एकश्लोकिरामायणम्

[[एकश्लोकिरामायणम् Source: EB]]

[

एकश्लोकिरामायणम्

आदौ रामतपोवनादिगमनं हत्वा मृगं कांचनं
वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् ।
वालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनं
पश्चाद्रावणकुंभकर्णहननमेतद्धि रामायणम् ॥॥

एकश्लोकिरामायणं संपूर्णम् ॥

]