१५

पञ्चदशः सर्गः।
आरण्यकं गृहस्थानं श्वशुरौ यद्रजःकणाः ।
स्वयमौद्वाहिकं गेहं तस्मै रामाय ते नमः ॥
कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।
बुभुजे पृथिवीपालः पृथिवीमेव केवलम् ॥ 1 ॥

01

कृतेति॥ कृतसीतापरित्यागः स पृथिवीपालो रामो रत्नाकर एव मेखला यस्यास्ताम्। सार्णवामित्यर्थः। केवलाम्। एकामित्यर्थः। पृथिवीमेव। बूभुजे भुक्तवान्। नतु पार्थिवीमित्यर्थः। सापि रत्नखचितमेखलाः। पृथिव्याः कान्तासमाधिर्व्यज्यते। रामस्य स्त्र्यन्तरपरिग्रहो नास्तीति श्लोकाभिप्रायः ॥ 1 ॥

लवणेन विलुप्तेज्यास्तामिस्नेण तमभ्ययुः ।
मुनयो यमुनाभाजः शरण्यं शरणार्थिनः ॥ 2 ॥

02

लवणेनेति॥ लवणेन लवणाख्येन तामिस्रेण तमिस्राचारिणा। रक्षसेत्यर्थः। विलुप्तेज्या लुप्तयागक्रिया अत एव शरणार्थिनो रक्षणार्थिनो यमुनाभाजो यमुनातीरवासिनो मुनयः शरण्यं शरणार्हं रक्षणसमर्थं तं रामं रक्षितारमभ्ययुः प्राप्ताः। यातेर्लङ् ॥ 2 ॥

अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुः स्वतेजसा ।
त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् ॥ 3 ॥

03

अवेक्ष्येति॥ ते मुनयो राममवेक्ष्य। रक्षितारमिति शेषः। तस्मिंल्लवणे स्वतेजसा शापरूपेण न प्रजह्रुः। तथा हि-त्रायत इति त्राणं रक्षकम्। कर्तरि ल्यट्। तदभावे शाप एवास्त्रं येषां ते शापास्त्राः सन्तस्तपसो व्ययं कुर्वन्ति। शापदानात्तपसो व्यय इति प्रसिद्धेः ॥ 3 ॥

प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियाम् ।
धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शार्ङ्गिणः ॥ 4 ॥

04

प्रतीति॥ काकुत्स्थो रामस्तेभ्यो मुनिभ्यो विघ्नप्रतिक्रियां लवणवधरूपां प्रतिशुश्राव प्रतिजज्ञे। तथा हि-भुवि शार्ङ्गिणो विष्णोः प्रवृत्ती रामरूपेणावतरणं धर्मसंरक्षणमेवार्थः प्रयोजनं यस्याः सा तथैव ॥ 4 ॥

ते रामाय वधोपायमाचख्युर्विबुधद्विषः ।
दुर्जयो लवणः शूली विशूलः प्रार्थ्यतामिति ॥ 5 ॥

05

त इति॥ ते मुनयो रामस्य विबुधद्विषः सुरारेर्लवणस्य वधोपायमाचखअयुः। लुनातीति लवणः। नन्द्यादित्वाल्ल्युः। तत्रैव निपातनाण्णत्वम्। लवणः शूली शूलवान् दुर्जयोऽजेयः। किंतु विशूलः शूलरहितः प्रार्थ्यतामभिगम्यताम्। ‘याञ्चायामभिमाने च प्रार्थना कथ्यते बुधैः’ इति केशवः ॥ 5 ॥

आदिदेशाथ शत्रुघ्ने तेषां क्षेमाय राघवः ।
करिष्यन्निव नामास्य यथार्थमरिनिग्रहात् ॥ 6 ॥

06

आदिदेशेति॥ अथ तेषां मुनीनां क्षेमाय क्षेमकरणाय राघवो रामः शत्रुघअनमादिदेश। अत्रोत्प्रेक्ष्यते-अस्य शत्रुघ्नस्य नाम अरिनिग्रहाच्छत्रुहननाद्धेतोः। यथाभूतोऽर्थो यस्य तद्यथार्थं करिष्यन्निव। शत्रुन्दन्तीति शत्रुघ्नः। ‘अमनुष्यकर्तृके च’(पा.3।2।53) इति चकारात्कृतघ्नशत्रुघ्नादयः सिद्धा इति दुर्गसिंहः। पाणिनीयेऽपि बहुलग्रहणाद्यथेष्टसिद्धिः ‘कृततल्युटो बहुलम्’(पा.3।3।113) इति ॥ 6 ॥

रामस्य स्वयमप्रयाणे हेतुमाह-
यः कश्चन रघूणां हि परमेकः परंतपः ।
अपवाद इवोत्सर्गं व्यावर्तयितुमीश्वरः ॥ 7 ॥

07

य इति॥ हि यस्मात्। पराञ्छत्रूंस्तापयतीति परंतपः। ‘द्विषत्परयोस्तापेः’(पा.3।2।39) इति खच्प्रत्ययः। ‘खचि ह्रस्वः’(पा.6।4।94) इति ह्रस्वः। रघूणां मध्ये यः कश्चनैकः। अपवादो विशेषशास्त्रमुत्सर्गं सामान्यशास्त्रमिव। परं शत्रुं व्यावर्तयितुं बाधितुमीश्वरः समर्थः। अतः शत्रुघअनमेवादिदेशेति पूर्वेणान्वयः ॥ 7 ॥

अग्रजेन प्रयुक्ताशीस्ततो दाशरथी रथी ।
ययौ वनस्थलीः पश्यन्पुष्पिताः सुरभीरभीः ॥ 8 ॥

08

अग्रजेनेति॥ ततोऽग्रजेन रामेण प्रयुक्ताशीः कृताशीर्वादो रथी रथिकोऽभीर्निर्भीको दाशरथिः पुष्पाणि संजातानि यासां ताः पुष्पिताः सुरभीरामोदमाना वनस्थलीः पश्यन्ययौ ॥ 8 ॥

रामादेशादनुगता सेना तस्यार्थसिद्धये ।
पश्चादध्ययनार्थस्य धातोरधिरिवाभवत् ॥ 9 ॥

09

रामेति॥ रामादेशादनुगता सेना तस्य शत्रुघ्नस्य। अध्ययनमर्थोऽभिधेयो यस्य तस्य। धातोः ‘इङध्ययने’इत्यस्य धातोः पश्चादधिरध्युपसर्ग इव। अर्थसिद्धये प्रयोजनसाधनायेत्येकत्र। अन्यत्र,-अभिधेयसाधनाय। अभवत्। ‘अर्थोऽभिधैयरैवस्तुप्रयोजननिवृत्तिषु’ इत्यमरः। यथा’इङिकावध्युपसर्गं न व्यभिचरतः’ इति न्यायेनाध्युपसर्गः स्वयमेवार्थसाधकस्य धातोः संनिधिमात्रेणोपकरोति,सेनापि तस्य तद्वदिति भावः ॥ 9 ॥

आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपतां वरः ।
विरराज रथप्रष्ठैर्वालखिल्यैरिवांशुमान् ॥ 10 ॥

100

उपस्थितेति॥ उपस्थितं प्राप्तं विमानं यस्य तेन। भक्ताननुकम्पत इति भक्तानुकम्पिना। तेन रामेणानुयायिनां सरयूस्त्रिदिवनिःश्रेणिः स्वर्गाधिरोहणी चक्रे। ‘निःश्रेणिस्त्वधिरोहणी’ इत्यमरः ॥ 100 ॥

तस्य मार्गवशादेका बभूव वसतिर्यतः ।
रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ॥ 11 ॥

11

तस्येति॥ यतो गच्छतः। इण्धातोः शदृप्रत्ययः। तस्य शत्रुघ्नस्य मार्गवशाद्रथस्वन उत्कण्ठा उद्गीवा मृगा यस्मिंस्तस्मिन्वाल्मीकीये वाल्मीकिसंबन्धिनि। ‘वृद्धाच्छः’(पा.4।2।114) इति छप्रत्ययः। तपोवन एका वसती रात्रिर्बभूव। तत्रैकां रात्रिमुषित इत्यर्थः। ‘वसती रात्रिवेश्मनोः’ इत्यमरः। 15.11 ॥
तमृषिः पूजयामास कुमारं क्लान्तवाहनम् । ॥ 11 ॥

तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः ॥ 12 ॥

12

तमिति॥ क्लान्तवाहनं श्रान्तयुग्यं तं कुमारं शत्रुघ्नमृषिर्वाल्मीकिस्तपः प्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिरुत्कृष्टसंभावनाभिः पूजयामास ॥ 12 ॥

तस्यामेवस्य यामिन्यामन्तर्वत्नी प्रजावती ।
सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः ॥ 13 ॥

13

तस्यामिति॥ तस्यामेव यामिन्यां रात्रौ। अस्य शत्रुघ्नस्य। अन्तरस्या अस्तीत्यन्तर्वत्नी गर्भिणी ‘अन्तर्वत्नी च गर्भिणी’ इत्यमरः। ‘अन्तर्वत्पतिवतोर्मुक्’ (पा.4।1।32) इति ङीप्,नुगागमश्च। प्रजावती भ्रातृजाया सीता। क्षितिः संपन्नौ समग्रौ कोशदण्डाविव। सुतावसूत ॥ 13 ॥

संतानश्रवणाद्भ्रातुः सौमित्रिः सौमनस्यवान् ।
प्राञ्जलिर्मुनिमामन्त्र्य प्रातर्युक्तरथो ययौ ॥ 14 ॥

14

संतानेति॥ भ्रातुर्ज्येष्ठस्य संतानश्रवणाद्धेतोः सौमनस्यवान्प्रीतिमान् सौमित्रिः शत्रुघ्नः प्रातर्युक्तरथः सज्जरथः सन्। प्राञ्जलिः कृताञ्जलिर्मुनिमामन्त्रअयापृच्छ्य ययौ ॥ 14 ॥

स च प्राप मधूपघ्नं कुम्भीनस्याशअच कुक्षिजः ।
वनात्करमिवादाय सत्त्वराशिमुपस्थितः ॥ 15 ॥

15

स चेति॥ स शत्रुश्च मधूपघअनं नाम लवणपुरं प्राप। कुम्भीनसी नाम रावणस्वसा। तस्याः कुक्षिजः पुत्रो लवणश्च वनात्करं बलिमिव सत्त्वानां प्राणिनां राशिमादायोपस्थितः प्राप्तः ॥ 15 ॥

धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः ।
क्रव्याद्गणपरीवारश्चिताग्निरिव जंगमः ॥ 16 ॥

16

धूमेति॥ किंभूतो लवणः? धूम इव धूम्रः कृष्णलोहितवर्णः। ‘धूम्रधूमलौ कृष्णलोहिते’ इत्यमरः। वसागन्धो हृन्मेदोगन्धः। सोऽस्यास्तीति वसागन्धी। ‘हृन्मेदस्तु वपा वसा’ इत्यमरः। ज्वाला इव बभ्रवः पिशङ्गाः शिरोरुहाः केशा यस्य स तथोक्तः। ‘विपुले नकुले विष्णौ बभ्रुः स्यात्पिङ्गले त्रिषु’ इत्यमरः। क्रव्यं मांसमदन्तीति क्रव्यादो राक्षसाः,तेषां गण एव परीवारो यस्य स तथोक्तः। अत एव जंगमश्चरिष्णुशअचिताग्निरिव स्थितः। कृशानुपक्षे,-धूमैर्धूम्रवर्णः। ज्वाला एव शिरोरुहाः। क्रव्यादो गृध्रादयः इत्यनुसंधेयम् ॥ 16 ॥

अपशूलं तमासाद्य लवणं लक्ष्मणानुजः ।
रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम् ॥ 17 ॥

17

अपशूलमिति॥ लक्ष्मणानुजः शत्रुघ्नोऽपशूलं शूलरहितं तं लवणमासाद्य रुरोध। तथा हि-रन्ध्रप्रहारिणां रन्ध्रप्रहरणशीलानाम्। अपशूलतैवात्र रन्धअरम्। जयः संमुखीनो हि संमुखस्य दर्शनो हि। ‘यथामुखसंमुखस्य दर्शनः खः’(पा.5।2।6) इति खप्रत्ययः। अधिकारलक्षणार्थस्तु दुर्लभ एव ॥ 17 ॥

नातिपर्याप्तमालक्ष्य मत्कुक्षेरद्य भोजनम् ।
दिष्ट्या त्वमसि मे धात्रा भीतेनेवोपपादितः ॥ 18 ॥
इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया ।
प्रांशुमुत्पाटयामास मुस्तास्तम्बमिव द्रुमम् ॥ 19 ॥

19

नेति॥ इतीति॥ युग्मम्। राक्षसो लवणः। अद्य मत्कुक्षेः। भुज्यत इति भोजनम्। भोज्यं मृगादिकं नातिपर्याप्तमनतिसमग्रमालक्षअय दृष्ट्वा भीतेनेव धात्रा दिषअट्या भाग्येन मे त्वमुपपादितः कल्पितोऽसि। इति शत्रुघ्नं संतर्ज्य तस्य शत्रुघ्नस्य जिघांसया हन्तुमिच्छया प्रांशुमुन्नतं द्रुमम्। मुस्तास्तम्बमिव अक्लेशेनोत्पाटयामास ॥ 18-19 ॥

सौमित्रेर्निशितैर्बाणैरन्तरा शकलीकृतः ।
गात्रं पुष्परजः प्राप न शाखी नैर्ऋतेरितः ॥ 20 ॥

20

सौमित्रेरिति॥ नैर्ऋतेरितो रक्षःप्रेरितः शाख्यन्तरा मध्ये निशइतैर्बाणैः शकलीकृतः सन्,सौमित्रेः शत्रुघ्नस्य गात्रं न प्राप। किंतु पुष्परजः प्राप ॥ 20 ॥

विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलम् ।
प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितम् ॥ 21 ॥

21

विनाशादिति॥ रक्षो लवणस्तस्य विनाशाद्धेतोः। महोपलं महान्तं पाषाणम्। पृथक्स्थितं कृतान्तस्य यमस्य मुष्टिमिव। ‘मुष्टि’ शब्दो द्विलिङ्गः। तस्मै शत्रुघ्नाय प्रजिघाय प्रहितवान् ॥ 21 ॥

ऐन्द्रमस्त्रमुपादाय शत्रुघ्नेन स ताडितः ।
सिकतात्वादपि परां प्रपेदे परमाणुताम् ॥ 22 ॥

22

ऐन्द्रमिति॥ स महोपलः शत्रुघ्नेनैन्द्रमिन्द्रदेवताकमस्त्रमुपादाय ताडितोऽभिहतः सन्। सिकतात्वात्सिकताभावादपि परां परमाणुतां प्रपेदे। यतोऽणुर्नास्ति स परमाणिरित्याहुः ॥ 22 ॥

तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः ।
एकताल इवोत्पातपवनप्रेरितो गिरिः ॥ 23 ॥

23

तमिति॥ निशाचरो राक्षसो दक्षिणं दोः। ‘ककुद्दोषणी’ इति भगवतो भाष्यकारस्य प्रयोगाद्दोषशब्दस्य नपुंसकत्वं द्रष्टव्यम्। ‘भुजबाहू प्रवेष्टो दोः’ इति पुंलिङ्गसाहचर्यात्पुंस्त्वं च। तथा च प्रयोगः-‘दोषं तस्य तथाविधस्य भजते’ इति। सव्येतरं बाहुमुद्यम्य। एकस्तालस्तदाख्यवृक्षो यस्मिन्स एकतालः। उत्पातपवनेन प्रेरितो गिरिरिव। तं शत्रुघ्नमुपाद्रवदभद्रुतः ॥ 23 ॥

कार्ष्णेन पत्रिणा शत्रुः स भिन्नहृदयः पतन् ।
अनिनाय भुवः कम्पं जहाराश्रमवासिनाम् ॥ 24 ॥

24

कार्ष्णेनेति॥ स शत्रुर्लवणः। कार्ष्णेन वैष्णवेन पत्रिणा बाणेन। उक्तं च रामायणे-‘एवमेष प्रजनितो विष्णोस्तेजोमयः शरः’इति। ‘विष्णुर्नारायण कृष्णः’ इत्यमरः। भिन्नहृदयः पतन्,भुवः कम्पमानिनायानीतवान्। देहभारादित्यर्थः। आश्रमवासिनां कम्पं जहार। तन्नाशादकुतोभया बभूवुरित्यर्थः॥ 24 ॥

वयसां पङ्क्तयः पेतुर्हतस्योपरि विद्विषः ।
तत्प्रतिद्वन्द्विनो मूर्धअनि दिव्याः कुसुमवृष्टयः ॥ 25 ॥

25

वयसामिति॥ हतस्य विद्वेष्टीति विद्विट् तस्य विद्विषो राक्षसस्योपरि वयसां पक्षिणां पङ्क्तयः पेतुः। तत्प्रतिद्वन्द्विनः शत्रुघ्नस्य मूर्न्धि तु दिव्याः कुसुमवृष्टयः पेतुः ॥ 25 ॥

स हत्वा लवणं वीरस्तदा मेने महौजसः ।
भ्रातुः सोदर्यमात्मानमिन्द्रजिद्वधशोभिनः ॥ 26 ॥

26

स इति॥ स वीरः शत्रुघ्नो लवणं हत्वा तदाऽऽत्मानं महौजसो महाबलस्येन्द्रजिद्वधेन शोभिनो भ्रातुर्लक्ष्मणस्य समानोदरे शयितं सोदर्यमेकोदरं मेने। ‘सोदराद्यः’(पा.4।4।109) इति यप्रत्ययः ॥ 26 ॥

तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः ।
शुशुभे विक्रमोदग्नं व्रीडयावनतं शिरः ॥ 27 ॥

27

तस्येति॥ चरितार्थैः कृतार्थैः कृतकार्यैस्तपस्विभिः संस्तूयमानस्य तस्य शत्रुघ्नस्य विक्रमेणोदग्रमुन्नतं व्रीडया लज्जयावनतं नम्रं शिरः शुशुभे। विक्रान्तस्य लज्जैव भूषणमिति भावः ॥ 27 ॥

उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः ।
निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः ॥ 28 ॥

28

उपेति॥ पौरुषभूषणः। अर्थेषु विषयेषु निर्ममो निःस्पृहः। मधुराकृतिः सौम्यरूपः। स शत्रुघ्नः कालिन्द्या यमुनाया उपकूलं कूले। विभक्त्यर्थेऽव्ययीभावः। मथुरां नाम पुरीं निर्ममे निर्मितवान् ॥ 28 ॥

या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता ॥ 29 ॥

29

येति॥ या पूः। शत्रुघ्नः शोभनो राजा यस्याः पुरः सा सुराज्ञी,सुराज्ञ्या भावः सौराज्यम्। तेन प्रकाशाभिः प्रकाशमानाभिः पौराणां विभूतिभिरैश्वर्यैः। स्वर्गस्याभिष्यन्दोऽतिरिक्तजनस्तस्य वमनमाहरणं कृत्वा,उपनिवेशितोपस्थापितेव बभौ। अत्र कौटिल्यः-‘भूतपूर्वमभूतपूर्वं वा जनपदं परदेशप्रवाहेण स्वदेशाभिष्यन्दवमनेने वा निवेशयेत्’ इति ॥ 29 ॥

तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीम् ।
हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये ॥ 30 ॥

30

तत्रेति॥ तत्र मथुरायां सौधगतो हर्म्यारूढः स चक्रवाकिनीं चक्रवाकवतीं यमुनाम्। हेमभक्तिमतीं सुवर्णरचनावतीं भूमेः प्रवेणीं वेणीमिव। ‘वेणिः प्रवेणी’ इत्यमरः। पश्यन्पिप्रिये प्रीतः। ‘प्रीङ् प्रीणने’ इति धातोर्दैवादिकाल्लिट् ॥ 30 ॥

संप्रति रामसंतानवृत्तान्तमाह-
सखा दशरथस्यापि जनकस्य च मन्त्रकृत् ।
संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधइ ॥ 31 ॥

31

सखेति॥ दशरथस्य जनकस्य च सखा मन्त्रकृन्मन्त्रद्रष्टा स वाल्मीकिरपि। ‘सुकर्मपापमन्त्रपुण्येषु कृञः’(पा.3।2।89) इति क्विप्। उभयोर्दशरथजनकयोः प्रीत्या स्नेहेन मैथिलेयौ मैथिलीपुत्रौ यथाविधि यथाशास्त्रं संचस्कार संस्कृतवान्। जातकर्मादिभिरिति शेषः ॥ 31 ॥

स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया ।
कविः कुळलवावेव चकार किल नामतः ॥ 32 ॥

32

स इति॥ स कविर्वाल्मीकिः कुशैर्दर्भैर्लवैर्गोपुच्छलोमभिः। ‘लवो लवणकिञ्जल्कपक्ष्मगोपुच्छलोमसु’ इति वैजयन्ती। उन्मृष्टो गर्भक्लेदो गर्भोपद्रवो ययोस्तौ कुशलवोन्मृष्टगर्भक्लेदौ तौ मैथिलेयौ तेषां कुशानां च लवानां चाख्यया नामतो नाम्ना यथासंख्यं कुशलवावेव चकार किल। कुशोन्मृष्टः कुशः। लवोन्मृष्टो लवः ॥ 32 ॥

साङ्गं च वेदमध्याप्य किंचिदुत्क्रान्तशैशवौ ।
स्वकृतिं गापयामास कविप्रथमपद्धतिम् ॥ 33 ॥

33

साङ्गमिति॥ किंचिदुत्क्रान्तशैशवावतिक्रान्तबाल्यौ तौ साङ्गं च वेदमध्याप्य कवीनां प्रथमपद्धतिम्। कविताबीजमित्यर्थः। स्वकृतिं काव्यं रामायणाख्यं गापयामास। गापयतेर्लिट्। शब्दकर्मत्वात् ‘गतिबुद्धि-’(पा.1।4।52) इत्यादिना द्विकर्मकत्वम् ॥ 33 ॥

रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः ।
तद्वियोगव्यथां किंचिच्छिथिलीचक्रतुः सुतौ ॥ 34 ॥

34

रामस्येति॥ तौ सुतौ रामस्य वृत्तं मातुरग्रतो मधुरं गायन्तौ तद्वियोगव्यथां रामविरहवेदनां किंचिच्छिथिलीचक्रतुः ॥ 34 ॥

इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः ।
तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः ॥ 35 ॥

35

इतरेऽपीति॥ रघोर्वंश्या वंशे भवाः। त्रेतेत्यग्नयस्त्रेताग्नयः। तेषां तेज इव तेजो येषां ते त्रेताग्नितेजसः। इतरे रामादन्ये त्रयो भरतादयोऽपि तद्योगात्तेषां योगाद्भरतादिसंबन्धात्पतिवत्नीषु भर्तृमतीषु जीवत्पतिकासु। ख्यातिमतीष्वित्यर्थः। ‘पतिव्रत्नी सभर्तृका’इत्यमरः। ‘अन्तर्वत्पतिवतोर्नुक्’(पा.4।1
।32) इति ङीप्प्रत्ययो नुगागमश्च। पत्नीषु द्विसूनव आसन्। द्वौ द्वौ सूनू येषां ते द्विसूनव इति विग्रहः। क्वचित्संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवत्॥ 35 ॥

शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते ।
मथुराविदिशे सून्वोर्निदधे पूर्वजोत्सुकः ॥ 36 ॥

36

शत्रुघातिनीति॥ पूर्वजोत्सुको ज्येष्ठप्रियः शत्रुघ्नो बहुश्रुते शत्रुघातिनि सुबाहौ च तन्नामकयोः सून्वोर्मथुरा च विदिशा च ते नगर्यौ निदधे। निधाय गत इत्यर्थः॥ 36 ॥

भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगात् ।
मैथिलीतनयोद्गीतनिःस्पन्दमृगमाश्रमम् ॥ 37 ॥

37

भूय इति॥ स शत्रुघ्नो मैथिलीतनययोः कुश-लवयोरुद्गीतेन निःस्पन्दमृगं गीतप्रियतया निश्चलहरिणं वाल्मीकेराश्रमम्। भूयः पुनरपि तपोव्ययः संविधानकरणार्थं तपोहानिर्मा भूदिति हेतोः। अत्यगात्। अतिक्रम्य गत इत्यर्थः ॥ 37 ॥

वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीम् ।
लवणस्य वधात्पौरैरीक्षितोऽत्यन्तगौरवम् ॥ 38 ॥

38

वशीति॥ वशी स लवणस्य वधाद्धेतोः पौरैः पौरजनैरत्यन्तं गौरवं यस्मिन्कर्मणि तत्तथेक्षितः सन्। रथ्यासंस्कारैस्तोरणादिभिः शोभते या तामयोध्यां विवेश च ॥ 38 ॥

स ददर्श सभामध्ये सभासद्भिरुपस्थितम् ।
रामं सीतापरित्यागादसामान्यपतिं भुवः ॥ 39 ॥

39

स इति॥ स शत्रुघ्नः सभामध्ये सभासद्भिः सभ्यैरुपस्थितं सेवितं सीतापरित्यागाद्भुवोऽसामान्यपतिमसाधारणपतिं रामं ददर्श ॥ 39 ॥

तमभ्यनन्दत्प्रणतं लवणान्तकमग्रजः ।
कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणम् ॥ 40 ॥

40

तमिति॥ अग्रजो रामो लवणस्यान्तकं हन्तारं प्रणतं तं शत्रुघ्नम्। कालनेमिर्नाम राक्षसः। तस्य वधात्प्रीतः। तुरं वेगं सहत इति तुराषाडिन्द्रः । ‘छन्दसि सहः’(पा.3।2।63) इति ण्वि प्रत्यया। यद्वा,-सहतेणिंचि कृते साहयतेः क्विप्। ‘अन्येषामपि दृश्यते’(पा.6।3।137) इति पूर्वपदस्य दीर्घः। ‘सहेः साडः सः’(पा.8।3।56) इति षत्वम्। शार्ङ्गिणमुपेन्द्रमिव। अभ्यनन्दत्॥ ॥ 40 ॥

स पृष्टः सर्वतो वार्तमाख्यद्राज्ञे न संततिम् ।
प्रत्यर्पयिष्यतः काले करेराद्यस्य शासनात् ॥ 41 ॥

41

स इति॥ स शत्रुघ्नः पृष्टः सन्। सर्वतो वार्तं कुशलं राज्ञे रामाय। आख्यदाख्यातवान्। चक्षिङो लुङ्। ‘चक्षिडः ख्याञ्’(पा.2।4।54)इति ख्याञादेशः। ‘अस्यतिवक्ति-’(पा.3।1।52)इत्यङ्। ‘आतो लोप इटि च’(पा.6।4।64) इत्याकारलोपः। ख्यातेर्वा लुङ्। संततिं कुशलवोत्पत्तिं नाख्यत्। कुतः? कालेऽवसरे प्रत्यर्पयिष्यत आद्यस्य कवेर्वाल्मीकेः शासनात् ॥ 41 ॥

अथ जानपदो विप्रः शिशुमप्राप्तयौवनम् ।
अवतार्याङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः ॥ 42 ॥

42

अथेति॥ अथ जनपदे भवो जानपदो विप्रः। कश्चिदिति शेषः। अप्राप्त यौवनं शिशुम्। मृतमिति शेषः। भूपते रामस्य द्वारि। अङअकशय्यास्थं यथा तथाऽवतार्याङ्कस्थत्वेनैवावरोप्य। चक्रन्द चुक्रोश ॥ 42 ॥

शोचनीयासि वसुधे! या त्वं दशरथाञ्युता ।
रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता ॥ 43 ॥

43

शोचनीयेति॥ हे वसुधे! दशरथाञ्च्युता या त्वं रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता सती शोचनीयाऽसि ॥ 43 ॥

श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्नाय राघवः ।
न ह्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत् ॥ 44 ॥

44

श्रुत्वेति॥ गोप्ता रक्षको राघवस्तस्य विप्रस्य शुचः शोकस्य हेतुं पुत्रमरणरूपं श्रुत्वा जिह्नाय लज्जितः। कुतः? हि यस्मादकालभवो मृत्युरिक्ष्वाकूणां पदं राष्ट्रं नास्पृशत्। वृद्धे जीवति यवीयान्न म्रियत इत्यर्थः ॥ 44 ॥

स मुहूर्तं क्षमस्वेति द्विजमाश्वास्य दुःखितम् ।
यानं सस्मार कौबेरं वैवस्वतजिगीषया ॥ 45 ॥

45

स इति॥ स रामो दुःखितं द्विजं मुहूर्तं क्षमस्वेत्याश्वास्य वैवस्वतस्यान्तकस्य जिगीषया जेतुमिच्छया कौबेरं यानं पुष्पकं सस्मार ॥ 45 ॥

आत्तशस्त्रस्तदध्यास्य प्रस्थितः स रघूद्वहः ।
उञ्चचार पुरस्तस्य गूढरूपा सरस्वती ॥ 46 ॥

46

आत्तेति॥ स रघूद्वहो राम आत्तशस्त्रः सन्। तत् पुष्पकमध्यास्य प्रस्थितः। अथ तस्य पुरो गूढरूपा सरस्वत्यशरीरा वागुञ्चचारोद्बभूव ॥ 46 ॥

राजन्! प्रजासु ते कश्चिदपचारः प्रवर्तते ।
तमस्विष्य प्रशमयेर्भवितासि ततः कृती ॥ 47 ॥

47

राजन्निति॥ हे राजन्! ते प्रजासु कश्चिदपचारो वर्णधर्मव्यतिकरः प्रवर्तते। तमपचारमन्विष्य प्रशमयेः। ततः कृती कृतकृत्यो भवितासि भविष्यसि ॥ 47 ॥

इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियाम् ।
दिशः पपात पत्रेण वेगनिष्कम्पकेतुना ॥ 48 ॥

48

इतीति॥ इत्याप्तवचनाद्रामो वर्णविक्रियां वर्णापचारं विनेष्यन्नपनेष्यन् वेगेन निष्कम्पकेतुना पत्रेण वाहनेन पुष्पकेण। ‘पत्रं वाहनपक्षयोः’ इत्यमरः। दिशः पपात धावति स्म ॥ 48 ॥

अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् ।
ददर्श कंचिदैक्ष्वाकस्तपस्यन्तमधोमुखम् ॥ 49 ॥

49

अथेति॥ अथेक्ष्वाकुवंशप्रभव ऐक्ष्वाको रामः। ‘कोपधादण्’(पा.4।2।32) इत्यणि कृते ‘दाण्डिनायन-’(पा.6।4।174) इत्यादिनोकारलोपनिपातः। धूमेन पीयमानेनाभिताम्राक्षं वृक्षशाखावलम्बिनमधोमुखं तपस्यन्तं तपश्चरन्तं कंचित्पुरुषं ददर्श ॥ 49 ॥

पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः ।
आत्मानं शम्बुकं नाम शूद्रं सुपरदार्थिनम् ॥ 50 ॥

50

पृष्टेति॥ राज्ञा नाम चान्वयश्च नामान्वयौ,तौ पृष्टौ यस्य तथोक्तः। धूमं पिबतीति धूमपः। ‘सुपि-’(पा.3।2।4) इति योगविभागात्कप्रत्ययः। स पुरुष आत्मानं सुरपदार्थिनम्। अनेन प्रयोजनमपि पृष्टमिति ज्ञेयम्। शम्बुकं नाम शूद्रमाचष्ट बभाषे किल ॥ 50 ॥

तपस्यनधइकारित्वात्प्रजानां तमघावहम् ।
शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे ॥ 51 ॥

51

तपसीति॥ तपस्यनधिकारित्वात्प्रजानामघावहं दुःखावहं तं शूद्रं शीर्षच्छेद्यम्। ‘शीर्षच्छेदाद्यञ्च’(पा.5।1।65) इति यत्प्रत्ययः। परिच्छिद्य निश्चित्य नियन्ता रक्षको रामः शस्त्रमाददे जग्राह ॥ 51 ॥

स तद्वक्त्रं हिममक्लिष्टकिञ्जल्कमिव पङ्कजम् ।
ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत् ॥ 52 ॥

52

स इति॥ स रामो ज्योतिष्कणैः स्फुलोङ्गैराहतानि दग्धानि श्मश्रूणि यस्य तत्तस्य वक्त्रम्। हिमक्लिष्टकिञ्जल्कं पङ्कजमिव। कण्ठ एव नालं तस्मादपातयत् ॥ 52 ॥

कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् ।
तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना ॥ 53 ॥

53

कृतेति॥ शूद्रः शम्बुको राज्ञा स्वयं कृतदण्डः कृतशिक्षः सन्। सतां गतिं लेभे। दुश्चरेणापि स्वमार्गविलङ्घिना। अनधिकारदुष्टेनेत्यर्थः। तपसा न लेभे। अत्र मनुः(8।3।18) ‘राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः। निर्मलाः स्वर्गमायान्ति सन्तः मुकृतिनो यथा ॥’ इति॥ 53 ॥

रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना ।
महौजसा संयुयुजे शरत्काल इवेन्दुना ॥ 54 ॥

54

रघुनाथ इति॥ रघुनाथोऽपि मार्गसंदर्शितात्मना महौजसाऽगस्त्येन। इन्दुना शरत्काल इव संयुयुजे संगतः। इन्दावपि विशेषणं योज्यम्‌। ‘रघुनाथ’ इत्यत्र क्षुभ्रादित्वाण्णत्वाभावः ॥ 54 ॥

कुम्भयोनिरलंकारं तस्मै दिव्यपरिग्रहम् ।
ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम् ॥ 55 ॥

55

रघुनाथ इति॥ रघुनाथोऽपि मार्गसंदर्शितात्मना महौजसाऽगस्त्येन। इन्दुना शरत्काल इव संयुयुजे संगतः। इन्दावपि विशेषणं योज्यम्‌। ‘रघुनाथ’ इत्यत्र क्षुभ्रादित्वाण्णत्वाभावः ॥ 55 ॥

तं दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना ।
पश्चान्निववृते रामः प्राक्परासुर्द्विजात्मजः ॥ 56 ॥

56

तमिति॥ मैथिलीकण्ठनिर्व्यापारेण याहुना तमलंकारं दधद्रामः पश्चान्निववृते निवृत्तः। परासुर्म-तो द्विजात्मजः प्राक् रामात्पूर्वं निववृते ॥ 56 ॥

तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः ।
स्तुत्या निवर्तयामास त्रातुर्वैवस्वतादपि ॥ 57 ॥

57

तस्येति॥ पुत्रसमागतः पुत्रेण संगतो द्विजो वैधस्वतादन्तकादपि त्रात् रक्षकस्य। ‘भीत्रार्थानां भवहेतुः’(पा.1।4।25) इत्यपादानात्पञ्चमी। तस्य रामस्य पूर्वोदितां पूर्वोक्तां निन्दां स्तुत्या निवर्तयामास ॥ 57 ॥

तमध्वराय मुक्ताश्वं रक्षः कपिनरेश्वराः ।
मेघाः सस्यमिवाम्भोभिरभ्यवर्षन्नुपायनैः ॥ 58 ॥

58

तमिति॥ अध्वरायाश्वमेधाय मुक्ताश्वं तं रामं रक्षःकपिनरेश्चराः सुग्रीविभीषणादयो राजानश्च। मेघा अम्भिभिः सस्यमिव। उपायनैरभ्यवर्षन् ॥ 58 ॥

दिग्भ्यो निमन्त्रिताशअचैनमभिजग्मुर्महर्षयः ।
न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि ॥ 59 ॥

59

दिग्भ्य इति॥ निमन्त्रिता आहूता महर्षयश्च भूम्याः संबन्धीनि भौमानिधिष्ण्यानि स्थानान्येव न। ‘धिष्ण्यं स्थाने गृहे भेऽग्नौ’ इत्यमरः। किंतु ज्योतिर्मयानि नक्षत्ररूपाणि धिष्ण्यान्यपि हित्वा दिग्भ्य एनं राममभिजग्मुः ॥ 59 ॥

उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ ।
अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः ॥ 60 ॥

60

उपेति॥ चत्वारि द्वाराण्येव मुखानि यस्याः सा चतुर्द्वारमुख्ययोध्या। उपशल्येषु ग्रामान्तेषु निविष्टैः। ‘ग्रामान्त उपशल्यं स्यात्’ इत्यमरः। तैर्महर्षिभिः। सद्यः सृष्टलोका पितामहस्येयं पैतामही तनुर्मूर्तिरिव। बभौ ॥ 60 ॥

श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः ।
अनन्यजानेः सैवासीद्यस्माज्जाया हिरण्मयी ॥ 61 ॥

61

श्लाघ्य इति॥ वैदेह्यास्त्यागोऽपि श्लाघ्यो वर्ण्य एव। कुतः? यस्माद् प्रान्वंशः प्राचीनस्थूणो यज्ञनस्थूणो यज्ञशालाविशेषः। तद्वासिनः। नास्त्यन्या जाया यस्य तस्यानन्यजानेः। ‘जायाया निङ्’(पा.5।4।134) इति समासान्तो निङादेशः। पत्यू रामस्य हिरण्मयी सौवर्णी। ‘दाण्डिनायन-’(पा.6।4।174) आदिदग्रेण निपातेः। सा निजैव जाया पत्न्यासीत्। कविवाक्यमेतत् ॥ 61 ॥

विघेरधिकसंभारस्ततः प्रववृते मखः ।
आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः ॥ 62 ॥

62

विधेरिति॥ ततो विधेः शास्त्रादधिकसंभारोऽतिरिच्यमानपरिकरो मखः प्रववृते प्रवृतः। यत्र मखे। विहन्यन्त एभिरिति विघ्नाः प्रत्यूहाः। ‘घञर्थे कविधानम्’(वा.2204)इति कः। क्रियाविघअना अनुष्ठानविघातका राक्षसा एव रक्षिणो रक्षका आसन् ॥ 62 ॥

अथ प्राचेतसोपज्ञं रामायणमितस्ततः ।
मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौः ॥ 63 ॥

63

अथेति॥ अथ मैथिलेयौ मैथिलीतनयौ। ‘स्त्रीभ्यो ढक्’(पा.4।1।120) कुशलवौ गुरुणा वाल्मीकिना चोदितौ प्रेरितौ सन्तौ। प्राचेतसो वाल्मीकिः। उपज्ञायत इत्युपज्ञा। ‘आतश्चोपसर्गे’(पा.3।3।106) इति कर्मण्यङ्प्रत्ययः। प्राचेतसस्योपज्ञा। ‘आतश्चोपसर्गे’(पा.3।3।106) इति कर्मण्यङ्गप्रत्ययः। प्राचेतसस्योपज्ञा प्राचेतसोपज्ञम्। प्राचेतसेनादौ ज्ञातमित्यर्थः। ‘उपज्ञा ज्ञानमाद्यं स्यात्’ इत्यमरः। ‘उपज्ञोपक्रमं तदाद्याचिख्यासायाम्’(पा.2।4।21) इति नपुंसकत्वम्। अय्यते ज्ञायतेऽनेनेत्ययनम्। रामस्यायनं चरितं रामायणं रामायणाखअयं काव्यम्। ‘पूर्वपदात्संज्ञायामगः’(पा.8।4।3) इति णत्वम्। उत्तरायणमितिवत्। इतस्ततोजगतुः। गायतेर्लिट् ॥ 63 ॥

वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ ।
किं तद्येन मनो हर्तुमलं स्यातां न श्रृण्वताम् ॥ 64 ॥

64

वृत्तमिति॥ रामस्य वृत्तं वर्ण्यम्। वस्त्विति शेषः। वाल्मीकेः कृतिः काव्यम्। गेयमिति शेषः। तौ कुशलवौ किंनरस्वनौ किंनरकण्ठौ गायकौ। पुनरिति शेषः। अत एव तत्किं येन निमित्तेन तौ शृण्वतां मनो हर्तुमलं शक्तौ न स्याताम्। सर्वं सरसमित्यर्थः ॥ 64 ॥

रूपे गीते च माधुर्यं तयोस्तज्ज्ञैर्निवेदितम् ।
ददर्श सानुजो रामः शुश्राव च कुतूहली ॥ 65 ॥

65

रूप इति॥ ते जानन्तीति तज्ज्ञाः,तैस्तज्ज्ञैरभिज्ञैर्निवेदितं तयोः कुशलवयो रूपे आकारे गीते च माधुर्यं रामणीयकं सानुजो रामाः कुतूहली सानन्दः सन्,यथासंख्यं ददर्श शुश्राव च ॥ 65 ॥

तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ ।
हिमनिष्यन्दिनी प्रातर्निर्वातेव वनस्थली ॥ 66 ॥

66

तदिति॥ तयोर्गीतश्रवण एकाग्राऽऽसक्ता। अश्रुमुखी। आनन्दादिति भावः। संसत् सभा प्रातर्हिमनिष्यन्दिनी निर्वाता वातरहिता वनस्थलीव। बभौ शुशुभे। आनन्दपारवश्यान्निष्पन्दमास्त इत्यर्थः ॥ 66 ॥

वयोवेषविसंवादि रामस्य च तयोस्तदा ।
जनता प्रेक्ष्य सादृश्यं नाक्षिकम्पं व्यतिष्ठत ॥ 67 ॥

67

वय इति॥ जनता जनानां समूहः। ‘ग्रामजनबन्धुसहायेभ्यस्तल्’(पा.4।3।7) इति तल्प्रत्ययः। वयोवेषाभ्यामेव विसंवादि विलक्षणं तदा तयोः कुशलवयो रामस्य चच सादृश्यं प्रेक्ष्य। नास्त्यक्षिकम्पो यस्मिन्कर्मणि तद्यथा तथा,नञर्थस्य नशब्दस्य बहुव्रीहिः। व्यतिष्ठतातिष्ठत्। ‘समवप्रविभ्यः स्थः’(पा.1।3।22) इत्यात्मनेपदम्। विस्मयादनिमिषमद्राक्षीदित्यर्थः ॥ 67 ॥

उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिपे ।
नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा ॥ 68 ॥

68

उभयोरिति॥ लोको जन उभयोः कुमारयोः प्राविण्येन नैपुण्येन तथा न विसिष्मिये न विस्मितवान्,यथा नृपतेः प्रीतिदानेषु वीतस्पृहतया नैःस्पृह्येण विसिष्मिये ॥ 68 ॥

गेये को नु विनेता वां कस्य चेयं कृतिः कवेः ।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम् ॥ 69 ॥

69

गेय इति॥ गेये गीते को नु वां युवयोर्विनेता शिक्षकः। ‘नु’शब्दः प्रश्ने। ‘नु पृच्छायां वितर्के च’ इत्यमरः। इयं च कस्य कवेः कृतिरिति राज्ञा स्वयं पृष्टौ तौ कुशलवौ वाल्मीकिमशंसतामुक्तवन्तौ। विनेतारं कविं चेत्यर्थः। ‘गेये केन विनीतौ वाम्’ इति पाठे ‘वा’ इति युष्मदर्थप्रतिपादकमव्ययं द्रष्टव्यम्। तथा चायमर्थः।-तेन पुंसा वां युवां गेये गीतविषये विनीतौ शिक्षितौ? कर्मणि निष्ठाप्रत्ययः ॥ 69 ॥

अथ सावरजो रामः प्राचेतसमुपेयिवान् ।
ऊरूकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत् ॥ 70 ॥

70

अथेति॥ अथध सावरजो रामः प्राचेतसं वाल्मीकिमुपेयिवान् प्राप्तः सन्। देहमात्मानं ऊरीकृत्य। आत्मानं स्थापयित्वेत्यर्थः। राज्यमस्मै प्राचेतसाय न्यवेदयत् समर्पितवान् ॥ 70 ॥

स तावाख्याय रामाय मैथिलेयौ तदात्मजौ ।
कविः कारुणिको वव्रे सीतायाः संपरिग्रहम् ॥ 71 ॥

71

स इति॥ करुणा प्रयोजनमस्य कारुणिको दयासुः। ‘प्रयोजनम्’(पा.5।1।109) इति ठञ्। ‘स्यादृयालुः कारुणिकः’ इत्यमरः। स कवी रामाय तौ मैथिलेयौ तदात्मजौ रामसुतावाख्याय सीतायाः संपरिग्रहं स्वीकारं वव्रे ययाचे ॥ 71 ॥

तात! शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।
दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्वधुः प्रजाः ॥ 72 ॥

72

तातेति॥ हे तात! ते स्नुषा सीता नोऽस्माकम्। अक्ष्णोः समीपं समक्षम्। ‘अव्ययीभावे शरत्प्रभृतिभ्यः’(पा.5।4।107) इति समासान्तष्टच्। जातवेदसि वह्नौ शुद्धा। नास्माकमविश्वास इत्यर्थः। किंतु रक्षसो रावणस्य दौरात्म्यादत्रत्याः प्रजास्तां न श्रद्वधुर्न विशश्वसुः ॥ 72 ॥

ताः स्वचारित्रमुद्दिश्य प्रत्याययतु मैथिली ।
ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया ॥ 73 ॥

73

ता इति॥ मैथिली स्वचारित्रमुद्दिश्य ताः प्रजाः प्रत्याययतु विश्वासयतु। विश्वासस्य बुद्धिरूपत्वात् ‘णौ गमिरबोधने’(पा.2।4।46) इति इणो गम्यादेशो नास्ति। ततोऽनन्तरं पुत्रवतीमेनां सीतां त्वदाज्ञया प्रतिपत्स्ये स्वीकरिष्ये ॥ 73 ॥

इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः ।
शिष्यैरानाययामास स्वसिद्धिं नियमैरिव ॥ 74 ॥

74

इतीति॥ राज्ञेति प्रतिश्रुते प्रतिज्ञाते सति मुनिराश्रमाज्जानकीं शिष्यैः प्रयोज्यैः स्वसिद्धिं स्वार्थसिद्धिं नियमैस्तपोभिरिव। आनाययामास ॥ 74 ॥

अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः ।
कविमाह्वाययामास प्रस्तुतप्रतिपत्तये ॥ 75 ॥

75

अन्येद्युरिति॥ अथ काकुत्स्थो रामः। अन्येद्युरन्यस्मिन्नहनि प्रस्तुतप्रतिपत्तये प्रकृतकार्यानुसंधानाय पुरौकसः पौरान् संनिपात्य मेलयित्वा कविं वाल्मीकिम्। आह्वाययामासाकारयामास ॥ 75 ॥

स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया ।
क्रचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः ॥ 76 ॥

76

स्वरेति॥ अथ स्वर उदात्तादिः। संस्कारः शब्दशुद्धिः। तद्वत्या ऋचा सावित्र्योदर्चिषं सूर्यमिव। पुत्राभ्यामुपलक्षितया सीतया करणेनोदर्चिषं राममसौ मुनिरुपस्थित उपतस्थे ॥ 76 ॥

काषायपरिवीतेन स्वपदार्पितचक्षुषा ।
अन्वमीयत शुद्धेति शान्तेन वपुषैव सा ॥ 77 ॥

77

काषायेति॥ कषायेण रक्तं काषायम्। ‘तेन रक्तं रागात्’(पा.4।2।1) इत्यण्। तेन परिवीतेन संवृतेन स्वपदार्पितचक्षुषा शान्तेन प्रसन्नेन वपुषैव सा सीता शुद्धा साध्वीत्यन्वमीयतानुमिता ॥ 77 ॥

जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः ।
तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव शालयः ॥ 78 ॥

78

जना इति॥ तस्याः सीतायाः कर्मण आलोकपथाद्दर्शनमार्गात् प्रतिसंहृतचक्षुषो निवर्तितदृष्टयः सर्वे जनाः। फलिताः शालय इव अवाङ्मुखा अवनतमुखास्तस्थुः ॥ 78 ॥

तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः ।
कुरु निःसंशयं वत्से! स्ववृत्ते लोकमित्यशात् ॥ 79 ॥

79

तामिति॥ आस्थितविष्टरोऽधिष्ठितासनो मुनिः। हे वत्से! भर्तुर्दृष्टिविषये समक्षं स्ववृत्ते स्वचरिते विषये लोकं निःसंशयं कुरु। इति तां सीतामशाच्छास्ति स्म ॥ 79 ॥

अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः ।
आचम्योदीरयामास सीता सत्यां सरस्वतीम् ॥ 80 ॥

80

अथेति॥ अथ वाल्मीकिशिष्येणावर्जितं दत्तं पुण्यं पय आचम्यसीता सत्यां सरस्वतीं वाचमुदीरयामासोञ्चारयामास ॥ 80 ॥

वाङ्मनकर्मभिः पत्यौ व्यभिचारो यथा न मे ।
तथा विश्वंभरे देवि! मामन्तर्धातुमर्हसि ॥ 81 ॥

81

वाङ्मन इति॥ वाङ्मनःकर्मभिः पत्यौ विषये मे व्यभिचारः स्खालित्यं न यथा नास्ति यदि तथा तर्हि। विश्वं बिभर्तीति विश्वंभरा भूमिः। ‘संज्ञायां भृतॄ-’ (पा.3।2।46) इत्यादिना खच्प्रत्ययः। ‘अरुर्द्विषत्-’(पा.6।3।67) इत्यादिना मुमागमः। हे विशअवंभरे देवि! मामन्तर्धातुं गर्भे वासयितुमर्हसि ॥ 81 ॥

एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः ।
शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ ॥ 82 ॥

82

एवमिति॥ साध्व्या पतिव्रतया तया सीतयैवमुक्ते सति सद्योभवाद्भुवो रन्ध्राच्छातह्रदं वैद्युतं ज्योतिरिव प्रभामण्डलमुद्ययौ ॥ 82 ॥

तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी ।
समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा ॥ 83 ॥

83

तत्रेति॥ तत्र प्रभामण्डले नागफणोत्क्षिप्ते सिंहासने निषेदुष्यासीना समुद्ररशना समुद्रमेखला साक्षात्। वसूनि धारयतीति वसुंधरा भूमिः। ‘खचि ह्रस्वः’(पा.6।4।94) इति ह्रस्वः। प्रादुरासीत् ॥ 83 ॥

सा सीतामङ्कमारोप्य भर्तृप्रणिहितेक्षणाम् ।
मा मेतिव्याहरत्येव तस्मिन्पालातमभ्यगात् ॥ 84 ॥

84

सेति॥ सा वसुंधरा भर्तरि प्रणिहितेक्षणां दत्तदृष्टिं सीतामङ्कमारोप्य तस्मिन्भर्तरि रामे मा मेति मा हरेति व्याहरति वदत्येव। व्याहरन्तमनादृत्येत्यर्थः। ‘षष्ठी चानादरे’(पा.2।3।38) इति सप्तमी। पातालमभ्यगात् ॥ 84 ॥

धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणः ।
गुरुर्विधिबलापेक्षी शमयामास धन्विनः ॥ 85 ॥

85

धरायामिति॥ सीताप्रत्यर्पणमिच्छतीति तथोक्तस्य धन्विन आत्तधनुषस्तस्य रामस्य धरायां विषये संरम्भं विधिबलापेक्षी दैवशक्तिदर्शीं गुरुर्ब्रह्मा शमयामास। अवश्यंभावी विधिरिति भावः ॥ 85 ॥

ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् ।
रामः सीतागतं स्नेहं निदधे तदपत्ययोः ॥ 86 ॥

86

ऋषीनिति॥ रामो यज्ञान्ते पुरस्कृतान्पूजितान्। ऋषीन्सुहृदश्च विसृज्य सीतागतं स्नेहं तदपत्ययोः कुशलवयोर्निदधे ॥ 86 ॥

युधाजितश्च संदेशात्स देशं सिन्धुनामकम् ।
ददौ दत्तप्रभावाय भरताय भृतप्रजः ॥ 87 ॥

87

युधाजित इति॥ किंच,भृतप्रजः स रामो युधाजितो भरतमातुलस्य संदेशात्सिन्धुनामकं देशं दत्तप्रभावाय दत्तैश्वर्याय। रामेणेति शेषः। भरताय ददौ ॥ 87 ॥

भरतस्तत्र गन्धर्वान्युधि निर्जित्य केवलम् ।
आतोद्यं ग्राहयामास समत्याजयदायुधम् ॥ 88 ॥

88

भरत इति॥ तत्र सिन्धुदेशे भरतोऽपि युधि गन्धर्वान्निर्जित्य केवलमेकमातोद्यं वीणाम्। ‘ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्। वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्। चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्।’ इत्यमरः। ग्राहयामास। आयुधं समत्याजयत् त्याजितवान्। ग्रहित्यज्योर्ण्यन्तयोर्द्विकर्मकत्वं नित्यमित्यनुसंधेयम् ॥ 88 ॥

स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः ।
अभिषिच्याभिषेकार्हौ रामान्तिकमगात्पुनः ॥ 89 ॥

89

स इति॥ स भरतः। अभिषेकार्हौ तक्षपुष्कलौ नाम पुत्रौ तदाख्ययोः। तक्षपुष्कलाख्ययोरित्यर्थः। पुष्कलं पुष्कलावत्यां तक्षं तक्षशिलायामिति राजधान्योर्नगर्योरभिषिच्य पुना रामान्तिकमगात् ॥ 89 ॥

अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ ।
शासनाद्रघुनाथस्य चक्रे कारापथेश्वरौ ॥ 90 ॥

90

अङ्गदमिति॥ लक्ष्मणोऽपि रघुनाथस्य रामस्य शासनादङ्गदं चन्द्रकेतुं च तदाख्यावात्मसंभवौ पुत्रौ। कारापथो नाम देशः। तस्येश्वरौ चक्रे ॥ 90 ॥

इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः ।
भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमात् ॥ 91 ॥

91

इतीति॥ इत्यारोपितपुत्रास्ते जनेश्वरा रामादयो भर्तृलोकप्रपन्नानां स्वर्यातानां जननीनां क्रमान्निवापाञ्श्राद्धादीन्विदधुश्चक्रुः ॥ 91 ॥

उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवम् ।
रहःसंवादिनौ पश्येदावां यस्तं त्यजेरिति ॥ 92 ॥

92

उपत्यिति॥ अथ कालोऽन्तको मुनिवेषः सन्नुपेत्य राघवं प्रोवाच। किमित्याह-रहस्येकान्ते संवादिनौ संभाषिणावावां यः पश्येत्। रहस्यभङ्गं कुर्यादित्यर्थः। तं त्यजेरिति ॥ 92 ॥

तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः ।
आचख्यौ दिवमध्यास्व शासनात्परमेष्ठिनः ॥ 93 ॥

93

तथेति॥ स कालस्तथेति प्रतिपन्नाय नृपाय रामाय विवृतात्मा प्रकाशितनिजस्वरूपः सन्। परमेष्ठिनो ब्रह्मणः शासनाद्दिवमध्यास्वेत्याचख्यौ ॥ 93 ॥

विद्वानपि तयोर्द्वाःस्थः समयं लक्ष्मणोऽभिनत् ।
भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिनः ॥ 94 ॥

94

विद्वानिति॥ द्वाःस्थो द्वारि नियुक्तो लक्ष्मणो विद्वानपि पूर्वश्लोकोक्तं जानन्नपि रामसंदर्शनार्थिनो दुर्वाससो मुनेः शापाद्भीतः सन्। तयोः काल-रामयोः समयं संवादम्। अभिनद्बिभेद ॥ 94 ॥

स गत्वा सरयूतीरं देहत्यागेन योगवित् ।
चकारावितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः ॥ 95 ॥

95

स इति॥ योगविद्योगमार्गवेदी स लक्ष्मणः सरयूतीरं गत्वा देहत्यागेन पूर्वजन्मनो भ्रातुः प्रतिज्ञामवितथां सत्यां चकार ॥ 95 ॥

तस्मिन्नात्मचतुर्भागे प्राङ्गकमधितस्थुषि ।
राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव ॥ 96 ॥

96

तस्मिन्निति॥ चतुर्थो भागश्चतुर्भागः। संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वं शतांशवत्। आत्मचतुर्भागे तस्मिंल्लक्ष्मणे प्राङ्नाकमधितस्थुषि पूर्वं स्वर्गं जग्मुषि सति राघवो रामः भुवि त्रिपाद्धर्म इव। शिथिलं तस्थौ । पादविकलो हि शिथिलं तिष्ठतीति भावः। त्रेतायां धर्मस्त्रिपादित्याहुः। पादश्चतुर्थांशुः अङ्घ्रिश्च ध्वन्यते। ‘पादा रश्म्यङ्घ्रितुर्यांशाः’ इत्यमरः। त्रयः पादा यस्यासौ त्रिपात्। ‘संख्यासुपूर्वस्य’(पा.5।4।140) इत्यकारलोपः समासान्तः ॥ 96 ॥

स निवेश्य कुशावत्यां रिपुनागाङ्गुशं कुशम् ।
शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् ॥ 97 ॥
उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः ।
अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया ॥ 98 ॥

98

स इति॥ उदगिति च। युग्मम्। स्थिरधीः स रामः। रिपव एव नागा गजास्तेषामङ्कुशं निवारकं कुशं कुशावत्यां पुर्यां निवेश्य स्थापयित्वा। सूक्तैः समीचीनवचनैः सतां जनिता अश्रुलवा अश्रुलेशा येन तं लवं लवाख्यं पुत्रम्। ‘लवो लेशे विलासे च छेदने रामनन्दने’ इति विश्वः। शरावत्यां पुर्याम्। ‘शरादीनां च’(पा.6।3।120)इति ‘शर’-‘कुश’ शब्दयोर्दीर्घः। निवेश्य। सानुजोऽग्निपुरःसरः सन्। पत्यौ भर्तरि वात्सल्यादनुरागात्। गृहान् वर्जयित्वा गृहवर्जम्। ‘द्वितीयायां च’(पा.3।4।53) इति णमुल्। अयं क्वचिदपरीप्सायामपीष्यते ‘अनुदात्तं पदमेकवर्जम्’(पा.6।1।158) इत्येकाचः शेषतया व्याख्यातत्वात्। परीप्सा त्वरा। अयोध्ययान्वितोऽनुगत उदक्प्रतस्थे ॥ 97-98 ॥

जगृहुस्तस्य चित्तज्ञाः पदवीं हरिराक्षसाः ।
कदम्बमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभिः ॥ 99 ॥

जगृहुरिति॥ चित्तज्ञा हरिराक्षसाः कदम्बमुकुलस्थूलैः प्रजाश्रुभिरभिवृष्टां तस्य रामस्य पदवीं मार्गं जगृहुः। तेऽप्यनुजग्मुरित्यर्थः ॥ 99 ॥
उपस्थितविमानेन तेन भक्तानुकम्पिना ।
चक्रे त्रिदिवनिःश्रेणिः सरयूरनुयायिनाम् ॥ 100 ॥

100

उपस्थितेति॥ उपस्थितं प्राप्तं विमानं यस्य तेन। भक्ताननुकम्पत इति भक्तानुकम्पिना। तेन रामेणानुयायिनां सरयूस्त्रिदिवनिःश्रेणिः स्वर्गाधिरोहणी चक्रे। ‘निःश्रेणिस्त्वधिरोहणी’ इत्यमरः ॥ 100 ॥

यद्गोप्रतरकल्पोऽभूत्संमर्दस्तत्र मज्जताम् ।
अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे ॥ 101 ॥

101

यदिति॥ यद्यस्मात्तत्र सरय्वां मज्जतां संमर्दः। गोप्रतरो गोप्रतरणम्। तत्कल्पोऽभूत्। अतस्तदाख्यया गोप्रतराख्यया पावनं शोधकं तीर्थं भुवि पप्रथे ॥ 101 ॥

स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु ।
त्रिदशीभूतपौराणां स्वर्गान्तरमकल्पयत् ॥ 102 ॥

102

स इति॥ विभुः प्रभुः स रामो विबुधानामंशेषु सुग्रीवादिषु प्रतिपन्नात्ममूर्तिषु सत्सु त्रिदशीभूतां देवभुवनं गता ये पौरास्तेषां नूतनसुराणां स्वर्गान्तरमकल्पयत् ॥ 102 ॥

निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां
विष्वक्सेनः स्वतनुमविशत्सर्वलोकप्रतिष्ठाम् ।
लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा
कीर्तिस्तम्भद्वयमिव गिरौ दक्षिणे चोत्तरे च ॥ 103 ॥

103

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ श्रीरामस्वर्गारोहणो नाम पञ्चदशः सर्गः ।
निर्वर्त्येति॥ विष्वक्सेनो विष्णुः। एवं सुराणां दशमुखशिरश्छेदकार्यं निर्वर्त्य निष्पाद्य। लङ्कानाथं बिभीषणं पवनतनयं हनूमन्तं चोभयं कीर्तिस्तम्भद्वयमिव। दक्षिणे गिरौ चित्रकूटे चोत्तरे गिरौ हिमवति च स्थापयित्वा। सर्वलोकप्रतिष्ठां सर्वलोकाश्रयभूतां स्वतनुं स्वमूर्तिमविशत् ॥ 103 ॥

इति महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां रघुवंशव्याख्यायां संजीविनीसमाख्यायां पञ्चदशः सर्गः ।