प्रथमः सर्गः।
मातापितृभ्यां जगतो नमो वामार्धजानये ।
सद्यो दक्षिणदृक्पातसंकुचद्वामदृष्टये ॥
अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥
शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् ।
करुणामसृणैः कटाक्षपातैः कुरु मामम्ब! कृतार्थसार्थवाहम् ॥
वाणीं काणभुजीमजीगणदवाशासीञ्च वैयासिकी-
मन्तस्तन्त्रमरंस्त पन्नगगवीगुम्फेषु चाजागरीत् ।
वाचामाकलयद्रहस्यमखिलं यश्चाक्षिपादस्फुरां
लोकेऽभूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः ॥
मल्लिनाथकविः सोऽयं मन्दात्मानुजिघृक्षया ।
व्याचष्टे कालिदासीयं काव्यत्रयमनाकुलम् ॥
कालिदासगिरां सारं कालिदासः सरस्वती ।
चतुर्मुखोऽथवा साक्षाद्विदुर्नान्ये तु मादृशाः ॥
तथापि दक्षिणावर्त-नाथाद्यैः क्षुण्णवर्त्मसु ।
वयं च कालिदासोक्तिष्ववकाशं लभेमहि ॥
भारती कालिदासस्य दुर्व्याख्याविषमूर्च्छिता ।
एषा संजीविनी टीका तामद्योज्जीवयिष्यति ॥
इहान्वयमुखेनैव सर्वं व्याख्यायते मया ।
नामूलं लिखअयते किंचिन्नानपेक्षितमुच्यते ॥
इह खलु सकलकविशिरोमणिः कालिदासः-
‘काव्यं यशसेऽर्थकृते व्यवहारविशिवेतरक्षतये ।
सद्यः परनिर्वृत्तये कान्तासंमिततयोपदेशयुजे ॥’(का.प्र. 2 इत्याद्यालंकारिकवचनप्रामाण्यात् काव्यस्यानेकश्रेयःसाधनतां ‘काव्यालापांश्च वर्जये इत्यस्य निषेधशास्त्रस्यासत्काव्यविषयतां च पश्यन् रघुवंशाख्यं महाकाव्यं चिकीर्षुश्चिकीर्षितार्थाविघ्नपरिसमाप्तिसंप्रदायाविच्छेदलक्षणफलसाधनभूतविशिष्टदेवतानमस्कारस्य शिष्टाचारपरिप्राप्तत्वात् ‘आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्’(काव्या.) इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षमत्वात्काव्यनिर्माणस्य विशिष्टशब्दार्थप्रतिपत्तिमूलकत्वेन विशिष्टशब्दार्थयोश्च ‘शब्दजातमशेषं तु धत्ते शर्वस्य वल्लभा। अर्थरूपं यदखिलं धत्ते मुग्धेन्दुशेखरः॥’ इति वायुपुराणसंहितावचनबलेन पार्वतीपरमेश्वरायत्तत्वदर्शनात्तत्प्रतिपित्सया तावेवभिवादयते-
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ 1 ॥
01
वागर्थाविति॥ ‘वागर्थाविव’ इत्येकं पदम् । इवेन सह नित्यसमासो विभक्त्यलोपश्च पूर्वपदप्रकृतिस्वरत्वं चेति वक्तव्यम्,एवमन्यत्रापि द्रष्टव्यम्। वागर्थाविव शब्दार्थाविव,संपृक्तौ । नित्यसंबद्धावित्यर्थथः। नित्यसंबद्धयोरुपमानत्वेनोपादानात ‘नित्यः शब्दार्थसंबन्धः’ इति मीमांसकाः। जगतो लोकस्य पितरौ। माता च पिता च पितरौ,‘पिता मात्रा’(पा.1।2।70) इति द्वन्द्वैकशेषः। ‘मातापितरौ पितरौ मातरपितरौ प्रसू जनयितारौ’ इत्यमरः। एतेन शर्वशिवयोः सर्वजगज्जनकतया वैशिष्ट्यमिष्टार्छप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते। पर्वतस्यापत्यं स्त्री पार्वती। ‘तस्यापत्यम्’(पा.4।1।92) इच्यण्,‘टिङ्ढाणञ्-’(पा.4।1।15)इत्यादिना ङीप्। पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरौ। ‘परम’ शब्दः सर्वोत्तमत्वद्योतनार्थः। मातुरभ्यर्हितत्वादल्पाक्षरत्वाञ्च ‘पार्वती’शब्दस्य पूर्वनिपातः। वागर्थप्रतिपत्तये शब्दार्थयोः सम्यग्ज्ञानार्थं वन्देऽभिवादये। अत्रोपमालंकारः स्फुट एव। तथोक्तम्- ‘स्वतः सिद्धेन भिन्नेन संपन्नेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकगोपमा ॥’ इति। प्रायिकश्चोपमालंकारः कालिदासोक्तकाव्यादौ भूदेवताकस्य सर्वगुरोर्मगणस्य प्रयोगाच्छुभलाभः सूच्यते। तदुक्तम्-‘शुभदो मो भूमिमयः’ इति। वकारस्यामृतबीजत्वात्प्रचयगमनादिसिद्धिः ॥ 1 ॥
संप्रति कविः स्वाहंकारं परिहरति ‘क्व सूर्य-’ इत्यादि श्लोकद्वयेन-
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥ 2 ॥
02
क्व सूर्येति॥ प्रभवत्यस्मादिति प्रभवः कारणम्। ‘ॠदोरप्’ (पा.3।3।57)। ‘अकर्तरि च कारके संज्ञायाम्’ (पा.3।3।19) इति साधुः। सूर्यः प्रभवो यस्य स सूर्यप्रभवो वंशः क्व? अल्पो विषयो ज्ञेयोऽर्थो यस्याः सा मे मतिः प्रज्ञा च क्व? द्वौ ‘क्व’शब्दौ महदन्तरं सूचयतः। सूर्यवंशमाकलयितुं न शक्नोमीत्यर्थः। तथा च तद्विषयप्रबन्धनिरूपणं तु दूरापास्तमिति भावः। तथा हि-दुस्तरं तरितुमशक्यम्। ‘ईषद्दुःसुषु-’ (पा.3।3।126) इत्यादिना खल्प्रत्ययः। सागरं मोहादज्ञानात् उडुपेन प्लवेन। ‘उडुपं तु प्लवः कोलः’ इत्यमरः। अथवा,-चर्मावनद्धेन पानपात्रेण। ‘चर्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत्’ इति सज्जनः। तितीर्षुस्तरितुमिच्छुः। अस्मि भवामि। तरतेः सन्नन्तादुप्रत्ययः। अल्पसाधनैरधिकारम्भोन सुकर इति भावः। इदं च वंशोत्कर्षकथं स्वप्रबन्धमहत्त्वार्थमेव। तदुक्तम्-‘प्रतिपाद्यमहिम्ना च प्रबन्धो हि महत्तरः’ इति ॥ 2 ॥
मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् ।
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥ 3 ॥
03
मन्द इति॥ किं च मन्दो मूढः। ‘मूढाल्पापटुनिर्भाग्या मन्दाः स्युः’ इत्यमरः। तथापि कवियशःप्रार्थी। कवीनां यशः काव्यनिर्माणेन जातं तत्प्रार्थनाशीलोऽहं प्रांशुनोन्नतपुरुषेण लभ्ये प्राप्ये फले फलविषये लोभादुद्बाहुः फलग्रहणायोच्छ्रितहस्तो वामनः ह्रस्व इव। ‘खर्वो ह्रस्वश्च वामनः’ इत्यमरः। उपहास्यता-मुपहासविषयताम्। ‘ऋहलोर्ण्यत्’ (पा.3।1।124) इति ण्यत्प्रत्ययः। गमिष्यामि प्राप्स्यामि ॥ 3 ॥
अथ मन्दश्चेत्तर्हि त्यज्यतामयमुद्योग इत्यत आह-
अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥ 4 ॥
04
अथ वेति॥ अथ वा पक्षान्तरे। पूर्वैः सूरिभिः कविभिर्वाल्मीक्यादिभिः कृतवाग्द्वारे कृतं रामायणादिप्रबन्धरूपा या वाक् सैव द्वारं प्रवेशो यस्य तस्मिन्। अस्मिन् सूर्यप्रभवे वंशे कुले। जन्मनैकलक्षणः संतानो वंशः। वज्रेण मणिवेधकसूचीविशेषण। ‘वज्रं त्वस्त्त्री कुलिशशस्त्त्रयोः। मणिवेधे रत्नभेदे’ इति केशवः। समुत्कीर्णे विद्धे मणौ रत्ने सूत्रस्येव मे मम गतिः संचारोऽस्ति। वर्णनीये रघुवंशे मम वाक्प्रसरोऽस्तीत्यर्थः ॥ 4 ॥
एवं रघुवंशे लब्धप्रवेशस्तद्वर्णनं प्रतिजानानः ‘सोऽहम्’ इत्यादिभिः पञ्चभिः श्लोकैः कुलकेनाह-
सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् ।
आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥ 5 ॥
05
सोऽहमिति॥ सोऽहम्। ‘रघूणामन्वयं वक्ष्ये’ (1।9) इत्युत्तरेण संबन्धः। किंविधानां रघूणामित्यत्रोत्तराणि विशेषणानि योज्यानि। आ जन्मनः। जन्माभ्येत्यर्थथः। ‘आङ् मर्यादाभिविध्योः’ (पा.2।1।13) इत्यव्ययीभावः,तस्य शुद्धानामित्यनेन सुप्सुपेति समासः। एवमुत्तरत्रापि द्रष्टव्यम्। आजन्मशुद्धानाम्। निषेकादिसर्वसंस्कारसंपन्नानामित्यर्थथः। आफलोदयम्। आफलसिद्धेः कर्म येषां ते तथोक्तास्तेषाम्। प्रारब्धान्तगामिनामित्यर्थः। आसमुद्रं क्षितेरीशानाम्। सार्वभौमाणामित्यर्थः। आनाकं रथवर्त्म येषां तेषाम्। इन्द्रसहचारिणामित्यर्थः। अत्र सर्वत्राऽऽङोऽभिविध्यर्थत्वं द्रष्टव्यम्। अन्यथा मर्यादार्थत्वे जन्मादिषु शुध्द्यभावप्रसङ्गात् ॥ 5 ॥
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।
यथापराधदण्डानां यथाकालप्रबोधिनाम् ॥ 6 ॥
06
यथाविधीति॥ विधिमनतिक्रम्य यथाविधि। ‘यथासादृश्ये’(पा.2।1।7) इत्यव्ययीभावः। तथा ‘हुत’शब्देन सुप्सुपेति समासः। एवं ‘यथाकामार्जित-’ इत्यादीनामपि द्रष्टव्यम्। यथाविधि हुता अग्नयो यैस्तेषाम्। यथाकाममभिलाषमनतिक्रम्यार्चितार्थिनाम्। यथापराधमपराधमनतिक्रम्य दण्ढो येषां तेषाम्। यथाकालं कालमनतिक्रम्य प्रबोधिनां प्रबोधनशीनलानाम्। चतुर्भिर्विशेषणैर्देवतायजनातिथिसत्कारदण्डधरत्वप्रजापालनसमयजागरूकत्वादीनि विवक्षितानि ॥ 6 ॥
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् ।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥ 7 ॥
07
त्यागायेति॥ त्यागाय सत्पात्रे विनियोगस्त्यागः,तस्मै। ‘त्यागो विहापितं दानम्’ इत्यमरः। संभृतार्थानां संचितधनानाम् । न तु दुर्व्यापाराय। सत्यायमितभाषिणां मितभाषणशीलानाम्, न तु पराभवाय। यशसे कीर्तये। ‘यशः कीर्तिः समज्ञा च’ इत्यामरः। विजिगीषूणां विजेतुमिच्छूनाम्। न त्वर्थसंग्रहाय। प्रजायै संतानाय गृहमेधिनां दारपरिग्रहाणाम्, न तु कामोपभोगाय। अत्र ‘त्यागाय’ इत्यादिषु ‘चतुर्थी तदर्थ-’ (पा.2।1।36) इत्यादिना तादर्थ्ये चतुर्थी। गृहैर्दारैर्मेधन्ते संगच्छन्त इति गृहमेधिनः। ‘दारेष्वपि गृहाः’ इत्यमरः। ‘जाया च गृहिणी गृहम्’ इति हलायुधः। ‘मेधृ संगमे’ इति धातोर्णिनिः। एभिर्विशेषणैः परोपकारित्वं सत्यवचनत्वं यसः परत्वं पितॄणां शुद्धत्वं च विवक्षितानि ॥ 7 ॥
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ 8 ॥
08
शैशव इति॥ शिशोर्भावः शैशवं बाल्यम्। ‘प्राणभृज्जातिवयोवचनोद्गात्र-’ (पा.5।1।129) इत्यञ्प्रत्ययः। ‘शिशुत्वं शैशवं बाल्यम्’ इत्यमरः। तस्मिन्वयसि,अभ्यस्तविद्यानाम्। एतेन ब्रह्मचर्याश्रमो विवक्षितः। यूनो भावो यौवनं तारुण्यम्। युवादित्वादण्प्रत्ययः । ‘तारुण्यं यौवनं समे’इत्यमरः। तंस्मिन्वयसि विषयैषिणां भोगाभिलाषिणाम्। एतेन गृहस्थाश्रमो विवक्षितः। वृद्धस्य भावो वार्धकं वृद्धत्वम्। ‘द्वन्द्वमनोज्ञादिभ्यश्च’ (पा.5।1।133) इति वुञ्प्रत्ययः। वृद्धस्य भावो वार्धकं वृद्धत्वम्। ‘वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि’ इति विश्वः। संघातार्थेऽत्र ‘वृद्धाञ्च’ इति वक्तव्यात्सामूहिको वुञ्। तस्मिन् वार्धके वयसि मुनिनां वृत्तिरिव वृत्तिर्येषां तेषाम्। एतेन वानप्रस्थाश्रमो विवक्षितः। अन्ते शरीरत्यागकाले योगेन परमात्मध्यानेन। ‘योगः संनहनोपायध्यानसंगतियुक्तिषु’ इत्यमरः। तनुं देहं त्यजन्तीति तनुत्यजः, ‘कायो देहः क्लीबपुंसोः स्त्त्रियां मूर्तिस्तनुस्तनूः’ इत्यमरः। तनुत्यजां देहत्यागिनाम्। ‘अन्येभ्योऽपि दृश्यते’ (पा.3।2।178) इति क्विप्। एतेन मोक्षभावो विवक्षितः ॥ 8 ॥
रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।
तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥ 9 ॥
09
रघूणामिति॥ सोऽहं लब्धप्रवेशः। तनुवाग्विभवोऽपि स्वल्पवाणीप्रसारोऽपि सन्। तेषां रघूणां गुणैस्तद्गुणैः। आजन्मशुद्ध्यादिभिः कर्तृभिः कर्णं मम श्रोत्रमागत्य चापलाय चापलं चपलकर्माविमृश्यकरणरूपं कर्तुम्। युवादित्वात्कर्मण्यण । ‘क्रियार्थोपपदस्य-’ (पा. 2।3।14) इत्यादिना चतुर्थीं। प्रचोदितः प्रेरितः सन्। रघूणामन्वयं तद्विषयप्रबन्धं वक्ष्ये। कुलकम् ॥ 9 ॥
संप्रति स्वप्रबन्धपरीक्षार्थं सतः प्रार्थयते-
तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥ 10 ॥
10
तमिति॥ तं रघुवंशाख्यं प्रबन्धं सदसतोर्गुणदोषयोर्व्यव्यक्तेर्हेतवः कर्तारः सन्तः श्रोतुमर्हन्ति। तथा हि-हेम्नो विशुद्धिर्निर्दोषस्वरूपं श्यामिकापि लोहान्तरसंगर्गात्मको दोषोऽपि वाऽग्नौ संलक्ष्यते,नान्यत्र। तद्वदत्रापि सन्त एव गुणदोषविवेकाधिकारिणः,नान्य इति भावः ॥ 10 ॥
वर्ण्यं वस्तूपक्षिपति-
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥ 11 ॥
11
वैवस्वत इति॥ मनस ईषिणो मनीषिणो धीराः,विद्वांस इति त्यावत्। पृषोदरादित्वात्साधुः। तेषां माननीयः पूज्यः। छन्दसां वेदानाम्। ‘छन्दः पद्मे च वेदे च’इति विश्वः। प्रणव ओंकार इव। महीं क्षियन्तीशत इति महीक्षितः क्षितीश्वराः। क्षिधातोरैश्वर्यार्थात्क्विप्,तुगागमश्च। तेषाम्,आद्य आदिभूतः। विवस्वतः सूर्यस्यापत्यं पुमान् वैवस्वतो नाम वैवस्वत इति प्रसिद्धो मनुरासीत् ॥ 11 ॥
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥ 12 ॥
12
तदन्वय इति॥ शुद्धिरस्यास्तीति शुद्धिमान्। तस्मिन् शुद्धिरस्यास्तीति शुद्धिमान्। तस्मिन् शुद्धिमति तदन्वये तस्य मनोरन्वये कुले । ‘अन्ववायोऽन्वयो वंशो गोत्रं चाभिजनं कुलम्’ इति हलायुधः। अतिशयेन शुद्धिमान् शुद्धिमत्तरः। ‘द्विवचनविभज्योप-’(पा.5।3।57) इत्यादिना तरप्प्रत्ययः। दिलीप इति प्रसिद्धो राजा इन्दुरिव राजेन्दू राजश्रेष्ठः। उपमितं व्याघ्रादिना समासः। क्षीरनिधाविन्दुरिव प्रसूतो जातः॥ 12 ॥
‘व्यूढ-’ इत्यादित्रिभिः श्लोकैर्दिलीपं विशिनष्टि-
व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥ 13 ॥
13
व्यूढेति॥ व्यूढं विपुलमुरो यस्य स व्यूढोरस्कः। ‘उरःप्रभृतिभ्यः कप्’ (पा.5।4।151)। ‘व्यूढं विपुलं भद्रं स्फारं समं वरिष्ठं च’ इचि यादवः। वृषस्य स्कन्ध इव स्कन्धो यस्य स तथा। ‘सप्तम्युपमान-‘इत्यादिनोत्तरपदलोपी बहुव्रीहिः। शालो वृक्ष इव प्रांशुरुन्नतः शालप्रांशुः। ‘प्राकारवृक्षयोः शालः शालः सर्जतरुः स्मृतः।’ इति यादवः। ‘उञ्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे’ इत्यमरः। महाभुजो महाबाहुः। आत्मकर्मक्षमं स्वव्यापारानुरूपं देहमाश्रितः प्राप्तः,क्षात्रः क्षत्रसंबन्धी धर्म इव स्थितः,मूर्तिमान् पराक्रम इव स्थित इत्युत्प्रेक्षा ॥ 13 ॥
सर्वातिरिक्तसारेण सर्वतेजोभिभाविना ।
स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ॥ 14 ॥
14
सर्वातिरिक्तेति॥ सर्वातिरिक्तसरेण सर्वेभ्यो भूतेभ्योऽधिकबलेन। ‘सारोबले स्थिरांशे च’ इत्यमरः। सर्वाणि भूगतानि तेजसाऽभिभवतीति सर्वतेजोभिभावी तेन। सर्वेभ्य उन्नतेनात्मना शरीरेण। ‘आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि’ इति विश्वः। मेरुरिव। उर्वीं क्रान्त्वाऽऽक्रम्य स्थितः। मेरावपि विशेषणानि तुल्यानि। ‘अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः। तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥’ (मनु.7।5)इति मनुवचनाद्राज्ञः सर्वतेजोभिभावित्वं ज्ञेयम् ॥ 14 ॥
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भ आरम्भसदृशोदयः ॥ 15 ॥
15
आकारेति॥ आकारेण मूर्त्या सदृशी प्रज्ञा यस्य सः। प्रज्ञया सदृशागमः प्रज्ञानुरूपशास्त्त्रपरिश्रमः। आगमैः सदृश आरम्भः कर्म यस्य स तथोक्तः। आरभ्यत इत्यारम्भः कर्म। तत्सदृश उदयः फलसिद्धिर्यस्य स तथोक्तः ॥ 15 ॥
भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चाभिगम्यश्य यादोरत्नैरिवार्णवः ॥ 16 ॥
16
भीमेति॥ भीमैश्च कान्तैश्च नृपगुणै राजगुणैस्तेजः प्रतापादिभिः कुलशीलदाक्षिण्यादिभिश्च स दिलीप उपजीविनामाश्रितानाम्। यादोभिर्जलजीवैः। ‘यादांसि जलजन्तवः’ इत्यमरः। रत्नैश्चार्णव इव। अधृष्योऽनभिभवनीयश्चाभिगम्य आश्रयणीयश्च बभूव ॥ 16 ॥
रेखामात्रमपि क्षुण्णादा मनोर्वर्त्मनः परम् ।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥ 17 ॥
17
रेखामात्रमिति॥ नियन्तुः शिक्षकस्य सारथेश्च तस्य दिलीपस्य संबन्धिन्यो नेमीनां चक्रधाराणां वृत्तिरिव वृत्तिर्व्यापारो यासां ताः। ‘चक्रधारा प्रधिर्नेमिः’ इति यादवः। ‘चक्रं रथाङअगं तस्यान्ते नेमिः स्त्त्री स्यात्प्रधिः पुमान्’ इत्यमरः। प्रजाः। आ मनोः,मनुमारभ्येत्यभिविधिः। पदद्वयं चैतत्। समासस्य विभाषितत्वात्। क्षुण्णादभ्यस्तात् प्रहताञ्च वर्त्मन आचारपद्धतेरध्वनश्च परमधिकम्। इतस्तत इत्यर्थः। रेखा प्रमाणमस्येति रेखामात्रं रेखाप्रमाणम्। ईषदपीत्यर्थः। ‘प्रमाणे द्वयसच्-’(पा.5।2।37) इत्यादिना मात्रच्प्रत्ययः। परशब्दविशेषणं चैतत्। न व्यतीयुर्नातिक्रान्तवत्यः। कुशलसारथिप्रेरिता रथनेमय इव तस्य प्रजाः पूर्वक्षुण्णमार्गं न जहुरिति भावः॥ 17 ॥
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥ 18 ॥
18
प्रजानामिति॥ स राजा प्रजानां भूत्या अर्थाय भूत्यर्थं वृध्द्यर्थमेव। अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या। ग्रहणक्रियाविशेषणं चैतत्। ताभ्यः प्रजाभ्यो बलिं षष्ठांशरूपं करमग्रहीत्। ‘भागधेयः करो बलिः’ इत्यमरः। तथा हि-रविः सहस्रं गुणा यस्मिन्कर्मणि तद्यथा तथा सहस्रगुणं सहस्रधा। उत्स्रष्टुं दातुम्। उत्सर्जनक्रियाविशेषणं चैतत्। रसमम्बु। आदत्ते गृह्णाति। ‘रसो गन्धे रसे स्वादेतिक्तादौ विषरागयोः। शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे॥’ इति विश्वः ॥ 18 ॥
संप्रति बुद्धिशौर्यसंपन्नस्य तस्यार्थसाधनेषु परानपेक्षत्बमाह-
सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ॥ 19 ॥
19
सेनेति॥ तस्य राज्ञः सेना चतुरङ्गबलम्। परिच्छाद्यतेऽनेनेति परिच्छद उपकरणं बभूव। छत्रचामरादितुल्यमभूदित्यर्थः। ‘पुंसि संज्ञायां घः प्रायेण’ (पा.3।3।118) इति घप्रत्ययः। ‘छादेर्घोऽव्द्युपसर्गस्य’ (पा.6।4।96) इत्युपधाह्रस्वः। अर्थस्य प्रयोजनस्य तु साधनं द्वयमेव। शास्त्त्रेष्वकुण्ठिताऽव्याहता बुद्धिः। ‘व्यापृता’इत्यपि पाठः। धनुष्यातताऽऽरोपिता। मौर्वी ज्या च। ‘मौर्वी ज्याशिञ्जिनी गुणः’ इत्यमरः। नीतिपुरः सरमेव तस्य शौर्यमभूदित्यर्थः॥ 19 ॥
राज्यमूलं मन्त्रसंरक्षणं तस्यासीदित्याह-
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ 20 ॥
20
तस्येति॥ संवृतमन्त्रस्य गुप्तविचारस्य। ‘वेदभेदे गुप्तवादे मन्त्रः’ इत्यमरः। शोकहर्षादिसूचको भ्रुकुटीमुखरागादिराकारः। इङ्गितं चेष्टितं हृदयगतविकारो वा। ‘इङ्गितं हृद्गतो भावो बहिराकार आकृतिः’ इति सज्जनः। गूढे आकारेङ्गिते यस्य। स्वभावचापलाद्भ्रमपरम्परया मुखरागादिलिङ्गैर्वाऽतृतीयगामिमन्त्रस्य तस्य। प्रारभ्यन्त इति प्रारम्भाः सामाद्युपायप्रयोगाः। ‘प्राक्’इत्यव्ययेन पूर्वजन्मोच्यते। तत्र भवाः प्राक्तनाः। ‘सायंचिरं-’(पा.4।3।23)इत्यादिना ट्युल्प्रत्ययः। संस्काराः पूर्वकर्मवासना इव फलेन कार्येण अनुमेया अनुमातुं योग्या आसन्। अत्र याज्ञवल्क्यः(आचार.13।344)-‘मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथा तन्न विदुः कर्मणामा फलोदयात् ॥’ इति ॥ 20 ॥
संप्रति सामाद्युपायान् विनैवात्मरक्षादिकं कृतवानित्याह-
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ॥ 21 ॥
21
जुगोपेति॥ अत्रस्तोऽभीतः सन्। ‘त्रस्नौ भीरुभीरुकभीलुकाः’ इत्यमरः। त्रासोपाधिमन्तरेणैव त्रिवर्गसिद्धेः प्रथमसाधनत्वादेवाऽऽत्मानं शरीरं जुगोप रक्षितवान्। अनातुरोऽरुग्ण एव धर्मं सुकृतं भेजे। अर्जितवानित्यर्थः। अगृध्नुरगर्धनशील एवार्थमाददे स्वीकृतवान्। ‘गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्समौलोलुपलोल्लभौ।’ इत्यमरः। ‘त्रसिगृधिधृषिक्षिपेः क्नुः’(पा.3।2।140) इति क्नुप्रत्ययः। असक्त आसक्तिरहित एव सुखमन्वभूत् ॥ 21 ॥
परस्परविरुद्धानामपि गुणानां तत्र साहचर्यमासीदित्याह-
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥ 22 ॥
22
ज्ञान इति॥ ज्ञाने परावृत्तान्तज्ञाने सत्यपि मौनं वाङ्नियमनम्। यथाह कामन्दकः-‘नान्योपतापि वचनं मौनं व्रतचरिष्णुता’ इति। शक्तौ प्रतीकारसामर्ध्येऽपि क्षमाऽपकारसहनम्। अत्र चाणक्यः-‘शक्तानां भूषणं क्षमा’ इति। त्यागे वितरणे सत्यपि श्लाघाया विकत्थनस्य विपर्ययोऽभावः। अत्राह मनुः (4।236)-‘न दत्त्वा परिकीर्तयेत्’ इति। इत्थं तस्य गुणा ज्ञानादयो गुणैर्विरुद्धैर्मौनादिभिः अनुबन्धित्वात्सहचारित्वात्। सह प्रसवो जन्म येषां ते सप्रसवाः सोदरा इवाभूवन्। विरुद्धा अपि गुणास्तस्मिन्नविरोधेनैव स्थिता इत्यर्थः ॥ 22 ॥
द्विविधं वृद्धत्वं-ज्ञानतो वयसा च;तत्र तस्य ज्ञानेन वृद्धत्वमाह-
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना ॥ 23 ॥
23
अनाकृष्टस्येति॥ विषयैः शब्दादिभिः। ‘रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी’ इत्यमरः। अनाकृष्टस्यावशीकृतस्य विद्यानां वेदवेदाङ्गादीनां पारदृश्वनः पारमन्तं दृष्टवतः। दृशेः क्वनिप्। धर्मे रतिर्यस्य तस्य राज्ञो जरसा जरया विना। ‘विस्रसा जरा’ इत्यमरः। ‘षिद्भिदादिभ्योऽङ्’ (पा. 3।3।104) इत्यङ्प्रत्ययः। ‘जराया जरसन्यतरस्याम्’ (पा.7।2।101) इति जरसादेशः। वृद्धत्वं वार्धकमासीत्। तस्य यूनोऽपि विषयवैराग्यादिज्ञानगुणसंपत्त्या ज्ञानतो वृद्धत्वमासीदित्यर्थः। नाथस्तु-चतुर्विधं वृद्धत्वमिति कृत्वा ‘अनाकृष्टस्य’ इत्यादिना विशेषणत्रयेण वैराग्यज्ञानशीलवृद्धत्वान्युक्तानीत्यवोचत् ॥ 23 ॥
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरत्त्तसां केवलं जन्महेतवः ॥ 24 ॥
24
प्रजानामिति॥ प्रजायन्त इति प्रजा जनाः। ‘उपसर्गे च संज्ञायाम्’ (पा.3।2।99)इति डप्रत्ययः। ‘प्रजा स्यात्संततौ जने’ इत्यमरः। तासां विनयस्य शिक्षाया आधानात् करणात्। सन्मार्गप्रवर्तनादिति यावत्। रक्षणाद्भयहेतुभ्यस्त्त्राणात्। आपन्निवारणादिति यावत्। भरणादन्नपादादिभिः पोषणादपि। अपिः समुञ्चये। स राजा पिताऽभूत्। तासां पितरस्तु जन्महेतवो जन्म मात्रकर्तारः केवलमुत्पादका एवाभूवन्। जननमात्र एव पितॄणां व्यापारः। सदा शिक्षारक्षणादिकं तु स एव करोतीति तस्मिन्पितृत्वव्यपदेशः। आहुश्च -‘स पिता यस्तु पोषकः’ इति ॥ 24 ॥
स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूतये ।
अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥ 25 ॥
25
स्थित्या इति॥ दण्डमर्हन्तीति दण्ड्याः। ‘दण्डादिभ्यो यत्’ (पा. 5।1।36) इति यप्रत्ययः। ‘अदण्ड्यान्दण्डयन्राजा दण्ड्यन्। अयशो महदाप्नोति नरकं चैव गच्छति॥’(मनु.8।128) इति शास्त्त्रवचनात्। तान् दण्ड्यानेव स्थित्यै लोकप्रतिष्ठायै दण्डयतः शिक्षयतः। प्रसूतये संतानायैव परिणेतुर्दारान्परिगृह्णतः। मनीषिणो विदुषः। दोषज्ञस्येति यावत्। ‘विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषो’ इत्यमरः। तस्य दिलीपस्यार्थकामावपि धर्म एवाऽऽस्तां जातौ। अस्तेर्लङ्। अर्थकामसाधनयोर्दण्डविवाहयोर्लोकस्थापनप्रजोत्पादनरूपधर्मार्थत्वेनानुष्ठानादर्थकामावपि धर्मशेषतामापादयन्स राजा धर्मोत्तरोऽभूदित्यर्थः। आह च गौतमः(9।10)-‘न पूर्वाह्णमध्यंदिनापराह्णानफलान्कुर्यात्। यथाशक्ति धर्मार्थकामेभ्यस्तेषु धर्मोत्तरः स्यात् ॥’ इति ॥ 25 ॥
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् ।
संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥ 26 ॥
26
दुदोहेति॥ स राजा यज्ञाय यज्ञं कर्तुं गां भुवं दुदोह। करग्रहणेन रिक्तां चकारेत्यर्थः। मघवा देवेन्द्रः सस्याय सस्यं वर्धयितुं दिवं स्वर्गं दुदोह। द्युलोकान्महीलोके वृष्टिमुत्पादयामासेत्यर्थः। ‘क्रियार्थोपपदस्य-’ (पा. 2।3।14) इत्यादेना यज्ञसस्याभ्यां चतुर्थीं। एवमुभौ संपदो विनिमयेन परस्परमादानप्रतिदानाभ्यां भुवनद्वयं दधतुः पुपुषतुः। राजा यज्ञैरिन्द्रलोकमिन्द्रश्चोदकेन भूलोकं पुपोषेत्यर्थः। उक्तं च दण्डनीतौ-‘राजा त्वर्थान्समाहृत्य कुर्यादिन्द्रमहोत्सवम्। प्रीणितो मेघवाहस्तु महतीं वृष्टिमावहेत् ॥’ इति ॥ 26 ॥
न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥ 27 ॥
27
न किलेति॥ राजानोऽन्ये नृपा रक्षितुर्भयेभ्यस्त्त्रातुः। तस्य राज्ञो यशो नानुययुः किल नानुचक्रुः खलु। कुतः? यद्यस्मात्कारणात् तस्करता चौर्यं परस्वेभ्यः परधनेभ्यः स्वविषयभूतेभ्यो व्यावृत्ता सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता। अपहार्यान्तराभावात् ‘तस्कर’ शब्द एवापहृत इत्यर्थः। अथवा,-‘अत्यन्तासत्यपि ह्यृर्थे ज्ञानं शब्दः करोति हि’ इति न्यायेन शब्दे स्थिता स्फुरिता,न तु स्वरूपतोऽस्तीत्यर्थः ॥ 27 ॥
द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥ 28 ॥
28
द्वेष्य इति॥ शिष्टो जनो द्वेष्यः शत्रुरपि। आर्तस्य रोगिण औषधं यथौषधमिव। तस्य संमतोऽनुमत आसीत्। दुष्टो जनः प्रियोऽपि प्रेमास्पदीभूतोऽपि उरगक्षता सर्पदष्टाऽङ्गुलीव। ‘छिन्द्याद्बाहुमपि दुष्टमात्मः’ इति न्यायात्। त्याज्य आसीत्। तस्य शिष्ट एव बन्धुर्दुष्ट एव शत्रुरित्यर्थः ॥ 28 ॥
तस्य परोपकारित्वमाह-
तं वेधा विदधे नूनं महाभूतसमाधिना ।
तथा हि सर्वे तस्यासन्परार्थैकफला गुणा ॥ 29 ॥
29
तमिति॥ वेधाः स्रष्टा। ‘स्रष्टा प्रजापतिर्वेधाः’ इत्यमरः। तं दिलीपम्। स्माधीयतेऽनेनेति समाधिः कारणसामग्री। महाभूतानां यः समाधिस्तेन महाभूतसमाधिना विदधे ससर्ज। नूनं ध्रुवम्। इत्युत्प्रेक्षा। तथा हि-तस्य राज्ञः सर्वे गुणा रूपरसादिमहाभूतगुणवदेव परार्थः परप्रयोजनमेवैकं मुख्यं फलं येषां ते तथोक्ता आसन्। महाभूतगुणोपमानेन कारणगुणाः कार्यं संक्रामन्तीति न्यायः सूचितः ॥ 29 ॥
स वेलावप्रवलयां परिखीकृतसागराम् ।
अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥ 30 ॥
30
स इति॥ स दिलीपः। वेलाः समुद्रकूलानि। ‘वेला कूलेऽपि वारिधेः’ इति विश्वः। ता एव वप्रवलयाः प्राकारवेष्टनानि यस्यास्ताम्। ‘स्याञ्चयो वप्रमस्त्त्रियाम्। प्राकारो वरणः सालः प्राचीरं प्रान्ततो वृत्तिः ॥’ इत्यमरः। परितः खातं परिखा दुर्गवेष्टनम्। ‘खातं खेयं तु परिखा’ इत्यमरः । ‘अन्येष्वपि दृश्यते’ (पा.3।2।101)इत्यत्र ‘अपि’ शब्दात् खनेर्डप्रत्ययः। अपरिखाः परिखाः संपद्यमानाः कृताः परिखीकृताः सागरा यस्यास्ताम्। अभूततद्भावे च्विः। अविद्यमानमन्यस्य राज्ञः शासनं यस्यास्तामनन्यशाननामुर्वीमेकपुरीमिव शशास। अनायासेन शासितवानित्यर्थः॥ 30 ॥
तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा ।
पत्नी सुदक्षिणेत्यादीदध्वरस्येव दक्षिणा ॥ 31 ॥
31
तस्येति॥ तस्य राज्ञो मगधवंशे जाता मगधवंशजा। ‘सप्तम्यां जनेर्डः’ (पा.3।2।97) इति डप्रत्ययः। एतेनाभिजात्यमुक्तम्। दाक्षिण्यं परच्छन्दानुवर्तनम्। ‘दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु’ इति शाश्वतः। तेन रूढं प्रसिद्धम्। तेन नाम्ना। अध्वरस्य यज्ञस्य दक्षिणा दक्षिणाख्या पत्नीव। सुदक्षिणेति प्रसिद्धा पत्न्यासीत्। अत्र श्रुतिः-‘यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः’ इति। ‘दक्षिणाया दाक्षिण्यं नामर्त्विजो दक्षिणत्वप्रापकत्वम्।’ ‘ते दक्षन्ते दक्षिणां प्रतिगृह्य’ इति च ॥ 31 ॥
कलत्रवन्तमात्मानमवरोधे महत्यपि ।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥ 32 ॥
32
कलत्रवन्तमिति॥ वसुधाधिपः। अवरोधेऽन्तः पुरवर्गे महति सत्यपि। मनस्विन्या दृढचित्तया। पतिचित्तानुवृत्त्यादिनिर्बन्धक्षमयेत्यर्थथः। तया सुदक्षिणया लक्ष्म्या चात्मानं कलत्रवन्तं भार्यावन्तं मेने। ‘कलत्रं श्रोणिभार्ययोः’ इत्यमरः। ‘वसुधाधिप’ इत्यनेन वसुधया चेचि गम्यते ॥ 32 ॥
तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः ।
विलम्बितफलैः कालं स निनाय मनोरथैः ॥ 33 ॥
33
तस्यामिति॥ स राजा। आत्मानुरूपायां तस्याम्। आत्मनो जन्म यस्यासावात्मजन्मा पुत्रः,तस्मिन् समुत्सुकः। यद्वा,-आत्मनो जन्मनि पुत्ररूपेणोत्पत्तौ समुत्सुकः सन्। ‘आत्मा वै पुत्रनामासि’ (आ.गृ.1।15) इति श्रुतेः। विलम्बितं फलं पुत्रप्राप्तिरूपं येषां तैर्मनोरथैः कदा मे पुत्रो भवेदित्याशाभिः कालं निनाय यापयामास ॥ 33 ॥
संतानार्थाय विधये स्वभुजादवतारिता ।
तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ॥ 34 ॥
34
संतानेति॥ तेन दिलीपेन। संतानोऽर्थः प्रयोजनं यस्य तस्मै संतानार्थाय विधयेऽनुष्ठानाय। स्वभुजादवतारिताऽवरोपिता जगतो लोकस्य गुर्वी धूर्भारः सचिवेषु निचिक्षिपे निहिता ॥ 34 ॥
अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया ।
तौ दंपती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ॥ 35 ॥
35
अथएति॥ अथ धुरोऽवतारानन्तरं पुत्रकाम्ययाऽऽत्मनः पुत्रोच्छया। ‘काम्यञ्च’ (पा.3।1।9) इति ‘पुत्र’ शब्दात् काम्यच्प्रत्ययः। ‘अ प्रत्ययात्’ (पा.3।3।102) इति पुत्रकाम्यधातोरकारप्रत्ययः। ततष्टाप्,तया। तौ दंपती जायापती। राजदन्तादिषु जायाशब्दस्य दमिति निपातनात्साधुः। प्रतयौ पूतौ विधातारं ब्रह्माणमभ्यर्च। ‘स खलु पुत्रार्थिभिरुपास्यते’ इति मान्त्रिकाः। गुरोः कुलगुरोः। वसिष्ठस्याश्रमं जग्मतुः। पुत्रप्राप्त्युपायापेक्षयेति शेषः॥ 35 ॥
स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमाश्रितौ ।
प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥ 36 ॥
36
स्निग्धेति॥ स्निग्धो मधुरो गम्भीरो निर्घोषो यस्य तमेकं स्यन्दनं रथम्। प्रावृषि भवः प्रावृषेण्यः। ‘प्रावृष एण्यः’ (पा.4।3।17) इत्येण्यप्रत्ययः। तं प्रावृषेण्यं पयोवाहं मेघं विद्युदैरावताविव। आस्थितावारूढौ। जग्मतुरिति पूर्वेण संबन्धः। इरा आपः। ‘इरा भूवाक्सुराप्सु स्यात्’ इत्यमरः। इरावान् समुद्रः। तत्र भव ऐरावतोऽभ्रमातङ्गः। ‘ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः’ इत्ममरः। ‘अभ्रमातङ्गत्वाञ्चाभ्रस्थत्वादभ्ररूपत्वात्’ इति क्षीरस्वामी। अत एव मेघारोहणं विद्युत्साहचर्यं च घटये। किंच विद्युत ऐरावतसाहचर्यादेवैरावतीसंज्ञा। ऐरावतस्य स्त्रयैरावतीति क्षीरस्वामी। तस्मात्सुष्ठूक्तं विद्युदैरावताविवेति। एकरथारोहणोक्त्या कार्यसिद्धिबीजं दंपत्योरत्यन्तसौमनस्यं सूचयति ॥ 36 ॥
मा भूदाश्रमपीडेति परिमेयपुरः सरौ ।
अनुभावविशेषात्तु सेनापरिवृताविव ॥ 37 ॥
37
मा भूदिति॥ पुनः कथंभूतौ दंपती? आश्रम-पीडा मा भून् माऽस्त्विति हेतोः। ‘माङि लुङ्’ (पा.3।3।175) इत्य् आशीर्-अर्थे लुङ्। ‘न माङ्योगे’ (पा.6।4।74) इत्य् अड्-आगम-निषेधः। परि-मेय-पुरःसरौ परिमित-परिचरौ। अनुभाव-विशेषात् तु तेजो-विशेषात् सेना-परिवृताव् इव स्थितौ ॥ 37 ॥
सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः ।
पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः ॥ 38 ॥
38
सेव्यमानाविति॥ पुनः कथंभूतौ? सुखः शीतलत्वात् प्रियः स्पर्शो येषां तैः। शाल-निर्यास-गन्धिभिः सर्ज-तरु-निस्यन्द-गन्धवद्भिः। ‘शालः सर्जतरुः स्मृतः’ इति शाश्वतः। उत्किरन्ति विक्षिपन्तीत्य् उत्किराः। ‘इगुपध-’ (पा.3।1।135) इत्यादिना किरतेः कप्रत्ययः। पुष्प-रेणूनाम् उत्किरास् तैर् आधूता मान्द्याद् ईषत्-कम्पिता वन-राजयो यैस् तैर् वातैः सेव्यमानौ ॥ 38 ॥
मनोभिरामाः श्रृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥ 39 ॥
39
मनोभिरामा इति॥ रथनेमिस्वनोन्मुखैः। मेघध्वनिशङ्कयोन्नमितमुखैरित्यर्थः। शिखण्डिभिर्मयूरैर्द्विधा भिन्नाः। शुद्धविकृतभेदेनाविष्कृतावस्थायांच्युताच्युतभेदेन वा षड्जो द्विविधः। तत्सादृश्यात्केका अपि द्विधा भिन्ना इत्युच्यते। अत एवाह-षड्जसंवादिनीरिति। षड्भ्यः स्थानेभ्यो जातः षड्जः। तदुक्तम्-‘नासाकण्ठमुरस्तालुजिह्वादन्तांश्च संस्पृशन् । षड्भ्यः संजायते यस्मात्तस्मात्षङ्ज्र इति स्मृतः ॥’ स च तन्त्रीकण्ठजन्मा स्वरविशेषः। ‘निषादर्पभागान्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥’ इत्यमरः। षड्जेनसंवादिनीः सदृशीः। तदुक्तं मातङ्गेन-‘षड्जं मयूरो वदति’ इति। मनोभिरामा मनसः प्रियाः। के मूर्ध्नि कायन्ति ध्वनन्तीति केका मयूरवाण्यः। ‘केका वाणी मयूरस्य’ इत्यमरः। ताः केकाः शृण्वन्तौ। इति श्लोकार्थः॥ 39 ॥
परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु ।
मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥ 40 ॥
40
परस्परेति॥ विश्रम्भाददूरं समीपं यथा भवति तथोज्झितं वर्त्म यैस्तेषु । स्यन्दनाबद्धदृष्टिषु स्यन्दने रथ आबद्धाऽऽसञ्जिता दृष्टिर्नेत्रं यैस्तेषु। ‘दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि’ इति हलायुधः। कौतुकवशाद्रथासक्तदृष्टिष्वित्यर्थः। मृग्यश्च मृगाश्च मृगाः। ‘पुमान्स्त्रिया’ (पा.1।2।67) इत्येकशेषः। ते।ां द्वन्द्वेषु मिथुनेषु। ‘स्त्रीपुंसौ मिथुनं द्वन्द्वम्’ इत्यमरः। परस्पराक्ष्णां सादृश्यं पश्यन्तौ। ‘द्वन्द्व’शब्दसामर्थ्यान्मृगीषु सुदक्षिणाक्षिसादृश्यं दिलीपो दिलीपाक्षिसादृश्यं च मृगेषु सुदक्षिणेत्येवं विवेक्तव्यम् ॥ 40 ॥
श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजम् ।
सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ ॥ 41 ॥
41
श्रेणीति॥ श्रेणीबन्धात् पङ्क्तिबन्धनाद्धेतोः अस्तम्भामाधारस्तम्भरहिताम्। तोरणं बहिर्द्वारम्। ‘तोरणोऽस्त्री बहिर्द्वारम्’ इत्यमरः। तत्र या स्रग्विरच्यते तां तोरणस्रजं वितन्वद्भिः। कुर्वद्भिरिवेत्यर्थः। उत्प्रेक्षाव्यञ्जकेवशब्दप्रयोगाभावेऽपि गम्योत्प्रेक्षेयम्। कलनिर्ह्लादैरव्यक्तमधुरध्वनिभिः सारसैः पक्षिविशेषैः करणैः क्वचिदुन्नमिताननौ। ‘सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः’ इति यादवः ॥ 41 ॥
पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः ।
रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ॥ 42 ॥
42
पवनस्येति॥ प्रार्थनासिद्धिशंसिनोऽनुकूलत्वादेव मनोरथसिद्धिसूचकस्य पवनस्यानुकूलत्वाद्गन्तव्यदिगभिमुखत्वात्। तुरगोत्कीर्णै रजोभिरस्पृष्टा अलका देव्या वेष्टनमुष्णीषं च राज्ञो ययोस्तौ तथोक्तौ। ‘शिरसा वेष्टनशोभिना सुतः’ (8। 12)इति वक्ष्यति॥ 42 ॥
सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् ।
आमोदमुपजिघ्रन्तौ स्वनिःश्वासानकारिणम् ॥ 43 ॥
43
सरसीष्विति॥ सरसीषु वीचिविक्षोभशीतलमूर्मिसंघटनेन शीतलं स्वनिःश्वासमनुकर्तुं शीलमस्येति स्वनिःश्वासानुकारिणम्। एतेन तयोरुत्कृष्टस्त्रीपुंसजातीयत्वमुक्तम्। अरविन्दानामामोदमुपजिघ्रन्तौ घ्राणेन गृह्णन्तौो ॥ 43 ॥
ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् ।
अमोघाः प्रतिगृह्णन्तावर्ध्यानुपदमाशिषः ॥ 44 ॥
44
ग्रामेष्विति॥ आत्मविसृष्टेषु स्वदत्तेषु। यूपो नाम संस्कृतः पशुबन्धाय दारुविशेषः। यूपा एव चिह्नानि येषां तेषु ग्रामेष्वमोघाः सफला यज्वनां विधिनेष्टवताम्। ‘यज्वा तु विधिनेष्टवान्’ इत्यमरः। ‘सुयजोर्ड्वनिप्’ (पा.3।2।103) इति ङ्वनिप्र्रत्ययः। आशिष आशीर्वादान्। अर्घः पूजाविधिः,तदर्थं द्रव्यमर्ध्यम्। ‘पादार्धाभ्यां च’ (पा.5।4।25) इति यत्प्रत्ययः। ‘षट् तु त्रिष्वर्ध्यमर्घार्थे पाद्यं पादाय वारिणि’ इत्यमरः। अर्ध्यस्यानुपदन्वक्। अर्ध्यस्वीकारानन्तरमित्यर्थथः। प्रतिगृह्णन्तौ स्वीकुर्वन्तौ पदस्य पश्चादनुपदम्। पश्चादर्थेऽव्ययीभावः। ‘अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्’ इत्यमरः ॥ 44 ॥
हैयंगवीनमादाय घोषवृद्धानुपस्थितान् ।
नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥ 45 ॥
45
हैयंगवीनमिति॥ ह्यस्तनगोदोहोद्भवं घृतं हैयंगवीनम्। ह्यः पूर्वेद्युर्भवम्। ‘तत्तु हैयंगवीनं यद्ध्योगोदोहोद्भवं घृतम्’ इत्यमरः। ‘हैयंगवीनं संज्ञायाम्’ (पा.2।2।23) इति निपातः। तत्सद्योघृतम्। आदायोपस्थितान्घोषवृद्धान्। ‘घोष आभीरपल्ली स्यात्’ इत्यमरः। वन्यानां मार्गशाखिनां नामधेयानि पृच्छन्तौ। ‘दुह्याच्-’(वा.1090,1100) इत्यादिना पृच्छतेर्द्विकर्मकत्वम्। कुलकम्॥ 45 ॥
काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेषयोः ।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ 46 ॥
मल्लिनाथः
हैयंगवीनमिति॥ ह्यस्तनगोदोहोद्भवं घृतं हैयंगवीनम्। ह्यः पूर्वेद्युर्भवम्। ‘तत्तु हैयंगवीनं यद्ध्योगोदोहोद्भवं घृतम्’ इत्यमरः। ‘हैयंगवीनं संज्ञायाम्’ (पा.2।2।23) इति निपातः। तत्सद्योघृतम्। आदायोपस्थितान्घोषवृद्धान्। ‘घोष आभीरपल्ली स्यात्’ इत्यमरः। वन्यानां मार्गशाखिनां नामधेयानि पृच्छन्तौ। ‘दुह्याच्-’(वा.1090,1100) इत्यादिना पृच्छतेर्द्विकर्मकत्वम्। कुलकम्॥ 45 ॥
काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेषयोः ।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ 46 ॥
तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः ।
अपि लङ्घितमध्वानं बुबुधे न बुधोपमः ॥ 47 ॥
47
तत्तदिति॥ प्रियं दर्शनं स्वकर्मकं यस्यासौ प्रियदर्शनः। दर्शनीय इत्यर्थः। भूमिपतिः पत्न्यै तत्तदद्भुतं वस्तु दर्शयन्,लङ्घितमतिवाहितमप्यध्वानं न बुबुधे न ज्ञातवान्। बुधः सौम्य उपमोपमानं यस्येति विग्रहः । इदं विशेषणं तत्तद्दर्शयन्नित्युपयोगितयैतस्य ज्ञातृत्वसूचनार्थम् ॥ 47 ॥
स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः ।
सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥ 48 ॥
48
स इति॥ दुष्प्रापयशा दुष्प्रापमन्यदुर्लभं यशो यस्य स तथोक्तः। श्रान्तवाहनो दूरोपगमनात्क्लान्तयुग्यः। महिष्याः सखा महिषीसखः। ‘राजाहःसखिभ्यष्टच’ (पा.5।4।91)इति टच्प्रत्ययः। सहायान्तरनिरपेक्ष इति भावः। स राजा सायं सायंकाले संयमिनो नियमवतस्तस्य महर्षेर्वसिष्ठस्याश्रमं प्रापत् प्राप। पुषादित्वादङ् ॥ 48 ॥
तमाश्रमं विशिनष्टि-
वनान्तरादुपावृत्तैः समित्कुशफलाहरैः ।
पूर्यमाणमदृश्याग्रिप्रत्युद्यातैस्तपस्विभिः ॥ 49 ॥
49
वनान्तरादिति॥ वनान्तरादन्यस्माद्वनात् उपावृत्तैः प्रत्यागतैः। समिधश्च कुशांश्च फलानि चाहर्तुं शीलं येषामिति समित्कुशफलाहराः,तैः। ‘आङिताच्छील्ये’(पा.3।2।11) इति हरतेराङ्पूर्वादच्प्रत्ययः। अदृश्यैर्दर्शनायोग्यैरग्निभिर्वैतानिकैः प्रत्युद्याताः प्रत्युद्गताः। तैस्तपस्विभिः पूर्यमाणम्। ‘प्रोष्यागच्छतामाहिताग्नीनामग्नयः प्रत्युद्यान्ति’ इति श्रुतेः। यथाह-‘कामं पितरं प्रोषितवन्तं पुत्राः प्रत्याधावन्ति,एव ह वा एवमेतग्नयः प्रत्याधावन्ति सशकलान्दारूनिवाहरन्’ इति॥ 49 ॥
आकीर्णऋषिपत्नीनामुटजद्वाररोधिभिः ।
अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ॥ 50 ॥
50
आकीर्णमिति॥ नीवाराणां भाग एव भागधेयोंऽशः। ‘रूपनामभागेभ्यो धेयप्रत्ययो वक्तव्यः’(वा.3330) इति वक्तव्यसूत्रात्स्वाभिधेये धेयप्रत्ययः,तस्योचितैः। अत एव,घटजानां पर्णशालानां द्वाररोधिभिर्द्वाररोधकैर्मृगैः। ऋषिपत्नीनामपत्यैरिव आकीर्णं व्याप्तम् ॥ 50 ॥
सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् ।
विश्वासाय विहंगानामालवालाम्बुपायिनाम् ॥ 51 ॥
51
सेकान्ते इति॥ सेकान्ते वृक्षमूलसेचनावसाने मुनिकन्याभिः सेक्त्रीभिः। आलवालेषु जलावापप्रदेशेषु यदम्बु तत्पायिनाम्। ‘स्यादालवालमावालमावापः’ इत्यमरः। विहंगानां पक्षिणां विश्वासाय विश्रम्भाय। ‘समौ विश्रम्भविश्वासौ’ इत्यमरः। तत्क्षणे सेकक्षण उज्झिता वृक्षका ह्रस्ववृक्षा यस्मिंस्तम्। ह्रस्वार्थे कप्रत्ययः ॥ 51 ॥
आतपात्ययसंक्षिप्तनीवारासु निषादिभिः ।
मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥ 52 ॥
52
आतपात्ययेति॥ आतपस्यात्ययेऽपगमे सति संक्षिप्ता राशीकृता नीवारास्तृणधान्यानि यासु तासु। ‘नीवारास्तृणधान्यानि’ इत्यमरः। उटजानां पर्णशालानामङ्गनभूमिषु चत्वरस्थानेषु। ‘पर्णशालोटजोऽस्त्रियाम्’ इति। ‘अङ्गनं चत्वराजिरे’ इति चामरः। निषादिभिरुपविष्टैर्मृगैर्वर्तितो निष्पादितो रोमन्थश्चर्वितचर्वणं यस्मिन्नाश्रमे तम् ॥ 52 ॥
अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् ।
पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः ॥ 53 ॥
53
अभ्युत्थितेति॥ अभ्युत्थिताः प्रज्वलिताः। होमयोग्या इत्यर्थः। ‘समिद्धेऽग्नावाहुतीर्जुहोति’ इति वचनात्। तेषामग्नीनां पिशुनैः सूचकैः पवनोद्धूतैः। आहुतिगन्धो येषामस्तीत्याहुतिगन्धिनः। तैर्धूमैराश्रमोन्मुखानतिथीन् पुनानं पवित्रीकुर्वाणम्। कुलकम्॥ 53 ॥
अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः ।
तामवारोहत्पत्नीं रथादवततार च ॥ 54 ॥
54
अथेति॥ अथाश्रमप्राप्त्यनन्तरं स राजा यन्तारं सारथिम्। धुरं वहन्तीति धुर्या युग्याः। ‘धुरो यड्ढकौ’ (पा.4।4।77) इति यत्प्रत्ययः। ‘धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः’ इत्यमरः। धुर्यान् रथाश्वान् विश्रामय विनीतश्रमान्कुर्नित्यादिश्याज्ञाप्य तां पत्नीं रथादवारोहयदवतारितवान्स्वयं चावततार। ‘विश्रमय’ इति ह्रस्वपाठे ‘जनीजॄष्-’,इति मित्वे 1’मितां ह्रस्वः’ इति ह्रस्वः। दीर्घपाठे ‘मितां ह्रस्वः’(पा.6।4।92) इति सूत्रे वा ‘चित्तविरागे’ इत्यतो ‘वा’इत्यनुवर्त्य व्यवस्थितविभाषाश्रयणत्वाद्ध्रस्वाभाव इति वृत्तकारः ॥ 54 ॥
तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः ।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥ 55 ॥
55
तस्मा इति॥ सभायां साधवः सभ्याः। ‘सभाया यः’ (पा.4।4।104) इति यप्रत्ययः। गुप्ततमेन्द्रियाः अत्यन्तनियमितेन्द्रियाः। मुनयः सभार्याय गोप्त्रे रक्षकाय। नयः शास्त्रमेव चक्षुस्तत्त्वावेदकं प्रमाणं यस्य तस्मै नयचक्षुषे। अत एवार्हते प्रशस्ताय। पूज्यायेत्यर्थः। ‘अर्हः प्रशंसायाम्’(पा.3।2।133) इति शतृप्रत्ययः। तस्मै राज्ञेऽर्हणां पूजां चक्रुः। ‘पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः’ इत्यमरः ॥ 55 ॥
विधेः सायंतनस्यान्ते स ददर्श तपोनिधिम् ।
अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ॥ 56 ॥
56
विधेरिति॥ स राजा सांयंतनस्य सायंभवस्य। ‘सायंचिरम्-’ (पा.4।3।23) इत्यादिना ट्युल्प्रत्ययः। विधेर्जपहोमाद्यनुष्ठानस्य। अन्तेऽवसानेऽरुन्धत्यान्वासितं पश्चादुपवेशनेनोपसेवितम्। कर्मणि क्तः। उपसर्गवशात्सकर्मकत्वम्। ‘अन्वास्यैनाम्’ इत्यादिवदुपपद्यते। तपोनिधिं वसिष्टम्। स्वाहया स्वाहादेव्या। ‘अथाग्नायी स्वाहा च हुतभुक्प्रिया’ इत्यमरः। अन्वासितं हविर्भुजमिव। ददर्श। ‘समित्पुष्पकुशागन्यम्बुमृदन्नाक्षतपाणिकः। जपं होमं च कुर्वाणो नाभिवाद्यो द्विजो भवेत् ॥’ इत्यनुष्टानस्य मध्येऽभिवादननिषेधाद्विधेरन्ते ददर्शेत्युक्तम्। अन्वासितं चात्र पतिव्रताधर्मत्वेनोक्तं न तु कर्माङ्गत्वेन। ‘विधेरन्ते’ इति कर्मणः समाप्त्यभिधानात् ॥ 56 ॥
तयोर्जगृहतुः पादान्राजा राज्ञी च मागधी ।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥ 57 ॥
57
तयोरिति॥ मागधी मगधराजपुत्री राज्ञी सुदक्षिणा राजा च तयोररुन्धतीवसिष्ठयोः पादाञ्जगृहतुः। ‘पादः पदङ्गिश्चरणो।ञस्त्रियाम’ इत्यमरः। पादग्रहणमभिवादनम्। गुरुपत्नी गुरुश्च कर्तारौ सा च स च तौ सुदक्षिणादिलीपौ कर्मभूतौ प्रीत्या हर्षेण प्रतिननन्दतुः। आशीर्वदादिभिः संभावयांचक्रतुरित्यर्थः ॥ 57 ॥
तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् ।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥ 58 ॥
58
तमिति॥ मुनिः। अतिथ्यर्थमातिथ्यम्। ‘अतिथेर्ञ्यः’ (पा.5।4।26) इति ञ्यप्रत्ययः। आतिथ्यस्य क्रिया तया शान्तो रथक्षोभेण यः परिश्रमः स यस्य स तं तथोक्तम्। राज्यमेवाश्रमस्तत्र मुनिम्। मुनितुल्यमित्यर्थः। तं दिलीपं राज्ये कुशलं पप्रच्छ। पृच्छतेस्तु द्विकर्मकत्वमित्युक्तम्। यद्यपि ‘राज्य’ शब्दः पुरोहितादिष्वन्तर्गतत्वाद्राजकर्मवचनः,तथाप्यत्र सप्ताङ्गवचनः,‘उपपन्नं ननु शिवं सप्तस्वङ्गेषु’(1।60)इत्युत्तरविरोधात्। तथाह मनुः(9।194)- ‘स्वाम्यमात्यपुरं राष्ट्रं कोशदण्डौ तथा सुह्रृत्। सप्तैतानि समस्तानि लोकेऽस्मिन्राज्यमुच्यते॥’ इति। तत्र ‘ब्रह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्। वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥’ (2।127) इति मनुवचने सत्यपि तस्य राज्ञो महानुभावत्वाह्ब्राह्मणोचितः कुशलप्रश्न एव कृत इत्यनुसंधेयम्। अत एवोक्तम्-‘राज्याश्रममुनिम्’इति ॥ 58 ॥
अथाथर्वनिधेस्तस्य विजितारिपुरः पुरः ।
अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ॥ 59 ॥
59
अथेति॥ अथ प्रश्नानन्तरं विजितारिपुरो विजितशत्रुनगरो वदतां वक्तॄणां वरः श्रेष्ठः। ‘यतश्चनिर्धारणम्’(पा.2।3।41) इति षष्टी। अर्थपती राजाथर्वणोऽथर्ववेदस्य निधेस्तस्य मुनेः पुरोऽग्रेऽर्थ्यामर्थामर्थादनपेताम्। ‘धर्मपथ्यर्थन्यायादनपेते’(पा.4।4।92) इति यप्रत्ययः। वाचमादहे वक्तुमुपक्रान्तवानित्यर्थथः। ‘अथर्वनिधेः’ इत्यनेन पुरोहितकृत्याभिज्ञत्वात्तत्कर्मनिर्वाहकत्वं मुनेरस्तीति सूच्यते। यथाह कामन्दकः-‘त्रय्यां च दण्डनीत्यां च कुशलः स्यात्पुरोहितः । अथर्वविहितं कुर्यान्नित्यं शान्तिकपौष्टिकम् ॥ ’ इति ॥ 59 ॥
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥ 60 ॥
60
उपपन्नमिति॥ हे गुरो! सप्तस्वङ्गेषु स्वाम्यमात्यादिषु । ‘स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च । सप्ताङ्गानि’ इत्यमरः। शिवं कुशलमुपपन्नं ननु युक्तमेव। नन्ववधारणे। ‘प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु’ इत्यमरः। कथमित्यत्राह-यस्य मे दैवीनां देवेभ्य आगतानां दुर्भिक्षादीनाम्, मानुषीणां मनुष्येभ्य आगतानां चौरभयादीनाम्। उभयत्रापि ‘तत आगतः’(पा.4।3।74)इत्यण्। ‘टिड्ढाणञ्-’ (पा.4।1।15) इत्यादिना ङीप्। आपदां व्यसनानां त्वं प्रतिहर्ता वारयिताऽसि। अत्राह कामन्दकः-‘हुताशनो जलं व्याधिर्दुर्भिक्षं मरणं तथा। इति पञ्चविधं दैवं मानुषं व्यसनं ततः ॥ आयुक्तकेभ्यश्चौरेभ्यः परेभ्यो राजवल्लभात्। पृथिवीपतिलोभाञ्च नराणां पञ्चधा मतम् ॥‘इति ॥ 60 ॥
तत्र मानुषापत्प्रतीकारमाह-
तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ 61 ॥
61
तवेति॥ दूरात् परोक्ष एव प्रशमितारिभिः। मन्त्रान्कृतवान् मन्त्रकृत्। ‘सुकर्मपापमन्त्रपुण्येषु कृञः’ (पा.3।2।89)इति क्विप्। तस्य मन्त्रकृतो मन्त्राणां स्रष्टुः प्रयोक्तुर्वा तव मन्त्रैः कर्तृभिः दृष्टं प्रत्यक्षं यल्लक्ष्यं तन्मात्रं भिन्दन्तीति दृष्टपेषकैरिति निराक्रियन्त इव इत्युत्प्रेक्षा। ‘प्रत्यादेशो निराकृतिः’इत्यमरः। त्वन्मन्त्रसामर्थ्यादेव नः पौरुषं फलतीति भावः ॥ 61 ॥
संप्रति दैविकापत्प्रतीकारमाह-
हविरावर्जितं होतस्त्वया विधिवदग्निषु ।
वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ॥ 62 ॥
62
हविरिति॥ हे होतः। त्वया विधिवदग्निष्वावर्जितं प्रक्षिप्तं हविराज्यादिकं कर्तृ अवग्रहो वर्षप्रतिबन्धः। ‘अवे ग्रहो वर्षप्रतिबन्धे’(पा.3।3।51)इत्यञ्प्रत्ययः। ‘वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ’ इत्यमरः। तेन विशोषिणां विशुष्यतां सस्यानां वृष्टिर्भवति । वृष्टिरूपेण सस्यान्युपजीवयतीति भावः। अत्र मनुः(3।76)-‘अग्मौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥’ इति ॥ 62 ॥
पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्बह्मवर्चसम् ॥ 63 ॥
63
पुरुषेति॥ आयुर्जीवितकालः। पुरुषस्यायुः पुरुपषायुषम्। वर्षशतमित्यर्थः। ‘शतायुर्वै पुरुषः’ इति श्रुतेः। ‘अचतुर-’ (पा.5।4।77)आदिसूत्रेणाच्प्रत्ययान्तो निपातः। मदीयाः प्रजाः। पुरुषायुषं जीवन्तीति पुरुषायुषजीविन्यः। निरातङ्का निर्भयाः,‘आतङ्को भयमाशङ्का’ इति हलायुधः। निरीतयोऽतिवृष्ट्यादिरहिता इति यत्तस्य सर्वस्य त्वद्ब्रह्मवर्चसं तव व्रताध्ययनसंपत्तिरेव हेतुः। ‘व्रताध्ययनसंपत्तिरित्येतद्ब्रह्मवर्चसम्’ इति हलायुधः। ब्रह्मणो वर्चो ब्रह्मवर्चसम् । ‘ब्रह्महस्तिभ्यां वर्चसः’(पा.5।4।78)इत्यच्प्रत्ययः। ‘अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥’ इति कामन्दकः ॥ 63 ॥
त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।
सानुबन्धाः कथं न स्युः संपदो मे निरापदः ॥ 64 ॥
64
त्वयेति॥ ब्रह्मा योनिः कारणं यस्य तेन ब्रह्मपुत्रेण गुरुणा त्वया। एवमुक्तप्रकारेण चिन्त्यमानस्यानुध्यायमानस्य। अत एव निरापदो व्यसनहीनस्य मे संपदः सानुबन्धाः सानुस्यूतयः। अविच्छिन्ना इति यावत्। कथं न स्युः? स्युरेवेत्यर्थः। ॥ 64 ॥
संप्रत्यागमनप्रयोजनमाह-
किंतु वध्वां तवैतस्यामदृष्टसदृशप्रजम् ।
न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥ 65 ॥
65
किंत्विति॥ किंतु तवैतस्यां वध्यां स्नुषायाम्। ‘वधूर्जाया स्नुषा चैव’इत्यमरः। अदृष्टा सदृश्यनुरूपा प्रजा येन तं मां सद्वीपापि। रत्नानि सूयत इति रत्नसूरपि। ‘सत्सूद्विष-’(पा.3।2।61) इत्यादिना क्विप्। मेदिनी नावति न प्रीणाति। ‘अव’धातू रक्षणगति प्रीत्याद्यर्थेषूपदेशादत्र प्रीणने। ‘रत्नसूरपि’ इत्यनेन सर्वरत्नेभ्यः पुत्ररत्नमेव श्लाघ्यमिति सूचितम्॥ 65 ॥
तदेव प्रतिपादयति-
नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः ।
न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥ 66 ॥
66
नूनमिति॥ मत्तः परं मदनन्तरम्। ‘पञ्चम्यास्तसिल्’ (पा.5।3।7)। पिण्डविच्छेददर्शिनः पिण्डदानविच्छेदमुत्प्रेक्षमाणाः। वंशे भवा वंश्याः पितरः। स्वधेत्यव्ययं पितृभोज्ये वर्तते। तस्याः संग्रहे तत्परा आसक्ताः सन्तः श्राद्धे पितृकर्मणि। ‘पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः’ इत्यमरः। प्रकामभुजः पर्याप्तभोजिनो न भवन्ति नूनं सत्यम्। ‘कामं प्रकामं पर्याप्तम्’ इत्यमरः। निर्धना ह्यापद्धनं कियदपि संगृह्णन्तीति भावः ॥ 66 ॥
मत्परं दुर्लभं मत्वा नूनमावर्जितं मया ।
पयः पूर्वैः स्वनिःश्वासैः कवोष्णमुपभुज्यते ॥ 67 ॥
67
मत्परमिति॥ मत्परं मदनन्तरम्। ‘अन्यारात्-’ (पा.2।3।29) इत्यादिना पञ्चमी। दुर्लभं दुर्लभ्यं मत्वा मयावर्जितं दत्तं पयः पूर्वैः पितृभिः स्वनिःश्वासैर्दुःखजैः कवोष्णमीषदुष्णं यथा तथोपभुज्यते। नूनमिति वितर्के। कवेष्णमिति कुशब्दस्य कवादेशः,‘कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति’ इत्यमरः॥ 67 ॥
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः ।
प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥ 68 ॥
68
सोऽहमिति॥ इज्या यागः। ‘व्रजयजोर्भावे क्यप्’ (पा.3।3।98) इति क्यप्प्रत्ययः। तया विशुद्धात्मा विशुद्धचेतनः प्रजालोपेन संतत्यभावेन निमीलितः कृतनिमीलनः सोऽहम्। लोक्यत इति लोकः। न लोक्यत इत्यलोकः। लोकश्चालोकश्चात्र स्त इति लोकश्चासावलोकश्चेति वा लोकालोकश्चक्रैवालोऽचल इव। ‘लोकालोकश्चक्रवालः’ इत्यमरः। प्रकाशत इति प्रकाशश्च देवर्णविमोचनात्। न प्रकाशत इत्यप्रकाशश्च पितॄणाविमोचनात्। पचाद्यच्। अस्मीति शेषः। लोकालोकोऽप्यन्तः सूर्यसंपर्काद्बहिस्तमोव्याप्त्या च प्रकाशश्चाप्रकाशश्चेति मन्तव्यम्॥ 68 ॥
ननु तपोदानादिसंपन्नस्य किमपत्यैरित्यत्राह-
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।
संततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥ 69 ॥
69
लोकान्तरेति॥ समुद्भवत्यस्मादिति समुद्भवः कारणम्। तपोदाने समुद्भवो यस्य तत् तपोदानसमुद्भवं यत्पुण्यं तल्लोकान्तरे परलोके सुखं सुखकरम्। शुद्धवंशे भवा शुद्धवंश्या संततिर्हि परत्र परलोक इह च लोके शर्मणे सुखाय। ‘शर्मशातसुखानि च’ इत्यमरः। भवतीति शेषः॥ 69 ॥
तया हीनं विधातर्मां कथं पश्यन्न दूयसे? ।
सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम् ॥ 70 ॥
70
तयेति॥ हे विधातः स्रष्टः! तया संतत्या हीनमनपत्यं माम्। स्नेहात् प्रेम्णा स्वयमेव सिक्तं जलसेकेन वर्धितं वन्ध्यमफलम्। ‘वन्ध्योऽफलोऽवकेशी च’ इत्यमरः। आश्रमस्य वृक्षकं वृक्षपोतमिव। पश्यन् कथं न दूयसे न परितप्यसे? ‘विधातः’ इत्यनेन समर्थोऽप्युपेक्षस इति गम्यते॥ 70 ॥
असह्यपीडं भगवन्नृणमन्त्यमवेहि मे ।
अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ॥ 71 ॥
71
असह्येति॥ हे भगवन्! मे ममान्त्यमृणं पैतृकमृणम्। अनिर्वाणस्य मज्जनरहितस्य। ‘निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने’ इति यादवः। दन्तिनो गजस्य। अरुर्मर्म तुदतीत्यरुंतुदं मर्मस्पृक्। ‘व्रणोऽस्त्रियामीर्ममरुः’ इति। ‘अरुंतुदं तु मर्मस्पृक्’ इति चामरः। ‘विध्वरुषोस्तुदः’ (पा.3।2।35) इति खश्प्रत्ययः। ‘अरुर्द्विषत्-’(पा.6।3।67) इत्यादिना मुमागमः। आलानं गजबन्धनस्तम्भमिव। ‘आलानं बन्धनस्तम्भे’ इत्यमरः। असह्या सोढुमशक्या पीडा दुःखं यस्मिंस्तदवेहि। दुःसहदुःखजनकं विद्धीत्यर्थः। ‘निर्वाणोत्थानशयनानि त्रीणि गजकर्माणि’इति पालकाप्ये। ‘ऋणं देवस्य यागेन ऋषीणां दानकर्मणा। संतत्या पितृलोकानां शोधयित्वा परिव्रजेत्’ ॥ 71 ॥
तस्मान्मुच्ये यथा तात! संविधातुं तथार्हसि ।
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ॥ 72 ॥
72
तस्मादिति॥ हे तात! तस्मात्पैतृकादृणाद्यथा मुच्ये मुक्तो भवामि। कर्मणि लट्। तथा संविधातुं कर्तुमर्हसि। हि यस्मात्कारणात्,इक्ष्वाकूणामिक्ष्वाकुवंश्यानाम्। तद्राजत्वाद्बहुष्वणो लुक्। दुरापे दुष्प्राप्येऽर्थे। सिद्धयस्त्वदधीनास्त्वदायत्ताः। इक्ष्वाकूणामिति शेषे षष्ठी। ‘न लोक-’ (पा. 2।3।69) इत्यादिना कृद्योगे षष्ठीनिषेधात् ॥ 72 ॥
इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः ।
क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः ॥ 73 ॥
73
इतीति॥ इति राज्ञा विज्ञापित ऋषिर्ध्यानेन स्तिमिते लोचने यस्य ध्यानस्तिमितलोचनो निश्चलाक्षः सन् क्षणमात्रम्। सुप्तमीनो ह्रद इव। तस्थौ॥ 73 ॥
सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणम् ।
भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ॥ 74 ॥
74
स इति॥ स मुनिः प्रणिधानेन चित्तैकाग्र्येण भावितात्मा शुद्धान्तःकरणो भुवो भर्तुर्नृपस्य संततेः स्तम्भकारणं संतानप्रतिबिन्धकारणमपश्यत्। अथानन्तरमेनं नृपं प्रत्यबोधयत्। स्वदृष्टं ज्ञापितवानित्यर्थः। एनमिति ‘गतिबुद्धि-’ (पा.1।4।52) इत्यादिनाणि कर्तुः कर्मत्वम् ॥ 74 ॥
पुरा शक्रमुपस्थाय तवोर्वीं प्रति यास्यतः ।
आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि ॥ 75 ॥
75
पुरेति॥ पुरा पूर्वं शक्रमिन्द्रमुपस्थाय संसेव्य,उर्वीं प्रति भुवमुद्दिश्य यास्यतो गमिष्यतस्तव पथि कल्पतरुच्छायामाश्रिता सुरभिः कामधेनुरासीत्। तत्र स्थितेत्यर्थः॥ 75 ॥
ततः किमित्यत्राह-
धर्मलोपभयाद्राज्ञीमृतुस्नातामिमां स्मरन् ।
प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः ॥ 76 ॥
76
धर्मलोपेति॥ ऋतुः पुष्पम्। रज इति यावत्। ‘ऋतुः स्त्रीकुसुमेऽपि च’ इत्यमरः। ऋतुना निमित्तेन स्नातामिमां राज्ञीं सुदक्षिणां धर्मस्यर्त्वभिगमनलक्षणस्य लोपाद्भ्रंशाद्यद्भयं तस्मात् स्मरन्ध्यायन्। ‘मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम्। प्रदक्षिणानि कुर्वीत विज्ञातांश्च वनस्पतीन्॥’ इति शास्त्रात् प्रदक्षिणक्रियार्हायां प्रदक्षिणकरणयोग्यायां तस्यां धेन्वां त्वं साधु प्रदक्षिणादिसत्कारं नाचरोनाचरितवानसि। व्यासक्ता हि विस्मरन्तीति भावः। ऋतुकालाभिगमने मनुः(3।45)- ‘ऋतुकालामिगामी स्यात्स्वदारनिरतः सदा’ इति। अकरणे दोषमाहपराशरः-(4।15)‘ऋतुस्नातां तु यो भार्यां स्वस्थः सन्नोपगच्छति। बालगोघ्नापराधेन विध्यते नात्र संशयः॥’ इति ॥ 76 ॥
अवजानासि मां यस्मादतस्ते न भविष्यति।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥ 77 ॥
77
स इति॥ हे राजन्! स शापस्त्वया न श्रुतः। सारथिना च न श्रुतः। अथवणे हेतुमाह-क्रीडार्थमागता उद्दामानो दाम्न उद्गता दिग्गजा यस्मिंस्तथोक्त आकाशगङ्गाया मन्दाकिन्याः स्रोतसि प्रवाहे नदति सति ॥ 77 ॥
कथं तदस्माभिर्न श्रुतमित्यह-
स शापो न त्वया राजन्न च सारथिना श्रुतः ।
नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे ॥ 78 ॥
78
स इति॥ हे राजन्! स शापस्त्वया न श्रुतः। सारथिना च न श्रुतः। अथवणे हेतुमाह-क्रीडार्थमागता उद्दामानो दाम्न उद्गता दिग्गजा यस्मिंस्तथोक्त आकाशगङ्गाया मन्दाकिन्याः स्रोतसि प्रवाहे नदति सति ॥ 78 ॥
अस्तु; प्रस्तुते किमायातमित्यत्राह-
ईप्सितं तदवज्ञानाद्विद्धि सार्गलमात्मनः ।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ 79 ॥
79
ईप्सितमिति॥ तदवज्ञानात्तस्या धेनोरवज्ञानादपमानादात्मनः स्वस्याप्तुमिष्टमीप्सितं मनोरथम्। आप्ने तेः सन्नन्तात् क्तः,ईकारश्च। सार्गलं सप्रतिबन्धं विद्धि जानीहि। तथा हि-पूज्यपूजाया व्यतिक्रमोऽतिक्रमणं श्रेयः प्रतिबध्नाति ॥ 79 ॥
तर्हि गत्वा तामाराधयामि; सा वा कथंचिदागमिष्यतीत्याशा न कर्तव्येत्याह-
हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः ।
भुजङ्गपिहितद्वारं पातालमधितिष्टति ॥ 80 ॥
80
हविष इति॥ सा च सुरभिरिदानीं दीर्घं सत्रं चिरकालसाध्यो यागविशेषो यस्य तस्य प्रचेतसो हविषे दध्याज्यादिहविरर्थं भुजङ्गपिहितद्वारं भुजंगावरुद्धद्वारं ततो दुष्प्रवेशं पातालमधितिष्टति। पाताले तिष्ठतीत्यर्थः। ‘अधिशीङ्स्थासां कर्म’ (पा.1।4।46) इति कर्मत्वम् ॥ 80 ॥
तर्हि का गतिरित्यत आह-
सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः ।
आराधय सपत्नीकः प्रीता कामदुघा हि सा ॥ 81 ॥
81
सुतामिति॥ तस्याः सुरभेरियं तदीया। तां सुतां सुरभेः प्रतिनिधिं कृत्वा शुचिः शुद्धः। सह पत्न्या वर्तत इति सपत्नीकः सन्। ‘नद्यृतश्च’ (पा.5।4।153) इति कप्प्रत्ययः। आराधय। हि यस्मात्कारणात्,सा प्रीतातुष्टा सती। कामान् दोग्धीति कामदुघा भवति। ‘दुहः कब्धश्च’ (पा.3।2।70)इति कप्प्रत्ययः। घादेशश्च ॥ 81 ॥
इति वादिन एवास्य होतुराहुतिसाधनम् ।
अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् ॥ 82 ॥
82
इतीति॥ इति वादिनो वदत एव होतुर्हवनशीलस्य । ‘तृन्’(पा.3।3।135) इति तृन्प्रत्ययः। अस्य मुनेराहुतीनां साधनं कारणम्। नन्दयतीति व्युत्पत्त्या नन्दिनी नामानिन्द्यागर्ह्या प्रशस्ता धेनुर्वनादाववृते प्रत्यागता। ‘अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम्’ इति भावः ॥ 82 ॥
संप्रति धेनुं विशिनष्टि-
ललाटोदयमाभुग्नं पल्लवस्निग्धापाटला ।
बिभ्रती श्वेतरोमाङ्कं संध्येव शशिनं नवम् ॥ 83 ॥
83
ललाटेति॥ पल्लववत् स्निग्धा चासौ पाटला च। संध्यायामप्येतद्विशेषणं योज्यम्। ललाट उदयो यस्य स ललाटोदयः,तम्। आभुग्नमीषद्वक्रम्। ‘आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि’ इत्यमरः। ‘ओदितश्च’(पा.8।2।45) इति निष्ठातस्य नत्वम्। श्वेतरोमाण्येवाङ्कस्तं बिभ्रती। नवं शशिनं बिभ्रती संध्येव। स्थिता ॥ 83 ॥
भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि ।
प्रस्रवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥ 84 ॥
84
भुवमिति॥ कोष्णेन किंचिदुष्णेन। ‘कवं चोष्णे’ (पा.6।3।107) इति चकारात्कादेशः। अवभृथादप्यवभृथस्नानादपि मेध्येन पवित्रेण ‘पूतं पवित्रं मेध्यं च’ इत्यमरः। वत्सस्यालोकेन प्रदर्शनेन प्रवर्तिना प्रवहता प्रस्रवेन क्षीराभिस्यन्दनेन भुवमभिवर्षन्ती सिञ्चन्ती। कुण्डमिवोध आपीनं यस्याः सा कुण्डोध्नी। ‘बहुर्वीहेरूधसो ङीष्’(पा.2।3।35) इति ङीष्॥ 84 ॥
रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् ।
तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः ॥ 85 ॥
85
रज इति॥ खुरोद्धूतैरन्तिकात्समीपे गात्रं स्पृशद्भिः। ‘दूरान्तिकार्थेभ्यो द्वितीया च’(पा.2।3।35)इति चकारात्पञ्चमी। रजसां कणैः। महीं क्षियत ईष्ट इति महीक्षित्। तस्य। तीर्थाभिषेकेण जातां तीर्थाभिषेकजाम्। शुद्धिमादधाना कुर्वाणा। एतेन वायव्यं स्नानमुक्तम्। उक्तं च मनुना’आग्रेयं भस्मना स्नानमवगाह्यं तु वारुणम्। आपोहिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम्॥’ इति॥ 85 ॥
तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधिः ।
याज्यमाशंसितावन्ध्यप्रार्थनं पुनरब्रवीत् ॥ 86 ॥
86
तामिति॥ निमित्तज्ञः शकुनज्ञस्तपोनिधिर्वसिष्ठः। पुण्यं दर्शनं यस्यास्तां तां धेनुं दृष्ट्वा आशंसितं मनोरथः। नपुंसके भावे क्तः। तत्रावन्ध्यं सफलं प्रार्थनं यस्य स तमाशंसितावन्ध्यप्रार्थनम्। अवन्ध्यमनोरथमित्यर्थः। याजयितुं योग्यं याज्यं पार्थिवं पुनरब्रवीत् ॥ 86 ॥
अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ 87 ॥
87
अदूरेति॥ हे राजन्! आत्मनः कार्यस्य सिद्धिमदूरवर्तिनीं शीघ्रभाविनीं विगणय विद्धि। यद्यस्मात्कारणात् कल्याणी मङ्गलमूर्तिः। ‘बह्वादिभ्यः’(पा.4।1।45)इति ङीप्। इयं धेनुर्नाम्नि कीर्तिते कथिते सत्येवोपस्थिता ॥ 87 ॥
वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् ।
विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥ 88 ॥
88
वन्येति॥ वने भवं वन्यं कन्दमूलादिकं वृत्तिराहारो यस्य तथाभूतः सन्। इमां गां शश्वत् सदा। आ प्रसादादविच्छेदेनेत्यर्थः। आत्मनस्तव कर्तुः अनुगमनेनानुसरणेन। अभ्यसनेनानुष्ठातुरभ्यासेन विद्यामिव। प्रसादयितुं प्रसन्नां कर्तुमर्हसि ॥ 88 ॥
गवानुसरणप्रकारमाह-
प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः ।
निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः ॥ 89 ॥
89
प्रस्थितेति॥ अस्यां नन्दिन्यां प्रस्थितायां प्रतिष्ठेथाः प्रयाहि। ‘समवप्रविभ्यः स्थः’(पा.1।3।22) इत्यात्मनेपदम्। स्थितायां निवृत्तगतिकायां स्थितिमाचरेः स्थितिं कुरु। तिष्ठेत्यर्थः। निषण्णायामुपविष्टायां निषीदोपविश। विध्यर्थे लोट्। पीतमम्भो यया तस्यां पीताम्भसि सत्यामपः पिबेः पिब। ॥ 89 ॥
वधूर्भक्तिमती चैनामर्चितामा तपोवनात् ।
प्रयता प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि ॥ 90 ॥
90
वधूरिति॥ वधूर्जाया च भक्तिमती प्रयता सती गन्धादिभिरर्चितामेनां गां प्रातरा तपोवनात्। आङ् मर्यादायाम्। पदद्वयं चैतत्। अन्वेत्वनुगच्छतु। सायमपि प्रत्युद्व्रजेत् प्रत्युद्गच्छेत्। विध्यर्थे लिङ् ॥ 90 ॥
इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव ।
अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥ 91 ॥
91
इतीति॥ इत्यनेन प्रकारेण त्वमा प्रसादात् प्रसादपर्यन्तम्। ‘आङ् मर्यादाभिविध्योः’ (पा.2।1।13) इत्यस्य वैभाषिकत्वादसमासत्वम्। अस्या धेनोः परिचर्यापरः शुश्रूषापरो भवः; ते तवाविघ्नं विघ्नस्याभावोऽस्तु। ‘अव्ययं विभक्ति-’(पा.2।1।6)इत्यादिनार्थाभावेऽव्ययीभावः। पितेव पुत्रीणां सत्पुत्रवताम्। प्रशंसायामिनिप्रत्ययः। धुर्यग्रे स्थेयास्तिष्ठेः। आशीरर्थे लिङ्। ‘एर्लिङि’(पा.6।4।67) इत्याकारस्यैकारादेशः। त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः॥ 91 ॥
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः ।
आदेशं देशकालज्ञः शिष्यः शासितुरानतः ॥ 92 ॥
92
तथेति॥ देशकालज्ञः देशोऽग्निसंनिधिः। कालोऽग्निहोत्रावसानसमयः,विशिष्टदेशकालोत्पन्नमार्षं ज्ञानमव्याहतमिति जानन्। अत एव प्रीतिमान् शिष्योऽन्तेवासी राजा सपरिग्रहः सपत्नीकः। ‘पत्नीपरिजनादानमूलशापाः परिग्रहाः’ इत्यमरः। आनतो विनयनम्रः सन्। शासितुर्गुरोरादेशमाज्ञां तथेति प्रतिजग्राह स्वीचकार॥ 92 ॥
अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ।
सूनुः सूनृतवाक्स्रष्टुर्विससर्जोदितश्रियम् ॥ 93 ॥
93
अथेति॥ अथ प्रदोषे रात्रौ दोषज्ञो विद्वान्। ‘विद्वान्विपश्चिपश्चिद्दोषज्ञः’ इत्यमरः। सूनृतवाक् सत्यप्रियवाक्। ‘प्रियं सत्यं च सूनृतम्’ इति हलायुधः। स्रष्टुः सूनुर्ब्रह्मपुत्रो मुनिः। अनेन प्रकृतकार्यनिर्वाहकत्वं सूचयति। उदितश्रियं विशांपतिं मनुजेश्वरम्। ‘द्वौ विशौ वैश्यमनुजौ’इत्यमरः। संवेशाय निद्रायै। ‘स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि’ इत्यमरः। विससर्जाज्ञापयामास ॥ 93 ॥
सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः ।
कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥ 94 ॥
94
सत्यामिति॥ कल्पविद्व्रतप्रयोगाभिज्ञो मुनिः तपःसिद्धौ सत्यामपि। तपसैव राजयोग्याहारसंपादनसामर्थ्ये सत्यपीत्यर्थः। नियमापेक्षया तदाप्रभृत्येव व्रतचर्यापेक्षया। अस्य राज्ञो वन्यामेव। संविधीयतेऽनयेति संविधाम्। कुशादिशयनसामग्रीम्। ‘आतश्चोपसर्गे’ (पा.3।1।136) इति कप्रत्ययः, ‘अकर्तरि च कारके संज्ञायाम्’(पा.3।3।19) इति कर्माद्यर्थत्वम्। कल्पयामास संपादयामास ॥ 94 ॥
निर्दिष्टां कुलपतिना स पर्णशाला-
मध्यास्य प्रयतपरिग्रहद्वितीयः ।
तच्छिष्याध्ययननिवेदितावसानां
संविष्टः कुशशयने निशां निनाय ॥ 95 ॥
95
निर्दिष्टामिति॥ स राजा कुलपतिना मुनिकुलेश्वरेण वसिष्ठेन निर्दिष्टां पर्णशालामध्यास्याधिष्टाय। तस्यामधिष्ठानं कृत्वेत्यर्थः। ‘अधिशीङ्-’ (पा.1।4।46) इत्यादिनाधारस्य कर्मत्वम्। कर्मणि द्वितीया। प्रयतो नियतः परिग्रहः पत्नी द्वितीयो यस्येति स तथोक्तः। कुशानां शयने संविष्टः सुप्तः सन्। तस्य वसिष्टस्य शिष्याणामध्ययनेनापररात्रवेदपाठेन निवेदितमवसानं यस्यास्तां निशां निनाय गमयामास। अपररात्राध्ययने मनुः-(4।99) ‘निशान्ते न परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्’। ‘न चापररात्रमधीत्य पुनः स्वपेत्’ इति गौतमश्च। प्रहर्षिणीवृत्तमेतत्। तदुक्तम्-‘म्नौ ज्रौ गस्त्त्रिदशयतिः प्रहर्षिणीयम्’॥ 95 ॥
इति महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीवननीसमाख्यया व्याख्याया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये वसिष्ठाश्रमाभिगमनो नाम प्रथमः सर्गः।