द्वादशः सर्गः।
वन्दामहे महोद्दण्डदोर्दण्डौ रघुनन्दनौ ।
तेजोनिर्जितमार्तण्डमण्डलौ लोकनन्दनौ ॥
निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् ।
आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि ॥ 1 ॥
01
निर्विष्टेति॥ स्नेहयन्ति प्रीणयन्ति पुरुषमिति स्नेहाः। पचाद्यच्। स्निह्यन्ति पुरुषा येष्विति वा स्नेहाः। अधिकरणार्थे घञन्। विषयाः शब्दादयस्त एव स्नेहाः निर्विष्टा भुक्ता विषयस्नेहा येन स तथोक्तः। ‘निर्वेशो भृतिभोगयोः’इति विश्वः। दशा जीवनावस्था तस्या अन्तं वार्घकमुपेयिवान्। स दशरथः। उषसि प्रदीपार्चिरिव दीपज्वालेव। आसन्नं निर्वाणं मोक्षो यस्य स तथोक्त आसीत्। अर्चिःपक्षे तु- विषयो देश आश्रयः। भाजनमिति यावत्। ‘विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च’ इति विश्वः। ‘स्नेहस्तैलादिकरसे द्रवे स्यात्सौहृदेऽपि च’ इति विश्वः। दशा वर्तिका। ‘दशा वर्ताववस्थायाम्’ इति विश्वः। निर्वाणैविनाशः। ‘निर्वाणं निर्वृतौ मोक्षो विनाशे गजमज्जने’इति यादवः ॥ 1 ॥
तं कर्ममूलमागत्य रामे श्रीर्न्यस्यतामिति ।
कैकेयीशङ्कयेवाह पलितच्छद्मना जरा ॥ 2 ॥
02
तमिति॥ जरा कैकेयीशङ्कयेव पलितस्य केशादिशौक्ल्यस्य छद्मना मिषेण। ‘पलितं जरसा शौक्ल्यं केशादौ’इत्यमरः। कर्णमूलं कर्णोपकण्ठमागत्य रामे श्रीराज्यलक्ष्मीर्न्यस्यतां निधीयतामिति तमाह। दशरथो ‘बृद्धोऽहम्’इति विचार्य रामस्य यौवराज्याभिषेकं चकाङ्क्षेत्यर्थः ॥ 2 ॥
सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः ।
प्रत्येकं ह्लादयांचक्रे कुल्येवोद्यानपादपान् ॥ 3 ॥
03
सेति॥ सा पौरकान्तस्य रामस्याभ्युदयश्रुतिरभिषेकवार्ता। कुल्या कृत्रिमा सरित्। ‘कुल्याऽल्पा कृत्रिमा सरित्’इत्यमरः। उद्यानपादपानिव। पौरान्प्रत्येकं ह्लादयांचक्रे ॥ 3 ॥
तस्याभिषेकसंभारं कल्पितं क्रूरनिश्चया ।
दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः ॥ 4 ॥
04
तस्येति॥ क्रूरनिश्चया कैकेयी तस्य रामस्य कल्पितं संभृतमभिषेकस्य संभारमुपकरणं शोकोष्णैः पार्थिवाश्रुभिर्दूषयामास। स्वदुःखमूलेन राजशोकेन प्रतिबबन्धेत्यर्थः ॥ 4 ॥
सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ ।
उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ ॥ 5 ॥
05
सेति॥ चण्ड्यतिकोपना। ‘चण्डस्त्वत्यन्तकोपनः’ इत्यमरः। सा किल भर्त्राऽऽश्वासिताऽनुनीता सती तेन भर्त्रा संश्रुतौ प्रतिज्ञातौ वरौ। इन्द्रेणसिक्ताऽभिवृष्टा भूर्बिले वल्मीकादौ मग्नावुरगाविव। उद्ववामोज्जगार ॥ 5 ॥
तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समाः ।
द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियम् ॥ 6 ॥
06
तयोरिति॥ सा तयोर्वरयोर्मध्य एकेन वरेण रामं चतुर्दश समाः संवत्सरान्। अत्यन्तसंयोगे द्वितीया। प्राव्राजयत् प्रावासयत्। द्वितीयेन वरेण सुतस्य भरतस्य वैधव्यैकफलां स्ववैधव्यमात्रफलाम्। न तूपभोगफलामिति भावः। श्रियमैच्छदियेष ॥ 6 ॥
पित्रा दत्तां रुदन्रामः प्राङ्महीं प्रत्यपद्यत ।
पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत् ॥ 7 ॥
07
पित्रेति॥ रामः। प्राक् पित्रा दत्तां महीं रुदन्प्रत्यपद्यताङ्गीचकार। स्वत्यागदुःखादिति भावः। पश्चाद्वनाय गच्छेत्येवंरूपां तदाज्ञां पित्राज्ञां मुदितोऽग्रहीत्। पित्राज्ञाकरणलाभादिति भावः ॥ 7 ॥
दधतो मङ्गलक्षौमे वसानस्य च वल्कले ।
ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ॥ 8 ॥
08
दधत इति॥ मङ्गलक्षौमे दधतो वस्कले वसानस्याच्छादयतश्च तस्य रामस्य सममेकविधं मुखरागं मुखवर्णं जना विस्मिता ददृशुः। सुखदुःखयोरविकृत इति भावः ॥ 8 ॥
स सीतालक्ष्मणसखेः सत्याद्गुरुमलोपयन् ।
विवेश दण्डकारण्यं प्रत्येकं च सतां मनः ॥ 9 ॥
09
स इति॥ स रामो गुरुं पितरं सत्याद्वरदानरूपात्। अलोपयन्नभ्रंशयन्। सीतालक्ष्मणयोः सखेति विग्रहः। ताभ्यां सहितः सन् दण्डकारण्यं विवेश। सतां मनः प्रत्येकं विवेश। पितृभक्त्या सर्वे सन्तः संतुष्टा इति भावः ॥ 9 ॥
राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजम् ।
शरीरत्यागमात्रेण शुद्धिलाभममन्यत ॥ 10 ॥
विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् ।
रन्ध्रान्वेषणदक्षाणां द्विषामामिषततां ययौ ॥ 11 ॥
11
विप्रोषितेति॥ विप्रोषिता गताः कुमारा यस्मिंस्तत्तथोक्तम्। अस्तमितो मृत ईश्वरो राजा यस्या तत्तथोक्तं तद्राज्यं रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां भोग्यवस्तुतां ययौ। ‘आमिषं भोग्यवस्तुनि’इति केशवः ॥ 11 ॥
अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् ।
मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥ 12 ॥
12
अथेति॥ अथानाथाः प्रकृतयोऽमात्याः। ‘प्रकृतिः सहजे योनावमात्ये परमात्मनि’ इति विश्वः। मातृबन्धुषु निवासिनं भरतं स्तम्भिताश्रुभिः। पितृमरणगुप्त्यर्थमिति भावः। मौलैराप्तैः सचिवैः। आनाययामासुराममयां चक्रुः ॥ 12 ॥
श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः ।
मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः ॥ 13 ॥
13
श्रुत्वेति॥ कैकेयीतनयो भरतः पितुस्तथाविधं स्वमातृमूलं मृत्युं मरणं श्रुत्वा स्वस्या मातुः केवलं मातुरेव पराङ्मुखो न। किंतु श्रियोऽपि पराङ्मुख आसीत् ॥ 13 ॥
ससैन्यश्चान्वगाद्रामं दर्शतानाश्रमालयैः ।
तस्य पश्यन्ससौमित्रेरुदश्रुर्वसतिद्रुमान् ॥ 14 ॥
14
ससैन्य इति॥ ससैन्यो भरतो राममन्वगाञ्च। किं कुर्वन्? आश्रमालयैर्वनवासिभिर्दर्शितान् ‘एते रामनिवासाः’ इति कथितान् ससौमित्रेर्लक्ष्मणसहितस्य तस्य रामस्य वसतिद्रुमान्निवासवृक्षान्पश्यन्न्रुदश्रू रुदन् ॥ 14 ॥
चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः ।
लक्ष्म्या निमन्त्रयांचक्रे तमनुच्छिष्टसंपदा ॥ 15 ॥
15
चित्रेति॥ चित्रकूटवनस्थं तं रामं च गुरोः पितुः कथितस्वर्गतिः। कथितपितृमरणः सन्नित्यर्थः। अनुच्छिष्टाऽननुभूतशिष्टा संपद्गुणोत्कर्षो यस्याः सा। ‘संपद्भूतौ गुणोत्कर्षे’इति केशवः। तया लक्ष्म्या करणेन निमन्त्रयांचक्रे आहूतवान् ॥ 15 ॥
स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे ।
परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः ॥ 16 ॥
16
स हीति॥ स हि भरतः प्रथमजेऽग्रजे तस्मिन् रामेऽकृतश्रीपरिग्रहे सति स्वयं भुवः स्वीकरणादात्मानं परिवेत्तारं मेने। ‘परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात्’ इत्यमरः। भूपरिग्रहोऽपि दारपरिग्रहसम इति भावः ॥ 16 ॥
तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः ।
ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते ॥ 17 ॥
17
तमिति॥ स्वर्गिणः पितुर्निदेशादपाक्रष्टुं निवर्तयितुमशक्यं तं रामं पश्चाद्राज्याधिदेवते स्वामिन्यौ कर्तुं पादुके ययाचे याचितवान् ॥ 17 ॥
स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम् ।
नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक् ॥ 18 ॥
18
स इति॥ स भरतो भ्रात्रा रामेण तथेत्युक्त्वा विसृष्टः सन् पुरीमयोध्यां नाविशदेव। किंतु नन्दिग्रामगतः सन्। तस्य रामस्य राज्यं न्यासमिव निक्षेपमिव। अभुनगपालयत्। न तूपभुक्तवानित्यर्थः। अन्यथा ‘भुजोऽनवने’ (पा.1।3।63) इत्यात्मनेपदप्रसङ्गात्। भुजेर्लङ् ॥ 18 ॥
दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।
मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् ॥ 19 ॥
19
दृढेति॥ ज्येष्ठे दृढभक्ती राज्यतृष्णापराङ्मुखो भरत इति पूर्वोक्तानुष्ठानेन मातुः पापस्य प्रायश्चित्तं तदपनोदकं कर्म। अकरोदिव। इत्युत्प्रेक्षा। ‘दृढभक्तिः’इत्यत्र ‘दृढ’शब्दस्य ‘स्त्रियाः पुंवत्-’(पा.6।3।34)इत्यादिना पुंवद्भावो दुर्घटः। ‘अप्रियादिषु’इति निषेधात्। ‘भक्ति’शब्दस्य प्रियादिषु पाठात्। अतो दृढं भक्तिरस्येति नपुंसकपूर्वपदो बहुव्रीहिरिति गणव्याख्याने दृढभक्तिरित्येवमादिषु पूर्वपदस्य नपुंसकस्य विवक्षितत्वात्सिद्धमिति समाधेयम्। वृत्तिकारश्च-दीर्घनिवृत्तिमात्रपरो ‘दृढभक्ति’शब्दो लिङ्गविशेषस्यानुपकारत्वात्स्त्रीत्वमविवक्षितमेव। तस्मादस्त्रीलिङ्गत्वाद्दृढभक्तिशब्दस्यायं प्रयोग इत्यभिप्रायः। न्यासकारोऽप्येवम्। भोजराजस्तु-‘कर्मसाधनस्यैव भक्तिशब्दस्य प्रियादिपाठाद्भवानीभक्तिरित्यादौ कर्मसाधनत्वात्पुंवद्भावप्रतिषेधः। दृढभक्तिरित्यादौ भावसाधनत्वात्पुंवद्भावसिद्धिः पूर्वपदस्य’इत्याह ॥ 19 ॥
रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् ।
चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥ 20 ॥
20
राम इति॥ सानुजः शान्तो रामोऽपि वैदेह्या सह वने वन्येन वनभवेन कन्दमूलादिना वर्तयन् वृत्तिं कुर्वञ्जीवन् वृद्धेक्ष्वाकूणां व्रतं वनवासात्मकं युवा यौवनस्थ एव चचार ॥ 20 ॥
प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम् ।
कदाचिदङ्के सीतायाः शिशअये किंचिदिव श्रमात् ॥ 21 ॥
21
प्रभावेति॥ स रामः कदाचित् प्रभावेण स्वमहिम्ना स्तम्भिता स्थिरीकृता छाया यस्य तं वनस्पतिमाश्रितः सन्। किंचिदीषच्छ्रमादिव सीताया अङ्के शिश्ये सुष्वाप ॥ 21 ॥
ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः ।
प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् ॥ 22 ॥
22
ऐन्द्रिरिति॥ ऐन्द्रिरिन्द्रस्य पुत्रो द्विजः पक्षी काकस्तस्याः सीताया स्तनौ। प्रियस्य रामस्योपभोगचिह्नेषु। तत्कृतनखक्षतेष्वित्यर्थः। पुरोभागिनो दोषैकदर्शिनः कर्म पौरोभाग्यम्। ‘दोषैकदृक्पुरोभागी’इत्यमरः। दुःश्लिष्टदोषघातमाचरन्कुर्वन्निव। नखैर्विददार विलिलेख। ‘किल’इत्यैतिह्ये ॥ 22 ॥
तस्मिन्नास्थदिषीकास्त्रं रामो रामावबोधितः ।
आत्मानं मुमुचे तस्मादिकेनेत्रव्ययेन सः ॥ 23 ॥
23
तस्मिन्निति॥ रामस्य सीतयाऽवबोधितो रामस्तस्मिन् काक इषीकास्त्रं काशास्त्रम्। ‘इषीका काशमुच्यते’इति हलायुधः। आस्थदस्यति स्म। ‘असु क्षेपणे’ इति धातोर्लुङ्। ‘अस्यतिवक्तिख्यातिभ्योऽङ्’(पा.3।1।52) इत्यङ्प्रत्ययः। ‘अस्यतेस्थुक्’(पा.7।4।17)इति थुगागमः। स काक एकनेत्रस्य व्ययेन दानेन तस्मादस्त्रादात्मानं मुमुचे मुक्तवान्। मुचेः कर्तरि लिङ्। ‘धेनुं मुमोचज’(2।1)इतिक्प्रयोगः ॥ 23 ॥
रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः ।
आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ॥ 24 ॥
24
राम इति॥ रामस्त्वासन्नदेशत्वाद्धेतोः पुनर्भरतागमनमाशङ्क्योत्सुकसारङ्गामुत्कण्ठितहरिणां चित्रकूटस्थलीं जहौ तत्याज। आसन्नश्चासौ देशश्चेति विग्रहः ॥ 24 ॥
प्रययावातिथेयेषु वसन्नृषिकुलेषु सः ।
दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः ॥ 25 ॥
25
प्रययाविति॥ सः रामः। अतिथिषु साधूनि आतिथेयानि। ‘पथ्यतिथिवसतिस्वपतेर्ढञ्’(पा.4।4।104)इति ढञ्प्रत्ययः। तेषु। ऋषिकुलेष्वृष्याश्रमेषु। ‘कुलं कुल्ये गणे देहे गेहे जनपदेऽन्वये’इति हैमः। वर्षासु भवानि वार्षिकाणि। ‘वर्षाभ्यष्ठक्’(पा.4।3।18)इति ठक्प्रत्ययः। तेषु। ऋक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव वसन् दक्षिणां दिशं प्रययौ ॥ 25 ॥
बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता ।
प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी ॥ 26 ॥
26
बभाविति॥ तं राममनुगच्छन्ती विदेहाधिपतेः सुता सीता कैकेय्या प्रतिषिद्धा निवारिताऽपि गुणोन्मुखी गुणोत्सुका लक्ष्मी राजलक्ष्मीरिव बभौ॥ 26 ॥
अनसूयातिसृष्टेन पुण्यगन्धेन काननम् ।
सा चकाराङ्गरागेण पुष्पोञ्चलितषट्पदम् ॥ 27 ॥
27
अनसूयेति॥ सा सीताऽनसूययाऽत्रिभार्यया। अतिसृष्टेन दत्तेन पुण्यगन्धेनाङअगरागेण काननं वनं पुष्पेभ्य उञअचलिता निर्गताः षट्पदा यस्मिंस्तत्तथाभूतं चकार ॥ 27 ॥
संध्याभ्रकपिशस्तस्य विरोधो नाम राक्षसः ।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥ 28 ॥
28
संध्येति॥ संध्याभ्रकपिशो विराधो नाम राक्षसः। ग्रहो राहुरिन्दोरिव। तस्य रामस्य मार्गमध्वानमावृत्यावरुध्यातिष्ठत् ॥ 28 ॥
स जहार तयोर्मध्ये मैथिलीं लोकशोषणः ।
नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥ 29 ॥
29
स इति॥ लोकस्य शोषणः शोषकः स राक्षसस्तयो रामलक्ष्मणमयोर्मध्ये मैधिलीम्। नभो-नभस्ययोः श्रावण-भाद्रपदयोरन्तरे मधअये वृष्टिमवग्रहो वर्षप्रतिबंध इव। जहार। ‘वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ’ इत्यमरः॥ 29 ॥
तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम् ।
गन्धेनाशुचिना चेति वसुधायां निचटख्नतुः ॥ 30 ॥
30
तमिति॥ ककुत्स्थस्य गोत्रापत्ये पुमांसौ काकुत्स्थौ रामलक्ष्मणौ तं विराधं विनिष्पिष्य हत्वा। अशुचिनाऽपवित्रेण गन्धेन स्थलीमाश्रमभुवं पुरा दूषयति दूषयिष्यतीति हेतोः। ‘यावत्पुरानिपातवोर्लट्’(पा.3।3।4) इति भविष्यदर्थे लट्। वसुधायां निचख्नतुर्भूमौ खनित्वा निक्षिप्तवन्तौ च ॥ 30 ॥
पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः ।
अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव ॥ 31 ॥
31
पञ्चवट्यामिति॥ ततो रामः कुम्भजन्मनोऽगस्त्यस्य शासनात्। पञ्चानां वटानां समाहारः पञ्चवटी। ‘तद्धितार्थ-’(पा.2।1।51)इति तत्पुरुषः । ‘संख्यापूर्वो द्विगोः’(पा.2।1।22)इति द्विगुसंज्ञायाम् ‘द्विगोः’(पा.4।1।21)इति ङीप्। ‘द्विगुरेकवचनम्’(पा.2।4।1)इत्येकवचनम्। तस्यां पञ्चवट्याम्। विन्ध्याद्रिः प्रकृतौ वृद्धेः पूर्वावस्थायामिव। अनपोढस्थितिरनतिक्रान्तमर्यादस्तस्थौ ॥ 31 ॥
रावणावरजा तत्र राघवं मदनातुरा ।
अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम् ॥ 32 ॥
32
रावणावरजेति॥ तत्र पञ्चवट्यां मदनातुरा रावणावरजा शूर्पणखा। ‘पूर्वपदात्संज्ञायामगः’(पा.8।4।3)इति णत्वम्। राघवम्। निदाघार्ता घर्मतप्ता व्याकुला व्याली भुजंगी मलयद्रुमं चन्दनद्रुममिव। अभिपेदे प्राप ॥ 32 ॥
सा सीतासंनिधावेव तं वव्रे कथितान्वया ।
अत्यारूढो हि नारीणामकालज्ञो मनोभवः ॥ 33 ॥
33
सेति॥ सा शूर्पणखा सीतासंनिधावेव कथितान्वया कथितस्ववंशा सती तं रामं वव्रे वृतवती। तथा हि-अत्यारूढोऽतिप्रवृद्धो नारीणां मनोभवः कामः कालज्ञोऽवसरज्ञो न भवतीत्यकालज्ञो हि ॥ 33 ॥
कलत्रवानहं बाल!कनीयांसं भजस्व मे ।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥ 34 ॥
34
कलत्रवानिति॥ वृषः पुमान्। ‘वृषः स्याद्वासवे धर्मे सौरभेये च शुक्रले। पुंराशिमेदयोः शृङ्ग्यां मूषकश्रेष्ठयोरपि॥’ इति विश्वः। वृषं पुरुषमात्मार्थमिच्छतीति वृषस्यन्ती कामुकी। ‘वृषस्यन्ती तु कामुकी’इत्यमरः। ‘सुप आत्मनः क्यच्’(पा.3।1।8)इति क्यच्प्रत्ययः। अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि(पा.7।1।51)इत्यसुगागमः। ततो लटः शत्रादेशः। ‘उगितशअच’(पा.4।1।6)इति ङीप्। श्लोकार्थस्तु-वृषस्कन्धो रामो वृषस्तन्तीं तां राक्षसीम् ‘हे बाले! अहं कलत्रवान्,मे कनीयांसं कनिष्ठं भजस्व’इति शशासाः ज्ञापितवान् ॥ 34 ॥
ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिताम् ।
साऽभूद्रामाश्रया भूयो नदीवोभयकूलभाक् ॥ 35 ॥
35
ज्येष्ठेति॥ पूर्वं ज्येष्ठाभिगमनात्तेन लक्ष्मणेनाष्यनभिनन्दिता नाङअगीकृता भूयो रामाश्रया सा राक्षसी। उभे कूले भजतीत्युभयकूलभाक् नदीवाभूत् सा हि यातायाताभ्यां पर्यायेण कूलद्वयगामिनी नदीसदृश्यभूदित्यर्थः ॥ 35 ॥
संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम् ।
निवातस्मिमितां वेलां चद्रोदय इवोदधेः ॥ 36 ॥
36
संरम्भमिति॥ मैथिलीहासः क्षणं सौम्यां सौम्याकारां तां राक्षसीम्। निवातेन स्तिमितां निश्चलामुदधेर्वेलामम्बुविकृतिम्। अम्बुपूरमित्र्थः। ‘अब्ध्यम्बुविकृतौ वेला’इत्यमरः। चन्द्रोदय इव। संरम्भं संक्षोभं निनाय ॥ 36 ॥
फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् ।
मृग्याः परिभवो व्याघ्र्यामित्यवेहि त्वया कृतम् ॥ 37 ॥
37
फलमिति॥ श्लोकद्वयेनान्वयः। अस्योपहासस्य फलं सद्यः संप्रत्येव प्राप्स्यसि। मां पश्य । त्वया कर्त्र्या कृतमुपहासरूपं करणं व्याघ्र्यां विषये मृग्याः कर्त्रअयाः परिभव इत्यवेहि ॥ 37 ॥
इत्युक्त्वा मैथिलीं भर्तुरङ्केः निविशतीं भयात् ।
रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत ॥ 38 ॥
38
इतीति॥ भयाद्भर्तुरङ्के निविशंतीमालिङ्गन्तीं मैथिलीमित्युक्त्वा शूर्पणखा नाम्नः सदृशम्। शूर्पाकारनखयुक्तमित्यर्थः। रूपमाकारं प्रत्यपद्यत स्वीचकार। अदर्शयदित्यर्थः॥ 38 ॥
लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् ।
शइवाघोरस्वनां पश्चाद्बुबुधे विकृतेति ताम् ॥ 39 ॥
39
लक्ष्मण इति॥ लक्ष्मणः प्रथमं कोकिलावन्मञ्जुवादिनीं पश्चाच्छिवावद्धोरस्वनां तां शूर्पणखां श्रुत्वा। तस्याः स्वनं श्रुत्वेत्यर्थः। ‘सुस्वनः शङ्खः श्रूयते’इतिवत्प्रत्योगः। विकृता मायाविनीति बुबुधे बुद्धवान्। कर्तरि लिट्॥ 39 ॥
पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः ।
वैरूप्यपौनरुक्त्येन भीषाणां तामयोजयत् ॥ 40 ॥
40
पर्णशालामिति॥ अथ स लक्ष्मणो विकृष्टासिः कोशोद्धृतखङ्गः सन् क्षिप्रं पर्णशालां प्रविश्य। भीषयतीति भीषणाम्। नन्द्यादित्वाल्लयुट् कर्तरि। तां राक्षसीं वैरूप्यस्य पौनरुक्त्यं द्वैगुण्यं लक्षणया। तेन। अयोजयद्योजितवान्,स्वभावत एव विकृतां तां कर्णादिच्छेदेन पुनरतिविकृतामकरोदित्यर्थः ॥ 40 ॥
सा वक्रनखधारिण्या वेणुकर्कशपर्वया ।
अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे ॥ 41 ॥
41
सेति॥ सा वक्रनखं धारयतीति वक्रनखधारिणी तया वेणुवत्कर्कशपर्वया। अत एवाङ्कुशस्याकार इवाकारो यस्याः सा तया अङ्गुल्या तौ राघवावम्बरे व्योम्नो स्थिता। ‘अम्बुरं व्योम्नि वाससि’इत्यमरः। अतर्जयदभर्त्सयत्। ‘तर्ज भर्त्सने’ इति धातोश्चौरादिकादनुदात्तेत्त्वादात्मनेपदेन भाव्यम्। तथापि चक्षिङो ङइत्करणाञ्ज्ञापकादानुदात्तेत्त्वनिमित्तस्यानित्यत्वात्परस्मैपदमूह्यृमित्युक्तमाख्यातचन्द्रिकायाम्-‘तर्जयते भर्त्सयते तर्जयतीत्यपि च दृश्यते कविषु’इति ॥ 41 ॥
प्राप्य चाशु जनस्थानं खरादिभ्यस्तथाविधम् ।
रामोपक्रममाचख्यौ रक्षःपरिभवं नवम् ॥ 42 ॥
42
प्राप्येति॥ साशु जनस्थानं प्राप्य खरादिभ्यो राक्षसेभ्यस्तथाविधं स्वाङअगच्छेदात्मकम्। उपक्रम्यत इत्युपक्रमः। कर्मणि घञ्प्रत्ययः। रामस्य कर्तुरुपक्रमः रामोपक्रमम्। रामेणादावुपक्रान्तमित्यर्थः। ‘उपज्ञोपक्रमं तदाद्याचिख्यासायाम्’(पा.2।4।21)इति क्लीबत्वम्। तन्नवं रक्षसां कर्मभूतानां परिभवमाचख्यौ च ॥ 42 ॥
मुखावयवलूनां तां नैर्ऋता यत्पुरो दधुः ।
रामाभियायिनां तेषां तदेवाभूदमङ्गलम् ॥ 43 ॥
43
मुखेति॥ नैर्ऋता राक्षसाः। ‘नैर्ऋतो यातुरक्षसी’ इत्यमरः। मुखावयवेषु कर्णादिषु लूनां छिन्नां तां पुरो दधुरग्रे चक्रुरिति यत्तदेव रामाभियायिनां राममभिद्रवतां तेषाममङ्गलमभूत् ॥ 43 ॥
उदायुधानापततस्तान्दृप्तान्प्रेक्ष्य राघवः ।
निदधे विजयाशंसां चापे सीतां च लक्ष्मणे ॥ 44 ॥
44
उदिति॥ उदायुधानुद्यतायुधानापतत आगच्छतो दृप्तांस्तान्खरादीन्प्रेक्ष्य राघवश्चापे विजयस्याशंसामाशां लक्ष्मणे सीतां च निदधे। सीतारक्षणे लक्ष्मणं नियुज्य स्वयं युद्धाय संनद्ध इति भावः ॥ 44 ॥
एको दाशरथिः कामं यातुधानाः सहस्रशः ।
ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः ॥ 45 ॥
45
एक इति॥ दाशरथी राम एकोऽद्वितीयः। यातुधानाः कामं सहस्रशः। सन्तीति शेषः। तैर्यातुधानैस्तु स राम आजौ ते यातुधाना यावन्तो वावत्संख्याका एव तावांस्तावत्संख्याकश्च ददृशे ॥ 45 ॥
असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् ।
न चक्षमे शुभाचारः स दूषणमिवात्मनः ॥ 46 ॥
46
असदिति॥ अथ शुभाचारो रणे साधुचारि सद्वृत्तश्च स काकुत्स्थोऽसज्जनेन दुर्जनेन रक्षोजनेन च प्रयुक्तं प्रेषितमुञ्चारितं च दूषणं दूषणाख्यं राक्षसमात्मनो दूषणं दोषमिव न चक्षमे न सेहे। प्रतिकर्तुं प्रवृत्त इत्यर्थः॥ 46 ॥
तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः ।
क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययुः ॥ 47 ॥
47
तमिति॥ स रामस्तं दूषणं खरत्रिशिरसौ च शरैः प्रतिजग्राह। प्रतिजहारेत्यर्थः। क्रमशो यथाक्रमम्। प्रयुक्ता अपीति शेषः। तस्य ते शराः पुनश्चापात्समं युगपदिवोद्ययुः। अतिलघुहस्त इति भावः ॥ 47 ॥
तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभिः ।
आयुर्देहातिगैः पीतं रुधइरं तु पतत्रिभिः ॥ 48 ॥
48
तैरिति॥ देहमतीत्य भित्त्वा गच्छन्तीति देहातिगाः। तैर्यथास्थिता पूर्वशुद्धिर्येषां तैः। अतिवेगत्वेन देहभेदात्प्रागिव रुधिरलेपरहितैरित्यर्थः। शितैस्तीक्ष्णैस्तैर्बाणैस्त्रयाणां खरादीनामायुः पीतम्। रुधिरं तु पतत्रिभिः पीतम् ॥ 48 ॥
तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् ।
उत्थइतं ददृशेऽन्यञ्च कबन्धेभ्यो न किंचन ॥ 49 ॥
49
तस्मिन्निति॥ तस्मिन्रामशरैरुत्कृत्ते छिन्ने महति रक्षसां बल उत्थितमुत्थानक्रियाविशिष्टं प्राणिनां कबन्धेभ्यः शिरोहीनशरीरेभ्यः। ‘कबन्धोऽस्त्रीक्रियायुक्तमपमूर्धकलेवरम्’इत्यमरः। अन्यञअचान्यत्किंचन न ददृशे। ‘कबन्धेभअय’इत्यत्र ‘अन्यारात्-’(पा.2।3।29)इति पञ्चमी। निःशेषं हतमित्यर्थः॥ 49 ॥
सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥ 50 ॥
50
सेति॥ सा सुरद्विषां वरूथिनी सेना बाणवर्षिणं रामं योधयित्वा युद्धं कारयित्वा गृध्राणां छाया गृध्रच्छायम्। ‘छाया बाहुल्ये’(पा.2।4।22) इति क्लीबत्वम्। तस्मिन्। अप्रबोधायापुनर्बोधाय सुष्वाप। ममारेत्यर्थः। अत्र सुरतश्रान्तकान्तासमाधिर्धअवन्यते ॥ 50 ॥
राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् ।
तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत् ॥ 51 ॥
51
राघवेति॥ एका शूर्पवन्नखानि यस्याः सा शूर्पणखा। ‘पूर्वपदात्संज्ञायाम्-’(पा.8।4।3)इति णत्वम्। ‘नखमुखात्संज्ञायाम्’इति ङीप्प्रतिषेधः। सैव रावणं प्रति राघवास्त्रैर्विदीर्णानां हतानां तेषां रक्षसां खरीदीनां दुष्प्रवृत्तिं वार्तां हरति प्रापयतीति दुष्प्रवृत्तिहराऽभवत्। ‘हरतेरनुद्यमनेऽच्’(पा.3।2।9)इत्यच्प्रत्ययः ॥ 51 ॥
निग्रहात्स्वसुराप्तानां वधाञ्च धनदानुजः ।
रामेण निहितं मेने पदं दशसु मूर्धसु ॥ 52 ॥
52
निग्रहादिति॥ स्वसुः शूर्पणखाया निग्रहादङ्गच्छेदादाप्तानां बन्धूनां खरादीनां वछाञ्च कारणाद्धनदानुजो रावणो रामेण दशसु मूर्धसु पदं पादं निहितं मेने ॥ 52 ॥
रक्षसा मृगरूपेण वञ्चयित्वा स रागवौ ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ 53 ॥
53
रक्षसेति॥ स रावणो मृगरूपेण रक्षसा मारीचेन राघवौ वञ्चयित्वा प्रतार्य पक्षीन्द्रस्य जटायुषः प्रयासेन युद्धरूपेण क्षणं विघ्नितः संजातविघ्नः सन् सीता जहार ॥ 53 ॥
तौ सीतान्वेषिणौ गृध्रं लूनपक्षमपश्यताम् ।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः ॥ 54 ॥
54
ताविति॥ सीतान्वेषिणौ तौ राघवौ लूनपक्षं रावणेन छिन्नपक्षं कण्ठवर्तिभिः प्राणैर्दशरथप्रीतेर्दशरथसख्यस्यानृणमृणैर्विमुक्तं गृध्रं जटायुषमपश्यतां दृष्टवन्तौ। दर्शर्लङि रूपम् ॥ 54 ॥
स रावणहृतां ताभअयां वचसाचष्ट मैथिलीम् ।
आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः ॥ 55 ॥
55
स इति॥ स जटायू रावणहृतां मैथिलीं ताभ्यां रामलक्ष्मणाभ्याम्। ‘क्रियाग्रहणमपि कर्तव्यम्’इति संप्रदानत्वाञ्चतुर्थी। वचसा वाग्वृत्त्याचष्ट। आत्मनः सुमहत्कर्म युद्धरूपं व्रणैरावेद्य संस्थितो मृतः ॥ 55 ॥
तयोस्तस्मिन्नवीभूतपितृव्यापत्तिशोकयोः ।
पितरीवाग्निसंस्कारात्परा ववृतिरे क्रियाः ॥ 56 ॥
56
तयोरिति॥ व्यापत्तिर्मरणम्। नवीभूतः पितृव्यापत्तिशोको ययोस्तौ तयो राघवयोस्तस्मिन्गृध्रे पितरीवाग्निसंस्कारादग्निसंस्कारमारभ्य परा उत्तराः क्रिया ववृतिरेऽवर्तन्त। तस्य पितृवदौर्ध्वदेहिकं चक्रतुरित्यर्थः ॥ 56 ॥
वधनिर्धूतशापस्य कबन्धस्योपदेशतः ।
मुमूर्च्छ सख्यं रामस्य समानव्यसने हरौ ॥ 57 ॥
57
वधेति॥ वधेन रामकृतेन निर्धूतशापस्य देवभूयं गतस्य कबन्धस्य रक्षोविशेषस्योपदेशतो रामस्य समानव्यसने समानापदि। सखअयार्थिनीत्यर्थः। हरौ कपौ सुग्रीवे। ‘शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु’ इत्यमरः। सख्यं मुमूर्च्छ ववृधे ॥ 57 ॥