१४

चतुर्दशः सर्गः।
संजीवनं मैथिलकन्यकायाः सौन्दर्यसर्वस्वमहानिधानम् ।
शशाङ्कपङ्केरुहयोः समानं रामस्य वन्दे रमणीयमास्यम् ॥
भर्तुऋ प्रणाशादथ शोचनीयं दशान्तरं तत्र समं प्रपन्ने ।
अपश्यतां दाशरथी जनन्यौ छेदादिवोपघ्नतरोर्व्रतत्यौ ॥ 1 ॥

01

भर्तुरिति॥ अथोपवनाधिष्ठानानन्तरं दाशरथी रामलक्ष्मणौ। उपघअनतरोराश्रयवृक्षस्य। ‘उपघ्न आश्रये’(पा.3।3।85) इति निपातः। तस्य छेदाद्द्रतत्यौ लते इव। ‘वल्ली तु व्रततिर्लता’ इत्यमरः। भर्तुर्दशरथस्य प्रणाशाच्छोचनीयं दशान्तरमवस्थान्तरम्। ~अवस्थायां वस्त्रान्ते स्याद्दशापि’ इति विश्वः। प्रपन्ने प्राप्ते जनन्यौ कौसल्यासुमित्रे तत्र साकेतोपवने समं युगपदपश्यताम्। दृशेः कर्तरि लङ् ॥ 1 ॥

उभावुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ ।
विस्पष्टमस्नान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भात् ॥ 2 ॥

02

उभाविति॥ यथाक्रमं स्वस्वमातृपूर्वकं प्रणतौ नमस्कृतवन्तौ हतारी हतशत्रुकौ विक्रमशोभिनौ तावुभौ रामलक्ष्मणौ। उभाभ्यां मातृभ्यामस्नैरश्रुभिरन्थतया हेतुना। ‘अस्रमश्रु च शोणितम्’ इति यादवः। विस्पष्टं न दृष्टौ किंतु सुतस्पर्शेन यत् सुखं तस्योपलम्भादनुभवाज्ज्ञातौ ॥ 2 ॥

आनन्दजः शोकजमश्रु बाष्पस्तयोरशीतं शिशिरो बिभेद ।
गङ्गासरय्वोर्जलमुष्णतप्तं हिमाद्रिनिस्यन्द इवावतीर्णः ॥ 3 ॥

03

आनन्दज इति॥ तयोर्मात्रोरानन्दजः शिशिरो बाष्पः शोकजमशीतमुष्णमश्रु। उष्णतप्तं ग्रीष्मतप्तं गङ्गासरय्वोर्जलं कर्म अवतीर्णो हिमाद्रेर्निस्यन्दो निर्झर इव। बिभेद। आनन्देन शोकस्तिरस्कृत इत्यर्थः ॥ 3 ॥

ते पुत्रयोर्नैर्ऋतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ ।
अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दमकामयेताम् ॥ 4 ॥

04

ते इति॥ ते मातरौ पुत्रयोरङ्गे शरीरे नैर्ऋतशस्त्राणां राक्षसशस्त्राणां मार्गान्व्रणानार्द्रान्सरसानिव सदयं स्पृशन्त्यौ क्षत्रकुलाङ्गनानामीप्सितमिष्टमपि वीरसूर्वीरमातेति शब्दं नाकामयेताम्। वीरप्रसवो दुःखहेतुरिति भावः ॥ 4 ॥

क्लेशावहा भर्तुरलक्षणाहं सीतेति नाम स्वमुदीरयन्ती ।
स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे ॥ 5 ॥

05

क्लेशावहेति॥ आवहतीत्यावहा। भर्तुः क्लेशावहा क्सेशकारिणी। अत एव,अलक्षणाऽहं सीतेति स्वं नामोदीरयन्ती स्वर्गः प्रतिष्ठाऽऽस्पदं यस्य तस्य स्वर्गस्थितस्य गुरोः श्वशुरस्य महिष्यौ श्वश्र्वौ वधूः स्रुषा। ‘वधूः स्नुषा वधूर्जाया’इत्यमरः। अभक्तिभेदेन ववन्दे। ‘स्वर्गप्रतिष्ठस्य’ इत्यनेन श्वश्रूवैधव्यदर्शनदुःखं सूचितम् ॥ 5 ॥

उत्तिष्ठ वत्से! ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव ।
कृच्छ्रं महत्तीर्ण इति प्रियार्हां तामूचतुस्ते प्रियमप्यमिथ्या ॥ 6 ॥

06

उत्तिष्ठेति॥ ‘ननु वत्से! उत्तिष्ठ। असौ सानुजो भर्ता तवैव शुचिना वृत्तेन महत्कृच्छ्रं दुःखं तीर्णस्तीर्णवान्’ इति प्रियार्हां तां वधूं प्रियमप्यमिथ्या सत्यं ते श्वश्र्वावूचतुः। उभयं दुर्वचमिति भावः ॥ 6 ॥

अथाभिषेकं रघुवंशकेतोः प्रारब्धमानन्दजलैर्जनन्योः ।
निर्वर्तयामासुरमात्यवृद्धास्तीर्थाहृतैः काञ्चनकुम्भतोयैः ॥ 7 ॥

07

अथेति॥ अथ जनन्योरानन्दजलैरानन्दबाष्पैः प्रारब्धं प्रक्रान्तं रघुवंशकेतो रामस्याभिषेकममात्यवृद्धास्तीर्थेभ्यो गङ्गाप्रमुखेभ्य आहृतैरानीतैः काञ्चनकुम्भतोयैर्निर्वर्तयामासुर्निष्पादयामासुः ॥ 7 ॥

सरित्समुद्रान्सरसीश्च गत्वा रक्षःकपीन्द्रैरुपपादितानि ।
तस्थापतन्मूर्ध्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः ॥ 8 ॥

08

सरिदिति॥ रक्षः कपीन्द्रैः सरितो गङ्गाद्याः समुद्रान्पूर्वादीन्सरसीर्मानसादीश्च गत्वा। उपपादितान्युपनीतानि जलानि जिष्णोर्जयशीलस्य। ‘ग्लाजिस्थश्च ग्स्नुः’(पा.3।2।139)इति ग्स्नुप्रत्ययः। तस्य रामस्य मूर्ध्नि। विन्ध्यस्य विन्ध्यस्य विन्ध्याद्रेर्मूर्ध्नि मेघप्रभवा आप इव। उपतन्॥ 8 ॥

तपस्विवेषक्रिययापि तावद्यः प्रेक्षणीयः सुतरां बभूव ।
राजेन्द्रनेपथ्यविधानशोभा तस्योदितासीत्पुनरुक्तदोषा ॥ 9 ॥

09

तपस्वीति॥ यो रामस्तपस्विवेषक्रिययापि तपस्विवेषरचनयापि सुतरामत्यन्तं प्रेक्षणीयस्तावद्दर्शनीय एव बभूव। तस्य राजेन्द्रनेपथ्यविधानेन राजवेषरचनया या शोभा उदिता सा पुनरुक्तं नाम दोषो यस्याः सा पुनरुक्तदोषा द्विगुणासीत् ॥ 9 ॥

स मौलरक्षोहरिभिः सैसन्यस्तूर्यस्वनानन्दितपौरवर्गः ।
विवेश सौधोद्गतलाजवर्षामुत्तोरणामन्वयराजधानीम् ॥ 10 ॥

10

स इति॥ स रामः ससैन्यस्तूर्यस्वनैरानन्दितपौरवर्गः सन्। मूले भवा मौला मन्त्रिवृद्धास्तै रक्षोभिर्हरिभिश्च सह सौधेभ्य उद्गतलाजवर्षामुत्तोरणामन्वयराजधानीमयोध्यां विवेश प्रविष्टवान् ॥ 10 ॥

सौमित्रिणा सावरजेन मन्दमाधूतबालव्यजनो रथस्थः ।
धृतातपत्रो भरतेन साक्षादुपायसंघात इव प्रवृद्धः ॥ 11 ॥

11

सौमित्रिणेति॥ सावरजेन शश्रुघ्नयुक्तेन सौमित्रिणा लक्ष्मणेन मन्दमाधूते बालव्यजने चामरे यस्य स रथस्थो भरतेन धृतातपत्र एवं चतुर्व्यीहो रामः प्रवृद्धः साक्षादुपायानां सामादीनां संघातः समष्टिरिव। ‘विवेश’इति पूर्वेण संबन्धः ॥ 11 ॥

प्रासादकालागुरुधूमराजिस्तस्याः पुरो वायुवशेन भिन्ना ।
वनान्निवृत्तेन रघूत्तमेन मुक्ता स्वयं वेणिरिवाबभासे ॥ 12 ॥

12

प्रासादेति॥ वायुवशेन भिन्ना प्रासादे यः कालागुरुधूमस्तस्य राजीरेखा। वनान्निवृत्तेन रघूत्तमेन रामेण स्वयं मुक्ता तस्याः पुरः पुर्या वेणिरिव। आबभासे। पुरोऽपि पतिव्रतासमाधिरुक्तः। ‘न प्रोषिते तु संस्कुर्वान्न वेणीं च प्रमोचयेत्’ इति हारीतः ॥ 12 ॥

श्वश्रूजनानुषअठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीम् ।
प्रासादवातायनदृशअयबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः ॥ 13 ॥

13

श्वश्रूजनेति॥ श्वश्रूजनेनानुष्ठितचारुवेषां कृतसौम्यनेपथ्यम्। ‘आकल्पवेषौ नेपथ्यम्’इत्यमरः। कर्णीरथः स्त्रीयोग्योऽल्परथः। ‘कर्णीरथः प्रवहणं डयनं रथगर्भके’ इति यादवः। तत्रस्थां रघुवीरपत्नीं सीतां साकेतनार्यः प्रासादवातायनेषु दृश्यबन्धैर्लक्ष्यपुटैरञ्जलिभिः प्रणेमुः ॥ 13 ॥

स्फुरत्प्रभामण्डलमानसूयं सा ब्रिभ्रती शाश्वतमङ्गरागम् ।
रराज शुद्धेति पुनः स्वपुर्यै संदर्शिता वह्निगतेव भर्त्रा ॥ 14 ॥

14

स्फुरदिति॥ स्फुरत्प्रभामण्डलमानसूयमनसूयया दत्तं शाश्वतं सदातनमङ्गरागं बिभ्रती सा सीता भर्त्रा स्वपुर्यै शुद्धेति संदर्शिता पुनर्वह्निगतेव रराज ॥ 14 ॥

वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्दनिधिः सुहृद्भ्यः ।
बाष्पायमाणो बलिमन्निकेतमालेख्यशेषस्य पितुर्विवेश ॥ 15 ॥

15

वेश्मानीति॥ सुहृदो भावः सौहार्दं सौजन्यम्। ‘हृद्भगसिन्ध्वन्ते पूर्वपदस्य-’(पा.7।3।19) इत्युभयपदवृद्धिः। सौहार्दनिधी रामः सुहृद्भ्यः सुग्रीवादिभ्यः परिबर्हवन्त्युपकरणवन्ति वेश्मानि विश्राण्य दत्त्वा। आलेख्यशेषस्य चित्रमात्रशेषस्य पितुर्बलिमत्पूजायुक्तं निकेतं गृहं बाष्पायमाणो बाष्पमुद्वमन्विवेश। ‘बाष्पोष्मभ्यामुद्वमने’(पा.3।1।16) इति क्यङ्प्रत्ययः ॥ 15 ॥

कृताञ्जलिस्तत्र यदम्ब! सत्यान्नाभ्रश्यत स्वर्गफलाद्गुरुर्नः ।
तञ्चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातुः ॥ 16 ॥

16

कृताञ्जलिरिति॥ तत्र निकेतने कृताञ्जलिः सन् रामः। हे अम्ब! नो गुरुः पिता स्वर्गः फलं यस्य तस्मात्सत्यान्नाभ्रश्यत न भ्रष्टवानिति यत्तदभ्रंशनं तञ्चिन्त्यमानं विचार्यमाणं तव सुकृतम्। इत्येवंप्रकारेण भरतस्य मातुः कैकेय्या लज्जां जहारापानयत्। राज्ञां प्रतिज्ञापरिपालनं स्वर्गसाधनमित्यर्थः। ‘भरत’ग्रहणं तदपेक्षयापि कैकेय्यनुसरणमिति द्योतनार्थम् ॥ 16 ॥

तथैव सुग्रीवबिभीषणादीनुपाचरत्कृत्रिमसंविधाभिः ।
संकल्पमात्रोदितसिद्धयस्ते क्रान्ता यथा चेतसि विस्मयेन ॥ 17 ॥

17

तथेति॥ सुग्रीवबिभीषणादीन्। संविधीयन्त इति संविधा भोग्यवस्तूनि। कृत्रिमसंविधाभिस्तथा तेन प्रकारेणैवोपाचरत्। यथा संकल्पमात्रेणेच्छामात्रेणोदितसिद्धयस्ते सुग्रीवादयश्चेतसि विस्मयेन क्रान्ता व्याप्ताः ॥ 17 ॥

सभाजनायोपगतान्स दिव्यान्मुनीन्पुरस्कृत्य हतस्य शत्रोः ।
शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवमादधानम् ॥ 18 ॥

18

सभाजनायेति॥ स रामः सभाजनायाभिवन्दनायोपगतान्। दिविभवान्मुनीनगस्त्यादीन्पुरस्कृत्य हतस्य शत्रो रावणस्य प्रभवादि जन्मादिकं स्वविक्रमे गौरवमुत्कर्षमादधानं वृत्तं तेभ्यो मुनिभ्यः शुश्राव श्रुतवान्। विजितोत्कर्षाज्जेतुरुत्कर्ष इत्यर्थः ॥ 18 ॥

प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान् ।
सीतास्वहस्तोपहृताग्र्यपूजान्रक्षःकपीन्द्रान्विससर्ज रामः ॥ 19 ॥

19

प्रतीति॥ तपोधनेषु मुनिषु प्रतिप्रयातेषु प्रतिनिवृत्य गतेषु सत्सु सुखादविज्ञात एव गतोऽर्धमासो येषां ताननन्तरं सीतायाः। स्वहस्तेनोपहृता दत्ताऽग्र्यपूजोत्तमसंभावना येभ्यस्तान्। एतेन सौहार्दातिशय उक्तः। रक्षः कपीन्द्रान्रामो विससर्ज विसृष्टवान् ॥ 19 ॥

तञ्चात्मचिन्तासुलभं विमानं हृतं सुरारेः सह जीवितेन ।
कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकमन्वमंस्त ॥ 20 ॥

20

तञ्चेति॥ तञ्चात्मचिन्तासुलभं स्वेच्छामात्रलभ्यं सुरारे रावणस्य जीवितेन सह हृतं दिवः पुष्पं पुष्पवदाभरणभूतं पुष्पकं-विमानं भूयः पुनरपि कैलासनाथस्य कुबेरस्योद्वहनायान्वमंस्तानुज्ञातवान्। मन्यतेर्लुङ्। ‘भूयो’ग्रहणेन पूर्वमप्येतत्कौबेरमेवेति सूच्यते ॥ 20 ॥

पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः ।
धर्मार्थकामषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ॥ 21 ॥

21

पितुरिति॥ राम एवं पितुर्नियोगाच्छासनाद्वनवासं निस्तीर्य,अनन्तरं प्रतिपन्नराज्यः प्राप्तराज्यः सन्। धऱ्मार्थकामेषु यथा तथैवावरजेष्वनुजेषु समां वृत्तिं प्रपेदे। अवैषम्येण व्यवहृतवानित्यर्थः ॥ 21 ॥

सर्वासु मातृष्वपि वत्सलत्वात्स निर्विशेषप्रतिपत्तिरासीत् ।
षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु ॥ 22 ॥

22

सर्वास्विति॥ स रामो वत्सलत्वात्स्निग्धत्वात्। न तु लोकप्रतीत्यर्थम्। ‘स्निग्धस्तु वत्सलः’इत्यमरः। सर्वासु मातृष्वपि निर्विशेषप्रतिपत्तिस्तुल्यसत्कार आसीत्। कथमिव? चमूनां नेता षण्मुखः षङ्मिराननैरापीताः पयोधराः स्तना यासां तासु कृत्तिकास्विव ॥ 22 ॥

तेनार्थवाल्ँलोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् ।
तेनास लोकः पितृमान्विनेत्रा तेनैव शोकापनुदेव पुत्री ॥ 23 ॥

23

तेनेति॥ लोको लोभपराङ्मुखेन वदान्येन तेन रामेण। अर्थवान् धनिक आल बभूव। तिङन्तप्रतिरूपकमव्ययमेतत्। विघ्नेभ्यो भयं घ्नता नुदता तेन क्रियावाननुष्ठानवानास। विनेत्रा नियामकेन तेन पितृमानास। पितृवन्नियच्छतीत्यर्थः। शोकमपनुदतीति शोकापनुदो दुःखस्य हर्ता तेन। ‘तुन्दशोकयोः परिमृजापनुदोः’(पा.3।2।5) इति कप्रत्ययः। तेन पुत्री पुत्रवानास। पुत्रवदानन्दयतीत्यर्थः ॥ 23 ॥

स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दुहित्रा ।
उपस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या ॥ 24 ॥

24

स इति॥ स रामः कालेऽवसरे पौराणां कार्याणि प्रयोजनानि समीक्ष्य विदेहाधिपतेर्दुहित्रा सीतया। उपभोगोत्सुकया,अत एव तदीयं सीतासंबन्धि चारु वपुः कृत्वा स्थितया लक्ष्म्येव। उपस्थितः संगतः सन्। रेमे। ‘उपस्थानं तु संगतिः’ इति यादवः ॥ 24 ॥

तयोर्यथाप्रार्थितमिन्द्रियार्थानासेदुषोः सद्मसु चित्रवत्सु ।
प्राप्तानि दुःखान्यपि दण्डकेषु संचिन्त्यमानानि सुखान्यभूवन् ॥ 25 ॥

25

तयोरिति॥ चित्रवत्सु वनवासवृत्तान्तालेख्यवत्सु सद्मसु यथाप्रार्थितं यथेष्टमिन्द्रियार्थानिन्द्रियविषयाञ्शब्दादीनासेदुषोः प्राप्तवतोस्तयोः सीता-रामयोर्दण्डकेषु दण्डकारण्येषु प्राप्तानि दुःखान्यपि विरहविलापान्वेषणादीनि संचिन्त्यमानानि स्मर्यमाणानि सुखान्यभूवन्। स्मारकं तु चित्रदर्शनमिति द्रष्टव्यम् ॥ 25 ॥

अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण ।
आनन्दयित्री परिणेतुरासीदनक्षरव्यञ्जितदोहदेन ॥ 26 ॥

26

अथेति॥ अथ सीताऽधिकस्निग्धविलोचनेनात्यन्तमसृणलोचनेन शरवत्तृणविशेषवत् पाण्डुरेणात एव’ अनक्षरमवाग्व्यापारं यथा भवति तथा व्यञ्जितं दोहदं गर्भो येन तेन मुखेन परिणेतु पत्युरानन्दयित्र्यासीत् ॥ 26 ॥

तामङ्कमारोप्य कृशाङ्गयष्टं वर्णान्तराक्रान्तपयोधराग्राम् ।
विलज्जमानां रहसि प्रतीतः पप्रच्छ रामां रमणोऽभिलाषम् ॥ 27 ॥

27

तामिति॥ प्रतीतो गर्भज्ञानवान्। रमयतीति रमणः। प्रियां कृशाङ्गयष्टिं वर्णान्तरेण नीलिम्नाऽऽक्रान्तपयोधराग्रां विलज्जमानां तां रामां रहस्यङ्कमारोप्याभिलाषं मनोरथं पप्रच्छ। एतञ्च-‘दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयत्’ इति शास्त्रात्। न तु लौल्यादित्यनुसंधेयम् ॥ 27 ॥

सा दष्टनीवारबलीनि हिंस्रैः संबद्धवैखानसकन्यकानि ।
इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि ॥ 28 ॥

28

सेति॥ सा सीता हिंस्रैर्दष्टा नीवारा एव बलयो येषु तानि। तिर्यग्भिक्षुकादिदानं बलिः। संबद्धाः कृतसंबन्धाः कृतसख्या वैखानसानां कन्यका तेषु तानि कुशवन्ति भागिरधीतीरतपोवनानि भूयः पुनरपि गन्तुमियेषाभिललाष ॥ 28 ॥

तस्यै प्रतिश्रुत्य रघुप्रवीरस्तदीप्सितं पार्श्वचरानुयातः ।
आलोकयिष्यन्मुदितामयोध्यां प्रासादमभ्रंलिहमारुरोह ॥ 29 ॥

29

तस्या इति॥ रघुप्रवीरो रामस्तस्यै सीतायै तत् पूर्वोक्तमीप्सितं मनोरथं प्रतिश्रुत्य पार्श्वचरैस्तत्कालोचितैरनुयातः सन् मुदितां तामयोध्यामालोकयिष्यन्। अभ्रं लेढीत्यभ्रंलिहमभ्रंकषं प्रासादमारुरोह। ‘वहाभअरे लिहः’ (पा.3।2।32)इति खश्प्रत्ययः। ‘अरुर्द्विषदजन्तस्य मुम्’(पा.6।3।67) इति मुमागमः ॥ 29 ॥

ऋद्धापणं राजपथं स पश्यन्विगाह्यमानां सरयूं च नौभिः ।
विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे ॥ 30 ॥

30

ऋद्धापणमिति॥ स रामः। ऋद्धाः समृद्धा आपणाः पण्यभूमयो यस्मिंस्तं राजपथम्। नौभिः समुद्रवाहिनीभिर्विगाह्यमानां सरयूं च पौरैर्विलासिभिरध्युषितानि पुरोपकण्ठोपवनानि च पश्यन्रेमे। विलासिनश्च विलासिन्यश्च विलासिनः। ‘पुमान्स्त्रिया’(पा.1।2।67) इत्येकशेषः ॥ 30 ॥

स किंवदन्तीं वदतां पुरोगः स्ववृत्तमुद्दिश्य विशुद्धवृत्तः ।
स र्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः ॥ 31 ॥

31

स इति॥ वदतां वाग्मिनां पुरोगः श्रेष्ठो विशुद्धवृत्तः। सर्पाधिराजः शेषः तद्वदुरू भुजौ यस्य स विजितारिभद्रो विजितारिश्रेष्ठः स रामः स्ववृत्तमुद्दिश्य भद्रं भद्रनामकमपसर्पं चरं किंवदन्तीं जनवादं पप्रच्छ। ‘अपसर्पश्चरः स्पशः’इति,‘किंवदन्ती जनश्रुतिः’इति चामरः॥ 31 ॥

निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयम् ।
अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव! देव्याः ॥ 32 ॥

32

निर्बन्धेति॥ निर्बन्धेनाग्रहेण पृष्टः सोऽपसर्पो जगाद। किमिति? हे मानवदेव! रक्षोभवन उषिताया देव्याः सीतायाः परिग्रहात्स्वीकारात् अन्यत्रेतरांशे। तं वर्जयित्वेत्यर्थः। त्वदीयं सर्वं चरितं पौराः स्तुवन्ति ॥ 32 ॥

कलत्रनिन्दागुरुणा किलैवमभ्याहतं कीर्तिविपर्ययेण ।
अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे ॥ 33 ॥

33

कलत्रेति॥ एवं किल कलत्रनिन्दया गुरुणा दुर्वहेण कीर्तिविपर्ययेणापकीर्त्याऽभ्याहतं वैदेहिबन्धोर्वैदेहिवल्लभस्य!‘ङ्यापोः संज्ञाछन्दसोर्बहुलम्’(पा.6।3।67) इति ह्रस्वः। ‘कालिदास’ इतिवत्। हृदयम्। अयोनेनाभितप्तं संतप्तमय इव। विदद्रे विदीर्णम्। कर्तरि लिट् ॥ 33 ॥

किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत संत्यजामि ।
इत्येकपक्षाश्रयविक्लवत्वादासीत्स दोलाचलचित्तवृत्तिः ॥ 34 ॥

34

किमिति॥ आत्मनो निर्वादोऽपवाद एव कथा तां किमुपेक्षे? उत अदोषां साध्वीं जायां संत्यजामि? उभयत्रापि प्रश्ने लट्। इत्येकपक्षाश्रये अन्यतरपक्षपरिग्रहे विक्लवत्वादपरिच्छेत्तृत्वात्स रामो दोलेव चला चित्तवृत्तिर्यस्य स आसीत् ॥ 34 ॥

निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुमैच्छत् ।
अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः ॥ 35 ॥

35

निश्चित्येति॥ किंच,वाच्यमपवादम्। नास्त्यन्येन त्यागातिरिक्तोपायेन निवृत्तिर्यस्य तदनन्यनिवृत्ति। निश्चित्य पत्न्यास्त्यागेन परिमार्ष्टुं परिहर्तुमैच्छत्। तथा हि-यशोधनानां पुंसां स्वदेहादपि यशो गरीयो गुरुतरम्। इन्द्रियार्थात् स्नक्चन्दनवनितादेरिन्द्रियविषयाद्गरीय इति किमुत वक्तव्यम्? ‘पञ्चमी विभक्ते’(पा.2।3।42)इत्युभयत्रापि पञ्चमी॥ सीता चेन्दियार्थं एव ॥ 35 ॥

स संनिपात्यावरजान्हतौजास्तद्विक्रियादर्शनलुप्तहर्षान् ।
कौलीनमात्माश्रयमाचचक्षे तेभ्यः पुनश्चेदमुवाच वाक्यम् ॥ 36 ॥

36

स इति॥ हतौजा निस्तेजस्कः स रामस्तस्य रामस्य विक्रियादर्शनेन लुप्तहर्षानवरजान् संनिपात्य संगमय्य। आत्माश्रयं स्वविषयकं कौलीनं निन्दां तेभ्य आचचक्षे। पुनरिदं वाक्यमुवाच ॥ 36 ॥

राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयम् ।
मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य ॥ 37 ॥

37

राजर्षीति॥ रवेः प्रसूतिर्जन्म यस्य तस्य राजर्षिवंशस्य सदाचारशुचेः सद्वृत्ताच्छुद्धान्मत्तो मत्सकाशात्। दर्पणस्य पयोदवातादिव। साम्भः-कणादित्यर्थः। कीदृशोऽयं कलङ्क उपस्थितः प्राप्तः पश्चत ॥ 37 ॥

पौरेषु सोऽहं बहुलीभवन्तमपां तरंगेष्विव तैलबिन्दुम् ।
सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः ॥ 38 ॥

38

पौरेष्विति॥ सोऽहम्। अपां तरंगेषु तैलबिन्दुमिव। पौरेषु बहुलीभवन्तं प्रसरन्तम्। स एव पूर्वो यस्य स तम्। तत्पूर्वमवर्णमपवादम्। ‘अवर्णोक्षेपनिर्वादपरीवादापवादवत्’ इत्यमरः। द्विपेन्द्रः। आलानमेवालानिकम्। विनयादित्वात्स्वार्थे ठक्। अथवा,-आलानं बन्धनं प्रयोजनमस्येत्यालानिकम्। ‘प्रयोजनम्’(पा.5।1।109) इति ठक्। स्थाणुं स्तम्भमिव। ‘चूतवृक्ष’इतिवत्सामान्यविशेषभावादपौनरुक्त्यं द्रष्टव्यम्। सोढुं नेशे न शक्नोमि ॥ 38 ॥

तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः ।
त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव ॥ 39 ॥

39

तस्येति॥ तस्यावर्णस्यापनोदाय फलप्रवृत्तावपत्योत्पत्तावुपस्थितायां सत्यामपि निर्व्यपेक्षो निःस्पृहः सन्। वैदेहसुताम्। पुरस्तात् पूर्वं पितुराज्ञया समुद्रनेमिम्। समुद्रो नेमिरिव नेमिर्यस्याः सा भूमिः। तामिव। त्यक्ष्यामि ॥ 39 ॥

ननु सर्वथा साध्वीं न त्याज्येत्यत्राह-
अवैमि चैनामनघेति किंतु लोकापवादो बलवान्मतो मे ।
छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः ॥ 40 ॥

40

अवैमीति॥ एनां सीतामनघा साधअवीति चावैमि। किंतु मे मम लोकापवादो बलवान्मतः। कुतः? हि यस्मात् प्रजाभिर्भूमेश्चाया प्रतिबिम्बं शुद्धिमतो निर्मलस्य शशिनो मलत्वेन कलङ्कत्वेनारोपिता। अतो लोकापवाद एव बलवानित्यर्थः ॥ 40 ॥

रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय ।
अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः ॥ 41 ॥

41

रक्ष इति॥ किंच,मे रक्षोवधान्तः प्रयासो व्यर्थो न। किंतु स वैरप्रतिमोचनाय वैरशोधनाय। तथा हि-अमर्षणोऽसहनो द्विजिह्वः सर्पः पदा पादेन स्पृशन्तं पुरुषं शोणितकाङ्क्षया दशति किम्? किंतु वैरनिर्यातनायेत्यर्थः ॥ 41 ॥

तदेष सर्गः करुणार्द्रचित्तैर्न मे भवद्भिः प्रतिषेधनीयः ।
यद्यर्थिता निहृतवाच्यशल्यान्प्राणान्मया धारयितुं चिरं वः ॥ 42 ॥

42

तदिति॥ तत्तस्मादेष मे सर्गो निश्चयः। ‘सर्गः स्वभावनिर्मोक्षनिशअचयाध्यायसृष्टिषु’ इत्यमरः। करुणार्द्रचित्तैर्भवद्भिर्न प्रतिषेधनीयः। निर्हृतं वाच्यमेव शल्यं येषां तान्प्राणान्मया चिरं धारयितुं धारणं कारयितुं वो युष्माकमर्थिताऽर्थित्वमिच्छा यदि। अस्तीति शेषः ॥ 42 ॥

इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् ।
न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुमासीदनुमोदितुं वा ॥ 43 ॥

43

इतीति॥ इत्युक्तवन्तं जनकात्मजायां विषये नितान्तरूक्षाभिनिवेशमतिक्रूराग्रहमीशं स्वामिनं तेषथु भ्रातृषु मध्ये कश्चनापि निषेद्धुं निवारयितुमनुमोदितुं प्रवर्तयितुं वा शक्तो नासीत्। पक्षद्वयस्यापि प्रबलत्वादित्यर्थः ॥ 43 ॥

स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः ।
सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश ॥ 44 ॥

44

स इति॥ लोकत्रयगीतकीर्तिर्यथार्थभाषी लक्ष्मणपूर्वजन्मा लक्ष्मणाग्रजः स रामो निदेशे स्थितमाज्ञाकारिणं लक्ष्मणं विलोक्य ‘हे सौम्य सुभग!’ इत्याभाष्य च पृथग्भरत-शत्रुघ्नाभअयां विनाकृत्य । आदिदेशाज्ञापयामास ॥ 44 ॥

प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव ।
स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम् ॥ 45 ॥

45

प्रजावतीति॥ दोहृदो गर्भिणीमनोरथः। तच्छंसिनी ते प्रजावती भ्रातृजाया। ‘प्रजावती भ्रातृजाया’ इत्यमरः। तपोवनेषु स्पृहयालुरेव सस्पृहेव। ‘स्पृहिगृहि-’(पा.3।2।158) इत्यादिनालुच्प्रत्ययः। स त्वं रथी सन्। तद्व्यपदेशेन दोहदमिषेण नेयां नेतव्यामेनां सीतां वाल्मीकेः पदं स्थानं प्रापय्य गमयित्वा। ‘विभाषापः’(पा.6।4।57) इत्ययादेशः। त्यज॥ 45 ॥

स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विषद्वत् ।
प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरूणां ह्यविचारणीया ॥ 46 ॥

46

स इति॥ पितुर्जमदग्नेर्नियोगाच्छासनाद्भार्गवेण जामदग्नेयेन कर्त्रा। ‘न लोक-’(पा.2।3।69) इत्यादिना षष्ठीप्रतिषेधः। मातरि द्विषतीव द्विषद्वत्। ‘तत्र तस्येव’(पा.3।2।108) इति वतिप्रत्ययः। प्रहृतं प्रहारं शुश्रुवाञ्श्रुतवान्। ‘भाषायां सदवसश्रुवः’(पा.5।1।116) इति क्वसुप्रत्ययः। स लक्ष्मणस्तदग्रजशासनं प्रत्यग्रहीत्। हि यस्माद्गुरूणामाज्ञाऽविचारणीया ॥ 46 ॥

अथानुकूलश्रवणप्रतीतामत्रस्नुभिर्युक्तधुरं तुरंगैः ।
रथं सुमन्त्रप्रतिपन्नरश्मिमारोप्य वैदेहसुतां प्रतस्थे ॥ 47 ॥

47

अथेति॥ अथासौ लक्ष्मणः। अनुकूलश्रवणेन प्रतीतामिष्टाकर्णनेन तुष्टां वैदेहसुतामत्रस्नुभिरभीरुभिर्गर्भिणीवहनयोग्यैः। ‘त्रसिगृधिधृषिक्षिपेः क्नुः’(पा.3।2।140) इति क्नुप्रत्ययः। तुरंगैर्युक्तधुरं सुमन्त्रेण प्रतिपन्नरश्मिं गृहीतप्रग्रहं रथमारोप्य प्रतस्थे ॥ 47 ॥

सा नीयमाना रुचिरान्प्रदेशान्प्रियंकरो मे प्रिय इत्यनन्दत् ।
नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम् ॥ 48 ॥

48

सेति॥ सा सीता रुचिरान्प्रदेशान्नीयमाना प्राप्यमाणा सती मे मम प्रियः प्रियं करोतीति प्रियंकरः प्रियकारीत्यनन्दत्। ‘क्षेमप्रियमद्रेऽण्च’(पा.3।2।44) इति चकारात्खच्प्रत्ययः। तं प्रियमात्मानि विषये कल्पद्रुमतां विहायासिपत्रवृक्षं जातं नाबुद्ध नाज्ञासीत्। बुध्यतेर्लङ्। असिपत्रवृक्षः खङ्गाकारदलः कोऽप्यपूर्वो वृक्षविशेषः। ‘असिपत्रो भवेत्कोषकारे च नरकान्तरे’ इति विशअवः। आसन्नधातुक इति भावः ॥ 48 ॥

जुगूह तस्याः पथि लक्ष्मणो यत्सव्येतरेण स्फुरता तदक्ष्णा ।
आखअयातमस्यै गुरु भावि दुःखमत्यन्तलुप्तप्रियदर्शनेन ॥ 49 ॥

49

जुहूतेति॥ पथि लक्ष्मणो यद्दुःखं तस्याः सीताया जुगूह प्रतिसंहृतवान् तद्गुरु भावि भविष्यद्दुःखमत्यन्तलुप्तं प्रियदर्शनं यस्य तेन स्फुरता सव्येतरेण दक्षिणेनाक्ष्णाऽस्यै सीताया आख्यातम्। स्त्रीणां दक्षिणाक्षिस्फुरणं दुर्निमित्तमाहुः ॥ 49 ॥

सा दुर्निमित्तोपगताद्विषादात्सद्यःपरिम्लानमुखारविन्दा ।
राज्ञः शिवं सावरजस्य भूयादित्याशशंसे करणैरबाह्यैः ॥ 50 ॥

50

सेति॥ सा सीता दुर्निमित्तेन दक्षिणाक्षिस्फुरणरूपेणोपगतात्प्राप्ताद्विषादाद्दुःखात् सद्यःपरिम्लानमुखारविन्दा सती ‘सावरजस्य सानुजस्य राज्ञो रामस्य शिवं भूयात्’ इत्यबाह्यैः करणैरन्तःकरणैः। आशसंसे। शंसतेरपेक्षायामात्मनेपदमिष्यते। ‘करणैः’ इति बहुवचनं क्रियावृत्त्यभिप्रायम्। पुनःपुनराशशंस इत्यर्थः॥ 50 ॥

गुरोर्नियोगाद्वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन् ।
अवार्यतेवोत्थितवीचिहस्तैर्जह्नोर्दुहित्रा स्थितया पुरस्तात् ॥ 51 ॥

51

गुरोरिति॥ गुरोर्ज्येष्टस्य नियोगात्साध्वीं वनिताम्। अत्याज्यामित्यर्थः। वनान्ते विहास्यंस्त्यक्ष्यन् सुमित्रातनयो लक्ष्मणः पुरस्तादग्रे स्थितया जह्नोर्दुहित्रा जाह्नव्योत्थितैर्वीचिहस्तैरवार्यतेव । ‘अकार्यं मा कुरु’ इत्यवार्यतेव इत्युत्प्रेक्षा ॥ 51 ॥

रथात्स यन्त्रा निगृहीतवाहात्तां भ्रातृजायां पुलिनेऽवतार्य ।
गङ्गां निषादाहृतनौविशेषस्ततार संधामिव सत्यसंधः ॥ 52 ॥

52

रथादिति॥ सत्यसंधः सत्यप्रतिज्ञः स लक्ष्मणो यन्त्रा सारथिना निगृहीतवाहाद्रुद्धाश्वाद्रथाद्भ्रातृजायां पुलिनेऽवतार्यारोप्य निषादेन किरातेनाहृतनौविशेष आनीतदृढनौकः सन् गङ्गां भागीरथीम्। संधां प्रतिज्ञामिव ततार। ‘संधा प्रतिज्ञा मर्यादा’ इत्यमरः ॥ 52 ॥

अथ व्यवस्थापितवाक्कथंचित्सौमित्रिरन्तर्गतबाष्पकण्ठः ।
औत्पातिकं मेघ इवाश्मवर्षं महीपतेः शासनमुज्जगार ॥ 53 ॥

53

अथेति॥ अथ कथंचिद्व्यवस्थआपिता प्रकृतिमापादिता वाग्येन सः अन्तर्गतबाष्पः कण्ठो यस्य सः। कण्ठस्तम्भिताश्रुरित्यर्थः। सौमित्रिर्महीपतेः शासनम्। मेघ उत्पाते भवमौत्पातिकमश्मवर्षं शिलावर्षमिव। उज्जगारोद्गीर्णवान्। दारुणत्वेनावाच्यत्वात् ‘उज्जगार’ इत्युक्तम् ॥ 53 ॥

ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना ।
स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम ॥ 54 ॥

54

तत इति॥ ततः अभिषङ्गः पराभवः। ‘शापे त्वभिषङ्गः पराभवे’ इत्यमरः। श एवानिलस्तेन विप्रविद्धा अभिहता। प्रभ्रशअयमानानि पतन्त्याभरणान्येव प्रसूनानि यस्याः सा सीता लतेव। सहसा स्वमूर्तिलाभस्य स्वशरीरलाभस्य स्वोत्पत्तेः प्रकृतिं कारणं धरित्रीं जगाम। भूमौ पपातेत्यर्थः। स्त्रीणामापदि मातैव शरणमिति भावः ॥ 54 ॥

इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्तः ।
इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावत् ॥ 55 ॥

55

इक्ष्वाक्विति॥ इक्ष्वाकुवंशप्रभवः। महाकुलप्रसूत इत्यर्थः। आर्यवृत्तः साधुचरितः पतिर्भर्ता त्वामकस्मादकारणात् कथं त्यजेत्। असंभावितमित्यर्थः। इति संशयितेव संदिहानेव तावत्। त्यागहेतुज्ञानावधेः प्रागित्यर्थः। जननी क्षितिस्तस्यै सीतायै प्रवेशम्। आत्मनीति शेषः। न ददौ ॥ 55 ॥

सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः ।
तस्याः सुमित्रात्मजयत्नलब्धो मोहादभूत्कष्टतरः प्रबोधः ॥ 56 ॥

56

सेति॥ लुप्तसंज्ञा नष्टचेतना मूर्च्छिता सा दुःखं न विवेद। प्रत्यागतासुर्लब्धसंज्ञा सती,अन्तः समतप्यत। दुःखेनादह्यतेत्यर्थः। तपेः कर्मणि लङ्। कर्मकर्तरीति केचित्,-तन्न; ‘तपस्तपः कर्मकस्यैव’(पा.3।1।88) इति यङ्नियमात्। तस्याः सीतायाः सुमित्रात्मजयत्नलब्धः प्रबोधो मोहात्कष्टतरोऽतिदुःखदोऽभूत्। दुःखवेदनासंभवादिति भावः ॥ 56 ॥

न चावदद्भर्तुरवर्णमार्या निराकरिष्णोर्वृजिनादृतेऽपि ।
आत्मानमेव स्थिरदुःखभाजं पुनः पुनर्दुष्कृतिनं निनिन्द ॥ 57 ॥

57

न चेति॥ आर्या साध्वी सीता वृजिनादृत एनसो विनापि। ‘कलुषं वृजिनैनोऽघम्’ इत्यमरः। ‘अन्यारादितरर्ते-’(पा.2।3।29) इत्यादिना पञ्चमी। निराकरिष्णोर्निरासकस्य। ‘अलंकृञ्-’(पा.3।2।136) इत्यादिनेष्णुच्प्रत्ययः। भर्तुरवर्णमपवादं न चावदन्नैवावादीत्। किंतु स्थिरदुःखभाजमत एव दुष्कृतिनमात्मानं पुनः पुनर्निनिन्द ॥ 57 ॥

आश्वास्य रामावरजः सतीं तामाख्यातवाल्मीकिनिकेतमार्गः ।
निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि! क्षमस्वेति बभूव नम्रः ॥ 58 ॥

58

न चेति॥ आर्या साध्वी सीता वृजिनादृत एनसो विनापि। ‘कलुषं वृजिनैनोऽघम्’ इत्यमरः। ‘अन्यारादितरर्ते-’(पा.2।3।29) इत्यादिना पञ्चमी। निराकरिष्णोर्निरासकस्य। ‘अलंकृञ्-’(पा.3।2।136) इत्यादिनेष्णुच्प्रत्ययः। भर्तुरवर्णमपवादं न चावदन्नैवावादीत्। किंतु स्थिरदुःखभाजमत एव दुष्कृतिनमात्मानं पुनः पुनर्निनिन्द ॥ 58 ॥

सीता तमुत्थाप्य जगाद वाक्यं प्रीतास्मि ते सौम्य! चिराय जीव ।
बिडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम् ॥ 59 ॥

59

सीतेति॥ सीता तं लक्ष्मणमुत्थाप्य वाक्यं जगाद। किमिति? हे सौम्य साधो! ते प्रीतास्मि। चिराय चिरं जीव। यद्यस्मात्। बिडौजसेन्द्रेण विष्णुरुपेन्द्र इव। अग्रजेन ज्येष्ठेन भ्रात्रा त्वमित्थं परवान् परतन्त्रोऽसि ॥ 59 ॥

श्वश्रूजनं सर्वमनुक्रमेण विज्ञापय प्रापितमत्प्रणामः ।
प्रजानिषेकं मयि वर्तमानं सूनोरनुधअयायत चेतसेति ॥ 60 ॥

60

श्वश्रूजनमिति॥ सर्वं श्वश्रूजनमनुक्रमेण प्रापितमत्प्रणामः सन्। मत्प्रणाममुक्त्वेत्यर्थः। विज्ञापय। किमिति? निषिच्यत इति निषेकः। मयि वर्तमानं सूनोस्त्वत्पुत्रस्य प्रजानिषेकं गर्भं चेतसाऽनुध्यायत ‘शिवमस्तु’ इति चिन्तयतेति ॥ 60 ॥

वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् ।
मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य ॥ 61 ॥

61

वाच्य इति॥ स राजा त्वया मद्वचनान्मद्वचनमिति कृत्वा। ल्यब्लोपे पञ्चमी। वाच्यो वक्तव्यः। किमित्यत आह ‘वह्नौ’ इत्यादिभिः सप्तभिः श्लोकैः-अक्ष्णोः समीपे समक्षम्। विभक्त्यर्थेऽव्ययीभावः,सामीप्यार्थे वा। ‘अव्ययीभावे शरत्प्रभृतिभ्यः’(पा.5।4।107) इति समासान्तष्टच्प्रत्ययः। समक्षमग्रे वह्नौ विशुद्धामपि मां लोकवादस्य मिथ्यापवादस्य श्रवणाद्धेतोरहासीरत्याक्षीरिति यत्तच्छ्रुतस्य प्रख्यातस्य कुलस्य सदृशं किम्? किंत्वसदृशमित्यर्थः। यद्वा,-श्रुतस्य श्रवणस्य कुलस्य चेति योजना। कामचार्यसीति भावः ॥ 61 ॥

कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीयः ।
ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः ॥ 62 ॥

62

कल्याणेति॥ अथवा कल्याणबुद्धेः सुधियस्तव कर्तुः मयि विषयेऽयं त्यागो न कामचार इच्छया करणं न शङ्कनीयः। कामचारशङ्कापि न क्रियत इत्यर्थः। किंतु ममैव जन्मान्तरपातकानामप्रसह्यो विपच्यत इति विपाकः फलम्। स एव विस्फूर्जथुरशनिनिर्घोषः। ‘स्फूर्जथुर्वज्रनिर्घोषः’ इत्यमरः॥ 62 ॥

उपस्थितां पूर्वमपास्य लक्ष्मीं वनं मया सार्धमसि प्रपन्नः ।
तदास्पदं प्राप्य तयातिरोषात्सोढास्मि न त्वद्भवने वसन्ती ॥ 63 ॥

63

उपस्थितामिति॥ पूर्वमुपस्थितां प्राप्तां लक्ष्मीमपास्य मया सार्धं वनं प्रपन्नोऽसि प्राप्तोऽसि। तत्तस्मात्तया लक्ष्म्याऽतिरोषात्त्वद्भवनं आस्पदं प्रतिष्ठाम्। ‘आस्पदं प्रतिष्ठायाम्’(पा.6।1।146) इति निपातः। प्राप्य वसन्त्यहं सोढा नास्मि ॥ 63 ॥

निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात् ।
भूत्वा शरण्या शरणार्थमन्यं कथं प्रपत्स्ये त्वयि दीप्यमाने ॥ 64 ॥

64

निशाचरेति॥ निशाचरैरुपप्लुताः पीडिता भर्तारो यासां ता निशाचरोपप्लुतभर्तृकाः। ‘नद्यृतश्च’(पा.5।4।153) इति कप्प्रत्ययः। तासां तपस्विनीनां भवतः प्रसादादनुग्रहाच्छरण्या शरणसमर्था भूत्वा। अद्य त्वयि दीप्यमाने प्रकाशमाने सत्येव शरणार्थमन्यं तपस्विनं कथं प्रपत्स्ये प्राप्स्यामि? ॥ 64 ॥

किंवा तवात्यन्तवियोगमोघे कुर्यामुपेक्षां हतजीवितेऽस्मिन् ।
स्याद्रक्षणीयं यदि मे न तेजस्त्वदीयमन्तर्गतमन्तरायः ॥ 65 ॥

65

किंवेति॥ किंवाऽथवा तव संबन्धिनाऽत्यन्तेन पुनः प्राप्तिरहितेन वियोगेन मोघे निष्फलेऽस्मिन्हतजीविते तुच्छजीवित उपेक्षां कुर्यां कुर्यामेव। रक्षणीयं रक्षणार्हमन्तर्गतं कुक्षिस्थं त्वदीयं तेजः शुक्रं गर्भरूपम् ‘शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च’ इत्यमरः। यदि मे ममान्तरायो विघ्नो न स्यात् ॥ 65 ॥

साहं तपः सूर्यनिविष्टदृषअटिरूर्ध्वं प्रसूतेश्चरितुं यतिष्ये ।
भूयो यथा मे जजान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः ॥ 66 ॥

66

सेति॥ साऽहं प्रसूतेरूर्घ्वं सूर्यनिविष्टदृष्टिः सती तथाविधं तपश्चरितुं यतिष्ये। यथा भूयस्तेन तपसा मे मम जननान्तरेऽपि त्वमेव भर्ता स्याः,विप्रयोगश्च न स्यात् ॥ 66 ॥

नृपस्य वर्णाश्रमपालनं यत्स एव ध्रर्मो मनुना प्रणीतः ।
निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया ॥ 67 ॥

67

नृपस्येति॥ वर्णानां ब्राह्मणादीनामाश्रमाणां ब्रह्मचर्यादीनां च पालनं यत्स एव नृपस्य धर्मो मनुना प्रणीत उक्तः। अतः कारणादेवं त्वया निर्वासिता निष्कासिताप्यहं तपस्विभिः सामान्यं साधारणं यथा भवति तथाऽवेक्षणीया। कलत्रदृष्ट्यभावेऽपि वर्णाश्रमदृषअटिः सीतायां कर्तव्येत्यर्थः ॥ 67 ॥

तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते ।
सा मुक्तकण्ठं व्यसनातिभराञ्चक्रन्द विग्नां कुररीव भूयः ॥ 68 ॥

68

तथेति॥ तथएति तस्याः सीताया वाचं प्रतिगृह्याङ्गीकृत्य रामानुजे लक्ष्मणे दृष्टिपथं व्यतीतेऽतिक्रान्ते सति सा सीता व्यसनातिभाराद्दुःखातिरेकात्। मुक्तकण्ठं यथा स्यात्तथा। वाग्वृत्त्येत्यर्थथः। विग्ना भीता कुररीवोत्क्रोशीव। ‘उत्क्रोशकुररौ समौ’ इत्यमरः। भूयो भूयिष्ठं चक्रन्द चुक्रोश ॥ 68 ॥

नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्यः ।
तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥ 69 ॥

69

नृत्यमिति॥ मयूरा नृत्यं विजहुस्त्यक्तवन्तः। वृक्षाः कुसुमानि। हरिण्य उपात्तान्दर्भान्। इत्थं तस्याः सीतायाः समदुःखभावं प्रपन्ने तुल्यदुःखत्वं प्राप्ते वनेऽप्यत्यनतं रुदितमासीत्। यथा रामगेहेऽपीति ‘अपि’ शब्दार्थः॥ 69 ॥

तामभ्यगच्छद्रुदितानुसारी कविः कुशेध्माहरणाय यातः ।
निषादविद्धआण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः ॥ 70 ॥

70

तामिति॥ कुशेध्माहरणाय यातः कविर्वाल्मीकी रुदितानुसारी सन्,तां सीतामभ्यगच्छत्। अभिगमनं च दयालुतयेत्याह-निषादेति। निषादेन व्याधेन विद्धस्याण्डजस्य क्रौञ्चस्य दर्शनेनोत्थ उत्पन्नो यस्य शोकः श्लोकत्वमापद्यत। श्लोकरूपेणावोचदित्यर्थः। स च श्लोकः पठ्यते(बाल.2।15) ‘मा निषाद! प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥’ इति। तिरश्चामपि दुःखं न सेहे। किमुतान्येषामिति भावः ॥ 70 ॥

तमश्रु नेत्रावरणं प्रमृज्य सीता विलापाद्विरता ववन्दे ।
तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान्सुपुत्राशिषमित्युवाच ॥ 71 ॥

71

तमिति॥ सीता विलापाद्विरता सती नेत्रावरणं दृष्टिप्रतिबन्धकमश्रु प्रमृज्य तं मुनिं ववन्दे दोहदलिङ्गदर्शी गर्भचिह्नदर्शी मुनिस्तस्यै सीतायै सुपुत्राशिषं तत्प्राप्तिहेतुभूतां दाश्वान् दत्तवानिति वक्ष्यमाणप्रकारेणोवाच। ‘दाश्वान्साह्वान्मीढ्वांश्च’(पा.6।1।12) इति क्वस्वन्तो निपातः ॥ 71 ॥

जाने विसृष्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा ।
तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि! पितुर्निकेतम् ॥ 72 ॥

72

जान इति॥ त्वां मिथ्यापवादेन क्षुभितेन भर्त्रा विसृष्टां त्यक्तां प्रणिधानतः समाधिदृष्ट्या जाने। हे वैदेहि! विषयान्तरस्थं देशान्तरस्थं पितुर्जनकस्यैव निकेतं गृहं प्राप्तासि। तत्तस्मान्मा व्यथिष्ठा मा शोचीः। व्यथेर्लुङ्। ‘न माङ्योगे’(पा.6।4।74) इत्यडागमप्रतिषेधधः। भर्त्रोपेक्षितानां पितृगृहवास एवोचित इति भावः ॥ 72 ॥

उत्खातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि ।
त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे ॥ 73 ॥

73

उत्खातेति॥ उत्खातलोकत्रयकण्टकेऽपि रावणादिकण्टकोद्धरणेन सर्वलोकोपकारिण्यपीत्यर्थः। सत्यप्रतिज्ञे सत्यसंधेऽपि। अविकत्थनेऽनात्मश्लाघिन्यपि। इत्थं स्नेहपात्रेऽपि त्वां प्रत्यकस्मादकारणात्कलुषप्रवृत्तौ गर्हितव्यापारे भरताग्रजे मे मन्युः कोपोऽस्त्येव। सर्वगुणाच्छादकोऽयं दोष इत्यर्थः। सीतानुनयार्थोऽयं रामोपालम्भः ॥ 73 ॥

तवोरुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते ।
धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या ॥ 74 ॥

74

तवेति॥ उरुकीर्तिस्तव श्वशुरो दशरथो मे सखा। ते पिता जनकः सतां विदुषां भवोच्छेदकरो ज्ञानोपदेशादिना संसारदुःखध्वंसकारी। त्वं पतिदेवतानां पतिव्रतानां धुरि अग्रे स्थिता। येन निमित्तेन ममानुकम्प्याऽनुग्राह्यानासि तत्किम्? न किंचिदित्यर्थः ॥ 74 ॥

तपस्विसंसर्गविनीतसत्त्वे तपोवने वीतभया वसास्मिन् ।
इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते ॥ 75 ॥

75

तपस्वीति॥ तपस्विसंसर्गेण विनीतसत्त्वे शान्तजन्तुकेऽस्मिंस्तपोवने वीतभया निर्भीका वस। इतोऽस्मिन्वनेऽनघप्रसूतेः सुखप्रसूतेस्तेऽपत्यसंस्कारमयो जातकर्मादिरूपो विधिरनुष्ठानं भविष्यति ॥ 75 ॥

अशून्यतीरां मुनिसंनिवेशैस्तमोपहन्त्रीं तमसां वगाह्य ।
तत्सैकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः ॥ 76 ॥

76

अशून्येति॥ संनिविशन्ते येष्विति संनिवेशा उटजाः। अधिकरणार्थे धञ्प्रत्ययः। मुनीनां संनिवेशैरुटजैरशून्यतीरां पूर्णतीरां तमसः शोकस्य पापस्य वाऽपहन्त्रीम्। ‘तमस्तु क्लीबे पापे नरकशोकयोः’ इत्यमरः। तमसां नदीं वगाह्य तत्र स्नात्वा। बलिक्रियापेक्षया पूर्वकालेता। तस्याः सैकतोत्सङ्गेषु बलिक्रियाभिरिष्टदेवतापूजाविधिभिस्ते मनसः प्रसादः संपत्स्यते भविष्यति ॥ 76 ॥

पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि ।
विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम् ॥ 77 ॥

77

पुष्पमिति॥ ऋतुरस्य प्राप्त आर्तवम्। स्वकालप्राप्तमित्यर्थः। पुष्पं फलं च। अकृषअटरोह्यकृष्टक्षेत्रोत्थम्। अकृष्टपच्यमित्यर्थः। बलये हितं बालेयं पूजायोग्यम्। ‘छदिरुपधिबलेर्ढञ्’(पा.5।1।13) इति ढञ्प्रत्ययः। बीजं नीवारादिधान्यं चाहरन्त्य उदारवाचः प्रगल्भगिरो मुनिकन्यका नवाभिषङ्गां नूतनदुःखां त्वां विनोदयिष्यन्ति ॥ 77 ॥

पयोघटैराश्रमबालवृक्षान्संवर्धयन्ती स्वबलानुरूपैः ।
असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्रीतिमवाप्स्यसि त्वम् ॥ 78 ॥

78

पय इति॥ स्वबलानुरूपैः स्वशक्त्यनुसारिभिः पयसामम्भसां घटैः। स्तन्यैरिति च ध्वन्यते। आश्रमबालवृक्षान्संवर्धयन्ती त्वं तनयोपपत्तेः प्राक् पूर्वम्। असंशयं यथा तथा। स्तनं धयति पिबतीति स्तनंधयः शिशुः। ‘नासिकास्तनयोर्ध्माधेटाः’(पा.3।2।29) इति खश्प्रत्ययः। ‘अरुर्द्विष-’(पा.6।3।67) इत्यादिना मुमागमः। तस्मिन्या प्रीतिस्तामवाप्स्यसि। ततः परं सुलभ एव विनोद इति भावः ॥ 78 ॥

अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः ।
सायं मृगाध्यासितवेदिपार्श्वं स्वमाश्रमं शान्तमृगं निनाय ॥ 79 ॥

79

अनुग्रहेति॥ दयार्द्रचेता वाल्मीकिः। अनुग्रहं प्रत्यभिनन्दतीति तथोक्तां तां सीतामादाय सायं मृगैरध्यासितवेदिपार्श्वमधिष्ठितवेदिप्रान्तं शान्तमृगं स्वमाश्रमं निनाय ॥ 79 ॥

तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु ।
निर्विष्टसारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु ॥ 80 ॥

80

तामिति॥ शोकदीनां तां सीतां तस्याः सीताया आगमेन प्रीतिर्यासां तासु तापसीषु। पितृभिरग्निष्वात्तादिभिर्निर्विष्टसारां भुक्तासारां हिमांशोरन्त्यामवशिष्टां कलां दर्शोऽमावास्याकाल ओषधीष्विव अर्पयामास च। अत्र पराशरः-‘पिबन्दि विमलं सोमं विशिष्टा तस्य या काला। सुधामृतमयी पुण्यां तामिन्दोः पितरो मुने!॥’ इति। व्यासश्च-‘अमायां तु सदा सोम ओषधीः प्रतिपद्यते’ इति॥ 80 ॥

ता इङ्गुदीस्नेहकृतदप्रदीपमास्तीर्णमेध्याजिनतल्पमन्तः ।
तस्यै सपर्यानुपदं दिनान्दे निवासहेतोरुटजं वितेरुः ॥ 81 ॥

81

ता इति॥ तास्तापस्यः। तस्यै सीतायै सपर्यानुपदं पूजानन्तरं दिनान्ते सायंकाले निवास एव हेतुस्तस्य निवासहेतोः, निवासार्थमित्यर्थः। ‘षष्टी हेतुप्रयोगे’(पा.2।3।26) इति षष्ठी। ‘इङ्गुदी तापसतरुः’ इत्यमरः। इङ्गदीस्नेहेन कृतप्रदीपमन्तरास्तीर्णं मेध्यं शुद्धमजिनमेव तल्पं शय्या यस्मिंस्तमुटजं पर्णशालां वितेरुर्ददुः ॥ 81 ॥

तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः ।
वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार ॥ 82 ॥

82

तत्रेति॥ तत्राश्रमेऽभिषेकेण स्नानेन प्रयता नियता वसन्ती विधइना शास्त्रेणातिथिभ्यः प्रयुक्तपूजा कृतसत्कारा वल्कलिनी सा सीता पत्युः प्रजासंततये संतानाविच्छेदाय हेतोः। वन्येन कन्दमूलादिना शरीरं बभार पुपोष ॥ 82 ॥

अपि प्रभुः सानुशयोऽधुना स्यात्किमुत्सुकः शक्रजितोऽपि हन्ता ।
शशंस सीतापरिदेवनान्तमनुष्ठितं शासनमग्रजाय ॥ 83 ॥

83

अपीति॥ प्रभू राजा। अधुनापि सानुशयः सानुतापः स्यात्किम् इति काकुः। उत्सुकः शक्रजित इन्द्रजितो हन्ता लक्ष्मणोऽपि सीतापरिदेवनान्तं साताविलापान्तमनुष्ठितं शासनमग्रजाय शशंस ॥ 83 ॥

बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः ।
कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः ॥ 84 ॥

84

बभूवेति॥ सहसा सपदि सबाष्पो रामः। तुषारवर्षी सहस्यचन्द्र इव बभूव। अत्यश्रुतया तुषारवर्षिणा पौषचन्द्रेण तुल्योऽभूत्। ‘पौषे तैषसहस्यौ द्वौ’ इत्यमरः। युक्तं चैतदित्याह-कौलीनाल्लोकापवादाद्भीतेन तेन रामेण वैदेहसुता सीता गृहान्निरस्ता। न मनस्तो मनसश्चित्तान्न निरस्ता। पञ्चम्यास्तसिल् ॥ 84 ॥

निगृह्य शोकं स्वयमेव धीमान्वर्णाश्रमावेक्षणजागरूकः ।
स भ्रातृसाधारणभोगमृद्धं राज्यं रजोरिक्तमनाः शशास ॥ 85 ॥

85

निगृह्येति॥ धीमान् वर्णानामाश्रमाणां चावेक्षणेऽनुसंधाने जागरूकोऽप्रमत्तः ‘जागरूकः’(पा.3।2।165)इत्यूकप्रत्ययः। रजोरिक्तमना रजोगुणशून्यचेताः स रामः स्वयमेव शोकं निगृह्य निरुध्य भ्रातृभिः साधारणभोगम्। शरीरस्थितिमात्रोपयुक्तमित्यर्थः। ऋद्धं राज्यं शशास ॥ 85 ॥

तामेकभार्यां परिवादभीरोः साध्वीमपि त्यक्तवतो नृपस्य ।
वक्षस्यसंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः ॥ 86 ॥

86

तामिति॥ परिवादभीरोर्निन्दाभीरोरत एव एकभार्यामपि साध्वीमपि तां सीतां त्यक्तवतो नृपस्य वक्षस्यसंघट्टसुखमसंभाव्यसुखं वसन्ती लक्ष्मीः सपत्नीरहितेव रेजे दिदीपे। तस्य स्त्र्यन्तरपरिग्रहो नाभूदिति भावः ॥ 86 ॥

सीतां हित्वा दशमुखरिपुर्नोपयेमे यदन्यां
तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार ।
वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः
सा दुर्वारं कथमपि परित्यागदुःखं विषेहे ॥ 87 ॥

87

इति श्रीरघुवंशे महाकाव्ये वकिश्रीकालिदासकृतौ सीतापरित्यागो नाम चतुर्दशः सर्गः ।
सीतामिति॥ दशमुखरिपू रामः सीतां हित्वा त्यक्त्वाऽन्यां स्त्रियं नोपयेमे न परिणीतवानिति यत्। ‘उपाद्यमः स्वकरणे’(पा.1।3।56) इत्यात्मनेपदम्। किंच,तस्याः सीताया एव प्रतिकृतेः प्रतिमायाः हिरण्मय्याः सखा प्रतिकृतिसखः सन् क्रतूनाजहाराहृतवानिति यत्तेन श्रवणविषयप्रापिणा श्रोत्रदेशगामिना भर्तुर्वृत्तान्तेन वार्तया हेतुना सा सीता दुर्वारं दुर्निरोधं परेत्यागेन यद्दुःखं तत्कथमपि विषेहे विसोढवती ॥ 87 ॥

इति महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां रघुवंशव्याख्यायां संजीविनीसमाख्यायां चतुर्दशः सर्गः ।