नाम राक्षसः। तस्य वधात्प्रीतः। तुरं वेगं सहत इति तुराषाडिन्द्रः । ‘छन्दसि सहः’(पा.3।2।63) इति ण्वि प्रत्यया। यद्वा,-सहतेणिंचि कृते साहयतेः क्विप्। ‘अन्येषामपि दृश्यते’(पा.6।3।137) इति पूर्वपदस्य दीर्घः। ‘सहेः साडः सः’(पा.8।3।56) इति षत्वम्। शार्ङ्गिणमुपेन्द्रमिव। अभ्यनन्दत्॥ ॥ 40 ॥

विश्वास-प्रस्तुतिः

स पृष्टः सर्वतो वार्तमाख्यद्राज्ञे न संततिम् ।
प्रत्यर्पयिष्यतः काले कवेराद्यस्य शासनात्॥ ४१॥

मूलम्

स पृष्टः सर्वतो वार्तमाख्यद्राज्ञे न संततिम् ।
प्रत्यर्पयिष्यतः काले कवेराद्यस्य शासनात्॥ ४१॥

मल्लिनाथः

स इति॥ स शत्रुघ्नः पृष्टः सन्। सर्वतो वार्तं कुशलं राज्ञे रामाय। आख्यदाख्यातवान्। चक्षिङो लुङ्। ‘चक्षिडः ख्याञ्’(पा.2।4।54)इति ख्याञादेशः। ‘अस्यतिवक्ति-’(पा.3।1।52)इत्यङ्। ‘आतो लोप इटि च’(पा.6।4।64) इत्याकारलोपः। ख्यातेर्वा लुङ्। संततिं कुशलवोत्पत्तिं नाख्यत्। कुतः? कालेऽवसरे प्रत्यर्पयिष्यत आद्यस्य कवेर्वाल्मीकेः शासनात् ॥ 41 ॥

विश्वास-प्रस्तुतिः

अथ जानपदो विप्रः शिशुमप्राप्तयौवनम् ।
अवतार्याङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः॥ ४२॥

मूलम्

अथ जानपदो विप्रः शिशुमप्राप्तयौवनम् ।
अवतार्याङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः॥ ४२॥

मल्लिनाथः

अथेति॥ अथ जनपदे भवो जानपदो विप्रः। कश्चिदिति शेषः। अप्राप्त यौवनं शिशुम्। मृतमिति शेषः। भूपते रामस्य द्वारि। अङअकशय्यास्थं यथा तथाऽवतार्याङ्कस्थत्वेनैवावरोप्य। चक्रन्द चुक्रोश ॥ 42 ॥

विश्वास-प्रस्तुतिः

शोचनीयासि वसुधे या त्वं दशरथाच्च्युता ।
रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता॥ ४३॥

मूलम्

शोचनीयासि वसुधे या त्वं दशरथाच्च्युता ।
रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता॥ ४३॥

मल्लिनाथः

शोचनीयेति॥ हे वसुधे! दशरथाञ्च्युता या त्वं रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता सती शोचनीयाऽसि ॥ 43 ॥

विश्वास-प्रस्तुतिः

श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघवः ।
न ह्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत्॥ ४४॥

मूलम्

श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघवः ।
न ह्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत्॥ ४४॥

मल्लिनाथः

श्रुत्वेति॥ गोप्ता रक्षको राघवस्तस्य विप्रस्य शुचः शोकस्य हेतुं पुत्रमरणरूपं श्रुत्वा जिह्नाय लज्जितः। कुतः? हि यस्मादकालभवो मृत्युरिक्ष्वाकूणां पदं राष्ट्रं नास्पृशत्। वृद्धे जीवति यवीयान्न म्रियत इत्यर्थः ॥ 44 ॥

विश्वास-प्रस्तुतिः

स मुहूर्तं क्षमस्वेति द्विजमाश्वास्य दुःखितम् ।
यानं सस्मार कौबेरं वैवस्वतजिगीषया॥ ४५॥

मूलम्

स मुहूर्तं क्षमस्वेति द्विजमाश्वास्य दुःखितम् ।
यानं सस्मार कौबेरं वैवस्वतजिगीषया॥ ४५॥

मल्लिनाथः

स इति॥ स रामो दुःखितं द्विजं मुहूर्तं क्षमस्वेत्याश्वास्य वैवस्वतस्यान्तकस्य जिगीषया जेतुमिच्छया कौबेरं यानं पुष्पकं सस्मार ॥ 45 ॥

विश्वास-प्रस्तुतिः

आत्तशस्त्रस्तदध्यास्य प्रस्थितः स रघूद्वहः ।
उच्चचार पुरस्तस्य गूढरूपा सरस्वती॥ ४६॥

मूलम्

आत्तशस्त्रस्तदध्यास्य प्रस्थितः स रघूद्वहः ।
उच्चचार पुरस्तस्य गूढरूपा सरस्वती॥ ४६॥

मल्लिनाथः

आत्तेति॥ स रघूद्वहो राम आत्तशस्त्रः सन्। तत् पुष्पकमध्यास्य प्रस्थितः। अथ तस्य पुरो गूढरूपा सरस्वत्यशरीरा वागुञ्चचारोद्बभूव ॥ 46 ॥

विश्वास-प्रस्तुतिः

राजन् प्रजासु ते कश्चिदपचारः प्रवर्तते ।
तमन्विष्य प्रशमयेर्भविष्यसि ततः कृती॥ ४७॥

मूलम्

राजन् प्रजासु ते कश्चिदपचारः प्रवर्तते ।
तमन्विष्य प्रशमयेर्भविष्यसि ततः कृती॥ ४७॥

मल्लिनाथः

राजन्निति॥ हे राजन्! ते प्रजासु कश्चिदपचारो वर्णधर्मव्यतिकरः प्रवर्तते। तमपचारमन्विष्य प्रशमयेः। ततः कृती कृतकृत्यो भवितासि भविष्यसि ॥ 47 ॥

विश्वास-प्रस्तुतिः

इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियाम् ।
दिशः पपात पत्रेण वेगनिष्कम्पहेतुना॥ ४८॥

मूलम्

इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियाम् ।
दिशः पपात पत्रेण वेगनिष्कम्पहेतुना॥ ४८॥

मल्लिनाथः

इतीति॥ इत्याप्तवचनाद्रामो वर्णविक्रियां वर्णापचारं विनेष्यन्नपनेष्यन् वेगेन निष्कम्पकेतुना पत्रेण वाहनेन पुष्पकेण। ‘पत्रं वाहनपक्षयोः’ इत्यमरः। दिशः पपात धावति स्म ॥ 48 ॥

विश्वास-प्रस्तुतिः

अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् ।
ददर्श कंचिदैक्ष्वाकस्तपस्यन्तमधोमुखम्॥ ४९॥

मूलम्

अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् ।
ददर्श कंचिदैक्ष्वाकस्तपस्यन्तमधोमुखम्॥ ४९॥

मल्लिनाथः

अथेति॥ अथेक्ष्वाकुवंशप्रभव ऐक्ष्वाको रामः। ‘कोपधादण्’(पा.4।2।32) इत्यणि कृते ‘दाण्डिनायन-’(पा.6।4।174) इत्यादिनोकारलोपनिपातः। धूमेन पीयमानेनाभिताम्राक्षं वृक्षशाखावलम्बिनमधोमुखं तपस्यन्तं तपश्चरन्तं कंचित्पुरुषं ददर्श ॥ 49 ॥

विश्वास-प्रस्तुतिः

पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः ।
आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनम्॥ ५०॥

मूलम्

पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः ।
आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनम्॥ ५०॥

मल्लिनाथः

पृष्टेति॥ राज्ञा नाम चान्वयश्च नामान्वयौ,तौ पृष्टौ यस्य तथोक्तः। धूमं पिबतीति धूमपः। ‘सुपि-’(पा.3।2।4) इति योगविभागात्कप्रत्ययः। स पुरुष आत्मानं सुरपदार्थिनम्। अनेन प्रयोजनमपि पृष्टमिति ज्ञेयम्। शम्बुकं नाम शूद्रमाचष्ट बभाषे किल ॥ 50 ॥

विश्वास-प्रस्तुतिः

तपस्यनधिकारित्वात्प्रजानां तमघावहम् ।
शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे॥ ५१॥

मूलम्

तपस्यनधिकारित्वात्प्रजानां तमघावहम् ।
शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे॥ ५१॥

मल्लिनाथः

तपसीति॥ तपस्यनधिकारित्वात्प्रजानामघावहं दुःखावहं तं शूद्रं शीर्षच्छेद्यम्। ‘शीर्षच्छेदाद्यञ्च’(पा.5।1।65) इति यत्प्रत्ययः। परिच्छिद्य निश्चित्य नियन्ता रक्षको रामः शस्त्रमाददे जग्राह ॥ 51 ॥

विश्वास-प्रस्तुतिः

स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् ।
ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत्॥ ५२॥

मूलम्

स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् ।
ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत्॥ ५२॥

मल्लिनाथः

स इति॥ स रामो ज्योतिष्कणैः स्फुलोङ्गैराहतानि दग्धानि श्मश्रूणि यस्य तत्तस्य वक्त्रम्। हिमक्लिष्टकिञ्जल्कं पङ्कजमिव। कण्ठ एव नालं तस्मादपातयत् ॥ 52 ॥

विश्वास-प्रस्तुतिः

कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् ।
तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना॥ ५३॥

मूलम्

कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् ।
तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना॥ ५३॥

मल्लिनाथः

कृतेति॥ शूद्रः शम्बुको राज्ञा स्वयं कृतदण्डः कृतशिक्षः सन्। सतां गतिं लेभे। दुश्चरेणापि स्वमार्गविलङ्घिना। अनधिकारदुष्टेनेत्यर्थः। तपसा न लेभे। अत्र मनुः(8।3।18) ‘राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः। निर्मलाः स्वर्गमायान्ति सन्तः मुकृतिनो यथा ॥’ इति॥ 53 ॥

विश्वास-प्रस्तुतिः

रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना ।
महौजसा संयुयुजे शरत्काल इवेन्दुना॥ ५४॥

मूलम्

रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना ।
महौजसा संयुयुजे शरत्काल इवेन्दुना॥ ५४॥

मल्लिनाथः

रघुनाथ इति॥ रघुनाथोऽपि मार्गसंदर्शितात्मना महौजसाऽगस्त्येन। इन्दुना शरत्काल इव संयुयुजे संगतः। इन्दावपि विशेषणं योज्यम्‌। ‘रघुनाथ’ इत्यत्र क्षुभ्रादित्वाण्णत्वाभावः ॥ 54 ॥

विश्वास-प्रस्तुतिः

कुम्भयोनिरलंकारं तस्मै दिव्यपरिग्रहम् ।
ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम्॥ ५५॥

मूलम्

कुम्भयोनिरलंकारं तस्मै दिव्यपरिग्रहम् ।
ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम्॥ ५५॥

मल्लिनाथः

रघुनाथ इति॥ रघुनाथोऽपि मार्गसंदर्शितात्मना महौजसाऽगस्त्येन। इन्दुना शरत्काल इव संयुयुजे संगतः। इन्दावपि विशेषणं योज्यम्‌। ‘रघुनाथ’ इत्यत्र क्षुभ्रादित्वाण्णत्वाभावः ॥ 55 ॥

विश्वास-प्रस्तुतिः

स दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना ।
पश्चान्निववृते रामः प्राक्परासुर्द्विजात्मजः ॥ ५६॥

मूलम्

स दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना ।
पश्चान्निववृते रामः प्राक्परासुर्द्विजात्मजः ॥ ५६॥

मल्लिनाथः

तमिति॥ मैथिलीकण्ठनिर्व्यापारेण याहुना तमलंकारं दधद्रामः पश्चान्निववृते निवृत्तः। परासुर्म-तो द्विजात्मजः प्राक् रामात्पूर्वं निववृते ॥ 56 ॥

विश्वास-प्रस्तुतिः

तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः ।
स्तुत्वा निवर्तयामास त्रातुर्वैवस्वतादपि॥ ५७॥

मूलम्

तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः ।
स्तुत्वा निवर्तयामास त्रातुर्वैवस्वतादपि॥ ५७॥

मल्लिनाथः

तस्येति॥ पुत्रसमागतः पुत्रेण संगतो द्विजो वैधस्वतादन्तकादपि त्रात् रक्षकस्य। ‘भीत्रार्थानां भवहेतुः’(पा.1।4।25) इत्यपादानात्पञ्चमी। तस्य रामस्य पूर्वोदितां पूर्वोक्तां निन्दां स्तुत्या निवर्तयामास ॥ 57 ॥

विश्वास-प्रस्तुतिः

तमध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः ।
मेघाः सस्यमिवाम्भोभिरभ्यवर्षन्नुपायनैः॥ ५८॥

मूलम्

तमध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः ।
मेघाः सस्यमिवाम्भोभिरभ्यवर्षन्नुपायनैः॥ ५८॥

मल्लिनाथः

तमिति॥ अध्वरायाश्वमेधाय मुक्ताश्वं तं रामं रक्षःकपिनरेश्चराः सुग्रीविभीषणादयो राजानश्च। मेघा अम्भिभिः सस्यमिव। उपायनैरभ्यवर्षन् ॥ 58 ॥

विश्वास-प्रस्तुतिः

दिग्भ्यो निमन्त्रिताश्चैनमभिजग्मुर्महर्षयः ।
न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि॥ ५९॥

मूलम्

दिग्भ्यो निमन्त्रिताश्चैनमभिजग्मुर्महर्षयः ।
न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि॥ ५९॥

मल्लिनाथः

दिग्भ्य इति॥ निमन्त्रिता आहूता महर्षयश्च भूम्याः संबन्धीनि भौमानिधिष्ण्यानि स्थानान्येव न। ‘धिष्ण्यं स्थाने गृहे भेऽग्नौ’ इत्यमरः। किंतु ज्योतिर्मयानि नक्षत्ररूपाणि धिष्ण्यान्यपि हित्वा दिग्भ्य एनं राममभिजग्मुः ॥ 59 ॥

विश्वास-प्रस्तुतिः

उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ ।
अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः॥ ६०॥

मूलम्

उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ ।
अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः॥ ६०॥

मल्लिनाथः

उपेति॥ चत्वारि द्वाराण्येव मुखानि यस्याः सा चतुर्द्वारमुख्ययोध्या। उपशल्येषु ग्रामान्तेषु निविष्टैः। ‘ग्रामान्त उपशल्यं स्यात्’ इत्यमरः। तैर्महर्षिभिः। सद्यः सृष्टलोका पितामहस्येयं पैतामही तनुर्मूर्तिरिव। बभौ ॥ 60 ॥

विश्वास-प्रस्तुतिः

श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः ।
अनन्यजानेः सैवासीद्यस्माज्जाया हिरण्मयी॥ ६१॥

मूलम्

श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः ।
अनन्यजानेः सैवासीद्यस्माज्जाया हिरण्मयी॥ ६१॥

मल्लिनाथः

श्लाघ्य इति॥ वैदेह्यास्त्यागोऽपि श्लाघ्यो वर्ण्य एव। कुतः? यस्माद् प्रान्वंशः प्राचीनस्थूणो यज्ञनस्थूणो यज्ञशालाविशेषः। तद्वासिनः। नास्त्यन्या जाया यस्य तस्यानन्यजानेः। ‘जायाया निङ्’(पा.5।4।134) इति समासान्तो निङादेशः। पत्यू रामस्य हिरण्मयी सौवर्णी। ‘दाण्डिनायन-’(पा.6।4।174) आदिदग्रेण निपातेः। सा निजैव जाया पत्न्यासीत्। कविवाक्यमेतत् ॥ 61 ॥

विश्वास-प्रस्तुतिः

विधेरधिकसंभारस्ततः प्रववृते मखः ।
आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः॥ ६२॥

मूलम्

विधेरधिकसंभारस्ततः प्रववृते मखः ।
आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः॥ ६२॥

मल्लिनाथः

विधेरिति॥ ततो विधेः शास्त्रादधिकसंभारोऽतिरिच्यमानपरिकरो मखः प्रववृते प्रवृतः। यत्र मखे। विहन्यन्त एभिरिति विघ्नाः प्रत्यूहाः। ‘घञर्थे कविधानम्’(वा.2204)इति कः। क्रियाविघअना अनुष्ठानविघातका राक्षसा एव रक्षिणो रक्षका आसन् ॥ 62 ॥

विश्वास-प्रस्तुतिः

अथ प्राचेतसोपज्ञं रामायणमितस्ततः ।
मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ॥ ६३॥

मूलम्

अथ प्राचेतसोपज्ञं रामायणमितस्ततः ।
मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ॥ ६३॥

मल्लिनाथः

अथेति॥ अथ मैथिलेयौ मैथिलीतनयौ। ‘स्त्रीभ्यो ढक्’(पा.4।1।120) कुशलवौ गुरुणा वाल्मीकिना चोदितौ प्रेरितौ सन्तौ। प्राचेतसो वाल्मीकिः। उपज्ञायत इत्युपज्ञा। ‘आतश्चोपसर्गे’(पा.3।3।106) इति कर्मण्यङ्प्रत्ययः। प्राचेतसस्योपज्ञा। ‘आतश्चोपसर्गे’(पा.3।3।106) इति कर्मण्यङ्गप्रत्ययः। प्राचेतसस्योपज्ञा प्राचेतसोपज्ञम्। प्राचेतसेनादौ ज्ञातमित्यर्थः। ‘उपज्ञा ज्ञानमाद्यं स्यात्’ इत्यमरः। ‘उपज्ञोपक्रमं तदाद्याचिख्यासायाम्’(पा.2।4।21) इति नपुंसकत्वम्। अय्यते ज्ञायतेऽनेनेत्ययनम्। रामस्यायनं चरितं रामायणं रामायणाखअयं काव्यम्। ‘पूर्वपदात्संज्ञायामगः’(पा.8।4।3) इति णत्वम्। उत्तरायणमितिवत्। इतस्ततोजगतुः। गायतेर्लिट् ॥ 63 ॥

विश्वास-प्रस्तुतिः

वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ ।
किं तद्येन मनो हर्तुमलं स्यातां न शृण्वताम्॥ ६४॥

मूलम्

वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ ।
किं तद्येन मनो हर्तुमलं स्यातां न शृण्वताम्॥ ६४॥

मल्लिनाथः

वृत्तमिति॥ रामस्य वृत्तं वर्ण्यम्। वस्त्विति शेषः। वाल्मीकेः कृतिः काव्यम्। गेयमिति शेषः। तौ कुशलवौ किंनरस्वनौ किंनरकण्ठौ गायकौ। पुनरिति शेषः। अत एव तत्किं येन निमित्तेन तौ शृण्वतां मनो हर्तुमलं शक्तौ न स्याताम्। सर्वं सरसमित्यर्थः ॥ 64 ॥

विश्वास-प्रस्तुतिः

रूपे गीते च माधुर्यंतयोस्तज्ज्ञैर्निवेदितम् ।
ददर्श सानुजो रामः शुश्राव च कुतूहली॥ ६५॥

मूलम्

रूपे गीते च माधुर्यंतयोस्तज्ज्ञैर्निवेदितम् ।
ददर्श सानुजो रामः शुश्राव च कुतूहली॥ ६५॥

मल्लिनाथः

रूप इति॥ ते जानन्तीति तज्ज्ञाः,तैस्तज्ज्ञैरभिज्ञैर्निवेदितं तयोः कुशलवयो रूपे आकारे गीते च माधुर्यं रामणीयकं सानुजो रामाः कुतूहली सानन्दः सन्,यथासंख्यं ददर्श शुश्राव च ॥ 65 ॥

विश्वास-प्रस्तुतिः

तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ ।
हिमनिष्यन्दिनी प्रातर्निर्वातेव वनस्थली॥ ६६॥

मूलम्

तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ ।
हिमनिष्यन्दिनी प्रातर्निर्वातेव वनस्थली॥ ६६॥

मल्लिनाथः

तदिति॥ तयोर्गीतश्रवण एकाग्राऽऽसक्ता। अश्रुमुखी। आनन्दादिति भावः। संसत् सभा प्रातर्हिमनिष्यन्दिनी निर्वाता वातरहिता वनस्थलीव। बभौ शुशुभे। आनन्दपारवश्यान्निष्पन्दमास्त इत्यर्थः ॥ 66 ॥

विश्वास-प्रस्तुतिः

वयोवेषविसंवादि रामस्य च तयोस्तदा ।
जनता प्रेक्ष्य सादृश्यं नाक्षिकम्पं व्यतिष्ठत॥ ६७॥

मूलम्

वयोवेषविसंवादि रामस्य च तयोस्तदा ।
जनता प्रेक्ष्य सादृश्यं नाक्षिकम्पं व्यतिष्ठत॥ ६७॥

मल्लिनाथः

वय इति॥ जनता जनानां समूहः। ‘ग्रामजनबन्धुसहायेभ्यस्तल्’(पा.4।3।7) इति तल्प्रत्ययः। वयोवेषाभ्यामेव विसंवादि विलक्षणं तदा तयोः कुशलवयो रामस्य चच सादृश्यं प्रेक्ष्य। नास्त्यक्षिकम्पो यस्मिन्कर्मणि तद्यथा तथा,नञर्थस्य नशब्दस्य बहुव्रीहिः। व्यतिष्ठतातिष्ठत्। ‘समवप्रविभ्यः स्थः’(पा.1।3।22) इत्यात्मनेपदम्। विस्मयादनिमिषमद्राक्षीदित्यर्थः ॥ 67 ॥

विश्वास-प्रस्तुतिः

उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये ।
नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा॥ ६८॥

मूलम्

उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये ।
नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा॥ ६८॥

मल्लिनाथः

उभयोरिति॥ लोको जन उभयोः कुमारयोः प्राविण्येन नैपुण्येन तथा न विसिष्मिये न विस्मितवान्,यथा नृपतेः प्रीतिदानेषु वीतस्पृहतया नैःस्पृह्येण विसिष्मिये ॥ 68 ॥

विश्वास-प्रस्तुतिः

गेये को नु विनेता वां कस्य चेयं कृतिः कवेः ।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम्॥ ६९॥

मूलम्

गेये को नु विनेता वां कस्य चेयं कृतिः कवेः ।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम्॥ ६९॥

मल्लिनाथः

गेय इति॥ गेये गीते को नु वां युवयोर्विनेता शिक्षकः। ‘नु’शब्दः प्रश्ने। ‘नु पृच्छायां वितर्के च’ इत्यमरः। इयं च कस्य कवेः कृतिरिति राज्ञा स्वयं पृष्टौ तौ कुशलवौ वाल्मीकिमशंसतामुक्तवन्तौ। विनेतारं कविं चेत्यर्थः। ‘गेये केन विनीतौ वाम्’ इति पाठे ‘वा’ इति युष्मदर्थप्रतिपादकमव्ययं द्रष्टव्यम्। तथा चायमर्थः।-तेन पुंसा वां युवां गेये गीतविषये विनीतौ शिक्षितौ? कर्मणि निष्ठाप्रत्ययः ॥ 69 ॥

विश्वास-प्रस्तुतिः

अथ सावरजो रामः प्राचेतसमुपेयिवान् ।
ऊरीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत्॥ ७०॥

मूलम्

अथ सावरजो रामः प्राचेतसमुपेयिवान् ।
ऊरीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत्॥ ७०॥

मल्लिनाथः

अथेति॥ अथध सावरजो रामः प्राचेतसं वाल्मीकिमुपेयिवान् प्राप्तः सन्। देहमात्मानं ऊरीकृत्य। आत्मानं स्थापयित्वेत्यर्थः। राज्यमस्मै प्राचेतसाय न्यवेदयत् समर्पितवान् ॥ 70 ॥

विश्वास-प्रस्तुतिः

स तावाख्याय रामाय मैथिलीयौ तदात्मजौ ।
कविः कारुणिको वव्रे सीतायाः संपरिग्रहम्॥ ७१॥

मूलम्

स तावाख्याय रामाय मैथिलीयौ तदात्मजौ ।
कविः कारुणिको वव्रे सीतायाः संपरिग्रहम्॥ ७१॥

मल्लिनाथः

स इति॥ करुणा प्रयोजनमस्य कारुणिको दयासुः। ‘प्रयोजनम्’(पा.5।1।109) इति ठञ्। ‘स्यादृयालुः कारुणिकः’ इत्यमरः। स कवी रामाय तौ मैथिलेयौ तदात्मजौ रामसुतावाख्याय सीतायाः संपरिग्रहं स्वीकारं वव्रे ययाचे ॥ 71 ॥

विश्वास-प्रस्तुतिः

तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।
दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः॥ ७२॥

मूलम्

तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।
दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः॥ ७२॥

मल्लिनाथः

तातेति॥ हे तात! ते स्नुषा सीता नोऽस्माकम्। अक्ष्णोः समीपं समक्षम्। ‘अव्ययीभावे शरत्प्रभृतिभ्यः’(पा.5।4।107) इति समासान्तष्टच्। जातवेदसि वह्नौ शुद्धा। नास्माकमविश्वास इत्यर्थः। किंतु रक्षसो रावणस्य दौरात्म्यादत्रत्याः प्रजास्तां न श्रद्वधुर्न विशश्वसुः ॥ 72 ॥

विश्वास-प्रस्तुतिः

ताः स्वचारित्र्यमुद्दिश्य प्रत्याययतु मैथिली ।
ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया॥ ७३॥

मूलम्

ताः स्वचारित्र्यमुद्दिश्य प्रत्याययतु मैथिली ।
ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया॥ ७३॥

मल्लिनाथः

ता इति॥ मैथिली स्वचारित्रमुद्दिश्य ताः प्रजाः प्रत्याययतु विश्वासयतु। विश्वासस्य बुद्धिरूपत्वात् ‘णौ गमिरबोधने’(पा.2।4।46) इति इणो गम्यादेशो नास्ति। ततोऽनन्तरं पुत्रवतीमेनां सीतां त्वदाज्ञया प्रतिपत्स्ये स्वीकरिष्ये ॥ 73 ॥

विश्वास-प्रस्तुतिः

इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः ।
शिष्यैरानाययामास स्वसिद्धिं नियमैरिव॥ ७४॥

मूलम्

इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः ।
शिष्यैरानाययामास स्वसिद्धिं नियमैरिव॥ ७४॥

मल्लिनाथः

इतीति॥ राज्ञेति प्रतिश्रुते प्रतिज्ञाते सति मुनिराश्रमाज्जानकीं शिष्यैः प्रयोज्यैः स्वसिद्धिं स्वार्थसिद्धिं नियमैस्तपोभिरिव। आनाययामास ॥ 74 ॥

विश्वास-प्रस्तुतिः

अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः ।
कविमाह्वाययामास प्रस्तुतप्रतिपत्तये॥ ७५॥

मूलम्

अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः ।
कविमाह्वाययामास प्रस्तुतप्रतिपत्तये॥ ७५॥

मल्लिनाथः

अन्येद्युरिति॥ अथ काकुत्स्थो रामः। अन्येद्युरन्यस्मिन्नहनि प्रस्तुतप्रतिपत्तये प्रकृतकार्यानुसंधानाय पुरौकसः पौरान् संनिपात्य मेलयित्वा कविं वाल्मीकिम्। आह्वाययामासाकारयामास ॥ 75 ॥

विश्वास-प्रस्तुतिः

स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया ।
ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः॥ ७६॥

मूलम्

स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया ।
ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः॥ ७६॥

मल्लिनाथः

स्वरेति॥ अथ स्वर उदात्तादिः। संस्कारः शब्दशुद्धिः। तद्वत्या ऋचा सावित्र्योदर्चिषं सूर्यमिव। पुत्राभ्यामुपलक्षितया सीतया करणेनोदर्चिषं राममसौ मुनिरुपस्थित उपतस्थे ॥ 76 ॥

विश्वास-प्रस्तुतिः

काषायपरिवीतेन स्वपदार्पितचक्षुषा ।
अन्वमीयत शुद्धेति शान्तेन वपुषैव सा॥ ७७॥

मूलम्

काषायपरिवीतेन स्वपदार्पितचक्षुषा ।
अन्वमीयत शुद्धेति शान्तेन वपुषैव सा॥ ७७॥

मल्लिनाथः

काषायेति॥ कषायेण रक्तं काषायम्। ‘तेन रक्तं रागात्’(पा.4।2।1) इत्यण्। तेन परिवीतेन संवृतेन स्वपदार्पितचक्षुषा शान्तेन प्रसन्नेन वपुषैव सा सीता शुद्धा साध्वीत्यन्वमीयतानुमिता ॥ 77 ॥

विश्वास-प्रस्तुतिः

जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः ।
तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव शालयः॥ ७८॥

मूलम्

जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः ।
तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव शालयः॥ ७८॥

मल्लिनाथः

जना इति॥ तस्याः सीतायाः कर्मण आलोकपथाद्दर्शनमार्गात् प्रतिसंहृतचक्षुषो निवर्तितदृष्टयः सर्वे जनाः। फलिताः शालय इव अवाङ्मुखा अवनतमुखास्तस्थुः ॥ 78 ॥

विश्वास-प्रस्तुतिः

तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः ।
कुरु निःसंशयं वत्से स्ववृत्ते लोकमित्यशात्॥ ७९॥

मूलम्

तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः ।
कुरु निःसंशयं वत्से स्ववृत्ते लोकमित्यशात्॥ ७९॥

मल्लिनाथः

तामिति॥ आस्थितविष्टरोऽधिष्ठितासनो मुनिः। हे वत्से! भर्तुर्दृष्टिविषये समक्षं स्ववृत्ते स्वचरिते विषये लोकं निःसंशयं कुरु। इति तां सीतामशाच्छास्ति स्म ॥ 79 ॥

विश्वास-प्रस्तुतिः

अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः ।
आचम्योदीरयामास सीता सत्यां सरस्वतीम्॥ ८०॥

मूलम्

अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः ।
आचम्योदीरयामास सीता सत्यां सरस्वतीम्॥ ८०॥

मल्लिनाथः

अथेति॥ अथ वाल्मीकिशिष्येणावर्जितं दत्तं पुण्यं पय आचम्यसीता सत्यां सरस्वतीं वाचमुदीरयामासोञ्चारयामास ॥ 80 ॥

विश्वास-प्रस्तुतिः

वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे ।
तथा विश्वंभरे देवि मामन्तर्धातुमर्हसि॥ ८१॥

मूलम्

वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे ।
तथा विश्वंभरे देवि मामन्तर्धातुमर्हसि॥ ८१॥

मल्लिनाथः

वाङ्मन इति॥ वाङ्मनःकर्मभिः पत्यौ विषये मे व्यभिचारः स्खालित्यं न यथा नास्ति यदि तथा तर्हि। विश्वं बिभर्तीति विश्वंभरा भूमिः। ‘संज्ञायां भृतॄ-’ (पा.3।2।46) इत्यादिना खच्प्रत्ययः। ‘अरुर्द्विषत्-’(पा.6।3।67) इत्यादिना मुमागमः। हे विशअवंभरे देवि! मामन्तर्धातुं गर्भे वासयितुमर्हसि ॥ 81 ॥

विश्वास-प्रस्तुतिः

एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः ।
शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ॥ ८२॥

मूलम्

एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः ।
शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ॥ ८२॥

मल्लिनाथः

एवमिति॥ साध्व्या पतिव्रतया तया सीतयैवमुक्ते सति सद्योभवाद्भुवो रन्ध्राच्छातह्रदं वैद्युतं ज्योतिरिव प्रभामण्डलमुद्ययौ ॥ 82 ॥

विश्वास-प्रस्तुतिः

तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी ।
समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा॥ ८३॥

मूलम्

तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी ।
समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा॥ ८३॥

मल्लिनाथः

तत्रेति॥ तत्र प्रभामण्डले नागफणोत्क्षिप्ते सिंहासने निषेदुष्यासीना समुद्ररशना समुद्रमेखला साक्षात्। वसूनि धारयतीति वसुंधरा भूमिः। ‘खचि ह्रस्वः’(पा.6।4।94) इति ह्रस्वः। प्रादुरासीत् ॥ 83 ॥

विश्वास-प्रस्तुतिः

सा सीतामङ्कमारोप्य भर्तृप्रणिहितेक्षणाम् ।
मामेति व्याहरत्येव तस्मिन्पातालमभ्यगात्॥ ८४॥

मूलम्

सा सीतामङ्कमारोप्य भर्तृप्रणिहितेक्षणाम् ।
मामेति व्याहरत्येव तस्मिन्पातालमभ्यगात्॥ ८४॥

मल्लिनाथः

सेति॥ सा वसुंधरा भर्तरि प्रणिहितेक्षणां दत्तदृष्टिं सीतामङ्कमारोप्य तस्मिन्भर्तरि रामे मा मेति मा हरेति व्याहरति वदत्येव। व्याहरन्तमनादृत्येत्यर्थः। ‘षष्ठी चानादरे’(पा.2।3।38) इति सप्तमी। पातालमभ्यगात् ॥ 84 ॥

विश्वास-प्रस्तुतिः

धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणः ।
गुरुर्विधिबलापेक्षी शमयामास धन्विनः॥ ८५॥

मूलम्

धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणः ।
गुरुर्विधिबलापेक्षी शमयामास धन्विनः॥ ८५॥

मल्लिनाथः

धरायामिति॥ सीताप्रत्यर्पणमिच्छतीति तथोक्तस्य धन्विन आत्तधनुषस्तस्य रामस्य धरायां विषये संरम्भं विधिबलापेक्षी दैवशक्तिदर्शीं गुरुर्ब्रह्मा शमयामास। अवश्यंभावी विधिरिति भावः ॥ 85 ॥

विश्वास-प्रस्तुतिः

ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् ।
रामः सीतागतं स्नेहं निदधे तदपत्ययोः॥ ८६॥

मूलम्

ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् ।
रामः सीतागतं स्नेहं निदधे तदपत्ययोः॥ ८६॥

मल्लिनाथः

ऋषीनिति॥ रामो यज्ञान्ते पुरस्कृतान्पूजितान्। ऋषीन्सुहृदश्च विसृज्य सीतागतं स्नेहं तदपत्ययोः कुशलवयोर्निदधे ॥ 86 ॥

विश्वास-प्रस्तुतिः

युधाजितस्य संदेशात्स देशं सिन्धुनामकम् ।
ददौ दत्तप्रभावाय भरताय भृतप्रजः॥ ८७॥

मूलम्

युधाजितस्य संदेशात्स देशं सिन्धुनामकम् ।
ददौ दत्तप्रभावाय भरताय भृतप्रजः॥ ८७॥

मल्लिनाथः

युधाजित इति॥ किंच,भृतप्रजः स रामो युधाजितो भरतमातुलस्य संदेशात्सिन्धुनामकं देशं दत्तप्रभावाय दत्तैश्वर्याय। रामेणेति शेषः। भरताय ददौ ॥ 87 ॥

विश्वास-प्रस्तुतिः

भरतस्तत्र गन्धर्वान्युधि निर्जित्य केवलम् ।
आतोद्यं ग्राहयामास समत्याजयदायुधम्॥ ८८॥

मूलम्

भरतस्तत्र गन्धर्वान्युधि निर्जित्य केवलम् ।
आतोद्यं ग्राहयामास समत्याजयदायुधम्॥ ८८॥

मल्लिनाथः

भरत इति॥ तत्र सिन्धुदेशे भरतोऽपि युधि गन्धर्वान्निर्जित्य केवलमेकमातोद्यं वीणाम्। ‘ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्। वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्। चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्।’ इत्यमरः। ग्राहयामास। आयुधं समत्याजयत् त्याजितवान्। ग्रहित्यज्योर्ण्यन्तयोर्द्विकर्मकत्वं नित्यमित्यनुसंधेयम् ॥ 88 ॥

विश्वास-प्रस्तुतिः

स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः ।
अभिषिच्याभिषेकार्हौ रामान्तिकमगात्पुनः॥ ८९॥

मूलम्

स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः ।
अभिषिच्याभिषेकार्हौ रामान्तिकमगात्पुनः॥ ८९॥

मल्लिनाथः

स इति॥ स भरतः। अभिषेकार्हौ तक्षपुष्कलौ नाम पुत्रौ तदाख्ययोः। तक्षपुष्कलाख्ययोरित्यर्थः। पुष्कलं पुष्कलावत्यां तक्षं तक्षशिलायामिति राजधान्योर्नगर्योरभिषिच्य पुना रामान्तिकमगात् ॥ 89 ॥

विश्वास-प्रस्तुतिः

अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ ।
शासनाद्रघुनाथस्य चक्रे कारापथेश्वरौ॥ ९०॥

मूलम्

अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ ।
शासनाद्रघुनाथस्य चक्रे कारापथेश्वरौ॥ ९०॥

मल्लिनाथः

अङ्गदमिति॥ लक्ष्मणोऽपि रघुनाथस्य रामस्य शासनादङ्गदं चन्द्रकेतुं च तदाख्यावात्मसंभवौ पुत्रौ। कारापथो नाम देशः। तस्येश्वरौ चक्रे ॥ 90 ॥

विश्वास-प्रस्तुतिः

इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः ।
भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमात्॥ ९१॥

मूलम्

इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः ।
भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमात्॥ ९१॥

मल्लिनाथः

इतीति॥ इत्यारोपितपुत्रास्ते जनेश्वरा रामादयो भर्तृलोकप्रपन्नानां स्वर्यातानां जननीनां क्रमान्निवापाञ्श्राद्धादीन्विदधुश्चक्रुः ॥ 91 ॥

विश्वास-प्रस्तुतिः

उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवम् ।
रहःसंवादिनौ पश्येदावां यस्तं त्यजेरिति॥ ९२॥

मूलम्

उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवम् ।
रहःसंवादिनौ पश्येदावां यस्तं त्यजेरिति॥ ९२॥

मल्लिनाथः

उपत्यिति॥ अथ कालोऽन्तको मुनिवेषः सन्नुपेत्य राघवं प्रोवाच। किमित्याह-रहस्येकान्ते संवादिनौ संभाषिणावावां यः पश्येत्। रहस्यभङ्गं कुर्यादित्यर्थः। तं त्यजेरिति ॥ 92 ॥

विश्वास-प्रस्तुतिः

तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः ।
आचख्यौ दिवमध्यास्व शासनात्परमेष्ठिनः॥ ९३॥

मूलम्

तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः ।
आचख्यौ दिवमध्यास्व शासनात्परमेष्ठिनः॥ ९३॥

मल्लिनाथः

तथेति॥ स कालस्तथेति प्रतिपन्नाय नृपाय रामाय विवृतात्मा प्रकाशितनिजस्वरूपः सन्। परमेष्ठिनो ब्रह्मणः शासनाद्दिवमध्यास्वेत्याचख्यौ ॥ 93 ॥

विश्वास-प्रस्तुतिः

विद्वानपि तयोर्द्वाःस्थः समयं लक्ष्मणोऽभिनत् ।
भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिना॥ ९४॥

मूलम्

विद्वानपि तयोर्द्वाःस्थः समयं लक्ष्मणोऽभिनत् ।
भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिना॥ ९४॥

मल्लिनाथः

विद्वानिति॥ द्वाःस्थो द्वारि नियुक्तो लक्ष्मणो विद्वानपि पूर्वश्लोकोक्तं जानन्नपि रामसंदर्शनार्थिनो दुर्वाससो मुनेः शापाद्भीतः सन्। तयोः काल-रामयोः समयं संवादम्। अभिनद्बिभेद ॥ 94 ॥

विश्वास-प्रस्तुतिः

स गत्वा सरयूतीरं देहत्यागेन योगवित् ।
चकारावितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः॥ ९५॥

मूलम्

स गत्वा सरयूतीरं देहत्यागेन योगवित् ।
चकारावितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः॥ ९५॥

मल्लिनाथः

स इति॥ योगविद्योगमार्गवेदी स लक्ष्मणः सरयूतीरं गत्वा देहत्यागेन पूर्वजन्मनो भ्रातुः प्रतिज्ञामवितथां सत्यां चकार ॥ 95 ॥

विश्वास-प्रस्तुतिः

तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि ।
राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव॥ ९६॥

मूलम्

तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि ।
राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव॥ ९६॥

मल्लिनाथः

तस्मिन्निति॥ चतुर्थो भागश्चतुर्भागः। संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वं शतांशवत्। आत्मचतुर्भागे तस्मिंल्लक्ष्मणे प्राङ्नाकमधितस्थुषि पूर्वं स्वर्गं जग्मुषि सति राघवो रामः भुवि त्रिपाद्धर्म इव। शिथिलं तस्थौ । पादविकलो हि शिथिलं तिष्ठतीति भावः। त्रेतायां धर्मस्त्रिपादित्याहुः। पादश्चतुर्थांशुः अङ्घ्रिश्च ध्वन्यते। ‘पादा रश्म्यङ्घ्रितुर्यांशाः’ इत्यमरः। त्रयः पादा यस्यासौ त्रिपात्। ‘संख्यासुपूर्वस्य’(पा.5।4।140) इत्यकारलोपः समासान्तः ॥ 96 ॥

विश्वास-प्रस्तुतिः

स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् ।
शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम्॥ ९७॥

मूलम्

स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् ।
शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम्॥ ९७॥

मल्लिनाथः

अग्रिमं श्लोकम् ईक्षताम्।

विश्वास-प्रस्तुतिः

उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः ।
अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया॥ ९८॥

मूलम्

उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः ।
अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया॥ ९८॥

मल्लिनाथः

स इति॥ उदगिति च। युग्मम्। स्थिरधीः स रामः। रिपव एव नागा गजास्तेषामङ्कुशं निवारकं कुशं कुशावत्यां पुर्यां निवेश्य स्थापयित्वा। सूक्तैः समीचीनवचनैः सतां जनिता अश्रुलवा अश्रुलेशा येन तं लवं लवाख्यं पुत्रम्। ‘लवो लेशे विलासे च छेदने रामनन्दने’ इति विश्वः। शरावत्यां पुर्याम्। ‘शरादीनां च’(पा.6।3।120)इति ‘शर’-‘कुश’ शब्दयोर्दीर्घः। निवेश्य। सानुजोऽग्निपुरःसरः सन्। पत्यौ भर्तरि वात्सल्यादनुरागात्। गृहान् वर्जयित्वा गृहवर्जम्। ‘द्वितीयायां च’(पा.3।4।53) इति णमुल्। अयं क्वचिदपरीप्सायामपीष्यते ‘अनुदात्तं पदमेकवर्जम्’(पा.6।1।158) इत्येकाचः शेषतया व्याख्यातत्वात्। परीप्सा त्वरा। अयोध्ययान्वितोऽनुगत उदक्प्रतस्थे ॥ 97-98 ॥

विश्वास-प्रस्तुतिः

जगृहुस्तस्य चित्तज्ञाः पदवीं हरिराक्षसाः ।
कदम्बमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभिः॥ ९९॥

कदम्बमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभिः ॥ 99 ॥

विश्वास-प्रस्तुतिः

उपस्थितविमानेन तेन भक्तानुकम्पिना ।
चक्रे त्रिदिवनिःश्रेणिः सरयूरनुयायिनाम्॥ १००॥

मूलम्

उपस्थितविमानेन तेन भक्तानुकम्पिना ।
चक्रे त्रिदिवनिःश्रेणिः सरयूरनुयायिनाम्॥ १००॥

मल्लिनाथः

उपस्थितेति॥ उपस्थितं प्राप्तं विमानं यस्य तेन। भक्ताननुकम्पत इति भक्तानुकम्पिना। तेन रामेणानुयायिनां सरयूस्त्रिदिवनिःश्रेणिः स्वर्गाधिरोहणी चक्रे। ‘निःश्रेणिस्त्वधिरोहणी’ इत्यमरः ॥ 100 ॥

विश्वास-प्रस्तुतिः

यद्गोप्रतरकल्पोऽभूत्संमर्दस्तत्र मज्जताम् ।
अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे॥ १०१॥

मूलम्

यद्गोप्रतरकल्पोऽभूत्संमर्दस्तत्र मज्जताम् ।
अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे॥ १०१॥

मल्लिनाथः

यदिति॥ यद्यस्मात्तत्र सरय्वां मज्जतां संमर्दः। गोप्रतरो गोप्रतरणम्। तत्कल्पोऽभूत्। अतस्तदाख्यया गोप्रतराख्यया पावनं शोधकं तीर्थं भुवि पप्रथे ॥ 101 ॥

विश्वास-प्रस्तुतिः

स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु ।
त्रिदशीभूतपौराणां स्वर्गान्तरमकल्पयत्॥ १०२॥

मूलम्

स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु ।
त्रिदशीभूतपौराणां स्वर्गान्तरमकल्पयत्॥ १०२॥

मल्लिनाथः

स इति॥ विभुः प्रभुः स रामो विबुधानामंशेषु सुग्रीवादिषु प्रतिपन्नात्ममूर्तिषु सत्सु त्रिदशीभूतां देवभुवनं गता ये पौरास्तेषां नूतनसुराणां स्वर्गान्तरमकल्पयत् ॥ 102 ॥

विश्वास-प्रस्तुतिः

निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां विष्वक्सेनः स्वतनुमविशत्सर्वलोकप्रतिष्ठाम् ।
लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा कीर्तिस्तम्भद्वयमिव गिरौ दक्षिणे चोत्तरे च॥ १०३॥

मूलम्

निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां विष्वक्सेनः स्वतनुमविशत्सर्वलोकप्रतिष्ठाम् ।
लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा कीर्तिस्तम्भद्वयमिव गिरौ दक्षिणे चोत्तरे च॥ १०३॥

मल्लिनाथः

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ श्रीरामस्वर्गारोहणो नाम पञ्चदशः सर्गः ।
निर्वर्त्येति॥ विष्वक्सेनो विष्णुः। एवं सुराणां दशमुखशिरश्छेदकार्यं निर्वर्त्य निष्पाद्य। लङ्कानाथं बिभीषणं पवनतनयं हनूमन्तं चोभयं कीर्तिस्तम्भद्वयमिव। दक्षिणे गिरौ चित्रकूटे चोत्तरे गिरौ हिमवति च स्थापयित्वा। सर्वलोकप्रतिष्ठां सर्वलोकाश्रयभूतां स्वतनुं स्वमूर्तिमविशत् ॥ 103 ॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ श्रीरामस्वर्गारोहणो नाम पञ्चदशः सर्गः ॥