११

एकादशः सर्गः।
रामचन्द्रचरणारविन्दयोरन्तरङ्गचरभृङ्गलीलया ।
तत्र सन्ति हि रसाश्चतुर्विधास्तान्यथारुचि सदैव निर्विश ॥
कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये ।
काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥ 1 ॥

01

कौशिकेनेति॥ कौशिकेन कुशिकापत्येन विश्वामित्रेण। एत्याभ्यागत्य। स क्षितीश्वरो दशरथः। अध्वरविघातशान्तये यज्ञविघ्नविध्वंसाय। काकपक्षधरं बालकोचितशिखाधरम्। ‘बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः’ इति हलायुधः। रामं याचितः किल प्रार्थितः खलु। याचेर्द्विकर्मकादप्रधाने कर्मणि क्तः। ‘अप्रधाने दुहादीनाम्’ इति वचनात्। नायं बालाधिकार इत्याशङ्क्याह-तेजसां तेजस्विनां वयो बाल्यादि न समीक्ष्यते हि। अप्रप्रयोजकमित्यर्थः। अत्र सर्गे रथोद्धतावृत्तम्। उक्तं च-‘रान्नराविह रथोद्धता लगौ’ इति ॥ 1 ॥

कृच्छ्रलब्धमपि लब्धवर्णभाक्यं दिदेश मुनये सलक्ष्मणम् ।
अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥ 2 ॥

02

कृच्छ्रलब्धमिति॥ लब्धा वर्णाः प्रसिद्धयो यैस्ते लब्धवर्णा विचक्षणाः। ‘सब्धवर्णो विचक्षणः’ इत्यमरः। तान्भजत इति लब्ध्वर्णभाक्। विद्वत्सेवीत्यर्थथः। स राजा कृच्छ्रलब्धमपि सलक्ष्मणं तं रामं मुनये दिदेशातिसृष्टवान्। तथा हि-असुप्रणयिनां प्राणार्थिनामप्यर्थिता याञ्चा रघोः कुले कदाचिदपि न व्यहन्यत न विहता। न विफलीकृतेत्यर्थः। यैरर्भिभ्यः प्राणा अपि समर्प्यन्ते तेषां पुत्रादित्यागो न विस्मयावह इति भावः ॥ 2 ॥

यावदादिशति पार्थिवास्तयोर्निर्गमाय पुरमार्गसंस्क्रियाम् ।
तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः ॥ 3 ॥

03

यावदिति॥ पार्थिवः पृथिवीश्वरः। तयो रामलक्ष्मणयोर्निर्गमाय निष्क्रमणाय पुरमार्गसंस्क्रियां धूलिसंमार्जनगन्धोदकसेचनपुष्पोपहाररूपसंस्कारं यावदादिशत्याज्ञापयति तावन्मरुत्सखैर्वायुसखैः। अनेन धूमिसंमार्जनं गम्यते। सपुष्पजलवर्षिभिः पुष्पसहितजलवर्षिभिर्घनैः सा मार्गसंस्क्रियाऽऽशु विदधे विहिता। एतेन देवकार्यप्रवृत्तयोर्देवानुकूल्यं सूचितम् ॥ 3 ॥

तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः ।
भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः ॥ 4 ॥

04

ताविति॥ निदेशकरणोद्यतौ पित्राज्ञाकरणोद्युक्तौ धन्विनौ धनुष्मन्तौ तौ कुमारौ पितुश्चरणयोर्निपेततुः। प्रणतावित्यर्थः। भूपतेरपि बाष्पबिन्दवः प्रवत्स्यतोः प्रवासं करिष्यतोः। अत एव नम्नयोः प्रणतयोः। ‘नमिकम्पि-’(पा.3।2।167)इति रप्रत्ययः। तयोरुपरि निपेततुः पतिताः ॥ 4 ॥

तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ ।
धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥ 5 ॥

05

ताविति॥ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावीषत्सिक्तचूडौ। ‘शिखा चूडा शिखण्डः स्यात्’ इत्यमरः। ‘शेषाद्विभाषा’(पा.5।4।154) इति कप्प्रत्ययः। धन्विनौ तावुभौ। पौरदृष्टिभिः कृतानि मार्गतोरणानि संपाद्यानि कुवलयानि ययोस्तौ तथोक्तौ। संघशो निरीक्ष्यमाणावित्यर्थः। तमृषिमन्वगच्छताम् ॥ 5 ॥

लक्ष्मणानुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृपः ।
आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥ 6 ॥

06

लक्ष्मणेति॥ ऋषिर्लक्ष्मणानुचरमेव लक्ष्मणमात्रानुगं तं राघवं नेतुमैच्छदिति हेतोः,असौ नृप आशिषं प्रयुयुजे प्रयुक्तवान्। वाहिनीं सेनां न प्रयुयुजे न प्रेषितवान्। हि यस्मात् साऽऽशीरेव तयोः कुमारयो रक्षणविधौ क्षमा शक्ता ॥ 6 ॥

मातृवर्गचरणस्पृशौ मुनेस्तौ प्रपद्य पदवीं महौजसः ।
रेचतुर्गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव ॥ 7 ॥

07

मातृवर्गेति॥ मातृवर्गस्य चरणान्स्पृशत इति मातृवर्गचरणस्पृशौ। कृतमातृवर्गनमस्कारावित्यर्थः। ‘स्पृशोऽनुदके क्क्न्’(पा.3।2।58) इति क्किन्प्रत्ययः। तौ महौजसो मुनेः पदवीं प्रपद्य। महौजसो भास्करस्य गतिवशान्मेषादिराशिसंक्रान्त्यनुसारात्प्रवर्तिनौ मधुमाधवाविव चैत्रवैशाखाविव रेजतुः। ‘फणां च सप्तानाम्’(पा.6।4।125) इति वैकल्पिकावेत्वाभ्यासलोपौ। ‘स्याञ्चैत्रे चैत्रिको मधुः’इति। ‘वैशाखे माधवो राधः’ इति चामरः ॥ 7 ॥

वीचिलोलभुजयोस्तयोर्गतं शैशवाञ्चपलमप्यशोभत ।
तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितम् ॥ 8 ॥

08

वीचीति॥ विचिलोलभुजयोस्तरङ्गचञ्चलबाह्वोः। इदं विशेषणं नदोपमानसिद्ध्यर्थं वेदितव्यम्। तयोश्चपलं चञ्चलमपि गतं गतिः शैशवाद्धेतोरशोभत। किमिव? तोयदागमे वर्षासमये। उज्झत्युदकमित्युद्ध्यः। भिनत्ति कूलमिति भिद्यः,‘भिद्योद्ध्यौ नदे’(पा.3।1।115) इति क्यबन्दौ निपातितौ। उद्ध्यभिद्ययोर्नदविशेषयोर्नामधेयसदृशं नामानुरूपं विचेष्टितमिव उदकोज्झन-कूलभेदनरूपव्यापार इव। समयोत्पन्नं चापलमपि शोभत इति भावः ॥ 8 ॥

तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः ।
मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविवि ॥ 9 ॥

09

ताविति॥ मणिकुट्टिमोचितौ मणिबद्धभूमिसंचारोचितौ तौ मुनिप्रदिष्टयोः कौशिकेनोपदिष्टयोर्बलातिबलयोर्विद्ययोर्बलातिबलाख्ययोर्मन्त्रयोः प्रभावतः सामर्थ्यान्मातृपार्श्वपरिवर्तिनौ मातृसमीपवर्तिनाविव पथि न मम्सतुः। न म्लानावित्यर्थः। अत्र रामायणश्लोकः(बाल.23।18)-‘क्षुत्पिपासे न ते राम! भविष्येते नरोत्तम!। बलामतिबलां चैव पठतः पथि राघवो!॥’ इति॥ 9 ॥

पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः ।
उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥ 10 ॥

10

पूर्वेति॥ वाहनोचितः। सानुजो राघवः। पुराविदः पूर्ववृत्ताभिज्ञस्य पितृसखस्य मुनेः पूर्ववृत्तकथितैः पुरावृत्तकथाभिरुह्यमान इव वाहनेन प्राप्यमाण इव। वहेर्धातोः कर्मणि शानच्। ‘उह्यमानः’इत्यत्र दीर्घादिरपपाठः; दीर्घप्राप्त्यभावात्। पादचारमपि न व्यभावयन्न ज्ञातवान् ॥ 10 ॥

तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः ।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे ॥ 11 ॥

11

ताविति॥ तौ राघवौ कर्मभूतौ सरांसि कर्तॄणि रसवद्भिर्मधुरैरम्बुभिः सिषेविरे। पतत्रिणः पक्षिणः। सुखयन्तीति सुखानि। पचाद्यच्। श्रुतीनां सुखानि। तैः कूजितैः। वायवः सुरभिपुष्परेणुभिः जलदाश्छायया च। सिषेविरे इति सर्वत्र संबध्यते ॥ 11 ॥

नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् ।
दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥ 12 ॥

12

नेति॥ तप एषामस्तीति तपस्विनः। ‘तपःसहस्राभ्यां विनीनी’(पा.5।2।102) इति विनिप्रत्ययः। लघुना। ‘त्रिष्विष्टेऽल्पे लघुः’इत्यमरः। तयोरुभयोः कर्मभूतयोः। दर्शनेन यथा प्रीतिमापुः। तथा कमलशोभिनामम्भसां दर्शनेन नापुः। परिश्रमच्छिदां शाखिनां दर्शनेन च नापुः ॥ 12 ॥

स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः ।
विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥ 13 ॥

13

स्थाण्विति॥ स आत्तकार्मुकः। दशरथस्यापत्यं पुमान् दाशरथी रामः। ‘अत इञ्’(पा.4।1।95) इतीञ्प्रत्ययः। स्थाणुर्हरः। ‘स्थाणुः कीले हरे स्थिरे’ इति विश्वः। तेन दग्धवपुषो मदनस्य तपोवनं प्राप्य चारुणा विग्रहेण कायेन। ‘विग्रहः समरे काये’ इति विश्वः। प्रतिनिधिः प्रतिकगृतिः सदृशोऽभवत्,कर्मणा न पुनः,देहेन मदनसुन्दर इति भावः ॥ 13 ॥

तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥ 14 ॥

14

ताविति॥ अत्र रामायणवचनम्(बाल.25।12-13)-‘अगस्त्यः परम कुद्धस्ताडकामभिशप्तवान्। पुरुषादी महायक्षी विकृता विकृतानना। इदं रूपमपाहाय दारुणं रूपमस्तु ते॥’ इति। तदेतदाह-विदितशापयेति। कौशिकादाख्यातुः ‘आख्यातोपयोगे’(पा.1।4।29) इत्यपादानात्पञ्चमी। विदितशापया सुकेतुसुतया ताडकया खिलीकृते पथि। ‘खिलमप्रहतं स्थानम्’ इति हलायुधः। तौ रामलक्ष्मणौ। स्थले निवेशिते अटनी धनुःकोटी याभ्यां तौ तथोक्तौ। ‘कोटिरस्याटनिः’इत्यमरः। लीलयैव धनुषी। अधिकृते ज्ये मौर्व्यौ ययोस्ते अधिज्ये। ‘ज्या मौर्वीमातृभूमिषु’इति विश्वः। तयोर्भावस्तत्तामधिज्यतां निन्यतुर्नीतवन्तौ। नयतिर्द्विकर्मकः ॥ 14 ॥

ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाछविः ।
ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥ 15 ॥

15

ज्येति॥ अथ तयोर्ज्यानिनादं गृह्णती जानती। शृण्वतीत्यर्थः। बहुलक्षपाछविः कृष्णपक्षरात्रिवर्णा। ‘बहुलः कृष्णपक्षे च’इति विश्वः। चले कपाले एव कुण्डले यस्याः सा तथोक्ता ताडका। निबिडा सान्द्रा बलाकिनी बलाकावती। ‘व्रीह्यादिभ्यश्च’(पा.5।2।116) इतीनिः। कालिकेव घनावलीव। ‘कालिका योगिनीभेदे कार्ष्ण्ये गौर्यां घनावलौ’ इति विश्वः। प्रादुरास प्रादुर्बभूव॥ 15 ॥

तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया ।
अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ॥ 16 ॥

16

तीव्रेति॥ तीव्रवेगेन धुताः कम्पिता मार्गवृक्षा यया तथोक्तया। प्रेतचीवराणि वस्त इति प्रेतचीवरवाः तया प्रेतचीवरवसा। वसतेराच्छादनार्थात्क्विप्। स्वनेन सिंहनादेनोग्रया तया ताडकया। पितृकानने श्मशान उत्थोत्पन्ना। ‘आतश्चोपसर्गे’(पा.3।3।106) इत्युत्पूर्वात्तिष्ठतेः कर्तरि क्तप्रत्ययः। तया वात्ययेव वातसमूहेनेव॥ ‘पाशादिभ्यो यः’(पा.4।2।49)इति यः। भरताग्रजो रामोऽभ्यभाव्यभिभूतः। कर्मणि लुङ्। तीव्रवेगेत्यादिविशेषणानि वात्यायामपि योज्यानि ॥ 16 ॥

उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् ।
तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥ 17 ॥

17

उद्यतेति॥ उद्यतोन्नमितैको भुज एव यष्टिर्यस्यास्ताम्। आयतीमायान्तीम्। इणो धातोः शतरि ‘उगितश्च’(पा.4।1।6) इति ङीप्। श्रोणिलम्बिनी पुरुषाणामन्त्राण्येव मेखला यस्यास्ताम्। इति विशेषणद्वयेनाप्याततायित्वं सूचितम्। अत एव तां विलोक्य राघवो वनितावधे स्त्रीवधनिमित्ते घृणां जुगुप्सां करुणां वा। ‘जुगुप्साकरुणे घृणे’इत्यमरः। पत्रिणेषुणा सह। ‘पत्री रोप इषुर्द्वयोः’इत्यमरः। मुमोच मुक्तवान्। आततायिवधे मनुः(8।350)-‘आततायिनमायान्तं हन्यादेवाविचारयन्। जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन।’ इति ॥ 17 ॥

यञ्चकार विवरं शिलाघने ताडकोरसि स रामसायकः ।
अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥ 18 ॥

18

यदिति॥ स रामसायकः शिलावद्धने सान्द्रे ताडकोरसि यद्विवरं रन्ध्रं चकार तद्विवरं रक्षसामप्रविष्टविषयस्य। अप्रविष्टरक्षोदेशस्येत्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। ‘विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च’इति विश्वः। अन्तकस्य यमस्य द्वारतामगमत्। इयं प्रथमा रक्षोमृतिरिति भावः ॥ 18 ॥

बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलाम् ।
विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥ 19 ॥

19

बाणेति॥ बाणभिन्नहृदया निपेतुषी निपतिता सती। ‘क्कसुश्च’(पा.3।2।107)इति क्वसुप्रत्ययः। ‘उगितश्च’(पा.4।1।6) इति ङीप्। सा केवला मेकाम्। ‘निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः’ इत्यमरः। स्वकाननभुवं न व्यकम्पयत्। किंतु विष्टपत्रयस्य लोकत्रयस्य पराजयेन स्थिरां रावणश्रियमपि व्यकम्पयत्। ताडकावधश्रवणेन रावणस्यापि भयमुत्पन्नमिति भावः ॥ 19 ॥

अत्र ताडकाया अभिसारिकायाः समाधिरभिधीयते-
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ 20 ॥

20

रामेति॥ सा। निशासु चरतीति निशाचरी राक्षसी,अभिसारिका च। दुःसहेन सोढुमशक्येन। राम एव मन्मथः। अन्यत्र,-अभिरामो मन्मथः। तस्य शरेण हृदय उरसि मनसि च। ‘हृदयं मनउरसोः’इति विश्वः। ताडिता विद्धाङ्गा गन्धबद्दुर्गन्धि यद्रुधिरमसृक् तदेव चन्दनं तेनोक्षिता लिप्ता। अपरत्र,-गन्धवती सुगन्धिनी ये रुधिरचन्दने कुङ्कुमचन्दने ताभ्यामुक्षिता,‘रुधिरे कुङ्कुमासृजोः’ इत्युभयत्रापि विश्वः। जीवितेशस्यान्तकस्य,प्राणेश्वरस्य च। वसतिं जगाम ॥ 20 ॥

नैर्ऋतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात् ।
ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ताडकान्तकः ॥ 21 ॥

21

नैर्ऋतेति॥ अथानन्तरं ताडकान्तको रामः। अवदानं पराक्रमः। ‘पराक्रमोऽवदानं स्यात्’ इति भागुरिः। तेन तोषितान्मुनेः। नैर्ऋतान्राक्षसान्तीति नैर्ऋतघ्नम्। ‘अमनुष्यकर्तृके च’(पा.3।2।53)इति टक्। मन्त्रवन्मन्त्रयुक्तमस्त्रम्। सूर्यकान्तो मणिविशेषो भास्करादिन्धनानि निपातयतीतीन्धननिपाति काष्ठदाहकं ज्योतिरिव। प्रापत् प्राप्तवान् ॥ 21 ॥

वामनाश्रमपदं ततः परं पावनं श्रुतमृषेरुपेयिवान् ।
उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः ॥ 22 ॥

22

वामनेति॥ ततः परं राघवः। ऋषेः कौशिकादाख्यातुः श्रुतं पावनं शोधनं वामनस्य स्वपूर्वावतारविशेषस्याश्रमपदमुपेयिवानुपगतः सन्। ‘उपेयिवाननाश्वाननूचानश्च’(पा.3।2।109) इति निपातः। प्रथमजन्मचिष्टितानि राम-वामनयोरैक्यात्स्मृतियोग्यान्यपि रामस्याज्ञानावतारत्वेन संस्कारदौर्बल्यादस्मरन्नपि। उन्मना उत्सुको बभूव ॥ 22 ॥

आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम् ।
बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ॥ 23 ॥

23

आससादेति॥ ततो मुनि। शिष्यवर्गेण परिकल्पिता सज्जिताऽर्हणा पूजासामग्री यस्मिंस्तत्तथोक्तम्। बद्धाः पल्लवपुटा एवाञ्जलयो यैस्ते तथाभूता द्रुमा यस्मिंस्तत्तथोक्तम्। दर्शनेन मुनिदर्शनेनोन्मुखा मृगा यस्मिंस्तत्तत्। आत्मनस्तपोवनमाससाद। एतेन विशेषणत्रयेणातिथिसत्कारताच्छील्यविनयशान्तयः सूचिताः ॥ 23 ॥

तत्र दीक्षितमृषिं ररक्षतुर्विघ्नतो दशरथात्मजौ शरैः ।
लोकमन्धतमसात्क्रमोदितौ रश्मिभिः शशिदिवाकराविव ॥ 24 ॥

24

तत्रेति॥ तत्र तपोवने दशरथात्मजौ दीक्षितं दीक्षासंस्कृतमृषिं शरैर्विघ्नतो विघ्नेभ्यः क्रमेण पर्यायेण रात्रि-दिवसयोरुदितौ शशि-दिवाकरौ रश्मिभिरन्धतमसाद्गढध्वान्तात्। ‘ध्वान्ते गाढेऽन्धतमसम्’इत्यमरः। ‘अवसमन्धेभ्यस्तमसः’(पा.5।4।79)इति समासान्तोऽच्प्रत्ययः। लोकमिव। ररक्षतुः। रक्षणप्रवृत्तावभूतामित्यर्थः ॥ 24 ॥

वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम् ।
संभ्रमोऽभवदपोढकर्मणामृत्विजां च्युतविकङ्कतस्रुचाम् ॥ 25 ॥

25

वीक्ष्येति॥ अथ बन्धुजीवपृथुभिर्बन्धुजीवककुसुमस्थूलैः। ‘रक्तकस्तु बन्धूको बन्धुजीवकः’इत्यमरः। रक्तबिन्दुभिः प्रदूषितामुपहतां वेदिं वीक्ष्य। अपोढकर्मणां त्यक्तव्यापाराणां च्युता विकङ्कतस्रुचो येभ्यस्तेषामृत्विजां याजकानां संभ्रमोऽभवत्। ‘विकङ्कत’ग्रहणं खदिराद्युपलक्षणम्। स्रुवादीनां खदिरादिप्रकृतिकत्वात्। स्रुगादिपात्रस्यैव विकङ्कतप्रकृतिकत्वात्। ‘विकङअकतः स्रुचां वृक्षः’इत्यमरः। यद्वा,-स्रुङ्मात्रस्य विकङ्कतप्रकृतिकत्वमस्तु; उभयत्रापि शास्त्रसंभवात्। यथाह भगवानापस्तम्बः-‘स्रुङ्मात्रस्य विकङ्कतप्रकृतिकत्वमस्तु; उभयत्रापि शास्त्रसंभवात्। यथाह भगवानापस्तम्बः-‘खादिरः स्रवः पर्णमयी जुहूराश्वत्थ्युपभृद्वैकङ्कतीः स्रुचो वा’इति ॥ 25 ॥

उन्मुखः सपदि लक्ष्मणाग्रजो बाणमाश्रयमुखात्समुद्धरन् ।
रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥ 26 ॥

26

उन्मुख इति॥ सपदि लक्ष्मणाग्रजो रामो बाणमाश्रयमुखात्तूणीरमुखात् समुद्धरन्। उन्मुख ऊर्ध्वमुखोऽम्बुरे। गृध्रपक्षपवनैरीरिताः कम्पिता ध्वजा यस्य तत्तथोक्तम्। रक्षसां दुर्निमित्तसूचनमेतत्। तदुक्तं शकुनार्णवे-‘आसन्नमृत्योर्निकटे चरन्ति गृध्रादयो मूर्ध्नि गृहोर्ध्वभागे’इति। रक्षसां बलमपश्यत् ॥ 26 ॥

तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान् ।
किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते? ॥ 27 ॥

27

तत्रेति॥ स रामः। तत्र रक्षसां बले यौ मखद्विषामधिपती तौ सुबाहुमारीजौ शरव्यं लक्ष्यमकरोत्। ‘वेध्यं लक्ष्यं शरव्यं च’इति हलायुधः। इतरान्नाकरोत्। तथा हि-महोरगविसर्पिविक्रमो गरुडो गरुत्मान् राजिलेषु जलव्यालेषु प्रवर्तते किम्? न प्रवर्तत इत्यर्थः। ‘अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ’इत्यमरः ॥ 27 ॥

सोऽस्त्रमुग्रजवमस्त्रकोविदः संदधे धनुषि वायुदैवतम् ।
तेन शैलगुरुमप्यपातयत्पाण्डुपत्रमिव ताडकासुतम् ॥ 28 ॥

28

स इति॥ अस्त्रकोविदोऽस्त्रज्ञः स राम उग्रजवमुत्कटजवं वायुदैवतं वायुर्देवता यस्य तद्वायव्यमस्त्रं धनुषि संदधे संहितवान्। कर्तरि लिट्। तेनास्त्रेण शैलवद्गुरुमपि ताडकासुतं मारीचम्। पाण्डुपत्रमिव। परिणतपर्णमिवेत्यर्थः। अपातयत् पातितवान् ॥ 28 ॥

यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया ।
तं क्षुरप्रशकलीकृतं कृती पत्रिणां व्यभजदाश्रमाद्वहिः ॥ 29 ॥

29

य इति॥ सुबाहुरिति योऽपरो राक्षसस्तत्र तत्र मायया शम्बरविद्यया विससर्प संचचार। क्षुरप्रैः शकलीकृतं खण्डीकृतं तं सुबाहुं कृती कुशलो रामः। ‘कृती च कुशलः समौ’इत्यमरः। आश्रमाद्बहिः। पत्रिणां पक्षिणाम्। ‘पत्रिणौ शरपक्षिणौ’ इत्यमरः। व्यभजत्। विभज्य दत्तवानित्यर्थः ॥ 29 ॥

इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् ।
ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन्क्रियाः ॥ 30 ॥

30

इतीति॥ इत्यपास्तमखविघ्नयोस्तयो राघवयोः। संयुगे रणे साधुः सांयुगीनस्तम्। ‘प्रतिजनादिभ्यः खञ्’(पा.4।4।99)इति खञ्प्रत्ययः। ‘सांयुगीनो रणे साधुः’इत्यमरः। विक्रममभिनन्द्य ऋत्विजो याजकाः। वाचि यतो वाग्यतो मौनी तस्य कुलपतेर्मुनिकुलेश्वरस्य क्रियाः क्रतुक्रिया यथाक्रमं निरवर्तयन् निषअपादितवन्तः ॥ 30 ॥

तौ प्रणामचलकाकपक्षकौ भ्रातराववभृथाक्लुतो मुनिः ।
आशिषामनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना ॥ 31 ॥

31

ताविति॥ अवभृथे दीक्षान्त आप्लुतः स्नातो मुनिः। ‘दीक्षान्तोऽवभृथो यज्ञे’ इत्यमरः। प्रणामेन चलकाकपक्षकौ चञ्चलचूडौ तौ भ्रातरावाशिषामनुपदमन्वग्दर्भपाटिततलेन कुशक्षतान्तः प्रदेशेन। पवित्रेणेत्यर्थः। पाणिना समस्पृशत् संस्पृष्टवान्। संतोषादिति भावः ॥ 31 ॥

तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिथिलां व्रजन्वशी ।
राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ॥ 32 ॥

32

तमिति॥ संभृतक्रतुः संकल्पितसंभारो मिथिलायां भवो मैथिलो जनकस्तं विश्वामित्रं न्यमन्त्रयताहूतवान्। वशी स मुनिर्मिथिलां जनकनगरीं व्रजन्,तस्य जनकस्य यद्धनुस्तच्छ्रवणजं कुतूहलं बिभ्रतौ राघवावपि निनाय नीतवान् ॥ 32 ॥

तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुष्वगृह्यत ।
येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥ 33 ॥

33

तैरिति॥ गताध्वभिस्तैस्त्रिभिः सायं शिवेषु रम्येष्वाश्रमतरुषु वसतिः स्थआनमगृह्यत। येष्वाश्रमतरुषु दीर्घतपसो गौतमस्य परिग्रहः पत्नी। ‘पत्नीपरिजनादानमूलशापाः परिग्रहाः’ इत्यमरः। अहल्येति यावत्। वासवस्येन्द्रस्य क्षणकलत्रतां ययौ ॥ 33 ॥

प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शइलामयी ।
स्वं वपुः स किल किल्बिषच्छिदां रामपादरजसामनुग्रहः ॥ 34 ॥

34

प्रत्यपद्यतेति॥ शिलामयी भतृशापाच्छिलत्वं प्राप्ता गौतमवधूरहल्या चारु स्वं वपुश्चिराय पुनः प्रत्यपद्यत प्राप्तवती। यत् स किल्बिषच्छिदां पापहारिणाम्। ‘पापं किल्बिषकल्मषम्’ इत्यमरः। रामपादरजसामनुग्रहः किलप्रसादः किलेति श्रूयते ॥ 34 ॥

राघवान्वितमुपस्थितं मुनिं तं निशम्य जनको जनेश्वरः ।
अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात् ॥ 35 ॥

35

राघवेति॥ राघवाभ्यामन्वितं युक्तमुपस्थितमागतं तं मुनिं जनको जनेश्वरो निशम्य। अर्थकामाभ्यां सहितं देहबद्धं बद्धदेहम्। मूर्तिमन्तमित्यर्थः। वाहिताग्न्यादित्वात्साधुः। धर्ममिव। सपर्ययाऽभ्यगात् प्रत्युद्गतवान् ॥ 35 ॥

तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू ।
मन्यते स पिबतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः ॥ 36 ॥

36

ताविति॥ दिवः सुरवर्त्मन आकाशात्। ‘द्यौः स्वर्गसुरवर्त्मनोः’इति विश्वः। गां भुवं गतौ। ‘स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः’ इत्यमरः। पुनर्वसू इव तन्नामकनक्षत्राधिदेवते इव स्थितौ। तौ राघवौ विलोचनैः पिबताम्। अत्यास्थया पश्यतामित्यर्थः। विदेहनगरी मिथिला। तन्निवासिनां मनः कर्तृ पक्ष्मपातं निमेषमपि तद्दर्शनप्रतिबन्धकत्वाद्वञ्जनां विडम्बनां मन्यते स्म मेने। ‘लट् स्मे’(पा.3।2।118) इति भूतार्थे लट् ॥ 36 ॥

यूपवत्यवसिते क्रियाविधौ कालवित्कुशिकवंशवर्धनः ।
राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांबभूव सः ॥ 37 ॥

37

यूपेति॥ यूपवति क्रियाविधौ कर्मानुष्ठाने। क्रतावित्यर्थः। अवसिते समाप्ते सति कालविदवसरज्ञः कुशिकवंशवर्धनः स मुनी रामम्। अस्यतेऽनेनेत्यसनम्,इषूणामसनमिष्वसनं चापम्। तस्य दर्शन उत्सुकं मैथिलाय जनकाय कथयांबभूव कथितवान् ॥ 37 ॥

तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः ।
स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया ॥ 38 ॥

38

तस्येति॥ पार्थिवा जनकः। प्रथितवंशे जन्म यस्य तस्य तथोक्तस्य । एतेन वरसंपत्तिरुक्ता। शिशोस्तस्य रामस्य ललितं कोमलं वपुर्वीक्ष्य। स्वं स्वकीयं दुरानममानमयितुमशक्यम्। नमेर्ण्यन्तात्खल्। धनुर्विचिन्त्य च दुहितृशुल्कं कन्यामूल्यं जामातृदेवयम्। ‘शुल्कं घट्टादिदेये स्याज्जामातुर्बन्धकेऽपि च’ इति विश्वः। तस्य धनुर्भङ्गरूपस्य संस्थया स्थित्या। ‘संस्था स्थितौ शरे नाशे’ इति विश्वः। पीडितो बाधितः। शिशुना रामेण दुष्करमिति दुःखित इति भावः ॥ 38 ॥

अव्रवीञ्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करम् ।
तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥ 39 ॥

39

अब्ववीदिति॥ अब्रवीञअच। मुनिमिति शेषः किमिति? हे भगवन्मुने! बृहद्भिर्मतंगजैर्महागजैपरि दुष्करं यत्कर्म तत्र कर्मणि कलभस्य बालगजस्य । ‘कलभः करिशावकः’ इत्यमरः। मोघवृत्ति व्यर्थव्यापारं चेष्टितं साहसमनुमन्तुमहं नोत्सहे ॥ 39 ॥

ह्रेपिता हि बहवो नरेश्वरास्तेन तात! धनुषा धनुर्भृतः ।
ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे ॥ 40 ॥

40

ह्रेपिता इति॥ हे तात! तेन धनुषा बहवो धनुर्भृतो नरेश्वरा ह्रेपिता ह्रियं प्रापिता हि। जिह्रतेर्धातोर्ण्यन्तात्कर्मणि क्तः। ‘अर्तिह्री-’(पा.7।3।36) इत्यादिना पुगागमः। ते नरेश्वरा ज्यानिघातैः कठिनत्वचः स्वान्भुजान्धिगिति विधूयवमत्या प्रतस्थिरे प्रस्थिताः ॥ 40 ॥

प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथवा गिरा कृतम् ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥ 41 ॥

41

प्रतीति॥ ऋषिस्तं प्रत्युवाच। किमिति? अयं रामः सारतो बलेन निशम्यतां श्रूयताम्। अथवा गिरा । सारवर्णनया कृतमलम्। गीर्न वक्तव्येत्यर्थः। ‘युगपर्याप्तयोः कृतम्’इत्यमरः। अव्ययं चैतत्। ‘कृतं निवारणनिषेधयोः’ इति गणव्याख्याने। ‘गिरा’इति करणे तृतीया; निषेधक्रियां प्रति करणत्वात्। किंत्वशनिर्वज्रो गिराविव। चापे धनुष्येव भवतस्तव व्यक्तशक्तिर्दृष्टसारो भविष्यति ॥ 41 ॥

एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे ।
श्रद्धधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ॥ 42 ॥

42

एवमिति॥ एवमाप्तस्य मुनेर्वचनात्स जनकः काकपक्षकधरे बालेऽपि राघवे पुरुषस्य कर्म पौरुषं पराक्रमम्। ‘हायनान्तयुवादिभ्योऽण्’(पा.5।1।130)इति युवादित्वादण्। ‘पौरुषं पुरुषस्योक्तं भावे कर्मणि तेजसि’इति विश्वः। त्रिदशगोप इन्द्रगोपकीटः प्रमाणमस्य त्रिदशगोपमात्रः। ‘प्रमाणे द्वयसच्-’(पा.5।2।37) इत्यादिना मात्रच्प्रत्ययः। ततः स्वार्थे कप्रत्ययः। तस्मिन्कृष्णवर्त्मनि वह्नौ दाहशक्तिमिव। श्रद्वधे विश्वस्तवान् ॥ 42 ॥

व्यादिदेश गणशोऽथ पार्श्वगान्कार्मुकाभिहरणाय मैथिलः ।
तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः ॥ 43 ॥

43

व्यादिदेशेति॥ अथ मैथिलः पार्श्वगान्पुरुषान् कार्मुकाभिहरणाय कार्मुकमानेतुम्। ‘तुमर्थाञ्च-’(पा.2।3।15) इति चतुर्थी। सहस्रलोचन इन्द्रस्तैजसस्य तेजोमयस्य धनुषः प्रवृत्तय अविर्भावाय तोयदान्भेधानिव गणशः गणान्। ‘संख्यैकवचनाञ्च वीप्सायाम्’(पा.5।4।43)इति शस्प्रत्ययः। व्यादिदेश प्रजिघाय ॥ 43 ॥

तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः ।
विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजद्वृषध्वजः ॥ 44 ॥

44

तदिति॥ दाशरथी रामः प्रसुप्तभुजगेन्द्र इव भीषणं भयंकरं तद्धनुर्वीक्ष्याददे जग्राह। वृषो ध्वजश्चिह्नं यस्य स शिवो येन धनुषा। क्रतुरेव मृगः। विद्रुतं पलायितं क्रतुमृगमनुसरति। ताच्छील्ये णिनिः। तं विद्रुतक्रतुमृगानुसारिणं बाणमसृजन्मुमोच ॥ 44 ॥

आततज्यमकरोत्स संसदा विस्मयस्तिमितनेत्रमीक्षितः ।
शैलसारमपि नातियत्नतः पुष्पचापमिव पेशलं स्मरः ॥ 45 ॥

45

आततेति॥ स रामः संसदा सभया विस्मयेन स्तिमिते नेत्रे यस्मिन्कर्मणि तद्यथा स्यात्तथेक्षितः सन्। शैलस्येव सारो यस्य तच्छैलसारमपि धनुः। स्मरः पेशलं कोमलं पुष्पचापमिव। नातियत्नतो नातियत्नात्। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। आततज्यमधिज्यम्। अकरोत् ॥ 45 ॥

भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः ।
भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिव न्यवेदयत् ॥ 46 ॥

46

भज्यमानमिति॥ तेन रामेण। अतिमात्रकर्षणाद्भज्यमानम्,अत एव वज्रपरुषस्वनं। वज्रमिव परुषः स्वनो यस्य तत्। धनुः कर्तृ। दृढमन्यवे दृढक्रोधाय। ‘मन्युः क्रोधे क्रतौ दैन्ये’ इति विश्वः। भार्गवाय क्षत्रं क्षत्रकुलं पुनरुद्यतमिति न्यवेदयदिव ज्ञापयामासेव ॥ 46 ॥

दृष्टसारमथ रुद्रकार्मुके वीर्यशुल्कमभिनन्द्य मैथिलः ।
राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत् ॥ 47 ॥

47

दृष्टेति॥ अथ मैथइलो जनको रुद्रकार्मुके दृष्टः सारः स्थिरांशो यस्य दद्दृष्टसारम्। ‘सारो बले स्थिरांशे च’ इत्यमरः। वीर्यमेव शुल्कम्। धनुर्भङ्गरूपमित्यर्थः। अभिनन्द्य। राघवाय रामाय। अयोनिजां देवयजनसंभवां तनयां सीतां रूपिणीं श्रियमिव साक्षाल्लक्ष्मीमिव न्यवेदयदर्पितवान्। वाचेति शेषः ॥ 47 ॥

उक्तमेवार्थं सोपस्कारमाह-
मैथिलः सपदि सत्यसंगरो राघवाय तनयामयोनिजाम् ।
संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान् ॥ 48 ॥

48

मैथिल इति॥ सत्यसंगरः सत्यप्रतिज्ञः। ‘अथ प्रतिज्ञाजिसंविदापत्सु संगरः’इत्यमरः। मैथिलो राघवाय। अयोनिजां तनयां द्युतिमतस्तेजस्विनस्तपोनिधेः कौशिकस्य संनिधौ। अग्निः साक्षी यस्य सोऽग्निसाक्षिकः। ‘शेषाद्विभाषा’(पा.5।4।154)इति कप्प्रत्ययः। स इव। सपद्यतिसृष्टवान् दत्तवान् ॥ 48 ॥

प्राहिणोञ्च महितं महाद्युतिः कोसलाधिपतये पुराधसम् ।
भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुलमिदं निमेरिति ॥ 49 ॥

49

प्राहिणोदिति॥ महाद्युतिर्जनको महितं पूजितं पुरोधसं पुरोहितं कोसलाधिपतये दशरथाय प्राहिणोत् प्रहितवांश्च। किमिति? निमिर्नाम जनकानां पूर्वजः कश्चित्। इदं निमेः कुलं दुहितुः सीतायाः परिग्रहात् स्नुषात्वेन स्वीकाराद्धेतोः। भृत्यस्य भावो भृत्यत्वम्। सोऽस्यास्तीति भृत्यभावि दिश्यतामनुमन्यतामिति ॥ 49 ॥

अन्वियेष सदृशीं स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः ।
सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्मिकाङ्क्षितम् ॥ 50 ॥

50

अन्वियेषेति॥ स दशरथशअच सदृशीमनुरूपां स्नुषामन्वियेष। रामविवाहमाचकाङ्क्षेत्यर्थः। अनुकूलवाक् स्नुषासिद्धिरूपानुकूलार्थवादी द्विजो जनकपुरोधाश्च। एनं दशरथं प्राप। तथा हि-कल्पवृक्षफलस्य यो धर्मः सद्यःपाकरूपः सोऽस्यास्तीति कल्पवृक्षफलधर्मि अतः सुकृतां पुण्यकारिणां काङ्क्षितं मनोरथः सद्य एव पच्यते हि। कर्मकर्तरि लट्। स्वयमेव पक्वं भवतीत्यर्थः। ‘कर्मवत्कर्मणा तुल्यक्रियः’(पा.3।1।87) इति कर्मवपद्भावात् ‘भावकर्मणोः’(पा.1।3।13) इत्यात्मनेपदम् ॥ 50 ॥

तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनमग्रजन्मनः ।
उञ्चचाल बलभित्सखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥ 51 ॥

51

लक्ष्यत इति॥ तदनन्तरं प्रतीपपवनानन्तरं बद्धं भीमं परिवेषस्य परिधेर्मण्डलं यस्य सः। ‘परिवेषस्तु परिधिरुपसूर्यकमण्डले’ इत्यमरः। रविः। वैनतेयशमितस्य गरुडहतस्य भोगिनः सर्पस्य भोगेन कायेन। ‘भोगः सुखे स्त्रअयादिभृतावहेश्च फणकाययोः’ इत्यमरः। वेष्टितश्च्युतः शिरोभ्रष्टो मणिरिव लक्ष्यते स्म ॥ 51 ॥

आससाद मिथिलां स वेष्टयन्पीडितोपवनपादपां बलैः ।
प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥ 52 ॥

52

आससादेति॥ स दशरथो बलैः सैन्यैः पीडितोपवनपादपां मिथिलां वेष्टयन् परिधीकुर्वन्। आससाद। सा पुरी। स्त्री युवतिः। आयतमतिप्रसक्तं कान्तपरिभोगं प्रियसंभोगमिव प्रीत्या रोधं प्रीतिरोधम्। असहिष्ट सोढवती,द्वेषरोधं तु न सहत इति भावः ॥ 52 ॥

तौ समेत्य समये स्थितावुभौ भूपती वरुणवासवोपमौ ।
कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥ 53 ॥

53

ताविति॥ समये स्थितावाचारनिष्ठौ । ‘समयाः शपथाचारकालसिद्धान्तसंविदः’ इत्यमरः। वरुणवासवावुपमोपमानं ययोस्तौ तथोक्तौ। तावुभौ भूपती जनक-दशरथौ समेत्य। स्वप्रभावसदृशीमात्ममहिमानुरूपां कन्यकानां सीतादीनां तनयानां रामादीनां च कौतुकक्रियां विवाहोत्सवं वितेनतुर्विस्तृतवन्तौ। तनोतेर्लिट् ॥ 53 ॥

पार्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् ।
यौ तयोरवरजौं वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥ 54 ॥

54

पार्थिवीमिति॥ उद्वहतीत्युद्वहः। पचाद्यच्। रघूणामुद्वहो रघूद्वहो रामः। पृथिव्या अपत्यं स्त्री पार्थिवी। ‘तस्यापत्यम्’ (पा.4।1।92) इति ‘टिड्ढाणञ्’(पा.4।1।15) इति ङीप्। तां सीतामुदवहत् परिणीतवान्। अथ लक्ष्मणस्तस्याः सीताया अनुजां जनकस्यौरसीमूर्मिलामुदवहत्। यौ वरौजसौ तयो रामलक्ष्मणयोरवरजावनुजातौ भरत-शत्रुघ्नौ तौ सुमध्यमे कुशध्वजस्य जनकानुजस्य सुते कन्यके माण्डवीं श्रुतकीर्तिं चोदवहताम्। नात्र व्युत्प्रमविवाहदोषः; भिन्नोदरत्वात्। तदुक्तम्-‘पितृव्यपुत्रे सापत्न्ये परनारीसुतेषु च। विवाहाधानयज्ञादौ परिवेत्ताद्यदूषणम् ॥’ इति ॥ 54 ॥

ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः ।
सामदानविधइभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥ 55 ॥

55

त इति॥ ते चतुर्थसहितास्त्रयः। चत्वार इत्यर्थः। वृत्तानुसारादेवमुक्तम्। सूनवो नववधूपरिग्रहाः सिद्धिमन्तः फलसिद्धियुक्तास्तस्य भूपतेर्दशरथस्यसामदानविधिमेदनिग्रहाश्चत्वार उपाया इव बभुः। विधीयत इति विधिः। दानमेव विधिः। निग्रहो दण्डः। सूनूनामुपायैर्वधूनां सिद्धिभिश्चौपम्यमित्यनुसंधेयम् ॥ 55 ॥

ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम् ।
सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः ॥ 56 ॥

56

ता इति॥ ता नराधिपसुता जनककन्यका नृपात्मजैर्दशरथपुत्रैः कृतार्थतां कुलशीलवयोरूपादिसाफल्यमगमन्। ते च ताभिस्तथा। किंच,स वराणां वधूनां च समागमः। प्रत्ययानां प्रकृतीनां च योग इव संनिभातीति संनिभः। अभवत्। पचाद्यच्। प्रत्ययाः सनादयो येभ्यो विधीयन्ते ताः प्रकृतयः। यथा प्रकृति-प्रत्यययोः सहैकार्थसाधनत्वं तद्वदत्रापीति भावः ॥ 56 ॥

एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः ।
अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥ 57 ॥

57

एवमिति॥ एवमात्तरतिरनुरागवान् स दशरथस्तांश्चतुरोऽप्यात्मसंभवान् पुत्रांस्तत्र,मिथिलायां निवेश्य विवाह्य। ‘निवेशः शिबिरोद्वाहविन्यासेषु प्रकीर्तितः’ इति विश्वः। त्रिष्वध्वसु प्रयाणेषु सत्सु विसृष्टमैथिलः सन्। स्वां पुरीं न्यवर्तत। उद्देशक्रियापेक्षया कर्मत्वं पुर्याः ॥ 57 ॥

तस्य जातु मरुतः प्रतीपगा वर्त्मसु ध्वजतरुप्रमाथिनः ।
चिक्लिशुर्भृशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ॥ 58 ॥

58

तस्येति॥ जातु कदाचितद्वर्त्मसु ध्वजा एव तरवस्तान्प्रमथ्नन्ति ये ते ध्वजतरुप्रमाथिनः प्रतीपगाः प्रतिकूलगामिनो मरुतः। उत्तटा नदीरयाः स्थलीमकृत्रिमभूमिमिव। ‘जानपदकुण्ड-’(पा.4।1।42)इत्यादिना ङीप्। तस्य वरूथिनीं सेनां भृशतया मृशं चिक्लिशुः क्लिश्यन्ति स्म ॥ 58 ॥

लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेषमण्डलः ।
वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥ 59 ॥

59

लक्ष्यत इति॥ तदनन्तरं प्रतीपपवनानन्तरं बद्धं भीमं परिवेषस्य परिधेर्मण्डलं यस्य सः। ‘परिवेषस्तु परिधिरुपसूर्यकमण्डले’ इत्यमरः। रविः। वैनतेयशमितस्य गरुडहतस्य भोगिनः सर्पस्य भोगेन कायेन। ‘भोगः सुखे स्त्रअयादिभृतावहेश्च फणकाययोः’ इत्यमरः। वेष्टितश्च्युतः शिरोभ्रष्टो मणिरिव लक्ष्यते स्म ॥ 59 ॥

श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः ।
अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥ 60 ॥

60

श्येनेति॥ श्येनपक्षा एव परिधूसरा अलका यासां तास्तथोक्ताः। सांध्यमेधा एव रुधिरार्द्राणि वासांसि यासां तास्तथोक्ताः। रजो धूलिरासामस्तीति रजस्वलाः। ‘रजः कृष्यासुतिरपरिषदो वलच्’(पा.5।2।112)इति वलच्प्रत्ययः। दिशः। रजस्वला ऋतुमत्योऽङ्गना इव। ‘स्याद्रजः पुष्पमार्तवम्’ इत्यमरः। अवलोकनक्षमा दर्शनार्हा नो बभूवुः। एकत्र,-दृष्टिदोषात्,परत्र,-शास्त्रदोषादिति विज्ञेयम्। अत्र रजोवृष्टिरुत्पात उक्तः ॥ 60 ॥

भास्करश्च दिशमध्युवास यां तां श्रितः प्रतिभयं ववासिरे ।
क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः ॥ 61 ॥

61

भास्कर इति॥ भास्करो यां दिशमध्युवास च यस्यां दिश्युषितः। ‘उपान्वध्याङ्वसः’(पा.1।4।48) इति कर्मत्वम्। तां दिशं श्रिताः शिवा गोमायव,‘स्त्रियां शिवा भूरिमायुगोमायुमृगधूर्तकाः’ इत्यमरः।थ क्षत्रशोणितेन या पितृक्रिया पितृतर्पणं तत्रोचितं परिचितं भार्गवं चोदयन्त्य इव प्रतिभयं भयंकरं ववासिरे रुरुवुः। ‘वासृ शब्दे’ इति धातोर्लिट्। ‘तिरश्चां वासितं रुतम्’इत्यमरः ॥ 61 ॥

तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित् ।
अन्वयुङ्क्त गुरुमीश्वरः क्षितेः स्वन्तमित्यलघयत्स तद्व्यथाम् ॥ 62 ॥

62

तदिति॥ तत्प्रतीपपवनादि वैकृतं दुर्निमित्तं प्रेक्ष्य कृत्यवित् कार्यज्ञः क्षितेरीश्वरः शान्तिमनर्थनिवृत्तिमधिकृत्योद्दिश्य गुरुं वसिष्ठमन्वयुङ्क्तापृच्छत्। ‘प्रश्नोऽनुयोगः पृच्छा च’ इत्यमरः। स गुरुः स्वन्तं शुभोदर्कं भावीति तस्य राज्ञो व्यथआमलघयल्लघूकृतवान् ॥ 62 ॥

तेजसः सपदि राशिरुत्थइतः प्रादुरास किल वाहिनीमुखे ।
यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात् ॥ 63 ॥

63

तेजसा इति॥ सपद्युत्थितस्तेजसो राशिर्वाहिनीमुखे सेनाग्रे प्रादुरास किल खलु। यः सैनिकैर्नयनानि प्रमृज्य चिराल्लक्षणीया भावनीया पुरुषाकृतिर्यस्य स तथोक्तः । अभूदिति शेषः ॥ 63 ॥

पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् ।
यः ससोम इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥ 64 ॥

64

पित्र्यमिति॥ उपवीतं लक्षणं चिह्नं यस्य तम्। पितुरयं पित्र्यः। ‘वाय्वुतुपित्रुषसो यत्’(पा.4।2।31) इति यत्प्रत्ययः । तमंशम्। धनुषोर्जितं धनुरूर्जितम्। मातुरयं मातृकः। ‘ऋतष्ठञअ’(पा.4।3।78)इति ठञ्प्रत्ययः। तमंशं च दधत्। यो भार्गवः। ससोमश्चन्द्रयुक्तो घर्मदीधितिः सूर्य इव। सद्विजिह्नः रसर्पश्चन्दनद्रुम इव। स्थितः ॥ 64 ॥

येन रोषपरुषात्मनः पितुः शासने स्थितिभिदोऽपि तस्थुषा ।
वेपमानजननीशइरश्छिदा प्रागजीयत घृणा ततो मही ॥ 65 ॥

65

येनेति॥ रोषपरुष आत्मा बुद्धिर्यस्य सः। ‘आत्मा जीवो धृतिर्बुद्धिः’इत्यमरः। तस्य रोषपरुषात्मनः स्थितिभिदोऽपि मर्यादालङ्घिनोऽपि पितुः शासने तस्थुषा स्थितेन वेपमानजननीशइरश्छिदा येन प्राग्घृणाऽजीयत। ततोऽनन्तरं मह्यजीयत। मातृहन्तुः क्षत्रवधात्कुतो जुगुप्सेति भावः ॥ 65 ॥

अक्षबीजवलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन यः ।
क्षत्रियान्तकरणैकविंशतेर्व्याजपूर्वगणनामिवोद्वहन् ॥ 66 ॥

66

अक्षेति॥ यो भार्गवो दक्षिणश्रवणे संस्थितेनाऽक्षबीजवलयेनाक्षमालया क्षत्रियान्तकरणानां क्षत्रियवधानामेकविंशतेरेकविंशतिसंख्याया व्याजोऽक्षमालारूपः पूर्वो यस्यास्तां गणनामुद्वहन्निव निर्बभौ ॥ 66 ॥

तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् ।
बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः ॥ 67 ॥

67

तमिति॥ पितुर्जमदग्नेर्वधभवेन क्षत्रियकर्तृकवधोद्भवेन मन्युना कोपेन राजवंशानां निधनाय नाशार्थम्। ‘निधनं स्यात्कुले नाशे’ इति विश्वः। दीक्षितम्। प्रवृत्तमित्यर्थः। तं भार्गवं स्वां दशां चावलोक्य बालाः सूनवो यस्य स पार्थिवो विषसाद। स्वस्यातिदौर्बल्याच्छत्रोश्चातिक्रोधात् कांदिशीकोऽभवदित्यर्थः ॥ 67 ॥

नाम राम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे ।
ह्यद्यमस्य भयदायि चाभवद्रत्नजातमिव हारसर्पयोः ॥ 68 ॥

68

नामेति ॥ आत्मजे पुत्रे दारुणे घोरेऽहिते शत्रौ च तुल्यमविशेषण वर्तमानं राम इति नाम। हार-सर्पयोर्वर्तमानं रत्नजातं रत्नजातिरिव। अस्य दशरथस्य हृद्यं हृदयंगमं भयदायि भयंकरं चाभवत् ॥ 68 ॥

अर्ध्यमर्ध्यमिति वादिनं नृपं सोऽनवेक्ष्य मरताग्रजो यतः ।
क्षत्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकाम् ॥ 69 ॥

69

अर्घ्यमिति॥ स भार्गवः। अर्घ्यमर्घ्यमिति वादिनं नृपमनवेक्षअय। यतो यत्र भरताग्रजस्ततस्तत्र। ‘इतराभ्योऽपि दृश्यन्ते’(पा.5।3।14) इति सार्वविभक्तिकस्तसिः। क्षत्रे क्षत्रकुले विषये यः कोपदहनो रोषाग्निस्तस्यार्चिषं ज्वालामिव स्थिताम्। ‘ज्वालाभासोर्नपुंस्यर्चिः’इत्यमरः। उदग्रा तारका कनीनिका यस्यास्ताम्। ‘तारकाऽक्ष्णः कनीनिका’ इत्यमरः। दृशं संदधे ॥ 69 ॥

तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः ।
अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥ 70 ॥

70

तेनेति॥ कार्मुकनिषक्तमुष्टिना शरमङ्गुलीविवरचारिणं कुर्वता। योद्धुमिच्छता युयुत्सुना। तेन भार्गवेण कर्त्रा विगतभीर्निर्भीकः सन्। पुरोगतोऽग्रगतो राघवो निजगद उक्तः। कर्मणि लिट् ॥ 70 ॥

क्षत्रजातमपकारवैरि मे तन्निहत्य बहुशः शमं गतः ।
सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमश्रवात् ॥ 71 ॥

71

क्षत्रेति॥ क्षत्रजातं क्षत्रजातिर्मेऽयकारेण पितृवधरूपेण वैरि द्वेषि। तत् क्षत्रजातं बहुश एकविंशतिवारान्निहत्य शमं गतोऽस्मि। तथापि सुप्तसर्पो दण्डघट्टनादिव तव विक्रमस्य श्रवादाकर्णनाद्रोषितो रोषं प्रापितोऽस्मि ॥ 71 ॥

मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलानमितपूर्वमक्षणोः ।
तन्निशम्य भवता समर्थये वीर्यश्रृङ्गमिव भग्नमात्मनः ॥ 72 ॥

72

मैथिलस्येति॥ अन्यैः पार्थइवैः। अनमितपूर्वं पूर्वमनमितम्। सुप्सुपेति समासः। अस्य मैथिलस्य धनुस्त्वमक्षणोः क्षतवान्। ‘किल’इति वार्तायाम्। ‘वार्तासेभाव्ययोः किल’इत्यमरः। तद्धनुर्भग्नं निशम्याकर्ण्य भवतात्मनो मम वीर्यमेव शृङगं भग्नमिव समर्थये मन्ये ॥ 72 ॥

अन्यदा जगति राम इत्ययं शब्द उञ्चरित एव मामगात् ।
व्रीडमावहति मे स संप्रति व्यास्तवृत्तिरुदयोन्मुखे त्वयि ॥ 73 ॥

73

अन्यदेति॥ अन्यदाऽन्यस्मिन्काले जगति राम इत्ययं शब्द उञ्चरितः सन् मामेवागात्। संप्रति त्वय्युदयोन्मुखे सति व्यस्तवृत्तिर्विपरीतवृत्तिः। अन्यगामीति यावत्। स शब्दो मे व्रीडमावहति लज्जां करोति ॥ 73 ॥

बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतौ समागसौ ।
धेनुवत्सहरणाञ्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यतः ॥ 74 ॥

74

बिभ्रत इति॥ अचले क्रौञ्चादावप्यकुण्ठितमस्त्रं बिभ्रतो मम द्वौ समागसौ तुल्यापराधौ रिपू मतौ। धेनोः पितृहोमधेनोर्वत्सस्य हरणाद्धेतोर्हैहयः कार्तवीर्यश्च। कीर्तिमपहर्तुमुद्यत उद्युक्तस्त्वं च। वत्सहरणे भारतश्लोकः-‘प्रमत्तश्चाश्रमात्तस्य होमधेन्वास्ततो बलात्। जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥’ इति ॥ 74 ॥

क्षत्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाजिते त्वयि ।
पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः ॥ 75 ॥

75

क्षत्रियेति॥ तेन कारणेन। क्रियते येनासौ करणः। क्षत्रियान्तस्य करणोऽपि विक्रमः। त्वय्यजिते मां नावति न प्रीणाति। तथा हि-पावकस्याग्नेर्महिमा स गण्यते यः कक्षवत् कक्ष इव। ‘तत्र तस्येव’(पा.5।1।116) इति सप्तम्यर्थे वतिः। सागरेऽपि। ज्वलति ॥ 75 ॥

विद्धि चात्तबलमोजसा हरेरैश्वरं धनुरभाजि यत्त्वया ।
खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् ॥ 76 ॥

76

विद्धीति॥ किंच ऐश्वरं धनुर्हरेर्विष्णोरोजसा बलेनात्तबलं हृतसारं च,विद्धि। यद्धनुस्त्वयाऽभाज्यभञ्जि। ‘भञ्जेश्च चिणि’(पा.6।4।36) इति विभाषया नलोपः। तथा हि-नदीरयैः खातमूलमवदारितपादं तटद्रुमं मृदुरप्यनिलः पातयति। ततः शिशुरपि रौद्रं धनुरभाङ्क्षमिति मा गर्वीरिति भावः ॥ 76 ॥

तन्मदीयमिदमायुधं ज्यया संगमय्य सशरं विकृष्यताम् ।
तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥ 77 ॥

77

तदिति॥ तत्तस्मात्,मदीयमिदमायुधं कार्मुकं ज्यया संगमय्य संयोज्य। ‘ल्यपि लघुपूर्वात्’(पा.6।4।56)इति णेरयादेशः। सशरं यथा तथा त्वया विकृष्यताम्। प्रधानं रणस्तिष्ठतु। प्रधानं तावदास्तामित्यर्थः। ‘प्रधनं मारणे रणे’ इति विश्वः। एवमपि मद्धनुःकर्षणेऽप्यहं तुल्यबाहुतरसा समबाहुबलेन। ‘तरसी बलरंहसी’ इत्यमरः। त्वया जितः ॥ 77 ॥

कातरोऽसि यदि वाद्गतार्चिषा तर्जितः परशुधारया मम ।
ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यतामभयययाचनाञ्जलिः ॥ 78 ॥

78

कातर इति॥ यदि वोद्गतार्चिषोद्गतत्विषा मम परशुधारया तर्जितः कातरोऽसि भीतोऽसि। वृथा ज्यानिघातेन कठिना अङ्गुलयो यस्य स तथोक्तोऽभययाचनाञ्जलिरभयप्रार्थनाञ्जलिर्बध्यताम्। ‘तौ युतावञ्जलिः पुमान्’ इत्यमरः ॥ 78 ॥

एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः ।
तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥ 79 ॥

79

एवमिति॥ भीमदर्शने भार्गव एवमुक्तवति सति। राघवः स्मितेन हासेन विकम्पिताधरः सन्। तद्धनुर्ग्रहणमेव समर्थमुचितामुत्तरं प्रत्यपद्यताङ्गीचकार ॥ 79 ॥

पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवत् ।
केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः ॥ 80 ॥

80

पूर्वेति॥ पूर्वजन्मनि नारायणावतारे यद्धनुस्तेन समागतः संगतः स रामोऽ
तिमात्रमत्यन्तं लघुदर्शनः प्रियदर्शनोऽभवत्। तथा हि-नवाम्बुदः केवलो रिक्तोऽपि सुभगः। त्रिदशचापेनेन्द्रधनुषा लाञ्छितश्चिह्नितः किं पुनः? सुभग एवेति भावः ॥ 80 ॥

तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाधिरोपितम् ।
निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः ॥ 81 ॥

81

तेनेति॥ बलिना तेन रामेण भूमिनिहितैका कोटिर्यस्य तत्। कर्मणे प्रभवतीति कार्मुकं धनुश्च। ‘कर्मण उकञ्’(पा.5।1।101)इत्युकञ्प्रत्ययः। अधिरोपितम्। भूभृतां रिपुर्भार्गवश्च। धूमशेषौ धूमकेतनोऽग्निरिव। निष्प्रभो निस्तेजस्क आस बभूव। ‘आस ’ इति तिङन्तप्रतिरूपकमव्ययं दीप्त्यर्थकस्यास्ते रूपं वा ॥ 81 ॥

तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ ।
पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव ॥ 82 ॥

82

ताविति॥ परस्परस्थितावन्योन्याभियुक्तौ। वर्धमानं च परिहीनं चेति द्वन्द्वः। वर्धमानपरिहीने तेजसी ययोस्तावुभौ राघव-भार्गवावपि। दिनात्यये सायंकाले। पर्वणि भवौ पार्वणौ शशि-दिवाकराविव। जनता जनसमूहः। ‘ग्रामजनबन्धुसहायेभ्यस्तल्’(पा.4।2।43)इति तल्प्रत्ययः। पश्यति स्मापश्यत्। अत्र राघवस्य शशिना भार्गवस्य भानुनौपम्यं द्रष्टव्यम् ॥ 82 ॥

तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि ।
स्वं च संहितममोघमाशुगं व्याजहार हरसूनुसंनिभः ॥ 83 ॥

83

तमिति॥ हरसूनुसंनिभः स्कन्दसमः कृपामृदू राघवः। आत्मनि विषये स्खलितवीर्यं कुण्ठिताशक्तिं तं भार्गवं स्वं स्वकीयं संहितममोघमाशुगं बाणं चावेक्ष्य। व्याजहार बभाषे ॥ 83 ॥

न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभवत्यपि त्वयि ।
शंस किं गतिमनेन पत्रिणा हन्मि लोकमुत ते मखार्जितम् ॥ 84 ॥

84

नेति॥ अभिभवत्यपि त्वयि। विप्र इति हेतोः। निर्दयं प्रहर्तुमलं शक्तो नास्मि। किं त्वनेन पत्रिणा शरेण ते गतिं गमनं हन्मि,उत मखार्जितं लोकं स्वर्गं हन्मि शंस ब्रूहि ॥ 84 ॥

प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनम् ।
गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा ॥ 85 ॥

85

प्रतीति॥ ऋषिर्भार्गवस्तं रामं प्रत्युवाच। किमिति? तत्त्वतः स्वरूपतस्त्वां पुरातनं पुरुषं न वेद्मीति न। किंतु वेद्येवेत्यर्थः। किंतु गां गतस्य भुवमवतीर्णस्य तव वैष्णवं धाम तेजो दिदृक्षुणा द्रष्टुमिच्छुना मया कोपितो ह्यसि ॥ 85 ॥

भस्मसात्कृतवतः पितृद्विषः पात्रसाञ्च वसुधां ससागराम् ।
आहितो जयविपर्ययोऽपि मे श्लाध्य एव परमेष्ठिना त्वया ॥ 86 ॥

86

भस्मसादिति॥ पितृद्विषः पितृवैरिणो भस्मसात्कृतवतः कोपेन भस्मीकुर्वतः। ‘विभाषा साति कार्त्स्न्ये’(पा.5।4।52) इति सातिप्रत्ययः। ससागरां वसुधां च पात्रसात् पात्राधीनं देयं कृतवतः। ‘देये त्रा च’(पा.5।4।55)इति चकारात्सातिः। कृतकृत्यस्य मे परमेष्ठिना परमपुरुषेण त्वयाऽऽहितः कृतो जयविपर्ययः पराजयोऽपि श्लाघ्य आशास्य एव ॥ 86 ॥

तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे ।
पीडयिषअयति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपम् ॥ 87 ॥

87

तदिति॥ तत्तस्मात्कारणात्,हे मतिमतां वर! पुण्यतीर्थगमनायाप्तुमिष्टामीप्सितां मे गतिं रक्ष पालय। किंतु खिलीकृता दुर्गमीकृतापि स्वर्ग-द्धतिरभोगलोलुपं भोगनिःस्पृहं मां न पीडयिष्यति। अतस्तामेव जह्रीत्यर्थः ॥ 87 ॥

प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकम् ।
भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः ॥ 88 ॥

88

प्रत्यपद्यतेति॥ राघवस्तथेति प्रत्यपद्यताङ्गीकृतवान्। प्राङ्मुख इन्द्रदिङ्मुखः सायकं विससर्ज च। स सायकः सुकृतोऽपि साधुकारिणोऽपि। करोतेः क्विप्। भार्गवस्य दुरत्ययो दुरतिक्रमः स्वर्गमार्गस्य परिघः प्रतिबन्धोऽभवत् ॥ 88 ॥

राघवोऽपि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत् ।
निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ 89 ॥

89

राघव इति॥ राघवोऽपि क्षम्यतामिति वदंस्तपोनिधेर्भार्गवस्य चरणौ समस्पृशत् प्रणनाम। तथा हि-तरस्विनां बलवतां तरसा बलेन निर्जितेषु शत्रुषु प्रणतिरेव कीर्तये। भवतीति शेषः ॥ 89 ॥

राजसत्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं यदा ।
नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययमनुग्रहीकृतः ॥ 90 ॥

90

राजसत्वमिति॥ मातुरागतं मातृकं राजसत्वं रजोगुणप्रधानत्वमवधूयपितुरागतं पित्र्यं शमं यदा गमितोऽस्मि। तदा त्वया ममापेक्षितत्वादनिन्दितमगर्हितं फलं स्वर्गहानिलक्षणं यस्य सोऽयं निग्रहोऽपकारोऽप्यनुग्रहीकृतो ननूपकारीकृतः खलु ॥ 90 ॥

साधयाम्यहमविघ्नमस्तु ते देवकार्यमुपपादयिष्यतः ।
ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजमृषिस्तिरोदधे ॥ 91 ॥

91

साधयामीति॥ अहं साधयामि गच्छामि। देवकार्यमुपपादयिष्यतः संपादयिष्यतस्तेऽविघ्नमस्तु विघ्नाभावोऽस्तु। ‘अव्ययं विभक्ति-’(पा.2।1।6) इत्यादिवार्थाभावेऽव्ययीभावः। सह लक्ष्मणेन सलक्ष्मणः। तम्। ‘तेन सहेति तुल्ययोगे’(पा.2।2।28) इति बहुव्रीहिः। लक्ष्मणाग्रजं राममिति वच ऊचिवानुक्तवान्। ब्रूञः क्वसुः। ऋषिस्तिरोदधेऽन्तर्दधे ॥ 91 ॥

तस्मिन्गते विजयिनं परिरभ्य रामं
स्नेहादमन्यत पिता पुनरेव जातम् ।
तस्याभवत्क्षणशुचः परितोषलाभः
कक्षाग्निलङ्घिततरोरिव वृष्टिपातः ॥ 92 ॥

92

तस्मिन्निति॥ तस्मिन् भार्गवे गते सति विजयिनं रामं पिता स्नेहात् परिरभ्यालिङ्ग्य पुनर्जातमेवामन्यत। क्षणं शुग्यस्येति विग्रहः। क्षणशुचस्तस्य दशरथस्य परितोषलाभः संतोषप्राप्तिः। कक्षाग्निना दावानलेन। ‘कक्षः शुष्ककाननवीरुधोः’ इति विश्वः। लङ्घितस्याभइहतस्य तरोर्वृष्टिपात इव। अभवत् ॥ 92 ॥

अथ पथि गमयित्वा क्लृप्तरम्योपकार्ये
कतिचिदवनिपालः शर्वरीः शर्वकल्पः ।
पुरमविशदयोध्यां मैथिलीदर्शनीनां
कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ 93 ॥

93

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ सीताविवाहवर्णनो नामैकादशः सर्गः।
अथेति॥ अथ। ईषदसमाप्तः शर्वः शर्वकल्पः। ‘ईषदसमाप्तौ-’(पा.5।3।67)इति कल्पप्प्रत्ययः। अवनिपालः क्लृप्ता रम्या नवा उपकार्या यस्मिन्स तस्मिन्पथि कतिचिच्छर्वरी रात्रिर्गमयित्वा मैथिलीदर्शनीनामङ्गनानां लोचनैः कुवलयानि येषां संजातानि कुवलयिताः। ‘तदस्य संजातं तारकादिभ्य इतञ्’(पा.5।2।36) इतीतच्प्रत्ययः। कुवलयिता गवाक्षा यस्यास्तां पुरमयोध्यामविशत् प्रविष्टवान् ॥ 93 ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां संजीविनी समाख्यायामेकादशः सर्गः ।