त्रयोदशः सर्गः।
त्रैलोक्यशल्योद्धरणाय सिन्धोश्चकार बन्धं मरणं रिपूणाम् ।
पुण्यप्रणामं भुवनाभिरामं रामं विरामं विपदामुपासे ॥
अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः ।
रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच ॥ 1 ॥
01
अथेति॥ अथ प्रस्थानानन्तरम्। जानातीति ज्ञः। ‘इगुपध-’(पा.3।1।135) इत्यादिना कप्रत्ययः। गुणानां ज्ञो गुणज्ञः। रत्नाकरादिवर्ण्यैश्वर्यगुणाभिज्ञ इत्यर्थः। स रामाभिधानो हरिर्विष्णुः शब्दो गुणो यस्य तच्छब्दगुणमात्मनः स्वस्य पदं विष्णुपदम्। आकाशमित्यर्थः। ‘वियद्विष्णुपदम्’इत्यमरः। ‘शब्दगुणमाकाशम्’इति तार्किकाः। विमानेन पुष्पकेण विगाहमानः सन् रत्नाकरं वीक्ष्य मिथो रहसि। ‘मिथोऽन्योन्यं रहस्यपि’इत्यमरः। जायां पत्नीं सीतामिति वक्षअयमाणप्रकारेणोवाच। रामस्य ‘हरि’रित्यभिधानं निरङ्कुशमहिमद्योतनार्थम्। ‘मिथो’ ग्रहणं गोष्ठीविश्रम्भसूचनार्थम् ॥ 1 ॥
वैदेहि! पश्याऽऽमलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् ।
छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥ 2 ॥
02
वैदेहीति॥ हे वैदेहि सीते! आ मलयान्मलयपर्यन्तम्। ‘पञ्चम्यपाङ्परिभिः’(पा.2।3।10) इति पञ्चमी। पदद्वयं चैतत्। मत्सेतुना विभक्तं द्विधा कृतम्। अत्यायतसेतुनेत्यर्थः। हर्षाधिक्याञ्च मद्ग्रहणम्। फेनिलं फेनवन्तम्। ‘फेनादिलञअच’(पा.5।2।99)इतीलच्प्रत्ययः। क्षिप्रकारी चायमिति भावः। अम्बुराशिम्। छायापथेन विभक्तं शरत्प्रसन्नमाविष्कृतचारुतारमाकाशमिव। पश्य। मम महानयं प्रयासस्त्वदर्थं इति हृदयम्। छायापथो नाम ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाशः ॥ 2 ॥
गुरोर्यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे ।
तदर्थमुर्वीमवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥ 3 ॥
03
गुरोरिति॥ यियक्षोर्यष्टुमिच्छोः। यजेः सन्नन्तादुप्रत्ययः। गुरोः सगरस्य मेध्येऽश्वमेधार्हे तुरंगे ह्रये कपिलेन मुनिना रसातलं पातालं संक्रमित्ते सति। तदर्थमुर्वीमवदारयद्भिः खनद्भिर्नोऽस्माकं पूर्वैर्वृद्धैः सगरसुतैरयं समुद्रः परिवर्धितः किल। ‘किल’इत्यैतिह्ये। अतो न पूज्य इति भावः। यद्यपि तुरंगहारी शतक्रतुस्तथापि तस्य कपिलसमीपे दर्शनात्स एवेति भ्रान्तिः तन्मत्वैव कविना कपिलेनेति निर्दिष्टम् ॥ 3 ॥
गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते वसूनि ।
अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥ 4 ॥
04
गर्भमिति॥ अर्कमरीचयोऽस्मादब्धेः। अपादानात्। गर्भमम्मयं दधति। वृष्ट्यर्थमित्यर्थः। अयमर्थो दशमसर्गे ‘ताभिर्गर्भः-’(58)इत्यत्र स्पष्टीकृतः। अयं लोकोपकारीति भावः। अत्राब्धौ वसूनि धनानि। ‘धने रत्ने वसु स्मृतम्’इति विश्वः। विवृद्धिमश्नुवते प्राप्नुवन्ति। संपद्वानित्यर्थः। असौ। आप इन्धनं दाह्यं यस्य तद्दाहकं वह्निं बिभर्ति। अपकारेऽप्याश्रितं न त्यजतीति भावः। अनेन प्रह्लादनमाह्लादकं ज्योतिश्चन्द्रोऽजनि जनितम्। जनेर्ण्यन्तात्कर्मणि लुङ्। सौम्य इति भावः ॥ 4 ॥
तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना ।
विष्णोरिवास्यानवधारणीयमीदृक्तया रूपमियत्तया वा ॥ 5 ॥
05
तां तामिति॥ तां तामनेकाम्। ‘नित्यवीप्सयोः’(पा.8।1।4) इति वीप्सया द्विरुक्तिः। अवस्थामक्षोभाद्यवस्थाम्। विष्णुपक्षे,-सत्त्वाद्यवस्थाम्। प्रतिपद्यमानं भजमानं महिम्ना दश दिशो व्याप्य स्थितं विष्णोरिवास्य रत्नाकरस्य रूपं स्वरूपमुक्तरीत्या बहुप्रकारत्वाद्व्यापकत्वाञ्चेदृक्तया,इयत्तया वा प्रकारतः परिमाणतश्चानवधारणीयं दुर्निरूपम् ॥ 5 ॥
नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥ 6 ॥
06
नाभीति॥ युगान्ते कल्पान्त उचिता परिचिता योगाः स्वात्मनिष्ठैव निद्रेव निद्रा यस्य स पुरुषो विष्णुर्लोकान्संहृत्य। नाभ्यां प्ररूढं यदम्बुरुहं पद्मं तदासनेन तन्नाभिकमलाश्रयेण प्रथमेन धात्रा दक्षादीनामपि स्रष्ट्रा पितामहेन संस्तूयमानः सन्। अमुमधिशेते। अमुष्मिञ्धेत इत्यर्थः। कल्पान्तेऽप्यस्तीति भावः ॥ 6 ॥
पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यमेनं शतशो महीध्राः ।
नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥ 7 ॥
07
पक्षेति॥ पक्षच्छिदा गोत्रभिदेन्द्रेण। उभयत्र ‘सत्सूद्विष-’(पा.3।2।61) इत्यादिना क्विप्। आत्तगन्धा हृदगर्वाः। अभिभूता इत्यर्थः। ‘गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः’इति विश्वः। ‘आत्तगन्धोऽभिभूतः स्यात्’ इत्यमरः। महीं धारयन्तीति महीध्राः पर्वताः। मूलविभुजादित्वात्कप्रत्ययः। शतं शतं शतशः शरण्यं रक्षणसमर्थमेनं समुद्रम्। परेभ्यः शत्रुभ्य उपप्लविनो भयवन्तो नृपा धर्मोत्तरं धर्मप्रधानं मध्यमं मध्यमभूपालमिव। आश्रयन्ते। ‘अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः’ इति कामन्दकः। आर्तबन्धुरिति भावः ॥ 7 ॥
रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः ।
अस्याच्छमम्मः प्रलयप्रवृद्धं मुहूर्तवक्राभरणं बभूव ॥ 8 ॥
08
रसातलादिति॥ आदिभवेन पुंसाऽऽदिवराहेण रसातलात्प्रयुक्तोद्वहननक्रिययाः कृतोद्धरणक्रियायाः। विवाहक्रिया च व्यज्यते। भुवो भूदेवतायाः प्रलये प्रवृद्धमस्याब्धेरच्छमम्भो मुहूर्तं वक्त्राभरणं लज्जारक्षणार्थं मुखावगुण्ठनं बभूव। तदुक्तम्-‘उद्धृतासि वराहेण कृष्णेन शतबाहुना’इति ॥ 8 ॥
मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरंगाधरदानदक्षः ।
अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः ॥ 9 ॥
09
मुखेति॥ अन्येषां पुंसां सामान्या साधारणा न भवतीत्यनन्यसामान्या कलत्रेषु वृत्तिर्भोगरूपा यस्य स तथोक्तः। इममेवार्थं प्रतिपादयति-तरंग एवाधरस्तस्य दाने समर्पणे दक्षश्चतुरोऽसौ समुद्रो मुखार्पणेषु प्रकृत्या सख्यादिप्रेषणं विना प्रगल्भा धृष्टाः सिन्धूर्नदीः। ‘सिन्धुः समुद्रे नद्यां च’ इति विश्वः। स्वयं पिबति पाययतेच । तरंगाधरमिति शेषः। ‘न पादम्याङ्यमा-’(पा.1।3।79) इत्यादिना पिबतेर्ण्यन्तान्नित्यं परस्मैपदनिषेधः। ‘गतिबुद्धिप्रत्यवसानार्थ’-(पा.1।4।52) इत्यादिना सिन्धूनां कर्मत्वम्। दंपत्योर्युगपत्परस्पराधरपानमनन्यसाधारणमिति भावः ॥ 9 ॥
ससत्त्वमादाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् ।
अमी शिरोभिस्तिमयः सरन्ध्रैरूर्ध्वं वितन्वन्ति जलप्रवाहान् ॥ 10 ॥
10
ससत्त्वमिति॥ अमी तिमयो मत्स्यविशेषाः। तदुक्तम्-‘अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः’इति। विवृताननत्वाद्व्यात्तमुखत्वाद्धेतोः। आननविवृत्येत्यर्थः। ससत्त्वं मत्स्यादिप्राणिसहितं नदीमुखाम्भ आदाय संमीलयन्तश्चञ्चुपुटानि संघट्टयन्तः सन्तः सरन्ध्रैः शिरोभिर्जलप्रवाहानूर्ध्वं वितन्वन्ति। जलयन्त्रक्रीडासमाधिर्व्यज्यते ॥ 10 ॥
मातंगनक्रैः सहसोत्पतद्भिन्नान्द्विधा पश्य समुद्रफेनान् ।
कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् ॥ 11 ॥
11
मातंगेति॥ सहसोत्पतद्भिर्मातंगनक्रैः मातंगाकारैर्ग्राहैर्द्विधा भिन्नान्समुद्रफेनान् पश्य। ये फेनाः एषां जलमातंगनक्राणां कपोलेषु संसर्पितया संसर्पणेन हेतुना कर्णेषु क्षणं चामरत्वं व्रजन्ति ॥ 11 ॥
वेलानिलाय प्रसृता भुजंगा वहोर्मिविस्फूर्जथुनिर्विशेषाः ।
सूर्यांशुसंपर्कसमृद्धरागैर्व्यज्यन्त एते मणिभिः फणस्थैः ॥ 12 ॥
12
वेलेति॥ वैलानिलाय। वेलानिलं पातुमित्यर्थः। ‘क्रियार्थोपपद-’(पा.2।3।14)इत्यादिना चतुर्थी। प्रसृता निर्गता महोर्मीणां विस्फूर्जथुरुद्रेकः। ‘ट्वितोऽथुच्’(पा.3।3।89) इत्यथुच्प्रत्ययः। तस्मान्निर्विशेषा दुर्ग्रहमेदा एते भुजंगाः सूर्यांशुसंपर्केण समृद्धरागैः प्रवृद्धकान्तिभिः फणस्थैर्मणिभिर्व्यज्यन्त उन्नीयन्ते ॥ 12 ॥
तवाधरस्पर्धिषु विद्रुमेषु पर्यस्तमेतत्सहसोर्मिवेगात् ।
ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित्क्लेशादपक्रामति शङ्खयूथम् ॥ 13 ॥
13
तवेति॥ तवाधरस्पर्धिषु। अधरसदृशेष्वित्यर्थः। विद्रुमेषु प्रबालेषु सहसोर्मिवेगात्पर्यस्तं प्रोत्क्षिप्तमूर्ध्वाङ्कुरैर्विद्रुमप्ररोहैः प्रोतमुखं स्यूतवदनमेतच्छङ्खानां यूथं वृन्दं कथंचित्क्लेशादपक्रामति। विसम्ब्यापसरतीत्यर्थः ॥ 13 ॥
प्रवृत्तमात्रेण पयांसि पातुमावर्तवेगाद्भ्रमता घनेन ।
आभाति भूयिष्ठमयं समुद्रः प्रमध्यमानो गिरिणेव भूयः ॥ 14 ॥
14
प्रवृत्तेति॥ पयांसि पातुं प्रवृत्त एव प्रवृत्तमात्रो न तु पीतवान्,तेन आवर्तवेगात्। ‘स्यादावर्तोऽम्भसां भ्रमः’इत्यमरः। भ्रमता घनेनायं समुद्रो भूयः पुनरपि गिरिणा मन्दरेण प्रमथ्यमान इव भूयिष्ठमत्यन्तमाभाति ॥ 14 ॥
दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला ।
आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा ॥ 15 ॥
15
दूरादिति॥ अयश्चक्रनिभस्य लवणाम्बुराशेर्दूरात्तन्व्यणुत्वेनावभासमाना तमालतालीवनराजिभिर्नीला वेला तीरभूमिर्धारानिबद्धा चक्राश्रिता कलङ्करेखामालिन्यरेखेव। आभाति। ‘मालिन्यरेखां तु कलङ्कमाहुः’ इति दण्डी ॥ 15 ॥
वेलानिलः केतकरेणुभिस्ते संभावयत्याननमायताक्षि! ।
मामक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥ 16 ॥
16
वेलेति॥ हे आयताक्षि!‘वेला स्यात्तीरनीरयोः’ इति विश्वः। वेलानिलः केतकरेणुभिस्त आननं संभावयति। किमर्थमित्यपेक्षायामुत्प्रेक्ष्यते-बिम्बाधरे बद्दतृष्णं मां मण्डनेनाभरणक्रियया कालहानिर्विलम्बस्तस्या अक्षममसहमानम्। कर्मणि षष्ठी। कालहानिमसहमानं वेत्तीव वेत्ति किम्? नो चेत्कथं संभावयेदित्यर्थः ॥ 16 ॥
एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः ।
प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम् ॥ 17 ॥
17
एत इति॥ एते वयं सैकतेषु भिन्नाभिः स्फुटिताभिः शुक्तिभिः पर्यस्तानि परितः क्षिप्तानि मुक्तानां पटलानि यस्मिंस्तत्तथोक्तं फलैरावर्जिता आनमिता पूगमाला यस्मिंस्तत् पयोधेः कूलं विमानवेगान्मुहूर्तेन प्राप्ताः॥ 17 ॥
कुरुष्व तावत्करभोरु! पश्चान्मार्गे मृगप्रेक्षिणि! दृष्टिपातम् ।
एषा विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः ॥ 18 ॥
18
कुरुष्वेति॥ ‘मणिबन्धादाकनिष्ठं करस्य करभो बहिः’इत्यमरः। करभ इवोरूयस्याः सा करभोरूः। ‘ऊरूत्तरपदादौपम्ये’(पा.4।1।69)इत्यङ्। तस्याः संबुद्धिर्हे करभोरू। मृगवत्प्रेक्षत इति विग्रहः। हे मृगप्रेक्षिणि! तावत्पश्चान्मार्गे लङ्घिताध्वनि दृषअटिपातं कुरुष्व। एषा सकानना भूमिर्विदूरीभवतः समुद्रान्निष्पतति निष्क्रामतीव। ‘विदूर’शब्दाद्विशेष्यनिघ्नाञ्च्विः ॥ 18 ॥
क्वचित्पथा संचरते सुराणां क्वचिद्धनानां पततां क्वचिञ्च ।
यथाविधो मे मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥ 19 ॥
19
क्वचिदिति॥ हे देवि! विमानं पुष्पकं मे मनसोऽभिलाषो यथआविधस्तथा प्रवर्तते पशअय। क्वचित् सुराणां पथा संचरते। क्वचिद्धनानां क्वचित्पततां पक्षिणां च पथा संचरते। ‘समस्तृतीयायुक्तात्’(पा.1।3।54)इति संपूर्वाञ्चरतेरात्मनेपदम् ॥ 19 ॥
असौ महेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः ।
आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते ॥ 20 ॥
20
असाविति॥ महेन्द्रद्विपदानगन्धिरैरावतमदगन्धिः। त्रिभिमार्गैर्गच्छतीति त्रिमार्गगा गङ्गा। ‘तद्धितार्थ-’(पा.2।1।51)इत्यादिनोत्तरपदसमासः। तस्या वीचीनां विमर्देन संपर्केण शीतोऽसावाकाशवायुर्दिनयौवनोत्थान्मध्याह्नसंभवांस्ते मुखे स्वेदलवानाचामति हरति। अनेन सुरपथसंचारो दर्शितः ॥ 20 ॥
करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि! कुतूहलिन्या ।
आमुञअचतीवाभरणं द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते ॥ 21 ॥
21
करेणेति॥ हे चण्डि कोपने!‘चण्डस्त्वत्यन्तकोपनः’इत्यमरः। कुतूहलिन्या विनोदार्थिन्या त्वया कर्त्र्या वातायने गवाक्षे लम्बितेनावस्रंसितेन करेण स्पृषअट उद्भइन्नविद्युद्वलयो घनस्ते द्वितीयमाभरणं वलयमामुञ्चतीवार्पयतीव। ‘चण्डि’इत्यनेन कोपनशीलत्वाद्भीतः क्षिप्रं त्वां मुञ्चति मेघ इति व्यज्यते ॥ 21 ॥
अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि ।
अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥ 22 ॥
22
अमी इति॥ अमी चीरभृतस्तापसा जनस्थानमपोढविघ्नमपास्तविघ्नं मत्वा ज्ञात्वा समारब्धा नवा उटजाः पर्णशाला येषु तानि। ‘पर्णशालोटजोऽस्त्रियाम्’इत्यमरः। चिरोैज्झितानि। राक्षसभयादित्यर्थः। आश्रममण्डलान्याश्रमविभागान्। यथास्वं स्वमनतिक्रम्य। अध्यासतेऽधितिष्ठन्ति॥ 22 ॥
सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टां मया नूपुरमेकमुर्व्याम् ।
अदृश्यत त्वञ्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ 23 ॥
23
सैषेति॥ सा पूर्वानुभूता स्थल्येषा। दृशअयत इत्यर्थः। यत्र स्थल्यां त्वां विचिन्वताऽन्विष्यता मया। त्वञअचरणारविन्देन यो विश्लेषो वियोगस्तेन यद्दुःखं तस्मादिव बद्धमौनं निःशब्दम्। उर्व्यां भ्रष्टमेकं नूपुरं मञ्जीरः। ‘मञ्जरो नूपुरोऽस्त्रियाम्’इत्यमरः। अदृश्यत दृष्टम्। हेतूत्प्रेक्षा॥ 23 ॥
त्वं रक्षसा भीरु! यतोऽपनीता तं मार्गमेताः कृपया लता मे ।
अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥ 24 ॥
24
त्वमिति॥ हे भूरु भयशीले! ‘ऊङुतः’(पा.4।1।36)इत्यूङ्। ततो नदीत्वात्संबुद्धो ह्रस्वः। त्वं रक्षसा रावणेन यतो येन मार्गेण। सार्वविभक्तिकस्तसिः। अपनीताऽपहृता तं मार्गं वागिन्द्रियाभावाद्वक्तुमशक्नुवत्य एता लता वीरुध आवर्जिता नमिताः पल्लवाः पाणिस्थानीया याभिस्ताभिः शाखाभिः स्वावयवभूताभिः कृपया मेऽदर्शयन्। हस्तचेष्टयाऽसूचयन्नित्यर्थः। ‘शाखा वृक्षान्तरे भुजे’इति विश्वः। लतादीनामपि ज्ञानमस्त्येव। तदुक्तं मनुना(1।49)-‘अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः’इति ॥ 24 ॥
मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् ।
व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥ 25 ॥
25
मृग्यश्चेति॥ दर्भाङ्कुरेषु भक्ष्येषु निर्व्यपेक्षा निःस्पृहा मृग्यो मृग्ङ्गानाश्चोत्पक्ष्मराजिनि विलोचनानि दक्षिणस्यां दिशि व्यापारयन्त्यः प्रवर्तयन्त्यः सत्यस्तवागतिज्ञं गत्यनभिज्ञं मां समबोधयन्। दृष्टिचेष्टया त्वद्गतिमबोधयन्नित्यर्थः ॥ 25 ॥
एतद्गिरेर्माल्यवतः पुरस्तादाविर्भवत्यम्बरलेखि श्रृङ्गम् ।
नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥ 26 ॥
26
एतदिति॥ माल्यवतो नाम गिरेरम्बरलेख्यभ्रंकषं श्रृङ्गमेतत्पुरस्तादग्र आविर्भवति। यत्र शृङ्गे धनैर्मेघैर्नवं पयो मया त्वद्विप्रयोगेण यदश्रु तञ्च समं युगपद्विसृष्टम्। मेघदर्शनाद्वर्षतुल्यमश्रु विमुक्तमिति भावः ॥ 26 ॥
गन्धश्च धाराहतपल्वलानां कादम्बमर्धोद्गतकेसरं च ।
स्निग्धाशअच केकाः शिखिनां बभूवुर्यस्मिन्नसह्यानि विनात्वया मे ॥ 27 ॥
27
गन्धश्चेति॥ यस्मिन् शृङ्गे धाराभिर्वर्षधाराभिराहतानां पल्वलानां गन्धश्च। अर्धोद्गतकेसरं कादम्बं नीपकुसुमं च। स्निग्धामधुराः। शिखइनां बर्हिणाम्। ‘शिखिनौ वह्निबर्हिणौ’ इत्यमरः। केकाशअच। त्वया विना मेऽसह्यानि बुभूवुः। ‘नपुंसकमनपुंसकेन-’(पा.1।2।69) इति नपुंसकैकशेषः॥ 27 ॥
पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु! तवोपगूढम् ।
गुहाविसारीण्यतिवाहितानि मया कथंचिद्धनगर्जितानि ॥ 28 ॥
28
पूर्वेति॥ किंच,हे भीरु! यत्र शृङ्गे पूर्वानुभूतं कम्पोत्तरं कम्पप्रधानं तवोपगूढमुपगूहनं स्मरता मया गुहाविसारीणि घनगर्जितानि कथँचिदतिवाहितानि। स्मारकत्वेनोद्दीपकत्वात्ल्केशेन गमितानीत्यर्थः ॥ 28 ॥
आसारसिक्तक्षितिबाष्पयोगान्मामक्षिणोद्यत्र विभिन्नकोशैः ।
विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः ॥ 29 ॥
29
आसारेति॥ यत्र श्रृङ्गे विभिन्नकोशैर्विकसितकुङ्भलैर्नवकन्दलैः कन्दलीपुष्पैररुणवर्णैरासारेण धारासंपातेन। ‘धारासंपात आसारः’इत्यमरः। सिक्तायाः क्षितेर्बाष्पस्य धूमवर्णस्य योगाद्धेतोविडम्ब्यमानाऽनुक्रियमाणा ते विवाहधूमेनारुणा लोचनश्रीः। सादृश्यात्स्मर्यमाणेति शेषः। मामक्षिणोदपीडयत्॥ 29 ॥
उपान्तवानीरवनोपगूढान्यालक्ष्यपारिप्लवसारसानि ।
दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः ॥ 30 ॥
30
उपान्तेति॥ उपान्तवानीरवनोपगूढानि पार्शअववञ्जलवनच्छन्नान्यालक्ष्या ईषद्दृश्याः पारिप्लवाश्चञ्चलाः सारसा येषुतान्यमूनि पम्पासलिलानि पम्पासरोजलानि दूरादवतीर्णा मे दृष्टिरत एव खेदात्पिबतीव। न विहातुमुत्सहत इत्यर्थथः ॥ 30 ॥
अत्रावियुक्तानि रथाङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि ।
द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये! सस्पृहमीक्षितानि ॥ 31 ॥
31
अत्रेति॥ अत्र पम्पासरसि। अन्योन्यस्मै दत्तोत्पलकेसराण्यवियुक्तानि रथाङ्गनाम्नां द्वन्द्वानि चक्रवाकमिथुनानि ते तव दूरान्तरवर्तिना दूरदेशवर्तिना मया हे प्रिये! सस्पृहं साभिलाषमीक्षितानि। तदानीं त्वामस्मार्षमित्यर्थः॥ 31 ॥
इमां तटाशोकलतां च त्वीं स्तनाभिरामस्तबकाभिनम्राम् ।
त्वत्प्राप्तिबुद्ध्या परिरब्धुकामः सौमित्रिणा साश्रुरहं निषिद्धः ॥ 32 ॥
32
इमामिति॥ किंच स्तनवदभिरामाभ्यां स्तबकाभ्यामभिनम्नां तन्वीमिमां तटाशोकस्य लतां शाखाम् ,अतस्त्वत्प्राप्तिबुद्धअया त्वमेव प्राप्तेति भ्रान्त्या परिरब्धुमालिङ्गितुं कामो यस्य सोऽहं सौमित्रिणा लक्ष्मणेन साश्रुर्निषिद्धः नेयं सीतेति निवारितः। ‘परिरब्धुकाम’इत्यत्र ‘तुं काममनसोरपि’ इति वचनान्मकारलोपः ॥ 32 ॥
अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् ।
प्रत्युद्द्रजन्तीव खमुत्पतन्त्यो गोदावरीसारसपङ्क्तयस्त्वाम् ॥ 33 ॥
33
अमूरिति॥ विमानस्यान्तरेष्ववकाशेषु लम्बंन्ते यास्तासां काञ्चनकिङ्किणीनां स्वनं श्रुत्वा स्वयूथशब्दभ्रमात्खमाकाशमुत्पतन्त्योऽमूर्गोदावरीसारसपङ्क्तयस्त्वां प्रत्युद्द्रजन्तीव ॥ 33 ॥
एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता ।
आनन्दयत्युन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे ॥ 34 ॥
34
एषेति॥ पेशलमध्ययापि। भाराक्षमयापीत्यर्थः। त्वया घटाम्बुभिः संवर्धिता बालचूता यस्याः सा। उन्मुखा अस्मदभिमुखा त्वत्संवर्धिता एव कृष्णसारा यस्याः सा चिराद्दृष्टैषा पञ्चवती मे मन आनन्दयत्याह्लादयति। ‘पञ्चवटी’शब्दः पूर्वमेव व्याख्यातः ॥ 34 ॥
अत्रानुगोदं मृगयानिवृत्तस्तरंगवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥ 35 ॥
35
अत्रेति॥ अत्र पञ्चवट्याम्। गोदा गोदावरी,तस्याः समीपेऽनुगोदम्। ‘अनुर्यत्समया’(पा.2।1।15) इत्यव्ययीभावः। मृगयाया निवृत्तस्तरंगवातेन विनीतखेदो रहो रहसि। अत्यन्तसंयोगे द्वितीया। त्वदुत्सङ्गनिषण्णमूर्धा सन्नहं वानीरगृहेषु सुप्तः स्मरामि। वाक्यार्थः कर्म। सुप्त इति यत्तत्स्मरामीत्यर्थः ॥ 35 ॥
भ्रूमेदमात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार ।
तस्याविलाम्भः परिशुद्धिहेतोर्भौमो मुनेः स्थआनपरिग्रहोऽयम् ॥ 36 ॥
36
भ्रूमेदेति॥ यो मुनिर्भ्रूभेदमात्रेण भ्रूभङ्गमात्रेणैव नहुषं राजानं मघोनः पदादिन्द्रत्वात्। प्रभ्रंशयां चकार प्रभ्रंशयति स्म। आविलाम्भः परिशुद्धिहेतोः कलुषजलप्रसादहेतोस्तस्य मुनेरगस्त्यस्य। अगस्त्योदये शरदि जलं प्रसीदतीत्यक्तं प्राक्। भूमौ भवो भौमः स्थानपरिग्रह आश्रमोऽयम्। दृश्यत इति शेषः। ‘भौम’इत्यनेन दिव्योऽप्यस्तीत्युक्तम्। परिगृह्यत इति परिग्रहः,स्थानमेव परिग्रह इति विग्रहः ॥ 36 ॥
त्रेताग्निधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्तविमानमार्गम् ।
घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मेलघिमानमात्मा ॥ 37 ॥
37
त्रेतेति॥ अनिन्द्यकीर्तेस्तस्यागस्त्यस्य। आक्रान्तविमानमार्गम्। हविर्गन्धोऽस्यास्तीति हविर्गन्धि त्रैताग्निरग्नित्रयम्। ‘अग्नित्रयमिदं त्रेता’ इत्यमरः। पृषोदरादित्वादेत्वम्। त्रेताग्नेर्धूमाग्निमिदं घ्रात्वाऽऽघ्राय रजसो गुणाद्विमुक्तो मे मम। आत्माऽन्तःकरणं लघिमानं लघुत्वगुणं समाश्नुते प्राप्नोति ॥ 37 ॥
एतन्मुनेर्मानिनि! शातकर्णेः पञ्चाप्सरो नाम विहारवारि ।
आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥ 38 ॥
38
एतदिति॥ हे मानिनि! शातकर्णेर्मुनेः संबन्धि पञ्चाप्सरो नाम ‘पञ्चाप्सर’इति प्रसिद्धम्। पञ्च अप्सरसो यस्मिन्निति विग्रहः। पर्यन्तेषु वनानि यस्य तत्पर्यन्तवनमेतद्विहारवारि क्रीडासरो विदूरात्। मेघानामन्तरे मध्य आलक्ष्यमीषद्दृश्यम्। आङीषदर्थेऽभिव्याप्तौ। इन्दुबिम्बमिव। आभाति ॥ 38 ॥
पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोनाः ।
समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ॥ 39 ॥
39
पुरेति॥ पुरा पूर्वस्मिन्काले दर्भाङ्कुरमात्रवृत्तिस्तन्मात्राहारो मृगैः सार्धं सह चरन्,स ऋषिः समाधेस्तपसो भीतेन मघोनेन्द्रेण पञ्चानामप्सरसां यौवनम्। ‘तद्धितार्थ-’(पा.2।1।51)इत्यादिनोत्तरपदसमासः। तदेव कूटबन्धं कपटयन्त्रमुपनीतः। ‘उन्माथः कूटयन्त्रं स्यात्’इत्यमरः। ‘किल’इत्यैतिह्ये मृगसाहचर्यान्मृगवदेव बद्ध इति भावः ॥ 39 ॥
तस्यायमन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः ।
वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ॥ 40 ॥
40
तस्येति॥ अन्दतर्हितसौधभाजो जलान्तर्गतप्रासादगतस्य तस्य शातकर्णेरयं प्रस्क्तः संततः संगीतमृदङ्गघोषो वियद्गतः सन् पुष्पकस्य चन्द्रशालाः शिरोगृहाणि। ‘चन्द्रशाला शिरोगृहम्’ इति हलायुधः। क्षणं प्रतिश्रुद्भिः प्रतिध्वानैर्मुखरा ध्वनन्तीः करोति। ‘स्त्री प्रतिश्रुत्प्रतिध्वाने’इत्यमरः ॥ 40 ॥
हविर्भुजामेधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः ।
असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥ 41 ॥
41
हविरिति॥ नाम्ना सुतीक्ष्णः सुतीक्ष्णनामा चरितेन दान्तः सौम्योऽसाक्परस्तपस्वी। एधवतामिन्धनवताम्। ‘काष्ठं दार्विन्धनं त्वेधः’इत्यमरः। चतुर्णां हविर्भुजामग्नीनां मधअये। ललाटं तपतीति ललाटंतपः सूर्यः। ‘असूर्यललाटयोर्दृशितपोः’(पा.3।2।36)इति खश्प्रत्ययः। ‘अरुर्द्विषत्-’(6।3।67)इत्यादिना मुमागमः। ललाटंतपः सप्तसप्तिः सप्ताश्वः सूर्यो यस्य स तथोक्तः सन्। तपस्यति तपश्चरति। ‘कर्मणो रोमन्थतपोभ्यां वर्तिचरोः’(पा.3।1।15) इति क्यङअ। ‘तपसः परस्मैपदं च’(वा1733) इति वक्तव्यम् ॥ 41 ॥
अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि ।
नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥ 42 ॥
42
अमुमिति॥ जनितेन्द्रशङ्कम्। तपसेति शेषः। अमुं सुतीक्ष्णं सहासं प्रहितानीक्षणानि दृष्टयो येषु तानि। व्याजेन केनचिन्मिषिण। ‘पुंस्यर्धोऽर्धं समेंऽशके’इति विश्वः। अर्धमीषत् संदर्शिता मेखला येषु तानि सुराङअगनानामिन्द्रिप्रेषितानां विभ्रमा विलासा एव चेष्टितानि विकर्तुं स्खलयितुमलं समर्थानि न । बभृवुरिति शेषः ॥ 42 ॥
एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् ।
सभाजने मे भुजमूर्ध्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥ 43 ॥
43
एष इति॥ ऊर्ध्वबाहुरेष सुतीक्ष्णोऽक्षमालैव वलयं यस्य तं मृगाणां कण्डूयितारम्। कुशा एव सूचयस्ता लुनातीति कुशसूचिलावस्तम्। ‘कर्मण्यण्’(पा.3।2।1)इत्यण्। एभिर्विशेषणैर्जयशीलत्वं भूतदया कर्मक्षमत्वं च द्योत्यते। सव्यादितरं दक्षिणं भुजं मे मम सभाजने संमाननिमित्ते। ‘निमित्तात्कर्मयोगे’(वा.1490)इति सप्तमी। इतः प्राध्वं प्रकृतानुकूलबन्धं प्रयुङ्क्ते। ‘आनुकूल्यार्थकं प्राध्वम्’ इत्यमरः। अव्ययं चैतत् ॥ 43 ॥
वाचंयमत्वात्प्रणतिं ममैष कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः ।
दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधत्ते ॥ 44 ॥
44
वाचंयमेति॥ एष सुतीक्ष्णः। वाचं यच्छतीति वाचंयमो मौनव्रती। ‘वाचि यमो व्रते’(पा.3।2।40)इति खच्प्रत्ययः। ‘वाचंयमपुरंदरौ च’ (पा.6।3।69)इति मुम्। तस्य भावस्तत्त्वान्मम प्रणतिं किंचिन्मूर्ध्नः कम्पेन प्रतिगृह्य विमानेन व्यवधानं तोरोधानं तस्मान्मुक्ताम्। अपेतापोढमुक्तपततित-’(पा.2।1।38) इत्यादिना पञ्चमीसमासः। दृष्टिं पुनः सहस्रार्चिषि सूर्ये संनिधत्ते । सम्यग्धत्त इत्यर्थः। अन्यथाऽकर्मकत्वप्रसङ्गात्’ ॥ 44 ॥
अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः ।
चिराय संतर्प्य समिद्भिरग्निं यो मन्त्रपूतां तनुमप्यहौषीत् ॥ 45 ॥
45
अद इति॥ शरणे रक्षणे साधु शरण्यम्। पावयतीति पावनम्। अदो दृश्यमानं तपोवनमाहिताग्नेः शरभङ्गनाम्नो मुनेः संबन्धि। यः शरभङ्गश्चिरायचिरमग्निं समिद्भिः संतर्प्य तर्पयित्वा ततो मन्त्रैः पूतां शुद्धां तनुमप्यहौषीद्धुतवान्। जुहोतेर्लुङ् ॥ 45 ॥
छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु ।
तस्यातिथीनामधुना सपर्या स्थइता सुपुत्रेष्विव पादपेषु ॥ 46 ॥
46
छायेति॥ अधुनाऽस्मिन्काले तस्य शरभङ्गस्य संबन्धिन्यतिथीनां सपर्याऽतितिपूजा। ‘पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः’इत्यमरः। छायाभिर्विनीतोऽपनीतोऽध्वपरिश्रमो यैस्तेषु भूयिष्ठानि बहुतमानि संभाव्यानि श्लाघ्यानि फलानि येषां तेष्वमीषु पादपेष्वाश्रमवृक्षेषु सुपुत्रेष्विव स्थिता। तत्पुत्रैरिव पादपैरनुष्ठीयतत इत्यर्थः॥ 46 ॥
धारास्वनोद्गारिदरीमुखोऽसौ श्रृङ्गाग्रलग्नाम्बुजवप्रपङ्कः ।
बध्नाति मे बन्धुरगात्रि! चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः ॥ 47 ॥
47
धारेति॥ धारा निर्झरधाराः। यद्वा,-धआरया सातत्येन स्वनोद्गारिदर्येव मुखं यस्य सः। श्रृङ्गं शिखरं विषाणां च तस्याग्रे लग्नोऽम्बुद एव वप्रपङ्को वप्रक्रीडासक्तपङ्को यस्य सः। असौ चित्रकूटो हे बन्धुरगात्रि उन्नतानताङ्गि!‘बन्धुरं तून्नतानतम्’इत्यमरः। दृप्तः ककुद्मान् वृषभ इव। मे चक्षुर्बध्नात्यनन्यासक्तं करोति ॥ 47 ॥
एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी ।
मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥ 48 ॥
48
एषेति॥ प्रसन्नो निर्मलः स्तिमितो निःस्पदः प्रवाहो यस्याः सा विदूरस्यान्तरस्य मध्यवर्त्यवकाशस्य भावात्तन्वी दूरदेशवर्तित्वात्तनुत्वेनावभासमाना मन्दाकिनी नाम काचिञ्चित्रकूटनिकटगैषा सरित्। गोपकण्ठेन भूमेः कण्ठगता मुक्तावलीव। भाति। अत्र नगस्य शिरस्त्वं तदुपकण्ठस्य कण्ठत्वं च गम्यते ॥ 48 ॥
अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य ।
यवाङ्कुरापाण्डुकपोलशोभी मयावतंसः परिकल्पितस्ते ॥ 49 ॥
49
अयमिति॥ गिरेः समीपेऽनुगिरम्। ‘गिरेश्च सेनकस्य’(पा.5।4।112)इति समासान्तषअटच्प्रत्ययः। सुजातः स तमालोऽयं दृश्यते। यस्य तमालस्य। शोभनो ग्धो यस्य तत्सुगन्धि। ‘गन्धस्य-’(पा.5।4।135)इत्यादिनेकारः समासान्तः। प्रवालं पल्लवमादाय मया ते यवाङ्कुरवदापाण्डौ कपोले शोमीशोभते यः सोऽवतंसः परिकल्पितः ॥ 49 ॥
अनिग्रहत्रासविनीतसत्त्वमपुष्पलिङ्गात्फलबन्धिवृक्षम् ।
वनं तपःसाधनमेतदत्रेराविष्कृतोदग्रतरप्रभावम् ॥ 50 ॥
50
अनिग्रहेति॥ अनिग्रहत्रासा दण्डभयरहिता अपि विनीताः सत्त्वा जन्तवो यस्मिंस्तत्। अपुष्पलिङ्गात्पुष्पनिमित्तं विनैव फलबन्धिनः फलग्राहिणो वृक्षा यस्मिंस्तत्। अथ एवाऽऽविष्कृतोदग्रतरप्रभावमत्रेर्मुनेस्तपसः साधनं वनमेतत् ॥ 50 ॥
अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम् ।
प्रवर्तयामास किलानसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥ 51 ॥
51
अत्रेति॥ अत्र वनेऽनसूयाऽत्रिपत्नी। सप्त च ते ऋषयश्च सप्तर्षयः। ‘दिक्संखअये संज्ञायाम्’(पा.2।1।50) इति तत्पुरुषसमासः। तेषां हस्तौरुद्धृतानि हेमपद्मानि यस्यास्तां त्र्यम्बकमौलिमालां हरशिरःस्रजं त्रिस्रोतप्तं भागीरथीं तपोधनानामृषीणामभिषेकाय स्नानाय प्रवर्तयामास प्रवाहयामास। किलेत्यैतिह्ये ॥ 51 ॥
वीरसनैर्ध्यानजुषामृषीणाममी समध्यासितवेदिमध्याः ।
निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥ 52 ॥
52
वीरेति॥ वीरासनैर्जयसाधनैः। ध्यानं जुषन्ते सेवन्त इति ध्यानजुषः। तेषां तैरुपविश्य ध्यायतामृषीणां संबन्धिनः समध्यासितवेदिमध्याः। इदं वीरासनस्थानीयम्। अमी शाखिनोऽपि निवाते निष्कम्पतया योगाधिरूढा इव ध्यानभाज इव विभान्ति। ध्यायन्तोऽपि निश्चलाङ्गा भवन्ति। वीरासने वसिष्ठः-‘एकपादमथैकस्मिन्विन्यस्योरूणि संस्थितम्। इतरस्मिंस्तथा चान्यं वीरासनमुदाहृतम्॥’ इति ॥ 52 ॥
त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः ।
राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति ॥ 53 ॥
53
त्वयेति॥ त्वया पुरस्तात् पूर्वं य उपयाचितः प्रार्थितः। तथा च रामायणे-‘न्यग्रोधं तमुपस्थाय वैदेह्री वाक्यमब्रवीत्। नमस्तेऽस्तुं महावृक्ष! पालयेन्मे व्रतं पतिः॥’ इति। श्याम इति प्रतीतः स वटोऽयं फलितः सन्। सपद्मरागो गारुडानां मणीनां मरकतानां राशिरिव। विभाति ॥ 53 ॥
‘क्वचित्-‘इत्यादिभिश्चतुर्भिः श्लोकैः प्रयागे गङ्गायमुनासंगमं वर्णयति-
क्वचित्प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा ।
अन्यत्र माला सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव ॥ 54 ॥
क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पङ्क्तिः ।
अन्यत्र कालागुरुदत्तपत्रा भक्तिर्भुवश्चन्दनकल्पितेव ॥ 55 ॥
क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव ।
अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभः प्रदेशा ॥ 56 ॥
क्वचिञ्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य ।
पश्यानवद्याङअगि! विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः ॥ 57 ॥
57
हे अनवद्याङअगि! यमुनातरङ्गैर्भिन्नप्रवाहा व्यामिश्रौघा गङ्गा जाह्नवी विभाति। त्वं पशअय। केव? क्वचित्प्रदेशे प्रभया लिम्पन्ती संनिहितमिति प्रभालेपिभिरिन्द्रनीलैरनुविद्धा सह गुम्फिता मुक्तामयी यष्टिरिव हारावलिरिव विभाति। अन्यत्र प्रदेश इन्दीवरैर्नीलोत्पलैरुत्खचितान्तरा सह ग्रथिता सितपङ्कजानां पुण्डरीकाणां मालेव। विभातीति सर्वत्र संबन्धः। क्वचित्कादम्बसंसर्गवती नीलहंससंसृष्टा प्रियं मानसं नाम सरो येषां खगानां राजहंसानां पङ्क्तिरिव। ‘राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः’इत्यमरः। अन्यत्र कालागुरुणा दत्त पत्रा रचितमकरिकापत्रा भुवश्चन्दनकल्पिता भक्तिरिव। क्वचिच्छायासु विलीनैः स्थितैस्तमोभिः शबलीकृता कर्बुरीकृता चान्द्रमसी प्रभा चन्द्रिकेव। अन्यत्र रन्ध्रेष्वालक्ष्यनभःप्रदेशा शुभ्रा शरदभ्रलेखा शरन्मेघपङ्क्तिरिव। क्वचित्कृष्णोरगभूषणा भस्माङ्गरागेश्वरस्य तनुरिव विभाति। शेषो व्याख्यातः। कलापकम् ॥ 54-57 ॥
समुद्रपत्न्योर्जलसंनिपाते पूतात्मनामत्र किलाभिषेकात् ।
तत्त्वावबोधेन विनापि भूयस्तनुत्यजां नास्ति शरीरबन्धः ॥ 58 ॥
58
समुद्रेति॥ अत्र समुद्रपत्न्योर्गङ्गा-यमुनयोर्जलसंनिपाते संगमेऽभिषेकात् स्नानात् पूतात्मनां तनुत्यजां शुद्धात्मनां पुंसां तत्त्वावबोधेन तत्त्वज्ञानेन विनापि प्रारब्धशरीरत्यागानन्तरं भूयः पुनः शरीरबन्धः शरीरयोगो नास्ति किल। अन्यत्र ज्ञानादेव मुक्तिः,अत्र तु स्नानादेव मुक्तिरित्यर्थथः॥ 58 ॥
पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय ।
जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि! कामाः फलितास्तवेति ॥ 59 ॥
59
पुरमिति॥ निषादाधिपतेर्गुहस्य तत्पुरमिदम्। यस्मिन्पुरे मया मौलिमणिं विहाय जटासु बद्धासु रचितासु सतीषु सुमन्त्रः ‘हे कैकेयि! तव कामा मनोरथाः फलिताः सफला जाताः’इत्यरुदत्। ‘रुदिरश्रुविमोचने’इति धातोर्लुङ् ॥ 59 ॥
पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः ।
ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥ 60 ॥
60
पयोधरैरिति॥ पुण्यजनाङ्गनानां यक्षस्त्रीणां पयोधरैः स्तनैर्निर्विष्ट उपभुक्तो हेमाम्बुजरेणुर्यस्य तत्। तत्र ताः क्रीडन्तीति व्तयज्यते। ब्रह्मण इदं ब्राह्मम्। ‘नस्तद्धिते’(पा.6।4।144)इति टिलोपः। ब्राह्मं सरो मानसाख्यं यस्याः सरय्वाः। बुद्धेर्महत्तत्त्वस्याव्यक्तं प्रधानमिव कारणम्। आप्तस्य वाच आप्तवाचो वेदाः। यद्वा,-बहुव्रीहिणा मुनयः। उदाहरन्ति प्रचक्षथे ॥ 60 ॥
जलानि या तीरनिखातयूपा वहत्ययोध्यामनु राजधानीम् ।
तुरंगमेधावभृथावतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि ॥ 61 ॥
61
जलालीति॥ यूपः संस्कृतः पशुबन्धनार्हो दारुविशेषः। तीरनिखातयूपा या सरयूस्तुरंगमेधा अश्वमेधास्तेष्ववभृथार्थमेवावतीर्णैरवरूढैरिक्ष्वाकुभिरिक्ष्वाकुगोत्रापत्यैर्नः पूर्वैः। तद्राजत्वादणो लुक्। पुण्यतरीकृतान्यतिशयेन पुण्यानि कृतानि जलान्ययोध्यां राजधानीं नगरीमनु समीपे,तया लक्षितयेत्यर्थः। ‘अनु’शब्दस्य ‘लक्षणेत्थंभूत-’(पा.1।4।90)इत्यादिना कर्मप्रवचनीयत्वात्तद्योगे द्वितीया। वहति प्रापयति ॥ 61 ॥
यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् ।
सामान्यधात्रीमिव मानसं मे संभावयत्युत्तरकोसलानाम् ॥ 62 ॥
62
यामिति॥ यां सरयूं मे मानसं कर्तृ सैकतं पुलिनं तदेवोत्सङ्गः तत्र यत्सुखँ तत्रोचितानां प्राज्यैः प्रभूतैः पयोभिरम्बुभिः क्षीरैश्च। ‘पयः क्षीरं पयोऽम्बु च’इत्यमरः। परिवर्धितानां पुषअटानामुत्तरकोसलानामुत्तरकोसलेश्वराणां सामान्यधात्रीं साधारणमातरमिव संभावयति। ‘धात्री जनन्यामलकीवसुमत्युपमातृषु’इति विश्वः ॥ 62 ॥
सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर्वियुक्ता ।
दूरे वसन्तं शिशिरानिलैर्मां तरंगहस्तैरुपगूहतीव ॥ 63 ॥
63
सेयमिति॥ मदीया जननी कौसल्येव मान्येन पूज्येन तेन राज्ञा दशरथेन वियुक्ता सेयं सरयूर्दूरे वसन्तम्। प्रोष्यागच्छन्तमित्यर्थः। मां पुत्रभूतं शिशिरानिलैस्तरंगैरेव हस्तैः। उपगूहतीवालिङ्गतीव ॥ 63 ॥
विरक्तसंध्याकपिशं परस्ताद्यतो रजः पार्थिवमुज्जिहीते ।
शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥ 64 ॥
64
विरक्तेति॥ विरक्ताऽतिरक्ता या संध्या तद्वत् कपिशं ताम्रवर्णम्। पृथिव्या इदं पार्थिवम्। रजो धूलिः पुरस्तादग्रे यतो यस्मात्कारणादुज्जिहीत उद्गच्छति॥ तस्मात्। हनुरस्यास्तीति हनूमान्। ‘शरादीनां च’(पा.6।3।20)इति दीर्घः। तेन कथिता प्रवृत्तिरस्मदागमनवार्ता यस्मै स भरतः ससैन्यः सन्,मां प्रत्युद्गत इति शङ्क तर्कयामि। ‘शङ्का भयवितर्कयोः’ इति शब्दार्णवे। अत्र यत्तदोर्नित्यसंबन्धात्तच्छब्दलाभः ॥ 64 ॥
अद्धा श्रियं पालितसंगराव प्रत्यर्पयिष्यत्यनघां स साधुः ।
हत्वा निवृत्ताय मृधे खरादीन्संरक्षितां त्वामिव लक्ष्मणो मे ॥ 65 ॥
65
अद्धेति॥ किंच,साधुः सज्जनः स भरतः। ‘साधुर्वार्धुषिके चारौ सज्जने चापि वाच्यवत्’इति विशअवः। पालितसंगराय पालितपितृप्रतिज्ञाय मे मह्यम्। अनघामदोषां भोगाभावादनुच्छिष्टां किंतु संरक्षितां श्रियम्। मृधे युद्धे खरादीन्हत्वा निवृत्ताय मे लक्ष्मणः संरक्षितामनघां त्वामिव प्रत्यर्पयिष्यत्यद्धा सत्यम्। ‘सत्ये त्वद्धाञ्जसा द्वयम्’इत्यमरः ॥ 65 ॥
असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः ।
वृद्धैरमात्यैः सह चीरवासा मामर्ध्यपाणिर्भरतोऽभ्युपैति ॥ 66 ॥
66
असाविति॥ असौ पदातिः पादचारी चीरवासा वल्कलवलनो भरतः पश्चात् पृष्ठभागेऽवस्थापिता वाहिनी सेना येन स तथोक्तः सन्। ‘नद्यृतश्च’(पा.5।4।153)इति कप्। गुरुं वसिष्ठं पुरस्कृत्य वृद्धैरमात्यैः सहार्घ्यपाणिः सन् मामभ्युपैति ॥ 66 ॥
पित्रा विसृष्टां मदपेक्षया यः श्रियं युवाप्यङअकगतामभोक्ता ।
इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् ॥ 67 ॥
67
पित्रेति॥ यो भरतः पित्रा विसृष्टां दत्तामङ्कमुत्सङ्गं च गतामपि। यां श्रियं युवापि मदपेक्षया मद्भक्त्याऽभोक्ता सन्। तृन्नन्तत्वात्’न सोक-’(पा.2।3।69)इति षष्ठीनिषेधः। इयन्ति वर्षाण्येतावतो वत्सरान्। अत्यन्तसंयोगे द्वितीया। तया श्रइया सह। स्त्रियेति च गम्यते। उग्रं दुश्चरमासिधारं नाम व्रतमभ्यस्यतीव वर्तयतीव। ‘युवा युवत्या सार्धँ यन्मुग्धभर्तृवदाचरेत्। अन्तर्निवृत्तसङ्गत्यादासिधारव्रतं हि तत्॥‘इति यादवः। इदं चासिधाराचङ्क्रमणतुल्यत्वादासिधारव्रतमित्युक्तम् ॥ 67 ॥
एतावदुक्तवति दाशरथौ तदीया-
मिच्छां विमानमधिदेवतया विदित्वा ।
ज्योतिष्पथादवततार सविस्मयाभि-
रुद्धीक्षितं प्रकृतिभिर्भरतानुगाभिः ॥ 68 ॥
68
एतावदिति॥ दाशरथौ राम एतावदुक्तवति सति विमानं पुष्पकं कर्तृ तदीयां रामसंबन्धिनीमिच्छामधिदेवतया मिषेण विदित्वा। तत्प्रेरितं सदित्यर्थः। सविस्मयाभिर्भरतानुगाभिः प्रकृतिभिः प्रजाभिरुद्वीक्षितं सज्ज्योतिष्पथादकाशादवततार ॥ 68 ॥
तस्मात्पुरःसरबिभीषणदर्शितेन
सेवाविचक्षणहरीश्वरदत्तहस्तः ।
यानादवातरददूरमहीतलेन
मार्गेण भङ्गिरचितस्फटिकेन रामः ॥ 69 ॥
69
तस्मादिति॥ रामः सेवायां विचक्षणः कुशलो हरीश्वरः सुग्रीवस्तेन दत्तहस्तो दत्तावलम्बो यस्य तादृशः सन्। स्थलज्ञत्वात्पुरःसरो बिभीषणस्तेन दर्शितेनादूरमासन्नं महीतलं यस्य तेन भङ्गिभिर्विच्छत्तिभी रचितस्फटिकेन बद्धस्फटिकेन सोपानपर्वणा मार्गेण तस्माद्यानात् पुष्पकादवातरदवतीर्णवान्। तरतेर्लङ् ॥ 69 ॥
इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य
स भ्रातरं भरतमर्घ्यपरिग्रहान्ते ।
पर्यश्रुरस्वजत मूर्धनि चोपजघ्नौ
तद्भक्त्यपोढपितृराज्यमहाभिषेके ॥ 70 ॥
70
इक्ष्वाक्विति॥ प्रयतः स राम इक्ष्वाकुवंशगुरवे वसिष्ठाय प्रणम्य नमस्कृत्यार्घ्यस्य परिग्रहः स्वीकारस्तस्यान्ते पर्यश्रुः परिगतानन्दबाष्पः सन्। भ्रातरं भरतमस्वजतालिङ्गत्। तस्मिन्रामे भक्त्याऽपोढः परिहृतः पितृराज्यमहाभिषेको येन तस्मिन्मूर्धन्युपजघ्नौ च। ‘घ्रा गन्धोपादाने’लिटि रूपम्॥ 70 ॥
श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च
प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान् ।
अन्वग्रहीत्प्रणमतः शुभदृष्टिपातै-
वार्तानुयोगमधुराक्षरया च वाचा ॥ 71 ॥
71
श्मश्विति॥ श्मश्रूणां मुखरोम्णां प्रवृद्ध्या संस्काराभावादभिवृद्ध्या जनिताननेषु विक्रिया विकृतिर्येषां तानत एव प्ररोहैः शाखावलम्बिभिरधोमुखैर्मूलैर्जटिलाञ्जटवतः प्लक्षान्न्यग्रोधानिव स्थितांन्। प्रणमतो मन्त्रिवृद्धांश्च शुभैः कृपार्द्रैर्दृष्टिपातैर्वार्तस्यानुयोगेन कुशलप्रश्नेन मधुराक्षरया वाचा चान्वग्रहीदनुगृहीतवान् ॥ 71 ॥
दुर्जातबन्धुरयमृक्षहरीश्वरो मे
पौलस्त्य एष समरेषु पुरःप्रहर्ता ।
इत्यादृतेन कथितौ रघुनन्दनेन
व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ॥ 72 ॥
72
दुर्जात इति॥ अयं मे दुर्जातबन्धुरापद्बन्धुः। ‘दुर्जातं व्यसनं प्रोक्तम्’ इति विश्वः। ऋक्षहरीश्वरः सुग्रीवः। एष समरेषु पुरःप्रहर्ता पौलस्त्यो बिभीषणः। इत्यादृतेनाऽऽदरवता। कर्तरि क्तः। रघूणां नन्दनेन रामेण कथितावुभौ विभीषण-सुग्रीवौ लक्ष्मणमनुजमपि व्युत्क्रम्यालिङ्गनादिभिरसंभाव्य भरतो ववन्दे ॥ 72 ॥
सौमित्रिणा तदनु संससृजे स चैन-
मुत्थाप्य नम्रशिरसं भृशमालिलिङ्ग ।
रूदेन्द्रजित्प्रहरणव्रणकर्कशेन
क्लिश्यन्निवास्य भुजमध्यमुरःस्थलेन ॥ 73 ॥
73
सौमित्रिणेति॥ तदनु सुग्रीवादिवन्दनानन्तरं स भरतः सौमित्रिणा संससृजे संगतः। ‘सृज विसर्गे’दैवादिकात्कर्तरि लिट्। नम्रशिरसं प्रणतमेनं सौमित्रिमुत्थाप्य भृशं गाढमालिलिङ्ग च। किं कुर्वन्? रूढेन्द्रजित्प्रहरणव्रणैः कर्कशेनास्य सौमित्रेरुरःस्थलेन भुजमध्यं स्वकीयं क्सिश्यन्निव पीडयन्निव। क्लिश्नातिरयं सकर्मकः। ‘क्लिश्नाति भुवनत्रयम्’इति दर्शनात्। ननु रामायणे-‘ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः। किमर्थं ज्यैष्ठ्यमवलम्ब्यानार्जवेन श्लोको व्याख्यातः? सत्यम्,-किंतु रामायणश्लोकार्थष्टीकाकृतोक्तः श्रूयताम्। ‘ततो लक्ष्मणमासाद्य-‘इत्यादिश्लोक आसादनं लक्ष्मणवैदेह्योः। अभिवादनं तु वैदेह्या एव। अन्यथा पूर्वोक्तं भरतस्य ज्यैष्ठ्यं विरुध्येतेति ॥ 73 ॥
रामाज्ञया हरिचमूपतयस्तदानीं
कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान् ।
तेषु क्षरत्सु बहुधा मदवारिधाराः
शैलाधिरोहणसुखान्युपलेभिरे ते ॥ 74 ॥
74
रामेति॥ तदानीं हरिचमूपतयो रामाज्ञया मनुष्यवपुः कृत्वा गजोन्द्रानारुरुहुः। बहुधा मदवारिधाराः क्षरत्सु वर्षत्सु तेषु गजेन्द्रेषु ते कपियूथनाथाः शैलाधिरोहणसुखान्युपलेभिरेऽनुबभूवुः ॥ 74 ॥
सानुप्लवः प्रभुरपि क्षणदाचराणां
भेजे रथान्दशरथप्रभवानुशिष्टः ।
मायाविकल्परचितैरपि ये तदीयै-
र्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः ॥ 75 ॥
75
सानुप्लव इति॥ सानुप्लवः सानुगः। अभिसारस्त्वनुसरः सहायोऽनुप्लवोऽनुगः इ’ इति यादवः। क्षणदाचराणां प्रभुर्विभीषणोऽपि। प्रभवत्यस्मादितिप्रभवो जनकः। दशरथः प्रभवो यस्य स दशरथप्रभवो रामः। तेनानुशिष्ट आज्ञप्तः सन्। रथान्भेजे। तानेव विशिनष्टि-ये रथा मायाविकल्परचितैः संकल्पविशेषनिर्मितैरपि तदीयैर्बिभीषणीयैः स्यन्दनै रथैस्तुलितकृत्रिमभक्तिशोभास्तिलिता समीकृता कृत्रिमा क्रियया निर्वृत्ता भक्तीनां शोभा येषां ते तथोक्ता न भवन्ति। तेऽपि तत्साम्यं न लभन्त इत्यर्थः। कृत्रिमेत्यत्र ‘ड्वितः किः’(पा.3।3।88) इति क्विप्रत्ययः। ‘क्त्रेर्मम्नित्यम्’(पा.4।4।20)इति मबागमः॥ 75 ॥
भूयस्ततो रघुपतिर्विलसत्पताक-
मध्यास्त कामगति सावरजो विमानम् ।
दोषातनं बुधबृहस्पतियोगदृश्य-
स्तारापतिस्तरलविद्युदिवाभ्रवृन्दम् ॥ 76 ॥
76
भूय इति॥ ततो रघुपतिः सावरजो भरतलक्ष्मणसहितः सन्। विलसत्पताकं कामेनेच्छानुसारेण गतिर्यस्य तद्विमानं भूयः पुनरपि । बुधबृहस्पतिभ्यां योगेनदृश्यो दर्शनीयस्तारापतिश्चन्द्रो दोषाभवं दोषातनम्। ‘सायंचिरंप्राह्णे’(पा.4।323)इत्यादिना ‘दोषा’शब्दादव्ययाट्ट्युप्रत्ययः। तरलविद्युञ्चञ्चलतडिदभ्रवृन्दमिव। अध्यास्ताधिष्ठितवान् ॥ 76 ॥
तत्रेश्वरेण जगतां प्रलयादिवोर्वीं
वर्षात्ययेन रुचमभ्रघनादिवेन्दोः ।
रामेण मैथिलसुतां दशकण्ठकृच्छ्रा-
त्प्रत्युद्धतां धृतिमतीं भरतो ववन्दे ॥ 77 ॥
77
तत्रेति॥ तत्र विमाने जगतामीश्वरेणादिवराहेण प्रलयादुर्वीमिव। वर्षात्ययेन शरदागमेनाभ्रघनात् मेघसंघातादिन्दो रुचं चन्द्रिकामिव। रामेण दशकण्ठ एव कृच्छ्रं संकटं तस्मात् प्रत्युद्धृतां धृतिमतीं संतोषवतीं मैथिलसुतां सीतां भरतो ववन्दे ॥ 77 ॥
लङ्केश्वरप्रणतिभङ्गदृढव्रतं त-
द्वन्द्यं युगं चरणयोर्जनकात्मजायाः ।
ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधो-
रन्योन्यपावनमभूदुभयं समेत्य ॥ 78 ॥
78
लङ्केश्वरप्रणतीति॥ लङ्केश्वरस्य रावणस्य प्रणतीनां भङ्गेन निरासेन दृढव्रतमखण्डितपातिव्रत्यमत एव वन्द्यं तज्जनकात्मजायाश्चरणयोर्युगं ज्येष्ठानुवृत्त्या जटिलं जटायुक्तं साधोः सज्जनस्यास्य भरतस्य शिरश्चेत्युभयं समेत्य मिलित्वाऽन्योन्यस्य पावनं शोधकमभूत् ॥ 78 ॥
क्रोशार्धं प्रकृतिपुरःसरेण गत्वा
काकुत्स्थः स्तिमितजवेन पुष्पकेण ।
शत्रुघ्नप्रतिविहितोपकार्यमार्यः
साकेतोपवनमुदारमध्युवास ॥ 79 ॥
79
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ दण्डकाप्रत्यागमनो नाम त्रयोदशः सर्गः ।
क्रोशेति॥ आर्यः पूज्यः काकुत्स्थो रामः प्रकृतयः प्रजाः पुरःसर्यो यस्य तेन स्तिमितजवेन मन्दवेगेन पुष्पकेण। क्रोशोऽध्वपरिमाणविशेषः। क्रोशार्धं क्रोशैकदेशं गत्वा शत्रुघ्नेन प्रतिविहिताः सज्जिता उपकार्याः पटभवनानि यस्मिंस्तदुदारं महत् साकेतस्यायोध्याया उपवनमध्युवासाधितष्ठौ। ‘साकेतः स्यादयोध्यायां कोसलानन्दिनी तथा’ इति यादवः ॥ 79 ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां रघुवंशव्याख्यायां संजीविनीसमाख्यायां त्रयोदशः सर्गः ।