भट्टिकाव्यम्

[[भट्टिकाव्यम् Source: EB]]

[

[TABLE]

[TABLE]

<MISSING_FIG href="../books_images/U-IMG-1722857068ग्ग्ग्ग्ग्.jpg"/>उपोद्धातः<MISSING_FIG href="../books_images/U-IMG-1722857068ग्ग्ग्ग्ग्.jpg"/>

गीर्वाणवाणीसाहित्यरसास्वादनप्रवणानां लब्धवर्णानां प्रवीणानां विचक्षणानामतिरोहितं मर्यादापुरुषोत्तमस्य लोकनायकाऽनुपमस्याऽनितरसाधारणादर्शसंरक्षणचणस्य भगवतो रामचन्द्रस्य चरित्रं व्याकरणोदाहरणं च लक्ष्यीकृत्य प्रणीतमिदं रावणवधाऽपराऽभिधानमनुपमानं भट्टिकाव्यं नाम।

व्याकरणोदाहरणपरिपूर्णेऽप्यस्मिन्ग्रन्थे कथांऽशविच्छेदो न दृश्यते, श्रुतिकट्वादिदोषाश्च बाहुल्येन न समुपलभ्यन्ते, प्रत्युत बहुषु स्थलेषु कवेः कमनीयकल्पनाकौशलेन प्रसादादिगुणगणेन स्वभावोक्त्याद्यलङ्कारेण च सहृदयहृदयावर्जनं सुतरां सम्भाव्यते।

तत्राऽपि दशमसर्गात् त्रयोदशसर्गं यावत् सर्गचतुष्टयपर्यन्तं साहित्यलक्षणग्रन्थप्रतिपादितानां काव्योत्कर्षाऽऽधायकानामलङ्कारादीनां सविस्तरं प्रतिपादनेनाऽपरत्र अलङ्कारादीनां सद्भावो न घुणाऽक्षरन्यायेन, अपि तु कवेः कविकर्मनिर्वहणयोग्यतयैवेति विपश्चितां मतिपथे स्फुटं प्रतीयते।

एवं द्वाविंशतिसर्गात्मकत्वादस्य ग्रन्थस्य महाकाव्यत्वं तत्कर्तुश्च महाकवित्वं प्रतिपाद्यते।

समुपयुक्तस्याऽवकाशस्याऽभावेनाऽस्य काव्यस्य वैशिष्ट्यं प्रतिपादयितुं न पारितमतः समयान्तरे सविस्तरमालोचनं करिष्यामीति मामकीना प्रतिज्ञा।

अथाऽयं महाकविः कस्मिन्समये कतमं जनपदं स्वजननेनाऽलञ्चकारेति संशीतौ काव्यस्याऽस्य नाम्ना बहवो विद्वांसोऽनुमिमते कृष्टिवरोऽयं कविर्भट्टिनामाऽऽसीत्। महोपाध्यायो मल्लिनाथस्तस्मादपि प्राचीनतरो जयमङ्गलोऽन्ये च कतिपये व्याख्यातारः कवेर्नाम “भट्टि”रित्येव व्यलिखन्। भट्टिकाव्यस्य व्याख्यात्रा भरतमल्लिकेन तु

कवेरभिधानं “भर्तृहरि”रिति व्यलेखि। एतन्मतानुसारिणश्च व्याख्यातारो वर्तन्ते। यदीदं स्यात्तर्हि कविरयं विक्रमभ्रातुर्भर्तृहरेरन्यः। काव्याऽवसाने कविना यः स्वकीयः संस्तवः प्रकाशितस्तेनाऽवसीयते यत्कविरयं वलभोपुरवासी तथा श्रीधरसेनाख्यस्य कस्यचिद्राज्ञ आश्रितश्चाऽऽसीत्। तथा च परमपराक्रमस्य भूपालकुलचूडामणेर्विक्रमस्य भ्रातुर्भर्तृहरे राजान्तराश्रयणं न सङ्गच्छते। रमेशचन्द्रदत्ताख्येन सुप्रसिद्धेन पुरातत्त्ववेत्रा विपश्चिताऽनुमीयते—वलभीपुरनृपालानां समयः विक्रमस्य ५२७ तमाब्दादारभ्य ७२७ तमाब्दपर्यन्तमासीदिति। वलभीपुरमिदं गुर्जरदेशस्थमस्ति। अत्रत्या राजान आत्मनः सूर्यवंश्यान्कथयन्ति। सम्भाव्यत अत एव स्वाश्रयदातूराज्ञः प्रसिद्धः पूर्वपुरुषः श्रीरामचन्द्रः कविना महता परिश्रमेण व्यवर्णि।

‘भर्तृहरि’रित्यस्य नाम्नो ‘भर्तृ’ रूपांऽशस्याऽपभ्रंशोऽयं ‘भट्टि’रिति केषांचिद्विदुषां परामर्शः।

भट्टिरयं श्रीमद्भागवतस्य महापुराणस्य व्याख्याकर्तुः श्रीधरस्वामिनः पुत्र इतीयं किंवदन्ती च श्रोत्रपथं समापतन्ती वरीवर्ति।

इदमप्याकर्ण्यते कश्चिद्राजैकं पण्डितमपृच्छत्—किं भवानेकवर्षाऽभ्यन्तरे मम पुत्रं व्याकरणमध्यापयितुं समर्थोऽस्तीति। ततस्तस्य “प्रभवामी”ति कथनाऽनन्तरं स राजा विनयपुरःसरं तं विद्वांसं स्वतनयाऽध्यापनाऽर्थं न्ययुङ्क्त। अध्यापनकाले गुरुशिष्यावन्तरा करिशावकस्यापतनेन यदैकवार्षिकोऽनध्यायः संवृत्तस्तदा पण्डितः स्वकीयनिर्बन्धस्य नैष्फल्यसम्भावनया लक्षणाऽनुसारिकमेकं काव्यं प्रणिनाय, येन नियतसमये राजकुमारस्य व्याकरणप्रावीण्येन विदुषः प्रतिज्ञापूरणं राजतो यशःपुरस्काराऽवाप्तिश्चासीत्। अयमेव कविर्भट्टिर्नाम तत्प्रणीतं काव्यं च भट्टिकाव्यमित्येके।

मया च परीक्षार्थिनां छात्राणां समुपयोगाय जयमङ्गलमल्लिनाथभरतमल्लिकादीनां प्राचीनटीकाकाराणां व्याख्यानाऽनुसरणेनाऽन्वयप्रयोगपरिवर्तनव्याख्याव्युत्पत्तिभावाऽर्थभाषानुवादादीनां विषयाणामुपयुक्तस्थलविशेषसन्निवेशेन च प्रथमतः षष्ठसर्गं यावत् भट्टिकाव्यस्य

चन्द्रकलाख्येयं व्याख्या व्यलेखि। यदत्र मन्मतिमान्द्याच्छीघ्रतानिबन्धनादक्षरसंयोजकमूलकाद्वा दोषादशुद्धयः सञ्जातास्तत्र गुणैकपक्षपातिनो विद्वांसः संसूचनपुरःसरं मर्षयेयुरसाधारणेन निजेनौदार्यप्रकर्षेणेति मदीयो विस्रम्भः। अन्ते च संस्कृतसाहित्योद्धारबद्धपरिकरश्रेष्ठिवरगोलोकवासिहरिदासगुप्तात्मज—श्रीजयकृष्णदासगुप्तमहोदयं (यत्प्रार्थनयैवेयं मदीया कृतिः समुद्भूता) शुभाशीराशिभिः समभिनन्द्य विरमामि बहुविस्तरादिति शम्। इत्यलम्।

**पाशुपतक्षेत्रम्
**विनयाऽवनतः—
(नक्साल, नेपाल)
शेषराजशर्मा।

संवत् १९९८, कामदैकादशी।

—————

चिह्नसङ्केतः।

[TABLE]

—————

॥श्रीः॥

प्रथमतः षष्ठसर्गं यावत् भट्टिकाव्यस्य

कथासारः

<MISSING_FIG href=”../books_images/U-IMG-1722858322स्स्स्स्.jpg"/>

प्रथमः सर्गः।

महाप्रतापोदेवेन्द्रसखो विद्वान् इष्टापूर्तकर्मानुष्ठाता नीतिकुशलो दशरथो नाम भूपालो बभूव। सोऽमरावतीसदृशीमति-रुचिरां विज्ञजनाऽध्यासितां सुन्दरभवनोद्यानसमलङ्कृतामयोध्यामध्यास्त। तस्य कौशल्या, कैकेयी सुमित्रा चेति तिस्रो राज्ञ्यआसन्। बहुकालपर्यन्तं तिसृष्वपि राज्ञीष्वनपत्यत्वान्महाराजेन दशरथेन पुत्रेष्टेरनुष्ठानाऽर्थं विभाण्डकसुत ऋषिवर ऋष्यशृङ्गो वराङ्गनाभिः स्वां पुरमानीतः। स च ऋषिर्नृपाऽभिप्रायं विदित्वा विधिपूर्वकं यज्ञमनुष्ठितवान्। कर्मसमाप्तेरनन्तरं तिस्रोऽपि महिष्यो यज्ञशेषं पायसमभक्षयन्। तदनु ता राजपत्न्योऽन्तर्वत्न्यो बभूवुः। नियतसमये कौशल्या रामं, कैकेयी भरतं, सुमित्रा लक्ष्मणं शत्रुघ्नं च असूत। विद्वद्वरिष्ठोवशिष्ठस्तेषां राजपुत्राणां जातकर्मारभ्योपनयनाऽन्तं संस्कारनिचयं क्रमतोऽकरोत्। ततो दशरथनन्दनास्ते रामचन्द्रादयः साऽङ्गवेदाऽध्ययनपूर्वकं धनुर्वेदमधिजगिरे। अनन्तरं यज्ञादिकर्मसु राक्षसैर्बहुशः प्रत्यूहव्यूहं समनुभूय गाधिसुतो मर्हषिर्विश्वामित्रः कर्मपरिरक्षणार्थं सलक्ष्मणं रामं याचितुं महाराजं दशरथमभ्यगात्। दशरथो मधुपर्कादिभिस्तं सम्भाव्यागमनकारणमपृच्छदनन्तरं तदाशयं ज्ञात्वा पुत्रविरहाऽसहिष्णुतया मुमोह। ततो विश्वामित्रस्य रामपराक्रमसूचनपुरःसरेण आश्वासनवाक्येन राजा पुत्रयोर्मुन्यनुसरणमनुमेने। सायुधयो रामलक्ष्मणयोर्विश्वामित्राऽनुगमनकाले वियोगव्यथिता अपि पुरतरुण्यो मङ्गलभङ्गभीताः सत्यो मा रुदन्। तत्समये विप्रैराशीर्वचनानि प्रयुक्तानि, मङ्गलवाद्यानि ताडितानि, दक्षिणो भुजः पुस्फोर शुभशकुनाः शकुन्ताश्च वृक्षेषु चुकूजुः।

—————

द्वितीयः सर्गः।

अनुजेन लक्ष्मणेन सह विश्वामित्रमनुसरन् रामस्तस्याः पुर्या निर्याय यत्र तत्र शारदीं लक्ष्मीमपश्यत्। कासारादीनां जलाशयानां विमलं जलं प्रफुल्लानि कमलानि च तन्मनो जह्नुः।जगदर्चनीयं रामं मुनिवराःपुष्पफलेनाऽऽर्चिषुः। अथ विश्वामित्रो रामं विजयां जयां च विद्यामध्यापिपत्। तथा तस्मै अमोघमस्त्रनिचयं च दत्तवान्। रामस्तस्मिन्नेवान्तरे हननोद्यतां ताडकाऽऽख्यां राक्षसीं निजघान। ततोऽतिथिसत्कारशीला वनवासिनो रामलक्ष्मणयोर्मधुपर्कादिभिः सत्कारमकुर्वन् प्रार्थयंश्च हवीरक्षणम्। आरभन्त च ते रामरक्षकत्वे स्वीयं यज्ञाऽनुष्ठानम्। ततो राक्षसा यज्ञनाशाऽर्थं समागतास्तत्र बहवो लक्ष्मणेन हताः। संलापाऽनन्तरं रामो मारीचं तृणवत्सङ्ग्रामान्निरास्थत्। ततो विश्वामित्रेण रामः प्रशंसितो नीतश्च लक्ष्मणेन सह मैथिलयज्ञभूमिम्। रामो हसन् हरधनुरभाङ्क्षीत्। ततो जनकेनाहूतो राजा दशरथः पुत्रविक्रमश्रवणेन अतीव प्रीतमनाः सन् पुत्रविवाहसम्पादनार्थं चतुरङ्गबलसमन्वितो भूत्वा मिथिलां समाययौ। ततश्चतुर्णामपि दशरथपुत्राणांमैथिलराजकुमारीभिः सह महता समारोहेण विवाहसंस्कारः समभवत्। रामो जनकतनयां सीतां समासाद्य अधिकं शुशुभे। ततस्त अयोध्याप्रयाणोद्यताः सन्तः पथि धानुष्कं परशुराममपश्यन्। जामदग्न्यो रामश्च दाशरथिं रामं स्वधनुषः सबाणत्वकरणार्थमुच्चैराहूतवान्। दशरथश्च स्वपुत्रनाशाऽऽशङ्कया परशुरामं संरम्भाऽपनयाऽर्थं प्रार्थयत् अवज्ञातश्च तेन। रामः परशुरामं स्वविक्रमेणाऽपगतमदं विधाय ससुखं सहगणं चाऽयोध्यामगात्।

—————

तृतीयः सर्गः।

विजितभूपसमाजो महाराजो दशरथो गुणगणाऽभिरामं रामं लोकप्रियं राजकार्यनिर्वाहकं चाऽभिसमीक्ष्य “सुतं राज्येऽभिषेक्ष्ये" इत्याकारिकाया घोषणायाः प्रकाशेन लोक आनन्दाऽभिवृद्धिं चकार। ततो बहुविधेषु राज्याऽभिषेकोपकरणेषु सम्पादितेषु कैकेयी तमुत्सवं द्रष्टुमशक्नुवाना सती मातामहावासं प्राप्तवन्तं भरतमपृष्ट्वैव रामस्य वनप्रयाणं ववार। तन्मतिपरिवर्तनाऽर्थं दशरथेन बहुशः प्रलोभने कृतेऽपि कैकेयी स्वकीयनिर्बन्धतो न विरराम। ततः सीतालक्ष्मणोपेतस्य

रामस्य विवशेन राज्ञा दशरथेन सुमन्त्रसारथिना रथेन वनप्रयाण आदिष्टे सति प्रजामण्डलेषु शोकविकलः कलकलः समभवत्। सर्वेऽपि प्रजाजना रामाऽनुगमने मतिं चक्रुः। ततस्तान्सर्वानपि रामः सान्त्वयामास। रामः प्रजाजनाऽनुसरणभीत्या एकामेव रजनीं शयित्वा प्रभातेऽलक्षितगतिमङ्गीकृत्याऽपासरत्, तेऽपि प्रजाजनाः शोचन्तः ससूतं निवृत्ताः। दशरथोऽपि रामेण विना सुमन्त्रमवलोक्य भृशं शोकार्तो भूत्वा प्राणानपि अत्यजत्। महिष्योऽपि वैधव्यव्यथिताः सत्यः सोरस्ताडंचुक्रुशुः। सचिवास्ताः सान्त्वयित्वा राज्ञः शवं तैले निक्षिप्य भरताऽऽनयनाऽर्थं दूतान् प्रास्थापयन्। भरतो मातामहावासे बहूनि दुःशकुनानि विलोकयन्नासीत्, अतो नैकविधशङ्काकुलो भूत्वा सत्वरमयोध्यामागात्। आगमनाऽनन्तरं क्षणादेव सकलमपि वृत्तान्तं ज्ञात्वा भरतो मातरं कैकेयीमुच्चैरुपालब्ध शोकसागरे चाऽविरतंन्यमाङ्क्षीत्। सचिवास्तं सान्त्वयित्वा तेनैव राज्ञः सकलमपि और्ध्वदेहिकं संस्कारमकारयन्। श्राद्धसमाप्त्यनन्तरं भरतोऽभिषेकं त्यक्त्वा रामं प्रत्यानिनीषुः सन् सपौरो भूत्वा वनं प्रायात्। ततो भरतादयस्तमसायास्तीरं सम्प्राप्य विश्रामोत्तरं यमुनायां स्नातुं चलिताः, मागें भारद्वाजस्य योगबलोपनतया विभूत्या सम्पन्नमतिथिसत्कारं समनुभूय ते चित्रकूटाद्रौ रामेण सह सङ्गताश्च। रामोऽपि भरतात्पितुर्मरणं श्रुत्वा शोकाऽऽक्रान्तमानसोऽभवत्, चिरं रुदित्वा नदीं गत्वा पित्रे जलाञ्जलिमदात्। बहुशः प्रार्थनासु कृतास्वपि रामप्रत्यानयने भरतोऽसफलः सञ्जातः, अनन्तरं रामादेशेन रामपादुकाद्वयं गृहीत्वा सपौरः सन् अयोध्यां प्रतिनिवृत्तश्च।

—————

चतुर्थः सर्गः।

सपौरे भरते निवृत्ते रामो दण्डकारण्यं सम्प्राप। ततो महारण्यभ्रमणसमये विराधाऽऽख्यो राक्षसो राममहरत्। रामलक्ष्मणाभ्यां स हतश्च। ततस्ते शरभङ्गाश्रमं गतवन्तः। शरभङ्गश्च रामाय सुतीक्ष्णमुनेराश्रमं कथयित्वा तस्य पुरोऽग्नौ स्वकीयं वपुर्जुहवाञ्चक्रे। रामः सुतीक्ष्णाश्रमसन्निधौ पर्णशालां निर्माय कञ्चित्कालं यावत्तस्यामुवास, अरक्षच्च बहुविधेभ्यस्त्रासहेतुभ्यो मुनीन्। एकदा पर्णशालास्थितो रामः शूर्पणखया नाम राक्षस्या विलोकितः। मायया वरनारीवेश-धारिण्या तया सपत्नीकत्वेन रामोऽवज्ञातो लक्ष्मणः प्रार्थितः। रामप्रशंसकेन लक्ष्मणेन प्रत्याख्याता सा रामं प्रार्थयाञ्चक्रे। रामेणाऽपि निराकृता लक्ष्मणमगमत्। ततो लक्ष्मणेन छि-

न्ननासिका सा बहुशः सन्तर्ज्यदण्डकारण्यवासिनोर्भ्रात्रोः खरदूषणयोरग्रे विललाप। चतुर्दशसाहस्रबलौ तौ च खरदूषणौ शूर्पणखां समाश्वास्य बहुविधायुधधारिणौ भूत्वा दाशरथिनिग्रहाऽर्थं ससैन्यं निर्ययतुः। ततस्तौ दाशरथी बहून् राक्षसान् त्रिमूर्द्धाख्यं राक्षसं च अहताम्।

—————

पञ्चमः सर्गः।

रामलक्ष्मणयोः खरदूषणाभ्यां तुमुलः सङ्ग्रामः समजनि। किञ्चित्क्षणाऽनन्तरमेव ससैन्यौ तौ राक्षसौ दाशरथिभ्यां हतौ। ततोऽसहाया शूर्पणखा पारेसमुद्रं लङ्कायां वसन्तं रावणं जगाम। सा शूर्पणखा रावणाय दाशरथिकर्तृकं राक्षसक्षयमाख्याय चारदुर्बलत्वाद्रावणस्याऽनयं प्रतिपादितवती, कथितवती च रामपराक्रमं सीताया अनवद्यं सौन्दर्यं च। ततो रावणस्तां समाश्वास्य स्वविक्रममवर्णयत् प्रतिज्ञातवांश्च रामनिग्रहम्। तदनु स साहाय्यप्राप्त्यर्थं समुद्रसमीपवासिनं मारीचं गत्वा तं वृत्तान्तमशिश्रवत्। मारीचश्च रामनिग्रहाद्रावणं निवारयितुमलोकसामान्यं रामपराक्रममकथयत्। रावणः कुपितो भूत्वा मारीचसूचितं रामविक्रमं दूषयित्वा मारीचं निरभर्त्सयत्। ततो मारीचो रावणत्रासात् रामलक्ष्मणयोर्दूरप्राप्त्यै हेमरत्नमयं मृगरूपं दधार। रामश्च मृगाऽजिनधारणाभिलाषिण्या सीतया प्रेरितः सन् सुदरं मृगमनुससार। मायामृगो मारीचश्च लक्ष्मणस्यापि सीतासंरक्षकत्वं निवारयितुं “हा लक्ष्मणे"त्युच्चैश्चक्रन्द। मारीचप्रतारिता सीता लक्ष्मणेन मुहुर्मुहुर्विबोधिताऽपि रामाऽनिष्टमाशङ्क्य रामाऽन्तिकं गन्तुं लक्ष्मणं प्रेरितवती। तस्मिन्नेवाऽन्तरे रावणो भिक्षुरूपं धृत्वा सीतासविधं समाजगाम “काऽसि त्व”मिति सीतामप्राक्षीत्प्रशंसितवांश्च तदीयं सौन्दर्यम्। सीता च स्वसंस्तवप्रदानप्रसङ्गतो रामविक्रममगादीत्। ततो रामपराक्रमश्रवणाऽसहनो दशानन आत्मपरिचयप्रदानपूर्वकं निजशौर्यं वर्णितवान्प्रार्थयच्च सीताम्। यदा सीता रावणप्रार्थनायाः प्रतिकूलवर्तिनी सञ्जाता तदा रावणेन धृतभयङ्करशरीरेण सता बाहूपपीडमाश्लिष्य आकाशं नीता। अस्मिन्नेवाऽन्तरे सीतासंरक्षणेच्छुना गृध्रराजेन जटायुषा परुषभाषणपूर्वकं रावणश्चञ्च्वा नखैश्च प्रहृतः, तद्रथश्च बभञ्जे। ततो रावणो जटायुषमाक्रुश्य तत्पक्षौ अच्छिनत्, सीतामादाय स्वपुरं चाऽगात् ।

—————

षष्ठः सर्गः।

कामार्तो रावणः सीतानिराकृतः सन् सीतारक्षाऽर्थं रक्षांसि आदिश्य रामवृत्तपरिज्ञानाऽर्थमात्मीयाञ्जनान् नियुक्तवान्।

रामोऽपि मारीचं हत्वाऽऽगमनसमये बहुभिर्दुःशकुनैः सीताया अनिष्टमाशङ्कितवान्। अस्मिन्नेवाऽन्तरे स तत्रसमायाताल्लक्ष्मणाद्यथावद्वृत्तान्तमुपलभ्य भृशं विह्वलः सञ्जातः। पर्णशालायां यदा रामः सीतां नाऽवालोकयत्तदा उन्मत्तप्रायो भूत्वा यत्र तत्र पर्यट्य भृशं विललाप। स सीतावियोगेन अतीवाऽऽकुलोऽत्यर्थमश्रूणि विमुञ्चन्नपि स्वीयनित्यकर्माऽनुष्ठानं नाऽमुञ्चत्। रामः सीताया अन्वेषणाऽर्थं लक्ष्मणेन सह पर्वतसमीपमगमत्तत्र शोणितं, पतितं कवचं, साऽश्वं चूर्णितं रथं, छिन्नपक्षं गृध्रं च विलोक्य नानाविधां कल्पनां कृत्वा अतीव मुमोह, तं सीताहन्तारमुत्प्रेक्षमाणः सन् हन्तुमभ्यधावत च।

स च गृध्रो जटायू रामं सकलमपि वृत्तान्तं श्रावयित्वा उपरतः। दाशरथी जटायुषो दाहोदकदानानि कर्माणि कृत्वा शोकाऽऽकुलावभूताम्। ततः कबन्धाऽऽख्येन दीर्घबाहुना रक्षसा गृहीतौ तौ खड्गाभ्यां तद्व्यापादनमकार्ष्टाम्। स च राक्षसो दिव्यरूपः समजनि। तदा रामेण पृष्टः सः “अहं श्रीनामकस्याऽसुरस्य पुत्रोऽस्मि। मुनेः शापात् ईदृशः संवृत्तः” इति स्ववृत्तान्तमभिधाय “सीता रावणेन लङ्कायां नीता। ऋष्यमूके स्वाऽग्रजेन भ्रात्रा बलीयसा बालिना भृशं निपीडितः सुग्रीवो नाम वानरराजोऽस्ति। तेन सहाऽन्योन्योपकारस्य साधयित्री मैत्री भवता कार्या। तत्साहाय्येनैव भवतो निखिलमपि अभीष्टं सेत्स्यति” इति कथनोत्तरं भास्करप्रभः स राक्षसस्तमामन्त्र्य दिवमगात् ।

ततस्तौ भ्रातरौ बहुविधां व्यथामनुभूय शबर्याख्यायाः कस्याश्चित्तापस्या आश्रमं जग्मतुः। सा च मधुपर्कादिना पूजासाधनेन राघवयोरतिथिसत्कारं सम्पाद्य “सुग्रीवो भवता सह सत्वरं सख्यं करिष्यति, भवांश्च द्रुतं मैथिलीं विलोकयिष्यती"त्यभिधाय अन्तर्हिता।

ततो राघवौ अलिपिकाऽऽदिभिः पक्षिभिः शोभितं पम्पासरो व्यलोकयताम्। रामस्तत्र रमणीयपदार्थनिचयदर्शनेन सञ्जातया सीतास्मृत्याऽतिवेलं शोकाकुलो भूत्वा परिदेवयामास।

अनन्तरमुभावपि तावृष्यमूकमगच्छताम्। तत्र वालिशङ्कितः सुग्रीवस्तौ वालि-

गुप्तचरौमत्वा सपरिजनो मलयपर्वतमगमत्। तदुदन्तज्ञानाय सुग्रीवप्रेषितो हनूमांश्च विश्वासयोग्यं भिक्षुवेषं स्वीकृत्य रामाऽन्तिकमागच्छत्। “कौ युवाम्” इति तत्प्रश्ने राम आत्मीयं सर्वं वृत्तान्तं जगाद। ततो हनूमान् वालिपरियचपुरःसरम् “अहं तेन वालिना निराकृतस्याऽतः साहाय्यमिच्छतः वानरराजस्य सुग्रीवस्य दूतोऽस्मि। भवान् सुग्रीवमैत्र्या अखिलमप्यभीष्टमासादयिष्यती"ति अभिधाय रामं पृष्ठमारोप्य मलयमनयत्।

सुग्रीवोऽपि रामं दृष्ट्वा वालिभयान्मुक्तः सञ्जातः। ततस्तौ अग्निं साक्षीकृत्याऽन्योन्यहितसम्पादनाऽर्थं मैत्रीं चक्रतुः। सुग्रीवो विधातुः प्राप्तवरस्य वालिनोऽतुलं बलं संसूच्य रामविक्रमं प्राशंसत्।

रामश्च सुग्रीवप्रत्ययाऽर्थमेकेनैव बाणेन सप्त आकाशस्पृशस्तरून्बिभेद। ततः सुग्रीवो गताऽऽशङ्को भूत्वा वालिनिलयं ययौ। रामो युध्यन्तौ तावुभावपि तुल्यरूपौ दृष्ट्वा बाणान्मोक्तुं न शशाक। तदनु वालिपीडितः सुग्रीवः स्वावासं प्रत्यावृत्तः, रामेण मालाऽलङ्कृतो भूत्वा भूयोऽपि वाल्यन्तिकं गतश्च। भ्रात्रा सुग्रीवेण सह युध्यन्वाली रामेण बाणेन विद्धो भुवि पतितश्च। ततो वाल्यनुयायिनो वानराः समन्तात् अपलायन्त। शूरम्मन्यो वाली छद्मवधात् राममुपालब्ध। ततो रामः “त्वं स्वभ्रातृदारापहर्ता पातकी असि” इति निर्भर्त्स्य युक्तिपूणैर्वचनैस्तदाक्षेपं परिहृतवान्। रामवाक्यं श्रुत्वा वाली लज्जापूर्णमानसो भूत्वा राममनुनीतवान्, रामे प्रियपुत्रमङ्गदं निक्षिप्य सुग्रीवेण सह सान्त्वपूर्वं व्याहृत्य तस्मै तद्वल्लभां हिरण्मयीं मालां राज्यादिकं च समर्प्य ममार।

सुग्रीवो भ्रातुरौर्ध्वदेहिकं कर्म कृत्वा हनुमदादिभिः स्तूयमानः सन् वर्षर्तोः समासन्नत्वेन रामाऽऽज्ञया किष्किन्धां प्रविष्टः।

—————

भट्टिकाव्यस्य प्रथमतः षष्ठसर्गं यावत् समासतो

विषयसूची

[TABLE]

—————

प्राप्तिस्थानम्—

चौखम्बा संस्कृत पुस्तकालय,

बनारस सिटी।

॥श्रीः॥

चन्द्रकला–विद्योतिनीटीकोपेतं

भट्टिकाव्यम्

<MISSING_FIG href=”../books_images/U-IMG-1722864407द्द्द्द्द्द्.jpg”/>

वन्दारुवृन्दारकवन्द्यमानं, सौन्दर्यसर्वस्वमहानिधानम्।
भक्ताऽनुरक्त्यात्तमनोज्ञवेषं, तं केशवं नित्यमहं नतोऽस्मि॥

यदीयया सद्दयया मया धीर्जनुर्विवेको हृदयालुता च।
समं प्रबोधेन सुखं गृहीतास्तं तातपादं प्रणमामि भक्त्या॥

प्रभो ! दयालो ! पितृदेवकेमां कृतिं भवत्पादयुगेऽर्पयामि।
स एव भावत्कप्रियात्मजोऽहं शमप्रदो मे विभवोऽयमेव॥

अथ तत्र भवान् महाविद्वान् वैचक्षण्यचणो महावैयाकरणः साहित्यधुरन्धरो भट्टिनामा कृतिवरो लक्ष्यं लक्षणं चैकत्र प्रदर्शयितुं मर्यादापुरुषोत्तमस्य भगवतः श्रीरामचन्द्रस्य चरित्रात्मकं महाकाव्यं प्रणिनाय। तस्य च महाकाव्यस्य मङ्गलमयभगवच्चरित्रात्मकत्वात् मङ्गलस्य स्वतःसिद्धत्त्वेन मङ्गलाचरणान्तरमपि महाकविना न कृतम्। यद्वा अकारस्य वासुदेववाचकत्वात् अभूदितिपदस्य सत्तावचनत्वाच्च “देवतावाचकाः शब्दा ये च भद्रादिवाचकाः। ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा॥” इत्यभियुक्तोक्तेरत्र जगणाश्रयो दोषोऽपि परिहृतो भवति। अभूदित्यादिना तन्महाकाव्यमारभते।

अभून्नृपो विबुधसखः परन्तपः श्रुताऽन्वितो दशरथ इत्युदाहृतः।
गुणैर्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम्॥१॥

**अन्वयः—**विबुधसखः परन्तपः श्रुताऽन्वितः दशरथ इति उदाहृतः नृपः अभूत्। सनातनः भुवनहितच्छलेन गुणैः वरं यं पितरं स्वयम् उपागमत्।

**प्रयोगपरिवर्तनम्—**विबुधसखेन परन्तपेन श्रुताऽन्वितेन “दशरथ” इति

उदाहृतेन नृपेण अभावि। सनातनेन भुवनहितच्छलेन गुणैः वरः यः पिता स्वयम् उपागाभि (अनन्तरं लाघवाऽर्थं समासतः प्रयोगपरिवर्तनं भविष्यतीत्यवधेयम्)।

**व्याख्या—**विबुधसखः=देवमित्रं यद्वा विद्वन्मित्रं, परन्तपः=शत्रुपीडकः, श्रुताऽन्वितः=वेदादिशास्त्रयुक्तः (अधीतशास्त्र इत्यर्थः), दशरथ इति=दशरथ इति नाम्ना, उदाहृतः=विख्यातः, नृपः=राजा, अभूत्=अभवत्। सनातनः=नित्यः (विष्णुरित्यर्थः), भुवनहितच्छलेन=लोकोपकारव्याजेन (शिष्टानुग्रहदुष्टानिग्रहादिनेत्यर्थः), गुणैः=दयादाक्षिण्यादिभिः, वरं=श्रेष्ठं, यं=नृपं, पितरं=जनकं, स्वयम्=आत्मना एव, उपागमत्=उपजगाम।

**व्युत्पत्तिः—**विबुधसखः=विबुध्यन्त इति विबुधाः, व्युपसर्गपूर्वकात् “बुध अवगम” इति धातोः“इगुपधज्ञाप्रीकिरः कः” इति इगुपधत्वात् कप्रत्ययः। “अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः।” इत्यमरः। विबुधानां सखा विबुधसखः, “षष्ठी” इति षष्ठीतत्पुरुषसमासः। “राजाऽहःसखिभ्यष्टच्” इति समासाऽन्तष्टच् । “अथ मित्रं सखा सुहृत्” इत्यमरः। परन्तपः= परांस्तापयतीति परन्तपः, परोपपदपूर्वकात् “तप सन्तापे” इति णिजन्ताद्धातोः “द्विषत्परयोस्तापेः” इति खच्प्रत्ययः, “खचि ह्रस्वः” इति उपधाह्रस्वत्वम्, “अरुर्द्विषदजन्तस्य मुम्” इति मुमागमः, “उपपदमतिङ्” इत्युपपदसमासः। “अभिघातिपराऽरातिप्रत्यर्थिपरिपन्थिनः” इत्यमरः। श्रुताऽन्वितः=श्रूयन्त इति श्रुतानि वेदादिशास्त्राणि, कर्मणि क्तः। श्रुतैः अन्वितः श्रुताऽन्वितः, “तृतीया तत्कृताऽर्थेन गुणवचनेन” इत्यत्र कैयटादिमते तृतीयेति योगविभागात् तृतीयातत्पुरुषः, योगविभागपक्षस्य भाष्यकाराऽसम्मतत्वात्पक्षे सुप्सुपा समासः। दशरथः=दशसु (दिक्षु) [प्रथितः] रथो यस्य स दशरथः “सप्तमी विशेषणे बहुव्रीहौ” इत्यत्र सप्तमीपदज्ञापितो व्यधिकरणबहुव्रीहिः। दशरथपदस्येदृशाऽर्थवत्तायां बीजं तु–“दशसु दिक्षु०” इति रघुवंशस्थं पद्यम्। नृपः=नृृन् पातीति नृपः, नृशब्दपूर्वकात् “पा रक्षणे” इति धातोः “आतोऽनुपसर्गे क” इति कप्रत्ययः, “आतो लोप इटि च” इत्यालोपः, उपपदसमासः। “राज्ञि राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः।” इत्यमरः। अभूत्=“भू सत्तायाम्” इति धातोः“लुङ्” इति भूतसामान्ये लुङ्। “गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु” इति सिचो लुक्, “भूसुवोस्तिङि” इति गुणनिषेधः। सनातनः=सना सदा भवः सनातनः, सनेत्यव्ययात् “सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट

च” इति ट्युप्रत्ययः ट्युल्प्रत्ययो वा तुडागमः “युवोरनाकौ” इत्यनादेशश्च। “शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः।” इत्यमरः। भुवनहितच्छलेन=भुवनेभ्यो हितं भुवनहितं, “हितयोगे च” इति हितयोगे चतुर्थी, “चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः” इति चतुर्थीतत्पुरुषः। ‘अथो जगती लोको विष्टपं भुवनं जगत्।” इत्यमरः। भुवनहितमेव छलं भुवनहितच्छलं तेन, “मयूरव्यंसकादयश्च” इति रूपकसमासः। गुणैः=गुण्यन्ते इति गुणाः, तैः। “गुण आमन्त्रणे” इति चौरादिकाददन्ताद्धातोः “अकर्तरि च कारकेऽसञ्ज्ञायाम्” इति घञ्। वरं=व्रियते इति वरः, तम् “वृञ् वरणे” इति धातोः “ग्रहवृदृनिश्चिगमश्च” इति कर्मण्यप्। पितरं=“तातस्तु जनकः पिता” इत्यमरः। उपागमत्=उपोपसर्गपूर्वकात् “गम्लृ गतौ” इति धातोर्लुङ्, ऌदित्त्वात् “पुषादिद्युताद्यलृदितः परस्मैपदेषु” इत्यङ्। अत्र सनातनस्य जन्मसम्बन्धेन आभासमानस्य विरोधस्य भगवतोऽचिन्त्य-महिमत्वेन समाधानाद्विरोधाभासोऽलङ्कारः “आभासत्वे विरोधस्य विरोधाभास इष्यते।” इति लक्षणात्। रुचिरावृत्तं चैतत्, जभौ सजौ गिति रुचिरा चतु-हैः।" इति लक्षणात्।

**भावार्थः—**देवसखः प्रतापी विद्वान् दशरथनामधेयो राजाऽभूत् ; विष्णुर्लोकोपकारच्छलेन यस्य पुत्ररूपेणावतीर्णः।

**भाषार्थः—**देवताओंके मित्र, शत्रुओंको पीडित करनेवाले, विद्वान् दशरथ नाम से प्रसिद्ध राजा हुए। भगवान् विष्णु लोकोपकारके छलसे गुणोंसे श्रेष्ठ जिन राजाके पुत्ररूपसे अवतीर्ण हो गये॥१॥

सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट, पितॄनपारीत्सममंस्त बन्धून्।
व्यजेष्ट षड्वर्गमरंस्त नीतौ, समूलघातं न्यवधीदरींश्च॥२॥

**अन्वयः—**स वेदान् अध्यैष्ट, त्रिदशान् अयष्ट, पितॄन् अपारीत्, बन्धून् सममंस्त, षड्वर्गं व्यजेष्ट, नीतौ अरंस्त; अरींश्च समूलघातं न्यवधीत्।

**प्रयोगप०—**तेन वेदाः अध्यैषत वा अध्यायिषत, त्रिदशाः अयाजिषत, पितरः अपारिषत, बन्धवः सममानिषत, षड्वर्गः व्यजायि, नीतौ अरामि, अरयश्च समूलघातं न्यघानिषत वा न्यवधिषत अथवा न्यहसत।

**व्याख्या—**सः=दशरथः, वेदान्=आम्नायान्, अध्यैष्ट=अधीतवान्। त्रिदशान्=देवान्, अयष्ट=पूजितवान् (अग्निष्टोमादिसखैरित्यर्थः)। पितॄन्=अग्निष्वात्तादीन्, अपारीत्=आप्यायितवान्। बन्धून्=स्वजनान्, सममंस्त=दानादिभिः सत्कृ-

तवान्। षड्वर्गं=कामक्रोधादिषड्वर्गं निद्रातन्द्राऽऽदिषड्वर्गं वा, व्यजेष्ट=विजितवान्। नीतौ=नये (सामादिक इत्यर्थः), अरंस्त=अरमत (विस्रब्धं व्यवहृतवानित्यर्थः)। अरींश्च=शत्रूंश्च, समूलघातं=निःशेषं न्यवधीत्=निहतवान्।

**व्युत्पत्तिः—**सः=स इत्यत्र उत्तरत्र यच्छब्दाऽभावेऽपि प्रक्रान्ताऽर्थकत्वेन निराकाङ्क्षत्वप्रतीतेर्न विधेयाऽविमर्शः। वेदान्=विदन्ति एभिर्धर्ममिति वेदास्तान्, “विद ज्ञाने” इति धातोः करणाऽर्थे “हलश्च" इति घञ्। “श्रुतिः स्त्री वेद आम्नाय- स्त्रयी” इत्यमरः। अध्यैष्ट=अध्युपसर्गपूर्वकस्य “इङ् अध्ययने” इति धातोर्लुङ्। “विभाषा लुङ्लृङोः” इतीङो गाङादेशाऽभावपक्षे अजादित्वात् “आडजादीनाम्” इत्याडागमः, “आटश्च” इति वृद्धिः। “आदेशप्रत्यययोः” इति षत्वं ष्टुत्वं च। गाङादेशपक्षे अध्यगीष्ट। त्रिदशाः=तिस्रः (जन्मसत्ताविनाशाख्याः) दशाः (अवस्थाः) येषां ते त्रिदशाः, “अनेकमन्यपदार्थे” इति बहुव्रीहिसमासः। “अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः।” इत्यमरः। अयष्ट=“यज देवपूजासङ्गतिकरणदानेषु” इति धातोर्लुङ्। “स्वरितञितः कर्त्रभिप्राये क्रियाफले” इति कर्त्रभिप्राय आत्मनेपदम्। “व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः” इति षत्वम् “झलो झलि” इति सिचो लोपः। अपारीत्=“पृृ पालनपूरणयोः” इति धातोर्लुङ्। “सिचि वृद्धिः परस्मैपदेषु” इति वृद्धिः। “इट ईटि” इति सिचो लोपः। अथवा “पितॄनतार्प्साीत्” इति पाठः, तत्पक्षे “तृप प्रीणने” इति धातोर्लुङ्। “स्पृशमृशकृशतृषदृषांच्लेः सिज्वा वक्तव्यः” इति च्लेः सिचि “अनुदात्तस्य चर्दुपधस्याऽन्यतरस्याम्” इत्यमभावपक्षे सिचि वृद्धौ रूपम्। अमागमपक्षे अत्राप्सीदिति रूपम्। सममंस्त=समुपसर्गपूर्वकात् “मन ज्ञाने” इति धातोर्लुङ्। अनुदात्तत्वात् तङ् इट्प्रतिषेधश्च। षड्वर्गं=षण्णां (कामक्रोधलोभमोहमदमात्सर्याणां यद्वा निद्रातन्द्राभयक्रोधालस्यदीर्घसूत्रताख्यानां दोषाणाम्) वर्गः षड्वर्गस्तम् (ष० त०)। व्यजेष्ट=व्युपसर्गपूर्वकात् “जि जये” इति धातोर्लुङ् “विपराभ्यां जेः” इत्यात्मनेपदम्। अरीन्=“रिपौ वैरिसपत्नाऽरिद्विषद्वेषणदुर्हृदः।” इत्यमरः। समूलघातं=मूलेन सहिताः समूलाः (निःशेषास्तादृशा अरय इत्यर्थः), “तेन सहेति तुल्ययोगे” इति बहुव्रीहिः, “वोपसर्जनस्य” इति सहस्य सभावः। समूलान् (शत्रून्) हत्वेति समूलघातम्। समूलोपपदात् “हन हिंसागत्योः” इति धातोः “समूलाऽकृतजीवेषु हन्कृञ्ग्रहः” इति सूत्रेण णमुल् उपधावृद्धिः। “हो हन्तेर्ञ्णिन्नेषु” इति घत्वम्,

“हनस्तोऽचिण्णलोः” इति तत्वम्। “कषादिषु यथाविध्यनुप्रयोगः” इति यथाविध्यनुप्रयोगः। अनुप्रयोगे “लुङि च” इति वधादेशः, अदन्तत्वादिडागमः, अतो लोपस्य स्थानिवद्भावात् “अतो हलादेर्लघोः” इति वैभाषिकी च वृद्धिर्न भवति “इटईटि” इति सिज्लोपः। अत्र अध्ययनादिक्रियायौगपद्यात्समुच्चयाऽलङ्कारः “गुणक्रियायौगपद्ये समुच्चयः” इति लक्षणात्। अस्माच्छ्लोकादारभ्य प्राय आसर्गान्तमुपजातिवृत्तम्। यथाऽत्रश्लोके प्रथमचरणे इन्द्रवज्रावृत्तं, “स्यादिन्द्रवज्रा यदि तौ जगौ ग” इति लक्षणात्। द्वितीयतृतीयचतुर्थचरणेषु उपेन्द्रवज्रावृत्तम् “उपेन्द्रवज्रा जतजास्ततो गौ” इति लक्षणात्। वृत्तद्वयसंमिश्रणात् उपजातिः” “अनन्तरोदीरितलक्ष्मभाजौ पादौयदीयावुपजातयस्ताः।” इति लक्षणात्।

** भावार्थः—**स वेदाध्ययनं देवपूजनं पितृतर्पणं बन्धुसम्मानं कामक्रोधादिषड्वर्गविजयं नीतिव्यवहारं शत्रून्मूलनं चाऽकरोत्।

**भाषार्थः—**उन्होंने वेदों का अध्ययन किया, देवताओं की पूजाकी, पितरोंको तृप्त किया, बान्धवोंका सम्मान किया, काम क्रोध आदि छः अन्तःस्थित शत्रुओंको जीता और नीतिमान् हो कर शत्रुओंका जड़से नाश किया॥२॥

वसूनि तोयं घनवद्व्यकारीत्, सहाऽऽसनं गोत्रभिदाऽध्यवात्सीत्।
न त्र्यम्बकादन्यमुपास्थिताऽसौ यशांसि सर्वेषुभृतां निरास्थत्॥३॥

**अन्वयः—**असौ तोयं घनवत् वसूनि व्यकारीत्, गोत्रभिदा सह आसनम् अध्यवात्सीत्, त्र्यम्बकात् अन्यं न उपास्थित ; सर्वेषुभृतां यशांसि निरास्थत्।

**प्रयोगप०—**अमुना वसूनि व्यकारिषत, आसनम् अध्यवासि, त्र्यम्बकात् अन्यः न उपास्थायि, सर्वेषुभृतां यशांसि निरासिषत।

**व्याख्या—**असौ=दशरथः, तोयं=जलं, घनवत्=मेघवत्, वसूनि=धनानि, व्यकारीत्=विक्षिप्तवान् (सत्पात्रेभ्यो धनमदादित्यर्थः), गोत्रभिदा सह=इन्द्रेण सह, आसनं=सिंहासनम्, अध्यवात्सीत्=अध्युषितवान् त्र्यम्बकात्=महादेवात्, अन्यम्=इतरं, न उपास्थित=न पूजितवान्, सर्वेषुभृतां=सर्वधनुर्धराणां, यशांसि=कीर्तीः, निरास्थत्=निरस्तवान् (सोऽनुपमो धनुर्धर आसीदिति भावः)।

**व्युत्पत्तिः—**तोयम्=“अम्भोर्णस्तोयपानीयनीरक्षीराऽम्बुशम्बरम्।” इत्यमरः। घनवत्=घनेन तुल्यं घनवत्, “तेन तुल्यं क्रिया चेद्वतिः” इति वतिप्रत्ययः। “घनजीमूतमुदिरजलमुग्धूमयोनयः।” इत्यमरः। व्यकारीत्=व्युपसर्गपूर्वकात्

“कृृ विक्षेपे” इति धातोर्लुङ्। “व्यतारीत्” इति मल्लिनाथसम्मतः पाठस्तस्य वितीर्णवानित्यर्थः। गोत्रभिदा=गां (पृथ्वीं) त्रायन्ते इति गोत्राः, गोपदपूर्वकात् “त्रैङ् पालने” इति धातोः “आतोऽनुपसर्गे कः” इति कप्रत्ययः, “अद्रिगोत्रगिरिग्रावाऽचल-शैलशिलोच्चयाः।” इत्यमरः। गोत्रान् भिनत्तीति गोत्रभित् तेन, क्विप्प्रत्ययः। सहशब्देन योगे “सहयुक्तेऽप्रधाने” इति तृतीया। आसनम्=“अध्यवात्सीत्"इति पदेन योगे “उपान्वध्याङ्वसः” इति अधिकरणस्य कर्मत्वं ततः “कर्मणि द्वितीया” इति द्वितीया। अध्यवात्सीत्=अध्युपसर्गपूर्वकात् “वस निवासे” इति धातोर्लुङ्। “अस्तिसिचोऽपृक्ते” इति ईट्, “वदव्रजहलन्तस्याऽचः” इति वृद्धिः, “सः स्यार्धधातुके” इति तत्वम्। त्र्यम्बकात्=त्रीणि अम्बकानि (नेत्राणि) यस्य स त्र्यम्बकस्तस्मात्, अन्यशब्दयोगे “अन्यारादितरर्तेदिक्शब्दाऽञ्चूत्तरपदाजाहियुक्ते” इति पञ्चमी। उपास्थित=उपपूर्वात् “ष्ठा गतिनिवृत्तौ” इति धातोर्लुङि “उपाद्देवपूजासंगतिकरणभित्रकरणपथिष्वितिवाच्यम्” इत्यात्मनेपदम्, “स्थाध्वोरिच्च” इतीत्वं कित्वं च, “ह्रस्वादङ्गात्” इति सिचो लोपः। सर्वेषुभृतां=इषून्विभ्रतीति इषुभृतः। इषूपपदपूर्वकात् “डुभृञ् धारणपोषणयोः” इति धातोः “अन्येभ्योऽपि दृश्यन्ते” इति क्विप् तस्य सर्वाऽपहारी लोपः, ततः “हस्वस्य पिति कृति तुक्” इति तुक्। सर्वे च ते इषुभृतः सर्वेषुभृतः तेषाम्। “पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाऽधिकरणेन” इति समासः। यशांसि=“यशः कीर्तिः समजा च” इत्यमरः। निरास्थत्=निरुपसर्गपूर्वकात् “असु क्षेपणे” इति धातोर्लुङ्। “अस्यतिवक्तिख्यातिभ्योऽङ्” इति च्लेरङ्। “अस्यतेस्थुक्” इति थुगागमश्च।

**भावाऽर्थः—**असौ मेघो जलमिव धनं ददौ, एकस्मिन् आसने इन्द्रेण सह उपविष्टः, शिवेतरं देवं नाऽऽर्चीत् सर्वधनुर्धराणां कीर्तीश्च निरस्तवान्।

**भाषाऽर्थः—**जैसे मेघ जलकी वर्षा करता है उसी तरह दशरथने भी धनकी वृष्टि की। वे इन्द्रके साथ एक आसनपर बैठे, शिवके सिवाय और किसी देवताकी पूजा नहीं करते थे और उन्होंने सब धनुर्धारियोंके यशोंको दूर किया॥३॥

पुण्यो महाब्रह्मसमूहजुष्टः, संतर्पणो नाकसदां वरेण्यः।
जज्वाल लोकस्थितये स राजा यथाऽध्वरे वह्निरभिप्रणीतः॥४॥

**अन्वयः—**पुण्यः महाब्रह्मसमूहजुष्टः नाकसदां संतर्पणः वरेण्यः स राजा अध्वरे अभिप्रणीतः वह्निः यथा लोकस्थितये जज्वाल।

**प्रयोगप०—**पुण्येन महाब्रह्मसमूहजुष्टेन संतर्पणेन वरेण्येन तेन राज्ञा अध्वरे अभिप्रणीतेन वह्निना यथा लोकस्थितये जज्वले।

**व्याख्या—**पुण्यः=पवित्रः, महाब्रह्मसमूहजुष्टः=वेदविद्ब्राह्मणसङ्घसेवितः, नाकसदां=देवानां, संतर्पणः=तृप्तिकारकः (यागादिभिरित्यर्थः), वरेण्यः=श्रेष्ठः, सः=पूर्वोक्तः। राजा=दशरथः, अध्वरे=यज्ञे, अभिप्रणीतः=मन्त्रेण अभिमुखीकृतः, वह्निर्यथा=अग्निरिव, लोकस्थितये=भुवनस्थितये, जज्वाल=प्रदीप्तवान् (लोकस्थितिस्थापनेऽग्निरिव व्यापृतोऽभूदिति भावः)।

**व्युत्पत्तिः—**पुण्यः=पुनातीति पुण्यः, “पूञ् पवने” इति धातोरौणादिको यत् णुगागमो ह्रस्वश्च। अत्रत्यानि सर्वाण्यपि विशेषणानि राजपराणि अग्निपराणि च बोध्यानि। पुण्याचरणाद्राजाऽपि लक्षणया पुण्य इत्युच्यते अग्निरपि तथा। महा-ब्रह्मसमूहजुष्टः=महान्तश्च ते ब्रह्माणः महाब्रह्माणः, “सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः” इति समासः, “आन्महतः समानाऽधिकरणजातीययोः” इति महत आत्वम्, “वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः।” इत्यमरः। महाब्रह्मणां समूहः महाब्रह्मसमूहः (ष०त०) तेन जुष्टः (तृ० त०)। “जुषी प्रीतिसेवनयोः” इति क्तप्रत्ययः। अग्निरपि वेदविद्ब्राह्मणैरग्निहोत्रादिभिः सेवितो भवति। नाकसदां=कं सुखं, न कम् अकम् (दुःखम्) “नञ्” इति नञ्तत्पुरुषः, “न लोपो नमः” इति नलोपः। न विद्यते अकं यस्मिन् स नाकः, “नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः” इति तज्बहुव्रीहिः, “नभ्राण्नपान्नवेदानासत्यानमुचिनकुल-नखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या” इति नञः प्रकृतिभावेन, “न लोपो नञः” इति नलोपाऽभावः। “स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः।” इत्यमरः। नाके सीदन्तीति नाकसदस्तेषाम्, “षद्ऌ विशरणगत्यवसादनेषु” इति धातोः “सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्” इति क्विप्। “कर्तृकर्मणोः कृति” इति कर्मणि षष्ठी। सन्तर्पणः=संतर्पयति प्रीणयतीति सन्तर्पणः, “कृत्यल्युटो बहुलम्” इति कर्तरि ल्युट्। राजा यज्ञादिभिः तर्पयति अग्निरपि, अग्निमुखत्वाद्देवानां तदुक्तं—देवनामाऽवसरे “बर्हिर्मुखाः क्रतुभुजः” इति। वरेण्यः=व्रियते इति वरेण्यः, “वृञ् वरणे” इति धातोः “वृञ एण्यः” इति औणादिक एण्यप्रत्ययः। “मुख्यवर्यवरेण्याश्च” इत्यमरः। अध्वरे=“यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः।” इत्यमरः। अभिप्रणीतः=आभिमुख्येन प्रणीतः अभिप्रणीतः, “कुगतिप्रादयः” इति समासः।

“उपसर्गादसमासेऽपि णोपदेशस्य” इति णत्वम्। लोकस्थितये=लोकस्य स्थितिर्लोकस्थितिस्तस्यै (ष० त०)। जज्वाल= “ज्वल दीप्तौ” इति धातोः “परोक्षे लिट्’, इति लिट्। अग्निरपि लोकस्य स्थितये ज्वलति यथोक्तम्—“अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः।” इति स्मृतिः।

**भावार्थः—**पवित्रः वैदिकसमूहसेवितः देवतर्पकः प्रधानः स राजा यज्ञे मन्त्रेणाऽभिमुखीकृतोऽग्निरिव लोकस्थितये प्रदीप्तवान्।

**भाषाऽर्थः—**पवित्र, वैदिक ब्राह्मणोंसे सेवित, देवताओंको यज्ञादिसे तृप्त करनेवाले, श्रेष्ठमहाराज दशरथ यज्ञमें अभिमुख किये गये अग्निकी तरह लोककी स्थितिके लिए प्रदीप्त हुए॥४॥

स पुण्यकीर्तिः शतमन्युकल्पो महेन्द्रलोकप्रतिर्मा समृद्ध्या।
अध्यास्त सर्वर्तुसुखामयोध्यामध्यासितां ब्रह्मभिरिद्धबोधैः॥५॥

**अन्वयः—**पुण्यकीर्तिः शतमन्युकल्पः स समृद्ध्या महेन्द्रलोकप्रतिमां सर्वर्तुसुखाम् इद्धबोधैः ब्रह्मभिः अध्यासिताम् अयोध्याम् अभ्यास्त।

**प्रयोगप—**पुण्यकीर्तिना शतमन्युकल्पेन तेन समृद्ध्या महेन्द्रलोकप्रतिमा सर्वर्तुसुखा ब्रह्मभिः अध्यासिता अयोध्या अध्यास्यत।

**व्याख्या—**पुण्यकीर्तिः=पवित्रयशाः, शतमन्युकल्पः=इन्द्रतुल्यः, सः=राजा, समृद्ध्या=ऐश्वर्येण, महेन्द्रलोकप्रतिमाम् =इन्द्रपुरीतुल्यां, सर्वर्तुसुखां=सकलर्तुसुखप्रदाम्, इद्धबोधैः=दीप्तज्ञानैः, ब्रह्मभिः=ब्राह्मणैः, अध्यासिताम्=अध्युषिताम्, अयोध्याम्=अवधपुरीम्, अभ्यास्त=अधिष्ठितवान्।

**व्युत्पत्तिः—**पुण्यकीर्तिः=पुण्या कीर्तिर्यस्य स पुण्यकीर्तिः (बहुव्रीहिः)। “स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाऽधिकरणे स्त्रियामपूरणीप्रियादिषु” इति पूर्वपदस्य पुंवद्भावः। शतमन्युकल्पः=शतं मन्यवो यस्य स शतमन्युः इन्द्रः (बहु०)। “मन्युर्दैन्येक्रतौ युधि” इत्यमरः। ईषदसमाप्तः शतमन्युः शतमन्युकल्पः, “ईषदसमाप्तौ कल्पब्देश्यदेशीयरः” इति कल्पप्प्रत्ययः। समृद्ध्या=सम्यक् ऋद्धिः समृद्धिस्तया, “कुगतिप्रादयः” इति समासः। महेन्द्रलोकप्रतिमां=महांश्चाऽसौ इन्द्रो महेन्द्रः, “सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः” इति समासः, तस्य लोकः महेन्द्रलोकः (ष० त०), लोकपदस्य भुवनजनवाचकत्वेऽपि अयोध्योपमानत्वात् लक्षणया पुरीवाचकत्वम्। प्रतिमीयते=तुल्यते इति प्रतिमा, प्रतिपूर्वकात् “माङ्माने” इति

धातोः “आतश्चोपसर्गे” इत्यङ्। महेन्द्रलोकेन प्रतिमा (तुल्या) महेन्द्रलोकप्रतिमा, ताम् (तृ०त०)। सर्वर्तुसुखां=सर्वे च ते ऋतवः सर्वर्तवः। “पूर्वकालके”त्यादिना समासः। सुखयतीति सुखा, “सुख तत्क्रियायाम्” इति धातोः “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः” इति पचाद्यच्, ततष्टाप्। यद्वा सुखमस्ति यस्याः सा सुखा, “अर्श आदिभ्योऽच्” इत्यच् ततष्टाप्। सर्वर्तुषु सुखा सर्वर्तुसुखा, ताम्। “सप्तमी शौण्डैः” इति पूर्ववत् समासः। इद्धबोधैः=इद्धः (दीप्तः) बोधः(ज्ञानम्) येषां ते इद्धबोधास्तैः (बहु०)। अयोध्याम्=“अध्यास्त” इति पदेन योगे सति “अधिशीङ्स्थाऽऽसां कर्म” इत्याधारस्य कर्मत्वम्। अध्यास्त=अधिपूर्वकात् “आस उपवेशने” इति धातोः“अनद्यतने लङ्” इति लङ्॥५॥

**भावाऽर्थः—**पवित्रयशाः इन्द्रोपमः स सम्पत्या इन्द्रपुरीसमां सर्वर्तुसुखां विद्वद्भिर्ब्राह्मणैरध्युषितामयोध्यामधिष्ठितवान्॥५॥

**भाषाऽर्थः—**पवित्रकीर्ति से युक्त, इन्द्रतुल्य, महाराज दशरथ ऐश्वर्यसे इन्द्रपुरीकी सदृश, सब ऋतुओमें सुख देनेवाली और कुशलबुद्धिवाले ब्राह्मणोंसे अधिष्ठित ऐसी अयोध्या में रहते थे॥५॥

निर्माणदक्षस्य समीहितेषु सीमेव पद्माऽऽसनकौशलस्य।
ऊर्ध्वस्फुरद्रत्नगभस्तिभिर्या स्थिताऽवहस्येव पुरं मघोनः॥६॥

**अन्वयः—**निर्माणदक्षस्य पद्माऽऽसनकौशलस्य समीहितेषु सीमा इव या ऊर्ध्वस्फुरद्रत्नगभस्तिभिः मघोनः पुरम् अवहस्य इव स्थिता (अस्ति, ताम् अध्यास्तेति पूर्वेणाऽन्वयः)।

**प्रयोगप०—**पद्मासनकौशलस्य समीहितेषु सीम्ना इव यया ऊर्ध्वस्फुरद्रत्नगभस्तिभिः मघोनः पुरम् अवहस्य इव स्थितम्।

**व्याख्या—**अथ ‘निर्माणे’त्यादिना श्लोकत्रयेण अयोध्यां वर्णयति—निर्माणदक्षस्य=सृष्टिकुशलस्य, पद्माऽऽसनकौशलस्य= ब्रह्मनैपुण्यस्य, समीहितेषु=रचितपदार्थेषु, सीमा इव=परमावधिरिव, या=अयोध्या, ऊर्ध्वस्फुरद्रत्नगभस्तिभिः= उपरिप्रसरन्मणिकिरणैः (हासभूतैः), मघोनः=इन्द्रस्य, पुरं=नगरीम् (अमरावतीमित्यर्थः), अवहस्य इव=तिरस्कृत्य इव, स्थिता=विद्यमाना (अस्तीति शेषः, तां राजा दशरथोऽध्यास्त इति पूर्वेणाऽन्वयः।

**व्युत्पत्तिः—**निर्माणदक्षस्य=निर्माणे दक्षो निर्माणदक्षस्तस्य (स० त०)।

पद्माऽऽसनकौशलस्य=पद्मम् आसनं यस्य स पद्माऽऽसनःब्रह्मा (बहु०), “वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्।” इति “धाताऽब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः।” इति चाऽमरः। कुशलस्य भावः कौशलम्, “हायनाऽन्तयुवादिभ्योऽण्र” इति युवादिपठितत्वादण् “तद्धितेष्वचामादेः” इत्यादिवृद्धिश्च। पद्मासनस्य कौशलं पद्मासनकौशलं, तस्य। अत्र षष्ठीसमासस्य “पूरणगुणसुहितार्थसदव्ययतव्यसमानाऽधिकरणेन” इति न प्रतिषेधः, तत्र गुणेन निषेधोऽनित्यः “संज्ञाप्रमाणत्वादित्यादि”-निर्देशात्। ऊर्ध्वस्फुरद्रत्नगभस्तिभिः=ऊर्ध्वं स्फुरन्तः ऊर्ध्वस्फुरन्तः, सुप्सुपा समासः। रत्नानां गभस्तयः रत्नगभस्तयः (ष० त०), “किरणोस्रमयूखांऽशुगभस्तिघृणिरश्मयः।” इत्यमरः। ऊर्ध्वस्फुरन्तश्च ते रत्नगभस्तयः ऊर्ध्वस्फुरद्रत्नगभस्तयः, तैः। “विशेषणं विशेष्येण बहुलम्” इति समासः, तस्य च “तत्पुरुषः समानाऽधिकरणः कर्मधारयः” इति कर्मधारयसंज्ञा। पुरम्=“पूः स्त्री पुरीनगर्यौवा पत्तनं पुटभेदनम्।” इत्यमरः।

**भावाऽर्थः—**सृष्टिकुशलस्य ब्रह्मनैपुण्यस्य रचितपदार्थेषु सीमेव या अयोध्या हास्यभूतैः उपरिप्रसरद्रत्नकिरणैः अमरावतीं तिरस्कृत्येव स्थिताऽस्ति, तां स राजा अध्यास्त (ब्रह्माऽपि अयोध्याऽधिकसृष्टौ न समर्थ इति भावः)।

**भाषाऽर्थः—**सृष्टिमें कुशल ब्रह्माजीकी निपुणताकी रचित पदार्थोमें सीमा (हद) की तरह जो अयोध्या पुरी ऊपर फैली हुई (हास्यभूत) रत्नोंकी किरणोंसे इन्द्रकी पुरी अमरावतीको मानों तिरस्कार कर के रही हुई है, उसमें महाराज दशरथ रहते थे॥६॥

सद्रत्नमुक्ताफलवज्रभाञ्जि विचित्रधातूनि सकाननानि।
स्त्रीभिर्युतान्यप्सरसामिवौघैर्मेरोः शिरांसीव गृहाणि यस्याम्॥७॥

**अन्वयः—**यस्यां सद्रत्नमुक्ताफलवज्रभाञ्जि विचित्रधातूनि सकाननानि अप्सरसाम् ओघैरिव स्त्रीभिर्युतानि गृहाणि मेरोः शिरांसि इव (आसन्, तामध्यास्त)।

**प्रयोगप०—**यस्यां सद्रत्नमुक्ताफलवज्रभाग्भिः विचित्रधातुभिः सकाननैः युतैः गृहैः मेरोः शिरोभिरिव अभूयत।

**व्याख्या—**यस्याम्=अयोध्यायाम् सद्रत्नमुक्ताफलवज्रभाञ्जि=सुन्दरमणिमौक्तिकहीरकयुक्तानि (मुक्ताफल-वज्रयोरत्नाऽन्तर्भावेऽपि प्राधान्यद्योतनार्थमुक्तिः गोबलीवर्दन्यायाद्वा), विचित्रधातूनि= विविधमनःशिलादिधातुयुतानि, सकाननानि=

उद्यानसहितानि, अप्सरसां=स्वर्वेश्यानाम् (उर्वश्यादिकानामित्यर्थः), ओघैरिव=समूहैरिव, स्त्रीभिः=नारीभिः (अप्सरः-सदृशीभिर्नारीभिरित्यर्थः), युतानि=युक्तानि, गृहाणि=वेश्मानि, मेरोः=सुमेरुपर्वतस्य, शिरांसि इव=शृङ्गाणि इव (आसन्, राजा ताम् अध्यास्त)।

**व्युत्पत्तिः—**सद्रत्नमुक्ताफलवज्रभाञ्जि=मुक्ताः फलानि इव मुक्ताफलानि “उपमितं व्याघ्रादिभिः सामान्याऽप्रयोगे” इति समासः। रत्नानि च मुक्ताफलानि च वज्राणि च रत्नमुक्ताफलवज्राणि, “चाऽर्थे द्वन्द्वः” इति द्वन्द्वसमासः। सन्ति च तानि मुक्ताफलवज्राणि सद्रत्नमुक्ताफलवज्राणि (क० धा०), तानि भजन्ते इति सद्रत्नमुक्ताफलवज्रभाञ्जि, “भजो ण्विः” इति ण्विप्रत्ययः। “वज्रोऽस्त्री हीरके पवौ” इत्यमरः। विचित्रधातूनि=विचित्रा धातवो येषु तानि (ब० व्री०)। सकाननानि=काननैः सहितानि (ब० व्री०)। अप्सरसां=“स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः।” इत्यमरः। ओघैः= ओघो वृन्देऽम्भसां रये” इत्यमरः। गृहाणि=गृह्णन्ति धान्यादिकमिति गृहाणि, “ग्रह उपादाने” इति धातोः “गेहे कः” इति कप्रत्ययः। “गृहं गेहोदवसितं वेश्म सद्म निकेतनम्।” इत्यमरः।

**भावाऽर्थः—**यत्र उत्तमरत्नयुक्तानि मनःशिलादिधातुशोभितानि उद्यानसहितानि अप्सरःसदृशीभिस्त्रीभिः शोभितानि गृहाणि सुमेरुपर्वतशिखराणि इव आसन् तामयोध्यां राजा अध्यास्त।

**भाषाऽर्थः—**जहांपर मोती हीरे आदि उत्तम रत्नोंसे शोभित, मनःशिला आदि धातुओंसे युक्त, बागीचोंसे सहित और अप्सराओंके तुल्य स्त्रियोंसे युक्त भवन सुमेरु पर्वतके शिखरके तुल्य थे, उस अयोध्यामें महाराज दशरथ रहते थे॥७॥

अन्तर्निविष्टोज्ज्वलरत्नभासो गवाक्षजालैरभिनिष्पतन्त्यः।
हिमाऽद्रिटङ्कादिव भान्ति यस्यां गङ्गाऽम्बुपातप्रतिमा गृहेभ्यः॥८॥

**अन्वयः—**यस्याम् अन्तर्निविष्टोज्ज्वलरत्नभासः गृहेभ्यः गवाक्षजालैः अभिनिष्पतन्त्यः हिमाऽद्रिटङ्कात् गङ्गाऽम्बुपातप्रतिमा इव भान्ति (तामध्यास्त)।

**प्रयोगप०—**यस्याम् अन्तर्निविष्टोज्वलरत्नभाभिः गृहेभ्यः गवाक्षजालैरभिनिष्पतन्तीभिः हिमाद्रिटङ्कात् गङ्गाम्बुपात-प्रतिमाभिरिव भायते।

**व्याख्या—**यस्याम्=अयोध्यायाम्, अन्तर्निविष्टोज्ज्वलरत्नभासः=अभ्यन्तरस्थितविशदमणिदीप्तयः, गृहेभ्यः=भवनेभ्यः, गवाक्षजालैः=वातायनसमूहैः,

अभिनिष्पतन्त्यः=निर्गच्छन्त्यः (सत्यः), हिमाद्रिटङ्कात्=हिमाऽचलोन्नतप्रदेशात्, गङ्गाऽम्बुपातप्रतिमाः इव=भागीरथीजल-प्रवाहतुल्याः इव भान्ति=शोभन्ते (राजा तामध्यास्त)।

**व्युत्पत्तिः—**अन्तर्निविष्टोज्ज्वलरत्नभासः=अन्तः निविष्टानि अन्तर्निविष्टानि, सुप्सुपा समासः। उज्ज्वलानि च तानि रत्नानि उज्ज्वलरत्नानि (क० धा०)। अन्तर्निविष्टानि च तानि उज्ज्वलरत्नानि अन्तर्निविष्टोज्ज्वलरत्नानि (क० धा०), तेषां भासः (ष० त०), “स्युः प्रभारुग् रुचिस्त्विड्भाभारछविद्युतिदीप्तयः।” इत्यमरः। गवाक्षजालैः=गवाम् अक्षीणीव गवाक्षाः (ष० त०), “अक्ष्णोऽदर्शनात्” इत्यच, “वातायनं गवाक्षः” इत्यमरः। तेषां जालानि गवाक्षजालानि (ष० त०) तैः। अभिनिष्पतन्त्यः= अभिनिष्पतन्तीति अभिनिष्पतन्त्यः, शतृप्रत्ययः। हिमाऽद्रिटङ्कात्=हिमस्य अद्रिः हिमाद्रिः (ष० त०)। हिमाऽद्रेष्टकः हिमाऽद्रिटङ्कः, तस्मात् (ष० त०) जातावेकवचनम्। गङ्गाऽम्बुपातप्रतिमा=गङ्गाया अम्बूनि गङ्गाऽम्बूनि (ष० त०), तेषां पाता गङ्गाम्बुपाताः (ष० त०), तैः प्रतिमाः (तुल्याः) गङ्गाऽम्बुपातप्रतिमाः (तृ० त०)। भान्ति=“भा दीप्तौ” इति धातोः"वर्तमाने लट्” इति लट्।

**भावाऽर्थः—**यत्र अन्तःस्थितविशदमणिदीप्तयः गृहेभ्यः वातायनसमूहैः बहिर्निर्गच्छन्त्यः हिमालयोर्ध्वप्रदेशात् गङ्गाजलप्रवाह तुल्या इव शोभन्ते (तां स राजा अध्यास्त)।

**भाषाऽर्थः—**जहां भीतर रहे हुए उज्ज्वल रत्नोंके प्रकाश, गृहोंसे झरोखोंके द्वारा बाहर निकलते हुए हिमालयके ऊर्ध्वदेशसे निकलते हुए गङ्गाजलके प्रवाहके सदृश शोभित होते हैं, राजा उस अयोध्यामें रहते थे॥८॥

धर्म्यासु कामाऽर्थयशस्करीषु मतासु लोकेऽधिगतासु काले।
विद्यासु विद्वानिव सोऽभिरेमे पत्नीषु राजातिसृषूत्तमासु॥९॥

**अन्वयः—**स राजा धर्म्यासु कामार्थयशस्करीषु लोके मतासु काले अधिगतासु तिसृषु उत्तमासु पत्नीषु विद्यासु विद्वान् इव अभिरेमे।

**प्रयोगप०—**तेन राज्ञा ¨ पत्नीषु विद्यासु विदुषा इव अभिरेमे।

**व्याख्या—**सः=पूर्वोक्तः, राजा=नृपः (दशरथ इत्यर्थः), धर्म्यासु=धर्मादनपेतासु (धर्मयुक्तास्वित्यर्थः), कामाऽर्थ-यशस्करीषु=कामाऽर्थकीर्तिसाधनभूतासु, लोके=भुवने, मतासु=पूजितासु, काले=विवाहोचिते समये, अधिगतासु=परिणीतासु,

तिसृषु=त्रिसङ्ख्याकासु, उत्तमासु=नारीगुणैः श्रेष्ठासु, पत्नीषु=भार्यासु (कौसल्या-कैकेयीसुमित्रासु इत्यर्थः), विद्यासु= ऋग्यजुःसामाऽऽख्यासु, विद्वान् इव=बुध इव, अभिरेमे=अभिरतवान्।

**व्युत्पत्तिः—**धर्म्यासु=धर्मादनपेता धर्म्याः, तासु। “धर्मपथ्यर्थन्यायादनपेते” इति यत्। कामाऽर्थयशस्करीषु=कामश्च अर्थश्च यशश्च कामार्थयशांसि (द्वन्द्वः), “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु।” इत्यमरः। कामार्थयशांसि कर्तुं शीलं यासां ताः कामार्थयशस्कर्यः, तासु। “कृञो हेतुताच्छील्यानुलोम्येषु” इति ताच्छील्ये टप्रत्ययः। “अतः कृकभिकंसकुम्भपात्र-कुशाकर्णीष्वनव्ययस्य” इति विसर्जनीयस्य सत्वम्। टित्त्वात् “टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः” इति ङीप्। तिसृषु=“त्रिचतुरोः स्त्रियां तिसृचतसृ” इति त्रिशब्दस्य तिसृभावः, “आदेशप्रत्यययोः” इति षत्वम्। पत्नीषु=“पत्युर्नो यज्ञसंयोगे” इति ङीप् इकारस्य नकारश्च। विद्यासु=विदन्त्याभिर्धर्माऽधर्मौइति विद्याः, “विद ज्ञाने” इति धातोः “संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः” इति करणे क्यप्। विद्वान्=वेत्तीति विद्वान्, “विदेः शतुर्वसुः” इति वसुः। अभिरेमे=अभिपूर्वकात् “रमु क्रीडायाम्” इति धातोर्लिट्। “अत एकहल्मध्येऽनादेशादेर्लिटि” इत्येत्वाऽभ्यासलोपौ।

**भावाऽर्थः—**दशरथः धर्मयुक्तासु कामार्थयशःसाधनशीलासु लोकपूजितासु कौसल्याकैकेयीसुमित्राख्यासु तिसृषु पत्नीषु ऋग्यजुःसामाख्यासु तिसृषु विद्यासु बुध इव विजहार।

**भाषाऽर्थः—**दशरथने धर्मयुक्त, काम, अर्थ और यश करनेवाली, लोकमें पूजित, समयमें विवाहित कौशल्या, कैकेयी और सुमित्रा नामकी तीन उत्तम पत्नियोंमें ऋग्वेद, यजुर्वेद और सामवेद इन तीन विद्याओंमें विद्वान्की तरह विहार किया॥९॥

तस्य राज्ञः पुत्रा नैवासन्। ऋष्यशृङ्गनामा ऋषिः पुत्रेष्टिं जानातीति पुरोहिताद्वसिष्ठादाकर्ण्य राज्ञा वाराङ्गनाभिर्मुनिरानायित इति कथयितुमाह—

पुत्रीयता तेन वराऽङ्गनाभिरानायि विद्वान् क्रतुषु क्रियावान्।
विपक्त्रिमज्ञानगतिर्मनस्वी मान्यो मुनिः स्वां पुरमृष्यशृङ्गः॥१०॥

**अन्वयः—**पुत्रीयता तेन वराङ्गनाभिः विद्वान् क्रतुषु क्रियावान् विपक्रिमज्ञानगतिः मनस्वी मान्यः ऋष्यशृङ्गः मुनिः स्वां पुरम् आनायि।

ऐहिष्ठ तं कारयितुं कृताऽऽत्मा ऋतुं नृपः पुत्रफलं मुनीन्द्रम्।
ज्ञाताऽऽशयस्तस्य ततो व्यतानीत् स कर्मठः कर्म सुताऽनुबन्धम्॥ ११॥

**अन्वयः—**कृताऽऽत्मा नृपः तं मुनीन्द्रं पुत्रफलं क्रतुं कारयितुम् ऐहिष्ट। ततः ज्ञाताऽऽशयः स कर्मठः तस्य सुताऽनुबन्धं कर्म व्यतानीत्।

**प्रयोगप०—**कृतात्मना नृपेण तं मुनीन्द्रं क्रतुं कारयितुम् ऐहि, ततः ज्ञाताशयेन तेन कर्मठेन तस्य सुताऽनुबन्धं कर्म व्यतानि।

**व्याख्या—**कृताऽऽत्मा=विहितयत्नः (पुत्राऽर्थमित्यर्थः) यद्वा वशीकृताऽऽत्मा, नृपः=राजा, तं=पूर्वोक्तं, मुनीन्द्रं=तापसश्रेष्ठं (ऋष्यशृङ्गमित्यर्थः), पुत्रफलं=तनयकार्यं, क्रतुं=यज्ञं (पुत्रेष्टिमित्यर्थः), कारयितुं=सम्पादयितुम्, ऐहिष्ट=ईहितवान्, ततः=अनन्तरं, ज्ञाताऽऽशयः=विदिताऽऽभिप्रायः, सः=पूर्वोक्तः, कर्मठः=कर्मशूरः (यज्ञक्रियासम्पादनकुशल इत्यर्थः), तस्य=राज्ञः, सुताऽनुबन्धं=पुत्राऽनुबन्धं, कर्म=क्रियां (पुत्रेष्टिमित्यर्थः), व्यतानीत्= प्रारब्धवान्।

**व्युत्पत्तिः—**कृताऽऽत्मा=कृत आत्मा येन सः (बहु०), “आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च” इत्यमरः। मुनीन्द्रं=मुनिषु इन्द्रो मुनीन्द्रः, तम् (स० त०)। “हक्रोरन्यतरस्याम्” इति कर्मत्वम्। पुत्रफलं=पुत्रः फलं (कार्यम्) यस्य स पुत्रफलः’ तम् (बहु०), “आत्मजस्तनयः सूनुः सुतः पुत्रः” इत्यमरः। ऐहिष्ट=“ईह चेष्टायाम्” इति धातोर्लुङ्। ज्ञाताऽऽशयः=ज्ञातः आशयो येन सः (बहु०), “अभिप्रायश्छन्द आशयः”। इत्यमरः। कर्मठः=कर्मणि घटते इति कर्मठः, “कर्मणि घटोऽठच्” इत्यठच्, “कर्मशूरस्तु कर्मठः” इत्यमरः। सुताऽनुबन्थं=सुताननुबध्नातीति सुताऽनुबन्धं तत्, “कर्मण्यण्” इत्यण्। “सुताऽनुबन्धी”ति पाठान्तरम्। तत्र सुतान् अनुबध्नातीति तच्छीलं सुताऽनुबन्धि, तत् “सुप्यजातौ णिनिस्ताच्छील्ये” इति णिनिः। व्यतानीत्=विपूर्वकात् “तनु विस्तारे” इति धातोर्लुङि “इट ईटि” इति सलोपः। “अतो हलादेर्लघोः” इति विकल्पवृद्धिः।

**भावाऽर्थः—**पुत्रार्थं कृतप्रयत्नः स राजा ऋष्यशृङ्गेण पुत्रेष्टिं कारयितुमैच्छत्। ततो विदितभूपाशय ऋष्यशृङ्गस्तस्य पुत्रेष्टिं प्रारब्धवान्।

**भाषाऽर्थः—**यत्न करने वाले राजाने ऋष्यशृङ्गसे पुत्रेष्टि करानेकी इच्छा की, तब राजाके अभिप्रायको जानने वाले ऋष्यशृङ्गने पुत्रेष्टिका आरम्भ किया॥११॥

रक्षांसि वेदीं परितो निरास्थदङ्गान्ययाक्षीदभितः प्रधानम्।
शेषाण्यहौषीत् सुतसम्पदे च, वरं वरेण्यो नृपतेरमार्गीत्॥१२॥

**अन्वयः—**वरेण्यः (सः) वेदीं परितः रक्षांसि निरास्थत्, प्रधानम् अभितः अङ्गानि अयाक्षीत्, शेषाणि अहौषीत् ; नृपतेः सुतसम्पदे वरं च अमार्गीत्।

**प्रयोगप०—**वरेण्येन वेदीं परितः रक्षांसि निरासिषत, प्रधानम् अभितः अङ्गानि अयाजिषत, शेषाणि अहाविषत (वा अहोषत), नृपतेः सुतसम्पदे वरश्च अमार्गि।

**व्याख्या—**वरेण्यः=श्रेष्ठः (सः=मुनिः ऋष्यशृङ्ग इत्यर्थः), वेदीं परितः=वेदेः समन्तात्, रक्षांसि=राक्षसान् निरास्थत्=निरस्तवान्, प्रधानम् अभितः=प्रधानयागस्योभयतः (प्रागूर्ध्वं चेत्यर्थः), अङ्गानि=प्राच्यानि (प्रयाजादीनि) उदीच्यानि च (अनुयाजादीनि च), अयाक्षीत्=इष्टवान्, शेषाणि=अवशिष्टानि (अङ्गाऽपेक्षया अवशिष्टानि प्रधानहवींषि), अहौषीत्=हुतवान्, नृपतेः=राज्ञः, सुतसम्पदे=पुत्रलाभार्थं, वरं च=अभीष्टं च (हेदेवाः ! सुता भूयासुरित्याकारकम्), अमार्गीत्=मार्गितवान्।

**व्युत्पत्तिः—**वेदीं=“कृदिकारादक्तिन” इति ङीष्। “परितः” इति पदेन योगे “अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि” इति द्वितीया। परितः अभितः=“पर्यभिभ्यां च” इति सर्वोभयार्थे तसिल्प्रत्ययः तद्योगे द्वितीया च। निरास्थत्=निरुपसर्गपूर्वकात् “असु क्षेपणे” इति धातोर्लुङ्, “अस्यतिवक्तिख्यातिभ्योऽङ्” इति च्लेरङ्’ “अस्यतेस्थुक्” इति थुक्। अयाक्षीत्=यजेर्लुङि सिचि वृद्धिः। व्रश्चादिना षत्वं, “षढोः कः सि” इति कत्वे “इण्कोः” इत्यधिकृत्य “आदेशप्रत्यययोः” इति षत्वम्। कतुः (ऋष्यशृङ्गस्य) क्रियाफलाऽभावात् तङभावः। अहौषीत्=“हु दानाऽदनयोः” इति धातोर्लुङि सिचि वृद्धिः। नृपतेः=नृणां पतिः नृपतिः, तस्य (ष० त०) “पुरुषाः पूरुषा नरः” इति “ईश्वरः पतिरीशिता” इति चाऽमरः। सुतसम्पदे=सुतानां सम्पत् सुतसम्पत्, तस्यै (ष० त०)। अमार्गीत्=“मार्ग याच्ञाऽन्वेषणयोः” इति धातोर्लुङि “इट ईटि” इति सकारलोपः।

**भावाऽर्थः—**ऋष्यशृङ्गो वेद्याः समन्ताद्विघ्नकारकान् राक्षसान् निरस्तवान्, प्रधानयागस्य प्रागूर्ध्वं च प्रयाजानुयाजादीन्यङ्गानि इष्टवान्, प्रधानहवींषि हुतवान्; नृपतेः पुत्रलाभार्थं वरं च अयाचत।

**भाषाऽर्थः—**ऋष्यशृङ्गने वेदिके चारों तरफ राक्षसोंको हटाया, प्रधान यज्ञके

दोनों ओर प्रयाज और अनुयाज आदि अङ्गयागका अनुष्ठान किया तथा अवशिष्ट प्रधान हवियोंका हवन किया एवम् राजाके पुत्रलाभके लिए देवताओंसे वर मांगा॥१२॥

निष्ठां गते दत्त्रिमसभ्यतोषे विहित्रिमे कर्मणि राजपत्न्यः।
प्राशुर्हुतोच्छिष्टमुदारवंश्यास्तिस्रः प्रसोतुं चतुरः सुपुत्रान्॥१३॥

**अन्वयः—**दत्त्रिमसभ्यतोषे विहित्रिमे कर्मणि निष्ठां गते (सति) उदारवंश्याः तिस्रः राजपत्न्यः चतुरः सुपुत्रान् प्रसोतुं हुतोच्छिष्टं प्राशुः।

**प्रयोगप०—**उदारवंश्याभिः तिसृभिः राजपत्नीभिर्हुतोच्छिष्टं प्राशे।

**व्याख्या—**दत्त्रिमसभ्यतोषे=दानकृतसदस्यपरितोषे, विहित्रिमे=विधिनिर्वृत्ते (विहित इत्यर्थः), कर्मणि=पुत्रेष्टिकर्मणि, निष्ठां=समाप्तिं, गते=प्राप्ते (सति), उदारवंश्याः=महाकुलप्रसूताः, तिस्रः=त्रिसंख्याकाः, राजपत्न्यः=राजमहिष्यः (कौसल्याकैकेयीसुमित्रा इत्यर्थः), चतुरः=चतुःसंख्यकान्, सुपुत्रान्=सुन्दरसुतान् (रामभरतलक्ष्मणशत्रुघ्नानित्यर्थः), प्रसोतुम्=प्रसवितुम् (जनयितुम्), हुतोच्छिष्टं=हुतशेषं हविः, प्राशुः=भक्षयामासुः।

**व्युत्पत्तिः—**दत्त्रिमसभ्यतोषे=दानेन निर्वृत्तः, दत्त्रिमः, डुदाञ् दाने” इति धातोः “ड्वितः किः” इति किप्रत्ययः, तदन्तात् “क्रेर्मम्नित्यम्” इति मप् ततो “दो दद्धोः” इति ददादेशः। सभायां साधवः सभ्याः, “सभाया यः” इति यप्रत्ययः, “सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते।” इत्यमरः। सभ्यानां तोषः सभ्यतोषः (ष० त०), दत्त्रिमः सभ्यतोषः यस्मिन् तत् दत्त्रिमसभ्यतोषं, तस्मिन् (‘कर्मणि’ इत्यस्य विशेषणम्)। विहित्रिमे=विपूर्वकात् “डुधाञ् धारणपोषणयोः” इति धातोः पूर्ववत् किर्मप् च। उदारवंश्याः=उदारश्चाऽसौ वंशः उदारवंशः (क० धा०), तस्मिन् साध्व्यः उदारवंश्याः, अत्र “दिगादिभ्यो यत्” इत्यत्र तदन्तविधिनिषेधात् “तत्र साधुः” इति यत्। “उदारो दातृमहतोः” इत्यमरः। राजपत्न्यः=राज्ञः पत्न्यो राजपत्न्यः (ष० त०)। सुपुत्रान्=शोभनाः पुत्राः सुपुत्राः,तान् “कुगतिप्रादय” इति समासः। प्रसोतुं=“षूङ् प्राणिगर्भविमोचने” इति धातोः “समानकर्तृकेषु तुमुन्” इति तुमुन्, “स्वरतिसूतिसूयतिधूञूदितो वा” इति विकल्पादिङभावः। हुतोच्छिष्टं=हुतस्य उच्छिष्टं हुतोच्छिष्टं तत् (ष० त०), “अत्र दिव्यपुरुषोपनीतत्वात्तस्य होमानन्तरप्राप्तत्वात् हुतशिष्टत्वोपचारः” इति

मल्लिनाथः। प्राशुः=प्रपूर्वकात्“अश भोजने” इति धातो र्लिट् “अत आदेः” इत्यभ्यांसदीर्घः।

**भावार्थः—**ब्राह्मणपरितोषके यज्ञकर्मणि समाप्ते सति तिस्रः राजपत्न्यः (कौसल्या, कैकेयी सुमित्रा च) चतुरः पुत्रानुत्पादयितुं हविर्भक्षयामासुः।

**भाषाऽर्थः—**विधिपूर्वक अनुष्ठित यज्ञकर्मकी समाप्ति और साथ साथ दानसे सदस्य ब्राह्मणोंके सन्तुष्ट होने पर महाकुलोत्पन्न महारानी कौशल्या, कैकेयी और सुमित्राने चार पुत्रोंको पैदा करनेके लिए हुतशेष हवि खाया॥१३॥

कौसल्ययाऽसावि सुखेन रामः, प्राक्केकयीतो भरतस्ततोऽभूत्।
प्रासोष्ट शत्रुघ्नमुदारचेष्टमेका सुमित्रा सह लक्ष्मणेन॥१४॥

**अन्वयः—**प्राक् कौसल्यया रामः सुखेन असावि, ततः केकयीतः भरतः अभूत्; एका सुमित्रा लक्ष्मणेन सह उदारचेष्टं शत्रुघ्नं प्रासोष्ट।

**प्रयोगप०—^(….)**कौसल्या रामम्^(….)असविष्ट (वा असोष्ट), भरतेन अभावि, एकया सुमित्रया उदारचेष्टः शत्रुघ्नः प्रासावि।

**व्याख्या—**प्राक्=प्रथमं, कौसल्यया=कोसलराजपुत्र्या, रामः=रामचन्द्रः, सुखेन=अक्लेशेन, असावि=प्रसूतः, ततः= अनन्तरं, केकयीतः=केकयराजपुत्र्याः, भरतः=भरताऽऽख्यः पुत्रः, अभूत्=जातः, एका=एकका, सुमित्रा=सुमित्राऽऽख्या राजपत्नी, लक्ष्मणेन सह=तन्नाम्ना पुत्रेण समम्, उदारचेष्टं महापराक्रमं, शत्रुघ्नं=शत्रुघ्नाऽभिधानं पुत्रं, प्रासोष्ट=प्रसूतवती।

**व्युत्पत्तिः—**कौसल्यया=कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या, तया। “वृद्धेत्कोसलाजादाञ्ञ्यङ्” इति ञ्यङ्, ततः “यङश्चाप्” इति चाप्। रामः=रमन्ते योगिनः अस्मिन्निति रामः, “रमु क्रीडायाम्” इति धातोः “हलश्च” इत्यधिकरणे घञ्, “अत उपधायाः” इत्युपधावृद्धिश्च। असावि=षूङः कर्मणि लुङि चिणि रूपम्। ततः तस्मादिति ततः, पञ्चम्यर्थे तसिः। केकयीतः=केकयान् आचष्टे (जन्मभूमित्वेन) इति केकयी, णिच्। तदन्तात् “अच इः” इति औणादिक इप्रत्ययः, णिलोपः, “कृदिकारादक्तिनः” इति ङीष्। केकय्या इति केकयीतः, “अपादाने चाहीयरुहोः” इति तसिः। यदा केकयस्याऽपत्यं स्त्रीति विग्रहः, तदा “जनपदशब्दात्क्षत्रियादञ्” इति अञ्। “केकयमित्रयुप्रलयानां यादेरियः” इतीयादेशः। ‘टि-ड्ढाणञ्’ इत्यादिना ङीप्। ततः कैकेयीतिरूपम्। लक्ष्मणेन=“सह” पदेन योगे

“सहयुक्तेऽप्रधाने” इति तृतीया। अत्र लक्ष्मणस्य क्रियापदेन सह सम्बन्धाऽभावादप्रधानत्वात् शत्रुघ्नाऽपेक्षया न कनीयस्त्वं शङ्क्यम्। “पित्रा सहागतः पुत्रः” इत्यत्रेव शब्दक्रमाऽनुरोधेन पुत्राऽपेक्षया पितुरिव लक्ष्मणस्याऽपि शत्रुघ्नाऽपेक्षया ज्यायस्त्वमेव वेद्यम्। उदारचेष्टम्=उदारा चेष्टा यस्य स उदारचेष्टस्तम् (बहु०)। शत्रुघ्नं=शत्रून् हन्तीति शत्रुघ्नः तम्। “कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्” इति कप्रत्ययः। प्रासोष्ट=सूतेः कर्त्तरि लुङ्, विकल्पेडभावः।

**भावाऽर्थः—**कौसल्या रामं, केकयी भरतं, सुमित्रा च लक्ष्मणशत्रुघ्नौ यमौ प्रसूतवती।

**भाषाऽर्थः—**पहले कौसल्याने रामको, कैकयीने भरतको और सुमित्राने लक्ष्मण और शत्रुघ्नको पैदा किया॥१४॥

आर्चीद्द्विजातीन्परमाऽर्थविन्दानुदेजयान्भूतगणान्न्यषेधीत्।
विद्वानुपानेष्ट च तान्स्वकाले यतिर्वशिष्ठो यमिनां वरिष्ठः॥१५॥

**अन्वयः—**यमिनां वरिष्ठः विद्वान् यतिर्वशिष्ठःपरमार्थविन्दान् द्विजातीन् आर्चीत्, उदेजयान् भूतगणान् न्यषेधीत्, स्वकाले तान् उपानेष्ट च।

**प्रयोगप०—**वरिष्ठेन विदुषा यतिना वशिष्ठेन परमाऽर्थविन्दाः द्विजातयः आर्चिषत, उदेजयाः भूतगणाः न्यषेधिषत, ^(…) ते उपानायिषत (उपानेषत वा)।

**व्याख्या—**यमिनां=योगिनां, वरिष्ठः=श्रेष्ठः, विद्वान्=विधिज्ञः, यतिः=जितेन्द्रियः, वशिष्ठः=तन्नामकः पुरोहितः, परमाऽर्थ-विन्दान्=तत्त्वज्ञानलाभयुक्तान्, द्विजातीन् ब्राह्मणान्, आर्चीत्=पूजयामास, उदेजयान्=उत्कम्पान् (भयङ्करानित्यर्थः), भूतगणान्=बालग्रहादिसमूहान् न्यषेधीत्=उत्सादितवान् (मन्त्रैरितिशेषः), स्वकाले=आत्मसमये (क्षत्रोपनयनकाले इत्यर्थः। गर्भादेकादशे वर्षे इति यावत्), तान्=राजकुमारान् (रामादीनित्यर्थः), उपानेष्ट च= उपनीतवांश्च।

**व्युत्पत्तिः—**यमिनां=यमाः सन्ति येषां ते यमिनः, तेषाम्। यमाश्च “अहिंसासत्याऽस्तेयब्रह्मचर्याऽपरिग्रहा यमाः” इति पातञ्जलयोगदर्शनसूत्रादवगन्तव्याः। “अत इनिठनौ” इतीनिप्रत्ययः। वरिष्ठः=अतिशयेन उरुः वरिष्ठः, “अतिशायने तमबिष्ठनौ” इति इष्टन्प्रत्ययः, ततः “प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्वंहिगर्वर्षित्रब्द्राघिवृन्दाः” इति वरादेशः। यतिः=“ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते।” इत्यमरः। वशिष्ठः=वशोऽस्ति येषां ते

वशिनः (इनिप्रत्ययः)। वशिषु (जितेन्द्रियेषु) तिष्ठतीति वशिष्ठः, “सुपि स्थ” इत्यत्र योगविभागात्कप्रत्ययः। परमाऽर्थविन्दान्=परमश्चाऽसौ अर्थः परमाऽर्थः (क० धा०)। विन्दन्तीति विन्दाः, “विद्ऌ लाभे” इति धातोः “अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च” इति शः, “शे मुचादीनाम्” इति। नुम्। परमाऽर्थस्य विन्दाः परमाऽर्थविन्दास्तान् कर्मणि षष्ठी, तस्याः “कृद्योग च षष्ठीसमस्यत इति वाच्यम्” इति समासः। द्विजातीन्=द्वे (जन्मसंस्कारप्राप्ते) जाती येषां ते द्विजातयः, तान् (बहु०)। आर्चीत्=“अर्च पूजायाम्” इति धातोर्लुङि “इट ईटि” इति सकारलोपः। उदेजयान्=उदेजयन्तीति उदेजयास्तान्, पूर्वसूत्रेणैव उत्पूर्वकात् “एजृकम्पने” इति धातोः शप्रत्ययः। भूतगणान्=भूतानां गणा भूतगणास्तान् (ष० त०)। न्यषेधीत्=निपूर्वकात् “षिध गत्याम्” इति धातोर्लुङि “नेटि” इति हलन्तलक्षणवृद्धिनिषेधः। स्वकाले=स्वस्य कालः स्वकालस्तस्मिन्, तदुक्तं—“गर्भाऽष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम्। गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः॥” इति। उपानेष्ट=उपपूर्वकात् “णीञ् प्रापणे” इति धातोर्लुङि “सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः” इत्याचार्यकरणे आत्मनेपदम्।

**भावाऽर्थः—**पुरोहितो महर्षिर्वशिष्ठःतत्त्वज्ञानिनो ब्राह्मणान्पूजयामास, भयङ्करान् बालग्रहादीन् मन्त्रैरपसारयामास, उपनयनकाले तान् रामादीन् उपनीतवांश्च।

**भाषाऽर्थः—**विद्वान् वशिष्ठ ऋषिने तत्त्वज्ञानी ब्राह्मणोंकी पूजा की, भयङ्कर बालग्रह आदिको मन्त्रोंसे हटाया एवम् उचित कालमें राजपुत्रोंका उपनयन भी कराया॥१५॥

वेदोऽङ्गवांस्तैरखिलोऽध्यगायि, शस्त्राण्युपायंसत जित्वराणि।
ते भिन्नवृत्तीन्यपि मानसानि समं जनानां गुणिनोऽध्यवात्सुः॥१६॥

**अन्वयः—**तैः अखिलः अङ्गवान् वेदः अध्यगायि, जित्वराणि शस्त्राणि उपायंसत। गुणिनः ते भिन्नवृत्तीनि अपि जनानां मानसानि समम् अध्यवात्सुः।

**प्रयोगप०—**ते अखिलम् अङ्गवन्तं वेदम् अध्यगीषत (अध्यैषत वा), शस्त्राणि उपायंसत, गुणिभिस्तैः मानसानि^(….) अध्यवासिषत।

**व्याख्या—**तैः रामादिभिः कुमारैः, अखिलः=सम्पूर्णः अङ्गवान्=साङ्गः, वेदः=श्रुतिः (ऋगादिरित्यर्थः), अध्यगायि= अधीतः, जित्वराणि=जयशीलानि,

शस्त्राणि=आयुधानि (धनुरादीनि इत्यर्थः), उपायंसत=स्वीकृतानि। गुणिनः=गुणसम्पन्नाः, ते=रामादयः, भिन्नवृत्तीनि अपि=भिन्नरुचीनि अपि, जनानां=लोकानां, मानसानि=चित्तानि, समम्=तुल्यरूपम्, अध्यवात्सुः=अभ्युषितवन्तः।

**व्युत्पत्तिः—**अङ्गवान्=अङ्गानि सन्ति यस्मिन् सः (मतुप्), वेदाऽङ्गानि च षट् तानि यथा—“शिक्षा व्याकरणं छन्दो निरुक्तं ज्यौतिषं तथा। कल्प षडङ्गानि वेदस्याहुर्मनीषिणः॥” इति। अध्यगायि=अधिपूर्वात् “इङ् अध्ययने” इति धातोः कर्मणि लुङि “विभाषा लुङ्लृङोः” इति गाङादेशः। चिण्, युक् तलुक्च। जित्वराणि=“जि जये” इति धातोः"इण्नशजिसर्तिभ्यः क्वरप्” इति क्वरप्, “ह्रस्वस्य पिति कृति तुक्” इति तुगागमः। उपायंसत=उपपूर्वकात् “यम उपरमे” इति धातोः कर्मणि लुङ्। “उपाद्यमः स्वकरणे” इत्यात्मनेपदम्। “आत्मनेपदेष्वनतः” इत्यदादेशः। “हनः सिच्” इति ज्ञापकादनुनासिकलोपाभावः। भिन्नवृत्तीनि=भिन्ना वृत्तिर्येषां तानि भिन्नवृत्तीनि तानि (ब० व्री०)। मानसानि=मनांसि एव मानसानि, तानि (स्वाऽर्थे=प्रकृत्यर्थे) अण् ; “अध्यवात्सुः” इति पदेन योगे “उपान्वध्याङ्वसः” इत्यधिकरणस्य कर्मत्वम्। अध्यवात्सुः=अधिपूर्वात् “वस निवासे” इति धातोः लुङ्। सिचि “वदव्रजहलन्तस्याऽचः” इति वृद्धिः, “सः स्यार्धधातुके” इति सस्य तः, “सिजभ्यस्तविदिभ्यश्च” इति झेर्जुसादेशः।

**भावाऽर्थः—**रामादिभिः समस्तः साङ्गो वेदोऽधीतः, शस्त्रविद्याऽभ्यस्ता। गुणिनस्ते भिन्नरुचिष्वपि जनानां मानसेषु निवासं चक्रुः।

**भाषाऽर्थः—**राजकुमारोंने अङ्गपूर्वक सब वेदोंका अध्ययन किया, शस्त्रविद्यासीखी और मनुष्योंके भिन्न रुचिवाले हृदयोंमें स्थान पा लिया॥१६॥

ततोऽभ्यगाद्गाधिसुतः क्षितीन्द्रं रक्षोभिरभ्याहतकर्मवृत्तिः।
रामं वरीतुं परिरक्षणाऽर्थं राजाऽऽर्जिहत्तं मधुपर्कपाणिः॥१७॥

**अन्वयः—**ततः गाधिसुतः रक्षोभिः अभ्याहतकर्मवृत्तिः (सन्) परिरक्षणाऽर्थं रामं वरीतुं क्षितीन्द्रम् अभ्यगात्। राजा मधुपर्कपाणिः (सन्) तम् आर्जिहत्।

** प्रयोगप०—^(…)**गाधिसुतेन^(…)अभ्याहतकर्मवृत्तिना^(…) क्षितीन्द्रः अभ्यगायि,राज्ञा मधुपर्कपाणिना सः आर्हि।

**व्याख्या—**ततः=अनन्तरं, गाधिसुतः=विश्वामित्रः, रक्षोभिः=राक्षसैः, अभ्याहतकर्मवृत्तिः=अभिहतयागादिप्रवृत्तिः (सन्), परिरक्षणार्थं=यज्ञरक्षणार्थं, रामं=

दशरथज्येष्ठपुत्रं, वरीतुं=स्वीकर्तुं, क्षितीन्द्रं=राजानम् (दशरथमित्यर्थः), अभ्यगात्=अभिगतवान्, राजा दशरथः, मधुपर्कपाणिः=दधिमधुघृतयुक्तपाणिः (सन्), तं=विश्वामित्रम्, आर्जिहत्=अपूजयत्।

**व्युत्पत्तिः—**गाधिसुतः=गाधेः सुतो गाधिसुतः (ष० त०)। रक्षोभिः=“यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी।” इत्यमरः। अभ्याहतकर्मवृत्तिः=कर्मणो वृत्तिः कर्मवृत्तिः (ष० त०), अभ्याहता कर्मवृत्तिर्यस्य सः (बहु०)। परिरक्षणाऽर्थं= परिक्षणाय इदमिति परिरक्षणाऽर्थम्, तद् यथा तथा (क्रियाविशेषणम्)। “अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्” इति चतुर्थीतत्पुरुषः। वरीतुं=“वृञ् वरणे” इति धातोस्तुमुन्, “वृृतो वा” इति इटो दीर्घत्वम्। क्षितीन्द्रं=क्षितेरिन्द्रः क्षितीन्द्रस्तम् (ष० त०), “क्षोणिर्ज्या काश्यपी क्षितिः।” इत्यमरः। अभ्यगात्=“इण् गतौ” इति धातोर्लुङ्, “इणो गा लुङि” इति इणो गादेशः। मधुपर्कपाणिः=दधिमधुघृतानि एकीकृतानि “मधुपर्क” इत्युच्यते, “दधि मधु घृतमिति त्रिवृत्” इति पारस्करगृह्यसूत्रम्। मधुपर्कः पाणौ यस्य सः (व्यधिकरणबहुव्रीहिः)। आर्जिहत्=“अर्हपूजायाम्” इति चौरादिकधातोर्लुङ्। “णिश्रिद्रुस्रुभ्यः कर्तरि चङ्” इति चङ्, णिलोपः “द्विर्वचनेऽचि"इति स्थानिवद्भावात् “अजादेर्द्वितीयस्य” इति हिशब्दो द्विरुच्यते। रेफस्य “न न्द्राः संयोगादयः” इति द्वित्वप्रतिषेधः। चुत्वम्, आट् वृद्धिश्च। मधुपर्कपूजनीयाश्च—“षडर्घ्याभवन्त्याचार्य ऋत्विग्वैवाह्यो राजा प्रियः स्नातक इति” इति पारस्करगृह्यसूत्रेण ज्ञेयाः।

**भावाऽर्थः—**ततो विश्वामित्रो राक्षसैः यज्ञकर्मसु प्रतिबन्धमनुभूय यज्ञरक्षणार्थं रामं प्रार्थयितुं दशरथमभ्यगात्, राजाऽपि मधुपर्केण तं पूजयामास ।

**भाषाऽर्थः—**तबमहर्षि विश्वामित्र यज्ञोंमें राक्षसोंसे विघ्न होनेपर यज्ञरक्षाके लिए रामको माँगनेके लिए महाराज दशरथके पास आये, दशरथने भी मधुपर्क(दही, शहद और घी) से उनकी पूजा की॥१७॥

ऐषीः पुनर्जन्मजयाय यत्त्वं रूपादिवोधान्न्यवृतच्च यत्ते।
तत्त्वान्यबुद्धाः प्रतनूनि येन ध्यानं नृपस्तच्छिवमित्यवादीत्॥१८॥

**अन्वयः—**त्वं पुनर्जन्मजयाय यत् (ध्यानम्) ऐषीः, ते यच्च (ध्यानम्) रूपादिबोधात् न्यवृतत्। (त्वम्) येन (ध्यानेन) प्रतनूनि तत्त्वानि अबुद्धाः, तत् ध्यानं शिवम् ? इति नृपः अवादीत्।

**प्रयोगप०—**त्वया^(….)यत् ध्यानम् ऐषि, येन (ध्यानेन)^(…)न्यवर्ति, त्वया^(….)तत्त्वानि^(….)अबोधिषत, तेन ध्यानेन शिवेन (भूयते) ? इति नृपेण (सः) अवादि।

**व्याख्या—**त्वं=भवान्, पुनर्जन्मजयाय=अपुनरावृत्तये, यत्=ध्यानम्, ऐषीः=काङ्क्षितवानसि, ते=तव, यच्च=ध्यानं, रूपादिबोधात्=रूपादिविषयज्ञानात्, न्यवृतत्=निवृत्तम्, (त्वम्) येन=ध्यानेन, प्रतनूनि=अतिसूक्ष्माणि तत्त्वानि=प्रकृतिपुरुषादिपञ्चविंशतितत्त्वानि, अबुद्धाः=अज्ञासीः, तत्=पूर्वोक्तं, ध्यानम्=ईश्वरचिन्तनं, शिवम्=अक्षतम् ? इति=इत्थं नृपः=राजा, अवादीत्=अकथयत्।

**व्युत्पत्तिः—**पुनर्जन्मजयाय=पुनर्जन्मनो जयः पुनर्जन्मजयः (ष० त०), तस्मै। ऐषीः=“इष गतौ” इति धातोर्लुङ् ये गत्यर्थास्ते ज्ञानार्थाः। रूपादिबोधात्=रूपम् आदिर्येषां ते रूपादयः विषयाः (बहु०), तेषां बोधस्तस्मात् (ष० त०)।न्यवृतत्=निपूर्वात् “वृतु वर्तने” इति धातोर्लुङ्। द्युतादित्वात् “द्युद्भ्योलुङि” इति परस्मैपदम्, च्लेरङ् च। प्रतनूनि=प्रकर्षेण तनूनि प्रतनूनि (सुप्सुपा समासः), “स्तोकाऽल्पक्षुल्लकाः श्लक्ष्णं सूक्ष्मं दभ्रं कृशं तनु” इत्यमरः। अबुद्धाः=“बुध अवगमने” इति धातोर्लुङ्। थासि, “लिङ्सिचावात्मनेपदेषु” इति सिचः कित्वान्न लघूपधगुणः। “झलो झलि” इति सिज्लोपः, “झषस्तथोर्धोऽधः” इति धत्वम्। अवादीत्=“वद व्यक्तायां वाचि” इति धातोः लुङ्। “वदव्रजहलन्तस्याऽचः” इति सिचि वृद्धिः।

भावाऽर्थः—“भवानपुनरावृत्तये यद्ध्यानं काङ्क्षितवान्, यच्च भवद्ध्यानं रूपादिविषयाऽनुभवान्निवृत्तं येन ध्यानेन भवान् प्रकृतिपुरुषादीनि तत्वानि ज्ञातवान् तद्ध्यानमक्षतमस्ति कञ्चि”दिति राजा विश्वामित्रमवादीत्।

भाषाऽर्थः—“आपने पुनर्जन्म हटानेके लिए जिस ध्यानकी इच्छा की थी, आपका जो ध्यान रूप आदि विषयोंके ज्ञानसे निवृत्त हुआ था, आप जिस ध्यानसे अत्यन्त सूक्ष्म प्रकृति पुरुष आदि तत्त्वोंको जान गये हैं वह ध्यान तो निर्विघ्न है ?” राजाने विश्वामित्रसे ऐसा प्रश्न किया॥१८॥

आख्यन्मुनिस्तस्य शिवं समाधेर्विघ्नन्ति रक्षांसि वने क्रतूंश्च।
तानि द्विषद्वीर्यनिराकरिष्णुस्तृणेढु रामः सह लक्ष्मणेन॥१९॥

**अन्वयः—**मुनिस्तस्य समाधेः शिवमाख्यत्। “वने रक्षांसि क्रतून् विघ्नन्ति, द्विषद्वीर्यनिराकरिष्णुः रामः लक्ष्मणेन सह तानि तृणेढु” (इति च आख्यत्)।

**प्रयोगप०—**मुनिना शिवमाख्यायि। “रक्षोभिः क्रतवो विहन्यन्ते, द्विषद्वीर्यनिराकरिष्णुना रामेण तानि तृह्यन्ताम्” (इति च आख्यायि)।

**व्याख्या—**मुनिः=ऋषिः (विश्वामित्र इत्यर्थः)। तस्य=राज्ञः, समाधेः=ध्यानस्य, शिवं=कल्याणम्, आख्यत्=आख्यातवान्, “वने=अरण्ये, रक्षांसि=राक्षसाः, क्रतून्=यज्ञान्, विघ्नन्ति=प्रतिबध्नन्ति, द्विषद्वीर्यनिराकरिष्णुः=वैरिविक्रमनिराकरणशीलः, रामः=त्वज्ज्येष्ठपुत्रः, लक्ष्मणेन सह=त्वत्तृतीयपुत्रेण समं, तानि=रक्षांसि तृणेढु=हिनस्तु” (इति च आख्यत्)।

**व्युत्पत्तिः—**शिवं=“श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्।” इत्यमरः। आख्यत्=“ख्या प्रकथने” इति धातोर्लुङ्, “अस्यतिवक्तिख्यातिभ्योऽङ्” इति च्लेरङादेशः। “आतो लोप इटि च” इत्याकारलोपः। विध्नन्ति=विपूर्वात् “हन हिंसागत्योः” इति धातोर्लट्। “गमहनजनखनघसां लोपः क्ङित्यनङि” इति उपधालोपः। “हो हन्तेर्ञ्णिन्नेषु” इति कुत्वम्। द्विषद्वीर्यनिराकरिष्णुः=द्विषतां वीर्यं (पराक्रमः) द्विषद्वीर्यम् (ष० त०)। निराकरणशीलः निराकरिष्णुः, “अलङकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्” इति इष्णुच्। द्विषद्वीर्यस्य निराकरिष्णुः द्विषद्वीर्यनिराकरिष्णुः (शेषे षष्ठी, ततः समासः)। तृणेढु=“तृह .. हिंसायाम्” इति धातोर्लोट्। “एरुः” इति उत्वम्। “रुधादिभ्यः श्नम्” इति श्नम्, “तृणह इम्” इति इमागमः, गुणः, “हो ढः” इति ढत्वम्, ष्टुत्वं “ढो ढे लोपः” इति ढलोपश्च।

**भावाऽर्थः—**विश्वामित्रः राज्ञे ध्यानस्य अप्रतिबन्धमकथयत्, “परन्तु वने राक्षसा यज्ञे विघ्नमाचरन्ति; अतः रामो लक्ष्मणेन सह तान् निराकरोतु” इति चाऽब्रवीत्।

**भाषाऽर्थः—**विश्वामित्रने दशरथको ध्यानकी कुशलता कहनेके साथ—“वनमें राक्षसलोग यज्ञोंमें विघ्न करते हैं, अतः शत्रुपराक्रमको नाश करने वाले रामचन्द्रजी लक्ष्मणके साथ वहां जा कर उनको मारें” यह भी कहा॥१९॥

स शुश्रुवांस्तद्वचनं मुमोह राजाऽसहिष्णुः सुतविप्रयोगम्।
अहंयुनाऽथ क्षितिपः शुभंयुरूचे वचस्तापसकुञ्जरेण॥२०॥

**अन्वयः—**सुतविप्रयोगम् असहिष्णुः स राजा तद्वचनं शुश्रुवान् (सन्) मुमोह। अथ अहंयुना तापसकुञ्जरेण शुभंयुः क्षितिपः वचः ऊचे।

** प्रयोगप०—**सुतविप्रयोगम् असहिष्णुना तेन राज्ञा तद्वचनं शुश्रूषा (सता) मुमुहे, अहंयुस्तापसकुञ्जरः शुभंयुं क्षितिपं वच उवाच।

**व्याख्या—**सुतविप्रयोगं=पुत्रविरहम्, असहिष्णुः=असहनशीलः, सः=पूर्वोक्तः, राजा=दशरथः, तद्वचनं= विश्वामित्रभाषितं (मया सह सलक्ष्मणो रामो राक्षसविनाशाय वनं प्रेष्यतामित्याकारकम्), शुश्रुवान्=श्रुतवान् (सन्), मुमोह=मोहं गतः, अथ=अनन्तरम्, अहंयुना अहङ्कारयुक्तेन, तापसकुञ्जरेण=तपस्विश्रेष्ठेन (विश्वामित्रेण इत्यर्थः), शुभंयुः=शुभाऽन्वितः, क्षितिपः=राजा, वचः=वाचम्, ऊचे=उक्तः॥२०॥

**व्युत्पत्तिः—**सुतविप्रयोगं=सुतेन विप्रयोगः सुतविप्रयोगः, तम्, “कर्तृकरणे कृता बहुलम्” इति समासः, “न लोकाऽव्यय-निष्ठाखलर्थतृनाम्” इति षष्ठीनिषेधात् कर्मणि द्वितीया। असहिष्णुः=“षह मर्षणे” इति धातोः “अलङ्कृञ्॰” इत्यादिना इष्णुच्’ ततः न सहिष्णुः असहिष्णुः=(नञ्०)। तद्वचनं=तस्य वचनं तद्वचनं तत् (ष० त०)। शुश्रुवान्=“श्रु श्रवणे” इति धातोः “भाषायां सदवसश्रुवः” इति लिटः क्वसुरादेशः। मुमोह=“मुह वैचित्ये” इति धातोर्लिट्। अहंयुना=अहमस्याऽस्तीति अहंयुस्तेन, अहमिति माऽन्तम् (विभक्तिप्रतिरूपकम्) अव्ययं, तस्मात् “अहं शुभमोर्युस्” इति युस्, “अहङ्कारवानहंयुः” इत्यमरः। तापसकुञ्जरेण=तापसश्चाऽसौ कुञ्जरः तापसकुञ्जरः, तेन “वृन्दारकनागकुञ्जरैः पूज्यमानम्” इति समासः। शुभंयुः= शुभमस्याऽस्तीति शुभंयुः, शुभमिति मान्तमव्ययम्, तस्मात् पूर्ववत् युस्, “शुभंयुस्तु शुभान्वितः” इत्यमरः। क्षितिपः=क्षितिं पातीति क्षितिपः, “पा रक्षणे” इति धातोः कः। ऊचे=‘ब्रूञ व्यक्तायां वाचि” इति धातोर्दुहादित्वादप्रधाने कर्मणि लिट् सम्प्रसारणं च। “अहंयुनाथ” इति पाठान्तरम्, तत्र अहंयूनां क्षत्रियाणां नाथ इति योज्यम्।

**भावाऽर्थः—**पुत्रविरहाऽसहनशीलो दशरथः ऋषिवचः श्रुत्वा मोहं गतः, अनन्तरं तेजस्वी विश्वामित्रो राजानमुवाच।

**भाषाऽर्थः—**पुत्रविरह सहनेमें असमर्थ राजाको ऋषिवचन सुनने पर मोह हुआ, तब अहङ्कारयुक्त श्रेष्ठ तपस्वी विश्वामित्रने राजासे कहा॥२०॥

मया त्वमाप्थाः शरणं भयेषु, वयं त्वयाऽऽप्याप्स्महि धर्मवृद्ध्यै।
क्षात्रं द्विजत्वं च परस्पराऽर्थं शङ्कां कृथा मा, प्रहिणु स्वसूनुम्॥२१॥

अन्वयः—(हे राजन् !) भयेषु धर्मवृद्ध्यै मया त्वं शरणम् आप्थाः, त्वया अपि वयं धर्मवृद्ध्यै शरणम् आप्स्महि। क्षात्रं द्विजत्वं च परस्परार्थम्। शङ्कां मा कृथाः स्वसूनुं प्रहिणु।

**प्रयोगप—**अहं त्वां शरणम् आपम्, त्वमपि अस्मान् शरणम् आपः। क्षात्रेण द्विजत्वेन च परस्पराऽर्थेन (भूयते)। शङ्का मा कारि, स्वसूनुः प्रहीयताम्।

व्याख्या—(हे राजन् !) भयेषु=भीतिषु, धर्मवृद्ध्यै=पुण्योपचयाय, मया=ऋषिणा, त्वं=भवान्, शरणम्=रक्षिता (सन्), आप्थाः=प्राप्तोऽसि, त्वया अपि=भवता अपि, वयम्=ऋषयः, धर्नवृद्ध्यै=पुण्योपचयाय, शरणं=रक्षितारः, आप्स्महि= प्राप्ताः स्मः (अहमपि प्राप्त इत्यर्थः), क्षात्रं=क्षत्रतेजः, द्विजत्वं च=ब्रह्मतेजश्च, परस्पराऽर्थम=अन्योन्योपकाराऽर्थम् (भवतीति शेषः), शङ्कां=सन्देहं (अनर्थोत्प्रेक्षामित्यर्थः), मा कृथाः=मा कुरु, स्वसूनुम्=आत्मपुत्रं (राममित्यर्थः), प्रहिणु= प्रेषय।

**व्युत्पत्तिः—**धर्मवृद्ध्यै=धर्मस्य वृद्धिर्धर्मवृद्धिः, तस्यै (ष० त०)। शरणं=“शरणं गृहरक्षित्रोः” इत्यमरः। आप्थाः=“आप्लृ व्याप्तौ” इति धातोः कर्मणि लुङ्। सिज्लोपः। वयम्=“अस्मदो द्वयोश्च” इत्येकत्वे बहुवचनम्। आप्स्महि= पूर्ववल्लुङ्, सिचो लोपाऽभावः, मकारस्य अझल्त्वात्। क्षात्रं=क्षत्रस्येदं क्षात्रम्, “तस्येदम्” इत्यण्, “तद्धितेष्वचामादेः” इत्यादिवृद्धिश्च। द्विजत्वं=द्विजस्य भावो द्विजत्वम्, “तस्य भावस्त्वतलौ” इति त्वप्रत्ययः। “त्वाऽन्तं क्लीबम्"इति लिङ्गाऽनुशासनम्। परस्पराऽर्थं=परस्परायेदम् (च० त०)। तदुक्तम्—“नाऽब्रह्म क्षत्रमृध्नोति नाऽक्षत्रं ब्रह्म वर्द्धते। ब्रह्मक्षत्रं च सम्पृक्तमिह चाऽमुत्र वर्द्धते॥” इति मनुः॥ मा कृथाः=“डुकृञ् करणे” इति धातोः “माङि लुङ्” इति लुङ् “न माङ्योगे” इत्यडभावः। “उश्च” इति कित्वाद्गुणाऽभावः। “ह्रस्वादङ्गात्” इति सिचो लोपः। स्वसूनुं=स्वस्य सूनुः स्वसूनुस्तम् (ष० त०)। प्रहिणु=“हि गतौ वृद्धौ च” इति धातोः प्रार्थनायां लोट्। “स्वादिभ्यः श्नुः” इति श्नुः। अपित्त्वात् ङित्वम्, गुणाऽभावः। “उतश्च प्रत्ययादसंयोगपूर्वात्” इति हेर्लुक्। “हिनुमीना” इति णत्वम्।

**भावाऽर्थः—**हे राजन् ! यज्ञादिविघ्नेषु वयं त्वां रक्षकत्वेन गच्छामः त्वमपि

तथैवाऽस्मान् गच्छसि, क्षत्रतेजो ब्रह्मतेजश्च परस्परोपकाराऽर्थमस्ति, शङ्कां मा कुरु मया सह रामं प्रेषय।

**भाषाऽर्थः—**हे राजन् ! यज्ञ आदि कर्मोंमें विघ्न पड़ने पर धर्मवृद्धिके लिए हम तुम्हारे शरणमें जाते हैं, उसी तरह तुम भी हमारे शरणमें आते हो। क्षत्रियतेज और ब्रह्मतेज परस्परमें उपकारके लिए है, अतः शङ्का मत करो अपने लड़केको मेरे साथ भेजो॥२१॥

घानिष्यते तेन महान्विपक्षः, स्थायिष्यते येन रणे पुरस्तात्।
मामां महात्मन् ! परिभूरयोग्ये, न मद्विधो न्यस्यति भारमग्र्यम्॥२२॥

**अन्वयः—**येन (रामेण) रणे पुरस्तात् स्थायिष्यते तेन महान् विपक्षः घानिष्यते। हे महात्मन् ! मां मा परिभूः, मद्विधः अयोग्ये अग्र्यंभारं न न्यस्यति॥२२॥

**प्रयोगप०—**यः स्थास्यति स महान्तं विपक्षं हनिष्यति। अहं मा परिभाविषि (परिभविषि वा), मद्विधेन अग्र्योभारो न न्यस्यते।

**व्याख्या—**येन=रामेण, रणे=युद्धे, पुरस्तात्=अग्रे, स्थायिष्यते स्थास्यते, तेन=रामेण, महान्=प्रबलः, विपक्षः=शत्रुः (रावणादिरित्यर्थः), घानिष्यते=हनिष्यते, हे महात्मन्=हे महासत्व !, मां=मुनिं, मा परिभूः=न अवज्ञासीः, (प्रत्याख्यानेन न अवमन्यस्वेत्यर्थः), मद्विधः=मादृशः (विमृश्यकारीत्यर्थः), अयोग्ये=असमर्थे, अग्र्यं=गुरुं, भारं=धुरं, न न्यस्यति=न निधत्ते (तस्मान्मा शङ्किष्ठा इत्यर्थः)।

**व्युत्पत्तिः—**पुरस्तात्=पूर्वस्मिन्निति पुरस्तात्, “दिक्छब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः” इति अस्तातिः, “अस्ताति च” इति पुरादेशः। स्थायिष्यते=“ष्ठा गतिनिवृत्तौ” इति धातोर्भावे ऌट्। “स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च” इति चिण्वदिड्वा। “आतो युक् चिण्कृतोः” इति युगागमश्च। विपक्षः=विरुद्धः पक्षः विपक्षः, प्रादिसमासः यद्वा विरुद्धः पक्षो यस्य सः (बहु०)। “द्विङ्विपक्षाऽहिताऽमित्रदस्यु- शात्रवशत्रवः।” इत्यमरः। घानिष्यते=हनधातोः कर्मणि लृट्, पूर्ववच्चिण्वदिट्, आदिवृद्धिः “हो हन्तेर्ञ्णिन्नेषु” इति कुत्वं च। मा परिभूः=भूधातोः “माङि लुङ्” इति लुङ्,“न माङ्योगे” इत्यडभावः। मद्विधः=मम इव विधा (सादृश्यम्) यस्य स मद्विधः (बहु०), “प्रत्ययोत्तरपदयोश्च” इत्यस्मच्छब्दस्य

** प्रयोगप०—**मुनिना शिवमाख्यायि। “रक्षोभिः क्रतवो विहन्यन्ते, द्विषद्वीर्यनिराकरिष्णुना रामेण तानि तृह्यन्ताम्” (इति च आख्यायि)।

**व्याख्या—**मुनिः=ऋषिः (विश्वामित्र इत्यर्थः)। तस्य=राज्ञः, समाधेः=ध्यानस्य, शिवं=कल्याणम्, आख्यत्=आख्यातवान्, “वने=अरण्ये, रक्षांसि=राक्षसाः, क्रतून्=यज्ञान्, विघ्नन्ति=प्रतिबध्नन्ति, द्विषद्वीर्यनिराकरिष्णुः=वैरिविक्रमनिराकरणशीलः, रामः=त्वज्ज्येष्ठपुत्रः, लक्ष्मणेन सह=त्वत्तृतीयपुत्रेण समं, तानि=रक्षांसि, तृणेढु=हिनस्तु” (इति च आख्यत्)।

**व्युत्पत्तिः—**शिवं=“श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्।” इत्यमरः। आख्यत्=“ख्या प्रकथने” इति धातोर्लुङ्, “अस्यतिवक्तिख्यातिभ्योऽङ्” इति च्लेरङादेशः। “आतो लोप इटि च” इत्याकारलोपः। विघ्नन्ति=विपूर्वात् “हन हिंसागत्योः” इति धातोर्लट्। “गमहनजनखनघसां लोपः क्ङित्यनङि” इति उपधालोपः। “हो हन्तेर्ञ्णिन्नेषु” इति कुत्वम्। द्विषद्वीर्यनिराकरिष्णुः=द्विषतां वीर्यं (पराक्रमः) द्विषद्वीर्यम् (ष० त०)। निराकरणशीलः निराकरिष्णुः, “अलङकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्” इति इष्णुच्। द्विषद्वीर्यस्य निराकरिष्णुः द्विषद्वीर्यनिराकरिष्णुः (शेषे षष्ठी, ततः समासः) तृणेढु=“तृह .. हिंसायाम्” इति धातोर्लोट्। “एरुः” इति उत्वम्। “रुधादिभ्यः श्नम्” इति श्नम्, “तृणह इम्” इति इमागमः, गुणः, “हो ढः” इति ढत्वम्, ष्टुत्वं “ढो ढे लोपः” इति ढलोपश्च।

**भावाऽर्थः—**विश्वामित्रः राज्ञे ध्यानस्य अप्रतिबन्धमकथयत्, “परन्तु वने राक्षसा यज्ञे विघ्नमाचरन्ति; अतः रामो लक्ष्मणेन सह तान् निराकरोतु” इति चाऽब्रवीत्।

**भाषाऽर्थः—**विश्वामित्रने दशरथको ध्यानकी कुशलता कहनेके साथ–“वनमें राक्षसलोग यज्ञोंमें विघ्न करते हैं, अतः शत्रुपराक्रमको नाश करने वाले रामचन्द्रजी लक्ष्मणके साथ वहां जा कर उनको मारें” यह भी कहा॥१९॥

स शुश्रुवांस्तद्वचनं मुमोह राजाऽसहिष्णुः सुतविप्रयोगम्।
अहंयुनाऽथ क्षितिपः शुभंयुरूचे वचस्तापसकुञ्जरेण॥२०॥

**अन्वयः—**सुतविप्रयोगम् असहिष्णुः स राजा तद्वचनं शुश्रुवान् (सन्) मुमोह। अथ अहंयुना तापसकुञ्जरेण शुभंयुः क्षितिपः वचः ऊचे।

** प्रयोगप०—**सुतविप्रयोगम् असहिष्णुना तेन राज्ञा तद्वचनं शुश्रूषा (सता) मुमुहे, अहंयुस्तापसकुञ्जरः शुभंयुं क्षितिपं वच उवाच।

**व्याख्या—**सुतविप्रयोगं=पुत्रविरहम्, असहिष्णुः=असहनशीलः, सः=पूर्वोक्तः, राजा=दशरथः, तद्वचनं= विश्वामित्रभाषितं (मया सह सलक्ष्मणो रामो राक्षसविनाशाय वनं प्रेष्यतामित्याकारकम्), शुश्रुवान्=श्रुतवान् (सन्), मुमोह=मोहं गतः, अथ=अनन्तरम्, अहंयुना अहङ्कारयुक्तेन, तापसकुञ्जरेण=तपस्विश्रेष्ठेन (विश्वामित्रेण इत्यर्थः), शुभंयुः=शुभाऽन्वितः, क्षितिपः=राजा, वचः=वाचम्, ऊचे=उक्तः॥२०॥

**व्युत्पत्तिः—**सुतविप्रयोगं=सुतेन विप्रयोगः सुतविप्रयोगः, तम्, “कर्तृकरणे कृता बहुलम्” इति समासः, “न लोकाऽव्यय-निष्ठाखलर्थतृनाम्” इति षष्ठीनिषेधात् कर्मणि द्वितीया। असहिष्णुः=“षह मर्षणे” इति धातोः “अलङ्कृञ्॰” इत्यादिना इष्णुच्’ ततः न सहिष्णुः असहिष्णुः=(नञ्०)। तद्वचनं=तस्य वचनं तद्वचनं तत् (ष० त०)। शुश्रुवान्=“श्रु श्रवणे” इति धातोः “भाषायां सदवसश्रुवः” इति लिटः क्वसुरादेशः। मुमोह=“मुह वैचित्ये” इति धातोर्लिट्। अहंयुना=अहमस्याऽस्तीति अहंयुस्तेन, अहमिति माऽन्तम् (विभक्तिप्रतिरूपकम्) अव्ययं, तस्मात् “अहं शुभमोर्युस्” इति युस्, “अहङ्कारवानहंयुः” इत्यमरः। तापसकुञ्जरेण=तापसश्चाऽसौ कुञ्जरः तापसकुञ्जरः, तेन “वृन्दारकनागकुञ्जरैः पूज्यमानम्” इति समासः। शुभंयुः= शुभमस्याऽस्तीति शुभंयुः, शुभमिति मान्तमव्ययम्, तस्मात् पूर्ववत् युस्, “शुभंयुस्तु शुभान्वितः” इत्यमरः। क्षितिपः=क्षितिं पातीति क्षितिपः, “पा रक्षणे” इति धातोः कः। ऊचे=‘ब्रूञ व्यक्तायां वाचि” इति धातोर्दुहादित्वादप्रधाने कर्मणि लिट् सम्प्रसारणं च। “अहंयुनाथ” इति पाठान्तरम्, तत्र अहंयूनां क्षत्रियाणां नाथ इति योज्यम्।

**भावाऽर्थः—**पुत्रविरहाऽसहनशीलो दशरथः ऋषिवचः श्रुत्वा मोहं गतः, अनन्तरं तेजस्वी विश्वामित्रो राजानमुवाच।

**भाषाऽर्थः—**पुत्रविरह सहनेमें असमर्थ राजाको ऋषिवचन सुनने पर मोह हुआ, तब अहङ्कारयुक्त श्रेष्ठ तपस्वी विश्वामित्रने राजासे कहा॥२०॥

मया त्वमाप्थाः शरणं भयेषु, वयं त्वयाऽऽप्याप्स्महि धर्मवृद्ध्यै।
क्षात्रं द्विजत्वं च परस्पराऽर्थं शङ्कां कृथा मा, प्रहिणु स्वसूनुम्॥२१॥

अन्वयः—(हे राजन् !) भयेषु धर्मवृद्ध्यै मया त्वं शरणम् आप्थाः, त्वया अपि वयं धर्मवृद्ध्यै शरणम् आप्स्महि। क्षात्रं द्विजत्वं च परस्परार्थम्। शङ्कां मा कृथाः स्वसूनुं प्रहिणु।

**प्रयोगप०—**अहं त्वां शरणम् आपम् त्वमपि अस्मान् शरणम् आपः। क्षात्रेण द्विजत्वेन च परस्पराऽर्थेन (भूयते)। शङ्का मा कारि, स्वसूनुः प्रहीयताम्।

व्याख्या—(हे राजन् !) भयेषु=भीतिषु, धर्मवृद्ध्यै=पुण्योपचयाय, मया=ऋषिणा, त्वं=भवान्, शरणम्=रक्षिता (सन्), आप्थाः=प्राप्तोऽसि, त्वया अपि=भवता अपि, वयम्=ऋषयः, धर्मवृद्ध्यै=पुण्योपचयाय, शरणं=रक्षितारः, आप्स्महि= प्राप्ताः स्मः (अहमपि प्राप्त इत्यर्थः), क्षात्रं=क्षत्रतेजः, द्विजत्वं च=ब्रह्मतेजश्च, परस्पराऽर्थम=अन्योन्योपकाराऽर्थम् (भवतीति शेषः), शङ्कां=सन्देहं (अनर्थोत्प्रेक्षामित्यर्थः), मा कृथाः=मा कुरु, स्वसूनुम्=आत्मपुत्रं (राममित्यर्थः), प्रहिणु=प्रेषय।

**व्युत्पत्तिः—**धर्मवृद्ध्यै=धर्मस्य वृद्धिर्धर्मवृद्धिः, तस्यै (ष० त०)। शरणं=“शरणं गृहरक्षित्रीः” इत्यमरः। आप्थाः= “आप्लु व्याप्तौ” इति धातोः कर्मणि लुङ्। सिज्लोपः। वयम्=“अस्मदो द्वयोश्च” इत्येकत्वे बहुवचनम्। आप्स्महि= पूर्ववल्लुङ्, सिचो लोपाऽभावः, मकारस्य अझल्त्वात्। क्षात्रं=क्षत्रस्येदं क्षात्रम्, “तस्येदम्” इत्यण्, “तद्धितेष्वचामादेः” इत्यादिवृद्धिश्च।द्विजत्वं=द्विजस्य भावो द्विजत्वम्, “तस्य भावस्त्वतलौ” इति त्वप्रत्ययः। “त्वाऽन्तं क्लीवम्” इति लिङ्गाऽनुशासनम्। परस्पराऽर्थं=परस्परायेदम् (च० त०)। तदुक्तम्—“नाऽब्रह्म क्षत्रमृध्नोति नाऽक्षत्रं ब्रह्म वर्द्धते। ब्रह्मक्षत्रं च सम्पृक्तमिह चाऽमुत्र वर्द्धते॥” इति मनुः॥ मा कृथाः=“डुकृञ् करणे” इति धातोः “माङि लुङ्” इति लुङ् “न माङ्योगे” इत्यडभावः। “उश्च” इति कित्वाद्गुणाऽभावः। “ह्रस्वादङ्गात्” इति सिचो लोपः। स्वसूनुं=स्वस्य सूनुः स्वसूनुस्तम् (ष० त०)। प्रहिणु=“हि गतौ वृद्धौ च” इति धातोः प्रार्थनायां लोट्। “स्वादिभ्यः श्नुः” इति श्नुः। अपित्त्वात् ङित्वम् गुणाऽभावः। “उतश्च प्रत्ययादसंयोगपूर्वात्” इति हैर्लुक्। “हिनुमीना” इति णत्वम्।

**भावार्थः—**हे राजन् ! यज्ञादिविघ्नेषु वयं त्वां रक्षकत्वेन गच्छामः त्वमपि

तथैवाऽस्मान् गच्छसि, क्षत्रतेजो ब्रह्मतेजश्च परस्परोपकाराऽर्थमस्ति, शङ्कां मा कुरु मया सह रामं प्रेषय।

**भाषाऽर्थः—**हे राजन् ! यज्ञ आदि कर्मोंमें विघ्न पड़ने पर धर्मवृद्धिके लिए हम तुम्हारे शरणमें जाते हैं, उसी तरह तुम भी हमारे शरणमें आते हो। क्षत्रियतेज और ब्रह्मतेज परस्परमें उपकारके लिए है, अतः शङ्का मत करो अपने लड़केको मेरे साथ भेजो॥२१॥

घानिष्यते तेन महान्विपक्षः, स्थायिष्यते येन रणे पुरस्तात्।
मा मां महात्मन् ! परिभूरयोग्ये, न मद्विधो न्यस्यति भारमग्र्यम्॥२२॥

**अन्वयः—**येन (रामेण) रणे पुरस्तात् स्थायिष्यते तेन महान् विपक्षः घानिष्यते। हे महात्मन् ! मां मा परिभूः, मद्विधः अयोग्ये अग्र्यंभारं न न्यस्यति॥२२॥

**प्रयोगप०—**यः स्थास्यति स महान्तं विपक्षं हनिष्यति। अहं मा परिभाविषि। (परिभविषि वा), मद्विधेन अग्र्योभारो न न्यस्यते।

**व्याख्या—**येन=रामेण, रणे=युद्धे, पुरस्तात्=अग्रे, स्थायिष्यते=स्थास्यते, तेन=रामेण, महान्=प्रबलः, विपक्षः=शत्रुः (रावणादिरित्यर्थः), घानिष्यते=हनिष्यते, हे महात्मन्=हे महासत्व !, मां=मुनिं, मा परिभूः=न अवज्ञासीः, (प्रत्याख्यानेन न अवमन्यस्वेत्यर्थः), मद्विधः=मादृशः (विमृश्यकारीत्यर्थः), अयोग्ये=असमर्थे, अग्र्यं=गुरुं, भारं=धुरं, न न्यस्यति=न निधत्ते (तस्मान्मा शङ्किष्ठा इत्यर्थः)।

**व्युत्पत्तिः—**पुरस्तात्=पूर्वस्मिन्निति पुरस्तात्, “दिक्छब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः” इति अस्तातिः, “अस्ताति च” इति पुरादेशः। स्थायिष्यते=“ष्ठा गतिनिवृत्तौ” इति धातोर्भावे ऌट्। “स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च” इति चिण्वदिड्वा। “आतो युक् चिण्कृतोः” इति युगागमश्च। विपक्षः=विरुद्धः पक्षः विपक्षः, प्रादिसमासः यद्वा विरुद्धः पक्षो यस्य सः (बहु०)। “द्विङ्विपक्षाऽहिताऽमित्रदस्यु- शात्रवशत्रवः।” इत्यमरः। घानिष्यते=हनधातोः कर्मणि ऌट्, पूर्ववच्चिण्वदिट्, आदिवृद्धिः “हो हन्तेर्ञ्णिन्नेषु” इति कुत्वं च। मा परिभूः=भूधातोः “मा-ङि लुङ्” इति लुङ्, “न माङ्योगे” इत्यडभावः। मद्विधः=मम इव विधा (सादृश्यम् ) यस्य स मद्विधः (बहु०), “प्रत्ययोत्तरपदयोश्च” इत्यस्मच्छब्दस्य

मदादेशः। अयोग्ये=योगाय प्रभवतीति योग्यः, “योगाद्यत्” इति यत्। न योग्यः=अयोग्यः, तस्मिन् (नञ्०)। अग्र्यम्=अग्रे भवः अग्र्यः, तम् “अग्राद्यत्” इति यत्।

**भावार्थः—**रामो रणे पुरस्सरो भविष्यति महान्तं शत्रुं च हनिष्यति। हे महाऽनुभाव ! मा मामवमन्यस्व मत्सदृशो विमृश्यकारी असमर्थे जने मुख्यं भारं न निक्षिपति।

**भाषाऽर्थः—**रामचन्द्र रणमें अग्रसर होंगे और रावण आदि प्रबल शत्रुओंका नाश करेंगे। हे महानुभाव ! मेरा तिरस्कार मत करो, मेरा ऐसा पुरुष असमर्थ पुरुषको मुख्य भार नहीं सौंपता है॥२२॥

क्रुध्यन्कुलं धक्ष्यति विप्रवह्निर्यास्यन्सुतस्तप्स्यति मां समन्युम्।
इत्थं नृपः पूर्वमवालुलोचे, ततोऽनुजज्ञे गमनं सुतस्य॥२३॥

**अन्वयः—**विप्रवह्निः क्रुध्यन् कुलं धक्ष्यति, यास्मन् सुतः समन्युं मां तप्स्यति ; इत्थं नृपः पूर्वम् अवालुलोचे। ततः (तेन) सुतस्य गमनम् अनुजज्ञे।

**प्रयोगप०—**विप्रवह्निना क्रुध्यता कुलं धक्ष्यते, यास्यता सुतेन समन्युरहंतप्स्ये, नृपेण अवालुलोचे, (सः) गमनम् अनुजज्ञौ।

**व्याख्या—**विप्रवह्निः=ब्राह्मणाऽनलः, क्रुध्यन्=कुप्यन् (क्रोधं कुर्वन्) कुलं=वंशं, धक्ष्यति=भस्मीकरिष्यति, यास्यन्= गमिष्यन्, सुतः=पुत्रः (राम इत्यर्थः), समन्युं=सशोकं, मां=दशरथं, तप्स्यति=तापयिष्यति, इत्थम्=एवंप्रकारं, नृपः=राजा, पूर्वं=प्रथमम्, अवालुलोचे=आलोचितवान्, ततः=तेन, सुतस्य=पुत्रस्य, गमनं=गतिः, अनुजज्ञे=अनुज्ञातम् (कुलदाहाऽपेक्षया आत्मदाह एव वरमिति निश्चयादिति भावः)।

**व्युत्पत्तिः—**विप्रवह्निः=विप्र एव वह्निः विप्रवह्निः, “मयूरव्यंसकादयश्च” इति रूपकसमासः। क्रुध्यन्=“क्रुध क्रोधे” इति धातोः शतृप्रत्ययः। धक्ष्यति=“दह भस्मीकरणे” इति धातोर्लृट्। “दादेर्धातोर्घः” इति घः। भष्भावः, चर्त्वं, गकारस्य ककारः। यास्यन्=“या प्रापणे” इति धातोर्लृट् शतृप्रत्ययश्च। समन्युं=मन्युना सहितः समन्युः, तम्, “तेन सहेति तुल्ययोगे” इति बहुव्रीहिः, “वोपसर्जनस्य” इति सहस्य सभावः। “मन्युशोकौ तु शुक् स्त्रियाम्” इत्यमरः इत्थम्=अनेन प्रकारेण इति इत्थम्, “इदमस्थमुः” इति थमुप्रत्ययः। अवालुलोचे=

अवाङ्पूर्वात् “लोचृ दर्शने” इति धातोर्लिट्। ततः=तेन (सार्वविभक्तिकस्तसिः)। अनुजज्ञे=अनुपूर्वात् “ज्ञा विबोधने” इति धातोः कर्मणि लिट् कर्तृवाच्ये “अनुपसर्गाज्ज्ञः” इत्यनेन आत्मनेपदस्य अप्राप्तेः।

**भावाऽर्थः—**ऋषिः प्रत्याख्यानकुपितः सन् कुलनाशं करिष्यति, रामो गमिष्यन् मां तापयिष्यति, अतः कुलनाशात् आत्मतापो वरमिति विचार्य राज्ञा पुत्रगमनमनुज्ञातम्।

भाषाऽर्थः—“ऋषिरूप अग्नि क्रुद्ध होकर कुलका दाह करेंगे और राम जाते हुए मुझको शोकसन्तप्त करेंगे” राजाने पहले ऐसा विचार किया अनन्तर कुलनाशकी अपेक्षा आत्मसन्तापको ही अच्छा समझ कर पुत्रकी वनयात्रा स्वीकार कर ली॥२३॥

आशीभिरभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे मुनिराश्रमाय।
तं पृष्ठतः प्रष्ठमियाय नम्रो हिंस्रेषुदीप्ताऽऽप्तधनुः कुमारः॥२४॥

**अन्वयः—**मुनिः प्रीतः आशीर्भिः क्षितीन्द्रम् अभ्यर्च्य आश्रमाय प्रतस्थे; नम्रः हिंस्रेषुदीप्ताऽऽप्तधनुः कुमारः प्रष्ठं तं पृष्ठतः इयाय ।

**प्रयोगप०—**मुनिना प्रीतेन प्रतस्थे, नम्रेण हिंस्रेषुदीप्ताऽऽप्तधनुषा कुमारेण प्रष्ठः स ईये।

**व्याख्या—**मुनिः=ऋषिः (विश्वामित्रः) प्रीतः=प्रसन्नः (सन्), आशीर्भिः=आशीर्वादैः, क्षितीन्द्रं=राजानम् (दशरथम्), अभ्यर्च्य=पूजयित्वा, (सत्कृत्येत्यर्थः) आश्रमाय=आश्रमं गन्तुं, प्रतस्थे=प्रस्थितः, नम्रः=प्रणतः (पितरमिति शेषः), हिंस्रेषुदीप्ताऽऽप्तधनुः=घातुकबाणप्रज्वलिताऽमोघचापः (“हिंस्रेषु दीप्राऽस्त्रधरः” इति पाठे हिंस्रेषु=घातुकेषु राक्षसादिषु विषये, दीप्राऽस्त्रधरः=प्रदीप्ताऽऽयुधधरः इत्यर्थः), कुमारः=रामः (सलक्ष्मण इति शेषः), प्रष्ठम्= अग्रगामिनं, तं=विश्वामित्रं, पृष्ठतः=पश्चात्, इयाय=जगाम।

**व्युत्पत्तिः—**क्षितीन्द्रं=क्षितेरिन्द्रः क्षितीन्द्रः, तम् (ष० त०)। आश्रमाय=“क्रियार्थोपपदस्य च कर्मणि स्थानिनः” इति चतुर्थी। प्रतस्थे=“समवप्रविभ्यः स्थ"इत्यात्मनेपदम्। हिंस्रेषुदीप्ताऽऽप्तधनुः=हिंसनशीलाः हिंस्राः, “नमिकम्पिस्म्यजसकमहिंसदीपो रः” इति रप्रत्ययः। एवं नमनशीलः नम्रः, दीपनशीलः दीप्र इत्यत्राऽपि। “णम प्रह्वत्वे शब्दे” “दीपी दीप्तौ” इति धातोः रप्रत्ययः।

हिंस्राश्च ते इषवो हिंस्रेषवः (क० धा०), तैर्दीप्तं हिंस्रेषुदीप्तम् (तृ० त०), तत् आप्तं (अविसंवादि) च धनुर्यस्य सः हिंस्रेषुदीप्ताऽऽप्तधनुः (ब० वी०)। समासाऽन्तविधेरनित्यत्वात् “धनुषश्च” इत्यनङ् न भवति। “अथाऽस्त्रियाम्। धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्।” इत्यमरः। “दीप्रास्त्रधर” इति पाठे धरतीति धरः “धृञ् धारणे” इति धातोः पचाद्यच्। दीप्राणि च तानि अस्त्राणि दीप्राऽस्त्राणि (क०धा०), तेषां धरः (ष०त०)। प्रष्ठं=प्रतिष्ठत अग्र इति प्रष्ठः, तम्, “आतश्चोपसर्गे” इति कर्तरि कः। “प्रष्ठोऽग्रगामिनि” इति षः। इयाय=इणो लिटि णलि वृद्ध्यायादेशौ “अभ्यासस्याऽसवर्णे” इतीयङ्।

**भावार्थः—**ऋषिः प्रसन्नो भृत्वा आशीर्वादै राजानं सम्भाव्य धनुर्धरेण रामेण सह आश्रमाऽर्थं प्रस्थितः।

**भाषाऽर्थः—**ऋषिने प्रसन्न हो राजाको आशीर्वाद दे कर आश्रमकी ओर प्रस्थान किया। धनुर्धारी रामचन्द्रने पिताजीको नमस्कार कर ऋषिका अनुसरण किया॥२४॥

प्रयास्यतः पुण्यवनाय जिष्णोः रामस्य रोचिष्णुमुखस्य धृष्णुः।
त्रैमातुरः कृत्स्नजिताऽस्त्रशस्त्रः सध्र्यङ्रतः श्रेयसि लक्ष्मणोऽभूत्॥२५॥

**अन्वयः—**धृष्णुः कृत्स्नजिताऽस्त्रशस्त्रः श्रेयसि रतः त्रैमातुरः लक्ष्मणः पुण्यवनाय प्रयास्यतः जिष्णोः रोचिष्णुमुखस्य रामस्य सध्य्रङ् अभूत्।

**प्रयोगप०—**धृष्णुना कृत्स्नजिताऽस्त्रशस्त्रेण रतेन त्रैमातुरेण लक्ष्मणेन रामस्य सध्रीचा अभावि।

**व्याख्या—**धृष्णुः=प्रगल्भः, कृत्स्नजिताऽस्त्रशस्त्रः=समग्राऽधिगताऽस्त्रशस्त्रः, श्रेयसि=कल्याणे, रतः=तत्परः, त्रैमातुरः= मातृत्रयपुत्रः (कौसल्याकैकेय्योस्तद्दत्तपायसोद्भवत्वेन सुमित्राया गर्भोत्पन्नत्वेनेत्यर्थः), लक्ष्मणः=भरताऽनुजः, पुण्यवनाय= तपोवनाय, प्रयास्यतः=गमिष्यतः, जिष्णोः=जयशीलस्य, रोचिष्णुमुखस्य=रोचमानाननस्य, रामस्य=रामचन्द्रस्य, सध्य्रङ्= सहचरः, अभूत्=अभवत्।

**व्युत्पत्तिः—**धृष्णुः=धृष्णोतीति धृष्णुः, “ञिधृषा प्रागल्भ्ये” इति धातोः “त्रसिगृधिधृषिक्षिपेः क्नुः” इति क्नुः। कृत्स्नजिताऽस्त्र-शस्त्रः=“कृत्स्नं (यथा तथा) जितानि (अधिगतानि) इति कृत्स्नजितानि (सुप्सुपा समासः)। अस्त्राणि च शस्त्राणि च अस्त्रशस्त्राणि (द्वन्द्वः)। तत्र अस्यते इति शस्त्रम् (क्षेपणीयमायुधं शरादि),

“असु क्षेपणे” इति धातोः औणादिकः ष्ट्रन्। शस्यते अनेनेति शस्त्रम् (खङ्गादि), “शसु हिंसायाम्” इति धातोः “दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे” इति ष्ट्रन्। “कृत्स्नजितानि अस्त्रशस्त्राणि येन सः कृत्स्नजिताऽस्त्रशस्त्रः (बहु०)। त्रैमातुरः=तिसृणां मातृृणामपत्यं पुमान् त्रैमातुरः, “तद्धिताऽर्थोत्तरपदसमाहारे च” इति तद्धितार्थे समासः। “मातुरुत्संख्यासम्भद्रपूर्वायाः” इत्यण् उत्वं च। पुण्यवनाय=पुण्यं च तद्वनं पुण्यवनं, तस्मै (क० धा०), “गत्यर्थकर्मणि द्वितीयाचतुथ्यौं चेष्टायामनध्वनि” इति कर्मणि चतुर्थी। प्रयास्यतः=याधातोः “लृटः सद्वा” इति लृटः शत्रादेशः। जिष्णोः=जयशीलो जिष्णुस्तस्य, “जि जये” इति धातोः “ग्लाजिस्थश्चग्स्नुः” इति ग्स्नुः। “जेता जिष्णुश्च जित्वर” इत्यमरः। रोचिष्णुमुखस्य=रोचनशीलं रोचिष्णु (इष्णुच्), तत् मुखं यस्य स रोचिष्णुमुखस्तस्य (ब० व्री०)। सध्य्रङ्=सहाऽञ्चतीति सध्य्रङ्, “ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च” इति क्विन्, कुत्वं सहस्य सध्य्रादेशश्च।

**भावाऽर्थः—**शत्रुनाशप्रगल्भः अधिगतसर्वायुधः कल्याणरतो लक्ष्मणश्च तपोवनगमनोन्मुखस्य जयशीलस्य रामस्य सहायोऽभूत्।

**भाषाऽर्थः—**प्रगल्भ, सम्पूर्ण अस्त्रशस्त्रोंको लिये हुए, कल्याण तत्पर, तीनों माताओंके पुत्र लक्ष्मण भी तपोवनको जाते हुए, जयशील और उज्ज्वल मुखवाले रामचन्द्रजीके सहचर हुए॥२५॥

इषुमति रघुसिंहे दन्दशूकाञ्जिघांसौ,
धनुररिभिरसह्यं मुष्टिपीडं दधाने।
व्रजति पुरतरुण्यो बद्धचित्राऽङ्गुलित्रे
कथमपि गुरुशोकान्मा रुदन्माङ्गलिक्यः॥२६॥

**अन्वयः—**दन्दशूकान् जिघांसौ इषुमति अरिभिः असह्यं धनुः मुष्टिपीडं दधाने बद्धचित्राऽङ्गुलित्रे रघुसिंहे व्रजति गुरुशोकाः पुरतरुण्यः माङ्गलिक्यः (सत्यः) कथमपि मा रुदन्।

**प्रयोगप०—**गुरुशोकाभिः पुरतरुणीभिः माङ्गलिकीभिः (सतीभिः) कथमपि मा रोदि।

**व्याख्या—**दन्दशूकान्=हिंस्रान् (राक्षसादीनित्यर्थः), जिघांसौ=हननेच्छौ, इषुमति=प्रशस्तबाणयुक्ते, अरिभिः= शत्रुभिः, असह्यम्=असहनीयं, धनुः=कार्मुकं,

मुष्टिपीडं=मुष्टिना पीडयित्वा (यथा तथा) दधाने=धारयति (सति), बद्धचित्राऽङ्गुलित्रे=नद्धविचित्राऽङ्गुलीत्राणे, रघुसिंहे=रघुश्रेष्ठे (रामे इत्यर्थः), व्रजति=तपोवनं गच्छति (सति), गुरुशोकाः=दुर्वहशुचः, पुरतरुण्यः=नगरयुवतयः, माङ्गलिक्यः=मङ्गलप्रयोजनाः (सत्यः), कथमपि महता यत्नेन, मा रुदन् अश्रूणि नो मुमुचुः (अन्तः सशोका अपि अमङ्गलभयात् पुरतरुण्यः साऽश्रुनेत्रानो बभूवुरित्यर्थः।

**व्युत्पत्तिः—**दन्दशूकान्=गर्हितं दशन्तीति दन्दशूकाः तान्, “यजजपदशां यङः” इति दंशेर्यङन्तादूकप्रत्ययः, “न लोकाऽव्ययनिष्ठाखलर्थतृनाम्” इति षष्ठीप्रतिषेधात्कर्मणि द्वितीया। जिघांसौ=हन्तुमिच्छुः जिघांसुः, तस्मिन् हनः सन्न- न्तात् “सनाशंसभिक्ष उः” इत्युः प्रत्ययः। “अज्झनगमां सनि” इति दीर्घः। इषुमति=प्रशस्ता इषवः सन्ति यस्मिन् स इषुमान्, तस्मिन्, “तदस्याऽस्त्यस्मिन्निति मतुप्” इति मतुप्। असह्यं=सोढुं शक्यं सह्यं, “शकिसहोश्च” इति यत्। न सह्यम् असह्यं तत् (नञ्०)। मुष्टिपीडं=मुष्ट्या मुष्टिना वा पीडा यस्मिन् कर्मणि तद् यथा तथा मुष्टिपीडं (बहु०), बद्धचित्राऽङ्गुलित्रे=अङ्गुलिं त्रायते इति अङ्गुलित्रम् (कप्रत्ययः)। बद्धं चित्रमङ्गुलित्रं येन स बद्धचित्राऽङ्गुलित्रः, तस्मिन् (ब० बी०)। रघुसिंहे=रघुषु (लक्षणया रघुवंश्येषु नृपेषु) सिंहो रघुसिहः, तस्मिन् (स० त०)। व्रजति=व्रजतीति व्रजन् तस्मिन्, “व्रज गतौ” इति धातोः “लटः शतृशानचावप्रथमासमानाऽधिकरणे” इति लटः शत्रादेशः। गुरुशोकाः=गुरुः शोको यासां ता गुरुशोकाः (ब० व्री०)। पुरतरुण्यः=पुरस्य तरुण्यः (ष० त०), “तरुणी युवतिः समे” इत्यमरः। माङ्गलिक्यः=मङ्गलं प्रयोजनमासां ता माङ्गलिक्यः, “प्रयोजनम्” इति ठक्, “टिड्ढाणञ्०” इत्यादिना ङीप्। मा रुदन्=“रुदिर् अश्रुविमोचने” इति धातोः “इरितो वा” इति च्लेरङ्’ अडभावश्च मालिनी वृत्तम्। “ननमयययुतेयं मालिनी भोगिलोकैः।” इति तल्लक्षणम्।

**भावाऽर्थः—**राक्षसानां वधार्थं शत्रुभिर्दुःसहं धनुः मुष्टिपीडं धारयति परिहितविचित्राऽङ्गुलित्राणे रामचन्द्रे तपोवनं प्रस्थिते सति नगरयुवतयः तद्वियोगेन गुरुशोकाः सत्योऽपि मङ्गलभङ्गभीतेरेव अश्रुपातं न्यवारयन्।

**भाषाऽर्थः—**राक्षसों को मारनेके लिए शत्रुओंसे दुःसह धनुको विचित्र अङ्गुलित्राणके साथ लेकर रामचन्द्रजीके जाते समय उनके वियोगसे अत्यन्त शोक

हो कर शहरकी युवतियोंने मङ्गलभङ्गकी आशङ्कासे बड़े मुश्किलसे आंसुओंको रोका॥२६॥

अथ जगदुरनीचैराशिषस्तस्य विप्रा-
स्तुमुलकलनिनादं तूर्यमाजघ्नुरन्ये।
अभिमतफलशंसी चारु पुस्फोर बाहु-
स्तरुषु चुकुबुरुच्चैः पक्षिणश्चाऽनुकूलाः॥२७॥

**अन्वयः—**अथ विप्राः तस्य आशिषः अनीचैः जगदुः, अन्ये तुमुलकलनिनादं तूर्यम् आजघ्नुः। अभिमतफलशंसी बाहुः चारु पुस्फोर, तरुषु अनुकूलाः पक्षिणश्च उच्चैः चुकुवुः।

**प्रयोगप०—**विप्रैः तस्य आशिषः अनीचैः जगदिरे, अन्यैः तुमुलकलनिनादं तूर्यम् आजघ्ने, अभिमतफलशंसिना बाहुना पुस्फुरे, अनुकूलैः पक्षिभिश्च चुकुबे।

**व्याख्या—**अथ=अनन्तरं, विप्राः=ब्राह्मणाः, तस्य=रामस्य, आशिषः=आशीर्वादान्, अनीचैः=उच्चस्वरं (क्रि० वि०), जगदुः=गदितवन्तः, अन्ये=वादकाः, तुमुलकलनिनादं=बृहन्मधुरशब्दं, तूर्यं=वाद्यम्, आजघ्नुः=ताडितवन्तः, अभिमतफलशंसो=इष्टाऽर्थसिद्धिसूचकः, वाहुः=भुजः(दक्षिण इति शेषः), चारु=साधु (क्रि० वि०), पुस्फोर= स्फुरितवान् तरुषु=वृक्षेषु, अनुकूलाः=अनुगुणाः, पक्षिणश्च=पतत्रिणश्च, उच्चैः=तारं, चुकुवुः=कूजितवन्तः॥२७॥

**व्युत्पत्तिः—**अनीचैः=न नीचैः अनीचैः (नञ्०)। जगदुः=“गद व्यक्तायां चाचि” इति धातोर्लिट्। तुमुलकलनिनादं=तुमुलः कलः निनादो यस्मिन्कर्मणि तद् यथा तथा (बहु०, क्रि०वि०)। आजघ्नुः=आङ्पूर्वाद्धन्धातोर्लिट्, “आढो यमहनः” इत्यात्मनेपदं न भवति “अकर्मकाच्च” इति सूत्रस्य अनुवृत्तेः। अभिमतफलशंसी=अभिमतं च तत् फलमभिमतफलम् (क० धा०), तत् शंसतीति तच्छीलः, “सुप्यजातौ णिनिस्ताच्छील्ये” इति णिनिः। “सौ च” इति दीर्घः। बाहुः=“भुजबाहू प्रवेष्टो दोः” इत्यमरः। पुस्फोर=“स्फुर सञ्चलने” इति धातोर्लिट्, “शर्पूर्वाः खयः” इत्यभ्यासे पकारः शिष्यते। पक्षिणः=पक्षौ स्तः येषां ते पक्षिणः, “अत इनिठनौ” इतीनिः। चुकुबुः=“कु शब्दे"इति धातोर्लिट्। अत्र लिटः कित्वाद्गुणाऽभावादुवङ्। मालिनी वृत्तम्, लक्षणं तु पूर्ववत्।

**भावाऽर्थः—**ततो ब्राह्मणास्तारस्वरेण राममाशीर्वादैः सम्भावयामासुः, वादका

उच्चमधुरशब्दं यथा तथा वाद्यसमूहं ताडितवन्तः, इष्टाऽर्थसिद्धिसूचको दक्षिणो बाहुश्च स्फुरितवान्; वृक्षेषु अनुकूलाः पक्षिणश्च उच्चस्वरेण कूजितवन्तः।

**भाषाऽर्थः—**तब ब्राह्मणोंने उच्च स्वरसे रामचन्द्रको आशीर्वाद दिया, बाजेवालोंने गम्भीर और मधुर शब्दवाले बाजोंको बजाया, अभीष्ट फलकी सूचना करने वाला दक्षिण बाहु भी अच्छी तरहसे फड़क उठा ; और वृक्षोंमें अनुकूल पक्षियोंने भी ऊँचे स्वर से शब्द किया॥२७॥

इति श्रीभट्टिकाव्ये व्याख्याद्वयोपेते रामसम्भवो नाम प्रथमः सर्गः।

<MISSING_FIG href=”../books_images/U-IMG-1722329587pic1.jpg”/>

अथ द्वितीयः सर्गः॥२॥

वनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशां च।
निर्याय तस्याः स पुरः समन्तात् श्रियं दधानां शरदं ददर्श॥१॥

**अन्वयः—**स तस्याः पुरः निर्याय समन्तात् वनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशां च श्रियं दधानां शरदं ददर्श।

**प्रयोगप०—**तेन^(….)श्रियं दधाना शरत् ददृशे।

**व्याख्या—**सः=रामः, तस्याः=पूर्वोक्तायाः, पुरः=नगर्याः (अयोध्याया इत्यर्थः), निर्याय=निर्गत्य, समन्तात्=सर्वतः, वनस्पतीनां=वृक्षाणां, सरसां=कासाराणां, नदीनां=सरितां (गङ्गादीनाम्), तेजस्विनां=चन्द्रतारादीनां (अथवा मेघाऽपायात् भास्वराणाम् इति सर्वविशेषणम्, कान्तिभृतां=समुज्ज्वलानाम् (इदं पदमपि सर्वविशेषणम्), दिशां च=ककुभां च, श्रियं=शोभां, दधानां=धारयन्तीं, शरदं=शरल्लक्ष्मीं, ददर्श=अपश्यत्।

**व्युत्पत्तिः—**पुरः=“पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम्।“इत्यमरः, निर्याय=यातेः समासे क्त्वः “समासेऽनञ्पूर्वे क्त्वो ल्यप्” इति ल्यबादेशः। वनस्पतीनां=“पारस्करप्रभृतीनि च संज्ञायाम्” इति सुट्, अत्र “तैरपुष्पाद्वनस्पतिः” इति लक्षणलक्षितो वनस्पतिर्न गृह्यते। तेजस्विनां=प्रशस्तं तेजोऽस्ति येषां ते तेजस्विनः “अस्मायामेधास्रजो विनिः” इति विनिप्रत्ययः। तेजस्विनश्च तेजस्वीनि च तेजस्विन्यश्च तेजस्वीनि, तेषां “नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्” इति

नपुंसकैकशेषः। कान्तिभृतां=कान्ति विभ्रतीति कन्तिभृतस्तेषाम्, क्विप्। ददर्श=“दृशिर् प्रेक्षणे” इति धातोर्लिट्।

**भावाऽर्थः—**रामोऽयोध्याया निर्गत्य फलपरिपूरितैर्वृक्षैः कमलयुक्तैः सरोभिः विमलजलाभिर्नदीभिः उज्ज्वलैश्चन्द्रतारादिभिर्निर्मलाभिर्दिग्भिश्च शोभमानां शरदं विलोकयामास।

**भाषाऽर्थः—**रामचन्द्रजीने अयोध्यासे निकल कर चारों तरफ वृक्ष, तालाव, नदियां, चन्द्र और तारा आदि तथा निर्मल दिशाओंकी शोभाको धारण करते हुए शरत् ऋतुको देखा॥१॥

अथ सप्तभिः श्लोकैः शरदं वर्णयति—

तरङ्गसङ्गाच्चपलैः पलाशैर्ज्वालाश्रियं साऽतिशयां दधन्ति।
सधूमदीप्ताऽग्निरुचीनि रेजुस्ताम्रोत्पलान्याकुलषट्पदानि॥२॥

**अन्वयः—**तरङ्गसङ्गात् चपलैः पलाशैः साऽतिशयां ज्वालाश्रियं दधन्ति आकुलषट्पदानि (अत एव) सधूमदीप्ताऽग्नि-रुचीनि ताम्रोत्पलानि रेजुः।

**प्रयोगप०—^(….)**दधद्भिः आकुलषट्पदैः सधूमदीप्ताऽग्निरुचिभिः ताम्रोत्पलैः रेजे।

**व्याख्या—**तरङ्गसङ्गात्=ऊर्मिसम्पर्कात्, चपलैः=चञ्चलैः, पलाशैः=पत्रैः, साऽतिशयां=साऽधिकां, ज्वालाश्रियं=शिखा-शोभां दधन्ति=धारयन्ति, आकुलषट्पदानि=चञ्चलभ्रमराणि, (अत एव) सधूमदीप्ताऽग्निरुचीनि=धूमितज्वलितवह्नि-कान्तीनि, ताम्रोत्पलानि=रक्तकमलानि, रेजुः=शुशुभिरे (चपलपलाशानामग्निज्वालातुल्यत्वात् षट्पदानां च धूमतुल्यत्वात् सधूमदीप्ताऽग्निरुचीनि इत्युक्तम्)।

**व्युत्पत्तिः—**तरङ्गसङ्गात्=तरङ्गाणां सङ्गः तरङ्गसङ्गस्तस्मात् (ष० त०), “विभाषा गुणेऽस्त्रियाम्” इति हेतौ पञ्चमी। “भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः” इत्यमरः। पलाशैः=“हेतौ” इति तृतीया। साऽतिशयाम्=अतिशयेन सहिता साऽतिशया, ताम् (बहु०)। “सातिशयम्” इति मल्लिनाथसम्मतः पाठस्तन्मते अतिशयेन सहितं यथा तथा इति क्रियाविशेषणम्। ज्वालाश्रियं=ज्वालायाः श्रीर्ज्वलाश्रीः, ताम् (ष० त०)। दधन्ति=“डुधाञ् धारणपोषणयोः” इति धातोः शतृप्रत्ययः, “वा नपुंसकस्य” इति विकल्पान्नुमागमः। आकुलषट्पदानि=षट् पदानि येषां ते षट्पदाः (बहु०)। आकुलाः षट्पदा येषु तानि (बहु०)। सधूमदीप्ताग्निरुचीनि=धूमेन सहितः सधूमः (बहु०)। दीप्तश्चाऽसौ अग्निः दीप्ता-

ऽग्निः (क० धा०), सधूमश्चाऽसौ दीप्ताऽग्निः सधूमदीप्ताऽग्निः (क० धा०), तस्य इव रुचिर्येषां तानि सधूमदीप्ताऽग्निरुचीनि (बहु०)। ताम्रोत्पलानि=ताम्राणि च तानि उत्पलानि (क० धा०)। रेजुः=“राजू दीप्तौ” इति धातोर्लिट् “फणां च सप्तानाम्” इत्येत्वाऽभ्यासलोपौ।

**भावाऽर्थः—**जलतरङ्गसम्पर्कात् चञ्चलैः पत्रैः अग्निशिखासदृशानि चञ्चलभ्रमरयुक्तानि अत एव धूमितप्रज्वलितवह्नि-कान्तीनि रक्तकमलानि शुशुभिरे।

**भाषाऽर्थः—**जलतरङ्गोंके सम्पर्कसे चञ्चल पत्रोंसे आगकी ज्वालाओंके सदृश, चञ्चल भ्रमरोंसे युक्त अतएव धूमयुक्त प्रज्वलित आगकी नाई कान्तिवाले रक्तकमल शोभित हुए॥२॥

बिम्बागतैस्तीरवनैः समृद्धिं निजां विलोक्याऽपहृतां पयोभिः।
कूलानि साऽमर्षतयेव तेनुः सरोजलक्ष्मीं स्थलपद्महासैः॥३॥

**अन्वयः—**कूलानि निजां समृद्धिं पयोभिः बिम्बागतैः तीरवनैः अपहृतां विलोक्य साऽमर्षतया इव स्थलपद्महासैः सरोजलक्ष्मीं तेनुः।

**प्रयोगप०—**कूलैः^(…)सरोजलक्ष्मीस्तेने।

**व्याख्या—**कूलानि=तटानि, निजां=स्वीयां, समृद्धिं=वनलक्ष्मीं, पयोभिः=जलैः (कर्तृभूतैः), बिम्बागतैः=प्रतिबिम्बसंक्रान्तैः, तीरवनैः=तटवृक्षसमूहैः (करणभूतैः), अपहृतां=चोरितां विलोक्य=दृष्ट्वा, साऽमर्षतया इव=क्रोधादिव, स्थलपद्महासैः=तट-स्थस्थलकमलविकासैः, सरोजलक्ष्मा=कमलशोभां, तेनुः=विस्तारयामासुः।

**व्युत्पत्तिः—**कूलानि=“कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु।” इत्यमरः। विम्बागतैः=विम्बेन आगतानि बिम्बागतानि, तैः (तृ० त०) । तीरवनैः=तीरेषु वनानि तीरवनानि तैः (स० त०)। साऽमर्षतया=अमर्षेण सहितः सामर्षः (ब० व्री०), तस्य भावः सामर्षता, तया “तस्य भावस्त्वतलौ” इति तल्प्रत्ययः, “तलन्तं स्त्रियाम्” इति लिङ्गाऽनुशासनात् तदन्तात् “अजाद्यतष्टाप्” इति टाप्। स्थलपद्महासैः=स्थलस्य पद्मानि स्थलपद्मानि (ष० त०), तेषां हासाः स्थलपद्महासास्तैः (ष० त०)। सरोजलक्ष्मी= सरोजानां लक्ष्मीः सरोजलक्ष्मीस्ताम् (ष० त०)। तेनुः=“तनु विस्तारे” इति धातोर्लिट्, “अत एकहल्मध्येऽनादेशादेर्लिटि” इत्येत्वाऽभ्यासलोपौ।

**भावाऽर्थः—**जलैः प्रतिबिम्बच्छलेन स्वकीयवनशोभा अपहृतेति तटैः

क्रोधात् स्थलकमलविकासाऽपदेशेन जलजशोभाऽपहरणं कृतम् इत्युत्प्रेक्षाऽर्थः। पराहृतश्रीकाणां तदीयश्रीहरणं युक्तमिति भावः।

**भाषार्थः—**प्रतिविम्बके छलसे, जलोंसे अपनी वनशोभाको अपहृत होते देख कर तटोंने मानों क्रोधसे स्थलकमलके विकास के बहानेसे कमलशोभाका अपहरण किया॥३॥

निशातुषारैर्नयनाऽम्बुकल्पैः पत्राऽन्तपर्यागलदच्छबिन्दुः।
उपारुरोदेव नदत्पतङ्गः कुमुद्वतीं तीरतरुर्दिनादौ॥४॥

**अन्वयः—**दिनादौ नयनाऽम्बुकल्पैः निशातुषारैः पत्राऽन्तपयोगलदच्छबिन्दुः नदत्पतङ्गः तीरतरुः कुमुद्वतीम् उपारुरोद इव।

**प्रयोगप०—^(..)**पत्राऽन्तपर्यागलदच्छबिन्दुना नदत्पतङ्गेन तीरतरुणा कुमुद्वती उपारुरुदे इव।

**व्याख्या—**दिनादौ=प्रभाते, नयनाऽम्बुकल्पैः=अश्रुतुल्यैः (नयनाऽनुकारिषु पत्रेषु स्थितत्वात्), निशातुषारैः= रात्रिहिमैः, पत्राऽन्तपर्यागलदच्छबिन्दुः=पर्णाऽग्रस्रवन्निर्मलपृषतः, नदत्पतङ्गः=कूजद्विहङ्गः, तीरतरुः=तटवृक्षः, कुमुद्वतीं=कुमुदिनीं प्रति, उपारुरोद इव=रुदितवान् इव (हन्त ! चन्द्रवियोगात्त्वमित्थं भूताऽसि निःश्रीका इति साक्रन्दमश्रूण्यमुञ्चदिव)।

**व्युत्पत्तिः—**दिनादौ=दिनस्य आदिर्दिनादिस्तस्मिन् (ष० त०)। नयनाऽम्बुकल्पैः=नयनयोरम्बूनि नयनाऽम्बूनि (ष० त०)। ईषदसमाप्तानि नयनाऽम्बूनि नयनाऽम्बुकल्पास्तैः, “ईषदसमाप्तौ कल्पब्देश्यदेशीयरः” इति कल्पप्प्रत्ययः। निशातुषारैः=निशायास्तुषारा निशातुषारास्तैः (ष० त०)। पत्राऽन्तपर्यागलदच्छबिन्दुः=पत्राणामन्ताः पत्रान्ताः (ष० त०)। “पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्”। इत्यमरः। पत्राऽन्तेभ्यः पर्यागलन्तः पत्राऽन्तपर्यागलन्तः “पञ्चमी भयेन” इति योगविभागात् “सुप्सुपा” इति वा समासः। पत्राऽन्तपर्यागलन्तः अच्छाः बिन्दवो यस्य स पत्राऽन्तपर्यागलदच्छबिन्दुः (ब० व्री०)। नदत्पतङ्गः=नदन्तः पतङ्गाः यस्मिन् सः (ब० व्री०)। तीरतरुः=तीरस्य तरुः(ष० त०)। कुमुद्वतीं= कुमुदानि सन्ति यस्यां सा कुमुद्वती, ताम् “कुमुदनडवेतसेभ्यो ड्मतुप्” इति ड्मतुप्, “झयः” इति वत्वम्, “उगितश्च” इति ङीप्। अत्र “रुदिर्, अश्रुविमोचने” इति धातोरकर्मकत्वेऽपि कुमुद्वतीपदस्य “गम्यमानो-

द्देशक्रियाऽपेक्षया कर्मत्वम्। गम्यमानक्रियाऽपेक्षया कारकोत्पत्तेरिष्टत्वात्” इति मल्लिनाथः। “रोदनक्रियया आक्रन्दनविशिष्टया कुमुद्वत्या ईप्सिततमत्वात् रुदिः सकर्मकः।” इति जयमङ्गला। “उपसर्गयोगात् रुदिः सकर्मक” इति त्वन्ये।

**भावाऽर्थः—**प्रातः काले अश्रुतुल्यैः रात्रिहिमैः नेत्रसदृशपत्राग्रसवन्निर्मलबिन्दुः कूजत्पक्षी तटतरुः चन्द्रवियुक्तां कुमुदिनीं “हन्त ! त्वमित्थं निःश्रीका सञ्जाते”ति आक्रन्दन् अश्रूणि मुञ्चन्निव अवर्तत।

**भाषाऽर्थः—**प्रातःकाल आसुओंके तुल्य ओसोंसे जिसके पत्तोंके अग्रभागसे निर्मल पानीकी बूँदें गिरती हैं एवम् जिस पर बैठकर पक्षी शब्द करते हैं ऐसा तीरका वृक्ष कुमुदिनीको “हाय ! पतिके वियोगसे तू इस तरह शोभाहीन हो गई हैं” ऐसा कहकर मानों आँसू गिरा रहा है॥४॥

वनानि तोयानि च नेत्रकल्पैः पुष्पैः सरोजैश्च निलीनभृङ्गैः।
परस्परां विस्मयवन्ति लक्ष्मीमालोकयाञ्चक्रुरिवादरेण॥५॥

**अन्वयः—**वनानि तोयानि च निलीनभृङ्गैः नेत्रकल्पैः पुष्पैः सरोजैश्च परस्परां लक्ष्मीं विस्मयवन्ति (सन्ति) आदरेण आलोकयाञ्चक्रुरिव।

**प्रयोगप०—**धनैस्तोयैश्च परस्परा लक्ष्मीर्विस्मयवद्भिः (सद्भिः) आदरेण आलोकयाञ्चक्रे इव।

**व्याख्या—**वनानि=काननानि, तोयानि च=जलानि च, निलीनभृङ्गैः=स्थितभ्रमरैः (कनीनिकायमानभृङ्गैरिति भावः), नेत्र-कल्पैः=नयनतुल्यैः, पुष्पैः=कुसुमैः, सरोजैश्च=कमलैश्च, परस्पराम्=अन्योन्यां, लक्ष्मीं=शोभां, विस्मयवन्ति=आश्च-र्ययुक्तानि (सन्ति), आदरेण=आस्थया, आलोकयाञ्चक्रुरिव=ददृशुरिव।

**व्युत्पत्तिः—**निलीनभृङ्गैः=निलीना भृङ्गा येषु तानि निलीनभृङ्गाणि, तैः (ब० व्री०)। नेत्रकल्पैः=ईषदसमाप्तानि नेत्राणि नेत्रकल्पानि, तैः (कल्पप्प्रत्ययः) (पदद्वयमपि पुष्पसरोजविशेषणम्)। पुष्पैः=“स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्।” इत्यमरः। सरोजैः=सरसि जातानि सरोजानि, तैः, “सप्तम्यां जनेर्डः” इति डप्रत्ययः। परस्परां=“कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम्” इति द्विरुक्तिः। विस्मयवन्ति=विस्मयोऽस्ति येषां तानि (मतुप्)। अत्रोत्प्रेक्षा तुल्ययोगितया उपमया यथासंख्येन च उत्थापितेति सङ्करः।

**भावार्थः—**वनानि जलानि च कनीनिकायमानभ्रमरैः नेत्रसदृशैः पुष्पैः कमलैश्च अन्योन्यशोभां सविस्मयमास्थया ददृशुरिव।

**भाषाऽर्थः—**वन और जल भौंरोंसे युक्त तथा नेत्रसदृश पुष्प और कमलोंसे एक दूसरेकी शोभा आश्चर्यपूर्वक आदरसे मानों देख रहे थे॥५॥

प्रभातवाताहतिकम्पिताकृतिः कुमुद्वतीरेणुपिशङ्गविग्रहम्।
निरास भृङ्गं कुपितेव पद्मिनी न मानिनी संसहतेऽन्यसङ्गमम्॥६॥

**अन्वयः—**प्रभातवाताहतिकम्पिताकृतिः पद्मिनी कुपिता इव कुमुद्वतीरेणुपिशङ्गविग्रहं भृङ्गं निरास, (तथा हि) मानिनी अन्यसङ्गमम् न संसहते।

**प्रयोगप०—**प्रभातवाताऽऽहतिकम्पिताकृत्या पद्मिन्या कुपितयेव कुमुद्वतीरेणुपिशङ्गविग्रहो भृङ्गो निरासे, मानिन्या अन्यसङ्गमो न संसह्यते।

**व्याख्या—**प्रभातवाताहतिकम्पिताकृतिः=विभातवाय्वाघातचालिताकारा, पद्मिनी=कमलिनी, कुपिता इव=क्रुद्धा इव (खण्डिता नायिकेवेति भावः। खण्डितालक्षणं यथा —“पार्श्वमेति प्रियो यस्या अन्यसम्भोगचिह्नितः। सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता।” इति)। कुमुद्वतीरेणुपिशङ्गविग्रहं=कुमुदिनीपरागपिङ्गशरीरं, भृङ्गं=भ्रमरं, निरास=निरस्तवती, (तथा हि) मानिनी=मानवती स्त्री, अन्यसङ्गमं पत्युर्नायिकान्तरसंसर्गं, न संसहते=न क्षमते।

**व्युत्पत्तिः—**प्रभातवाताहतिकम्पिताऽऽकृतिः=प्रभातस्य वातः प्रभातवातः (ष० त०), “नभस्वद्वातपवनपवमानप्रभञ्जनाः।” इत्यमरः। प्रभातवातस्य आहतिः प्रभातवाताहतिः (ष० त०)। कम्पिता आकृतिर्यस्याः सा कम्पिताकृतिः ब० व्री०)। प्रभातवाताहत्या कम्पिताकृतिः प्रभातवाताऽऽहतिकम्पिताऽऽकृतिः (तृ० त०)।पद्मिनी=पद्मानि सन्ति यस्यां सा, इनिप्रत्ययः, तदन्तात् “ऋन्नेभ्यो ङीप्” इति ङीप्। कुमुद्वतीरेणुपिशङ्गविग्रहम्=कुमुद्वत्या रेणवः कुमुद्वतीरेणवः (ष० त०)। पिशङ्गः विग्रहः यस्य स पिशङ्गविग्रहः (बहु०)। कुमुद्वतीरेणुभिः पिशङ्गविग्रहः कुमुद्वतीरेणुपिशङ्गविग्रहस्तम् (तृ० त०)। निरास=निरुपसर्ग-पूर्वकात् “असु क्षेपणे” इति धातोर्लिट्। मानिनी=प्रशस्तः मानः अस्ति यस्याः सा (इनिस्तदन्तान्ङीप् च)। अन्यसङ्गमम्= अन्यस्याः सङ्गमः अन्यसङ्गमस्तम् (ष० त०), “सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः” इति पूर्वपदस्य पुंवद्भावः। “न मानिनीशं सहतेऽन्यसङ्गमम्” इति पाठे अन्यस्याः सङ्गमो यस्य सः अन्यसङ्गम-

स्तम् (ब० व्री०), ईशं=पतिमित्यर्थो बोध्यः। सामान्येन विशेषसमर्थनात् अर्थान्तरन्यासः। तल्लक्षणं यथा—“सामान्यं वा विशेषेण विशेषस्तेन वा यदि। कार्यं च कारणेनेदं कार्येण च समर्थ्यते। साधर्म्येणेतरेणाऽर्थान्तरन्यासोऽष्टधा ततः॥” इति। वंशस्थवृत्तं, तल्लक्षणं यथा—“जतौ तु वंशस्थमुदीरितं जरौ।"। इति।

**भावाऽर्थः—**प्रभातकालिकवायुसंसर्गेण कम्पिताकारा पद्मिनी खण्डिता नायिकेव कुमुद्वतीपरागसंसृष्टशरीरं भृङ्गं निरास, यतः अभिमानिनी नायिका स्वप्रियस्य नायिकान्तरसम्पर्कं न मर्षति।

**भाषाऽर्थः—**प्रातःकालकी हवासे कम्पित आकारवाली कमलिनी खण्डिता नायिकाकी तरह मानों कुपित हो कर कुमुद्वतीके परागसे रञ्जित शरीरवाले भौंरेको हटाती है, क्यों कि अभिमानिनी स्त्री अपने प्रियका दूसरी नायिकासे संपर्कको सहन नहीं करती है॥६॥

दत्तावधानं मधुलेहिगीतौ प्रशान्तचेष्टं हरिणं जिघांसुः।
आकर्णयन्नुत्सुकहंसनादान् लक्ष्ये समाधिं न दधे मृगावित्॥७॥

**अन्वयः—**मधुलेहिगीतौ दत्तावधानं प्रशान्तचेष्टं हरिणं जिघांसुः मृगावित् उत्सुकहंसनादान् आकर्णयन् लक्ष्ये समाधिं न दधे।

**प्रयोगप०—^(….)**हरिणं जिघांसुना मृगाविधा उत्सुकहंसनादान् आकर्णयता (सता) लक्ष्ये समाधिर्न दधे।

**व्याख्या—**मधुलेहिगीतौ=भ्रमरगाने, दत्ताऽवधानं=दत्तचित्तं (हरिणानां गानप्रियत्वादिति भावः), प्रशान्तचेष्टं=पलायनादि-चेष्टारहितं, हरिणं=मृगं, जिघांसुः=हननेच्छुः, मृगावित्=व्याधः, उत्सुक हंसनादान्=उत्कण्ठितहंसशब्दान्, आकर्णयन्= शृण्वन् (तदासक्तचित्तत्वादिति भावः), लक्ष्ये=शरव्ये (मृगरूपे इत्यर्थः), समाधिम्=एकाग्रतां, न दधे=न अधारयत् (अपूर्वो भावो भावान्तरं प्रतिबध्नातीति भावः)।

**व्युत्पत्तिः—**मधुलेहिगीतौ=मधु लिहन्तीति तच्छीलाः मधुलेहिनः, मधुपदपूर्वकात् “लिह आस्वादने” इति धातोर्णिनिः। “मधुलेहगीतौ” इति पाठान्तरेलिहन्तीति लेहाः, “पचाद्यच्” मधुनो लेहा मधुलेहाः (ष० त०) मधु लिहन्तीति मधुलेहाः, “कर्मण्यण्” इत्यण् वा। मधुलेहिनां गीतिः मधुलेहिगीतिः, तस्याम् (ष० त०)। दत्ताऽवधानं=दत्तमवधानं येन स दत्ताऽवधानस्तम् (बहु०),

“अवधानं समाधानं प्रणिधानं तथैव च।” इति कोषः। प्रशान्तचेष्टं=प्रशान्ता चेष्टा यस्य स प्रशान्तचेष्टस्तम् (बहु०)। हरिणं=“मृगे कुरङ्गवातायुहरिणाऽजिनयोनयः।” इत्यमरः। जिघांसुः=हन्तुमिच्छुः जिघांसुः, सन्नन्तात् हन्-धातोः “सनाशंसभिक्ष उः” इत्युप्रत्ययः। मृगावित्=मृगान् विध्यतीति मृगावित्, “व्यधताडने” इति धातोः क्विप्, “ग्रहिज्यावयि-व्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां क्ङिति च” इति सम्प्रसारणं, “नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ” इति पूर्वस्य दीर्घः। उत्सुकहंसनादान्=उत्सुकाश्च ते हंसा उत्सुकहंसाः (क० धा०), तेषां नादा उत्सुकहंसनादास्तान् (ष० त०)। आकर्णयन्=“लक्षणहेत्वोः क्रियायाः” इति शतृप्रत्ययः। वर्त्तमानकालस्य भूतेनाऽभिसम्बध्यमानत्वेऽपि “धातुसम्बन्धे प्रत्ययाः” इति साधुत्वम्। अत्र जिघांसादिसामग्रीसत्त्वेऽपि लक्ष्य- समाधिरूपकार्यस्य हंसनादाकर्णनेन अनुत्पत्तेः उक्तनिमित्ता विशेषोक्तिरलङ्कारः। “सति हेतौ फलाऽभावे विशेषोक्तिस्तथा द्विधा।” इति तल्लक्षणम्।

**भावाऽर्थः—**भ्रमरगाने दत्तचित्तं निश्चेष्टं मृगं हन्तुमिच्छुः व्याधः उत्कण्ठितहंसशब्दान् शृण्वन् (तदासक्तचित्तत्वेन) मृगरूपे शरव्ये एकाग्रतां नाऽधारयत्।

**भाषाऽर्थः—**भ्रमरोंके गीतमें दत्तचित्त अतएव निश्चेष्ट मृगको मारनेकी इच्छा करनेवाले व्याध (बहेलिया) ने उत्कण्ठित हंसोंके शब्दों को सुन कर मृगरूप निशानेमें एकाग्रता नहीं की॥७॥

गिरेर्नितम्बे मरुता विभिन्नं तोयाऽवशेषेण हिमाभमभ्रम्।
सरिन्मुखाऽभ्युच्चयमादधानं शैलाऽधिपस्याऽनुचकार लक्ष्मीम्॥८॥

**अन्वयः—**गिरेः नितम्बे मरुता विभिन्नं, तोयाऽवशेषेण हिमाभं, सरिन्मुखाऽभ्युच्चयम् आदधानम् अभ्रं शैलाधिपस्य लक्ष्मीम् अनुचकार।

**प्रयोगप०—**विभिन्नेन^(…)हिमाभेन सरिन्मुखाऽभ्युच्चयमादधानेन अभ्रेण शैलाऽधिपलक्ष्मीरनुचक्रे।

**व्याख्या—**गिरेः=पर्वतस्य, नितम्बे=कटके (मध्यभागे इत्यर्थः), मरुता=वायुना, विभिन्नं=विस्तारितं, तोयाऽवशेषेण= जलाऽवशेषेण (अल्पजलाऽवशिष्टत्वेन), हिमाभं=तुषारप्रभं, सरिन्मुखाऽभ्युच्चयम्=नदीप्रवाहवृद्धिम्, आदधानं=कुर्वाणम् (प्राक्क्षण एव वृष्ट्या कृतोच्चयमित्यर्थः ), अभ्रं=मेघः, शैलाऽधिपस्य=

पर्वतेश्वरस्य (हिमालयस्येत्यर्थः), लक्ष्मीं=शोभाम्, अनुचकार=अनुकृतवत् (हिमालयसदृशीं शोभां प्रापेति भावः)।

**व्युत्पत्तिः—**नितम्बे=“कटकोऽस्त्री नितम्बोऽद्रेः” इत्यमरः। तोयाऽवशेषेण=तोयानामवशेषस्तोयाऽवशेषस्तेन (ष० त०), “हेतौ” इति तृतीया। हिमाऽऽभं=हिमस्येव आभा यस्य तत् (बहु०)। सरिन्मुखाऽभ्युच्चयं=सरितां मुखानि सरिन्मुखानि (ष० त०), सरिन्मुखेषु अभ्युच्चयः सरिन्मुखाऽभ्युच्चयस्तम्(स० त०)। शैलाऽधिपस्य=शैलानाम् अधिपः शैलाधिपस्तस्य (ष० त०)।

**भावाऽर्थः—**पर्वतमध्यभागे वायुना विस्तारितोऽल्पजलाऽवशिष्टत्वेन हिमसदृशो नदीप्रवाहवृद्धिं कुर्वाणः मेघो हिमालयशोभां विडम्बयामास।

**भाषाऽर्थः—**पर्वतके मध्यभागमें वायुसे विस्तारित, थोड़ा जल बाकी रहनेसे बर्फकी तरह और नदीप्रवाह बढ़ानेवाले मेघने हिमालय पर्वतकी शोभाका अनुकरण (नकल) किया॥८॥

गर्जन् हरिः साऽम्भसि शैलकुञ्जे प्रतिध्वनीनात्मकृतान्निशम्य।
क्रमं बबन्ध क्रमितुं सकोपः प्रतर्कयन्नन्यमृगेन्द्रनादान्॥९॥

**अन्वयः—**हरिः साऽम्भसि शैलकुञ्जे गर्जन् आत्मकृतान् प्रतिध्वनीन् निशम्य अन्यमृगेन्द्रनादान् प्रतर्कयन् सकोपः (सन्) क्रमितुं क्रमं बबन्ध।

**प्रयोगप०—**हरिणा^(…)गर्जता^(…)प्रतर्कयता सकोपेन (सता) क्रमितुं क्रमो बबन्धे।

**व्याख्या—**हरिः=सिंहः, साऽम्भसि=सजले, शैलकुञ्जे=पर्वतनिकुञ्ज, गर्जन्=शब्दं कुर्वन्, आत्मकृतान्= स्वगर्जनोत्पन्नान् प्रतिध्वनीन्=प्रतिशब्दान्, निशम्य=श्रुत्वा, अन्यमृगेन्द्रनादान्=प्रतिसिंहगर्जितानि, प्रतर्कयन्= मन्यमानः, सकोपः=क्रुद्धः (सन्), क्रमितुम्=उत्पतितुं, क्रमं=पादन्यासंबबन्ध=चकार।

**व्युत्पत्तिः—**हरिः=“सिंहो मृगेन्द्रः पञ्चाऽऽस्यो हर्यक्षः केसरी हरिः।” इत्यमरः। साऽम्भसि=अम्भसा सहितः साऽम्भाः, तस्मिन् (बहु०)। शैलकुञ्जे=शैलस्य कुञ्जः शैलकुञ्जः, तस्मिन् (ष० त०), “निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे।” इत्यमरः। आत्मकृतान्=आत्मना कृता आत्मकृतास्तान् (तृ० त०)। अन्यमृगेन्द्रनादान्=मृगेषु इन्द्रो मृगेन्द्रः (स० त०), अन्यश्चाऽसौ मृगेन्द्रः अन्यमृगेन्द्रः, (क० धा०), तस्य नादा अन्यमृगेन्द्रनादास्तान्

(ष० त०)। सकोपः=कोपेन सहितः सकोपः (बहु०)। अत्र स्वप्रतिध्वनिषु सादृश्यात् प्रतिसिंहगर्जनभ्रान्तेर्भ्रान्तिमदलङ्कारः। “साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान्प्रतिभोत्थिता।” इति साहित्यदर्पणः।

**भावाऽर्थः—**सिंहः जलयुक्ते पर्वतनिकुञ्जे गर्जन् स्वगर्जनप्रतिध्वनीन् श्रुत्वा प्रतिसिंहशब्दान् मन्यमानः क्रुद्धः सन् आक्रमितुं तत्परोऽभूत्।

**भाषाऽर्थः—**सिंह जलयुक्त पर्वतनिकुञ्जमें गर्जन करता हुआ गर्जनकी प्रतिध्वनियोंको “ये दूसरे सिंहके शब्द हैं” ऐसा विचारता हुआ क्रुद्ध हो कर आक्रमणके लिए तैयार हुआ॥९॥

अदृक्षताऽम्भांसि नवोत्पलानि रुतानि चाऽश्रोषत षट्पदानाम्।
आघ्रायि वान् गन्धवहः सुगन्धस्तेनाऽरविन्दव्यतिषङ्गवांश्च॥१०॥

**अन्वयः—**तेन नवोत्पलानि अंम्भांसि अदृक्षत, षट्पदानां रुतानि अश्रोषत, वान् अरविन्दव्यतिषङ्गवान् सुगन्धः गन्धवहः आघ्रायि च॥१०॥

**प्रयोगप०—**सः नवोत्पलानि अम्भांसि अदर्शत् (अद्राक्षीद्वा), रुतानि अश्रौषीत्, वान्तम् अरविन्दव्यतिषङ्गवन्तं सुगन्धं गन्धवहम् आघ्रात् (आघ्रासीद्वा)।

**व्याख्या—**तेन=रामेण, नवोत्पलानि=नूतनकमलयुक्तानि, अम्भांसि=जलानि, अदृक्षत=दृष्टानि, षट्पदानां= भ्रमराणां रुतानि=झङ्काराः, अश्रोषत=श्रुतानि, वान्=मन्दं गच्छन्, अरविन्दव्यतिषङ्गवान्=कमलसम्पर्कयुतः, सुगन्धः=शोभनगन्धः, गन्धवहः=वायुः, आघ्रायि च=घ्रातश्च (एवं सर्वतः सुखलाभात् श्रमसम्भावना नासीदिति भावः)।

**व्युत्पत्तिः—**नवोत्पलानि=नवानि उत्पलानि येषु तानि (बहु०)। अम्भांसि=“अम्भोऽर्णस्तोयपानीयनीरक्षीराऽम्बुशम्बरम्।” इत्यमरः, कर्मत्वेऽपि “अदृक्षत” इति तिङन्तपदेन उक्तत्वात्प्रथमा। अदृक्षत=दृशेः कर्मणि लुङि चिण्वदिडभावपक्षे “शलइगुपधादनिटः क्सः” इति प्राप्तस्य क्सादेशस्य “न दृशः” इति निषेधः। हलन्तत्वात् “लिङ्सिचावात्मनेपदेषु” इति कित्वान्न गुणः। षट्पदानां=षट् पदानि येषां ते षट्पदास्तेषाम् (बहु०), “द्विरेफपुष्पलिशृङ्गषट्पदभ्रमरालयः” इत्यमरः। अश्रोषत=“श्रु श्रवणे” इति धातोः कर्मणि लुङ्। वान्=वातीति वान्, “वा गतिगन्धनयोः” इति धातोः शतृप्रत्ययः। अरविन्द-व्यतिषङ्गवान्=अरविन्दानां व्यतिषङ्गः अरविन्दव्यतिषङ्गः (ष० त०), सः अस्यास्तीति (मतुप्)।

सुगन्धः=शोभनः गन्धः यस्य सः (बहु०)। “गन्धस्येदुत्पूतिसुसुरभिभ्यः” इति इकारः न भवति, गन्धस्येत्त्वे तदेकान्तग्रहणात्। गन्धवहः=वहतीति वहः, पचाद्यच्। गन्धस्य वहः गन्धवहः (ष० त०)। आघ्रायि=“घ्रा गन्धोपादाने” इति धातोः कर्मणि लुङ्, चिणि युक्।

**भावाऽर्थः—**रामो नवकमलशोभिताञ्जलाशयानपश्यत्, भ्रमरझङ्कारानश्रौषीत्, मन्दगतिं कमलसम्पर्कसुरभिं वायुमाघ्राच्च।

**भाषाऽर्थः—**रामचन्द्रने नये कमलोंसे शोभित जलाशयोंको देखा, भ्रमरोंके शब्दोंको सुना और मन्द मन्द चलता हुआ तथा कमलके सम्पर्कसे खुशबूदार वायुका आघ्राण भी किया॥१०॥

लताऽनुपातं कुसुमान्यगृह्णात् स नद्यवस्कन्दमुपास्पृशच्च।
कुतूहलाच्चारुशिलोपवेशं काकुत्स्थईषत्स्मयमान आस्त॥११॥

**अन्वयः—**स काकुत्स्थः कुतूहलात् ईषत् स्मयमानः लताऽनुपातं कुसुमानि अगृह्णात्, नद्यवस्कन्दम् उपास्पृशत् चारुशिलोपवेशम् आस्त च।

**प्रयोगप०—**तेन काकुत्स्थेन^(….)स्मयमानेन कुसुमानि अगृह्यन्त, .. उपास्पृश्यत, ^(…)आस्यत।

**व्याख्या—**सः=पूर्वोक्तः, काकुत्स्थः=रामचन्द्रः, कुतूहलात्=कौतुकात्, ईषत्=मन्दं, स्मयमानः=हसन्, लताऽनुपातं =लतां लताम् अनुपात्य आसाद्य लतामनुपात्य अनुपात्य वा, कुसुमानि=पुष्पाणि, अगृह्णात्=गृहीतवान्, नद्यवस्कन्दं= नदीं नदीं गत्वा वा नदीं गत्वा गत्वा, उपास्पृशत्=आचामत् (आचमनं कृतवानित्यर्थः), चारुशिलोपवेशं=सुन्दरशिलां सुन्दरशिलामुपविश्य वा सुन्दरशिलामुपविश्य उपविश्य, आस्त=आसितवान् (विश्रामं कृतवानित्यर्थः)।

**व्युत्पत्तिः—**ककुदि (महोक्षरूपस्येन्द्रस्येत्यर्थः) तिष्ठतीति ककुत्स्थः (कप्रत्ययः), तस्य गोत्राऽपत्यं पुमान् काकुत्स्थः, “तस्याऽपत्यम्” इत्यण्, “तद्धितेष्वचामादेः” इत्यादिवृद्धिश्च। स्मयमानः=स्मयते इति स्मयमानः, “स्मिङ् ईषद्धसने” इति धातोः शानच्, “आने मुक्” इति मुगागमश्च। अत्र ईषत्पदस्य धात्वर्थाऽन्तः पातित्वेऽपि पुनर्ग्रहणं गुरुजनसकाशे विनयाऽतिशयोपेतमन्दहास्यद्योतनाऽर्थम्। लताऽनुपातं=लतां लतामनुपात्य (आसाद्य) लताभनुपात्याऽनुपात्य वा। नद्यवस्कन्दं=नदीं नदीमवस्कन्द्य (गत्वा) नदीमवस्कन्द्य अवस्कन्द्य वा। चारुशिलोप-

वेशं=चारुथाऽसौ शिला चारुशिला (क० धा०)। चारुशिलां चारुशिलामुपविश्य चारुशिलामुपविश्य उपविश्य वा, त्रिष्वपि “विशिपतिपदिस्कन्दां व्याप्यमानाऽऽसेव्यमानयोः” इति द्वितीयाऽन्ते उपपदे णमुल् । “उपपदमतिङ्” इति समासः। “कृन्मेजन्त” इत्यव्ययत्वम्। अगृह्णात् “ग्रह उपादाने” इति धातोः लङि श्नाप्रत्ययः सम्प्रसारणं च। उपास्पृशत्=“स्पृश संस्पर्शने” इति धातोर्लङ्। “उपस्पर्शस्त्वाचमनम्” इत्यमरः। आस्त=“आस उपवेशने” इति धातोर्लङ्। “अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्” इति सकर्मकत्वम्।

**भावाऽर्थः—**रामः कौतुकात् मन्दहास्यं कुर्वन् लतां लतामासाद्य पुष्पावचायमकरोत् नदीं नदीं गत्वा आचचाम तथा च चारुशिलां चारुशिलामुपाविशच्च।

**भाषाऽर्थः—**रामचन्द्रजीने कौतुकसे कुछ हंसकर लतामें पहुँच पहुँच कर फूलोंको तोड़ा, नदीमें जा जा कर आचमन किया और सुन्दर पत्थर में बैठ बैठ कर विश्राम भी किया॥११॥

तिग्मांशुरश्मिच्छुरिताऽन्यदूरात् प्राञ्चि प्रभाते सलिलान्यपश्यत्।
गभस्तिधाराभिरिव द्रुतानि तेजांसि भानोर्भुवि संभृतानि॥१२॥

**अन्वयः—**प्रभाते अदूरात् प्राञ्चि तिग्मांशुरश्मिच्छुरितानि सलिलानि गभस्तिधाराभिः द्रुतानि (सन्ति) भुवि संभृतानि भानोः तेजांसि इव अपश्यत्।

प्रयोगप०—(तेन) प्राञ्चि तिग्मांशुरश्मिच्छुरितानि सलिलानि द्रुतानि सम्भृतानि तेजांसीव अदृश्यन्त।

व्याख्या—(सः=रामः) प्रभाते=प्रातःकाले, अदूरात्=समीपे, प्राञ्चि=प्राच्यानि (पूर्वदिग्भवानि), तिग्मांऽशुरश्मिच्छुरितानि= सूर्यकिरणरञ्जितानि, सलिलानि=जलानि, गभस्तिधाराभिः=किरणपरम्पराभिः, द्रुतानि=क्षरितानि (सन्ति), भुवि=पृथिव्यां, सम्भृतानि=सञ्चितानि, भानोः=सूर्यस्य, तेजांसि इव=दीप्तीः इव, अपश्यत्=ददर्श।

**व्युत्पत्तिः—**अदूरात्=न दूरमदूरं तस्मात् (नञ्०), “दूराऽन्तिकाऽर्थेभ्यो द्वितीया च” इत्यत्र चात् पञ्चमी (तृतीया च), “सप्तम्यधिकरणे च” इत्यत्राऽपि चात् दूराऽन्तिकाऽर्थेभ्यः सप्तम्यपि। तिग्मांशुरश्मिच्छुरितानि=तिग्माः अंशवः यस्य स तिग्मांशुः (बहु०), “तिग्मं तीक्ष्णं खरं तद्वत्” इत्यमरः। तिग्मां-

शोः (सूर्यस्य) रश्मयः तिग्मांशुरश्मयः (ष० त०), तैश्छुरितानि तिग्मांशुरश्मिच्छुरितानि (तृ० त०), तानि (कर्म, सलिल-विशेषणम्), गभस्तिधाराभिः=गभस्तीनां धाराः गभस्तिधारास्ताभिः (ष० त०), “किरणोस्रमयूखांऽशुगभस्तिघृणिरश्मयः।” इत्यमरः। अपश्यत्=दृशेर्लङि “पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदांपिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः” इति पश्यादेशः। अत्रोत्प्रेक्षाऽलङ्कारः तल्लक्षणं यथा—“भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना।” इति।

**भावाऽर्थः—**रामः प्रातः निकटे पूर्वदिग्भवानि सूर्यकिरणरञ्जितानि जलानि सूर्यकिरणपरम्पराभिः क्षरितानि पृथिव्यां सञ्चितानि सूर्यतेजांसि इव अपश्यत्।

**भाषाऽर्थः—**रामचन्द्रजीने प्रातःकालमें निकट ही पूर्वदिशामें विद्यमान, सूर्यकिरणोंसे रञ्जित जलोंको किरणसमूहोंसे विगलित होकर पृथिवीपर एकत्रित सूर्यकी दीप्तियोंके सदृश विचार किया॥१२॥

दिग्व्यापिनीर्लोचनलोभनीया मृजान्वयाः स्नेहमिव स्रवन्तीः।
ऋज्वायताः शस्यविशेषपङ्क्तीस्तुतोष पश्यन्वितृणाऽन्तरालाः॥१३॥

अन्वयः—(सः) दिग्व्यापिनीःलोचनलोभनीयाः मृजान्वयाः स्नेहं स्रवन्तीरिव ऋज्वायताः वितृणाऽन्तरालाः शस्यविशेष-पङ्क्तीःपश्यन् तुतोष।

प्रयोगप०—(तेन) ^(..)सस्यविशेषपङ्क्तीःपश्यता तुतुषे।

**व्याख्या—**दिग्व्यापिनीः=दिगन्तविस्तीर्णाः, लोचनलोभनीयाः=नेत्रप्रलोभिकाः, मृजाऽन्वयाः=शुद्ध्यन्विताः (स्वच्छा इत्यर्थः), स्नेह=चिक्कणतां, स्रवन्तीः इव=क्षरन्तीः इव, ऋज्वायताः=सरलदीर्घाः, वितृणाऽन्तरालाः=उत्पाटिताऽन्तस्तृणाः, शस्यविशेषपङ्क्तीः=शाल्यादिशस्यराजीः, पश्यन्=अवलोकयन्, तुतोष=तुष्टवान्।

**व्युत्पत्तिः—**दिग्व्यापिनीः=दिशो व्याप्नुवन्तीति तच्छीलाः दिग्व्यापिन्यस्ताः (णिनिस्तदन्तान्ङीप् च)। लोचनलोभनीयाः= लोभयन्तीति लोभनीयाः, “लुभ विमोहने” इति धातोः “कृत्यल्युटो बहुलम्” इति वचनात् कर्तरि अनीयर। लांचनानां लोभनीया लोचनलोभनीयास्ताः (ष० त०) शस्यविशेषपङ्क्तिविशेषणम्। मृजाऽन्वयाः=मार्जनं मृजा, शुद्धिः “मृजू शौचाऽलङ्करणयोः” इति धातोः “षिद्भिदादिभ्योऽङ्” इत्यङ्। मृजया अन्वयः (अनुगमः) यासां ता मृजाऽन्वयाः, ताः (बहु०)। स्रवन्तीरिव= अत्रोत्प्रेक्षाऽलङ्कारः, लक्षणं प्रागुक्तम्। ऋज्वायताः=

ऋजवश्च ता आयता ऋज्वायतास्ताः (क० वा०)। “ऋजावजिह्मप्रगुणौ” इत्यमरः। वितृणान्तरालाः=विगतानि तृणानि येभ्यस्तानि वितृणानि “प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः” इति बहुव्रीहिः उत्तरपदलोपश्च। वितृणानि अन्त-रालानि यासां ताः वितृणाऽन्तरालास्ताः (बहु०)। शस्यविशेषपङ्क्तीः=शस्यानां विशेषाः शस्यविशेषाः (ष० त०), तेषां पङ्क्तयः शस्यविशेषपङ्कयस्ताः (ष० त०)। अत्र स्वभावोक्तिरलङ्कारः, तल्लक्षणं यथा—“स्वभावोक्तिर्दुरूहाऽर्थस्वक्रियारूपवर्णनम्।” इति साहित्यदर्पणः।

**भावाऽर्थः—**रामचन्द्रः अतिविस्तीर्णाः दृष्टिमधुराः स्वच्छाः स्निग्धाः सरलदीर्घाः उत्खाताऽन्तस्तृणाः शाल्यादिशस्य-पङ्क्तोर्विलोकयन्नतुष्यत्।

**भाषाऽर्थः—**रामचन्द्रजी दिशाओमें फैली हुई, नेत्रोंको लुभानेवाली, स्वच्छ, स्निग्ध, सरल और दीर्घ तथा भीतर तृणोंसे रहित शालि आदि अनाजोंकी पङ्क्तियोंको देखकर सन्तुष्ट हुए॥१३॥

वियोगदुःखाऽनुभवाऽनभिज्ञैः काले नृपांऽशं विहितं ददद्भिः।
आहार्यशोभारहितैरमायैरैक्षिष्ट पुम्भिः प्रचितान्स गोष्ठान्॥१४॥

**अन्वयः—**स वियोगदुःखाऽनुभवाऽनभिज्ञै; विहितं नृपाऽशं काले ददद्भिः आहार्यशोभारहितैः अमायैः पुंभिः प्रचितान् गोष्ठान् ऐक्षिष्ट।

**प्रयोगप०—**तेन^(….)अमायैः पुंभिः प्रचितानि गोष्ठानि ऐक्षिषत।

**व्याख्या—**सः=रामः, वियोगदुःखाऽनुभवाऽनभिज्ञैः=विरहबाधाऽनुभूतिरहितैः, विहितं=धर्मशास्त्रनिर्दिष्टं, नृपांऽशं=राज-देयं करं, काले=निर्दिष्टसमये, ददद्भिः=यच्छद्भिः, आहार्यशोभारहितैः=कटकाद्यलङ्कारसम्पाद्यकान्तिशून्यैः, अमायैः= अकपटैः, पुम्भिः=पुरुषैः (गोपैरित्यर्थः), प्रचितान्= व्याप्तान्, गोष्ठान्=गोनिवासान् (व्रजानित्यर्थः), ऐक्षिष्ट=अद्राक्षीत्।

**व्युत्पत्तिः—**वियोगदुःखाऽनुभवाऽनभिज्ञैः=वियोगेन (हेतुना) दुःखं वियोगदुःखम् (तृ० त०), तस्य अनुभवः वियोग-दुःखाऽनुभवः (ष० त०)। न अभिज्ञा अनभिज्ञाः (नञ् ०)। वियोगदुःखानुभवे अनभिज्ञाः वियोगदुःखाऽनु- भवाऽनभिज्ञास्तैः (स० त०)। विहितं=विपूर्वकधाधातोः “निष्ठा” इति क्तप्रत्ययः, “दधातेर्हिः” इति ह्यादेशः। नृपांऽशं= नृपस्य अंशो नृपांऽशस्तम् (ष० त०)। ददद्भिः=ददतीति ददतः तैः। “डुदाञ् दाने” इति धातोः शतृप्रत्ययः,

“उभे अभ्यस्तम्” इति अभ्यस्तसंज्ञत्वात् “नाऽभ्यस्ताच्छतुः” इति नुमभावः। आहार्यशोभारहितैः=आहर्तुं योग्या आहार्या (आहरणीया, कटकादिभिरिति शेषः) ‘‘ऋहलोर्ण्यत्” इति ण्यत्। आहार्या चाऽसौ शोभा आहार्यशोभा (क० धा०), “पुंवत्कर्मधारयजातीयदेशीयेषु” इति पूर्वपदस्य पुंवद्भावः। आहार्यंशोभया रहिता आहार्यशोभारहितास्तैः (तृ० त०)। अमायैः=अविद्यमाना माया येषां ते अमायास्तैः, “नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोप” इति नञ्बहुत्रोहिः। गोष्ठान्= गावस्तिष्ठन्त्यत्रेति गोष्ठा गोनिवासास्तान्, “सुपि स्थ” इति कप्रत्ययः, यद्वा “घञर्थे कविधानम्” इति कप्रत्ययः। “अम्बाऽम्ब-गोभूमिसव्यापद्वित्रिकुशेकुशङ्कङ्गमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः” इति षत्वम्। विशेष्य (निवास) लिङ्गविवक्षया पुंलिङ्ग-निर्देशः। “गोष्ठंगोस्थानकम्” इत्यमरश्लोके तु विशेष्यभूतस्थानलिङ्गविवक्षया नपुंसकत्वम्। ऐक्षिष्ट=“ईक्षदर्शने” इति धातोर्लुङ्।

**भाषाऽर्थः—**रामः अननुभूतविरहदुःखैः शास्त्रनिर्दिष्टं राजदेयं करम् उचिताऽवसरे ददद्भिः कटकाद्यलङ्कारसम्पाद्यशोभा-रहितैः निश्छलैः पुरुषैर्व्याप्तानि गोष्ठानि ददर्श।

**भाषाऽर्थः—**रामने वियोगदुःखके अनुभवमें अनभिज्ञ, धर्मशास्त्रनिर्दिष्ट राजदेय करको उचित अवसरमें देनेवाले, कुण्डल आदि कृत्रिम अलङ्कारोंकी शोभासे रहित तथा कपटशून्य ऐसे पुरुषों (गोपों) से व्याप्त गोष्ठोंको देखा॥१४॥

स्त्रीभूषणं चेष्टितमप्रगल्भं चारूण्यवक्राण्यपि वीक्षितानि।
ऋजूंश्च विश्वासकृतः स्वभावान् गोपाङ्गनानां मुमुदे विलोक्य॥१५॥

अन्वयः—(सः) गोपाङ्गनानां स्त्रीभूषणम् अप्रगल्भं चेष्टितम्, अवक्राणि अपि चारूणि वीक्षितानि विश्वासकृतः ऋजून् स्वभावांश्च विलोक्य मुमुदे।

प्रयोगप०—(तेन) ^(………)मुमुदे।

व्याख्या—(रामः) गोपाऽङ्गनानाम्=आभीरसुन्दरीणां, स्त्रीभूषणं=नार्यलङ्कारभूतम्, अप्रगल्भम्=अधृष्टं, चेष्टितं=व्यापारम् अवक्राणि अपि=अकुटिलानि अपि (कटाक्षादिरहितान्यपि इत्यर्थः), चारूणि=सुन्दराणि, वीक्षितानि=विलोकितानि, विश्वासकृतः=विश्वासजनकान्, ऋजून्=सरलान्, स्वभावांश्च=शीलानि च, विलोक्य=दृष्ट्वा, मुमुदे= हृष्टवान्।

**व्युत्पत्तिः—**गोपाऽङ्गनानां=गोपानाम् अङ्गना गोपाऽङ्गनास्तासाम् (ष०त०),

“गोपे गोपालगोसङ्ख्यगोधुगाभीरबल्लवाः।” इत्यमरः। स्त्रीभूषणं=स्त्रीणां भूषणं स्त्रीभूषणं, तत् (ष० त०)। अप्रगल्भं=न प्रगल्भम् अप्रगल्भं, तत् (नञ् ०)। अवक्राणि=न वक्राणि अवक्राणि तानि (नञ्०)। विश्वासकृतः=विश्वासं कुर्वन्तीति विश्वासकृतस्तान्, क्विप् प्रत्ययः, “ह्रस्वस्य पिति कृति तुक्” इति तुगागमश्च। “ऋजूंश्च विश्वासकृतः स भावान्” इति मल्लिनाथ-सम्मतः पाठः। तन्मते–सः=रामः, भावान्=स्वभावानयमेवाऽर्थः। मुमुदे=“मुद हर्षे” इति धातोर्लिट्। “असंयोगाल्लिट् कित्” इति कित्वाद्गुणाऽभावः।

**भावाऽर्थः—**रामो गोपीनां स्त्रीभूषणं सलज्जं चेष्टितं, कटाक्षरहितान्यपि सुन्दराण्यवलोकितानि विश्वासोत्पादकान् सरलस्वभावांश्च दृष्ट्वा प्रसन्नोऽभूत्।

**भाषाऽर्थः—**रामचन्द्र गोपियोंकी स्त्रीजनोचित भूषणभूत सलज्ज चेष्टा, कटाक्षरहित हो कर भी सुन्दर दृष्टिनिक्षेप और विश्वासको उत्पन्न करनेवाले सुन्दर शीलोंको भी देख कर प्रसन्न हुए॥१५॥

विवृत्तपार्श्वं रुचिराऽङ्गहारं समुद्वहच्चारुनितम्बरम्यम्।
आमन्द्रमन्थध्वनिदत्ततालं गोपाऽङ्गनानृत्यमनन्दयत्तम्॥१६॥

**अन्वयः—**विवृत्तपार्श्वं रुचिराङ्गहारं समुद्वहच्चारुनितम्बरम्यम् आमन्द्रमन्थध्वनिदत्ततालं गोपाऽङ्गनानृत्यं तम् अनन्दयत्।

**प्रयोगप०—**विवृत्तपार्श्वेन रुचिराङ्गहारेण समुद्वहच्चारुनितम्बरम्येण आमन्द्रमन्थध्वनिदत्ततालेन गोपाऽङ्गनानृत्येन सोऽनन्द्यत।

**व्याख्या—**विवृत्तपार्श्वं=तिर्यक्चलितपार्श्वं, रुचिराऽङ्गहारं=सुन्दराऽङ्गविक्षेपं, समुद्वहच्चारुनितम्बरम्यं=प्रचलद्रुचिरनितम्ब-सुन्दरम्, आमन्द्रमन्थध्वनिदत्तता-लम्=ईषद्गम्भीरमन्थनशब्दाऽर्पितकालक्रियामानं, गोपाऽङ्गनानृत्यं=बल्लवसुन्दरीलास्यं, तं=रामम्, अनन्दयत्=आह्लादयाञ्चकार।

**व्युत्पत्तिः—**विवृत्तपार्श्वं=विवृत्ते पार्श्वे यस्मिंस्तत् विवृत्तपार्श्वं (बहु०)। रुचिराऽङ्गहारं=रुचिरः अङ्गहारः यस्मिंस्तत् (बहु०), “अङ्गहारोऽङ्गविक्षेपः” इत्यमरः। समुद्वहच्चारुनितम्बरम्यं=चारुश्चाऽसौ नितम्बश्चारुनितम्वः (क० धा०)। समुद्वहंश्चाऽसौ चारुनितम्बः समुद्वहच्चारुनितम्बः (क०धा०) तेन रम्यम् (तृ०त०)। आमन्द्रमन्थध्वनिदत्ततालम्= ईषन्मन्द्रः आमन्द्रः “कुगतिप्रादय” इति समासः। मन्थस्य ध्वनिः मन्थध्वनिः (ष० त०)। आमन्द्रश्चाऽसौ मन्थध्वनिः आमन्द्र-

मन्थध्वनिः (क० धा०)। दत्तस्तालो वस्मिंस्तत् दत्ततालं (बहु०), “तालः कालक्रियामानम्” इत्यमरः। आमन्द्रमन्थध्वनिना दत्ततालम्० (तृ० त०)। गोपाऽङ्गनानृत्यं=गोपानामङ्गना गोपाऽङ्गनाः (ष० त०)। तासां नृत्यम् (ष०त०)। अनन्दयत्=णिच्प्रत्ययान्तस्य “टुनदि समृद्धौ” इति धातोर्लङि रूपम्। अत्र गात्रकर्मणि नृत्यत्वारोपाद्रूपकाऽलङ्कारः। तल्लक्षणं “रूपकं रूपितारोपाद्विषये निरपह्नवे।” इति साहित्यदर्पणे। तच्च रूपकं स्वभावोक्तिसङ्कीर्णम्।

**भावाऽर्थः—**गोपीनां दधिमन्थनाऽवसरे तिर्यक्चलितपार्श्वं सुन्दराऽङ्गविक्षेपयुक्तं प्रचलता चारुनितम्बेन रुचिरम् ईषद्गम्भीरमन्थध्वनिना दत्ततालं शरीरसञ्चालनं नृत्यमिव (नृत्यमपि पूर्वोक्तरूपं भवति) रामचन्द्रमाह्लादयाञ्चकार।

**भाषाऽर्थः—**दही मथनेके समयमें दो पार्श्वोंके तिरछे चलनेसे सुन्दर अङ्गविक्षेपसे, सुन्दर नितम्बके हिलनेसे और कुछ गम्भीर मन्थनध्वनिरूप तालसे गोपियोंके अङ्गसञ्चालनने नृत्यकी तरह रामचन्द्रको आनन्दित किया॥१६॥

विचित्रमुच्चैः प्लवमानमारात् कुतूहलं त्रस्नु ततान तस्य।
मेघाऽत्ययोपात्तवनोपशोभं कदम्बकं वातमजं मृगाणाम्॥१७॥

**अन्वयः—**विचित्रम् आरात् उच्चैः प्लवमानं त्रस्नुमेघाऽत्ययोपात्तवनोपशोभं वातमजं मृगाणां कदम्बकं तस्य कुतूहलं ततान।

**प्रयोगप०—**विचित्रेण^(….)प्लवमानेन त्रस्नुना मेघाऽत्ययोपात्तवनोपशोभेन वातमजेन मृगाणां कदम्बकेन कुतूहलं तेने।

**व्याख्या—**विचित्रं=चित्ररूपम्, आरात्=दूरात्, उच्चैः=उन्नतं, प्लवमानं=वल्गत्, त्रस्नु=भयशीलं, मेघाऽत्ययोपात्तवनोप-शोभं=शरदागमेन काननं सौन्दर्यं च प्राप्तवत्, वातमजं=वाताऽभिगामि, मृगाणां हरिणानां, कदम्बकं=समूहः, तस्य=रामस्य, कुतूहलं=कौतुकं, ततान=वितस्तार।

**व्युत्पत्तिः—**विचित्रं=विशेषेण चित्रं विचित्रं, सुप्सुपा समासः। आरात्=“आराद्दूरसमीपयोः” इत्यमरः। प्लवमानं=प्लवते इति, “प्लुङ् गतौ” इति धातोः शानच्। त्रस्नु=त्रसनशीलमिति त्रस्नु’ “त्रसी उद्वेगे” इति धातोः “त्रसिगृधिधृषिक्षिपेः क्नुः” इति क्नुप्रत्ययः। मेघाऽत्ययोपात्तवनोपशोभं=मेघानामत्ययो मेघात्ययः (ष० त०), तेन उपात्ते मेघात्ययोपात्ते (तृ० त०)। वनं च उपशोभा च वनोपशोभे, “चाऽर्थे द्वन्द्वः” इति द्वन्द्वः। मेघाऽत्ययोपात्ते वनोपशोभे येन तत्

ब० व्री०)। वातमजं=वातमजतीति वातमजं, “वातशुनीतिलशर्द्धेष्वजधेटतुदजहातिभ्यः खश उपसङ्ख्यानम्” इति वातोपपदादजेः खश्, “अरुर्द्विषदजन्तस्य मुम्” इति मुमागमः। कदम्बकं=“स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम्।” इत्यमरः। स्वभावोक्तिरलङ्कारः।

**भावार्थः—**चित्ररूपो दूरत उदग्रं वल्गन् अधीरः शरदागमेन प्राप्तकाननसौन्दर्यः वाताऽभिगामी मृगसमूहः रामस्य उत्सुकतां विस्तारितवान्।

**भाषाऽर्थः—**चित्ररूपवाला, दूरसे ऊपर उछलता हुआ, डरपोक, शरद् ऋतुके आनेसे वन और सौन्दर्यको पानेवाला, और वायुके अभिमुख दौडनेवाला मृगसमूहने रामकी उत्सुकताको बढाई॥१७॥

सिताऽरविन्दप्रचयेषु लीनाः संसक्तफेनेषु च सैकतेषु।
कुन्दाऽवदाताः कलहंसमालाः प्रतीयिरे श्रोत्रसुखैर्निनादैः॥१८॥

**अन्वयः—**सिताऽरविन्दप्रचयेषु संसक्तफेनेषु सैकतेषु च लीनाः कुन्दाऽवदाताः कलहंसमालाः श्रोत्रसुखैः निनादैः प्रतीयिरे।

प्रयोगप०—(रामः) लीनाः कुन्दाऽवदाताः कलहंसमालाः प्रतीयाय।

**व्याख्या—**सिताऽरविन्दप्रचयेषु=पुण्डरीकसमूहेषु, संसक्तफेनेषु=लग्नडिण्डीरेषु, सैकतेषु च=सिकतामयस्थानेषु च, लीनाः=गुप्ताः, कुन्दाऽवदाताः=माध्यपुष्पधवलाः, कलहंसमालाः=कादम्बपङ्क्तयः, श्रोत्रसुखैः श्रोत्रसुखैः= कर्णानन्दजनकैः, निनादैः=शब्दैः, प्रतीयिरे=प्रतीताः (ज्ञाताः)।

**व्युत्पत्तिः—**सिताऽरविन्दप्रचयेषु=सितानि च तानि अरविन्दानि सिताऽरविन्दानि, (क० धा०) “पुण्डरीकं सिताम्भोजम्” इत्यमरः। सिताऽरविन्दानां प्रचयाः सिताऽरविन्दप्रचयास्तेषु (ष० त०)। संसक्तफेनेषु=संसक्ताः फेना येषु तानि संसक्तफेनानि, तेषु (बहु०)। “डिण्डीरोऽब्धिकफः फेनः” इत्यमरः। सैकतेषु=सिकताः सन्ति येषां तानि सैकतानि, तेषु “देशे लुबिलचौ च” इति चकारादण्। कुन्दाऽवदाताः=कुन्दानि इव अवदाताः कुन्दाऽवदाताः, “उपमानानि सामान्यवचनैः” इति समासः। कलहंसमालाः=कलहंसानां मालाः (ष० त०), “प्रतीयिरे” इति तिङा उक्तत्वादुक्ते कर्मणि प्रथमा। “कादम्बः कलहंसः स्यात्” इत्यमरः। श्रोत्रसुखैः=श्रोत्रयोः सुखाः श्रोत्रसुखास्तैः (ष० त०)। निनादैः=ज्ञानरूपक्रियासिद्धौ प्रकृष्टोपकारकत्वात् “साधकतमं करणम्” इति करणसंज्ञा,

“कर्तृकरणयोस्तृतीया” इति तृतीया। प्रतीयिरे=प्रतिपूर्वादिणः कर्मणि लिट्। “इणो यण्” इति यण्, “द्विर्वचनेऽचि” इति यणः स्थानिवद्भावात् द्विर्वचने “दीर्घ इणः किति” इत्यभ्यासदीर्घः।

**भावार्थः—**पुण्डरीकषण्डेषु लग्नफेनेषु सिकतामयतटेषु च गुप्ताः माध्यपुष्पधवलाः कादम्बपङ्क्तयः कर्णानन्दोत्पादकैः शब्दैर्ज्ञाताः।

**भाषाऽर्थः—**रामचन्द्रजीने श्वेत कमलोंमें और फेनयुक्त सिकतामय तटोंमें भी छिपे हुए कुन्दपुष्पके तुल्य सफेद कादम्ब हंसोंको कानमें सुख देनेवाले उनके शब्दों से जाना॥१८॥

न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद् यदलीनषट्पदम्।
न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः॥१९॥

**अन्वयः—**तत् जलं न यत् सुचारुपङ्कजं न, तत् पङ्कजं न यत् अलीनषट्पदम्, असौ षट्पदो न यः कलं न जुगुञ्ज, तत् गुञ्जितं न, यत् मनो न जहार।

**प्रयोगप०—**तेन जलेन न येन सुचारुपङ्कजेन न (बभूवे), तेन पङ्कजेन न येन अलीनषट्पदेन (बभूवे), अमुना षट्पदेन न येन कलं न जुगुञ्जे, तेन गुञ्जितेन न येन मनो न जहो।

**व्याख्या—**तत्=तथाभूतं, जलम्=अम्बु, (तदाधारः कासारादिरित्यर्थः) न यत्, सुचारुपङ्कजं न=सुन्दरकमलयुक्तं न, तत्=तथाभूतं, पङ्कजं न=कमलं न, यत्, अलीनषट्पदम्=अस्थितभ्रमरम्, असौ षट्पदो न=अयं भ्रमरो न, यः, कलम्=अव्यक्तमधुरं, न जुगुञ्ज=न गुञ्जितवान्, तत्=तथाविधं, गुञ्जितं न=गुञ्जनं न, यत्, मनः=चित्तं, न जहार=न अहरत्।

**व्युत्पत्तिः—**सुचारुपङ्कजम्=अत्यन्तं चारु सुचारु (प्रादिसमासः)। सुचारु पङ्कजं यस्मिंस्तत् (बहु०)। पङ्कजं=पङ्के जायते इति पङ्कजं, “सप्तम्यां जनेर्डः” इति उप्रत्ययः। अलीनषट्पदम्=न लीना अलीनाः (नञ्०), षट् पदानि येषां ते षट्पदाः (बहु०)। अलीनाः षट्पदा यस्मिंस्तत् (बहु०)। जुगुञ्ज=“गुजि अव्यक्ते शब्दे” इति धातोर्लिट्। “इदितो नुम् धातोः” इति नुम्। मनः=“चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः।” इत्यमरः। अत्र पूर्वं पूर्वं विशेष्यं प्रति उत्तरोत्तरस्य अपोहनेन विशेषणोक्तेरेकावल्यलङ्कारः, “पूर्वं पूर्वं प्रति विशेष-

णत्वेन परं परम्। स्थाप्यतेऽपोह्यते वा चेत् स्यात्तदैकावली द्विधा॥” इति तल्लक्षणम्।

**भावाऽर्थः—**शरदि कासारः सुन्दरकमलयुक्तः, कमलं लीनभ्रमरं, भ्रमरः कमलगुञ्जनोपेतः गुञ्जितं च मनोहारि बभूव।

**भाषाऽर्थः—**शरत्में वह तालाव नहीं था जहाँ कि सुन्दर कमल नहीं था, वह कमल नहीं था जहाँ पर भौरा नहीं रहता था, वह भौंरा नहीं था जो कि अव्यक्त मधुर ध्वनि (झङ्कार) नहीं करे और वह झङ्कार नहीं था जो कि मनका हरण नहीं करे॥१९॥

तं यायजूकाः सह भिक्षुमुख्यैस्तपःकृशाः शान्त्युदकुम्भहस्ताः।
यायावराः पुष्पफलेन चाऽन्ये प्रानचुरर्च्या जगदर्चनीयम्॥२०॥

**अन्वयः—**तपःकृशाः यायजूकाः शान्त्युदकुम्भहस्ताः भिक्षुमुख्यैः सह जगदर्चनीयं तं प्रानर्चुः, अर्च्याःअन्ये यायावराश्च पुष्पफलेन प्रानर्चुः।

**प्रयोगप०—**तपःकृशैः यायजूकैः शान्त्युदकुम्भहस्तैः^(…)अर्च्यैःअन्यैः यायावरैश्च जगदर्चनीयः स प्रानर्चे।

**व्याख्या—**तपःकृशाः=नियमाचरणदुर्बलाः, यायजूकाः=अतियजनशीलाः, शान्त्युदकुम्भहस्ताः= शान्तिजलघटपाणयः (सन्तः), भिक्षुमुख्यैः सह=परिव्राजकवर्यैः समं, जगदर्चनीयं=लोकपूज्यं, तं=रामचन्द्रं, प्रानर्चुः= प्रकर्षेण पूजयामासुः, अर्च्याः=पूज्याः, अन्ये=अपरे, यायावराः=एकत्राऽनियतस्थानाः (मुनिविशेषाः), पुष्पफलेन=कुसुमप्रसवेन, प्रानर्चुः=प्रकर्षेण पूजयामासुः।

**व्युत्पत्तिः—**तपः कृशाः=तपसा कृशाः (तृ० त०) यायजूकाः=अत्यर्थं यजनशीला यायजूकाः, यङन्तात् यजेः “यजजपदशां यङः” इत्यूकप्रत्ययः। शान्त्युदकुम्भहस्ताः=उदकस्य कुम्भः उदकुम्भः (ष० त०) “एकहलादौ पूरयितव्येऽन्यतरस्याम्” इत्युदकस्योदादेशः। शान्त्यर्थ उदकुम्भः शान्त्युदकुम्भः “शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्” इति मध्यमपदलोपी समासः। शान्त्युदकुम्भः हस्ते येषां ते शान्त्युदकुम्भहस्ताः (बहु०)। “सप्तमीविशेषणे बहुव्रीहौ” इति हस्तपदस्य पूर्वप्रयोगे प्राप्ते “वाहिताग्न्यादिषु” इति परप्रयोगः। यद्वा “प्रहरणाऽर्थेभ्यः परे निष्ठासप्तम्यौ” इति परप्रयोगः, शान्त्युदकुम्भस्त्वहितनिवारणसाधर्म्यात् लक्षणया प्रहरणम्। भिक्षुमुख्यैः=भिक्षुषु मुख्या

भिक्षुमुख्यास्तैः, “यतश्च निर्द्धारणम्” इति सप्तमी, ततः समासः, सहयोगे “सहयुक्तेऽप्रधाने” इति तृतीया। “भिक्षुः परिव्राट् कर्मन्दी” इत्यमरः। जगदर्चनीयम्=अर्चितुं योग्यः अर्चनीयः, “अर्हे कृततृचश्च” इत्यनीयर्। जगतां जगद्भिर्वा अर्चनीयः जगदर्चनीयस्तम्, “कृत्यानां कर्तरि वा” इति षष्ठी पक्षे तृतीया वा ततः समासः। प्रानर्चुः=“अर्च पूजायाम्” इति धातोर्लिट्। “अत आदेः” इति दीर्घत्वम् , “तस्मान्नुड् द्विहलः” इति नुट्। अर्च्यः=अर्चितुं योग्याः अर्च्याः, “ऋहलोर्ण्यत्” इति ण्यत्। यायावराः=भृशं यान्तीति यायावराः, यङन्तात् यातेः “यश्च यङः” इति वरच्, यङ् लुक् च। पुष्पफलेन=पुष्पाणि च फलानि च पुष्पफलं, तेन, “जातिरप्राणिनाम्” इति बहुप्रकृतिकद्वन्द्वैकवद्भावः (समाहारद्वन्द्वः)।

**भावाऽर्थः—**तपोदुर्बलाः यज्ञशीलाः शान्तिजलघटं गृहीत्वा भिक्षुवर्यैः सह रामं पूजयामासुः, पूज्या अन्ये यायावराश्च पुष्पैः फलैश्च रामं सत्कृतवन्तः।

**भाषाऽर्थः—**तपस्यासे दुर्बल यज्ञशील ऋषियोंने हाथमें शान्तिजलसे पूर्ण घड़ा लेकर श्रेष्ठ परिव्राजकोंके साथ जगत्के पूजनीय रामचन्द्रजीकी पूजा की और अन्य यायावरों (एक जगह एक रातसे ज्यादा नहीं रहने वालों) ने भी फूल और फलोंसे रामचन्द्रजीका सत्कार किया॥२०॥

विद्यामथैनं विजयां जयां च रक्षोगणं क्षिप्नुमविक्षतात्मा।
अध्यापिपद्गाधिसुतो यथावन्निघातयिष्यन्युधि यातुधानान्॥२१॥

**अन्वयः—**अथ अविक्षतात्मा गाधिसुतः युधि यातुधानान् निघातयिष्यन् रक्षोगणं क्षिप्नुं विजयां जयां च विद्याम् एनं यथावत् अध्यापिपत्।

**प्रयोगप०—**अविक्षताऽऽत्मना गाधिसुतेन यातुधानान् निघातयिष्यता क्षिप्नुं विद्याम् एषः अध्यापि।

**व्याख्या—**अथ=अनन्तरम्, अविक्षतात्मा=रागाद्यनुपहतचित्तः, गाधिसुतः=विश्वामित्रः, युधि=संग्रामे, यातुधानान्= राक्षसान् निघातयिष्यन्=मारयिष्यन्, रक्षोगणं=राक्षससमूहं, क्षिप्नुं=निराकरिष्णुं, विजयां=विजयानाम्नीं, जयां च=जयानामिकां च, विद्यां=मन्त्रविशेषम्, एनं=रामचन्द्रं, यथावत्=यथाविधि, अध्यापिपत्=पाठितवान् (ग्राहितवानित्यर्थः)।

**व्युत्पत्तिः—**अविक्षताऽऽत्मा=न विक्षतः अविक्षतः (नञ्०), अविक्षत आत्मा यस्य सः (बहु०)। गाधिसुतः=गाधेः सुतः (ष० त०)। यातुधा-

नान्=“यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी।” इत्यमरः। निघातयिष्यन्=निघातयिष्यतीति निघातयिष्यन्, हेतुमण्णिजन्तात् हन्तेर्लृटः “लृटः सद्वा” इति शत्रादेशः। रक्षोगणं=रक्षसां गणो रक्षोगणस्तम् (ष० त०)। क्षिप्नुं=क्षिपतीति तच्छीलः क्षिप्नुः, तं, “क्षिप प्रेरणे” इति धातोः “त्रसिगृधि०” इत्यादिना क्नुः। “निराकरिष्णुः क्षिप्नुः स्यात्” इत्यमरः। विद्यां=विदन्ति अनयेति विद्या, तां, “विद ज्ञाने” इति धातोः “सञ्ज्ञायां समजनिषदनिपतमनविदषुञ्शीिंङ्भृञिणः” इति क्यप्। एनं=“गतिबुद्धि-प्रत्यवसानाऽर्थशब्दकर्माऽकर्मकाणामणि कर्ता स णौ” इति कर्मत्वम्, “द्वितीयाटौस्स्वेनः” इत्येनः। यथावत्=यथा अर्हतीति “तदर्हम्” इति वतिः। अध्यापिपत्=अधिपूर्वात् “इङ् अध्ययने” इति धातोः हेतुमण्णिचि लुङ्। “णौ च संरचङोः” इति गाङभावपक्षे “क्रीङ्जीनां णौ” इत्यात्वं पुगादिविधयश्च।

**भावाऽर्थः—**ततो विश्वामित्रः सङ्ग्रामे राक्षसान्मारयिष्यन् राक्षसविनाशिकां जयां विजयां च विद्यां रामं विधिपूर्वकं पाठयामास॥२१॥

**भाषाऽर्थः—**तब राग आदिसे अदूषित चित्तवाले विश्वामित्र महर्षिने संग्राममें राक्षसोंको मारनेके लिए जया और विजयानामक विद्या रामचन्द्रको दे दी॥२१॥

आयोधने स्थायुकमस्त्रजातममोधमभ्यर्णमहाऽऽहवाय।
ददो वधाय क्षणदाचराणां तस्मै मुनिः श्रेयसि जागरूकः॥२२॥

**अन्वयः—**श्रेयसि जागरूको मुनिः अभ्यर्णमहाहवाय तस्मै क्षणदाचराणां वधाय आयोधने स्थायुकम् अमोघम् अस्त्रजातं ददौ।

**प्रयोगप०—**जागरूकेण मुनिना स्थायुकममोघमस्त्रजातं ददे।

**व्याख्या—**श्रेयसि=रामकल्याणे, जागरूकः=प्रबुद्धः, मुनिः=ऋषिः, अभ्यर्णमहाहवाय=निकटमहायुद्धाय, तस्मै=राम-चन्द्राय, क्षणदाचराणां=निशाचराणां (राक्षसानाम्), वधाय=हननाय, आयोधने=युद्धे, स्थायुकं=स्थितिशीलम्, अमोघम्= अनिष्फलम् (सफलमित्यर्थः), अस्त्रजातम्=अस्त्रसमूहं, ददौ=दत्तवान् (उपदिदेश इत्यर्थः)।

**व्युत्पत्तिः—**जागरूकः=जागरणशीलो जागरूकः, “जागृ निद्राक्षये” इति धातोः “जागरूकः” इत्यूकः। अभ्यर्ण-महाहवाय=अभिपूर्वात् “अर्द गतौ याचने च” इति धातोः कर्तरि क्तः। “अमेश्चाऽविदूर्ये” इतीडभावः। “रदाभ्यां निष्ठातो

नः पूर्वस्य च दः” इति नत्वम्। रषाभ्यां नो णः समानपदे” इति णत्वम्। आहूयन्ते अस्मिन्निति आहवः, आङ्पूर्वात् “ह्वेञ् स्पर्धायां शब्दे च” इति धातोः “आङि युद्धे” इत्यप् सम्प्रसारणं च। महांश्चाऽसौ आहवः महाहवः, “सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः” इति समासः “आन्महतः समानाऽधिकरणजातीययोः” इति महत आत्वम्। अभ्यर्णो महाहवो यस्य सः अभ्यर्ण-महाहवस्तस्मै (बहु०)। क्षणदाचराणां=क्षणदायां चरन्तीति क्षणदाचरास्तेषाम्, “चरेष्ट” इति टप्रत्ययः। “कर्तृकर्मणोः कृति” इति कर्मणि षष्ठी। आयोधने=“युद्धमायोधनं जंन्यम्” इत्यमरः।स्थायुकं=स्थातुं शीलमस्य तत् स्थायुकं, तत् “ष्ठा गतिनिवृत्तौ” इति धातोः “लषपतपदस्थाभूवृषहनकमगमशृृभ्य उकञ्” इत्युकञ्। “आतो युक् चिण्कृतोः” इति युगागमः। अमोघं=न मोघममोघं तत् (नञ्०)। अस्त्रजातम्=अस्त्राणां जातमस्त्रजातं, तत् (ष० त०)। ददौ=दाधातोर्लिटि णल “आत औ णलः” इत्यौकारादेशः।

**भावाऽर्थः—**रामहितसम्पादनतत्परो मुनिः निकटमहायुद्धाय रामाय राक्षसवधाय युद्धे स्थितिशीलं सफलमस्त्रसमूहं दत्तवान्।

**भाषाऽर्थः—**रामके कल्याणमें सावधान ऋषिने निकटकालमें महायुद्धके लिए तत्पर रामचन्द्रको राक्षसोंके नाशके लिए स्थितिशील अव्यर्थ अस्त्रसमूह दिया॥२२॥

तं विप्रदर्शं कृतघातयत्ना यान्तं वने रात्रिचरी डुढौके।
जिघांसुवेदं घृतभासुराऽस्त्रस्तां ताडकाऽऽख्यां निजघान रामः॥२३॥

**अन्वयः—**विप्रदर्श कृतघातयत्ना रात्रिचरी वने यान्तं तं डुढौके। रामः ताडकाऽऽख्यां तां जिघांसुवेदं धृतभासुराऽस्त्रः (सन्) निजघान।

**प्रयोगप०—**विप्रदर्शं कृतघातयत्नया रात्रिचर्या वने यान् स डुढौके, रामेण^(….)धृतभासुराऽस्त्रेण (सता) सा निजघ्ने।

**व्याख्या—**विप्रदर्शं=सर्वान् ब्राह्मणान् दृष्ट्वा, कृतघातयत्ना=विहितहिंसोद्योगा, रात्रिचरी=राक्षसी (ताडकेत्यर्थः), वने= अटव्यां, यान्तं=गच्छन्तं, तं=रामं, डुढौके=प्राप्तवती। रामः रामचन्द्रः, ताडकाऽऽख्यां=ताडकानाम्नीं, तां=राक्षसीं, जिघांसुवेदं=जिघांसुं (हननेच्छुम्) विदित्वा (ज्ञात्वा), धृतभासुराऽस्त्रः=गृहीतदीप्तशस्त्रः (सन्), निजघान=निहतवान् (तामिति शेषः)।

**व्युत्पत्तिः—**विप्रदर्शं=सर्वान् विप्रान्दृष्ट्वा हति विप्रदर्शं, “कर्मणि दृशिविदोः साकल्ये” इति णमुल् (तदन्तमव्ययम्)। कृतघातयत्ना=घातस्य यत्नो घातयत्नः (ष० त०), कृतो घातयत्नो यया सा (बहु०)। रात्रिचरी=रात्रौ चर तीति रात्रिचरी टप्रत्ययो ङीप् च, “उपपदमतिङ्” इत्युपपदसमासः। वने=“अटव्यरण्यं विपिनं गहनं काननं वनम्।” इत्यमरः। दुढौके=ढौकेर्गत्यर्थाल्लिट्। ताडकाऽऽख्यां=ताडका आख्या यस्याः सा ताडकाऽऽख्या, ताम् (बहु०)। जिघांसुवेदं= हन्तुमिच्छुर्जिघांसुः (उप्रत्ययः)। साकल्येन जिघांसुं विदित्वा जिघांसुवेदम् (पूर्ववत् णमुल्)। अत्र ताडकाया एकत्वेऽपि तदवयवेषु जिघांसुत्वसम्भवात् साकल्योक्तिः। धृतमासुरास्त्रः=धृतं भासुरम् अस्त्रं येन सः (बहु०)।

**भावाऽर्थः—**ब्राह्मणान्दृष्ट्वा कृतहिंसोद्योगा राक्षसी वने गच्छन्तं रामं प्राप। रामस्ताडकाख्यां तां वधेच्छुंज्ञात्वा गृहीत-दीप्ताऽस्त्रः सन् तां जघान।

**भाषाऽर्थः—**ब्राह्मणोंको देख मारनेका प्रयत्न करनेवाली ताडका नामकी राक्षसीने वनमें जाते हुए रामको पा लिया। रामने भी उसको मारने के लिए तत्पर जान कर उज्ज्वल अस्त्रोंको ले कर मारा॥२३॥

अथाऽऽलुलोके हुतधूमकेतुशिखाऽञ्जनस्निग्धसमृद्धशाखम्।
तपोवनं प्राध्ययनाऽभिभूतसमुच्चरच्चारुपतत्त्रिशिञ्जम्॥२४॥

**अन्वयः—**अथ (रामः) हुतधूमकेतुशिखाऽञ्जनस्निग्धसमृद्धशाखं प्राध्ययनाऽभिभूतसमुच्चरच्चारुपतत्रिशिञ्जं तपोवनम् आलुलोके।

प्रयोगप०—(रामेण) तपोवनम् आलुलोके।

**व्याख्या—**अथ=ताडकावधाऽनन्तरं (रामः=रामचन्द्रः), हुतधूमकेतुशिखाऽञ्जनस्निग्धसमृद्धशाखं= तर्पिताऽग्निज्वाला-कज्जलचिक्कण प्रवृद्धविटपं प्राऽध्ययनाऽभिभूतसमुच्चरुच्चारुपतत्रिशिञ्जम्=उच्चतरवेदपाठतिरोहितोद्गच्छत्सुन्दरपक्षि-शब्दं, तपोवनं=तपस्याकाननम्, आलुलोके=ददर्श।

**व्युत्पत्तिः—**अथ=“मङ्गलाऽनन्तराऽऽरम्भप्रश्नकात्स्र्येष्वथो अथ।“इत्यमरः। हुतधूमकेतुशिखाञ्जनस्निग्धसमृद्धशाखं=धूमः केतुः (ध्वजः) यस्य स धूमकेतुः=अग्निः (बहु०)। हुतश्चाऽसौ धूमकेतुः हुतधूमकेतुः (क० धा०), तस्य शिखाः (ज्वालाः) हुतधूमकेतुशिखाः (ष० त०)। तासाम् अञ्जनानि (तदुत्थकज्जलानि) हुतधूमकेतशिखाऽञ्जनानि (ष० त०)। तैः स्रिग्धाः हुत-

धूमकेतुशिखाऽञ्जनस्निग्धाः (तृ० त० ), ताः समृद्धाः शाखा यस्य तत् हुतधूमकेतुशिखाञ्जनस्निग्धसमृद्धशाखं तत् (बहु ०)। प्राऽध्ययनाऽभिभूतसमुच्चरच्चारुपतत्रिशिञ्जं=प्रकृष्टमध्ययनं प्राध्ययनं (प्रादिसमासः) तेन अभिभूता प्राऽध्ययनाऽभिभूता (तृ० त०)। शिञ्जनं शिक्षा, “शिजि अव्यक्ते शब्दे” इति धातोः “गुरोश्च हलः” इत्यप्रत्ययः। पतन्तं त्रायन्ते इति पतत्त्राणि (पक्षाः), “आतोऽनुपसर्गे कः” इति कः। पतत्त्राणि सन्ति येषां ते पतत्त्रिणः, “अत इनिठनौ” इतीनिप्रत्ययः। पतत्त्रिणां शिञ्जा पतत्त्रिशिञ्जा (ष० त०)। प्राऽध्ययनाऽभिभूता समुच्चरन्ती चार्वीं पतत्त्रिशिञ्जायस्मिंस्तत् प्राध्ययनाऽभिभूतसमुच्चरच्चारु-पतत्त्रिशिञ्जं (बहु०), तत्। तपोवनं=तपसो वनं तपोवनं, तत् (ष० त०)। आलुलोके=“लोक दर्शने” इति धातोः कर्तरि लिट् तङ् अभ्यासहस्वश्च।

**भावाऽर्थः—**ताडकावधाऽनन्तरं रामः तर्पिताऽग्निज्वालोत्थितकज्जलैः चिक्कणपुष्पफलसमृद्धविटपयुक्तम् उच्चतरवेद-पाठेन तिरोहितोद्‌गच्छत्सुन्दर पक्षिशब्दं तपोवनमपश्यत्।

**भाषाऽर्थः—**तब रामचन्द्रने तृप्त किये गये अग्निकी ज्वालाओंसे बने हुए कज्जलोंसे चिकने और फल फूलोंसे समृद्ध शाखाओंसे युक्त तथा जहांपर वेदपाठकी उच्चतर ध्वनिसे पक्षियों का सुन्दर शब्द दब गया है ऐसे तपोवनको देखा॥२४॥

क्षुद्रान्न जक्षुर्हरिणान्मृगेन्द्रा विशश्वसे पक्षिगणैः समन्तात्।
नन्नम्यमानाः फलदित्सयेय चकाशिरे तत्र लता विलोलाः॥२५॥

**अन्वयः—**तत्र मृगेन्द्राः क्षुद्रान् हरिणान् न जक्षुः, समन्तात् पक्षिगणैः विशश्वसे। विलोला लताः फलदित्सयेव नन्नम्यमानाः चकाशिरे।

**प्रयोगप०—**मृगेन्द्रैः क्षुद्रा हरिणा न जक्षिरे। पक्षिगणा विशश्वसुः। विलोलाभिर्लताभिः नंनम्यमानाभिश्चकाशे।

**व्याख्या—**तत्र=तस्भिन् (तपोवने इत्यर्थः), मृगेन्द्राः=सिंहाः, क्षुद्रान्=दुर्बलान्, हरिणान्=मृगान् (हरिणपदं पशूपलक्षणं, पशूनित्यर्थः), न जक्षुः=न अभक्षयन्, समन्तात्=सर्वतः, पक्षिगणैः=विहङ्गमकुलैः, विशश्वसे=विश्वस्तम् (विश्वासपूर्वकं पक्षिणो विचेरुरित्यर्थः), विलोलाः=चञ्चलाः, लताः=वल्ल्यः, फलदित्सया इव=फलदानेच्छयाइव, नंनम्यमानाः=फलभरेण भृशं नमन्त्यः (सत्यः), चकाशिरे=शुशुभिरे।

**व्युत्पत्तिः—**तत्र=तस्मिन्निति तत्र, “सप्तम्यास्त्रल्” इति त्रल्। मृगेन्द्राः=मृगेषु इन्द्राः (स० त०) “सिंहो मृगेन्द्रः पञ्चास्यः” इत्यमरः। जक्षुः=“अद भक्षणे” इति धातोर्लिट्। “लिठ्यन्यतरस्याम्” इत्यदेर्घस्लादेशः, “गमहनजनखनघसां लोपः क्ङित्यनङि” इत्युपधालोपः। “शासिवसिघसीनां च” इति षत्वम्। पक्षिगणैः=पक्षिणां गणाः पक्षिगणास्तैः (ष० त०)। विशश्वसे=“श्वस प्राणने” इति धातोर्भावे लिट्। विललाः=विशेषेण लोलाः, “सुप्सुपा” समासः। लताः=“वल्ली तु व्रततिर्लता” इत्यमरः। फलदित्सया=दातुमिच्छा दित्सा। दाधातोः सन् “सनि मीमाघुरभलभशकपतपदामच इस्” इति इस् “अत्र लोपोऽभ्यासस्य” इति अभ्यासलोपश्च। “सः स्यार्धधातुके” इति सस्य तः। “अ प्रत्ययात्” इति अप्रत्ययः, ततष्टाप्। फलानां दित्सा फलदित्सा, तया। कर्मणि षष्ठी, ततः “कृद्योगा च षष्ठीसमस्यत इति वाच्यम्” इति समासः। नंनम्यमानाः=“णम प्रह्वत्वे शब्दे” इति धातोर्यङि “नुगतोऽनुनासिकाऽन्तस्य” इति नुक्। ततः शानच् मुगागमश्च। चकाशिरे=“काशृदीप्तौ” इति धातोर्लिट्।

**भावाऽर्थः—**तस्मिंस्तपोवने सिंहा दुर्बलान् मृगान् न भक्षितवन्तः। पक्षिगणाः सर्वतः विश्रब्धमुषितवन्तः। फलभराऽवनता लताश्च शुशुभिरे।

**भाषाऽर्थः—**उस तपोवनमें सिंह दुर्बल मृगोंको नहीं खाते थे। पक्षिगण सर्वत्र विश्वासपूर्वक रहते थे। चञ्चल लतायेँमानों फल देनेकी इच्छासे बहुत ही अवनत हो कर रहती थीं॥२५॥

अपूपुजन्विष्टरपाद्यमाल्यैरातिथ्यनिष्णा वनवासिमुख्याः।
प्रत्यग्रहीष्टां मधुपर्कमिश्रं तावासनाऽऽदि क्षितिपालपुत्रौ॥२६॥

**अन्वयः—**आतिथ्यनिष्णा वनवासिमुख्याः विष्टरपाद्यमाल्यैः (तौ क्षितिपालपुत्रौ) अपूपुजन्। तौ क्षितिपालपुत्रौ च मधुपर्कमिश्रम् आसनादि प्रत्यग्रहीष्टाम्।

**प्रयोगप०—**आतिथ्यनिष्णैर्वनवासिमुख्यैः (तौ) अपूजिषाताम्। ताभ्यां क्षितिपालपुत्राभ्यां च मधुपर्कमिश्रम् आसनादि प्रत्यग्राहि।

**व्याख्या—**आतिथ्यनिष्णाः=अतिथिसत्कारकुशलाः, वनवासिमुख्याः=महर्षयः, विष्टरपाद्यमाल्यैः=आसनपादाऽर्थजल-मालाभिः, (तौ=पूर्वोक्तौ, क्षितिपालपुत्रौ=राजपुत्रौ रामलक्ष्मणौ इत्यर्थः) अपूपुजन्=पूजयामासुः, तौ, क्षितिपालपुत्रौ च=राजपुत्रौच, मधुपर्कमिश्रम्=दधिमधुघृतसहितम्, आसनादि=विष्टरादि, प्रत्यग्रहीष्टाम्=प्रतिगृहीतवन्तौ।

**व्युत्पत्तिः—**आतिथ्यनिष्णाः=अतिथ्यर्थम् आतिथ्यम्, “अतिथेर्ञ्यः” इति ञ्यप्रत्ययः। निष्णान्तीति निष्णाः “आतश्चोपसर्गे” इति कः, “निनदीभ्यां स्नातेः कौशले” इति षत्वम्। आतिथ्ये निष्णाः (स० त०)। वनवासिमुख्याः=वने वसन्तीति तच्छीला वनवासिनः, “सुप्यजातौ णिनिस्ताच्छील्ये” इति णिनिः (उपपदसमासः)। “शयवासवासिष्वकालात्” इति विकल्पविधानात् लुक्। वनवासिषु मुख्याः (स० त०)। विष्टरपाद्यमाल्यैः=विस्तीर्यते इति विष्टरः, विपूर्वात् “स्तृृञ् आच्छादने” इति धातोः “ऋृदोरप्” इत्यप्, “वृक्षाऽऽसनयोर्विष्टर” इति षत्वम्। पादाऽर्थमुदकं पाद्यं, “पादाऽर्घाभ्यां च” इति यत् “पाद्यं पादाय वारिणि” इत्यमरः। माला एव माल्यानि, “चतुर्वर्णादीनां स्वाऽर्थ उपसंख्यानम्” इति स्वाऽर्थे (प्रकृत्यर्थे) ष्यञ्। विष्टरश्च पाद्यं च माल्यं च विष्टरपाद्यमाल्यानि, तैः (द्वन्द्वः) क्षितिपालपुत्रौ=क्षितिं पालयतीति क्षितिपालः, णिजन्तात् “पा रक्षणे” इति धातोः अण् (उपपद०)। क्षितिपालस्य पुत्रौ (ष० त०)। अपूपुजन्=स्वार्थिकण्यन्तस्य पूजेः चङि उपधाह्रस्वः “दीर्घो लघोः” इत्यभ्यासस्य दीर्घः। मधुपर्कमिश्रं=मधुपर्केण मिश्रं मधुपर्कमिश्रं, तत् (तृ० त०)। आसनाऽऽदि=आसनम् आदिर्यस्य तत् आसनाऽऽदि, तत् (बहु०)। प्रत्यग्रहीष्टाम्=प्रतिपूर्वात् “ग्रह उपादाने” इति धातोः तसस्तामादेशः। “ग्रहोऽलिटि दीर्घः” इति दीर्घः, षत्वष्टुत्वे।

**भावाऽर्थः—**अतिथिसत्कारकुशला ऋषयः आसनपादोदकमाल्यैः रामलक्ष्मणौ पूजयामासुः। रामलक्ष्मणौ च मधुपर्क-युक्तमासनादि स्वीकृतवन्तौ।

**भाषाऽर्थः—**अतिथिसत्कारमें कुशल ऋषियोंने आसन पाद्य और मालासे राम और लक्ष्मणकी पूजा की उन्होंने भी मधुपर्कसहित आसन आदिको स्वीकार किया॥२६॥

दैत्याऽभिभूतस्य युवामवोढं मग्नस्य दोर्भिर्भुवनस्य भारम्।
हवींषि सम्प्रत्यपि रक्षतं, तौ तपोधनैरित्थमभाषिषाताम्॥२॥

अन्वयः—(हे दाशरथी !) युवां दैत्याऽऽभिभूतस्य मग्नस्य भुवनस्य भारं दोर्भिः अवोढं, सम्प्रति अपि हवींषि रक्षतम्, इत्थं तौ तपोधनैः अभाषिषाताम्।

प्रयोगप०—“युवाभ्यां भुवनस्य भारः अवाहि, सम्प्रत्यपि हवींषि रक्ष्यन्ताम्” इत्थं तौ तपोधना अभाषिषत।

व्याख्या—(हे दाशरथी=हे रामलक्ष्मणौ !) युवां, दैत्याऽभिभूतस्य=

असुरपीडितस्य, मग्नस्य=नष्टप्रायस्य, भुवनस्य=लोकस्य, भारं=रक्षणधुरां, दोर्भिः=बाहुभिः, अवोढं=धृतवन्तौ (बाहुबलेन युगान्तरेषु युवाभ्यां दैत्यवधः कृत इति भावः)। सम्प्रति अपि=अधुनाऽपि हवींषि=हव्यानि (पशुपुरोडाशादीनि इत्यर्थः), रक्षतं=पालयतम्, इत्थम्=अनेन प्रकारेण, तौ=रामलक्ष्मणौ, तपोधनैः=ऋषिभिः, अभाषिषातां=भाषितौ।

**व्युत्पत्तिः—**दैत्याऽभिभूतस्य=दितेरपत्यानि पुमांसो दैत्याः, “दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः” इति ण्यप्रत्ययः। दैत्यैरभिभूतं (पीडितम्) दैत्याऽभिभूतं तस्य (तृ० त०)। भुवनस्य=“अथो जगती लोको विष्टपं भुवनं जगत्।” इत्यमरः। दोर्भिः=“भुजबाहू प्रवेष्टो दोः” इत्यमरः। अवोढं=“वह प्रापणे” इति धातोः लुङि थसस्तम्, “सहिवहोरोदवर्णस्य” इत्योत्वे धत्वादिकार्यम्। रक्षतं=रक्षेः प्रार्थनायां लोटि थसस्तमादेशः। इत्थम्=अनेन प्रकारेण इति, “इदमस्थमुः” इति थमुः। तपोधनैः=तप एव धनं येषां ते तपोधनास्तैः (बहु०)। अभाषिषाताम्=“भाष व्यक्तायां वाचि” इति धातोः कर्मणि लुङि सिचीडागमः।

भावाऽर्थः—“हे दाशरथी ! युवां प्रागपि दैत्यपीडितं लोकमरक्षताम्, अतोऽधुनाऽपि हवींषि रक्षतम्” इति ऋषयः राम-लक्ष्मणौ अकथयन्।

भाषाऽर्थः—“हे रामलक्ष्मण ! तुम दोनोंने पहले भी दैत्यपीडित नष्टप्राय लोकका संरक्षणका भार अपने हाथोंसे ढोया था, अतः अभी भी हविकी रक्षा करो” तपस्वियोंने राम और लक्ष्मणको ऐसा कहा॥२७॥

तान् प्रत्यवादीदथ राघवोऽपि यथेप्सितं प्रस्तुत कर्म धर्म्यम्।
ततो मरुद्भिर्भवतां शराऽग्निः संधुक्ष्यतां नोऽरिसमिन्धनेषु॥२८॥

**अन्वयः—**अथ राघवः अपि तान् प्रत्यवादीत् (हे तपोधनाः !) धर्म्यं कर्म यथेप्सितं प्रस्तुत, भवतां तपोमरुद्भिः नः शराऽग्निः अरिसमिन्धनेषु संधुक्ष्यताम्।

**प्रयोगप०—**राघवेणाऽपि ते प्रत्यवादिषत, “(युष्माभिः) कर्म प्रस्तूयताम्। भवतां तपोमरुतः नः शराऽग्निं संधुक्षन्ताम्”।

**व्याख्या—**अथ=अनन्तरं, राघवोऽपि=रामचन्द्रोऽपि, तान्=ऋषीन्, प्रत्यवादीत्=प्रत्युवाच, (हे तपोधनाः !) धर्म्यं= धर्मादनपेतं, कर्म=यज्ञक्रियां, यथेप्सितं=थथेष्टं, प्रस्तुत=आरभध्वं, भवतां=युष्माकं, तपोमरुद्भिः=तपस्यावायुभिः,

नः=अस्माकं, शराऽग्निः=बाणाऽनलः, अरिसमिन्धनेषु=शत्रुकाष्ठेषु, संधुक्ष्यताम्=संदीप्यताम्।

**व्युत्पत्तिः—**राघवः=रघोरपत्यं पुमान्, “तस्याऽपत्यम्” इत्यण्। प्रत्यवादीत्=प्रतिपूर्वात् “वद व्यक्तायां वाचि” इति धातोः“वदव्रजहलन्तस्याऽचः” इति वृद्धिः, “इट ईटि” इति सलोपः। धर्म्यं=धर्मादनपेतं धर्म्यं, तत्, “धर्मपथ्यर्थन्यायादनपेते” इति यत्। यथेप्सितम्=आप्नोतेः सन्नन्तात्कर्मणि क्तः, “आप्ज्ञप्यृधामीत्’” इतीत्वमभ्यासलोपश्च। ईप्सितमनतिक्रम्य यथेप्सितम् “अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाऽभावाऽत्ययाऽसम्प्रतिशब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्यसम्पत्ति-साकल्याऽन्तवचनेषु"इति पदाऽर्थाऽनतिवृत्तिरूपे यथाऽर्थेअव्ययीभावः। प्रस्तुत=प्रपूर्वः “ष्टुञ् स्तुतौ” इति धातुः प्रारम्भे वर्तते, तस्मात् लोटि थस्य तः। तपोमरुद्भिः=तपांसि एव मरुतः तपोमरुतः, तैः “मयूरव्यंसकादयश्च” इति रूपकसमासः, मयूरव्यंसकादिराकृतिगणः। नः=“अस्मदो द्वयोश्च” इति बहुवचनम्, “बहुवचनस्य वस्नसौ” इत्यस्मच्छब्दस्य नसादेशः। शराऽग्निः=शर एव अग्निः (रूपक०), “कलम्बमार्गणशराः” इत्यमरः। अरिसमिन्धनेषु=समीचीनानि इन्धनानि समिन्धनानि (प्रादिसमासः) “काष्ठं दार्विन्धनं त्वेधः” इत्यमरः। अरय एव समिन्धनानि अरिसमिन्धनानि तेषु (रूपक०)। संधुक्ष्यताम्=“धुक्ष संदीपने” इति धातोः कर्मणि लोट्, “धुक्षिष्यते” इति मल्लिनाथसंमतः पाठः, धुक्षिष्यते=सन्दीपिष्यत इत्यर्थे कर्मणि लुट्। रूपकाऽलङ्कारः।

**भावाऽर्थः—**ततो रामचन्द्रस्तान्प्रत्यब्रवीत्, “हे मुनयः यज्ञमारभध्वं, युष्माकं तपोवातैर्नः शराग्निः शत्रुकाष्ठेषु संदीप्यताम्”।

**भाषाऽर्थः—**तबरामचन्द्रने भी ऋषियोंको कहाः—आप लोग धर्मकार्यका आरम्भ करें, आपलोगोंके तपस्यारूपी वायुसे हमारा बाणरूप अग्नि शत्रुरूप काष्ठोंमें प्रज्वलित हो उठे॥२८॥

प्रतुष्टुवुः कर्म ततः प्रक्लृप्तैस्तेयज्ञियैर्द्रव्यगणैर्यथावत्।
दक्षिण्यदिष्टं कृतमार्त्विजीनैस्तद्यातुधानैश्चिचिते प्रसर्पत्॥२९॥

**अन्वयः—**ततः ते प्रक्लृप्तैः यज्ञियैः द्रव्यगणैः यथावत् कर्म प्रतुष्टुवुः। दक्षिण्यदिष्टम् आर्त्विजीनैः कृतं प्रसर्पत् तत् यातुधानैः चिचिते।

**प्रयोगप०—**तैः कर्म प्रतुष्टुवे। तत् (कर्म) यातुधानाः चिचितुः।

** व्याख्या—**ततः=रामवाक्याऽनन्तरं, ते=मुनयः, प्रक्लृप्तैः=सम्पन्नैः, यज्ञियैः=यज्ञकर्माऽर्हैः, द्रव्यगणैः=पदाऽर्थसमूहैः (पशुसोमादिभिरित्यर्थः), यथावत्=विधिपूर्वकं, कर्म=यज्ञकर्म, प्रतुष्टुवुः=प्रारेभिरे। दक्षिण्यदिष्टं=दक्षिणाऽर्होपदिष्टम्, आर्त्विजीनैः ऋत्विक्कर्माऽर्हैः, कृतम्=अनुष्ठितम्, प्रसर्पत्=प्रवर्तमानं, तत्=यज्ञकर्म, यातुधानैः=राक्षसैः, चिचिते=ज्ञातम्।

**व्युत्पत्तिः—**ततः=तस्मादिति ततः, “पञ्चम्यास्तसिल्” इति तसिल्। प्रक्लृप्तैः=प्रकर्षेण क्लृप्ताः प्रक्लृप्तास्तैः (सुप्सुपा०)। “कृपू सामर्थ्ये” इति धातोः क्तः, “कृपो रो लः” इति रेफस्य लत्वम्। यज्ञियैः=यज्ञमर्हन्तीति यज्ञियास्तैः, “यज्ञर्त्विग्भ्यां घखञौ” इति “यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम्” इत्यनेन तत्कर्माऽर्हतीत्यर्थे घप्रत्ययः, “आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्” इति घस्य इयः। द्रव्यगणैः=द्रव्याणां गणा द्रव्यगणास्तैः (ष० त०)। प्रतुष्टुवुः=स्तौतेर्लिट्। दक्षिण्यदिष्टं=दक्षिणामर्हन्तीति दक्षिण्याः, “कडङ्करदक्षिणाच्छ च” इति चकाराद्यत्प्रत्ययः। “दक्षिणेयो दक्षिणाऽर्हस्तत्र दक्षिण्य इत्यपि।” इत्यमरः। दक्षिण्यैर्दिष्टम् (तृ० त०)। आर्त्विजीनैः=ऋत्विक्कर्म अर्हन्तीति आर्त्विजीनाः, तैः “यज्ञर्त्विऽभ्याम्०” इत्यादिना खञ्, “आयनेयी०” त्यादिना खस्येनः, आदिवृद्धिः। प्रसर्पत्=प्रसर्पतीति प्रसर्पत्, “सृप्लृ गतौ” इति धातोर्लटः शत्रादेशः। चिचिते=“चिती संज्ञाने” इति धातोः कर्मणि लिट्।

**भावाऽर्थः—**रामवचनानन्तरं मुनयो यज्ञमारब्धवन्तः। दक्षिणार्होपदिष्टं कर्म ऋत्विग्भिरनुष्ठितम्। राक्षसाश्च तत्कर्म विविदुः।

**भाषाऽर्थः—**तब ऋषियोंने उचित सामग्रियोंसे विधिपूर्वक यज्ञका आरम्भ किया; दक्षिणा पानेवाले ब्राह्मणोंके कहनेके अनुसार ऋत्विक् ब्राह्मणोंने अनुष्ठान किया, राक्षसोंको भी उस कर्मका पता लगा॥२९॥

आपिङ्गरूक्षोर्ध्वशिरस्यबालैः शिरालजङ्घैर्गिरिकूटदघ्नैः।
ततः क्षपाटैः पृथुपिङ्गलाऽक्षैः खं प्रावृषेण्यरिव चाऽऽनशेऽब्दैः॥३०॥

**अन्वयः—**ततः आपिङ्गरूक्षोर्ध्वशिरस्यबालैः शिरालजङ्घैः गिरिकूटदघ्नैः पृथुपिङ्गलाक्षैः क्षपाटैः प्रावृषेण्यैः अब्दैः इव खम् आनशे च।

**प्रयोगप०—**आपिङ्गरूक्षोर्ध्वशिरस्यबालाः शिरालजङ्घाः गिरिकूटदघ्नाः पृथुपिङ्गलाक्षाः क्षपाटाः प्रावृषेण्या अब्दा इव खम् आनशिरे च।

**व्याख्याः—**ततः=ज्ञानानन्तरम्, आपिङ्गरूक्षोर्ध्वशिरस्यबालैः=सर्वपिङ्गलकर्कशस्तब्धकेशैः, शिरालजङ्घैः=शिरायुक्त-प्रसृतैः, गिरिकूटदध्नैः=पर्वतशिखरप्रमाणैः, पृथुपिङ्गलाऽक्षैः=विस्तीर्णपिङ्गनेत्रैः, क्षपाटैः=निशाचरैः (राक्षसैः), प्रावृषेण्यैः= वर्षाभवैः, (महद्भिः श्यामैश्चेति भावः), अब्दैः इव=मेघैः इव, खम्=आकाशम्, आनशे च=व्याप्तं च।

**व्युत्पत्तिः—**आपिङ्गरूक्षोर्ध्वशिरस्यबालैः=समन्तात् पिङ्गाः आपिङ्गाः (प्रादिसमासः)। शिरसि भवाः शिरस्याः, “शरीराऽवयवाद्यत्” इति यत्, शिरस्याश्च ते बालाः शिरस्यबालाः (क० धा०) “चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः।” इत्यमरः। आपिङ्गाः रूक्षाः ऊर्ध्वाः (स्तब्धाः) शिरस्यबाला येषां ते आपिङ्गरूक्षोर्ध्वशिरस्यबालाः, तैः (बहु०)। शिरालजङ्ङ्घैः=शिराः सन्ति यासां ताः शिरालाः, “प्राणिस्थादातो लजन्यतरस्याम्” इति लच्। शिराला जङ्घा येषां ते शिरालजङ्घाः, तैः (बहु०)। गिरिकूटदध्नैः=गिरेः कूटाः गिरिकूटाः (ष० त०), “कूटोऽस्त्री शिखरं शृङ्गम्” इत्यमरः। गिरिकूटाः प्रमाणमेषां ते गिरिकूटदध्नाः, तैः “प्रमाणे द्वयस दध्नञ्मात्रचः” इति दध्नच्। पृथुपिङ्गलाऽक्षैः=पृथूनि पिङ्गलानि अक्षीणि येषां ते पृथुपिङ्गलाक्षास्तैः (बहु०), “बहुव्रीहौ सक्थ्यक्ष्णोः स्वाऽङ्गात्षच्” इति समासाऽन्तः षच्। क्षपाटैः=अटन्तीति अटाः, “अट गतौ” इति धातोः पचाद्यच्। क्षपासु अटाः इति क्षपाटाः, तैः “सप्तमी शौण्डैः” इत्यत्र “सप्तमी"ति योगविभागात् समासः। प्रावृषेण्यैः=प्रावृषि भवाः प्रावृषेण्यास्तैः, “प्रावृष एण्य” इति एण्यप्रत्ययः। अब्दैः=अपो ददतीति अब्दास्तैः “आतोऽनुपसर्गे कः” इति कप्रत्ययः। आनशे=“अशु व्याप्तौ सङ्घाते च” इति धातोः कर्मणि लिट्। “अत आदेः” इत्यभ्यासदीर्घः। “अश्नोतेश्च” इति नुट्। च=चकारः पूर्वश्लोकोक्तज्ञानसमुच्चयार्थः।

**भावाऽर्थः—**ततः सर्वपिङ्गलकठोरस्तब्धकेशयुक्ताःशिरालजङ्घोपेताः पर्वतशिखरप्रमाणाः विस्तीर्णपिङ्गलनेत्रा राक्षसा वार्षिकमेघाइव आकाशं व्याप्तवन्तः।

**भाषाऽर्थः—**तब अत्यन्त पिङ्गल, रूखे और खड़े केशोंसे युक्त, शिराव्याप्त जङ्घावाले, पर्वतशिखरके तुल्य ऊँचे, विस्तीर्ण और पिङ्गल नेत्रोंसे युक्त राक्षसोंने वर्षामें होनेवाले मेघोंकी तरह आकाशको व्याप्त किया॥३०॥

अधिज्यचापः स्थिरबाहुमुष्टिरुदञ्चिताऽक्षोऽञ्चितदक्षिणोरुः।
तान् लक्ष्मणः सन्नतवामजङ्घोजघान शुद्धेषुरमन्दकर्षी॥३१॥

**अन्वयः—**अधिज्यचापः स्थिरबाहुमुष्टिः उदञ्चिताऽक्षः अञ्चितदक्षिणोरुः सन्नतवामजङ्घः शुद्धेषुः अमन्दकर्षी लक्ष्मणः तान् जघान।

**प्रयोगप०—**अधिज्यचापेन स्थिरबाहुमुष्टिना उदञ्चिताऽक्षेण अञ्चितदक्षिणोरुणासन्नतवामजङ्घेन शुद्धेषुणा अमन्दकर्षिणा लक्ष्मणेन ते जघ्निरे।

**व्याख्या—**अधिज्यचापः=समौर्वीककार्मुकः, स्थिरबाहुमुष्टिः=निश्चलभुजमुष्टिः, उदञ्चिताऽक्षः=ऊर्ध्वप्रसारितनेत्रः, अञ्चित-दक्षिणोरुः=किञ्चित्कुञ्चितवामेतरसक्थिः, सन्नतवामजङ्घः=सम्यङ्नतदक्षिणेतरप्रसृतः, शुद्धेषुः=निर्दोषबाणः (आकाश-स्थापितदृष्टिरित्यर्थः)। अमन्दकर्षी=अत्यन्तकर्षी (कर्णाऽन्ताऽऽकृष्टचाप इत्यर्थः), लक्ष्मणः=रामाऽनुजः, तान्=राक्षसान्, जघान=हतवान्।

**व्युत्पत्तिः—**अधिज्यचापः=ज्यामधिगतः अधिज्यः “अत्यादयः क्रान्ताद्यर्थे द्वितीयया” इति समासः, “मौर्वीज्या शिञ्जिनी गुणः” इत्यमरः। अधिज्यः चापः यस्य सः (बहु०)। स्थिरबाहुमुष्टिः=बाहुश्च मुष्टिश्च बाहुमुष्टि “द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्” इति समाहारद्वन्द्वः। स्थिरं बाहुमुष्टि यस्य सः (बहु०) अनेन अमोघाऽस्त्र इति ध्वनिः। उदञ्चिताऽक्षः=ऊर्ध्वम् अञ्चिते उदञ्चिते, सुप्सुपा समासः। उदञ्चिते अक्षिणी यस्य सः (बहु०) समासाऽन्तः षच्। अञ्चितदक्षिणोरुः=दक्षिश्चाऽसौ ऊरुर्दक्षिणोरुः (क० धा०)। अञ्चितः दक्षिणोरुर्यस्य सः (बहु०)। सन्नतवामजङ्घः=सम्यङ् नता सन्नता (प्रादि०)। वामा चाऽसौ जङ्घा वामजङ्घा (क० धा०)। सन्नता वामजङ्घा यस्य सः (बहु०) विहितप्रत्यालीढ इत्यर्थः। शुद्धेषुः =शुद्धाः (स्वरूपतो लोहतो वा निर्दोषाः) इषवः यस्य सः (बहु०)। अमन्दकर्षी=अमन्दं कर्षंतीति तच्छीलः “कृष विलेखने” इति धातोर्णिनिः।

**भावाऽर्थः—**अधिगुणचापः दृढभुजमुष्टिः आकाशप्रेरितदृष्टिः किञ्चित्कुञ्चितदक्षिणोरुः समवनतवामजङ्घः निर्दोषबाणः अत्यन्तकर्षी लक्ष्मणः राक्षसान् जघान।

**भाषाऽर्थः—**दृढ बाहु और मुष्टिसे युक्त लक्ष्मणजीने आकाशकी तरफ देखकर दक्षिण ऊरुको कुछ सङ्कुचित और बाँई जाँघको कुछ झुका कर धनुमें ज्या चढा कर खूब खींचकर निर्दोष बाणोंसे राक्षसोंको मारा॥३१॥

गाधेयदिष्टं विरसं रसन्तं रामोऽपि मायाचणमस्त्रचुञ्चुः।
स्थातुं रणे स्मेरमुखो जगाद मारीचमुच्चैर्वचनं महाऽर्थम्॥३२॥

**अन्वयः—**अस्त्रचुञ्चुः रामः अपि स्मेरमुखः (सन्) गाधेयदिष्टं विरसं रसन्तं मायाचणं रणे स्थास्नुं मारीचं महाऽर्थं वचनम् उच्चैः जगाद।

**प्रयोगप०—**अस्त्रचुञ्चुना रामेणाऽपि स्मेरमुखेन (सता) गाधेयदिष्टः विरसं रसन् मायाचणः रणे स्थास्नुर्मारीचो महाऽर्थं वचनं जगदे।

**व्याख्या—**अस्त्रचुञ्चुः=शस्त्रप्रसिद्धः, रामः अपि=रामचन्द्रः अपि, स्मेरमुखः स्मिताऽननः (सन्), गाधेयदिष्टं=विश्वामित्र-प्रदर्शितम्, विरसं=नीरसं (कर्णकठोरमित्यर्थः, क्रि० वि०), रसन्तं=गर्जन्तं, मायाचणं=प्रख्यातमायाविनं, रणे=युद्धे, स्थास्नुं=स्थायिनं, मारीचं=मारीचाख्यं राक्षसम् (ताडकापुत्रम्)। महाऽर्थम्=अर्थभूयिष्ठं, वचनं=वाक्यम्, उच्चैः=तारम् (क्रि०वि०), जगाद=उवाच।

**व्युत्पत्तिः—**अस्त्रचुञ्चुः=अस्त्रैर्वित्तः अस्त्रचुञ्चुः, “तेन वित्तश्चुञ्चुप्चणपौ” इति चुञ्चुप्प्रत्ययः। स्मेरमुखः=स्मेरं मुखं यस्य सः (बहु०)। गाधेयदिष्टं=गाधेरपत्यं पुमान् गाधेयः (विश्वामित्रः), “द्व्यचः” इत्यनुवर्तमाने “इतश्चानिञः” इति ढक्, “आयनेयी"त्यादिना ढस्य एयः। गाधेयेन दिष्टः गाधेयदिष्टस्तम् (तृ० त०)। विरसं=विगतः रसः यस्मात् तत् यथा तथा (बहु०), मायाचणं=मायया वित्तः मायाचणस्तं, “तेने"त्यादिना चणप्प्रत्ययः। स्थास्नुं=“ग्लाजिस्थश्चग्स्नुः” इति ग्स्नुः, “स्थास्नुः स्थिरतरः स्थेयान्” इत्यमरः। महाऽर्थं=महान् अर्थोयस्य तत् महाऽर्थं, तत् (बहु०)। जगाद=दुहादौ ब्रूधातोः समानार्थकत्वात् गदधातोर्द्विकर्मकत्वम्।

**भावाऽर्थः—**अस्त्रप्रसिद्धो रामोऽपि मन्दहास्यं कृत्वा विश्वामित्रप्रदर्शितं परुषगर्जनं कुर्वन्तम् अतिशयमायाविनं संग्रामे स्थायिनं मारीचम् अर्थभूयिष्ठं वचनं तारस्वरेण अकथयत्।

**भाषाऽर्थः—**अस्त्रप्रसिद्ध रामचन्द्रजीने भी मन्द हास्य कर विश्वामित्रसे निर्दिष्ट, कठोर गर्जन करनेवाला, मायासे प्रसिद्ध और रणमें स्थिर होंनेवाला ऐसा मारीचनामक राक्षसको ऊँचे स्वरसे विशिष्ट अर्थपूर्ण वचन कहा॥३२॥

आत्मम्भरिस्त्वं पिशितैर्नराणां फलेग्रहीन्हंसि वनस्पतीनाम्।
शौवस्तिकत्वं विभवा न येषां व्रजन्ति तेषां दयसे न कस्मात्॥३३॥

** अन्वयः—**(हे पापिष्ठ!) नराणां पिशितैः आत्मम्भरिः त्वं वनस्पतीनां फलेग्रहीन् हंसि, येषां विभवाः शौवस्तिकत्वं न व्रजन्ति तेषां कस्मात् न दयसे।

**प्रयोगप०—**आत्मम्भरिणा त्वया फलेग्रहयो हन्यन्ते, येषां विभवैः शौवस्तिकत्वं न व्रज्यते, तेषां कस्मात् (त्वया) न दध्यते।

व्याख्या—(हे पापिष्ठ!) नराणां=मनुष्याणां पिशितैः=मांसैः, आत्मम्भरिः=कुक्षिम्भरिः (उदरपूरकः), त्वं=मारीचः, वनस्पतीनां=वृक्षाणां फलेग्रहीन्=फलग्राहिणः (फलमात्राहारान् मुनीनित्यर्थः), हंसि=मारयसि,येषां=मुनीनां, विभवाः= सम्पदः, शौवस्तिकत्वं=भाविदिनस्थायित्वं, न व्रजन्ति=न गच्छन्ति (श्वो न भवितार इत्यर्थः, सद्यः प्रक्षालकत्वादिति भावः), तेषां=मुनीनाम् (अश्वस्तनिकवृत्तीनामित्यर्थः), कस्मात्=हेतोः, न दयसे=न रक्षसि (किमिति तान् न अनुकम्पसे इत्यर्थः)।

**व्युत्पत्तिः—**पिशितैः=“पिशितं तरसं मांसं पललं क्रव्यमामिषम्।” इत्यमरः। आत्मम्भरिः=आत्मानं विभर्तीति आत्मम्भरिः, “फलेग्रहिरात्मम्भरिश्च” इति निपातितः। “उभौ त्वाम्भम्भरिः कुक्षिम्भरिः स्वोदरपूरके।” इत्यमरः। फलेग्रहीन्=फलानि गृह्णन्तीति फलेग्रहयः, तान्, पूर्वसूत्रेण निपातितः। फलेग्रहिपदं व्याकरणे कोषे च योगरूढ्या फलसम्बन्धिवृक्षवाचकं परमत्र योगवृत्या फलग्राहकमुनिवाचकम्। हंसि=हन्तेर्लटि शपो लुक् सिप्। शौवस्तिकत्वं=श्वो (दिनान्तरे) भवाः शौवस्तिकाः “श्वसस्तुट् च” इति ठञितुडागमश्च। “ठस्येकः” इति ठस्येकः। “द्वारादीनां च” इति ऐजागमः। शौवस्तिकानां भावः शौवस्तिकत्वं, तत् “तस्य भावस्त्वतलौ” इति त्वप्रत्ययः। “त्वाऽन्तं क्लीबम्” इति लिङ्गाऽनुशासनात्तदन्तस्य नपुंसकलिङ्गत्वम्। “कुशूलधान्यको वा स्यात्कुम्भीधान्यक एव वा। त्र्यदैहिको वाऽपि भवेदश्वस्तनिक एव वा।” इत्यत्रोत्तरोत्तरोत्कर्षप्रतीतेर्विभवानामशौवस्तिकत्वं प्रशस्यते इति भावः। तेषाम्=दययोगे “अधीगर्थदयेशां कर्मणि” इति कर्मणि षष्ठी। दयसे=“दय दानगतिरक्षणहिंसादानेषु” इति धातोर्लट्।

**भावाऽर्थः—**हे पापिष्ठ ! मनुष्यमांसैः उदरपूरकस्त्वं कन्दमूलाहारेण वर्तमानान् मुनीन् मारयसि, ये मुनयः अश्वस्तनिक-वृत्तयः सन्ति किमिति तान्नाऽनुकम्पसे।

**भाषाऽर्थः—**हे पापिष्ठ ! नरमांससे पेट भरनेवाला तू, वृक्षोंके फलसे प्राणधारण करनेवाले मुनियोंको मारता है, जो कि कल (आगाभिदिन) के लिए भी कुछ सञ्चय नहीं करते हैं ऐसे मुनियोंपर तू क्यों नहीं कृपा करता है ?॥३३॥

अथ मारीचो रामं प्रत्याह—

अद्मो द्विजान्देवयजीन्निहन्मः, कुर्मः पुरं प्रेतनराऽधिवासम्।
धर्मो ह्ययं दाशरथे ! निजो नो नैवाऽध्यकारिष्महि वेदवृत्ते॥३४॥

**अन्वयः—**हे दाशरथे ! द्विजान् अद्मः, देवयजीन् निहन्मः, पुरं प्रेतनराऽधिवासं कुर्मः, अयं नः निजः धर्मः हि, वेदवृत्ते न अध्यकारिष्महि एव।

प्रयोगप०—(अस्माभिः) द्विजा अद्यन्ते, देवयजयो निहन्यन्ते, पुरं प्रेतनराऽधिवासः क्रियते, अनेन नो निजेन धर्मेण हि (भूयते), वेदवृत्ते न अध्यकार्षीत् एव (ब्रह्माऽस्मानिति शेषः)।

**व्याख्या—**हे दाशरथे=हे राम !, द्विजान्=ब्राह्मणान्, अद्मः=भक्षयामः (वयमिति शेषः), देवयजीन्=सुरयाजकान्, निहन्मः= नाशयामः, पुरं=नगरं, प्रेतनराऽधिवासं=मृतमनुष्याऽवस्थानं, कुर्मः=सम्पादयामः (सर्वानस्मत्पुरं नीत्वा मारयाम इत्यर्थः), अयं=परद्रोहः, नः=अस्माकं, निजः=स्वः नित्यो वा, धर्मः=आचारः, हि=निश्चयेन, वेदवृत्ते=वेदोक्ताऽनुष्ठाने, न अध्यकारिष्महि एव=न अधिकृता एव।

**व्युत्पत्तिः—**दाशरथे=दशरथस्याऽपत्यं पुमान्दाशरथिस्तत्सम्बुद्धौ, “अत इञ्” इति इञ्प्रत्ययः। अद्मः=अत्तेर्लटि मसि शपो लुक्। देवयजीन्=देवान् यजन्तीति देवयजयस्तान्, यजेरौणादिक इप्रत्ययः (उपपदसमासः)। “निहन्मः” इति पदेन योगे “जासिनिप्रहणनाटक्राथपिषां हिंसायाम्” इत्यत्र संघातविगृहीतविपर्यस्तग्रहणात् षष्ठीप्राप्ताऽपि न भवति, कर्मणः शेषत्वेन अविवक्षितत्वात्। निहन्मः=निपूर्वाद्धन्तेर्लटि मसि शपो लुक्। प्रेतनराऽधिवासं=प्रेताश्च ते नराः प्रेतनराः (क० वा०), तेषामधि- वासः प्रेतनराऽधिवासस्तम् (ष० त०)। निजः=“निज आत्मीयनित्ययोः” इति विश्वः। हि=“हि हेताववधारणे” इत्यमरः। वेदवृत्ते= वेदविहितं वृत्तं वेदवृत्तं, तस्मिन् (मध्यमपदलोपी समासः)। अध्यकारिष्महि=अधिपूर्वात् कृधातोः कर्मणि लुङि “स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च” इति चिण्वदिट्।

**भावाऽर्थः—**मारीच उवाच, हे राम ! वयं ब्राह्मणान्भक्षयामो देवपूजकान् मारयामः, नगरं मृतमनुष्याऽवस्थानं कुर्मः, परद्रोहोऽस्माकं नित्यो धर्मः। वेदविहिताचारे वयं (राक्षसाः) न अधिकृता एव।

**भाषाऽर्थः—**मारीचने भी जवाब दिया, हे राम ! हम ब्राह्मणोंको खाते हैं

देवपूजकोंको मारते हैं और शहरको मरे हुए मनुष्योंका वासस्थान बनाते हैं, यह हमलोगोंका वैदिक धर्मके अनुष्ठानमें अधिकृत नहीं हैं हमलोगोंका नित्य धर्म है; (नहीं लिये गये हैं)॥३४॥

रामः पुनस्तं प्रत्याहः—

धर्मोऽस्ति सत्यं तव राक्षसाऽयमन्यो व्यतिस्ते तु ममाऽपि धर्मः।
ब्रह्मद्विषस्ते प्रणिहन्मि येन राजन्यवृत्तिर्धृतकार्मुकेषुः॥३५॥

**अन्वयः—**हे राक्षस ! अयं तव सत्यं धर्मः अस्ति। तु मम अपि अन्यः धर्मः व्यतिस्ते, येन राजन्यवृत्तिः धृतकार्मुकेषुः (अहम्) ब्रह्मद्विषः ते प्रणिहन्मि।

**प्रयोगप०—**अनेन तव धर्मेण भूयते, ममाऽपि अन्येन धर्मेण व्यतिभूयते, राजन्यवृत्तिना धृतकार्मुकेषुणा मया ब्रह्मद्विट् त्वं प्रणिहन्यसे।

**व्याख्या—**हे राक्षस=हे यातुधान !, अयं=पूर्वोक्तो ब्राह्मणवधः, तव=मारीचस्य, सत्यं=वस्तुतः, धर्मः=आचारः, अस्ति= वर्तते, तु=परन्तु, मम अपि=रामस्य अपि, अन्यः=अपरः (त्वद्भिन्न इत्यर्थः), धर्मः=आचारः, व्यतिस्ते=व्यतिभवते (व्यतिहारेण वर्तत इत्यर्थः), येन धर्मेण, राजन्यवृत्तिः=क्षत्रियकर्मा, धृतकार्मुकेषुः=गृहीतधनुर्बाणः (अहमिति शेषः), ब्रह्मद्विषः=ब्राह्मणद्रोहिणः वेदद्वेषिणो वा, ते=तव, प्रणिहन्मि=नाशयामि।

**व्युत्पत्तिः—**राक्षस=रक्ष एव राक्षसस्तत्सम्बुद्धौ, “प्रज्ञादिभ्यश्च” इति स्वाऽर्थे (प्रकृत्यर्थे) अण्, “स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि” इति परिभाषया पुंस्त्वम्। व्यतिस्ते=यथा तवाऽयं धर्मस्तथा ममाऽपि अनीदृशः कश्चिद्धर्मो विद्यत इत्यर्थः। ततश्च अन्यसम्बन्धिनीं क्रियामन्यः करोति इतरसम्बधिनीमितर इति कर्मव्यतिहारसम्भवात्। अस्तेर्लटि “कर्तरि कर्मव्यतिहारे"इत्यात्मनेपदं “श्नसोरल्लोपः” इत्यल्लोपः। राजन्यवृत्तिः=राज्ञोऽपत्यं पुमान् राजन्यः “राजश्वशुराद्यत्” इति यत् “ये चाऽभावकर्मणोः” इति प्रकृतिभावः। राजन्यस्य वृत्तिः (व्यापारः) यस्य सः (बहु०)। धृतकार्मुकेषुः=कर्मणे प्रभवतीति कार्मुकं, “कर्मण उकञ्” इत्युकञ्प्रत्ययः “अथाऽस्त्रियाम्। धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्।” इत्यमरः। कार्मुकं च इषवश्चकार्मुकेषवः (द्वन्द्वः), धृताः कार्मुकेषवः येन सः (बहु०) ‘धृतकार्मुकेषु, इति मल्लिनाथसम्मतः पाठः। तन्मते येन=कारणेन, धृतकार्मुकेषु=गृहीतचापेषु विषये राजन्यवृत्तिः=राजन्यस्य वृत्तिः क्षत्रियव्यापार इत्यर्थः

(बहु०)। ब्रह्मद्विषः=ब्रह्मणो द्वेष्टीति ब्रह्मद्विट्, तस्य (क्विप्, उपपद०), ते=“जासिनी"त्यादिना कर्मणि शेषे षष्ठी, त्वामित्यर्थः। प्रणिहन्मि=“नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च” इति णत्वम्।

**भावाऽर्थः—**रामः पुनस्तमुवाच—“अयं परद्रोहः सत्यं तव धर्मः किन्तु ममाऽपि परद्रोहिनिग्रहरूपोऽन्यो धर्मो व्यतिभवते। येन धर्मेण क्षत्रियवृत्तिर्धनुर्धारी अहं ब्रह्मद्रोहिणं त्वां नाशयामि”।

**भाषाऽर्थः—**रामने फिर उसे कहा—यह सच है कि परद्रोह तेरा धर्म है, मेरा भी उससे भिन्न (परद्रोहिनाशरूप) धर्म है। जिस धर्मसे मैं क्षत्रियकी वृत्ति ले धनुर्धारण कर ब्राह्मणद्रोही तेरा नाश करता हूं॥३५॥

इत्थंप्रवादं युधि सम्प्रहारं प्रचक्रतू रामनिशाविहारौ।
तृणाय मत्वा रघुनन्दनोऽथ बाणेन रक्षः प्रधनान्निरास्थत्॥३६॥

**अन्वयः—**रामनिशाविहारौ युधि इत्थम्प्रवादं सम्प्रहारं प्रचक्रतुः। अथ रघुनन्दनः रक्षः तृणाय मत्वा बाणेन प्रधनात् निरास्थत्।

**प्रयोगप०—**रामनिशाविहाराभ्याम् इत्थम्प्रवादः सम्प्रहारः प्रचक्रे, रघुनन्दनेन (रक्षः) निरासि।

**व्याख्या—**रामनिशाविहारौ=राघवराक्षसौ, युधि=युद्धे, इत्थंप्रवादम्=ईदृग्वाक्कलहं, (मल्लिनाथमते “इत्थमितिव्यस्तं पदम् प्रवादं सम्प्रहारमित्यस्य तन्मते अन्योन्यप्रवादरूपं कलहम् वाक्कलहमित्यर्थ इति बोध्यम्), सम्प्रहारं=अस्त्रपातं, प्रचक्रतुः=विदधतुः, अथ=अनन्तरं रघुनन्दनः=रामचन्द्रः, रक्षः=राक्षसं (मारीचमित्यर्थः), तृणाय मत्वा=तृणं मत्वा (अनादृत्येत्यर्थः), बाणेन=शरेण, प्रधनात्=सङ्ग्रामात्, निरास्थत्=अपनीतवान् (वायव्याऽस्त्रेण दूरं निक्षिप्तवानित्यर्थः)। “पृतनां निरास” इति मल्लिनाथसम्मतपाठे पृतनां (सेनाम्) तृणाय मत्वा रक्षः बाणेन निरास इत्यन्वयः कार्यः।

**व्युत्पत्तिः—**रामनिशाविहारौ=निशायां विहारो यस्य स निशाविहारः (बहु०)। रामश्च निशाविहारश्च (द्वन्द्वः)। युधि= युध्यन्ते अस्यामिति युत्, तस्यां “सम्पदादिभ्यः क्विप्” इति अधिकरणे क्विप्। इत्थंप्रवादम्=इत्थं प्रवादः यस्मिन् स इत्थंप्रवादः, तम् (बहु०)। रघुनन्दनः=नन्दयतीति नन्दनः, “टुनदि समृद्धौ” इति धातोः “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः” इति ल्युः। “युवारनाकौ”

इत्यनः। रघूणां (रघुवंश्यानां राज्ञाम्) नन्दनः (ष० त०), तृणाय=मन्यतेर्योगे “मन्यकर्मण्यनादरे विभाषाऽप्राणिषु” इति चतुर्थी। प्रधनात्=“युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्।” इत्यमरः। निरास्थत्=“असु क्षेपणे” इति धातोर्लुङ्। “अस्यतिवक्तिख्यातिभ्योऽङ्” इत्यङ् “अस्यतेस्थुक्” इति थुक्।

**भावाऽर्थः—**राममारीचौ संग्रामे एतादृशवाक्कलहयुक्तमस्त्रप्रहारं कृतवन्तौ, ततः रामो राक्षसमनादृत्य वायव्यास्त्रेण संग्रामप्राङ्गणाद्दूरं निक्षिप्तवान्।

**भाषाऽर्थः—**रामचन्द्र और मारीचने संग्राममें ऐसा विवाद कर अस्त्रप्रहार किया, तब रामचन्द्रजीने मारीचको तृणकी तरह एक बाणसे संग्रामभूमिसे दूर हटा दिया॥३६॥

जग्मुः प्रसादं द्विजमानसानि, द्यौर्वर्षुका पुष्पचयं बभूव।
निर्व्याजमिज्या ववृते वचश्च भूयो बभाषे मुनिना कुमारः॥३७॥

**अन्वयः—**द्विजमानसानि प्रसादं जग्मुः, द्यौः पुष्पचयं वर्षुका बभूव, इज्या निर्व्याजं ववृते, मुनिना कुमारः भूयः वचश्च बभाषे।

**प्रयोगप०—**द्विजमानसैः प्रसादो जग्मे, द्यावा वर्षुकया बभूवे, इज्यया ववृते, मुनिः कुमारं वचो बभाषे।

**व्याख्या—**द्विजमानसानि=ब्राह्मणचित्तानि, प्रसादं=प्रसन्नतां, जग्मुः=गतानि, द्यौः=आकाशं, पुष्पचयं=कुसुमसमूहं, वर्षका =वर्षणशीला, बभूव=आसीत्, इज्या=यागः, निर्व्याजं=निरुपद्रवं (क्रि० वि०), ववृते=प्रवृत्ता, मुनिना=विश्वामित्रेण, कुमारः=रामः, भूयः=पुनः, वचश्च=वचनं च (वक्ष्यमाणप्रकारमिति भावः), बभावे=भाषितः।

**व्युत्पत्तिः—**द्विजमानसानि=मनांसि एव मानसानि, “प्रज्ञादिभ्यथ” इति स्वार्थे अण्। द्विजानां मानसानि (ष० त०) “मुनिमानसानि” इति मल्लिनाथसम्मतः पाठः। प्रसादं=“प्रसादस्तु प्रसन्नता” इत्यमरः। जग्मुः “गमहनजने”त्यादिना उपधालोपः। पुष्पचयं=पुष्पाणां चयः पुष्पचयस्तम् (ष० त०) “वर्षुका” इति पदेन योगे “न लोकाऽव्ययनिष्ठाखलर्थतृनाम्” इति षष्ठीप्रतिषेधात्कर्मणि द्वितीया। वर्षुका=“वृषु सेचने” इति धातोः “लषपतपदस्थाभूषहनकमगमशृृभ्य उकञ्” इत्युकञ्। इज्या=यजनमिज्या, यज्धातोः “व्रजयजोर्भावे क्यप्” इति क्यप्। निर्व्याजं=निर्गतः व्याजः यस्मात्तद् यथा तथा (बहु०)।

ववृते=“वृतु वर्तने” इति धातोर्लिट्। बभाषे=कर्मणि लिट्, ब्रूधातोः समानाऽर्थकत्वाद्द्विकर्मकत्वम्।

**भावाऽर्थः—**ततो ब्राह्मणमनांसि प्रसन्नानि जातानि, आकाशात्पुष्पवृष्टिर्बभूव, यागो निरुपद्रवं प्रवृत्तः, पुनरपि विश्वामित्रः कुमारमकथयत्।

**भाषाऽर्थः—**तब ब्राह्मणोंका चित्त प्रसन्न हुआ, आकाशने फूल बरसाये, यज्ञ विना उपद्रवके सम्पन्न हुआ और ऋषिने कुमारको फिर कहा॥३७॥

महीय्यमाना भवताऽतिमात्रं सुराऽध्वरे घस्मरजित्वरेण।
दिवोऽपि वज्रायुधभूषणाया हृणीयते वीरवती न भूमिः॥३८॥

**अन्वयः—**सुराऽध्वरे घस्मरजित्वरेण भवता अतिमात्रं महीय्यमाना वीरवती भूमिः वज्रायुधभूषणायाः दिवः अपि न हृणीयते।

**प्रयोगप०—**महीय्यमानया वीरवत्या भूम्या न ह्रिणीयते।

**व्याख्या—**सुराऽध्वरे=देवाऽर्थयज्ञे, घस्मरजित्वरेण=राक्षसजैत्रेण, भवता=त्वया, अतिमात्रम्=अत्यर्थं, महीय्यमाना= पूज्यमाना, वीरवती=विक्रान्तशालिनी (वीरस्वामिका च सतीत्यर्थः), भूमिः=पृथिवी, वज्रायुधभूषणायाः=शक्रालङ्कारायाः (वज्रपाणिस्वामिकाया अपीत्यर्थः), दिवः अपि=स्वर्गात् अपि, न घृणीयते=न जिह्रेति (प्रत्युत तामेव ह्रेपयतीत्यर्थः)।

**व्युत्पत्तिः—**सुराऽध्वरे=सुराणामध्वरः सुराऽध्वरस्तस्मिन् (ष० त०) “यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः।” इत्यमरः। घस्मरजित्वरेण=घसतीति घस्मरः, “घस्लृ अदने” इति धातोः“सृघस्यदः क्मरच्” इति क्मरच् “भक्षको घस्मरोऽद्मरः” इत्यमरः। जयशीलो जित्वरः, “जि जये” इति धातोः“इण्नशजिसर्तिभ्यः क्वरप्” इति क्वरप् “ह्रस्वस्य पिति कृति तुक” इति तुगागमश्च। घस्मराणां जित्वरो घस्मरजित्वरस्तेन (ष० त०)। अतिमात्रं=मात्रामतिक्रान्तं यथा तथा अतिमात्रम् (क्रि० वि०), “अत्यादयः क्रान्ताद्यर्थे द्वितीयया” इति समासः। महीय्यमाना=महीय्यते इति महीय्यमाना “महीङ् पूजायाम्” इति कण्ड्वादिधातोः यगन्तात् कर्मणि लटि पुनर्यकि अतो लोपे शानचि मुक्। वीरवती=प्रशस्तः वीरः अस्ति यस्यां सा वीरवती, “तदस्याऽस्त्यस्मिन्निति मतुप्” इति मतुप् “मादुपधायाश्च मतोर्वोऽयवादिभ्यः” इति मस्य वः ततः स्त्रीत्वविवक्षायाम् “उगितश्च” इति ङीप्। वज्रायुधभूषणायाः=वज्रम् आयुधं यस्य स वज्रायुधः (बहु०)।

वज्रायुधः (इन्द्रः) भूषणं यस्याः सा वज्राऽऽयुधभूषणा, तस्याः (बहु०)। हृणीयते=“हृणीङ् रोषणे लज्जायां च” इति कण्ड्वादि-धातोर्यगन्तात् लट्। “ह्रियां ह्रीच्छति जिह्रेति लज्जते च हृणीयते।” इति भट्टमल्लः “हृणीङ् महीङ्” इति कण्ड्वादिषु ङित्करणात् “अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवती”ति न्यायात्तङ्।

**भावाऽर्थः—**देवप्रीत्युद्देश्येन विधीयमाने यज्ञे राक्षसजित्वरेण त्वया पूज्यमाना वीरस्वामिका पृथिवी इन्द्रस्वामिकायाः दिवः (स्वर्गात्) अपि लज्जिता न भवति।

**भाषार्थः—**यज्ञमें राक्षसोंको जीतनेवाले तुमसे अत्यन्त ही पूजी गई वीर स्वामीवाली यह पृथ्वी इन्द्र स्वामीसे युक्त स्वर्गसे भी (बराबरीके कारण) नहीं लजाती है॥३८॥

संक्षेपेण पुनः स्तौति**—**

बलिर्बबन्धे जलधिर्ममन्थे, जह्रेऽमृतं दैत्यकुलं विजिग्ये।
कल्पाऽन्तदुःस्था वसुधा तथोहे येनैष भारोऽतिगुरुर्न तस्य॥३९॥

अन्वयः—(हे राम !) येन बलिः बबन्धे, जलधिः ममन्थे, अमृतं जहे, दैत्यकुलं विजिग्ये, तथा कल्पान्तदुःस्था वसुधा ऊहे तस्य एष भारः अतिगुरुः न।

**प्रयोगप०—**यो बलिं बबन्ध, जलधिं ममन्थ, अमृतं जहार, दैत्यकुलं विजिग्ये, कल्पाऽन्तदुःस्थां वसुधामुवाह, तस्य एतेन भारेण गुरुणा न (भूयते)।

व्याख्या—(हे राम !) येन भवता, बलिः=विरोचनपुत्रः, बबन्धे=बद्धः (वामनाऽवतारे इत्यर्थः), जलधिः=समुद्रः, ममन्थे= मथितः (कच्छपाऽवतारे इत्यर्थः), अमृतं=पीयूषं, जह्रे=हृतम्, दैत्यकुलम्=असुरसमूहः, विजिग्ये=जितं (स्त्रीमायया वञ्चितमित्यर्थः), तथा=तेन प्रकारेण, कल्पान्तदुःस्था=प्रलये दुःखस्थिता, वसुधा=पृथ्वी, ऊहे=ऊढा (उद्धृता, वराहाऽवतारे इत्यर्थः), तस्य=भवतः, एषः=अयं, भारः=भरः (यज्ञरक्षणरूपः), अतिगुरुर्न=अतिगौरवयुक्तो न ( बलिबन्धनाद्यपेक्षया कियानयं भार इति भावः)।

**व्युत्पत्तिः—**बबन्धे=“बन्ध बन्धने” इति धातोः कर्मणि लिट्। अत्र श्लोके सर्वत्र कर्मणि लिट्। “असंयोगाल्लिट् कित्” इति लिटोऽकित्त्वात् अनुनासिकलोपो न। जलधिः=जलानि धीयन्तेऽस्मिन्निति जलधिः, जलोपपदपूर्वकात् धाधातोः “कर्मण्यधिकरणे च” इति अधिकरणे किप्रत्ययः। ममन्थे=“मन्थ विलो-

डने” इति धातोः पूर्ववत् लकारः। अमृतं=“पीयूषममृतं सुधा।” इत्यमरः। दैत्यकुलं=दैत्यानां कुलम् (ष० त०)। विजिग्ये= “सन्लिदोर्जेः” इति कुत्वम्। तथा=तेन प्रकारेण इति तथा “प्रकारवचने थाल्” इति थाल्। “त्यदादीनामः” इति अत्वम्। कल्पाऽन्तदुःस्था=कल्पस्य अन्तः कल्पाऽन्तः (ष० त०)। दुःखेन तिष्ठतीति दुःस्था, “आतश्चोपसर्गे” इति कर्तरि कः। कल्पान्ते दुःस्था (स०त०)। ऊहे=वहेर्यजादित्वात् सम्प्रसारणम्। अतिगुरुः=अत्यन्तं गुरुः (सुप्सुपा समासः)।

**भावाऽर्थः—**हे राम ! येने भवता वामनावतारे बलिर्बद्धः, कच्छपाऽवतारे समुद्रो मथितः, अमृतं हृतं, मोहिनीरूपेण दैत्यसमूहो वञ्चितः तथा वराहाऽवतारे प्रलये दुःखस्थिता पृथ्वी धृता तादृशस्य तव साम्प्रतिकः यज्ञरक्षणात्मकोऽयं भारः
अतिगुरुत्वपूर्णो न।

**भाषाऽर्थः—**हे राम ! आपने बलिको बाँधा, समुद्रमथन किया, अमृतहरण कर लिया, दैत्योंको जीता और प्रलयमें दुःखसे रही हुई पृथ्वीका उद्धार किया ऐसे आपके लिए यह यज्ञरक्षणात्मक कार्य ज्यादा गौरवपूर्ण नहीं है॥३९॥

इति ब्रुवाणो मधुरं हितं च, तमाञ्जिहन्मैथिलयज्ञभूमिम्।
रामं मुनिः प्रीतमना मखाऽन्ते यशांसि राज्ञां निजिघृक्षयिष्यन्॥४०॥

**अन्वयः—**इति मधुरं हितं च ब्रुवाणः मुनिः मखाऽन्ते प्रीतमनाः (सन्) राज्ञां यशांसि निजिघृक्षयिष्यन् तं रामं मैथिलयज्ञ-भूमिम् आञ्जिहत्।

**प्रयोगप०—^(…)**ब्रुवाणेन मुनिना प्रीतमनसा (सता) यशांसि निजिघृक्षयिष्यता स रामः मैथिलयज्ञभूमिम् आंहि।

**व्याख्या—**इति इत्थं, मधुरं=प्रियं, हितं=श्रेयस्करं, ब्रुवाणः=कथयन्, मुनिः=विश्वामित्रः, मखाऽन्ते=यज्ञाऽन्ते, प्रीतमनाः= प्रसन्नचित्तः (सन्), राज्ञां=नृपाणां, यशांसि=कीर्तीः, निजिघृक्षयिष्यन्=निग्रहीतुम् (अभिभवितुम् ) एषयिष्यन्, तं=पूर्वोक्तं, रामं=रामचन्द्रं, मैथिलयज्ञभूमिं=वैदेहयज्ञभुवम्, आजिहत्=अजीगमत् (गमितवान् इत्यर्थः)।

**व्युत्पत्तिः—**ब्रुवाणः=“ब्रूञ् व्यक्तायां वाचि” इति धातोः “लक्षणहेत्वोः क्रियायाः” इति शानच्, मखान्ते=मखस्य अन्तो मखान्तस्तस्मिन् (स ० त०) प्रीतमनाः=प्रीतं मनो यस्य सः (बहु०), “अत्वसन्तस्य चाऽधातोः” इति उपधादीर्घत्वम्। यशांसि=“यशः कीर्तिः समज्ञा च” इत्यमरः। निजिघृक्षयिष्यन्=

ग्रहेः सनि ण्यन्तात् “लुटःसद्वा” इति शत्रादेशः। “रुदविदमुषग्रहिस्वपिप्रच्छः संश्च” इति सनः कित्त्वात् “ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतोनां क्ङिति च” इति सम्प्रसारणे भष्भावादि, रामं=“गतिबुद्धी"त्यादिना “आञ्जिहत्”इति पदेन योगे अणि कर्तुः कर्मत्वम्। मैथिलयज्ञभूमिं=मिथिलायाः राजा मैथिलः “जनपदशब्दात्क्षत्रियादञ्” इत्यत्र “तस्य राजन्यपत्यवत्” इत्यतिदेशात् अञ्प्रत्ययः। यज्ञस्य भूमिर्यज्ञभूमिः (ष० त०)। मैथिलस्य यज्ञभूमिर्मैथिल-यज्ञभूमिस्ताम् (ष० त०)। आञ्जिहत्=“अहि गतौ” इति धातोः “इदितो नुम्धातोः” इति नुमि प्रयोजकव्यापारे णिच् लुङ् आट् चङि णिलोपः। “द्विर्वचनेचि” इति णिलोपस्त्य स्थानिवद्भावात् “अजादेर्द्वितीयस्य” इति हिशब्दस्य द्विर्वचनम्। “न न्द्राः संयोगादयः” इति नकारस्य प्रतिषेधः। अभ्यासकार्यम्॥४०॥

**भावाऽर्थः—**मुनिरित्थं वदन् यज्ञाऽन्ते प्रसन्नो भूत्वा रामतोऽन्येषां राज्ञां कीर्तिमभिभवितुमेषयिष्यन् रामं जनकयज्ञभूमिं निनाय।

**भाषाऽर्थः—**इस तरह प्रिय और कल्याणकारक वचन कहते हुए विश्वामित्रने यज्ञके अन्तमें प्रसन्नचित्त हो कर अन्य राजाओंकी कीर्तिको रामके द्वारा अभिभूत करानेकी इच्छा करते हुए रामचन्द्रको मिथिलाके महाराज जनककी यज्ञभूमिमें पहुंचाया॥४०॥

इतः स्म मित्रावरुणौ किमेतौ किमश्विनौ सोमरसं पिपासू।
जनं समस्तं जनकाऽऽश्रमस्थं रूपेण तावौजिहतां नृसिंहौ॥४१॥

**अन्वयः—**सोमरसं पिपासू मित्रावरुणौ इतः स्म किम् ? अश्विनौ एतौ किम् (इति) तौ नृसिंहौ रूपेण जनकाश्रमस्थं समस्तं जनम् औजिहताम्।

प्रयोगप०—“पिपासुभ्यां मित्रावरुणाभ्यामीयते स्म किम् ? अश्विभ्याम्एताभ्याम् (भूयते) किम् (इति)” ताभ्यां नृसिंहाभ्यां जनकाश्रमस्थः समस्तो जन औहि।

**व्याख्या—**सोमरसं=सोमलतानिर्यासं, पिपासू=पातुमिच्छू, मित्रावरुणौ=मित्रावरुणाख्यौ देवौ, इतः स्म किम्=प्राप्नुतः स्म किम् ? अश्विनौ=अश्विनीकुमारौ, एतौ किम्=आगतौ किम्, (इति=इत्थम्), तौ=पूर्वोक्तौ, नृसिंहौ=पुरुषश्रेष्ठौ, रूपेण=सौन्दर्येण, जनकाश्रमस्थं=मैथिलप्रासादस्थं, समस्तं=निखिलं, जनं=मनुष्यम्, ओजिहताम्=वितर्कं कारितवन्तौ।

**व्युत्पत्तिः—**सोमरसं=सोमस्य रसः सोमरसस्तम् (ष० त०)। पिपासू=“पा पाने” इति धातोः सन्नन्तादुप्रत्ययः तदन्तयोगे सोमरसमित्यत्र “न लोकाव्यये”त्यादिसूत्रेण षष्ठीप्रतिषेधाद्वितीया। मित्रावरुणौ=मित्रश्च वरुणश्च मित्रावरुणौ (द्वन्द्वः), “देवता-द्वन्द्वे च” इत्यानङादेशः। इतः स्म=“इण् गतौ” इति धातोः कर्तरि स्मयोगे “लट् स्मे” इति भूते लटि तस्। अश्विनौ=अश्विन्यां भवौ अश्विनौ “सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्” इत्यणः “नक्षत्रेभ्यो बहुलम्” इति लुकि “लुक्तद्धितलुकि” इति ङीपो लुक्। “नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ।” इत्यमरः। एतौ=आङ्पूर्वादिणः कर्तरिक्तः। नृसिंहौ=नरौ सिंहौ इव नृसिंहौ “उपमितं व्याघ्रादिभिः सामान्याऽप्रयोगे” इति समासः। रूपेण=“रूपं स्वभावे सौन्दर्य” इति विश्वः। जनकाऽऽश्रमस्थं= जनकस्य आश्रमः जनकाऽऽश्रमः (ष० त०), तस्मिंस्तिष्ठतीति जनकाश्रमस्थस्तम् “सुपि स्थः” इति कः। औजिहताम्=“ऊह वितर्के” इति धातोः णौ चङि “तसस्तामादेशः। णिलोपस्य स्थानिवद्भावात् “अजादेद्वितीयस्य” इति हिशब्दस्य द्विर्भावः। चुत्वम्। किं मित्रावरुणावश्विनौ वेति शुद्धसन्देहात् सन्देहभेदोऽलङ्कारः। तदुक्तं—“सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः। शुद्धो निश्चयगर्भोऽसौ निश्चयाऽन्त इति त्रिधा” इति साहित्यदर्पणे।

**भावाऽर्थः—**सोमरसपानेच्छू मित्रावरुणौ आगतौ किमथवा अश्विनीकुमारै आगतौ किम्” इति रामलक्ष्मणौ दृष्ट्वा जनक-सभास्थिता जना ऊहं चक्रुः।

भाषाऽर्थः—“सोमलताका रस पीनेके लिए सूर्य और वरुण आये हुए क्या ? अथवा ये (दोनों) अश्विनीकुमार हैं पुरुषश्रेष्ठ राम और लक्ष्मणको देख कर महाराज जनकके सभागृहमें बैठे हुए सब लोग तर्कना करने लगे॥४१॥

अजिग्रहत्तं जनको धनुस्तद्येनादिंदद्दैत्यपुरं पिनाकी।
जिज्ञासमानो बलमस्य बाह्वोर्हसन्नभाङ्क्षीद्रघुनन्दनस्तत्॥४२॥

**अन्वयः—**जनकः अस्य बाह्वोः बलं जिज्ञासमानः तं तत् धनुः अजिग्रहत्येन पिनाकी दैत्यपुरम् आर्दिदत्। रघुनन्दनः हसन् तत् अभाङ्क्षीत्।

**प्रयोगप०—**जनकेन जिज्ञासमानेन स तद्धनुरग्राहि, येन पिनाकिना दैत्यपुरमार्दि। रघुनन्देन हसता तत् अभाजि (अभञ्जि वा)।

**व्याख्या—**जनकः=मिथिलेश्वरः, अस्य=रामस्य, बाह्वोः=भुजयोः, बलं=शक्तिं, जिज्ञासमानः=ज्ञातुमिच्छन्, तं=रामं, तत्=प्रसिद्धं, धनुः=कार्मुकम् अजिग्र

हत्=ग्राहयामास, येन=धनुषा, पिनाकी=महादेवः, दैत्यपुरं=त्रिपुरम्, आर्दिदत्=अर्दयामास (संहृतवानित्यर्थः),रघुनन्दनः= रामचन्द्रः, हसन्=हास्यं कुर्वन् (सन्), तद्=धनुः, अभाङ्क्षीत्=बभञ्ज।

**व्युत्पत्तिः—**जिज्ञासमानः सन्नन्तात् जानातेः (‘ज्ञा अवबोधने’ इति धातोः) “ज्ञाश्रुस्मृदृशां सनः” इत्यात्मनेपदे लटः शानजादेशः। तम्=ग्रहेश्चबुद्ध्यर्थत्वात् “गतिबुद्धी"त्यादिना कर्मसंज्ञा ततः “कर्मणि द्वितीया” इति द्वितीया। अजिग्रहत्=(ग्राह्यत्वेन अबोधयत्) ग्रहेर्हेतुमण्ण्यन्तात् चङि णिलोपः “णौ चङ्युपधाया ह्रस्वः” इति ह्रस्वः सन्वद्भावादित्वम्। पिनाकी= पिनाकः अस्याऽस्तीति पिनाकी (इनिप्रत्ययः) “सौ च” इति दीर्घत्वम्, “पिनाकोऽजगवं धनुः” इति “पिनाकी प्रमथाऽधिपः” इति चामरः। दैत्यपुरं=दैत्यानां पूरिति दैत्यपुरं, तत् (ष० त०) “ऋक्पूरब्धूः पथामानक्षे” इति समासान्तः अप्रत्ययः एकवचनमतन्त्रम् (अविवक्षितम्) दैत्यपुराणीत्यर्थः। “स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते” इति न्यायेन नपुंसकलिङ्गनिर्देशः। “दैत्यपुरः” इति मल्लिनाथसम्मतः पाठस्तन्मते समासाऽन्तविधेरनित्यत्वात् न अप्रत्ययः। आर्दिदत्= “अर्द हिंसायाम्” इति चौरादिकाद्धातोः चङि रेफवर्जितद्विर्भावादि। हसन्=हसतीति, “हसे हसने” इति धातोः शतृप्रत्ययः। अमाङ्क्षीत्=“भञ्जो आमदने” इति धातोः लुङि सिचि “वदव्रजहलन्तस्याऽचः” इति वृद्धिः “अस्तिसिचोऽपृक्ते” इति ईटि कुत्वषत्वे।

**भावाऽर्थः—**जनको रामस्यबाहुबलं ज्ञातुमिच्छन् येन धनुषा हरो दैत्यपुराणि संजहार तादृशं धनूरामाय समर्पितवान् रामोऽऽपि हसंस्तत् बभञ्ज।

**भाषाऽर्थः—**जनकने रामके बाहुबलको जानने की इच्छासे उनको वह धनु सौंपा जिस धनुसे कि महादेवने दैत्योंके शहरोंका ध्वंस किया था रामने भी हंसकर उसे तोड़ दिया॥४२॥

ततो नदीष्णान्पथिकान्गिरिज्ञानाह्वायकान्भूमिपतेरयेाध्याम्।
दित्सुः सुतां योधहरैस्तुरङ्गैर्व्यसर्जयन्मैथिलमर्त्यमुख्यः॥४३॥

**अन्वयः—**ततः सुतां दित्सुः मैथिलमर्त्यमुख्यः नदीष्णान् पथिकान् गिरिज्ञान्भूमिपतेः आह्वायकान् योधहरैः तुरङ्गैः अयोध्यां व्यसर्जयत्।

**प्रयोगप०—**सुतां दित्सुना मैथिलमर्त्यमुख्येन नदीष्णाः पथिका गिरिज्ञा आह्वायका अयोध्यां (प्रति) व्यसर्ज्यन्त।

**व्याख्या—**ततः=धनुर्भङ्गाऽनन्तरं, सुतां पुत्रीं(सीतामित्यर्थः), दित्सुः=दातुमिच्छुः, मैथिलमर्त्यमुख्यः=वैदेहजनश्रेष्ठः (जनकनरेन्द्रः), नदीष्णान्=नदीतरणकुशलान्, पथिकान्=मार्गकुशलान्, गिरिज्ञान्=पर्वतमार्गाऽभिज्ञान् (गिरि=वाचि, ज्ञान्=अभिज्ञान् वचनकुंशलानिति च गम्यते, एतावता सन्दर्भेण अविलम्बगामित्वमुक्तम्), भूमिपतेः=राज्ञः (दशरथस्येत्यर्थः), आह्वायकान्=आह्वातॄन्, योधहरैः=योद्धृवाहकैः, तुरङ्गैः=अश्वैः (साधनैः), अयोध्यां=कोशलं (प्रति), व्यसर्जयत्=प्रेषितवान्।

**व्युत्पत्तिः—**दित्सुः ददातेः“सनि मीमे”त्यादिना अच इस्। द्विर्वचनम्। “अत्र लोपोऽभ्यासस्य” इत्यभ्यासलोपः “सः स्यार्धधातुके” इति तत्वम्। “सनाशंसभिक्ष उः” इत्युप्रत्ययः। मैथिलमर्त्यमुख्यः=मर्त्येषु मुख्यो मर्त्यमुख्यः (स०त०) मैथिलश्चाऽसौ मर्त्यमुख्यः (क० धा०)। नदीष्णान्=नद्यां स्नान्तीति नदीष्णास्तान्, “सुपि स्थ” इत्यत्र “सुपी” तियोगविभागात्क-प्रत्ययः। “निनदीभ्यां स्नातेः कौशले” इति षत्वम्। पथिकान्=पथिषु कुशलाः पथिकास्तान् “तत्र कुशलः पथ” इति ठक्प्रत्ययः इति जयमङ्गलमल्लिनाथौ तन्न, तत्र सूत्रे “गोषदादिभ्यो वुन्” इत्यतो वुनोऽनुवृत्तेः, वुनि सति तु “पथक” इति स्यात् अतः पन्थानं गच्छतीति विग्रहे “पथः ष्कन्” इति ष्कन्, “पान्थः पथिक इत्यपि” इत्यमरः। गिरिज्ञान्=गिरीन् जानन्तीति गिरिज्ञास्तान् “इगुपधज्ञाप्रीकिरः कः” इति कः अथवा जानन्तीति ज्ञाः (पूर्वसूत्रेण कः) गिरि (वाचि विषये) ज्ञान् वचनकुशलानिति च गम्यते। भूमिपतेः=भूमेः पतिर्भूमिपतिस्तस्य (ष० त०) कृत्यप्रयोगे कर्मणि षष्ठी। आह्वायकान्=आह्वायन्तीति आह्वायकास्तान्, आङपूर्वकात् “ह्वेञ् स्पर्धायां शब्दे च” इति धातोः “ण्वुल्तृचौ” इति ण्वुल् “युवोरनाकौ” इत्यकादेशः। “आतो युक् चिण्कृतोः” इति युगागमश्च। योधहरैः=युध्यन्ते इति योधाः, “युध संप्रहारे’ इति धातोः। पचाद्यच्। “भटा योधाश्च योद्धारः” इत्यमरः। योधान्हरन्तीति योधहरास्तैः (योधवद्योग्यवयस्कैरित्यर्थः),“वयसि च” इत्यच्। तुरङ्गैः=विसर्जनक्रियायाः साधकतमत्वात् “साधकतमं करणम्” इति करणसंज्ञा, ततः “कर्तृकरणयोस्तृतीया” इति तृतीया। अयोध्यां=तामुद्दिश्येत्यर्थः। अत एव गम्यमानोद्देशक्रियां प्रति कर्मत्वम्। यथाऽऽहुः—“न केवलं श्रूयमाणैव क्रिया निमित्तं कारकभावस्य किन्तु गम्यमानाऽपी"ति।

**भावाऽर्थः—**ततः पुत्रीं दित्सुर्जनको महाराजदशरथस्य आकारणार्थं नदीतर-

णनिपुणान् नानामार्गकुशलान् पर्वतमार्गाभिज्ञान् वचनरचनायोग्यान् अश्वारोहान् अयोध्यां प्रति प्रेषितवान्।

**भाषाऽर्थः—**तबमहाराज जनकने रामचन्द्रको कन्यादान करनेकी इच्छा से महाराज दशरथको बुलानेके लिए नदी तैरनेमें निपुण, अनेक मार्गोमें कुशल, पर्वतमार्ग जाननेवाले तथा वचनरचनामें चतुर घुड़सवारोंको अयोध्यामें भेजा॥४३॥

क्षिप्रं ततोऽध्वन्यतुरङ्गयायी यविष्ठवद्वृद्धतमोऽपि राजा।
आख्यायकेभ्यः श्रुतसूनुवृत्तिरग्लानयानो मिथिलामगच्छत्॥४४॥

**अन्वयः—**ततः आख्यायकेभ्यः श्रुतसूनुवृत्तिः अध्वन्यतुरङ्गयायी राजा वृद्धतमः अपि यविष्ठवत् अग्लानयानः (सन्) मिथिलां क्षिप्रम् अगच्छत्।

**प्रयोगप०—**श्रुतसूनुवृत्तिना अध्वन्यतुरङ्गयायिना राज्ञा वृद्धतमेनाऽपि अग्लानयानेन (सता) मिथिला क्षिप्रमगम्यत।

**व्याख्या—**ततः=अनन्तरम् (अश्वारोहाणामयोध्याप्राप्त्यनन्तरम्), आख्यायकेभ्यः=दूतेभ्यः, श्रुतसूनुवृत्तिः=आकर्णितपुत्र-व्यापारः (राक्षसवधहरधनुर्भङ्गरूप इत्यर्थः), अध्वन्यतुरङ्गयायी=शीघ्रगत्यश्वगामी, राजा दशरथः, वृद्धतमः अपि=स्थविरतमः अपि, यविष्ठवत्=युवतमवत्, अग्लानयानः=श्रमरहिताऽश्वादिः (सन्), मिथिलां=जनकपुरीं, क्षिप्रं=सत्वरम्, अगच्छत्=ययौ।

**व्युत्पत्तिः—**आख्यायकेभ्यः=आख्यान्ति (सन्देशं कथयन्ति) इति आख्यायकाः, तेभ्यः। “ख्या प्रकथने” इति धातोर्ण्वुल्, युक् च। श्रुतसूनुवृत्तिः=सूनोर्वृत्तिः सूनुवृत्तिः (ष० त०), श्रुता सूनुवृत्तिर्येन सः (ब० व्री०)। अध्वन्यतुरङ्गयायी=अध्वानमलं गच्छन्तीति अध्वन्याः, “अध्वनो यत्खौ” इति यत्प्रत्ययः “ये चाऽभावकर्मणोः” इति प्रकृतिभावान्न टिलोपः। अध्वन्याश्चते तुरङ्गाः अध्वन्यतुरङ्गाः (क०धा०), “घोटके वीतितुरगतुरङ्गाऽश्वतुरङ्गमाः।” इत्यमरः। अध्वन्यतुरङ्गैर्यातीति तच्छीलः"सुप्यजातौ णिनिस्ताच्छील्ये” इति णिनिः, आतो युक् चिराकृतोः” इति युगागमश्च। वृद्धतमः=अतिशयेन वृद्धः “अतिशायने तभविष्ठनौ” इति तमप्प्रत्ययः। यविष्ठवत्=अतिशयेन युवा यविष्ठः, पूर्वसूत्रेण इष्ठन्प्रत्यये कृते “स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः” इति सूत्रेण वन्नित्यस्य लोपे उकारस्य गुणे अवादेशः। यविष्ठेन तुल्यं यविष्ठवत्, “तेन तुल्यं क्रिया चेद्वतिः” इति वतिप्रत्ययः (वत्यन्तमव्ययम्)। ग्लानं ग्लानिः भावे निष्ठा, अविद्य-

मानं ग्लानं यस्मिंस्तत् अग्लानम् (नञ्ब०), अग्लानं यानं यस्य सः (बहु०)। “अम्लानयान” इति मल्लिनाथसंमतः पाठः। क्षिप्रं=क्रियाविशेषणम्। अगच्छत्=“गम्लृ गतौ” इति धातोर्लङ्। “इषुगमियमां छः” इति छः।

**भावाऽर्थः—**ततो दूतेभ्यः राक्षसवधहरधनुर्भङ्गरूपं पुत्रपराक्रमं श्रुत्वा महाराजो दशरथः स्थविरतमोऽपि तरुणतमवत् श्रमरहितं वाहनमारुह्य सत्वरं मिथिलां प्रापत्।

**भाषाऽर्थः—**तब महाराज दशरथ दूतोंसे पुत्रका पराक्रम सुन कर अत्यन्त वृद्ध होते हुए भी अतिशय तरुण पुरुषकी तरह अश्रान्त वाहन में चढ़ कर शीघ्र मिथिलामें पहुँचे॥४४॥

वृन्दिष्ठमार्चीद्वसुधाऽधिपानां तं प्रेष्ठमेतं गुरुवद्गरिष्ठम्।
सदृङ्ग्रहान्तं सुकृताऽधिवासं बंहिष्ठकीर्तिर्यशसा वरिष्ठम्॥४५॥

**अन्वयः—**सदृक् बंहिष्ठकीर्तिः (सः) वसुधाऽधिपानां वृन्दिष्ठं श्रेष्ठं गुरुवत् गरिष्ठं महान्तं सुकृताऽधिवासं यशसा वरिष्ठम् एतं तम् आर्चीत्।

**प्रयोगप०—**सदृशा बंहिष्ठकीर्तिना (तेन) वसुधाऽधिपानां वृन्दिष्ठः प्रेष्ठोगरिष्ठो महान् सुकृताऽधिवासो यशसा वरिष्ठ एष स आर्चि।

**व्याख्या—**सदृक्=समानः(अनुरूप इत्यर्थः), बंहिष्ठकीर्तिः=बहुलतरयशाः, (सः=जनकः) वसुधाऽधिपानां=राज्ञां (मध्ये), वृन्दिष्ठं=वृन्दारकतमं (श्रेष्ठमित्यर्थः), प्रेष्ठं=प्रियतमं, गुरुवत्=आचार्यवत्, गरिष्ठं=गुरुतमं (पूज्यतममित्यर्थः), महान्तं= महाऽऽशयं, सुकृताऽधिवासं=धर्मनिलयं, यशसा=कीर्त्या, वरिष्ठम्=उरुतमम् (अधिकमित्यर्थः), एतम्=आगतं, तं=दशरथम्, आर्चीत्=अर्चितवान्।

**व्युत्पत्तिः—**सदृक्=समान इव दृश्यते इति सदृक्, समानशब्दोपपदात्दृश्धातोः “समानान्ययोश्च” इति क्विन् “दृग्दृशवतुषु” इति समानशब्दस्य सभावः। बंहिष्ठकीर्तिः=अतिशयेन बहुला बंहिष्ठा, इष्ठन्प्रत्यये कृते “प्रियस्थिरस्फि- रोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राधिवृन्दाः” इति सूत्रेण बंह्यादेशः। बंहिष्ठाकीर्तिर्यस्य सः (बहु०)। वसुधाऽधिपानां=वसुधायाअधिपा वसुधाधिपाः तेषाम् (ष० त०) “वसुधोर्वीवसुन्धरा।” इत्यमरः। वृन्दिष्ठम्= अतिशयेन वृन्दारकः वृन्दिष्ठः, तम्, इष्ठनि—“प्रियस्थिरे”त्यादिना वृन्दारकस्य वृन्दादेशः। “वृन्दारकौ रूपिमुख्यौ” इत्यमरः। प्रेष्ठम्=अतिशयेन प्रियः प्रेष्ठस्तं, पूर्वसूत्रेण प्रियस्य प्रादेशः। गुरुवत्=गुरुणा तुल्यं, वतिप्रत्ययः।

गरिष्ठम्=अतिशयेन गुरुः गरिष्ठस्तं, पूर्वसूत्रेण गुरोर्गरादेशः। सुकृताऽधिवासं=शोभनं कृतं सुकृतम् (गतिसमासः), अधिवसत्यस्मिन्निति अधिवासः, “हलश्च” इति अधिकरणे घञ्। सुकृतस्य अधिवासः सुकृताऽधिवासस्तम् (ष० त०)। वरिष्ठम्=अतिशयेन उरुः वरिष्ठः, तम्, पूर्वसूत्रेण उरोर्वरादेशः। एतम्=आङ्पूर्वादिणः कर्तरि क्तः। आर्चीत्= अर्चधातोर्लुङि “इट ईटि” इति सलोपः।

**भावाऽर्थः—**मिथिलाऽधीश्वरो महायशा जनकः स्वाऽनुरूपं राजश्रेष्ठं प्रियतमं गुरुवत्पूज्यं महानुभावं धर्माधारभूतं समायातं दशरथं मधुपर्कादिभिः पूजयामासेत्यर्थः।

**भाषाऽर्थः—**दशरथके अनुरूप कीर्तिशाली महाराज जनकने राजाओं में श्रेष्ठ, अत्यन्त प्रिय, गुरुवत् पूजनीय, महानुभाव, धर्मके आधारस्थान तथा महायशा ऐसे आये हुए महाराज दशरथकी पूजाकी॥४५॥

त्रिवर्गपारीणमसौ भवन्तमध्यासयन्नासनमेकमिन्द्रः।
विवेकदृश्वत्वमगात्सुराणां तं मैथिलो वाक्यमिदं बभाषे॥४६॥

अन्वयः—“असौ इन्द्रः त्रिवर्गपारीणं भवन्तम् एकम् आसनम् अध्यासयन्सुराणां विवेकदृश्वत्वम् अगात्” मैथिलः तम् इदं वाक्यं बभाषे।

प्रयोगप०—“अमुना इन्द्रेण भवन्तमेकमासनमध्यासयता विवेकदृश्वत्वमगायि” मैथिलेन स इदं वाक्यं बभाषे।

**व्याख्या—**असौ=विप्रकृष्टस्थः, इन्द्रः=शक्रः, त्रिवर्गपारीणं=धर्माऽर्थकामपारगामिनं, भवन्तं=त्वाम् एकम्=अभिन्नम्, आसनं=विष्टरम्, अध्यासयन्=अधिष्ठापयन् (अर्द्धासनमधिगमय्येत्यर्थः), सुराणां=देवानां, विवेकदृश्वत्वं विवेकदर्शित्वम्, अगात्=प्रापत्, मैथिलः=जनकः, तं=दशरथम्, इदम्=उक्तप्रकारं, वाक्यं=वचनं, बभाषे=अकथयत्।

**व्युत्पत्तिः—**त्रिवर्गपारीणं=त्रयाणां (धर्मार्थकामानाम्) वर्गस्त्रिवर्गः (ष० त०), “त्रिवर्गो धर्मकामाऽर्थैः” इत्यमरः। पारं गामी पारीणः “अवारपाराऽत्यन्ताऽनुकामं गामी” इत्यत्र विगृहीतविपर्यस्तग्रहणात् खप्रत्ययः, “आयनेयी”त्यादिना तस्येनः। त्रिवर्गस्य पारीणस्त्रिवर्गपारीणस्तम् (ष० त०)। भवन्तम्=“गतिबुद्धी”त्यादिना कर्मसंज्ञा। आसनम्= “अध्यासयन्” इति पदेन योगे “अधिशीङ्स्थाऽऽसां कर्म” इत्याधारस्य कर्मसंज्ञा। विवेकदृश्वत्वं=विवेकं दृष्टवा-

निति विवेकदृश्वा, “दृशेः क्वनिप्” इति क्वनिप्, विवेकदृश्वनो भावो विवेकदृश्वत्वं तत् (त्वप्रत्ययः)। अगात्=“इणो गा लुङि” इतीणो गादेशः, “गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु” इति सिचो लुक्। बभाषे=भाष्धातोः ब्रूधातुसमानार्थकत्वाद्द्वि-कर्मकत्वम्।

भावार्थ—“इन्द्रः धर्मार्थकामपारगामिनं भवन्तमेकमासनमारोप्य देवानां मध्ये विवेकदर्शी सञ्जातः” इति जनको दशरथं बभाषे।

भाषाऽर्थः—“इन्द्र धर्म, अर्थ और कामके पारगामी आपको अपने आसनमें बैठाकर देवताओंमें विवेकदर्शीहुए हैं” जनकने दशरथको ऐसा कहा॥४६॥

हिरण्मयीसाललतेच जङ्गमा च्युता दिवः स्थास्नुरिवाऽचिरप्रभा।
शशाऽङ्ककान्तेरधिदेवताऽऽकृतिः सुता ददे तस्य सुताय मैथिली॥४७॥

**अन्वयः—**हिरण्मयी जङ्गमा शाललता इव दिवः च्युता स्थास्नुः अचिरप्रभा इव शशाऽङ्ककान्तेः अधिदेवताऽऽकृतिः सुता मैथिली तस्य सुताय ददे।

**प्रयोगप०—**हिरण्मयीं जङ्गमां शाललतामिव दिवश्च्युतां स्थास्नुमचिरप्रभामिव शशाऽङ्ककान्तेरधिदेवताकृतिं सुतां मैथिलीं तस्य सुताय ददौ।

**व्याख्या—**हिरण्मयी=सुवर्णमयी (स्वर्णनिर्मिता), जङ्गमा=चरिष्णुः, शाललता इव=वृक्षशाखा इव, दिवः=आकाशात्, च्युता=पतिता, स्थास्नुः=स्थिरा, अचिरप्रभा इव=विद्युल्लता इव, शशाङ्ककान्तेः=चन्द्रिकायाः, अधिदेवताकृतिः= अधिदेव्याकारा, सुता=पुत्री, मैथिली=सीता, तस्य=दशरथस्य, सुताय=पुत्राय (रामायेत्यर्थः), ददे=दत्ता (जनकेनेति शेषः)। [उपलक्षणमेतत्, इत्थमेव तेन भरताय माण्डवी, लक्ष्मणाय उर्मिला शत्रुघ्नाय श्रुतकीर्तिः प्रदत्तेति ज्ञेयम्।]

**व्युत्पत्तिः—**हिरण्मयी=हिरण्यस्य विकारो हिरण्मयी, “दाण्डिनायनहास्तिनायनाथर्वणिकर्जेह्माशिनेयवाशिनायनि-भ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि” इति मयटि यलोपनिपातः। जङ्गमा=जङ्गम्यते इति जङ्गमा, गमेर्यङि नुगागमे पचाद्यचि “यङोऽचि च” इति यङो लुक्। शाललता=शालस्य लता (ष० त०)। दिवः=“द्योदिवौ द्वे स्त्रियामभ्रं व्योमपुष्करमम्बरम्।” इत्यमरः । स्थास्नुः=“ग्लाजिस्थश्च ग्स्नुः” इति ग्स्नुः। अचिरप्रभा=न चिरम् अचिरम् (नञ्०), अचिरं प्रभा यस्याः सा (बहु०)। शशाऽङ्ककान्तेः=शशः अङ्कः यस्य स शशाऽङ्कः (बहु०), तस्य कान्तिः शशाङ्कऽकान्तिः तस्याः (ष० त०)। अधिदेवताऽऽ-

कृतिः=देव एव देवता, “देवात्तल्” इति तल्प्रत्ययः। अधिष्ठात्री देवता अधिदेवता, “प्रादयो गताद्यर्थे प्रथमया” इति समासः। अधिदेवताया इव आकृतिर्यस्याः सा (व्यधिकरणबहुव्रीहिः)।मैथिली=मैथिलस्य अपत्यं स्त्री मैथिली, “अत इञ्” इति इञ्, तदन्तात् “इतो मनुष्यजातेः” इति ङीष्। ददे=कर्मणि लिट्।

**भावार्थः—**सुवर्णनिर्मिता चरिष्णुः वृक्षलता इव, आकाशपतिता स्थिरा विद्युदिव तथा चन्द्रकान्तेरधिष्ठात्री देवीव पुत्री सीता जनकेन रामाय प्रदत्ता।

**भाषाऽर्थ—**जनकने सुवर्णमयी सञ्चारिणी वृक्षकी लताकी तरह, आकाश से पतित स्थिर बिजलीकी नाई तथा चन्द्रकान्तिकी अधिष्ठात्री देवीके सदृश आकारवाली पुत्री सीताके साथ रामचन्द्रका विवाह करा दिया॥४७॥

लब्धां ततो विश्वजनीनवृत्तिस्तामात्मनीनामुदवोढ रामः।
सद्रत्नमुक्ताफलभर्मभूषां सम्बंहयन्तीं रघुवर्ग्यलक्ष्मीम्॥४८॥

**अन्वयः—**ततः विश्वजनीनवृत्तिः रामः लब्धाम् आत्मनीनां सद्रत्नमुक्ताफलभर्मभूषां रघुवर्ग्यलक्ष्मीं सम्बंहयन्तीं ताम् उदवोढ।

**प्रयोगप०—**विश्वजनीनवृत्तिना रामेण लब्धा आत्मनीना सद्रत्नमुक्ताफलभर्मभूषा रघुवर्ग्यलक्ष्मीसम्बंहयन्ती सा उदवाहि।

**व्याख्या—**ततः=दानाऽनन्तरं, विश्वजनीनवृत्तिः=सर्वजनहितप्रवृत्तिः, रामः=रामचन्द्रः, लब्धां=प्राप्ताम्, आत्मनीनां= स्वहितां, सद्रत्नमुक्ताफलभर्मभूषाम्=उत्कृष्टमणिमौक्तिकसुवर्णालङ्कारां, रघुवर्ग्यलक्ष्मीं=रघुवर्गभवशोभां, सम्बंहयन्तीं= सम्यग्बहुलीकुर्वतीं, तां=सीताम्, उदवोढ=ऊढवान्।

**व्युत्पत्तिः—**विश्वजनीनवृत्तिः=विश्वस्मै जनाय हिता विश्वजनीना, “आत्मन्विश्वजनभोगोत्तरपदात्खः” इति खप्रत्ययः, खस्येनश्च। विश्वजनीना वृत्तिर्यस्य सः (बहु०)। आत्मनीनाम्=आत्मने हिता आत्मनीना, ताम्, पूर्वसूत्रेण खप्रत्ययः। सद्रत्नमुक्ताफलभर्मभूषां=मुक्ताः फलानीव मुक्ताफलानि, “उपमितं व्याघ्राऽऽदिभिः सामान्याऽप्रयोगे” इति समासः। रत्नानि च मुक्ताफलानि च भर्माणि च रत्नमुक्ताफलभर्माणि (द्वन्द्वः) “स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम्। तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्॥” इत्यमरः। रत्नमुक्ताफलभर्मणां भूषा (भूषणम्) रत्नमुक्ताफलभर्मभूषा (ष० त०)। सती रत्नमुक्ताफल-भर्मभूषा यस्याः सा सद्रत्नमुक्ताफलभर्मभूषा, ताम् (बहु०)। “भूषाम्” इत्यस्य स्थाने

क्वचित् “शोभाम्” इति पाठः। रघुवर्ग्यलक्ष्मीं=रघूणां (रघुवंशोत्पन्नानां राज्ञाम्) वर्गः रघुवर्गः (ष० त०) तत्र भवा रघुवर्ग्या। “वर्गान्ताच्च” इत्यनुवृत्तौ “अशब्दे यत्खावन्यतरस्याम्” इति यत्प्रत्ययः। रघुवर्ग्या चाऽसौ लक्ष्मी रघुवर्ग्यलक्ष्मीस्ताम् (क० धा०)। सम्बंहयन्तीं=सम्बहुलां कुर्वाणा सम्बंहयन्ती, ताम्; सम्पूर्वाद्बहुलशब्दात् “तत्करोति तदाचष्टे” इति णिचि लटः शतरि ङीप्, णिचि इष्टवद्भावात् “प्रियस्थिरे”त्यादिना बहुलशब्दस्य बंह्यादेशः। उदवोढ=वहेर्लुङि तङि “सहिवहोरोदवर्णस्य” इत्योत्वे ढत्वादिकार्यम्।

**भावाऽर्थः—**दानाऽनन्तरं सर्वहितव्यापारः रामः प्राप्तां स्वहितां समलङ्कृतां रघुकुलशोभां बहुलीकुर्वतीं सीतां परिणीतवान्।

**भाषाऽर्थः—**तब सबके हितके लिए कार्य करनेवाले रामचन्द्रजीने अपना हित करनेवाली उत्तम आभरणोंसे भूषित और रघुवंशकी शोभाको बढानेवाली सीताको स्वीकार किया॥४८॥

सुप्रातमासादितसंमदं तद्वन्दारुभिः संस्तुतमभ्ययोध्यम्।
अश्वीयराजन्यकहास्तिकाऽऽढ्यमगात् सराजं बलमध्वनीनम्॥४९॥

**अन्वयः—**सुप्रातम् आसादितसंमदं वन्दारुभिः संस्तुतम् अश्वीयराजन्यकहास्तिकाऽऽढ्यम् अध्वनीनं तत् बलं सराजम् अभ्ययोध्यम् अगात्।

**प्रयोगप०—**सुप्रातेन आसादितसम्मदेन संस्तुतेन अश्वीयराजन्यकहास्तिकाढ्येन अध्वनीनेन तेन बलेन अभ्ययोध्यम् अगायि।

**व्याख्या—**सुप्रातं=सुप्रभातम्, आसादितसंमदं=प्राप्तहर्षं, वन्दारुभिः=वन्दिभिः, संस्तुतं=कृतस्तवम्, अश्वीयराजन्यक-हास्तिकाऽऽढ्यम्=अश्वक्षत्रियगजसमूहसम्पन्नम्, अध्वनीनम्=अध्वानमलं गामि, तत्=प्रसिद्धं, बलं= सैन्यं, सराजं=सभूपम् (दशरथसहितमित्यर्थः), अभ्ययोध्यम्=प्रतिकोशलम्, अगात्=अगमत्।

**व्युत्पत्तिः—**सुप्रातं=शोभनं प्रातर्यस्य तत् सुप्रातं (बहु०), “सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठपदाः” इत्यच्प्रत्ययान्तो निपातः, टिलोपश्च। आसादितसम्मदम्=आसादितः सम्मदः येन तत् (बहु०), “मुत्प्रीतिः प्रमदो हर्षप्रमोदाऽऽमोदसम्मदाः।” इत्यमरः। वन्दारुभिः=वन्दन्त इति वन्दारवः, तैः “वदि अभिवादनस्तुत्योः” इति धातोः “शृृवन्द्योरारुः” इत्यारुः। “वन्दारुरभिवादके” इत्यमरः। अश्वीयराजन्यकहास्तिकाढ्यम्=अश्वानां समूहः अश्वीयम्,

“केशाऽश्वाभ्यां यञ्छावन्यतरस्याम्” इति छः (छस्येयः)। राजन्यानां समूहो राजन्यकं, “गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्स-मनुष्याजाद्वुञ्” इति बुञ्, “प्रकृत्याऽके राजन्यमनुष्ययुवानः” इति प्रकृतिभावादपत्ययकारलोपो न। हस्तिनां समूहो हास्तिकम् “अचित्तहस्तिधेनोष्ठक्” इति ठक्। अश्वीयं च राजन्यकं च हास्तिकं च अश्वीयराजन्यकहास्तिकं (द्वन्द्वः), “द्वन्द्वश्च प्राणितूर्यसेनाऽङ्गानाम्” इति सेनाङ्गत्वात् एकवद्भावः। अश्वीयराजन्यकहास्तिकेन आढ्यम् (तृ० त०)। अध्वनीनम्= अध्वानमलं गच्छतीति, “अध्वनो यत्खौ” इति खः (खस्येनः), “आत्माऽध्वानौ खे” इति प्रकृतिभावः। सराजं=राज्ञा युगपत् राज्ञा सह वा इति यौगपद्ये साकल्ये वा “अव्ययं विभक्ती”त्यादिना अव्ययीभावः, “अव्ययीभावे चाऽकाले” इति सहस्य सभावः “अनश्च” इति समासाऽन्तष्टच्च। अभ्ययोध्यम्=अयोध्यामभि अभ्ययोध्यम्, “लक्षणेनाऽभिप्रती आभिमुख्ये” इत्यव्ययीभावः।

**भावाऽर्थः—**शोभनप्रातःकाले हर्षपूर्णं स्तुतिपाठकैः प्रशंसितं क्षत्रियगजाऽश्वसम्पन्नं पर्याप्तगतिशीलं तद्दशरथसैन्यं राज्ञा दशरथेन सह अयोध्याऽभिमुखं जगाम।

**भाषाऽर्थः—**सुन्दर प्रातः समयमें हर्षपूर्ण, चारणोंसे प्रशंसित, क्षत्रिय, हाथी और घोड़ोंसे सम्पन्न, पर्याप्तगतिमें समर्थ दशरथकी फौज अयोध्याके सम्मुख चली॥४९॥

विशङ्कटो वक्षसि बाणपाणिः सम्पन्नतालद्वयसः पुरस्तात्।
भीष्मो धनुष्मानुपजान्वरत्निरैति स्म रामः पथि जामदग्न्यः॥५०॥

**अन्वयः—**वक्षसि विशङ्कटः बाणपाणिः सम्पन्नतालद्वयसः भीष्मः धनुष्मान् उपजान्वरत्निः जामदग्न्यः रामः पथि पुरस्तात् ऐति स्म।

**प्रयोगप०—**विशङ्कटेन बाणपाणिना सम्पन्नतालद्वयसेन भीष्मेण धनुष्मता उपजान्वरत्निना जामदग्न्येन रामेण पथि पुरस्तात् एयते स्म।

**व्याख्या—**वक्षसि=उरसि, विशङ्कटः=विशालः, बाणपाणिः=शरहस्तः, सम्पन्नतालद्वयसः=विशालतालवृक्षप्रमाणः, भीष्मः=भयङ्करः, धनुष्मान्=धन्वी, उपजान्वरत्निः=आजानुबाहुः, जामदग्न्यः=जमदग्निपुत्रः, रामः=परशुरामः, पथि=मार्गे, पुरस्तात्=अग्रतः, ऐति स्म=आगतवान्।

**व्युत्पत्तिः—**विशङ्कटः=व्युपसर्गात् “वेः शालच्छङ्कटचौ” इति शङ्कटच् प्रत्ययः, “विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्।” इत्यमरः। “विशङ्कटे वक्षसि” इति मल्लिनाथसम्मतः पाठः। बाणपाणिः=बाणः पाणौ यस्य सः (बहु०) “प्रहरणाऽर्थेभ्यः

परे निष्ठासप्तम्यौ” इति पाणिशब्दस्य परनिपातः। सम्पन्नतालद्वयसः=सम्पन्नश्चाऽसौ तालः सम्पन्नतालः (क० धा०) सम्पन्नतालः प्रमाणमस्य स सम्पन्नतालद्वयसः, “प्रमाणे द्वयसज्दघ्नञ्मात्रचः” इति द्वयसच् प्रत्ययः। भीष्मः=बिभेत्यस्मादिति भीष्मः (औणादिको मक्प्रत्ययः) “भीमादयोऽपादाने” इत्यपादानाऽर्थे साधुः। धनुष्मान्=धनुरस्ति यस्य सः (मतुप्)। उपजान्वरत्निः=जानुनोः समीपमुपजानु (समीपाऽर्थे अव्ययीभावः) तत्र (उपजानु) अरत्निः (लक्षणयाबाहुः) यस्य सः (बहु०)। “अरत्निस्तु निष्कनिष्टेन “मुष्टिना” इत्यमरः। जामदग्न्यः=जमदग्नेरपत्यं पुमान् जामदग्न्यः, “गर्गादिभ्यो यत्र” इत्यत्र पाठादपत्येऽपि गोत्रत्वारोपात् यञ्। साक्षात् (मुख्याऽर्थेन) अपत्यविवक्षायां तु “ऋष्यन्धकवृष्णिकुरुभ्यश्च” इत्यणि जामदग्नो भवति। पुरस्तात्=पूर्वस्मिन्निति पुरस्तात्, पूर्वशब्दात् “अस्ताति च” इति अस्तातिप्रत्ययः पुरादेशश्च। ऐति स्म=आङ्पूर्वादिण्धातोः स्मयोगे “लट् स्मे” इति भूते लट्।

**भावार्थः—**विपुलवक्षाः शरहस्तः तालवृक्षसमोन्नतः भयङ्करो धानुष्कः आजानुबाहुः परशुरामः मार्गे अग्रतः राममाजगाम।

**भाषाऽर्थः—**चौड़ी छातीवाले, हाथमें बाण लिये हुए, ताड़वृक्षके समान ऊँचे, भयङ्कर, धनुर्धारी और दीर्घबाहुयुक्त जमदग्निके पुत्र परशुरामजी मार्गमें रामको मिले॥५०॥

उच्चैरसौ राघवमाह्वतेदं धनुः सबाणं कुरु, माऽतियासीः।
पराक्रमज्ञः प्रियसन्ततिस्तं नम्रः क्षितीन्द्रोऽनुनिनीषुरूचे॥५१॥

**अन्वयः—**असौ राघवम् उच्चैः आह्वत “इदं धनुः सबाणं कुरु, मा अतियासीः”। पराक्रमज्ञः प्रियसन्ततिः क्षितीन्द्रः तं नम्रः अनुनिनीषुः ऊचे।

**प्रयोगप०—**अमुना राघवः उच्चैराह्वायि—"(त्वया) इदं धनुः सबाणं क्रियतां, मा अतियायि”। पराक्रमज्ञेन प्रियसन्ततिना क्षितीन्द्रेण स नम्रेण अनुनिनीषुणा (सता) ऊचे।

**व्याख्या—**असौ=परशुरामः, राघवं=रामचन्द्रम्, उच्चैः=तारस्वरम्, आह्वत=सस्पर्द्धमाहूतवान्, इदं=पुरोनिर्दिष्टं, धनुः= चापं, सबाणं=सशरं, कुरु=विधेहि (मया सह युध्यस्वेत्यर्थः), मा अतियासीः=अतिक्रम्य मा गाः, पराक्रमज्ञः=परशुराम-विक्रमाऽभिज्ञः, प्रियसन्ततिः=सन्तानवत्सलः, क्षितीन्द्रः=महाराजः (दशरथ

इत्यर्थः), तं=परशुरामं, नम्रः=प्रणतः, अनुनिनीषुः=अनुनेतुमिच्छुः (सन्), ऊचे=उवाच।

**व्युत्पत्तिः—**राघवं=रघोरपत्यं पुमान् राघवस्तम् (अण्प्रत्ययः)। आह्वत=“ह्वेञ् स्पर्धायां शब्दे च” इति धातोः लुङि “स्पर्धायामाङः” इत्यात्मनेपदम्। “आत्मनेपदेष्वन्यतरस्याम्” इति च्लेरङादेशः, “आतो लोप इटि च” इत्याकारलोपः। सबाणं=बाणेन सहितं सबाणं, तत् (बहु०)। मा अतियासीः=अतिपूर्वकात् “या प्रापणे” इति धातोर्माङ्योगे “माङि लुङ्” इति लुङ् “न माङ्योगे” इत्यडागमाभावः। “यमरमनमातां सक्च” इति सक् इट् च। “इट ईटि” इति सलोपः। पराक्रमज्ञं=पराक्रमं जानातीति पराक्रमज्ञस्तम्, “आतोऽनुपसर्गे कः” इति कप्रत्ययः। यद्वा जानातीति ज्ञः, “इगुपधज्ञाप्रीकिरः कः” इति कप्रत्ययः, पराक्रमस्य ज्ञः (ष० त०)। प्रियसन्ततिः=प्रिया सन्ततिर्यस्य सः (बहु०)। “अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्।” इत्यमरः। क्षितीन्द्रः=क्षितेरिन्द्रः (ष० त०)। अनुनिनीषुः=नयतेः सन्नन्तात् उप्रत्ययः। ऊचे=“ब्रूञ् व्यक्तायां वाचि” इति धातोः कर्तरि लिट्। “ब्रुवो वचिः” इति वचिरादेशः।

**भावाऽर्थः—**परशुरामो रामचन्द्रं तारस्वरेण सस्पर्धमाहूतवान्—“इदं मदीयं धनुः सशरं कुरु, अतिक्रम्य मा गाः” इति। ततः परशुरामविक्रमाऽभिज्ञः सुतवत्सलो दशरथो नम्रो भूत्वा अनुनयाऽर्थं तमकथयत्।

**भाषाऽर्थः—**परशुरामने रामचन्द्रजीको ऊंचे स्वरसे ललकारा—“रामचन्द्र ! मेरे इस धनुमें बाण चढाओ, मेरे वचनको लांघकर मत जाओ”। परशुरामके पराक्रमको जाननेवाले पुत्रवत्सल महाराज दशरथने नम्र हो कर ऋषिको मनानेकी इच्छा रखते हुए कहा॥५१॥

अनेकशो निर्जितराजकस्त्वं पितॄनतार्प्सीर्नृपरक्ततोयैः।
संक्षिप्य संरम्भमसद्विपक्षं काऽऽस्थाऽर्भकेऽस्मिंस्तव राम ! रामे॥५२॥

**अन्वयः—**हे राम ! त्वम् अनेकशः निर्जितराजकः (सन्) नृपरक्ततोयैः पितॄन् अतार्प्सीः, असद्विपक्षं संरम्भं संक्षिप्य, अर्भके रामे तव का आस्था ?।

प्रयोगप०—(हे राम !) त्वया निर्जितराजकेण (सता) पितरः अतर्पिषत, असद्विपक्षः संरम्भः संक्षिप्यताम्, रामे तव कया आस्थया (भूयते)।

**व्याख्या—**हे राम=हे जामदग्न्य !, त्वं=भवान्, अनेकशः=बहुशः(बहु-

वारमित्यर्थः), निर्जितराजकः=पराजितराजसमूहः (सन्) नृपरक्ततोयैः=राजरुधिरजलैः, पितॄन्=अग्निष्वात्तादीन्, अतार्प्सीःतर्पितवानसि, असद्विपक्षम्=अविद्यमानशत्रुं, संरम्भं=क्रोधं, संक्षिप्य=संहर, अर्भके=बालके, रामे=रामचन्द्रे, तव=भवतः, का आस्था=क आदरः (नाऽयं बालस्ते क्रोधभाजनं भवितुमर्हतीत्यर्थः)।

**व्युत्पत्तिः—**अनेकशः=एकैकवारम् एकशः, “संख्यैकवचनाच्च वीप्सायाम्” इति शस्प्रत्ययः। न एकशः अनेकशः (नञ्०) क्रियाविशेषणमेतत्। निर्जितराजकः=राज्ञां समूहो राजकं, “गोत्रोक्षोष्ट्रोरभ्रे"त्यादिना वुञ्। निर्जितं राजकं येन सः (बहु०)। नृपरक्ततोयैः=नृृन् पान्तीति नृपाः (कप्रत्ययः) तेषां रक्तानि नृपरक्तानि (ष० त०) तानि एव तोयानि नृपरक्ततोयानि, तैः “मयूरव्यंसकादयश्च” इति रूपकसमासः। अतार्प्सीः=“तृप प्रीणने” इति धातोर्लुङि “स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वाच्यः” इति विकल्पात्सिचि “अनुदात्तस्य चर्दुपधस्याऽन्यतरस्याम्” इति अम्भावपक्षे रूपम्। असद्विपक्षं=विरुद्धः पक्षः यस्य स विपक्षः (बहु०) न सन् असन् (नञ्०), स विपक्षःयस्य सः असद्विपक्षस्तम् (बहु०) “द्विड्विपक्षाऽहिताऽमित्रदस्युशात्रव-शत्रवः।” इत्यमरः। संरम्भं=“संरम्भः संभ्रमः कोपे” इति विश्वः। संक्षिप्य=क्षिपेदैंवादिकाल्लोटि सिपि “अतो हेः” इति हिलोपश्च। अर्भके=पोतः पाकोऽर्भको डिम्भः” इत्यमरः।

**भावाऽर्थः—**हे परशुराम ! भवान्बहुवारं राजसमूहं जितवान्, राजरक्तजलैः पितॄन् तर्पितवांश्च, तव शत्रुर्नाऽस्ति अतः क्रोधं संहर; बालके रामे तव क आदरः।

**भाषाऽर्थः—**हे परशुरामजी ! आपने बहुत बार राजाओंको जीता, और उनके रुधिररूप जलोंसे पितरोंको तृप्त किया; आपका कोई शत्रु नहीं है इस कारणसे क्रोध छोडिए। बालक रामपर आपको क्रोध नहीं करना चाहिए॥५२॥

अजीगणद्दाशरथं न वाक्यं यदा स दर्पेण तदा कुमारः।
धनुर्व्यकार्क्षीद्गुरुबाणगर्भं लोकानलावीद्विजितांश्च तस्य॥५३॥

**अन्वयः—**यदा स दर्पेण दाशरथं वाक्यं न अजीगणत् तदा कुमारः गुरुबाणगर्भं धनुः व्यकार्क्षीत्, विजितान् तस्य लोकांश्च अलावीत्।

**प्रयोगप०—**यदा तेन वाक्यं न अगणि, तदा कुमारेण धनुः व्यकर्षि, विजिता तस्य लोकाश्च अलाविषत।

**व्याख्या—**यदा=यस्मिन् काले, सः=परशुरामः, दर्पेण=गर्वेण, दाशरथं=दशरथसम्बन्धि (दशरथस्येत्यर्थः), वाक्यं= वचः, न अजीगणत्=न गणितवान्, तदा=तस्मिन्काले, कुमारः=राजकुमारः (रामचन्द्र इत्यर्थः), गुरुबाणगर्भं=दुर्वहशरयुक्तं, धनुः=चापं (परशुरामस्येति भावः), व्यकार्क्षीत्=विकृष्टवान् (चकर्षेत्यर्थः), विजितान्=तपोजितान्, तस्य=परशुरामस्य, लोकांश्च=पुण्यस्थानानि च, अलावीत्=छिन्नवान् (निस्पृहस्य तस्य अनुज्ञयैव चिच्छेदेत्यर्थः। रामबाणस्य अमोघवर्तित्वादिति भावः)।

**व्युत्पत्तिः—**यदा=“सर्वैकान्यकिंयत्तदः काले दा” इति काले दाप्रत्ययः। दाशरथं=दशरथस्येदं दाशरथं, तत् “तस्येदम्” इत्यण्। अजीगणत्=“गण संख्याने” इति धातोः स्वाऽर्थण्यन्ताल्लुङि “चङि” इति द्विर्वचनम्, “ई च गणः” इत्यभ्यासस्येकारः। तदा=पूर्वसूत्रेण दाप्रत्ययः। गुरुबाणगर्भं=गुरुश्चाऽसौ बाणः गुरुबाणः (क० धा०), स गर्भे यस्य तत् गुरुबाणगर्भ, तत् (बहु०)। व्यकार्क्षीत्=“कृष विलेखने” इति धातोः लुङ्। पूर्ववत् “स्पृशमृशकृषतृपे"त्यादिना पक्षे सिचि रूपम्। हलन्तलक्षणा वृद्धिः, “षढोः कः सि” इति कत्वम्। लोकान्=“अथो जगती लोको विष्टपं भुवनं जगत्।” इत्यमरः। अलावीत्=“लूञ् छेदने” इति धातोः लुङि सिचि वृद्धिः।

**भावाऽर्थः—**यदा परशुरामो गर्वेण दशरथवाक्यं न श्रुतवान् तदा रामचन्द्रः दुर्वहबाणयुक्तं तस्य धनुश्चकर्ष; तपोजितान् परशुरामपुण्यलोकान् अच्छिनत्।

**भाषाऽर्थः—**जब परशुरामने घमण्डसे दशरथकी बात न सुनी, तब रामचन्द्रने उनका बाणयुक्त धनुको खींचा और पुण्यसे जीते गये उनके लोकोंको नष्ट कर दिया॥५३॥

जिते नृपाऽरौ सुमनीभवन्ति शब्दायमानान्यशनैरशङ्कम्।
वृद्धस्य राज्ञोऽनुमतेर्बलानि जगाहिरेऽनेकमुखानि मार्गान्॥५४॥

**अन्वयः—**नृपाऽरौ जिते (सति) सुमनीभवन्ति अशनैः अशङ्कं शब्दायमानानि बलानि वृद्धस्य राज्ञः अनुमतेः अनेकमुखानि (सन्ति) मार्गान् जगाहिरे।

**प्रयोगप०—**सुमनीभवद्भिः शब्दायमानैः बलैः अनेकमुखैः (सद्भिः) मार्गा जगाहिरे।

**व्याख्या—**नृपारौ=क्षत्रियाऽन्तके (परशुरामे इत्यर्थः), जिते=पराभूते

(सति), सुमनीभवन्ति=प्रसन्नचित्तानि, अशनैः=अमन्दम्, अशङ्कं=निशङ्कं, शब्दायमानानि=शब्दं कुर्वाणानि (क्ष्वेडमानानीत्यर्थः), बलानि=सैन्यानि, बृद्धस्य=स्थविरस्य, राज्ञः=नृपस्य (दशरथस्येत्यर्थः), अनुमतेः=अनुज्ञानात्, अनेक-मुखानि=बहुमुखानि (सन्ति), मार्गान्=नानापथान्, जगाहिरे=प्रविविशुः।

**व्युत्पत्तिः—**नृपारौ=नृपाणामरिर्नृपाऽरिस्तस्मिन् (ष० त०)। सुमनीभवन्ति=शोभनं मनो येषां तानि सुमनांसि (बहु०) असुमनांसि सुमनांसि यथा सम्पद्यन्ते तथा भवन्ति सुमनीभवन्ति, “अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च” इति च्वौ अन्तस्य लोपे “अस्य च्वौ” इतीकारः, ततो लटः शत्रादेशो नपुंसके जसि नुमागमः। अशनैः=न शनैः (नञ्०)। अशङ्कम्= अविद्यमाना शङ्का यस्मिन्(कर्मणि) तद् यथा तथा, “नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः” इति नञ्बहुव्रीहिः। शब्दायमानानि= “शब्दवैरकलहाऽभ्रकण्वमेघेभ्यः करणे” इति क्यङ्, तदन्ताल्लटः शानजादेशः। अनेकमुखानि=न एकानि अनेकानि (नञ्०) तानि मुखानि येषां तानि (बहु०)। मार्गान्=“अयनं वर्त्म मार्गाऽध्वपन्थानः पदवी सृतिः।” इत्यमरः। जगाहिरे=“गाहू विलोडने” इति धातोर्लिट्।

**भावाऽर्थः—**क्षत्रियनाशके परशुरामे जिते सति प्रसन्नानि उच्चस्वरेण निःशङ्कं शब्दं कुर्वाणानि सैन्यानि महाराजस्य दशरथस्य अनुज्ञानात् बहुमुखानि भूत्वा अनेकान् पथः प्राविशन्।

**भाषाऽर्थः—**परशुराम के हारनेपर प्रसन्न चित्तवाले निःशङ्क हो कर ऊँचे स्वरसे शब्द करनेवाले सैनिक लोगोंने महाराज दशरथकी अनुमतिसे अनेक स्थानोंमें फैल कर मार्गोमें प्रवेश किया॥५४॥

अथ पुरुजवयोगान्नेदयद्दूरसंस्थं दवयदतिरयेण प्राप्तमुर्वीविभागम्।
क्लमरहितमचेतन्नीरजीकारितक्ष्मांबलमुपहितशोभां तूर्णमायादयोध्याम्॥५५॥

**अन्वयः—**अथ पुरुजवयोगात् दूरसंस्थं नेदयत्, प्राप्तम् उर्वीविभागम् अतिरयेण दवयत् क्लमरहितम् अचेतत् बलं नीरजीकारितक्ष्माम् उपहितशोभाम्अयोध्यां तूर्णम् आयात्।

**प्रयोगप०—**नेदयता दवयता क्लमरहितेन अचेतता बलेन नीरजीकारितक्ष्मा उपहितशोभा अयोध्या तूर्णम् आयायत।

**व्याख्या—**अथ=नानापथगमनाऽनन्तरं, पुरुजवयोगात्=महावेगवशात्,

दूरसंस्थं=विप्रकृष्टस्थं, नेदयत्=अन्तिकस्थं कुर्वत्, प्राप्तम्=आसन्नम्, उर्वीविभागं=पृथ्वीविभागम्, अतिरयेण= वेगाऽतिशयेन, दवयत्=दूरीकुर्वत्, क्लमरहितम्=अखेदम्, अचेतत्=अजानत् (इयद्दूरं गतमिति अजानदिति भावः), चलं= सैन्यं, नीरजीकारितक्ष्मां=निर्धूलीकारितपृथ्वीम् (सिक्तसंमृष्टभूतलामित्यर्थः), उपहितशोभाम्=आहितश्रीकाम् (ध्वजपताकादिभिरितिशेषः), अयोध्यां=कोशलं, तूर्णं=त्वरितम्, आयात्=आजगाम।

**व्युत्पत्तिः—**पुरुजवयोगात्=पूर्यते वर्द्धते इति पुरुः, पूर्यतेः पृणातेर्वा औणादिकः कुप्रत्ययः। पुरुश्चाऽसौ जवः पुरुजवः (क० धा०), तेन योगः पुरुजवयोगः तस्मात् (तृ० त०)। दूरसंस्थं=सम्यक् स्थानं संस्था, “आतश्चोपसर्गे” इत्यङ्। दूरे संस्था यस्य तत् दूरसंस्थं, तत् (व्यधिकरणबहु०)। नेदयत्=अन्तिकशब्दात् “तत्करोति तदाचष्टे” इति णिच्, णाविष्ठवद्भावात् “अन्तिकवाढयोर्नेदसाधौ” इति नेदादेशः। पश्चाल्लट् शतरि शप् अयादेशः। उर्वाविभागम्=उर्व्या विभाग उर्वीविभागस्तम् (ष०त०)। अतिरयेण=अत्यन्तं रयः अतिरयस्तेन (सुप्सुपा समासः) “हेतौ” इति तृतीया। दवयत्=दूरशब्दात् पूर्ववण्णिचि इष्ठवद्भावे च “स्थूलदूरे”त्यादिना यणादिपरलोपः पूर्वस्य च गुणः पश्चात्तथैव लडादयः। क्लमरहितं=क्लमेन रहितम् (तृ० त०), अचेतत्=चेततीति चेतत्, “चितो संज्ञाने” इति धातोर्लटःशत्रादेशः। न चेतत् अचेतत् (नञ्०)। नीरजीकारितक्ष्मां=निर्गतं रजः यस्याः सा नीरजाः (बहु०)। अनीरजा नीरजा यथा सम्पद्यते तथा कारिता नीरजीकारिता सुमनीवत् प्रक्रिया। नीरजीकारिता क्ष्मा यस्यां सा नीरजीकारितक्ष्मा ताम् (बहु०)। उपहितशोभाम्=उपहिता शोभा यस्यां सा उपहितशोभा ताम् (बहु०) “शोभाकान्तिर्द्युतिश्छविः” इत्यमरः। तूर्णम्=“ञित्वरा सम्भ्रमे” इति धातोः “रुष्यमत्वरसङ्घुषास्वनाम्” इत्यादिना पक्षे इडभावः। “ज्वरत्वरस्रिव्यविमवामुपधायाश्च” इति वकारोपधयोरूठ्, “रदाभ्यां निष्ठातो नः पूर्वस्य च दः” इति नत्वम्। आयात्=आङ्पूर्वाद्यातेर्लङ्।

**भावाऽर्थः—**अनन्तरं महावेगवशात् दूरस्थितं निकटीकुर्वत् निकटस्थं पृथ्वीविभागं दूरीकुर्वत् श्रमरहितम् इयद्दूरं गतमित्यजानत् दशरथसैन्यं सिक्तसंमृष्टभूतलां ध्वजपताकादिभिः शोभासम्पन्नामयोध्यां सत्वरं प्रापत्॥५५॥

**भाषाऽर्थः—**तबअत्यन्त वेगके कारण दूरस्थितको निकटस्थ और निकटस्थ

पृथ्वीके विभागको दूर करती हुई, श्रमरहित, “इतने दूर गये हैं” ऐसा भी वेगके कारण नहीं जानती हुई महाराज दशरथकी सेना सेचन और झाडूदेनेसे धूलिरहित जमीनवाली और शोभासे परिपूर्ण अयोध्या में जल्दीसे आ पहुंची॥५५॥

इति श्रीभट्टिकाव्ये व्याख्याद्वयोपेते प्रकीर्णकाण्डे सीतापरिणयो नाम द्वितीयः सर्गः॥

<MISSING_FIG href=”../books_images/U-IMG-1722589757pic2.jpg”/>

अथ तृतीयः सर्गः॥३॥

वधेन संख्ये पिशिताऽशनानां क्षत्राऽन्तकस्याऽभिभवेन चैव।
आढ्यम्भविष्णुर्यशसा कुमारः प्रियंभविष्णुर्न स यस्य नाऽऽसीत्॥१॥

**अन्वयः—**संख्ये पिशिताऽशनानां वधेन क्षत्राऽन्तकस्य अभिभवेन चैव यशसा आढ्यंभविष्णुः कुमारः यस्य प्रियंभविष्णुः न, स न आसीत्।

**प्रयोगप०—**आढ्यम्भविष्णुना कुमारेण यस्य प्रियंभविष्णुना न (अभूयत), तेन न अभूयत।

**व्याख्या—**संख्ये=युद्धे, पिशिताऽशनानां=राक्षसानां, वधेन=हननेन, क्षत्राऽन्तकस्य=परशुरामस्य, अभिभवेन च= पराजयेन च (एवकारः पादपूरणे), यशसा=कीर्त्या, आढ्यंभविष्णुः=समृद्धो भवन् (रक्षोवधपरशुरामविजयसंजातकीर्ति-सम्पन्न इत्यर्थः), कुमारः=रामचन्द्रः, यस्य जनस्य, प्रियंभविष्णुः=प्रियभूतः, न=न अभूत्, सः=अप्रियरामः, न आसीत्=न अभूत् (रामस्य सर्वप्रियङ्करत्वादिति भावः। एतेनाऽस्य यौवराज्याऽभिषेकहेतुर्जनाऽनुराग उक्तः)।

**व्युत्पत्तिः—**संख्ये=“मृधमास्कन्दनं संख्यं समीकं सम्परायकम्।” इत्यमरः। पिशिताऽशनानां=पिशितमशनं येषां ते पिशिताशनाः तेषाम् (बहु०) कृद्योगे कर्मणि षष्ठी। वधेन=हननं वधस्तेन, हन्धातोः"हनश्च वधः” इति भावे अप् वधादेशश्च। क्षत्राऽन्तकस्य=क्षत्राणामन्तकः क्षत्राऽन्तकस्तस्य (ष० त०) कर्मणि षष्ठी। अभिभवेन=“ऋृदोरप्” इत्यप्। आढ्यंभविष्णुः= अनाढ्य आढ्यो भवतीति आढ्यंभविष्णुः, “आढ्यसुभगस्थूलपलितनग्नाऽन्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्” इत्यनुवृत्तौ “कर्तरि भुवः खिष्णुच्खुकञौ” इति खिष्णुच्प्रत्ययः “अरुर्द्विषदजन्तस्य मुम्” इति मुम्। प्रियंभविष्णुः=अप्रियः प्रियो भवतीति प्रियंभविष्णुः, पूर्ववत् प्रक्रिया।

**भावाऽर्थः—**विश्वमित्रयज्ञे राक्षसवधेन विवाहाऽनन्तरं परशुरामविजयेन च यशःसम्पन्नो रामचन्द्रः सर्वस्याऽपि प्रियोऽभूत्।

**भाषाऽर्थः—**युद्धमें राक्षसोंको मारनेसे और परशुरामको पराजित करनेसे कीर्तिसम्पन्न रामचन्द्र जिसके प्यारे नहीं थे वैसा कोई भी पुरुष नहीं था (अर्थात् रामचन्द्र सबहीके प्यारे हो गये थे)।

ततः सुचेतीकृतपौरभृत्यो राज्येऽभिषेक्ष्ये सुतमित्यनीचः।
आघोषयन् भूमिपतिः समस्तं भूयोऽपि लोकं सुमनीचकार॥२॥

**अन्वयः—**ततः सुचेतीकृतपौरभृत्यः भूमिपतिः “सुतं राज्ये अभिषेक्ष्ये” इति अनीचैः आघोषयन् भूयः अपि समस्तं लोकं सुमनीचकार।

**प्रयोगप०—**सुचेतीकृतपौरभृत्येन भूमिपतिना “सुतो राज्येऽभिषेक्ष्यते” इति आघोषयता समस्तो लोकः सुमनीचक्रे।

**व्याख्या—**ततः=जनाऽनुरागाऽनन्तरं, सुचेतीकृतपौरभृत्यः=अनुरक्तीकृतनागरिकभृत्यः, भूमिपतिः=महाराजः (दशरथ इत्यर्थः), सुतं=पुत्रं (रामम्), राज्ये=राजकर्मणि, अभिषेक्ष्ये=अभिषेक्ष्यामि (अभिषेकं करिष्यामि), इति= इत्थम्, अनीचैः=उच्चैः, आघोषयन्=घोषणां कारयन्, भूयोऽपि=पुनरपि, समस्तं लोकं=संपूर्णाः प्रजाः, सुमनीचकार= सन्तुष्टचित्तं चकार (रामाऽभिषेकवृत्तान्तः सर्वलोकानन्दकरो जात इत्यर्थः)।

**व्युत्पत्तिः—**सुचेतीकृतपौरभृत्यः=शोभनं चेतो येषां ते सुचेतसः (बहु०)। असुचेतसः सुचेतसः यथा सम्पद्यन्ते तथा कृताः सुचेतीकृताः (च्चिप्रत्ययः) “अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च” इति साधुत्वम् । पुरि भवाः पौराः, “तत्र भव” इत्यण्। सुचेतीकृताः पौरा भृत्याश्च येन सः (बहु०)। भूमिपतिः=भूमेः पतिः (ष० त०)। अभिषेक्ष्ये=“षिच क्षरणे” इति धातोः कर्तरि ऌट् तङ्। अनीचैः=न नीचैः (नञ्०)। समस्तं=“विश्वमशेषं कृत्स्नं समस्तनिखिलाऽखिलानि निःशेषम्।” इत्यमरः। सुमनीचकार=असुमनाः सुमनाः यथा सम्पद्यते तथा चकार सुमनीचकार, “अरु"रित्यादिसूत्रेण पूर्ववत्साधुत्वम्।

**भावाऽर्थः—**अनन्तरं पौरभृत्यानामनुरञ्जको महाराजो दशरथः “पुत्रस्य राज्याऽभिषेकं करिष्यामी"त्याघोषणां कारयन् पुनरपि संपूर्णाः प्रजाः सन्तुष्टाश्चकार।

**भाषाऽर्थः—**तब नागरिक और भृत्योंको प्रसन्न करनेवाले महाराज दश-

रथने “मैं अपने पुत्र रामचन्द्रका राज्याऽभिषेक करूंगा” ऐसी घोषणा करवा दी तथा फिर भी सब लोकको प्रसन्न किया॥२॥

आदिक्षदादीप्तकृशानुकल्पं सिंहासनं तस्य सपादपीठम्।
सन्तप्तचामीकरवल्गुवज्रं विभागविन्यस्तमहार्घरत्नम्॥३॥

**अन्वयः—**तस्य आदीप्तकृशानुकल्पं सन्तप्तचामीकरवल्गुवज्रं विभागविन्यस्तमहार्घरत्नं सपादपीठं सिंहासनम् आदिक्षत्।

प्रयोगप०—(तेन) तस्य आदीप्तकृशानुकल्पं^(……)सिंहासनम् आदेशि।

**व्याख्या—**तस्य=रामस्य, आदीप्तकृशानुकल्पं=प्रज्वलिताग्निवर्णं, सन्तप्तचामीकरवल्गुवज्रम्=उत्तप्तसुवर्णसुन्दरहीरकं, विभागविन्यस्तमहार्घरत्नं=तत्तत्प्रदेशखचितबहुमूल्यमणिकं, सपादपीठं=पादपीठसहितं, सिंहासनं=सौवर्णं राजासनम्, आदिक्षत्=सज्जीक्रियतामित्यादिष्टवान् (दशरथ इति शेषः)।

**व्युत्पत्तिः—**आदीप्तकृशानुकल्पम्=समन्ताद्दीप्त आदीप्तः (गतिसमासः) आदीप्तश्चाऽसौ कृशानुः आदीप्तकृशानुः (क० धा०)। ईषदसमाप्तः आदीप्तकृशानुः आदीप्तकृशानुकल्पं तत् (कल्पप्प्रत्ययः)। सन्तप्तचामीकरवल्गुवज्रं=सम्यक्तप्तानि सन्तप्तानि (गति०)। सन्तप्तानि च तानि चामीकराणि सन्तप्तचामीकराणि (क० धा०), “चामीकरं जातरूपं महारजतकाञ्चने।” इत्यमरः। सन्तप्तचामीकराणि इव वल्गूनि सन्तप्तचामीकरवल्गूनि, “उपमानानि सामान्यवचनैः” इति समासः। सन्तप्तचामीकरवल्गूनि वज्राणि यस्य तद् (बहु०)। विभागविन्यस्तमहार्घरत्नं=विभागेषु विन्यस्तानि विभागविन्यस्तानि (स० त०)। महान्अर्घः (मूल्यम्) येषां तानि महार्घाणि (बहु०)। विभागविन्यस्तानि महार्घाणि रत्नानि (पद्मरागादीनि) यस्मिंस्तत् (बहु०)। सपादपीठं=पादयोः पीठं पादपीठं (ष० त०), तेन सहितं सपादपीठं, तत् (बहु०)। आदिक्षत्=आङ्पूर्वकात् “दिश अतिसर्जने” इति धातोर्लुङि “शलइगुपधादनिटः क्सः” इति क्सः॥

**भावाऽर्थः—**दशरथः प्रज्वलिताऽग्निवर्णसदृशम् उत्तप्तसुवर्णसमसुन्दरहीरकभूषितं तत्तत्प्रदेशखचितबहुमूल्य- पद्म-रागादिमणिशोभितं पादपीठसहितं सिंहासनं रामस्य कृते सज्जीक्रियतामित्यादिदेश।

**भाषाऽर्थः—**महाराज दशरथने “प्रज्वलित अग्निके सदृश, तप्त किया। गया सोनेकी तरह सुन्दर हीरोंसे भूषित, तत्तत् प्रदेशोंमें जड़े गये बहुमूल्य

रत्नोंसे शोभित पादपीठ (पांवदान) युक्त सिंहासनको रामके लिए तैयार करो” ऐसी आज्ञा दी॥३॥

प्रास्थापयत्पूगकृतान्स्वपोषं पुष्टान्प्रयत्नाद्दृढगात्रबन्धान्।
सभर्मकुम्भान्पुरुषान्समन्तात्पत्काषिणस्तीर्थजलाऽर्थमाशु॥४॥

**अन्वयः—**पूगकृतान् स्वपोषं पुष्टान् दृढगात्रबन्धान् सभर्मकुम्भान् पत्काषिणः पुरुषान् तीर्थजलाऽर्थं समन्तात् आशु प्रयत्नात् प्रास्थपयत्।

**प्रयोगप०—**पूगकृताःपुष्टाः दृढगात्रबन्धाः सभर्मकुम्भाः पत्काषिणः पुरुषाः प्रास्थाप्यन्त।

**व्याख्या—**पूगकृतान्=सङ्घीकृतान्, स्वपोषं पुष्टान्=स्वेन धनेन पुष्टान्, दृढगात्रबन्धान्=कठोरशरीरसन्धीन् (भारोद्वहने योग्यानित्यर्थः), सभर्मकुम्भान्=सुवर्णकलशसहितान्, पत्काषिणः=पदातीन्, पुरुषान्=पुंसः, तीर्थजलाऽर्थं=तीर्थजलानयनार्थं (अभिषेकार्थमिति भावः), समन्तात्=सर्वासु दिक्षु, आशु=शीघ्रं, प्रयत्नात्=उत्साहात्, प्रास्थापयत्=प्रस्थापितवान्।

**व्युत्पत्तिः—**पूगकृतान्=अपूगाः पूगाः कृताः पूगकृताः, तान् “श्रेण्यादिषु च्व्यर्थवचनं कर्तव्यम्” इति वचनात् “श्रेण्यादयः कृतादिभिः” इति समासः। स्वपोषं पुष्टान्=“स्वे पुष” इति णमुल् “अमैवाव्ययेन” इति समासः कषादिषु यथाविध्यनुप्रयोगश्च। दृढगात्रबन्धान्=गात्रस्य बन्धः गात्रबन्धः (ष० त०) “गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः।” इत्यमरः। दृढो गात्रबन्धो येषां ते दृढगात्रबन्धास्तान् (बहु०)। सभर्मकुम्भान्=भर्मणः कुम्भा भर्मकुम्भाः (ष०त०) भर्मकुम्भैः सहिताः सभर्मकुम्भास्तान् (बहु०)। पत्काषिणः=पादौ कषन्तीति तच्छीलाः पत्काषिणस्तान् “सुप्यजातौ णिनिस्ताच्छील्ये” इति णिनिः “हिमकाषिहतिषु च” इति पादशब्दस्य पदादेशः। तीर्थजलार्थम्=तीर्थानां जलानि तीर्थजलानि (ष० त०), तीर्थजलेभ्य इदं (यथा तथा) तीर्थजलार्थम् “अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्” इति समासः। प्रयत्नात्=प्रकृष्टो यत्नः प्रयत्नस्तस्मात् (प्रादिसमासः)। प्रास्थापयत्= प्रपूर्वस्तिष्ठतिर्गमनाऽर्थकस्तस्मात्ण्यन्ताल्लङ्, “अर्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ णौ” इति पुगागमः।

**भावाऽर्थः—**महाराजो दशरथः सङ्घीकृतान् स्वघनपुष्टान् दृढशरीरसन्धीन्

गृहीतसुवर्णकलशान् पदातीन् पुरुषान् तीर्थजलानयनार्थं सर्वासु दिक्षु शीघ्रमुत्साहात्प्रास्थापितवान्।

**भाषाऽर्थः—**महाराज दशरथने इकट्ठे किये गये, अपने धनसे पुष्ट, दृढ शरीरसन्धियोंसे युक्त, सोनेका कलश लिए हुए पैदल बहुतसे पुरुषोंको तीर्थजल लानेके लिए सब दिशाओंमें शीघ्र उत्साहसे भेजा॥४॥

उक्षाम्प्रचक्रुर्नगरस्य मार्गान्ध्वजान्बबन्धुर्मुमुचुः खधूपान्।
दिशश्च पुष्पैश्चकरुर्विचित्रैरर्थेषु राज्ञा निपुणा नियुक्ताः॥५॥

**अन्वयः—**अर्थेषु निपुणाः राज्ञा नियुक्ताः नगरस्य मार्गान् उक्षाम्प्रचक्रुः, ध्वजान् बबन्धुः, खधूपान् मुमुचुः दिशश्च विचित्रैः पुष्पैः चकरुः।

**प्रयोगप०—**निपुणैः नियुक्तैःमार्गः उक्षाम्प्रचक्रिरे, ध्वजा बबन्धिरे, खधूपा मुमुचिरे, दिशश्च पुष्पैः चकरिरे।

**व्याख्या—**अर्थेषु=कर्तव्याऽर्थेषु, निपुणाः=प्रवीणाः, राज्ञा=दशरथेन, नियुक्ताः=अधिकृताः पुरुषाः, नगरस्य=पुरस्य, मार्गान्=पथः, उक्षाम्प्रचक्रुः=निषिषिचु(धूलिप्रशमनार्थमिति शेषः), ध्वजान्=केतून्, बबन्धुः=उच्छ्रायितवन्तः, खधूपान्= आकाशव्यापिधूपान्, मुमुचुः=प्रमुक्तवन्तः (प्रसारयामासुरित्यर्थः), दिशश्चः आशाश्च, विचित्रैः=नानाप्रकारैः, पुष्पैः=कुसुमैः, चकरुः=विचिक्षिपुः (दिक्षु पुष्पाणि विचिक्षिपुरित्यर्थः)।

**व्युत्पत्तिः—**निपुणाः=“प्रवीणे निपुणाऽभिज्ञविज्ञनिष्णातशिक्षिताः।“इत्यमरः। उक्षाम्प्रचक्रुः=“उक्ष सेचने” इति धातोर्लिट्। “इजादेश्च गुरुमतोऽनृच्छः” इत्याम्प्रयोगे कृञोऽनुप्रयोगः। “कृञ्चानुप्रयुज्यते लिटि” इत्यत्र पदान्तरानुप्रयोगनिषेधेऽपि “ते प्राग्धातोः” इत्यनेन गत्युपसर्गसंज्ञकानां धात्वर्थकत्वादिना धात्वक्षरप्रायत्वाच्च अत्र धातोः प्रागेव प्रयोगनियमात् तेषां प्रोपसर्गस्य न व्यवधायकत्वमतो नाऽसाधुत्वम्। “तं पातयां प्रथममास” “प्रभ्रंशयां यो नहुषं चकार” इत्यादिस्थले तु उपसर्गेतरस्य व्यवधानात् असाधुत्वमेव। जयमङ्गलाकारेण तु व्यवधानभयात् “उक्षान् प्रचक्रुः” इति पाठः कल्पितः व्याख्यातं च—“उक्षणमुक्षा “गुरोश्च हल” इत्यप्रत्ययः, सा विद्यते येषां ते उक्षास्तान् (सेकवतः) “अर्श आ दिभ्योऽच्” इत्यच् प्रत्ययः” इति। तन्मल्लिनाथमते प्रसिद्धपाठत्यागादप्रसिद्धपाठकल्पनाच्च साहसमेवेत्युपेक्ष्यम्। खधूपान्=खव्यापका धूपाः खधूपास्तान्(मध्यम-

पदलोपी समासः। चकरुः=“कृृविक्षेपे"इति धातोः लिटि “ऋच्छत्यृृताम्” इति गुणः।

**भावाऽर्थः—**विधेयाऽर्थनिपुणा राजाऽधिकृताः पुरुषा नगरमार्गान् सिक्तवन्तः, ध्वजानुच्छ्रायितवन्तः आकाशव्यापिनो धूपान् प्रसारयामासुः, दिक्षु विचित्रपुष्पाणि च विचिक्षिपुः।

**भाषाऽर्थ—**कार्योंमें निपुण महाराजसे नियुक्त पुरुषोंने शहरके मार्गोको सींचा, ध्वजाओंको फहराया, आकाशको व्याप्त करनेवाले धूपोंको फैलाया और दिशाओंको रङ्ग विरङ्गे फूलोंसे सजाया॥५॥

मातामहाऽऽवासमुपेयिवांसं मोहादपृष्ट्वा भरतं तदानीम्।
तत्केकयी सोढुमशक्नुवाना ववार रामस्य वनप्रयाणम्॥६॥

**अन्वयः—**तत् सोढुम् अशक्नुवाना केकयी तदानीं मातामहावासम् उपेयिवांसं भरतं मोहात् अपृष्ट्वा रामस्य वनप्रयाणं ववार।

**प्रयोगप०—**अशक्नुवानया केकय्या रामस्य वनप्रयाणं वव्रे।

**व्याख्या—**तत्=रामाऽभिषेचनं, सोढुं=मर्षितुम् अशक्नुवाना=अशकनशीला, केकयी=कैकेयी (भरतमातेत्यर्थः), तदानीं= तस्मिन् समये (वरप्रार्थनाकाल इत्यर्थः), मातामहावासं=मातामहभवनम् (केकयराजप्रासादमित्यर्थः), उपेयिवांसम्=उपगतं, भरतं=स्वपुत्रं, मोहात्=मौढ्यात्, अपृष्ट्वा=अननुयुज्य (दूतप्रेषणेन अपृष्ट्वेत्यर्थः), रामस्य=रामचन्द्रस्य, वनप्रयाणम्=अरण्य-प्रस्थानं, ववार=प्रार्थितवती (रामवनगमनं वरत्वेन प्रार्थितवतीत्यर्थः)।

**व्युत्पत्तिः—**सोढुं=“षह मर्षणे” इति धातोः शक्नोतावुपपदे “शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्” इति तुमुन्। अशक्नुवाना=“शक्लृ शक्तौ"इति धातोः परस्मैपदित्वाच्छानच् न, अतः “ताच्छील्यवयोवचनशक्तिषु चानश्” इति चानश्प्रत्ययः, श्नोरुवङादेशः। मातामहावासं=मातुः पिता मातामहः, “पितृव्यमातुलमातामहपितामहाः” इति “मातृपितृभ्यां पितरि डामहच्” इति डामहच्प्रत्ययान्तो निपातः। आवसत्यस्मिन्निति आवासः “हलश्च” इत्यधिकरणे घञ्। मातामहस्य आवासो मातामहावासस्तम् (ष० त०)। उपेयिवांसम्=उपपूर्वात् इण्धातोः “उपेयिवाननाश्वाननूचानश्च” इति लिटः क्वसुप्रत्ययान्तो निपातः। मोहात् “विभाषा गुणेऽस्त्रियाम्” इति हेतौ पञ्चमी। अपृष्ट्वा=न पृष्ट्वा (नञ्०)। रामस्य=कर्तरि षष्ठी। वनप्रयाणं वनाय प्रयाणं वनप्रयाणं, तत् “गत्यर्थकर्मणि

द्वितीया चतुर्थ्यौचेष्टायामनध्वनि” इति चतुर्थी ततः “चतुर्थी”ति योगविभागाच्चतुर्थीतत्पुरुषः। “अटव्यरण्यं विपिनं गहनं काननं वनम्।” इत्यमरः। ववार=“वृञ् वरणे” इति धातोर्लिट्।

**भावाऽर्थः—**रामाऽभिषेकं सोढुमसमर्था कैकेयी तस्मिन्नवसरे मातामहभवनस्थं भरतं मौढ्यात् अपृष्ट्वा रामस्य वनगमनं वरत्वेन प्रार्थितवती।

**भाषार्थः—**उस उत्सवको नहीं सहती हुई कैकेयीने उस समय मातामहके यहां स्थित भरतको मूढतासे विना पूछे राजासे वरके तौरपर रामचन्द्रके वनगमनकी प्रार्थना की॥६॥

कर्णेजपैराहितराज्यलोभा स्त्रैणेन नीता विकृतिं लघिम्ना।
रामप्रवासे व्यमृशन्न दोषं जनाऽपवादं सनरेन्द्रमृत्युम्॥७॥

**अन्वयः—**कर्णेजपैः आहितराज्यलोभा स्त्रैणेन लघिम्ना विकृतिं नीता रामप्रवासे सनरेन्द्रमृत्युं जनाऽपवादं दोषं न व्यमृशत्।

**प्रयोगप०—**आहितराज्यलोभया विकृतिं नीतया सनरेन्द्रमृत्युर्जनाऽपवादो दोषः (तया) न व्यमृश्यत।

**व्याख्या—**कर्णेजपैः=सूचकैः (मन्थरादिभिर्जनैरित्यर्थः), आहितराज्यलोभा=जनितराज्यतृष्णा, स्त्रैणेन=स्त्रीसम्बन्धिना, लघिम्ना=लघुत्वेन, विकृतिं=विकारं (प्रकृतिवैपरीत्यमित्यर्थः), नीता=प्रापिता (कैकेयीत्यर्थः), रामप्रवासे=रामचन्द्रनिर्वासने, सनरेन्द्रमृत्युं=दशरथमरणसहितं, जनाऽपवादं=लोकनिन्दारूपं, दोषं=दूषणं, न व्यमृशत्=न व्यचारयत्।

**व्युत्पत्तिः—**कर्णेजपैः=कर्णे जपन्तीति कर्णेजपास्तैः, ‘स्तम्बकर्णयोरमिजपोः’ इत्यच् “तत्पुरुषे कृति बहुलम्” इति सप्तम्या अलुक्, “कर्णेजपः सूचकः स्यात्” इत्यमरः। आहितराज्यलोभा=राज्यस्य लोभो राज्यलोभः (ष० त०)। आहितो राज्यलोभो यस्याः सा (बहु०)। स्त्रैणेन=स्त्रीषु भवः स्त्रैणस्तेन, “स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्” इति नञ्प्रत्ययः। लघिम्ना=लघोर्भावो लघिमा, तेन “पृथ्वादिभ्य इमनिज्वा” इति इमनिच् टिलोपश्च। रामप्रवासे=रामस्य प्रवासो रामप्रवासस्तस्मिन् (ष० त०)। सनरेन्द्रमृत्युं=नराणामिन्द्रो नरेन्द्रः (ष० त०)तस्य मृत्युर्नरेन्द्रमृत्युः (ष० त०) तेन सहितः सनरेन्द्रमृत्युस्तम् (बहु०)

जनापवादं=जनानामपवादो जनाऽपवादस्तम् (ष० त०)। व्यमृशत्=विपूर्वात्“मृश आमर्शने” इति तौदादिकात् धातोर्लङ्।

**भावाऽर्थः—**सूचकैर्जनितराज्यतृष्णा स्त्रीसुलभेन लाघवेन विकारयुक्ता कैकेयी रामनिर्वासने राजमरणयुक्तं लोकाऽपवाददूषणं नाऽऽलोचितवती।

**भाषाऽर्थः—**सूचकों (चुगलखोरों) की बात सुन कर राज्यतृष्णासे युक्त, स्त्रीसहज लाघवसे विकारवाली कैकेयीने रामका वनवास होनेपर दशरथके मृत्युसे युक्त लोकाऽपवादरूप दोषका विचार नहीं किया॥७॥

वसूनि देशांश्च निवर्तयिष्यन् रामं नृपः सङ्गिरमाण एव।
तयाऽवजज्ञे भरताऽभिषेको विषादशङ्कुश्च मतौ निचख्ने॥८॥

**अन्वयः—**नृपः रामं निवर्तयिष्यन् वसूनि देशांश्च सङ्गिरमाण एव तया अवजज्ञे, भरताऽभिषेकः विषादशङ्कुश्च मतौ निचख्ने।

**प्रयोगप०—**नृपं रामं निवर्तयिष्यन्तं सङ्गिरमाणमेव सा अवजज्ञौ, भरताऽभिषेकं विषादशङ्कं च मतौ निचखान।

**व्याख्या—**नृपः=राजा, रामं=रामचन्द्रं, निवर्तयिष्यन्=परावर्तयिष्यन् वसूनि=धनानि, देशांश्च=जनपदांश्च, सङ्गिरमाण एव=प्रतिजानान एव (देवि ! एतानि ते दास्यामीति शेषः), तया=कैकेय्या, अवजज्ञे=अवज्ञातः (अनङ्गीकरणादिति भावः), भरताऽभिषेकश्च=स्वपुत्राऽभिषेचनमेव, विषादशङ्कुः=शोकशल्यं (व्यस्तरूपकम्), मतौ=मनसि, निचख्ने=निखातः (रामविवासनं भरताऽभिषेचनं चेति वरद्वयमयाचतेत्यर्थः)।

**व्युत्पत्तिः—**निवर्तयिष्यन्=“ऌट् शेषे च” इति चकारात् क्रियोपपदे ऌट्, तस्य स्थाने शत्रादेशः। वसूनि=“रिक्थमृक्थं धनं वसु” इत्यमरः। सङ्गिरमाणः=सङ्गिरते इति सङ्गिरमाणः, सम्पूर्वात् “गृृ निगरणे” इति तौदादिकाद्धातोः “समः प्रतिज्ञाने” इत्यात्मनेपदे लटः शानजादेशः। “ऋत उत्” इति रेफपर इकारः “आने मुक्” इति मुगागमश्च। अवजज्ञे=“ज्ञा अवबोधने” इति धातोः कर्मणि लिट्। भरताऽभिषेकः=भरतस्याऽभिषेकः (ष० त०)। विषादशङ्कुः=विषादः शङ्कुरिव विषादशङ्कुः, “उपमितं व्याघ्रादिभिः सामान्याऽप्रयोगे” इति समासः। निचख्ने=निपूर्वात् “खनु अवदारणे” इति धातोः कर्मणि लिट्, “गमहने"त्यादिना उपधालोपः।

**भावाऽर्थः—**दशरथो रामवनगमनं निवारयिष्यन् केकेय्यै धनं देशांश्च दातुमङ्गीचकार, परं तया तदवज्ञानपूर्वकं भरताऽभिषेकरूपमपरं शोकशल्यं च मनसि निखातम्।

**भाषाऽर्थः—**राजाने रामको वनवास नहीं कराने के लिए कैकेयीको बहुत धन और बहुत देशोंका देना स्वीकार किया, परन्तु उन्होंने तिरस्कारपूर्वक भरताभिषेकरूप दूसरा शोकशङ्कुको चित्तमें गाड़ दिया॥८॥

ततः प्रविव्राजयिषुः कुमारमादिक्षदस्याऽभिगमं वनाय।
सौमित्रिसीताऽनुचरस्य राजा सुमन्त्रनेत्रेण रथेन शोचन्॥९॥

**अन्वयः—**ततः राजा कुमारं प्रविव्राजयिषुः (सन्) सौमित्रिसीताऽनुचरस्य अस्य सुमन्त्रनेत्रेण रथेन वनाय अभिगमं शोचन् आदिक्षत्।

**प्रयोगप०—**राज्ञा प्रविव्राजयिषुणा (सता) अभिगमः शोचता आदेशि।

**व्याख्या—**ततः=वरप्रार्थनाऽनन्तरं, राजा=दशरथः। कुमारं=रामं प्रविव्राजयिषुः=प्रविव्राजयितुमिच्छुः (सन्), सौमित्रि-सीताऽनुचरस्य=लक्ष्मणजानकीसहायस्य, अस्य=रामस्य, सुमन्त्रनेत्रेण=सुमन्त्रसारथिना, रथेन=स्यन्दनेन, वनाय=अरण्याय, अभिगमं=प्रयाणं, शोचन्=रुदन्, आदिक्षत्=आदिष्टवान्।

**व्युत्पत्तिः—**प्रविव्राजयिषुः=“व्रज गतौ” इति ण्यन्ताद्धातोः सनि उप्रत्ययः।सौमित्रिसीताऽनुचरस्य=सुमित्राया अपत्यं पुमान् सौमित्रिः, “बाह्वादिभ्यश्च” इति इञ्। सौमित्रिश्च सीता च सौमित्रिसीतं, “सर्वो द्वन्द्वो विभाषैकवद्भवति” इति वचनादेकवद्भावः। अन्यथाऽनुचरशब्दस्य टप्रत्ययान्तत्वात् स्त्रियां ङोपि “नद्यृतश्च” इति कप्प्रसङ्गात्। समासाऽन्तविधेरनित्यत्वेऽपि पुंवद्भावाऽनुपपत्तेरिति। अनु (पश्चात्) चरति (गच्छति) इति अनुचरं, “भिक्षासेनादायेषु च” इति चकारस्याऽनुक्त-समुच्चयाऽर्थत्वात् टः। सौमित्रिसीतम् अनुचरं यस्य सः सौमित्रिसीताऽनुचरस्तस्य (बहु०)। सुमन्त्रनेत्रेण सुमन्त्रः नेत्रः (नेता सारथिर्वा)।यस्य स मुमन्त्रनेत्रस्तेन (बहु०), “नेत्रमधिगुणे वस्त्रे तरुमूले विलोचने। नेत्रं रथे च नाड्यां च नेत्रो नेतरि भेद्यवत्॥” इति विश्वः। वनाय=“गत्यर्थकर्मणी"त्यादिना चतुर्थी। अभिगमम्=अभिगमनमभिगमस्तम्, “ग्रहवृहनिश्चिगमश्च” इत्यप्। आदिक्षत्=दिशेर्लुङि “शल इगुपधादनिटः क्सः” इति क्सः।

**भावाऽर्थः—**ततो राजा रामं प्रव्राजयितुमिच्छुः सन् सीतालक्ष्मणयुक्तस्य रामस्य सुमन्त्रसारथिना रथेन वनाऽभिगमनं रुदन् सन् आज्ञापितवान्॥९॥

**भाषाऽर्थः—**तब शोक करते हुए राजाने रामको वनमें भेजनेकी इच्छासे सुमन्त्रको सारथि बनाकर लक्ष्मण और सीताके साथ रामचन्द्रको रथमें चढ़कर वनमें जानेकी आज्ञा दी॥९॥

केचिन्निनिन्दुर्नृपमप्रशान्तं विचुक्रुशुः केचन साऽस्रमुच्चैः।
ऊचुस्तथाऽन्ये भरतस्य मायां धिक्केकयीमित्यपरो जगाद॥१०॥

**अन्वयः—**केचित् अप्रशान्तं नृपं निनिन्दुः। केचन सास्रम् उच्चैः विचुक्रुशुः। तथा अन्ये भरतस्य मायाम् ऊचुः, अपरः केकयीं धिक् इति जगाद।

**प्रयोगप०—**कैश्चिदप्रशान्तो नृपो निनिन्दे। कैश्चन विचुक्रुशे। अन्यैर्भरतस्य माया ऊचे। अपरेण जगदे।

**व्याख्या—**केचित्=जनाः, अप्रशान्तं=शान्तिरहितं, नृपं=दशरथं, निनिन्दुः=निन्दितवन्तः, केचन=जनाः, सास्रं=सबाष्पम्, उच्चैः=उच्चस्वरं, विचुक्रुशुः=चक्रन्दुः (हा रामेति शेषः), तथा=तेन प्रकारेण, अन्ये=अपरे, भरतस्य= कैकेयीतनयस्य, मायां=शाठ्यम्, ऊचुः=अकथयन् (स्वयमपसृत्य मातृमुखेन भरत इदं कपटनाटकमाचरतीत्यूचुरित्यर्थः), अपरः=अन्यः, केकयीं=भरतजननीं, धिक्=धिक्कारः, इति=इत्थं, जगाद=अब्रवीत्।

**व्युत्पत्तिः—**अप्रशान्तं=न प्रशान्तः अप्रशान्तस्तम् (नञ्०), निनिन्दुः=“णिदि कुत्सायाम्” इति धातोर्लिट्। “इदितो नुम् धातोः” इति नुमागमः। सास्रम्=अस्रैःसहितं सास्रं तद् यथा तथा (बहु० क्रि० वि०), विचुक्रुशुः=“क्रुश आह्वाने रोदने च” इति धातोर्लिट्। केकयीं=धिग्योगे “उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्राऽपि दृश्यते॥” इति द्वितीया। धिक्=धिङ् निर्भर्त्सननिन्दयोः” इति विश्वः। “इत्यपरे जजल्पुः” इति मल्लिनाथसंमतः पाठः।

**भावाऽर्थः—**एवं रामप्रवाजनादेशे केचित् शान्तिरहितं राजानं निन्दितवन्तः, केचन सबाष्पं हा राम रामेति उच्चैः चक्रन्दुः। तथा अन्ये भरतस्य मायाम् (भरतेनैव मातृमुखेन एतत्सर्वमनुष्ठितम् इति) ऊचुः। अपरः केकयीं धिगित्यकथयत्।

**भाषाऽर्थः—**दशरथके ऐसी आज्ञा देनेपर कोई शान्तिरहित राजाकी

निन्दा करने लगे। कोई आंखोंमें आँसू भरकर ऊँचे स्वरसे “राम ! राम !” चिल्लाने लगे। और दूसरे लोग “यह सब भरतका काम है” ऐसा कहने लगे। कुछ लोग कैकेयीको धिक्कारने लगे॥१०॥

गतो वनं श्वो भवितेति रामः शोकेन देहे जनताऽतिमात्रम्।
धीरास्तु तत्र च्युतमन्यवोऽन्ये दधुः कुमाराऽनुगमे मनांसि॥११॥

**अन्वयः—**जनता रामः श्वः वनं गतो भविता इति शोकेन अतिमात्रं देहे, अन्ये धीरास्तु च्युतमन्यवः (सन्तः) कुमाराऽनुगमे मनांसि दधुः।

**प्रयोगप०—**जनतया “रामेण गतेन भविता” इति शोकेन देहे। अन्यैर्धीरैस्तु च्युतमन्युभिः (सद्भिः) मनांसि दधिरे।

**व्याख्या—**जनता=जनसमूहः, रामः=रामचन्द्रः, श्वः=भाविदिने, वनम्=अरण्यं, गतः=प्राप्तः, भविता=भविष्यति, इति= अस्माद्धेतोः, शोकेन=मन्युना, अतिमात्रम्=अत्यन्तं, देहे=दग्धा, अन्ये=अपरे, धीरास्तु=धैर्यवन्तस्तु, च्युतमन्यवः=शोक-रहिताः (सन्तः), कुमाराऽनुगमे=रामाऽनुव्रजने, मनांसि=चित्तानि, दधुः=निदधुः (रामाऽनुगनं कर्तुमीषुरित्यर्थः, अतस्तेषां रामवियोगाऽभावात्च्युतमन्यव इत्युक्तम्)।

**व्युत्पत्तिः—**जनता=जनानां समूहो जनता, “ग्राभजनबन्धुभ्यस्तल्” इति तल्, “तलन्तं स्त्रियाम्” इति लिङ्गाऽनु-शासनसूत्रात्तदन्तस्य स्त्रीत्वम्। भविता=भूधातोः “अनद्यतने लुट्” इति लुट्। ‘गतो भविता’ इत्यत्र “धातुसम्बन्धे प्रत्ययाः” इति वचनात् भूतकालस्य भविष्यत्कालेन सम्बध्यमानत्वेऽपि साधुत्वम्। शोकेन=“मन्युशोकौ तु शुक् स्त्रियाम्” इत्यमरः। देहे=दहतेः कर्मणि लिट् “अत एकहल्मध्येऽनादेशादेर्लिटि” इत्येत्वाऽभ्यासलोपौ। च्युतमन्यवः=च्युतो मन्युर्येषां ते (बहु०)। कुमाराऽनुगमे=कुमारस्य अनुगमः कुमाराऽनुगमस्तस्मिन् (ष० त०)।

**भावाऽर्थः—**रामः परदिने वनं गमिष्यतीति शोकेन जनता अत्यर्थं दग्धा। अन्ये धैर्यवन्तस्तु निःशोकाः सन्तो रामाऽनुगमने मतिं चक्रुः।

भाषाऽर्थः—“राम कल वन जायंगे” इस शोकसे जनता सन्तप्त हुई। अन्य धीर पुरुष लोग शोकरहित हो कर रामका अनुगमन करने को तैयार हो गये॥११॥

प्रस्थास्यमानावुपसेदुषस्तौ शोशुच्यमानानिदमूचतुस्तान्।
किं शोचतेहाऽभ्युदये वताऽस्मान् नियोगलाभेन पितुः कृतार्थान्॥१२॥

**अन्वयः—**प्रस्थास्यमानौ तौ उपसेदुषः शोशुच्यमानान् तान् इदम् ऊचतुः—(हे जनाः !) पितुः नियोगलाभेन कृतार्थान् अस्मान् इह अभ्युदये किं शोचत वत।

**प्रयोगप०—**प्रस्थास्यमानाभ्यां ताभ्याम् उपसेदिवांसः शोशुच्यमानास्ते इदम् ऊचिरे “कृताऽर्था वयं किं शोच्यामहै”।

**व्याख्या—**प्रस्थास्यमानौ=गमिष्यन्तौ, तौ=रामलक्ष्मणौ, उपसेदुषः=उपसन्नान् (निकटागतानित्यर्थः), शोशुच्यमानान्=भृशं शोचतः, तान्=जनान्, इदं=वक्ष्यमाणम्, ऊचतुः=उक्तवन्तौ, (हे जनाः !) पितुः=जनकस्य, नियोगलाभेन=आज्ञाकरणलाभेन कृताऽर्थान्=कृतकृत्यान्, अस्मान्=नः (अशोच्यानित्यर्थः), इह=अस्मिन्, अभ्युदये=वृद्धौ, किं=किमर्थं, शोचत=शोकं कुरुत, वत=आश्चर्यम् (सन्तोष्टव्ये शोचनादाश्चर्यमित्यर्थः)।

**व्युत्पत्तिः—**प्रस्थास्यमानौ=प्रस्थानं करिष्यन्तौ, प्रपूर्वात् स्थाधातोः “समवप्रविभ्यः स्थः” इत्यात्मनेपदम्, “लृटः सद्वा” इति लृटः शानजादेशः। उपसेदुषः=उपपूर्वात् सदेः “भाषायां सदवसश्रुवः” इति लिटः क्वसुरादेशः। शोशुच्यमानान्=भृशं शोचन्तीति शोशुच्यमानास्तान् यङन्तात् “शुच शोके” इति धातोः लटः शानजादेशः। इदं=ब्रूञ्धातोर्द्विकर्मकत्वात् “इदं” मुख्यकर्म, “तान्” इति तु गौणकर्म। नियोगलाभेन=नियोगस्य लाभो नियोगलाभस्तेन (ष० त०)। कृताऽर्थान्=कृतः अर्थः यैस्ते कृताऽर्थास्तान् (बहु०), “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु।” इत्यमरः। शोचत=अधीष्टे (सत्कारपूर्वके व्यापारे) लोट्।

**भावाऽर्थः—**गमिष्यन्तौ रामलक्ष्मणौ निकटागतान् भृशं शोचतो जनानिदमूचतुः—“हे जनाः ! पितुः वनगमनाज्ञालाभेन कृतकृत्यान् अस्मान् एतादृशे अभ्युदये किं शोचत आश्चर्यम् !” इति।

**भाषाऽर्थः—**प्रस्थान करनेवाले राम और लक्ष्मणने निकट आये हुए अत्यन्त शोक करनेवाले प्रजाजनोंको कहा—“महाशयों ! पिताजीकी आज्ञा पानेसे कृतकृत्य हमलोगोंको ऐसी वृद्धिके अवसरपर आपलोग क्यों शोक करते हैं ? आश्चर्य है !॥१२॥

असृष्ट यो यश्च भयेष्वरक्षीत् यः सर्वदाऽस्मानपुषत्स्वपोषम्।
महोपकारस्य किमस्ति तस्य तुच्छेन यानेन वनस्य मोक्षः॥१३॥

**अन्वयः—**यः अस्मान् असृष्ट, यः भयेषु अरक्षीत्, यः सर्वदा स्वपोषम् अपुषत्, तस्य महोपकारस्य तुच्छेन वनस्य यानेन मोक्षः अस्ति किम् ?

**प्रयोगप०—**येन वयम् असक्ष्महि, येन भयेषु अरक्षिष्महि, येन अपोषिष्महि, मोक्षेण भूयते किम् ?

**व्याख्या—**यः=पिता, अस्मान्=पुत्रान् असृष्ट=जनितवान् यः=पिता, भयेषु=आपत्सु, अरक्षीत्=रक्षितवान्,यः=पिता, सर्वदा =सर्वस्मिन् काले, स्वपोषम् अपुषत्=धनेन पुष्टवान्, तस्य=पितुः, महोपकारस्य=महोपकृतेः, तुच्छेन=अत्यल्पेन, वनस्य= काननस्य, यानेन=गमनेन (तदाज्ञयेति शेषः), मोक्षः=मुक्तिः (प्रत्युपकार इत्यर्थः), अस्ति किं=वर्तते किम् ? (नाऽस्त्येवेत्यर्थः)।

**व्युत्पत्तिः—**असृष्ट=“सृज विसर्गे” इति दैवादिकाद्धातोः कर्तरि लुङि तङि “झलो झलि” इति सलोपः। व्रश्चादिना ष्टुत्वम्। अरक्षीत्=“रक्ष पालने” इति धातोर्लुङ् “इट ईटि” इति सलोपः। सर्वदा=सर्वस्मिन् काले सर्वदा, “सर्वैकाऽन्यकिंयत्तदः काले दा” इति दाप्रत्ययः। स्वपोषं=“स्वे पुष” इति णमुल्, “अमैवाऽव्ययेन” इति समासः, अपुषत्= पुष्यतेर्लुङ्, “पुषादी”त्यादिना अङ्। महोपकारस्य=महांश्चाऽसौ उपकारो महोपकारस्तस्य (क० धा०)। वनस्य=शेषे षष्ठी, कृल्लक्षणायास्तु षष्ठ्या “गत्यर्थकर्मणी"त्यादिना चतुर्थ्या बाध्यमानत्वात्।

**भावाऽर्थः—**यः पिता अस्मान् जनितवान्, आपत्सु रक्षितवान्, सर्वदा धनेन पुष्टवान्, तस्य पितुः महोपकारस्य अत्यल्पेन वनगमनेन किं प्रत्युपकारोऽस्ति ?

**भाषाऽर्थः—**जिन पिताजीने हम लोगोंको पैदा किया, आपत्तियोंमें रक्षा की और धनसे पुष्ट किया, उनके महोपकारका तुच्छ वनगमनसे प्रत्युपकार होता है क्या ?॥१३॥

विद्युत्प्रणाशं स वरं प्रनष्टो यद्वोर्ध्वशोषं तृणवद्विशुष्कः।
अर्थे दुरापे किमुत प्रवासे न शासनेऽवास्थित यो गुररूणाम्॥१४॥

**अन्वयः—**उत प्रवासे किं दुरापेऽपि अर्थे यः गुरूणां शासने न अवस्थित, स विद्युत्प्रणाशं प्रनष्टः वरं, यद्वा तृणवत् ऊर्ध्वशोषं विशुष्कः वरम्।

**प्रयोगप०—**येन न अवास्थायि, तेन प्रनष्टेन विशुष्केण वा वरम् (भूयताम् )।

**व्याख्या—**उत=किं च, प्रवासे किं=विदेशवासे किं, दुरापेऽपि=दुःशङ्केऽपि, अर्थे=कर्तव्याऽर्थे विषये, यः=जनः, गुरूणां= पित्रादीनां, शासने=आज्ञायां, न अवास्थित=न अवस्थितवान्, सः=जनः, विद्युत्प्रणाशं=विद्युदिव प्रणश्य, प्रनष्टः=विनाशं गतः (सद्य एव मृतप्राय इत्यर्थः), वरं=किञ्चित्प्रियः, यद्वा=अथवा, तृणवत्=तृणेन तुल्यम्, ऊर्ध्वशोषं विशुष्कः=ऊर्ध्व एव तिष्ठन् विशोषयुक्तः, वरं=किञ्चित्प्रियः।

**व्युत्पत्तिः—**दुरापे=दुःखेन आप्तुं शक्यो दुरापस्तस्मिन्, “ईषद्दुःसुषुकृच्छ्राऽकृच्छ्राऽर्थेषु खल्” इति खल्प्रत्ययः। अवास्थित=अवपूर्वात्तिष्ठतेर्लुङ् “समवप्रविभ्यः स्थः” इत्यात्मनेपदम्, “स्थाध्वोरिच्च” इति कित्त्वमित्वं च, “ह्रस्वादङ्गात्” इति सिचो लोपः। विद्युत्प्रणाशम्=“उपमाने कर्मणि च” इति चकारात्कर्तरि उपमानोपपदे “कर्त्रोर्जीवपुरुषयोर्नशिवहोः” इति णमुल्। कषादित्वादनुप्रयोगः। “उपसर्गादसमासेऽपि णोपदेशस्य” इति णत्वम्। वरं=“देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबंमनाक्प्रिये।” इत्यमरः। तृणवत्=तृणेन तुल्यं तृणवत्, “तेन तुल्यं क्रिया चेद्वतिः” इति वतिः। ऊर्ध्वशोषम्=ऊर्ध्वं शुषित्वा इति ऊर्ध्वशोषम्, “ऊर्ध्वे शुषिपूरोः” इति कर्तरि ऊर्ध्व उपपदे णमुल्प्रत्ययः, पूर्ववदनुप्रयोगः। विशुष्कः=“शुषः क” इति निष्ठातकारस्य कः।

**भावाऽर्थः—**किं च प्रवासे एव किं दुःशङ्कनीये कर्तव्याऽर्थेऽपि यः गुरुजनानाम् (मातापित्राचार्यप्रभृतीनाम्) आज्ञां न पालयति तस्य विद्युत इव अचिरेणैव नाशः वरम् अथवा तृणस्येव ऊर्ध्वशोषणमेव वरम्।

**भाषाऽर्थः—**फिर परदेशमें रहनेकी ही क्या बात है ? जो गुरुजनोंकी आज्ञा नहीं मानता है उसका बिजलीकी तरह जल्दी नाश होना ही अच्छा है, अथवा तृणकी तरह ऊपर ही ऊपर सूखना ही कुछ अच्छा है॥१४॥

पोरा निवर्तध्वमिति न्यगादीत्तातस्य शोकाऽपनुदा भवेत।
या दर्शताऽन्यं भरतं च मत्तो निवर्तयेत्याह रथं स्म सूतम्॥१५॥

अन्वयः—“हे पौराः। निवर्तध्वं, तातस्य शोकाऽपनुदाः भवेत। भरतं मत्तः अन्यं मा दर्शत” इति न्यगादीत् सूतं च “रथं निवर्तय” इति आह स्म।

** प्रयोगप०—**“हे पौराः ! (युष्माभिः) निवृत्यताम्, शोकाऽपनुदैर्भूयेत। भरतो मत्तोऽन्यो मा दर्शि।” इति (ते रामेण) न्यगादिषत, सूतश्च “रथो निवर्त्यताम्” इति उच्यते स्म।

**व्याख्या—**हे पौराः=हे नागरिकाः, निवर्तध्वं=प्रतियात (निवृत्ता भवत), तातस्य=पितुः, शोकाऽपनुदाः= दुःखाऽपहर्त्तारः, भवेत=भवत, भरतं=कैकेयीनन्दनं, मत्तः=मत्, अन्यं=भिन्नं, मा दर्शत=न पश्यत, इति इत्थं, न्यगादीत्=निगदितवान्, सूतं च=सारथिं च (सुमन्त्रं चेत्यर्थः), रथं=स्यन्दनं, निवर्तय=परावर्तय, इति=इदम्, आह स्म= उक्तवान्।

**व्युत्पत्तिः—**पौराः=पुरि (नगर्याम्) भवाः पौरास्तत्सम्बोधने, (अण्प्रत्ययः), निवर्तध्वं=निपूर्वात् “वृतु वर्तने” इति धातोर्लोट्। तातस्य=“तातस्तु जनकः पिता।” इत्यमरः। शोकाऽपनुदाः=शोकमपनुदन्तीति शोकाऽपनुदाः, “तुन्दशोकयोः परिमृजाऽपनुदोः” इति कप्रत्ययः। भवेत=“विधिनिमन्त्रणामन्त्रणाऽधीष्टसम्प्रश्नप्रार्थनेषु लिङ्” इति विधौ प्रार्थनायां वा लिङ्। मत्तः=मदिति मत्तः, अस्मच्छब्दात् “पञ्चम्यास्तसिल्” इति तसिल्, “प्रत्ययोत्तरपदयोश्च” इति मदादेशः। मा दर्शत=दृशधातोः “माङि लुङ्” इति लुङ्। न्यगादीत्=निपूर्वात् “गदव्यक्तायां वाचि” इति धातोर्लुङि “अतो हलादेर्लघोः” इति वृद्धिः। “इट ईटि” इति सलोपः। आह स्म=“लट् स्मे"इति लट्, “बुवः पञ्चानामादित आहो ब्रुवः” इत्याहादेशः।

भावाऽर्थः—“हे पौराः ! निवृत्ता भवत, पितुः शोकाऽपहर्त्तारो भवेत, भरतं च मत्समं पश्यत” इति अकथयत् सारथिं च “रथं परावर्तय” इत्यब्रवीत्।

**भाषाऽर्थः—**रामने “नागरिकों ! लौट जाओ, पिताजीका शोक हटाओ, भरतको मेरे बराबर देखो” नागरिकों को ऐसा कहकर सारथिको रथ लौटानेको कहा॥१५॥

ज्ञात्वेङ्गितैर्गत्वरतां जनानामेकां शयित्वा रजनीं सपौरःI
रक्षन् वनेवासकृताद्भयात्तान् प्रातश्छलेनाऽपजगामरामः॥१६॥

**अन्वयः—**रामः इङ्गितैः जनानां गत्वरतां ज्ञात्वा सपौरः (सन्) एकां रजनीं तान् वनेवासकृतात् भयात् रक्षन् शयित्वा प्रातः छलेन अपजगाम।

**प्रयोगप०—**रामेण सपौरेण (सता) रक्षता अपजग्मे।

**व्याख्या—**रामः=रामचन्द्रः, इङ्गितैः=चेष्टितैः, जनानां=पौराणां, गत्वरतां=सहगन्तृत्वं, ज्ञात्वा=विदित्वा, सपौरः=पौरजन-सहितः (सन्), एकाम्=एकसंख्यकां, रजनीं=रात्रिं, तान्=पौरान्, वनेवासकृतात्=अरण्यनिवासजनितात्, भयात्=सिंह-व्याघ्रादिभीतेः, रक्षन्=रक्षां कुर्वन्, शयित्वा=सुप्त्वा, प्रातः=प्रभाते, छलेन=स्नानादिव्याजेन, अपजगाम=अपगतः।

**व्युत्पत्तिः—**गत्वरतां=गमनशीलो गत्वरः, “गत्वरश्च” इति क्वरबन्तो निपातः। गत्वरस्य भावो गत्वरता, ताम् (तल्०)। सपौरः=पौरैः सहितः (बहु०)। रजनों=“कालाऽध्वनोरत्यन्तसंयोगे” इति द्वितीया। “विभावरीतमस्विन्यौ रजनीयामिनी तमी।” इत्यमरः। वनेवासकृतात्=वने वासो वनेवासः, “सप्तमी”ति योगविभागात्समासः, “शयवासवासिष्वकालात्” इति विकल्पेन सप्तम्या अलुक्। वनेवासेन कृतो वनेवासकृतस्तस्मात् (तृ० त०)। भयात्=“भीत्रार्थानां भयहेतुः” इति अपादानत्वम्, “अपादाने पञ्चमी” इति पञ्चमी। शयित्वा=“शीङ् स्वप्ने” इति धातोः क्त्वाप्रत्ययः, “न क्त्वा सेट्” इति कित्वप्रतिषेधात् गुणायादेशौ।

**भावाऽर्थः—**रामश्चेष्टितैः पौराणां सहगन्तृत्वं विदित्वा तैः सह एकां रात्रिं सिंहव्याघ्रादिभीतेः तेषां रक्षणां विधाय सुप्त्वा प्रभाते स्नानसन्ध्यादिव्यपदेशेन अपगतः।

**भाषाऽर्थः—**रामचन्द्रजी चेष्टासे नागरिक पुरुषोंकी अपने साथ चलनेकी इच्छा जानकर उनके साथ एक रात सिंह, व्याघ्र आदि भयकारणोंसे उनकी रक्षाकर सोकर प्रातःकाल स्नान, सन्ध्यावन्दन आदि के बहानेसे उनको छोड़कर चले गये॥१६॥

अस्राक्षुरस्रंकरुणं रुवन्तो मुहुर्मुहुर्न्यश्वसिषुः कवोष्णम्।
हा राम ! हा कष्टमिति ब्रुवन्तः पराङ्मुखैस्ते न्यवृतन्मनोभिः॥१७॥

**अन्वयः—**ते करुणं रुवन्तः अस्रम् अस्राक्षुः, मुहुर्मुहुः कवोष्णं न्यश्वसिषुः, हा राम ! हा कष्टम् ! इति ब्रुवन्तः पराङ्मुखैः मनोभिः न्यवृतन्।

**प्रयोगप०—**तैः रुवद्भिःअस्रम् असर्जि, न्यश्वासि, ब्रुवद्भिः न्यवर्ति।

**व्याख्या—**ते=पौराः (राममपश्यन्त इति शेषः), करुणं=दीनं, रुवन्तः=विलपन्तः, अस्रं=बाष्पम्, अस्राक्षुः=अमुञ्चन्, मुहुर्मुहुः=पुनः पुनः, कवोष्णं=मन्दोष्णं, न्यश्वसिषुः=निश्वसितवन्तः, हा राम=हा रामचन्द्र, हा कष्टं=हा दुःखम्, इति=इत्थं, ब्रुवन्तः=कथयन्तः, पराङ्र्मुखैः=बहिर्मुखैः (येन गतो रामस्तेन गतैरित्यर्थः), मनोभिः=चित्तैः (उपलक्षिताः सन्त इत्यभिप्रायः), न्यवृतन्=निवृत्ताः।

**व्युत्पत्तिः—**करुणं=क्रि० वि०। रुवन्तः=रुवन्तीति रुवन्तः, “रु शब्दे” इति धातोर्लटः शत्रादेशः। अस्राक्षुः= तौदादिकस्य सृजेर्लुङि सिचि “सृजिदृशोर्झल्यमकिती”त्यमागमः। हलन्तलक्षणावृद्धिः कुत्वादिकार्यं च। कवोष्णम्= ईषदुष्णं कवोष्णं (तद् यथा तथा, क्रि० वि०), “कुगतिप्रादय” इति समासः, “कर्व चोष्णे” इति कोः कवादेशः। न्यश्वसिषुः=निपूर्वात् “श्वस प्राणने” इति धातोर्लुङि “ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्” इति वृद्धिप्रतिषेधः, “अतो हलादेर्लघोः” इति विकल्पस्य प्राप्तत्वात्। हा=“हा विषादशुगर्तिषु” इत्यमरः। पराङ्मुखैः=पराञ्चति (अनभिमुखो भवति) इति पराक्, परोपपदात् “अञ्चु गतिपूजनयोः” इति धातोः “ऋत्विगि”त्यादिना क्विन्। पराक्मुखं येषां ते पराङ्मुखाः, तैः (बहु०)। न्यवृतन्=“द्युद्भयो लुङि” इति विकल्पेन परस्मैपदम्, द्युतादित्वादङ्।

**भावाऽर्थः—**प्रभाते राममपश्यन्तस्ते पौराः करुणस्वरेण विलपन्तः अश्रुमोचनमकुर्वन्, दीर्घमुष्णं च निश्वसितवन्तः। हा राम ! हा कष्टम् ! इति कथयन्तः बहिर्मुखैः मनोभिः निवृत्ताः।

**भाषाऽर्थः—**नागरिकलोग प्रातःकालमें रामचन्द्रजीको न देखकर करुणस्वरसे विलाप कर आँसू गिराने लगे, लम्बी लम्बी उसासें लेने लगे तथा हा राम ! हा कष्ट ! कह कर बहिर्मुख मनसे लौटे॥१७॥

सूतोऽपि गङ्गासलिलैः पवित्वा सहाऽश्वमात्मानमनल्पमन्युः।
ससीतयो राघवयोरधीयन् श्वसन्कदुष्णं पुरमाविवेश॥१८॥

**अन्वयः—**सूतः अपि सहाऽश्वम् आत्मानं गङ्गासलिलैः पवित्वा अनल्पमन्युः (सन्) ससीतयोः राघवयोः अधीयन् कदुष्णं श्वसन् पुरम् आविवेश।

**प्रयोगप०—**सूतेनाऽपि अनल्पमन्युना ससीतयो राघवयोः अधीयता श्वसता (सता) पूराविविशे।

**व्याख्या—**सूतोऽपि=सारथिरपिसहाऽश्वम्=साऽश्वम् (अश्वसहितमित्यर्थः), आत्मानं=स्वं, गङ्गासलिलैः=भागीरथीजलैः, पवित्वा=पूत्वा (शोधयित्वा इत्यर्थः), अनल्पमन्युः=अधिकशोकः (सन्), ससीतयोः=सीतासहितयोः, राघवयोः=राम-लक्ष्मणयोः, अधीयन्=स्मरन् (तान् स्मरन्नित्यर्थः), कदुष्णम्=ईषदुष्णं, श्वसन्=निश्वसन्, पुरम्=नगरीम् (अयोध्यामित्यर्थः), आविवेश=प्रविष्टवान्।

**व्युत्पत्तिः—**सूतः=“सूतः क्षत्ता च सारथिः।” इत्यमरः। सहाऽश्वम्=अश्वैः

सहितः सहाऽश्वस्तम् (बहु०), “वोपसर्जनस्य” इति विकल्पत्वात् सभावाऽभावः। आत्मानम्=स्वदेहमात्मानं चेत्यर्थः। “आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च।” इत्यमरः। गङ्गासलिलैः=गङ्गायाः सलिलानि गङ्गासलिलानि, तैः (ष० त०)। पवित्वा=“पूङ् पवने” इति धातोः क्त्वा, “पूङश्च” इति विकल्पादिट् “पूङः क्त्वा च” इति कित्त्वप्रतिषेधाद्गुणः। अनल्प-मन्युः=न अल्पः अनल्पः (नञ्०), सः मन्युर्यस्य सः (बहु०)। ससीतयोः=सीतया सहितौ ससीतौ, तयोः (बहु०)। राघवयोः= रघोरपत्ये पुमांसौ राघवौ, तयोः “तस्याऽपत्यम्” इत्यण्, “अधीयन्” इत्यस्य योगे “अधीगर्थदयेशां कर्मणि” इति कर्मणि षष्ठी। अधीयन्=अधिपूर्वात् “इक् स्मरणे” इति धातोः शतरि इयङादेशः। कदुष्णम्=ईषदुष्णं यथा तथा “कुगतिप्रादय” इति समासः “कवं चोष्णे” इति चकारात् कोः कवादेशः।

**भावाऽर्थः—**सुमन्त्रोऽपि अश्वैः सह गङ्गास्नानं कृत्वा अधिकशोकः सन्रामलक्ष्मणौ सीतां च संस्मरन् मन्दोष्णं श्वसन् अयोध्यां प्राविशत्।

**भाषाऽर्थः—**सुमन्त्रने भी घोड़ोंके साथ अपनेको गङ्गाजलसे पवित्र कर अधिक शोक मान कर सीताके साथ राम और लक्ष्मणका स्मरण करते हुए उसासें लेकर अयोध्यामें प्रवेश किया॥१८॥

प्रतीय सा पूर्ददृशे जनेन द्यौर्भानुशीतांशुविनाकृतेव।
राजन्यनक्षत्रसमन्विताऽपि शोकाऽन्धकारक्षतसर्वचेष्टा॥१९॥

**अन्वयः—**जनेन प्रतीय राजन्यनक्षत्रसमन्विता अपि शोकाऽन्धकारक्षतसर्वचेष्टा सा पूः भानुशीतांशुविनाकृता द्यौः इव ददृशे।
**प्रयोगप०—**जनः राजन्यनक्षत्रसमन्वितामपि शोकाऽन्धकारक्षतसर्वचेष्टां तां पुरं भानुशीतांऽशुविनाकृतां दिवमिव ददर्श।

**व्याख्या—**जनेन=रामानुयायिना लोकेन, प्रतीय=प्रतीत्य (प्रतिनिवृत्येत्यर्थः), राजन्यनक्षत्रसमन्विता अपि=क्षत्रियऋक्षयुक्ता अपि, शोकाऽन्धकारक्षतसर्वचेष्टा=मन्युतिमिरनिरस्तसर्वव्यापारा, सा=पूर्वोक्ता, पूः=नगरी (अयोध्येत्यर्थः), भानुशीतांऽशु-विनाकृता=सूर्यचन्द्रवियोजिता, द्यौः इव=आकाशम् इव, ददृशे=दृष्टा।

**व्युत्पत्तिः—**प्रतीय=“ईङ् गतौ” इति धातोः क्त्वो ल्यपि रूपं, नतु इणः तस्य हि तुकि प्रतीत्येति स्यात्। “प्रतीयुषा” इति पाठान्तरे “उपेयिवाननाश्वाननृचानश्च” इत्यत्र उपोपसर्गस्य अविवक्षितत्वात् अत्र इणो लिटः क्वसुप्रत्ययो निपा-

**व्युत्पत्तिः—**चन्दनोशीरमृणालदिग्धः=चन्दनश्च उशीरं च मृणालं च चन्दनोशीरमृणालानि (द्वन्द्वः), तैर्दिग्धः (तृ० त०)। “दिह उपचये” इति कर्मणि क्तः, “दादेर्धातोर्घः” इति हस्य घः, “झषस्तथोर्थोऽधः” इति तस्य धः, “झलां जश् झशि” इति जस्त्वम्। एकत्र=एकस्मिन्निति एकत्र, “सप्तम्यास्त्रल्” इति त्रल्, आसिष्ट=“आस उपवेशने” इति धातोर्लुङि तङि सिचीडागमः। क्षितिपालभाग्भ्यः=क्षिति पालयतीति क्षितिपालः, क्षित्युपपदपूर्वकात् “पाल रक्षणे” इति धातोः “कर्मण्यण्” इत्यण्, क्षितिपालं भजन्ते इति क्षितिपालभाञ्जि, तेभ्यः “भजो ण्विः” इति ण्विः। कृताऽकृतेभ्यः=कृतानि च तानि अकृतानि च कृताऽकृतानि, तेभ्यः “क्तेन नञ्विशिष्टेनानञ्” इति समासः। “व्यरंसीत्” इति योगे “जुगुप्साविरामप्रमादाऽर्थानामुपसंख्यानम्” इत्यपादानत्वम् “अपादाने पञ्चमी” इति पञ्चमी। “हेमरूप्ये कृताऽकृते” इत्यमरः। व्यरंसीत्=विपूर्वात् “रमु क्रीडायाम्” इति धातोर्लुङ्, “व्याङ्परिभ्यो रमः” इति परस्मैपदम्, “यमरमनमातां सक् च” इति सगिटौ, “नेटि” इति वृद्धिप्रतिषेधः। शोकाऽग्निना=शोक एव अग्निः शोकाऽग्निस्तेन (रूपक०)। द्युनिवासभूयं=द्यौर्निवासः यस्य स द्युनिवासः (बहु०), तस्य भावो द्युनिवासभूयं, तत् “भुवो भावे” इति क्यप्।

**भावाऽर्थः—**राजा शोकदाहापनयनार्थं चन्दनोशीरादिलिप्तोऽपि शोकेन एकत्र स्थातुं न पारितवान्, राजयोग्यानि सुवर्ण-रजतभूषणानि न परिहितवान् अथवा असमापितानि दूतप्रेषणादीनि राजयोग्यकर्माणि नाऽनुष्ठितवान्, किं बहुना शोकाऽग्निना स्वर्गं जगाम।

**भाषाऽर्थः—**चन्दन, उशीर और मृणालका लेप करनेपर भी महाराज दशरथ शोकके कारण एक जगह स्थिरतासे नहीं रह सके उन्होंने राजाके योग्य सोने चांदीके अलङ्कार भी नहीं पहने अथवा आरम्भ किये गये दूतप्रेषण आदि राजाओंके योग्य कार्य भी नहीं किये किं बहुना शोकाऽग्निसे स्वर्गवासी हो गये॥२१॥

विचुक्रशुभूमिपतेर्महिष्यः केशाल्ँलुलुञ्चुः, स्ववपूंषि जघ्नुः।
विभूषणान्युन्मुमुचुः, क्षमायां पेतुर्बभञ्जुर्वलयानि चैव॥२२॥

**अन्वयः—**भूमिपतेः महिष्यः विचुक्रुशुः केशान् लुलुञ्चुः, स्ववपूंषि जघ्नुः, विभूषणानि उन्मुमुचुः, क्षमायां पेतुः वलयानि बभञ्जुश्चैव।

**प्रयोगप०—**महिषीभिर्विचुक्रुशे, केशा लुलुञ्चिरे, स्ववपूंषि जघ्निरे, विभूषणानि उन्मुमुचिरे, क्षमायां पेते, वलया बभञ्जिरे।

**व्याख्या—**भूमिपतेः=राज्ञः, महिष्यः=राज्ञ्यः(कौशल्यादिका इत्यर्थः), विचुक्रुशुः=हा नाथ ! इत्याजुहुवुः रुरुदुश्च, केशान्= शिरोरुहान्, लुलुञ्चुः=चिच्छिदुः, स्ववपूंषि=आत्मशरीराणि, जघ्नुः=ताडयामासुः, विभूषणानि=अलङ्कारान् (हारादीनित्यर्थः), उन्मुमुचुः=तत्यजुः, क्षमायां=पृथिव्यां, पेतुः=पतिताः, वलयानि=कटकानि (सौभाग्यचिह्नानीति भावः), बभञ्जुश्च= चूर्णितवत्यश्च (एवकारः पादपूरणार्थकः)।

**व्युत्पत्तिः—**भूमिपतेः=भूमेः पतिर्भूमिपतिस्तस्य (ष० त०)। विचुक्रुशुः=“कुश आह्वाने रोदने च” इति धातोर्लिट्। केशान्=“चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः” इत्यमरः। लुलुञ्चुः=“लुञ्च अपनयने” इति धातोर्लिट्। स्ववपूंषि =स्वस्य वपूंषि स्ववपूंषि, तानि (ष० त०)। पेतुः=“पत्लृ पतने” इति धातोर्लिट्,एत्वाऽभ्यासलोपौ। क्रियासमुच्चयोऽलङ्कारः।

**भावाऽर्थः—**कौशल्यादिका दशरथपत्न्यः हा नाथ ! इत्याजुहुवुः रुरुदुश्च, केशानुत्पाटितवत्यः, स्वाऽङ्गानि ताडितवत्यः, हाराद्यलङ्कारान् तत्यजुः, भूमौ पतिता एवं वलयादीनि सौभाग्यचिह्नानि चूर्णितवत्यः।

**भाषाऽर्थः—**कौशल्या आदि दशरथकी रानियां हा नाथ ! कह कर रोनेलगीं केशोंको नोचने लगीं छाती आदि अङ्गोंको पीटने लगीं, गहनोंको उतारने लगीं जमीनपर पड़ने लगीं और सौभाग्यचिह्न वलय आदिको तोड़ने भी लगीं॥२२॥

ताः सान्त्वयन्ती भरतप्रतीक्षा तं बन्धुता न्यक्षिपदाशु तैले।
दूतांश्च राजाऽऽत्मजमानिनीषुः प्रास्थापयन्मन्त्रिमतेन यूनः॥२३॥

**अन्वयः—**बन्धुता भरतप्रतीक्षा (सती) ताः सान्त्वयन्ती तम् आशु तैले न्यक्षिपत्, राजात्मजम् आनिनीषुः (सती) यूनः दूतान् मन्त्रिमतेन प्रास्थापयच्च।

**प्रयोगप०—**बन्धुतया भरतप्रतीक्षया सान्त्वयन्त्या (सत्या) स तैले न्यक्षेपि, आनिनीष्वा (सत्या) युवानो दूताः प्रास्थाप्यन्त।

**व्याख्या—**बन्धुता=बन्धुसमूहः, भरतप्रतीक्षा=भरतं प्रतीक्षमाणा (सती), ताः=महिषीः, सान्त्वयन्ती=आश्वासयन्ती, तं= दशरथम् (दशरथशरीरमित्यर्थः), आशु=शीघ्रं, तैले=तैलद्रोण्यां, न्यक्षिपत्=निक्षिप्तवती (अविक्रियाऽर्थमित्यर्थः),

राजात्मजं=भरतम्, आनिनीषुः=आनेतुमिच्छुः सती (आनिनीषून् इति पाठे दूतविशेषणम्), यूनः=तरुणान् (कार्यनिर्वाह-समर्थानित्यर्थः), दूतान्=सन्देशहरान्, मन्त्रिमतेन=सचिवाऽनुमत्या, प्रास्थापयच्च=प्रस्थापितवती च।

**व्युत्पत्तिः—**बन्धुता=बन्धूनां समूहः, “ग्रामजनबन्धुभ्यस्तल्” इति तल्। भरतप्रतीक्षा=भरतं प्रतीक्षते (संस्काराऽर्थम्) इति भरतप्रतीक्षा “ईक्षिक्षमिभ्यां च” इत्युपसङ्ख्यानाण्णः। सान्त्वयन्ती=सान्त्वं करोतीति सान्त्वयन्तो, णिजन्तात् शतृप्रत्ययः। न्यक्षिपत्=निपूर्वात् क्षिपेर्लङ्। राजाऽऽत्मजं=राज्ञ आत्मजो राजात्मजस्तम् (ष० त०)। आनिनीषुः=सन्नन्तान्नीधातोरुप्रत्ययः। दूतान्=“स्यात्सन्देशहरो दूतः” इत्यमरः। मन्त्रिमतेन=मन्त्रयन्ते इति मन्त्रिणः, “मत्रि गुप्तपरिभाषणे” इति धातोः “नन्दिग्रहि-पचादिभ्यो ल्युणिन्यचः” इति ग्रह्यादित्वात् णिनिप्रत्ययः, यद्वा मन्त्रः अस्ति येषां ते मन्त्रिणः, “अत इनिठनौ” इतीनिप्रत्ययः। मन्त्रिणां मतं मन्त्रिमतं, तेन (ष० त०)। प्रास्थापयत्=तिष्ठतेर्ण्यन्ताल्लङ्, “अर्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ् णौ” इति पुगागमः।

**भावाऽर्थः—**बन्धुसमूहो भरतं प्रतीक्षमाणः सन् राजपत्नीः सान्त्वयन् दशरथशरीरमविकृत्यर्थं शीघ्रं तैले न्यक्षिपत्, भरताऽऽनयनाय मन्त्रिमतेन दूतांश्च प्रस्थापितवान्।

**भाषाऽर्थः—**राजाके बन्धुओंने भरतकी प्रतीक्षा कर रानियोंको सान्त्वना दे कर दशरथके शरीरको शीघ्र तैलमें रखा, और भरतको लानेकी इच्छासे मन्त्रियोंकी अनुमतिसे युवक दूतोंको भेजा भी॥२३॥

सुप्तो नभस्तः पतितं निरीक्षाञ्चक्रे विवस्वन्तमधःस्फुरन्तम्।
आख्यद्वसन्मातृकुले सखिभ्यः पश्यन्प्रमादं भरतोऽपि राज्ञः॥२४॥

**अन्वयः—**मातृकुले वसन् भरतः अपि सुप्तः (सन्) नभस्तः पतितम् अधः स्फुरन्तं विवस्वन्तं निरीक्षाञ्चक्रे, राज्ञः प्रमादं पश्यन् सखिभ्यः आख्यत्।

**प्रयोगप०—**वसता भरतेनाऽपि सुप्तेन (सता) नभस्तः पतितः अधः स्फुरन् विवस्वान् निरीक्षाञ्चक्रे, पश्यता सखिभ्य आख्यायि।

**व्याख्या—**मातृकुले=मातुलालये, वसन्=निवसन्, भरतोपि=कैकयीनन्दनोऽपि, सुप्तः=निद्राणः (सन्), नभस्तः= आकाशात्, पतितं=भ्रष्टम्, अधः=भूतले, स्फुरन्तं=चलन्तं, विवस्वन्तं=सूर्यं निरीक्षाञ्चक्रे ददर्श (स्वप्ने अद्राक्षी-

दित्यर्थः), राज्ञः=पितुः (सूर्यकल्पस्येति शेषः), प्रमादम्=अनर्थं, पश्यन्=प्रेक्षमाणः, सखिभ्यः=मित्रेभ्यः, आख्यत्=अकथयत् (तं दुःस्वप्नमिति शेषः)।

**व्युत्पत्तिः—**मातृकुले=मातुः कुलं मातृकुलं, तस्मिन् (ष० त०)। “कुलं जनपदे गृहे” इति विश्वः। नभस्तः=नभस इति नभस्तः “अपादाने चाऽहीयरुहोः” इति तसिप्रत्ययः। निरीक्षाञ्चक्रे=“ईक्ष दर्शने” इति धातोः कर्तरि लिट्, “इजादेश्च गुरुमतोऽनृच्छः” इत्याम्। सखिभ्यः=क्रियाग्रहणाच्चतुर्थी। “अथ मित्रं सखा सुहृत्।” इत्यमरः। आख्यत्=ख्यातेर्लुङि “अस्यतिवक्तिख्यातिभ्योऽङ्” इत्यङ्। जयमङ्गलादिमते^(……)“भरतः सखिभ्यः आख्यन् (अहम्) निरीक्षाञ्चक्रे” इत्यन्वयः। तन्मते सुप्तावस्थायां चित्तव्याक्षेपात्लिटः उत्तम पुरुष प्रयोगः।

**भावाऽर्थः—**मातुलभवने निवसन्भरतोऽपि स्वप्ने आकाशात् पतितं भूतले चलन्तं सूर्यमपश्यत् पितुरनिष्टं प्रेक्षमाणः तं स्वप्नं मित्रेभ्योऽकथयच्च।

**भाषाऽर्थः—**मामाके भवनमें रहे हुए भरतने भी स्वप्नमें आकाश से गिरे हुए पृथ्वीमें चलते हुए सूर्यको देखा और पिताका अनर्थ विचार कर मित्रों से कहा॥२४॥

अशिश्रवन्नात्ययिकं तमेत्य दूता यदार्थं प्रयियासयन्तः।
आंहिष्ट जाताञ्जिहिषस्तदासावुत्कण्ठमानो भरतो गुरूणाम्॥२५॥

**अन्वयः—**यदा दूताः एत्य प्रयियासयन्तः तम् आत्ययिकम् अर्थं न अशिश्रवन्, तदा गुरूणाम् उत्कण्ठमानः असौ भरतः जाताऽञ्जिहिषः (सन्) आंहिष्ट।

**प्रयोगप०—**दूतैः प्रयियासयद्भिः स आत्मयिकम् अर्थं न अश्रावि, उत्कण्ठमानेन अमुना भरतेन जाताऽञ्जिहिषेण (सता) हि।

**व्याख्या—**यदा=यस्मिन् समये, दूताः=सन्देशहराः, एत्य=आगत्य (भरतमातृकुलमित्यर्थः), प्रयियासयन्तः= प्रयातुमेषयन्तः (जिगमिषयन्त इत्यर्थः), तं=भरतम्, आत्ययिकं=विनाशमात्रफलकम्, अर्थं=कैकेयीवृत्तान्तं, न अशिश्रवन्=न श्रावितवन्तः, (अनर्थमश्रावयित्वैव व्यपदेशान्तरेण गमनेच्छामजीजनन्नित्यर्थः), तदा=तस्मिन् समये (अश्रवणकाल एवेत्यर्थः), गुरूणां=पित्रादीनाम्, उत्कण्ठमानः=स्मरन्, असौ=अयं, भरतः=कैकेयीनन्दनः, जाताऽञ्जिहिषः=उत्पन्नजिगमिषः (गमनेच्छुः सन्नित्यर्थः), आंहिष्ट=अगमत्।

व्युत्पत्तिः=-एत्य=आङ्पूर्वादिणः क्त्वाप्रत्ययस्य “समासेऽनञ्पूर्वे क्त्वो

ल्यप्” इति ल्यपि तुकि च रूपम्। प्रयियासयन्तः=यातेः सन्नन्तात् णिच्, लटः शत्रादेशः। तं=“गतिबुद्धी"त्यादिसूत्रेण शृणोतेः शब्दकर्मत्वात्कर्मसञ्ज्ञा। आत्ययिकम्=अत्ययः (विनाशः) प्रयोजनं यस्य स आत्ययिकः, तम् “प्रयोजनम्” इति ठञ् “ठस्येकः” इतीकादेशः “तद्धितेष्वचामादेः” इत्यादिवृद्धिश्र। अशिश्रवन्=“श्रु श्रवणे” इति ण्यन्ताद्धातोर्लुङि “चङि” इति द्विर्वचनं, “स्रवतिशृणोतिद्रवति प्रवतिप्लवतिच्यवतीनां वा” इत्यभ्यासस्य इत्वम्। गुरूणाम्=“अधीगर्थदयेशां कर्मणि” इति कर्मणि षष्ठई। उत्कण्ठमानः=उत्कण्ठते इति उत्कण्ठमानः, उत्पूर्वात् “कठि शोके” इति धातोर्लटः शानच्। जाताऽञ्जिहिषः=अंहितुमिच्छा अञ्जिहिषा, “अहि गतौ” इति भौवादिकाद्धातोः सन्नन्तात् “अ प्रत्ययात्” इति अप्रत्ययः, इट्। इदित्त्वात् नुम् “न न्द्राः संयोगादयः” इति नकारवर्जमजादित्वात् द्वितीयैकाचो द्वित्वं चुत्वादिकार्यंच। जाता अञ्जिहिषा (गमनेच्छा) यस्य सः (बहु०)। “गोस्त्रियोरुपसर्जनस्य” इति उपसर्जनह्रस्वः। आहिष्ट=तस्मादेव धातोर्लुङि सिचि आङ्वृद्धिः।

**भावाऽर्थः—**यदा दूता भरतमातृकुलमागत्य भरतमयोध्यां प्रापयितुं पितृमरणवार्तामस्मै नाऽकथयन्, तदा पित्रादिस्मरणेन गमनेच्छुर्भरतोऽगच्छत्।

**भाषाऽर्थः—**जब दूतोंने आकर लौटानेके लिए भरतको पितृमरणकी वार्ता न सुना कर दूसरी ही बहाना की, तब भरत भी माता पिता आदि गुरुजनोंके स्मरणसे उत्कण्ठित होकर चले॥२५॥

बन्धूनशङ्किष्ट समाकुलत्वादासेदुषः स्नेहवशादपायम्।
गोमायुसारङ्गगणाश्च सम्यङ्नाऽयासिषुर्भीममरासिषुश्च॥२६॥

**अन्वयः—**समाकुलत्वात् स्नेहवशाच्च बन्धून् अपायम् आसेदुषः अशङ्किष्ट, गोमायुसारङ्गगणाश्च सम्यक् न अयासिषुः भीमम् अरासिषुश्च।

प्रयोगप०—(भरतेन) बन्धवः अपायम् आसेदिवांसः अशङ्किषत। गोमायुसारङ्गगणैश्च सम्यक् न अयायि अरासि च।

**व्याख्या—**समाकुलत्वात्=व्याकुलचित्तत्वात् (दुःस्वप्न–दूतागमनादिनेत्यर्थः, स्नेहवशाच्च=प्रेमवशाच्च, बन्धून्=बान्धवान् (पित्रादीनित्यर्थः), अपायं=नाशम्, आसेदुषः=प्राप्तान्, अशङ्किष्ट=शङ्कितवान्, गोमायुसारङ्गगणाश्च=शृगालमृगसमूहाश्च, सम्यक्=अनुकूलं, न अयासिषुः=न आगमन् (शृगालाः प्रद-

क्षिणं मृगाश्च सव्यमित्यर्थः), भीमं=भयङ्करम्, अरासिषुश्च=रसितवन्तश्च (शब्दं कृतवन्तश्च इत्यर्थः)।

**व्युत्पत्तिः—**समाकुलत्वात्=समाकुलस्य भावः समाकुलत्वं, तस्मात् (त्वप्रत्ययः)। स्नेहवशात्=स्नेहस्य वशः स्नेहवशस्तस्मात् (ष० त०)। “प्रेमा ना प्रियता हार्दं प्रेम स्नेहः” इत्यमरः। आसेदुषः=“भाषायां सदवसश्रुवः” इति क्वसुः, “अत एकहल्मध्येऽनादेशादेर्लिटि” इत्येत्वाऽभ्यासलोपौ। अशङ्किष्ट=शङ्कतेर्लुङि सिचीट्। गोमायुसारङ्गगणाश्च=गोमायवश्च सारङ्गाश्च गोमायुसारङ्गं गोमायुसारङ्गा वा (द्वन्द्वः) “विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्” इति विकल्पेन एकवद्भावस्तदभावो वा। गोमायुसारङ्गस्य गोमायुसारङ्गाणां वा गणाः (ष० त०)। अयासिषुः=यातेर्लुङि “यमरमे"त्यादिना सगिटौ। अरासिषुः=“रस शब्दे” इति धातोर्लुङ्, “अतो हलादेर्लघोः” इति सिचि वृद्धिः।

**भावाऽर्थः—**भरतो व्याकुलचित्तत्वात्स्नेहवशाच्च बन्धूनामनिष्टमाशङ्कितवान्, शृगालास्तस्य प्रदक्षिणं मृगाश्च सव्यमागच्छन्, एवं भयङ्करशब्दं च अकार्षुः।

**भाषाऽर्थः—**आकुलतासे और स्नेहके कारणसे भी भरतने बन्धुओंके अनिष्टकी आशङ्का की, शृगाल और मृग उनके अनुकूल नहीं चलने लगे एवम् भयङ्कर शब्द भी करने लगे॥२६॥

स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनौघजन्यम्।
आकर्णयामास न वेदनादान् न चोपलेभे वणिजां पणाऽऽयान्॥२७॥

**अन्वयः—**स प्रोषिवान् (सन्) एत्य पुरं प्रवेक्ष्यन् जनौघजन्यं घोषं न शुश्राव, वेदनादान् न आकर्णयामास, वणिजां पणाऽऽयान् च न उपलेभे।

**प्रयोगप०—**तेन प्रोषुषा प्रवेक्ष्यता (सता) जनौघजन्यो घोषो न शुश्रुवे, वेदनादा न आकर्णयाञ्चक्रिरे पणायाश्च नोपलेभिरे।

**व्याख्या—**सः=भरतः, प्रोषिवान्=प्रोषितः (सन्), एत्य=आगत्य, पुरम्=अयोध्यां, प्रवेक्ष्यन्=प्रवेशं करिष्यन्, जनौघजन्यं=नरसमूहजातं, घोषं=शब्दं, न शुश्राव=न श्रुतवान्, वेदनादान्=श्रुतिध्वनीन्, न आकर्णयामास=न आकर्णितवान्, वणिजां=व्यापारिणां पणाऽऽयांश्च=कार्षापणादिलाभांश्च (पणायामिति टाबन्तपाठे परस्परव्यवहारं स्तुतिकौशलं चेत्यर्थः), न उपलेभे=न उपलब्धवान्।

**व्युत्पत्तिः—**प्रोषिवान्=“भाषायां सदवसश्रुवः” इति क्वसुः। यजादित्वात्स-

म्प्रसारणं “वस्वेकाजाद्घसाम्” इति इट्। जनौघजन्यं=जनानामोघो जनौघः (ष० त०)। जायते इति जन्यः, “भव्यगेय-प्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा” इति कर्तरि निपातः, “अचो यत्” इत्यत्र पठितात् ‘तकिशसिचतियतिजनिभ्यो यद्वाच्यः’ इति वार्तिकात् यत् इति केचित्। जनौघेन जन्यो जनौघजन्यस्तम् (तृ० त०)। वेदनादान्=वेदानां नादा वेदनादास्तान् (ष० त०), “श्रुतिः स्त्री वेद आम्नायस्त्रयी” इत्यमरः। आकर्णयामास=“प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च” इति णिच् तदन्तात् लिट्यामि “अयामन्ताल्वाय्येत्विष्णुषु” इत्ययादेशः। पणायान्=पण्यन्ते इति पणाः ‘पणव्यवहारे’ इत्यस्मात् “नित्यंपणः परिमाणे” इत्यप्। “पणो वराटमाने स्यान्मूल्ये कार्षापणे गृहे।” इति विश्वः। पणानामायाः पणायास्तान् (ष० त०)।

**भावाऽर्थः—**भरत इयन्त्यहानि प्रोषितः सन् पुरप्रवेशं करिष्यन् जनसमूहोत्पन्नं शब्दं वेदध्वनींश्च न श्रुतवान्, व्यवहारिणां कार्षापणादिलाभं च नोपलब्धवान्।

**भाषाऽर्थः—**भरतको इतने दिन प्रवासमें रह कर अयोध्यापुरीमें प्रवेश करनेके समयमें जनसमूहसे उत्पन्न शब्द और वेदशब्द सुनाई नहीं पड़े और उन्होंने व्यापारियोंका मुनाफा भी नहीं देखा॥२७॥

चक्रन्दुरुच्चैर्नृपतिं समेत्य तं मातरोऽभ्यर्णमुपागताऽस्राः।
पुरोहिताऽमात्यमुखाश्च योधा विवृद्धमन्युप्रतिपूर्णमन्याः॥२८॥

**अन्वयः—**मातरः पुरोहिताऽमात्यमुखाः योधाश्च अभ्यर्णं तं समेत्य विवृद्धमन्युप्रतिपूर्णमन्याः उपागतास्राः (सन्तः) उच्चैः नृपतिं चक्रन्दुः।

**प्रयोगप०—**मातृभिः पुरोहिताऽमात्यमुख्यैर्योधैश्च विवृद्धमन्युप्रतिपूर्णमन्यैः उपागतास्रैः (सद्भिः) नृपतिश्चक्रन्दे।

**व्याख्या—**मातरः=जनन्यः (कौशल्यादिका इत्यर्थः), पुरोहिताऽमात्यमुखाः=पुरस्कृतपुरोधोमन्त्रिणः, योघाश्च= भटाश्च, अभ्यर्णम्=आसन्नम्, तं=भरतं, समेत्य=प्राप्य, विवृद्धमन्युप्रतिपूर्णमन्याः=प्रवृद्धशोकव्याप्तग्रीवापृष्ठशिराः, उपागताऽस्राः= समायाताश्रवः (सन्तः), उच्चैः=तारस्वरं, नृपतिं=राजानं, चक्रन्दुः=हा नाथ ! क्व गतोऽसीति चुक्रशुः।

**व्युत्पत्तिः—**मातरः=“जनयित्री प्रसूर्माता जननी” इत्यमरः। पुरोहिताऽनात्यमुखाः=पुरः (अग्रे) धीयते (स्थाप्यते) इति पुरोहितः, “निष्ठा” इति

क्तप्रत्ययः “दधातेर्हिः” इति हिरादेशः। अमा (सह) वर्तते इति अमात्यः, “अव्ययात्त्यप्” “अमेहक्वतसित्रेभ्य एव” इति त्यप्। पुरोहितश्च अमात्यश्च पुरोहिहिताऽमात्यौ, अमात्यस्य अजाद्यदन्तत्वेऽपि पुरोहितस्य अभ्यर्हितत्वात् “अभ्यर्हितं च” इति पूर्वप्रयोगः (द्वन्द्वः)। तौ मुखं (प्रधानम्) येषां ते (बहु०)। योधाः=युध्यन्ते इति योधाः, “युध सम्प्रहारे” इति धातोः पचाद्यच्। अभ्यर्णम्=अभिपूर्वादर्देः कर्तरि क्तः “अभेश्चाविदूर्ये” इतीट्प्रतिषेधात् “रदाभ्यां निष्ठातो नः पूर्वस्य च दः” इति निष्ठानत्वम्। विवृद्धमन्युप्रतिपूर्णमन्याः=विवृद्धश्चऽसौ मन्युः विवृद्धमन्युः (क० धा०)। प्रतिपूर्णा मन्या (ग्रीवापश्चाच्छिरा) येषां ते प्रतिपूर्णमन्याः (बहु०)। “पश्चाद्ग्रीवाशिरा मन्या” इत्यमरः । विवृद्धमन्युना प्रतिपूर्णमन्याः (तृ० त०)। उपागताऽस्राः=उपागतम् अस्रं येषां ते (बहु०)। नृपतिः=नृृणां पतिः नृपतिस्तम् (ष० त०)।

**भावाऽर्थः—**कौशल्यादयो मातरः पुरोहितमन्त्रिप्रधाना योद्धारश्च भरतसम्मुखमागत्य प्रवृद्धशोकव्याप्तग्रीवापश्चाच्छिराः अश्रुपूर्णनेत्राः सन्तः “हा नाथ ! क्वगतोऽसी"ति नृपं चुक्रुशुः।

**भावाऽर्थः—**कौशल्या आदि माताओं तथा पुरोहित और मन्त्रियोंको आगे किये हुए योद्धा लोग भी भरतके पास आ कर बढे हुए शोकसे व्याप्त ग्रीवाकी पिछली नाडीवाले हो आंसू गिराते हुए ऊँचे स्वरसे “हा महाराज ! आप कहांचले गये” ऐसा चिल्लाने लगे॥२८॥

दिदृक्षमाणः परितः ससीतं रामं यदा नैक्षत लक्ष्मणं च।
रोरुद्यमानः स तदाऽभ्यपृच्छद्यथावदाख्यन्नथ वृत्तमस्मै॥२९॥

**अन्वयः—**स परितः दिदृक्षमाणः यदा ससीतं रामं लक्ष्मणं च न ऐक्षत, तदा रोरुद्यमानेनअपृच्छत्, अथ अस्मै वृत्तं यथावत् आख्यन्।

**प्रयोगप०—**तेन दिदृक्षमाणेन ससीतो रामो लक्ष्मणश्च न ऐक्ष्यत, रोरुद्यमानेन सता (ते ससीतं रामं लक्ष्मणं च) अपृच्छ्यन्त, अस्मै वृत्तम् आख्यायि।

**व्याख्या—**सः=भरतः, परितः=सर्वतः, दिदृक्षमाणः=द्रष्टुमिच्छन् (सन्), यदा=यस्मिन् समये, ससीतं=सीतासहितं रामं=रामचन्द्रं (स्वज्येष्ठभ्रातरम्), लक्ष्मणं च=सुमित्राज्येष्ठतनयं च (स्वाऽनुजं च), न ऐक्षत=न अपश्यत्, तदा=तस्मिन् समये, रोरुद्यमानः=भृशं रुदन्, अपृच्छत्=पृष्टवान् (एते क्व गता इत्य-

प्राक्षीदित्यर्थः), अथ=अनन्तरम्, अस्मै=भरताय, वृत्तं=भूतमर्थं, यथावत्=यथाऽर्हम्, आख्यन्=अकथयन् (पुरोहित-सचिवादयः कैकेयीदुश्चेष्टम् एतदिति कथितवन्त इत्यर्थः)।

**व्युत्पत्तिः—**परितः=“पर्यभिभ्यां च” इति तसिल्। दिदृक्षमाणः=“ज्ञाश्रुस्मृदृशां सनः” इति दृशेः सन्नन्तादात्मनेपदे शानच् “हलन्ताच्च” इति सनः कित्वात् “सृजिदृशोर्झल्यमकिति” इत्यम् न भवति “अकिति” इति प्रतिषेधात्। ससीतं=सीतया सहितः ससीतस्तम् (बहु०)। ऐक्षत=ईक्षतेर्लङि आड्वृद्धिः। रोरुद्यमानः=रुदेर्यङन्ताल्लटः शानजादेशः। अथ= “मङ्गलाऽनन्तराऽऽरम्भप्रश्नकार्त्स्न्येष्वथो अथ।” इत्यमरः। अस्मै=क्रियाग्रहणाच्चतुर्थी। यथावत्=यथा अर्हतीति यथावत्, “तदर्हम्” इति वतिप्रत्ययः। आख्यन्=ख्यातेः “अस्यतिवक्तिख्यातिभ्योऽङ्” इत्यङ्।

**भावाऽर्थः—**भरतः सीतारामौ लक्ष्मणं च द्रष्टुमिच्छुः सन् यदा कुत्राऽपि नाऽपश्यत् तदा भृशं रुदन् पुरोहितादीन् “एते क्व गताः” इत्यपृच्छत्, तदनन्तरं ते भरताय कैकेयीदुश्चेष्टितमेतदिति सर्वं यथावत् अकथयन्।

**भाषाऽर्थः—**भरतजीने सीता, राम और लक्ष्मणको देखनेकी इच्छा करते हुए जब कहीं नहीं देखा तब रोते हुए उन्होंने पूछा, अनन्तर पुरोहित मन्त्री आदि लोगोंने उनको सब हाल ब्योरेबार सुनाया॥२९॥

आबद्धभीमभ्रुकुटीविभङ्गः शेश्वीयमानाऽरुणरौद्रनेत्रः।
उच्चैरुपालब्ध स केकयींच शोके मुहुश्चाऽविरतं न्यमाङ्क्षीत्॥३०॥

**अन्वयः—**स आबद्धभीमभ्रुकुटीविभङ्गः शेश्वीयमानाऽरुणरौद्रनेत्रः (सन्) कैकयीं मुहुः उच्चैः उपालब्ध शोके अविरतं न्यमाङ्क्षीच्च।

**प्रयोगप०—**तेन आवद्धभीमभ्रुकुटीविभङ्गेन शेश्वीयमानाऽरुण रौद्रनेत्रेण (सता) कैकेयी उपालम्भि, शोके न्यमज्जि च।

**व्याख्या—**सः=भरतः, आबद्धभीमभ्रुकुटीविभङ्गः=सम्बद्धभयङ्करभ्रूकौटिल्यविकारः, शेश्वीयमानाऽरुणरौद्रनेत्रः=उच्छून-रक्तोग्रनयनः (सन्), केकयीं=स्वमातरं, मुहुः=पुनः पुनः, उच्चैः=तारस्वरम्, उपालब्ध=उपालब्धवान् (‘अयि पापिष्ठे ! किमिदमाचरितम्’ इति उपालम्भं कृतवानित्यर्थः), शोके=शोकसागरे, अविरतम्=अजस्रं, न्यमाङ्क्षीच्च= निमग्नश्च।

**व्युत्पत्तिः—**आबद्धभीमभ्रुकुटीविभङ्गः=भ्रुवोः कुटी (कौटिल्यम्) इति भ्रुकुटी, “कुट कौटिल्ये” इति धातोः औणादिक इकारः “कृदिकारादक्तिनः” इति ङीष्। “इको ह्रस्वोऽङ्यो गालवस्य” इति विकल्पेन पूर्वस्येको ह्रस्वः। भ्रुकुटी एव विभङ्गः (विकारः) भ्रुकुटीविभङ्गः (रूपक०)। आबद्धो भीमो भ्रुकुटीविभङ्गो येन सः (बहु०)। “दारुणं भीषणं भीष्मं भीमं घोरं भयानकम्।” इत्यमरः। शेश्वीयमानाऽरुणरौद्रनेत्रः=अत्यर्थं शूयमाने शेश्वीययाने “टुओश्वि गतिवृद्धयोः” इति धातोः यङन्ताल्लटः शानजादेशः “विभाषा श्वेः” इति विकल्पात् असम्प्रसारणपक्षे रूपम्। “गुणो यङ्लुकोः” इति गुणश्च। शेश्वीयमाने अरुणे रौद्रे नेत्रे यस्य सः (बहु०)। उपालब्ध=उपाङ्पूर्वाल्लभतेर्लुङि तङि “झलो झलि” इति सलोपः, धत्वादि-कार्यं च। न्यमाङ्क्षीत्=निपूर्वात् “टुमस्जो शुद्धौ” इति धातोर्लुङि सिचि, “मस्जिनशोर्झलि” इत्यन्तात्पूर्वनुम्विधानात् संयोगादि-लोपः, हलन्तलक्षणा वृद्धिः; हल्ग्रहणस्य समुदायप्रतिपत्यर्थत्वात् कुत्वषत्वाऽनुस्वारादिपरसवर्णादिकार्यम्।

**भावाऽर्थः—**भरतः श्रवणाऽनन्तरं क्रोधाद्भयङ्कर भ्रूकौटिल्यं विधाय शोकाच्च उच्छूनरक्तभयङ्करनयनः सन् कैकेयींमुहुः उच्चस्वरेण उपालब्धवान् शोकसागरे निमग्नश्च।

**भाषाऽर्थः—**भरतजीने सुनने के बाद भयङ्कररूपसे आंख भौं चढा कर सूजे, लाल और भयङ्कर नेत्रोंसे ताक कर ऊँचे स्वरसे कैकेयीका वारंवार उपालम्भ किया और वे शोकसमुद्रमें डूब गये भी॥३०॥

उपालम्भमाह—

नृपात्मजौ चिक्लिशतुः ससीतौ, ममार राजा, विधवा भवत्यः।
शोच्या वयं, भूरनृपा, लघुत्वं केकय्युयज्ञं वत ! बह्वनर्थम्॥३१॥

**अन्वयः—**ससीतौ नृपात्मजौचिक्लिशतुः, राजा ममार, भवत्यः विधवाः (स्थ), वयं शोच्याः, भूः अनृपा, वत ! केकय्युपज्ञं बह्वनर्थं लघुत्वम्।

**प्रयोगप०—**ससीताभ्यां नृपात्मजाभ्यां चिक्लिशे, राज्ञा मम्रे, भवतीभिर्विधवाभिर्भूयते, अस्माभिः शोच्यैः (भूयते), भुवा अनृपया (भूयते), केकय्युपज्ञेन बह्वनर्थेन लघुत्वेन (भूयते)।

**व्याख्या—**ससीतौ=सीतासहितौ, नृपाऽऽत्मजौ=राजपुत्रौ (रामलक्ष्मणावित्यर्थः), चिक्लिशतुः=क्लिष्टौ, राजा=दशरथः, ममार=मृतः, भवत्यः=यूयं, वि-

धवाः=पतिरहिताः (स्थेति शेषः), वयम्=अस्मदादयः, शोच्याः=शोचनीयाः (निन्दाभाजनत्वादिति भावः), भूः=पृथिवी, अनृपा=राजरहिता (जातेति शेषः “शोच्यं राज्यमराजकम्” इति न्यायात् त्वमपि शोच्येति भावः)। वत=कष्टं, केकय्युपज्ञं= कैकय्याः प्रथममुपज्ञातं, बह्वनर्थं=भूयिष्ठानर्थं, लघुत्वं=तुच्छत्वम् (अस्तीति शेषः)।

**व्युत्पत्तिः—**ससीतौ=सीतया सहितौ (बहु०), “गोस्त्रियोरुपसर्जनस्य” इति उपसर्जनहह्रस्वत्वम्। नृपाऽऽत्मजौ=नृपस्य आत्मजौ (ष० त०)। चिक्लिशतुः=क्लिश्यतेः (“क्लिश उपतापे” इति धातोः) लिट्। ममार=“मृङ् प्राणत्यागे” इति धातोर्लिट्, “म्रियतेर्लुङ्लिङोश्च” इति नियमात् परस्मैपदम्। विधवाः=विगतः धवः (पतिः) यासां ताः (बहु०), “धवः प्रियः पतिर्भर्ता” “विश्वस्ताविधवे समे।” इत्युभयत्राऽप्यमरः। शोच्याः=शोचितुं योग्याः, “शुच शोके” इति धातोः “ऋहलोर्ण्यत्” इति ण्यत्। अनृपा=अविद्यमानः नृपः यस्यां सा (नञ्बहु०)। केकय्युपज्ञम्=उपज्ञायते इत्युपज्ञा, “आतश्चोपसर्गे” इति कर्मण्यङ्, “उपज्ञा ज्ञानमाद्यं स्यात्” इत्यमरः। केकय्या उपज्ञा यस्य तत् (बहु०)। बह्वनर्थम्=अविद्यमानः अर्थः (प्रयोजनम्) येषां ते अनर्थाः (दोषाः) “नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः” इति नञ्बहुव्रीहिः। बहवः अनर्था यस्मिंस्तत् (बहु०)। तुच्छत्वं=तुच्छस्य भावः (त्वप्रत्ययः)।

**भावाऽर्थः—**भरतः कैकेयीमुपालब्धवान्—सीतासहितौ रामलक्ष्मणौ क्लेशं प्रापतुः, राजा मृतः, भवत्यो (मातरः) विधवाः स्थ, वयं मातृपुत्रादयः निन्दापात्रत्वाच्छोचनीयाः, पृथ्वी राजरहिता सञ्जाता, कष्टम् ! कैकेय्याद्यज्ञानभूतं राज्यतृष्णारूपं तुच्छत्वं राजमरणादिरूपबहुदोषकारणं सञ्जातम्।

**भाषाऽर्थः—**भरतजी कैकेयीको उपालम्भ (उलहना) देते हैं सीता, राम और लक्ष्मणने क्लेश पाया, राजाका स्वर्गवास हुआ। आपलोग विधवा हुई, हमलोग (माता और पुत्र) निन्दापात्र होनेसे शोचनीय हैँ, पृथ्वी राजासे रहित है, हा ! कष्ट है, कैकेयीका आदिज्ञानभूत राज्यतृष्णारूप तुच्छता राजमरण आदि बहुत दोषोंका कारण हुआ॥३१॥

नैतन्मतं मत्कमिति ब्रुवाणः सहस्रशोऽसौ शपथानशप्यत्।
उद्वाश्यमानः पितरं सरामं लुठ्यन् सशोको भुवि रोरुदावान्॥३२॥

**अन्वयः—**सशोकः असौ सरामं पितरम् उद्वाश्यमानः भुवि लुठ्यन् रोरुदाचान् “एतत् मतं मत्कं न” इति ब्रुवाणः सहस्रशः शपथान् अशप्यत्।

**प्रयोगप०―**सशोकेन अमुना उद्वाश्यमानेन लुठ्यता रोरुदावता^(…) “एतेन मतेन मत्केन न (भूयते)” इति ब्रुवाणेन शपथा अशप्यन्त।

**व्याख्या—**सशोकः=शोकयुक्तः, असौ=भरतः, सरामं=रामसहितं, पितरं=दशरथम्, उद्वाश्यमानः=उच्चैः क्रोशन् (हा तात ! हा राम ! इति नामग्राहम्उच्चैराह्वानं कुर्वन्नित्यर्थः), भुवि=पृथिव्यां, लुठ्यन्=परिपतन्, रोरुदावान्=भृशं रोदनं कुर्वन्, एतत्=कैकेय्यनुष्ठितं मतं=पक्षः, मत्कं न=मत्कर्तृकं न, इति=इदं, ब्रुवाणः=कथयन्, सहस्रशः=अनेकवारं, शपथान्= विश्वासवचनानि, अशप्यत्=अकरोत्।

**व्युत्पत्तिः―**सशोकः=शोकेन सहितः (बहु०)। सरामं=रामेण सहितः सरामस्तम् (बहु०)। पितरं=“तातस्तु जनकः पिता।” इत्यमरः। उद्वाश्यमानः=उद्वास्यते इति उद्वास्यमानः, उत्पूर्वकात् “वाशृ शब्दे” इति दैवादिकाद्धातोः कर्तरि लटः शानजादेशः। लुठ्यन=लुठ्यतीति लुठ्यन्, “लुठ विलोडने” इति दैवादिकाद्धातोः लटः शत्रादेशः। रोरुदावान्=भृशं रोदनं रोरुदा, रुदेर्यङन्तात् “अप्रत्ययात्” इत्यप्रत्ययः। “अतो लोपः” इति “यस्य हलः” इति अल्लोपः यलोपश्च। रोरुदा अस्ति यस्य सः रोरुदावान् “तदस्यास्त्यस्मिन्निति मतुप्” इति मतुप्। मत्कम्=अहं ग्रामणीरस्य तत्, अस्मच्छब्दात् “स एषां ग्रामणीः” इति कन्प्रत्ययः, “प्रत्ययोत्तरपदयोश्च” इति मपर्यन्तस्य मादेशः। सहस्रशः=“बह्वल्पाऽर्थाच्छस्कारकादन्यतरस्याम्” इति शस्प्रत्ययः। अशप्यत्=“शप आक्रोशे” इति धातोर्लङ्। अस्य कृधातुसमानाऽर्थकत्वं “स तपोऽतप्यते” तिवन्निर्देशात्। “शपते शप्यति शपत्याक्रोशत्यपि शप्यते।” इति भट्टमल्लः।

**भावाऽर्थः―**सशोको भरतः सरामं पितरमुच्चैः क्रोशन् भूमौ पतन् भृशं रोदनं च कुर्वन् मयैतन्नाचरितमिति कथयन् बहुवारं शपथान् अकरोत्।

**भाषाऽर्थः―**शोकयुक्त भरतजीने रामचन्द्रजी और पिताको ऊंचे स्वरसे पुकारते हुए जमीनमें लोटपोट कर अत्यन्त रो कर “मातासे किया गया यह कार्य मेरी अनुमतिसे नहीं हुआ है” यह कहते हुए बहुत वार कसम खाई॥३२॥

तं सुस्थयन्तः सचिवा नरेन्द्रं दिधक्षयन्तः समुदूहुरारात्।
अन्त्याहुतिं हावयितुं सविप्राश्चिचीषयन्तोऽध्वरपात्रजातम्॥३३॥

**अन्वयः—**सचिवाः तं सुस्थयन्तः नरेन्द्रं दिधक्षयन्तः सविप्राः (सन्तः) अन्त्याहुतिं हावयितुम् अध्वरपात्रजातं चिचीषयन्तः आरात् समुदूहुः॥

**प्रयोगप०—**सचिवैः तं सुस्थयद्भिः नरेन्द्रं दिधक्षयद्भिः सविप्रैः (सद्भिः) चिचीषयद्भिः (सद्भिः) समुदूहे।

**व्याख्या—**सचिवाः=मन्त्रिणः, तं=भरतं, सुस्थयन्तः=सुस्थं कुर्वन्तः, नरेन्द्रं=दशरथं, दिधक्षयन्तः=दग्धुमेषयन्तः, सविप्राः= सब्राह्मणाः (सन्तः), अन्त्याहुतिं=प्रेत्याहुतिं, हावयितुम्=अग्नौ प्रक्षेपयितुम्, अध्वरपात्रजातं=जुह्वादियज्ञभाजनसमूहं, चिचीषयन्तः=चेतुमिच्छन्तः (यजमानाऽङ्गेषु यथाविधि निधातुमेषयन्तः), आरात्=नाऽतिदूरे, समुदूहुः=उद्वाहयामासुः (चितामारोपयन्नित्यर्थः)।

**व्युत्पत्तिः—**सचिवाः=कार्येषु सचन्ते (समवयन्ति) इति सचिवाः, “षच समवाये” इति धातोः औणादिक इवन्। सुस्थयन्तः=“तत्करोति तदाचष्टे” इति ण्यन्ताल्लटः शत्रादेशः। “स्वस्थयन्तः” इति मल्लिनाथसम्मतः पाठः। नरेन्द्रं= नराणामिन्द्रो नरेन्द्रस्तम् (ष० त०)। दिधक्षयन्तः=“दह भस्मीकरणे” इति धातोः सन्नन्ताण्णिचि लटः शत्रादेशः, “दादेर्घातोर्घः” इति घत्वम्। सविप्राः=विप्रैः सहिताः (बहु०)। अन्त्याहुतिम्=अन्ते भवा अन्त्या “दिगादिभ्यो यत्” इति यत् “अथाऽस्त्रियाम्। अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमम्।” इत्यमरः। अन्त्या चाऽसौ आहुतिरन्त्याहुतिस्ताम् (क० धा०)। हावयितुं=“हु दानादनयोः” इति धातोर्ण्यन्तात् “तुमुन्ण्वुलौ क्रियायां क्रियाऽर्थायाम्” इति तुमुन्। अध्वरपात्रजातम्=अध्वरस्य पात्राणि अध्वरपात्राणि (ष० त०)। तेषां जातमध्वरपात्रजातं, तत् (ष० त०)। चिचीषयन्तः=“चिञ् चयने” इति धातोः सन्नन्ताण्णिचि शतृप्रत्ययः। समुदूहुःसमुत्पूर्वात् “वह प्रापणे” इति धातोर्लिट् यजादित्वात्संप्रसारणम् अन्तर्भावितण्यर्थः।

**भावाऽर्थः—**मन्त्रिणः प्रबोधनेन तं सुस्थं कुर्वन्तः राजानं दग्धुमेषयन्तः ब्राह्मणैः सह अन्त्याहुतिमग्नौ प्रक्षेपयितुं जुह्वादियज्ञ-भाजनानि यजमानाङ्गेषु यथाविधि निधातुमेषयन्तः नगरस्य नाऽतिदूरे चितामारोपयन्।

**भाषाऽर्थः—**मन्त्रियोंने भरतको प्रबोध दे कर, राजाका दाह करनेके लिए ब्राह्मणोंके साथ अग्निमें अन्त्य आहुति देनेको जुहू आदि यज्ञपात्रोंको यजमानके अङ्गोंमें विधिपूर्वक रखनेकी इच्छासे शहरके निकट ही श्मशानमें राजाको पहुंचाया॥३३॥

उदक्षिपन्पट्टदुकूलकेतूनवादयन्वेणुमृदङ्गकांस्यम्।
कम्बूंश्च तारानधमन् समन्तात्तथानयन्कुङ्कुमचन्दनानि॥३४॥

**अन्वयः—**पट्टदुकूलकेतून् उदक्षिपन्, वेणुमृदङ्गकांस्यम् अवादयन्। तारान्कम्बूंश्च अधमन्, समन्तात् कुङ्कुमचन्दनानि आनयन्।

प्रयोगप०—(नियुक्तैः पुरुषैः) पट्टदुकूलकेतव उदक्षिप्यन्त, वेणुमृदङ्गकांस्यमवाद्यत, ताराः कम्बवश्च अध्मायन्त, कुङ्कुमचन्दना आनीयन्त।

**व्याख्या—**पट्टदुकूलकेतून्=कौशेयवस्त्रध्वजान्, उदक्षिपन्=उत्क्षिप्तवन्तः (नियुक्ताः पुरुषा इति शेषः, एवमन्यत्राऽपि)। वेणुमृदङ्गकांस्यं=वंशमुरजकांस्यवाद्यम् (सुषिरानद्धघनादिवाद्यमित्यर्थः), अवादयन्=वादितवन्तः, तारान्=उच्चैस्तरध्वनीन्, कम्बून्=शङ्खान्, अधमन्=अपूरयन्, समन्तात्=सर्वतः, कुङ्कुमचन्दनानि=केसरमलयजान्, आनयन्=आनीतवन्तः (अकिरन्नित्यर्थः)।

**व्युत्पत्तिः—**पट्टदुकूलकेतून्=पट्टानां दुकूलानि पट्टदुकूलानि (ष० त०), तेषां केतवः पट्टदुकूलकेतवस्तान् (ष० त०)। वेणुमृदङ्गकांस्यं=कंसो नाम धातुर्लोहविशेषः, कंसाय हितं कंसीयं “तस्मै हितम्” इति छप्रत्ययः “आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्” इतीयः। कंसीयस्य विकारः कांस्यं, “कंसीयपरशव्ययोर्यञञौ लुक्च” इति छस्य लुक् यञ्प्रत्ययश्च। बेणवश्च मृदङ्गाश्च कांस्यानि च बेणुमृदङ्गकांस्यं, तत् “जातिरप्राणिनाम्” इति समाहारद्वन्द्वः, न तूर्याऽङ्गत्वान्मार्दङ्गिकपाणविकादिवन्मृदङ्गादितूर्याणां तूर्याऽङ्गताऽभावात्। अवादयन्=ण्यन्तात् वदेर्लङ्। अधमन्=“ध्मा शब्दाऽग्निसंयोगयोः” इति धातोर्लङ्। “पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिवजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीय-सीदाः” इति धमादेशः। कुङ्कुमचन्दनानि=कुङ्कुमाश्च चन्दनानि च कुङ्कुमचन्दनानि तानि (द्वन्द्वः) “अथ कुङ्कुमम्। काश्मीरजन्माऽग्निशिखं वरं बाल्हीकपीतनम्।” इत्यमरः। आनयन्=आङपूर्वान्नीधातोर्लङ्।

**भावाऽर्थः—**अधिकृता जनाः कौशेयवस्त्रध्वजान् उच्छ्रितवन्तः, सुषिरादिवाद्यानि वादितवन्तः शङ्खवादनमकुर्वन् एवं सर्वत्र केसरमलयजानकिरन्।

**भाषाऽर्थः—**अधिकृत पुरुषोंने रेशमी वस्त्रके ध्वजोंको फहराया, वंशी, पखावज और कांस्य आदि वाद्योंको तथा ऊँचे स्वरवाले शङ्खोंको भी बजाया और चारों तरफसे केसर और चन्दन आदि सुगन्धि पदार्थोंको छिड़का॥३४॥

श्रोत्राक्षिनासावदनं सरुक्मं कृत्वाऽजिने प्राक्शिरसं निधाय।
संचिन्त्य पात्राणि यथाविधानमृत्विग्जुहाव ज्वलितं चिताग्निम्॥३५॥

**अन्वयः—**ऋत्विक् अजिने प्राक्शिरसं निधाय श्रोत्राक्षिनासावदनं सरुक्मं कृत्वा पात्राणि यथाविधानं संचिन्त्य ज्वलितं चिताऽग्निं जुहाव।

**प्रयोगप०—**ऋत्विजा ज्वलितश्चिताऽग्निर्जुहुवे।

**व्याख्या—**ऋत्विक्=संस्कर्ता (भरत इत्यर्थः), अजिने=चर्मणि (कृष्णसारमृगचर्मणीत्यर्थः), प्राक्शिरसं=पूर्वशीर्षं (शवमित्यर्थः), निधाय=विधाय, श्रोत्राऽक्षिनासावदनं=कर्णनेत्रनासिकामुखं (प्राणायतनेषु इत्यर्थः), सरुक्मं=सुवर्णसहितं, कृत्वा=विधाय, पात्राणि=भाजनानि (स्रुगादीनीत्यर्थः), यथाविधानं=विधिपूर्वकं, संचिन्त्य=विन्यस्य (तत्तदवयवेषु निधायेत्यर्थः),ज्वलितं=प्रदीप्तं, चिताऽग्निं=चितिवह्निं, जुहाव=जुहोति स्म (आहुतिभिरताप्सादित्यर्थः)।

**व्युत्पत्तिः—**ऋत्विक=ऋतुमृतौ ऋतुप्रयुक्तो वा यजतीति ऋत्विक्, “ऋत्विदधृगि”त्यादिना क्विन्नन्तो निपातः। अजिने=“अजिनं चर्म कृत्तिः स्त्रो” इत्यमरः। प्राक्शिरसं=प्राक् शिरो यस्य स प्राक्शिरास्तम् (बहु०)। श्रोत्राक्षिनासावदनं=श्रोत्रे च अक्षिणी च नासा च वदनं च श्रोत्राऽक्षिनासावदनं, तत् “द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्” इति समाहारद्वन्द्वः। सरुक्मं=रुक्मेण सहितं सरुक्मं, तत् (बहु०)। यथाविधानं=विधानमनतिक्रम्य यथाविधानं, पदार्थानतिवृत्तौ “अव्ययं विभक्ती"त्यादिना अव्ययीभावसमासः। चिताग्निं=चिताया अग्निश्चिताऽग्निस्तम् (ष० त०), जुहाव=हुधातोर्लिट्।

**भावाऽर्थः—**भरतः कृष्णाऽजिने प्राक्शिरसं शवं निधाय कर्णनेत्रनासिकामुखे सुवर्णखण्डं विन्यस्य स्रुगादियज्ञपात्राणि विधिपूर्वकं तत्तदवयवेषु निधाय प्रदीप्तं चिताग्निमाहुतिभिरतार्प्सीत्।

**भाषाऽर्थः—**भरतजीने कृष्णसार मृगके चर्ममें शवको पूर्वाभिमुख रख कर कान, नेत्र, नाक और मुखके छेदमें सोनेका टुकड़ा रख कर स्रुक् आदि यज्ञपात्रोंको शरीरके उन उन अवयवोंमें रख कर प्रज्वलित चिताग्निकी आहुतियोंसे तृप्त किया॥३५॥

कृतेषु पिण्डोदकसञ्चयेषु, हित्वाऽभिषेकं प्रकृतं प्रजाभिः।
प्रत्यानिनीषुर्विनयेन रामं प्रायादरण्यं भरतः सपौरः॥३६॥

**अन्वयः—**भरतः पिण्डोदकसञ्चयेषु कृतेषु प्रजाभिः प्रकृतम् अभिषेकं हित्वा रामं प्रत्यानिनीषुः सपौरः अरण्यं विनयेन प्रायात्॥३६॥

**प्रयोगप०—**भरतेन प्रत्यानिनीषुणा सपौरेण अरण्यं प्रायायत।

**व्याख्या—**भरतः=कैकेयीपुत्रः, पिण्डोदकसञ्चयेषु=पिण्डजलदानाऽस्थिसञ्चयेषु, कृतेषु=अनुष्ठितेषु (श्राद्ध-समाप्तावित्यर्थः), प्रजाभिः=अमात्यादिभिः, प्रकृतं=प्रस्तुतम्, अभिषेकं=राज्याऽभिषेकं, हित्वा=त्यक्त्वा, रामं= रामचन्द्रं, प्रत्यानिनीषुः=प्रत्यानेतुमिच्छुः, सपौरः=पौरसहितः, अरण्यं=वनं, विनयेन=नम्रतया (अन्यथा रामस्याऽविश्वासादिति भावः), प्रायात्=गतवान्।

**व्युत्पत्तिः—**पिण्डोदकसञ्चयेषु=पिण्डाश्च उदकं च सञ्चयश्च पिण्डोदकसञ्चयास्तेषु (द्वन्द्वः)। प्रजाभिः=प्रजायन्ते इति प्रजास्ताभिः “उपसर्गे च संज्ञायाम्” इति डप्रत्ययः “प्रजा स्यात्सन्ततौ जने।” इत्यमरः। प्रकृतम्=“आदिकर्मणि क्तः कर्तरि च” इति चकारात् कर्मणि क्तः। हित्वा=“ओहाक् त्यागे” इति धातोः क्त्वाप्रत्ययः, “जहातेश्च क्त्वि” इति हिरादेशः। प्रत्यानिनीषुः=प्रत्याङ्पूर्वान्नयतेः सन्नन्तात् उप्रत्ययः। सपौरः=पौरैः सहितः (बहु०)। प्रायात्=प्रपूर्वाद्यातेर्लङ्।

**भावाऽर्थः—**भरतः श्राद्धसमाप्तौ अमात्यादिभिः प्रक्रान्तं राज्याऽभिषेकं त्यक्त्वा रामं प्रत्यानेतुमिच्छुः पौरैः सहितो विनयेन अरण्यमगच्छत्।

**भाषाऽर्थः—**भरतजीने श्राद्धकी समाप्ति होनेपर मन्त्री आदियोंसे प्रस्तुत राज्याऽभिषेकको छोड़ कर रामको लौटानेकी इच्छासे नागरिकोंके साथ विनयसे जङ्गलकी ओर प्रस्थान किया॥३६॥

शीघ्रायमाणैः ककुभाऽश्नुवानैर्जनैरपन्थानमुपेत्य सृप्तैः।
शोकादभूषैरपि भूश्चकासाञ्चकार नागेन्द्ररथाऽश्वमित्रैः॥३७॥

**अन्वयः—**शीघ्रायमाणैः ककुभः अश्नुवानैः अपन्थानम् उपेत्य सृप्तैः शोकात् अभूषैः अपि नागेन्द्ररथाऽश्वमिश्रैः जनैः भूः चकासाञ्चकार।

**प्रयोगप०—**भुवा चकासाञ्चक्रे।

**व्याख्या—**शीघ्रायमाणैः=शीघ्रं गच्छद्भिः, ककुभः=दिशः, अश्नुवानैः=व्याप्नुवद्भिः, अपन्थानम्=अमार्गम् (अपर्याप्तत्वादिति शेषः), उपेत्य=प्राप्य, सृप्तैः=गतैः (प्रसर्पद्भिरित्यर्थः), शोकात्=मन्योः, अभूषैः अपि=भूषणरहितैः अपि, नागेन्द्र-रथाऽश्वमिश्रैः=हस्तिस्यन्दनहययुक्तैः, जनैः=मनुष्यैः (हेतुभिः), भूः=भूमिः,

चकासाञ्चकार=विरेजे (स्वयमभूषितत्वेऽपि भुवनभूषणायमानहस्त्यादियोगात्तैरभूष्येव भूरिति भावः)।

**व्युत्पत्तिः—**अशीघ्राः शीघ्रा भवन्तः शीघ्रायमाणास्तैः, “भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः” इति क्यङन्ताल्लटः शानजादेशः। ककुभः=“दिशस्तु ककुभः काष्ठाआशाश्च हरितश्च ताः।” इत्यमरः। अश्नुवानैः=अश्नुवते इति अश्नुवानास्तैः, “अशू व्याप्तौ संघाते च” इति धातोः शानचि उवङादेशः। अपन्थानं=न पन्था अपन्थास्तम्, “ऋक्पूरब्धूः पथामानक्षे” इति समासाऽन्ते अप्रत्यये प्राप्ते “नञस्तत्पुरुषात्” इति प्रतिषेधः, ततः “पथो विभाषा” इति विकल्पत्वात् पाक्षिकः समासाऽन्ताऽभावः। अतएव “अपन्थास्त्वपथं तुल्ये” इत्यमरः। सृप्तैः=“सृप्ऌ गतौ” इति धातोः कर्तरि क्तः। शोकात्=“विभाषा गुणेऽस्त्रियाम्” इति हेतौ पञ्चमी। अभूषैः=भूषणं भूषा, “भूष अलङ्कारे” इति धातोः “गुरोश्च हलः” इत्यप्रत्ययः। अविद्यमाना भूषा येषां ते अभूषास्तैः (नञ्बहु०)। नागेन्द्ररथाऽश्वमिश्रैः=नागेषु इन्द्रा नागेन्द्राः (स० त०)। “मतङ्गजो गजो नागः कुञ्जरो वारणः करी।” इत्यमरः। नागेन्द्राश्च रथाश्च अश्वाश्च नागेन्द्ररथाऽश्वं, “द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्” इति सेनाऽङ्गत्वात् समाहारद्वन्द्वः। “बहुष्वनियमः” इति वचनात् हस्तिनां प्राधान्याच्च बह्वचोपि नागेन्द्रस्य पूर्वनिपातः। नागेन्द्ररथाऽश्वेन मिश्रा नागेन्द्ररथाऽश्व-मिश्रास्तैः, “पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः” इति तृतीयातत्पुरुषः। जनैः=“हेतौ” इति तृतीया। चकासाञ्चकार= “चकासृ दीप्तौ"इति धातोः “कास्प्रत्ययादाममन्त्रे लिटि” इति सूत्रे “कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम्” इति लिटि आम्प्रत्ययः। कर्तुः क्रियाफलयोगेऽपि नाऽऽत्मनेपदम्, “आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य” इत्यत्र पूर्वग्रहणानुवृत्तेः।

**भावाऽर्थः—**त्वरायुक्तैः दिग्व्यापकैः सङ्कुलत्वात् अमार्गेणाऽपि चलितैः शोकाद्धेतोर्भूषणरहितैः हस्तिरथहययुक्तैः पौरैर्भूः शुशुभे।

**भाषाऽर्थः—**शीघ्र जानेवाले, दिशाओंको व्याप्त करनेवाले, भीड़ ज्यादा होनेसे अमार्गसे भी जानेवाले, शोकके कारण भूषणरहित और हाथी, रथ और घोड़ोंसे युक्त ऐसे मनुष्योंसे पृथ्वी शोभित हुई॥३७॥

उच्चिक्यिरे पुष्पफलं वनानि, सस्नुः पितॄन्पिप्रियुरापगासु।
आरेटुरित्वा पुलिनान्यशङ्कं छायां समाश्रित्य विशश्रमुश्च॥३८॥

अन्वयः—(ते) वनानि पुष्पफलम् उच्चिक्यिरे, आपगासु सस्नुः, पितॄन्पिप्रियुःपुलिनानि इत्वा अशङ्कम् आरेटुःछायां समाश्रित्य विशश्रमुश्च।

प्रयोगप०—(तैः) वनानि पुष्पफलम् उच्चिक्यिरे, आपगासु सस्ने, पितरः पिप्रियिरे, आरेटे विशश्रमे च।

व्याख्या—(ते=जनाः) वनानि=अरण्यानि (अरण्येभ्य इत्यर्थः), पुष्पफलं=कुसुमफलम्, उच्चिक्यिरे=अपचिक्यिरे (संगृहीतवन्त इत्यर्थः), आपगासु=नदीषु, सस्नुः=स्नातवन्तः, पितॄन्=अग्निष्वात्तादीन्, पिप्रियुः=प्रीणयामासुः (निवापाऽञ्जलिभिरिति शेषः), पुलिनानि=सैकतानि, इत्वा=गत्वा, अशङ्कं=निःशङ्कम् (विस्रब्धमित्यर्थः), आरेटुः=परिभाषितवन्तः। छायाम्=अनातपं, समाश्रित्य=अधिष्ठाय, विशश्रमुश्च=विश्रान्ताश्च।

**व्युत्पत्तिः—**वनानि=“अकथितं च” इति कर्मसञ्ज्ञा। पुष्पफलं=पुष्पाणि च फलानि च पुष्पफलं, तत्, “जातिरप्राणिनाम्” इति समाहारद्वन्द्वः। उच्चिक्यिरे=उत्पूर्वात्=“चिञ् चयने” इति धातोः कर्तरि लिटि ञित्त्वात् आत्मनेपदम्। विभाषा चेः” इति कुत्वम्, “एरनेकाचोऽसंयोगपूर्वस्य” इति यण्, ‘दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ। ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना” इति द्विकर्मकत्वम्। आपगासु=अपां समूहः आपं, ‘तस्य समूहः” इत्यण्। आपेन गच्छन्तीति आपगाः (नद्यः) तासु, “अन्यत्राऽपि दृश्यत इति वक्तव्यम्” इति डप्रत्ययः, “स्रोतस्वती द्वीपवती स्रवन्ती निम्नगाऽऽपगा।” इत्यमरः। सस्नुः=“ष्णा शौचे” इति धातोर्लिट्। झेरुस्, “उस्यपदान्तात्” इति पररूपत्वम्। पिप्रियुः=प्रीणातेः (“प्रीञ् तर्पणे कान्तौ च” इति धातोः) लिट्युसि इयङादेशः। इत्वा=इणः क्त्वाप्रत्ययः। अशङ्कम्=अविद्यमाना शङ्का यस्मिन् (कर्मणि) तद्यथा तथा (नञ्बहु०, क्रि० वि०)। आरेटुः=आङ्पूर्वात् “रट परिभाषणे” इति धातोर्लिट्, “अत एके"त्यादिना एत्वाभ्यासलोपौ। “आरेमु”रिति मल्लिनाथसंमतं पाठान्तरं तत्र आङ्पूर्वात् “रमु क्रीडायाम्” इति धातोः “व्याङ्परिभ्यो रम” इत्यात्मनेपदम्। “अत एके"त्यादिना एत्वाऽभ्यासलोपौ। आक्रीडन्नित्यर्थः। विशश्रमुः=विपूर्वात् “श्रमु तपसि खेदे च” इति धातोर्लिट्।

**भावाऽर्थः—**ते जना वनेभ्यः पुष्पफलं सङ्गृहीतवन्तः, नदीषु स्नानं चक्रुः,

श्राद्धतर्पणादिभिः पितॄन् तर्पितवन्तः, सैकतानि गत्वा विस्रब्धं भाषितवन्तः एवं छायामधिष्ठाय विश्रामं च कृतवन्तः।

**भाषाऽर्थः—**उन लोगोंने वनोंसे फूल और फलोंको तोड़ा, नदियोंमें स्नान किया, श्राद्धतर्पणादिसे पितरोंको तृप्त किया, तटोंमें जा कर निःशङ्क हो कर बातचीत किया और छायामें बैठ कर विश्राम भी किया॥३८॥

सम्प्राप्य तीरं तमसाऽऽपगाया गङ्गाम्बुसम्पर्कविशुद्धिभाजः।
विगाहितुं यामुनमम्बु पुण्यं ययुर्निरुद्धश्रमवृत्तयस्ते॥३९॥

**अन्वयः—**ते गङ्गाऽम्बुसम्पर्कविशुद्धिभाजः तमसाऽऽपगायाः तीरं सम्प्राप्य निरुद्धश्रमवृत्तयः पुण्यं यामुनम् अम्बु विगाहितुं ययुः।

**प्रयोगप०—**निरुद्धश्रमवृत्तिभिः यये।

**व्याख्या—**ते=जनाः, गङ्गाऽम्बुसम्पर्कविशुद्धिभाजः=भागीरथीजलसंसर्गातिपवित्रायाः, तमसाऽऽपगायाः= तमसानद्याः (तरसा इति पाठान्तरे–तरसा=वेगेन, आपंगायाः=तमसाया इत्यर्थः), तीरं=तटं, सम्प्राप्य=गत्वा, निरुद्धश्रमवृत्तयः=निरस्त-परिश्रमवर्तनाः (सन्तः), पुण्यं=पवित्रं, यामुनं=यमुनासम्बन्धि (यमुनाया इत्यर्थः), अम्बु=जलं, विगाहितुं=विगाहनं कर्तुं, ययुः=जग्मुः।

**व्युत्पत्तिः—**गङ्गाऽम्बुसम्पर्कविशुद्धिभाजः=गच्छति समुद्रमिति गङ्गा, गमेरौणादिको गन्प्रत्ययः। गङ्गाया अम्बु गङ्गाऽम्बु, (ष० त०) “अम्भोर्णस्तोयपानीयनीरक्षीराऽम्बुशम्बरम्।” इत्यमरः। गङ्गाऽम्बुना सम्पर्कः गङ्गाऽम्बुसम्पर्कः(तृ० त०)। विशुद्धिं भजत इति विशुद्धिभाक् “भजो ण्विः” इति ण्विप्रत्ययः। गङ्गाऽम्बुसम्पर्केण विशुद्धिभाक् गङ्गाऽम्बुसम्पर्कविशुद्धिभाक् तस्याः (तृ० त०)। तमसाऽऽपगायाः=तमसा चाऽसौ आपगा तमसाऽऽपगा, तस्याः (क० धा०)। निरुद्धश्रमवृत्तयः=श्रमस्य वृत्तिः श्रमवृत्तिः (ष० त०)। निरुद्धा श्रमवृत्तिर्येषां ते (बहु०)। पुण्यं= पुनातीति पुण्यं, तत्, औणादिको यत्प्रत्ययो णुक् ह्रस्वश्च। यामुनं=यमुनाया इदं यामुनं, तत्, “तस्येदम्” इत्यण्। विगाहितुं=विपूर्वात् “गाहू विलोडने” इति धातोस्तुमुन्।

**भावाऽर्थः—**ते गङ्गाजलसंसर्गाऽतिपवित्रायाः तमसानद्यास्तटमासाद्य अपगतपरिश्रमाः सन्तः पुण्यं यमुनाजलं विगाहितुं चलिताः।

**भाषाऽर्थः—**वे लोग गङ्गाजलके संसर्गसे अत्यन्त पवित्र तमसा नदीके तटमें पहुँच कर सुस्ता कर यमुनाके पवित्र जलमें स्नान करनेके लिए चले॥३९॥

ईयुर्भरद्वाजमुनेर्निकेतं यस्मिन्विशश्राम समेत्य रामः।
च्युताऽशनायाः फलवद्विभूत्या व्यास्यन्नुदन्यां शिशिरैः पयोभिः॥४०॥

अन्वयः—(ते) भरद्वाजमुनेः निकेतम् ईयुः, यस्मिन् रामः समेत्य विशश्राम, (अथ ते) फलवद्विभूत्या च्युताऽशनायाः (सन्तः) शिशिरैः पयोभिः उदन्यां व्यास्यन्।

प्रयोगप०—(तैः) निकेत ईये, यस्मिन् रामेण विशश्रमे, (अथ तैः) च्युताऽशनायैः (सद्भिः) उदन्या व्यास्यत।

व्याख्या—(ते=जनाः) भरद्वाजमुनेः=भरद्वाजऋषेः, निकेतम्=आश्रमम्, ईयुः=जग्मुः, यस्मिन्=भरद्वाजाश्रमे, रामः=राम-चन्द्रः, समेत्य=आगत्य, विशश्राम=विश्रान्तः (अतस्तेऽपि तत्र सोत्कण्ठास्तस्थुरिति भावः), (अथ=अनन्तरं, ते=जनाः) फलवद्विभूत्या=फलवद्वृक्षसम्पदा, च्युताऽशनायाः=अपगतबुभुक्षाः (सन्तः), शिशिरैः=शीतलैः, पयोभिः=जलैः, उदन्यां= पिपासां, व्यास्यन्=न्यवारयन्।

**व्युत्पत्तिः—**भरद्वाजमुनेः=भरद्वाजश्चाऽसौ मुनिः भरद्वाजमुनिः, तस्य (क० धा०)। ईयुः=इण्धातोर्लिट्, “इणो यण्” इति यणादेशः, “दीर्घ इणः किति” इत्यभ्यासदीर्घः। फलवद्विभूत्या=फलानि सन्ति येषु ते फलवन्तः वृक्षा इत्यर्थः, (मतुप्प्रत्ययः), तेषां विभूतिः फलवद्विभूतिस्तया (ष० त०)। च्युताऽशनायाः=अशनस्य (भक्षणस्य) इच्छा अशनाया, “सुप आत्मनः क्यच्” इति क्यच् “अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु” इतीत्वाऽभावनिपातः “अ प्रत्ययात्” इत्यप्रत्ययः। “अशनाया बुभुक्षा क्षुत्” इत्यमरः। च्युता अशनाया येषां ते (बहु०)। उदन्याम्=उदकस्येच्छा उदन्या, ताम्, अशनायावत्प्रक्रिया ज्ञेया “उदन्या तु पिपासा तृट् तर्षः” इत्यमरः। व्यास्यन्=विपूर्वात् अस्यतेः (‘असु क्षेपणे’ इति धातोः) लङ् आङ्वृद्धिश्च (‘च्युताशनायः’ इति पाठान्तरे रामविशेषणम्। तत्र व्यस्यन् इत्यस्य वारयन्नित्यर्थः)।

**भावाऽर्थः—**यस्मिन्भरद्वाजमुनेराश्रमे राम आगत्य विश्रान्तस्तत्र ते जग्मुः फलै क्षुन्निवारणं तथा च शीतलजलैः पिपासाऽप-नयनं च चक्रुः।

**भाषाऽर्थः—**भरद्वाज मुनिके जिस आश्रममें आ कर रामचन्द्रजीने विश्राम किया था, उन लोगोंने भी वहाँपर आ कर फलोंसे भूख तथा ठण्डे जलसेप्यास मिटाई॥४०॥

वाचंयमान्स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्।
अध्यापयन्तं विनयात्प्रणेमुः पद्गा भरद्वाजमुनिं सशिष्यम्॥४१॥

**अन्वयः—**वाचंयमान् स्थण्डिलशायिनः अनिशं युयुक्षमाणान् मुमुक्षून् अध्यापयन्तं सशिष्यं भरद्वाजमुनिं पद्गाः (सन्तः) विनयात् प्रणेमुः।

**प्रयोगप०—**अध्यापयन् सशिष्यो भरद्वाजमुनिः पद्गैः प्रणैमे।

**व्याख्या—**वाचंयमान्=मौनव्रतिनः, स्थण्डिलशायिनः=भूशयनव्रतिनः, अनिशं=निरन्तरं, युयुक्षमाणान्= योक्तुमिच्छतः (योगाभ्यासनिष्ठानित्यर्थः), मुमुक्षून्=मोक्षेच्छून् (विरक्तानित्यर्थः), अध्यापयन्तं=पाठयन्तं (ब्रह्मविद्यां ग्राहयन्तमित्यर्थः), सशिष्यं=छात्रसहितं, भरद्वाजमुनिं=भरद्वाजऋषिं, पद्गाः=पादचारिणः सन्तः (ते), विनयात्=नम्रतायाः, प्रणेमुः=प्रणताः (प्रणामं कृतवन्त इत्यर्थः)।

**व्युत्पत्तिः—**वाचंयमान्=वाचं यच्छन्तीति वाचंयमास्तान् “वाचि यमो व्रते” इति खच् “वाचंयमपुरन्दरौ च” इत्यमन्तत्व-निपातः। स्थण्डिलशायिनः=स्थण्डिले शेरते इति स्थण्डिलशायिनः, तान् “व्रते” इति णिनिप्रत्ययः, “यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ। स्थाण्डिलश्च” इत्यमरः। युयुक्षमाणान्=योक्तुमिच्छन्तो युयुक्षमाणास्तान्, “युज समाधौ” इति सन्नन्ताल्लटः शानजादेशः। मुमुक्षून=मोक्तुमिच्छवो मुमुक्षवस्तान्, “मुच्लृ मोक्षणे” इति सन्नन्तात् उप्रत्ययः। “गति बुद्धी"त्यादिना कर्मत्वम्। अध्यापयन्तम्=अध्यापयतीति अध्यापयन्, तम् “क्रीङ्जीनां णौ” इत्यात्वे पुगागमः। सशिष्यं=शिष्यैः सहितः सशिष्यस्तम् (बहु०)। भरद्वाजमुनिं=भरद्वाजश्चाऽसौ मुनिर्भरद्वाजमुनिस्तम् (क० धा०)। पद्गाः=पादाभ्यां गच्छन्तीति पद्गाः, “अन्यत्राऽपि दृश्यत इति वक्तव्यम्” इति गमेर्डप्रत्ययः, “हिमकाषिहतिषु च” इति चकारस्य अनुक्तसमुच्चयाऽर्थत्वात् पादशब्दस्य पदादेशः। प्रणेमुः=प्रपूर्वात् “णम प्रह्वत्वे शब्दे” इति धातोर्लिट्, “अत” इत्यादिना एत्वाऽभ्यासलोपौ।

**भावाऽर्थः—**मौनव्रतिनः भूशयनव्रतिनः निरन्तरं योक्तुमिच्छतो विरक्तान्पाठयन्तं छात्रसहितं भरद्वाजमुनिं ते जनाः पादचारिणः सन्तो नम्रतापूर्वकं प्रणताः।

**भाषाऽर्थः—**मौनव्रत तथा जमीनपर सोनेका व्रत लेनेवाले, निरन्तर योगाऽभ्यासमें तत्पर, मोक्षकी इच्छा रखनेवाले विरक्तोंको ब्रह्मविद्या पढ़ानेवाले शिष्यसहित भरद्वाज मुनिको उन लोगोंने पादचारी हो कर नम्रतापूर्वक प्रणाम किया ॥४१॥

आतिथ्यमेभ्यः परिनिर्विवप्सोः कल्मद्रुमा योगबलेन फेलुः।
धामप्रथिम्नो म्रदिमान्वितानि वासांसि च द्राघिमवन्त्युदूहुः॥४२॥

**अन्वयः—**एभ्यः आतिथ्यं परिनिर्विवप्सोः धामप्रथिम्नः योगबलेन कल्पद्रुमाः फेलुः, म्रदिनाऽन्वितानि द्राघिमवन्ति वासांसि च उदूहुः।

**प्रयोगप०—**कल्पद्रुमैः फेले वासांसि च उदूहिरे।

**व्याख्या—**एभ्यः=भरतादिभ्यः, आतिथ्यम्=अतिथिसत्कारं, परिनिर्विवप्सोः=परिनिर्वप्तुमिच्छोः (“परिनिर्विवत्सोः” इति मल्लिनाथसम्मतः पाठः, उभयत्राऽपि दातुमिच्छोरित्यर्थः), धामप्रथिम्नः=तेजोराशेः (मुनेरित्यर्थः), योगबलेन= योगमहिम्ना, कल्पद्रुमाः=कल्पवृक्षाः (सङ्कल्पोपनता इत्यभिप्रायः), फेलुः=फलिताः (भक्ष्यान्नपानादिकमितिशेषः), म्रदिमाऽन्वितानि= मृदुत्वयुक्तानि, द्राघिमवन्ति=दीर्घतायुक्तानि वासांसि च=वस्त्राणि च, उदूहुः=उद्वहन्ति स्म।

**व्युत्पत्तिः—**एभ्यः=“कर्मणा यमभिप्रैति स सम्प्रदानम्” इति सम्प्रदानसंज्ञा, “चतुर्थी सम्प्रदाने” इति चतुर्थी। आतिथ्यम्=अतिथये इदम् आतिथ्यं, तत् “अतिथेर्ञ्य” इति ञ्यः। परिनिर्विवप्सोः=उप्रत्ययः। धामप्रथिम्नः=पृथोर्भावः प्रथिमा, “पृथ्वादिभ्य इमनिज्वा” इति इमनिच् “र ऋतो हलादेर्लघोः” इति ऋकारस्य रः “टेः” इति टिलोपः। धाम्ना (तेजसा) प्रथिमा (पृथुत्वम्) यस्य स धामप्रथिमा, तस्य (बहु०)। योगबलेन=योगस्य बलं योगबलं, तेन (ष० त०), “योगश्चित्तवृत्तिनिरोधः” इति पतञ्जलिः। कल्पद्रुमाः=कल्पानां (संकल्पिताऽर्थानाम्) द्रुमाः (ष० त०)। फेलुः=“फल निष्पत्तौ” इति धातोर्लिट्, “तृृफलभजत्रपश्च” इत्येत्वाऽभ्यासलोपौ। म्रदिमान्वितानि=मृदोर्भावो म्रदिमा, प्रथिमवत्प्रक्रिया ज्ञेया। म्रदिम्ना अन्वितानि म्रदिमाऽन्वितानि तानि (तृ० त०)। द्राघिमवन्ति=दीर्घस्य भावो द्राघिमा, पूर्वसूत्रेण इमनिच्प्रत्ययः, “प्रियस्थिरे”त्यादिना द्राघादेशः। द्राघिमा अस्ति येषां तानि द्राघिमवन्ति, तानि (मतुप्प्रत्ययः)। वासांसि=“वस्त्रमाच्छादनं वासश्चेलं वसनमंशुकम्।” इत्यमरः। उदूहुः=यजादित्वात् सम्प्रसारणम्।

**भावाऽर्थः—**एषामतिथीनां सत्कारार्थं तेजोराशेर्मुनेर्योगबलेन सङ्कल्पोपनताः कल्पवृक्षाः भक्ष्यान्नपानादिकं फलितास्तथा च कोमलानि दीर्घाणि वस्त्राणि च धृतवन्तः।

**भाषाऽर्थः—**इन अतिथियोंका सत्कारकी इच्छा करनेवाले तेजोराशि भरद्वाज मुनिके योग–बलसे कल्पवृक्षोंने फल आदि भक्ष्य पदार्थोंको पैदा कर कोमल और दीर्घ वस्त्रोंको प्रकट किया॥४२॥

आज्ञां प्रतीषुर्विनयादुपास्थुर्जगुः सरागं ननृतुः सहावम्।
सविभ्रमं नेमुरुदारमूचुस्तिलोत्तमाऽऽद्या वनिताश्च तस्मिन्॥४३॥

**अन्वयः—**तस्मिन् तिलोत्तमाद्या वनिताश्च आज्ञां प्रतीषुः, विनयात् उपास्थुः, सरागं जगुः, सहावं ननृतुः, सविभ्रमं नेमुः उदारम् ऊचुश्च।

**प्रयोगप०—**तिलोत्तमाऽऽद्याभिर्वनिताभिराज्ञा प्रतीषे, उपास्थाथि, जगे, ननृते, नेमे ऊचे च।

**व्याख्या—**तस्मिन्=तत्काले, तिलोत्तमाऽऽद्याः=तिलोत्तमाप्रभृतयः, वनिताः=नार्यः (अप्सरस इत्यर्थः), आज्ञां= भरताऽनुगाऽऽदेशं, प्रतीषुः=गृहीतवत्यः (चेटीभवत्य इत्यर्थः), विनयात्=नम्रतायाः, उपास्थुः=उपस्थिताः (पादप्रक्षालनादिना असेवन्त इत्यर्थः), सरागं=मालकौशिकादिरागबद्धं, जगुः=अगायन् सहावं=शृङ्गारचेष्टायुक्तं, ननृतुः=अनृत्यन्, सविभ्रमं=विलाससहितं, नेमुः=प्रणेमुः, उदारं=गम्भीरम्, ऊचुश्च=व्याजह्रुश्च।

**व्युत्पत्तिः—**तिलोत्तमाद्याः=आदौ भवा आद्या, “दिगादिभ्यो यत्” इति यत्। तिलोत्तमा आद्या यासां ताः (बहु०)। वनिताः=“प्रतीपदर्शिनी वामा वनिता महिला तथा।” इत्यमरः। प्रतीषुः=प्रतिपूर्वादिषेर्लिटि द्विर्भावादिकार्ये सवर्णदीर्घादि-कार्यम्। उपास्थुः उपपूर्वात्तिष्ठतेर्लुङि “गातिस्थे”त्यादिना सिचो लुक्। “आतः” इति झेर्जुस् “उस्यपदान्तात्” इति पररूपत्वम्। सरागं=रागैः सहितं यथा तथा (बहु०, क्रि०)। जगुः=“गै शब्दे” इति धातोर्लिटि द्विर्भावे रूपम्। सहावं=हावेन सहितं यथा तथा (बहु०)। ननृतुः=“नृती गात्रविक्षेपे” इति धातोर्लिटि “उरत्” इत्यभ्यासऋकारस्याऽत्वम्, “असंयोगाल्लिट्कित्” इति लिटः कित्वान्न गुणः। सविभ्रमं=विभ्रमेण सहितं यथा तथा (बहु० क्रि०)। नेमुः=

नमेर्लिटि “अत” इत्यादिना एत्वाऽभ्यासलोपौ। उदारं=क्रियाविशेषणम्। उचुः=ब्रूञ्धातोर्लिट्, “ब्रुवो वचिः” इति वच्यादेशे सम्प्रसारणे द्विर्भावे सवर्णदीर्घः।

**भावाऽर्थः—**तस्मिन् काले तिलोत्तमादयोऽप्सरसो भरताऽनुगादेशं स्वीचक्रुः, विनयात् असेवन्त, सरागं गीतवत्यः, शृङ्कारचेष्टायुक्तं नृत्यमकुर्वन्, सविलासं प्रणामं कृतवत्यः गम्भीरतापूर्वकं व्याजह्रुश्च।

**भाषाऽर्थः—**उस अवसरपर तिलोत्तमा आदि अप्सराओंने भरतके सहचरोंकी आज्ञा मानी, नम्रतासे सेवा की, रागके साथ गाना गाया, शृङ्गारचेष्टापूर्वक नृत्य किया, विलास के साथ नमस्कार किया और गम्भीरताके साथ बातचीत भी की॥४३॥

वस्त्राऽन्नपानं शयनं च नाना कृत्वाऽवकाशे रुचिरं प्रक्लृप्तम्।
तान्प्रीतिमानाह मुनिस्ततः स्म “निबध्वमाध्वं पिबताऽत्त शेध्वम्॥४४॥

**अन्वयः—**ततः मुनिः वस्त्राऽन्नपानं शयनं च नानाऽवकाशे रुचिरं प्रक्लृप्तं कृत्वा प्रीतिमान् (सन्) तान् आह “(हे जनाः ! अत्र) निबध्वम् आध्वं पिबत अत्त शेध्वम्।

**प्रयोगप०—**मुनिना प्रीतिमता (सता) ते उच्यन्ते स्म—(हे जना ! अत्र युष्माभिः) निवस्यन्ताम्, आस्यतां, पीयताम्, अद्यन्तां शय्यताम्।

**व्याख्या—**ततः=अनन्तरं मुनिः=भरद्वाजः, वस्त्राऽन्नपानं=वासोभक्ष्यपेयं, शयनं च=शय्यां च, नानाऽवकाशे= अनेकप्रदेशे, रुचिरं=सुन्दरं (यथा तथा, क्रि० वि०), प्रक्लृप्तं=सज्जं (“रुचिसंप्रक्लृप्तम्” इति पाठे इच्छानुसारसम्पादितमित्यर्थः) कृत्वा=विधाय, प्रीतिमान्=प्रसन्नः (सन्), तान्=भरतसहचरान् आह स्म=उक्तवान्, (हे जनाः ! अत्र=आश्रमे) निबध्वम्=वस्त्राणि परिधत्त, आध्वम्=उपविशत, पिबत=पानं कुरुत, अत्त=भक्षयत, शेध्वं=शयनं कुरुत।

**व्युत्पत्तिः—**वस्त्राऽन्नपानं=वस्त्राणि च अन्नानि च पानानि च वस्त्राऽन्नपानं, तत् “सर्वो द्वन्द्वो विभाषैकवद्भवति” इति समाहारद्वन्द्वः। शयनं=शय्यतेऽस्मिन्निति शयनं, तत् (अधिकरणे ल्युट्), “जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्” इति जातावेकवचनम्। रुचिरं=“सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्।” इत्यमरः। प्रक्लृप्तं=“कृपो रो लः” इति लत्वम्। प्रीतिमान्=प्रीतिरस्ति यस्य सः (मतुप्)। “प्रीतवान्” इति मल्लिनाथसम्मतः पाठः, तत्र क्तवतुप्र-

त्ययः। निवद्ध्वं=निपूवात् “वस आच्छादने” इति धातोर्लोटि ध्वमि धातुसकारस्य “झलां जश् झशि” इति दकारः। आध्वम्=“आस उपवेशने” इति धातोः पूर्ववल्लोट्। पिबत=“पा पाने” इति धातोर्लोट्, थस्य तादेशः, “पाघ्राध्मे"त्यादिना पिबादेशश्च। अत्त=“अद भक्षणे” इति धातोर्लोट्, दस्य तादेशः। शेध्वं=“शीङ् स्वप्ने” इति धातोर्लोट्, ध्वमि शपो लुक् “शोङः सार्वधातुके गुणः” इति गुणः। सर्वत्र “प्रैषाऽतिसर्गप्राप्तकालेषु कृत्याश्च” इत्यतिसर्गे लोट्, अतिसर्गः=कामचाराऽनुज्ञा। सर्वत्र विधौ लोडिति व्याख्यातॄणां जयमङ्गलादीनां मतमसत्, रागत एव प्राप्तेः ज्योतिष्टोमादिवदपूर्वविधेयाऽभावः। नाऽप्यत्र “ऋतौ जायामुपेयात्” इति वन्नियम्यते, तदनिच्छतामकरणे प्रत्यवायाऽभावात्। नाऽपि स्थानान्तरविहारपरिसङ्ख्यापरत्वमिति वाच्यं पञ्चेतरपञ्चनखभक्षणवत् स्थानान्तरविहारे दोषाऽभावात्। दोषत्रयदुष्टत्वादस्मदुक्तमेव युक्तमिति महोपाध्यायो मल्लिनाथः।

**भावाऽर्थः—**ततो भरद्वाजो भक्ष्यपेयादिपदार्थान् अनेकस्थानेषु संस्थाप्य प्रसन्नः सन्नतिथीनब्रवीत्—“महाशयाः ! वस्त्राणि परिधत्त, उपविशत, पेयसमूहं यथेच्छं धयत, भक्ष्याणि भक्षयत, विस्रब्धं संविशत”।

**भाषाऽर्थः—**तब भरद्वाज ऋषिने वस्त्र, अन्न, पेय और शय्याको अनेक जगहोंमें अच्छी तरह सुसज्जित कर प्रसन्नतासे अतिथियोंसे कहा—“महाशयों ! वस्त्र पहनिए, बैठिए, पीजिए, खाइए और आरामसे सोइए॥४४॥

ते भुक्तवन्तः सुसुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते।
द्रुतं समध्वा रथवाजिनागैर्मन्दाकिनीं रम्यवनां समीयुः॥४५॥

**अन्वयः—**ते भुक्तवन्तः, वासांसि वसित्वा सुसुखं रजनीम् उषित्वा प्रभाते समध्वाः द्रुतं रथवाजिनागैः रम्यवनां मन्दाकिनीं समीयुः।

**प्रयोगप०—**तैर्भुक्तवद्भिः समध्वैः रम्यवना मन्दाकिनी समीये।

**व्याख्या—**ते=जनाः, भुक्तवन्तः=भक्षितवन्तः (सन्तः), वासांसि=वस्त्राणि, वसित्वा=आच्छाद्य, सुसुखं=सुखपूर्वकं, रजनीं= रात्रिम्,उषित्वा=स्थित्वा, प्रभाते=प्रातःकाले, समध्वाः=अध्वगताः (सन्तः), द्रुतं=शीघ्रं, रथवाजिनागैः=स्यन्दनहयहस्तिभिः, रम्यवनां=रमणीयकाननां रमणीयजलां वा, मन्दाकिनीं=मन्दाकिन्याख्यां नदीं, समीयुः=सम्भूय गताः।

**व्युत्पत्तिः—**भुक्तवन्तः=क्तवतुप्रत्ययः। वसित्वा=“वस आच्छादने” इति

धातोः क्त्वाप्रत्ययः। सुसुखं=क्रियाविशेषणम् । रजनीं=“कालाऽध्वनोरत्यन्तसंयोगे” इति द्वितीया। उषित्वा=“वस निवासे” इति धातोः क्त्वाप्रत्ययः, “वसतिक्षुधोरिट्” इतीट्, यजादित्वात् सम्प्रसारणम्। समध्वाः=सम्प्राप्ता अध्वानं समध्वाः, “अत्यादयः क्रान्ताद्यर्थे द्वितीयया”इति समासः, “उपसर्गादध्वनः” इति समासाऽन्तष्टच्। रथवाजिनागैः=रथाश्चवाजिनश्च रथवाजि (सेनाङ्गत्वात् समाहारद्वन्द्वः), रथवाजियुक्ता नागा रथवाजिनागास्तैः “शाकपार्थिवादीनां सिद्धय उत्तरपदलोपस्योप-सङ्ख्यानम्” इति मध्यमपदलोपिसमासः, द्वन्द्वसमासाश्रयणेन एकवद्भावाऽपत्तेः। रम्यवनां=रम्याणि वनानि (काननानि जलानि वा) यस्यां सा रम्यवना, ताम् (बहु०)। “गहनं काननं वनम्।”इति “पयः कीलालममृतं जीवनं भुवनं वनम्।” इति चाऽमरः। मन्दाकिनीं=चित्रकूटनिकटस्था काचन नदी मन्दाकिनी न तु गङ्गेति अरण्यकाण्डे द्रष्टव्यमिति मल्लिनाथः। समीयुः=सम्पूर्वादिणो लिटि झेरुसि “इणो यण्” इत्यण् “दीर्घ इणः किति” इत्यभ्यास दीर्घः।

भावाऽर्थः—ते भक्षितवन्तः वस्त्राणि परिधाय सुखपूर्वकं रात्रिमुषित्वा प्रातः अध्वगताः सन्तः सत्वरं स्यन्दनहयहस्तिभिर्यानैः रमणीयवनजलयुक्तां मन्दाकिनीं सम्भूय गताः।

** भाषाऽर्थः**—वे लोग खा कर, वस्त्र पहन कर, सुखसे रात बिता कर, प्रातः कालमें मार्गको प्राप्त कर शीघ्र रथ, घोड़े और हाथियों में चढ़ कर सुन्दर वन और जलसे शोभित मन्दाकिनी नदीमें पहुंचे॥४५॥

वैखानसेभ्यः श्रुतरामवार्तास्ततो विशिञ्जानपतत्रिसङ्घम्।
अभ्रंलिहाऽग्रं रविमार्गभङ्गमानंहिरेऽद्रिं प्रति चित्रकूटम्॥४८॥

** अन्वयः**—ततः वैखानसेभ्यः श्रुतरामवार्ताः विशिञ्जानपतत्रिसङ्घम् अभ्रं लिहाऽग्रं रविमार्गभङ्गं चित्रकूटम् अद्रिं प्रति आनंहिरे।

** प्रयोगप**० —श्रुतरामवार्तैः^(…)आनंहे ।

व्याख्या—ततः=मन्दाकिनीगमनाऽनन्तरं, वैखानसेभ्यः=वानप्रस्थेभ्यः, श्रुतरामवार्ताः=आकर्णितरामचित्रकूटगमनवृत्तान्ताः (सन्तः),विशिञ्जानपतत्रिसड्ङ्घम्=कूजत्पक्षिगणम्, अभ्रंलिहाग्रम्=अभ्रङ्कषशिखरं, रविमार्गभङ्गं=सूर्यपथप्रतिरोधं, चित्रकूटं=चित्रकूटनामकम्, अद्रिं प्रति=पर्वतं लक्ष्यीकृत्य, आनंहिरे=जग्मुः।

**व्युत्पत्तिः**— वैखानसेभ्यः=“आख्यातोपयोगे” इत्यपादानत्वम्। “वैखानसो

वनेवासी वानप्रस्थश्च तापसः।“इति यादवः। श्रुतरामवार्ताः=रामस्य वार्ता रामवार्ता(ष० त०) श्रुता रामवार्ता यैस्ते (बहु०)। विशिञ्जानपतत्रिसङ्घं=विशिञ्जते इति विशिञ्जानः, “शिजि अव्यक्ते शब्दे” इति धातोर्लटः शानजादेशः। पतत्रमस्ति येषां ते पतत्रिणः (इनिप्रत्ययः)। पतत्रिणां सङ्घः पतत्रिसङ्घः (ष० त०)। विशिञ्जानः पतत्रिसङ्घो यस्मिन् स विशिञ्जानपतत्रिसङ्घस्तम् (बहु०)। अभ्रंलिहाग्रम्=अभ्रं लिहन्तीति अभ्रंलिहानि, “वहाऽभ्रे लिहः” इति खशि मुमागमः। अभ्रंलिहानि अग्राणि (शिखराणि) यस्मिन् सः अभ्रंलिहाऽग्रस्तम् (बहु०)। रविमार्गभङ्गं=रवेर्मार्गः रविमार्गः (ष० त०), तस्य भङ्गो रविमार्गभङ्गः (ष० त०), सः अस्याऽस्तीति रविमार्गभङ्गः, “अर्श आदिभ्योऽच्” इत्यच्प्रत्ययः। अद्रिं प्रति=“लक्षणोत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः” इति प्रतेः कर्मप्रवचनीयसञ्ज्ञा, “कर्मप्रवचनीययुक्ते द्वितीया” इति अद्रेर्द्वितीया। आनंहिरे=“अहि गतौ” इति धातोर्लिट्। “अत आदेः” इत्यभ्यासदीर्घः, “तस्मान्नुड् द्विहलः” इति नुडागमश्च।

** भावाऽर्थः**—मन्दाकिनीगमनाऽनन्तरं वानप्रस्थेभ्यो रामस्य चित्रकूटगमनवृत्तान्तं श्रुत्वा ते कूजत्पक्षिगणसहितं गगनचुम्बि-शिखरयुक्तं सूर्यमार्गप्रतिरोधकं चित्रकूटपर्वतं लक्ष्यीकृत्य जग्मुः।

** भाषाऽर्थः**—तब वानप्रस्थोंसे रामचन्द्रकी चित्रकूट जानेकी खबर सुन कर वे लोग शब्द करनेवाले पक्षियोंसे युक्त, गगनचुम्बी शिखरोंसे शोभित तथा ऊँचाईसे सूर्यके मार्गका प्रतिरोधक चित्रकूट पर्वतको लक्ष्य करके चले॥४६॥

दृष्ट्वार्णुवानान्ककुभो बलौघान्वितत्य शार्ङ्गंकवचं पिनह्य।
तस्थौ सिसंग्रामयिषुः शितेषुः सौमित्रिरक्षिभ्रुवमुज्जिहानः॥४७॥

** अन्वयः**—सौमित्रिः ककुभः ऊर्णुवानान् बलौघान् दृष्ट्वा शार्ङ्गं वितत्य कवचं पिनह्य सिसङ्ग्रामयिषुः शितेषुः (सन्) अक्षिभ्रुवम् उज्जिहानः तस्थौ।

** प्रयोगप०**—सौमित्रिणा सिसङ्ग्रामयिषुणा शितेषुणा अक्षिभ्रुवम् उज्जिहानेन (सता) तस्थे।

** व्याख्या**—–सौमित्रिः=लक्ष्मणः, ककुभः=दिशः, ऊर्णुवानान्=व्याप्नुवतः, बलौघान्=सेनासमूहान् दृष्ट्वा=विलोक्य, शार्ङ्गं= धनुः, वितत्य=विस्तार्य (मौर्वीसहितं कृत्वा इत्यर्थः), कवचं=वर्म, पिनह्य=बद्ध्वा, सिसङ्ग्रामयिषुः=योद्धु-

मिच्छुः, शितेषुः=तीक्ष्णबाणः (सन्), अक्षिभ्रुवं=नेत्रचिल्लिकम्, उज्जिहानः=ऊर्ध्वं नयन्, तस्थौ=स्थितवान् (लक्ष्मणः शत्रुभ्रान्त्या युद्धाऽर्थं संनद्धइत्यर्थः)।

व्युत्पत्तिः—सौमित्रिः=सुमित्रायाः अपत्यं पुमान् सौमित्रिः, “बाह्वादिभ्यश्च” इति इञ्। ऊर्णुवानान्=ऊर्णुवते इति ऊर्णुवानास्तान्, “ऊर्णुञ् आच्छादने” इति धातोर्लटः शानजादेश उवङ् च। बलौघान् बलानामोघा बलौघास्तान् (ष० त०)। शार्ङ्गं=शृङ्गस्य विकारः शार्ङ्गं, तत् “अनुदात्तादेश्च” इत्यञ्। वितत्य=विपूर्वात् “तनु विस्तारे” इति धातोःसमासे क्त्वो ल्यप्, तुक् “वा ल्यपि” इत्यनुनासिकलोपः। पिनह्य=अपिपूर्वात् “णह बन्धने” इति धातोः क्त्वो ल्यपि “वष्टि भागुरिल्लोपमवाप्योरुप-सर्गयोः।” इति विकल्पादल्लोपः। सिसङ्ग्रामयिषुः=सङ्ग्रामयितुमिच्छुः, “सङ्ग्राम युद्धे” इति चुरादिण्यन्ताद्धातोः सनि उप्रत्ययः। शितेषुः=शिता इषवो यस्य सः (बहु०)। अक्षिभ्रुवम्=अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् (प्राण्यङ्गत्वात्समाहारद्वन्द्वः), “अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाऽक्षिभ्रुवदारगवोर्वष्ठीवनक्तन्दिवरात्रिन्दिवाऽहर्दिवसरजसनिःश्रेयस-पुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः” इति निपातः। “लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी।” इत्यमरः। उज्जिहानः=उज्जिहीते इति उज्जिहानः, उत्पूर्वात् “ओहाङ् गतौ” इति जुहोत्यादिस्थाद्धातोर्लटः शानजादेशः “भृञामित्” इतीत्वम्, णिजर्थगर्भो निर्देशः।

** भावाऽर्थः**—लक्ष्मणो दिग्व्यापकान् सेनासमूहान् विलोक्य धनुः सज्यं कृत्वा कवचं बद्ध्वा संग्रामाऽभिलाषी तीक्ष्णबाण-युक्तः सन् अक्षिभ्रुवम् ऊर्ध्वंनयन् स्थितवान्।

** भाषाऽर्थः**—लक्ष्मणजी दिशाओंको व्याप्त करनेवाली सेनाओंको देखकर धनुमें मौर्वीचढा कर कवच पहन कर संग्रामकी इच्छा करते हुए तीक्ष्ण बाणों को ले कर आंखें और भौहोंको ऊपर चढ़ा कर रहे॥४७॥

शुक्लोत्तरासङ्गभृतो विशस्त्रान्पादैः शनैरापततः समन्यून्।
औहिष्ट तान्वीतविरुद्धबुद्धीन्विवन्दिषून्दाशरथिः स्ववर्ग्यान्॥४८॥

** अन्वयः**—दाशरथिः शुक्लोत्तरासङ्गभृतः विशस्त्रान् पादैः शनैः आपततः समन्यून् तान् वीतविरुद्धबुद्धीन् विवन्दिषून् स्ववर्ग्यान् औहिष्ट।

** प्रयोगप०**—दाशरथिना शुक्लोत्तरासङ्गभृतः विशस्त्राः आपतन्तः समन्यवस्ते वीतविरुद्धबुद्धयो विवन्दिषवः स्ववर्ग्या औहिषत।

** व्याख्या**—दाशरथिः=रामः, शुक्लोत्तरासङ्गभृतः=शुभ्रोत्तरीयधारिणः (न तु कवचभृत इत्यर्थः), विशस्त्रान्= आयुध-रहितान् (न तु उद्यतायुधानित्यर्थः), पादैः=चरणैः, शनैः=मन्दं मन्दम्, आपततः=आगच्छतः (न तु यानैस्तूर्णमित्यर्थः), समन्यून्=सशोकान् (रुदत इत्यर्थः न तु क्ष्वेडमानान्), तान्=भरताऽनुयायिनः, वीतविरुद्धबुद्धीन्=अपगतवैराऽभिसन्धीन् विवन्दिषून्=प्रणामेच्छून्, स्वर्ग्यान्=आत्मवर्गभवान् (स्वपक्षपातिन इत्यर्थः), औहिष्ट=ऊहितवान् (अनुद्धतवेशचिह्नेन सुहृद्भावेनागतान् निश्चिकायेत्यर्थः)।

** व्युत्पत्तिः**—दाशरथिः=दशरथस्याऽपत्यं पुमान् (इञ्प्रत्ययः), शुक्लोत्तरासङ्गभृतः=शुक्लश्चाऽसौ उत्तरासङ्गः शुक्लोत्तरासङ्गः (क० धा०), “द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा।” इत्यमरः। शुक्लोत्तरासङ्गं बिभ्रतीति शुक्लोतरासङ्गभृतस्तान् (क्विप्प्रत्ययः)। विशस्त्रान्=विगतानि शस्त्राणि येभ्यस्ते विशस्त्रास्तान् (बहु०)। आपततः= आपतन्तीति आपतन्तस्तान्, आङ्पूर्वात् “पत्लृपतने” इति धातोर्लटः शत्रादेशः। समन्यून्=मन्युना सहिताः समन्यवस्तान् (बहु०)। वीतविरुद्धबुद्धीन्=वीता विरुद्धा बुद्धिर्येषां ते वीतविरुद्धबुद्धयस्तान् (बहु०)। विवन्दिषून्=वन्दितुमिच्छवो विवन्दिषवस्तान् वदिधातोः सन्नन्तादुप्रत्ययः। स्ववर्ग्यान्=स्वस्य वर्गः स्ववर्गः (ष० त०), तस्मिन्भवाः स्ववर्ग्यास्तान्, “अशब्दे यत्खावन्यतरस्याम्” इति यत्। औहिष्ट=“ऊह वितर्के” इति धातोर्लुङि सिच्याङ्वृद्धिः।

** भावाऽर्थः**—रामः शुभ्रोत्तरीयधारिणः निःशस्त्रान् पदातीन् मन्दगतीन् आगच्छतो रुदतस्तान् भरताऽनुयायिनो विरुद्ध-बुद्धिरहितान् प्रणामेच्छून् आत्मपक्षपतिनः निश्चिकाय।

** भाषाऽर्थः**—रामचन्द्रने सफेद उत्तरीय धारण करनेवाले, शस्त्रहीन, धीरे धीरे पांव पैदल आनेवाले तथा रोते हुए उन भरताऽनुयायियोंकी विरुद्ध बुद्धि से रहित, अभिवादनकी इच्छा करनेवाले तथा अपने पक्षपाती होनेकी तर्कना की॥४८॥

समूलकाषं चकषू रुदन्तो रामाऽन्तिकं बृंहितमन्युवेगाः।
आवेदयन्तः क्षितिपालमुच्चैःकारं मृतं रामवियोगशोकात्॥४९॥

** अन्वयः**—(एते) बृंहितमन्युयोगाः रुदन्तः क्षितिपालं रामवियोगशोकात् मृतम् उच्चैःकारम् आवेदयन्तः रामाऽन्तिकं समूलकाषंचकषुः।

** प्रयोगप०**—(एतैः) बृंहितंमन्युयोगैः रुदद्भिः^(…..)आवेदयद्भिः (सद्भिः) रामाऽन्तिकः चकषे।

** व्याख्या**—(एते=भरताऽनुयायिनः) बृंहितमन्युयोगाः=प्रवृद्धशोकावेगाः, रुदन्तः=रोदनं कुर्वन्तः, क्षितिपालं=राजानं (दशरथमित्यर्थः), रामवियोगशोकात्=रामविरहशुचः, मृतं=गतप्राणम्, उच्चैःकारम्=उच्चैः कृत्वा, आवेयन्तः=आवेदनं कुर्वन्तः (पुत्रशोकान्मृत इति उच्चैः कथयन्त इत्यर्थः), रामाऽन्तिकं=रामसमीपदेशं, समूलकाषं=समूलं कषित्वा (स्वशरीरलुण्ठनैः पतनैश्चेत्यर्थः), चकषुः=पिष्टवन्तः।

** व्युत्पत्तिः**—बृंहितमन्युयोगाः=मन्योर्योगो मन्युयोगः (ष० त०), बृंहितो मन्युयोगो येषां ते (बहु०)। क्षितिपालं=क्षितिं पालयतीति क्षितिपालस्तम् “कर्मण्यण्” इत्यण्। रामवियोगशोकात्=रामस्य वियोगो रामवियोगः (ष० त०) तेन (हेतुना) शोको रामवियोगशोकस्तस्मात् (तृ० त०)। उच्चैःकारम्=“अव्ययेऽयथाऽभिप्रेताख्याने कृञः क्त्वाणमुलौ” इति णमुल्। अयथाऽभिप्रेताख्यानं नाम अप्रियस्योच्चैः प्रियस्य च नीचैः कथनम्। रामाऽन्तिकं=रामस्य अन्तिको रामाऽन्तिकस्तम् (ष० त०), “उपकण्ठाऽन्तिकाऽभ्यर्णाऽभ्यग्रा अप्यभितोऽव्ययम्।” इत्यमरः। समूलकाषं=समूलं कषित्वा, “निमूलसमूलयाः कषः” इति कषेर्णमुल् । “कषादिषु यथाविध्यनुप्रयोगः” इति कषेरनुप्रयोगः।

** भावाऽर्थः**—एते प्रवृद्धशोकावेगा रोदनं कुर्वन्तः सन्तः उच्चस्वरेण “दशरथो रामवियोगशोकेन मृत” इति कथयन्तो रामसमीपदेशं स्वशरीरलुण्ठनैः पतनैश्च आमूलाच्चकषुः।

** भाषाऽर्थः**—भरतके सहचर लोगोंने शोकका आवेग बढ़नेसे रोते हुए तथा “महाराज दशरथ राम के वियोगके शोकसे मर गये” ऐसा ऊंचे स्वरसे कहते हुए रामके समीप देशको मूलके साथ चूर्ण किया॥४९॥

चिरं रुदित्वा करुणं सशब्दं गोत्राभिधायं सरितं समेत्य।
मध्येजलाद्राघवलक्ष्मणाभ्यां प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम्॥५०॥

** अन्वयः**—राघवलक्ष्मणाभ्यां चिरं करुणं सशब्दं रुदित्वा सरितं समेत्य मध्येजलात् अपाम् अन्तिके द्व्यञ्जलं जलं गोत्राऽभिधायं प्रत्तम्।

** प्रयोगप०**—राघवलक्ष्मणौ^(…)जलं प्रदत्तवन्तौ।

** व्याख्या**—राघवलक्ष्मणाभ्यां=रामसौमित्रिभ्यां, चिरं=बहुक्षणं, करुणं=दीनं, सशब्दं=सध्वानं (यथा तथा), रुदित्वा= परिदेव्य, सरितं=नदीं, समेत्य=गत्वा, मध्येजलात्=जलमध्यात् (जले स्नात्वा निर्गत्येत्यर्थः), अपां=जलानाम्, अन्तिके=निकटे (तीरे इत्यर्थः), द्व्यञ्जलम्=अञ्जलिद्वयगृहीतं, जलं=तोयं, गोत्राऽभिधायं=नामग्राहं, प्रत्तं=दत्तम्।

** व्युत्पत्तिः**—राघवलक्ष्मणाभ्यां=रघोरपत्यं पुमान् राघवः (अण्प्रत्ययः), राघवश्च लक्ष्मणश्च राघवलक्ष्मणौ, ताभ्याम् (द्वन्द्वः)। सशब्दं=शब्दैःसहितं यथा तथा (बहु० क्रि० वि०)। रुदित्वा=“रलो व्युपधाद्धलादेः संश्च” इति कित्वेविकल्पिते “रुदविदमुषग्रहिस्वपिप्रच्छः संश्च” इति कित्त्वम्। मध्येजलात्=मध्ये जलस्य मध्येजलं, तस्मात् “पारेमध्ये षष्ठ्या वा” इत्यव्ययीभावः एदन्तत्वनिपातश्च। “नाऽव्ययीभावादतोऽम्त्वपञ्चम्याः” इत्यत्र “अपञ्चम्याः” इति निषेधात् न लुगम्भावौ। “ल्यब्लोपे कर्मण्यधिकरणे च” इति ल्लब्लोपे पञ्चमी। द्व्यञ्जलं=द्वयोरञ्जल्योः समाहार इति व्यञ्जलं, “तद्धिताऽर्थोत्तर-पदसमाहारे च” इति समासः तस्य च “संख्यापूर्वोद्विगुः” इति द्विगुसंज्ञा “द्वित्रिभ्यामञ्जलेः” इति समासाऽन्त ष्टच्। “यस्येति च” इति इकारलोपः"स नपुंसकम्” इति नपुंसकत्वम्। द्व्यञ्जलपदं द्व्यञ्जलिगृहीताऽर्थवाचकम् अन्यथा जलपदेन सह सामानाधिकरण्याऽयोगात्। एवं द्वौ अञ्जली प्रमाणमस्य इति विग्रहवाक्येनाऽपि न सामानाधिकरण्यसिद्धिः “द्विगोर्लुगनपत्ये” इति प्रमाणतद्धितलुकि समासान्ताऽनुपपत्तिप्रसङ्गात् तत्र “अतद्धितलुकि” इत्यनुवृत्तेरिति। किं चात्र अञ्जलिगतमेकत्वमेव बोध्यं द्व्यञ्जलमिति तु द्वयोः कर्त्रोरञ्जल्योरपि द्वित्वादेवैतादृशः प्रयोगः इति मल्लिनाथः। गोत्राऽभिधायं=गोत्रमभिधायेति गोत्राऽभिधायं, “द्वितीयायां च” इति णमुल, “आतो युक् चिण्कृतोः” इति युक्। “गोत्रं नाम्नि कुलेऽचले।” इति यादवः। प्रतं=प्रपूर्वाद्ददातेः कर्मणि क्तः, “अच उपसर्गात्तः” इति ददस्तकारादेशः।

** भावाऽर्थः**—रामलक्ष्मणौ बहुक्षणं दीनं सशब्दं रोदनं कृत्वा नदीं गत्वा स्नात्वा निर्गत्य च तीरे एकैकमञ्जलिं नामग्रहण-पूर्वकं दत्तवन्तौ।

** भाषाऽर्थः**—राम और लक्ष्मणने बहुत समयतक दीनतासे विलाप कर नदीमें जा कर स्नान कर तटमें पिताजीका नाम ले कर एक एक अञ्जलि जलदान किया॥५०॥

अथ रामो भरतमनुनयन्नाह—

अरण्ययाने सुकरे पिता मा प्रायुङ्क्तराज्ये वत ! दुष्करे त्वाम्।
मा गाः शुवं धार ! भरं वहाऽमुमाभाषिरामेण वचः कनीयान्॥५२॥

** अन्वयः**—(हे वत्स !) पिता मा सुकरे अरण्ययाने प्रायुङ्क्त, त्वां दुष्करे राज्ये प्रायुङ्क्त, वत ! हे धीर ! शुचं मा गाः, अनुं भरं वह, रामेण कनीयान् वचः आभाषि।

** प्रयोगप**—“(हे वत्स !) पित्राऽहं प्रायुज्ये, त्वं प्रयुज्यथाः, ( त्वया) शुक् मा गायि, असौ भार उह्यताम्” रामः कनीयांसं वच आभाषिष्ट।

** व्याख्या**—(हे वत्स ! =हे तात !) पिता=जनकः (दशरथ इत्यर्थः) मा=मां (प्रगल्भमपीतिभावः), सुकरे=सुखसाध्ये, अरण्ययाने=वनवासे, प्रायुङ्क्त=नियुक्तवान् त्वाम्=भवन्तं (बालमपीतिभावः), दुष्करे=दुःखसाध्ये, राज्ये=राजकर्मणि, प्रायुङ्क्त=नियुक्तवान्, वत=हा। हे धीर=हे धैर्यसम्पन्न, शुचं=शोकं, मा गाः=मा गमः, अमुम्=इनं (पितृदत्तमित्यर्थः), भरं= राज्यभारं (दुर्वहमपीति भावः), वह=सम्पादय, रामेण=रामचन्द्रेण, कनीयान्=अनुजः (भरत इत्यर्थः), वचः=पूर्वोक्तं वचनम्, आभाषि=भाषितः।

** व्युत्पत्तिः**—सुकरे=सुखेन कर्तुं शक्यं सुकरं, तस्मिन् “ईषदुःसुषु कृच्छ्राऽकृच्छ्राऽर्थेषु खल्” इति खल्। अरण्ययाने= अरण्ये यानमरण्ययानं तस्मिन् (स० त०)। प्रयुङ्क्त=“युजिर् योगे” इति रौधादिकाद्धातोर्लङ्। “प्रोपाभ्यां युजेरयज्ञपात्रेषु” इत्यात्मनेपदम्। दुष्करे=दुःखेन कर्तुंशक्यं दुष्करं, तस्मिन् (पूर्ववत्खल्प्रत्ययः)। मा गाः=इण्धातोर्लुङि “इणो गा लुङि” इति गादेशः “न माङ्योगे” इत्यडभावः। भरं=“भृञ् भरणे’ इत्यस्माद्धातोः “ऋदोरप्” इत्यप्। वह=विधौ लोट्, पित्राज्ञाया दुर्लङ्घ्यत्वादिति भावः। कनीयान्=अतिशयेन अल्पः कनीयान् अल्पशब्दात् “द्विवचनविभज्योपपपदे तरबीयसुनौ” इतीयसुन् “युवाऽल्पयोः कनन्यतरस्याम्” इति कनादेशः। वचः=“व्याहार उक्तिर्लपितं भाषितं वचनं वचः”इत्यमरः। आभाषि=ब्रुवेरर्थग्रहणाद् द्विकर्मकत्वम् “अप्रधाने दुहादीनाम्” इत्यप्रधाने कर्मणि लुङ्।

** भावाऽर्थः**—“हे वत्स ! पिता मां सुखसाध्ये वनवासे त्वां च दुःखसाध्ये

राज्ये मियुक्तवान्, हन्त ! हे धैर्यसम्पन्न ! शोकं मा कुरु, पितृदत्तं राज्यभारं सम्पादय” इति रामो भरतमकथयत्।

** भाषाऽर्थः**—“वत्स ! पिताजीने मुझको सुखसाध्य वनवासरूप कार्यमें तथा तुमको दुखःसाध्य राज्यशासनरूप कार्यमें नियुक्त किया, खेद है ! हे धीर ! शोक मत करो, पिताजी से दिये गये इस राज्य भारका सम्पादन करो” रामचन्द्रजीने भरतको ऐसा वचन कहा॥५१॥

कृती श्रुती वृद्धमतेषु धीमांस्त्वं पैतृकं चेद्वचनं न कुर्याः।
विच्छिद्यमानेऽपि कुले परस्य पुंसः कथं स्यादिह पुत्रकाम्या॥५२॥

** अन्वयः**—(हे वत्स !) वृद्धमतेषु श्रुती कृती धीमान् त्वं पैतृकं वचनं न कुर्याश्चेत् इह परस्य अपि पुंसः कुले विच्छिद्यमाने अपि पुत्रकाम्या कथं स्यात्।

प्रयोगप०—(हे वत्स !) श्रुतिना कृतिना धीमता त्वया पैतृकं वचनं न क्रियेत चेत् पुत्रकाम्यया कथं भूयेत।

** व्याख्या**—(हे वत्स !) वृद्धमतेषु=पण्डिताचारेषु, श्रुती=आकर्णयिता, कृती=अनुष्ठाता, धीमान्=विद्वान्, त्वं=भरतः, पैतृकं=पितृसम्बन्धि (पितुरित्यर्थः), वचनम्=आदेशं, न कुर्याश्चेत्=न पालयेर्यदि, इह=अस्मिंल्लोके, परस्य अपि=अन्यस्य अपि,पुंसः=पुरुषस्य, कुले=वंशे, विच्छिद्यमाने अपि=उत्साद्यमाने अपि, पुत्रकाम्या=आत्मनः पुत्रेच्छा, कथं केन प्रकारेण, स्यात्=भवेत् (न कथञ्चिदपि भवेदित्यर्थः), पित्राज्ञापालनविमुखात्पुत्राद्वंशोच्छेद एव वरमिति न कोऽपि पुत्रकामः स्यादिति भावः।

** व्युत्पत्तिः**—वृद्धमतेषु=वृद्धानां मतानि वृद्धमतानि तेषु (ष० त०), “बुधवृद्धौ पण्डितेऽपि” इत्यमरः। श्रुतियोगे “क्तस्येन्विषयस्य कर्मण्युपसंख्यानम्” इति कर्मणि सप्तमी। श्रुती=श्रवणं श्रुतम् (भावे क्तप्रत्ययः), श्रुतमनेनेति श्रुती “इष्टादिभ्यश्च” इति कर्तरि इनिः। कृती=करणं कृतम् (भावे क्तः)। कृतमनेनेति कृती (पूर्ववदिनिप्रत्ययः)। धीमान्=प्रशस्ता धीरस्ति यस्य स धीमान् (मतुप्प्रत्ययः)। पैतृकं=पितुरिदं पैतृकं, तत् “पितुर्यच्च” इति चकारात् ठञ् “इसुसुक्तान्तात्कः” इति तस्य कादेशः। पुत्रकाम्या=पुत्रशब्दात् “काम्यच्च” इति काम्यच्प्रत्ययः, तदन्तादप्रत्ययष्टाप् च।

** भावार्थः**—हे वत्स ! विद्वन्मतश्रोताऽनुष्ठाता विद्वांस्त्वमपि पित्रादेशं न

पालयेर्यदि तदा अत्र लोके कुलोच्छेदसम्भावनायां जातायामपि कः पुरुषः पुत्रेच्छां कुर्यात्।

** भाषाऽर्थः**—हे वत्स ! विद्वानोंके मत सुननेवाले और अनुष्ठान करनेवाले तुम सरीखे विद्वान् भी पिताकी आज्ञाका पालन नहीं करोगे तो इस लोकमें कुलनाशकी सम्भावना होनेपर भी किस पुरुषको पुत्र पाने की इच्छा होगी॥५२॥

अस्माकमुक्तं बहु मन्यसे चेद्यदीशिषे त्वं न मयि स्थिते च।
जिह्रेष्यतिष्ठन्यदि तातवाक्ये, जहीहि शङ्कां, व्रज, शाधि पृथ्वीम्॥५३॥

** अन्वयः**—त्वम् अस्माकम् उक्तं बहु मन्यसे चेत्, मयि स्थिते न ईशिषे, च, तातवाक्ये अतिष्ठन् जिह्रेषि यदि, शङ्कां जहीहि, व्रज, पृथ्वीं शाधि।

** प्रयोगप०**—त्वया उक्तं मन्यते, न ईश्यते, अतिष्टता ह्रीयते, शङ्का हीयतां, व्रज्यतां, पृथ्वी शिष्यताम्।

** व्याख्या**—अस्माकम्=अस्माभिरित्यर्थः, उक्तम्=अभिहितं (वचनमित्यर्थः), बहु मन्यसे चेत्=(अयं पितृसमो ज्येष्ठ इति हेतुना) आद्रियसे यदि, मयि ज्येष्ठे, स्थिते=विद्यमाने, न ईशिषे च=न प्रभवसि अपि, तातवाक्ये पितृवचने अतिष्ठन्=अस्थितः (सन्), जिह्रेषि यदि=लज्जसे चेत्, शङ्कां=सन्देहं (इदं कर्तव्यं न वा इत्याकारकमित्यर्थः), जही हि=त्यज, व्रज=गच्छ (अयोध्यामिति शेषः), पृथ्वीं=कोशलभूमि, शाधि=पालय।

** व्युत्पत्तिः**—बहु=क्रियाविशेषणम्। ईशिषे=“ईश ऐश्वर्ये” इत्यादादिकाद्धातोर्लट्। “ईशः से” इतीडागमः, तातवाक्ये= तातस्य वाक्यं तातवाक्यं, तस्मिन् (ष० त०), “तातस्तु जनकः पिता।” इत्यमरः। अतिष्ठन्=तिष्ठतीति तिष्ठन् (शतृप्रत्ययः), न तिष्ठन् अतिष्ठन् (नञ्०)। जिह्रेषि=“ही लज्जायाम्” इति धातोर्लट्। “श्लौ” इति द्विर्भावः गुणश्च। जहीहि=“ओहाक् त्यागे” इति धातोर्लोट्, “ई हल्यघोः” इतीत्वम्। शाधि=“शासु अनुशिष्टौ” इति धातोर्लोट्, “शा हौ” इति हेर्धिः।

** भावाऽर्थः**—वत्स ! त्वं मदीयं वचनं मानयसि चेत्, मयि अग्रजे स्थिते ! स्वातन्त्र्यं नाऽवलम्बसे च एवं पित्राज्ञाया अपालने लज्जसे चेत्, तर्हि विकल्पं त्यज, अयोध्यां गच्छ कोशलभूमिं पालय च।

** भाषाऽर्थः**—भाई ! तुम मेरे वचनको मानते हो और मेरे रहते

स्वच्छन्द भी नहीं होते हो और पिताकी आज्ञा न मानने में लजाते हो तो शङ्का छोड़ो अयोध्या में जाओ और पृथ्वीका शासन करो॥५३॥

अथ भरतोऽपि रामं प्रत्याह—

वृद्धौरसां राज्यधुरां प्रवोढुं कथं कनीयानहमुत्सहेय।
मा मां प्रयुक्थाः कुलकीर्तिलोपे, प्राह स्म रामं भरतोऽपि धर्म्यम्॥५४॥

** अन्वयः**—वृद्धौरसां राज्यधुरां प्रवोढुं कनीयान् अहं कथम् उत्सहेय, कुलकीर्तिलोपे मां मा प्रयुक्थाः (इति) भरतः अपि रामं धर्म्यं (वाक्यम्) प्राह स्म।

** प्रयोगप०**—“कनीयसा मया कथमुत्सह्येत, अहं मा प्रयुक्षि” ( इति) भरतेनाऽपि रामः धर्म्यं प्रोच्यते स्म।

** व्याख्या**—वृद्धौरसां=ज्येष्ठौरसपुत्रयुतां, राज्यधुरां=राज्यभारे, प्रवोढुं=धारयितुं, कनीयान्=अनुजः, अहं भरतः, कथम् उत्सहेय=केन प्रकारेण उत्साहं कुर्यां (गर्हितमेतदित्यर्थः), कुलकीर्तिलोपे=वंशयशोनाशके (अस्मिन्कर्मणीति शेषः), मां=भरतं, मा प्रयुक्थाः=मा नियुङ्क्ष्व, (इति=इत्थम्) भरतोऽपि कैकेयीनन्दनोऽपि, रामं=रामचन्द्रं, धर्म्यं=धर्माऽनपेतं (वाक्यमिति शेषः), प्राह स्म=उक्तवान्।

** व्युत्पत्तिः**—वृद्धौरसाम्=उरसा निर्मितः औरसः (औदर्यः पुत्रः), “उरसोऽण्.च” इत्यञ्प्रत्ययश्चाद्यच्च। वृद्ध औरसो यस्याः सा वृद्धौरसा, ताम् (बहु०)। राज्यधुरां=धूर्वतीति धूः “धुवां हिंसायाम्” इति धातोः “भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः क्विप्” इति क्विप्, “राल्लोपः” इति वलोपः, ततः “र्वोरुपधाया दीर्घ इकः” इति दीर्घत्वम्। राज्यस्य धूरिति राज्यधुरा, ताम् (ष० त०), “ऋक्पूरब्धूः पथामानक्षे” इति समासान्तोऽप्रत्ययः “परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः” इति वचनाद्धुरः स्त्रीत्वाट्टाप् प्रवोढुं प्रपूर्वाद्वहधातोः सहावुपपदे “शकधृषज्ञाग्ला घटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्” इति तुमुन् “सहिवहोरोदवर्णस्य” इत्योकारः। कनीयान्=अतिशयेनाऽल्पः कनीयान् (ईयसुन्प्रत्ययः)। कथम् उत्सहेय=कथं योगे उत्पूर्वात्सहधातोः “विभाषा कथमि लिङ् च” इति गर्हायां लिङि तङि सीयुट्। “इटोऽत्” इति इटोऽत्वम्। कुलकीर्तिलोपे=कुलस्य कीर्तिः कुलकीर्तिः (ष०त ०), “सन्ततिर्गोत्रजननकुलान्यभिजनाऽन्वयौ।” इत्यमरः। कुलकीर्ति लुम्पति (उच्छिनत्ति) इति कुलकीर्तिलोपं, तस्मिन् “कर्मण्यण्” इत्यण् “उपपदमतिङ्”

इति उपपदसमासः। मा प्रयुक्थाः=प्रपूर्वाद्युजेर्माङ्योगे “माङि लुङ्” इति लुङि तङि सिचि “झलो झलि” इति सिजलोपः। धर्म्यं=धर्मादनपेतं धर्म्यं, तत् “धर्मपथ्यर्थन्यायादनपेते” इति यत्। प्राह स्म=“लट् स्मे” इति भूते लट्।

** भावाऽर्थः**—“ज्येष्ठभ्रातृयुक्तं राज्यभारं धारयितुमनुजोऽहं कथमुत्साहं कुर्यां, वंशयशोनाशकेऽस्मिन्कर्मणि मां मा नियुङ्क्ष्व” इति भरतोऽपि धर्मपूर्णं वाक्यं राममुवाच।

** भाषाऽर्थः**—“ज्येष्ठ भ्राताके रहते हुए छोटा भाई हो कर मैं राज्यभारको धारण करने के लिए कैसे उत्साह करूं, वंशकी कीर्तिको नाश करनेवाले इस कर्म में मुझे नियुक्त न कीजिये” ऐसा धर्मपूर्ण वाक्य भरतजीने भी रामचन्द्रजीको कहा

पुनश्चाह भरतः—

ऊर्जस्वलं हस्तितुरङ्गमेतदमूनि रत्नानि च राजभाञ्जि।
राजन्यकं चैतदहं क्षितीन्द्रस्त्वयि स्थिते स्यामिति शान्तमेतत्॥५५॥

** अन्वयः**—“एतत् ऊर्जस्वलं हस्तितुरङ्गम्, अमूनि राजभाञ्जिरत्नानि, एतत् राजन्यकं च, त्वयि स्थिते अहं क्षितीन्द्रः स्याम्” इति एतत् शान्तम्।

** प्रयोगप०**—“एतेन ऊर्जस्वलेन हस्तितुरङ्गेण (भूयते), अमीभिः राजभाग्भिः रत्नैः (भूयते), एतेन राजन्यकेन च (भूयते), मया क्षितीन्द्रेण भूयेत” इति एतेन शान्तेन (भूयताम्)।

** व्याख्या**—एतत्=पुरोवर्ति, ऊर्जस्वलं=बलवत्, हस्तितुरङ्गं=गजहयम्, अमूनि=अयोध्यास्थानि, राजभाञ्जि=नृपाऽर्हाणि रत्नानि=मणयः, एतत्=पुरः स्थितं, राजन्यकं च=राजसमूहश्च त्वयि भवति, स्थिते=विद्यमाने, अहम्=अनुजः, क्षितीन्द्रः=राजा, स्याम्=भवेयम्. इति=इत्थम् एतत्=वचनं, शान्तम्=निरस्तम् (अस्तु इति शेषः, तदेतदुच्चारणमपि नाऽर्हतीति भावः)।

** व्युत्पत्तिः**—ऊर्जस्वलम्=ऊर्जनमूर्क् (सम्पदादित्वात्क्विप्)। ऊक्(बलम्) अस्ति यस्मिंस्तत् ऊर्जस्वलम् “ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः” इति निपातः। हस्तितुरङ्गं=हस्तः (शुण्डादण्डः) अस्ति येषां ते हस्तिनः (इनिप्रत्ययः), ते च तुरङ्गाश्च हस्तितुरङ्गं, सेनाङ्गत्वात्समाहारद्वन्द्वः। “घोटके पीतितुरगतुरङ्गाश्वतुरङ्गमाः।” इत्यमरः। राजभाञ्जि=राजानं भजन्तीति राजभाञ्जि"भजो ण्विः” इति ण्विप्रत्ययः। राजन्यकं=राजन्यानां समूहो राज-

न्यकं “गोत्रोक्षोष्ट्रोरभ्रे”त्यादिना वुञ्प्रत्ययः। क्षितीन्द्रः=क्षितेरिन्द्रः (ष० त०)।

भावाऽर्थः—पुनश्चाह भरतः–एष बलसम्पन्नः गजहयसमूहः, अमूनि नृपयोग्यानि रत्नानि, एष राजसमूहश्च, भवति विद्यमाने अहमनुजो भूपो भवेयमित्येतत् वचनमनुचितमस्ति।

** भाषाऽर्थः**— भरतजीने फिर भी कहा :–“ये बलसम्पन्न हाथी और घोड़े हैं, ये राज्ययोग्य रत्न हैं, यह क्षत्रियोंका समूह है और मैं आपके रहते हुए राजा हो जाऊं” यह अनुचित है॥५५॥

इति निगदितवन्तं राघवस्तं जगाद—
“व्रज भरत ! गृहीत्वा पादुके त्वं मदीये।
च्युतनिखिलविशङ्कः पूज्यमानो जनौघैः
सकलभुवनराज्यं कारयाऽस्मन्मतेन॥५६॥

** अन्वयः**—राघवः इति निगदितवन्तं तं जगाद–“हे भरत ! त्वं मदीये पादुके गृहीत्वा व्रज, च्युतनिखिलविशङ्कः जनौघैः पूज्यमानः (सन्) अस्मन्मतेन सकलभुवनराज्यं कारय” (इति)।

** प्रयोगप०**—राघवेण इति निगदितवान् स जगदे–“हे भरत ! त्वया व्रज्यतां, च्युतनिखिलविशङ्केन पूज्यमानेन (सता) सकलभुवनराज्यं कार्यताम्” इति।

** व्याख्या**—राघवः=रामचन्द्रः, इति=इत्थं (पूर्वोक्तमित्यर्थः), निगदितवन्तं=उक्तवन्तं, तं=भरतं, जगाद=अब्रवीत्, हे भरत=हे भ्रातः !, त्वं, मदीये=मत्सम्बन्धिन्यौ (ममेत्यर्थः), पादुके=काष्ठोपानहौ, गृहीत्वा=आदाय, व्रज=गच्छ, च्युतनिखिल-विशङ्कः=अपनतसमस्तातङ्कः, जनौघैः=मनुष्यसमूहैः, पूज्यमानः=आद्रियमाणः (सन्), अस्मन्मतेन=अस्मदनुमत्या, सकल-भुवनराज्यं सर्वलोकाधिपत्यं कारय=अनुष्ठापय (पादुकाभ्यां प्रयोज्याभ्यामित्यर्थः)।

** व्युत्पत्तिः**—राघवः=रघोरपत्यं पुमान् (अण्प्रत्ययः)। निगदितवन्तं=न्यगददिति निगदितवान् तम् (क्तवतुप्रत्ययः)। मदीये=मम इमे मदीये, ते, अस्मच्छब्दस्य “त्यदादीनि च” इति वृद्धसञ्ज्ञायां “वृद्धाच्छ” इति छप्रत्ययस्तस्य च “आयनेयी”त्यादिना ईयादेशः “प्रत्ययोत्तरपदयोश्च” इत्यस्मदो मदादेशः। च्युतनिखिलविशङ्कः=च्युता निखिला विशङ्का यस्मात् सः (बहु०)। “विश्वमशेषं कृत्स्नं समस्तनिखिलाऽखिलानि निःशेषम्।” इत्यमरः। जनौघैः=जनानामो-

घा जनौघास्तैः (ष० त०)। पूज्यमानः=पूज्यत इति पूज्यमानः, पूजधातोः कर्मणि यगन्तात् शानच्। अस्मन्मतेन=अस्माकं मतमस्मन्मतं, तेन (ष० त०), अत्र “प्रत्ययोत्तरपदयोश्च” इति मदादेशो न बहुवचनान्तत्वात् तत्र सूत्रे तु"एकवचन” इति वर्तते। सकलभुवनराज्यं=सकलानि च तानि भुवनानि सकलभुवनानि (क० धा०), तेषां राज्यं सकलभुवनराज्यं, तत् ( ष० त०)।

** भावार्थः**—रामचन्द्र इति कथयन्तं भरतमब्रवीत्—“हे भरत ! त्वं मम पादुके गृहीत्वा गच्छ, समस्तशङ्कारहितो जनसमूहैः सत्क्रियमाणः सन् अस्मदनुमत्या पादुकाभ्यां सर्वलोकाऽऽधिपत्यं कारय” इति।

** भाषाऽर्थः**—ऐसा कहते हुए भरतको रामने कहा—“भरतजी ! तुम मेरे खडाऊँको लेकर अयोध्यामें जाओ, सम्पूर्ण शङ्काओंसे रहित हो कर जन समूहों से पूजित होते हुए हमारी अनुमति से खडाऊके द्वारा सम्पूर्ण लोकों का राज्य करो॥५६॥

इति श्रीभट्टिकाव्ये व्याख्याद्वयोपेते रामप्रवासो नाम तृतीयः सर्गः।

**
<MISSING_FIG href=”../books_images/U-IMG-1721990692Screenshot2024-07-26161413.png”/>**

अथ चतुर्थः सर्गः॥४॥

निवृत्ते भरते धीमानत्रे रामस्तपोवनम्।
प्रपेदे पूजितस्तस्मिन्दण्डकारण्यमीयिवान्॥१॥

** अन्वयः**—धीमान् रामः भरते निवृत्ते (सति) अत्रेः तपोवनं प्रपेदे। तस्मिन् पूजितः (सन्) दण्डकारण्यम् ईयिवान्॥१॥

** प्रयोगप०**—धीमता रामेण तपोवनं प्रपेदे। पूजितेन (सता) दण्डकारण्यम् ईये।

व्याख्या—धीमान्=बुद्धिमान् (सभरताः पौरा मागमन्निति बुद्धिमानित्यर्थः), रामः=रामचन्द्रः, भरते=कैकेयीनन्दने, निवृत्ते= परावृत्ते (सति), अत्रेः=अत्रिमहर्षेः, तपोवनम्=आश्रमं, प्रपेदे=प्राप्तः, तस्मिन्=तपोवने, पूजितः=पाद्याऽर्घ्यादिभिः सत्कृतः (सन्), दण्डकारण्यं=जनस्थानम्, ईयिवान्=प्राप्तः।

** व्युत्पत्तिः**—धीमान्=प्रशस्ता धीरस्ति यस्य स धीमान् (मतुप्), “धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः।” इत्यमरः । दण्डकारण्यं=दण्डकस्य (इक्ष्वाकुराजपुत्रस्य) अरण्यं दण्डकारण्यं, तत् ( ष० त०)। ईयिवान्=“उपे-

यिवाननाश्वाननूचानश्च” इत्यत्रउपसर्गस्य अविवक्षितत्वात्केवलादपि इणः क्वसुः।

** भावाऽर्थः**—सभरतानां पौराणां तत्र पुनरागमनमाशङ्क्यरामो भरतगमनानन्तरं महर्षेरत्रेराश्रमं प्राप्तः, तत्र पाद्यार्घ्यादिभिः सत्कृतः सन् जनस्थानमाससाद।

** भाषाऽर्थः**—भरतके साथ पौरोंका वहाँपर फिर आने की आशङ्का कर रामचन्द्रजी भरतके जानेपर महर्षि अत्रि के आश्रम में गये, वहाँ पाय, अर्घ्यआदिसेसत्कृत होकर दण्डकारण्यमें पहुंचे॥१॥

अटाट्यमानोऽरण्यानीं ससीतः सहलक्ष्मणः।
बलाद् बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा॥२॥

** अन्वयः**—ससीतः सहलक्ष्मणः (रामः) अरण्यानीम् अटाट्यमानः (सन्) बुभुक्षुणा भीमेन रक्षसा बलात् उत्क्षिप्य जह्रे।

** प्रयोगप०**—ससीतं सहलक्ष्मणं (रामम्) अटाट्यमानं (सन्तम्) बुभुक्षु भीमं रक्षो जहार।

** व्याख्या**—ससीतः=सीतासहितः, सहलक्ष्मणः=लक्ष्मणयुक्तः (रामः=रामचन्द्रः), अरण्यानीं=महारण्यम्, अटाट्यमानः= भृशं भ्रमन् (सन्), बुभुक्षुणा=क्षुधितेन, भीमेन=भयङ्करेण, रक्षसा=राक्षसेन (विराधाख्येन इत्यर्थः), बलात्=तरसः, उत्क्षिप्य= ऊर्ध्वं क्षिप्त्वा, जह्रेहृतः (“यद्यपि सीता हृता न रामः तथाऽपि तद्धरणस्य आत्महरणप्रायत्वात्तथा व्यपदेश” इति महोपाध्यायो मल्लिनाथः)।

** व्युत्पत्तिः**—ससीतः=सीतया सहितः ससीतः, “तेन सहेति तुल्ययोगे” इति बहुव्रीहिः, “वोपसर्जनस्य” इति सहस्य सभावः। सहलक्ष्मणः=लक्ष्मणेन सहितः सहलक्ष्मणः, पूर्ववद् बहुव्रीहिः, “वोपसर्जनस्य” इति वैकल्पिकत्वात्सभावाऽभावः। अरण्यानीं महदरण्यमरण्यानी, ताम् “इन्द्रवरुणभवशर्वरुद्रमृडहिमाऽरण्ययवयवनमातुलाचार्याणामानुक्” इति सूत्रेण “हिमाऽरण्ययोर्महत्त्वे” इति वार्तिकाऽनुसारं महत्त्वे ङीष्प्रत्यय आनुगागमश्च। “महाऽरण्यमरण्यानी” इत्यमरः। अटाट्यमानः=भृशमटन् अटाट्यमानः, यङ्विधाने “सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्य” इत्यटतेर्यङन्ताल्लटः शानजादेशः, “दीर्घोऽकितः” इत्यभ्यासदीर्घः। बुभुक्षुणा=भोक्तुमिच्छुर्बुभुक्षुस्तेन, भुजेः सन्नन्तादुप्रत्ययः। जह्रे=“हृञ् हरणे” इति धातोः कर्मणि लिट्।

** भावाऽर्थः**—रामः सीतालक्ष्मणाभ्यां सह महारण्यं भ्रमन् (सन्) भक्षणेच्छुना भयङ्करेण विराधनामकेन रक्षसा बलात् उत्क्षिप्य हृतः।

** भाषाऽर्थः**—सीता और लक्ष्मणके साथ बड़े जङ्गलमें भ्रमण करते हुए रामचन्द्रजीको बुभुक्षित विराधनामक भयङ्कर राक्षसने ऊपर उठाकर हरण किया॥२॥

अवाक्शिरसमुत्पादं कृतान्तेनाऽपि दुर्दमम्।
भङ्क्त्वा भुजौ विराधाख्यं तं तौ भुवि निचख्नतुः॥३॥

** अन्वयः**—(ततः) तौ अवाक्शिरसम् उत्पादं कृतान्तेन अपि दुर्दमं विराधाख्यं तं भुजौ भङ्क्त्वा भुवि निचख्नतुः।

** प्रयोगप**०—ताभ्यामवाक्शिरा उत्पादो दुर्दमो विराधाख्यः स भुवि निचख्ने।

** व्याख्या**—(ततः=अनन्तरम्) तौ=रामलक्ष्मणौ, अवाक्शिरसम्=अधोमस्तकम्, उत्पादम्=ऊर्ध्वचरणं, कृतान्तेन अपि= यमराजेन अपि, दुर्दमं=दुःखेन दमनीयं, विराधाख्यं=विराधनामकं, तं=राक्षसं, भुजौ=बाहू, भङ्क्त्वा=मोटयित्वा, भुवि= पृथिव्यां, निचख्नतुः=निखातवन्तौ।

** व्युत्पत्तिः**—अवाक्शिरसम्=अवाक् शिरो यस्य सः अवाक्शिरास्तम् (बहु०)। उत्पादम्=ऊर्ध्वं पादौ यस्य स उत्पादस्तम् (बहु०)। कृताऽन्तेन=कृतः अन्तः येन स कृताऽन्तस्तेन (बहु०)“कृतान्तो यमुनाभ्राता शमनो यमराड् यमः।” इत्यमरः। दुर्दमं दुःखेन दम्यते इति दुर्दमस्तम् (खल्प्रत्ययः)। विराधाऽऽख्यं=विराधः आख्या यस्य स विराधाख्यस्तम् (बहु०)। भङ्क्त्वा =“भञ्जो आमर्दने” इति धातोः क्त्वाप्रत्ययः, “जाऽन्तनशां विभाषा” इति नलोपाऽभावपक्षे रूपम्, नलोपे सति तु “भक्त्वा” इति रूपम्। निचख्नतुः=निपूर्वात् “खनु अवदारणे” इति धातोर्लिट् तसोऽतुसि “गमहने"त्यादिना उपधालोपः।

** भावाऽर्थः**—ततो रामलक्ष्मणौ अधोमस्तकम् ऊर्ध्वचरणं यमेनाऽपि दुःखेन दमनीयं विराधनामकं तं राक्षसं बाहू मोटयित्वा पृथिव्यां निखातवन्तौ।

** भाषाऽर्थः**—तब राम और लक्ष्मणने जिसके मस्तक नीचे तथा पांव ऊपर हैं ऐसे, तथा यमराजसे भी दुःखसे दमन किये जानेवाले विराधनामक उस राक्षसको, बाँहें तोड़कर धरतीपर गाड़ दिया॥३॥

आंहिषातां रघुव्याघ्रौ शरभङ्गाश्रमं ततः।
अध्यासितं श्रिया ब्राह्म्याशरण्यं शरणैषिणाम्॥४॥

** अन्वयः**—ततः=रघुव्याघ्रौ (तौ) ब्राह्म्याश्रिया अध्यासितं शरणैषिणां शरण्यं शरभङ्गाश्रमम् आंहिषाताम्।

** प्रयोगप०**—रघुव्याघ्राभ्याम् (ताभ्याम्) अध्यासितः शरण्यः शरभङ्गाश्रमः आहि।

** व्याख्या**—ततः=विराधवधाऽनन्तरं रघुव्याघ्रौ=रघुश्रेष्ठौ (तौ=रामलक्ष्मणौ), ब्राह्म्या=ब्रह्मसम्बन्धिन्या (वैदिक्या इत्यर्थः), श्रिया=लक्ष्म्या, अध्यासितम्=अधिष्ठितं, शरणैषिणां शरणार्थिनां, शरण्यं शरणे साधु, शरभङ्गाश्रमं=शरभङ्गमुन्याश्रमम्, आंहिषाताम्=गतवन्तौ।

** व्युत्पत्तिः**—रघुव्याघ्रौ=रघुषु (लक्षणया रघुवंशोत्पन्नेषु) व्याघ्रौ इव इति रघुव्याघ्रौ (स० त०), “स्युरुत्तरपदे व्याघ्रपुंगवर्षभ-कुञ्जराः। सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठाऽर्थगोचराः।” इत्यमरः। ब्राह्म्या=ब्रह्मण इयं ब्राह्मी, तया “तस्येदम्” इत्यण् “टिड्ढाणञि’”त्यादिना ङीप्। “ब्राह्मोऽजातौ” इति व्यतिरिक्ताऽर्थे निपातनाट्टिलोपः। “वेदस्तत्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः।” इत्यमरः। शरणैषिणां=शरणमिच्छन्ति (अभिलषन्ति) इति शरणैषिणस्तेषाम् इषेस्ताच्छील्ये णिनिः। शरण्यं शरणे (रक्षणे) साधुः शरण्यस्तम्, “तत्र साधुः” इति यत्प्रत्ययः। शरभङ्गाश्रमं=शरभङ्गस्य आश्रमः शरभङ्गाश्रमस्तम् (ष० त०)। आंहिषाताम्=“अहि गतौ” इति धातोर्लुङ्।

** भावाऽर्थः**—विराधवधाऽनन्तरं राघव श्रेष्ठौ रामलक्ष्मणौ वैदिक्या लक्ष्म्या अधिष्ठितं शरणार्थिनां रक्षकं शरभङ्गनामकस्य ऋषेराश्रमं गतवन्तौ।

** भाषाऽर्थः**—विराधको मारनेके अनन्तर राघवश्रेष्ठ राम और लक्ष्मण वैदिक लक्ष्मीसे अधिष्ठित, शरणकी इच्छा करने वालोंका रक्षक शरभङ्ग ऋषिके आश्रम में पहुंचे॥४॥

पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः।
शरभङ्गः प्रदिश्याऽऽरात्सुतीक्ष्णमुनिकेतनम्॥५॥

** अन्वयः**—शरभङ्गः आरात् सुतीक्ष्णमुनिकेतनं प्रदिश्य रामस्य पुरः वपुः ज्वलने जुहवाञ्चकार।

** प्रयोगप०**—शरभङ्गेण वपुः जुहवाञ्चक्रे।

** व्याख्या**—शरभङ्गः शरभङ्गाख्य ऋषिः, आरात् समीपे, सुतीक्ष्णमुनिकेतनं=

सुतीक्ष्णऋष्याश्रमं प्रदिश्य=कथयित्वा (रामस्य निवासत्वेनेति शेषः), रामस्य=रामचन्द्रस्य, पुरः=अग्रे, वपुः=शरीरं, ज्वलने= अग्नौ, जुहवाञ्चकार=हुतवान्।

** व्युत्पत्तिः**—आरात्=“आराद्दूरसमीपयोः। इत्यमरः। सुतीक्ष्णमुनिकेतनं=सुतीक्ष्णश्चाऽसौ मुनिः सुतीक्ष्णमुनिः (क० धा०) तस्य केतनं सुतीक्ष्णमुनिकेतनं, तत् (ष० त०)। जुहवाञ्चकार=“हु दानाऽदनयोः” इति धातोः“भीह्रीभृहुवां श्लुवच्च” इति विकल्पादाम्प्रत्ययः श्लुभावे द्विर्वचनं च।

** भावाऽर्थः**—शरभङ्गः “समीपे भवन्निवासाऽर्थं सुतीक्ष्णऋष्याश्रभोऽस्ती”ति कथयित्वा रामस्य अग्रतः स्वशरीरमग्नौ हुतवान्।

** भाषाऽर्थः**—शरभङ्गजीने “समीप ही आपके निवासके लिए सुतीक्ष्ण ऋषिका आश्रम है” ऐसा कह कर रामके सामने ही अपने शरीरको अग्निमें हवन किया॥५॥

हवनकाले राममब्रवीच्च शरभङ्गः—

“यूयं समैष्यथेत्यस्मिन्नासिष्महि वयं वने।
दृष्टाः स्थ स्वस्ति वो यामः स्वपुण्यविजितां गतिम्॥६॥

** अन्वयः**—“(हे राघव !) यूयं समैष्यथ इति वयम् अस्मिन् वने आसिष्महि, यूयं दृष्टाः स्थ, वः स्वस्ति, स्वपुण्यविजितां गतिं यामः”।

** प्रयोगप०**—(हे राघव!) “युष्माभिः समैष्यते” इति अस्माभिः आसि, युष्माभिर्दृष्टैर्भूयते, (अस्माभिः) स्वपुण्यविजिता गतिर्यायते।

** व्याख्या**—(हे राघव=हे रामचन्द्र !) यूयं=भवन्तः (त्रित्वाद्बहुवचनम्), समैष्यथ=समागमिष्यथ, इति हेतोः, वयम्, अस्मिन्=अत्र, वने=अरण्ये, आसिष्महि=स्थिताः, यूयं=भवन्तः, दृष्टाः=अवलोकिताः, स्थ=भवथ (अस्माभिरिति शेषः), वः= युष्मभ्यं, स्वस्ति=कल्याणम्, स्वपुण्यविजिताम्=आत्मधर्माऽजतां, गतिं=लोकं, यामः=यास्यामः (इति उक्त्वा शरभङ्गः स्वशरीरमग्नौ जुहाव)।

** व्युत्पत्तिः**—समैष्यथ=समाङ्पूर्वात् “इण् गतौ” इति धातोर्लट्। “एत्येधत्यूठ्सु” इति वृद्धिः। वयम्=“अस्मदो द्वयोश्च” इति चकारादेकत्वे बहुवचनम्। आसिष्महि=“आस उपवेशने” इति धातोर्लुङि महिङि सिचीट्। स्थ=“अस भुवि” इति धातोर्लटि थे “श्नसोरल्लोपः” इत्यकारलोपः। वः स्वस्ति=चतुर्थीबहुवचनान्तस्य युष्मच्छब्दस्य “बहुवचनस्य वस्नसौ” इति वसादेशः, स्वस्तिपदेन

योगे “नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च” इति चतुर्थी। स्वपुण्यविजितां=स्वस्य पुण्यं स्वपुण्यं (ष० त०) “स्याद्धर्ममस्त्रियां पुण्यश्रेयसां सुकृतं वृषः।” इत्यमरः। स्वपुण्येन विजिता स्वपुण्यविजिता, ताम् (तृ० त०)। यासः= “वर्तमान-सामीप्ये वर्तमानवद्वा” इति वर्तमानसामीप्ये लट्।

** भावाऽर्थः**—“हे राघव ! युष्माकमत्राऽऽगमनं भविष्यतीति हेतुनाऽत्र उपविष्टोऽस्मि। साम्प्रतं युष्माकं दर्शनं जातं, वः स्वस्ति, आत्मधर्मोपार्जितं लोकं गच्छामी”ति उक्त्वा शरभङ्गः स्वशरीरमग्नौ जुहाव।

** भाषाऽर्थः**—“हे राम ! आपलोग यहां आएंगे इस कारणसे मैं इस वनमें रहा था, मैंने आपलोगों का दर्शन कर लिया । आपलोगोंका कल्याण हो। अब मैं अपने पुण्यसे अर्जित लोकमें जाता हूं।” ऐसा कह कर शरभङ्ग ऋषिने अपने शरीरको अग्निमें हवन किया॥६॥

तस्मिन्कुशानुसाद्भूते सुतीक्ष्णमुनिसन्निधौ।
उवास पर्णशालायां भ्रमन्ननिशमाश्रमान्॥७॥

** अन्वयः**—तस्मिन् कृशानुसाद्भूते (सति) अनिशम् आश्रमान् भ्रमन् सुतीक्ष्णमुनिसन्निधौ पर्णशालायाम् उवास।

** प्रयोगप०**—भ्रमता (रामेण) पर्णशालायामूषे।

** व्याख्या**—तस्मिन्=शरभङ्गे, कृशानुसाद्भूते=कार्त्स्न्येन अग्नीभूते (भस्मीभूते सतीत्यर्थः), अनिशं=निरन्तरम्, आश्रमान्= मुनिवासस्थानानि, भ्रमन्=पर्यटन् (संरक्षणाऽर्थमिति शेषः), सुतीक्ष्णमुनिसन्निधौ=सुतीक्ष्णऋषिसमीपे, पर्णशालायाम्= उटजे, उवास=उषितवान् (राम इति शेषः)।

** व्युत्पत्तिः**—कृशानुसाद्भूते=“विभाषा साति कार्त्स्न्ये” इति सातिप्रत्ययः। भ्रमन्=भ्रमतीति भ्रमन्, “भ्रमु अनवस्थाने” इति धातोर्लटः शत्रादेशः। सुतीक्ष्णमुनिसन्निधौ=सुतीक्ष्णश्चाऽसौ मुनिः सुतीक्ष्णमुनिः (क० धा०) तस्य सन्निधिः सुतीक्ष्णमुनि-सन्निधिस्तस्मिन् (ष० त०)। पर्णशालायां=पर्णनिर्मिता शाला पर्णशाला, तस्यां “शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योप-सङ्ख्यानम्” इति मध्यमपदलोपिसमासः। “पर्णशालोटजोऽस्त्रियाम्।” इत्यमरः। उवास=“वस निवासे” इति धातोर्लिटि “लिट्यभ्यासस्योभयेषाम्” इत्यभ्यासस्य सम्प्रसारणम्।

** भावार्थः**—शरभङ्गे भस्मीभूते सति रामोनिरन्तरं मुनिवासस्थानानि भ्रमन् सुतीक्ष्णऋषिसमीपे पर्णशालायां न्यवसत्।

भाषाऽर्थः—शरभङ्ग ऋषिके भस्मीभूत होनेपर रामचन्द्रजीने निरन्तर आश्रमों में भ्रमण कर सुतीक्ष्ण ऋषिके समीप पर्णशालामें निवास किया॥७॥

वनेषु वासतेयेषु निवसन्पर्णसंस्तरः।
शय्योत्थायं मृगान्विध्यन्नातिथेयो विचक्रमे॥८॥

** अन्वयः**—वासतेयेषु वनेषु निवसन् पर्णसंस्तरः शय्योत्थायं मृगान् विध्यन् आतिथेयः (सन्) विचक्रमे।

** प्रयोगप**०—निवसता पर्णसंस्तरेण विध्यता आतिथेयेन (रामेण) विचक्रमे।

** व्याख्या**—वासतेयेषु=वासयोग्येषु, वनेषु=अरण्येषु, निवसन्=निवासं कुर्वन्, पर्णसंस्तरः=पलाशशय्यः, शय्योत्थायं शय्यायाः सत्वरमुत्थाय, मृगान्=हरिणान्, विध्यन्=प्रहरन् (राम इति शेषः), आतिथेयः=अतिथिसत्कारकुशलः सन् (न तु कुक्षिम्भरिः सन्नित्यर्थः), विचक्रमे=विचचार।

** व्युत्पत्तिः**—वासतेयेषु=वसतौ साधूनि वासतेयानि तेषु “पथ्यतिथिवसतिस्वपतेर्ढञ्” इति ढञ्। पर्णसंस्तरः=संस्तीर्यते इति संस्तरः (तल्पम्), सम्पूर्वात् “स्तॄञ् आच्छादने” इति धातोः “ऋृदोरप्” इत्यप्। पर्णानि संस्तरो यस्य सः (बहु०), “पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्।” इत्यमरः। “पर्णसंस्तरे” इति मल्लिनाथसम्मतः पाठस्तन्मते पर्णानां संस्तर इति पर्णसंस्तरस्तस्मिन् (ष० त०)। शय्योत्थायं=शेरते अस्यामिति शय्या, “संज्ञायां समजनिषदनि पतमनविदषुञ्शीङ्भूषिणः” इति क्यप्, शय्यायाः सत्वरमुत्थाय इति शय्योत्थायम्, उत्पूर्वात्तिष्ठतेः “अपादाने परीप्सायाम्” इति णमुल् यक् च। विध्यन्= “व्यध ताडने” इति धातोर्लटः शतरि “ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां क्ङिति च” इति सम्प्रसारणम्। आतिथेयः=अतिथिषु साधुः आतिथेयः, पूर्वसूत्रेण ढञ् “आयनेयी"त्यादिना एयादेशः। विचक्रमे=“वेः पाद विहरणे” इत्यात्मनेपदम्।

** भावाऽर्थः**—रामो निवासयोग्येषु वनेषु निवासं कृत्वा रात्रौ पर्णशय्यायां सुप्त्वाप्रातः शय्यायाः सत्वरमुत्थाय अतिथि-सत्कारार्थं मृगान् प्रहरन् विचचार।

** भाषाऽर्थः**—रामचन्द्रजीने निवासयोग्य बनोंमें रह कर, रातमें पर्णशय्यामें

सो कर, प्रातःकाल शय्यासे जल्दी उठ कर अतिथिसत्कारके लिए मृगोंको बाणसे प्रहार करते हुए विचरण किया॥८॥

ऋग्यजुषमधीयानान्सामन्यांश्च समर्चयन्।
बुभुजे देवसात्कृत्वा शूल्यमुख्यं च होमवान्॥९॥

** अन्वयः**—(सः) शूल्यम् उख्यं च देवसात्कृत्वा होमवान् (सन्) ऋग्यजुषम् अधीयानान् सामान्यांश्च समर्चयन् बुभुजे।
** प्रयोगप०**—(तेन) होमवता समर्चयता बुभुजे।

** व्याख्या**—(सः=रामः) शूल्यं=शूलसंस्कृतं मांसम्, उख्यं च=स्थालीसंस्कृतं मांसं च, देवसात्कृत्वा=देवाऽधीनं विधाय (देवेभ्यो दत्वेत्यर्थः), होमवान्=नित्यहोमी (सन्), (“जपतां जुह्वतां चैव विनिपातो न विद्यते।” इति स्मरणादिति भावः)। ऋग्यजुषम्=ऋग्यजुर्वेदी, अधीयानान्=पठतः, सामन्यांश्च=सामवेदनिपुणांश्च, समर्चयन्=मांसदानेन सम्भावयन् (सन्), बुभुजे भुक्तवान् (देवब्राह्मणाहुतशिष्टं बुभुजे नात्मार्थम् “केवलाऽघो भवति केवलाऽदी” इति वचनात्” न पचेदन्नमात्मनः” इति निषेधाच्चेति भावः)।

** व्युत्पत्तिः**—शूल्यं=शूले संस्कृतं शूल्यं, तत् “शूलोखाद्यत्” इति यत्। उख्यम्=उखायां संस्कृतं मांसम् उख्यं, तत् (पूर्वसूत्रेणैव यत्)। देवसात्कृत्वा=देवाऽधीनं देयं कृत्वा देवसात्कृत्वा, “देये त्रा च” इति चकारात्सातिप्रत्ययः। होमवान्= होमोऽस्ति यस्य सः (मतुप्प्रत्ययः)। ऋग्यजुषम्=ऋचश्च यजूंषि च ऋग्यजुषं, तत् (द्वन्द्वः) “अचतुरे”त्यादिना निपातः। “अर्थव्यवस्थितपादा ऋचः” “अच्छन्दांस्यगीतानि यजूंषि” इति ऋग्यजुषलक्षणे। अधीयानान्=अधीयते इति अधीयानास्तान्, अधिपूर्वस्य “इङ् अध्ययने” इति धातोर्लटि शानचि रूपम्। सामन्यान्=सामसु साधवः सामन्यास्तान् “तत्र साधुः” इति यत् “ये चाभावकर्मणोः” इति प्रकृतिभावः। “अर्थव्यवस्थितपादाः सगीतयः सामानि” इति सामलक्षणम्। समर्चयन्=समर्चयतीति समर्चयन् (शतृप्रत्ययः)। बुभुजे=“भुजपालनाऽभ्यवहारयोः” इति धातोः “भुजोऽनवने” इत्यात्मनेपदम्।

** भावार्थः**—रामः शूलसंस्कृतमुखासंस्कृतं च मांसं देवेभ्यो दत्वा नित्यहोमी सन् ऋष्यजुःसामवेदाऽध्येतॄन् मांसदानेन सम्भाव्य अवशिष्टांऽशं भुक्तवान्।

** भाषाऽर्थः**—रामचन्द्रजीने शूलमें और उखा (बटलोही) में संस्कृत मांस

देवताओंको अर्पण कर होम करके ऋग्वेद, यजुर्वेद और सामवेदके पाठ करनेवाले ब्राह्मणों को मांसदानसे सत्कार कर अवशिष्ट भाग स्वयम् खाया॥९॥

युग्मम्—

वसानस्तन्त्रकनिभे सर्वाङ्गीणे तरुत्वचौ।
काण्डीरः खाड्गिकः शार्ङ्गीरक्षन्विप्रांस्तनुत्रवान्॥१०॥

हित्वाऽऽशितङ्गवीनानि फलैर्येष्वाशितम्भवम्।
तेष्वसो दन्दशूकारिर्वनेष्वानभ्र निर्भयः॥११॥

** अन्वयः**—तन्त्रकनिभे सर्वाङ्गीणे तरुत्वचौ वसानः काण्डीरः खाङ्गिकः शार्ङ्गीतनुत्रवान् विप्रान् रक्षन्। दन्दशूकाऽरिः असौ आशितङ्गवीनानि हित्वा येषु फलैः आशितम्भवं, तेषु निर्भयः (सन्) आनत्र।

** प्रयोगप**०—तरुत्वचौ वसानेन काण्डीरेण खाङ्गिकेन शार्ङ्गिणा तनुत्रवता विप्रान् रक्षता दन्दशूकाऽरिणा अमुना निर्भयेण (सता) आनभ्रे।

** व्याख्या**—तन्त्रकनिभे=नवीनवस्त्रसदृशे, सर्वाऽङ्गीणे=सकलाऽवयव्यापिके, तरुत्वचौ=वल्कले, वसानः=आच्छादयन्, काण्डीरः=बाणवान्, खाङ्गिकः=खड्गयुक्तः, शार्ङ्गी=धन्वी, तनुत्रवान्=कवचधारी, विप्रान्=ब्राह्मणान् रक्षन्=पालयन्। दन्दशूकाऽरिः=हिंस्रशत्रुः, असौ=रामः, आशितङ्गवीनानि=गोभक्षितकुशपलालादिकानि, हित्वा=त्यक्त्वा, येषु वनेषु, फलैः= सस्यैः, आशितम्भवं=तृप्तिः (भवतीति शेषः), तेषु=वनेषु, निर्भयः=भयरहितः (सन्), आनभ्र=बभ्राम (रिक्तानि वनानि हित्वा पूर्णेषु विजहारेत्यर्थः)।

** व्युत्पत्तिः**—तन्त्रकनिभे=तन्त्रात् (तन्तुवायशलाकायाः) अचिराऽपहृतः पटः तन्त्रकः (नवीन इत्यर्थः), “तन्त्रादचिरापहृते” इति कन्प्रत्ययः, “तन्त्रः स्वराष्ट्रचिन्तायां तन्तुवायपरिच्छदे।” इति यादवः। तन्त्रकाभ्यां सदृश्यौ तन्त्रकनिभे ते (तृ० त०), सर्वाङ्गीणे=सर्वाऽङ्गं व्याप्नुत इति सर्वाङ्गीणे, ते “तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति” इति खप्रत्ययः। तरुत्वचौ=तरोस्त्वचौ इति तरुत्वचौ, ते (ष० त०)। वसानः=वस्ते इति वसानः, “वस आच्छादने” इति धातोः शानच्। काण्डीरः=काण्डः(बाणः) अस्यास्तीति काण्डीरः, “काण्डाण्डादीरन्नीरचौ” इति ईरन्प्रत्ययः, “काण्डोऽस्त्री दण्डबाणयोः।” इति कोषः। खाङ्गिकः=

खड्गः प्रहणमस्य खाङ्गिकः “प्रहरणम्” इति ठक्प्रत्ययः, “किति च” इत्यादिवृद्धिश्च। “खड्गिक” इति पाठे ‘अत इनिठनौ” इति ठन्प्रत्ययः । शार्ङ्गी=शार्ङ्गमस्याऽस्तीति (इनिः)। तनूत्रवान्=तनुं त्रायत इति तनुत्रम्, तनूपपदात् “त्रैङ् पालने” इति धातोः “आतोऽनुपसर्गे कः” इति कः। तनुत्रमस्याऽस्तीति तनुत्रवान् (मतुप्)।

दन्दशूकाऽरिः=गर्हितं दशन्तीति दन्दशूकाः, “लुपसदचरजपजभदहदशगृृभ्यो भावगर्हायाम्” इति यङ्” जपजभदहन-शभञ्जपशां च” इति नुकि “यजजपदशां यङः” इत्यूकः। दन्दशूकानामरिः (ष० त०)। आशितङ्गवीनानि=आशिताः, (आशितवत्यः) एषु इति आशितङ्गवीनानि” अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाऽध्युत्तरपदात्खः” इति स्वाऽर्थे खप्रत्ययः, निपातनात्पूर्वपदस्य मुमागमः। फलैः=“वृक्षादीनां फलं सस्यम्” इत्यमरः। आशितम्भवम्=आशितानां (आशितवताम्) भवनमाशितम्भवम्, “आशिते भुवः करणभावयोः” इति खच्, मुमागमः। निर्भयः=निर्गतं भयं यस्मात्सः (बहु), आनभ्र=“अभ्र गतौ” इति धातोर्लिटि “अत आदेः” इति दीर्घे “तस्मान्नुद्विहलः” इति नुट्।

** भावाऽर्थः**—नूतनवस्त्रसदृशे सर्वाङ्गव्यापके वल्कले (उत्तरीयाऽधरीयरूपे) आच्छादयन् धनुर्बाणखड्गधारी परिहित-कवचो ब्राह्मणान् रक्षन्। हिंस्रजन्तुनाशको रामचन्द्रः निष्फलवनानि त्यक्त्वा सफलवनेषु निर्भीकः सन् बभ्राम।

** भाषाऽर्थः**—नवीनवस्त्रसदृश, सर्वाङ्गको व्याप्त करनेवाले वल्कलोंको पहनते हुए धनु, बाण और खड्गको लेकर कवच धारण कर ब्राह्मणोंकी रक्षा करते हुए हिंस्र जन्तुओं का नाश करनेवाले रामचन्द्रजी जिन वनों में गायें तृप्त होती हैं उनको छोड़ कर जहांपर फलोंसे तृप्ति होती है वहां निर्भय हो कर घूमने लगे॥११॥

व्रातीनव्यालदीप्राऽस्त्रः सुत्वनः परिपूजयन्।
पर्षद्वलान्महाब्रह्मैराट नैकटिकाश्रमान्॥१२॥

** अन्वयः**—व्रातीनव्यालदीप्राऽस्त्रः (सन्) सुत्वनः परिपूजयन् महाब्रह्मैःपर्षद्वलात् नैकटिकाश्रमान् आट।

** प्रयोगप०**—(तेन) व्रातीनव्यालदीप्रास्त्रेण (सता) परिपूजयता पर्षद्वला नैकटिकाऽश्रमा आटिरे।

** व्याख्या**—व्रातीनव्यालदीप्राऽस्त्रः=स्वशरीरायासजीविनां हिंस्रेषु तीक्ष्णाऽस्त्रः(सन्), सुत्वनः=सोमयाजिनः, परिपूजयन्= सत्कुर्वन्, महाब्रह्मैः=ब्राह्मणोत्तरः(सह), पर्षद्वलान्=उत्तमब्राह्मणसभाव्रतः, नैकटिकाश्रमान्=समीपवर्तिमुनिवासस्थानानि, आट=गतवान् (तेषु विचचारेत्यर्थः)।

** व्युत्पत्तिः**—व्रातीनव्यालदीप्राऽस्त्रः=नानाजातीया अनियतवृत्तयः शरीरायासजीविनो व्राताः, तेषामिदम् (कर्म) व्रातं “तस्येदम्” इत्यण्। व्रातेन जीवन्तीति व्रातीनाः, “व्रातेन जीवती”ति खञ्प्रत्ययः। व्रातीनानां व्यालाः (हिंस्राः) व्रतीनव्यालाः (ष० त०)। दीप्राणि अस्त्राणि यस्य स दीपाऽस्त्रः (बहु०)। व्रातीनव्यालेषु दीप्रास्त्रः(स० त०)। सुत्वनः=सोमं सुन्वन्तीति सुत्वानस्तान् सुत्वनः, “षुञ् अभिषवे” इति धातोः “सुयजोङ्र्वनिप्” इति ङ्वनिप्, “ह्रस्वस्य पिति कृति तुक्” इति तुगागमः “न संयोगाद्वमन्तात्” इत्यल्लोपो न। महाब्रह्मैः=महान्तश्च ते ब्रह्माणः महाब्रह्मास्तैः, “सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः” इति समासः, “कुमहद्भयामन्यतरस्याम्” इति समासान्तष्टच्। “वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः।” इत्यमरः। पर्षद्वलान्= पर्षत् अस्ति येषां ते पर्षद्वलास्तान् “रजःकृष्यासुतिपरिषदो वलच्” इत्यत्र परिषत्पदेन तदर्थबोधकस्य पर्षपत्पदस्याऽपि ग्रहणात् वलच् प्रत्ययः। “परिषद्वलान्" इति मल्लिनाथसंमतः पाठस्तत्र परितः सीदन्ति यस्यां सा परिषत् संपदादित्वात् क्विप् अन्यत् पूर्ववत्। परिषल्लक्षणं यथा—“एकविंशतिसंख्याकैर्मीमांसान्यायपारगैः। वेदाऽङ्गकुशलैश्चैव परिषत्त्वं प्रकल्पयेत्।” इति स्मृतिः। नैकटिकाश्रमान्=निकटे वसन्तीति नैकटिकाः “निकटे वसती”ति ठक्प्रत्ययः। नैकटिकानामाश्रमा नैकटिकाश्रमास्तान् (ष०त०), यद्वा नैकटिकाश्च ते आश्रमा नैकटिकाश्रमास्तान् (क० धा०)। आट=अटेर्लिट् “अत आदेः” इत्यभ्यासस्य दीर्घत्वम्।

** भावाऽर्थः**—स्वशरीरायासजीविनां हिंस्रेषु जन्तुषु वधार्थं ज्वलदस्त्रधारी रामः सोमयज्ञाऽनुष्ठानवतां सत्कारं कुर्वन् ब्राह्मणोत्तमैः सह उत्तमब्राह्मणसभायुक्तान् समीपवर्त्याश्रमानगमत्।

** भाषाऽर्थः**—अपने शरीरको आयास दे कर जीनेवालोंको मारनेवाले जन्तुओं पर अस्त्रप्रयोग करनेवाले रामचन्द्रजी, सोमयाग करनेवालोंका सत्कार कर उत्तम ब्राह्मणोंके साथ वेदज्ञ ब्राह्मणों की सभासे युक्त निकटवर्ती आश्रममें गये॥१२॥

युग्मम् —

परेद्यव्यद्य पूर्वेद्युरन्येद्युश्चापि चिन्तयन्।
वृद्धिक्षयौमुनीन्द्राणां प्रियम्भावुकतामगात्॥१३॥

आतिष्ठद्गु जपन्सन्ध्यां प्रक्रान्तामायतीगवम्।
प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन् रविम्॥१४॥

** अन्वयः**—(रामः) पतत्रिभ्यः प्रातस्तरां प्रबुद्धः (सन्) आयतीगवं प्रक्रान्तां सन्ध्याम् आतिष्ठद्गु जपन् रविं प्रणमन् परेद्यवि अद्य पूर्वेद्युः अन्येद्युश्चापि मुनीन्द्राणां वृद्धिक्षयौ चिन्तयन् प्रियम्भावुकताम् अगात्।

** प्रयोगप०**—प्रबुद्धेन जपता रविं प्रणमता वृद्धिक्षयौचिन्तयता (तेन) प्रियम्भावुकता अगायि।

** व्याख्या**—(रामः=रामचन्द्रः) पतत्रिभ्यः=पक्षिभ्यः, प्रातस्तराम्=अतिप्रभाते, प्रबुद्धः=उत्थितः (सन्), आयतीगवं=गवां गोचराद् गोष्ठागमनकाले, प्रक्रान्तां=प्रवृत्तां, सन्ध्यां=सन्ध्याकालम् (सन्ध्याकाले इत्यर्थः), आतिष्ठद्गु=गोदोहनकालपर्यन्तं, जपन्=गायत्रीजपं कुर्वन्, रविं=सूर्यं, प्रणमन्=प्रणामं कुर्वन्, (अपररात्रे आयतीगवकालमारभ्य तिष्ठद्गुकालपर्यन्तं तिष्ठन्नेव सावित्रीं जपन् उदितं सूर्यं प्रणमन्नित्यर्थः), परेद्यवि=परस्मिन् अहनि (आगामिनीत्यर्थः), अय=अस्मिन् अहनि, पूर्वेद्युः= पूर्वस्मिन् अहनि, अन्येद्युश्चाऽपि=अन्यस्मिन् अहनि अपि (सर्वदेत्यर्थः), मुनीन्द्राणाम्=ऋषीणां वृद्धिक्षयौ=वृद्धिहानी, चिन्तयन्=ध्यायन्, प्रियम्भावुकताम्=ऋषीणां प्रियीभूतत्वम्, अगात्=प्राप्तः (सर्वदा ऋषीणां योगक्षेमाऽनुसन्धानात्तेषामहर-हरतिप्रियोऽभूदित्यर्थः)।

** व्युत्पत्तिः**—पतत्रिभ्यः=पतत्रमस्ति येषां ते पतत्रिणः, तेभ्यः (इनिः), “पञ्चमी विभक्ते" इति पञ्चमी। “पतत्रिपत्त्रिपतग-पतत्पत्ररथाऽण्डजाः।” इत्यमरः। प्रातस्तराम्=अतिशयेन प्रातः प्रातस्तरां, प्रकर्षविवक्षायां तरप्, तदन्तात्“किमेत्तिङ-व्ययघादाम्वद्रव्यप्रकर्षे" इत्याम्। आयतीगवम्=आयान्तीति आयत्यः, आङ्पूर्वादिणो लटः शत्रादेशे “इणो यण्” इति यणि “उगितश्च” इति ङीप्। आयत्यो (दोहाय आगच्छन्त्यः) गावो यस्मिन्काले आयतीगवम्, तस्मिन् “तिष्ठद्गुप्रभृतीनि च” इत्यव्ययीभावत्वेन निपातः। “नाऽव्ययीभावादतोऽम्त्वपञ्चम्याः” इति सप्तम्या अम्भावः। सन्ध्याम्=अहोरात्रस्य सन्धौ भवा (वेला)

सन्ध्या तां “तत्र भवः” इति यत्प्रत्ययः, यद्वा सम्यग् ध्यायन्ति यस्याम् (वेलायाम्) इति सन्ध्या, ताम् “आतश्चोपसर्गे” इत्यङ्। आतिष्ठद्गु=तिष्ठन्ति गावो यस्मिन् (काले) दोहाय इति तिष्ठद्गु (दोहनकालः) “तिष्ठद्गुप्रभृतीनि च” इत्यव्ययीभावनिपातनात् साधुत्वम्। तिष्ठद्गुपर्यन्तम् आतिष्ठद्गु “ङ् मर्यादाऽभिविध्योः” इति अव्ययीभावः। जपन्=जपतीति जपन् (शतृप्रत्ययः)। “जपन्नासीत्सावित्रीं प्रत्यगातारकोदयात्। सन्ध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात्॥” इति स्मरणादिति भावः। परेद्यवि, अद्य, पूर्वेद्युः, अन्येद्युः=“सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेयुरितरेद्युरपरेद्युरुभयेद्युरुत्तरेयुः” इति निपातनात्सर्वत्र साधुत्वं “तद्धितश्चाऽसर्वविभक्तिः" इत्यव्ययत्वम्। मुनीन्द्राणां मुनिषु इन्द्रा मुनीन्द्रास्तेषाम् (स० त०)। वृद्धिक्षयौ=वृद्धिश्चक्षयश्चवृद्धिक्षयौ, तौ (द्वन्द्वः)। प्रियम्भावुकताम्=अप्रियः प्रियो भवतीति प्रियम्भावुकः, “आढ्यसुभगे”त्याद्यनुवृत्तौ “कर्तरि भुवः खिष्णुच्खुकञौ” इति कर्तरि खुकञ्प्रत्ययः प्रियम्भावुकस्य भावः प्रियम्भावुकता, ताम् (तल्)।

** भावाऽर्थः—**रामः पक्षिभ्योऽपि अतिप्रभाते प्रबुध्य अपररात्रे गवां दोहार्थं गोष्ठागमनकालमारभ्य दोहनकालपर्यन्तं सन्ध्यायां गायत्रीजपं कुर्वन् सूर्यं प्रणमन् आगामिनि, विद्यमाने, पूर्वस्मिन् अन्यस्मिंश्च दिवसे ऋषीणां योगक्षेमचिन्तनं कुर्वन् ऋषीणां प्रियो बभूव।

** भाषाऽर्थः—**रामचन्द्रजी पक्षियोंसे भी पहले उठ कर गायोंका गोचरभूमिसे दोहनके लिए गोष्ठमें आनेके समयसे दोहनकालपर्यन्त सन्ध्यामें गायत्रीजप कर सूर्योपस्थान करते हुए आगामी दिनमें, आज दिनमें, बीते हुए दिनमें तथा और दिनमें भी ऋषियोंकी लाभहानिकी चिन्ता कर उनके प्यारे हो गये॥१३॥१४॥

ददृशे पर्णशालायां राक्षस्याऽभीकयाऽथ सः।
भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ॥१५॥

** अन्वयः—**अथ स पर्णशालायाम् अभीकया राक्षस्या ददृशे, असकौ भार्योढं तम् अवज्ञाय सौमित्रये तस्थे।

**प्रयोगपः०—**तमभीका राक्षसी ददर्श, असुकया … तस्थे।

** व्याख्या—**अथ=अनन्तरं, सः=रामचन्द्रः, पर्णशालायाम्=उटजे, अभी-

कया=कामुक्या, राक्षस्या=रक्षः स्त्रिया (रावणानुजया शूर्पणखया), ददृशे=दृष्टः, असकौ=कुत्सितेयं, भार्योढम्=ऊढभार्यं (कृतोद्वाहम्), तं=रामचन्द्रम्, अवज्ञाय=तिरस्कृत्य, सौमित्रये=लक्ष्मणाय, तस्थे=स्वाऽभिप्रायं (मैथुनाऽभिलाषम्) प्रकाश्य स्थिता।

** व्युत्पत्तिः**—अभीकया=“अनुकाऽभिकाऽभीकः कमिता” इति निपातः, “कम्रः कामयिताऽभीकः कमनः कामनोऽभिकः।” इत्यमरः। ददृशे=कर्मणि लिट्। असकौ=कुत्सिता असौ असकौ, “अव्ययसर्वनाम्नामकच्प्राक् टेः" इत्यकच्। भार्योढं=भार्या ऊढा येन सः भार्योढस्तम् (बहु०), “वाऽऽहिताग्न्यादिषु” इति निष्ठायाः विकल्पेन परनिपातः। सौमित्रये=“तस्थे” इत्यनेन योगे " श्लाघहुङ्स्थाशपां ज्ञीप्स्यमानः” इति सम्प्रदानत्वाच्चतुर्थी। तस्थे=तिष्ठतेः (स्थाधातोः) कर्मकर्तरि लिट् “प्रकाशनस्थेयाख्ययोश्च” इति प्रकाशन आत्मनेपदम्।

** भावाऽर्थः**—अनन्तरं कामुकी रावणाऽनुजा शूर्पणखा नाम राक्षसी रामं पर्णशालायां विलोकयामास, सा च रामं सपत्नीकं विज्ञाय तमनादृत्य लक्ष्मणाय स्वाऽभिप्रायं प्रकाशयन्ती स्थिता।

** भाषाऽर्थः**— तब रामचन्द्रको पर्णशाला में रावणकी छोटी बहन शूर्पणखा नामकी कामुकी राक्षसीने देखा। उसने रामचन्द्रजीको पत्नी (सीता) के साथ देख कर तिरस्कार करके लक्ष्मणको अपना अभिप्राय जताया॥१५॥

शूर्पणखाया रूपं श्लोकत्रयेण वर्णयति—

दधाना बलिभं मध्यं कर्णजाहविलोचना।
वाक्त्वचेनाऽतिसर्वेण चन्द्रलेखेव पक्षतौ॥१६॥

** अन्वयः**—बलिभं मध्यं दधाना कर्णजाहविलोचना अतिसर्वेण वाक्त्वचेन पक्षतौ चन्द्रलेखा इव (असौ रघुत्तमं प्रार्थयाञ्चके इति [१९] एकोनविंशतितमश्लोकेन सह अन्वयः)।

** प्रयोगप०**—दधानया कर्णजाहविलोचनया चन्द्रलेखया इव (अमुया रघूत्तमः प्रार्थयाञ्चक्रे)।

** व्याख्याः**—बलिभं=बलित्रययुक्तं, मध्यम्=अवलग्नं, दधाना=धारयन्ती, कर्णजाहविलोचना=श्रोत्राऽन्तनेत्रा (आयताक्षीत्यर्थः), अतिसर्वेण=सर्वाऽतिशायिना (सर्वोत्कृष्टेनेत्यर्थः), वाक्त्वचेन वचनचर्मणा (मृदुभाषिणी मृद्वङ्गी चेत्यर्थः),

पक्षतौ=पक्षमूले (प्रतिपदि इत्यर्थः), चन्द्रलेखा इव=इन्द्ररेखा इव (असौ रघूत्तमं प्रार्थयाञ्चक्रे)।

** व्युत्पत्तिः**—बलिभं=बलयोऽस्मिन् सन्तीति बलिभस्तं, “तुन्दिबलिवटेर्भः” इति भप्रत्ययः। कर्णजाहविलोचना=कर्णयोर्मूले कर्णजाहे, “तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ” इति जाहच्प्रत्ययः। कर्णजाहयोर्विलोचने यस्याः सा (व्यधिकरणबहुव्रीहिः)। अतिसर्वेण=सर्वमतिक्रान्तमतिसर्वं तेन “अत्यादयः क्रान्ताद्यर्थे द्वितीयया” इति समासः “एकविभक्ति चाऽपूर्वनिपाते” इति प्रतिषेधात् उपसर्जनस्याऽपि सर्वशब्दस्य न पूर्वनिपातः। वाक्त्वचेन=वाक् च त्वक् च वाक्त्वचं, तेन (प्राण्यङ्गत्वात्समाहारद्वन्द्वः) “द्वन्द्वाच्चुदषहान्तात्समाहारे” इति टच् प्रत्ययः, “इत्थम्भूतलक्षणे” इति तृतीया। पक्षतौ=पक्षस्य मूलं पक्षतिस्तस्यां, “पक्षात्तिः" इति तिप्रत्ययः, “पक्षतिर्गरुतो मूलं द्वयोः प्रतिपदोरपि।” इति यादवः। चन्द्रलेखा=चन्द्रस्य लेखा (ष० त०)। उपमालङ्कारः।

** भावाऽर्थः**—बलित्रययुक्तमवलग्नं धारयन्ती कर्णान्तविश्रान्तनयना मृद्वङ्गी मृदुभाषिणी प्रतिपदि स्थिता क्षीणा चन्द्ररेखेव असौ रघूत्तमं प्रार्थयाञ्चक्रे।

** भाषाऽर्थः**—तीन बलियोंसे युक्त कमरवाली, दीर्घ नेत्रोंसे युक्त, मृदुभाषिणी और कोमलाङ्गी, प्रतिपत्में विद्यमान पतली चन्द्ररेखा के सदृश उस शूर्पणखाने लक्ष्मणसे प्रार्थना की॥१६॥

सुपाद्द्विरदनासोरूर्मृदुपाणितलाऽङ्गुलिः।
प्रथिमानं दधानेन जघनेन घनेन सा॥१७॥

** अन्वयः**—सुपात् द्विरदनासोरूः मृदुपाणितलाऽङ्गुलिः प्रथिमानं दधानेन घनेन जघनेन सा (रघूत्तमं प्रार्थयाञ्चक्रे)।

प्रयोगप०—सुपादा द्विरदनासोर्वा मृदुपाणितलाऽङ्गुल्या तया, ^(…)(रघूत्तमः प्रार्थयाञ्चक्रे)।

व्याख्या—सुपात्=सुन्दर चरणा, द्विरदनासोरूः=हस्तिशुण्डासक्थिः, मृदुपाणितलाऽङ्गुलिः=कोमलकरतलाऽङ्गुलिः, प्रथिमानं पृथुत्वं दधानेन धारयता (पृथुलेनेत्यर्थः), घनेन=निबिडेन, जघनेन=कटिपुरोभागेन, (उपलक्षिता) सा=शूर्पणखा (रघूत्तमं प्रार्थयाञ्चक्रे)।

** व्युत्पत्तिः**—सुपात्=शोभनौ पादौ यस्याः सा (बहु०), “सङ्ख्यासुपूर्वंस्य”

इति पादाऽन्तलोपः “पादोऽन्यतरस्याम्” इत्यस्य विकल्पत्वान्ङीबभावः। द्विरदनासोरूः=रद्यते अनेनेति रदः (दन्तः) “पुंसि संज्ञायां घः प्रायेण” इति घः, द्वौ रदौ (दन्तौ) यस्य स द्विरदः (बहु०), तस्य नासे द्विरदनासे (ष० त०), ते इव ऊरू यस्याः सा (बहु०)। “ऊरूत्तरपदादौपम्ये” इत्यूङ्प्रत्ययः। “सक्थि क्लीबे पुमानूरुः” इत्यमरः। हस्तिशुण्डावद् वृत्तानुपूर्वोरूरित्यर्थः। मृदुपाणितलाऽङ्गुलिः=पाण्योस्तले पाणितले (ष० त०)। पाणितले च अङ्गुलयश्च पाणितलाऽङ्गुलि (प्राण्यङ्गत्वात्समाहारद्वन्द्वः)। अङ्गुलिशब्दस्य घिसञ्ज्ञकत्वे अल्पाच्तरत्वेऽपि पूर्वनिपातशास्त्राऽनित्यत्वात् परनिपातः। मृदु पाणितलाऽङ्गुलि यस्याः सा (बहु०)। प्रथिमानं=पृथोर्भावः प्रथिमा, तम् (इमनिच्प्रत्ययः)।

** भावाऽर्थः**—सुन्दरचरणा हस्तिशुण्डासदृशवृत्तानुपूर्वोरुशोभिता कोमलकरतलाऽङ्गुलिः पृथुघनजघनविराजिता सा राक्षसी रघूत्तमं प्रार्थयाञ्चक्रे।

** भाषाऽर्थः**—सुन्दर चरणोंसे युक्त, हाथीकी सूंडकी तरह वर्तुल और अनुपूर्व (पूर्वानुगत) ऊरुसे शोभित, कोमल करतल और अङ्गुलियोंसे विराजित तथा स्थूल और निबिड जघनवाली उस राक्षसीने लक्ष्मणसे प्रार्थना की॥१७॥

उन्नसं दधती वक्त्रं शुद्धदल्लोलकुण्डलम्।
कुर्वाणा पश्यतः शंयून् स्रग्विणी सुहसानना॥१८॥

** अन्वयः**—उन्नसं शुद्धदल्लोलकुण्डलं वक्त्रं दधती, पश्यतः शंयून् कुर्वाणा, स्रग्विणी, सुहसानना (असौ रघूत्तमं प्रार्थयाञ्चक्रे)।

** प्रयोगप०**—दधत्या कुर्वाणया स्रग्विण्या सुहसाऽऽननया (अमुया रघूत्तमः प्रार्थयाञ्चक्रे)।

** व्याख्या**—उन्नसम्=उन्नतनासिकं, शुद्धदत्=शुक्लदन्तयुक्तं, लोलकुण्डलं=चञ्चलकर्णवेष्टनं, वक्त्रं=मुखं, दधती= धारयन्ती, पश्यतः=प्रेक्षमाणान् (जनानितिशेषः), शंयून्=सानन्दान्, कुर्वाणा=विदधती, स्रग्विणी=माल्यवती, सुहसानना= सस्मितवदना (असौ रघूत्तमं प्रार्थयाञ्चक्रे)।

** व्युत्पत्तिः**—उन्नसम्=उन्नता नासिका यस्यतत् उन्नसं, तत् (बहु०), “उपसर्गाच्च" इत्यच्, नासिकाया नसादेशश्च। शुद्धदत्=शुद्धा दन्ता यस्य तत् शुद्धदत्, तत् (बहु०), “अग्राऽन्तशुद्धशुभ्रवृषवराहेभ्यश्च" इति दन्तस्य दत्रादेशः। लोलकुण्डलं=लोले कुण्डले यस्य तत् लोलकुण्डलं, तत् (बहु०), “कुण्डलं कर्णवेष्ट-

नम्।” इत्यमरः। वक्त्रम्=उच्यते अनेनेति वक्त्रं, तत् (औणादिकः ष्ट्रन्)। दधती=दधातीति दधती (शतृप्रत्ययः), “नाभ्यस्ताच्छतुः” इति नुमभावः। शंयून्=शम् (सुखम्) अस्ति येषां ते शंयवः, तान् “कंशंभ्यां बभयुस्तितुतयसः” इति युस्। स्रग्विणी=स्रगस्ति यस्याः सा स्रग्विणी, “अस्मायामेधास्रजो विनिः” इति विनिप्रत्ययः तदन्तात्स्त्रीत्वविवक्षायाम् “ऋन्नेभ्यो ङीप्” इति ङीप्। सुहसानना=हसनं हसः “स्वनहसोर्वा” इति विकल्पेन अप्प्रत्ययः। शोभनो हसो यस्मिंस्तत् सुहसं (बहु०), तत् आननं यस्याः सा (बहु०)।

** भावाऽर्थः**—उन्नतनासिकायुक्ता शुक्लदन्तोपेता कुण्डलाऽलङ्कृता पश्यतो जनान् सानन्दान् विदधती माल्यधारिणी सस्मितवदना असौ राक्षसी रघूत्तमं प्रार्थयाञ्चक्रे।

** भाषाऽर्थः**—ऊँची नासिकावाली, सफेद दन्तोंसे शोभित, कुण्डलाऽलङ्कृता, देखनेवाले पुरुषोंको आनन्दित करनेवाली, माल्यधारिणी तथा मन्दहास्य करती हुई उस राक्षसीने लक्ष्मणसे प्रार्थना की॥१८॥

प्राप्य चञ्चूर्यमाणाऽसौ पतीयन्ती रघूत्तमम्।
अनुका प्रार्थयाञ्चक्रे प्रियाकर्तुं प्रियंवदा॥१६॥

** अन्वयः**—अनुका पतीयन्ती चञ्चूर्यमाणा असौ रघूत्तमं प्राप्य प्रियंवदा (सती) प्रियाकर्तुं प्रार्थयाञ्चक्रे।

** प्रयोगप०**—अनुकया पतीयन्त्या चञ्चूर्यमाणया अमुया प्रियंवदया (सत्या) (रघूत्तमः) प्रार्थयाञ्चक्रे।

** व्याख्या**—अनुका=कामुकी, पतीयन्ती=आत्मनः पतिमिच्छन्ती, चञ्चूर्यमाणा=इतस्ततो गर्हितं चरन्ती, असौ=राक्षसी (शूर्पणखेत्यर्थः), रघूत्तमं=राघवश्रेष्ठं(लक्ष्मणमित्यर्थः), प्राप्य=आसाद्य, प्रियंवदा=प्रियभाषिणी (सती), प्रियाकर्तुम्= अनुकूलयितुं, प्रार्थयाञ्चक्रे=प्रार्थितवती।

** व्युत्पत्तिः**—अनुका=अनुकामयते इति अनुका, “अनुकाऽभिकाऽभीकः कमिता” इत्यनूपसर्गात् कन्प्रत्ययाऽन्तो निपातः। पतीयन्ती=“सुप आत्मनः क्यच्” इति क्यच्, “अकृत्सार्वधातुकयोर्दीर्घः” इति दीर्घत्वं ततः शतरि ङीप्। चञ्चूर्यमाणा=“लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्” इति भावगर्हायां चरेर्यङि “चरफलोश्च” इत्यभ्यासस्य नुक् “उत्परस्याऽतः” इत्युत्वं “हलि च” इति

दीर्घत्वं च। रघूत्तमं=रघुषु (लक्षणया रघुवंश्येषु) उत्तमो रघूत्तमस्तम् (स० त०)। प्रियंवदा=प्रियं वदतीति प्रियंवदा, “प्रियवशे वदः खच्” इति खचि मुमागमः। प्रियाकर्तुं=“सुखप्रियादानुलोम्ये” इति डाच्। प्रार्थयाञ्चक्रे=“कास्प्रत्ययादाममन्त्रे लिटि” इत्याम्प्रत्ययः।

** भावाऽर्थः**—कामुकी गर्हितमाचरन्ती असौ राक्षसी लक्ष्मणं प्राप्य प्रियभाषिणी सती वल्लभत्वेन अनुकूलयितुं प्रार्थितवती।

** भाषाऽर्थः**— कामुकी, पतिकी इच्छा तथा कुत्सित आचरण करती हुई उस राक्षसीने लक्ष्मणके पास जा कर प्रिय वचन बोल कर उनको पति बनानेकी प्रार्थना की॥१९॥

प्रार्थनाप्रकारमाहः—

सौमित्रे ! मामुपायंस्थाः कम्रामिच्छुर्वशंवदाम्।
स्वभोगीनां सहचरीमशङ्कः पुरुषायुषम्॥२०॥

** अन्वयः**—सौमित्रे ! कम्रां वशंवदां स्वभोगीनां पुरुषायुषं सहचरीं माम् इच्छुः अशङ्कः (सन्) उपायंस्थाः।

** प्रयोग प०**—इच्छुना अशङ्केन (त्वया) [अहम् ] उपायंसि।

** व्याख्या**—हे सौमित्रे=हे लक्ष्मण !, कम्रां=कामयित्रीं, वशंवदां=वशवर्तिनीं, स्वभोगीनाम्=आत्मभोगहितां (त्वद्भोगीनामिति पाठे त्वच्छरीरहिताम् अवैधव्यादिलक्षणयोगामित्यर्थः), पुरुषायुषं=यावज्जीवनं, सहचरीं=सहगामिनीं, मां=सुन्दरीम्, इच्छुः=अभिलाषुकः, अशङ्कः=निःशङ्कः (सन्), उपायंस्थाः=उपयच्छस्व (परिणयेत्यर्थः) ।

** व्युत्पत्तिः**—सौमित्रे=सुमित्राया अपत्यं पुमान् सौमित्रिस्तत्सम्बुद्धौ “बाह्वादिभ्यश्च” इतीञ्। कम्रां= “नमिकम्पिस्म्यजसकमहिंसदीपो रः” इति रप्रत्ययः, तदन्तात् “अजाद्यतष्टाप्” इति टाप्। वशंवदां=वशं वदतीति वशंवदा, ताम् (खच्प्रत्ययो मुमागमश्च)। स्वभोगीनां=स्वस्य भोगः स्वभोगः (ष० त०), तस्मै हिता स्वभोगीना, ताम् “आत्मन्विश्वजनभोगोत्तरपदात्ख” इति खप्रत्ययः। पुरुषायुषं=पुरुषस्य आयुः पुरुषायुषं तत् “अचतुरे”त्यादिना अच्प्रत्ययान्तो निपातः “कालाध्वनोरत्यन्तसंयोगे” इति द्वितीया। सहचरीं=चरतीति चरी “पचादिषु चरट्” इति टित्करणान्ङीप्, तदन्तेन सहशब्दस्य “सुप्सुपा” इति समासः

इति मल्लिनाथः। जयमङ्गलमते–सह चरतीति सहचरी, “भिक्षासेनाऽऽदायेषु च" इत्यत्र चकारात् टप्रत्ययः। उभयत्र टित्वान्ङीप्। माम्=‘इच्छु’पदेन योगे “न लोकाव्ययनिष्ठाखलर्थतृनाम्” इति षष्ठीप्रतिषेधः। इच्छुः=इच्छतीति इच्छुः “बिन्दुरिच्छुः” इति निपातः। अशङ्कः=अविद्यमाना शङ्का यस्य सः (नञ्बहु०)। उपायंस्थाः=“उपाद्यमः स्वकरणे" इत्यात्मनेपदम् स्वकरणं विवाहः। “आशंसायां भूतवच्च" इति भूतवत्प्रत्ययो लुङ्,“विभाषोपयमने” इति पक्षे कित्त्वा ऽभावान्नाऽनुनासिकलोपः।

** भावाऽर्थः**—हे सुमित्रानन्दन ! कामयित्रीं त्वदधीनामात्मभोगहितां यावज्जीवनं सहचारिणीं मामभिलाषुकः सन् परिणय।

** भाषाऽर्थः**—हे लक्ष्मण ! कामना करनेवाली, तुम्हारी अधीन, अपने भोग के लिए हित और जीवितकालपर्यन्त सहचारिणी बननेवाली मेरे इच्छुक हो कर विवाह करो॥२०॥

तामुवाच स गौष्ठीने वने स्त्रीपुंसभीषणे।
असूर्यम्पश्यरूपा त्वं किमभीरुररार्यसे॥२१॥

** अन्वयः**—स ताम् उवाच—“असूर्यम्पश्यरूपा त्वं गौष्ठीने स्त्रीपुंसभीषणे वने किम् अभीरुः (सती) अरार्यसे।

** प्रयोगप०**—तेन सा ऊचे—“असूर्यम्पश्यरूपया त्वया अभीर्वा (सत्या) किम् अरार्यते ?

व्याख्या—सः=लक्ष्मणः, तां=राक्षसीम्, उवाच=अकथयत्, (हे मुग्धे !) असूर्यम्पश्यरूपा=सूर्यकिरणाऽसंस्पृष्टरूपा, त्वं भवती, गौष्ठीने=भूतपूर्वगोष्ठे, स्त्रीपुंसभीषणे=नरनारीभयजनके, वने=अरण्ये, किं=किमर्थम्, अभीरुः=अभीता (सती), अरार्यसे=अटाट्यसे (अत्यर्थमटसीति भावः)।

** व्युत्पत्तिः**—असूर्यम्पश्यरूपा=न सूर्यं पश्यतीति असूर्यम्पश्यम्, “असूर्यललाटयोर्दृशितपोः” इति असूर्यशब्दोपपदात् दृशेः खश्प्रत्ययो मुमागमश्च, “पाघ्राध्मे"त्यादिना दृशेः पश्यादेशः। असूर्यमिति असमर्थसमासः, दृशिना नञः सम्बन्धात्। असूर्यम्पश्यं रूपं यस्याः सा (बहु०)। गौष्ठीने=भूतपूर्वं गोष्ठम् (इदानीं व्यालाक्रान्तम्) गोष्ठीनं, तस्मिन् “गोष्ठात्खञ्भूतपूर्वे” इति खञ्प्रत्ययः (खस्येन आदिवृद्धिश्च)। “गौष्ठीनं भूतपूर्वकम्।" इत्यमरः, स्त्रीपुंसभीषणे=स्त्री

च पुमांश्च स्त्रीपुंसौ (द्वन्द्वः) “अचतुरे"त्यादिना अच्प्रत्ययान्तो निपातः। “जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्” इति विग्रहे जातावेकवचनम्। भीषयते इति भीषणं, नन्द्यादित्वाल्ल्युप्रत्ययः, कर्तरि ल्युडिति जयमङ्गलाव्याख्याने “भीषणां तामयोजयत्।” इति टावन्तप्रयोगविरोधः इति मल्लिनाथः। स्त्रीपुंसयोर्भीषणे (ष० त०)। अभीरुः=भयशीला भीरुः, “ञिभी भये" इति धातोः“भियः क्रुक्लुकनौ” इति क्रुप्रत्ययः। न भीरुः अभीरुः ( नञ्०)। अरार्यसे=“ऋ गतौ” इति धातोः “सूचिसूत्री”- त्यादिना यङ् “यङि च” इति गुणः, “न न्द्राः संयोगादयः” इति प्रतिषेधात् द्वितीयैकाचो द्विर्भावे हलादिः शेषे “दीर्घोऽकितः” इत्यभ्यासदीर्घः।

** भावाऽर्थः**—लक्ष्मणः शूर्पणखामुवाच—हे मुग्धे ! असूर्यम्पश्यरूपवती कोमलाङ्गी त्वं भूतपूर्वगोष्ठे नरनारीभयोत्पादके अरण्ये किमर्थमभीता सती अत्यर्थमटसि।

** भाषाऽर्थः**—लक्ष्मणने शूर्पणखा को कहा—“हे मुग्धे ! सदा अन्तःपुरमें रहनेसे सूर्यको नहीं देखनेवाली तुम इस पहलेका गोष्ठ परन्तु अभी स्त्री और पुरुषोंको भय पैदा करनेवाले वनमें क्यों निर्भय होती हुई वारं वार घूमती हो॥२१॥

मानुषानभिलष्यन्ती रोचिष्णुर्दिव्यधर्मिणी।
त्वमप्सरायमाणेह स्वतन्त्रा कथमञ्चसि॥२२॥

** अन्वयः**—रोचिष्णुः दिव्यधर्मिणी अप्सरायमाणा त्वम् इह स्वतन्त्रा मानुषान् अभिलष्यन्ती कथम् अञ्चसि।

** प्रयोगप०**—रोचिष्ण्वा दिव्यधर्मिण्या अप्सरायमाणया त्वया इह स्वतन्त्रया अभिलष्यन्त्या कथम् अञ्च्यते।

** व्याख्या**—रोचिष्णुः=दीप्तिमती, दिव्यधर्मिणी=देवधर्मसम्पन्ना (लोकोत्तररूपलावण्योपेतेत्यर्थः), अप्सरायमाणा=अप्सरः कल्पा, त्वं=भवती, इह=अस्मिन् (वने इतिशेषः), स्वतन्त्रा=स्वच्छन्दा (एकाकिनीत्यर्थः), मानुषान्=मानवान्,नीचानिति भावः), अभिलष्यन्ती=अभिलषन्ती (इच्छन्तीत्यर्थः), कथम्= किमर्थम्, अञ्चसि=अटसि।

व्युत्पत्तिः—रोचिष्णुः=रोचनशीला रोचिष्णुः, “अलङ्कृञि”त्यादिना इष्णुच्। दिव्यधर्मिणी=दिवि भवा दिव्याः, “द्युप्रागपागुदक्प्रतीचो यत्” इति

यत्प्रत्ययः। दिव्यानां धर्माः (रूपलावण्यादयः) दिव्यधर्माः (ष० त०), ते सन्ति अस्याः सा दिव्यधर्मिणी, “धर्मशील-वर्णाऽन्ताच्च" इतीनिः, तदन्तान्ङीप्। अप्सरायमाणा=अप्सरा इव आचरतीति “कर्तुः क्यङ् सलोपश्च” इति क्यङन्ताल्लटः शानजादेशः “ओजसोऽप्सरसो नित्यम्” इति नित्यसलोपः।स्वतन्त्रा=स्वः (आत्मा) तन्त्रं (प्रधानम्) यस्याः सा (बहु०), “स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दोनिरवग्रहः।” इत्यमरः। मानुषान्=मनोरपत्यानि पुमांसो मानुषास्तान्, “मनोर्जातावञ्यतौ षुक् च" इति अञ्प्रत्ययः षुगागमश्च, अभिलष्यन्ती=अभिपूर्वात् “लष कान्तौ” इति धातोर्लटः शत्रादेशस्तदन्तान्ङीप्,“वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः” इति विकल्पेन श्यन्।

** भावाऽर्थः**—दीप्तिमती लोकोत्तररूपलावण्योपेता अप्सरः सदृशी त्वमत्र वने एकाकिनी मनुष्यानभिलषन्ती किमर्थं भ्रमसि।

** भाषाऽर्थः**—दीप्ति-सम्पन्न, लोकोत्तर रूप और लावण्यसे युक्त, अप्सराके सदृश तुम इस वनमें अकेली रह कर मनुष्योंका अभिलाष करती हुई क्यों घूम रही हो ?॥२२॥

उग्रम्पश्याऽऽकुलेऽरण्ये शालीनत्वविवर्जिता।
कामुकप्रार्थनापट्वी पतिवत्नी कथं न वा॥२३॥

** अन्वयः**—उग्रम्पश्याऽऽकुले अरण्ये शालीनत्वविवर्जिता कामुकप्रार्थनापट्वी (त्वम्) पतिवत्नी कथं न वा ?।

** प्रयोगप०**—शालीनत्वविवर्जितया कामुकप्रार्थनापट्व्या(त्वया) पतिवत्न्या कथं न वा (भूयते)।

** व्याख्या**—उग्रम्पश्याऽऽकुले=हिंस्रसङ्कीर्णे, अरण्ये=वने, शालीनत्वविवर्जिता=अधार्ष्ट्यरहिता(धृष्टा सतीत्यर्थः), कामुकप्रार्थनापट्वी=काम्यनुनयनिपुणा, (त्वं=भवती) पतिवत्नी=जीवत्पतिका, कथं केन प्रकारेण, न वा=न भवसि वा।

** व्युत्पत्तिः**—उग्रम्पश्याऽऽकुले=उग्रं पश्यन्तीति उग्रम्पश्याः (हिंस्राः), “उग्रम्पश्येरम्मदपाणिन्धमाश्च” इति निपातः। उग्रम्पश्यैः आकुलम् उग्रम्पश्याऽऽकुलं, तस्मिन् (तृ०त०)। शालीनत्वविवर्जिता=शालाप्रवेशमर्हतीति शालीनः(अधृष्टः), “शालीनकौपीने अधृष्टाकार्ययोः” इति खञ्प्रत्ययान्तो निपातः।

शालीनस्य भावः शालीनत्वं (त्वप्रत्ययः), तेन विवर्जिता (तृ० त०)। कामुकप्रार्थनापट्वी=कामशीलः कामुकः,“कमु कान्तौ” इति धातोः “लषपतपदस्था भूवृषहनकमगमशृृभ्य उकञ्” इत्युकञ्। कामुकस्य प्रार्थनाः कामुकप्रार्थनाः (ष० त०), तासु पट्वी (स० त०)। पतिवत्नी=पतिरस्या अस्तीति पतिवत्नी “अन्तर्वत्पतिवतोर्नुक्” इति गर्भभर्तृसंयोगे निपातनादर्थविशेषलाभः। मतोर्वत्वं निपात्यते। अत्र सूत्रे उगित्त्वादेव ङीप्सिद्धिः।

** भावाऽर्थः**—हिंस्रजन्तुसङ्कुले अस्मिन् वने धृष्टा कामुकाऽनुनयनिपुणा त्वं जीवत्पतिका वा कथं न भवसि ?

** भाषाऽर्थः**—हिंस जन्तुओंसे आकुल इस वनमें ढीठ, कामुक पुरुषकी प्रार्थनाओंमें निपुण तुम, पतियुक्त क्यों नहीं हो ?॥२३॥

राघवं पर्णशालायामिच्छाऽनुरहसं पतिम्।
यः स्वामी मम कान्तावानोपकर्णिकलोचनः॥२४॥

** अन्वयः**—अनुरहसं पर्णशालायां राघवं पतिम् इच्छ, यः मम स्वामी कान्तावान् औपकर्णिकलोचनः (अस्ति)।

** प्रयोगप०**—(त्वया) राघवः पतिरिष्यताम्, येन मम स्वामिना कान्तावता औपकर्णिकलोचनेन (भूयते)।

व्याख्या—अनुरहसम्=एकाऽन्ते, पर्णशालायाम्=उटजे (स्थितमिति शेषः),राघवं=रामचन्द्रं, पतिं=स्वामिनम्, इच्छं=कामयस्व (पतित्वेन वृणु इत्यर्थः), यः=रामः, मम=लक्ष्मणस्य, स्वामी प्रभुः, कान्तावान्=सपत्नीकः (रागीति भावः),औपकर्णिकलोचनः=कर्णान्तदीर्घनेत्रः (अस्तीति शेषः)।

** व्युत्पत्तिः**—अनुरहसं=रहसि इति अनुरहसम् (विभक्त्यर्थेऽव्ययीभावः) “अन्ववतप्ताद्रहस” इति समासान्तोऽच्। स्वामी=स्वमस्याऽस्तीति स्वामी “स्वामिन्नैश्वर्ये” इत्यामिनच्प्रत्ययान्तो निपातः, कान्तावान्=कान्ताऽस्ति यस्य सः (मतुप्)। औपकर्णिकलोचनः=कर्णयोः समीपमुपकर्णं (समीपार्थेऽव्ययीभावः),तत्र प्रायभवे (बाहुल्येन भवतः) इति औपकर्णिके “उपजानूपकर्णोपनीवेष्ठक्” इति ठक्। औपकर्णिके लोचने यस्य सः (बहु०), “लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी।” इत्यमरः।

** भावाऽर्थः**—एकाऽन्ते पर्णशालायामवस्थितं रामचन्द्रं पतित्वेन वृणु, यो ममाऽपि प्रभुः सपत्नीकः कर्णाऽन्तदीर्घनेत्रोऽस्ति।

** भाषाऽर्थः**— एकान्त में पर्णशालामें अवस्थित रामचन्द्रजीको पतिभाव से वरण करो, जो रामचन्द्रजी मेरे भी स्वामी, पत्नीसे युक्त तथा कर्णपर्यन्त विस्तृत नेत्रोंवाले हैं॥२४॥

वपुश्चान्दनिकं यस्य कार्णवेष्टकिकं मुखम्।
संग्रामे सर्वकर्मीणौपाणी यस्यौपजानुकौ॥२५॥

** अन्वयः**—यस्य वपुः चान्दनिकं, मुखं कार्णवेष्टकिकं यस्य पाणी सङ्ग्रामे सर्वकर्मीणौ औपजानुकौ।

प्रयोगप०—वपुषा चान्दनिकेन, मुखेन कार्णवेष्टकिकेन, पाणिभ्यां सर्वकर्मीणाभ्याम् औपजानुकाभ्याम् (भूयते )।

** व्याख्या**—यस्य=रामस्य, वपुः=शरीरं, चान्दनिकं=मलयजशोभितं, मुखम्=आननं, कार्णवेष्टकिकं=कुण्डलशोभितं, यस्य=रामस्य, पाणी=हस्तौ, सङ्ग्रामे=युद्धे, सर्वकर्मीणौ=धनुराकर्षणादिव्यापकौ (सर्वकर्मसमर्थावित्यर्थः), औपजानुकौ= जानुसमीपभवौ (आजानुलम्बिनावित्यर्थः, एतेन शौर्यभाग्यसम्पत्तिरुक्ता)।

** व्युत्पत्तिः**—चान्दनिकं=चन्दनेन सम्पादि चान्दनिकं (चन्दनेन अवश्यं शोभत इत्यर्थः), “सम्पादिनि” इति ठञ्प्रत्ययः। “गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्।” इत्यमरः। कार्णवेष्टकिकं=कर्णयोर्वेष्टके कर्णवेष्टके कुण्डले, (ष० त०) ताभ्यां सम्पादि कार्णवेष्टकिकं, पूर्वसूत्रेण ठञ्। सर्वकर्मीणौ=सर्वाणि च तानि कर्माणि सर्वकर्माणि (क० धा०) सर्वकर्माणि व्याप्नुत इति सर्वकर्मीणौ“तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति’ इति खप्रत्ययः। औपजानुकौ=जान्वोः समीपमुपजानु (समीपाऽर्थे अव्ययीभावः), “जानूरुपर्वाष्ठीवदस्त्रियाम्” इत्यमरः। उपजानु (जानुसमीपे) भवौ औपजानुकौ, “उपजानूपकर्णोपनीवेष्ठक्” इति ठक्प्रत्ययः, “इसुसुक्तान्तात्कः” इति कः।

** भावाऽर्थः**—यस्य शरीरं चन्दनशोभितं, मुखं कुण्डलाऽलङ्कृतं यस्य पाणी युद्धे सर्वकर्मसमक्षौ तथा आजानुलम्बिनौ च वर्तेते।

** भाषाऽर्थः**—जिनका शरीर चन्दनसे और मुख कुण्डलों से शोभित है, जिन के हाथ संग्नाममें सब कर्मो में समर्थ एवं जानुपर्यन्त लम्बे हैं॥२५॥

बद्धो दुर्बलरक्षाऽर्थमसिर्येनौपनीविकः।
यश्चापमाश्मनप्रख्यं सेषुं धत्तेऽन्यदुर्वहम्॥२६॥

** अन्वयः**—येन दुर्बलरक्षाऽर्थम् औपनीविकः असिः बद्धः, य आश्मनप्रख्यं सेषुम् अन्यदुर्वहं चापं धत्ते।

** प्रयोगप**०—य औपनीविकमसिं बद्धवान्। येन आश्मनप्रख्यः सेषुरन्यदुर्वहश्चापो धीयते।

व्याख्या—येन=रामेण, दुर्बलरक्षाऽर्थम्=शक्तिहीनत्राणाऽर्थम्, औपनीविकः=नीवीसमीपस्थः, असिः=खड्गः, बद्धः= निबद्धः(कटिनिबद्ध इत्यर्थः), यः=रामः, आश्मनप्रख्यं=प्रस्तरसदृशं (दृढमित्यर्थः), सेषुं=सबाणम्, अन्यदुर्वहम्=अपर-दुर्धार्यं, चापं=धनुः, धत्ते=धारयति (महाधानुष्कोऽयमित्यर्थः)।

** व्युत्पत्तिः**—दुर्बलरक्षाऽर्थं=दुष्टं (मन्दत्वादित्यर्थः) बलं येषां ते दुर्बलाः (बहु०), तेषां रक्षा दुर्बलरक्षा (ष० त०), तस्यै इदम् (यथा तथा) इति दुर्बलरक्षार्थम् (च० त०)। औपनीविकः=नीव्याः समीपमुपनीवि (समीपाऽर्थेऽव्ययीभावः), तस्मिन्भव औपनीविकः, “उपजानूपे"त्यादिना ठक्। असिः=“खड्गे तु निस्त्रिंशचन्द्रहासाऽसिरिष्टयः” इत्यमरः। आश्मनप्रख्यम्= अश्मैव आश्मनम्, स्वाऽर्थे अण्। “अश्मनो विकारे टिलोपो वक्तव्यः" इतिविकार एव टिलोपविधानात् न टिलोपः। प्रख्याति (प्रकाशयति) इति प्रख्यः (सदृशः), “आतश्चोपसर्गे” इत्यङ्, “प्रख्य प्रतिनिधी अपि" इति सदृशाऽर्थे दण्डी। आश्मनेन प्रख्य आश्मनप्रख्यस्तम् (तृ० त०)। सेषुम्=इषुभिः सहितः सेषुस्तम् (बहु०)। अन्यदुर्वहं=दुःखेन वोढुं शक्यो दुर्वहः (खल्प्रत्ययः), अन्यैदुर्वहोऽन्यदुर्वहस्तम् (तृ० त०)।

** भावाऽर्थः**—येन रामेण निर्बलरक्षाऽर्थं नीवीवस्त्रसमीपे खड्गो बद्धः, यश्च प्रस्तरसदृशं दृढं बाणसहितं रामादन्यैर्दुर्धार्यं चापं धारयति।

** भाषाऽर्थः**—जिन रामचन्द्रजीने दुर्बलोंकी रक्षाके लिए कटि वस्त्रमें तलवार बांधा है और जो पत्थरके तुल्य दृढ और बाणयुक्त तथा दूसरोंसे नहीं लिए जानेवाले धनुको धारण करते हैं॥२६॥

जेता यज्ञद्रुहां सङ्ख्येधर्मसन्तानसूर्वने।
प्राप्य दारगवाणां यं मुनीनामभयं सदा॥२७॥

** अन्वयः**—सङ्ख्ये यज्ञद्रुहां जेता धर्मसन्तानसूः। यं प्राप्य वने मुनीनां दारगवाणां सदा अभयम्।

प्रयोगप०—(येन) यज्ञद्रुहां जेत्रा धर्मसन्तानस्वा (भूयते)। अभयेन (भूयते)।

व्याख्या—सङ्ख्ये युद्धे, यज्ञद्रुहाम्=अध्वरद्रोहिणां (राक्षसानामित्यर्थः), जेता=जिष्णुः, धर्मसन्तानसूः=पुण्य-परम्परोत्पादकः (बहुविधधर्माचरणशील इत्यर्थः) (अस्तीति शेषः), यं=रामम्, प्राप्य=आसाद्य (शरणत्वेन लब्ध्वा इत्यर्थः), वने=अरण्ये, मुनीनां=वानप्रस्थादीनाम्, दारगवां=पत्नीधेनूनां, सदा=सर्वदा, अभयं=भीत्यभावः (अस्तीति शेष)।

** व्युत्पत्तिः**—संख्ये=“युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्। मृधमास्कन्दनं संख्यम्” इत्यमरः। यज्ञदुहां=यज्ञेभ्यो दुह्यन्तीति यज्ञद्वहस्तेषाम्, “सत्सूद्विषे"त्यादिना क्विप्(जेतृपदेन योगे कर्मणि षष्ठी)। जेता=जयतीति जेता (तृच्)। धर्मसन्तानसूः= धर्माणां (वर्णाश्रमादीनाम्) सन्तानो धर्मसन्तानः (ष० त०), तं सूते इति धर्मसन्तानसूः (पूर्ववक्विप्)। दारगवाणां=दाराश्चगावश्च दारगवाणि (द्वन्द्वः), तेषाम्, “अचतुरे”त्यादिना निपातः। अभयं=भयस्याऽभावोऽभयम् (अर्थाऽभावेऽव्ययीभावः)। येषामेव प्राप्तिक्रिया तेषामेवाऽभयमिति समानकर्तृत्वम्।

भावाऽर्थः—रामः संग्रामे यज्ञविघातकानां दैत्यराक्षसादीनां जिष्णुः बहु विधधर्माऽऽचरणशीलः अस्ति, यमासाद्य वने वानप्रस्थादीनामृषीणां पत्नीहोमधेनूनां च भयाऽभावो वर्तते॥२७॥

भाषाऽर्थः—रामचन्द्रजी, युद्ध में यज्ञविघातक दैत्य राक्षस आदियों को जीतनेचाले तथा अनेक प्रकारके धर्म करनेवाले हैं, जिनको पा कर मुनियोंको तथा उनकी पत्नी और गायोंकों सदा अभय है॥२७॥

ततो वावृत्यमानाऽसौ रामशालां न्यविक्षत।
मामुपायंस्त रामेति वदन्ती साऽऽदरं वचः॥२८॥

अन्वयः—ततः असौ वावृत्यमाना “हे राम ! माम् उपायंस्त” इति सादरं वचः वदन्ती रामशालां न्यविक्षत।

** प्रयोगप०**—अमुया वावृत्यमानया “हे राम ! (त्वया) अहम् उपायंसि इति वचः वदन्त्या (तया) रामशाला न्यवेशि।

व्याख्या—ततः=लक्ष्मणवचनाऽनन्तरम्, असौ=राक्षसी, वानृत्यमाना=रामंवृण्वाना (वरिष्यन्ती सतीत्यर्थः), हे राम=हे राघव !, मां=सुन्दरीम्, उपायस्त=परिणयतु (भवानिति शेषः), इति=एवं, सादरम्=आदरयुक्तं वचः=वचनं, वदन्ती=कथयन्ती, रामशालां=रामपर्णकुटीरं, न्यविक्षत=प्रविष्ठा।

व्युत्पत्तिः—वावृत्यमाना=वावृत्यते इति वावृत्यमाना,“वावृतु वरणे” इति धातोर्दैवादिकात् “वर्तमानसामीप्ये वर्तमानवद्वा” इति कर्तरि लटः शानच्। उपायंस्त=“आशंसायां भूतवच्च” इति लुङ् “उपाद्यमः स्वकरणे” इत्यात्मनेपदं, शेषविवक्षायां “शेषे प्रथमः” इति प्रथमपुरुषः। सादरम्=आदरेण सहितं सादरं, तत् (बहु०)। वचः=“भाषितं वचनं वचः" इत्यमरः। रामशालां= रामस्य शाला इति रामशाला, ताम् (ष० त०)। न्यविक्षत निपूर्वात् “विश प्रवेशने" इति धातोः “नेर्विशः” इत्यात्मनेपदं, ततो लुङि “शल इगुपधादनिटः क्सः" इति च्लेक्सः।

भावाऽर्थः—लक्ष्मणवचनाऽनन्तरं शूर्पणखा रामं वरिष्यन्ती सती “हे राम ! भवान्मां परिणयतु” इति वचनं कथयन्तो रामपर्णकुटीरं प्रविष्ठा।

भाषाऽर्थः—लक्ष्मणके ऐसा कहनेपर रामको वरण करती हुई शूर्पणखाने “हे राम ! आप मुझसे विवाह कीजिए" ऐसा आदरपूर्ण वचन बोल कर रामचन्द्रकी पर्णशालामें प्रवेश किया॥२८॥

अस्त्रीकोऽसावहं स्त्रीमान्स पुष्यतितरां तव।
पतिरित्यब्रवीद्रामस्तमेव व्रज, मा मुचः॥२६॥

** अन्वयः**—“असौ अस्त्रीकः, अहं स्त्रीमान्, स तव पतिः पुष्यतितरां, तम् एव व्रज; मा मुचः” इति रामः (ताम्) अब्रवीत्।

प्रयोगप०—अमुना अस्त्रीकेण (भूयते), मया स्त्रीमता (भूयते), तेन तव पत्या पुष्यतेतरां, (त्वया) स एव व्रज्यतां, मा मोचि, इति रामेण (सा) औच्यत।

** व्याख्या**—असौ=लक्ष्मणः, अस्त्रीकः=अविद्यमानपत्नीकः, अहं=रामः, स्त्रीमान्=विद्यमानप्रशस्तपत्नीकः, सः=लक्ष्मणः, तव=त्वदीयः, पतिः=भर्ता, पुष्यति

तरां=सम्पत्स्यतेतराम्, तम् एव=लक्ष्मणम् एव, व्रज=गच्छ, मा मुचः=न त्यज, इति=एवं, रामः=रामचन्द्रः (तां=शूर्पणखाम्), अब्रवीत्=उक्तवान्।

व्युत्पत्तिः—अस्त्रीकः=अविद्यमाना स्त्री यस्य सोऽस्त्रीकः (नञ्बहु०) “न द्यृतश्च” इति कप्, “न कपि" इति ह्रस्व-प्रतिषेधः। स्त्रीमान्=प्रशस्ता स्त्री अस्ति यस्य सः (मतुप्)। पतिः=“धवः प्रियः पतिर्भर्ता” इत्यमरः। पुष्यतितराम्=अतीव पुष्यतीति पुष्यतितरां, “तिङश्च” इति तरप् “किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे” इति आम्,मा मुचः=मुचेर्लुङि लुदित्त्वादङ् “न माङ्योगे” इत्यडभावः। अब्रवीत्=आदादिकस्य ब्रूञोलङि “ब्रुव ईट्" इति ईटि रूपम्।

भावाऽर्थः—“लक्ष्मणोऽविद्यमानपत्नीकोऽस्ति, अहं सपत्नीकोऽस्मि, स तव पतिर्भवितुमर्हति। अतस्तमेव गच्छ, तं न मुञ्च" इति रामः शूर्पणखामब्रवीत्।

भाषाऽर्थः—“ये लक्ष्मण पत्नीरहित हैं, पर मैं पत्नीयुक्त हूं, वे ही तुम्हारे पति होने योग्य हैं, अतः उन्हीं के पास जाओ, मत छोड़ो” रामने शूर्पणखाको ऐसा कहा॥२९॥

लक्ष्मणं सा वृषस्यन्ती महोक्षं गौरिवाऽगमत्।
मन्मथाऽऽयुधसम्पातव्यथ्यमानमतिः पुनः॥३०॥

अन्वयः—(ततः) वृषस्यन्ती मन्मथायुधसम्पातव्यथ्यमानमतिः सा वृषस्यन्ती गौः महोक्षम् इव लक्ष्मणं पुनः अगमत्।

प्रयोगप०—वृषस्यन्त्या मन्मथायुधसम्पातव्यथ्यमानमत्या तया वृषस्यन्त्या गवा महोक्ष इव लक्ष्मणः पुनरगामि।

** व्याख्या**—(ततः=रामवचनाऽनन्तरम्) वृषस्यन्ती=मैथुनेच्छावती, मन्मथाऽऽयुधसम्पातव्यथ्यमानमतिः=मदनबाणपात-दूयमानमनाः, सा=शूर्पणखा, वृषस्यन्ती=आत्मनो वृषमिच्छन्ती, गौः=धेनुः, महोक्षम् इव=महावृषभम् इव, लक्ष्मणं= रामाऽनुजं, पुनः=भूयः, अगमत्=आससाद।

व्युत्पत्तिः—वृषस्यन्ती=आत्मनो वृषमिच्छतीति वृषस्यन्ती,“सुप आत्मनः क्यच्” इति क्यच् ततो लटः शतरि ङीप्, “अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि” “अश्ववृषयोर्मैथुनेच्छायाम्” इत्यसुगागमः। “वृषस्यन्ती तु कामुकी" इत्यमरः। मन्मथाऽऽयुधसम्पातव्यथ्यमानमतिः=मन्मथस्य आयुधानि मन्मथाऽऽयुधानि (ष० त०) तेषां सम्पातः (ष० त०)। व्यथ्यमाना मतिर्यस्याः सा

व्यथ्यमानमतिः (बहु०)। मन्मथाऽऽयुधसम्पातेन व्यथ्यमानमतिः (तृ०त०)। महोक्षम्=महांश्चाऽसौ उक्षा महोक्षः, तम् (क० धा०),“अचतुरे"त्यादिना निपातः।

** भावार्थः**—रामकथनाऽनन्तरं मैथुनेच्छायुक्ता कामबाणपातपीड्यमानमनाः सा आत्मनो वृषमिच्छन्ती गौः महावृषभमिव लक्ष्मणं पुनराससाद।

भाषाऽर्थः—राम के कहने के बाद कामुकी, कामदेव के बाणोंके प्रहारसे पीडित चित्तवाली वह राक्षसी सांडको चाहनेवाली गाय जिस तरह साँड़के पास जाती है उसी तरह लक्ष्मणके पास फिर पहुंची॥३०॥

तस्याः सासह्यमानाया लोलूयावान् रघूत्तमः।
असिं कौक्षेयमुद्यम्य चकाराऽपनसं मुखम्॥३१॥

** अन्वयः**—रघूत्तमः सासह्यमानायाः तस्याः मुखं लोलूवान् (सन्) कौक्षेयम् असिम् उद्यम्य अपनसं चकार।

** प्रयोगप०**—रघूत्तमेन तस्या मुखं लोलूयावता (सता) अपनसं चक्रे।

** व्याख्या**—रघूत्तमः=लक्ष्मणः, सासद्यमानायाः=गर्हितं सीदन्त्याः (आसीदन्त्याः), तस्याः=शूर्पणखायाः, मुखम्=आननं, लोलूयावान्=अत्यर्थलवनयुक्तः (सन्), कौक्षेयं=कुक्षिस्थम्, असिं=खङ्गम्, उद्यम्य=उत्क्षिप्य अपनसं=नासिकारहितं, चकार=अकरोत् (शूर्पणखाया नासिकाच्छेदनमकरोदितिभावः)

** व्युत्पत्तिः**—रघूत्तमः=रघुषु उत्तमः (स० त०)। सासद्यमानायाः=गर्हितं सीदतीति सासद्यमाना, तस्याः, “लुपसदचरे”त्यादिना सदेर्यङि लटः शानच्। लोलूयावान्=अत्यर्थं लवनं लोलूया, लुनातेर्यङन्तात् “अ प्रत्ययात्” इत्यप्रत्ययस्ततष्टाप्। लोलूया अस्ति यस्य सः लोलूयावान् (मतुप्)। कौक्षेयं=कुक्षौ भवः कौक्षेयस्तं, “दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्” इति ढञ् (तस्य एयः)। अपनसम्=अपगता नासिका यस्मात्तत् अपनसं तत् (बहु०), “उपसर्गाच्च” इत्यच्, नासिकाया नसादेशश्च, “घोणा नासा च नासिका।” इत्यमरः।

** भावाऽर्थः**—लक्ष्मणोऽत्यर्थलवनयुक्तः सन् कुक्षिस्थं खङ्गमुत्क्षिप्य गर्हितम् आसीदन्त्याः तस्याः शूर्पणखाया नासिकाम् अच्छिनत्।

** भाषाऽर्थः**—लक्ष्मणजीने अत्यन्त छेदनक्रियासे युक्त हो कर कटिमें बांधे हुए खड्गको उठाकर गर्हित रूपसे समीपमें आती हुई शूर्पणखाकी नाक काट ली॥३१॥

अहं शूर्पणखा नाम्ना नूनं नाऽज्ञायिषि त्वया।
दण्डोऽयं क्षेत्रियो येन मय्यपातीति साऽब्रवीत्॥३२॥

** अन्वयः**—अहं नाम्ना शूर्पणखा नूनं त्वया न अज्ञायिषि, येन त्वया अयं क्षेत्रियः दण्डः मयि अपाति इति सा (तम्) अब्रवीत्।

** प्रयोगप०**—“मां नाम्ना शूर्पणाखां त्वं न अज्ञासीः, येन त्वमिमं क्षेत्रियं दण्डं मयि अपीपतः” इति तया (सः) औच्यत।

** व्याख्या**—अहं=सुन्दररूपधारिणी, नाम्ना=अभिधानेन, शूर्पणखा, नूनं=निश्चितं त्वया भवता, न अज्ञायिषि=न ज्ञाताऽस्मि, येन=अज्ञानेन, त्वया=भवता, अयं=नासाच्छेदरूपः, क्षेत्रियः=जन्मान्तरशरीरे चिकित्स्यः, दण्डः=दमः (दण्डोऽपि छिन्नाया नासिकायाः पुनः प्ररोहाऽसम्भवात् क्षेत्रियो व्याधिरिव संवृत्त इति भावः), मयि=शूर्पणखायाम्, अपाति=पातितः (मत्स्वरूप-ज्ञाने तु नेदं घटते इति तात्पर्यम्), इति=एवं, सा=शूर्पणखा (तम्=लक्ष्मणम्), अब्रवीत्=अकथयत्।

** व्युत्पत्तिः**—नाम्ना=प्रकृत्यादेराकृतिगणत्वात् “प्रकृत्यादिभ्य उपसंख्यानम्” इति तृतीया। शूर्पणखा=शूर्पाणि इव नखा यस्याः सा (बहु०), “स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्” इति ङीषि प्राप्ते संज्ञाशब्दत्वात् “नखमुखात्संज्ञायाम्” इति निषेधः। “पूर्वपदात्संज्ञायामगः” इति णत्वम्।अज्ञायिषि=जानातेः (ज्ञा-धातो.) कर्मणि लुङि तङि सिचि चिण्वदिटि युक् च। क्षेत्रियः= “क्षेत्रियच्परक्षेत्रे चिकित्स्यः” इति निपातनात्साधुत्वम्। “परक्षेत्रशब्दात्सप्तम्यन्ताद्धच्, परशब्दस्य लोपश्च निपात्यते” इति मनोरमा। अन्ये तु “परक्षेत्रे चिकित्स्यः" इत्यर्थे “क्षेत्रियच्” इति निपात्यते। वाक्याऽर्थे पदवचनं श्रोत्रियवदित्यप्याहुः। क्षेत्रियो नाम शरीरान्तरे चिकित्स्यो व्याधिरप्रतिकार्य इत्यर्थः। तथा चाऽयं नासाच्छेदरूपो दण्डोऽपि छिन्नाया नासायाः पुनः प्ररोहत्वाऽसम्भवात् तादृग्रूपेण व्यपदिष्टः। अपाति=पातेः (पततेर्ण्यन्तात्) कर्मणि लुङि चिणादेशो णिलोपश्च।

** भावाऽर्थः**—“हे लक्ष्मण। अहं शूर्पणखाऽस्मि इति नूनं त्वया न ज्ञातं येन अज्ञानेन त्वया अयं जन्मान्तरप्रतिकार्यो दण्डः (नासाछेदरूपः) मयि पातितः" इति सा तम् अकथयत्।

** भाषाऽर्थः**—शूर्पणखाने लक्ष्मणको कहा—हे लक्ष्मण ! “मैं शूर्पणखा हूँ”

निश्चय यह बात तुमने नहीं जानी, जिस अज्ञान से तुमने दूसरे जन्म में मिटने वाला यह नासिकाछेदरूप दण्ड मुझको दिया॥३२॥

पर्यशाप्सीद्दिविष्ठाऽसौ सन्दर्श्य भयदं वपुः।
अपिस्फवच्च बन्धूनां निनङ्क्षुर्विक्रमं मुहुः॥३३॥

अन्वयः—असौ दिविष्ठा (सती) भयदं वपुः सन्दर्श्यपर्यशाप्सीत्, निनङ्क्षुः (सती) बन्धूनां विक्रमं मुहुः अपिस्फवत्।

प्रयोगप०—अमुयादिविष्ठया(सत्या) पर्यशापि, निनङ्क्ष्वा(सत्या) बन्धूनां विक्रमः अस्फायि च।

व्याख्या—असौ=शूर्पणखा, दिविष्ठा=आकाशस्था (सती), भयदं=भयङ्करं, वपुः=स्वशरीरं, सन्दर्श्य=दर्शयित्वा पर्यशाप्सीत्=आक्रुष्टवती, निनङ्क्षुः=नंष्टुमिच्छुः (विनाशकाले विपरीतबुद्धिः सतीत्यर्थः), बन्धूनां=बान्धवानां (खरादीनामित्यर्थः), विक्रमं=पराक्रमं, मुहुः=असकृत्, अपिस्फवच्च=वाचा अवीवृधच्च।

व्युत्पत्तिः—दिविष्ठा=दिवि तिष्ठतीति दिविष्ठा, “सुपि स्थः’इति कः, “तत्पुरुषे कृति बहुलम्” इत्यलुक् “अम्बाम्बे"त्यादिना षत्वे ष्टुत्वं च। भयदं=भयं ददातीति भयदं, तत् “आतोऽनुपसर्गे कः” इति कः। पर्यशाप्सीत्=परिपूर्वात् ‘“शप आक्रोशे’” इति धातोर्लुङि सिचि हलन्तलक्षणा वृद्धिः। निनङ्क्षुः=नशेः सन्नन्तादुप्रत्ययः “मस्जिनशोर्झलि” इति नुम्। “विक्रमस्त्वति-शक्तिता।” इत्यमरः। अपिस्फवत्=“स्फायी ओप्यायी वृद्धौ” इति धातोर्णिचि “स्फायो व” इति वकारः,“णौ चङ्युपधाया ह्रस्वः” इत्युपधाह्रस्वः, द्विर्भावः, अभ्यासकार्यं, चर्त्वमित्वंच।

भावार्थः—शूर्पणखा आकाशस्था सती भयङ्करं स्ववपुः प्रदर्श्य आक्रुष्टवती, विनाशकाले विपरीतबुद्धिः सती खरादीनां बान्धवानां पराक्रमं वारं वारं वाचा अवीवृधच्च।

भाषाऽर्थः—शूर्पणखा आकाश में जा कर अपना भयङ्कर शरीर दिखला कर आक्रोश करने लगी, विनाशकालमें विपरीत बुद्धिवाली होती हुई खर आदि अपने बन्धुओंके पराक्रमको वार वार प्रकाशित करने लगी॥३३॥

खरदूषणयोर्भ्रात्रोः पर्यदेविष्ट सा पुरः।
विजिग्राहयिषू रामं दण्डकारण्यवासिनम्॥३४॥

** अन्वयः**—सा खरदूषणयोः भ्रात्रोः पुरः दण्डकारण्यवासिनं रामं विजिग्राहरिषुःपर्यदेविष्ट।

** प्रयोगप०**—तया….विजिग्राहयिष्वा पर्यदेवि।

** व्याख्या**—सा=शूर्पणखा, खरदूषणयोः=खरदूषणनामकयोः, भ्रात्रोः=सहोदरयोः, पुरः=अग्ग्रे, दण्डकाऽरण्यवासिनं= जनस्थाननिवासिनं (“दण्डकारण्यवासिनोः” इति पाठे खरदूषणविशेषणं बोध्यम्), रामं=दाशरथिं, विजिग्राहयिषुः= विरोधयितुमिच्छुः (सती), पर्यदेविष्ट=विललाप।

** व्युत्पत्तिः**—खरदूषणयोः=खरश्च दूषणश्च खरदूषणौ, तयोः (द्वन्द्वः)। दण्डकारण्यवासिनं=दण्डकस्य अरण्यं दण्डकारण्यं (ष० त०), तस्मिन्वसतीति तच्छीलो दण्डकारण्यवासी, तम् (णिनिप्रत्ययः)। विजिग्राहयिषुः=विग्राहयितुम् (योधयितुम्) इच्छुः विजिग्राहयिषुः, ग्राहयतेः (ग्रहेर्ण्यन्तात्) सन्नन्तादुप्रत्ययः। पर्यदेविष्ट=परिपूर्वात् “देव देवने” इति दैवादिकाद्धातोर्लुङि तङ सिचीट् “विलापः परिदेवनम्" इत्यमरः।

** भावाऽर्थः**—शूर्पणखा खरदूषणयोः भ्रात्रोः पुरः दण्डकारण्ये स्थितं रामं विरोधयितुमिच्छुः सती विलापं कृतवती।

** भाषाऽर्थः**—शूर्पणखा खर और दूषण नामके अपने भाइयोंके सामने दण्डकारण्यमें रहनेवाले रामसे विरोध कराने की इच्छासे विलाप करने लगी॥३४॥

अथ त्रिभिः श्लोकैर्विलापप्रकारमाह—

कृते सौभागिनेयस्य भरतस्य विवासितौ।
पित्रा दौर्भागिनेयौ यौ, पश्यतं चेष्टितं तयोः॥३५॥

** अन्वयः**—दौर्भागिनेयौ यौ सौभागिनेयस्य भरतस्य कृते पित्रा विवासितौ, तयोः चेष्टितं पश्यतम्।

** प्रयोगप०**—दौर्भागिनेयौ यौ पिता विवासितवान्, तयोश्चेष्टितं दृश्यताम्।

** व्याख्या**—दौर्भागिनेयौ=निर्भाग्यापुत्रौ (भाग्यरहितयोः कौशल्यासुमित्रयोः पुत्रौ इत्यर्थः, अन्यथा कथं तयोर्निर्वासनमिति भावः)। यौ=रामलक्ष्मणौ, सौभागिनेयस्य=सुभगासुतस्य (कैकेयीसुतस्येत्यर्थः, भर्तुर्वाल्लभ्यात् कैकेय्याः सुभगत्वमिति भावः), भरतस्य=मध्यमदाशरथेः, कृते=कार्याय, पित्रा=जनकेन

(दशरथेनेत्यर्थः), विवासितौ=निष्कासितौ, तयोः=रामलक्ष्मणयोः, चेष्टितं=व्यापारं (मन्नासाछेदनरूपमित्यर्थः), पश्यतम्= अवलोकयतम्।

** व्युत्पत्तिः**—दौर्भागिनेयौ=दुष्टं भगं (भाग्यम्) ययोस्ते दुर्भगे (बहु०), दुर्भगयोरपत्ये पुमांसौ दौर्भागिनेयौ “स्त्रीभ्यो ढक्" इति ढकि “कल्याण्यादीनामिनङ्” इति इनङादेशः “हृद्भगसिन्ध्वन्ते पूर्वपदस्य च” इत्युभयपदवृद्धिः। सौभागिनेयस्य= शोभनं भगं (भाग्यम्) यस्याः सा सुभगा (बहु०), तस्या अपत्यं पुमान् सौभागिनेयस्तस्य (पूर्ववड्ठक्, इनङ् उभयपदवृद्धिश्च)। कृते=करणं कृत्, तस्यै “सम्पदादिभ्यः क्विप्” इति क्विबन्ताच्चतुर्थी, तादर्थ्ये अव्ययमिति केचित्। पश्यतं=“लोट् च” इति प्रार्थनायां लोट्।

** भावाऽर्थः**—निर्भाग्ययोः कौशल्यासुमित्रयोः पुत्रौ यौ रामलक्ष्मणौ सुभगायाः कैकेय्याः पुत्रस्य भरतस्य कार्याय निष्कासितौ, तयोः मन्नासाछेदनरूपं व्यापारमवलोकयतम्।

** भाषाऽर्थः**—भाग्यरहित कौशल्या और सुमित्राके पुत्र राम और लक्ष्मण, सौभाग्ययुक्त कैकेयीके पुत्र भरतके लिए पितासे निर्वासित किये गये हैं, उनकी चेष्टा (मेरा नासाछेदनरूप) देखो॥३५॥

मम रावणनाथायाः भगिन्या युवयोः पुनः।
अयं तापसकाद्ध्वंसः क्षमध्वं, यदि वः क्षमम्॥३६॥

** अन्वयः**—रावणनाथायाः पुनः युवयोः भगिन्याः मम तापसकात् अयं ध्वंसः वः क्षमं यदि (तदा) क्षमध्वम्।

** प्रयोगप०**—अनेन ध्वंसेन वः क्षमेण यदि (भूयते), क्षम्यताम्।

** व्याख्या**—रावणनाथायाः=रावणस्वामिकायाः (रावणरक्षिताया इत्यर्थः), पुनः=विशेषतः, युवयोः=भवतोः (खरदूषणयोरित्यर्थः), भगिन्याः=स्वसुः, मम=शूर्पणखायाः, तापसकात्=कुत्सिततपस्विनः (लक्ष्मणादित्यर्थः), अयं= सन्निकृष्टस्थः, ध्वंसः=वैरूप्यं, वः=युष्माकं (गुरूणां पूज्यानामिति भावः), क्षमं यदि=क्षन्तुं योग्यं चेत् (तदा=तर्हि), क्षमध्वं=सहध्वम् (उपेक्षध्वमित्यर्थः)।

** व्युत्पत्तिः**—रावणनाथायाः=रावणो नाथो यस्याः सा रावणनाथा, तस्याः (बहु०)। भगिन्याः=“भगिनी स्वसा।” इत्यमरः। तापसकात्=तपः अस्याऽस्तीति तापसः “अण् च" इत्यण्प्रत्ययः। “तपस्वी तापसः पारिकाङ्क्षी”

इत्यमरः। कुत्सितः तापसः तापसकः, तस्मात् “कुत्सिते” इति कन्प्रत्ययः। वः=“युष्मदि गुरावेकेषाम्” इति बहुवचननिर्देशः। क्षमध्वं=“क्षमूष् सहने” इति धातोर्लोट्।

** भावाऽर्थः—**रावणपालितायास्तत्राऽपि युवयोः खरदूषणयोर्भगिन्या मभ कुत्सितात्तापसात् एतद्वैरूप्यं युष्माकं मर्षणयोग्यं चेत् तर्हि मर्षणीयम् (सर्वथैवाऽयमपमानो नोपेक्षणीय इति भावः)।

** भाषाऽर्थः—**रावणसे पालित तथा आप दोनोंकी बहन मेरा, कुत्सित तपस्वीसे सम्पादित यह विरूपता आप लोगों को सहना उचित है तो सहिए॥३६॥

असंस्कृत्रिमसंव्यानावनुप्त्रिमफलाशिनौ।
अभृत्रिमपरीवारौ पर्यभूतां तथाऽपि माम्॥३७॥

** अन्वयः—**असंस्कृत्रिमसंव्यानौ अनुप्त्रिमफलाशिनौ अभृत्रिमपरीवारौ (तौ) तथाऽपि मां पर्यभूताम्।

** प्रयोगप०—**असंस्कृत्रिमसंव्यानाभ्याम् अनुप्त्रिमफलाशिभ्याम् अभ्रत्रिमपरीवाराभ्यां (ताभ्याम्) तथाऽप्यहं पर्यभाविषि।

**व्याख्या—**असंस्कृत्रिमसंव्यानौ=वल्कलधारकौ, अनुप्त्रिमफलाशिनौ=अकृष्टपच्यफलाशिनौ, अभृत्रिमपरीवारौ=अभृत-परिजनौ (मृगमात्रपरीवारावित्यर्थः)। (तौ रामलक्ष्मणौ) तथाऽपि=अतिनीचावपि, मां शूर्पणखां (रावणनाथां खरदूषणभगिनीं चेत्यर्थः), पर्यभूताम्=परिभूतवन्तौ (नासिकाच्छेदेन तिरस्कृतवन्तावित्यर्थः, कथमेतत्सह्यमिति भावः)।

** व्युत्पत्तिः—**असंस्कृत्रिम संव्यानौ=संस्कारेण (कुविन्दव्यापारेण) निर्वृत्ते संस्कृत्रिमे, “डुकृञ् करणे” इति धातोः “ड्वितोः क्त्रिः” इति क्त्रिः, “क्रेर्मम्नित्यम्” इति मप् “सम्परिभ्यां करोतौ भूषणे" इति सुट्, सम्पूर्वस्य क्वचिदभूषणेऽपि सुट् “संस्कृतं भक्षा" इति ज्ञापकात्। न संस्कृत्रिमे असंस्कृत्रिमे (नञ्०),ते संव्याने ययोस्तौ असंस्कृत्रिमसंव्यानौ (बहु०)। “अन्तरीयोप-संव्यानपरिधानान्यधोंऽशुके।" इत्यमरः। अनुप्त्रिमफलाशिनौ=वापेन निर्वृत्तानि उप्त्रिमाणि, “डुवप् बीजसन्ताने” इति धातोः पूर्ववत् क्त्रिर्मप् च। न उप्त्रिमाणि अनुप्त्रिमाणि (नञ्०), अनुप्त्रिमाणि च तानि फलानि अनुप्त्रिम फलानि (क० धा०), तानि अश्नीतस्तच्छीलौ अनुप्त्रिमफलाशिनौ (णिनिः)। अभृत्रिमपरीवारौ=भरणेन निर्वृत्तः भृत्रिमः, “डुभृञ् धारणपोषणयोः” इति धातोः

पूर्ववत्प्रत्ययादिकम्। न भृत्रिमोऽभृत्रिमः (नञ्०), स परीवारो ययोस्तौ (बहु०), “उपसर्गस्य घञ्यमनुष्ये बहुलम्" इत्युप-सर्गस्य दीर्घः। पर्यभूताम्=परिपूर्वकात् भूधातोर्लुङ्, “अनादरः परिभवः परीभावस्तिरस्क्रिया।" इत्यमरः।

** भावाऽर्थः**—रामलक्ष्मणौ कुविन्दनिर्मिते वस्त्रे न धारयतः, अपि तु वल्कलधारकौ स्तः, शाल्यन्नं न भक्षयतः, अपि तु अकृष्टपच्यफलाशिनौ स्तः, तथा परिजनान् न बिभृतः, अपि तु मृगमात्रपरीवारौ स्तः; एवमतिनीचावपि मां रावणपालितां खरदूषणभगिनीं तिरस्कृतवन्तौ।

** भाषाऽर्थः**—राम और लक्ष्मण वल्कल धारण करते हैं, वन्य फल खाते हैं, परिवारोंका भरण नहीं करते हैं, ऐसे होते हुए भी उन्होंने नासिका काट कर मेरा तिरस्कार किया॥३७॥

अथ श्लोकद्वयेन प्रत्युत्तरमाह—

श्वः श्रेयसमवाप्ताऽसि भ्रातृभ्यां प्रत्यभाणि सा।
प्राणिवस्तव मानाऽर्थं, व्रजाऽऽश्वसिहि मा रुदः॥३८॥

** अन्वयः**—सा भ्रातृभ्यां प्रत्यभाणि—(वत्से !) श्वःश्रेयसम् अवाप्तासि तव मानाऽर्थं प्राणिवः, आश्वसिहि, मा रुदः, व्रज।

** प्रयोगप०**—तां भ्रातरौ प्रत्यभाणिष्टां—(वत्से ! त्वया) श्वःश्रेयसम् अवाप्ता, (आवाभ्याम्) तव मानाऽर्थं प्राण्यते, (त्वया) आश्वस्यतां, मा रोदि, (त्वया) व्रज्यताम्।

** व्याख्या**—सा=शूर्पणखा, भ्रातृभ्यां खरदूषणाभ्यां प्रत्यभाणि=प्रत्युक्ता, (हे वत्से !) श्वःश्रेयसं=कल्याणम्, अवाप्तासि= प्राप्स्यसि, तव=भवत्याः, मानाऽर्थं=संमानाऽर्थम्, प्राणिवः=जीवावः, आश्वसिहि=आश्वस्ता भव (उद्वेगं त्यजेत्यर्थः), मा रुद=मा रोदीः, व्रज=गच्छ (मार्गं प्रदर्शयेत्यर्थः)।

** व्युत्पत्तिः**—प्रत्यभाणि=प्रतिपूर्वाच्छब्दाऽर्थकभणधातोः कर्मणि लुङ्। श्वः-श्रेयसं=शोभनं श्रेयः श्वःश्रेयसं, तत् “मयूर-व्यंसकादयश्च” इति समासः “श्वसो वसीयः श्रेयसः” इति समासाऽन्तोऽच्। श्वस्शब्द उत्तरपदार्थप्रशंसामाशीर्विषयतामाहेति सिद्धान्तकौमुदी। “श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्।” इत्यमरः। अवाप्तासि=अवपूर्वात् आप्नोतेरनद्यतने भविष्यति लुटि सिपि तासिप्रत्ययः, “तासस्त्योर्लोपः” इति सकारलोपः। मानाऽर्थं मानाय इदम् मानार्थं

तद् यथा तथा (च० त०)। प्राणिवः=“अन प्राणने” इति धातोर्लट् वस्, शपो लुक् “रुदादिभ्यः सार्वधातुके” इतीट् “अनितेः" इति णत्वम्। आश्वसिहि आङ्पूर्वात् “श्वस प्राणने” इति धातोर्लोट्, पूर्ववदिट् च। मा रुदः=रुदेः “माङि लुङ्” इति लुङि सिपि “इरितो वा” इति च्लेरङादेशः, “न माङ्योगे” इति अडभावः।

** भावार्थः**—शूर्पणखां भ्रातरौ खरदूषणावूचतुः—“हे वत्से ! कल्याणं प्राप्स्यसि तव संमानरक्षणाऽर्थमेव वयं जीवामः, उद्वेगं त्यज, मा रोदीः; मार्गंप्रदर्शय”।

** भाषाऽर्थः**—शूर्पणखाको भाइयों (खर और दूषण) ने कहा—“हे वत्से ! कल्याण पाओगी, तुम्हारी संमानरक्षा के लिए ही हमलोग प्राणधारण करते हैं, उद्वेगको छोड़ो, मत रोओ, चलो (रास्ता दिखलाओ)॥३८॥

यदुक्तं क्षमध्वमिति शूर्पणखया तत्रोत्तरमाहतुः—

जक्षिमोऽनपराधेऽपि नरान्नक्तन्दिवं वयम्।
कुतस्त्यं भीरु ! यत्तेभ्यो द्रुह्यद्भ्योऽपि क्षमामहे॥३६॥

** अन्वयः**—वयम् अनपराधे अपि नरान् नक्तन्दिवं जक्षिमः, हे भीरु ! द्रुह्यद्भ्यः तेभ्यः क्षमामहे (इति) यत् (तत्) कुतस्त्यम्।

** प्रयोगप०**—अस्माभिरनपराधेऽपि नरा जक्ष्यन्ते, (अस्माभिः) क्षम्यते (इति) येन (तेन) कुतस्त्येन (भूयते)।

** व्याख्या**—वयं=राक्षसाः, अनपराधे अपि=अपराधाऽभावे अपि, नरान्=मनुष्यान्, नक्तन्दिवं=रात्रिन्दिवं, जक्षिमः= भक्षयामः, हे भीरु=हे भयशीले, द्रुह्यद्भ्यः=द्रोहं कुर्वद्भ्यः, तेभ्यः=नरेभ्यः (रामादिरूपेभ्य इत्यर्थः), क्षमामहे=मर्षयामः (इति=एवम्), यत्=कार्यं (क्षमारूपमित्यर्थः) (तत्=पूर्वोक्तम्), कुतस्त्यं=कुत आगतम् (न क्षमामहे इत्यर्थः)।

व्युत्पत्तिः—अनपराधे=अपराधस्य अभावः अनपराधं, तस्मिन् “अव्ययं विभक्ती”त्यादिना अर्थाऽभावेऽव्ययीभावः। “तृतीयासप्तम्योर्बहुलम्” इत्यत्र बहुलत्वात् अमभावः। नक्तन्दिवं नक्तं च दिवा च नक्तन्दिवम् (द्वन्द्वः),“अचतुरे”त्यादिना सप्तम्यर्थवृत्योरव्यययोर्द्वन्द्वसमासाऽन्तनिपातः। जक्षिमः=“जक्ष भक्ष हसनयोः” इति धातोर्लटो मस्, शपो लुक् रुदादित्वात् सार्वधातुके इट्।

भीरु=“सञ्ज्ञापूर्वको विधिरनित्य” इति न गुणः। “त्रस्नौ भीरुभीरुकभीलुकाः।” इत्यमरः। द्रुह्यद्भ्यः=दुह्यन्तीति दुह्यन्तस्तेभ्यः, “दुह जिघांसायाम्” इति धातोः शतृप्रत्ययः। तेभ्यः=क्रियाग्रहणाच्चतुर्थी। कुतस्त्यं=कुत आगतं कुतस्त्यम्, “अव्ययात्यप्” इति “अमेहक्वतसित्रेभ्य एव” इति त्यप्।

** भावाऽर्थः**—वयं राक्षसा अपराधरहितानपि नरान् भक्षयामः, हे भीरु ! सापराधांस्तान्किमुत, अत आश्वस्ता भव।

** भाषाऽर्थः**—हम राक्षसलोग अपराध न करने पर भी मनुष्योंको खाते हैं तो द्रोह करनेवाले उन लोगोंको क्षमा करनेकी बात कहांसे आई ?॥३९॥

तौ चतुर्दशसाहस्रबलौ निर्ययतुस्ततः।
पारश्वधिकधानुष्कशाक्तीकप्रासिकाऽन्वितौ॥४०॥

** अन्वयः**—ततः चतुर्दशसाहस्रबलौ तौ पारश्वधिकधानुष्कशक्ती कप्रासिकाऽन्वितौ (सन्तौ) निर्ययतुः।

** प्रयोगप०**—चतुर्दशसाहस्रबलाभ्यां ताभ्यां पारश्वधिकधानुष्कशाक्तीकप्रासिकाऽन्विताभ्यां (सद्भयाम्) निर्यये।

** व्याख्या**—ततः=शूर्पणखासमाश्वासनाऽनन्तरं, चतुर्दशसाहस्रबलौ=चतुर्दशसहस्रपरिमितसैन्यौ, तौ=खरदूषणौ, पारश्वधिकधानुष्कशाक्तीकप्रासिकाऽन्वितौ=कुठारधनुःशक्तिकुन्तधारियुक्तौ (सन्तौ), निर्ययतुः=निर्जग्मतुः (युद्धाऽर्थमिति शेषः)।

व्युत्पत्तिः—चतुर्दशसाहस्रबलौ=चतुर्दशसहस्राणि परिमाणं यस्य तत् चतुर्दशसाहस्रं, “शतमानविंशतिकसहस्रवसनादण्” इत्यण्, “सङ्ख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चालुकि” इति तदन्तविधिः, “सङ्ख्यायाः संवत्सरसङ्ख्यस्य च’ इत्युत्तरपदवृद्धिः। चतुर्दशसाहस्रं बलं (सैन्यम्) ययोस्तौ (बहु०)। पारश्वधिकधानुष्कशक्तीकप्रासिकाऽन्वितौ=परश्वधः (कुठारः) प्रहरणम् एषां ते पारश्वधिकाः, “परश्वधाट्ठञ्च” इति ठञ् चात् ठक् च ; “परशुश्च परश्वधः” इत्यमरः। धनुः प्रहरणमेषां ते धानुष्काः, “प्रहरणम्” इति ठक्, “इसुसुक्तान्तात्कः” इति ठस्य कः। शक्तिः प्रहरणमेषां पे शाक्तीकाः, “शक्तियष्ट्योरीकक्” इति ईकक्। प्रासः (कुन्तः) प्रहरणमेषां ते प्रासिकाः, “प्रहरणम्” इत्यौत्सर्गिकष्ठक्। पारश्वधिकाश्चघानुष्काश्च शाक्तीकाश्च प्रासिकाश्चेति पारश्व-

धिकधानुष्कशाक्तीकप्रासिकं (सेनाङ्गत्वात्समाहारद्वन्द्वः), तेन अन्वितौ (तृ०त०)। निर्ययतुः=निरुपसर्गपूर्वकात् यातेर्लिट् “आतो लोप इटि च” इत्याकारलोपः।

भावाऽर्थः—शूर्पणखासमाश्वासनाऽनन्तरं चतुर्दशसहस्रसैन्यसहितौ तौ खरदूषणौ कुठारधनुःशक्तिकुन्तधारिभिर्युक्तौ सन्तौ युद्धाऽर्थं निश्चक्रमतुः।

** भाषाऽर्थः**—शूर्पणखाको आश्वासन देनेके बाद चौदह हजार सैन्योंके साथ वे खर और दूषण फरसा, धनु, शक्ति और भाला लेनेवालोंसे युक्त हो कर लड़नेके लिए निकले॥४०॥

अथ सम्पततो भीमान्विशिखै रामलक्ष्मणौ।
बहुमूर्ध्नोद्विमूर्धांश्च त्रिमूर्धांश्चाहतां मृधे॥४१॥

** अन्वयः**—अथ रामलक्ष्मणौ सम्पततः भीमान् बहुमूर्ध्नः द्विमूर्धान् त्रिमूर्धांश्चमृधे विशिखैः अहताम्।

** प्रयोगप०**—रामलक्ष्मणाभ्यां सम्पतन्तो भीमा बहुमूर्द्धानो द्विमूर्धस्त्रिमूर्द्धाश्चअहन्यन्त।

** व्याख्या**—अथ=अनन्तरं रामलक्ष्मणौ दशरथनन्दनौ, सम्पततः=सम्मुखमागच्छतः, भीमान्=भयङ्करान्, बहुमूर्ध्नः= बहुशिरस्कान्, द्विमूर्धान्=द्विशिरस्कान्, त्रिमूर्धांश्च=त्रिशिरस्कांश्च, मृधे=सङ्ग्रामे, विशिखैः=बाणैः (करणैः), अहतां= हतवन्तौ।

** व्युत्पत्तिः**—रामलक्ष्मणौ=रामश्च लक्ष्मणश्च (द्वन्द्वः)। सम्पततः=सम्पतन्तीति सम्पतन्तस्तान् (शतृप्रत्ययः )। बहुमूर्ध्नः=बहवो मूर्धानो येषां ते बहुमूर्धानः, तान् (बहु०), “अल्लोपोऽन” इत्यलोपः। द्विमूर्धान्=द्वौ मूर्धानौ येषां ते द्विमूर्धास्तान् (बहु०), “द्वित्रिभ्यां ष मूर्ध्नः” इति समासान्तः षः। त्रिमूर्धान्=त्रयो मूर्धानो येषां ते त्रिमूर्धास्तान् (बहु०), पूर्ववत् समासाऽन्तः षः। मृधे=“मृधमास्कन्दनं सङ्ख्यं समीकं सम्परायकम्।” इत्यमरः। अहताम्=हन्तेर्लङि तसस्तामादेशः, “अनुदात्तोपदेश-वनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति” इत्यनुनासिकलोपः।

** भावाऽर्थः**—अनन्तरं रामलक्ष्मणौ युद्धार्थमभिमुखमागच्छतो भयङ्करान् बहुशिरस्कान्द्विशिरस्कान् त्रिशिरस्कांश्च राक्षसान् सङ्ग्रामे हतवन्तौ।

** भाषाऽर्थः**—तब राम और लक्ष्मणने युद्धके लिए सम्मुख आते हुए दो

शिरवाले, तीन शिरवाले तथा असंख्य शिरवाले भी राक्षसोंको सङ्ग्राम में मार डाला॥४१॥

तैर्वृक्णरुग्णसम्भुग्नक्षुण्णभिन्नविपन्नकैः।
निमग्नोद्विग्नसंह्रीणैः पप्रे दीनैश्चमेदिनी॥४२॥

** अन्वयः**—वृक्णरुग्णसम्भुग्नक्षुण्णभिन्नविपन्नकैः निमग्नोद्विग्नसंह्रीणैः दीनैश्च तैः मेदिनी पत्रे।

** प्रयोगप०** — वृक्णरुग्णसम्भुग्नक्षुण्णभिन्नविपन्नका निमग्नोद्विमसंहीणा दीनाश्च ते मेदिनीं पप्रुः।

व्याख्या—वृक्णरुग्णसम्भुग्नक्षुण्णभिन्नविपन्नकैः=छिन्नभग्नवक्रचूर्णितविदारितनष्टैः, निमग्नोद्विग्नसंह्रीणैः=भूमिमग्नभीत-लज्जितैः, दीनैश्च क्षीणबलैश्च, तैः=राक्षसैः, मेदिनी=पृथ्वी, पप्रे=पूरिता (‘वव्र’ इति मल्लिनाथसम्मतपाठे “आवृता” इत्यर्थः। “वृञ् आवरणे" इति धातोः कर्मणि लिट्)।

** व्युत्पत्तिः**—वृक्णरुग्णसम्भुग्नक्षुण्णभिन्नविपन्नकैः=वृश्च्यन्ते स्म इति वृक्णाः, “ओव्रश्चू छेदने” इति धातोः “निष्ठा" इति तप्रत्यये “ओदितश्च” इति तस्याऽसिद्धत्वात् “चोः कुः" इति कुत्वं, “ग्रहिज्यावयी"त्यादिना सम्प्रसारणं, “स्कोः संयोगाद्योरन्ते च" इति षकारलोपः, ऋकारैकदेशस्य रेफस्य निमित्तत्वात् “अट्कुप्वाङि”त्यादिना णत्वम्। ऊदित्वेन वेट्कत्वादिह “यस्य विभाषा" इति नेट्। “छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्।” इत्यमरः। रुज्यन्ते स्म इति रुग्णाः, “रुजो भङ्गे” इति धातोः क्ते नत्वं च। सम्भुज्यन्ते स्म इति सम्भुग्नाः, सम्पूर्वात् “भुजो कौटिल्ये” इति धातोः पूर्ववत्प्रत्ययादिकम्। क्षुद्यन्ते स्म इति क्षुण्णाः, “क्षुदिर् संपेषणे” इति धातोः क्तः, “रदाभ्यां निष्ठातो नः पूर्वस्य च दः” इति दकारतकारयोर्नत्वम्। भिद्यन्ते स्मेति भिन्नाः, “भिदिर् विदारणे” इति धातोः क्तः, पूर्ववद्दकारतकारयोर्नत्वम्। विपद्यन्ते इति विपन्नाः, पूर्ववत्प्रत्ययादिकम्। कुत्सिता विपन्ना विपन्नकाः, “कुत्सिते" इति कप्रत्ययः। वृक्णाश्च रुग्णाश्च सम्भुग्नाश्च क्षुण्णाश्च भिन्नाश्च विपन्नकाश्चेति वृक्णरुग्णसम्भुग्न-क्षुण्णभिन्नविपन्नकास्तैः (द्वन्द्वः)। निमग्नोद्विग्नसंह्रीणैः=निमज्ज्यन्ते स्मेति निमग्नाः, निपूर्वात् “टुमस्जो शुद्धौ” इति धातोः क्तः। उद्विज्यन्ते स्मेति उद्विग्नाः, उत्पूर्वकात् “ओविजी भयचलनयोः” इति धातोः क्तः, उभयत्राऽपि “ओ-

दितश्च” इति निष्ठानत्वे तस्याऽसिद्धत्वात्कुत्वम्। समह्रैषुरिति संह्रीणाः, सम्पूर्वकात् “ह्री लज्जायाम्" इति धातोः क्तः, “नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्” इति निष्ठानत्वम्। निमग्नाश्चउद्विग्नाश्च संह्रीणाश्च निमग्नोद्विग्नसंह्रीणास्तैः (द्वन्द्वः)। दीनैः= दीयन्ते स्मेति दीनास्तैः, “दीड् क्षये” इति धातोः क्तः, “स्वादय ओदितः” इति ओदित्त्वात् “ओदितश्च” इति नत्वम्। मेदिनी-कर्मत्वेऽपि “पप्र” इति तिङन्तपदेन अभिहितत्वात् प्रथमा। पप्रे=“प्रा पूरणे” इति धातोः कर्मणि लिट्।

** भावार्थः**—छिन्नाः भग्नहस्तपादाः प्रहारवेदनया कुटिलिताऽङ्गाः संपिष्टशरीराः विदारिताः मृताः भूमिभग्नाः भीताः संलज्जिताः क्षीणबला ते राक्षसाः स्वशरीरेण पृथ्वीं पूरितवन्तः।

** भाषाऽर्थः**—काटे गये, हाथ पैर टूटे हुए, प्रहारकी वेदनासे टेढे अङ्गोंवाले, पीसे गये, विदारण किये गये, मरे हुए, जमीनपर पड़े हुए, डरे हुए, लज्जित और क्षीणबल उनराक्षसोंने पृथ्वीको अपने शरीर से पूर्ण किया॥४२॥

केचिद्वेपथुमासेदुरन्ये दवथुमुत्तमम्।
सरक्तं वमथुं केचिद् भ्राजथुंन च केचन॥४३॥

** अन्वयः**—केचित् वेपथुम् आसेदुः, अन्ये उत्तमं दवथुम् आसेदुः केचित् सरक्तं वमथुम् आसेदुः भ्राजथुंच केचन न आसेदुः।

प्रयोगप०—कैश्चिद्वेपथुरासेदे, अन्यैरुत्तमो दवथुरासेदे, कैश्चित् सरक्तो वमथुरासेदे, भ्राजथुश्च कैश्चन न आसेदे।

** व्याख्या**—केचित्=केऽपि (राक्षसाः), वेपथुं=कम्पम्, आसेदुः=प्रापुः, अन्ये=अपरे (राक्षसाः), उत्तमं=महान्तं, दवथुं= परितापम्, आसेदुः=प्रापुः, केचित्=केऽपि (राक्षसाः), सरक्तं=सलोहितं, वमथुं=वमनम्, आसेदुः=प्रापुः, आजथं च=दीप्तिं तु, केचन=केऽपि, न आसेदुः=न प्रापुः।

** व्युत्पत्तिः**—वेपथुं=वेपनं वेपथुस्तम्, “टुवेपृकम्पते” इति धातोः “ट्वितोऽथुच्” इत्यथुच्। दवथुं=दवनं दवथुस्तं, “दुदु उपतापे” इति धातोः पूर्वसूत्रेणाऽथुच्। संरक्तं=रक्तेन सहितः सरक्तस्तं (बहु०), “रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्।” इत्यमरः। वमथुं=वमनं वमथुस्तं, “टुवम् उद्गिरणे” इति धातोस्तेनैव अथुच्। भ्राजथुंभ्राजनं भ्राजथुस्तं, “टुभ्राजृदीप्तौ” इति धातोः पूर्ववदथुच्।

** भावाऽर्थः**—केचिद्राक्षसाः कम्पिता बभूवुः, अन्ये महान्तं परितापं प्रापुः, केचित् रक्तवमनं कृतवन्तः, शोभां तु केऽपि न प्राप्ताः।

** भाषाऽर्थः**—कोई राक्षस कांपने लगे, और लोग अत्यन्त परितप्त होने लगे, कोई रक्तवमन करने लगे और शोभा तो किसीने भी नहीं पाई (सबके सब राक्षस शोभाहीन हो गये)॥४३॥

मृगयुमिवमृगोऽथ दक्षिणेर्मा दिशमिव दाहवतीं मरावुदन्यन्।
रघुतनयमुपाययौ त्रिमूर्धो विषभृदिवोग्रमुखं पतत्रिराजम्॥४४॥

** अन्वयः**—अथ दक्षिणेर्मा मृगः मृगयुम् इव, मरौ उदन्यन् दाहवतीं दिशम् इव, विषभृत् उग्रमुखं पतत्रिराजम् इव त्रिमूर्धः रघुतनयम् उपाययौ।

** प्रयोगप०**— दक्षिणेन मृगेण मृगयुरिव, मरौ उदन्यता दाहवती दिगिव, विषभृता उग्रमुखः पतत्रिराज इव त्रिमूर्धेन रघुतनय उपायये।

** व्याख्या**—अथ=अस्मिन् अवसरे, दक्षिणेर्मा=व्याधेन व्रणितदक्षिणाऽङ्गः, मृगः=हरिणः, मृगयुम् इव=व्याधम् इव, मरौ= निर्जलदेशे, उदन्यन्=पिपासुः, दाहवतीं=दावाऽग्नियुक्तां, दिशम् इव=काष्ठाम् इव, विषभृत्=सर्पः, उग्रमुखं=भयङ्कराननं, पतत्रिराजम् इव=पक्षिराजम् इव (गरुडमिवेत्यर्थः), त्रिमूर्धः=त्रिशिराः (राक्षसविशेषः), रघुतनयं=रामम्, उपाययौ= उपाजगाम (अत्र मालोपमाऽलङ्कारः, “मालोपमा यदेकस्योपमानं बहु दृश्यते।" इति तल्लक्षणम्। अनेनोपमात्रयेण अस्य रक्षसः सद्यो मरणं व्यज्यते, इत्यलङ्कारेण वस्तुध्वनिरिति मल्लिनाथः। श्लोकेऽस्मिन् पुष्पिताग्रावृत्तम् “अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा।" इति तल्लक्षणम्।

** व्युत्पत्तिः**—दक्षिणेर्मा=दक्षिणे ईर्मं (व्रणम्) यस्य अस्तीति दक्षिणेर्मा (बहु०),“दक्षिणेर्मा लुब्धयोगे” इत्यनिच्प्रत्ययाऽन्तो निपातः। “व्रणोऽस्त्रियामीर्ममरुः” इति “दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः। “इति चामरः। मृगयुं=मृगान् यातीति मृगयुस्तम्, औणादिकः कुप्रत्ययः। “व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः।” इत्यमरः। मरौ=“समानौ मरुधन्वानौ” इत्यमरः। उदन्यन्=उदकमिच्छन् उदन्यन्, “सुप आत्मनः क्यच्” इति क्यच् “अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु” इत्युदन्यादेशनिपातः, तस्माल्लटः शत्रादेशः। दाहवतीं=दाहोऽस्या अस्तीति दाहवती, ताम्(मतुप् ङीप् च) विषभृत्=विषं

बिभर्तीति विषभृत् ( क्विप्)। उग्रमुखम्=उग्रं मुखं यस्य स उग्रमुखस्तम् (बहु०)। पतत्रिराजं=पतत्रिणां राजा पतत्रिराजस्तम् (ष० त०, समासान्तष्टच्)। त्रिमूर्धः=त्रयो मूर्धानो यस्य सः (बहु०), समासाऽन्तः षः।

** भावाऽर्थः**—अस्मिन्नवसरे यथा व्याधेन व्रणितदक्षिणाऽङ्गो मृगो व्याधमुपागच्छति, निर्जलप्रदेशे जलपानाऽभिलाषी यथा दावाऽग्नियुक्तां दिशमुपागच्छति, सर्पोभयङ्करमुखं गरुडं यथा उपागच्छति तथैव आसन्नमृत्युः स त्रिशिरा नाम राक्षसो राममुपाजगाम।

** भाषाऽर्थः**—इस अवसरपर व्याधसे दक्षिण अङ्गमें घाव किया गया मृग जैसे व्याधके पास आता है, रेगिस्तानमें जल पीनेकी इच्छा करनेवाला पुरुष जैसे दावाग्नि युक्त दिशाके सम्मुख आता है, सर्प जैसे भयङ्कर मुखवाले गरुडजीके पास आता है उसी तरह त्रिशिरा नामका राक्षस रामचन्द्र के समीप आ गया॥४४॥

शितविशिखनिकृत्तकृत्स्नवक्त्रः क्षितिभृदिव क्षितिकम्पकीर्णशृङ्गः।
भयमुपनिदधे स राक्षसानामखिलकुलक्षयपूर्वलिङ्गतुल्यः॥४॥

** अन्वयः**—शितविशिखनिकृत्तकृत्स्नवक्त्रः क्षितिकम्पकीर्णशृङ्गः क्षितिभृत् इव (स्थितः) अखिलकुलक्षयपूर्वलिङ्गतुल्यः स राक्षसानां भयम् उपनिदधे।

** प्रयोगप०**—शितविशिखनिकृत्तकृत्स्नवक्त्रेण क्षितिकम्पकीर्णशृङ्गेण क्षितिमृता इव अखिलकुलक्षयपूर्वलिङ्गतुल्येन तेन राक्षसानां भयम् उपनिदधे।

व्याख्या–शितविशिखनिकृत्तकृत्स्नवक्त्रः=तीक्ष्णबाणच्छिन्नसर्वमूर्द्धा(अत एव) क्षितिकम्पकीर्णशृङ्गः=भूमिकम्पविकीर्ण-शिखरः, क्षितिभृत् इव=पर्वत इव (स्थित इति शेषः), अखिलकुलक्षयपूर्वलिङ्गतुल्यः=सम्पूर्णराक्षसवंशनाशपूर्वचिह्नसमानः, सः=त्रिशिराः, राक्षसानां=रक्षसाम् (अवशिष्टराक्षसानामित्यर्थः), भयं=भीतिम्, उपनिदधे=उपनिहितवान् (जनयामासेत्यर्थः)।

** व्युत्पत्तिः**—शितविशिखनिकृत्तकृत्स्नवक्त्रः=शिताश्च ते विशिखाः शितविशिखाः (क० धा०), निकृत्तानि कृत्स्नानि वक्त्राणि यस्य सः निकृत्तकृत्स्नवक्त्रः (बहु०) “विश्वमशेष कृत्स्नं समस्तनिखिलाऽखिलानि निःशेषम्।” इत्यमरः। शितनिशिखैः निकृत्तकृत्स्नवक्त्रः (तृ० त०)। क्षितिकम्पकीर्णशृङ्गः=क्षितेः कम्पः क्षितिकम्पः (ष० त०)। कीर्णानि शृङ्गाणि यस्य सः कीर्णशृङ्गः (बहु०), क्षितिकम्पेन कीर्णशृङ्गः (तृ० त०), क्षितिभृत्=क्षितिं बिभर्तीमि क्षिति-

भृत् (क्विप्०)। अखिलकुलक्षयपूर्वलिङ्गतुल्यः=अखिलं च तत् कुलम् अखिलकुलं (क० धा०), तस्य क्षयः अखिलकुलक्षयः (ष० त०)। पूर्वं च तत् लिङ्गं पूर्वलिङ्गम् (क० धा०)। अखिलकुलक्षये पूर्वलिङ्गम् अखिलकुलक्षयपूर्वलिङ्गं (स० त०), तेन तुल्यः (तृ० त०)।

** भावाऽर्थः**—रामतीक्ष्णबाणैः छिन्नसकलशिरस्कः औत्पातिकभूकम्पेन विकीर्णशिखरः पर्वत इव स्थितः समस्तवंशक्षय-पूर्वावेदकनिमित्तसदृशः स त्रिशिरा अवशिष्टराक्षसानां भयं जनयामास।

** भाषाऽर्थः**—तीखे बाणोंसे तीनों शिर कटा हुआ, औत्पातिक भूकम्पसे विखरी हुई चोटियोंवाले पर्वतकी तरह स्थित, संपूर्ण वंशका क्षयज्ञापक पूर्व चिह्नके सदृश उस त्रिशिराने अवशिष्ट राक्षसोंके चित्तमें भय पैदा किया॥४५॥

इति श्रीभट्टिकाव्ये व्याख्याद्वयोपेते प्रकीर्णकाण्डे शूर्पणखानिग्रहो नाम चतुर्थः सर्गः॥

<MISSING_FIG href=”../books_images/U-IMG-1722061799Screenshot2024-07-27115857.png”/>

अथ पञ्चमः सर्गः।

निराकरिष्णू वर्तिष्णु वर्धिष्णू परितो रणम्।
उत्पतिष्णूसहिष्णू च चेरतुः खरदूषणौ॥१॥

** अन्वयः**—(अथ) खरदूषणौ निराकरिष्णू वर्तिष्णू वर्धिष्णू उत्पतिष्णू सहिष्णू च (सन्तौ) रणं परितः चेरतुः।

** प्रयोगप०**—खरदूषणाभ्यां निराकरिष्णुभ्यां वर्तिष्णुभ्यां वर्धिष्णुभ्याम् उत्पतिष्णुभ्यां सहिष्णुभ्यां च (सद्भ्याम्) चेरे।

व्याख्या—(अथ=त्रिशिरःपाताऽनन्तरम्) खरदूषणौ=शूर्पणखाभ्रातरौ, निराकरिष्णू=शत्रुनिराकरणशीलौ, वर्तिष्णू= अतिप्रहारेऽपि वर्तनशीलौ (स्थायिनावित्यर्थः), वर्धिष्णू=वर्धनशीलौ (युद्धोत्साहिनावित्यर्थः), उत्पतिष्णू=ऊर्ध्वमुत्पतनशीलौ, सहिष्णू च=शत्रुप्रहारसहनशीलौ च (सन्तौ), रणं परितः=युद्धे सर्वतः, चेरतुः=बभ्रमतुः (क्रियासमुच्चयाऽलङ्कारः)॥

** व्युत्पत्तिः**—खरदूषणौ=खरश्च दूषणश्च (द्वन्द्वः)। निराकारिष्णू=“अलङ्कृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रप-वृतुवृधुसहचरइष्णुच्” इतीष्णुच्।

“निराकरिष्णुः क्षिप्नुः स्यात्"इत्यमरः। एवं सर्वत्र इष्णुच्। रणं=“परितः” इत्यनेन योगे “अभितः परितः समयानिकषाहा प्रतियोगेऽपि” इति द्वितीया। चेरतुः=‘चरेर्लिटि तसोऽतुस्, “अत एकहल्मध्येऽनादेशादेर्लिटि” इत्येत्वाऽभ्यासलोपौ।

भावाऽर्थः—त्रिशिरःपाताऽनन्तरं खरदूषणौ शत्रुनिराकरणशीलौ स्थायिनौ युद्धोत्साहिनौ ऊर्ध्वमुत्पतनशीलौ शत्रुप्रहार-सहनशीलौ च सन्तौ युद्धभूमेः सर्वतो बभ्रमतुः॥

** भाषाऽर्थः**—त्रिशिराके गिरने के बाद खर और दूषण शत्रुओंके निराकरणशील, अत्यन्त प्रहारमें भी वर्तनशील, युद्ध में उत्साही, ऊपर उत्पतनशील और शत्रुप्रहारमें सहनशील भी होते हुए युद्धभूमिके चारों तरफ घूमने लगे॥१॥

तौ खड्गमुसलप्रासचक्रबाणगदाकरौ।
अकार्ष्टायुधच्छायं रजःसन्तमसे रणे॥२॥

** अन्वयः**—खड्गमुसलप्रासचक्रबाणगदाकरौ तौ रजःसन्तमसे रणे आयुधच्छायम् अकार्ष्टाम्।

** प्रयोगप०**—खड्गमुसलप्रासचक्रबाणगदाकराभ्यां ताभ्याम् आयुधच्छायम् अकारि।

** व्याख्या**—खड्गमुसलप्रासचक्रबाणगदाकरौ=अस्ययोग्रकुन्तचक्रशरगदाहस्तौ, तौ=खरदूषणौ, रजःसन्तमसे=धूलिकृत-व्यापकाऽन्धकारे (रक्षः सन्तमसे इति मल्लिनाथसंसृतपाठे रक्षांसि राक्षसाः एव सन्तमसं=विषूचीनं तमो र्यस्मिंस्तस्मिन्नित्यर्थः), रणे=युद्धे, आयुधच्छायं=प्रहरणच्छायम्, अकार्ष्टां=कृतवन्तौ (आयुधैश्छादितवन्तौ इत्यर्थः)।

** व्युत्पत्तिः**—खङ्गमुसलप्रासचक्रबाणगदाकरौ=खड्गश्च मुसलश्च प्रासश्चचक्रं च बाणश्च गदा च खङ्गमुसलप्रासचक्र-बाणगदाः, व्यक्तिप्राधान्यात् “जातिरप्राणिनाम्’” इत्येकवद्भावाऽभावः। जयमङ्गलस्तु “खड्गादीनां बाणान्तानां पदानां द्वन्द्वैकवद्भावं कृत्वा पश्चात्तेन सहिता गदेति शाकपार्थिवादित्वात्समासः। अन्यथा पूर्वसूत्रविहितेन एकवद्भावेन"बाणगदम्” इति नपुंसकलिङ्गता स्यात्” इत्यब्रवीत्। रजःसन्तमसे=सन्ततं तमः सन्तमसं, प्रादिसमासः “अवसमन्धेभ्यस्तमसः” इति समासाऽन्तोऽच्, “विष्वक् सन्तमसम्” इत्यमरः। रज एव सन्तमसं यस्मिंस्तत् रजःसन्तमसं, तस्मिन् (बहु०)। आयुधच्छायम्= आयुधानां छाया आयु-

धच्छायं, तत् (ष० त०),“छाया बाहुल्ये” इति पूर्वपदाऽर्थबाहुल्ये नपुंसकत्वम्। अकाम्=“डुकृञ् करणे” इति धातोः कर्तरि लुङि तसस्तामादेशः, सिचि वृद्धिः।

** भावाऽर्थः**—खड्गमुसलकुन्तचक्रशरगदाधारिणौ तौ खरदूषणौ धूल्यन्धकारिते युद्धे शस्त्रबाहुल्यं कृतवन्तौ।

** भाषाऽर्थः**—खड्ग, मुसल, भाला, चक्र, बाण और गदाको धारण करनेवाले खर और दूषणने धूलिसे अन्धकारपूर्ण युद्धमें शस्त्रों को फैलाया॥२॥

अथ तीक्ष्णायसैर्बाणैरधिमर्म रघूत्तमौ।
व्याधं व्याधममूढौ तो यमसच्चक्रतुर्द्विषौ॥३॥

** अन्वयः**—अथ रघूत्तमौ अमूढो (सन्तौ) द्विषौ तीक्ष्णायसैः बाणैः अधिमर्म व्याधं व्याधं यमसात् चक्रतुः।

** प्रयोगप०**—रघूत्तमाभ्याम् (सद्भ्याम्) द्विषौ यमसात् चक्राते।

** व्याख्या**—अथ=राक्षसविक्रमाऽनन्तरं रघूत्तमौ रामलक्ष्मणौ, अमूढौ=साऽवधानौ (सन्तौ), द्विषौ द्वेषिणौ (खरदूषणौ इत्यर्थः), तीक्ष्णायसैः=निशितफलैः, बाणैः शरैः, अधिमर्म=मर्मस्थलेषु, व्याधं व्याधम्=अभीक्ष्णं विद्ध्वा, यमसात्= अन्तकाऽधीनं, चक्रतुः=कृतवन्तौ (अहतामित्यर्थः)।

** व्युत्पत्तिः**—रघूत्तमौ=रघुषु (रघुवंश्येषु) उत्तमौ (स० त०)। अमूढौ=न मूढौ (नञ्०)। द्विषौ=द्विष्ट इति द्विषौ, तौ “सत्सूद्विषे” –त्यादिना क्विप्, “द्विड्विपक्षाऽहिताऽमित्रदस्युशात्रवशत्रवः।" इत्यमरः। तीक्ष्णायसैः=तीक्ष्णमायसं येषां ते तीक्ष्णायसास्तैः (बहु०)। अधिमर्म=मर्मसु इति, विभक्त्यर्थे अव्ययीभावः। व्याधं व्याधम्=“आभीक्ष्ण्ये णमुल् च” इति णमुलि चाद्विर्भावश्च। यमसात्=“तदधीनवचने” इति सातिप्रत्ययः।

** भावाऽर्थः**–राक्षसविक्रमाऽनन्तरं रामलक्ष्मणौ सावधानौ सन्तौ तीक्ष्णबाणैः खरदूषणयोर्मर्मस्थलेषु अभीक्ष्णं विद्ध्वा अहताम्।

भाषाऽर्थः—तब राम और लक्ष्मणने सावधान हो कर शत्रुओं (खर औरदूषण) को तीक्ष्ण फल वाले बाणों सेमर्मस्थानों पर निरन्तर वेधन कर यमराजके अधीन कर दिया॥३॥

हतबन्धुर्जगामाऽसौ ततः शूर्पणखा वनात्।
पारेसमुद्रं लङ्कायां वसन्तं रावणं पतिम्॥४॥

** अन्वयः**—हतबन्धुः असौ शूर्पणखा ततः वनात् पारेसमुद्रं लङ्कायां वसन्तं रावणं पतिं जगाम।

** प्रयोगप**०—हतबन्ध्वा अमुया शूर्पणख्या वसन् रावणः पतिर्जग्मे।

** व्याख्या**—हतबन्धुः=व्यापादितभ्रातृका, असौ=सा, शूर्पणखा=तदाख्या राक्षसी, ततः तस्मात् वनात्=अरण्यात् (दण्डकारण्यादित्यर्थः), पारेसमुद्रं=समुद्रस्य पारे (“मध्येसमुद्रम्” इति मल्लिनाथसंमतः पाठस्तत्र समुद्रस्य मध्ये इत्यर्थः)। लङ्कायां=तदाख्यनगर्यां, वसन्तं=निवसन्तं, रावणं=तन्नामकं राक्षसराजं, पतिं=स्वामिनं (रक्षकमित्यर्थः), जगाम=अगच्छत्।

** व्युत्पत्तिः**—हतबन्धुः=हतौ बन्धू (खरदूषणाख्यौ भ्रातरौ) यस्याः सा (बहु०)। शूर्पणखा=शूर्पाणि इव नखा यस्याः सा (बहु०), “स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्” इति प्राप्तस्य ङीषः “नखमुखात्संज्ञायाम्” इति निषेधः, “पूर्वपदात्संज्ञायामग” इति णत्वम्।पारेसमुद्रं=“पारे मध्ये षष्ठ्यावा” इत्यव्ययीभावः एदन्तत्वनिपातश्च, “नाऽव्ययीभावादतोम्त्वपञ्चम्याः” इत्यम्भावः। पतिम्=“ईश्वरः पतिरीशिता।” इत्यमरः।

** भावाऽर्थः**—भ्रातृद्वयमरणाऽनन्तरं शूर्पणखा तस्मात् दण्डकारण्यात् समुद्रस्य पारे लङ्कायां निवसन्तं रक्षकं रावणमगात्।

** भाषाऽर्थः**—दो भाइयों के मरनेके बाद शूर्पणखा दण्डकारण्यसे समुद्रके पारस्थ लङ्कामें निवास करनेवाले रक्षक रावणके पास चली गई॥४॥

सम्प्राप्य राक्षससभं चक्रन्द क्रोधविह्वला।
नामग्राहमरोदीत्सा भ्रातरौ रावणाऽन्तिके॥५॥

** अन्वयः**—क्रोधविह्वला सा राक्षससभं सम्प्राप्य चक्रन्द, रावणाऽन्तिके भ्रातरौ नामग्राहम् अरोदीत्।

** प्रयोग प०**—क्रोधविह्वलया तया चक्रन्दे, अरोदि।

** व्याख्या**—क्रोधविह्वला=कोपविक्लवा, सा=शूर्पणखा, राक्षससभं=रक्षःपरिषदं, सम्प्राप्य=आसाद्य, चक्रन्द=क्रन्दनं कृतवती, रावणाऽन्तिके=रावणसमीपे, भ्रातरौ=खरदूषणौ, नामग्राहं=नाम गृहीत्वा, अरोदीत्=रुदितवती।

** व्युत्पत्तिः**—क्रोधविह्वला=क्रोधेन विह्वला (तृ० त०), “विक्लवो विह्वलः स्यात्” इत्यमरः। राक्षससभं=राक्षसानां सभा राक्षससभं, तत् (ष० त०),

“सभा राजाऽमनुष्यपूर्वा" इति अमनुष्यपूर्वकत्वान्नपुंसकत्वम्। रावणाऽन्तिके=रावणस्य अन्तिकं रावणाऽन्तिकं, तस्मिन् (ष० त०),“सप्तम्यधिकरणे च” इति चकाराद्दूराऽन्तिकाऽर्थेभ्य इति सप्तमी। नामग्राहं=“नाम्न्यादिशि ग्रहोः” इति णमुल्। अरोदीत्=“अत्र नामग्रहणविशिष्टाया रोदनक्रियाया व्याप्तुमिष्टत्वाद्रुदिः सकर्मकः” इति जयमङ्गलः।

भावाऽर्थः—कोपविक्लवा सा शूर्पणखा राक्षसपरिषदमासाद्य क्रन्दितवती, रावणसमीपे हतभ्रात्रोः खरदूषणयोर्नामोच्चारणपूर्वकं रुदितवती च।

** भाषाऽर्थः**—क्रोधसे विह्वल शूर्पणखा राक्षसोंकी सभामें पहुंचकर रोने लगी और रावणके समीपमें भाई खर और दूषणका नाम ले कर आंसू गिराने लगी॥५॥

दण्डकानध्यवात्तां यौ वीर ! रक्षःप्रकाण्डकौ।
नृभ्यां संख्येऽकृषातां तौ सभृत्यौ भूमिवर्धनौ॥६॥

** अन्वयः**—हे वीर ! यौ रक्षः प्रकाण्डकौदण्डकान् अध्यवात्तां, तौ सभृत्यौ नृभ्यां संख्ये भूमिवर्धनौ अकृषाताम्।

** प्रयोगप०**—हे वीर ! याभ्यां रक्षः प्रकाण्डकाभ्यां दण्डका अध्यवासिषत, तौ सभृत्यौ नरौ (कर्तृपदम्) भूमिवर्द्धनौ अकृषाताम् (अकार्ष्टांवा)।

** व्याख्या**—हे वीर=हे शूर, यौ, रक्षः प्रकाण्डकौ=प्रशस्तराक्षसौ, दण्डकान्=दण्डकारण्यप्रदेशान् (“दण्डकाम्” इति पाठेऽपि दण्डकारण्यमित्यर्थः), अध्यवात्ताम्=अध्युषितवन्तौ, तौ=पूर्वोक्तौ (खरदूषणावित्यर्थः), सभृत्यौ=साऽनुचरौ (सन्तौ), नृभ्यां=मनुष्याभ्यां, संख्ये=युद्धे, भूमिवर्द्धनौ=शवौ, अकृषातां=कृतौ।

** व्युत्पत्तिः**—रक्षःप्रकाण्डकौ=प्रकाण्डौ एव प्रकाण्डकौ, स्वाऽर्थे कन्, “स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते” इति नपुंसकप्रकृतित्वेऽपि पुंलिङ्गता। “मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवाचकान्यमूनि” इत्यमरः। प्रकाण्डकौ च ते रक्षसी रक्षः प्रकाण्डकौ, “प्रशंसावचनैश्च” इति समासः, रूढशब्दानामाविष्टलिङ्गत्वेन स्वस्वलिङ्गानामेव सामानाधि-करण्यम्। अथवा “अस्त्री प्रकाण्डः स्कन्धः स्यात्” इति प्रकाण्डशब्दः स्कन्धवचनः। रक्षसी प्रकाण्डाविव रक्षः प्रकाण्डौ, “उपमितं व्याघ्रादिभिः सामान्याऽप्रयोगे" इति उपमितसमासः, तद्वधुरन्धरावित्यर्थः। ततः स्वार्थे कन्। दण्डकान्= “अध्यवात्ताम्” इति योगे “उपान्वध्याङ्वसः” इत्याधारस्य कर्मत्वम्। दण्डो नाम कश्चिद्राजा तत्पालितो देशो-

ऽपि दण्ड इत्युपचर्यते। स च शुकशापादिदानीमरण्यभूतत्वेन कुत्सितत्वे “कुत्सिते” इति कप्रत्यये दण्डकेति दण्डका इति चोच्यते, लोकतो लिङ्गवचननियमादिति मल्लिनाथः। अध्यवात्ताम्=“वस निवासे” इत्यनिधातोर्लुङि सिचि “वदव्रज-हलन्तस्याऽचः” इति वृद्धिः। “सः स्यार्धधातुके” इति धातुसकारस्य तकारः, “झल् झलि” इति सिचो लोपः। सभृत्यौ=भृत्यैः सहितौ (बहु०)। भूमिवर्द्धनौ=वर्द्धयत इति वर्द्धनौ, “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः” इति नन्द्यादित्वाल्ल्युः। भूमेर्वर्धनौ (ष० त०), “शवः स्याद् भूमिवर्द्धनः" इत्यमरः। अकृषातां=करोतेः कर्मणि लुङि आतामि सिचि पक्षे चिण्वदिडभावाद् वृद्ध्यभावः।

** भावाऽर्थः**—हे वीर ! यौ राक्षसश्रेष्ठौ खरदूषणौ दण्डकारण्यमधिष्ठितौ तौ साऽनुचरौ मनुष्याभ्यां युद्धे हतौ।

** भाषाऽर्थः**—हे वीर ! जो राक्षसश्रेष्ठ खर और दूषण दण्डकारण्य में रहते थे, वे अनुयायी वीरोंके सहित दो मनुष्योंसे युद्ध में मारे गये॥६॥

अथ रावणमुपालभमाना षोडशभिः कथयति—

विग्रहस्तव शक्रेण बृहस्पतिपुरोधसा।
सार्धं कुमारसेनान्या शून्यश्चाऽसीति को नयः॥७॥

** अन्वयः**—(हे स्वामिन्!) बृहस्पतिपुरोधसा कुमारसेनान्या शक्रेण सार्धं तव विग्रहः (तथाऽपि) शून्यः असि इति को नयः।

** प्रयोगप०**—विग्रहेण (भूयते), (त्वया) शून्येन (भूयते), केन नयेन (भूयते)।

** व्याख्या**—(हे स्वामिन्=हे प्रभो !) बृहस्पतिपुरोधसा=वाचस्पतिपुरोहितेन, कुमारसेनान्या=स्कन्दसेनापतिना, शक्रेण=इन्द्रेण, सार्धं=सह, तव भवतः, विग्रहः=विरोधः, (तथाऽपि=तादृग्विरोधेऽपि) शून्यः=निरुद्योगः, असि=भवसि,इति= इदम्औदासीन्यं, को नयः=का नीतिः (बलवद्विरोधग्रस्तस्य जयाऽभिलाषिणः अनुष्ठेयकार्ये औदासीन्यमनर्थानुबन्धीति भावः)।

** व्युत्पत्तिः**—बृहस्पतिपुरोधसा=बृहतां पतिर्बृहस्पतिः (ष० त०), “तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च" इति सुट्तलोपौ, “बृहस्पतिः सुराचार्यो गीःपतिर्धिषणो गुरुः।" इत्यमरः। पुरोधीयत इति पुरोधाः (असुन् प्रत्ययः), “पुरोधास्तु पुरोहित" इत्यमरः। बृहस्पतिः पुरोधा यस्य स बृहस्पति-

पुरोधास्तेन (बहु०)। पुरोधसोऽपि मन्त्राऽधिकारत्वमस्ति यदुक्तं मनुना “सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता। मन्त्रयेत परं मन्त्रं राजा षाड्गुण्यसंयुतः॥” इति। कुमारसेनान्या=सेनां नयतीति सेनानीः, “सत्सूद्विषे”त्यादिना क्विप्। कुमारः (स्कन्दः) सेनानीर्यस्य स कुमार सेनानीस्तेन (बहु०)। शक्रेण=‘“सार्धम्” इति योगे “सहयुक्तेऽप्रधाने” इति तृतीया। असि=अस्तेर्लटि सिपि “तासस्त्योर्लोपः” इति सकारलोपः।

** भावाऽर्थः**—हे स्वामिन् ! यस्य इन्द्रस्य पुरोहितो बृहस्पतिः, सेनापतिः कुमारस्तेन इन्द्रेण तव विरोधो नित्याऽनुषक्तस्तथाऽपि उद्योगशून्योऽसि ; इयमुदासीनता का नीतिः (नेयं युक्तेति भावः)।

** भाषाऽर्थः**—हे प्रभो ! जिसके पुरोहित बृहस्पति और सेनापति कुमार ऐसे इन्द्र के साथ आपका विरोध है तो भी आप उद्योग शून्य हैं, यह आपकी उदासीनता क्या नीति है॥७॥

यद्यहं नाथ ! नाऽऽयास्यं विनासा हतबान्धवा।
नाऽज्ञास्यस्त्वमिदं सर्वं प्रमाद्यंश्चारदुर्बलः॥८॥

** अन्वयः**—हे नाथ ! विनासा हतबान्धवा अहं न आयास्यं यदि (तदा) प्रमाद्यन् चारदुर्बलः त्वम् इदं सर्वं न अज्ञास्यः।

** प्रयोगप०**—हे नाथ ! विनासया हतबान्धवया मया न आयास्यत यदि, (तदा) प्रमाद्यता चारदुर्बलेन त्वया इदं सर्वं न अज्ञास्यत।

व्याख्या—हे नाथ=हे प्रभो ! विनासा=छिन्ननासिका (“विनसा” इति पाठे विगतया नासिकया उपलक्षिता इति व्याख्येयम्), हतबान्धवा=व्यापादितभ्रातृका, अहं=शूर्पणखा, न आयास्यंयदि=न आगच्छेयं चेत्, (तदा तर्हि) प्रभाद्यन्=नित्यप्रमत्तः, चारदुर्बलः=गूढपुरुषरहितः, त्वं=भवान् इदम्=एतत्, सर्वं=सकलम् (मन्नासाच्छेदनादिकमनर्थ-समूहमिति भावः), न अज्ञास्यः=न जानीयाः (चाराऽभावात्सर्वत्र स्वस्यैव प्रसराऽसम्भवादिति भावः)।

** व्युत्पत्तिः**—विनासा=विगता नासा यस्याः सा (बहु०), “घोणा नासा च नासिका।" इत्यमरः। विगता नासिका यस्याः सा इति विग्रहे तु “उपसर्गाच्च” इति समासान्ताऽच्सहकृतनसादेशं बाधित्वा “वेर्ग्रोवक्तव्य” इति नासिकाशब्दस्य ग्रादेशे “विग्रे” ति स्यात्,“अञ्नासिकायाः सञ्ज्ञायां नसं चाऽस्थूलात्” इत्य-

स्य तु सञ्ज्ञाविषयत्वात्प्राप्तिरेव नाऽस्तीत्यवधेयम्। “विनसा हतबान्धवा" इति भट्टोजिदीक्षितादिसम्मतः पाठस्तत्र तु विगता नासिका विनासिका (प्रादिसमासः), तया विनसा “इत्थंभूतलक्षणे" इति तृतीया, “पद्दन्नोमास्हृन्निश सन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु” इति नसादेशः। हतबान्धवान् बन्धू एव बान्धव (स्वार्थे अण्), हतौ बान्धवौ यस्याः सा (बहु०)। आयास्यम्, अज्ञास्यः=यातेर्जानातेश्च क्रियाऽतिपतौ लुङ्। क्रियाऽतिपत्तिः=क्रियाया अनिष्पत्तिः। प्रमाद्यन्=प्रमाद्यतीति (शतृप्रत्ययः)। चारदुर्बलः=चरतीति चरः, पचाद्यच्। चर एव चारः “प्रज्ञादिभ्यश्च” इत्यण्, गूढपुरुषः, “यथाऽर्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः। चारश्च गूढपुरुषश्च" इत्यमरः। तेन दुर्बलःतृ० त०)।

** भावाऽर्थः**—हे प्रभो ! छिन्ननासिकाया व्यापादितभ्रातृकायाश्च ममाऽत्रागमनं नाऽभविष्यच्चेत्तदा सर्वदा प्रमत्तः प्रणिधिशून्यो भवानिदं सर्वं नाऽज्ञास्यत्।

** भाषाऽर्थः**—हे प्रभो ! नासिका और अपने भाइयोंसे रहित मैं, यहां पर नहीं आती तो नित्य प्रमत्त और गुप्तचरसे शून्य आप इन सब वृत्तान्तोंको नहीं जानते॥८॥

करिष्यमाणं विज्ञेयं कार्यं किं नु कृतं परैः।
अपकारे कृतेऽप्यज्ञो विजिगीर्षुर्न वा भवान्॥६॥

** अन्वयः**—परैः करिष्यमाणं कार्यं विज्ञेयं, कृतं किं नु ? भवान् अपकारे कृते अपि अज्ञः, वा भवान् विजिगीषुः न।

** प्रयोगप०**—परैः करिष्यमाणेन कार्येण विज्ञेयेन (भूयते), कृतेन (विज्ञेयेन भूयते) किं नु, भवता अज्ञेन (भूयते), वा भवता विजिगीषुणा न (भूयते)।

** व्याख्या**—परैः=शत्रुभिः, करिष्यमाणं=विधास्यमानं (अपचिकीर्षयेति भावः), कार्यं=कर्म, विज्ञेयं=वेद्यं (विजिगीषुणेति शेषः), कृतं=विहितं कर्म, किं नु=किं वक्तव्यम् (अवश्यमेव विज्ञेयमित्यर्थः। एतदुभयमपि पर्यालोच्य स्वकर्माऽनुष्ठेयमिति भावः), भवान्=त्वम्, अपकारे कृते अपि=द्रोहे विहिते अपि, अज्ञः=अनभिज्ञः (अस्तीति शेषः, ज्ञानमेव नाऽस्ति प्रतीकारस्तु दूरेऽपास्तमिति भावः), वा=अथवा, भवान्=त्वं, विजिगीषुः=विजयाऽभिलाषी, न=नाऽस्ति (अस्ति चेत् कथमस्य शत्रुकृत-द्रोहस्य अज्ञानमिति भावः)।

** व्युत्पत्तिः**—परैः=“अभिघातिपराऽरातिप्रत्यर्थिपरिपन्थिनः।” इत्यमरः। करिष्यमाणं=करिष्यत इति करिष्यमाणं, कृधातोः कर्मणि लुटि तस्य “लृटः सद्वा”

इति शत्रादेशः “आने मुक्" इति मुगागमश्च। विज्ञेयं=विज्ञातुं योग्यं विज्ञेयम्, “अचो यत्” इति यत् “ईद्यति" इति आत ईत्, गुणश्च।

** भावाऽर्थः**— विजिगीषुणा शत्रुभिर्विधास्यमानं विहितं च कार्यं विज्ञेयं, परं भवांस्तु शत्रुसम्पादिते अपकारेऽपि अनभिज्ञः, अतो भवतो जयाऽभिलाषित्वमपि नाऽस्तीति प्रतीयते।

** भाषाऽर्थः**—जयाऽभिलाषी राजाको शत्रुओंसे किया जाने वाला कार्य जाननाचाहिए, किया गया कार्य जानना चाहिए यह तो कहना ही क्या ? आप शत्रुओं के अपकार करने पर भी अनभिज्ञ हैं, अथवा आप विजयाऽभिलाषी ही नहीं हैं॥९॥

अज्ञतामेवाह—

वृतस्त्वं पात्रेसमितैः खट्वारूढः प्रमादवान्।
पानशौण्डः श्रियं नेता नाऽत्यन्तीनत्वमुन्मनाः॥१०॥

** अन्वयः**—त्वं पात्रेसमितैः वृतः, खट्वारूढः प्रमादवान् पानशौण्डः उन्मनाः (अतः) श्रियम् अत्यन्तीनत्वं नेता न।

** प्रयोगप**०— त्वां पात्रेसमिता वृतवन्तः। खट्वारूढेन प्रमादवता पानशौण्डैन उन्मनसा (त्वया), नेत्रा न (भूयते)।

** व्याख्या**—त्वं=भवान्, पात्रेसमितैः=भोजनभाजनसङ्गतैः, वृतः=वेष्टितः, खट्वारूढः=परतल्पगतः (उन्मार्गप्रस्थित इत्यर्थः), प्रमादवान्=नित्याऽनवधानतायुक्तः, पानशौण्डः=मद्यपानव्यसनी, उन्मनाः=उत्कण्ठितचित्तः (विषयासक्त इत्यर्थः), (अतः= एभ्यो हेतुभ्यः) श्रियम्=राजलक्ष्मीम्, अत्यन्तीनत्वम्=अत्यन्तगामित्वं (केवलात्मगामित्वमित्यर्थः), नेता=प्रापणशीलः, न=न असि (त्वच्चेष्टितानि सर्वथा राज्यभ्रंशकराणीत्यर्थः)।

** व्युत्पत्तिः**—पात्रेसमितैः=पात्रे समिताः पात्रेसमितास्तैः “पात्रे समितादयश्च” इति क्षेपे अलुक्समासनिपातः, भोजनसमय एव सङ्गतैर्नतु मन्त्रसमय इत्यर्थः।खट्वारूढः=खट्वामारूढः, “खट्वा क्षेपे" इति क्षेपे क्तान्तेन द्वितीयासमासः। प्रमादवान्=नित्यं प्रमादोऽस्ति यस्य सः (नित्ययोगे मतुप्प्रत्ययः), “अत्वसन्तस्य चाऽधातोः” इति दीर्घत्वम्, “प्रमादोऽनवधानता।" इत्यमरः। पानशौण्डः=पाने शौण्डः, “सप्तमी शौण्डैः” इति सप्तमीतत्पुरुषः, “मत्ते शौण्डोत्करक्षीबाः" इत्यमरः। उन्मनाः=उत्कण्ठितं मनो यस्य सः उन्मनाः, “अत्वसन्त-

स्य चाऽधातोः” इति दीर्घत्वम्। अत्यन्तीनत्वम्=अत्यन्तं गामीति अत्यन्तीनम् “अवारपाराऽत्यन्ताऽनुकामं गामी” इति खप्रत्ययः (खस्येनः), श्रीसम्बन्धेन स्त्रीत्वे विवक्षितेऽपि “सामान्ये नपुंसकम्” इति नपुंसकत्वम्। अत्यन्तीनस्य भावः अत्यन्तीनत्वं, तत् (त्वप्रत्ययः), “नेता” इति पदेन योगे “न लोकाऽव्ययनिष्ठाखलर्थतृनाम्” इति षष्ठीप्रतिषेधः। नेता= नयनशीलो नेता, “तृन्” इति तृन्प्रत्ययः। नयतिर्द्विकर्मकः।

** भावाऽर्थः**—भवान् भोजनसमय एव सङ्गतैर्जनैर्वेष्टितः उन्मार्गप्रस्थितः नित्यमेवाऽनवधानतायुक्तः मद्यव्यसनी विषयासक्तोऽस्ति, अतो राजलक्ष्मीं केवलात्मगामिनीं न करिष्यतीति सम्भाव्यते।

** भाषाऽर्थः**—आप भोजनसमय में ही सङ्गत जनों से घिरे हुए, उन्मार्गप्रस्थित, नित्य प्रमाद करनेवाले, मद्यपानके व्यसनी और विषयासक्त हैं, अतः राजलक्ष्मीको केवल अपने ही अधीन नहीं रख सकेंगे यह सम्भावना होती है॥१०॥

अध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान्।
अत्तुं महेन्द्रियं भागमैति दुश्च्यवनोऽधुना॥११॥

** अन्वयः**—अधुना दुश्च्यवनः अग्निचित्वत्सु अध्वरेषु महेन्द्रियं भागम् अत्तुं सोमसुत्वत आश्रमान् ऐति।

** प्रयोगप०**—दुश्च्यवनेन सोमसुत्वन्त आश्रमा एयन्ते।

व्याख्या—अधुना=अस्मिन् काले दुश्च्यवनः=इन्द्रः, अग्निचित्वत्सु=आहिताऽग्नियुक्तेषु, अध्वरेषु यज्ञेषु, महेन्द्रियं=महेन्द्र-देवताकं, भागं=यज्ञांऽशम्, अत्तुं=भक्षयितुं, सोमसुत्वतः=सोमयाजिमतः, आश्रमान्=ऋष्याश्रमान् ऐति=आगच्छति अशस्त्रवधस्तवाऽयमाज्ञाभङ्ग इति भावः)।

** व्युत्पत्तिः**—अधुना=“अधुना” इति सप्तम्यन्तस्य कालवाचिनः इदम्शब्दस्य अधुनाप्रत्ययाऽन्तो निपातः, “एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा।” इत्यमरः। दुश्च्यवनः=दुष्टः (स्ववैर्द्याभ्यां यज्ञभागदातृत्वाद्दोषयुक्तः) च्यवनो यस्य सः (बहु०), यद्वा दुष्टं च्यवते रणादिति दुश्च्यवनः, “च्युङ् गतौ” इति धातोः “चलनशब्दाऽर्थादकर्मकाद्युच्” इति युच्। “संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहन” इत्यमरः। अत्र दुच्श्यवनशब्दस्य कोशादौ प्रसिद्धत्वेऽपि कविभिरप्रयुक्तत्वादप्रयुक्तत्वे प्राप्तेऽपि योगरूढ्या प्रत्यर्थिन्यूनत्वोद्भावनेन नायकस्योत्कर्षप्र-

तोतेर्गुणत्वमेव। अग्निचित्वत्सु= अग्नि चितवन्तः इति अग्निचितः, “अग्नौ चेः” इति क्विप्, ते सन्ति येषु ते अग्निचित्वन्तः तेषु ( मतुप्), “तसौ मत्वर्थे” इति भत्वात् तकारस्य जस्त्वस्याऽभावः,“झय” इति मतोर्वत्वम्। महेन्द्रियं=महांश्चाऽसौ इन्द्रो महेन्द्रः (क० धा०), स देवता यस्येति महेन्द्रियस्तं,“महेन्द्रादुद्घाणौ च” इति घप्रत्ययः,“आयनेयी” त्यादिना घस्य इयः। सोमसुत्वतः=सोमं सुतवन्तः इति सोमसुतः, सोमोपपदपूर्वकात् “पुत्र अभिषवे” इति धातोः “सोमे सुञः” इति क्विप्, सोमसुतः सन्ति येषु ते सोमसुत्वन्तस्तान् पूर्ववन्मतुबादि। ऐति=आङ्पूर्वादिणो लट्, “एत्येधत्यूठ्सु” इति वृद्धिः।

** भावाऽर्थः**—अधुना इन्द्रः आहिताऽग्निभिरनुष्ठितेषु यज्ञेषु माहेन्द्रं यज्ञांशं भक्षयितुं सोमयाजियुक्तान् ऋष्याश्रमान् आगच्छति।

** भाषाऽर्थः**—आजकल इन्द्र अग्निहोत्रियोंसे अनुष्ठित यज्ञों में अपने यज्ञांऽशका भक्षण करनेके लिए सोमयाजियोंसे युक्त ऋषियों के आश्रम में आते हैं॥११॥

आमिक्षयं दधिक्षीरं पुरोडाश्यं तथौषधम्।
हविहैर्यङ्गवीनं च नाऽप्युपघ्नन्ति राक्षसाः॥१२॥

** अन्वयः**—आमिक्षयं दधिक्षीरं तथा पुरोडाश्यम् औषधं हैयङ्गवीनं हविश्चराक्षसा न उपघ्नन्ति।

** प्रयोगप०**—दधिक्षीरमौषधं हैयङ्गवीनं हविश्चराक्षसैर्न उपहन्यते।

** व्याख्या**—आमिक्षीयं=आमिक्षाऽर्थं, दधिक्षीरं=दधिदुग्धं, तथा=तेन प्रकारेण, पुरोडाश्यं=पुरोडाशाऽर्थम् औषधं= व्रीहियवादि, हैयङ्गवीनं ह्योगोदोहविकारं घृतं, हविश्च=हवनीयद्रव्यं च (पूर्वोक्तं त्रिविधमपि हविरित्यर्थः), राक्षसाः=यातुधानाः, न उपध्नन्ति=न नाशयन्ति (त्वयि उदासीने सति राक्षसानां पूर्ववत्परपीडनात्मको विक्रमो न दृश्यत इति भावः)।

** व्युत्पत्तिः**—आमिक्षीयं=तप्ते दुग्धे दधियोगोत्पन्ना विकृतिः आमिक्षा, “आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः।” इत्यमरः। आमिक्षायै हितमामिक्षीयं, तत् “विभाषा हविरपूषादिभ्यः” इति छप्रत्ययः, दधिक्षीरं दधि च क्षीरं च दधिक्षीरं, तत् “विभाषावृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वाऽपराधरोत्तराणाम्” इति व्यञ्जनद्वन्द्वत्वाद्विभाषया एकवद्भावः। पुरोडाश्यं=पुरोडाशाय हितं पुरोडाश्यं, तत्, “विभाषा हवि”रित्यादिना अपूपादित्वाद्यत्। औषधम्=ओष-

धिरेव औषधं, तत् “ओषधेरजातौ” इति स्वाऽर्थे अण्, “स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते” इति नपुंसकत्वम्। हैयङ्गवीनं=ह्योगोदोहस्य विकारो हैयङ्गवीनं, तत् “हैयङ्गवीनं सञ्ज्ञायाम्” इति खञन्तस्य हियङ्ग्वादेशस्य निपातः। हविः=हूयते इति हविस्तत् (औणादिक इस्)।

** भावार्थः**—आमिक्षाऽर्थं दधिदुग्धं तथा पुरोडाशाऽर्थं व्रीहियवाद्यौषधं ह्योगोदोहविकारं घृतमित्येतत्त्रियकारकमपि हविः साम्प्रतं राक्षसा नाऽपहरन्ति।

** भाषाऽर्थः**—आमिक्षा (गर्म दूध में दही मिलानेसे सिद्ध द्रव्य) के लिए दही और दूध, पुरोडाश (हविविशेष) के लिए धान और जौ आदि औषध और एक दिन आगे दुहे हुए गोदुग्धसे निर्मित घी, ये तीन प्रकारके हवनीय द्रव्योंको इन दिनों राक्षस लोग अपहरण नहीं करते हैं॥१२॥

युवजानिर्धनुष्पाणिर्भूमिष्ठः खविचारिणः।
रामो यज्ञद्रुहो हन्ति कालकल्पैः शिलीमुखैः॥१३॥

** अन्वयः**—युवजानिः धनुष्पाणिः भूमिष्ठः रामः खविचारिणः यज्ञद्रुहः कालकल्पैः शिलीमुखैः हन्ति।

** प्रयोगप०**—युवजानिना धनुष्पाणिना भूमिष्ठेन रामेण खविचारिणो यज्ञदुहो हन्यन्ते।

** व्याख्या**—युवजानिः=तरुणभार्यः (तथाऽपि निःशङ्क इति भावः), धनुष्पाणिः=कार्मुककरः, भूमिष्ठः=पृथिवीस्थः, रामः= रामचन्द्रः, खविचारिणः=आकाशचारिणः, यज्ञद्रुहः=अध्वरनाशकान् (राक्षसानित्यर्थः), कालकल्पैः=अन्तकसदृशैः, शिलीमुखैः=बाणैः, हन्ति=व्यापादयति (न चाऽस्य प्रतिपक्ष इति भावः। “कालकल्पशिलीमुखः” इति जयमङ्गलसंमत-पाठस्तत्र अन्तकसदृशबाण इत्यर्थः कार्यः, पदमेतत् रामविशेषणम्)।

** व्युत्पत्तिः**—युवजानिः=युवतिर्जाया यस्य सः (बहु०),“जायाया निङ्” इति बहुव्रीहिसमासान्तो निङादेशः, “लोपो व्योर्वलि” इति यकारलोपः, “स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्समानाधिकरणे स्त्रियामपूरणीप्रियादिषु” इति पूर्वपदस्य पुंवद्भावः। धनुष्पाणिः=धनुः पाणौ यस्य स (बहु०), “प्रहरणाऽर्थेभ्यः परे निष्ठासप्तम्यौ” इति सप्तम्याः परनिपातः, “नित्यं समासेऽनुत्तरपदस्थस्य” इति नित्यं षत्वम्। भूमिष्ठः=भूमौ तिष्ठतीति भूमिष्ठः, “सुपि स्थः” इति कप्रत्ययः, “अ-

म्बाम्बे”त्यादिना षत्वे ष्टुत्वम्। खविचारिणः=खे विचरन्तीति तच्छीलाः खविचारिणः, तान् “सुप्यजातौ णिनिस्ताच्छील्ये" इति णिनिः। महोपाध्यायमल्लिनाथास्तु “खे विचारः खविचारः (स ० त ०)। सोऽस्ति एषां ते खविचारिणस्तान् (इनिप्रत्ययः)" इति प्रतिपाद्य “पुनः सुब्ग्रहणेन उपसृष्टात् तन्निषेधादेतादृशस्थले न णिनिप्रत्ययः” इति यत् कथयन्ति, तदयुक्तं भाष्यविरोधात्। यज्ञद्रुहः=यज्ञेभ्यो द्रुह्यन्तीति यज्ञद्रुहस्तान्, “सत्सूद्विषेत्यादिना क्विप्। कालकल्पैः=ईषदसमाप्ताः कालाः कालकल्पास्तैः (कल्वप्प्रत्ययः)। शिलीमुखैः=शिली (शल्यम्) मुखं येषां ते शिलीमुखास्तैः (बहु०), “अलिबाणौ शिलीमुखौ।” इत्यमरः। “कालकल्पशिलीमुख” इति पाठे समाप्तपुनरात्ताऽभिधानो दोषः, सुप्तिङन्तानां पदानां परस्पराऽन्वयेन वाक्यपरिसमाप्त्या आकाङ्क्षाशान्तौ पुनर्विशेषणान्तरोपादानं हि तत्स्वरूपम्। “कालकल्पैः शिलीमुखैः" इत्यस्य तु कथंभावाऽऽकाङ्क्षायाः अपहारकत्वान्निर्दोषत्वमिति सर्वं सुस्थम्।

** भावाऽर्थः**—तरुणपत्नीसहितः कार्मुकहस्तो रामो भूमिस्थितोऽपि आकाशचारिणो राक्षसान् अन्तकोपम-बाणैर्व्यापादयति।

** भाषाऽर्थः**—तरुणी पत्नी से युक्त, धनुर्धारी रामचन्द्र पृथ्वी में रह कर भी आकाशमें विचरण करनेवाले राक्षसोंको कालसदृश बाणोंसे मारते हैं॥१३॥

मांसान्योष्ठाऽवलोप्यानि साधनीयानि देवताः।
अश्नन्ति, रामाद्रक्षांसि बिभ्यत्यश्नुवते दिशः॥१४॥

** अन्वयः**—ओष्ठाऽवलोप्यानि साधनीयानि मांसानि देवताः अश्नन्ति, रक्षांसि रामात् बिभ्यति दिशः अश्नुवते।

प्रयोगप०—^(…)मांसानि देवताभिः अश्यन्ते, रक्षोभिः रामाद्विभ्यद्भिः (सद्भिः) दिशः अश्यन्ते।

व्याख्या—ओष्ठाऽवलोप्यानि=अधरच्छेदाऽर्हाणि (अतिकोमलानीत्यर्थः), साधनीयानि=यज्ञसाधनहितानि (“सावनीयानि” इति पाठे यज्ञहितानि इत्यर्थः), मांसानि=संस्कृतपशुपललानि, देवताः सुराः (इन्द्रादय इत्यर्थः), अश्नन्ति=भक्षयन्ति, रक्षांसि=राक्षसाः, रामात्=रामचन्द्रात्, बिभ्यति=भीतानि सन्ति, दिशः=काष्ठाः, अश्नुवते=व्याप्नुवन्ति, पलायन्त इति भावः। (प्राग्राक्षसाः यज्ञेषु आच्छिद्यमांसान्यभक्षयन्, देवताः दिशो व्याप्नुवन् ; साम्प्रतं तु तद्वैपरीत्यं जातमित्यर्थः)

** व्युत्पत्तिः**—ओष्ठाऽवलोप्यानि=अवलोप्तुं योग्यानि अवलोप्यानि, “ऋहलोर्ण्यत्” इति ण्यत्। ओष्ठाभ्यामवलोप्यानि ओष्ठाऽवलोप्यानि तानि “कृत्यैरधिकाऽर्थवचने” इति करणे तृतीयातत्पुरुषः, “ओष्ठाऽधरौ तु रदनच्छदौ दशनवाससी।” इत्यमरः। साधनीयानि=यज्ञस्य साधनाय हितानि इति साधनीयानि, तानि ‘“तस्मै हितम्” इति छप्रत्ययः। “सावनीयानि” इति वा पाठः, तत्र सवनं यज्ञः, तस्मै हितः सवनीयः पशुरित्यर्थः, पूर्वसूत्रेण छप्रत्ययः। सवनीयस्य इमानि सावनीयानि (पशुसम्बन्धीनीत्यर्थः), “तस्येदम्” इत्यण्। रामात्=“भीत्रार्थानां भयहेतुः” इत्यपादानत्वम्। बिभ्यति=“ञिभी भये” इति धातोर्लटः शतरि “नाऽभ्यस्ताच्छतुः” इति नुमभावः, पक्षे “वा नपुंसकस्य” इति नुमि “बिभ्यन्ति” इति वा रूपम्।

** भावाऽर्थः**—साम्प्रतम् अतिकोमलानि यज्ञसाधनाऽर्थानि मांसानि इन्द्रादयो देवा भक्षयन्ति, राक्षसास्तु रामभयात् पलायन्ते।

** भाषाऽर्थः**—आजकल अत्यन्त कोमल और यज्ञसाधनके उपयुक्त मांस देवता लोग खाते हैं, राक्षस तो रामसे डरते हुए दिशाओंको व्याप्त करते हैं (भागते हैं)॥१४॥

कुरु बुद्धिं कुशाग्रीयामनुकामीनतां त्यज।
लक्ष्मीं परम्परीणां त्वं पुत्रपौत्रीणतां नय॥१५॥

** अन्वयः**—त्वं बुद्धिं कुशाग्रीयां कुरु, अनुकामीनतां त्यज, परम्परीणां लक्ष्मीं पुत्रपौत्रीणतां नय।

** प्रयोगप०**—त्वया बुद्धिः कुशाग्रीया क्रियताम्, अनुकामीनता त्यज्यतां, परम्परीणां लक्ष्मीं पुत्रपौत्रीणता नीयताम्।

** व्याख्या**—(हे प्रभो !) त्वं=भवान्, बुद्धिं=मतिं, कुशाग्रीयां=दर्भाग्रसूक्ष्मां, कुरु=विधेहि (सूक्ष्मदर्शी भवेत्यर्थः), अनुकामीनतां=यथेच्छगामितां, त्यज=मुञ्च (यथेष्टचारी मा भूरित्यर्थः), परम्परीणां=परम्पराऽऽगतां (पितृपितामहादि-क्रमागतामित्यर्थः), लक्ष्मीं=राज्यश्रियं, पुत्रपौत्रीणतां=पुत्रपौत्राऽनुभावितां, नय=प्रापय (पुत्रपौत्राद्युत्तरपुरुषगामिनीं कुरु, नतूपेक्षया वन्मात्राऽवसितां कुर्वित्यर्थः)।

** व्युत्पत्तिः**—कुशाऽग्रीयां=कुशस्य अग्रं कुशाऽग्रम्, “अस्त्री कुशं कुथो दर्भः पवित्रम्” इत्यमरः। कुशाऽग्रमिव बुद्धिः कुशाग्रीया, तां, “कुशाऽग्राच्छ” इति

छप्रत्ययः। “कुशाग्रीयां बुद्धिं कुरु” इति मल्लिनाथाऽभ्युपगतोऽन्वयस्तु “अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत्।” इति नयेन विधेयाऽविमर्शदोषदुष्टत्वात्परिहरणीयः। अनुकामीनताम्=अनुकामं गामी अनुकामीनः, यथेष्टं गन्तेत्यर्थः।“अवारपाराऽत्यन्ताऽनुकामं गामी” इति खप्रत्ययः। “कामंगाम्यनुकामीन” इत्यमरः। अनुकामीनस्य भावः अनुकामीनता, ताम् (तत्प्रत्ययः)। परम्परीणां=परांश्च परतरांश्च अनुभवतीति परम्परीणा तां “परोवरपरम्परपुत्रपौत्रमनुभवती”ति खप्रत्ययः, प्रकृतेः परम्परभावो निपात्यते। पुत्रपौत्री गतां पुत्रस्याऽनन्तराऽपत्यं पुमान्पौत्रः, “अनृष्यानन्तर्ये विदादिभ्योऽञ्” इत्यञ्। पुत्रांश्च पौत्रांश्च अनुभवतीति पुत्रपौत्रीणं, पूर्वसूत्रेण खप्रत्ययः, लक्ष्मीसम्बन्धेन स्त्रीलिङ्गत्वे प्राप्ते “सामान्ये नपुंसकम्” इति नपुंसकत्वं, पुत्रपौत्रीणस्य भावः पुत्रपौत्रीणता, ताम् (तल्)।**
भावाऽर्थः**—हे प्रभो ! त्वं सूक्ष्मदर्शी भव, यथेष्टचारी मा भूः, पितृपितामहादिक्रमागतायाः राजश्रियः पुत्रपौत्राद्युत्तरपुरुषेषु अपि स्थिरतां सम्पादय।

** भाषाऽर्थः**—हे प्रभो ! आप बुद्धिको कुशके अग्रभागकी तरह सूक्ष्म कीजिए, यथेच्छाचारी मत बनिए, पितृपितामह आदि पूर्वपुरुषोंके क्रमसे आई हुई लक्ष्मी को पुत्रपौत्र आदियोंके समय तक टिकनेवाली बनाइये॥१५॥

ननु मद्धस्तप्राप्ताया लक्ष्म्याः कथं विपर्ययकथेत्याशङ्क्याह—
सहायवन्त उद्युक्ता बहवो निपुणाश्च याम्।
श्रियमाशासते, लोलां तां हस्तेकृत्य मा श्वसीः॥१६॥

** अन्वयः**—लोलां यां श्रियं सहायवन्तः उद्युक्ताः बहवः निपुणा आशासते, तां हस्ते कृत्य मा श्वसीः।

** प्रयोगप०**—लोला या श्रीः सहायवद्भिः उद्युक्तैर्बहुभिर्निपुणैराशास्यते, मा श्वासि।

** व्याख्याः**—लोलां=चञ्चलां (अस्थिरामित्यर्थः), यां=त्वदीयां, श्रियं=राजलक्ष्मीं, सहायवन्तः=कोशदण्डसंपन्नाः (प्रभु-शक्तिमन्त इत्यर्थः), उद्युक्ताः-उत्साहयुक्ताः, बहवः=अनेके (विदुषोऽपि एकस्य अनिर्णायकत्वादित्यर्थः), निपुणाः= मन्त्रकुशलाः (एवं प्रभूत्साहमन्त्रात्मकशक्तित्रयोपेता अपि), आशासते=इच्छन्ति, तां=श्रियं, हस्तेकृत्य=स्वीकृत्य, मा श्वसीः=मा विश्वसीः (मा विश्वासं कार्षीरित्यर्थः)।

** व्युत्पत्तिः**—श्रियं=“सम्पत्तिः श्रीश्च लक्ष्मीश्च” इत्यमरः। सहायवन्तः=सह अयन्ते इति सहायाः, सहोपपदात् “अय गतौ” इति धातोः पचाद्यच्। सहायाः

सन्ति येषां ते सहायवन्तः (मतुप्)। आशासते=“आङः शासु इच्छायाम्” इत्यादादिकस्य आत्मनेपदिनो लटि रूपम्। शपो लुक्, “आत्मनेपदेष्वनतः” इति झस्याऽत्। हस्तेकृत्य=हस्ते कृत्वा इति हस्तेकृत्य,“नित्यं हस्ते पाणावुपयमने” इति हस्ते-शब्दस्य गतित्वात्” कुगतिप्रादयः” इति समासः, ततः क्त्वो ल्यप्। मा श्वसीः=माङ्पूर्वात् श्वसेलुङि सिचि “ह्मन्तक्षणश्वस-जागृणिश्व्येदिताम्” इति वृद्धिप्रतिषेधः, “इट ईटि” इति सिचो लोपः।

** भावाऽर्थः**—चञ्चलां यां लक्ष्मीं प्रभुमन्त्रोत्साहात्मकशक्तित्रयोपेता बहवो नीतिज्ञा जनाः कामयन्ते, तां स्वीकृत्य “इयं मद्वशमापन्ना" इति विचार्य मा विश्वासं कार्षीः।

** भाषाऽर्थः**—हे प्रभो ! चञ्चला जिस लक्ष्मीको प्रभुशक्ति, मन्त्रशक्ति और उत्साहशक्तिसे सम्पन्न बहुतेरे नीतिज्ञ पुरुष पानेकी इच्छा करते हैं, उस लक्ष्मीको हस्तगत करके भी विश्वास मत कीजिए॥१६॥

अविश्वासकारणमाह—

लक्ष्मीः पुंयोगमाशंसुः कुलटेव कुतूहलात्।
अन्तिकेऽपि स्थिता पत्युश्छलेनाऽन्यं निरीक्षते॥१७॥

** अन्वयः**—लक्ष्मीः कुलटा इव कुतूहलात् पुंयोगम् आशंसुः (सती) पत्युः अन्तिके स्थिता अपि छलेन अन्यं निरीक्षते।

** प्रयोगप०**—लक्ष्म्या कुलटयेव आशंस्वा (सत्या) स्थितयाऽपि अन्यो निरीक्ष्यते।

** व्याख्या**—लक्ष्मीः=श्रीः, कुलटा इव=व्यभिचारिणी इव, कुतूहलात्=कौतुकात्, पुंयोगं=पुरुषसंसर्गम्, आशंसुः= अभिलषन्ती (सती), पत्युः=भर्तुः, अन्तिके=समीपे, स्थिता अपि उपविष्टा अपि, छलेन व्याजेन, अन्यम्=अपरं (कान्तमित्यर्थः), निरीक्षते=पश्यति (ईषत्प्रमादेऽपि अन्यमुपगच्छतीत्यर्थः)।

** व्युत्पत्तिः**—लक्ष्मी=लक्षयति (पश्यति) नीतिज्ञपुरुषमिति लक्ष्मीः “लक्ष दर्शनाऽङ्कनयोः” इति धातोः “लक्षेर्मुट् च” इत्यौणादिक ईप्रत्ययः, तस्य च मुट् अतो ङीप्प्रत्ययान्तत्वाभावात् “हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्” इति सुलोपो न। कुलटा=अटतीति अटा, पचाद्यच्, कुलस्य अटा कुलटा; “शकन्ध्वादिषु पररूपं वाच्यम्” इति पररूपत्वम्। कुतूहलात्=हेतौ पञ्चमी “कौतूहलं कौतुकं च

कुतुकं च कुतूहलम्।” इत्यमरः। पुंयोगात्=पुंसा योगः पुंयोगस्तम् (तृ० त०)। आशंसुपदेन योगे “न लोकाव्यये"त्यादिना षष्ठीप्रतिषेधः। आशंसुः=आशंसत इति आशंसुः, “सनाशंसभिक्ष उः” इत्युप्रत्ययः॥१७॥

** भावाऽर्थः**—लक्ष्मीः स्वैरिणीव कौतुकात् परपुरुषसंसर्गमभिलषन्ती सती पतिसमीपोपविष्टाऽपि व्याजेन पुरुषाऽन्तरं पश्यति (अतः सर्वथाऽपि इयं संरक्षणीयेति भावः)।

** भाषाऽर्थः**—लक्ष्मी कुलटाकी तरह कुतूहलसे पुरुषसंसर्ग चाहती हुई पतिके समीप रह कर भी छलसे परपुरुषको ताकती है॥१७॥

पूर्वं युवजानिरित्युक्तं साम्प्रतं तद्योषित्प्रलोभनाय आह—

योषिद्वृन्दारिका तस्य दयिता हंसगामिनी।
दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला॥१८॥

** अन्वयः**—तस्य दयिता योषिद्वृन्दारिका हंसगामिनी दूर्वाकाण्डम् इव (स्थिता) श्यामा न्यग्रोधपरिमण्डला (अस्ति)।

** प्रयोगप०**—तस्य दयितया योषिद्वृन्दारिकया हंसगामिन्या दूर्वाकाण्डैनेव श्यामया न्यग्रोधपरिमण्डलया (भूयते)॥

** व्याख्या**—तस्य=पूर्वोक्तस्य राक्षसनाशकस्य (रामस्येत्यर्थः), दयिता=प्रिया (सीतेतिभावः), योषिद्वृन्दारिका=ललना-मुख्या, हंसगामिनी=हंसगतिः, (हंसनादिनीति पाठः भरतमल्लिकसंमतः, हंसशब्देति तदर्थः। यद्वा “गजेन्द्रगमना तन्वी कोकिलानां रुताऽन्विता। नितम्बगुर्विणी या सा कथ्यते हंसनादिनी॥” इति शब्दमालास्थलक्षणलक्षितेत्यर्थः), दूर्वाकाण्डम् इव=अनन्तास्तम्बम् इव (स्थितेति शेषः, कृशाऽङ्गीत्यर्थः, दूर्वाकाण्डम् इव श्यामा=कृष्णवर्णा इत्युक्तौ तु रामायणविरोधः), श्यामा=यौवनमध्यस्था अप्रसूता वा, न्यग्रोधपरिमण्डला=वटपत्रवद्वर्तुला (उदरे इति शेषः, अनुपूर्वोदरेत्यर्थः ; यद्वा “स्तनौ सुकठिनौ यस्या नितम्बे च विशालता। मध्ये क्षीणा भवेद्या सा न्यग्रोधपरिमण्डला॥” इति शब्दमालालक्षणलक्षिता) (अस्तीति शेषः)।

** व्युत्पत्तिः**—योषिद्वृन्दारिका=वृन्दं गुणवृन्दमस्ति यस्याः सा वृन्दारिका, “शृङ्गवृन्दाभ्यामारकन्” इत्यार कन्प्रत्ययः, “वृन्दारकौ रूपिमुख्यौ” इत्यमरः। ततष्टापि “प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः" इति कात्पूर्वस्येत्वम्। योषिच्च

सा वृन्दारिका योषिद्वृन्दारिका “वृन्दारकनागकुञ्जरैैःपूज्यमानम्‌” इति समासः। हंसगामिनी=हंस इव गच्छतीति हंसगामिनी, “कर्तर्युपमाने”इति णिनिः। ततः स्रीत्वविवक्षायाम्‌ “ऋन्नेभ्यो ङीप्‌, इति ङीप्‌। ““हंसनादिनीः, तिपाठेऽपि हंस । इव नदतीति, तथैव णिन्यादिः। दूर्वाकाण्डं=दूर्वायाः काण्डं (ष० त°), “दूर्वा तु शतपर्विका सहस्रवीर्याभार्गव्यौसहाऽनन्ताः” इत्यमरः। न्यग्नोधपरिमण्डला=लक्षणया न्यग्रोधपत्रमपि “न्यग्रोधम्‌" इत्युच्यते, न्यग्रोधमिव परिमण्डला (वर्तुला) “उपमाननि सामान्यवचनैः" इति समासः।

** भावाऽर्थः**—रामस्य प्रिया ललनामुख्या हंसगतिः कृशाङ्गी यौवनमध्यस्था वटपत्रवर्तुलोदरा वर्तते।

भाषार्थः—रामकी प्रिया स्त्रियोंमे मुख्य हंसगामिनी, दुर्वाकाण्डकी तरहकृशाऽङ्गी, यौवनमध्यस्था ओर वटपत्रकी नाई’ गोलउदरवाली है॥१९॥

नाऽऽस्यं पश्यति यस्तस्या निंस्ते दन्तच्छदं नवा।
संशृणोति न चोक्तानि मिथ्याऽऽसौविहितेन्द्रियः॥१९॥

** अन्वयः**—यः तस्या आस्यं न पश्यति, दन्तच्छदं न निंस्ते वा, उक्तानि न संशृणोति च; असौ मिथ्याविहितेन्द्रियः।

** प्रयोगप०**—येन तस्या आस्यं न दृश्यते, दन्तच्छदो वा न निंस्यते, उक्तानि न संश्रूयन्ते च अमुना मिथ्याविहितेन्द्रियेण (भूयते)॥

** व्याख्या**—यः=पुरुषः तस्याः=रामदयितायाः (सीताया इत्यर्थः) आस्यं मुखं, न पश्यति=न अवलोकयति, दन्तच्छदम्‌= अधरं, न निंस्ते वा=न चुम्बति वा, उक्तानि=भाषितानि, न संशृणोति च=न समाकर्णयति च, असौ=तादृशः पुरुषः, मिथ्या=वृथैव, विहितेन्द्रिरियः=निर्मितकरणः (तादृशपुरुषस्य इन्दियसृष्टिर्निष्फलैवेत्यर्थः)॥

** व्युत्पत्तिः**-—आस्यं=“वक्त्राऽऽस्येवदनं तुण्डमाननं लपनं सुखम्‌” इत्यमरः। दन्तच्छदं=छाद्यते अनेनेति छदः, “पुंसिसंज्ञायां घः प्रायेण” इति घप्रत्ययः “छादेर्घेऽद्युसर्गस्य" इति हृस्वत्वम्‌। निंस्ते=“णिसि चुम्बने” इति आदादिक-धातोर्लटि तङ्‌ शपो लक्‌, इदित्त्वान्नुम्‌ च। संशृणोति=सकर्मकत्वात्‌ समो गम्युच्छिभ्याम्‌” इति नात्मनेपदम्‌ । विहितेन्द्रियः=विहितानि इन्द्रियाणि यस्य सः (बहु°)॥

** भावार्थः**—यः पुरुषः रामदयितायाः मुखं न विलोकयति, अधरं न चुम्बति वा, भाषितानि न आकर्णयति च ; तस्य इन्द्रियनिर्माणं निष्फलमेव॥

** भाषाऽर्थः**—जो पुरुष रामकी प्रियाका मुख नहीं देखता है, उसका अधर नहीं चूमता है, अथवा भाषण नही सुनता है उस पुरुषकी इन्द्रिय–सृष्टि निष्फल ही है॥१९॥

सारोऽसाविन्द्रियाऽर्थानां यस्याऽसौ तस्य नन्दथुः।
तल्पे कान्ताऽन्तरैः सार्धं मन्येहं धिङ्निमज्जथुम्॥२०॥

** अन्वयः**—असौ इन्द्रियार्थानां सारः, असौ यस्य तस्य नन्दथुः, कान्तान्तरैः सार्धं तल्पे निमज्जथुंधिक् (इति), अहं मन्ये॥

** प्रयोगप०**—अमुया सारेण (भूयते), नन्दथुना (भूयते), मया मन्यते।

** व्याख्या**—असौ=स्त्री, इन्द्रियाऽर्थानां=रूपरसादिविषयाणां, सारः=एक त्रसंगृहीतसर्वविषयसारः, अथवा स्थिरांऽशः (श्रेष्ठ इत्यर्थः), असौ=स्त्री, यस्य=यत्सम्बन्धिनी, तस्य=पुरुषस्य, नन्दथुः=आनन्दः, कान्तान्तरैः=अन्यस्त्रीभिः, सार्धं=सह, तल्पे= पर्यङ्के, निमज्जथुं=निमज्जनं, धिक्=कष्टम् (इति=एवम्), अहं=शूर्पणखा, मन्ये=जाने।

** व्युत्पत्तिः**—इन्द्रियाऽर्थानाम्=इन्द्रियाणाम् अर्था इन्द्रियाऽर्थाः, तेषाम् (ष० त०)। नन्दथुः=“टुनदि समृद्धौ” इति धातोः “ट्वितोऽथुच्" इत्युथुच्। कान्तान्तरैः=अन्याः कान्ताः कान्तान्तराणि, तैः (रूपकसमासः), “सहयुक्तेऽप्रधाने” इति तृतीया, निमज्जथुं=निपूर्वात् “टुमस्जो शुद्धौ” इति धातोः पूर्वसूत्रेण अथुच् धिग्योगे तदन्तात् द्वितीया।

** भावार्थः**—असौ रामदयिता रूपरसादिविषयाणां श्रेष्ठः, असौ यस्य प्रिया तस्य आनन्दः, एतस्यां सत्यामन्याभिः कान्ताभिः शयनीये निमिज्जनं धिक् इति मन्ये।

** भाषाऽर्थः**—यह रामकी प्रिया रूप, रस आदि विषयों में श्रेष्ठ है, यह जिसकी है उसको आनन्द है, इसकी विद्यमानतामें पलंगपर और प्रियाओंसे सोनेको धिक्कार है मैं ऐसा मानती हूं॥२०॥

न तं पश्यामि, यस्याऽसौ भवेन्नोदेजया मतेः।
त्रैलोक्येनाऽपि विन्दस्त्वं तां क्रीत्वा सुकृती भव॥२१॥

** अन्वयः**—असौ यस्य मतेः उदेजया न भवेत् तं न पश्यामि, (अतः) त्वं तां त्रैलोक्येन अपि क्रीत्वा विन्दः (सन्) सुकृती भव।

** प्रयोग०**—अमुया उदेजयया न भूयेत, स न (मया) दृश्यते, त्वया विन्देन (सता) सुकृतिना भूयताम्।

** व्याख्या**—असौ=स्त्री, यस्य=पुरुषस्य, मतेः=मानसस्य, उदेजया=कम्पनी, न भवेत्=न स्यात्, तं पुरुषं न पश्यामि=न अवलोकयामि (तादृग्धीरः कश्चिदपि नाऽस्तीत्यर्थः) (अतः=अस्मात्कारणात्), त्वं=रावणः, तां=सुन्दरीं, त्रैलोक्येन अपि=लोकत्रयेण अपि (स्वर्गमर्त्यपातालात्मकेनाऽपीत्यर्थः), क्रीत्वा=क्रयं कृत्वा (लब्ध्वेत्यर्थः), विन्दः=लभमानः (सन्), सुकृती=सुपण्डितः, पुण्यवान् सुकृतकृत्यो वा, भव=एधि (लोकोत्तरस्त्रीरत्नलाभादिति भावः)।

** व्युत्पत्तिः**—मतेः=कृद्योगे कर्मणि षष्ठी। उदेजया=उदेजयते कम्पयतीति उदेजया, उत्पूर्वात् ण्यन्तात् “एजृकम्पने” इति धातोः “अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च” इति शप्रत्ययः, ततः “अजाद्यतंष्टाप्” इति टाप्प्रत्ययः। त्रैलोक्येन=त्रयो लोका एव त्रैलोक्यं तेन “चतुर्वर्णादीनां स्वाऽर्थ उपसंख्यानम्” इति स्वाऽर्थे ष्यञ् स्वार्थिकत्वात्प्रकृतितो लिङ्गवचनाऽतिक्रमः। विन्दः=विन्दतीति विन्दः, “विद्लृ लाभे” इति धातोः पूर्वसूत्रेण शः, “शे मुचादीनाम्” इति नुम्। सुकृती=प्रशस्तं सुकृतम् (सुकर्म) अस्यास्तीति सुकृती,“अत इनिठनौ” इतीनिः, शोभनं कृतमनेनेति सुकृती “इष्टादिभ्यश्च” इति कर्तरि इनिर्वा। “धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः।” इति “सुकृती पुण्यवान्धन्य” इति चामरः।

** भावाऽर्थः**—इयं रामदयिता यस्य मनसि क्षोभकारिणी न भवेत् तं जनं नाऽवलोकयामि, भवांस्त्रैलोक्यमूल्येनाऽपि तां लब्ध्वा कृतकृत्यो भवतु।

** भाषाऽर्थः**—यह रामकी प्रिया जिसके मनमें क्षोभ नहीं करेगी उस पुरुषको ही नहीं देखती हूं, अतः आप त्रैलोक्य दे कर भी उसे खरीद कर कृत-कृत्य हो जाइये॥२१॥

ननु इन्द्राण्यादीनां विद्यमानत्वे केयं संवर्ण्यते इति चेत्तत्राह —

नैवेन्द्राणी, न रुद्राणी, न मनावी, न रोहिणी।
वरुणानी न, नाऽग्नायी तस्याः सीमन्तिनी समा॥२२॥

** अन्वयः**—इन्द्राणी तस्याः समा सीमन्तिनी न, रुद्राणी तस्याः समा सीमन्तिनी न, मनावी तस्याः समा सीमन्तिनी न, रोहिणी तस्याः समा सीमन्तिनी न, वरुणानी तस्याः समा सीमन्तिनी न, अग्नायी (च) तस्याः समा सीमन्तिनी न एव।

** प्रयोगप०**—इन्द्राण्या रुद्राण्या मनाव्या रोहिण्या वरुणान्या अन्नाय्याच तस्याः समया सीमन्तिन्या न (भूयते)।

** व्याख्या**—इन्द्राणी=शची (इन्द्रपत्नीत्यर्थः), तस्याः=रामदयितायाः, समा=तुल्या, सीमन्तिनी=स्त्री, न=नाऽस्ति, रुद्राणी= पार्वती, तस्याः समा सीमन्तिनी न, मनावी=शतरूपा (मनुपत्नीत्यर्थः), तस्याः समा सीमन्तिनी न रोहिणी=चन्द्रपत्नी, तस्याः समा सीमन्तिनी न, वरुणानी=वरुण पत्नी, तस्याः समा सीमन्तिनी न, अग्नायी=स्वाहा (च) (अग्निपत्नी च), तस्याः समा सीमन्तिनी न, एव=निश्चयेन।

** व्युत्पत्तिः**—इन्द्राणी=इन्द्रस्य स्त्री इन्द्राणी, “इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्" इत्यानुगागमः, तस्याः=“तुल्याऽर्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्” इति षष्ठी, पक्षे तृतीया च। सीमन्तिनी=सीम्नः अन्तः सीमन्तः (केशवेशः), “शकन्ध्वादिषु पररूपं वाच्यम्” इति पररूपत्वम्। सीमन्तोऽस्ति अस्याः सा सीमन्तिनी (इनिस्तदन्तान्ङीप् च), “स्त्रीयोषिदबला योषा नारी सीमन्तिनी वधूः।” इत्यमरः। रुद्राणी=रुद्रस्य स्त्री, पूर्वसूत्रेण आनुक् ङीष् च। मनावी=मनोः स्त्री मनावी “मनोरौ वा” इति औकारादेशो ङीप् च, उदात्तैकारपक्षे मनायी। वरुणानी=वरुणस्य स्त्री वरुणानी (ङीष् आनुगागमश्च)। सर्वत्र “पुंयोगादाख्यायाम्” इति ङीष्। अग्नायी=अग्नेः स्त्री अग्नायी, “वृषाकप्यग्निकुसित-कुसिदानामुदात्तः” इत्यैकारादेशो ङीप् च।

** भावाऽर्थः**—इन्द्राणी, रुद्राणी, मनुपत्नी, चन्द्रपत्नी, वरुणानी अग्निपत्नी च कापि रामदयितया सदृशी न (लोकाऽतिशायि तत्सौन्दर्यमस्तीति भावः)।

** भाषाऽर्थः**—इन्द्राणी, रुद्राणी, मनुपत्नी, चन्द्रपत्नी, वरुणानी और अभिपत्नी कोई भी स्त्री रामचन्द्र की पत्नीके तुल्य रूपवती नहीं है॥२२॥

प्रत्यूचे राक्षसेन्द्रस्तामाश्वसिहि, बिभेषि किम् ?
त्यज नक्तञ्चरि ! क्षोभं, वाचाटे ! रावणो ह्यहम्॥२३॥

** अन्वयः**—राक्षसेन्द्रः तां प्रत्यूचे—“हे नक्तञ्चरि ! आश्वसिहि, किं बिभेषि ?हे वाचाटे क्षोभं त्यज, हि अहं रावणः”।

** प्रयोगप०**—राक्षसेन्द्रेण सा प्रत्यूचे—“हे नक्तञ्चरि ! (त्वया) आश्वस्यताम्, किं भीयते ? क्षोभस्त्यज्यतां, मया रावणेन (भूयते)।

** व्याख्या**—राक्षसेन्द्रः=रक्षोऽधिपतिः (रावण इत्यर्थः), तां=शूर्पणखां, प्रत्यूचे=प्रत्युवाच, हे नक्तञ्चरि=हे रात्रिचरि !, आश्वसिहि=आश्वस्ता भव, किं=किमर्थं, बिभेषि=भीता भवसि, हे वाचाटे=हे बहुगर्ह्यभाषिणि !, क्षोभं=चित्तचाञ्चल्यं, त्यज= मुञ्च, हि=यतः, अहं=वक्ता, रावणः=रावणनामधेयः (अस्मीति शेषः)।

** व्युत्पत्तिः**—राक्षसेन्द्रः=राक्षसानामिन्द्रः (ष० त०)। प्रत्यूचे=ध्रुवः कर्तरि लिटि तङ्। नक्तञ्चरि=नक्तं चरतीति नक्तञ्चरी, तत्सम्बुद्धौ, “चरेष्ट” इति टप्रत्ययष्टित्त्वात् “टिड्ढाणञि”त्यादिना ङीप्। “यू स्त्र्याख्यौ नदी” इति नदीसंज्ञकत्वात् “अम्बाऽर्थनयोर्ह्रस्वः” इति सम्बुद्धौ ह्रस्वत्वम्। आश्वसिहि=श्वसेर्लोटि सिपि “रुदादिभ्यः सार्वधातुके” इतीट् सेर्हिरादेशः। “अपि माषं मषं कुर्याच्छन्दोभङ्गं न कारयेत्।” इति शास्त्राद्ध्रस्वाऽन्तपाठे दीर्घ इति केचित्। अमात्रावृत्तत्वादक्षर-सङ्ख्ययैवाऽलं यथा–“ऋग्यजुषमधीयानान्” इत्यादावित्यन्ये इति मल्लिनाथः। वस्तुतस्तु श्लोकाख्यं छन्द इदं “श्लोके षष्ठं गुरुज्ञेयं सर्वत्र लघु पञ्चमम्। द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः।” इति लक्षणादतोऽत्र न छन्दोभङ्गः, अपि त्वत्र श्लथत्वश्रुतेः हतवृत्ताऽभिधानो दोष इति वयं ब्रूमः। वाचाटे=वाचः सन्ति अस्याः सा वाचाटा, तत्सम्बुद्धौ, “आलजाटचौ बहुभाषिणि” इति सूत्रेण “कुत्सित इति वक्तव्यम्” इति वार्तिकानुरोधात् कुत्सिताऽर्थे आटच्, अत एव “वाचाटो बहुगर्ह्यवाक्" इत्यमरः। रावणः=रावयति लोकानिति रावणः, णिजन्तात् “रु शब्दे” इति धातोः“कृत्यल्युटो बहुलम्” इति बाहुल्येन कर्तरि ल्युट्, रवणस्याऽपत्यं पुमान् रावणः “शिवादिभ्योऽण्” इत्यण् वा।

** भावाऽर्थः**—रावणः शूर्पणखां प्रत्यब्रवीत्–“हे राक्षसि ! आश्वस्ता भव, मा भैषीः, हे बहुगर्ह्यवादिनि ! चित्तचाञ्चल्यं मुञ्च, यतोऽहं रावण इति नाम्ना विख्यातोऽस्मि।

** भाषाऽर्थः**—राक्षसराज रावणने शूर्पणखाको उत्तर दिया “हे राक्षसि । आश्वस्त हो जा, क्यों डरती है ? हे वाचाटे (बकबक करनेवाली) ! मत क्षुब्ध हो,

क्योंकि मैं रावण (लोकको सतानेवाला) हूँ॥२३॥

यदुक्तं “विग्रहस्तव शक्रेणे"ति तत्रोत्तरमाह—

मामुपास्त दिदृक्षावान्याष्टीकव्याहतो हरिः।
अज्ञालाभोन्मुखो दूरात्काक्षेणाऽनादरेक्षितः॥२४॥

** अन्वयः**—दिदृक्षावान् याष्टीकव्याहतः (अपि) हरिः आज्ञालाभोन्मुखः दूरात् काक्षेण अनादरेक्षितः (सन्) माम् उपास्त।

** प्रयोगप०**—दिदृक्षावता याष्टीकव्याहतेनाऽपि हरिणा आज्ञालाभोन्मुखेन अनादरेक्षितेन (सता) अहम् उपास्ये।

** व्याख्या**—दर्शनेच्छुः=याष्टीकव्याहतः अपि=वेत्रपाणिप्रतिबद्धः अपि, हरिः=इन्द्रः, आज्ञालाभोन्मुखः=आदेश- प्राप्त्युत्कण्ठितः (“आज्ञादानोत्सुक” इति मल्लिनाथसम्मतः पाठः, तत्रदर्शनाऽभ्यनुज्ञानोत्कण्ठित इत्यर्थः कार्यः)। दूरात्= विप्रकृष्टप्रदेशात्, काक्षेण=कुदृष्ट्या (अप्रसन्नदृष्ट्या इत्यर्थः), अनादरेक्षितः=तिरस्काराऽवलोकितः (सन्), मां=रावणम्, उपास्त=असेवत (ईदृगवस्थ इन्द्र उपेक्षमाणमपि मां किं करिष्यतीति भावः।

** व्युत्पत्तिः**—दिदृक्षावान्=द्रष्टुमिच्छा दिदृक्षा, ‘सन्नन्तात् दृशधातोः “अप्रत्ययात्” इत्यप्रत्ययस्ततष्टाप्। दिदृक्षाऽस्ति यस्य स दिदृक्षावान् (मतुप्)। याष्टीकव्याहतः=यष्टिः प्रहरणं येषां ते याष्टीकाः, “शक्तियष्टयोरीकक्” इति ईकक्प्रत्ययः। याष्टीकैर्व्याहतः (तृ० त०)। आज्ञालाभोन्मुखः=आज्ञाया लाभ आज्ञालाभः (ष० त०), तस्मिन् उन्मुखः (स० त०)। दूरात्= “स्याद्दूरं विप्रकृष्टकम्।” इत्यमरः। काक्षेण=कुत्सितमक्षं काक्षं, “कुगतिप्रादय” इति समासः, इन्द्रियवाचिनाऽक्षशब्देन तद्विशेषचक्षुर्लक्ष्यते, “का पथ्यक्षयोः” इति कुशब्दस्य तत्पुरुषे कादेशः, “अथाऽक्षमिन्द्रियम्।” इत्यमरः। यद्वा कुत्सिते अक्षिणी यस्य स काक्षस्तेन काक्षेण (मयेत्यर्थः), न्यासकारमतेन पूर्वसूत्रेणैव कोः कादेशः, “बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्” इति समासान्तः षच्। अनादरेक्षितः=न आदरः अनादरः (नञ्०)। तेन ईक्षितः (तृ० त०)। उपास्त=उपपूर्वात् आसेर्लङि तङ्, शपो लुक्।

** भावाऽर्थः**—इन्द्रो मद्दर्शनाऽर्थं द्वारि दौवारिकनिषिद्धोऽपि आज्ञाप्राप्त्युत्कण्ठितो भूत्वा दूरदेशात् अप्रसन्नदृष्ट्या मया तिरस्काराऽवलोकितः सन् मामसेवत।

** भाषाऽर्थः**—इन्द्र भी मेरे दर्शन के लिए द्वारपालसे रोके जानेपर भी आज्ञा पानेको उत्कण्ठित हो कर दूरदेश से अप्रसन्न दृष्टिसे अनादरपूर्वक देखे जा कर भी मेरी सेवा करते हैं॥२४॥

विरुग्णोदग्रधाराऽग्रः कुलिशो मम वक्षसि।
अभिन्नं शतधाऽऽत्मानं मन्यते बलिनं बली॥२५॥

** अन्वयः**—बली कुलिशः मम वक्षसि विरुग्णोदग्रधाराऽग्रः (सन्) शतधा अभिन्नम् आत्मानं बलिनं मन्यते।

** प्रयोगप**०—बलिना कुलिशेन विरुग्णोदग्रधाराऽग्रेण (सता) शतधा अभिन्न आत्मा बली मन्यते।

** व्याख्या**—बली=बलवान् (दृढ इत्यर्थः), कुलिशः=वज्रः, मम=रावणस्य, वक्षसि=उरःस्थले, विरुग्णोदग्रधाराऽग्रः= भग्नोच्चतरकोटिमुखः (कुण्ठिमुखः सन्नित्यर्थः),शतधा=शतप्रकारेण, अभिन्नम्=अविदीर्णम्, आत्मानं=स्वं, बलिनं दृढं मन्यते=विचारयति।

** व्युत्पत्तिः**—बली=बलमस्याऽस्तीति बली (इनिः)। कुलिशः=“अस्त्रियां वज्रकुलिशौ” इति यादवः। विरुग्णोदग्रधाराऽग्रः= धाराणामग्राणि धाराऽग्राणि (ष०-त०), विरुग्णानि उदग्राणि धाराऽग्राणि यस्य सः (बहु०)।शतधा, “सङ्ख्याया विधार्थे धा” इति धाप्रत्ययः।अभिन्नं न भिन्नःअभिन्नस्तम् (नञ्०)।

** भावाऽर्थः**—यो नाम इन्द्रायुधं वज्रो बहुराक्षसप्रमापणे प्रसिद्धः सोऽपि मदुरःस्थले प्रहृतो भूत्वा कुण्ठितमुखः सन्नपि “अहो ! अहं शतधा भिन्नो नाऽस्मीति विचार्यात्मानं दृढं मन्यते।

** भाषाऽर्थः**—इन्द्रका दृढ अस्त्र वज्र मेरे छाती में कुण्ठितमुख हो कर भी सैकड़ों जगहों में विदीर्ण नहीं होनेसे ही (मुझको मारकर नहीं,) अपनेको मजबूत समझता है॥२५॥

कृत्वा लङ्काद्रुमाऽऽलानमहमैरावतं गजम्।
बन्धनेऽनुपयोगित्वान्न तं तृणवदत्यजम्॥२६॥

** अन्वयः**—अहम् ऐरावतं गजं लङ्काद्रुमाऽऽलानं कृत्वा बन्धने अनुपयोगित्वात् तं तृणवत् न अत्यजम् ?

** प्रयोगप०**—मया^(…)स तृणवत् न अत्यजत ?

** व्याख्या**—अहं=रावणः, ऐरावतम्=ऐरावतनामकं, गजं हस्तिनं (इन्द्रहस्तिनमित्यर्थः), लङ्काद्रुमाऽऽलानं= लङ्कावृक्ष-बन्धनस्तम्भं, कृत्वा=विधाय (लङ्कावृक्षे बद्ध्वेत्यर्थः), बन्धने=बन्धविषये, अनुपयोगित्वात्=उपयोगशून्यत्वात् (स्वयं वशीभूतत्वात्तस्य बन्धनप्रयोजनाभावादित्यर्थः), तम्=ऐरावतं, तृणवत्=तृणेन तुल्यं, न अत्यजं=न अत्याक्षम् ? (काकुश्रुत्या अत्याक्षमेवेत्यर्थः), जयमङ्गलस्तु–नतं=नम्रमुखमैरावतं, तृणवत्=तृणमिव मत्वा, अत्यजं त्यक्तवानित्याह।

** व्युत्पत्तिः**—ऐरावतम्=इरा (जलम्) अस्ति यस्य स इरावान् (समुद्र इत्यर्थः, मतुप्प्रत्ययः), तत्र भव ऐरावतस्तम् (अण्)। गजं=“मतङ्गजो गजो नागः कुञ्जरो वारणःकरी।” इत्यमरः। लङ्काद्रुमाऽऽलानं=लङ्काया द्रुमो लङ्काद्रुमः (ष० त०), स एव आलानं यस्य स लङ्काद्रुमालानस्तम् (बहु०)। अनुपयोगित्वात्=उपयोगः अस्यास्तीति उपयोगी (इनिः), न उपयोगी अनुपयोगी (नञ्॰), तस्य भावः अनुपयोगित्वं, तस्मात् (त्वप्रत्ययः)। तृणवत्=वतिप्रत्ययः।

** भावाऽर्थः**—अहमैरावताख्यमिन्द्रगजं लङ्कावृक्षे बद्ध्वा स्वयं वशीभूतस्य तस्य बन्धनाऽनुपयोगाऽभावेन तृणवत् न अत्याक्षम् ? (अत्याक्षमेवेत्यर्थः)।

** भाषाऽर्थः**—मैंने ऐरावतनामक इन्द्रके हाथीको लङ्काके वृक्षकी शाखामें बांध कर उसके स्वयम् वशीभूत होनेसे बन्धनका कोई उपयोग न देख कर तृणके सदृश नहीं छोड़ा ? (छोड़)॥२६॥

आहोपुरुषिकां पश्य मम यद्रत्नकान्तिभिः।
ध्वस्ताऽन्धकारेऽपि पुरे पूर्णेन्दोः सन्निधिः सदा॥२७॥

** अन्वयः**—मम आहोपुरुषिकां पश्य, यत् रत्नकान्तिभिः ध्वस्ताऽन्धकारे अपि पुरे सदा पूर्णेन्दोः सन्निधिः।

** प्रयोगप०**—मम आहोपुरुषिका दृश्यतां, सन्निधिना (भूयते)।

** व्याख्या**—मम=रावणस्य, आहोपुरुषिकां=स्वपुरुषकारं, पश्य=अवलोकय, यत्, रत्नकान्तिभिः=मणिप्रभाभिः, ध्वस्ताऽन्धकारे अपि=नाशिततिमिरे अपि, पुरे=नगरे, सदा=सर्वदा, पूर्णेन्दोः=पूर्णचन्द्रस्य, सन्निधिः=सन्निधानम् (अस्तीति शेषः)।

** व्युत्पत्तिः**—आहोपुरुषिकाम्=“अहोपुरुष इति यस्यां क्रियायां सा आहोपु-

रुषिका” इति काशिका।मत्वर्थीयष्ठञ्प्रत्ययः, “मयूरव्यंसकादयश्च” इत्यस्य आकृतिगणत्वात्समासः। केचित्तु अहोपुरुषस्य भाव आहोपुरुषिका=आश्चर्यपुरुषत्वम्, मनोज्ञादित्वाद्वुञिति व्याचक्षते, किन्तु मनोज्ञादिषु मृग्यमेतदिति मल्लिनाथः। ईदृशोद्गारबीजं तु मनोज्ञादिगणे अहोपुरुषशब्दाऽनुपलब्धिरेवेति बोध्यम्। “आहोपुरुषिका दर्पाद्या स्यात्सम्भावनाऽऽत्मनि।” इत्यमरः। रत्नकान्तिभिः=रत्नानां कान्तयो रत्नकान्तयस्ताभिः (ष० त०)। ध्वस्ताऽन्धकारे=ध्वस्तोऽन्धकारो यस्मिस्तत् ध्वस्ताऽन्धकारं, तस्मिन् (ब० व्री०)। पूर्णेन्दोः=पूर्णश्चाऽसौ इन्दुः पूर्णेन्दुस्तस्य (क० धा०)। अत्र “रत्नकान्तिभिः ध्वस्ताऽन्धकारः” इति लोकाऽतिशयसम्पत्तिवर्णनादुदात्तालङ्कारः। तल्लक्षणं यथ—“लोकाऽतिशयसम्पत्तिवर्णनोदात्तमुच्यते। यद्वाऽपि प्रस्तुतस्याऽङ्गं महतां चरितं भवेत्॥” इति साहित्यदर्पणः।

** भावाऽर्थः**—शूर्पणखे ! रत्नच्छविभिरेव निरस्ततिमिरे मत्पुरे प्रयोजनशून्यस्याऽपि चन्द्रमसः पूर्णरूपेण सन्निधानं केवलं मदीयाज्ञानुष्ठानसिद्ध्यर्थमेवेत्यहो ! मे पुरुषाऽर्थं पश्य।

** भाषाऽर्थः**—मेरा पुरुषाऽर्थ देखो, रत्नोंकी कान्तिसे ही अन्धकारके नाश होनेपर भीमेरे शहरमें पूर्णचन्द्र (आवश्यकता न रहने पर भी) सदा रहते हैं॥२७॥

हृतरत्नश्चुतोद्योगो रक्षोभ्यः करदो दिवि।
पूतक्रतायोमभ्येति सत्रपः किं न गोत्रभित्॥२८॥

** अन्वयः**—हृतरत्नः च्युतोद्योगः रक्षोभ्यः करदः गोत्रभित् सत्रपः (सन्) दिवि पूतक्रतायीं न अभ्येति किम् ?

** प्रयोगप०**—हृतरत्नेन च्युतोद्योगेन करदेन गोत्रभिदा सत्रपेण (सता) दिवि पूतक्रतायी न अभीयते किम् ?

** व्याख्या**—हृतरत्नः=अपहृतोत्कृष्टपदाऽर्थः, च्युतोद्योगः=नष्टव्यवसायः, रक्षोभ्यः=राक्षसेभ्यः (अस्मभ्यमित्यर्थः), करदः= बलिप्रदः, गोत्रभित्=इन्द्रः, सत्रपः=सलज्जः (सन्), दिवि=स्वर्गे, पूतक्रतायीं=शचीं, न अभ्येति किं=न उपसर्पति किम् ? (उपसर्पत्येवेत्यर्थः)।

** व्युत्पत्तिः**—हृतरत्नः=हृतानि रत्नानि यस्य सः (बहु०),“रत्नं स्वजातिश्रेष्ठेऽपि” इत्यमरः। च्युतोद्योगः=च्युत उद्योगो यस्य सः (बहु०)। कर-

दः=करं (राजग्राह्यं भागम्) ददातीति करदः (कप्रत्ययः)। गोत्रभित्=गां त्रायन्ते इति गोत्राः (कप्रत्ययः), तान् भिनत्तीति गोत्रभित् “सत्सूद्विषे”त्यादिना क्विप्। सत्रपः=त्रपया सहितः (बहु०)। पूतक्रतायी=पूताः क्रतवो यस्य स पूतक्रतुः (बहु०), तस्य स्त्री पूतक्रतायी, ताम् “पूतक्रतोरै च” इत्यैकारादेशो ङीप् च।

** भावाऽर्थः**—ऐरावतादिरत्नरहितोऽनुत्साहेन व्यवसायशून्यः, अत एव अस्मभ्यं करप्रद इन्द्रो लज्जितः सन् अन्तःपुरे निलीय इन्द्राणीसमीपे तिष्ठति।

** भाषाऽर्थः**—ऐरावत आदि रत्नोंसे रहित, व्यवसायशून्य अत एव हम राक्षसोंको कर देनेवाले इन्द्र लज्जित होते हुए स्वर्गमें इन्द्राणी के पास छिपकर नहीं रहते हैं क्या ?॥२८॥

अतुल्यमहसा सार्धं रामेण मम विग्रहः।
त्रपाकरस्तथाऽप्येष यतिष्ये तद्विनिग्रहे॥२९॥

** अन्वयः**—अतुल्यमहसा रामेण सार्धं विग्रहः मम त्रपाकरः, तथाऽपि एषः तद्विनिग्रहे यतिष्ये।

** प्रयोगप०**—^(…)विग्रहेण मम त्रपाकरेण (भूयते), एतेन (मया) यतिष्यते।

** व्याख्या**—अतुल्यमहसा=असमानतेजसा, रामेण=दाशरथिना, सार्धं=सह, विग्रहः=विरोधः, मम=रावणस्य, त्रपाकरः= लज्जाकरः, तथाऽपि=लज्जाकरत्वेऽपि (त्वत्प्रार्थनयेति शेषः), एषः=अहं, तद्विनिग्रहे=रामस्य विशेषदण्डे (विषये), यतिष्ये= यत्नं करिष्यामि (त्वन्निमित्तमिति भावः)।

व्युत्पत्तिः—अतुल्यमहसा=तुलया संमितं तुल्यं, “नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्य तुल्यप्राप्य-वध्यानाम्यसमसमितसम्मितेषु” इति यत्। न तुल्यमतुल्यं (नञ्॰), तत् महः यस्य सः अतुल्यमहाः, तेन (बहु०), रामेण=“सार्धम्” इति पदेन योगे ‘“सहयुक्तेऽप्रधाने" इति तृतीया। त्रपाकरः=त्रपां करोतीति तच्छीलः"कृञो हेतुताच्छील्यानु-लोम्येषु" इति टप्रत्ययः। “मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा” इत्यमरः, तद्विनिग्रहे=विशिष्टो निग्रहो विनिग्रहः (प्रादिसमासः), तस्य विनिग्रहस्तद्विनिग्रहस्तस्मिन् (ष० त०)। यतिष्ये=“यती प्रयत्ने” इति धातोः “वर्तमानसामीप्ये वर्तमानवद्वा” इति विकल्पेन लटो विधानात् लृट्।

** भावाऽर्थः**—यद्यपि रामो मत्तुल्यबलो न, अतस्तेन सह मम विरोधो लज्जा-

वहस्तथाऽपि त्वत्प्रियार्थं रामस्य विशेषदण्डे यत्नं करिष्यामि।

** भाषाऽर्थः**—यद्यपि राम मेरे समान बलशाली नहीं है, अतः उसके साथ मेरा विरोध करना लज्जाजनक है ; तो भी तुम्हारी प्रीति के लिए मैं उसके विशेष दण्डमें यत्न (कोशिश) करूंगा॥२९॥

उत्पत्य खं दशग्रीवो मनोयायी शिताऽस्त्रभृत्।
समुद्रसविधावासं मारीचं प्रति चक्रमे॥३०॥

** अन्वयः**—(अथ) मनोयायी शिताऽस्त्रभृत् दशग्रीवः खम् उत्पत्य समुद्रसविधावासं मारीचं प्रति चक्रमे।

** प्रयोगप०**—मनोयायिना शितास्त्रभृता दशग्रीवेण चक्रमे।

** व्याख्या**—(अथ=वाक्यसमाप्त्यनन्तरम्) मनोयायी=मनोवेगी, शितास्त्रभृत्=तीक्ष्णायुधधारी, दशग्रीवः=रावणः, खम्= आकाशम्, उत्पत्य=उद्गम्य, समुद्रसविधावासं=रत्नाकरनिकटवासिनं, मारीचं=ताडकासुतं, प्रति=उद्दिश्य, चक्रमे=जगाम।

** व्युत्पत्तिः**—मनोयायी=मन इव यातीति मनोयायी, “कर्तर्युपमाने" इति णिनिप्रत्ययः “आतो युक् चिण्कृतोः" इति युगागमः। शिताऽस्त्रभृत्=शितानि च तानि अस्त्राणि शिताऽत्राणि (क० धा०), तानि बिभर्तीति शिताऽस्त्रभृत् (क्विप्), दशग्रीवः=दश ग्रीवा यस्य सः (बहु०) “अथ ग्रीवायां शिरोधिः कन्धरेत्यपि।" इत्यमरः। समुद्रसविधावास=समुद्रस्य सविधः समुद्रसविधः (ष० त०), तस्मिन् आवासो यस्य स समुद्रसविधावासस्तम् (व्याधिकरणबहुव्रीहिः)। चक्रमे=“अनुपसर्गाद्वा’’ इति क्रमेर्लिटि आत्मनेपदम्।

** भावाऽर्थः**—तदनन्तरं मनः सदृशवेगयुक्तस्तीक्ष्णायुधधारी रावण आकाशमुद्गत्य समुद्रतीरवासिनं मारीचं जगाम।

** भाषाऽर्थः**—तब मनके तुल्य वेगसे युक्त, तीक्ष्ण अस्त्र धारण करनेवाला रावण आकाश में कूदकर समुद्र के तीर के समीप रहनेवाले मारीच नामक राक्षसके पास पहुंचा॥३०॥

संपत्य तत्सनीडेऽसौ तं वृत्तान्तमशिश्रवत्।
त्रस्नुनाऽथ श्रुताऽर्थेन तेनाऽगादि दशाननः॥३१॥

** अन्वयः**—असौ तत्सनीडे सम्पत्य तं वृत्तान्तम् अशिश्रवत्, अथ श्रुता-

ऽर्थेन त्रस्नुना तेन दशाननः अगादि।

** प्रयोगप०**—अमुना स वृत्तान्तोऽश्रावि। श्रुताऽर्थस्त्रस्नुः स दशाऽऽननमगादीत्।

** व्याख्या**—असौ=रावणः, तत्सनीडै=मारीचसमीपे, सम्पत्य=निपत्य, तं=शूर्पणखाकथितं, वृत्तान्तम्=उदन्तम्, अशिश्रवत्= श्रावितवान्, अथ=श्रवणानन्तरं, श्रुताऽर्थेन=आकर्णितवृत्तान्तेन, त्रस्नुना=भीरुणा, तेन=मारीचेन, दशाऽऽननः=रावणः, अगादि=कथितः।

** व्युत्पत्तिः**—तत्सनीडे=तस्य सनीडस्तत्सनीडस्तस्मिन् (ष० त०), “समीपे निकटासन्निकृष्टसन्नसनीडवत्।" इत्यमरः। अशिश्रवत्=ण्यन्तस्य “श्रु श्रवणे” इति धातोर्लुङ्, “णौ चङ्युपधाया ह्रस्वः” इति ह्रस्वत्वं, सन्वद्भावे “स्रवतिशृणोतिद्रवति-प्रवतिप्लवतिच्यवतीनां वा" इति विकल्पादभ्यासस्येत्वम्। श्रुताऽर्थेन=श्रुतः अर्थः येन स श्रुताऽर्थस्तेन (ब० व्री०)। त्रस्नुना= त्रस्यतीति त्रस्नुस्तेन “त्रसी उद्वेगे” इति धातोः “त्रसिगृधिधृषिक्षिपेः क्नुः” इति क्नुप्रत्ययः। दशाननः=दश आननानि यस्य सः (बहु०)। अगादि=“गद व्यक्तायां वाचि” इति धातोः कर्मणि लुङ्।

** भावाऽर्थः**—रावणो मारीचसमीपं गत्वा शूर्पणखोक्तं समस्तं श्रावितवान्। श्रवणाऽनन्तरं भीरुर्मारीचो रावणं जगाद।

** भाषाऽर्थः**—रावणने मारीचके पास जा कर शूर्पणखासे कहे गये सब वृत्तान्त को सुनाया, तब रामसे डरनेवाले मारीचने रावणसे कहा॥३१॥

अन्तर्धत्स्व रघुव्याघ्रात्तस्मात्त्वं राक्षसेश्वर !
यो रणे दुरुपस्थानो हस्तरोधं दधद्धनुः॥३२॥

** अन्वयः**—हे राक्षसेश्वर ! त्वं तस्मात् रघुव्याघ्रात् अन्तर्धत्स्व रणे हस्तरोधं धनुः दधत् यः दुरुपस्थानः।

** प्रयोगप**०—हे राक्षसेश्वर ! त्वया रघुव्याघ्रात् अन्तर्धीयतां, धनुर्दधता येन दुरुपस्थानेन (भूयते)।

** व्याख्या**—हे राक्षसेश्वर=हे रक्षोऽधीश्वर !, त्वं=रावणः, तस्मात्=प्रसिद्धात्, रघुव्याघ्रात्=रघूत्तमात् (रामादित्यर्थः), अन्तर्धत्स्व=अन्तर्हितो भव (नाऽऽत्मानं दर्शयेत्यर्थः), रणे=सङ्ग्रामे, हस्तरोधं=दृढमुष्टिगृहीतं, धनुः=कार्मुकं, दधत्=दधानः, यः=रामः, दुरुपस्थानः=दुरासदः (अस्तीतिशेषः, रामस्य समीपे गमन-

मपि अशक्यं युद्धस्य का कथेति भावः)।

** व्युत्पत्तिः**—राक्षसेश्वर=रक्षांसि एव राक्षसाः (स्वार्थे अण्), राक्षसानामीश्वरो राक्षसेश्वरस्तत्सम्बुद्धौ (ष० त०)। रघु-व्याघ्रात्=रघुषु (लक्षणया रघुवंश्येषु राजसु) व्याघ्रः (श्रेष्ठः) रघुव्याघ्रस्तस्मात् (स० त०), “अन्तर्द्धौयेनाऽदर्शनमिच्छति" इत्यपादानत्वात्पञ्चमी, “स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः। सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठाऽर्थगोचराः॥" इत्यमरः। अन्तर्धत्स्व=दधातेः कर्तरि लोटि तङि “थासः से” इति थासः सेभावः, “सवाभ्यां वाऽमौ” इति एकारस्य वभावः “श्नाऽभ्यस्तयोरातः” इत्याकारलोपः “दधस्तथोश्च” इत्यभ्यासस्य भष्भावः “श्रदन्तरोरुपसर्गवद्वृत्तिः" इत्युपसर्गवद्भावादन्तः शब्दस्य धातोः प्राक्प्रयोगः। हस्तरोधं=हस्तेन रोधः (पीडनम्) यस्य तत् हस्तरोधं तत् (व्य० बहु०)। हस्तेन रुद्ध्वा इति हस्तरोधं, “सप्तम्यां चोपपीडरुधकर्षः”’ इति णमुल् इति जयमङ्गलादयस्तत्र उपोपसर्गव्यभिचारश्चिन्त्यः, व्याकरणान्तरे वा द्रष्टव्य इति महोपाध्यायो मल्लिनाथः। दधत्=दधातीति दधत् (शतृप्रत्ययः), “उभे अभ्यस्तम्” इति अभ्यस्तत्वं “नाऽभ्यस्ताच्छतुः” इति नुम्प्रतिषेधः। दुरुपस्थानः=दुःखेनोपस्थीयते (उपगम्यते) इति दुरुपस्थानः, “आतो युच्” इति खलोऽपवादो युच्।

** भावाऽर्थः**—हे राक्षसाऽधिपते ! त्वं युद्धप्रसिद्धात् रामचन्द्रात् निलीनो भव, युद्धे दृढमुष्टिगृहीतं धनुर्धारयन् यः शत्रुभिर्दुरुपगम्योऽस्ति।

** भाषाऽर्थः**—हे राक्षसराज ! आप युद्धप्रसिद्ध रामचन्द्र के सम्मुख मत रहें, सङ्ग्राममें दृढ मुष्टिसे धनुको पकड़कर जब राम खड़े होते हैं, तब उनके पास कोई नहीं जासकता॥३२॥

भवन्तं कार्तवीर्यो यो हीनसन्धिमचीकरत्।
जिगाय तस्य हन्तारं स रामः सार्वलौकिकम्॥३३॥

** अन्वयः**—यः कार्तवीर्यः भवन्तं हीनसन्धिम् अचीकरत्, सार्वलौकिकं तस्य हन्तारं स रामः जिगाय।

** प्रयोगप०**—येन कार्तवीर्येण भवान् हीनसन्धिमकारि, सार्वलौकिकस्तस्य हन्ता तेन रामेण जिग्ये।

** व्याख्या**—यः, कार्तवीर्यः=हैहयाऽधीश्वरः, भवन्तं=रावणं, हीनसन्धिं=

निकृष्टसन्धानम्, अचीकरत्=कारितवान् (कार्तवीर्यः पराक्रमाधिक्यात् भवता हीनं सन्धिंकारितवानित्यर्थः), सार्वलौकिकं= सर्वलोकप्रसिद्धं (“सार्वलौकिक” इति पाठे रामविशेषणम्), तस्य=कार्तवीर्यस्य, हन्तारं=घातुकं (परशुराममित्यर्थः), सः= पूर्वोक्तः, हन्तारं=घातुकं, रामः=रामचन्द्रः, जिगाय=जितवान्।

** व्युत्पत्तिः**—कार्तवीर्यः=कृतवीर्यस्याऽपत्यं पुमान्कार्तवीर्यः, “तस्याऽपत्यम्” इत्यण् “तद्धितेष्वचामादेः” इत्यादिवृद्धिश्च। भवन्तं=“हृक्रोरन्यतरस्याम्” इति अणि कर्तुः कर्मत्वम्। हीनसन्धिं=हीनश्चाऽसौ सन्धिः हीनसन्धिस्तम् (क० धा०), अचीकरत्=‘“डुकृञ् करणे" इति धातोर्णिजन्तात् लुङ्, “णौ चङ्युपधाया ह्रस्वः” इत्युपधाह्रस्वत्वं “दीर्घौ लघोः” इत्यभ्यास-दीर्घत्वम्। सार्वलौकिकं=सर्वस्मिन् लोके विदितः सार्वलौकिकस्तं, “लोकसर्वलोकाट्ठज्” इति ठञ्, “ठस्येक” इति ठस्येकादेशः “अनुशातिकादीनां च" इत्युभयपदवृद्धिश्च। तस्य=“हन्तारम्” इति कृदन्तपदयोगात् “कर्तृकर्मणोः कृति" इति कर्मणि षष्ठी। जिगाय=“जि जये” इति धातोर्लिट्, “सन्लिटोजेंः” इत्यभ्यासात्परस्य धातुजकारस्य कुत्वम्।

** भावाऽर्थः**—यः कार्तवीर्येऽर्जुनो भवन्तं स्ववशवर्तिनमकरोत्, तस्य हन्तारं जगत्प्रसिद्धं परशुराममपि स रामो विजितवान्।

** भाषाऽर्थः**—जिस कार्तवीर्य अर्जुनने आपको भी अपने साथ सन्धि करनेको विवश किया, उसको मारनेवाले जगत्प्रसिद्ध परशुरामको भी रामचन्द्रजीने जीत लिया॥३३॥

यमाऽऽस्यदृश्वरी तस्य ताड़का वेत्ति विक्रमम् ।
शूरम्मन्योरणाच्चाऽहं निरस्तः सिंहनर्दिना॥३४॥

** अन्वयः**—यमाऽऽस्यदृश्वरी ताडका तस्य विक्रमं वेत्ति, सिंहनर्दिना (तेन) शूरम्मन्यः अहं च रणात् निरस्तः।

** प्रयोगप०**—यमाऽऽस्यदृश्वर्या ताडकया तस्य विक्रमो विद्यते। सिंहनदी (सः) शूरम्मन्यं मां च रणात् निरस्तवान्।

** व्याख्या**—यमाऽऽस्यदृश्वरी=अन्तकमुखं दृष्टवती (रामेण यमालयं प्रापिता इत्यर्थः), ताडका=ताडकाऽऽख्या राक्षसी, तस्य=रामस्य, विक्रमं=पराक्रमं, वेत्ति=जानाति, सिंहनर्दिना=मृगेन्द्रनादिना (तेन=रामेण), शूरम्मन्यः=शूरमानी, अहं च= मारीचश्च, रणात्=युद्धात्, निरस्तः= बहिष्कृतः।

** व्युत्पत्तिः**—यमाऽऽस्यदृश्वरी=यमस्य आस्यं यमास्यं (ष० त०) “वचत्राऽऽस्ये वदनं तुण्डमाननं लपनं मुखम्।” इत्यमरः। यमाऽऽस्यं दृष्टवतीति यमाऽऽस्यदृश्वरी, भूताऽर्थे कर्मोपपदात् “दृशेः क्वनिप्” इति क्वनिष्प्रत्ययः, ततः स्त्रीत्वविवक्षायां “वतो र च" इति ङीप् रेफादेशश्च। सिंहनर्दिना=सिंह इव नर्दतीति सिंहनदीं, तेन “कर्तर्युपमाने” इति णिनिः। शूरम्मन्यः= शूरमात्मानं मन्यत इति शूरम्मन्यः, “आत्ममाने खश्च” इति मन्यतेः खरप्रत्ययः, खित्वात् “अरुर्द्विषदजन्तस्य मुम्” इति मुमागमः।

** भावाऽर्थः**—ताडकाऽख्या राक्षसी रामस्य विक्रमेण यमलोकमगच्छत्, शूरमानी अहं च रणाऽङ्गणात् बहिष्कृतः (अतो रामपराभवे मा साहसं कार्षीरिति भावः)।

** भाषाऽर्थः**—यमराजका मुख देखनेके बाद ताडका रामका पराक्रम जानती है, सिंहनाद करनेवाले रामने ही शूरमानी मुझको भी युद्ध-स्थलसे दूर फेंक दिया॥३४॥

न त्वं तेनाऽन्वभाविष्ठा, नाऽन्वभावि त्वयाऽप्यसौ।
अनुभूतो मया चाऽसौ, तेन चाऽन्वभविष्यहम्॥३५॥

** अन्वयः**—त्वं तेन न अन्वभाविष्ठा, त्वया अपि असौ न अन्वभावि, मया च असौ अनुभूतः, तेन च अहम् अन्वभविषि।
** प्रयोगप०**—त्वां स न अन्वभूत् त्वमपि अमु न अन्वभूः। अहं च अमुमनुभूतवान् स च मामन्वभूत्।

** व्याख्या**—त्वं=रावणः, तेन रामेण, न अन्वभाविष्ठाः=न अनुभूतः (न ज्ञात इत्यर्थः), त्वया अपि भवता अपि, असौ=रामः, न अन्वभावि=न अनुभूतः (अतस्तच्छक्तिं त्वं न जानासीत्यर्थः), मया च=मारीचेन च, असौ=रामः, अनुश्रुतः=ज्ञातः, तेन च= रामेण च, अहं=मारीचः, अन्वभविषि=अनुभूतः (अतस्तच्छक्तिमहं जानामीत्यर्थः)।

** व्युत्पत्तिः**—त्वम्=उक्ते कर्मणि प्रथमा। अन्वभाविष्ठाः=अनूपसर्गपूर्वकात् भूधातोः कर्मणि लुङि थासि सिचि “स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेज्झनग्रहदृशां वा चिण्वदिट् च" इति चिण्वदिटि वृद्धिः। अन्वभावि=“चिण् भावकर्मणोः” इति चिण्। अन्वभविषि=चिण्वदिडभावे वलादिलक्षणे इटि सिचि

वृद्ध्यवाभाद् गुण एव।

** भावार्थः**—स त्वां न ज्ञातवान् त्वमपि तं न ज्ञातवान् अहं तद्बलमनुभूतवानस्मि, सोऽपि मामनुभूतवान्।

** भाषाऽर्थः**—राम आपको नहीं जानते हैं, आप भी रामको नहीं जानते हैं। पर मैं रामको जानता हूं और वे भी मुझे जानते हैं॥३५॥

अध्यङ् शस्त्रभृतां रामो न्यञ्चस्तं प्राप्य मद्विधाः।
स कन्याशुल्कमभनङ्मिथिलायां मखे धनुः॥३६॥

** अन्वयः**—रामः शस्त्रभृताम् अध्यङ्, मद्विधाः तं प्राप्य न्यञ्चः। स मिथिलायां मखे कन्याशुल्कं धनुः अभनक्।

** प्रयोगप०**—रामेण अध्यञ्चा (भूयते), मद्विधैः न्यग्भिर्भूयते। तेन कन्याशुल्कं धनुरभज्यत।

** व्याख्या**—रामः=रामचन्द्रः, शस्त्रभृताम्=आयुधधारिणाम्, अध्यङ्=सर्वाधिकः, मद्विधाः=मादृशाः, तं रामं प्राप्य= आसाद्य (योद्धमिति शेषः), न्यञ्चः=हीनाः, सः=रामः, मिथिलायां=जनकपुरे, मखे=धनुर्यज्ञे, कन्याशुल्कं=कुमारीपणं, धनुः-हरकार्मुकम्, अभनक्=बभञ्ज (अतः सर्वाऽधिको राम इति भावः)।

** व्युत्पत्तिः**—शस्त्रभृतां=शस्त्रं बिभ्रतीति शस्त्रभृतस्तेषाम् (क्विप्)। अध्यङ्=अध्यञ्चति (आधिक्येन वर्तते) इति अध्यङ्, अधिपूर्वकात् “अञ्चु गतिपूजनयोः” इति धातोः “ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चयुजिकुञ्जांच” इति क्विन्सर्वाऽपहारी लोपः “अनिदितां हल उपधायाः क्ङिति” इति अनुनासिकलोपे प्राप्ते अत्र धातोः पूजार्थकत्वात् “नाञ्चेः पूजायाम्” इति निषेधः, “उगिदचां सर्वनामस्थानेऽधातोः” इति अलुप्तनकारत्वान्न नुम्, हल्ङ्यादिसंयोगाऽन्तलोपौ। नकारस्य “क्विन्प्रत्ययस्य कुः” इति कुत्वेन ङकारः। मद्विधाः=मम इव विधा (प्रकारः) येषां ते (व्यधि० बहु०)। न्यञ्चः=नीचमञ्चन्तीति न्यञ्चः, निपूर्वादञ्चुधातोः पूर्ववत्क्विन् “अनिदिता”मित्यादिनाऽनुनासिकलोपे “उगिदचा”मित्यादिना अनुस्वारपरसवर्णादिकार्ये च प्राप्त्यभावात्कुत्वाद्यभावः। कन्याशुल्कं=कन्यायाः शुल्कं कन्याशुल्कं तत् (कन्याशुल्कभूतमित्यर्थः)। “कन्या कुमारी” इत्यमरः। अभनक्=“भञ्जो आमर्दने” इति धातोर्लङ्, “श्नान्नलोपः” इति नलोपः कुत्वचर्त्वेच।

** भावाऽर्थः**—रामः शस्त्रधारिणां सर्वाऽधिकः। मादृशाः शूरम्मन्या अपि तेन सह युद्धे हीनाः। स रामो मिथिलायां धनुर्यज्ञे कन्यापणभूतं हरकार्मुकं बभञ्ज।

** भाषाऽर्थः**—रामचन्द्र वीरों में सबसे अधिक हैं, मेरे जैसे वीर भी उनके सामने तुच्छ हैं। उन रामने मिथिला में धनुर्यज्ञमें कन्याका शुल्कभूत धनु तोड़ दिया॥३६॥

संवित्तः सहयुध्वानौ तच्छक्तिं खरदूषणौ।
यज्वानश्च ससुत्वानो यानगोपीन्मखेषु सः॥३७॥

** अन्वयः**—सहयुध्वानौ खरदूषणौ तच्छक्तिं संवित्तः, ससुत्वानः यज्वानश्च(संविदन्ति), स यान् मखेषु अगोपीत्।

** प्रयोग प०**—सहयुध्वभ्यां खरदूषणाभ्यां तच्छक्तिः संविद्यते, समुत्वभिः यज्वभिश्च (तच्छक्तिः संविद्यते), तेन ये मखेषु अगोपिषत।

** व्याख्या**—सहयुध्वानौ=सहयोधितवन्तौ, खरदूषणौ=खरदूषणनामको राक्षसौ, तच्छक्ति=रामपराक्रमं, संवित्तः= सम्यग् जानीतः, ससुत्वानः=सोमसुत्सहिताः, यज्वानश्च=आहिताऽग्नयश्च (संविदन्ति=सम्यग्जानन्ति), सः=रामः, यान्= यज्वनः, मखेषु=यज्ञेषु, अगोपीत्=अरक्षीत्।

** व्युत्पत्तिः**—सहयुध्वानौ=सह योधितवन्तौ इति सहयुध्वानौ, सहोपपद पूर्वकात् “युध सम्प्रहारे” इति धातोः “सहे च” इति क्वनिप् । खरदूषणौ=खरश्च दूषणश्च (द्वन्द्वः)। तच्छक्तिं=तस्य शक्तिस्तच्छक्तिस्ताम् (ष० त०)। संवित्तः=सम्पूर्वकात् “विद ज्ञाने” इति धातोः “वर्तमानसामीप्ये वर्तमानवद्वा” इति भूते लटि तसि शपो लुक्। सकर्मकत्वात् “समो गम्यृच्छिभ्याम्” इति न तङ्, तस्य अकर्मकाऽधिकारात्। ससुत्वानः=सुतवन्तः इति सुत्वानः “षुञ् अभिषवे” इति धातोः “सुयजोङ्वनिप्” इति वनिप्" ह्रस्वस्य पिति कृति तुक्” इति तुगागमश्च। सुत्वभिः सहिताः ससुत्वानः (बहु०)। यज्वानः इष्टवन्त इति यज्वानः, पूर्वसूत्रेण ङ्वनिप्”, “यज्वा तु विधिनेष्टवान्" इत्यमरः। अगोपीत्=“गुपू रक्षणे” इति धातोर्लुङ्।

भावार्थः—रामेण सह योधितवन्तौ खरदूषणौ रामबलं सम्यग् जानीतः, सोमयाजिसहिताः ते आहिताग्नयश्च रामपराक्रमं सम्यग्जानन्ति, रामः यान् आहिताग्नीन् यज्ञरक्षणेन अरक्षीत्।

** भाषाऽर्थः**—रामसे लड़नेवाले खर और दूषण उनका बल जानते हैं। रामने जिन विधिपूर्वक यज्ञ करनेवालोंकी यज्ञों में रक्षा की थी वे भी सोमयाजियों के साथ रामकी शक्ति जानते हैं॥३७॥

सुखजातः सुरापीतो नृजग्धो माल्यधारयः।
अधिलङ्कं स्त्रियो दीव्य माऽऽरब्धाबलिविग्रहम्॥३८॥

** अन्वयः**—सुखजातः सुरापीतः नृजग्धः माल्यधारयः (सन्) अधिलङ्कस्त्रियः दीव्य, बलिविग्रहं मा आरब्धाः।

** प्रयोगप**०—सुखजातेन सुरापीतेन नृजग्धेन माल्यधारयेण (सता) स्त्रियो दीव्यन्ताम्, बलिविग्रहो मा आरम्भि।

** व्याख्या**—सुखजातः=जातसुखः (उत्पन्नाऽनन्दः इत्यर्थः), सुरापीतः=पीतसुरः (पीतमदिर इत्यर्थः), नृजग्धः=जग्धनृकः (भक्षितमनुष्य इत्यर्थः), माल्यधारयः=धृतमालः (सन्), अधिलङ्कं=लङ्कायाम्, स्त्रियः दीव्य=स्त्रीभिः (करणैः) क्रीडस्व, बलिविग्रहं=बलवद्विरोधं, मा आरब्धाः=मा कार्षीः (अन्यथा मरिष्यसीत्यर्थः)।

** व्युत्पत्तिः**—सुखजातः=जातं सुखं यस्य स सुखजातः (बहु०), “जातिकालसुखादिभ्यः परा निष्ठा वाच्या" इति सुख-शब्दस्य पूर्वनिपातः। “प्रायिकं चेदम्” इति कथनात्क्वचित् जातसुखो वा। सुरापीतः=पीता सुरा येन सः (बहु०), “वाऽऽहिताग्न्यादिषु” इति वैकल्पिको निष्ठायाः परनिपातः। नृजग्धः=ना जग्धो येन सः (बहु०) अत्राऽपिपूर्ववन्निष्ठायाः परनिपातः। “अदो जग्धिर्ल्यप्ति किति” इत्यदो जग्धिरादेशः। माल्यधारयः=माला एव माल्यानि (स्वार्थे ष्यञ्)। (धारयतीति धारयः “अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च" इति धारेः कर्तरि शप्रत्यये गुणाऽयादेशौ। माल्यानां धारयः (ष० त०) अधिलङ्कं=लङ्कायाम् इति (विभक्त्यर्थेऽव्ययीभावः)। स्त्रियः=“दिवः कर्म च” इति कर्मसंज्ञा। बलिविग्रहं= बलमस्याऽस्तीति बली (इनिप्रत्ययः), तेन विग्रहो बलिविग्रहस्तम् (तृ० त०), “अस्त्रियां समराऽनीकरणाः कलहविग्रहौ।” इत्यमरः। मा आरब्धाः=रभेराङ्पूर्वान्माङि लुङि थासि “झलो झलि” इति सिचोलोपः “झषस्तथोर्थोऽधः" इति थस्य धस्ततः “झलां जश् झशि” इति भस्य वः।

** भावाऽर्थः**—जाताऽऽनन्दः मदिरां पीत्वा नरं भक्षयित्वा मालां धृत्वा लङ्कायां

स्त्रीभिः क्रीड, परं बलवत्तरेण रामेण विरोधं मा कृथाः।

** भाषाऽर्थः**—हे रावण ! आनन्दित होकर, सुरापान कर मनुष्य भक्षण कर और माला पहन कर लङ्कामें स्त्रियोंके साथ क्रीडा करो, परन्तु बलवान् रामसे विरोध मत करो॥३८॥

तं भीतङ्कारमाक्रुश्य रावणः प्रत्यभाषत।
यातयामं विजितवान् स रामं यदि किं ततः॥३९॥

** अन्वयः**—रावणः तं भीतङ्कारमाक्रुश्य प्रत्यभाषत स यातयामं रामं विजितवान् यदि, ततः किम्।

** प्रयोगप०**—रावणेन स आक्रुश्य प्रत्यभाष्यत, तेन यातयामो रामो विजितो यदि, ततः केन (भूयते)।

** व्याख्या**—रावणः=दशाननः, तं=मारीचं, भीतङ्कारम् आक्रुश्य=भीरुस्त्वमिति निर्भर्त्स्य, प्रत्यभाषत=प्रत्यब्रवीत्, सः= रामः, यातयामं=गतवयसं (वृद्धमित्यर्थः), रामं=परशुरामं, विजितवान् यदि=विजिग्ये चेत्, ततः=तर्हि, किं=किं जातम् (वृद्धजयात् क उत्कर्ष इत्यर्थः)।

** व्युत्पत्तिः**—भीतङ्कारं=भीतं कृत्वा भीतङ्कारं, “कर्मण्याक्रोशे कृञः खमुञ्” इति खमुञ्। यातयामं याता यामा यस्य स यातयामस्तम् ( बहु०) ।

भावाऽर्थः—रावणो मारीचं “त्वं भीतोसी”ति निर्भर्त्स्य प्रत्यवदत्—रामः वृद्धं परशुरामं विजिग्ये यदि, तेन किं स शूरः सञ्जातः ?

** भाषाऽर्थः**—रावणने मारीचको “तुम डरपोक हो” ऐसा कहकर घुड़ककर उत्तर दिया “रामने बुड्ढे परशुरामको यदि जीत ही लिया तो भी इससे क्या (इतने हीसे रामको वीर नहीं कह सकेंगे)॥३९॥

अघानि ताडका तेन लज्जाभयविभूषणा।
स्त्रीजने यदि तच्छ्लाघ्यंधिग्लोकं क्षुद्रमानसम्॥४०॥

** अन्वयः**—लज्जाभयविभूषणा ताडका तेन अघानि, स्त्रीजने तत् श्लाध्यं यदि ; क्षुद्रमानसं लोकं धिक्।

** प्रयोग प०**—लज्जाभयविभूषणां ताडकां सोऽवधीत्, स्त्रीजने तेन श्लाध्येन (भूयते) यदि, क्षुद्रमानसं लोकं धिक्।

** व्याख्या**—लज्जाभयविभूषणा=व्रीडाभीत्यलङ्कारा, ताडका=ताडकाऽऽख्या

स्त्री, तेन=रामेण, अघानि=हता, स्त्रीजने=अबलाजने (कृतमिति शेषः), तत्=कर्म (वधात्मकमित्यर्थः), श्लाघ्यंयदि= प्रशंसनीयं चेत्, (तर्हि) क्षुद्रमानसं=लघुचित्तं (स्त्रीवधरूपं गर्ह्यंकर्म शौर्यं मन्यमानमित्यर्थः), लोकं=जनसमाजं, धिक् ! (निन्दनीयो लोक इत्यर्थः)।

** व्युत्पत्तिः**—लज्जाभयविभूषणा=लज्जा च भयं च लज्जाभये, ते एव विभूषणे यस्याः सा (बहु०)। अघानि=हन्तेः कर्मणि लुङि “चिणो लुक्” इति तस्य लुक्, “हो हन्तेर्ञ्णिन्नेषु” इति कुत्वम्। स्त्रीजने=स्त्री चाऽसौ जनः स्त्रीजनस्तस्मिन् (क० धा०)। क्षुद्रमानसं मन एव मानसम् (स्वाऽर्थे अण्), “चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः।" इत्यमरः। क्षुद्रं मानसं यस्य स क्षुद्रमानसस्तम् (बहु०)। लोकं=धिग्योगे “उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्राऽपि दृश्यते॥” इति द्वितीया।

** भावाऽर्थः**—त्रपाभीत्यलङ्कारायास्ताडकायाः स्त्रियाः रामकर्तृकं हननं लोकेन प्रशस्यते यदि, तर्हि तादृशं लघुचित्तं लोकं धिक्।

भाषाऽर्थः—लज्जा और भय हो जिसके भूषण हैं ऐसी ताडका नामकी स्त्रीको रामने मारा, रामसे की गई ऐसी स्त्रीहिंसाकी लोक प्रशंसा करता है तो क्षुद्रचित्तवाले उसे धिक्कार है॥४०॥

यद्गेहेनर्दिनमसौ शरैर्भीरुमभाययत्।
कुब्रह्मयज्ञके रामो भवन्तं, पौरुषं न तत्॥४१॥

** अन्वयः**— असौ रामः, गेहेनर्दिनं भीरुं भवन्तं कुब्रह्मयज्ञके शरैः यत् अभाययत्, तत् पौरुषं न ।

** प्रयोग०**—अमुना रामेण गेहेनदीं भीरुर्भवान् शरैर्यत् अभाय्यत, तेन पौरुषेण न (भूयते)।

** व्याख्या**—असौ=दूरवर्ती, रामः=रामचन्द्रः, गेहेनर्दिनं=गृहेशूरं, भीरुं=भीलुकं, भवन्तं=त्वां, कुब्रह्मयज्ञके=ब्राह्मणाभास (विश्वामित्र) कुयज्ञे, शरैः=बाणैः (करणैः), यत्, अभाययत्=अत्रासयत्, तत्=भीरुत्रासनं, पौरुषं=पुरुषकारः, न=नभवति।

** व्युत्पत्तिः**—गेहेनर्दिनं=गेह एव नर्दतीति तच्छीलः गेहेनर्दी, तं (णिनिः), “पात्रे समितादयश्च” इति समासः। “गेहेनर्दी गृहेशूरः पिण्डीमारश्च कथ्यते।"

इति हलायुधः। कुब्रह्मयज्ञके=कुत्सितो ब्रह्मा (ब्राह्मणः) कुब्रह्मो ब्राह्मणाभासः विश्वामित्र इत्यर्थस्तस्य जन्मना क्षत्रियत्वादिति भावः। “कुगतिप्रादय" इति समासः, ‘कुमहद्भ्यामन्यतरस्याम्” इति विकल्पेन समासान्तष्टच्। कुत्सितो यज्ञो यज्ञकः, “कुत्सिते" इति कप्रत्ययः। कुब्रह्मस्य यज्ञकः कुब्रह्मयज्ञकस्तस्मिन् (ष० त०)। अभाययत्=णिजन्तात् “जिभी भये” इति धातोर्लङि शपि वृद्ध्यायादेशौ, षुगात्मनेपदे न भवतः, भयहेतोरभावात्। पौरुषं=पुरुषस्य कर्म पौरुषं, “हायनाऽन्तयुवादिभ्योऽण्” इत्यण्।

भावाऽर्थः—रामः गेहेशूरं भीलुकं भवन्तं ब्राह्मणाभासस्य विश्वामित्रस्य यज्ञे बाणैर्यत् त्रासितवान्, तत् पौरुषं न (शूरत्रासनं पुरुषकारो न भीरुत्रासनमिति भावः)।

**भाषाऽर्थः**—रामने घर में ही शूरता दिखलानेवाले डरपोक आपको, कुत्सित ब्राह्मण विश्वामित्रके यज्ञमें बाणोंसे जो त्रास दिया, वह पुरुषार्थ नहीं है॥४१॥

चिरकालोषितं जीर्णं कीटनिष्कुषितं धनुः।
किं चित्रं यदि रामेण भग्नं क्षत्रियकाऽन्तिके॥४२॥

**अन्वयः**—चिरकालोषितं जीर्णंकीटनिष्कुषितं धनुः रामेण क्षत्रियकाऽन्तिके भग्नं यदि, किं चित्रम्।

**प्रयोगप०**—धनुः रामो भग्नवान् यदि, केन चित्रेण (भूयते)।

**व्याख्या** - चिरकालोषितं= बहुसमयस्थितं ( पुराणमित्यर्थः), जीर्णं= निःसारं, कीटनिष्कुषितं=घुणादिक्षतं, धनुः= चापः ( शिवस्येति शेषः), रामेण=रामचन्द्रेण, क्षत्रियकाऽन्तिके=जनकादिकुत्सितक्षत्रसमीपे, भग्नं यदि= खण्डितं चेत्, ( तर्हि) किं चित्रं=किमाश्चर्यम् ( जीर्णकाष्ठभङ्गस्य सुकरत्वादिति भावः)।

** व्युत्पत्तिः**—चिरकालोषितं=चिरं कालः चिरकालः, “सुप्सुपा” इति समासः। चिरकालम् उषितं चिरकालोषितं, “कालाऽध्वनोरत्यन्तसंयोगे” इति द्वितीया ततः “अत्यन्तसंयोगे च" इति द्वितीयातत्पुरुषः। उषितमित्यत्र “वस निवासे"इति धातोः क्तप्रत्ययः, सम्प्रसारणम् “वसतिक्षुधोरिट्” इति इडागमः। “शासिवसिघसीनां च” इति षत्वं च। जीर्णं=“जृ वयोहानौ” इति धातोः क्तः, “ऋत इद्धातोः” इतीत्त्वे “हलि च” इति इको दीर्घः “रदाभ्यां निष्ठातो नः पूर्वस्य च दः” इति निष्ठानत्वम्। कीटनिष्कुषितं=कीटैर्निष्कुषितम् (तृ० त०)। निष्कुषितमित्यत्र निरुपसर्गपूर्वकात् “कुष निष्कर्षे” इति धातोः क्तः, “इण्निष्ठायाम्”।

इति इट्। क्षत्रियकाऽन्तिके=क्षत्रस्याऽपत्यं पुमान् क्षत्रियः, “क्षत्राद्घः” इति घप्रत्ययः। “मूर्द्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्।” इत्यमरः। कुत्सितः-क्षत्रियः क्षत्रियकः (कुत्सायां कन्)। क्षत्रियकस्य अन्तिकः क्षत्रियाऽन्तिकस्तस्मिन्, “दूराऽन्तिकाऽर्थैः षष्ठ्यन्यतरस्याम्” इति षष्ठी विभक्तिस्ततः “षष्ठी” इति षष्ठीतत्पुरुषः “सप्तम्यधिकरणे च” इति चकारेण दूराऽन्तिकाऽर्थग्रहणात् ‘अन्तिके’ इति सप्तमी। (अत्र अचित्रत्वस्य विशेषणगत्या चिरकालोषितादिपदाऽर्थहेतुकत्वात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः। “हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्।” इति तल्लक्षणम्)।

** भावाऽर्थः**—पुरातनमसारं घुणादिकीटक्षतं शिवकार्मुकं रामेण क्षात्रहीनानां जनकादीनां समीपे खण्डितं चेत्, तर्हि किमाश्चर्यम्।

** भाषाऽर्थः**—पुराना, साररहित और घुन आदि कीड़ों से क्षत ऐसे शिवधनुको-रामने पराक्रमहीन जनक आदि क्षत्रियों के समीप तोड़ा तो इसमें आश्चर्य क्या है।

वनतापसके वीरौ विपक्षे गलितादरौ।
किं चित्रं यदि साऽवज्ञौ मम्रतुः खरदूषणौ॥४३॥

** अन्वयः**—वनतापसके विपक्षे गलितादरौ साऽवज्ञौ वीरौ खरदूषणौ मम्रतुर्यदि, किं चित्रम्।

** प्रयोगप०**—गलितादराभ्यां साऽवज्ञाभ्यां वीराभ्यां खरदूषणाभ्यां मम्रे यदि, केन चित्रेण (भूयते)।

** व्याख्या**—वनतापसके=अरण्यकुत्सिततपस्विनि, विपक्षे=शत्रौ (रामे इत्यर्थः), गलिताऽऽदरौ=प्रयत्नरहितौ (अयं किं करिष्यतीति अनास्थया प्रयनशून्यावित्यर्थः), [अत एव] साऽवज्ञौ=तिरस्कारसहितौ (“क्षुद्रोऽय”मिति मत्वा अगणितवन्तावित्यर्थः), वीरौ=शूरौ, खरदूषणौ=खरदूषणनामकौ राक्षसौ, मम्रतुर्यदि=मृतौ चेत्, (तर्हि) किं चित्रम्= किमाश्चर्यम् (प्रमत्तवधस्य सुकरत्वादिति भावः)।

व्युत्पत्तिः—वनतापसके=कुत्सितस्तापसस्तापसकः (कुत्सायां कन्)। वने तापसको वनतापसकस्तस्मिन् (स० त०)। विपक्षे=विरुद्धः पक्षो यस्य सविपक्षस्तस्मिन् (बहु०)। गलितादरौ=गलित आदरो ययोस्तौ (बहु०)। साऽवज्ञौ=अवज्ञया सहितौ (बहु०)। वीरौ=“शूरो वीरश्च विक्रान्त” इत्यमरः।

खरदूषणौ=खरश्च दूषणश्च (द्वन्द्वः)। मम्रतुः=“मृङ् प्राणत्यागे” इति धातोर्लिट् “म्रियतेर्लुङ्लिङोश्च" इति नियमाल्लिटि न तङ् । (पूर्ववदलङ्कारः)।

** भावाऽर्थः**—वनस्थकुत्सिततपस्विनि शत्रौ रामे निष्प्रयत्नौ अत एव क्षुद्रोऽयमिति मत्वा तिरस्कारयुक्तौ शूरौ खरदूषणौ हतौ चेत्तर्हि किमाश्चर्यम् (शत्रौ प्रयत्नरहितस्य तिरस्कारेण अवधानरहितस्यापि वधे न किमपि आश्चर्यमिति भावः)।

भाषाऽर्थः—वनस्थ कुत्सित तपस्वी शत्रु राममें “यह क्या करेगा” ऐसा विचार कर प्रयत्नशून्य तथा तिरस्कारसे शत्रुको कुछ भी न गिननेवाले खर और दूषण जो मर गये इसमें क्या आश्चर्य है ?॥४३॥

त्वं तु भीरुः सुदुर्बुद्धे ! नित्यं शरणकाम्यसि।
गुणांश्चाऽपह्नुषेऽस्माकं, स्तौषि शत्रूंश्च नः सदा॥४४॥

** अन्वयः**—हे सुदुर्बुद्धे ! त्वं तु भीरुः नित्यं शरणकाम्यसि, अस्माकं गुणान् अपह्नुषे च, नः शत्रूंश्च सदा स्तौषि।

** प्रयोगप०**—हे सुदुर्बुद्धे ! त्वया तु भीरुणा गुणा अपह्नूयन्ते च, नः शत्रवश्च सदा स्तूयन्ते।

** व्याख्या**—हे सुदुर्बुद्धे—हे सुदुर्मते !, त्वं तु=मारीचस्तु, भीरुः=भयशीलः, [अत एव] नित्यं=सदा, शरणकाम्यसि= आत्मनः शरणमिच्छसि (अतो रामकृतस्तव पराजयोऽपि न पराक्रम इति भावः, “रणकाम्यसि" इति भरतमल्लिकसम्मते पाठे भीरुर्भूत्वा आत्मनो रणमिच्छसीत्यर्थः), अस्माकं=रावणादीनां राक्षसानां, गुणान्=शौर्यादीन्, अपह्नुषे च=अपनयसि च (अपलपसीत्यर्थः), नः= अस्माकं, शत्रूंश्च=रामादींश्च, सदा=नित्यं, स्तौषि=प्रशंससि।

व्युत्पत्तिः—सुदुर्बुद्धे=दुष्टा बुद्धिर्यस्य स दुर्बुद्धिः (बहु०)। अत्यन्तं दुर्बुद्धिः सुदुर्बुद्धिस्तत्सम्बुद्धौ “कुगतिप्रादयः” इति समासः। शरणकाम्यसि=शरणमात्मन इच्छसि, “काम्यच्च" इति काम्यच्च। अपह्नुषे=“ह्नुङ्अपनयने” इत्यादादि-काद्धातोर्लट्। “थासः से” इति थासः सेभावः शपो लुक्। स्तौषि=“ष्टुञ् स्तुतौ” इत्यादादिकाद्धातोर्लटि सिपि शपो लुक्, “उतो वृद्धिर्लुकि हलि” इति वृद्धिः।

** भावार्थः**—हे दुर्मतितर !. त्वं तु भयशीलोऽत एवाऽजस्रमात्मनो रक्षकं वाञ्छसि, अस्माकं शौर्यादीनां गुणानामपलापं करोषि च, एवं नो वैरिणश्च सर्वदा प्रशंससि।

भाषाऽर्थः—हे अतिशय दुर्बुद्धे ! तुम तो डरपोक हो, इस लिए ही हमेशा अपने रक्षकको ढूँढते हो, तथा हम लोगोंके गुणोंको छिपाते हो एवम् हमलोगोंके शत्रुओंकी सदा तारीफ करते हो॥४४॥

शीर्षच्छेद्यमतोऽहं त्वां करोमि क्षितिवर्द्धनम्।
कारयिष्यामि वा कृत्यं निजिघृक्षुर्वनौकसौ॥४५॥

** अन्वयः**—अतः अहं शीर्षच्छेद्यं त्वां क्षितिवर्द्धनं करोमि, वा वनौकसौ निजिघृक्षुः कृत्यं त्वां कारयिष्यामि।

** प्रयोगप०**—मया शीर्षच्छेद्यस्त्वं क्षितिवर्द्धनः क्रियसे, विजिघृक्षुणा (मया) कृत्यं त्वं कारयिष्यसे।

** व्याख्या**—अतः=अस्मादपराधात्, अहं=रावणः, शीर्षच्छेद्यं=शिरश्छेदयोग्यं, त्वां=भवन्तं (मारीचमित्यर्थः), क्षितिवर्द्धनं= मृतं, करोमि=करिष्यामि, वा=अथवा, वनौकसौ=अरण्यवासिनौ (राज्यभ्रष्टौ रामलक्ष्मणौ इत्यर्थः), निजिघृक्षुः= निग्रहीतुमिच्छुः (सन्), कृत्यं=तन्निग्रहोपायात्मकं कर्म, त्वां=त्वया, कारयिष्यामि=कारयितास्मि।

व्युत्पत्तिः—शीर्षच्छेयं शीर्षस्य छेदः (ष० त०), “उत्तमाऽङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्।” इत्यमरः। शीर्षच्छेदमर्हतीति शीर्षच्छेद्यस्तं,“शीर्षच्छेदाद्यच्च” इति यत्, चाटुका “शैर्षच्छेदिक” इत्यपि। क्षितिवर्द्धनं=वर्द्धयतीति वर्द्धनः, नन्द्यादित्वाल्ल्युरित्युक्तम्। क्षितेर्वर्द्धनः क्षितिवर्द्धनस्तम् (ष० त०)। करोमि=सामीप्ये वर्तमानप्रत्ययः। वनौकसौ=वनमोको ययोस्तौ वनौकसौ, तौ (बहु०), “निजिघृक्षुः” इति कृदन्तपदेन योगे “न लोकाऽव्ययनिष्ठाखलर्थतृनाम्” इति कर्मणि षष्ठ्याः प्रतिषेधः। निजिघृक्षुः=सन्नन्तात् “ग्रह उपादाने” इति धातोः “सनाशंसभिक्ष उः” इत्युः “सनि ग्रहगुहोश्च" इतीट्प्रतिषेधः, “रुदविदमुषग्रहिस्वपिप्रच्छःसंश्च" इति सनः कित्वे “ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङ्किति च" इति सम्प्रसारणं" हो ढः" इति हस्य ढत्वे “एकाचो वशो भष् झषन्तस्य स्ध्वोः" इति भष्भावः “ षढोः कः सि” इति ढस्य कत्वं षत्वं च। “विजिघृक्षुः" इति जयमङ्गलसम्मतः पाठस्तत्र विग्रहीतुमिच्छुः इत्यर्थः। कृत्यं=कर्तुं योग्यं कृत्यं, तत् “विभाषा कृवृषोः” इति क्यप्,पित्वात् तुक् च। त्वां=“हृक्रोरन्यतरस्याम्” इत्यणि कर्तुः कर्मत्वम्।

** भावार्थः**—हे मारीच ! अस्मादपराधादहं वध्यं त्वां हन्मि अथवा रामलक्ष्मणयोर्निग्रहोपायं त्वया कारयिष्यामि।

** भाषाऽर्थः**—इस अपराधसे मैं तुमको मारूंगा वा राम और लक्ष्मणको दण्ड देनेका उपाय तुमसे कराऊंगा॥४५॥

तमुद्यतनिशाताऽसिं प्रत्युवाच जिजीविषुः।
मारीचोऽनुनयंस्त्रासादभ्यमित्र्योभवामि ते॥४६॥

** अन्वयः**—जिजीविषुः मारीचः उद्यतनिशाताऽसिं तं त्रासात् अनुनयन् “ते अभ्यमित्र्यः भवामि” इति प्रत्युवाच।

** प्रयोगप०**—जिजीविषुणा मारीचेन अनुनयता (सता)—“(मया) ते अभ्यमित्रेण भूयते" इति प्रत्यूचे।

** व्याख्या**—जिजीविषुः=जीवनेच्छुः, मारीचः=तदाख्यो राक्षसः, उद्यतनिशाताऽसिं=उत्क्षिप्ततीक्ष्णखड्गं, तं=रावणं, त्रासात्=भयात्, अनुनयन्=प्रार्थयमानः (सन्), ते=तव, अभ्यमित्र्यः=शत्रुसमीपगामी, भवामि=अस्मि, इति=इत्थं, प्रत्युवाच=प्रत्यब्रवीत् (रावणहस्तमरणात् रामहस्तमरणं श्रेय इति विचार्य प्रत्यवादीदित्यर्थः)।

** व्युत्पत्तिः**—जिजीविषुः=जीवितुमिच्छुः सन्नन्तात् “जीव प्राणधारणे” इति धातोः उप्रत्ययः। उद्यतनिशाताऽसिं=उद्यतो निशातोऽसिर्येन स उद्यतनिशाताऽसिस्तम् (बहु०)। निशात इत्यत्र “शो तनूकरणे" इति धातोर्निष्ठायाम् “आदेच उपदेशेऽशिति” इत्यात्वं, “शाच्छोरन्यतरस्याम्” इति विकल्पादित्त्वाऽभावः। अनुनयन्=अनुनयतीति (शतृप्रत्ययः)।अभ्यमित्र्यः=न मित्रममित्रः (नञ्०), अत्र असुरादिवत् विरोधाऽर्थे नञ्। अमित्रस्य अभिमुखमभ्यमित्रं,“लक्षणेनाऽभिप्रती आभिमुख्ये” इत्यव्ययीभावः। अभ्यमित्रमलं गच्छतीति अभ्यमित्र्यः, “अभ्यमित्राच्छ च” इति चात् यत्, पक्षे छखप्रत्ययाभ्याम् “अभ्यमित्रीयः” “अभ्यमित्रीण” इत्यपि, अमित्राऽभिमुखं सुष्ठु गच्छतीत्यर्थः। “यो गच्छत्यलं विद्विषतः प्रति। सोऽभ्यमित्र्योऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि।" इत्यमरः।

** भावाऽर्थः**—जीवितेच्छुर्मारीचो हननोद्यतं रावणं भयात् प्रार्थयमानः सन् “हे रावण ! अहं ते शत्रुसम्मुखं सुष्ठु गच्छामी"ति प्रत्यब्रवीत्।

** भाषाऽर्थः**—जीने की इच्छा रखनेवाले मारीचने डर कर म्यानसे तीक्ष्ण तलवार निकाले हुए रावणसे प्रार्थना कर “मैं तुम्हारे शत्रुके सम्मुख जाऊंगा” ऐसा कहा॥४६॥

हरामि रामसौमित्री मृगो भूत्वा मृगद्युवौ।
उद्योगमभ्यमित्रीणो यथेष्टं त्वं च सन्तनु॥४७॥

** अन्वयः**—मृगद्युवौ रामसौमित्री मृगः भूत्वा हरामि, त्वं च अभ्यमित्रीणः ( सन्) यथेष्टम् उद्योगं सन्तनु।

** प्रयोगप०**—रामसौमित्री मृगेण (मया) ह्रियेते, त्वया तु अभ्यमित्रीणेन (सता) उद्योगः सन्तन्यताम्।

** व्याख्या**—मृगद्युवौ=मृगयासक्तौ, रामसौमित्री=रामलक्ष्मणौ, मृगो भूत्वा=हरिणो भूत्वा (मृगाऽऽकारं गृहीत्वेत्यर्थः), हरामि=देशान्तरं प्रापयामि, त्वं च=मारीचश्च, अभ्यमित्रीणः=शत्रुसम्मुखाऽलङ्गामी (सन्), यथेष्टम्=इच्छानुरूपम्, उद्योगं= प्रयत्नं, सन्तनु=कुरु।

व्युत्पत्तिः—मृगयुवौ=मृगैर्दीव्यत इति मृगद्युवौ, दिवः क्विप् ‘“च्छ्वोः शृडनुनासिके च’” इति चकारात् क्वौ च ऊठ्, यणुवङादेशौ। रामसौमित्री=रामश्च सौमित्रिश्च रामसौमित्री (द्वन्द्वंः), तौ (कर्म)। अभ्यमित्रीणः=अभ्यमित्रमलं गच्छतीति अभ्यमित्रीणः “अभ्यमित्राच्छ च” इति चात् खप्रत्ययः। यथेष्टम्=इष्टमनतिक्रम्य (अव्ययीभावः)। सन्तनु=सम्पूर्वात् “तनु विस्तारे” इति धातोर्लोटि सिपि “उतश्च प्रत्ययादसंयोगपूर्वात्” इति हेर्लुक्।

भावाऽर्थः—अहं मृगो भूत्वा मृगयासक्तौ रामलक्ष्मणौ देशान्तरं प्रापयामि, त्वं च अमित्राऽभिमुखं सुष्ठुगामी (सन्) इच्छानुरूपं प्रयत्नं कुरु।

** भाषाऽर्थः**—मैं (मारीच) मृग हो कर मृगयामें आसक्त राम और लक्ष्मणको दूसरी जगह पहुंचाता हूं, तुम (रावण) शत्रुके सम्मुख जा कर रुचिके अनुसार प्रयत्न करो॥४७॥

ततश्चित्रीयमाणोऽसौ हेमरत्नमयो मृगः।
यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन्॥४८॥

** अन्वयः**—ततः असौ हेमरत्नमयः मृगः (सन्) चित्रीयमाणः सीतायाः यथामुखीनः बहु लोभयन् पुप्लुवे।

प्रयोगप०—अमुना हेमरत्नमयेन मृगेण (सता) चित्रीयमाणेन सीताया यथामुखीनेन बहु लोभयता पुप्लुवे।

व्याख्या—ततः=रावणाऽनुनयाऽनन्तरम्, असौ=मारीचः, हेमरत्नमयः सुवर्णमणिमयः, मृगः=हरिणः (सन्), [अत एव] चित्रीयमाणः=चित्रीभवन्, सीतायाः=जानक्याः, यथामुखीनः=सम्मुखीनः (सन्), बहु=अधिकं, लोभयन्=लोभं जनयन्, पुप्लुवे=प्लुतवान् (अभ्रमदित्यर्थः)।

व्युत्पत्तिः—हेमरत्नमयः=हेम्नो रत्नानां च विकारो हेमरत्नमयः “मयड्वै तयोर्भाषायामभक्ष्याच्छादनयोः” इति मयट्। मृगः=“मृगे कुरङ्गवातायुहरिणाऽजिनयोनयः।” इत्यमरः। चित्रीयमाणः=चित्रीयत इति चित्रीयमाणः “चित्रङ् आश्चर्ये” इति धातोः“नमोवरिवश्चित्रङः क्यच्" इति क्यच्, “अवयवे कृतलिङ्गं समुदाये पर्यवस्यति" इति क्यजन्तादात्मनेपदं ततः शानच्। यथामुखीनः=मुखस्य सदृशं यथामुखं प्रतिबिम्बं, निपातनात्सादृश्येऽव्ययीभावः। यथामुखं दर्शनः यथामुखीनः, “यथामुख-संमुखस्य दर्शनः खः" इति खप्रत्ययः। पुप्लुत्रे=‘प्लुङ् गतौ” इति धातोर्लिट्।

भावाऽर्थः—तदनन्तरं मारीचः सुवर्णमणिनिर्मितशरीरो मृगः सन् चित्रीभवन् सीतायाः पुरतः स्थित्वा अधिकं लोभं जनयन् परितो भ्रमति स्म।

भाषाऽर्थः—तब मारीच, सुवर्ण और रत्नों से निर्मित शरीरवाला मृग होकर आश्चर्य पैदा करता हुआ सीताके सामने रह उन्हें प्रलोभित कर घूमने लगा॥४८॥

तेनादुद्यूषयद्रामं मृगेण मृगलोचना।
मैथिली विपुलोरस्कं प्रावुवूर्षुर्मृगाऽजिनम्॥४९॥

** अन्वयः**—मृगलोचना मैथिलो मृगाऽजिनं प्रावुवूर्षुः विपुलोरस्कं रामं तेन मृगेण अदुद्यूषयत्।

प्रयोगपे०—मृगलोचनया मैथिल्या प्रावुवूर्ध्वा विपुलोरस्को रामः अदुद्यूष्यत।

व्याख्या—मृगलोचना=हरिणनेत्रा, मैथिली=सीता, मृगाऽजिनं=हरिणचर्म, प्रावुवूर्षुः=प्रावरितुमिच्छुः (सती), विपुलोरस्कं= विशालवक्षसं, रामं=रामचन्द्रं, तेन=पूर्वोक्तेन, मृगेण=हरिणेन, अदुद्यूषयत्=देवितुमैषयत् (मृगवधे प्रावर्तयदित्यर्थः)।

व्युत्पत्तिः— मृगलोचना=मृगस्येव लोचने यस्याः सा (व्यधि० बहु०)। मृगाऽजिनं=मृगस्य अजिनं मृगाऽजिनं, तत् (ष० त०) “अजिनं चर्म कृत्तिः

स्त्री” इत्यमरः। प्रावुवुर्षुः=प्राङ्पूर्वाद्वृञः सन्नन्तादुप्रत्ययः, “इट् सनि वा” इति विकल्पादिडभावपक्षे “अज्झनगमां सनि” इति दीर्घे “उदोष्ठ्यपूर्वस्य” इति दन्त्योष्ठ्यस्याऽपि ग्रहणादुत्वे रपरत्वे च “र्वोरुपधाया दीर्घ इकः” इति दीर्घत्वे द्विर्वचनादि। विपुलोरस्कं=विपुलमुरो यस्य स विपुलोरस्कस्तं (बहु०), “उरःप्रभृतिभ्यः कप्” इति समासाऽन्तः कप्। मृगेण=करणे तृतीया। अदुद्यूषयत्=दीव्यतेः सनि “सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णभरज्ञपिसनाम्” इति विकल्पादनिट्, पक्षे “च्छ्वोः शूडनुनासिके च” इति ऊठादेशे यणादेशः, ततः सन्नन्ताण्णिचि लङ्।

भावाऽर्थः—हरिणाक्षी सीता मृगचर्माच्छादनेच्छुः सती विशालवक्षसं रामं मृगवधे प्रावर्तयत्।

भाषाऽर्थः—मृगाक्षी सीताने मृगचर्म पहनने की इच्छासे चौड़ी छातीवाले रामचन्द्रको मृगवधमें प्रवृत्त किया॥४९॥

योगक्षेमकरं कृत्वा सीताया लक्ष्मणं ततः।
मृगस्याऽनुपदी रामो जगाम गजविक्रमः॥५०॥

अन्वयः—ततः गजविक्रमः रामः लक्ष्मणं सीतायाः योगक्षेमकरं कृत्वा मृगस्य अनुपदी (सन्) जगाम।

प्रयोगप०—गजविक्रमेण रामेण मृगस्य अनुपदिना (सता) जम्मे।

व्याख्या—ततः=दुद्यूषाऽनन्तरं, गजविक्रमः=हस्तिगतिः हस्तिपराक्रमो वा, रामः=रामचन्द्रः, लक्ष्मणं=स्वाऽवरजं, जानक्याः=सीतायाः, योगक्षेमकरं=स्थितिरक्षणकरं, कृत्वा=विधाय, मृगस्य=हरिणस्य, अनुपदी=अन्वेष्टा (सन्),जगाम= अगमत्।

**व्युत्पत्तिः**—गजविक्रमः=गजस्येव विक्रमो यस्य सः (बहु०)। “मतङ्गजो गजो नागः कुञ्जरो वारणः करी।" इत्यमरः। योगक्षेमकरं=योगश्च क्षेमश्च योगक्षेमौ (द्वन्द्वः), तौ करोतीति योगक्षेमकरस्तं, “कृञोहेतुताच्छील्याऽनुलोम्येषु” इति हेत्वर्थे टप्रत्ययः। भरतमते फलपुष्पादेरलब्धस्य साधनं योगः, शरीरादेर्लब्धस्य पालनं क्षेमः। मृगस्य=सम्बन्धसामान्ये षष्ठी, “अनुपदीत्यस्य तद्धितत्वात्" कतृकर्मणोः कृति" इत्यस्याऽप्राप्तेः। गम्यमानाऽन्वेषण याऽपेक्षया कर्मणि षष्ठी वा। तदपेक्षयाऽपि कारकोत्पत्तिशासनात्” इति तु मल्लिनाथः। अनुपदी=पदस्य पश्चादनुपदं, पश्चादर्थेऽव्ययीभावः। अनुपदमन्वेष्टा अनुपदी “अनुपद्य-

न्वेष्टा” इति निपातनात्साधुत्वम्।

** भावाऽर्थः**—अनन्तरं हस्तिगती राम्रो लक्ष्मणं जानकीरक्षणेआदिश्य मृगानुसारी सन् अगमत्।

** भाषाऽर्थः**—उसके बाद हाथीकी तरह चलनेवाले रामचन्द्रजी लक्ष्मणको सीताजीके रक्षणमें नियुक्त कर मृगका अनुसरण करते हुए चले॥५०॥

स्थायं स्थायं क्वचिद्यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित्।
वीक्षमाणो मृगं रामश्चित्रवृत्तिं विसिष्मिये॥५१॥

अन्वयः—क्वचित् स्थायं स्थायं यान्तं, क्वचित् क्रान्त्वा क्रान्त्वा स्थितं, चित्रवृत्तिं मृगं वीक्षमाणः रामः विसिष्मिये।

प्रयोगप०—वीक्षमाणेन रामेण विसिष्मिये।

** व्याख्या**—क्वचित्=कुत्रचित् प्रदेशे, स्थायं स्थायं=पुनः पुनः स्थित्वा, यान्तं=गच्छन्तं (प्लवमानमित्यर्थः), क्वचित्= कुत्रचित्, क्रान्त्वा क्रान्त्वा=उत्प्लुत्य उत्प्लुत्य, स्थितं=तिष्ठन्तं [अत एव] चित्रवृत्तिम्=अद्भुतव्यापारं, मृगं=हरिणं, वीक्षमाणः= पश्यन्, रामः=रामचन्द्रः, विसिष्मिये=विस्मितवान्।

व्युत्पत्तिः—स्थायं स्थायम्=“आभीक्ष्ण्ये णमुल् च” इति णमुल्, द्विर्वचनं चोपसंख्यानात्। पौन पुन्यमाभीक्ष्ण्यम्। यान्तं= यातीति यान् तम् (शतृ०)। क्रान्त्वा क्रान्त्वा=“आभीक्ष्ण्ये णमुल् चे"ति चकारात्क्त्वाप्रत्ययः। चित्रवृत्तिं=चित्रा वृत्तिर्यस्य स चित्रवृत्तिस्तम् (बहु०)। वीक्षमाणः=वीक्षते इति (शानच्)। विसिष्मिये=विपूर्वात् “स्मिङ्ईषद्धसने” इति धातोर्लिट् ङित्त्वादात्मनेपदम्। उपसर्गयोगेन धातोरर्थान्तरत्वम्।

भावाऽर्थः—कुत्रचित्स्थाने स्थित्वा प्लवमानं कुत्रचिच्च उत्प्लुत्य तिष्ठन्तमत एव अद्भुतकर्माणं मृगं विलोकयन् रामो विस्मितो बभूव।

भाषाऽर्थः—कहीं पर रुक-रुक कर उछलता हुआ तथा कहीं पर उछल-उछलकर रुकता हुआ अत एव अद्भुत चेष्टासे युक्त उस मृगको देख कर राम विस्मित हुए॥५१॥

चिरं क्लिशित्वा मर्माविद्रामो विलुभितप्लवम्।
शब्दायमानमव्यात्सीद्भयदं क्षणदाचरम्॥५२॥

** अन्वयः**—मर्मावित् रामः चिरं क्लिशित्वा विलुभितप्लवं शब्दायमानं भयदं

क्षणदाचरम् अध्यवात्सीत्।

** प्रयोगप**०—मर्माविधा रामेण विलुभितप्लवः शब्दायमानः भयदः क्षणदाचरः अव्याधि।

व्याख्याः—मर्मावित्=मर्मवेधी, रामः=रामचन्द्रः, चिरं चिरकालं, क्लिशि त्वा=क्लिष्ट्वा (प्रयासं कृत्वेत्यर्थः), विलुभितप्लवं=व्याकुलितगमनं, शब्दायमानं=शब्दं कुर्वाणं (हा लक्ष्मणेत्युच्चैः क्रन्दन्तमित्यर्थः), भयदं=भयङ्करं (पदमिदं शब्दविशेषणं वा बोध्यम्), क्षणदाचरं=रात्रिचरम् (मारीचमित्यर्थः), अव्यात्सीत्=विद्धवान्।

व्युत्पत्तिः—मर्मावित्=मर्माणि विध्यतीति “व्यध ताडने” इति धातोः क्विप् सम्प्रसारणं च, “नहिवृती"त्यादिना पूर्वस्य दीर्घः। चिरम्=“कालाऽध्वनोरत्यन्तसंयोगे” इति द्वितीया। क्लिशित्वा=“क्लिश उपतापे” इति धातोः क्त्वा, “क्लिशः क्त्वानिष्ठयोः” इति विकल्पादिडागमः। विलुभितप्लवं विलुभिताः प्लवाः यस्य स विलुभितप्लवस्तम् (बहु०), “लुभो विमोहने” इतीट्। शब्दायमानं=शब्दायते इति शब्दायमानस्तं, “शब्दवैरकलहाऽभ्रकण्वमेघेभ्यः करणे” इति क्यङ्। भयदं=भयं ददातीति भयदस्तम् (कप्रत्ययः)। क्षणदाचरं=“रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः।” इत्यमरः। अव्यात्सीत्=विध्यतेर्लुडि सिचि “वदव्रजहलन्तस्याऽचः” इति वृद्धिः।

भावाऽर्थः—मर्मभेदी रामश्चिरसमयं प्रयस्य व्याकुलितगमनं “हा लक्ष्मणे” त्युच्चैः शब्दं कुर्वन्तं भीत्युत्पादकं राक्षसम् (मारीचम्) विद्धवान्।

** भाषाऽर्थः**—मर्मवेधी रामने बहुत कालतक प्रयास करके श्रमसे व्याकुलित गमनवाले तथा “हा लक्ष्मण !” इस तरहका ऊंचा शब्द करनेवाला भयङ्कर उस राक्षस ( मारीच) को बाणोंसे वेधन किया॥५२॥

श्रुत्वा विस्फूर्जथुप्रख्यं निनादं परिदेविनी।
मत्वा कष्टश्रितं रामं सौमित्रिंगन्तुमैजिहत्॥५३॥

** अन्वयः**—(अथ सीता) विस्फूर्जथुप्रख्यं निनादं श्रुत्वा रामं कष्टश्रितं मत्वा परिदेविनी (सती) सौमित्रिं गन्तुम् ऐजिहत्।

** प्रयोगप०**—(अथ सीतया) परिदेविन्या (सत्या) ऐहि।

व्याख्या—(अथ=अनन्तरं, सीता= मैथिली) विस्फूर्जथुप्रख्यं=वज्रघोषसदृशं,

निनादं=निनदं (मारीचशब्दमित्यर्थः), श्रुत्वा=आकर्ण्य रामं पतिं, कष्टश्रितं=कृच्छ्रप्राप्तं, मत्वा=बुदुद्ध्वा, परिदेविनी= विलापशीला (सती), सौमित्रिं=लक्ष्मणं, गन्तुं रामं प्रति यातुम्, ऐजिहत्=ईहयामास।

व्युत्पत्तिः—विस्फूर्जथुप्रख्यं=स्कूर्जनं स्फूर्जथुः, “टुओस्फूर्जा वज्रनिर्घोषे’” इति धातोः“ट्वितोऽथुच्” इत्यथुच्। “स्फूर्जथुर्वज्र-निर्घोषे” इत्यमरः। विशिष्टः स्फूर्जथुर्विस्फूर्जथुः “कुगतिप्रादय” इति समासः। विस्फूर्जथुः प्रख्या (सादृश्यम्) यस्य स विस्फूर्जथुप्रख्यस्तम् (बहु०)। निनादं=“नौ गदनदपठस्वनः” इत्यब्विकल्पात् पक्षे घञ्। कष्टश्रितं=कष्टं श्रितः कष्टश्रितस्तं, “द्वितीया श्रिताऽतीतपतितगताऽत्यस्तप्राप्तापन्नैः” इति द्वितीयातत्पुरुषः। “स्यात्कष्टं कृच्छ्रमाभीलम्” इत्यमरः। परिदेविनी= परिदेवत इति परिदेविनी, परिपूर्वकात् “देव देवने” इति भौवाकिकाद्धातोः “संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेवि-संज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च” इति घिनुण्। गन्तुं=गम्धातोः “समानकर्तृकेषु तुमुन्” इति तुमुन् प्रत्ययः। ऐजिहत्=ईहतेर्णौचङि “द्विर्वचनेऽचि” इति णिलोपस्य स्थानिवद्भावात् “अजादेर्द्वितीयस्य” इति हेर्द्विर्भावे चुत्वाद्यभ्यासकार्यम्।

भावाऽर्थः—ततः सीता वज्रनिर्घोषोपमं मारीचशब्दमाकर्ण्य रामस्याऽनिष्टमाशङ्क्य विलपन्ती सती रामसमीपगमनाऽर्थं लक्ष्मणं प्रेरयत्।

भाषाऽर्थः—तब सीताजीने वज्रघोषतुल्यं मारीचके शब्दका सुन कर रामके अनिष्टकी आशङ्कासे विलाप कर लक्ष्मणको रामके समीप जानेके लिए प्रेरणा की॥५३॥

एष प्रावृषिजाम्भोदनादा भ्राता विरौति ते।
ज्ञातेयं कुरु सौमित्रे ! भयात्त्रायस्व राघवम्॥५४॥

अन्वयः—हे सौमित्रे ! प्रावृषिजाऽम्मोदनादी एष ते भ्राता विरौति, ज्ञातेयं कुरु, राघवं भयात् त्रायस्व।

प्रयोगप०—हे सौमित्रे ! प्रावृषिजाऽम्भोदनादिना एतेन ते भ्रात्रा विरूयते, ज्ञातेयं क्रियताम्। राघवो भयात्रायताम्।

व्याख्या—हे सौमित्रे=हे लक्ष्मण, प्रावृषिजाऽम्भोदनादी=वार्षिकमेघनादी, एषः=अयं (प्रणयातिशयाद्रामस्य सीताचित्तवृत्ति-संनिकृष्टत्वादेतच्छब्देन निर्देश) ते=तव, भ्राता=अग्रजः (राम इत्यर्थः), विरौति=क्रोशति, ज्ञातेयं=बन्धुकृत्यं, कुरु=

विधेहि, राघवं=रामं, भयात्=भीतिहेतोः, त्रायस्व=रक्ष।

** व्युत्पत्तिः**—प्रावृषिजाऽम्भोदनादी=प्रावृषि जातः प्रावृषिजः, “सप्तम्यां जनेर्डः” इति डप्रत्ययः। “प्रावृट्शरत्कालदिवां जे” इति सप्तम्या अलुक्। अम्भो ददातीति अम्भोदः (कप्रत्ययः)। प्रावृषिजश्चाऽसौ अम्भोदः प्रावृषिजाऽम्भोदः (क० धा०), स इव नदतीति प्रावृषिजाऽम्भोदनादी,“कर्तर्युपमाने” इति णिनिः। विरौति=“उतो वृद्धिर्लुकि हलि” इति वृद्धिः। ज्ञातेयं=ज्ञातेः कर्म ज्ञातेयं, तत् ‘“कपिज्ञात्योर्ढक्” इति ढक्, “ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः” इत्यमरः भयात्=“भीत्राऽर्थानां भयहेतुः” इत्यपादानत्वात्पञ्चमी।

भावाऽर्थः—हे लक्ष्मण ! वार्षिक मेघनादी एष ते भ्राता रामः, तारस्वरं शब्दायते। बन्धुकार्यं कुरु। रामं भीति-कारणाद्रक्ष।

**भाषाऽर्थः**—हे लक्ष्मण ! वर्षाऋतु में होनेवाले मेघकी नाई शब्द करनेवाले ये आपके भाई (रामचन्द्र) ऊंचे स्वरसे चिल्लाते हैं। बन्धुकार्य कीजिए। रामचन्द्रजीको भय के कारणसे बचाइए॥५४॥

“रामघुसंषितं नैतन्मृगस्यैव विवञ्चिषोः।
रामस्वन्तितसङ्काशः स्वानः” इत्यवदत्स ताम्॥५५॥

अन्वयः—(हे आयेँ !) “एतत् रामसंघुषितं न विवञ्चिषोः मृगस्य एव रामस्वनितसङ्काशः स्वान” इति स ताम् अवदत्।

प्रयोगप—"(हे आर्ये !) एतेन रामसंघुषितेन न (भूयते)। रामस्वनितसङ्काशेन स्वानेन (भूयते)” इति तेन सा अवादि।

** व्याख्या**—(हे आर्ये=हे पूजनीये !) एतत्=“हा लक्ष्मणे” त्याकारकं, रामसंघुषितं न=रामशब्दतं न विवञ्चिषोः= प्रलोभनेच्छोः, मृगस्य एव=हरिणस्य एव, रामस्वनितसङ्काशः=रामस्वरसदृशः, स्वानः=स्वरः, इति=इत्थं, सः=लक्ष्मणः, तां=सीताम्, अवदत्=अब्रवीत्।

व्युत्पत्तिः—रामसघुषितं=रामस्य संघुषितम् (ष० त०), “घुषिरविशब्दने” इति धातोः “नपुंसके भावे क्तः" इति क्तप्रत्ययः, “रुष्यमत्वरे"त्यादिना विकल्पेनेट्। विवञ्चिषो=वञ्चितुम् इच्छुः विवञ्चिषुस्तस्य"वञ्चु गतौ” इति भौवादिकादनेकार्थाद्धातोः “वञ्च प्रलोभने” इति चौरादिकाद्वा धातोः सन्नन्तादुः। रामस्वनितसङ्काशः=रामस्य स्वनितं रामस्वनितं (ष० त०), तेन सदृशः राम-

स्वनितसङ्काशः (तृ० त०),“निभसङ्काशनीकाशप्रतीकाशोपमादयः।" इत्यमरः। स्वानः=“स्वनहसोर्वा" इति विकल्पाद्घञ्॥

** भावाऽर्थः**—“हे आर्ये ! एतत्क्रोशनं रामशब्दितं न, प्रलोभनेच्छोर्मृगस्यैव रामशब्दाऽनुकारी शब्दः" इति लक्ष्मणः सीतामब्रवीत्॥

** भाषाऽर्थः**—“हे आर्ये ! यह रामकी चिल्लाहट नहीं है, छलनेकी इच्छा करनेवाला मृगका ही रामके शब्दका अनुकरण करनेवाला शब्द है” लक्ष्मणने सीताको ऐसा कहा॥५५॥

आप्यानस्कन्धकण्ठांऽसं रुषितं सहितुं रणे।
प्रोर्णुवन्तं दिशो बाणैः काकुत्स्थं भीरु ! कः क्षमः॥५६॥

** अन्वयः**—हे भीरु ! आप्यानस्कन्धकण्ठांऽसं रुषितं बाणैः दिशः प्रोर्णुवन्तं काकुत्स्थं रणे सहितुं कः क्षमः॥

** प्रयोगप०**—काकुत्स्थं रणे सहितुं केन क्षमेण (भूयते)॥

** व्याख्या**—हे भीरु=हे भयशीले! आप्यानस्कन्धकण्ठांऽसं=स्थूलस्कन्धगलांऽसं (कर्मसमर्थाङ्गमित्यर्थः), रुषितं=रुष्टं, बाणै=शरैः दिशः=आशाः, प्रोर्णुवन्तम्=आच्छादयन्तं, काकुत्स्थं=रामं, रणे=युद्धे, सहितुं=सोढुं, कः=जनः, क्षमः=शक्तः (रणे रामस्य पुरतः कोऽपि स्थातुं न समर्थं इति भावः)।

** व्युत्पत्तिः**—भीरु=संज्ञापूर्वकस्य विधेरनित्यत्वान्न गुण इति मल्लिनाथः। आप्यानस्कन्धकण्ठांऽसं=स्कन्धश्च कण्ठश्च अंसरच स्कन्धण्ठांऽसं, “द्वन्द्वश्च प्राणितूर्यसेनाऽङ्गानाम्” इति समाहारद्वन्द्वः “स्कन्धो भुजशिरोऽसोऽस्त्री” इत्यमराऽनु-शासनेऽपि बाहुशिखरमंसस्तस्य पश्चिमो भागः (ककुत्प्रदेशः) स्कन्ध इति विवेकः। आप्यानं स्कन्धकण्ठांऽसं यस्य स आप्यानस्कन्धकण्ठांऽसस्तम् (बहु०) आप्यानमित्यत्र आङपूर्वात् “प्यैङ् वृद्धौ” इति धातोः आत्वे “संयोगादेरातो धातोर्यण्वतः” इति निष्ठानत्वम्,“ओप्यायी वृद्धौ” इत्यस्य तु “ओदितश्च” इति निष्ठानत्वं यलोपश्च। “आङ्पूर्वस्यान्धूधसोः स्यादेव” इति नियमात् “प्यायः पी” इति पौभावोऽपि न भवति। रुषितं=“रुष रोषे” इति धातोः क्तः, “रुष्यमत्वर-संघुषास्वनाम्” इति विकल्पादिट्। प्रोर्णुवन्तं=प्रपूर्वात् “ऊर्णुञ् आच्छादने” इति धातोः शतरि उवङादेशः। सहितुं=“षह मर्षणे” इति धातोः क्षमेः शक्त्यर्थत्वात् तदुपपदे “शकघृषज्ञाग्लाघटरभलभक्रम सहार्हास्त्यर्थेषु तुमुन्” इति तुमुन्,

“तीष सहलुभरुषरिषः” इति विकल्पादिट्॥

** भावाऽर्थः**—हे भयशीले ! कर्मक्षमाङ्गं क्रुद्धं बाणैर्दिश आच्छादयन्तं रामं युद्धे सोढुं कः समर्थः॥

** भाषाऽर्थः**—हे भयशीलेजिनके स्कन्ध, कण्ठ और अंस ये स्थूल अर्थात् दृढ हैं, क्रुद्ध और बाणों से दिशाओं को आच्छादित करनेवाले ऐसे रामका संग्राममें कौन मुकाबला कर सकता है॥५६॥

देहं बिभ्रक्षुरस्त्राऽग्नौ मृगः प्राणैर्दिदेविषन्।
ज्याघुष्टकठिनाऽङ्गुष्ठंराममायान्मुमूर्षया॥५७॥

** अन्वयः**—मृगः अस्त्राऽग्नौ देहं बिभ्रक्षुः प्राणैः दिदेविषन् मुमूर्षया ज्याघुष्टकठिनाऽङ्गुष्ठंरामम् आयात्।

** प्रयोगप०**—मृगेण बिभ्रक्षुणा दिदेविषता (सता) ज्याघुष्टकठिनाङ्गुष्ठो राम आयायत॥

** व्याख्या**—मृगः=हरिणः, अस्त्राऽग्नौ=शराऽग्नौ, देहं=शरीरं, बिभ्रक्षुः=भ्रष्टुमिच्छुः, प्राणैः=असुभिः, दिदेविषन्=देवितुम् (क्रीडितुम्) इच्छन्, मुमूर्षया=मर्तुमिच्छया (पतङ्गोऽग्नाविवेति भावः), ज्याघुष्टकठिनाऽङ्गुष्ठं=गुणकर्षणकठोराऽङ्गुष्ठं, रामं=रामचन्द्रम्, आयात्=आगच्छत्।

** व्युत्पत्तिः**—अस्त्राग्नौ=अस्त्रमग्निरिव अस्त्राऽग्निस्तस्मिन्, “उपमितं व्याघ्रादिभिः सामान्याऽप्रयोगे” इति समासः। विभ्रक्षुः=सन्नन्तात् “भ्रस्ज पाके” इति धातोः उप्रत्ययः। “सनीवन्तर्धभ्रस्जदम्भुश्रिस्वयूर्णभरज्ञपिसनाम्” इति इडागमाऽभाव-पक्षे “स्कोः संयोगाद्योरन्ते च” इति सलोपे व्रश्चादिना षत्वे “षढोः कः सि” इति कत्वे “आदेश प्रत्यययोः” इति षत्वम्। प्राणैः= “दिदेविषन्” इति पदेन योगे “दिवः कर्म च” इति चकारात्करणत्वम्। दिदेविषन्=सन्नन्ताद्दिवेर्लटः शत्रादेशः, “सनीवन्तर्धे”त्यादिना विकल्पादिट्। मुमूर्षया=“मृङ् प्राणत्यागे” इति धातोः सनि “उदोष्ठ्यपूर्वस्य” इत्युत्वम् “अ प्रत्ययात्” इत्यप्रत्ययस्ततष्टाप्। ज्याघुष्टकठिनाऽङ्गुष्ठं=घुष्टमित्यत्र “नपुंसके भावे क्त” इति भावे क्तः। ज्याया घुष्टं ज्याघुष्टं (ष० त०), कठिनौ अङ्गुष्ठौयस्यस कठिनाऽङ्गुष्ठः(बहु०); “ककेशं काठनं क्रूरं कठोरं निष्ठुरं दृढम्” इत्यमरः। ज्याघुष्टेन कठिनाऽङ्गुष्ठोज्याघुष्टकठिनाऽङ्गुष्ठस्तम् (तृ० त०)। आयात्=आङ्पूर्वाद्यातेर्लङ्।

भावाऽर्थः—हरिणः शस्त्राऽनले स्वाङ्गं पक्तुमिच्छुः प्राणैः क्रीडितुमिच्छन्=मरणेच्छया रामाऽभिमुखमागच्छत् (रणे रामाऽभियायिनो मरणं न तु रामस्येत्यर्थः)।

भाषाऽर्थः—मृग अस्त्राऽग्निमें शरीर को पकानेका इच्छुक हो कर प्राणों से क्रीडा करनेकी इच्छा करता हुआ मरनेकी इरादासे मौके घर्षणसे कठोर अंगूठेवाले रामचन्द्रजीके पास आया॥५७॥

शत्रून्भीषयमाणं तं रामं विस्मापयेत कः।
मा स्म भैषीस्त्वयाऽद्यैव कृताऽर्थो द्रक्ष्यते पतिः॥५८॥

**अन्वयः**—शत्रून् भीषयमाणं तं रामं कः विस्मापयेत, मा स्म भैषीः। अय एव त्वया कृताऽर्थः पतिः द्रक्ष्यते।

**प्रयोगप०**—भीषयमाणः स रामः केन विस्माप्येत। (त्वया) मा स्म भायि। त्वं कृताऽर्थं पतिं द्रक्ष्यसि।

** व्याख्या**—शत्रून्=वैरिणः, भीषयमाणं=त्रासयन्तं (न कुतश्चिद्बिभ्यतमित्यर्थः), तं=प्रसिद्धं, रामं=रामचन्द्रं, कः=अन्यः, विस्मापयेत=विजयेन विस्मितं कुर्यात् (कस्तं जेष्यतीत्यर्थः), मा स्म भैषीः=मा बिभीहि, अद्य एव=अधुना एव, त्वया=भवत्या, कृताऽर्थः=कृतकृत्यः (पूर्णमनोरथ इत्यर्थः), पतिः=प्रियः, द्रक्ष्यते=अवलोकयिष्यते।

व्युत्पत्तिः—भीषयमाणं=भीषयते इति भीषयमाणस्तं, “भियो हेतुभये षुक्” इयि षुगागमः, “भीस्म्योर्हेतुभये” इत्यात्मने-पदं, शानच्। विस्मापयेत=“भीस्म्यो”रित्यादिना हेतुस्मये आत्मनेपदं,“नित्यं स्मयतेः” इति णावात्वे"अर्तिह्री"त्यादिना पुक्। मा स्म भैषीः=“स्मोत्तरे लङ्च” इति चकाराल्लुङ्, सिचि वृद्धिः। कृताऽर्थः=कृतोऽर्थो येन सः (बहु०)। पतिः=“धवः प्रियः पतिर्भर्त्ता” इत्यमरः। द्रक्ष्यते=दृशेः कर्मणि लुटि चिण्वदिडभावपक्षे “व्रश्चे"त्यादिना षत्वे कत्वं स्यसकारस्य षत्वं च।

भावाऽर्थः—हे प्रजावति ! शत्रून् भीतान्कुर्वाणं रणप्रसिद्धं रामं को जेष्यति ? मा भीता भूः, अधुनैव त्वं सफलमनोरथं पतिं द्रक्ष्यसि।

भाषाऽर्थः—हे भौजाई ! शत्रुओं को त्रस्त करनेवाले युद्धप्रसिद्ध रामचन्द्रजी को कौन जीतेगा ? मत डरिये, अभी ही आप कृताऽर्थ पतिको देखेंगी॥५८॥

यायास्त्वमिति कामो मे, गन्तुमुत्सहसे न च।

इच्छुः कामयितुं त्वं मामित्यसौ जगदे तया॥५९॥

** अन्वयः**—“त्वं यायाः, इति मे कामः। त्वं च गन्तुं न उत्सहसे ! (ततः) त्वं मां कामयितुम् इच्छुः” इति तया असौ जगदे।

** प्रयोगप०**—“त्वया यायेत इति मे कामेन (भूयते)। त्वया च न उत्सह्यते। त्वया इच्छुना (भूयते)” इति सा अमुं जगाद।

व्याख्या—त्वं=लक्ष्मणः, यायाः=गच्छेः (रामाऽन्वेषणायेति शेषः), इति=अयं, मे=मम, कामः=अभिलाषः, त्वं च=त्वं तु, गन्तुं=यातुं, न उत्सहसे=न उत्साहं करोषि, (ततः=तस्मात्कारणात् रामाऽन्वेषणार्थं गमनोत्साहाऽभावादित्यर्थः) त्वं= लक्ष्मणः, मां=सीतां (प्रजावतीमित्यर्थः), कामयितुं=कामिनीं कर्तुम् (कलत्रीकर्तुमित्यर्थः), इच्छुः=अभिलाषुकः (असीति शेषः), इति=इत्थं, तया= सीतया, असौ=लक्ष्मणः, जगदे=गदितः।

व्युत्पत्तिः—यायाः=याधातोः “कामप्रवेदनेऽकच्चिति” इति अकच्चित्युपपदे कामप्रवेदने स्वाऽभिप्रायाविष्करणाऽपराख्ये लिङ्। गन्तुं न उत्सहसे=“शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्” इति तुमुन्। कामयितुं=कामिनीशब्दात् “तत्करोति तदाचष्टे” इति ण्यन्तात्"समानकर्तृकेषु तुमुन्” इति तुमुन्, णाविष्ठवद्भावात्” तसिलादिष्वाकृत्वसुचः" इति पुंवद्भावः"टेः" इति टिलोपश्च। इच्छुः=इच्छतीति इच्छुः, “बिन्दुरिच्छुः” इति निपातः। जगदे=कर्मणि लिट्।

भावाऽर्थः—“रामाऽन्वेषणाय त्वं गच्छेरिति ममाऽभिलाषस्त्वं तु गन्तुं नेच्छसि, अतस्त्वं मा कलत्रीकर्तुमिच्छुकोऽसीति सीतया लक्ष्मणः कथितः।

भाषाऽर्थः—“तुम रामको ढूंढने जाओगे यह मेरा अभिलाष है, परन्तु तुम जानेकी इच्छा नहीं करते हो, अतः तुम मुझे पत्नी बनाना चाहते हो" सीताने लक्ष्मणको ऐसा कहा॥५९॥

मृषोऽद्यं प्रवदन्तीं तां सत्यवद्यो रघूत्तमः।
निरगाच्छत्रुहस्तं त्वं यास्यतीति शपन्वशी॥६०॥

** अन्वयः**—वशी सत्यवद्यः रघूत्तमः मृषोऽयं प्रवदन्तीं तां “त्वं शत्रुहस्तं यास्यसी"ति शपन् निरगात्।

**प्रयोगप०**—वशिना सत्यवद्येन रघूत्तमेन प्रवदन्ती सा "त्वया शत्रुहस्तो यास्यते” इति शपता निरगायि।

** व्याख्या**—वशी=जितेन्द्रियः, सत्यवद्यः=सत्यवादी, रघूत्तमः=लक्ष्मणः, मृषोयं=मिथ्यावादं, प्रवदन्तीं=कथयन्तीं, तां सीतां, त्वं=सीता, शत्रुहस्तं=वैरिहस्तं, यास्यसि=गमिष्यसि, इति=इत्थं, शपन्=शापं प्रयच्छन्, निरगात्=निर्गतः।

व्युत्पत्तिः—वशी=वशः (वशीकरणम्), “वशिरण्योरुपसंख्यानम्” इत्यप्। सत्यवद्यः=सत्यं वदतीति “कृत्यल्युटो बहुलम्” इति कर्तरि यत्, यद्वा सत्यवादः सत्यवद्यं “वदः सुपि क्यप् च’ इति चकाराद्यत्। सत्यवद्यमस्याऽस्तीति सत्यवद्यः, “अर्शआदिभ्योऽच्” इत्यच्। रघूत्तमः=रघुषु (लक्षणया रघुवंश्येषु) उत्तमः (स० त०)। मृषोऽयं=मृषावादो मृषोद्यं तत् “राजसूये”त्यादिना क्यबन्तो निपातः। शत्रुहस्तं=शत्रोर्हस्तः शत्रुहस्तस्तम् (ष० त०)।

भावाऽर्थः—जितेन्द्रियः सत्यभाषी लक्ष्मणो मिथ्याभाषिणां सीतां “त्वं शत्रुहस्तं गमिष्यसी”ति आक्रोशं कुर्वन् निर्गतः।

**भाषाऽर्थः**—जितेन्द्रिय और सत्यवादी लक्ष्मण, मिथ्याभाषण करती हुई सीताको “तुम शत्रुके हाथ में पड़ोगी' ऐसा शाप देते हुए निकले॥६०॥

लक्ष्मणे निर्गते सति रावणप्रवेशं चतुर्भिः श्लोकैराह—

गते तस्मिञ्जलशुचिः शुद्धदन्रावणः शिखी।
जञ्जपूकोऽक्षमालावान्धारयो मृदलाबुनः॥६१॥

** अन्वयः**—तस्मिन् गते जलशुचिः शुद्धदन् शिखी जञ्जपूकः अक्षमालावान् मृदलावुनः धारयः रावणः (“समागत्य सीताम् ऊचे” इति चतुर्थेन श्लोकेन सम्बन्धः)।

प्रयोगप०—जलशुचिना शुद्धदता शिखिना जञ्जपूकेन अक्षमालावता धारयेण रावणेन (सीता ऊचे)।

व्याख्या—तस्मिन्=पूर्वोक्ते (लक्ष्मण इत्यर्थः), गते=बहिर्निर्गते (सति), जलशुचिः=सलिलशौचयुक्तः (स्नानपवित्र इत्यर्थः), शुद्धदन्=शुक्लदशनः, शिखी=शिखावान्, जञ्जपूकः=गर्हितजापी, अक्षमालावान्=जपमालायुक्तः, मृदलाबुनः= तीर्थमृत्तिकायास्तुम्ब्याश्च, धारयः=धारयिता, रावणः=तन्नामा राक्षसराजः (समागत्य=समेत्य, सीतां=जानकीम्, ऊचे= अब्रवीत्)।

व्युत्पत्तिः—जलशुचिः=जलेन शुचिः (तृ० त०)। शुद्धदन्=शुद्धा दन्ता यस्य सः (बहु०), “अग्राऽन्तशुद्धशुभ्रवृष-वराहेभ्येश्च" इति दन्तशब्दस्य विभाषया दत्रादेशः। शिखी शिखा अस्यास्तीति “व्रीह्यादिभ्यश्च” इतीनिः । ज-

ञ्जपूकः=गर्हितं जपतीति, “जप व्यक्तायां वाचि” इति धातोः “लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्" इति भावगर्हायां यङ् “जपजभदहदशभञ्जपशां च" इति अभ्यासस्य नुगागमः “यजजपदशां यङः" इत्यूकप्रत्ययः। अक्षमालावान्=अक्षाणां माला अक्षमाला ( ष० त०), सा अस्यास्तीति ( संसर्गे मतुप्)। मृदलाबुनः=अलाब्वाः विकारः फलमलाबु, “ओरञ्" इत्यञ् तस्य"फले लुक्” इति लुक् “ह्रस्वो नपुंसके प्रातिपदिकस्य" इति ह्रस्वत्वम्। “तुम्ब्यलाबुरुभे समे" इत्यमरः। मृच्च अलाबुच मृदलाबु, तस्य" जातिरप्राणिनाम्” इति समाहारद्वन्द्वः, “धारयिता” इति कृदन्तपदेन योगे कर्मणि षष्ठी। धारयः= धारयतीति, “अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च” इति शः।

भावाऽर्थः—लक्ष्मणगमनाऽनन्तरं कृतस्नानः शुक्लदशनः शिखावान् जपशीलः अक्षसूत्रयुक्तस्तीर्थमृत्तिकायास्तुम्बीपात्रस्य च धारको रावणः ( समागत्य सीतामूचे)।

** भाषाऽर्थः**—लक्ष्मणके जानेपर स्नानसे पवित्र, सफेद दन्तोंसे युक्त, शिखाधारी, जपशील, अक्षमाला लिया हुआ तथा तीर्थमृत्तिका और तुम्बी पात्रको रखनेवाला रावण आ कर सीताजीको कहने लगा॥६१॥

कमण्डलुकपालेन शिरसा च मृजावता।
संवस्त्र्य लाक्षिके वस्त्रे मात्राः सम्भाण्ड्य दण्डवान्॥६२॥

अन्वयः—कमण्डलुकपालेन मृजावता शिरसा च (उपलक्षितः) लाक्षिके वस्त्रे संवस्त्र्य मात्रां सम्भाण्ड्य दण्डवान् (रावणः समागत्य सीताम् ऊचे)।

** प्रयोगप**०—(उपलक्षितेन) दण्डवता ( रावणेन सीता ऊचे)।

व्याख्या—कमण्डलुकपालेन=जीर्णकमण्डलुना, मृजावता=शुद्धियुक्तेन, शिरसाच=मूर्ध्ना च (उपलक्षितः), लाक्षिके= लाक्षारक्ते, वस्त्रे=वाससी (उत्तरीयाऽधरीये इत्यर्थः), संवस्त्र्य=समाच्छाय, मात्रां=कमण्डल्वादिकां सामग्रीं, सम्भाण्ड्य= समाहृत्य, दण्डवान्=त्रिदण्डी (रावणः समागत्य सीतामूचे)।

**व्युत्पत्तिः**—कमण्डलुकपालेन=कमण्डलुरेव कपालं कमण्डलुकपालं, तेन (रूपक०)। मृजावता=मार्जनं मृजा "मृजू शुद्धौ” इति धातोः “षिद्भिदादिभ्योऽङ्” इत्यङ्। मृजाऽस्ति यस्य तत् मृजावत्, तेन (मतुप्)। शिरसा=" इत्थंभूतलक्षणे” इति तृतीया। लाक्षिके=लाक्षया रक्ते लाक्षिके, ते "लाक्षारो-

चनाट्ठक्" इति ठक्। संवस्त्रय=“मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्” इति” वस्त्रात्समाच्छादने" इति समाच्छादनाऽर्थे णिङन्तात् क्त्वो ल्यप्। मात्रां=“मात्रा परिच्छदे केशे" इति यादवः। सम्भाण्ड्य=“पुच्छभाण्डचीवराण्णिङ्” इति “भाण्डात्समाचयने” इति समाचयनेऽर्थे णिङन्तात् क्त्वो ल्यप्। दण्डवान्=दण्डोऽस्यास्तीति (मतुप्), एकदण्डिनः शिखाऽभावादत्र दण्डवत्पदेन त्रिदण्डिग्रहणं भवतीति मल्लिनाथः।

भावाऽर्थः—जीर्णकमण्डलुना शुद्धियुक्तेन मूर्ध्ना चोपलक्षितः लाक्षारक्ते उत्तरीयाऽधरीये परिधाय कमण्डलादिकं पदार्थं समाहृत्य त्रिदण्डी रावणः समागत्य सीतामूचे।

भाषाऽर्थः—जीर्ण कमण्डलुसे और शुद्धिसम्पन्न शिरसे उपलक्षित, लाक्षाके रससे रंगाये गये उत्तरीय और अधरीयको पहन कर कमण्डलु आदि सामग्रीको इकट्ठा करके त्रिदण्डी रावण आ कर सीताजीको कहने लगा॥६२॥

अधीयन्नात्मविद्विद्यां धारयन्मस्करिव्रतम्।
वदन्बह्वङ्गुलिस्फोटं भ्रूक्षेपं च विलोकयन्॥६३॥

** अन्वयः**—आत्मविद्विद्याम् अधीयन् मस्करिव्रतं धारयन् बहु अङ्गुलिस्फोटं वदन् भ्रूविक्षेपं विलोकयन् (रावणः समागत्य सीतामूचे)।

** प्रयोगप०**—अधीयता धारयता वदता विलोकयता (रावणेन सीता ऊचे)।

व्याख्या—आत्मविद्विद्यां=योगिविद्याम् (उपनिषदमित्यर्थः), अधीयन्=पठन्, मस्करिव्रतं=परिव्राजकनियमं, धारयन्= अकृच्छ्रेण दधानः, बहु=प्रचुरम् (यथा तथा), अङ्गुलिस्फोटम्=अङ्गुलिं चालयि,त्वा वदन्=कथयन् (प्रायेणाऽङ्गुलि-सञ्ज्ञयैव स्वाऽभिप्रायं प्रकाशयन्नित्यर्थः), भ्रूविक्षेपं=ध्रुवं विक्षिप्य, विलोकयन्=पश्यन् (सरलतया कटाक्षाद्यभावेन पश्यन्नित्यर्थः), (रावणः समागत्य सीतामूचे)।

** व्युत्पत्तिः**—आत्मविद्विद्याम्=आत्मानं विदन्तीति आत्मविदः (क्विप्), तेषां विद्या, ताम् (ष० त०)। अधीयन्=अधीत इति अधिपूर्वात्"इङ् अध्ययने” इति धातोः “इङ्धार्योः शत्रकृच्छ्रिणि” इति शतृप्रत्ययः। मस्करिव्रतं=“मा कृत कर्माणि शान्तिर्वः श्रेयसी"त्येवं घोषयन्तीति मस्करिणः (परिव्राजकाः),“मस्करमस्करिणौ वेणुपरिव्राजकयोः” इति सुट् इनिश्च निपात्यते “भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी।” इत्यमरः। मस्करिणां व्रतं मस्करिव्रतं, तत्

(ष० त०)। धारयन्=अकृच्छ्रेण धारयतीति" इङ्धार्यो”रित्यादिना शतृप्रत्ययः। अङ्गुलिस्फोटम् अङ्गुलिं स्फोटयित्वा “स्वाऽङ्गेऽध्रुवे" इति णमुल्। भ्रूविक्षेपं=भ्रुवं विक्षिप्य, पूर्वसूत्रेणैव णमुल्।

भावाऽर्थः—उपनिषदं पठन्परिव्राजकविद्यां धारयन् प्रायेण अङ्गुलिसञ्ज्ञयैव स्वाऽभिप्रायं प्रकाशयन् सरलतया पश्यंश्चरावणः समागत्य सीतामूचे।

**भाषाऽर्थः**—उपनिषत्को पढ़ता हुआ, परिव्राजकव्रतको धारण करता हुआ, प्रायः उंगलीकी सञ्ज्ञा (इशारा) से ही अपने अभिप्रायको जताता हुआ और सरलतासे देखता हुआ रावण आ कर सीताजीको कहने लगा॥६३॥

सन्दिदर्शयिषुः साम निजुह्नूषुःक्षपाटताम्।
चङ्क्रमावान् समागत्य सीतामूचे सुखाभव॥६४॥

**अन्वयः**—साम सन्दिदर्शयिषुः क्षपाटतां निजुह्नूषुःचङ्क्रमावान् (सन्) समागत्य सीतां “सुखाभव” (इति) ऊचे।

**प्रयोगप०**—संदिदर्शयिपुणा निजुह्नूषुणा चङ्क्रमावता (सता) सीता "सुखाभव” (इति) ऊचे।

**व्याख्या**—साम=सान्त्वं, सन्दिदर्शयिषुः=सन्दर्शयितुमिच्छुः, क्षपाटतां=निशाचरत्वं, निजुह्नूषुः=जिहोतुमिच्छुः (निजं क्रौर्यमाच्छाद्य शान्ति नाटयन्नित्यर्थः), चङ्क्रमावान्=कुटिलगतिमान् (जरानाटितकेन कुटिलं गच्छन्नित्यर्थः) (सन्), समागत्य=समीपमागत्य, सीतां=मैथिलीं, सुखाभव=अनुकूलाभव (मत्प्रार्थनीये प्रतिकूला न भवेति भावः), (इति=इत्थम्) ऊचे=अब्रवीत्।

**व्युत्पत्तिः**—सन्दिदर्शयिषुः=दर्शयतेः (णिजन्ताद् दृशेः) सन्नन्तादुप्रत्ययः। क्षपाटतां=क्षपाटस्य भावः क्षपाटता, ताम् (तल्प्रत्ययः)। निजुह्नूषुः “ह्नुङ्अपनयने” इति सन्नन्ताद्धातोः उप्रत्ययः। चङ्क्रमावान्=कुटिलं क्रमणं (गतिः) चङ्क्रमा, "क्रमु पादविक्षेपे" इति धातोः “नित्यं कौटिल्ये गतौ” इति यहि “नुगतोऽनुनासिकाऽन्तस्य" इति नुकि "अ प्रत्ययात्" इत्यप्रत्यये टाप्, “अतो लोपः” इत्यलोपः "यस्य हलः” इति यकारलोपः। चङ्क्रमाऽस्ति यस्यस चङ्क्रमावान् (मतुप्)। सुखाभव= “सुखप्रियादानुलोम्ये" इति कृभ्वस्तियोगे डाच्। “सुखाकुरु” इति मल्लिनाथसंमतः पाठस्तत्र अस्मच्चित्ताराधनं कुर्वित्यर्थः।

**भावाऽर्थः**—रावणः सान्त्वप्रदर्शनेच्छुः राक्षसभावस्य गोपनाऽभिलाषी कुटि-

लगतिः सन् समीपमागत्य सीतां “मदनुकूला भव" इत्यब्रवीत्।

**भाषाऽर्थः**—मेल दिखाने की इच्छा करनेवाला, राक्षसत्वको छिपानेवाला, बुढ़ापाकी नकल करनेसे टेढ़ी गति दिखलाता हुआ रावण, समीप आ कर सीताजीको “मेरी अनुकूल हो जाओ" यह कहने लगा॥६४॥

सायन्तनीं तिथिप्रण्यः पङ्कजानां दिवातनीम्।
कान्तिंकान्त्या सदातन्या ह्रेपयन्ती शुचिस्मिता॥६५॥

**अन्वयः**—(हे सुन्दरि !) तिथिप्रण्यः सायन्तनीं कान्ति पङ्कजानां दिवातनींकान्तिं सदातन्या कान्त्या ह्रेपयन्ती शुचिस्मिता (त्वं केति उत्तरश्लोकेन सम्बन्धः)।

  **प्रयोगप०**—^(…) ह्रेपयन्त्या शुचिस्मितया (त्वया कया भूयते)।

 **व्याख्या**—(हे सुन्दरि=हे रूपवति !) तिथिप्रण्यः=चन्द्रस्य, सायन्तनीं=सायङ्कालभवां, कान्तिं=शोभां, पङ्कजानां= कमलानां, दिवातनीं=दिवसस्थायिनीं, कान्तिं=शोभां, सदातन्या=सर्वकालस्थितया, कान्त्या=शोभया, ह्रेपयन्ती=लज्जयन्ती, शुचिस्मिता=शुक्लमन्दहासा (त्वं=भवती, का=ललनाजनेषु कतमा, किं नामधेयाऽसीत्यर्थः)।

व्युत्पत्तिः—तिथिप्रण्यः=तिथीः (शुक्लकृष्णपक्षतिथीः) प्रणयति (पञ्चदशानामपि कलानामेकैकवृद्धिह्रासक्रमेण पञ्च-दश पञ्चदश) प्रवर्तयतीति तिथिप्रणीश्चन्द्रः, “सत्सूद्विषे”त्यादिना क्विप् “उपसर्गादसमासेऽपि णोपदेशस्य” इति णत्वम्, तस्य तिथिप्रण्यः “एरनेकाचोऽसंयोगपूर्वस्य” इति यणादेशः। सायन्तनीं=साये सायं वा भवा सायन्तनी तां, सायशब्दात् “षोऽन्तकर्मणि” इति धातोर्घञन्तादस्मादेव निपातनान्मान्तात्सायंशब्दाद्वा अव्ययात् “सायं चिर"मित्यादिना ट्युप्रत्यये तुट्। दिवातनीं=दिवा भवा दिवातनी तां, स एव प्रत्ययः। सदातन्या=सदा भवा सदातनी तया, पूर्ववत्प्रत्ययः। ह्रेपयन्ती=“ह्री लज्जायाम्” इति धातोः “अर्तिह्री”त्यादिना णौ पुक्। शुचिस्मिता=शुचि स्मितं यस्याः सा (बहु०)। अत्र उपमानादुप-मेयस्याधिक्यकथनाद्व्यतिरेकाऽलङ्कारः, “आधिक्यमुपमेयस्योपमानान्न्यूनताऽथवा। व्यतिरेकः” इति तल्लक्षणम्।

**भावाऽर्थः**—हे सुन्दरि ! चन्द्रमसः कान्तिः सायन्तन्येव न तु दिवातनी तथैव पद्मस्य कान्तिर्दिवातन्येव नतु सायङ्काल-स्थायिनी, परं त्वत्कान्तिस्तु सदा-

तनी वर्तते, अतः स्वकान्त्या चन्द्रपद्मकान्ती त्रपयन्ती त्वं का ?

** भाषाऽर्थः**—हे सुन्दरि ! चन्द्रकी सायङ्कालमें होनेवाली और कमलोंकी दिनमें होनेवाली कान्तिको नित्य (सायङ्काल और दिन में) रहनेवाली अपनी कान्तिसे लज्जित करती हुई एवम् शुक्ल मन्दहास्यवाली तुम कौन हो ?॥६५॥

का त्वमेकाकिनी भीरु ! निरन्वयजने वने।
क्षुध्यन्तोऽप्यघसन्व्यालास्त्वामपालां कथं न वा॥६६॥

** अन्वयः**—हे भीरु ! एकाकिनी निरन्वयजने वने (स्थिता) क्षुध्यन्तः व्यालाः अपालां त्वां कथं वा न अघसन् अपि। त्वं का ?

** प्रयोगप०**—हे भीरु। एकाकिन्या (स्थितया) त्वया कया (भूयते) क्षुध्यद्भिर्व्यालैरपाला त्वं कथं वा न अघत्सथाः अपि।

** व्याख्या**—हे भीरु=हे त्रस्नो !, एकाकिनी=असहाया, निरन्वयजने=निःसम्बन्धजने (मनुष्यसञ्चारशून्य इत्यर्थः), वने= अरण्ये (स्थिता=विद्यमाना), त्वं=भवती, का=कतमा, क्षुध्यन्तः=बुभुक्षमाणाः, व्यालाः=श्वापदाः (हिंस्रजन्तव इत्यर्थः), अपालाम्=अरक्षकां, त्वां=भवतीं, कथं वा=केन प्रकारेण वा, न अघसन् अपि=न भक्षितवन्तः अपि (अहो महच्चित्रमिति भावः)।

व्युत्पत्तिः—एकाकिनी=“एकादा किनिच्चाऽसहाये” इति एकशब्दादाकिनिच्प्रत्ययस्तदन्तात् स्त्रीत्वविवक्षायां ङीप्, “एकाकी त्वेक एककः।” इत्यमरः। निरन्वयजने=निर्गतः अन्वयः येषां ते निरन्वयाः (बहु०), ते जना यस्मिंस्तत् निरन्वयजनं, तस्मिन् (बहु०)। क्षुध्यन्तः=“क्षुध बुभुक्षायाम्” इति दैवादिकाद्धातोर्लटः शत्रादेशः। व्यालाः=“व्यालः श्वापदसर्पयोः” इति विश्वः। अपालाम्=पालयतीति पालः, पचाद्यच्। अविद्यमानः पालः यस्याः सा अपाला, ताम् (बहु॰)। अघसन्=अदधातोर्लुङि “लुड्सनोर्घस्लृ” इत्यदेर्घस्लादेशे लृदित्वादङ्।

भावाऽर्थः—हे भयशीले ! असहाया नरसञ्चाररहिते वने विद्यमाना त्वं का ? हिंस्रजन्तवो रक्षकरहितां त्वां कथं वा न भक्षितवन्तः।

भाषाऽर्थः—हे भयशीले! अकेली, निर्जन वनमें रहनेवाली तुम कौन हो ? हिंस्र जन्तुओंने रक्षकसे रहित तुम्हे कैसे नहीं खाया॥६६॥

हृदयङ्गममूर्तिस्त्वं सुभगम्भावुकं वनम्।
कुर्वाणा भीममप्येतद्वदाऽभ्यैः केन हेतुना॥६७॥

अन्वयः—(हे सौम्ये !) हृदयङ्गममूर्तिः त्वं भीमम् अपि एतत् वनं सुभगम्भावुकं कुर्वाणा केन हेतुना अभ्यैः, वद।

**प्रयोगप**०—हृदयङ्गममूर्त्या त्वया....कुर्वाणया अभ्यैयत, उद्यताम्।

**व्याख्या**—(हे सौम्ये !) हृदयङ्गममूर्तिः=हृद्यदेहा, त्वं=सुन्दरी, भीमम् अपि=भयङ्करम् अपि, एतत्=इदं, वनम्= अरण्यं, सुभगम्भावुकं=सौम्यं, कुर्वाणा=विदधती, केन हेतुना=केन कारणेन, अभ्यैः=अभ्यगच्छः, वद कथय।

व्युत्पत्तिः—हृदयङ्गममूर्त्तिः=हृदयं गच्छतीति हृदयङ्गमा, “गमश्च” इति खचि मुम्, हृदयङ्गमा मूर्तिर्यस्याः सा (बहु०), “मूर्तिः काठिन्यकाययोः।” इत्यमरः। सुभगम्भावुकं=असुभगं सुभगं भवतीति सुभगम्भावुकं तत्, “कर्तरि भुवः खिष्णुखुकञौ” इति च्व्यर्थे भुवः खुकञ्, मुमागमः। अभ्यैः=अमिपूर्वादिणो लङि मध्यमपुरुषैकवचने “आडजादीनाम्" इत्याट्"आटश्च" इति वृद्धिश्च।

भावाऽर्थः—हे सौम्ये ! मनोहरदेहा त्वं भयङ्करमप्येतद्वनं सौम्यं कुर्वाणा केन हेतुना आगताऽसि कथय।

भाषाऽर्थः—हे सौम्ये ! मनोहर शरीरवाली तुम भयङ्कर इस वनको भी सौम्यतासम्पन्न करती हुई किस कारणसे आई हो ? बतलाओ॥६७॥

सुकृतं प्रियकारी त्वं कं रहस्युपतिष्ठसे।
पुण्यकृच्चाटुकारस्ते किङ्करः सुरतेषु कः॥६८॥

**अन्वयः**—(हे सुभगे !) त्वं रहसि प्रियकारी कं सुकृतम् उपतिष्ठसे ? सुरतेषु ते चाटुकारः किङ्करः पुण्यकृत् कः ?

** प्रयोगप०**—त्वया प्रियकार्या कः सुकृत् उपस्थीयते, ते चाटुकारेण किङ्करेण पुण्यकृता केन (भूयते)।

व्याख्या—(हे सुभगे !) त्वं=भवती, रहसि=एकान्ते, प्रियकारी=प्रियकरा (अनुकूलवर्तिनी सती), कं=कतमं, सुकृतं= पुण्यकारिणम्, उपतिष्ठसे=सङ्गच्छसि, सुरतेषु=शोभनरतेषु, ते=तव, चाटुकारः=प्रियवादी, किङ्करः=दासः, पुण्यकृत्= कृतसुकृतः, कः=कतमः (अकृतपुण्येन दुर्लभत्वादीदृक्फलस्येति भावः। कस्ते पतिरिति प्रश्नाऽर्थः)।

** व्युत्पत्तिः**—प्रियकारी=प्रियं करोतीति, “क्षेमप्रियमद्रेऽण्च" इत्यणि “टिड्ढाणञित्यादिनाङीप्। सुकृतं=शोभनं कृतवानिति सुकृत्, तं ‘“सुकर्मपापम-

न्त्रपुण्येषु कृञः” इति क्विपि “ह्रस्वस्ये”त्यादिना तुक्। उपतिष्ठसे=सङ्गतिकरण आत्मनेपदम्। चाटुकारः=चाटु करोतीति,“न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु” इति टप्रतिषेधे “कर्मण्यण्” इत्यण्। “अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम्।” इत्यमरः। किङ्करः=किञ्चित् कुत्सितं वा करोतीति किङ्करः “कृञो हेत्वि”त्यादिना हेत्वाद्यर्थविवक्षायां ट एवं “जातिः किङ्करी"त्यादिङीवन्तप्रयोगदर्शनात्। तदविवक्षायां तु “दिवे”त्या दिसूत्रप्राप्तटप्रत्ययबाधेन “किंयत्तद्बहुषु कृञोऽज्विधानम्” इत्यजेव, “किङ्करा यत्करे”त्यादिटावन्तप्रयोगदर्शनात्। यत्तु ‘“दिवे”त्यादिनैव टप्रत्ययः, “अज्विधानं तु स्त्रीलिङ्गमात्रविषयम्” इति जयमङ्गलाकारव्याख्यानं, तद्वृत्तावच्प्रत्ययान्तत्वाऽभिव्यक्त्यर्थं “किङ्करा यत्करे”ति टाबन्तोदाहरणदर्शनाद्भ्रान्तमित्युपेक्ष्यम् इति मल्लिनाथः। पुण्यकृत्=पुण्यं करोतीति,“सुकर्मे"त्यादिना क्विप्।

भावाऽर्थः—हे सुभगे ! त्वमेकान्ते अनुकूला सती कं पुण्यवन्तमनुगृह्णासि ? शोभनरतेषु ते प्रियवादी दासः सुकृती कः ?

भाषाऽर्थः—दे सुभगे ? तुम एकान्तमें अनुकूल होती हुई किस पुण्यवान्से मिलती हो ? सुरतकर्म में तुम्हारा प्रियवादी दास कौन पुण्यवान् है ?॥६८॥

परिपर्युदधे रूपमाद्युलोकाच्च दुर्लभम्।
भावत्कं दृष्टवत्स्वेतदस्मास्वधि सुजीवितम्॥६६॥

** अन्वयः**—उदधेः परिपरि (स्थितम्) आद्युलोकाच्च दुर्लभं भावत्कम् एतत् रूपं दृष्टवत्सु अस्मासु अधि सुजीवितम्।

**प्रयोगप०**—_(…) सुजीवितेन (भूयते)।

व्याख्या—उदधेः परिपरि=समुद्रं वर्जयित्वा (स्थितं= विद्यमानम्) (तत्राऽपि दुर्लभमित्यर्थः), आ द्युलोकाच्च=आ स्वर्गाच्च, दुर्लभं=दुष्प्राप्यं, भावत्कं=भवत्याः, एतत्=समीपतरवर्ति, रूपं=सौन्दर्यं, दृष्टवत्सु=अवलोकितवत्सु, अस्मासु अधि= अस्मदधिकरणम् अस्मत्स्वामिकं वा, सुजीवितं=शोभनं जीवनम् (वर्तत इति शेषः।)।

व्युत्पत्तिः—उदधेः=“परिपरि” इति योगे “अपपरी वर्जने” इति कर्मप्रवचनीयत्वाद्द्वितीया प्राप्तौ “पञ्चम्यपाङपरिभिः” इति तदपवादिनी पञ्चमी। परिपरि=असमासे “परेर्वर्जने” इति विकल्पाद्द्विर्वचनम्। आद्यलोकात्=द्युचाऽसौ

लोको द्युलोकस्तस्मात्, “आङ् मर्यादावचने” इति वचनग्रहणादभिविधावपि कर्मप्रवचनीयत्वेऽपि पूर्ववत्पञ्चमी। “आङ् मर्यादाऽभिविध्योः” इति विकल्पादसमासः। भावत्कं=भवत्या इदं भावत्कं तत् “भवतष्ठक्छसौ” इतिठकि “ठक्छसोश्च” इति पुंवद्भावः। वस्तुतस्तु अनेन न पुंवद्भावः “सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः” इति भाष्यकारेष्ट्या गताऽर्थत्वात्। ततः “इसुसुक्तान्तात्कः” इति ठस्य कः। अस्मासु अधि=“अधिपरी अनर्थकौ” इति कर्मप्रवचनीयसञ्ज्ञाया गत्युपसर्गसञ्ज्ञाबाधेन “गतिर्गतौ” इति निघाताऽभावादेव चारितार्थ्यात् तद्यागेऽपि न द्वितीया। यद्वा “यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी” इत स्वामिनि पक्षान्तरे सप्तमी। सुजीवितं=शोभनं जीवितं, “कुगतिप्रादयः” इति समासः।

भावाऽर्थः—मर्त्यलोके स्वर्गे च दुर्लभं भवत्याः सौन्दर्यं दृष्टवतामस्माकं जीवनं सफलं वर्तते।

भाषाऽर्थः—समुद्रपर्यन्त विस्तीर्ण पृथ्वीमें और स्वर्ग में भी दुर्लभ आपका इस सौन्दर्य को देखकर हम लोगों का जीवन सफल है॥६९॥

आपीतमधुका भृङ्गैः सुदिवेवाऽरविन्दिनो।
सत्परिमललक्ष्मीका नाऽपुंस्काऽसीति मे मतिः॥७०॥

अन्वयः—आपीतमधुका सुदिवा अरविन्दिनी इव (स्थिता) सत्परिमललक्ष्मीका (त्वम्) अपुंस्का न असि इति मे मतिः।

प्रयोगप०—“आपीतमधुकया सुदिवया अरविन्दिन्या इव (स्थितया) सत्परिमललक्ष्मीकया (त्वया) अपुंस्कया न भूयते इति मे मत्या (भूयते)।

व्याख्या—भृङ्गैः=भ्रमरैः, आपीतमधुका=निपीतपुष्परसा, सुदिवा=शोभनदिना (रविकिरणसम्पर्कशालिनीत्यर्थः), अरविन्दिनी इव=कमलिनी इव (स्थिता=विद्यमाना), सत्परिमललक्ष्मीका=विद्यमानविमर्दगन्धसम्पत्तिः, (त्वं= भवती), अपुंस्का=अविद्यमानपुरुषा (अविद्यमानपुरुषसम्पर्केत्यर्थः, उपभोगचिह्नदर्शनादिति भावः), न असि=न भवसि इति=इत्थं, मे मम मतिः=बुद्धिः।

** व्युत्पत्तिः**—आपीतमधुका=आपीतं मधु यस्याः सा (बहु०), “शेषाद्विभाषा” इति कप्। सुदिवा=शोभनं दिवा यस्याः सा (बहु०) “सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाऽजपदप्रोष्ठपदाः” इत्यच्प्रत्ययाऽन्तो निपातः। शोभनत्वं चाऽत्र नीहाराद्यभाववत्त्वम्। अरविन्दिनी=अरविन्दानां समूहः, “खलादि-

भ्य इनिर्वक्तव्यः” इति इनिः, खलादिराकृतिगणः। सत्परिमललक्ष्मीका=परिमलस्य लक्ष्मीः परिमललक्ष्मीः, “विमर्दोत्थे परिमलो गन्धे जनमनोहरे।” इत्यमरः। सती परिमललक्ष्मीर्यस्याः सा (बहु०), एकवचनाऽन्तस्य लक्ष्मीशब्दस्य उरः प्रभृतिषु पाठात् “उरः प्रभृतिभ्यः कप्” इति समासाऽन्तः कप्। अपुंस्का=अविद्यमानः पुमान् यस्याः सा (नञ्बहु०), लक्ष्मीशब्दवत् पुंशब्दस्यैकवचनस्य उरःप्रभृतिपाठात्कप्। “पुमः खय्यम्परे” इति पुंसो रुत्वे विसर्जनीयस्य “संपुंकानां सो वक्तव्यः” इति सः।

भावाऽर्थः—भ्रमरैर्निपीतपुष्परसा सूर्यकिरणसम्पर्कशालिनी कमलिनीव स्थिता विमर्दगन्धसम्पत्तिसहिता त्वं पुरुष-सम्पर्करहिता नाऽसीति मे प्रतिपत्तिः।

भाषाऽर्थः—जिसका पुष्परस भौरोंने खूब पी लिया है ऐसी तथा सूर्यकिरणोंके सम्पर्कसे शोभित कमलिनीकी सदृश और परिमल (विमर्द से उत्पन्न गन्ध) की शोभासे सम्पन्न होनेवाली तुम, पुरुषके सम्बन्धसे रहित नहीं हो य मेरा विचार है॥७०॥

मिथ्यैव श्रीः श्रियम्मन्या, श्रीमन्मन्यो मृषा हरिः।
साक्षात्कृत्याऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः॥७२॥

अन्वयः—श्रियः श्रियं हरन्तीं त्वां साक्षात्कृत्य अहं श्रियम्मन्या श्रीः मिथ्या एव, श्रीमन्मन्यः हरिः मृषा एव (इति) अभिमन्ये॥

**प्रयोगप०**—मया “श्रियम्मन्यया श्रिया मिथ्या, श्रीमन्मन्येन हरिणा मृषा एव (भूयते)" इति अभिमन्यते॥

** व्याख्या**—श्रियः=लक्ष्म्याः, श्रियं=शोभां, हरन्तीं=जयन्तींं (लक्ष्म्या अधिकशोभामित्यर्थः), त्वां=भवती, साक्षात्कृत्य= दृष्ट्वा, अहं=भिक्षुः, श्रियम्मन्या=श्रीमानिनी, श्रीः=लक्ष्मीः, मिथ्या एव=मृषा एव (न श्रीरित्यर्थः) श्रीमन्मन्यः=श्रीमन्मानी, हरिः=विष्णुः, मृषा एव=मिथ्या एव (न श्रीमानित्यर्थः), (इति=इत्थं, त्वमेव श्रीस्त्वदीय एव श्रीमानिति भावः), अभिमन्ये=जानामि॥

व्युत्पत्तिः—साक्षात्कृत्य=असाक्षात् साक्षात् यथा संपद्यते तथा कृत्वा साक्षात्कृत्य, “विभाषा कृञि" इत्यनुवर्तमाने “साक्षात्प्रभृतीनि च” इति सूत्रेण

“च्व्यर्थ इति वाच्यम्” इति च्व्यर्थे गतित्वात् समासे क्त्वो ल्यप्। श्रियम्मन्या=श्रियमात्मानं मन्यमाना, “आत्ममाने खश्च” इति खश् धातार्दैवादिकत्वात् श्यन्, “श्यन्एकाचोऽम्प्रत्ययवच्च” इत्यम्भावः। तस्याऽमः प्रत्ययत्वात् “न विभक्तौ तुस्माः" इति मलोपप्रतिषेधः। क्विबन्तानां धातुत्वाऽनपायादियङादेशः। श्रीमन्मन्यः=श्रीमन्तमात्मानं मन्यमानः, पूर्ववत्खश्।

भावाऽर्थः—अहं लक्ष्म्या अपि अधिकतरशोभां त्वां दृष्ट्वा श्रीमानिनी श्रीर्न्नश्रीरपि तु त्वमेव श्रीरसि, एवं श्रीपतिमानी हरिः न श्रीपतिरपि तु त्वत्पतिरेव श्रीपतिरिति विचारयामि॥

भाषाऽर्थः—मैं लक्ष्मीकी शोभाको हरण करनेवाली तुम्हें देख कर अपने को लक्ष्मी माननेवाली लक्ष्मीको ओर अपनेको लक्ष्मीपति माननेवाले विष्णुको भी मिथ्याभूत लक्ष्मी और लक्ष्मीपति मानता हूं (वास्तवमें तुम ही लक्ष्मी हो
और तुम्हारे पति ही लक्ष्मीवान् हैं)॥७१॥

नोदकण्ठिष्यताऽत्यर्थं त्वामैक्षिष्यत चेत्स्मरः।
खेलायन्ननिशं नाऽपि सजूःकृत्य रतिं वसेत्॥७२॥

**अन्वयः**—स्मरः त्वाम् ऐक्षिष्यत चेत् (रतिं प्रति) अत्यर्थं न उदकण्ठिष्यत। अनिशं खेलायन् रतिं सजूःकृत्य अपि न वसेत्॥

**प्रयोग०**—स्मरेण त्वम् ऐक्षिप्यथाश्चेत्^(…) न उदकण्ठिष्यत, खेलायतान उष्येत॥

व्याख्या—स्मरः=कामः, त्वां=भवतीम्, ऐक्षिष्यत चेत्=ईक्षेत चेत् (रतिं प्रति=स्वप्रियां प्रति), अत्यर्थम्=अधिकं, न उदकण्ठिष्यत=न उत्कण्ठेत, अनिशं=निरन्तरं, खेलायन्=क्रीडन्, रतिं=स्वप्रियां, सजूःकृत्य अपि=सहचरीकृत्यअपि न वसेत्=न अवतिष्ठेत॥

 **व्युत्पत्तिः**—ऐक्षिष्यत="ईक्ष दर्शने" इति धातोः “लिङ्निमित्ते लृङ् क्रियाऽतिपत्तौ” इति क्रियाऽतिपत्तौ लृङ्। उदकण्ठिष्यत=उत्पूर्वात् “कठि शोके” इति धातोः पूर्ववल्लृङ्। खेलायन्=खेलायतीति, “खेला विलासे" कण्ड्वादि-यगन्ताद्धातोर्लटः शत्रादेशः। सजूःकृत्य="ऊर्यादिच्विडाचश्च" इति गतित्वात्समासे क्त्वो ल्यप्। “सजूःकरोत्यात्मनेऽपि साह्ये सत्राकरोति च।" इति भट्टमल्लः।

**भावाऽर्थः**—कामस्त्वामद्रक्ष्यच्चेवेत्तदा रतिं प्रति अधिकमुत्कण्ठितो नाऽभवि-

ष्यत्, निरन्तरं क्रीडन् रतिं सहचरीकृत्याऽपि नाऽवतिष्ठेत (रतेरप्यधिकं त्वदीयं सौन्दर्यमिति भावः)॥

** भाषाऽर्थः**—कामदेव तुम्हें देखते तो रतिके लिए ज्यादा उत्कण्ठित न होते और निरन्तर क्रीडा कर रति को सहचरी बनाकर भी नहीं रहते॥७२॥

वल्गूयन्तीं विलोक्य त्वां स्त्री न मन्तूयतीह का।
कान्ति नाऽभिमनायेत को वा स्थाणुसमोऽपि ते॥७३॥

अन्वयः—वल्गूयन्तीं त्वां विलोक्य इह का स्त्री न मन्तूयति। स्थाणुसमः अपि कः ते कान्तिं विलोक्य न अभिमनायेत॥७३॥

प्रयोगप०—कया स्त्रिया न मन्तूय्यते। स्थाणुसमेनाऽपि केन न अभिमनाध्येत।

व्याख्या—वल्गूयन्तीं=शोभमानां, त्वां=भवतीं, विलोक्य=दृष्ट्वा, इह=अस्मिन् लोके, का स्त्री=का नारी, न मन्तूयति=न कुप्यति (नेर्ष्यतीत्यर्थः), स्थाणुसमः=काष्ठतुल्यः (अत्यन्तमूढः हरतुल्यो वा जितेन्द्रियः), अपि, कः=नरः, ते=तव, कान्तिं=लावण्यं, विलोक्य=दृष्ट्वा, न अभिमनायेत=न उत्सुकायेत।

व्युत्पत्तिः—वल्गूयन्ती=वल्गूयतीति वल्गूयन्ती, तां “वल्गु पूजामाधुर्ययोः" कण्ड्वादियगन्ताद्धातोर्लटः शत्रादेशः। “अकृत्सार्वधातुकयोर्दीर्घः” इति दीर्घत्वम्। मन्तूयति=“मन्तु रोषे” इति कण्ड्वादियगन्ताद्धातोर्लट्, पूर्ववद्दीर्घत्वम्। स्थाणुसमः=स्थाणुना समः (तृ० त०)। अभिमनायेत=अनभिमना अभिमना भवेत्, “भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः" इति भृशादित्वात्क्यङ् सलोपश्च। सम्भावनायां लिङ्।

भावाऽर्थः—शोभमानां भवतीं दृष्ट्वा अस्मिंल्लोके का स्त्री नेर्ष्यति ? अतिमूढोऽपि जितेन्द्रियोऽपि वा को नरस्ते कान्तिं विलोक्य उत्कण्ठितो न भवेत्।

**भाषाऽर्थः**—शोभासम्पन्न तुम्हें देख कर इस संसार में कौन स्त्री ईर्ष्या नहीं करती है ? काष्ठतुल्य अत्यन्त मूढ वा शिवतुल्य जितेन्द्रिय भी ऐसा कौन पुरुष तुम्हारी कान्ति को देखकर उत्सुक न होगा॥७३॥

दुःखायते जनः सर्वः स एवैकः सुखायते।
यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके॥७४॥

 **अन्वयः**—सर्वः जनः दुःखायते, स एक एव सुखायते; यस्य अन्तिके त्वम्

उत्सुकायमाना न प्रतीपायसे।

** प्रयोगप०**—सर्वेण जनेन दुःखाय्यते। तेन एकेनैव सुखाय्यते। ^(…)त्वया उत्सुकायमानया न प्रतीपाय्यते।

व्याख्या—सर्वः=सकलः, जनः=पुरुषः, दुःखायते=दुःखमनुभवति, सः, एक एव=एकसंख्यक एव, सुखायते= सुखमनुभवति, यस्य=पुरुषस्य, अन्तिके=निकटे, त्वं=भवती, उत्सुकायमाना=उत्सुकीभवन्ती (सती), न प्रतीपायसे= अप्रतिकूला भवसि (अनुकूला भवसीत्यर्थः)।

व्युत्पत्तिः—दुःखायते=“सुखादिभ्यः कर्तृवेदनायाम्” इति क्यङ्। सुखायते=पूर्वसूत्रेणैव क्यङ्। उत्सुकायमाना= भृशादित्वात्क्यङ्। प्रतीपायसे=पूर्ववत्क्यङ्।

भावाऽर्थः—यस्य समीपे त्वमुत्कण्ठया अनुकूला भवसि स एक एव सुखमनुभवति, अन्यः सर्वोऽपि जनो दुःखमनु-भवति।

भाषाऽर्थः—जिसके समीपमें तुम उत्कण्ठासे अनुकूल होती हो, वह एक ही सुखका अनुभव करता है और सब मनुष्य दुःखका अनुभव करते हैं॥७४॥

कः पण्डितायमानस्त्वामादायामिषसन्निभाम्।
त्रस्यन्वैरायमाणेभ्यः शून्यमन्ववसद्वनम्॥७५॥

**अन्वयः**—पण्डितायमानः कः आमिषसन्निभां त्वाम् आदाय वैरायमाणेभ्यः त्रस्यन् शून्यं वनम् अन्ववसत्।

**प्रयोगप०**—पण्डितायमानेन केन^(…) त्रस्यता शून्यं वनम् अन्वौष्यत।

व्याख्या—पण्डितायमानः=अपण्डितः पण्डितो भवन् (वस्तुतस्तु दुर्बुद्धिरित्यर्थः), कः=नरः। आमिषसन्निभां=मांस-पिण्डसदृशीं (तद्वत्कोमलाऽङ्गीमित्यर्थः), त्वां=भवतीम्, आदाय=गृहीत्वा, वैरायमाणेभ्यः=वैरं कुर्वाणेभ्यः, त्रस्यन्=बिभ्यत्, शून्यं=निर्जनं, वनम्=अरण्यम्, अन्ववसत्=अध्यवसत् (वने उषितवानित्यर्थः)।

**व्युत्पत्तिः**—पण्डितायमानः=भृशादित्वात्क्यङ्। आमिषसन्निभाम्=आमिषेण सदृशी आमिषसन्निभा, ताम् (तृ० त०)। वैरायमाणेभ्यः=वैरं कुर्वन्तीति वैरायन्ते “शब्दवैरकलहाऽभ्रकण्वमेघेभ्यः करणे” इति क्यङ्, वैरायन्ते इति वैरायमाणास्तेभ्यः (शानच्); “भीत्राऽर्थानां भयहेतुः” इत्यपादानत्वात्पञ्चमी। वनम्=“अन्ववसत्” इति योगे “उपान्वध्याङ्वसः" इत्यधिकरणस्य कर्मत्वम्।

** भावाऽर्थः**—कः पण्डितमानी कोमलाङ्गीं त्वामानीय वैरमाचरद्भयो बिभ्यन्निर्जने वने उषितवान्।

** भाषाऽर्थः**—कौन पण्डितमानी, कोमलाङ्गी तुमको ले कर दुश्मनी करनेवालोंसे डर कर निर्जन वनमें रहता है॥७५॥

ओजायमाना तस्याऽर्घ्यं प्रणीय जनकात्मजा।
उवाच दशमूर्धानं साऽऽदरा गद्गदं वचः॥७६॥

**अन्वयः**—ओजायमाना जनकात्मजा तस्य अर्घ्यं प्रणीय सादरा दशमूर्धानं गद्गदं वच उवाच।

**प्रयोगप०**—ओजायमानया जनकाऽऽत्मजया सादरया दशमूर्धा गद्गदं वच ऊचे।

व्याख्या—ओजायमाना=तेजस्विनी भवन्ती, जनकात्मजा=सीता, तस्य=रावणस्य (सम्प्रदानत्वेऽपि सम्बन्धसामान्ये षष्ठी), अर्घ्यं=पूजाद्रव्यं, प्रणीय=दत्वा (प्रदायेति मल्लिनाथसम्मतः पाठः, पूर्ववदर्थः), सादरा=आदरयुक्ता (संती), दशमूर्धानं=रावणं, गद्गदम्=असुव्यक्तं (लज्जया भयेन वेति भावः), वचः=वचनम् (वक्ष्यमाणरूपमित्यर्थः), उवाच= अकथयत्।

व्युत्पत्तिः—ओजायमाना=ओज इव आचरतीति ओजायते, ‘ओजःशब्दो वृत्तिविषये तद्वति’ इति कथनात् “कर्तुः क्यङ् सलोपश्च” इति क्यङ् नित्यं सलोपश्च"ओजसोऽप्सरसो नित्यमितरेषां विभाषया" इति वचनात्। ओजायते इति ओजायमाना, क्यङन्तात् शानच्। अर्घ्यम्=अर्घार्थमिदमर्घ्यं तत् “मूल्ये पूजाविधावर्घः” इत्यमरः। “पादाऽर्घाभ्यां च" इति यत्। सादरा= आदरेण सहिता (बहु०)। दशमूर्धानं=दश मूर्धानो यस्य स दशमूर्धा, तम्, ब्रूञ्धातोर्द्विकर्मकत्वात् “अकथितं च’” इति कर्मत्वाद्द्वितीया।

भावाऽर्थः—भिक्षुरयं मां माऽभिभूदिति तेजस्विनी भवन्ती सीता तस्मै पूजाद्रव्यं दत्वा आदरयुक्ता सती रावणं लज्जया भयेन वा असुव्यक्तं वचनमकथयत्।

भाषाऽर्थः—सीता तेजस्विनी होती हुई रावणको अर्घ्यदान कर आदरपूर्वक भय वा लज्जाके कारणसे अस्पष्ट वचन कहने लगीं॥७६॥

महाकुलीन ऐक्ष्वाके वंशे दाशरथिर्मम।
पितुः प्रियङ्करौ भर्ता क्षेमकारस्तपस्विनाम्॥७७॥

निहन्ता वैरकाराणां सतां बहुकरः सदा।
पारश्वधिकरामस्य शक्तेरन्तकरो रणे॥७८॥

अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदा।
पितुर्नियोगाद्राजत्वं हित्वा योऽभ्यागमद्वनम्॥७६॥

** **सन्दानितकम्

** अन्वयः**—महाकुलीनः ऐक्ष्वाके वंशे दाशरथिः भम भर्ता पितुः प्रियङ्करः तपस्विनां क्षेमकारः, वैरकाराणां निहन्ता सदा सतां बहुकरः पारश्वधिकरामस्य शक्तेः रणे अन्तकरः; अध्वरेषु इष्टिनां पाता कर्मसु सर्वदा पूर्ती यः पितुः नियोगात् राजत्वं हित्वा वनम् अभ्यागमत्।

** प्रयोगप०**—महाकुलीनेन दाशरथिना भर्त्रा प्रियङ्करेण क्षेमकारेण, निहन्त्रा बहुकरेण अन्तकरेण, पात्रा पूर्तिना येन वनम् अभ्यगामि।

** व्याख्या**—(यत्पृष्टं “सुकृतं प्रियकारी"त्यत्र “कस्ते भर्ते"ति, तत्रोत्तरमाह—महाकुलीन इत्यादिना) महाकुलीनः=महा-कुलोत्पन्नः, ऐक्ष्वाके=इक्ष्वाकुसम्बन्धिनि (इक्ष्वाकोरित्यर्थः), वंशे=कुले, दाशरथिः=दशरथपुत्रः, मम=सीतायाः, भर्ता=पतिः, पितुः=जनकस्य (दशरथस्येत्यर्थः), प्रियङ्करः=प्रियकरी, तपस्विनां=तापसानां, क्षेमकारः=कल्याणकर्ता, वैरकाराणां=शत्रूणां, निहन्ता=नाशकः, सदा=नित्यं, सतां=सज्जनानां, बहुकरः=बहूपकर्ता, पारश्वधिकरामस्य=परशुरामस्य, शक्तेः=सामर्थ्यस्य, रणे=संग्रामे, अन्तकरः=नाशकरः, अध्वरेषु=यज्ञेषु, इष्टिनां=यज्वनां, पाता=रक्षिता, कर्मसु=कार्येषु, सर्वदा=सदा, पूर्ती= पूरणकरः (खातश्राद्धादिकर्माऽनुष्ठातेत्यर्थः, “पूर्तकर्मसु” इति मल्लिनाथसम्मतः पाठस्तत्र खातश्राद्धादिकर्मसु इत्यर्थः), यः= मत्पतिः (राम इत्यर्थः), पितुः=दशरथस्य, नियोगात्=आदेशात् (न तु राज्यभारोद्वहनाऽयोग्यताया इत्यर्थः), राजत्वं=राज्यं, हित्वा=त्यक्त्वा, वनं=काननम्, अभ्यागमत्=अभ्यागतवान्।

** व्युत्पत्तिः**—महाकुलीनः=महच्च तत् कुलं महाकुलं (क० धा०), तत्र भवो महाकुलीनः “महाकुलादञ्खञौ” इति विकल्पादनुवृत्तः खप्रत्ययः, “माहाकुलीनः” इति पाठे सौत्रः खञ्प्रत्ययः। ऐक्ष्वाके=इक्ष्वाकूणामयमैक्ष्वाकस्तस्मिन्, “दाण्डिनायने”त्यादिना निपातनादुकारलोपः। दाशरथिः=दशरथस्याऽपत्यं पु-

मान “अत इञ्” इति इञ्। प्रियङ्करः=प्रियं करोतीति, “क्षेमप्रियमद्रेऽण्च” इति खञ्। तपस्विनां=तपोऽस्ति येषां ते तपस्विनः तेषां, “तपः सहस्राभ्यां विनीनी” इति विनिः। क्षेमकारः=क्षेमं करोतीति, पूर्वसूत्रेणैव अण्प्रत्ययः। वैरकाराणां=वैरं कुर्वन्तीति वैरकारास्तेषां “न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु” इति टप्रतिषेधे “कर्मण्यण्” इत्यण्, “निहन्ता” इति पदेन योगे कर्मणि षष्ठी। निहन्ता=निहन्तीति (तृच्)। बहुकरः=बहून् (उपकारान्) करोतीति तच्छीलः, “कृञो हेत्वि”त्यादिना ताच्छील्ये टः, शेषं किङ्करवत्। पारश्वधिकरामस्य=परश्वधः प्रहरणमस्य पारश्वधिकः “परखधाट्ठञ्च” इति ठञ्। “द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः।” इत्यमरः। पारश्वधिकश्चाऽसौ रामः (भार्गवः) पारश्वधिकरामस्तस्य (क० धा०)। अन्तकरः=अन्तं करोतीति, “दिवाविभे”त्यादिना टः। अध्वरेषु=“इष्टिनाम्” इति पदेन योगे “क्तस्येन्विषयस्य कर्मण्युपसंख्यानम्” इति सप्तमी। इष्टिनाम्= इष्टमेभिरिति इष्टिनस्तेषाम् “इष्टादिभ्यश्च” इति कर्तरि इनिप्रत्ययः। कर्मणि षष्ठी कृद्योगे। सर्वदा=सर्वस्मिन्काले सर्वदा, “सर्वैकान्यकिंयत्तदः काले दा" इति दाप्रत्ययः। कर्मसु=“पूर्ती"ति पदेन योगे"क्तस्येन्विषयत्ये’”त्यादिना पूर्ववत्कर्मणि सप्तमी। पूर्ती पूरणं पूर्तं"पृृ पालनपूरणयोः” इति धातोर्भावे क्तः, “उदोष्ठ्यपूर्वस्य” इत्युत्वं “न ध्याख्यापृृमूर्छिमदाम्” इति निष्ठानत्वप्रतिषेधः। पूर्तमनेनेति पूर्ववत्कर्तरीनिः। राजत्वं राज्ञो भावो राजत्वं, तत् (त्वप्रत्ययः)। अभ्यागमत्=गमेर्लुङि लृदित्त्वादङ्।

भावाऽर्थः—महाकुलप्रसूत इक्ष्वाकुवंशाऽवतंसो मत्पतिः पितुर्दशरथस्य प्रियकारी तापसानां कल्याणकर्ता शत्रुनाशकः सदा सज्जनानां बहूपकर्ता परशुरामसामर्थ्यस्य नाशकरः यज्ञेषु यज्वरक्षकः खातश्राद्धादिकर्माऽनुष्ठाताऽस्ति, यः पित्रादेशेन राज्यं त्यक्त्वा वनमभ्यागतो वर्तते।

भाषाऽर्थः—महाकुलमें उत्पन्न, इक्ष्वाकुवंश के भूषण मेरे पति (रामचन्द्र), पिताके प्रियकर्म करनेवाले, तपस्वियों का कल्याण करनेवाले, शत्रुओंके नाशक, सदा सज्जनोंका बहुत उपकार करनेवाले, परशुराम के सामर्थ्य के नाशक, यज्ञों में यज्ञाऽनुष्टाताओंके रक्षक और खात (तालाव खुदवाना) और श्राद्ध आदि कर्मोंका अनुष्ठान करनेवाले हैं, जो कि पिताकी आज्ञासे राज्य छोड़ कर अभी वनमें आये हुए हैं॥७७–७९॥

पतत्रिक्रोष्टुजुष्टानि रक्षांसि भयदे वने।
यस्य बाणनिकृत्तानि श्रेणीभूतानि शेरते॥८०॥

** अन्वयः**—भयदे वने यस्य बाणनिकृत्तानि पतत्रिकोष्टुजुष्टानि रक्षांसिः श्रेणीभूतानि शेरते।

** प्रयोगप०**—^(…)बाणनिकृत्तैः पतत्रिक्रोष्टुजुष्टैः रक्षोभिः श्रेणीभूतैः शय्यते।

** व्याख्या**—भयदे-भयङ्करे, वने=कानने, यस्य=मद्वल्लभस्य, बाणनिकृत्तानि=शरभिन्नानि, पतत्रिक्रोष्टुजुष्टानि= पक्षिशृगालभक्षितानि, रक्षांसि=राक्षसाः, श्रेणीभूतानि=राशीभूतानि (सन्ति), शेरते=स्वपन्ति (दीर्घं निद्रान्तीत्यर्थः)।

** व्युत्पत्तिः**—भयदे=भयं ददातीति भयदं तस्मित् (कः) । बाणनिकृत्तानि=बाणैः (करणैः) निकृत्तानि (तृ० त०)। पतत्रि-क्रोष्टुजुष्टानि पतत्रिणश्च क्रोष्टारश्च पतत्रिक्रोष्टारः (द्वन्द्वः), तैर्जुष्टानि (तृ० त०)। श्रेणीभूतानि=अश्रेणयः श्रेणयो भूतानि इति विग्रहे “ऊर्यादिच्विडाचश्च” इति गतित्वात् “कुगतिप्रादय” इति समासे “च्वौ च” इति दीर्घः। “श्रेणिभूतानि” इति पाठे तु “श्रेण्यादिषु च्व्यर्थवचनं कर्तव्यम्” इत्यतः च्व्यर्थे समासः। शेरते=“शीङो रुट्” इति रुट्।

** भावाऽर्थः**—भयङ्करे वने यस्य बाणैश्छिन्नाः पक्षिशृगालैः खण्डशो भक्षिता राक्षसा राशीभूताः सन्तो दीर्घनिद्रामनुभवन्ति।

** भाषाऽर्थः**—भयङ्कर वनमें जिनके बाणों से काटे गये और गृध्र आदि पक्षी तथा स्यारोंसे भक्षण किये गये राक्षस इकट्ठे होते हुए सोते हैं॥८०॥

दीव्यमानं शितान्बाणानस्यमानं महागदाः।
निघ्नानं शात्रवान्रामं कथं त्वं नाऽवगच्छसि॥८१॥

** अन्वयः**—शितान् बाणान् दीव्यमानं महागदाः अस्यमानं शात्रवान् निघ्नानं रामं त्वं कथं न अवगच्छसि।

** प्रयोगप०**—^(…)दीव्यमानोऽस्यमानो निघ्नानो रामस्त्वया कथं नाऽवगम्यते।

** व्याख्या**—शितान्=तीक्ष्णान् बाणान्=शरान् (तीक्ष्णैर्बाणैरित्यर्थः), दीव्यमानं=देवनशीलं (क्रीडाशीलं विजिगीषाशीलं वा), महागदाः=महान्ति अस्त्रविशेषाणि, अस्यमानं=क्षिपमाणं (तद्योग्यवयस्कमित्यर्थः), शात्रवान्=शत्रून्, निघ्नानं=निहननसमर्थं रामं=मत्पतिं त्वं भवान् कथं केन प्रकारेण, न अवगच्छसि=न जानासि।

** व्युत्पत्तिः**—बाणान्=“दीव्यमानम्” इति पदेन योगे “दिवः कर्म च” इति करणस्य कर्मत्वम्। दीव्यमानं=दीव्यतीति तच्छीलो दीव्यमानस्तं, “ताच्छील्य वयोवचनशक्तिषु चानश्” इति ताच्छील्ये चानश्। महागदाः=महत्यश्च ता गदा महागदास्ताः (क० धा०)। अस्यमानम्=अस्यतीति तच्छीलः अस्यमानस्तं, पूर्वसूत्रेण वयोवचने चानश्। शात्रवान्=शत्रव एव शात्रवास्तान् “प्रज्ञादिभ्यश्च” इति स्वाऽर्थेऽण्। निघ्नानं निहन्तीति निघ्नानस्तं पूर्वसूत्रेण शक्त्यर्थे चानश्। “गमहने”त्यादिना उपधालोपः।

भावाऽर्थः—तीक्ष्णशरैः क्रीडाशीलं महागदाप्रहारयोग्ये वयसि वर्तमानं शत्रुहननसमर्थं रामं त्वं कथं न जानासि ?

भाषाऽर्थः—तीक्ष्ण बाणोंसे क्रीडाशील, बड़ी गदाओं (अत्रविशेषों) से प्रहार करनेवाले और शत्रुओंको नाश करने में समर्थ, राम को आप कैसे नहीं जानते हैं॥८१॥

भ्रातरि न्यस्य यातो मां मृगाविन्मृगयामसौ।
एषितुं प्रेषितो यातो मया तस्याऽनुजो वनम्॥८२॥

** अन्वयः**— मृगावित् असौ मां भ्रातरि न्यस्य मृगयां यातः। (तम्) एषितुं तस्य अनुजःमया वनं प्रेषितः यातः।

** प्रयोग**०—मृगाविधा अमुना मृगया याता। अनुजेन प्रेषितेन यातम्।

** व्याख्या**—मृगावित्=हरिणवेधी, असौ=रामः, मां=सीतां, भ्रातरि=अनुजे (लक्ष्मण इत्यर्थः), न्यस्य=समर्प्य (रक्षाऽर्थमिति शेषः), मृगयाम्=आखेटं, यातः=गतः, (तं=रामम्) एषितुं=ज्ञातुं, तस्य=रामस्य, अनुजः=अवरजः (लक्ष्मणः), मया=सीतया, वनम्=अरण्यं (प्रति), प्रेषितः=प्रेरितः (सन्), यातः=गतः।

व्युत्पत्तिः—मृगावित्=मृगान्विध्यतीति (क्विप्), “नहिवृती”त्यादिना पूर्वपदस्य दीर्घत्वम्। मृगयां=मृग्यन्ते (अन्विष्यन्ते) मृगा अस्यामिति मृगया तस्यां, “परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्” इति शप्रत्ययान्तो निपातः, “आखेटो मृगया स्त्रियाम्।” इत्यमरः। एषितुम्=“इषु गतौ” इति धातोस्तुमुन् नित्यमिडागमश्च। “ये गत्यर्थास्ते ज्ञानाऽर्था” इति न्यायादत्र तस्य ज्ञानाऽर्थत्वं, भावाऽर्थाऽनुसरणे तु अन्वेषणाऽर्थत्वम्। अनुजः=अनु (पश्चात्) जायत इति व्युत्पत्या “अन्येष्वपि दृश्यते” इति डः। प्रेषितः=पूर्ववदिडागमः।

** भावाऽर्थः**—हरिणवेधी रामो मद्रक्षाऽर्थं लक्ष्मणमादिश्य मृगयाऽर्थं गतः,

साम्प्रतं तमन्वेष्टुं रामाऽनुजो लक्ष्मणो मया वनं प्रेषितोऽस्ति।

** भाषाऽर्थः**—मृगवेधी राम मुझे (रक्षाके लिए) भाई (लक्ष्मण) को सौंप कर शिकार खेलनेको गये हैं, उनको ढूंढने के लिए मैंने लक्ष्मणको वनमें भेजा है॥८२॥

अथाऽऽयस्यन्कषायाऽक्षः स्यन्नस्वेदकणोल्बणः।
सन्दर्शिताऽऽन्तराकूतस्तामवादीद्दशाननः॥८३॥

** अन्वयः**—अथ आयस्यन् कषायाऽक्षः स्यन्नस्वेदकणोल्बणः दशाऽऽननः सन्दर्शिताऽऽन्तराऽऽकृतः (सन्) ताम् अवादीत्।

** प्रयोग प०**—आयस्यता कषायाऽक्षेण स्यन्नस्वेदकगोल्बणेन दशाऽऽननेन सन्दर्शिताऽऽन्तराऽऽकूतेन (सता) सा अवादि।

** व्याख्या**—अथ=सीतावाक्यश्रवणाऽनन्तरम्, आयस्यन्=प्रयस्यन् (रामयशः श्रवणेन क्रोधादुच्चलन्निति भावः), कषायांऽक्षः=रक्तनेत्रः, स्यन्नस्वेदकणोल्बणः=प्रस्रुतघर्मोदकबिन्दुव्याप्तः, दशाननः=रावणः, सन्दर्शिताऽऽन्तराऽऽकूतः= प्रदर्शिताऽन्तर्गताऽभिप्रायः (सन्), तां=सीताम्, अवादीत्=अकथयत्।

** व्युत्पत्तिः**—आयस्यन्=आयस्यतीति, आङ्पूर्वकात् “यसु प्रयत्ने” इति आयस्यन्=आयस्यतीति, दैवादिकाद्धातोर्लटः शत्रादेशः। कषायाऽक्षः=कषाये अक्षिणी यस्य सः (बहु०), “बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्” इति समासाऽन्तः षच्। “रागे क्वाथे कषायोऽस्त्री” इति यादवः। स्यन्नस्वेदकणोल्बणः=स्वेदानां कणाः स्वेदकणाः (ष०), स्यन्नाश्च ते स्वेदकणाः स्यन्नस्वेद-कणाः (क० धा०)। “स्यन्नाः” इत्यत्र “स्यन्दू प्रस्रवणे” इति धातोः क्तः। स्यन्नस्वेदकणैरुत्वणः (तृ० त०)। दशाऽऽननः=दश आननानि यस्य सः (बहु०)। सन्दर्शिताऽऽन्तराकूतः=अन्तरे भवमान्तरम् (अण्)। सन्दर्शितमान्तरमाकूतं येन सः (बहु०)। अवादीत्=वदधातोर्लुङि “वदव्रजहलन्तस्याऽचः” इति सिचि वृद्धिः।

** भावाऽर्थः**—सीतावाक्यश्रवणाऽनन्तरं रामयशः श्रवणेन जातात्क्रोधादुच्चलन् रक्तनेत्रः प्रस्रुतस्वेदबिन्दू रावणः प्रकटीकृताऽन्तर्गतनिजाऽभिप्रायः सन् सीतामब्रवीत्।

** भाषाऽर्थः**—सीता का वाक्य सुननेके अनन्तर रामका यश सुनने से उत्पन्न क्रोधसे उच्चलित होता हुआ, क्रोधसे लाल नेत्रवाला और स्वेद बिन्दुओंसे व्याप्त रावण, अन्तर्गत अभिप्रायको प्रकट करता हुआ। सीताजी से कहने लगा॥८३॥

कृते कानिष्ठिनेयस्य ज्येष्ठिनेयं विवासितम्।
को नग्नमुषितप्रख्यं बहु मन्येत राघवम्॥८४॥

** अन्वयः**—कानिष्ठिनेयस्य कृते विवासितं नग्नमुषितप्रख्यं ज्यैष्ठिनेयं राघवं को बहु मन्येत।

** प्रयोगप०**—विवासितो नग्नमुषितप्रख्यो ज्यैष्ठिनेयो राघवः केन बहु मन्येत।

** व्याख्या**—कानिष्ठिनेयस्य=कनिष्ठापुत्रस्य (भरतस्येत्यर्थः), कृते=कार्यार्थं, विवासितं=प्रवासितं (अत एव) नग्नमुषित-प्रख्यं=हृतधनदिगम्बरसदृशं, ज्यैष्ठिनेयं=ज्येष्ठापुत्रं (ज्येष्ठमिति भावः), राघवं=रामं, कः=नरः, बहु=अधिकं, -मन्येत= मन्यताम् (पूजयेदिति भावः)।

** व्युत्पत्तिः**—कानिष्ठिनेयस्य=कनिष्ठाया अपत्यं पुमान् कानिष्ठिनेयस्तस्य, “कल्याण्यादीनामिनङ्” इतीनङादेशो ढक्च। कृते=करणं कृत्, तस्यै, सम्पदा देत्वाक्विप् ; अव्ययमिति केचित्। नग्नमुषितप्रख्यं=प्राक् मुषितः पश्चात् नग्नः नग्नमुषितः “पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाऽधिकरणेन” इति समासे राजदन्तादित्वात् “राजदन्तादिषु परम्” इति पूर्वकालस्य परनिपातः। नग्नमुषितेन प्रख्या (सादृश्यम्) यस्य स नग्नमुषितप्रख्यस्तम् (व्यधि० बहु०)। ज्यैष्ठिनेयं=ज्येष्ठाया अपत्यं पुमान्ज्यैष्ठिनेयस्तं, कल्याण्यादित्वादिनङादेशो ढक्च। बहु=क्रियाविशेषणम्।

भावाऽर्थः—कनिष्ठराज्ञ्याकैकेय्याः पुत्रस्य भरतस्य कृते प्रवासितं हृतधनदिगम्बरतुल्यं ज्येष्ठराज्ञ्याः कौशल्यायाः पुत्रं रामं कः पूजयेत्।

भाषाऽर्थः —छोटी रानीके लड़के भरत के लिए निर्वासित, अत एव धन छीने जानेसे दिगम्बर (नग्न) पुरुषके तुल्य, बड़ी रानी कौशल्याके लड़के रामचन्द्रका कौन सत्कार करेगा॥८४॥

राक्षसान्बटुयज्ञेषु पिण्डीशूरान्निरस्तवान्।
यद्यसौ कूपमाण्डूकि ! तवैतावति कः स्मयः॥८५॥

** अन्वयः**—असौ बटुयज्ञेषु पिण्डीशूरान् राक्षसान् निरस्तवान् यदि, हे कूपमाण्डूकि ! तव एतावति कः स्मयः ?

** प्रयोगप०**—अमुना पिण्डीशूरा राक्षसा निरस्ता यदि, तव केन स्मयेन (भूयते) ?

** व्याख्या**—(यदुक्तं सीतया—“अध्वरेष्विष्टिनां पाते"ति तत्रोत्तरमाह) असौ=रामः, बटुयज्ञेषु=कुब्रह्मयज्ञकेषु, पिण्डीशूरान्=भोजनशूरान् (न तु रणशूरानिति भावः), राक्षसान्=यातुधानान्, निरस्तवान् यदि=हतवांश्चेत्, हे कूपण्डूकि=हे अन्धुभेकि ! (कूपमण्डूकतुल्यबुद्धे इति भावः), तव=भवत्याः, एतावति=एतावन्मात्रे (भोजनशूराणां राक्षसानां वधात्मके कार्ये इति भावः), कः स्मयः=को गर्वः (यथा कूपमाण्डूकी कूपमेव महान्तं जलाशयं मन्यते न समुद्रादिकमज्ञानात्तथा त्वमपि राममेव शूरवरं जानासि नाऽस्मानिति भावः)।

व्युत्पत्तिः—बटुयज्ञेषु=बटूनां यज्ञा बटुयज्ञास्तेषु (ष० त०)। पिण्डीशूरान्=पिण्डयामेव शूराः पिण्डीशूरास्तान्, “पात्रेसमितादयश्च” इति समासः। “गेहेनदी गृहेशूरः पिण्डीशूरच कथ्यते।” इति हलायुधः। कूपमाण्डूकि=मण्डू कस्याऽपत्यं स्त्री माण्डूकी “ढक्च मण्डूकात्” इति चकारादण् वाऽपत्ये। कूपे मामाण्डूकी (इव) कूपमाण्डूकी, तत्सम्बुद्धौ। पूर्वसूत्रेणैव क्षेपे समासः।

भावाऽर्थः—रामः कुब्रह्मयज्ञकेषु अन्नशूरान्राक्षसान् जघान चेत्, हे कूपमाण्डूकि ! एतादृशे तुच्छकार्ये कोऽयं तवाऽहङ्कारः।

भाषाऽर्थः—रामने कुत्सित ब्राह्मणों के यज्ञोंमें, खानेमें ही शूर (न कि लड़ने में) राक्षसोंको मारा है; तो हे कूपमाण्डूकि ! इतनेमें ही तुम्हें क्यों गर्व होता है॥८५॥

मत्पराक्रमसङ्क्षिप्तराज्यभोगपरिच्छदः।
युक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः॥८६॥

** अन्वयः**—मत्पराक्रमसङ्क्षिप्तराज्यभोगपरिच्छदः हरिः यथा दरिद्राति (तत्) मम एव वक्तुं युक्तं किम्।

** प्रयोगप०**—मत्पराक्रमसङ्क्षिप्तराज्यभोगपरिच्छदेन हरिणा यथा दरिद्र्यते, (तेन)^(…) युक्तेन (भूयते) किम् ?

** व्याख्या**—मत्पराक्रमसङ्क्षिप्तराज्यभोगपरिच्छदः=मद्विक्रमाऽपहृतराजकर्मभोगसाधनः (मदपहृतसर्वस्व इत्यर्थः), हरिः= इन्द्रः, यथा=येन प्रकारेण, दरिद्राति=दरिद्रो भवति, (तत्=वृत्तम्) मम एव=रावणस्य, एव वक्तुं=कथयितुं, युक्तं किम्= उचितं किम् ? (नोचितमित्यर्थः। आत्मश्लाघायाः सर्वत्र निन्दितत्वादिति भावः)।

**व्युत्पत्तिः**—मत्पराक्रमसङ्क्षिप्तराज्यभोगपरिच्छदः=मम पराक्रमो मत्प-

राक्रमः (ष० त०)। भोगस्य परिच्छदा भोगपरिच्छदाः (ष० त०)। मत्पराक्रमेण सङ्क्षिप्ता मत्पराक्रमसङ्क्षिप्ताः (तृ० त०)। राज्यं च भोगपरिच्छदाश्चराज्यभोगपरिच्छदाः (द्वन्द्वः)। मत्पराक्रमसङ्क्षिप्ता राज्यभोगपरिच्छदा यस्य सः (बहु०)। दरिद्राति=“द्ररिद्रा दुर्गतौ” इति धातोर्लटि आदादिकत्वाच्छपो लुक्।

भावाऽर्थः—मया अपहृतसर्वस्व इन्द्रो यथा दरिद्रोऽस्ति तस्य ममाऽवदानस्य मयैव प्रतिपादनमनुचितमित्यतो विरमामि।

भाषाऽर्थः—मेरे पराक्रमसे राज्य और भोगसामग्रीका अपहरण होनेसे इन्द्र जिस तरह दरिद्र हो गये हैं, उस बातको मुझे स्वयम् ही (आत्मश्लाघाके डरसे) नहीं कहना चाहिए॥८६॥

निर्लङ्को विमदः स्वामी धनानां हृतपुष्पकः।
अध्यास्तेऽन्तर्गिरं यस्मात्कस्तन्नाऽवैति कारणम्॥८७॥

अन्वयः—यस्मात् धनानां स्वामी निर्लङ्कः हृतपुष्पकः विमदः (सन्) अन्तर्गिरम् अध्यास्ते, तत् कारणं कः न अवैति।

**प्रयोगप०**— ^(...) स्वामिना निर्लङ्केन हृत पुष्पकेण विमदेन (सता) अन्तर्गिरमध्यास्यते, तत्कारणं केन न अवेयते।

** व्याख्या**—यस्मात्=मत्पराक्रमलक्षणात्कारणात्, धनानां स्वामी=द्रव्याणां पतिः (कुबेर इत्यर्थः), निर्लङ्कः=लङ्कानिर्गतः, हृतपुष्पकः=अपहृतविमानः, (अत एव) विमदः=अपगतदर्पः(सन्), अन्तर्गिरं=कैलासम्, अध्यास्ते=अधितिष्ठति, तत्=मत्पराक्रमलक्षणं, कारणं=हेतुं, कः=पुरुषः, न अवैति=न जानाति (मत्पराक्रमादेव कुबेरो लङ्कां त्यक्त्वा अपहृतपुष्पको भूत्वा कैलासे तिष्ठतीति वार्तांसर्वेऽपि जानन्तीति भावः।

व्युत्पत्तिः—निर्लङ्कः=निष्क्रान्तो लङ्काया इति विग्रहे “निरादयः क्रान्ताद्यर्थे पञ्चम्या” इति समासः, “द्विगुप्राप्तापन्नाऽलम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः” इति परलिङ्गताप्रतिषेधाद्विशेष्यलिङ्गता, “एकविभक्ति चाऽपूर्वनिपाते” इति लङ्काशब्दस्योपसर्जनत्वात् “गोस्त्रियोरुपसर्जनस्य” इत्युपसर्जनह्रस्वत्वम्। हृतपुष्पकः=हृतं पुष्पकं यस्मात् सः (बहु०)। विमदः=विगतो मदो यस्य सः (बहु०)। अन्तर्गिरम्=गिराविति अन्तर्गिरं तत् विभक्त्यर्थेऽव्ययीभावः, “गिरेश्च सेनकस्य” इति विकल्पादव्ययीभावसमासान्तष्टच्, “अधिशीङ्स्थाऽऽसां कर्म” इति कर्मत्वाद्द्वितीया, “अव्ययीभावश्च” इति अव्ययत्वम्।

** भावाऽर्थः**—मत्पराक्रमात्कुबेरो लङ्कां त्यक्त्वा अपहृतविमानो गर्वशून्यो भूत्वा कैलाशमधितिष्ठति, इमां वार्तांसर्वेऽपि जानन्त्येव।

भाषाऽर्थः—जिस कारणसे कुबेर लङ्कासे निकल कर पुष्पक विमानके छीने जानेसे गर्वरहित हो कर कैलाश पर्वतमें रहते हैं, उस (मेरा पराक्रमरूप) कारणको कौन नहीं जानता ?॥८७॥

भिन्ननौक इव ध्यायन्मत्तो बिभ्यद्यमः स्वयम्।
कृष्णिमानं दधानेन मुखेनाऽऽस्ते निरुद्यमिः॥८८॥

** अन्वयः**—यमः स्वयं मत्तः बिभ्यत् भिन्ननौकः इव ध्यायन् कृष्णिमानं दधानेन मुखेन (उपलक्षितः) निरुद्यतिः आस्ते।

प्रयोगप०—यमेन बिभ्यता भिन्ननौकेन इव ध्यायता^(…) निरुद्यतिना आस्यते।

व्याख्या—यमः=यमराजः, स्वयं=साक्षात्, मत्तः=मत्सकाशात्, बिभ्यत्=त्रस्यन्, भिन्ननौक इव=विपन्नपोतः (वणिक्) इव, ध्यायन्=चिन्तयन्, कृष्णिमानं=मलिनतां, दधानेन=धारयता, मुखेन=आननेन (उपलक्षितः सन्), निरुद्यतिः=उद्योग-रहितः, आस्ते=तिष्ठति (न तु किञ्चिदपि करोतीत्यर्थः सामर्थ्याऽऽभावादिति भावः)।

व्युत्पत्तिः—बिभ्यत्=बिभ्यतीति, “ञिभी भये” इति धातोर्लटः शत्रादेशः। भिन्ननौकः=भिन्ना नौर्यस्य सः (बहु०), “उरः प्रभृतिभ्यः कप्" इति समासाऽन्तः कप्। “स्त्रियां नौस्तरणिस्तरिः।" इत्यमरः। कृष्णिमानं=कृष्णस्य भावः कृष्णिमा, तं, “वर्णदृढादिभ्यः ष्यञ्च" इति चादिमनिच्। मुखेन=“इत्थंभूतलक्षणे” इति तृतीया। निरुद्यतिः=उद्यमनमुद्यतिः, उत्पूर्वाद्यमेः “स्त्रियां क्तिन्” इति क्तिन्, अनुनासिकलोपः।

भावाऽर्थः—यमराजः स्वयं मद्विभ्यत् विपन्नपोतो वणिक् द्रव्यनाशाद्यथा चिन्तयति, तथैव सामर्थ्यनाशात् चिन्तयन् विवर्णमुखः सन् उद्योगशून्यत्वेन समयं यापयति।

**भाषाऽर्थः**—यमराज स्वयम् मुझसे डर कर जहाज डूबनेपर जिस तरह व्यापारी चिन्ता करता है, उसी तरह चिन्ता करते हुए विवर्ण मुख ले कर उद्योगशून्य हो कर रहते हैं॥८८॥

समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरी।
रत्नपारायणं नाम्ना लङ्केति मम मैथिलि॥८९॥

** अन्वयः**—हे मथिलि ! समुद्रोपत्यका पर्वताऽधित्यका हैमी रत्नपारायणं नाम्ना लङ्का इति मम पुरी।

प्रयोगप०— समुद्रोपत्यकया पर्वताऽधित्यकया हैम्या रत्नपारायणेन मम पुर्या (भूयते )।

व्याख्या—हे मैथिलि=हे सीते, समुद्रोपत्यका=सागराऽऽसन्ना (समुद्रपरिखेत्यर्थः), पर्वताऽधित्यका=त्रिकूटपर्वतोपरि-स्थिता, हैमी=सुवर्णमयी, रत्नपारायणं=मणिसमाप्तिस्थानं (सर्वरत्नाकर इत्यर्थः), नाम्ना=अभिधानेन, लङ्का इति=लङ्का इतिख्याता। मम=रावणस्य, पुरी=नगरी (अस्तीतिशेषः)।

व्युत्पत्तिः—समुद्रोपत्यका=पर्वतस्य आसन्ना भूरुपत्यका, “उपाधिभ्यां त्यकन्नासन्नाऽऽरूढयोः” इति त्यकन्प्रत्ययः “त्यकनश्च निषेधः" इति निषेधात् “प्रत्ययस्थात्कात्पूर्वस्याऽत इदाप्यसुपः” इतीत्वाऽभावः। “उपत्यकाऽद्रेरासन्ना भू- भिरूर्ध्वमधित्यका।” इत्यमरः। समुद्रस्योपत्यका (ष० त०)। अत्रोपत्यकाशब्दो लक्षणया आसन्नवाचकः। पर्वताऽधित्यका= पर्वतस्योर्ध्वा भूरधित्यका, उपत्यकाशब्दवत्प्रक्रियाज्ञेया। अत्र पौनरुक्त्यपरिहाराय अधित्यकाशब्दस्य उपरिस्थितेति लक्ष्याऽर्थः। पर्वतस्याऽधित्यका (ष० त०)। हैमी=हेम्नो विकारो हैमी, “प्राणिरजतादिभ्योऽञ्” इत्यञ्, “नस्तद्धिते” इति टिलोपश्च। रत्नपारायणं=रत्नानां पारं (समाप्तिः) रत्नपारं (ष० त०), तस्य अयनम् (स्थानम्) रत्नपारायणम् (ष० त०)। नाम्ना= “प्रकृत्यादिभ्य उपसंख्यानम्” इति प्रकृत्यादेराकृतिगणत्वात्तृतीया।

भावाऽर्थः—हे सीते ! समुद्रपरिखा त्रिकूटपर्वतोपरिस्थिता सुवर्णमयी सर्वरत्नानामाकरभृता लङ्कानामधेया मम पुरी अस्ति।

भाषाऽर्थः—हे सीते ! समुद्र ही जिसकी परिखा (खाई) है, त्रिकूट पर्वतके ऊपर स्थित, सुवर्णमयी और रत्नोंका आकर (उत्पत्तिस्थान) भूत लङ्का नामकी मेरी पुरी है॥८९॥

आवासे सिक्तसंमृष्टे गन्धैस्त्वं लिप्तवासिता।
अर्पितोरुसुगन्धिस्रक्तस्यां वस मया सह॥६०॥

** अन्वयः**—(हे सीते !) तस्यां सिक्तसंमृष्टे आवासे त्वं गन्धैः लिप्तवासिता अर्पितोरुसुगन्धिस्रक्(सती) मया सह वस।

प्रयोगप०—त्वया लिप्तवासितया अर्पितोरुसुगन्धिस्रजा (सत्या) उष्यताम्।

व्याख्या—(हे सीते !) तस्यां=लङ्कायां पुर्यां, सिंक्तसंमृष्टे=गन्धोदकसिक्ते शोधनीशोधिते च, आवासे=गृहे, त्वं=सीता, गन्धैः=यक्षकर्दमादिभिः (सुरभिद्रव्यैः), लिप्तवासिता=अनुलिप्ताऽधिवासिता, अर्पितोरुसुगन्धिस्रक्=न्यस्तप्रभूतसुरभिमाला (सती), मया=रावणेन, सह=साकं, वस=तिष्ठ।

व्युत्पत्तिः—सिक्तसंमृष्टे=पूर्वं सिक्तः पश्चात्संसृष्टः सिक्तसंमृष्टस्तस्मिन्, स्नाताऽनुलिप्तवत् ‘पूर्वकालैके"त्यादिना समासः। आवासे=आवसत्यस्मिन्निति आवासस्तस्मिन् (अधिकरणे घञ्)। लिप्तवासिता=पूर्वं लिप्ता पश्चाद्वासितेति विग्रहे पूर्ववत्समासः। अर्पितोरुसुगन्धिस्रक्=शोभना गन्धा यासां ताः सुगन्धयः (बहु०) “गन्धस्यैदुत्पूतिसुसुरभिभ्यः” इति समासान्त इकारः। अर्पिता उरवः सुगन्धयः स्रजो यस्याः सा (बहु०)। वस=प्रार्थनायां लोट्।

भावाऽर्थः—हे सीते ! तस्यां लङ्कायां गन्धोदकसिक्ते शोधनीशोधिते च भवने त्वमुपयुक्तसुरभिद्रव्या धृतसुगन्धिमाल्या च सती मया सह तिष्ठ।

भाषाऽर्थः—हे सीते ! उस लङ्का पुरीमें सुगन्धि जलसे सिक्त और सम्मार्जित भवन में तुम सुगन्धि द्रव्यों का उपयोग कर प्रचुर सुगन्धि मालाओंको पहनती हुई मेरे साथ रहो॥९०॥

संगच्छ पौंस्नि! स्त्रैणं मां युवानं तरुणी शुभे।
राघवः प्रोष्यपापीयाञ्जहीहि तमकिञ्चनम्॥९१॥

**अन्वयः**—हे शुभे ! हे पौस्नि ! तरुणी स्त्रैणं युवानं मां त्वं संगच्छ, राघवः प्रोष्यपापीयान् (अस्ति), अकिञ्चनं तं जहीहि।

**प्रयोगप०**—तरुण्या त्वया स्त्रैणो युवाऽहं संगम्यै, राघवेण प्रोष्य पापीयसा (भूयते), अकिञ्चनः स हीयताम्।

व्याख्या—हे शुभे=हे शोभने !, हे पौस्नि=हे पुंहिते पुंयोग्ये वा, तरुणी=युवतिः, त्वं=सीता, स्त्रैणं=स्त्रीहितं स्त्रीयोग्यं वा, युवानं=तरुणं, मां=रावणं, संगच्छ=प्राप्नुहि, राघवः=रामः, प्रोष्यपापीयान्=राज्यात्प्रभ्रश्य (मृगयाव्याजेन त्वत्परित्यागेन देशान्तरं गत्वा वा) पापवत्तरः (अस्तीति शेषः), अकिञ्चनं=निर्धनं, तं=

रामं, जहीहि=त्यज।

व्युत्पत्तिः—शुभे=शोभत इति शुभा, तत्सम्बुद्धौ, “शुभ दीप्तौ” इति धातोः “इगुपधज्ञाप्रीकिरः कः” इति कः। पौंस्नि= पुमांसमर्हति पुंसे हिता वा पौंस्नी, तत्सम्बुद्धौ, “स्त्रीपुंसाभ्यां नञ्स्नञौभवनात्” इति स्नञ् “नञ्स्नजीकक्ख्युंस्तरुण-तलुनानामुपसंख्यानम्” इति ङीप्। तरुणी=पूर्ववार्तिकेनैव ङीप्। स्त्रैणं=स्त्रीरर्हति स्त्रीभ्यो हितो वा स्त्रैणस्तं, “स्त्रीपुंसाभ्यामि”त्यादिना नञ्। संगच्छ=प्रार्थनायां लोट्, “इषुगमियमां छ” इति छत्वम्। सकर्मकत्वात् “समो गम्यृच्छिभ्याम्” इति नाऽऽत्मनेपदम्। प्रोष्यपापीयान्=अतिशयेन पापः पापीयान्, “अथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ।” इति विशेष्य-लिङ्गत्वात्पापशब्दादीयसुन्। प्रोष्य पापीयान् प्रोष्यपापीयान्,“मयूरव्यंसकादयश्च” इति समासः। अकिञ्चनं=नाऽस्ति किञ्चन यस्य सः अकिञ्चनस्तं, पूर्वसूत्रेणैव समासः। जहीहि=“ओहाक् त्यागे” इति धातोः प्राप्तकाले लोट्, सेर्हित्वे “आ च हौ” इति चकाराद्वैकल्पिक ईकारः।

** भावाऽर्थः**—हे सीते ! युवतिस्त्वं युवानं मां प्राप्नुहि, रामो राज्यात्प्रभ्रश्य मृगयाऽपदेशेन त्वत्परित्यागेन देशान्तरं गत्वा वा पापीयानस्ति, अतो निर्धनंतं त्यज।

भाषाऽर्थः—हे शुभे ! हे पुरुषयोग्ये ! तरुणी तुम, स्त्रियों को योग्य और तरुण मेरे पास रहो। रामचन्द्र राज्यसे भ्रष्ट हो कर भाग्यहीन हैं, अत एव निर्धन उनको छोड़ दो॥९१॥

अश्नीतपिबतीयन्ती प्रसिता स्मरकर्मणि।
वशेकृत्य दशग्रीवं मोदस्व वरमन्दिरे॥९२॥

** अन्वयः**—अश्नीतपिबतीयन्ती स्मरकर्मणि प्रसिता (सती) दशग्रीवं वशेकृत्य वरमन्दिरे मोदस्व।

प्रयोगप०—अश्नीतपिबतीयन्ती प्रसितया (त्वया) मुद्यताम्।

व्याख्या—अश्नीतपिबतीयन्ती=स्वामिनी (सती), स्मरकर्मणि=कामव्यापारे, प्रसिता=तत्परा (सुरताऽऽसक्ता सतीत्यर्थः), दशग्रीवं=रावणं (मामित्यर्थः), वशेकृत्य=स्वाऽधीनं कृत्वा, वरमन्दिरे=सुन्दरभवने, मोदस्व=हर्षं जनय।

व्युत्पत्तिः—अश्नीतपिबतीयन्ती=अश्नीत पिबतेत्येवं सततं यस्याम् (क्रियायाम्) अभिधीयते सा अश्नीतपिबता (क्रिया), सर्वनियामकत्वं स्वाम्यमिति

यावत्, मयूरव्यंसकादिषु “आख्यातमाख्यातेन क्रियासातत्ये” इति समासः। अश्नीतपिबतामात्मन इच्छन्ती अश्नीत-पिबतीयन्ती, “सुप आत्मनः क्यच्” इति क्यच्, ततो लटः शतरि ङीप्। स्मरकर्मणि स्मरस्य कर्म स्मरकर्म, तस्मिन् (ष० त०)। प्रसिता=“तत्परे प्रसिताऽऽसक्तौ” इत्यमरः। दशग्रीवं=दश ग्रीवा यस्य स दशग्रीवस्तम् (बहु०) । वशे कृत्य=वशे कृत्वेति विग्रहे “साक्षात्प्रभृतीनि च” इति गतिसंज्ञायां समासे क्त्वो ल्यप् । वरमन्दिरे=वरं च तन्मन्दिरं वरमन्दिरं तस्मिन् (क० धा०)।

** भावाऽर्थः**—हे सीते ! त्वं स्वामिनी भूत्वा सुरताऽऽसक्ता सती मां रावणमधीनं विधाय श्रेष्ठभवने आनन्दमनुभव।

** भाषाऽर्थः**—हे सीते ! तुम स्वामिनी हो कर सुरतमें आसक्त होती हुई मुझ रावणको अपने वश में कर उत्तम भवन में आनन्दका अनुभव करो॥९२॥

मा स्म भूर्ग्राहिणी भीरु ! गन्तुमुत्साहिनी भव।
उद्भासिनी च भूत्वा मे वक्षःसंमर्दिनी भव॥९३॥

अन्वयः—हे भीरु ! ग्राहिणी मा स्म भूः, गन्तुम् उत्साहिनी भव, उद्भासिनी च भूत्वा मे वक्षःसंमर्दिनी भव।

प्रयोगप०—(त्वया) ग्राहिण्या मा स्म भावि, उत्साहिन्या भूयताम् ; उद्भासिन्या मे वक्षःसंमर्दिन्या भूयताम्।

व्याख्या—हे भीरु=हे भयशीले !, ग्राहिणो=आग्रहयुक्ता (‘नाऽहं गमिष्यामी’त्युक्त्वा प्रतिकूलेत्यर्थः), मा स्म भूः=न भव, गन्तुं=यातुम्, उत्साहिनी=उत्साहशालिनी, भव=एधि, उद्भासिनी च=शोभमाना च, भूत्वा, मे=मम, वक्षः संमर्दिनी=उ रःपीडयित्री, भव= एधि (आलिङ्गेत्यर्थः)।

व्युत्पत्तिः—गृह्णातीति ग्राहिणी, “ग्रह उपादाने” इति धातोः “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः” इति ग्रह्यादित्वात्कर्तरि णिनिस्ततः स्त्रीत्वविवक्षायाम् “ऋनेभ्यो ङीप्” इति ङीप्। मास्म भूः=“स्मोत्तरे लङ्च” इति चकारात् लुङ्। उत्साहिनी= उत्सहत इति विग्रहे पूर्ववत् णिनिः। उद्भासिनी=उद्भासत इति विग्रहे पूर्वसूत्रेणैव णिनिः। वक्षःसंमर्दिनी=संमर्दत इति संमर्दिनी, संपूर्वकात् “मृद मर्दने” इति धातोः णिन्यादिप्रक्रिया पूर्ववत्। वक्षसः संमर्दिनी (ष० त०)।

 **भावाऽर्थः**—हे भीरु ! आग्रहयुक्ता मा भूः, गन्तुमुत्साहं कुरु; शोभमाना

च भूत्वा मामालिङ्ग।

** भाषाऽर्थ**:—हे भीरु ! आग्रहशीला मत हो, लङ्कामें जाने के लिए उत्साह करो; शोभित होकर मुझे आलिङ्गन करो॥९३॥

तां प्रातिकूलिकीं मत्वा जिहीर्षुर्भीमविग्रहः।
बाहूपपीडमाश्लिष्य जगाहे द्यां निशाचरः॥९४॥

** अन्वयः**—निशाचरः तां प्रातिकूलिकीं मत्वा जिहीर्षुः भीमविग्रहः (सन्) बाहूपपीडम् आश्लिष्य द्यां जगाहे।

** प्रयोगप०**—निशाचरेण^(…) जिहीर्षुणा भीमविग्रहेण (सता) द्यौर्जगाहे।

** व्याख्या**—निशाचरः=राक्षसः (रावणः), तां=सीतां, प्रातिकूलिकीं=प्रतिकूलवर्तिनीं(अनुनयाऽसाध्यामित्यर्थः), मत्वा= ज्ञात्वा, जिहीर्षुः=बलात् हरणेच्छुः, भीमविग्रहः=भयङ्करशरीरः (भयोत्पादनाय प्रकटीकृतनिजाकारः सन्नित्यर्थः), बाहूपपीडं= बाहुभ्यामुपपीडय, आश्लिष्य=आलिङ्ग्य(गृहीत्वेत्यर्थः), यां=दिवं (आकाशम्), जगाहे जगाम।

व्युत्पत्तिः—प्रातिकूलिकीं=प्रतिकूलं वर्तत इति प्रातिकूलिकी तां, “तत्प्रत्यनुपूर्वमीपलोमकूलम्” इति ठक्। जिहीर्षुः=हर्तुमिच्छुः (सन्नन्तादुः)।भीमविग्रहः=भीमो विग्रहो यस्य सः (बहु०)। बाहूपपीडं=बाहुभ्यामुपपीड्येति विग्रहे “सप्तम्यां चोपपीडरुधकर्षः” इति णमुल्। यां=दिवशब्दादन्य ओकाराऽन्तो द्योशब्दस्तस्याऽमि “औतोऽम्शसोः” इत्यात्वम्, “द्योदिवौ द्वे स्त्रियामभ्रं व्योमपुष्करमम्बरम्।” इत्यमरः॥

भावाऽर्थः—रावणः सीतां स्वेच्छायाः प्रतिकूलवर्तिनीं ज्ञात्वा बलाद्धरणेच्छुः सन् स्वाकारं प्रकाश्य बाहुभ्यामुपपीड्य गृहीत्वाऽऽकाशमार्गेण जगाम॥

** भाषाऽर्थः**—रावण सीताको अनुनयसे वश में न होनेवाली जान कर हरणकी इच्छासे अपना भयङ्कर शरीरको प्रकट कर बाहुको पीडित कर उन्हें पकड़ आकाश मार्गसे चला॥९४॥

त्रस्यन्तीं तां समादाय यातो रात्रिञ्चराऽऽलयम्।
तूष्णींभूय भयादासाञ्चक्रिरे मृगपक्षिणः॥९५॥

** अन्वयः**—त्रस्यन्तीं तां समादाय रात्रिञ्चराऽऽलयं यातः (रावणात्) भयात् मृगपक्षिणः तूष्णींभूय आसाञ्चक्रिरे॥

** प्रयोगप०** —मृगपक्षिभिरासाञ्चक्रे॥

व्याख्या—त्रस्यन्तीं=बिभ्यतीं (रावणरूपदर्शनादिति भावः), तां=सीतां, समादाय=गृहीत्वा, रात्रिञ्चराऽऽलयं=राक्षसवास-स्थानं (लङ्कामित्यर्थः), यातः=गच्छतः (रावणात्=दशमुखात्), भयात्=भीतेः(इव), मृगपक्षिणः=पशुपक्षिणः, तूष्णींभूय= मौनीभूय, आसाञ्चक्रिरे=आसितवन्तः (न तु न्यवारयन्नित्यर्थः। तेन निवारकान्तराऽभावो व्यज्यत इत्यलङ्कारेण वस्तुध्वनिः)॥

**व्युत्पत्तिः**—त्रस्यन्तीं=त्रस्यतीति त्रस्यन्ती, तां, “त्रसी उद्वेगे” इति धातोर्लटः शत्रादेशः रात्रिञ्चराऽऽलय=रात्रौ चरन्तीति रात्रिञ्चराः, "चरेष्ट" इति टः, “रात्रेः कृति विभाषा" इति पक्षे मुमागमः, “रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः” इत्यमरः। रात्रिञ्चराणामालयो रात्रिचरालयस्तम् (ष० त०)। यातः=यातीति यान् तस्मात्, यातेः शत्रन्तात् “भीत्राऽर्थानां भयहेतुः” इत्यपादानत्वात्पञ्चमी। मृगपक्षिणः=मृगाश्च पक्षिणश्च (द्वन्द्वः)। तूष्णींभूय=तूष्णीं भूत्वा इति विग्रहे "तूष्णीमि भुवः" इति पक्षे क्त्वाप्रत्ययः "क्त्वा च" इति पक्षे समासे ल्यबादेशः, “मौने नु तूष्णीं तूष्णीकाम्" इत्यमरः। आसाञ्चक्रिरे="आस उपवेशने” इति धातोर्लिट् “दयायासश्च" इत्याम्॥

भावाऽर्थः—बिभ्यतीं सीतामादाय लङ्कां गच्छतो रावणात् भीत्या इव पशुपक्षिणो मौनिनो भूत्वा स्थितवन्तः॥

भाषाऽर्थः—डरती हुई सीताको ले कर जाते हुए रावणसे पशु पक्षी भी डरे हुए की तरह चुपचाप हो कर रहे॥९५॥

उच्चैरारस्यमानां तां कृपणां रामलक्ष्मणौ।
जटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन्॥९६॥

अन्वयः—उच्चैः रामलक्ष्मणौ रारस्यमानां कृपणां तां जटायुः पक्षीन्द्रः रावणं परुषं वदन् प्राप॥

प्रयोगप०—रारस्यमाना कृपणा सा जटायुषा पक्षीन्द्रेण वदता प्रापे॥

व्याख्या—उच्चैः=उच्चस्वरं, रामलक्ष्मणौ=पतिदेवरौ, रारस्यमानां=हा राम हा लक्ष्मणेति आह्वयमानां, कृपणां=दीनां, तां=सीतां, जटायुः=जटायुनामकः, पक्षीन्द्रः=विहङ्गराजः (गृध्रराजः), रावणं=दशाननं, परुषं=रे रे चोर दुरात्मन् क्वयासीत्यादिनिष्ठुरं, वदन्=कथयन्, प्राप=प्राप्तवान्॥,

** व्युत्पत्तिः**—रामलक्ष्मणौ=रामश्च लक्ष्मणश्च रामलक्ष्मणौ तौ (द्वन्द्वः)। रारस्यमानां=रारस्यत इति रारस्यमाना, तां, “रस शब्दे” इति यङन्ताद्धातोर्लटः शानचि टाप्। पक्षीन्द्रः=पक्षिणामिन्द्रः (ष० त०)॥

भावाऽर्थः— हा राम ! हा लक्ष्मणेति उच्चस्वरमाह्वयमानां दीनां सीतां जटायुर्नाम गृध्रराजो रावणं “रे रे चोर ! दुरात्मन् क्वयासी”त्यादि निष्ठुरं वदन्प्राप्तवान्॥

भाषाऽर्थः—ऊँचे स्वरों से “हा राम ! हा लक्ष्मण” ऐसा कहती हुई दुःखिनी सीताके पास जटायु नामके गृध्रराज रावणको कठोर वचन कहते हुए पहुंचे॥९६॥

इति प्रकीर्णकाण्डः प्रथमः समाप्तः।

अतः परमधिकारकाण्डम्।

( तत्र प्रथमं टाधिकारः)

द्विषन्वनेचराग्र्याणां त्वमादायचरो वने।
अग्रेसरो जघन्यानां मा भूः पूर्वसरो मम॥९७॥

अन्वयः—हे द्विषन् ! वने वनेचराऽग्न्याणाम् आदायचरः जघन्यानाम् अग्रेसरः त्वं मम पूर्वसरः मा भूः।

**प्रयोगप०**—^(…)आदायचरेण अग्रेसरेण त्वया मम पूर्वसरेण मा भावि।

व्याख्या—हे द्विषन्=हे अमित्र !, वने=अस्मिन् अरण्ये, वनेचराऽग्न्याणां=तवस्विश्रेष्ठानाम्, आदायचरः=आच्छिद्य भक्षकः, जघन्यानां नीचानाम्, अग्रेसरः=पुरःसरः (अधमाऽधमः), त्वं=रावणः, मम=जटायुषः, पूर्वसरः=अग्रयायी, मा भूः=न भव।

व्युत्पत्तिः—द्विषन्=द्वेष्टीति द्विषन्, तत्सम्बुद्धौ “द्विष अप्रीतौ” इति धातोः ‘“द्विषोऽमित्रे” इति शतृप्रत्ययः, “रिपौ वैरिसपत्नाऽरिद्विषद्वेषणदुर्हृदः।” इत्यमरः। वनेचराऽग्र्याणां=वने चरन्तीति वनेचराः “चरेष्ट” इति टप्रत्ययः, “तत्पुरुषे कृति बहुलम्” इत्यलुक्। वनेचरेषु अग्र्यावनेचराऽग्र्याः(स० त०), तेषाम् (कर्मणि षष्ठी)। आदायचरः=आदाय (गृहीत्वा) चरति (भक्षयति) इत्यादायचरः “भिक्षासेनादायेषु च” इति टः। जघन्यानां=जघनमिव जघन्यास्तेषां, “शाखादिभ्यो यः” इति यः। अग्रेसरः=अग्रे सरतीति अग्रेसरः “पुरोऽग्रतोऽग्रेषु सर्तेः” इति टः, “अग्रे” इति एदन्तत्वनिपातश्च। पूर्वसरः=पूर्वःसरतीति,

“पूर्वे कर्तरि” इति टः।

भावाऽर्थः—हे शत्रो ! तापसभक्षकोऽधमाऽधमस्त्वं मम अग्रयायी न भव।

भाषाऽर्थः—हे शत्रो ! तपस्वियोंको भक्षण करनेवाला और अधमाऽधम तू मेरा अग्रयायी मत हो॥९७॥

यशस्करसमाचारं ख्यातं भुवि दयाकरम्।
पितुर्वाक्यकरं रामं धिक्त्वां दुन्वन्तमत्रपम्॥८॥

**अन्वयः**—यशस्करसमाचारं भुवि ख्यातं दयाकरं पितुः वाक्यकरं रामं दुन्वन्तम् अत्रपं त्वां धिक्।

**व्याख्या**—यशस्करसमाचारं=कीर्तिहेतुचरित्रं, भुवि=पृथिव्यां, ख्यातं=प्रसिद्धं, दयाकरं=करुणाशीलं, पितुः= जनकस्य (दशरथस्य), वाक्यकरम्=आज्ञाकरं (अनुकूलवर्तिनमित्यर्थः), रामं=रामचन्द्रं, दुन्वन्तं=परितापयन्तम्, अत्रपं= निर्लज्जं, त्वां=रावणं, धिक्=निन्दाम इत्यर्थः।

व्युत्पत्तिः—यशस्करसमाचारं=यशः करोतीति यशस्करः “कृञो हेतुताच्छील्यानुलोम्येषु” इति हेत्वर्थे टः, “अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य” इति विसर्जनीयस्य सत्वम्। यशस्करः समाचारो यस्य सः यशस्करसमाचारस्तम् (बहु०)। ख्यातं=“प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः।” इत्यमरः। दयाकरं=दयां करोतीति तच्छीलो दयाकरस्तं, पूर्वसूत्रेण ताच्छील्ये टः। वाक्यकरं=वाक्यं करोतीति वाक्यकरस्तं पूर्वसूत्रेणैव आनुलोम्ये (आनुकूल्ये) टः। दुन्वन्तं=दुनोतीति दुन्वन् तं “टु दु उपतापे” इति धातोः शतृप्रत्ययः। अत्रपं=न विद्यते त्रपा यस्य सः अत्रपस्तम् (नञ् बहु०) । त्वां=धिग्योगे द्वितीया।

भावाऽर्थः—यशोहेतुना चरित्रेण विराजमानं लोकप्रसिद्धं करुणाशीलं पितुरनुकूलवर्तिनं रामं सीताऽपहरणेन पीडयन्तं निर्लज्जं त्वां धिक्।

** भाषाऽर्थः**—जिसका चरित्र यशका हेतु है। पृथ्वी में प्रसिद्ध, करुणाशील और पिताके अनुकूलवर्ती रामको पीडित करनेवाले निर्लज्ज तुझको धिकार है॥९८॥

अहमन्तकरो नूनं ध्वान्तस्येव दिवाकरः।
तव राक्षस ! रामस्य नेयः कर्मकरोपमः॥९६॥

**अन्वयः**—हे राक्षस ! रामस्य कर्मकरोपमः नेयः अहं ध्वान्तस्य दिवाकरः

इव तव अन्तकरः नूनम्।

**प्रयोगप०**—कर्म करोपमेन नेयेन मया ध्वान्तस्य दिवाकरेण इव तव अन्तकरेण (भूयते) नूनम्।

व्याख्या—हे राक्षस=हे रावण !, रामस्य=रामचन्द्रस्य, कर्मकरोपमः=भृत्यसदृशः, नेयः=नेतव्यः (वश्य इत्यर्थः), अहं= जटायुः, ध्वान्तस्य=अन्धकारस्य, दिवाकर इव=दिनकर इव, तव=रावणस्य, अन्तकरः=नाशकरः, नूनं निश्चितम्।

व्युत्पत्तिः—कर्मकरोपमः=कर्म करोतीति कर्मकरः, “कर्मणि भृतौ” इति भृतौ टः, तद्भिन्नाऽर्थे तु कर्मकारः। “भरण्यभुक्कर्मकरः कर्मकारस्तु तत्क्रियः।” इत्यमरः। कर्मकरेण उपमा यस्य सः (व्यधि० बहु०)। नेयः=नेतुं योग्यः “अचो यत्” इति यत्। दिवाकरः=दिवा करोतीति विग्रहे “दिवाविभे"त्यादिना टप्रत्ययः। अन्तकरः=अन्तं करोतीति विग्रहे पूर्वसूत्रेण टः।

**भावाऽर्थः**—हे रावण ! अहं रामस्य भृत्यतुल्यो वश्योऽस्मि, अतो यथा सूर्योऽन्धकारं नाशयति तथैवाऽहमपि नूनं त्वां नाशयामि।

** भाषाऽर्थः**—हे रावण ! मैं रामके भृत्य के सदृश वशवती हूं, अतः जैसे सूर्य अन्धकारका नाश करते हैं, निश्चय उसी तरह तेरा भी नाश करता हूँ॥९९॥

सतामरुष्करं पक्षी वैरकारं नराशिनम्।
हन्तुं कलहकारोऽसौ शब्दकारः पपात खम्॥१००॥

अन्वयः—सताम् अरुष्करं वैरकारं नराशिनं हन्तुं कलहकारः असौ पक्षी शब्दकारः (सन्) खम् उत्पपात।

प्रयोगप०—^(..) कलहकारेण अमुना पक्षिणा शब्दकारेण (सता) खम् उत्पेते।

व्याख्या—सतां=सज्जनानाम्, अरुष्करं=व्रणकरं (पीडाकरमित्यर्थः), वैरकारं=सीताहरणेन वैरायमाणं, नराशिनं= मनुष्यभक्षकं (रावणम्) हन्तुं=नाशयितुं, कलहकारः=युद्धकरः, असौ=अयं, पक्षो=विहङ्गः (जटायुरित्यर्थः), शब्दकारः=सिंहनादकरः (सन्), खम्=आकाशम्, उत्पपात=उज्जगाम।

व्युत्पत्तिः—अरुष्करम्=अरुः करोतीति अरुष्करस्तं, “दिवाविभे”त्यादिना टः। वैरकारं=वैरं करोतीति वैरकारस्तं,“न शब्दे"त्यादिना टप्रतिषेधात् “कर्मण्यण्” इत्यण्। कलहकारः=पूर्ववत् टप्रत्ययनिषेधादण्। शब्दकारः=पूर्ववत्प्रक्रिया। “शब्दकार”मित्यत्र “द्वितीयायां च” इति णमुल् इति केचित्। पक्षी

शब्दकारं (सिंहनादं कृत्वा) खमुत्पपातेति साधीयानेवाऽयमर्थः, किन्तु “न शब्दे”त्यादिसूत्रोदाहरणप्रक्रमभङ्गदोषः सोढव्यः स्यादिति मल्लिनाथः। “शब्दपातम्” इति जयमङ्गलसम्मतः पाठस्तत्र शब्दस्य पातो यस्मिन्निति विग्रहेण व्यधिकरण-बहुव्रीहिः। यावति दूरे शब्दपातस्तावत्खमित्यर्थः।

**भावाऽर्थः**—सज्जनपीडकं सीताहरणेन वैरायमाणं रावणं हन्तुं जटायुः सिंहनादं कृत्वा आकाशमुज्जगाम।

भाषाऽर्थः—सज्जनोंका पीडक, सीताहरणसे वैर करनेवाले रावणको मारनेके लिए युद्ध करनेवाले जटायु सिंहनाद करके आकाश में उड़े॥१००॥

इति टाऽधिकारः।

अतः परं प्रकीर्णकाः।

धुन्वन्सर्वपथीनं खे वितानं पक्षयोरसौ।
मांसशोणितसन्दर्शंतुण्डघातमयुध्यत॥१०१॥

** अन्वयः**—असौ खे सर्वपथीनं पक्षयोः वितानं धुन्वन् मांसशोणितसन्दर्शंतुण्डघातम् अयुध्यत।

प्रयोगप०—अमुना^(…) धुन्वता अयुध्यत।

व्याख्या—असौ=जटायुः, खे=आकाशे, सर्वपथीनं सकलमार्गव्यापकं, पक्षयोः=पतत्रयोः, वितानं=विस्तारं, धुन्वन्= कम्पयन् (विततौ पक्षौ धुन्वन्नित्यर्थः), मांसशोणितसन्दर्शं=सर्वे मांसशोणिते सन्दर्श्य, तुण्डघातं=चञ्चुप्रहारपूर्वकम् (यथा तथा), अयुध्यत=युद्धं कृतवान्।

व्युत्पत्तिः—सर्वपथीनं=सर्वे च ते पन्थानः सर्वपथाः, “पूर्वकालैके”त्यादिना समासः “ऋक्पूरब्धूः पथामानक्षे” इति समासाऽन्तः अः। सर्वपथान्व्याप्नोतीति सर्वपथीनस्तं, “तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति” इति खप्रत्ययः “आयनेयी"त्यादिना खस्येनः। मांसशोणितसन्दर्शं=मांसं च शोणितं च मांसशोणिते (द्वन्द्वः), साकल्येन मांसशोणिते सन्दर्श्येति विग्रहे “कर्मणि दृशिविदोसाकल्ये” इति णमुल्, दृशिरन्तर्हितण्यर्थः। “अमैवाऽव्ययेन” इति समासः। तुण्डघातं हननं घातः, “हन हिंसायाम्” इति धातोः “भावे” इति घञ् “हनस्तोऽचिण्णलोः” इति हन्तेस्तकारादेशः “हो हन्तेर्ञ्णिन्नेषु” इति कुत्वम्। तुण्डेन घातो यस्मिन् (कर्मणि) तद्यथा तथा (व्यधि० बहु०), “करणे हनः” इति

ण्मुलतत्वे पादघातं हन्तीतिवत् “कषादिषु यथाविध्यनुप्रयोगः” इति यथाविध्यनुप्रयोगः स्यात्। न च “हिंसाऽर्थानां च समानकर्मकाणाम्” इति णमुल्, अनुप्रयोगस्य युधेरकर्मकत्वेन समानकर्मकत्वाऽभावात्। अयुध्यत=युधेर्दैवादिकाल्लङि तङ्।

भावाऽर्थः—जटायुराकाशे विततौ पक्षौ धुन्वन् साकल्येन मांसरक्ते सन्दर्श्य चञ्चुप्रहारपूर्वकं युद्धं कृतवान्।

भाषाऽर्थः—जटायु आकाशमें फैले हुए परोंको कम्पित करते हुए मांस रक्तप्रदर्शनपूर्वक चञ्चुप्रहार कर लड़ने लगे॥ १०१॥

न विभाय, न जिह्राय, न चक्लाम, न विव्यथे।
आघ्नानो विध्यमानोऽपि रणान्निववृते न च॥१०२॥

** अन्वयः**—आघ्नानः विध्यमानः अपि न बिभाय, न जिह्राय, न चक्लमे, न विव्यथेन निववृते।

** प्रयोगप०**—आध्नानेन विध्यमानेनाऽपि (तेन) न बिभ्ये, न जिह्रिये, न चक्लमे, न विव्यथे न निववृते च।

** व्याख्या**—(जटायुः। नानः=स्ववमेव परं (रावणम्) घ्नन्, विध्यमानः अपि=परेण (रावणेन) व्याहन्यमानः अपि न बिभाय=न अभैषीत् (शूरत्वादिति भावः), न जिह्राय=न लज्जितवान् (अपराजितत्वादिति भावः), न चक्लाम=न क्लान्तवान् (जितश्रमत्वादिति भावः), न विव्यथे=न व्यथते स्म, रणात् च=सङ्ग्रामात् च, न निववृते=न उपरराम (रणादनिवर्तनं च विजयावधिकं स्वप्राणत्यागाऽवधिकं वाऽऽसीदिति भावः)।

व्युत्पत्तिः—आघ्नानः=आङ्पूर्वकादकर्मकाद्धन्तेः “आङो यमहनः” इत्यात्मनेपदम्। “गमहने"त्यादिना उपधालोपः। विध्यमानः=“व्यध ताडने” इति धातोः कर्मणि यकि सम्प्रसारणम्। न बिभाय, न जिह्राय=“ञिभी भये” “ह्रीलज्जायाम्” इति धातुभ्यां लिटि तिपो णलि वृद्ध्यायादेशौ। विव्यथे=“व्यथ भयसञ्चलनयोः” इति धातोर्लिटि “व्यथो लिटि” इत्यभ्यासस्य सम्प्रसारणम्।

भावाऽर्थः—जटायू रावणं स्वयमेव प्रहरन् तेन व्याहन्यमानोऽपि शूरत्वान्न लज्जितः, जितश्रमत्वान्न क्लान्तः, मनस्वित्वात् व्यथां न गतः सङ्ग्रामाच्च न निवृत्तः।

भाषाऽर्थः—जब जटायुने रावणको प्रहार किया, तब रावणसे चोट

खाकर भी वे नहीं डरे, लज्जित, क्लान्त और व्यथित नहीं हुए और युद्धस्थलसे भी नहीं हटे॥१०२॥

पिशाचमुखधौरेयं सच्छत्रकवचं रथम्।
युधि कद्रथवद्भीमं बभञ्ज ध्वजशालिनम्॥१०३॥

अन्वयः—(जटायुः) युधि पिशाचमुखधौरेयं सच्छत्रकवचं ध्वजशालिनं भीमं रथं कद्रथवत् बभञ्ज।

प्रयोगप०—(जटायुषा) पिशाचमुखधौरेयः सच्छत्रकवचो ध्वजशाली भीमो रथः कद्रथवत् बभञ्जे।

व्याख्या—(जटायुः) युधि=संग्रामे, पिशाचमुखधौरेयं=पिशाचाननाऽश्वं, सच्छत्रकवचं=आतपत्रवर्मसहितं, ध्वजशालिनं= पताकाशोभिनं, भीमं=भयकरं (महान्तमपीति भावः), रथं=स्यन्दनं (रावणस्येति शेषः), कद्रथवत्=क्षुद्रस्यन्दनमिव, बभञ्ज=भग्नवान्।

**व्युत्पत्तिः**—पिशाचमुखधौरेयं=धुरं (भारम्) वहन्तीति धौरेयाः (अश्वाः), “धुरो यड्ढकौ” इति ढक्। पिशाचस्येव मुखं येषां ते पिशाचमुखाः (व्यधि० बहु ०), ते धौरेया यस्य स पिशाचमुखधौरेयस्तम् (बहु०)। सच्छत्रकवचं=छत्रं च कवचश्च छत्रकवचौ (द्वन्द्वः), छत्रकवचाभ्यां सहितः सच्छत्रकवचस्तं, “तेन सहेति तुल्ययोगे" इति बहुव्रीहिः। जयमङ्गलमते सन्तौ (शोभनौ) छत्रकवचौ यस्मिन्स सच्छत्रकवचस्तम् (बहु०)। ध्वजशालिनं=ध्वजेन शालत इति ध्वजशाली, तं, “शाडृ श्लाघायाम्” इति धातोः (डलयोरभेदात्) “सुप्यजातौ णिनिस्ताच्छील्ये” इति ताच्छील्ये णिनिः। कद्रथवत्=कुत्सितो रथः कद्रथः, “कुगतिप्रादय" इति समासः " रथवदयोश्च" इति कोः कद्रदेशः। कद्रथेन तुल्यमिति विग्रहे "तेन तुल्यं क्रिया चेद्वतिः" इति वतिः।

भावाऽर्थः—जटायुः पिशाचमुखैरश्वैर्वाहितं छत्रकवचयुक्तं पताकाशोभिनं महान्तमपि रावणरथं क्षुद्ररथमिव भग्नवान्।

भाषाऽर्थः—जटायुने संग्राम में पिशाच की तरह मुखवाले घोड़ोंसे वाहित, छत्र और कवचसे युक्त, पताकासे शोभित रावणको भयङ्कर रथको भी क्षुद्र रथकी तरह भग्न कर दिया॥१०३॥

इति प्रकीर्णकाः।

अतः परमामधिकारः।

संत्रासयाञ्चकाराऽरिं, सुरान्पिप्राय पश्यतः।
सन्त्याजयाञ्चकाराऽथ सीतां विंशतिबाहुना॥१०४॥

अन्वयः—(जटायुः) अरिं सन्त्रासयाञ्चकार, पश्यतः सुरान् पिप्राय, अथ विंशतिबाहुना सीतां सन्त्याजयाञ्चकार।

प्रयोगप०—(जटायुषा) अरिः सन्त्रासयाञ्चक्रे, पश्यन्तः सुराः पिप्रियिरे, विंशतिबाहुना सीता सन्त्याजयाञ्चक्रे।

व्याख्या—(जटायुः) अरिं=रावणं, सन्त्रासयाञ्चकार=भीषयाञ्चके, पश्यतः=अवलोकयतः, सुरान्=देवान्, पिप्राय =प्रीणयामास (रावणस्य सन्त्रासनाद्देवाः प्रीता अभवन्निति भावः), अथ=देवप्रीणनाऽनन्तरं, विंशतिबाहुना=दशाननेन (रावणेन), सीतां=मैथिलीं, सन्त्याजयाञ्चकार=त्याजितवान्।

व्युत्पत्तिः—सन्त्रासयाञ्चकार=णिजन्तात् “त्रसी उद्वेगे” इति धातोर्लिटि “कास्प्रत्ययादाममन्त्रे लिटि” इत्याम् “अयामन्तात्वाय्येत्विष्णुघु” इति णेरयादेशः “कृञ्चाऽनुप्रयुज्यते लिटि” इति कृञोऽनुप्रयोगः। पिप्राय=प्रीणातेः (“प्रीञ् तर्पणे कान्तौ च” इति धातोः) लिटि तिपो णलि वृद्ध्यायादेशौ। विंशतिबाहुना=विंशतिर्बाहवो यस्य स विंशतिबाहुस्तेन (बहु०)। सन्त्याजयाञ्चकार=“सन्त्रासयाञ्चकार” इत्यत्रेव प्रक्रिया।

**भावाऽर्थः**—जटायू रावणं भीषयाञ्चक्रे, स्वपौरुषं विलोकयतो देवान्प्रीणितवान् ; तदनन्तरं रावणेन सीतां त्याजितवान्।

**भाषाऽर्थः**—जटायुने रावणको त्रस्त किया, अपने पराक्रमको देखनेवाले देवताओंको प्रसन्न किया और रावणसे सीताका परित्याग कराया॥१०४॥

असीतो रावणः कासाञ्चक्रे शस्त्रैर्निराकुलः।
भूयस्तं बेभिदाञ्चक्रे नखतुण्डायुधः खगः॥१०५॥

** अन्वयः**—असीतः रावणः शस्त्रैः निराकुलः (सन्) कासाञ्चक्रे, खगः नखतुण्डायुधः (सन्) भूयः तं बेभिदाञ्चक्रे!

** प्रयोगप०**—असीतेन रावणेन निराकुलेन (सता) कासाञ्चक्रे, खगेन नखतुण्डायुधेन (सता) स बेभिदाञ्चके।

** व्याख्या**— (अथ=अनन्तरम्) असीतः=त्यक्तसीतकः, रावणः=शद-

मुखः, शस्त्रैः=आयुधैः (साधनैः), निराकुलः=अनाकुलः(सन्), कासाञ्चक्रे=कुत्सितमभिहितवान् (रे मूर्ख ! विहगाऽधम ! हतोऽसीति प्रललापेत्यर्थः), खगः=पक्षो (जटायुः), नखतुण्डायुधः=नखरमुखशस्त्रः (सन्), भूयः=पुनरपि, तं=रावणं, वेभिदाञ्चक्रे=भृशं भिन्नवान्।

व्युत्पत्तिः—असीतः=अविद्यमाना सीता यस्य सः (नब्बहु०)। कासाञ्चक्रे=“कासृ शब्दकुत्सायाम्” इति धातोर्लिटि “कास्प्रत्ययादाममन्त्रे लिटि” इत्याम्प्रत्ययः। खगः=खे गच्छतीति विग्रहे “अन्येभ्योऽपि दृश्यते” इति डः। नखतुण्डायुधः=नखाश्च तुण्डं च नखतुण्डं, “द्वन्द्वश्च प्राणितूर्यसेनाऽङ्गानाम्” इति प्राण्यङ्गत्वात्समाहारद्वन्द्वः। नखतुण्डमेव आयुधं यस्य सः (बहु०)। बेभिदाञ्चक्रे=“भिदिर् विदारणे” इति यङन्ताद्धातोर्लिट् “कास्प्रत्ययादाममन्त्रे लिटि” इत्याम्, यङो ङित्वात्तङि तद्वदनुप्रयोगात्कृञोऽपि तङ्, “गुणो यङ्लुकोः” इत्यभ्यासस्य गुणः, अल्लोपयलोपौ।

** भावाऽर्थः**—परित्यक्तसीतो रावणः शत्रुनाशसाधनभूतैः शस्त्रैरनाकुलो भूत्वा “रे मूर्ख! विहगाऽधम!” इति प्रललाप, जटायुरपि नखैश्चञ्चुभ्यां च तं भृशं भिन्नवान्।

भाषाऽर्थः—रावण सीताको परित्याग कर शस्त्ररूप साधनों से आकुलता रहित हो कर “हे मूर्ख ! अधमपक्षिन् ! अब तू मारा जायगा” ऐसा कहने लगा। जटायुने भी नाखून और चोंचोंसे फिर उसपर प्रहार किया॥ १०५॥

हन्तुं क्रोधवशादीहाञ्चक्राते तौ परस्परम्।
न वा पलायाञ्चक्रे विर्दयाञ्चक्रे न राक्षसः॥१०६॥

** अन्वयः**—तौ क्रोधवशात् परस्परं हन्तुम् ईहाञ्चक्राते। वि र्न पलायाञ्चक्रे, राक्षसो वा न दयाञ्चक्रे।

** प्रयोगप०**—ताभ्याम् ईहाञ्चक्रे। विना न पलायाञ्चकक्रेराक्षसेन वा न दयाञ्चक्रे।

व्याख्या—तौ्=पक्षिराक्षसौ (जटायूरावणौ), क्रोधवशात्=कोपाऽधीनत्वात्, परस्परम्=अन्योन्यं, हन्तुं=हिंसितुम्, ईहाञ्चक्राते=चेष्टां कृतवन्तौ, विः=पक्षी (जटायुः), न पलायाञ्चक्रे=न पलायितः, राक्षसो वा=रावणश्च, न दयाञ्चक्रे=न अनुचकम्पे।

 **व्युत्पत्तिः**— ईहाञ्चक्राते="ईह चेष्टायाम्" इति धातोर्लिटि “इजादेश्चगुरु-

मतोऽनृच्छः” इत्याम्प्रत्ययः। विः=वयतीति विः, “वा गतौ” इति धातोः “वाते,र्डिच्च” इतीण्, “विविष्किरपतत्रयः” इत्यमरः। पलायाञ्चक्रे=परोपसर्गपूर्वकात् “अय गतौ” इति धातोर्लिट्, “उपसर्गस्याऽयतौ” इति लत्वम्। “दयायासश्च” इत्याम्प्रत्ययः। दयाञ्चक्रे=“दय दानगतिरक्षणहिंसादानेषु” इति धातोर्लिट् पूर्वसूत्रेणैव आम्।

भावाऽर्थः—जटायूरावणौ कोपपूर्वकमन्योन्यं हिंसितुं चेष्टितवन्तौ, जटायुर्न पलायितः, रावणो वा न अनुचकम्पे।

भाषाऽर्थः—जटायु और रावण क्रोधके वशवर्ती हो कर एक दूसरेको मारनेकी चेष्टा करने लगे, जटायु नहीं भागे और न रावणने ही दया की॥१०६॥

उपासाञ्चक्रिरे द्रष्टुं देवगन्धर्वकिन्नराः।
छलेन पक्षौ लोलूयाञ्चक्रेक्रव्यात्पतत्रिणः॥१०७॥

** अन्वयः**—देवगन्धर्वकिन्नराः द्रष्टुम् उपासाञ्चक्रिरे, क्रव्यात् छलेन पतत्रिणः पक्षौ लोलूयाञ्चक्रे।

प्रयोगप०—देवगन्धर्वकिन्नरैरुपासाञ्चक्रे। क्रव्यादा पक्षौ लोलूयाञ्चक्राते।

व्याख्या—देवगन्धर्वकिन्नराः=सुरगन्धर्वकिम्पुरुषाः, द्रष्टुं=युद्धदर्शनार्थम्, उपासाञ्चक्रिरे=समीपे स्थिताः, क्रव्यात्= राक्षसः (रावणः), छलेन=मायया (“भल्लेने’ति पाठान्तरं, तत्र आयुधविशेषेणेत्यर्थः), पतत्रिणः=पक्षिणः (जटायुषः), पक्षी=पतत्रे, लोलूयाञ्चक्रे=भृशं लुलाव।

व्युत्पत्तिः—देवगन्धर्वकिन्नराः=दवाश्च गन्धर्वाश्च किन्नराश्चेति विग्रहे “चाऽर्थे द्वन्द्वः” इति द्वन्द्वः। उपासाञ्चक्रिरे=उपपूर्वकात् “आस उपवेशने " इति धातोर्लिट्, “दयायासश्च” इत्याम्प्रत्ययः। क्रव्यात्=क्रव्यमत्तीति विग्रहे “क्रव्ये च” इति विट्, “राक्षसः कौणपः क्रव्यात्” इत्यमरः। लोलूयाञ्चक्रे=“लूञ् छेदने” इति यङन्ताद्धातोर्लिटि “कास्प्रत्ययादाममन्त्रे लिटि” इत्याम्प्रत्ययः।

भावाऽर्थः—देवादयो युद्धदर्शनाऽर्थं समीपमागताः, अस्मिन्नेवाऽन्तरे रावणो विक्रमेण जटायुर्वधोऽसम्भव इति निश्चित्य माययाऽस्य पक्षौ भृशं लूनवान्।

भाषाऽर्थः—देवता, गन्धर्व और किन्नर युद्ध देखनेके लिये उन दोनों के समीप आये, इसी बीचमें रावणने छलसे जटायुके पङ्ख काट लिये॥१०७॥

प्रलुठितमवनौ विलोक्य कृत्तं दशवदनः खचरोत्तमं प्रहृष्यन्।
रथवरमधिगृह्य भीमधुर्यं स्वपुरमगात्परिगृह्य रामकान्ताम्॥१०८॥

** अन्वयः**—(अथ) दशवदनः कृत्तम् अवनौ प्रलुठितं खचरोत्तमं विलोक्य प्रहृष्यन् रामकान्तां परिगृह्य भीमधुर्यं रथवरम् अधिरुह्य स्वपुरम् अगात्।

** प्रयोगप०**—दशवदनेन^(…)प्रहृष्यता^(…) स्वपुरम् अगायि<MISSING_FIG href=”#”/>।

व्याख्या—(अथ=जटायुः पक्षच्छेदनाऽनन्तरम्) दशवदनः=रावणः, कृत्तं=छिन्नपक्षम्, अवनौ=भूमौ, प्रलुठितं=निपत्य लुठन्तं, खचरोत्तमं=पक्षिश्रेष्ठं (जटायुषम्), विलोक्य=दृष्ट्वा, प्रहृष्यन्=हृष्टो भवन्, रामकान्तां सीतां, परिगृह्य=आदाय, भीमधुर्यं=भयत्तराऽश्वं, रथवरं=स्यन्दनश्रेष्ठम्, अधिरुह्य=आदाय, आरुह्य, स्वपुरं=लङ्काम्, अगात्=गतवान्।

 **व्युत्पत्तिः**—दशवदनः=दश वदनानि यस्य सः (बहु०)। खचरोत्तमं=खे चरन्तीति खचराः "चरेष्ट" इति टः। खचरेषु उत्तमः खचरोत्तमस्तम् (स० त०)। भीमधुर्यं=धुरं वहन्तीति धुर्याः “धुरो यड्ढकौ" इति यत्। भीमा धुर्या यस्मिन्स भीमधुर्यस्तम् (बहु०)। "भीमयुग्यम्” इति मल्लिनाथसंमतः पाठः। तत्राऽपि स एवाऽर्थः। युगं वहन्तीति युग्याः (अश्वाः), "तद्वहति रथयुगप्रासङ्गम्” इति यत्प्रत्ययः। रथवरं=रथेषु वरो रथवरस्तम् (स० त०)। स्वपुरं=स्वस्य पूः स्वपुरं, तत् (ष० त०), "ऋक्पूरब्धूः पथामानक्षे" इति समासान्तः अप्रत्ययः। पुष्पिताग्रावृत्तम्, “अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा।" इति लक्षणात्।

भावाऽर्थः—रावणश्छिन्नपक्षं पृथिव्यां निपत्य लुठन्तं जटायुषं दृष्ट्वा हर्षयुक्तो भूत्वा सीतामादाय भयङ्कराऽश्ववाहितं श्रेष्ठरथमारुह्य लङ्कां जगाम।

भाषाऽर्थः—तब रावण पङ्ख कटे हुए और जमीनमें गिरकर फड़फड़ाते हुए जटायुको देख प्रसन्न हो सीताजीको ले कर भयानक घोड़ोंसे युक्त श्रेष्ठ रथमें चढ़कर अपना शहर लङ्कामें गया॥१०८॥

               ** इति श्रीभट्टिकाव्ये व्याख्याद्वयोपेते सीताहरणो नाम पञ्चमः सर्गः।**

**
<MISSING_FIG href=”../books_images/U-IMG-1722751617Screenshot2024-08-04113632.png”/>**


षष्ठः सर्गः।

आमधिकारः (पूर्वागतः)।

ओषाञ्चकार कामाऽग्निर्दशवक्त्रमहर्निशम्।
विदाञ्चकार वैदेहीं रामादन्यनिरुत्सुकाम्॥१॥

** अन्वयः**—कामाऽग्निः अहर्निशं दशवक्त्रम् ओषाञ्चकार। (रावणः) वेदैहीं रामात् अन्यनिरुसुकां विदाञ्चकार।

प्रयोगप०—कामाऽग्निना दशवक्त्र ओषाञ्चक्रे, (रावणेन) वैदेही अन्यनिरुत्सुका विदाञ्चक्रे।

व्याख्या—कामाऽग्निः=मदनाऽनलः, अहर्निशं=रात्रिन्दिवं, दशवक्त्रं=रावणम्, ओषाञ्चकार=ददाह। (रावणः= दशाननः) वैदेहीं=सीतां, रामात्=रामचन्द्रात् अन्यनिरुत्सुकां=रामाऽतिरिक्ताऽनुत्कण्ठितां, विदाञ्चकार=विवेद (ज्ञातवानित्यर्थः)

व्युत्पत्तिः—कामाऽग्निः=काम एवाऽग्निः (रूपक ०)। अहर्निशम्=अहश्च निशा च अहर्निशं, तत् “सर्वो द्वन्द्वो विभाषैकवद्भवती”ति समाहारद्वन्द्वः। “कालाऽध्वनोरत्यन्तसंयोगे” इति द्वितीया। दशवक्त्रः=दश वक्त्राणि यस्य स दशवक्त्रस्तम् (बहु०)। ओषाञ्चकार=“उष दाहे” इति धातोर्लिट् “उषविदजागृभ्योऽन्यतरस्याम्” इति विकल्पादाम्प्रत्ययस्ततो लघूपधगुणः, पक्षान्तरे “उवोष” इत्यपि। रामात्=“अन्यनिरुत्सुकाम्” इति पदस्थेन अन्यपदेन वैवक्षिकसम्बन्धात् “अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते” इति पञ्चमी। अन्यनिरुत्सुकाम्=अन्यस्मिन्निरुत्सुका अन्यनिरुत्सुका, ताम् (स० त०)। विदाञ्चकार=पूर्वसूत्रेणैवाऽऽम्प्रत्ययस्तत्र सूत्रे “विद” इत्यकाराऽन्तनिपातनान्न लघूपधगुणः।

भावाऽर्थः—रावणो यदा सीतां रामाऽतिरिक्त पुरुषेऽनुत्सुकां विवेद, तदा मन्मथाऽनल एनं रात्रिन्दिवं ददाह।

**भाषाऽर्थः—**कामाऽग्निने रावणको दिनरात जलाया और रावणने सीताको रामसे अतिरिक्त पुरुषमें उत्कण्ठारहित जाना॥१॥

प्रजागराञ्चकाराऽरेरीहास्वनिशमादरात्।
बिभयाम्प्रचकाराऽसौ काकुत्स्थादभिशङ्कितः॥२॥

** अन्वयः**—असौ काकुत्स्थात् अभिशङ्कितः अरेः ईहासु अनिशम् आदरात्

प्रजागराञ्चकार बिभयाप्रचकार (च)।

**प्रयोगप०**—अमुना अभिशङ्कितेन प्रजागराञ्चक्रेबिभयाम्प्रचक्रे (च) ।

**व्याख्या**—असौ=रावणः, काकुत्स्थात्=रामात्, अभिशङ्कितः=संजाताऽभिशङ्कः (बलवद्विरोधिताया दुरन्तत्वेन किं भविष्यतीत्युत्प्रेक्षमाण इत्यर्थः), अरेः=शत्रोः (रामस्य), ईहासु=चेष्टासु (उद्योगेषु विषये), अनिशं=निरन्तरम्, आदरात्= अभिनिवेशात्, प्रजागराञ्चकार=जागरितवान् (अप्रमत्तः स्थित इत्यर्थः), बिभयाम्प्रचकार=अतिमात्रं बिभाय (च)।

व्युत्पत्तिः—काकुत्स्थात्=“भीत्राऽर्थानां भयहेतुः” इत्यपादानत्वम्। आदरात्=आदरं विधायेति ल्यबर्थे “ल्यब्लोपे कर्मण्यधिकरणे च” इति कर्मणि पञ्चमी हेतौ वा। प्रजागराञ्चकार=“उषविदेत्यादिना विकल्पादाम्प्रत्ययः। बिभयाम्प्रचकार=“भीह्रीभृहुवां श्लुवच्च” इति विकल्पादाम्प्रत्ययः “श्लौ” इति द्विर्भावो गुणायादेशौ च। प्रोपसर्गव्यवधानं तूक्षाम्प्रचक्रुरितिवत्समाधेयं, “प्रबिभयाञ्चकाराऽसौ” इति जयमङ्गलभरतमल्लिकाऽभ्युपगत पाठे तु पूर्ववच्छन्दोभङ्गः सोढव्यः।

भावाऽर्थः—रावणो रामभीत्या रामोद्योगेषु निरन्तरमप्रमत्तोऽभवत्।

** भाषाऽर्थः**—रावण रामके डर से “अब राम क्या करते हैं” ऐसा विचार कर सावधान रहने लगा॥२॥

न जिह्रयाञ्चकाराऽथ सीतामभ्यर्थ्य तर्जितः।
नाऽप्यूर्जांबिभरामास वैदेह्यां प्रसितो भृशम्॥३॥

अन्वयः—अथ (अयम्) सीताम् अभ्यर्थ्य तर्जितः, (तथाऽपि ) न जिह्रयाञ्चकार। वैदेह्यां भृशं प्रसितः ऊर्जाम् अपि न बिभरामास।

प्रयोगप०—(अनेन) तर्जितेन (बभूवे), न जिह्रयाञ्चक्रे, प्रसितेन ऊर्जा बिभरामासे।

व्याख्या—अथ=सीताया अन्यनिरुत्सुकत्वज्ञानानन्तरं (अयं=रावणः), सीतां=मैथिलीम्, अभ्यर्थ्य=अनुनीय, तर्जितः भत्सितः। (तथाऽपि) न जिह्रयाञ्चकार=न जिहाय। वैदेह्यां=सीतायां, भृशम्=अत्यर्थं, प्रसितः=आसक्तः (सन्), ऊर्जाम् अपि=बलम् अपि न बिभरामास=न बभार।

व्युत्पत्तिः—जिह्रयाञ्चकार=“ह्रीलज्जायाम्” इति धातोः“भीह्री"त्यादिना आम्। प्रसितः=“तत्परे प्रसितासक्तौ” इत्यमरः। बिभरामास=“डुभृञ् धारण-

पोषणयोः” इति धातोः पूर्ववदाम्। “कृञ्चाऽनुप्रयुज्यते लिटि” इत्यत्र “कृञ्” इति प्रत्याहारग्रहणात् अस्तेरप्यनुप्रयोगः।

** भावार्थः**—रावणः सीतामनुनीय तया भर्त्सितोऽभूत्तथाऽपि न जिह्राय, सीतायामत्यासक्त्या दुर्बलश्च सञ्जातः।

** भाषाऽर्थः**—जब रावणने सीतासे प्रार्थना की, तब उन्होंने उसकी भर्त्सना की; तौ भी वह लज्जित न हुआ। रावण सीतामें अत्यन्त आसक्त हो कर दुर्बल भी हो गया॥३॥

विदाङ्कुर्वन्तु रामस्य वृत्तमित्यवदत्स्वकान्।
रक्षांसि रक्षितुं सीतामाशिषच्च प्रयत्नवान्॥४॥

** अन्वयः**—रामस्य वृत्तं विदाङ्कुर्वन्तु इति स्वकान् अवदत् प्रयत्नवान् (सन्) सीतां रक्षितुं रक्षांसि आशिषत् च।

प्रयोगप०—“वृत्तं विदाङ्क्रियताम्” इति स्वका औद्यन्त, प्रयत्नवता (सता) रक्षांसि आशासिषत च।

** व्याख्या**—(रावणः) रामस्य=रामचन्द्रस्य, वृत्तं=व्यापारं, विदाङ्कुर्वन्तु=जानन्तु, इति=इत्थं, स्वकान्=आत्मीयान् (शुकसारणादीन्गूढपुरुषानित्यर्थः), अवदत्=अकथयत्, प्रयत्नवान्=प्रयत्नपरः (सावधानः सन्नित्यर्थः), सीतां=मैथिलीं, रक्षितुं=गोपायितुं, रक्षांसि=राक्षसान्, आशिषच्च=आदिष्टवांश्च (‘योषिवृन्दारिके’त्यादिना एतदन्तेन सन्दर्भेऽवस्थादश के उन्मादादर्वाचीनाः सप्ताऽपि सुव्यक्तमुक्तास्ते च यथा—“नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ सङ्कल्पः। निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः। उन्मादो मूर्च्छामृतिरित्येताः स्मरदशादशैव स्युः” इति)।

व्युत्पत्तिः—विदाङ्कुर्वन्तु=विदेर्विध्यर्थे लोटि “विदाङ्कुर्वन्त्वित्यन्यतरस्याम्” इत्याम्प्रत्ययगुणाऽभावादिनिपातनात्साधुत्वम्। आशिषत्=“शासु अनुशिष्टौ” इति धातोर्लुङि “सर्तिशास्त्यर्तिभ्यश्च” इति च्लेरङादेशः “शास इदङ्हलोः” इति शासेरुपधाया इत्वं “शासिवसिघसीनां च” इति षत्वं च।

**भावाऽर्थः**—रावणेन रामव्यापारपरिज्ञाने सीतारक्षणे च राक्षसा आज्ञप्ताः।

**भाषाऽर्थः**—रावणने रामकी चेष्टा जाननेके लिए आत्मीयोंको तथा सावधान हो कर सीताकी रक्षा के लिए और राक्षसों को आदेश दिया॥४॥

अथ प्रकीर्णकाः—

रामोऽपि हतमारीचो निवर्त्स्यन्खरनादिनः।
क्रोष्टून्समशृणोत्क्रूरान् रसतोऽशुभशंसिनः॥५॥

** अन्वयः**—–हतमारीचः रामः अपि निवर्त्स्यन् खरनादिनः क्रूरान् अशुभशंसिनः रसतः क्रोष्टून्समशृणोत्।

प्रयोगप०—हतमारीचेन रामेण निवर्त्स्यता खरनादिनः क्रूराअशुभशंसिनः रसन्तः क्रोष्टारः समश्रूयन्त।

व्याख्या—हतमारीचः=व्यापादितमारीचः, रामोऽपि=रामचन्द्रोऽपि, निवर्त्स्यन्=निवर्तिष्यमाणः, खरनादिनः= गर्दभ-नादिनः (परुषाराविण इत्यर्थः), क्रूरान्=भीषणान्, अशुभशंसिनः=अनिष्टसूचकान् रसतः शब्दायमानान्, क्रोष्ट्न्=शृगालान्, समशृणोत्=आकर्णयत् (वीणाऽऽकर्ण्यत इतिवत् शब्दधर्मस्तद्वति उपचरितः)।

व्युत्पत्तिः—हतमारीचः=हतो मारीचो येन सः (बहु०)। निवर्त्स्यन्=“वृद्भ्यः स्यसनोः” इति पाक्षिकं परस्मैपदम्, “लृटः सद्वा” इति लृटः शत्रादेशः, “न वृद्भ्यश्चतुर्भ्यः” इतीट्प्रतिषेधः। खरनादिनः=खरा इव नदन्तीति विग्रहे “कर्तर्युपमाने” इति णिनिः। अशुभशंसिनः=अशुभान् शंसन्तीति तच्छीलास्तान् (ताच्छील्ये णिनिः)। समशृणोत्=सकर्मकत्वात् “समो गम्यृच्छिभ्याम्” इत्यात्मनेपदं न।

भावाऽर्थः—मारीचं हत्वा निवर्तिष्यमाणो रामो मार्गे अशुभसूचकान् शृगालशब्दान शृणोत्।

भाषाऽर्थः—मारीचको मार कर लौटते हुए रामने भयङ्कर और अशुभ सूचना करनेवाले शृगालोंका शब्द सुना॥५॥

आशङ्कमानो वैदेहीं खादितां निहतां मृताम्।
स शत्रुघ्नस्य सोदर्यं दूरादायान्तमैक्षत॥६॥

** अन्वयः**—वैदेहीं खादितां निहतां मृताम् आशङ्कमानः स आरात् आयान्तं शत्रुघ्नस्य सोदर्यम् ऐक्षत।

**प्रयोगप०**—आशङ्कमानेन तेन आयान् सोदर्य ऐक्ष्यत।

** व्याख्या**—वैदेहीं=सीतां खादितां भक्षितां (व्याघ्रादिभिरिति शेषः),

निहतां=मारितां (राक्षसैरिति शेषः), मृतां गतप्राणाम् (आयुःक्षयादिति शेषः)। आशङ्कमानः=उत्प्रेक्षमाणः (शृगालरुत-रूपाद्दुर्निमित्तादिति भावः), सः=रामः, आरात्=दूरात्, आयान्तम्=आगच्छन्तं, शत्रुघ्नस्य=कनिष्ठदाशरथेः, सोदर्यं=सोदरम् (ज्येष्ठसहजं लक्ष्मणमित्यर्थः), ऐक्षत=अपश्यत्।

व्युत्पत्तिः—आशङ्कमानः=आशङ्कत इति (शानच्)। शत्रुघ्नस्य=शत्रून्हन्तीति शत्रुघ्नस्तस्य (मूलविभुजादित्वात्कः) । सोदर्यं=समानोदरे शयित इति सौदर्यस्तं, यादौ प्रत्यये विवक्षिते “विभाषोदरे” इति समानस्य सभावस्ततः “सोदराद्यः” इति यः। “समानोदर्यसोदर्यसगर्भ्यसहजाः समाः।” इत्यमरः। ऐक्षत=ईक्षेर्लङि “आडजादीनाम्” इत्याडागमः।

** भावाऽर्थः**—नानाविधया सीताऽनिष्टाशङ्कया ग्रस्तो रामोदूरादागच्छन्तं लक्ष्मणमपश्यत्।

भाषाऽर्थः—शृगालों के शब्द से “सीताको व्याघ्र आदिने खाया, राक्षसोंने मारा अथवा वह अपने ही कालसे मरीं” ऐसी आशङ्का करते हुए रामचन्द्रजीने दूरसे आते हुए लक्ष्मणको देखा॥६॥

सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकाम्।
विज्ञायाऽमंस्त काकुत्स्थः—“क्षये क्षेमं सुदुर्लभम्”॥७॥

अन्वयः —काकुत्स्थः सध्रीचीं त्रस्नुम् एकिकां सीतां सौमित्रिणा त्यक्तां विज्ञाय क्षये क्षेमं सुदुर्लभम् अमंस्त।

प्रयोगप०—काकुत्स्थेन क्षये क्षेमः सुदुर्लभोऽमानि।

व्याख्या—–काकुत्स्थः=रामः, सध्रीचीं=सहचरीं, त्रस्नुं=भीरुम्, एकिकाम्=एकाकिनीं, सीतां=जानकीं, सौमित्रिणा= लक्ष्मणेन, त्यक्तां=मुक्तां, विज्ञाय=ज्ञात्वा (तदागमनेनेति भावः), क्षये=गृहे, क्षेमं कुशलं सुदुर्लभम्=अतिदुष्प्राप्यम्, अमंस्त= ज्ञातवान्।

व्युत्पत्तिः—सध्रीचीं=सहाऽञ्चतीति सध्रीची, ताम्, “ऋत्विगा”दिना क्विन् “सहस्य सध्रिः” इति सध्र्यादेशः “अनिदितां हल उपधायाः क्ङिति” इति न लोपः “अचः’” इत्यकारलोपः “चौ” इति दीर्घः “उगितश्च’ इति ङीप्। एकिकाम्=एकैव एकिका, ताम् “एकादाकिनिच्चाऽसहाये” इत्यत्र चकारात्कन् (पक्षान्तरे लुक् च), “प्रत्ययस्थात्कात्पूर्वस्याऽत इदाप्यसुपः” इतीत्वम्। “एकाकी

त्वेक एकक” इत्यमरः। क्षये=क्षीयतेऽस्मिन्निति क्षयस्तस्मिन्, “एरच्” इत्यच्“पुंसि संज्ञायां घः प्रायेण” इति घो वा, “निलयाऽपचयौ क्षयौ”। इत्यमरः। सुदुर्लभम्=अत्यन्तं दुर्लभं सुदुर्लभं, तत् “कुगतिप्रादय” इति समासः। अमंस्त= मन्यतेरनिटोलुङि सिच्।

** भावाऽर्थः—**रामः एकाकिनं लक्ष्मणं दृष्ट्वा “मत्सहचरी भीरुः सीता अनेनत्यक्ता” इति ज्ञात्वा गृहे कुशलं दुर्लभं ज्ञातवान्।
** भाषाऽर्थः—**रामने सहचरी, डरपोक और अकेली सीताको लक्ष्मणसे परित्यक्त जान कर घर के कुशलकी आशा छोड़ दी॥७॥

अतः परं दुहादिः।

सोऽपृच्छल्लक्ष्मणं सीतां याचमानः शिवं सुरान्।
रामं यथास्थितं सर्वं भ्राता ब्रूते स्म विह्वलः॥८॥

** अन्वयः—**स सुरान् शिवं याचमानः लक्ष्मणं सीताम् अपृच्छत्। भ्राताविह्वलः रामं सर्वं यथास्थितं ब्रूते स्म।

** प्रयोगप०—**तेन सुरान् शिवं याचमानेन लक्ष्मणः सीतामपृच्छ्यत। भ्रात्रा विह्वलेन रामः सर्वंयथास्थितमुच्यते स्म।

** व्याख्या—**सः=रामः, सुरान्=देवान्, शिवं=कल्याणं, याचमानः=भिक्षमाणः, लक्ष्मणं=स्वाऽनुजं, सीतां=मैथिलीम्, अपृच्छत्=अनुयुक्तवान्, भ्राता=लक्ष्मणः, विह्वलः=विक्लवः (सन्), रामं=रामचद्रं, सर्वं=सम्पूर्णं, यथास्थितं=यथावृत्तं, ब्रूते स्म=अकथयत्।

** व्युत्पत्तिः—**सुरान्, लक्ष्मणं, रामम्=त्रिष्वपि “अकथितं च” इति कर्मसंज्ञा। याचमानः=याचत इति (शानच्)।अपृच्छत्=“प्रश्नोऽनुयोगः पृच्छाच” इत्यमरः। यथास्थितं=स्थितमनतिक्रम्येति अव्ययीभावः।

** भावाऽर्थः—**रामो देवेषु सीताकुशलप्रार्थनां कृत्वा “सीता कुत्राऽस्ती"तिभ्रातरमपृच्छत्। लक्ष्मणेऽपि विह्वलो भूत्वा सर्वं वृत्तान्तमकथयत्।

** भाषाऽर्थः—**रामने देवताओंसे सीताके शुभ होनेकी प्रार्थना कर लक्ष्मणसेसीताका हाल पूछा। उन्होंने विह्वल हो कर रामको सब बात बतलाई॥८॥

संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम्।
प्राणान्दुहन्निवात्मानं शोकं चित्तमवारुधत्॥९॥

**अन्वयः—**शरणं शून्यं संदृश्य वनं प्रियां भिक्षमाणः आत्मानं प्राणान् दुहन् एव शोकं चित्तम् अवारुधत्।
** प्रयोगप०—**वनं प्रियां भिक्षमाणेन दुहता इव शोकं चित्तम् अवारोधि।

** व्याख्या—**(रामः) शरणं=गृहं, शून्यं=रिक्तं (सीतारहितमित्यर्थः),संदृश्य=दृष्ट्वा, वनम्=अरण्यं, प्रियां=वल्लभां (सीतामित्यर्थः), भिक्षमाणः=याचमानः (मह्यं सीतां देहीति याचमान इत्यर्थः), आत्मानं=देहं, प्राणान्=असून्,दुहन् इव=रिक्तीकुर्वन् इव, शोकं=मन्युं, चित्तं=मानसम् अवारुधत्=अरौत्सीत्।

** व्युत्पत्तिः—**शरणं=“शरणं गृहरक्षित्रोः” इत्यमरः। वनम्, आत्मानं,चित्तं=त्रिष्वपि “अकथितं च” इतिसूत्रेण कर्मसंज्ञा। “आत्मा यत्नो धृतिर्बुद्धिःस्वभावो ब्रह्म वर्ष्म च।” इत्यमरः। अवारुधन्=रुधेर्लुङि “इरितो वा” इतिविकल्पेन च्लरङादेशः।

** भावाऽर्थः—**रामो गृहं सीताशून्यं दृष्ट्वा “मह्यं सीतां देही”ति वनं प्रार्थ्यशरीरं प्राणशून्यं कुर्वन्निव शोकाऽऽकुल-चित्तोऽभवत्।

** भाषाऽर्थः—**घरमें सीताको न देख कर वनसे सीताको पानेकी प्रार्थना करशरीरको प्राणशून्य करते हुएकी तरह (विवश होते हुए) रामचन्द्रजीने चित्तमेंशोकका प्रवेश कराया॥९॥

“गता स्यादवचिन्वाना कुसुमान्याश्रयद्रुमान्।
आ यत्र तापसान्धर्मं सुतीक्ष्णः शास्ति तत्र सा॥१०॥

** अन्वयः—**“सा आश्रमद्रुमान् कुसुमानि अवचिन्वाना गता स्यात्, (अथवा)सुतीक्ष्णः यत्र तापसान् धर्मं शास्ति तत्र गता स्यात् आ।

** प्रयोगप०—**तया आश्रमद्रुमान्कुसुमानि अवचिन्वानया गतया भूयेत, सुतीक्ष्णेन यत्र तापसा धर्मं शिष्यन्ते तत्र गतया भूयेत।

** व्याख्या—**सा=सीता, आश्रमद्रुमान्=आश्रमवृक्षान्, कुसुमानि=पुष्पाणि,अवचिन्वाना=अवच्छिन्दन्ती, गता=याता, स्यात्=भवेत्, (अथवा) सुतीक्ष्णः=सुतीक्ष्णाऽऽख्य ऋषिः, यत्र=यस्मिन् स्थले, तापसान्=तपस्विनः (मुनीन्), धर्मं=धर्मशास्त्रं, शास्ति=उपदिशति, तत्र=तस्मिन्स्थले, गता=याता, स्यात्=भवेत्,आ (अ इति स्मृतौ)।

**व्युत्पत्तिः—**आश्रमद्रुमान्, तापसान्=“अकथितं च” इति कर्मसंज्ञकत्वात्

पदद्वययपि गौणकर्म।अवचिन्वाना=अवचिनुते इति। (शानच्), “चिञ् चयने”इति धातोः “स्वरितञितः कर्त्रभिप्राये क्रियाफले” इति कर्त्रभिप्राय आत्मनेपदम्।आ=“आ प्रगृह्यस्मृतौ वाक्ये” इत्यमरः।

** भावाऽर्थः—**“सीता पुष्पाऽवचायाऽर्थं किं वा यत्रसुतीक्ष्णस्तापसान्धर्मं ब्रूतेतत्र गता स्यात्”।

** भाषाऽर्थः—**“सीता आश्रमके पेड़ोंसे फूल तोड़नेके लिए अथवा जहांपरसुतीक्ष्ण मुनि तपस्वियोंको धर्मोपदेश करते हैं वहां गई होंगी”॥१०॥

अतः परं प्रकीर्णकाः।

आःकष्टं, वत हो चित्रं हूं मातर्दैवतानि धिक्।
हा पितः ! क्वाऽसि हे सुभ्रु ! बह्वेवं विललाप सः॥११॥

** अन्वयः—**आः कष्टं, वत ही चित्रं, हूं, मातः ! दैवतानि धिक्, हा पितः !हे सुभ्रु ! क्वअसि ? स एवं बहु विललाप।

** प्रयोगप०—**“आः कष्टेन (भूयते), चित्रेण (भूयते), (त्वया) कुत्रभूयते ?” तेन एवं बहु विलेपे।

** व्याख्या—**आः ! (अनेन पितृवियोगपीडा द्योत्यते), कष्टं=कृच्छ्रं (प्राप्तमित्यर्थः), वत=(अनेन खेदो द्योत्यते), ही=(अनेन विषादो द्योत्यते), चित्रम्=आश्चर्यं (स्वहस्तगताऽपि सीता क्व गतेत्याश्चर्यमिति भावः), हूम्=(अनेन सीताऽपहरणेनाऽपकारिणि रावणे क्रोधो द्योत्यते), मातः=हे जनन्यः ! (‘ईदृग्विपत्तौ यूयं कुत्र स्थ’ इति भावः), दैवतानि धिक्=देवान् धिक् (युष्माकं तादृशा उपासनेनाऽपि ईदृशं फलितमतो वो धिगिति भावः)। हा पितः=हा तात(एतादृगापत्तौ कुत्राऽसीति भावः), हे सुभ्रु= हे सीते, क्व=कुत्र, असि=वर्तसे, सः=रामः, एवम्=इत्थं, बहु=अधिकं, विललाप=परिदेवितवान्।

** व्युत्पत्तिः—**आः=“आस्तु स्यात्कोपपीडयोः” इत्यमरः। कष्टं=“स्यात्कष्टं’कृच्छ्रमाभीलम्” इत्यमरः। दैवतानि=देवता एव दैवतानि, तानि“धिगुपर्यादिषु त्रिषु।” इति वचनाद्वितीया। सुभ्रु=शोभने भ्रुवौ यस्याः सा सुभ्रूस्तत्सम्बुद्धौ (बहु०), “ऊकारादप्यूङ् वक्तव्य” इत्यूङन्तत्वात्सुभ्रूशब्दस्य नदीत्वात्सम्बुद्धौ “अम्बाऽर्थनद्योर्ह्रस्वः” इति ह्रस्वत्वमिति मल्लिनाथः। “नेयङुवङ्स्थानावस्त्री” इति नदीसंज्ञानिषेधात्सम्बुद्धिह्रस्वोऽपि न, अतः प्रमाद एवाऽयमिति बहव

इति भट्टोजिदीक्षिताः। वस्तुतस्तु रामस्य शोकविवशमानसत्वात् बोधाऽभावेन च्युतसंस्कृत्यात्मको दोषोऽपि गुण एवेति सर्वं निरवद्यम्। केचित्तु ‘हा पितः’ इति पदद्वयस्यैकीकरणेन “हापितः” इति विधाय “त्याजित” इति तस्याऽर्थं कुर्वन्ति।

** भावाऽर्थः—“आः कष्टं वर्तते। वत ! चित्रं वर्तते। हा मातः ! हा पितः !हे सीते ! त्वं कुत्राऽसी”तिस एवं बहु परिदेवितवान्।
** भाषाऽर्थः—
“ओः ! कष्ट है। हाय ! खेद है, आश्चर्य है, माताओं ! आपलोग कहाँ हैं ? देवताओंको भी धिक्कार है। हा पिताजी ! सीते ! तुम कहांचली गई” रामचन्द्रजी इस तरह बहुत विलाप करने लगे॥११॥

इहाऽऽसिष्टाऽशयिष्टेह सा सखेलमितोऽगमत्।
अग्लासीत्संस्मरन्नित्थं मैथिल्या भरताऽग्रजः॥१२॥

** अन्वयः—**“सा इह आसिष्ट, इह अशयिष्ट, इतः सखेलम् अगमत्” इत्थंमैथिल्याः संस्मरन् भरताऽग्रजः अग्लासीत्।

** प्रयोगप०—**तया आसि, अशायि, अगामि, संस्मरता भरताग्रजेन अग्लायि।
**व्याख्या—**सा=सीता, इह=अस्मिन् स्थाने, आसिष्ट=उपविष्टा, इह=अत्र(स्थाने), अशयिष्ट=शयिता, इतः=अस्मात् स्थानात्, सखेलं=सलीलम्, अगमत्=गता, इत्थम्=एवं प्रकारेण, मैथिल्याः=सीताया, संस्मरन्=संस्मरणं कुर्वन्,भरताऽग्रजः=रामः, अग्लासीत्=ग्लानिं गतः।

** व्युत्पत्तिः—**इह=अस्मिन्निति, “इदमो हः" इति हः, “ इदमइश्” इति इश्।आसिष्ट अशयिष्ट=आसेः शीङश्च लुङि तङि सिचीट्। अगमत्=गमेर्लुङि लुदित्त्वाच्च्लेरङादेशः। मैथिल्याः=“अधीगर्थदयेशां कर्मणि” इति कर्मणि षष्ठी। भरताऽग्रजः=भरतस्य अग्रजः (ष० त०)। अग्लासीत्=“ग्लै हर्षक्षये” इति अनिटोधातोर्लुङि “आदेच उपदेशेऽशिति” इत्यात्वे “यमरमनमातां सक्च” इति सगिटौ।

** भावाऽर्थः—“सीताऽस्मिन्प्रदेश उपविष्टा, अत्र शयिता, अस्माच्च प्रदेशात्गता" इत्थं तां चिन्तयन् रामो ग्लानवान्।
** भाषाऽर्थः—
“सीता यहाँ पर बैठती थीं, यहाँपर सोती थीं और यह से लीलापूर्वकजाती थीं” इस तरह सीताकी याद करते हुए रामचन्द्रजीको ग्लानि हो गई॥१२॥

इदं नक्तन्तनं दाम पौष्पमेतद्दिवातनम्।
शुचेवोद्बध्य शाखायां प्रग्लायति तया विना॥१३॥

** अन्वयः—**इदं नक्तन्तनं पौष्पं दाम, एतत् दिवातनं दाम (च) तया विनाशुचा शाखायाम् उद्बध्य इव प्रग्लायति।

** प्रयोगप०—**अनेन नक्तन्तनेन पौष्पेण दाम्ना, एतेन दिवातनेन दाम्ना चप्रग्लायते।

** व्याख्या—**इदं=सन्निकृष्टस्थं, नक्तन्तनं=रात्रिभवं, पौष्पं=पुष्पमयं, दाम=माल्यम्, एतत्=इदं, दिवातनं=दिवसभवं, दाम=माल्यं (च), तया विना=सीतया विना, शुचा=शोकेन, शाखायां=विटपे, उद्बध्य इव=उद्बन्धनं कृत्वा इव(मृत्वा इवेत्यर्थः), प्रग्लायति=ग्लानिं गच्छति।

** व्युत्पत्तिः—**नक्तन्तनं, दिवातनं=नक्तं भवं दिवा भवं चेति विग्रहे “सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च” इति ट्युप्रत्ययस्तुडागमश्च ततो रूपद्वयसिद्धिः। पौष्पं=पुष्पाणामिदम् “तस्येदम्” इत्यण्। तया=विनापदेन योगे “पृथग्विनानाभिस्तृतीयाऽन्यतरस्याम्” इति तृतीया। प्रग्लायति=ग्लायतेर्लटि शपःशित्त्वेनाऽऽत्वाभावादायादेशः।

** भावाऽर्थः—**इदं रात्रिभवमेतत् दिवसभवं च पौष्पं माल्यं सीतां विना शोकेन शाखायामुद्बन्धनेन मृत्वेव ग्लानिं गच्छति।

** भाषाऽर्थः—**यह रातमें और यह दिनमें होने वाले फूलोंकी माला सीताकेविना शोकसे शाखा (डाल) में मानो उद्बन्धन करके ग्लानियुक्त होती है॥१३॥

ऐक्षिष्महि मुहुः सुप्तां यां मृताऽऽशङ्कया वयम्।
अकाले दुर्मरमहो ! यज्जीवामस्तया विना॥१४॥

** अन्वयः—**वयं सुप्तां यां मृताऽऽशङ्कया मुहुः ऐक्षिष्महि, (साम्प्रतम्)तया विना यत् जीवामः, (तत्) अकाले दुर्मरम् ; अहो !

** प्रयोगप०—**अस्माभिः सुप्ता या ऐक्षि, जीव्यते, दुर्मरेण (भूयते)।

**व्याख्या—**वयम्=आवामित्यर्थः। सुप्तां=निद्राणां, यां=सीतां, मृताऽऽशङ्कया (प्रेमाऽऽधिक्यस्य अस्थानशङ्काकरत्वादिति भावः), मुहुः=वारं वारम्,ऐक्षिष्महि=अद्राक्ष्म (पुनः पुनः स्पर्शनादिना परीक्षां कृतवन्त इत्यर्थः)। (साम्प्रतम्=अधुना) तया विना=सीतया विना, यत्, जीवामः=प्राणधारणं कुर्मः,(तत्=जीवनम्) अकाले=आयुःक्षयाऽभावे, दुर्मरं=मर्तुमशक्यम् (आत्महत्यायाःशास्त्रनिषिद्धत्वादिति भावः), अहो=आश्चर्यम्।

** व्युत्पत्तिः—**वयम्=“अस्मदो द्वयोश्च” इति द्वित्वे विवक्षितेऽपि विकल्पेनबहुवचनम्। मृताऽऽशङ्कया=मृतं मरणं, “नपुंसके भावे क्त" इति क्तः। मृतस्याऽऽशङ्का मृताऽऽशङ्का, तया (ष० त०)। अतिशयसुकुमारत्वात् वनवासकष्टेनइयं मृतेत्याशङ्कयेत्यर्थः। ऐक्षिष्महि=ईक्षतेर्लुङि तङि महिङि सिचि इट्। अकाले=न कालोऽकालस्तस्मिन् (नञ्०) दुर्मरं=दुःखेन मर्तं शक्यम् (खल्)।

** भावाऽर्थः—**ये वयं प्राक् निद्राणायाः सीताया वनवासदुःखाऽतिशयेन मरणमाशङ्क्यपुनः पुनः स्पर्शनादिना परीक्षामकुर्म, ते एव वयं साम्प्रतं तया विनाऽपियज्जीवामस्तज्जीवनमायुषः क्षयाऽभावे हातुमशक्यमित्याश्चर्यम् !

** भाषाऽर्थः—**हमलोग सोई हुई सीताको मरणकी आशङ्कासे वारं वार देखतेथे, अभी उनके विना भी जो जीते हैं सो अकालमें प्राण नहीं छोड़ा जाता है॥१४॥

अक्षेमः परिहासोऽयं, परीक्षां मा कृथा मम।
मत्तो माऽन्तर्धिथाः सीते ! मा रंस्था जीवितेन नः॥१५॥

** अन्वयः—**हे सीते ! अयं परिहासः अक्षेमः, मम परीक्षां मा कृथाः, मत्तःमा अन्तर्धिथाः, नः जीवितेन मा संस्थाः।

** प्रयोगप०—**अनेन परिहासेन अक्षेमेण (भूयते)। परीक्षा मा कारि, माअन्तर्धायि, मा रमि।

** व्याख्या—**हे सीते=हे जानकि ! अयम्=एषः, परिहासः=क्रीडा (अन्तर्धानक्रीडेत्यर्थः), अक्षेमः=अहितः, मम=रामस्य, परीक्षां=परीक्षणं (वियोगासहत्वमित्यर्थः), मा कृथाः=मा कार्षीः, मत्तः=मत्सकाशात्, मा अन्तर्धिथाः=अन्तर्हिता मा भूः, नः=अस्माकं, जीवितेन=प्राणैः, मा रंस्थाः=मा क्रीडीः(अन्तर्धानक्रीडया प्राणान्माऽपहरेत्यर्थः)।

** व्युत्पत्तिः—**परिहासः=परिहसनम् (भावे घञ्)। अक्षेमः=न क्षेमः (नञ्०)।कृथाः=करोतेर्लुङि तङि थासि “उश्च” इति कित्वाद्गुणाऽभावः “ह्रस्वादङ्गात्”इति सिचो लोपः। मत्तः=मदिति “पञ्चम्यास्तसिल्” इति तसिल् “प्रत्ययोत्तरपदयोश्च” इति मदादेशः। अन्तर्धिथाः=दधातेर्लुङि तङि थासि “स्थाध्वोरिच्च” इतीकारादेशे सिचो लोपः। रंस्थाः=रमेरनिटो लुङि सिचोऽकित्वाऽनुनासिकलोपः।

** भावाऽर्थः—**हे सीते ! तवेयमन्तर्धानरूपा परीक्षाक्रीडा अहिता। “रामोमामपश्यन्दुःखितो भवति न वे"त्याकारिकां मम परीक्षां मा कार्षीः, मत्तो मा

निलीयस्व, मत्प्राणैर्मा क्रीड।

** भाषाऽर्थः—**हे सीते ! तुम्हारा यह परिहास (दिल्लगी) अहितकारकहै, मेरी परीक्षा मत करो, मत छिपो; और मेरे प्राणोंके साथ क्रीडा मत करो॥१५॥

अतः परं सिजधिकारः।

अहं न्यवधिषं भीमं राक्षसं क्रूरविक्रमम्।
मा घुक्षः पत्युरात्मानं मा न श्लिक्षः प्रियं प्रिये॥१६॥

** अन्वयः—**प्रिये ! अहं भीमं क्रूरविक्रमं राक्षसं न्यवधिषम्, आत्मानं पत्युःमा घुक्षः, प्रियं मा न श्लिक्षः।

** प्रयोगप०—**मया भीमः क्रूरविक्रमो राक्षसो न्यवधि, आत्मा पत्युः मा गोहि, प्रियो मा न श्लेषि।

** व्याख्या—**हे प्रिये=हे वल्लभे, अहं=रामः, भीमं=भयङ्करं, क्रूरविक्रमम्=असह्यपराक्रमं, राक्षसं=मारीचं, न्यवधिषं= निहतवान्, आत्मानं=स्वं, पत्युः=स्वामिनः (मत्त इत्यर्थः), मा घुक्षः=मा संवृणु, प्रियं=वल्लभं (माम्), मा न श्लिक्षः=मा न परिरब्धाः (आलिङ्गयेत्यर्थः)

** व्युत्पत्तिः—**प्रिये=प्रीणातीति प्रिया तत्सम्बुद्धौ, “इगुपधज्ञाप्रीकिरः क” इतिकप्रत्ययः। क्रूरविक्रमं=क्रूरो विक्रमो यस्य स क्रूरविक्रमस्तम् (बहु०)। न्यवधिषं=हन्तेर्लुङि “लुङि च” इति वधादेशेऽदन्तात्सिच इडागमः। पत्युः= “अन्तर्धौयेनाऽदर्शनमिच्छति" इति पञ्चमी। मा घुक्षः=“गुहू संवरणे” इति धातोर्लुङि"शल इगुपधादनिटः क्सः" इति चलेःक्सादेशः, ‘हो ढ" इति हस्य ढत्वभष्भावकत्वषत्वविसर्जनीयाः, माङ्योगेन “न माङ्योगे” इत्यडागमनिषेधश्च। मा न श्लिक्षः=“श्लिष आलिङ्गने” इति धातोः“आलिङ्गने” इति च्लेःक्सत्वे कत्वषत्वे च। द्वौनञौएकं प्रकृतमर्थं द्योतयतः, “सम्भाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ” इति वामनः।

** भावाऽर्थः—**हे प्रिये ! मया कठोरपराक्रमी राक्षसो हतः, आत्मानं मत्तो मासंवृणु; मामालिङ्गय।

** भाषाऽर्थः―**हे प्रिये ! मैंने भयङ्कर और कठोर पराक्रमवाले राक्षसको मारडाला अपनेको मुझसे मत छिपाओ और मुझे आलिङ्गन करो॥१६॥

मा स्म द्राक्षीर्मृषा दोषं, भक्तं मां माऽतिचिक्लिशः।
शैलं न्वशिश्रियद्वामा नदीं नु प्रत्यदुद्रुवत्॥१७॥

** अन्वयः—**(हे प्रिये !) मृषा दोषं मा स्म द्राक्षीः, भक्तं मां मा अतिचिक्लिशः। वामा शैलम् अशिश्रियत् नु, नदीं प्रत्यदुद्रुवत् नु।

** प्रयोगप०—**दोषो मा स्म दर्शि, भक्तोऽहं मा अति क्लेशयिषि। वामयाशैलोऽश्रायि नु, नदीं प्रत्यद्रावि नु।

** व्याख्या—**(हे प्रिये !), मृषा=मिथ्या, दोषं=दूषणं, मा स्म द्राक्षीः=न विलोकय (मयि दोषं न पश्य, मृषा यत्सम्भावनादन्तर्हिताऽसीति भावः), भक्तं=भक्तियुक्तं (सेवकमित्यर्थः), मां=रामं, मा अतिचिक्लिशः=न अतिक्लेशय।वामा=सीता प्रतिकूलवर्तिनी वा (मद्दोषदर्शनादिति भावः), शैलं=पर्वतम्, अशिश्रियत् नु=श्रिता वा, नदीं=सरितं, प्रत्यदुद्रुवत् नु अभिद्रुता वा।

** व्युत्पत्तिः—**मा स्म द्राक्षीः=“स्मोत्तरे लङ् च” इति चकाराद्दृशेर्लुङि “नदृशः” इति क्सप्रतिषेधः। “इरितो वा" इति विकल्पादङभावपक्षे सिचिसृजिदृशोर्झल्यमकिति’” इत्यमागमे हलन्तलक्षणा वृद्धिः “व्रश्चे”त्यादिना षत्वे कत्वं च।अतिचिक्लिशः=क्लिश्यतेर्णोचङ्युपधाह्रस्वः। सर्वत्र “न माड्योगे” इत्यडभावः।वामा=“प्रतीपदर्शिनी वामा वनिता महिला तथा।" इत्यमरः। अशिश्रियत्, अदुद्रुवत्=श्रिद्रुभ्यां “णिश्रिदुस्रुभ्यः कर्तरि चङ्” इति लुङि चङि द्विर्भावे इयङुवङादेशौ।

** भावाऽर्थः—**हे प्रिये ! मिथ्यैव दोषं नो विलोकय, सेवकं मां नाऽतिक्लेशय।सीता (मयि दोषसम्भावनेन प्रतिकूलवर्तिनी भूता वा) पर्वतमाश्रिता, आहोस्वित् सरितमभिद्रुता।

** भाषाऽर्थः—**हे प्रिये ! व्यर्थ ही दोषदर्शिनी मत बनो, मुझ सेवकको ज्यादातकलीफ मत दो। सीता पहाड़में चली गई वा नदीमें डूब गई॥१७॥

ऐ ! वाचं देहि, धैर्यं नस्तव हेतोरसुस्रवत्।
त्वं नो मतिमिवाऽधासीर्नष्टा प्राणानिवाऽदधः॥१८॥

** अन्वयः—**ऐ ! वाचं देहि, तव हेतोः नः धैर्यम् असुस्रुवत्, त्वं नष्टा (सती)नः मतिम् अधासीः इव, प्राणान् अदधः इव।

** प्रयोगप०—**ऐ ! वाक् दीयतां, धैर्येण अस्रावि, त्वया नष्टया मतिः अधायि,प्राणा अधायिषत।

** व्याख्या—**ऐ=हे सीते, वाचं देहि=सम्भाषस्व, तवहेतोः=त्वयि निमित्ते,नः=अस्माकं, धैर्यं=धीरत्वम्, असुस्रुवत्=स्रुतं, त्वं=सीता, नष्टा=अदर्शनं गता(सती), नः=अस्माकं, मति=बुद्धिम्, अधासीः इप=अपाः इव, प्राणान्=असून्,अदध इव=पीतवती इव।

** व्युत्पत्तिः—**ऐ=सम्बोधनाऽर्थको निपातः। देहि=ददातेः प्रार्थनायां लोट्,“ध्वसोरेद्धावभ्यासलोपश्च” इत्यभ्यासलोप एत्वं च। तव=हेतुशब्दप्रयोगे “षष्टीहेतुप्रयोगे” इति षष्ठी। धैर्यं=धीरस्य भावः कर्म वा (ष्यञ्)। असुस्रुवत्=पूर्ववत्चङादिकार्यम्। अधासीः=“धेट् पाने” इति धातोर्लुङि सिपि “विभाषा घ्राधेट्शाच्छासः” इति सिचो लुगभावपक्षे “आदेच उपदेशेऽशिति” इत्यात्वे “यमरमनमातां सक् च’ इति सगिडागमौ। “इट ईटि” इति सलोपः। अदधः=“विभाषा धेट्श्व्योः” इति चङ्पक्षे द्विर्वचनम् “आतो लोप इटि च” इत्याकारलोपः।

** भावाऽर्थः—**हे सीते ! भाषणं कुरु, तव हेतोर्नो धैर्यमपगतं, तवादर्शनेनमन्मतिरपसृता इव ; प्राणाश्च प्रचलिता इव।

** भाषाऽर्थः—**हे सीते ! बोलो, तुम्हारे लिए मेरा धैर्य डिगा, तुमने अदृश्यहोकर मानों मेरी बुद्धि और प्राणोंको पान कर लिया॥१८॥

रुदताऽशिश्वियच्चक्षुरास्यं हेतोस्तवाऽश्वयीत्।
म्रियेऽहं, मां निरास्थश्चेन्मा न वोचश्चिकीर्षितम्॥१६॥

** अन्वयः—**तव हेतोः रुदतः (मे) चक्षुः अशिश्वियत्, आस्यं च अश्वयीत्।मां निरास्थः चेत् अहं म्रिये, चिकीर्षितं मा न वोचः ?

**प्रयोगप०—**चक्षुषा अश्वायि। आस्येन च अश्वायि। (त्वया) अहंनिरासिषि चेत् मया म्रियते। (त्वया) चिकीर्षितं मा न वाचि।

** व्याख्या—**तव हेतोः=त्वत्कृते, रुदतः=अश्रुमोचनं कुर्वतः, (मे=मम)चक्षुः=नेत्रम्, अशिश्वियत्=उच्छूनमभूत्, आस्यं च=मुखं च, अश्वयीत्=उच्छूनमभवत्। मां=रामं, निरास्थश्चेत्=निरस्तवती चेत्, अहं=रामः, म्रिये=मरिष्यामि, चिकीर्षितं= कर्तुमिष्टं, मा न वोचः=मा न भाषिष्टाः (किन्तु ब्रह्येवेत्यर्थः, उक्ते तत्करिष्यामीति भावः)।

** व्युत्पत्तिः—**तव=“षष्ठीहेतुप्रयोगे" इति षष्ठी। आशिश्वियत्=“टुओश्विगतिवृद्ध्योः” इति धातोर्लुङि “विभाषा धेटश्व्योः” इति पक्षे चङि द्विर्वचने इय-

ङादेशः। अश्वयीत्=चङङोर्वैकल्पिकत्वादुभयाऽभावपक्षे सिचि इडागमे “ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्” इति वृद्धिप्रतिषेधः “इट ईटि” इति सलोपे गुणाऽयादेशौ च। निरास्थः=अस्यतेर्लुङि पुषादित्वादङि “अस्यतेस्थुक्” इति थुगागमः,“अस्यतिवक्तिख्यातिभ्योऽङ्” इति वचनं तु तदर्थम्। म्रिये=“मृङ् प्राणत्यागे”इति धातोर्वर्तमानसामीप्ये सामान्ये लटि “म्रियतेर्लुङ्लिङोश्च” इति चकाराच्छित्यात्मनेपदं “रिङ् शयग्लिङ्क्षु” इति रिङादेशः। मा न वोचः=वक्तेर्लुङि ब्रूञादेशाद्वा “अस्यती’”त्यादिनाऽङ “वच उम्” इत्युमागमश्च। “मा न श्लिक्ष"इतिवन्निषेधद्वयं व्याख्येयम्।

**भावाऽर्थः—**त्वत्कृते रुदतो मे नेत्रद्वयं मुखं च उच्छूनम्। हे सीते !त्वं मां निरस्तवती चेत् अहं मरिष्यामि, अधुनाऽपि कर्तुमिष्टं मा न भाषिष्टाः (किन्तु ब्रूह्येव)।

** भाषाऽर्थः—**हे सीते ! तुम्हारे लिए रोते रोते मेरीआंखे और मुंह सूजगये हैं। मुझे छोड़ दोगी तो मैं मर जाऊंगा, क्या करना चाहती हो ? अब तोबताओगी॥१९॥

लक्ष्मणाऽऽचक्ष्व यद्याख्यत्सा किञ्चित्कोपकारणम्।
दोषे प्रतिसमाधानमज्ञाते क्रियतां कथम्॥२०॥

** अन्वयः—**हे लक्ष्मण ! सा किञ्चित् कोपकारणम् आख्यत् यदि, आचक्ष्व।दोषे अज्ञाते कथं प्रतिसमाधानं क्रियताम् ?

** प्रयोगप०—**हे लक्ष्मण ! तया कोपकारणम् आख्यायि यदि, आख्यायताम्। (अहम्) कथं प्रतिसमाधानं करवाणि।

** व्याख्या—**हे लक्ष्मण=हे भ्रातः, सा=सीता, किञ्चित्=किमपि, कोपकारणं=क्रोधहेतुम्, आख्यत् यदि=(तुभ्यम्) कथितवती चेत्, आचक्ष्व=कथय। दोषे=अपराधे, अज्ञाते=अविदिते (सति), कथं=केन प्रकारेण, प्रतिसमाधानं= प्रतीकारः,क्रियतां=विधीयताम्।

** व्युत्पत्तिः—**आख्यत्=“ख्या प्रकथने” इति धातोर्लुङि पूर्ववदङ् “आतोलोप इटि च” इति आकारलोपः। आचक्ष्व=“चक्षिङ् व्यक्तायां वाचि” इति धातोर्लोटिथासि रूपम्। क्रियतां=कर्मणि लोट् “रिङ् शयग्लिङ्क्षु” इति रिङ्।

**भावाऽर्थः—**हे लक्ष्मण ! सीता तुभ्यं किमपि कोपकारणं कथितवती यदि,

कथय। तथा हि अहं दोषाऽपरिज्ञाने कथं दोषनिवर्तनं कुर्याम् ?

** भाषाऽर्थः—**हे लक्ष्मण ! सीताजीने तुमको कोई कोपका कारण बतलायाहैतो कहो, क्यों कि दोषका ज्ञान हुए विना वह कैसे हटाया जा सकता है ?॥२०॥

इह सा व्यलिपद्गन्धः, स्नान्तीहाऽभ्यषिचज्जलैः।
इहाऽहं द्रष्टुमाह्वं तां, स्मरन्नेवं मुमोह सः॥२१॥

** अन्वयः—**“सा इह गन्धैः व्यलिपत्, इह स्नान्ती (सती) जलैः अभ्यषिचत्। इह अहं तां द्रष्टुम् आह्वम्” एवं स्मरन् स मुमोह।

** प्रयोगप०—**“तया व्यलेपि, स्नान्त्या (अहम्) अभ्यषेचिषि। मया(सा) आह्वायि” एवं स्मरता तेन मुमुहे।

** व्याख्या—“**सा=सीता, इह=अस्मिन् प्रदेशे, गन्धैः=चन्दनादिद्रव्यैः, व्यलिपत्=विलिप्तवती, इह=अत्र (प्रदेशे), स्नान्ती=स्नानं कुर्वती (सती),जलैः=अम्बुभिः, अभ्यषिचत्=अभिषिक्तवती (मामिति शेषः)। इह=अत्र, अहं=रामः,तां=सीतां, द्रष्टुं=विलोकयितुम् आह्वम्=आकारयम्” एवम्=इत्थं, स्मरन्=स्मरणं कुर्वन्, सः=रामः, मुमोह=मुमूर्च्छ।

** व्युत्पत्तिः—**गन्धैः=द्रव्यवाचकत्वेन बहुवचनम्। व्यलिपत्=“लिप उपदेहे”इति धातोर्लुङि “लिपिसिचिह्वश्च” इति च्लेरङ्। स्नान्ती=स्नातीति विग्रहे शतरिङीप् “आच्छीनद्योर्नुम्” इति विकल्पान्नुम्।अभ्यषिचत्=“षिच क्षरणे” इति धातोर्लुङि पूर्ववदङ्, “प्राक्सितादड्व्यवायेऽपि” इति षत्वम्। आह्वम्=“ह्वेञ्स्पर्धायांशब्दे च” इति धातोर्लुङि पूर्ववदङ् “आतो लोप इटि च” इत्याकारलोपः।

** भावाऽर्थः—**“सीता अस्मिन्प्रदेशे चन्दनादिद्रव्यैरात्मानं विलिप्तवती, अत्रस्नान्ती सती जलैर्मामभिषिक्तवती। इहाऽहं तां द्रष्टुमाहूतवान्” इत्थं स्मरन्रामो मुमूर्च्छ।

** भाषाऽर्थः—**सीताजी इस जगहपर चन्दन आदि द्रव्योंसे अपने शरीरमेंलेपन करती थीं, यहांपर स्नान करती हुई मुझपर जल छिड़कती थीं। यहां मैंउनको देखनेके लिए बुलाताथा ऐसा स्मरण करते हुए रामचन्द्रजी मूर्च्छित हुए।

तस्याऽलिपत शोकाऽग्निः स्वान्तं काष्ठमिव ज्वलन्।
अलिप्तैवाऽनिलः शीतो वने तं न त्वजिह्वदत्॥ २२॥

** अन्वयः—**ज्वलन् शोकाऽग्निः तस्य स्वान्तं काष्ठम् इव अलिपत। शीतः

वने अनिलः तम् अलिप्त एव, तु न अजिह्लदत्।

** प्रयोगप०—**ज्वलता शोकाऽग्निना स्वान्तं काष्ठमिव अलेपि। शीतेन अनिलेन सोऽलेपि एव, न अह्लादि।

** व्याख्या—**ज्वलन्=दीप्यमानः, शोकाऽग्निः=शोकाऽनलः, तस्य=रामस्य,स्वान्तं=चित्तं, काष्ठम् इव=इन्धनम् इव, अलिपत =अदहत्। शीतः=शीतलः,वने=अरण्ये, (विद्यमानः) अनिलः=वायुः, तं=रामम्, अलिप्त एव=ददाह एव,तु=किन्तु, न अजिह्लदत्=न आनन्दयत् (प्रत्युत सोऽपि ददाहैवेत्यर्थः)।

** व्युत्पत्तिः—**शोकाऽग्निः=शोक एवाऽग्निः (रूपक०)। स्वान्तं=“क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताऽविस्पष्टस्वराऽनायासभृशेषु” इति मनसि निपातितम्।“चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः।“इत्यमरः। अलिपत=“लिप उपदेहे” इति धातोः “स्वरितञितः कर्त्रभिप्राये क्रियाफले” इतिक्रियाफल-विवक्षायामात्मनेपदे लुङि रूपम्। “लिपिसिचिह्वश्च” इत्यनुवृत्तौ “आत्मनेपदेष्वन्यतरस्याम्” इति विकल्पेन च्लेरङ्। अलिप्त=अङभावपक्षेपूर्वधातोरेव “झलो झलि” इति सिचो लोपः। अजिह्लदत्=“ह्लादी सुखे च"इति धातोर्णौ लुङि चङयुपधाह्रस्वः।

** भावाऽर्थः—**यथाऽग्निः काष्ठं दहति तथा शोकाऽग्निस्तस्य चित्तं ददाह।शीतो वनवातोऽपि तं दग्धवानेव, सुखप्रदो नाऽभूत्।

**भाषाऽर्थः—**जिस तरह आग लकड़ीको जलाती है उसी तरह शोकाऽग्निनेरामके चित्तको जलाया। शीतल वनके वायुने भी उन्हें जलाया, सुख नहीं दिया॥२२॥

स्नानभ्यषिचताऽम्भोऽसौ रुदन्दयितया विना।
तथाऽभ्यषिक्त वारीणि पितृभ्यः शोकमूर्च्छितः॥२३॥

** अन्वयः—**दयितया विना शोकमूर्च्छितः असौ रुदन् स्नान् अम्भः अभ्यषिचत, तथा पितृभ्यः वारीणि अभ्यषिक्त।

** प्रयोगप०—**शोकमूर्च्छितेन अमुना रुदता स्नाता अम्भः अभ्यषेचि, वारीणिअभ्यषिचत।

** व्याख्या—**दयितया विना=प्रियया (सीतयेत्यर्थः) विना, शोकमूर्च्छितः=मन्युमूढः, असौ=रामः, रुदन्=अश्रु विमुञ्चन्, स्नान्=स्नानं कुर्वन्, अम्भः=जलं,अभ्यषिचत=क्षिप्तवान्, तथा=तेन प्रकारेण, पितृभ्यः=अग्निष्वात्तादिभ्यः, वारीणि=

जलानि, अभ्यषिक्त=क्षरितवान् (दत्तवानित्यर्थः)।

** व्युत्पत्तिः—**शोकमूर्च्छितः=शोकेन मूर्च्छितः (तृ० त०)। स्नान्=स्नातीति स्नान् ‘“ष्णा शोचे” इति धातोर्लटः शत्रादेशः। अभ्यषिचत=अभिपूर्वकात्“षिच क्षरणे” इति धातोरात्मनेपदे लुङ्। “आत्मनेपदेष्वन्यतरस्याम्” इति विकल्पेनाऽङ्। अभ्यषिक्त=अङभावपक्षे “झलो झलि” इति सिज्लोपः। षिचिरत्रोत्सर्गे वर्तते, अतो जलस्य कर्मत्वमभ्युक्षणे तु करणत्वम्।

** भावाऽर्थः—**सीताविरहेण शोकमूढो रामो रुदन्स्नानसमये शिरस्यञ्जलिनाजलं क्षिप्तवान्, तथा पितृभ्यः जलानि दत्तवान्।

** भाषाऽर्थः—**सीताके विना शोकमूर्च्छित हो कर रामचन्द्रने रोते हुए स्नानके समयमें शिरमें अञ्जलिसे जल डाला और उसी तरह पितरोंको जलदान किया॥२३॥

तथाऽऽर्तोपि क्रियां धर्म्यां स काले नाऽमुचत्क्वचित्।
महतां हि क्रिया नित्या छिद्रे नवाऽवसीदति॥२४॥

** अन्वयः—**तथा आर्तः अपि स धर्म्यांक्रियां क्वचित् काले न अमुचत् ; हिमहतां छिद्रे (अपि) नित्या क्रिया न अवसीदति एव।

** प्रयोगप०—**आर्तेन अपि तेन धर्म्या क्रिया न अमोचि, नित्यया क्रिययान अवसद्यते।

** व्याख्या—**तथा=तेन प्रकारेण, आर्तोऽपि=आकुलोऽपि सः=रामः, धर्म्यां=धर्माऽनपेतां (विहितामित्यर्थः), क्रियाम्= अनुष्ठानं, क्वचित्=कुत्रचित् (अपि),काले=समये, न अमुचत्=न त्यक्तवान्, हि=यतः, महतां=सतां, छिद्रे=व्यसने(अपि), नित्या क्रिया=नियताऽनुष्ठानं, न अवसीदति एव=न लुप्यत एव।

** व्युत्पत्तिः—**धर्म्यां=धर्मादनपेता धर्म्या, ताम्, “धर्मपथ्यर्थन्यायादनपेते”इति यत्। अमुचत्=“मुच्लृ मोक्षणे” इति धातोर्लुङ्, लृदित्त्वादङ्। सामान्येनविशेषसमर्थनरूपोऽर्थान्तरन्यासः।

** भावाऽर्थः—**सीतावियोगेन अत्यर्थमाकुलोऽपि रामोजातुचिदपि धर्मकार्यंन तत्याज, यतो विपद्यपि सतां नित्यकर्मानुष्ठानं न लुप्यत एव।

** भाषाऽर्थः—**उस तरह आकुल हो कर भी रामचन्द्रजीने धर्मकार्य को किसीसमयमें भी नहीं छोड़ा, क्यों कि विपत्तिमें भी सज्जनोंका नित्य कर्म लुप्त नहींहोता॥२४॥

आह्वास्त स मुहुः शूरान्मुहुराह्वत राक्षसान्।
एत सीताद्रुहः ! संख्ये प्रत्यर्थयत राघवम्॥२५॥

** अन्वयः—**स मुहुः शूरान् आह्वास्त, राक्षसान् (अपि) मुहुः आह्वत–“हेसीताद्रुहः !एत, संख्ये राघवं प्रत्यर्थयत”।

** प्रयोग प०—**तेन शूरा राक्षसा अपि आह्वायिषत, युष्माभिरीयतां, राघवःप्रत्यर्थ्यताम्।

** व्याख्या—**सः=रामः, मुहुः=वारं वारं, शूरान्=शूराऽभिमानिनः, आह्वास्त=स्पर्धया आहूतवान्, राक्षसान्=रक्षांसि (अपि), मुहुः=वारं वारम्,आह्वत=स्पर्धया आहूतवान्, हे सीताद्रुहः=हे सीताद्रोहिणः, एत=आगच्छत, संख्ये=युद्धे,राघवं=रामं, प्रत्यर्थयत=प्रत्यर्थिनं कुरुत (योधयध्वमित्यर्थः)।

** व्युत्पत्तिः—**आह्वास्त=“स्पर्धायामाङः” इत्यात्मनेपदे लुङ्। आह्वत=“आत्मनेपदेष्वन्यतरस्याम्” इति विकल्पेनाऽङ्। एत=आङ्पूर्वात् “इण् गतौ” इतिधातोः कर्तरि लोटि थस्य तादेशः। संख्ये=“मृधमास्कन्दनं संख्यं समीकं सांपरायिकम्।” इत्यमरः। प्रत्यर्थयत=प्रत्यर्थिन्शब्दात् “तत्करोति तदाचष्टे” इतिण्यन्तात् लोटि थस्य तादेशः, णाविष्टवद्भावाट्टिलोपः। अर्थयतेस्तु (“अर्थ उपयाञ्चायाम्” इत्यस्य तु ) नित्यात्मनेपदित्वम्।

** भावाऽर्थः—**रामो मुहुः शूरान् राक्षसानपि स्पर्धयाऽऽहूतवान्—“हे सीताद्रोहिणः ! आगच्छत, युद्धे मां प्रत्यर्थिनं कुरुत”।

** भाषाऽर्थः—**रामने वारं वार शूरोंको और राक्षसोंको भी लड़नेके लिए ललकारा—“हे सीताद्रोहियों ! आओ, संग्राममें रामका मुकाबला करो।

स्वपोषमपुषद्युष्मान्या पक्षिमृगशावकाः।
अद्युतच्चेन्दुना सार्धं, तां प्रब्रूत, गता यतः॥२६॥

** अन्वयः—**हे पक्षिमृगशावकाः ! या युष्मान् स्वपोषम् अपुषत्, इन्दुनासार्धम् अद्युतच्च, तां प्रब्रूत ;यतः गता।

** प्रयोगप०—**यया यूयम् अपुक्षध्वम्, अद्योति, सा प्रोच्यतां, गतया (भूयते)।

** व्याख्या—**हे पक्षिमृगशावकाः=हे विहगहरिणशिशवः, या=सीता, युष्मान्=भवतः, स्वपोषम् अपुषत्=स्वेन (धनेन आत्मना वा) पुष्टवती, इन्दुना=चन्द्रेण,सार्धं=समम्, अद्युतत्=द्योतते स्म (इन्दुसाम्येन व्यद्योतिष्टेत्यर्थः), तां=सीतां,

प्रब्रूत=कथयत, यतः=यत्र, गता=याता (तत् स्थानं ब्रूतेत्यर्थः)।

**व्युत्पत्तिः—**पक्षिमृगशावकाः=पक्षिणश्च मृगाश्च पक्षिमृगाः (द्वन्द्वः)।तेषां शावकास्तत्सम्बोधने (ष० त०)। “पोतः पाकोऽर्भको डिम्भः पृथुकःशावकः शिशुः।” इत्यमरः। स्वपोषं=स्वेन पुष्ट्वा स्वपोषं, “स्वे पुषः” इति णमुल्। अपुषत्= कषादित्वादनुप्रयोगः, पुषादित्वादङ् च। अद्युतत्=“द्युद्भ्योलुङि”इति विकल्पात्परस्मैपदं द्युतादित्वादङ् च। यतः=यस्मिन्निति यतः, आद्यादित्वात्तसिः।

** भावाऽर्थः—**हे पशुपक्षिशावकाः ! या सीता युष्मान् अन्नपानादिना पुष्टवती, चन्द्रसाम्येन व्यद्योतिष्ट; तां कथयत। सा यत्र (स्थाने) गता, तत्(स्थानम्) प्रब्रूत।

** भाषाऽर्थः—**हे पशुपक्षियों के बच्चे ! जिन सीताने तुम लोगोंको अन्नपानादिसे बढाया, जो (सीता) चन्द्रकी तरह प्रकाशित होती थीं, उन्हें बतलाओ।वह जहां गई हैं उस स्थानको कहो।

गिरिमन्वसृपद्रामो लिप्सुर्जनकसंभवाम्।
तस्मिन्नायोधनं वृत्तं लक्ष्मणायाशिषन्महत्॥२७॥

** अन्वयः—**रामः जनकसंभवां लिप्सुः गिरिम् अन्वसृपत्, तस्मिन् वृत्तंमहत् आयोधनं लक्ष्मणाय अशिषत्।

**प्रयोगप०—**रामेण लिप्सुना गिरिः अन्वसर्पि,^(…….)आयोधनम् अशासि।

** व्याख्या—**रामः=रामचन्द्रः, जनकसंभवां=सीतां,लिप्सुः=लब्धुमिच्छुः,गिरिं=पर्वतम्, अन्वसृपत्=अभ्यगमत्, तस्मिन्= गिरौ,वृत्तं=पुराभूतं, महत्=असाधारणम्, आयोधनं=युद्धं, लक्ष्मणाय=स्वानुजाय, अशिषत्=अवोचत्।

** व्युत्पत्तिः—**जनकसंभवां=संभवत्यस्मादिति संभवः, “ॠदोरप्” इत्यप्।जनकः संभवो यस्याः सा जनकसंभवा, ताम् (बहु०)। लिप्सुः=लभेः सन्नन्तादुः, “सनि मीमाघुरभलभशकपतपदामच इस्” इति इसि “अत्र लोपोऽभ्यासस्य"इत्यभ्यासलोपः। अन्वसृपत्=अनुपूर्वात् “सृप्लृगतौ” इति धातोर्लुङ्, लुदित्त्वादङ्। लक्ष्मणाय=क्रियायोगे चतुर्थी। अशिषत्=“शासु अनुशिष्टौ ” इति धातोर्लुङ्, “सर्तिशास्त्यर्तिभ्यश्च” इति च्लेरङ्"शास इदङ्हलोः” इतीत्वे “शासिवसिघसीनां च” इति षत्वम्।,

** भावाऽर्थः—**रामः सीताप्राप्तीच्छया पर्वतमभ्यगमत्तत्र पुराभूतं महायुद्धंलक्ष्मणाय अवोचत्।

** भाषाऽर्थः—**रामचन्द्रजी सीताको पानेकी आशासे पर्वतके संमुख गये औरउन्होंने वहाँपर पहले जो महायुद्ध हुआ था उसे लक्ष्मणको कहा।

सीतां जिघांसूसौमित्रे ! राक्षसावारतां ध्रुवम्।
इदं शोणितमभ्यग्रं संप्रहारेऽश्च्युतत्तयोः॥२८॥

** अन्वयः—**हे सौमित्रे ! सीतां जिघांसू राक्षसौ आरतां, ध्रुवम्। तयोः संप्रहारे इदम् अभ्यग्रं शोणितम् अश्च्युतत्।

** प्रयोगप०—**सीतां जिघांसुभ्यां राक्षसाभ्याम् आरि। अनेन अभ्यग्रेणशोणितेन अश्च्योति।

** व्याख्या—**हे सौमित्रे=हे लक्ष्मण ! सीतां=जानकीं, जिघांसू=हन्तुमिच्छू,राक्षसौ=यातुधानौ, आरताम्=आगतौ, ध्रुवं= निश्चितम्। तयोः=राक्षसयोः, संप्रहारे=युद्धे, इदं=पुरःस्थम्, अभ्यग्रं=प्रत्यग्रं, शोणितं=लोहितम्, अश्च्युतत्=क्षरितम् (एतच्च युद्धसूचकं चिह्नमिति भावः)।

** व्युत्पत्तिः—**जिघांसू=हन्तेः सन्नन्तादुप्रत्ययः “अज्झनगमां सनि” इतिदीर्घः। आरताम्=“ऋ गतौ” इति धातोर्लुङि “सर्तिशास्त्यर्तिभ्यश्च” इत्यङ्“आडजादीनाम्” इत्याट्। संप्रहारे=“संप्रहाराऽभिसंपातकलिसंस्फोटसंयुगाः।“अश्च्युतत्= “श्च्युतिर् क्षरणे” इति धातोर्लुङि“इरितो वा” इति च्लेरङ्।

** भावाऽर्थः—**हे लक्ष्मण ! सीतावधेच्छुकौ राक्षसौ आगतौ, निश्चितम्। तथाहि—तयोर्युद्धे एतदभिनवं रक्तं क्षरितम् (इदमेव युद्धचिह्नम्)।

** भाषाऽर्थः—**हे लक्ष्मण ! निश्चय ही यहांपर सीताको मारनेकी इच्छा करनेवाले दो राक्षस आये थे, उन दोनोंके युद्धमें यह ताजा खून क्षरित (चूआ) हुआ है॥२८॥

इदं कवचमच्योतीत्साऽश्वोऽयं चूर्णितो रथः।
एह्यमुं गिरिमन्वेष्टुमवगाहावहे द्रुतम्॥२९॥

** अन्वयः—**इदं कवचम् अच्योतीत्, अयं साऽश्वः रथः चूर्णितः ; अन्वेष्टुम् अमुं गिरिम् अवगाहावहे। द्रुतम् एहि।

** प्रयोगप०—**अनेन कवचेन अच्योति, अनेन साऽश्वेन रथेन चूर्णितेन (भूयते), असौ गिरिः अवगाह्यते, एयताम्।

** व्याख्या—**इदम्=एतत्, कवचं=वर्म, अच्योतीत्=अपतत्, अयम्=एषः,साऽश्वः=सहयः, रथः=स्यन्दनः, चूर्णितः= चूर्णीकृतः, अन्वेष्टुं=सीतां गवेषितुम्,अमुम्=एतं, गिरिं=पर्वतम्, अवगाहावहे=प्रवेक्ष्यावहे, द्रुतं=शीघ्रं, एहि=आगच्छ।

** व्युत्पत्तिः—**अच्योतीत्=“इरितो वा” इत्यङभावपक्षेरूपम्। सिचि “नेटि” इति वृद्धिप्रतिषेधे लघूपधगुणः। साऽश्वः=अश्वैः सहितः (बहु०)।

** भावाऽर्थः—**इदं कवचं पतितं, साश्वोऽयं रथोऽपि चूर्णीकृतः। सीतायाअन्वेषणार्थमिमं पर्वतं प्रवेक्ष्यावहे। शीघ्रमामच्छ।

** भाषाऽर्थः—**यह कवच जमीनपर गिरा है, यह रथ घोड़ोंके साथ चूर्णहुआ है। सीताको ढूंढनेके लिए इस पर्वतपर प्रवेश करें,जल्दी आओ॥२९॥

मन्युर्मन्ये ममाऽस्तम्भीद्विषादोऽस्तभदुद्यतिम्।
अजारीदिव च प्रज्ञा बलं शोकात्तथाऽजरत्॥३०॥

** अन्वयः—**(हे लक्ष्मण !) मममन्युः अस्तम्भीत् (इति) मन्ये, विषादउद्यतिम् अस्तभत्, प्रज्ञा च अजारीत् इव ; तथा बलं शोकात् अजरत्।

** प्रयोगप०—**“मन्युना अस्तम्भि” इति (मया) मन्यते। विषादेन उद्यतिःअस्तम्भि, प्रज्ञया च अजारि इव ; बलेन अजारि।

** व्याख्या—**(हे लक्ष्मण !) मम=रामस्य, मन्युः=शोकः, अस्तम्भीत=स्तब्धोऽभूत् (अतिदुःखो निर्दुःख इति न्यायादिति भावः), (इति=इत्थम्)मन्ये=जाने (जयमङ्गलभरतमल्लिकयोर्मते तु—मन्यु=शोकः, मम, मन्ये=ग्रीवायाःपश्चाद्भागे स्थितसिरे, अस्तम्भीत्=स्तब्धवान् इत्यर्थः)। विषादः=मनोभङ्गः,उद्यतिम्=उद्यमम्, अस्तभत्=तस्तम्भ, प्रज्ञा च=बुद्धिश्च, अजारीत् इव=जीर्णा इव, तथा=तेन प्रकारेण (प्रज्ञावदेवेत्यर्थः), बलं=शक्तिः, शोकात्=मन्योः, अजरत्=जीर्णम्।

** व्युत्पत्तिः—**अस्तम्भीत्=“स्तम्भु रोधनस्तम्भनयोः” इति सौत्रधातोर्लुङि“जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च” इति विकल्पादभावे सिचि “इटईटि” इति सलोपः। अस्तभत्=पूर्वोक्तादेव धातोर्विकल्पादङ्पक्षेऽनुनासिकलोपः। अजारीत्= “जॄष् वयोहानौ” इति धातोर्लुङि पूर्वसूत्रेण विकल्पादङभावे सिचि वृद्धिःसलोपश्च। अजरत्=पूर्वधातोरेव विकल्पादङि “ॠदृशोऽङि गुणः” इति गुणः।

** भावाऽर्थः—**हे लक्ष्मण ! मम शोकः स्तब्धोऽभूदिति मन्ये, मनोभङ्ग उद्यमं

स्तब्धवान्, प्रज्ञा बलं च शोकात् जीर्णे।

** भाषाऽर्थः—**हे लक्ष्मण ! मेरा शोक स्थिर हुआ है, ऐसा मानता हूं। विषादने उद्यमको रोक दिया। बुद्धि जैसे जीर्ण हो गई है, उसी तरह बल भी शोकसेजीर्ण हो गया है॥३०॥

गृध्रस्येहाश्वतां पक्षौ कृत्तौ वीक्षस्व लक्ष्मण।
जिघत्सोर्नूनमापादि ध्वंसोऽयं तां निशाचरात्॥३१॥

** अन्वयः—**हे लक्ष्मण ! इह कृत्तौ गृध्रस्य पक्षौ अश्वताम्।वीक्षस्व। नूनंतां जिघत्सोः अयं ध्वंसः निशाचरात् आपादि।

** प्रयोगप०—**कृताभ्यां पक्षाभ्यामश्वायि, वीक्ष्यताम्। अनेन ध्वंसेन आपादि।

** व्याख्या—**हे लक्ष्मण=हे सौमित्रे, इह=अस्मिन् (प्रदेशे), कृत्तौ=छिन्नौ,गृध्रस्य=दाक्षाय्यस्य, पक्षौ=पतत्त्रे, अश्वतां शूनौ। वीक्षस्व=पश्य। नूनम्=अवश्यं, तां=सीतां, जिघत्सोः=अत्तुमिच्छोः (भक्षणेच्छोरित्यर्थः, गृध्रस्येति शेषः),अयं=पुरोविलोकितः, ध्वंसः=नाशः (पक्षच्छेद इत्यर्थः), निशाचरात्=राक्षसात्,आपादि=आपन्नः (आगत इत्यर्थः)।

** व्युत्पत्तिः—**अश्वतां=“टुओश्वि गतिवृद्धयोः” इति धातोर्लुङि “जॄस्तम्भ्वि”त्यादिना अङि “श्वयतेरः” इत्यकारे “अतो गुणे” इति पररूपत्वम्। जिघत्सोः=घसेरदेर्वा सन्नन्तादुप्रत्ययः। अदेस्तु “लुङसनोर्घस्लृ” इति सनि घस्लादेशः। आपादि=“पद गतौ” इति धातोः कर्तरि लुङि “चिण् ते पदः” इति च्लेश्चिणादेशे"चिणो लुक्” इति तशब्दस्य लुक्।

** भावार्थः—**हे लक्ष्मण ! अस्मिन् स्थाने छिन्नौ गृध्रपक्षौ शूनौ, विलोकय।अवश्यं निशाचरः सीताभक्षणेच्छोर्गृध्रस्येमं पक्षच्छेदं कृतवान्।

** भाषाऽर्थः—**हे लक्ष्मण ! यहांपर गृध्रके काटे गये डैने फैले हुए हैं, देखोनिश्चय ही सीताको खानेकी इच्छा करनेवाले गृध्रका यह पक्षच्छेद राक्षसका कियाहुआ है॥३१॥

क्रुद्धोऽदीपि रघुव्याघ्रो रक्तनेत्रोऽजनि क्षणात्।
अबोधि दुःस्थं त्रैलोक्यं दीप्तैरापूरि भानुवत्॥३२॥

** अन्वयः—**रघुव्याघ्रः क्रुद्धः (सन् ) अदीपि, क्षणात् रक्तनेत्रः अजनि,त्रैलोक्यं दुःस्थम् अबोधि, भानुवत् दीप्तैः आपूरि।

** प्रयोगप०—**रघुव्याघ्रेण क्रुद्धेन अदीपि, रक्तनेत्रेण अजनि, त्रैलोक्यं दुःस्थम्अबोधि, आपूरि।

** व्याख्या—**रघुव्याघ्रः=रघुश्रेष्ठः (राम इत्यर्थः), क्रुद्धः=कुपितः (सन्),अदीपि=दिदीपे (क्रोधादग्निरिव जज्वालेत्यर्थः), क्षणात्=अल्पकालादेव, रक्तनेत्रः=अरुणनयनः, अजनि=जातः, त्रैलोक्यं=लोकत्रयं, दुःस्थं=दुरवस्थम्, अबोधि=बुद्धवान् (सर्वं संहनिष्यामीत्यमन्यतेत्यर्थः), भानुवत्=सूर्यवत्, दीप्तैः=दीप्तिभिः,आपूरि=आपूर्णः (स सूर्यवद्दुर्दर्शोऽभूदित्यर्थः)।

** व्युत्पत्तिः—**रक्तनेत्रः=रक्ते नेत्रे यस्य सः (बहु०)। अजनि=“जनिवध्योश्च” इति चिणि वृद्धिप्रतिषेधः। त्रैलोक्यं=त्रयो लोकास्त्रैलोक्र्यं, चातुर्वर्ण्यादित्वात्स्वाऽर्थे ष्यञ्। दुःस्थं दुःखेन तिष्ठतीति “आतश्चोपसर्गे” इति कर्तरि कप्रत्ययः। भानुवत्= भानुना तुल्यं, “तेन तुल्यं क्रिया चेद्वतिः” इति वतिः। दीप्तैः=भावे क्तः। सर्वत्र कर्तरि लुङि “दीपजनबुध-पूरितायिप्यायिभ्योऽन्यतरस्याम्”इति च्लेश्चिणादेशे “चिणो लुक्” इति तशब्दस्य लुक्।

** भावाऽर्थः—**रामः कोपेनाऽग्निरिव जज्वाल, रक्तनेत्रः सञ्जातः,त्रैलोक्यंदुःस्थं बुद्धवान् ; एवं सूर्यवद् दुर्दर्शश्चाऽभूत्।

** भाषाऽर्थः—**रामचन्द्रजी क्रुद्ध हो कर अग्रिकी तरह प्रज्वलित हुए, क्षणमात्रमें उनके नेत्र लाल हो गये। उन्होंने त्रैलोक्यको नाश करनेका विचार कियाऔर वे सूर्यकी तरह तेजसे पूर्ण हुए॥३२॥

अताय्यस्योत्तमं सत्त्वमप्यायि कृतकृत्यवत्।
उपाचायिष्ट सामर्थ्यं तस्य संरम्भिणो महत्॥३३॥

** अन्वयः—**कृतकृत्यवत् अस्य उत्तमं सत्त्वम् अतायि, अप्यायि। संरम्भिणःतस्य सामर्थ्यं महत् उपाचायिष्ट।

** प्रयोगप०—**उत्तमेन सत्त्वेन अतायि, अप्यायि। सामर्थ्येन महत् उपाचायि।

** व्याख्या—**कृतकृत्यवत्=कृतकर्तव्यस्य इव (सर्वं कृतप्रायं मन्यमानस्येत्यर्थः), अस्य=रामस्य, उत्तमम्=उत्कृष्टं, सत्त्वं= बलम्, अतायि=सन्ततम् (अविच्छिन्नम्) अभूत्, अप्यायि=अवर्धिष्ट, संरम्भिणः=सम्भ्रान्तस्य कुपितस्य वा,तस्य=रामस्य, सामर्थ्यम्=अन्तःशक्तिः, महत्=अधिकम्, उपाचायिष्ट=स्वयमेवोपाचायि (ववृध इत्यर्थः)।

** व्युत्पत्तिः—**कृतकृत्यवत्=कृतं कृत्यं येन स कृतकृत्यः (बहु०), तस्यैवइति विग्रहे “तत्र तस्येव” इति वतिप्रत्ययः। अतायि, अप्यायि=“तायृय सन्तानपालनयोः” “ओप्यायी वृद्धौ” इति धातुभ्यां कर्तरि लुङि “दीपजने”त्यादिनाच्लेश्चिणादेशः। संरम्भिण=संरम्भः अस्यास्तीति संरम्भी, तस्य (इनि प्रत्ययः);“संरम्भः सम्भ्रमे कोपे” इति विश्वः। उपाचायिष्ट=“चिञ् चयने” इति धातोर्लुङि“अचः कर्मकर्तरि” इति कर्मकर्तरि च्लेश्चिणभावपक्षे सिचि चिण्वदिटि वृद्धिः।

** भावाऽर्थः—**कृतकृत्यस्येव रामस्य बलमविच्छिन्नमभूत् अवर्धिष्ट च। कुपितस्य तस्य अन्तःशक्तिरपि अधिकं ववृधे।

** भाषाऽर्थः—**कृतकृत्य पुरुषकी तरह रामचन्द्रजीका बल अविच्छिन्न हुआतथा बढ़ा भी। क्रोधपूर्ण होनेसे उनकी अन्तःशक्ति भी अधिक बढ़ गई॥३३॥

अदोहीव विषादोऽस्य, समरुद्धेव विक्रमः।
समभावि च कोपेन, न्यश्वसीच्चायतं मुहुः॥३४॥

** अन्वयः—**अस्य विषादः अदोहि इव, विक्रमः समरुद्ध इव, कोपेन समभावि च मुहुः आयतं न्यश्वसीच्च।

** प्रयोगप०—**विषादेन अदोहि, विक्रमेण समरोधि, कोपः समभूच्च। (तेन)आयतं न्यश्वासि च।

** व्याख्या—**अस्य=रामस्य, विषादः=मनःखेदः, अदोहि इव=स्वयमेव दुग्धःइव (क्षरित इव), विक्रमः=पराक्रमः, समरुद्ध इव=स्वयमेवाऽवरुद्ध इव, कोपेन=क्रोधेन, समभावि च=सम्भूतं च (‘समतप्त च’ इति मल्लिनाथसंमतः पाठस्तत्र अन्वतप्त च इत्यर्थः)। मुहुः=वारं वारम्, आयतं दीर्घं, न्यश्वसीच=निःश्वसितवांश्च (एतेन रौद्रस्थायिना क्रोधेन शोकस्तिरस्कृतः)।

** व्युत्पत्तिः—**अदोहि=दुहः कर्मकर्तरि लुङि तङि“दुहश्च” इति विकल्पात्च्लेश्चिणादेशः। समरुद्ध=रुधः कर्मकर्तरि लुङि तङि “कर्मवत्कर्मणा तुल्यक्रियः”इति कर्मवद्भावेन प्राप्तस्य चिणः “न रुधः” इति प्रतिषेधे सिच्। सकारस्य “झलोझलि” इति लोपे तङि स्थानिवद्भावान्न लघूपधगुणः, “झषस्तथोर्धोऽधः” इतिधत्वे “झलां जश् झशि” इति जश्त्वं च। समभावि=“चिण् भावकर्मणोः” इतिभावे चिण्। “समतप्त” इति मल्लिनाथपाठे तपेः कर्मकर्तरि “तपोऽनुतापे च"इति चिणः प्रतिषेधः। “झलो झलि” इति सलोपः। न्यश्वसीत्=“श्वस प्राणने”

इति धातोर्लुङ्। “ह्मयन्तक्षणश्वसजागृणिश्व्येदिताम्” इति वृद्धिनिषेधः। “तेनन्यश्वासि चायतम्” इति मल्लिनाथसंमतः पाठस्तत्र तेन=रामेण, आयतं=दीर्घं, न्यश्वासि च=निःश्वसितं चेत्यर्थः। श्वसेर्भावे लुङि “चिण् भावकर्मणोः”इति च्लेश्चिणादेशः।

** भावाऽर्थः—**रामस्य मनः खेदः स्वयमेव प्रपूर्यते स्मेव, पराक्रमः स्वयं संरुध्यते स्मेव, क्रोधः सञ्जातः। स भूयो भूयो दीर्घं निःश्वसितवांश्च।

** भाषाऽर्थः—**रामका विषाद जैसे स्वयम् ही पूर्ण हो गया, पराक्रम स्वयम्द्दी संरुद्ध होगया, क्रोध समुत्पन्न हुआ और वे बार बार लम्बी उसासें लेने लगे॥३४॥

अथ श्नमधिकारः।

अथाऽऽलम्ब्य धनू रामो जगर्ज गजविक्रमः।
“रुणध्मि सवितुर्मार्गं, भिनद्मि कुलपर्वतान्”॥३५॥

** अन्वयः—**अथ गजविक्रमः रामः धनुः आलम्ब्य जगर्ज “सवितुः मार्गंरुणध्मि, कुलपर्वतान् भिनद्मि”।

** प्रयोगप०—**गजविक्रमेण रामेण जगर्जे—“मार्गोरुध्यते, कुलपर्वताभिद्यन्ते”।

** व्याख्या—**अथ=कोपोत्पत्यनन्तरं, गजविक्रमः=हस्तिपराक्रमः। रामः=रामचन्द्रः, धनुः=चापम्, आलम्ब्य=गृहीत्वा, जगर्ज=गर्जितवान् (उच्चैर्बहुभीषणञ्च बभाषे इत्यर्थः)। सवितुः=सूर्यस्य, मार्गं=पन्थानं, रुणध्मि=आवृणोमि,कुल-पर्वतान्=कुलाऽचलान्, भिनद्मि=विदारयामि।

** व्युत्पत्तिः—**गजविक्रमः=गजस्येव विक्रमो यस्य सः (बहु०)। रुणध्मि=‘“रुधिर् आवरणे” इति धातोर्लटि मिपि “रुधादिभ्यः श्नम्” इति श्नम्।“वर्तमानसामीप्ये वर्तमानवद्वा” इति वर्तमानप्रत्ययः। “धनू राम” इत्यत्र “रोरि” इति रेफलोपे “ढ्रलोपे पूर्वस्य दीर्घोऽणः” इति दीर्घत्वम्।

** भावाऽर्थः—**ततो रामश्चापं गृहीत्वा जगर्ज—“अहं सूर्यमार्गमावरिष्यामिमहेन्द्रादीन्कुलपर्वतांश्च विदारयिष्यामि” इति।

** भाषार्थः—**तबहाथीकी तरह पराक्रमवाले रामचन्द्रजीने धनु ले कर गर्जनकिया—“मैं सूर्यकामार्गरोक लूंगा और महेन्द्र आदि कुलपर्वतोंका विदारण करूंगा”॥३५॥

रिणच्मि जलधेस्तोयं, विविनच्मि दिवः सुरान्।
क्षुणद्मि सर्पान्पाताले, छिनद्मिक्षणदाचरान्॥३६॥

** अन्वयः—**जलधेः तोयं रिणच्मि, सुरान् दिवः विविनच्मि, पाताले सर्पान्क्षुणद्मि, क्षणदाचरान् छिनद्मि।

** प्रयोगप०—**(मया) तोयं रिच्यते, सुरा विविच्यन्ते, सर्पाः क्षुद्यन्ते;क्षणदाचराश्छिद्यन्ते।

** व्याख्या—**जलधेः=समुद्रस्य, तोयं=जलं, रिणच्मि=रिक्तीकरोमि, सुरान्=देवान्, दिवः=स्वर्गात्, विविनच्मि=पृथक्करोमि, पाताले=रसातले, सर्पान्=भुजङ्गान्, क्षुणद्मि=चूर्णयामि, क्षणदाचरान्=राक्षसान्, छिनद्मि=द्विधा करोमि।

** व्युत्पत्तिः—**रिणच्मि=“रिचिर् विरेचने” इति धातोर्लट्। विविनच्मि=“विचिर् पृथग्भावे”। क्षुणद्मि=“क्षुदिर् सम्पेषणे”। छिनद्मि=“छिदिर् द्वैधीकरणे”।सर्वत्र सामीप्ये वर्तमानप्रत्ययः।

** भावाऽर्थः—**अहं समुद्रस्य जलं रिक्तीकरिष्यामि, देवान् स्वर्गादपनेष्यामि,पाताले सर्पान् चूर्णयिष्यामि राक्षसान् छेत्स्यामि च।

** भाषाऽर्थः—**मैं समुद्रको जलशून्य करूंगा, देवताओंको स्वर्गसे हटाऊंगा,पातालमें सर्पोंको चूर्ण चूर्ण कर दूंगा और राक्षसोंका छेदन करूंगा॥३६॥

यमं युनज्मि कालेन समिन्धानोऽस्त्रकौशलम्।
शुष्कपेषं पिनष्म्युर्वीमखिन्दानः स्वतेजसा॥३७॥

** अन्वयः—**अस्त्रकौशलं समिन्धानः यमं कालेन युनज्मि, अखिन्दानः स्वतेजसा उर्वीं शुष्कपेषं पिनष्मि।

** प्रयोगप०—**समिन्धानेन (मया) यमः युज्यते। अखिन्दानेन (मया)उर्वीं शुष्कपेषं पिष्यते।

** व्याख्या—**अस्त्रकौशलम्=आयुधनैपुण्यं, समिन्धानः=दीपयन् (संवर्धयन्निःत्यर्थः), यमम्=अन्तकं, कालेन=मृत्युना, युनज्मि=सम्बध्नाभि, अखिन्दानः=अश्राम्यन्,स्वतेजसा=आत्मप्रतापेन, उर्वीं पृथ्वीं, शुष्कपेषं पिनष्मि-शुष्कां कृत्वा चूर्णयामि।

** व्युत्पत्तिः—**अस्त्रकौशलम्=अस्त्रेषु कौशलमस्त्रकौशलं, तत् (स० त०)।समिन्धानः=“ञिइन्धी दीप्तौ” इति धातोर्लटः शानच् “इनान्नलोपः” इति धातुनकारलोपः “श्नसोरल्लोपः” इति प्रत्ययाऽकारलोपः। अखिन्दानः=“खिद दैन्ये"इति धातोः पूर्ववच्छानचि “इनसोरल्लोपः”। स्वतेजसा=स्वस्य तेजः स्वतेजस्तेन(ष० त०)। शुष्कपेषं=शुष्कं पिष्ट्वा, “पिष्लृ सञ्चूर्णने” इति धातोः “शुष्क

चूर्णरूक्षेषु पिषः” इति कर्मोपपदे णमुल्, कषाद्यनुप्रयोगश्च।

** भावाऽर्थः—**अहमायुधनैपुण्यं संवर्धयन्नन्तकमपि मृत्युपरवशं करिष्यामिकिमुताऽन्यम्। अश्राम्यन्नात्मप्रतापेन पृथ्वीमपि शुष्कां कृत्वा सञ्चूर्णयिष्यामि।

** भाषाऽर्थः—**मैं अस्त्रकौशलको बढ़ाता हुआ यमराजको भी मृत्युके अधीनकर दूंगा, श्रान्त न हो कर अपने प्रतापसे पृथ्वीको भी शुष्क करके चूर्ण चूर्णकर दूंगा॥३७॥

भूतिंतृणद्मि यक्षाणां, हिनस्मीन्द्रस्य विक्रमम्।
भनज्मि सर्वमर्यादास्तनच्मि व्योम विस्तृतम्॥३८॥

** अन्वयः—**यक्षाणां भूतिं तृणद्मि, इन्द्रस्य विक्रमं हिनस्मि, सर्वमर्यादाः भनज्मि; विस्तृतं व्योम तनच्मि।

** प्रयोगप०—**(मया) भूतिस्तृद्यते, विक्रमोहिंस्यते, सर्वमर्यादा भज्यन्ते;विस्तृतं व्योम तच्यते।

** व्याख्या—**यक्षाणां=देवयोनिविशेषाणां, भूतिं=सम्पत्तिं (कुवेरसम्पदमित्यर्थः), तृणद्मि=हिनस्मि, इन्द्रस्य=शक्रस्य, विक्रमं= पराक्रमं, हिनस्मि=नाशयामि,सर्वमर्यादाः=सकलव्यवस्थाः, भनज्मि=मर्दयामि, विस्तृतं=विततं, व्योम=आकाशं(‘व्योम-विस्तृतिम्’ इति मल्लिनाथसम्मतः पाठस्तत्र आकाशमहत्तामित्यर्थः),तनच्मि=सङ्कोचयामि।

** व्युत्पत्तिः—**तृणद्मि=“उतृदिर् हिंसाऽनादरयोः”। हिनस्मि=“हिसि हिंसायाम्”। सर्वमर्यादाः=सर्वाश्च ता मर्यादाः सर्वमर्यादास्ताः (क०धा०)। भनज्मि=“भज्जो आमर्दने”। तनच्मि=“तञ्चू सङ्कोचने”। सर्वत्र वर्तमानसामीप्ये प्रत्ययः।

** भावाऽर्थः—**अहं कुबेरसम्पदमुत्सादयिष्यामि, इन्द्रपराक्रमं नाशयिष्यामि,सर्वव्यवस्था भङ्क्षयामि; आकाशं सङ्कोचयिष्यामि च।

** भाषाऽर्थः—**मैं कुबेरकी सम्पत्तिका और इन्द्रके पराक्रमका नाश करूंगा।सकल व्यवस्थाओंका भङ्ग करूंगा एवम् विस्तृत आकाशको भी सङ्कुचित बनाऊंगा॥३८॥

न तृणेह्मीति लोकोऽयं मां विन्ते निष्पराक्रमम्।
एवं वदन्दाशरथिरपृणग्धनुषा शरम्॥३६॥

** अन्वयः—**न तृणेह्मिइति अयं लोकः मां निष्पराक्रमं विन्ते, दाशरथिः एवंवदन् धनुषा शरम् अपृणक्।

** प्रयोगप०—**(मया) न तृह्यते, अनेन लोकेन अहं निष्पराक्रमो विद्ये,दाशरथिना एवं वदता शरः अपर्चि।

** व्याख्या—**न तृणेह्मि=न हन्मि, इति=अस्माद्धेतोः, अयम्=एषः, लोकः=जनः (एते जना इत्यर्थः, जातावेकवचनम्), मां= रामं, निष्पराक्रमं=विक्रमरहितं, विन्ते=विचारयति, दाशरथिः=रामः, एवम्=इत्थं, वदन्=गर्जन्, धनुषा=चापेन, शरं=बाणम्, अपृणक्=अयुनक्।

** व्युत्पत्तिः—**तृणेह्मि=“तृहहिंसायाम्” इति तृहधातोर्लटि मिपि श्नमि “तृणह इम्” इति इम् गुणश्च। लोकः=“लोकस्तु भुवने जने।” इत्यमरः। निष्पराक्रमं=निर्गतः पराक्रमो यस्मात् स निष्पराक्रमस्तम् (बहु०)। विन्ते=“विद विचारणे” इति धातोर्लटि तङ् “इनसोरल्लोप” इत्यल्लोपष्टेरेत्वं च। अपृणक्=“पृचीसम्पर्के” इति धातोर्लङि तिपि श्नम्हल्ङयादिलोपश्च।

** भावाऽर्थः—**“अहं न मारयामि इति हेतोरयं लोको मां पराक्रमशून्यं विचारयति” राम इत्थं गर्जन् कार्मुकेण शर-संयोगमकरोत्।

** भाषाऽर्थः—**मैं नहीं मारता हूं, इस कारणसे लोग मुझको पराक्रमशून्यविचार करते हैं इस तरह गर्जन करते हुए रामचन्द्रजीने धनुसे बाणकी योजनाकी॥३९॥

अथ पुनः प्रकीर्णकाः।

न्यवर्तयत्सुमित्राभूस्तं चिकीर्षुं जगत्क्षयम्।
तेजः क्षात्रं विवृण्वन्तं दिधक्षन्तमिवाऽनलम्॥४०॥

** अन्वयः—**सुमित्राभूः क्षात्रं तेजः विवृण्वन्तं दिधक्षन्तम् अनलम् इव (स्थितम्) जगत्क्षयं चिकीर्षुं तं न्यवर्तयत् (जयमङ्गलमते उत्तरार्द्धे “ऐक्षेतामाश्रमादाराद्गिरिकल्पं पतत्रिणम्।” इत्थं पाठभेदः। तत्र तौ आश्रमात् आरात् गिरिकरूपंपतत्रिणम् ऐक्षेताम् इत्यन्वयः)।

** प्रयोगप०—**सुमित्राभुवा विवृण्वन् दिधक्षन् अनल इव (स्थितः) चिकीर्षुः स न्यवर्त्यत।

** व्याख्या—**सुमित्राभूः=लक्ष्मणः, क्षात्रं=क्षत्रस्य, तेजः=प्रतापं, विवृण्वन्तं=पूर्वोक्तगर्जनेन प्रकटयन्तं दिधक्षन्तं= दग्धुमिच्छन्तम्, अनलम् इव=अग्निम्इव (स्थितम्), जगत्क्षयं=लोकसंहारं, चिकीर्षुं=कर्तुमिच्छुं, तं=रामं, न्यवर्तयत्= न्यवारयत्।

** व्युत्पत्तिः—**सुमित्राभूः=सुमित्रायां भवतीति, “क्विप् च” इति क्विप्।क्षात्रं=क्षत्रस्येदं क्षात्रं, तत् (अण्)। दिदक्षन्तं=दहेः सन्नन्तालटः शत्रादेशोघत्वादिकार्यं च। जगत्क्षयं=जगतः क्षयो जगत्क्षयस्तम् (ष० त०)।

** भावार्थः—**लक्ष्मणः पूर्वगर्जनेन क्षत्रपराक्रमं प्रकटयन्तमत एव दाहेच्छुकमग्निमिव स्थितं लोकसंहारं कर्तुमिच्छन्तं रामं निवारितवान्।

** भाषाऽर्थः—**लक्ष्मणने क्षत्रियप्रतापको प्रकट करनेवाले, अत एव दाहकरनेकी इच्छा करनेवाले अग्निकी तरह स्थित और लोकक्षय करनेको इच्छुक रामचन्द्रजीको रोका॥४०॥

ऐक्षेतामाश्रमादाराद् गिरिकल्पं पतत्रिणम्।
तं सीताघातिनं मत्वा हन्तुं रामोऽभ्यधावत॥४१॥

** अन्वयः—**(तौ) आश्रमात् आरात् गिरिकल्पं पतत्त्रिणम् ऐक्षेताम्। रामःतं सीताघातिनं मत्वा हन्तुम् अभ्यधावत (जयमङ्गलमते उत्तरार्द्धस्य पूर्वार्द्ध पाठः,उत्तरार्द्धे तु “मा वधिष्ठा जटायुं मां सीतां रामाऽहमैक्षिषि” एतादृशः पाठः)।

** प्रयोग प०—**(ताभ्याम्) गिरिकल्पः पतत्त्री ऐक्ष्यत। रामेण अभ्यधाव्यत।

** व्याख्या—**(तौ=रामलक्ष्मणौ) आश्रमात् आरात्=आश्रमस्य समीपे, गिरिकल्पं=पर्वतसदृशं, पतत्रिणं=पक्षिणम् (जटायुषमित्यर्थः), ऐक्षेताम्=अपश्यताम्। रामः=रामचन्द्रः, तं=जटायुषं, सीताघातिनं=मैथिलीघातकं, मत्वा=विचार्य, हन्तुं= मारयितुम्, अभ्यधावत=वेगेन अभिमुखं गतवान्।

** व्युत्पत्तिः—**आश्रमात्=“आरात् " इति पदेन योगे पञ्चमी। गिरिकल्पम्=ईषदसमाप्तो गिरिर्गिरिकल्पस्तम्, “ईषदसमाप्तौ कल्पब्देश्यदेशीयरः” इति कल्पप्प्रत्ययः। सीताघातिनं=सीतां हतवानिति सीताघाती, तं “कर्मणि हनः” इतिहन्तेः कुत्सिताऽर्थे भूते णिनिः। स्त्रीवधस्य निन्दितत्वादिति। हन्तुं=“तुमुन्ण्वुलौक्रियायां क्रियार्थायाम्” इति तुमुन्। अभ्यधावत=अभिपूर्वात् “धावु गतिशुद्धयोः” इति धातोर्लङि स्वरितत्त्वादात्मनेपदम्।

** भावाऽर्थः—**राघवौ आश्रमसमीपे पर्वतसमं पक्षिराजं जटायुषमपश्यताम्।रामः “अनेन सीता हता” इति मत्वा तं हन्तुं वेगेनाऽभिमुखं गतवान्।

** भाषाऽर्थः—**राम और लक्ष्मणने आश्रमके समीपमें पक्षिराज जटायुकोदेखा। राम उन्हें सीताका हत्यारा समझ कर मारनेके लिए वेगपूर्वक सम्मुख गये॥४१॥

माऽऽवधिष्ठाजटायुं मां सीतां रामाऽहमैक्षिषि
उपास्थितैवमुक्ते तं सखायं राघवः पितुः॥४२॥

** अन्वयः—**“हे राम ! मा आवधिष्ठाः, मां जटायुं (विद्धि), अहं सीताम्ऐक्षिषि” एवम् उक्ते राघवः पितुः सखायं तम् उपास्थित (जयमङ्गलमते तुउत्तरार्द्धस्य पूर्वार्द्धे पाठः उत्तरार्द्धे तु “पप्रच्छ जानकीवार्तां संग्रामं च पतन्त्रिणम्ततो रावणमाख्याय द्विषन्तं पततां वरः॥ एतादृशः पाठः।

** प्रयोगप०—**मा आवधि, अहं जटायुः (विद्यै), मया सीता ऐक्षि” राघवेण सखा स उपास्थायि।

**व्याख्या—**हे राम=हे रामचन्द्र, मा आवधिष्ठाः=मा वधीः, मां=पुरःस्थितं,जटायुं=जटायुनामकं, त्वत्पितृसखमित्यर्थः (विद्धीति शेषः) अहं=जटायुः, सीतां=मैथिलीम्, ऐक्षिषि=अद्राक्षम्, एवम्=इत्थम्, (तेन=जटायुना) उक्ते= कथिते,राघवः=रामः, पितुः=तातस्य (दशरथस्येत्यर्थः), सखायं=मित्रं, तं=जटायुम्,उपास्थित=संगतः।

** व्युत्पत्तिः—**मा आवधिष्ठाः=आङ्पूर्वाद्धन्तेरकर्मकात् “आङो यमहनः” इत्यात्मनेपदम् “आत्मनेपदेष्वन्यतरस्याम्” इति वधादेशः हिंसार्थो वधिरयंप्रकृत्यन्तरमिति पक्षेऽप्यात्मनेपदं चिन्त्यम् (तादृशधात्वनुपलब्धेः) “माबाधिष्ठा” इति पाठान्तर-कल्पनं च साहसमेव “मा बन्धिष्ठा” इति जयमङ्गलाकारकल्पितपाठस्तु पापिष्ठः, (बध्नातेः ‘बन्ध बन्धने’ इति धातोः) अनात्मनेपदित्वादर्थविरोधाच्चेति महोपाध्यायो मल्लिनाथः ऐक्षिषि=ईक्षतेः कर्तरि लुङि तङिसिच इट्। उपास्थित= “उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वाच्यम्”इति संगतिकरण आत्मनेपदम् “स्थाध्वोरिच्च” इतीत्वं “ह्रस्वादङ्गात्”इति सिचो लोपः।

** भावाऽर्थः—**“हे राम! मा जहि, मां स्वपितृसखं जटायुषं जानीहि, अहं सीतामपश्यम्” इति तेन पक्षिणोक्ते सति रामः स्वपितुः सखायं तं जटायुषं संगतः।

** भाषाऽर्थः—**“हे राम ! मत मारो, मुझे अपने पिताके मित्र जटायु जानो”उक्त पक्षीके ऐसा कहनेपर रामचन्द्रजी अपने पिताके मित्र जटायुसे मिले॥४२॥

ततो रावणमाख्याय द्विषन्तं पततां वरः।
व्रणवेदनया ग्लायन्ममार गिरिकन्दरे॥४३॥

** अन्वयः—**ततः पततां वरः रावणं द्विषन्तम् आख्याय व्रणवेदनया ग्लायन्गिरिकन्दरे ममार (जयमङ्गलमते तु उत्तरार्द्धस्य पूर्वार्द्धेपाठः, उत्तरार्द्धे तु “तस्याऽग्न्यम्बुक्रियां कृत्वा प्रतस्थाते पुनर्वनम्।” एतादृशः पाठः)।

** प्रयोगप०—**पततां वरेण ग्लायता मम्रे।

** व्याख्या—**ततः=रामसमागमाऽनन्तरं, पततां=पक्षिणां, वरः=श्रेष्ठः (जटायुरित्यर्थः), रावणं=दशाननं, द्विषन्तं=द्रोहिणम् (सीताहर्तारमित्यर्थः), आख्याय=कथयित्वा, व्रणवेदनया=प्रहारव्यथया, ग्लायन्=म्लायन्, गिरिकन्दरे=दर्यां, ममार=मृतः।

** व्युत्पत्तिः—**द्विषन्तं=द्वेष्टीति द्विषन्, तं “द्विषोऽमित्रे” इति शतृप्रत्ययः।व्रणवेदनया=व्रणस्य वेदना व्रणवेदना, तया (तृ० त०)। ग्लायन्=ग्लायतीति,“ग्लै हर्षंक्षये” इति धातोः शतरि शपि “आदेच उपदेशेऽशिति” इत्यात्वाऽभावात् आयादेशः। ममार=“मृङ् प्राणत्यागे” इति धातोर्लिटि “म्रियतेर्लुङ्लिङोश्च”इति नियमान्न तङ्।

** भावाऽर्थः—**ततो जटायुः “हे राम ! रावणः सीताऽपहारकोस्ति” इतिकथयित्वा प्रहारव्यथया ग्लानः सन् पञ्चत्वं गतः।

** भाषाऽर्थः—**तब पक्षिश्रेष्ठ जटायुने “हे राम ! रावण ही सीताजी का अपहरण करनेवाला है” ऐसा कह कर प्रहारकी वेदनासे ग्लानियुक्त हो कर पर्वतकीगुफा में शरीरत्याग किया॥४३॥

तस्याऽग्न्यम्बुक्रियां कृत्वा प्रतस्थाते पुनर्वनम्।
विषादमीयिवांसौ तौ विचिन्वानावितस्ततः॥४४॥

** अन्वयः—**तौ तस्य अग्न्यम्बुक्रियां कृत्वा विषादम् ईथिवांसौ पुनः इतस्ततः विचिन्वानौ वनं (प्रति) प्रतस्थाते।

** प्रयोगप०—**ताभ्याम् ईथिवद्भयां विचिन्वानाभ्यां वनं (प्रति) प्रतस्थे।

** व्याख्या—**तौ=रामलक्ष्मणौ, तस्य=जटायुषः, अग्न्यम्बुक्रियां कृत्वा=अग्निदाहमुदकदानं च कृत्वा, विषादं=खेदम्, ईयिवांसौ=प्राप्तौ, पुनः=भूयः, इतस्ततः=यत्र तत्र, विचिन्वानौ=अन्विष्यन्तौ (सीतामिति शेषः), वनं=काननं (प्रति),प्रतस्थाते=प्रस्थितौ।

** व्युत्पत्तिः—**अग्न्यम्बुक्रियाम्=अग्निश्च अम्बु च अग्न्यम्बुनी (द्वन्द्वः),

तयोः क्रिया अग्न्यम्बुक्रिया, ताम् (ष० त०)। ईयिवांसौ=“उपेयिवाननाश्वाननूचानश्च” इति क्वसुप्रत्ययाऽन्तो निपातः। प्रतस्थाते=प्रपूर्वात्तिष्ठतेर्लिट्, “समवप्रविभ्यः स्थ” इत्यात्मनेपदम्।

** भावाऽर्थः—**रामलक्ष्मणौ जटायुषोऽग्निदाहमुदकदानं च कृत्वा विषण्णौभूत्वा भूयो यत्र तत्र सीतां गवेषयन्तौ (सन्तौ) वनं प्रति प्रस्थितौ।

** भाषाऽर्थः—**राम और लक्ष्मण दाहपूर्वक जटायुको जल दान कर खिन्नहो कर यत्र तत्र सीताको ढूंढते हुए वनमें चले॥४४॥

सत्त्वानजस्रंघोरेण वनाकर्षं समश्नता।
क्षुध्यता जगृहाते तौ रक्षसा दीर्घबाहुना॥४५॥

** अन्वयः—**क्षुध्यता अजस्रं सत्त्वान् वनाकर्षं समश्नता घोरेण दीर्घबाहुनरक्षसा तौ जगृहाते।

** प्रयोगप०—**क्षुध्यत् समश्नत् घोरं दीर्घबाहु रक्षः तौ जग्राह।

** व्याख्या—**क्षुध्यता=बुभुक्षमाणेन, अजस्रं=नित्यं,सत्त्वान्=जन्तून्,वनाकर्षं=वनात् त्वरया आकृष्य, समश्नता=भुञ्जानेन, घोरेण=भयङ्करेण, दीर्घबाहुना=आयतभुजेन (योजनबाहुनेत्यर्थः), रक्षसा=राक्षसेन ( कबन्धनामकेनेत्यर्थः ), तौ=रामलक्ष्मणौ, जगृहाते=गृहीतौ ( युगपद्गृहोतावित्यर्थः )।

** व्युत्पत्तिः—**सत्त्वान्=“सत्त्वमस्त्री तु जन्तुषु” इत्यमरः। वनाकर्षं=“अपादाने परीप्सायाम्” इति णमुल्। परीप्सा त्वरा। “बलाऽपकर्षमश्नता” इतिजयमङ्गलसंमतः पाठस्तत्र बलादाकृष्येव=पाकादिकमनपेक्ष्येत्यर्थः। दीर्घबाहुना=दीर्घौ बाहू यस्य तद्दीर्घबाहु, तेन (बहु०)।

** भावाऽर्थः—**बुभुक्षमाणेन नित्यं जन्तून् त्वरया आकृष्य भक्षयता भयङ्करेणयोजनबाहुना कबन्धनामकेन राक्षसेन रामलक्ष्मणौ युगपद्गृहीतौ।

** भाषाऽर्थः—**भूखा, नित्य जन्तुओंको वनसे त्वरापूर्वक खींच कर खानेवाला,भयङ्कर और दीर्घ बाहुवाला कबन्धनामक राक्षसने उन दोनोंको एक ही वारपकड़ लिया॥४५॥

भुजौ चकृततुस्तस्य निस्त्रिंशाभ्यां रघूत्तमौ।
स छिन्नबाहुरपतद्विह्वलो ह्वलयन्भुवम्॥४६॥

**अन्वयः—**रघूत्तमौ तस्य भुजौ निस्त्रिंशाभ्यां चकृततुः, छिन्नबाहुः स

विह्वलः (सन्) भुवं ह्वलयन् अपतत्।

**प्रयोगप०—**रघूत्तमाभ्यां भुजौ चकृताते। छिन्नबाहुना तेन विह्वलेन (सता)ह्वलयता अपत्यत।
** व्याख्या—**रघूत्तमौ=रामलक्ष्मणौ, तस्य=कबन्धस्य, भुजौ=बाहू, निस्त्रिम्शाभ्यां=खड्गाभ्यां, चकृततुः=छिन्नवन्तौ, छिन्नबाहुः=कृत्तभुजः, सः=कबन्धः,विह्वलः=विक्लवः (सन्), भुवं भूमिं ह्वलयन्=कम्पयन्,अपतत्=पतितः।

** व्युत्पत्तिः—**रघूत्तमौ=रघुषु (लक्षणया रघुवंश्येषु) उत्तमौ (स० त०)।निस्त्रिंशाभ्यां=त्रिंशतः (अङ्गुलिभ्यः) निष्क्रान्तो निस्त्रिंशौ, ताभ्यां “निरादयःक्रान्ताद्यर्थे पञ्चम्य।” इति समासः। “संख्यायास्तत्पुरुषस्य वाच्यः” इति डच्।त्रिंशदङ्गुल्यधिकस्यैव खड्गत्वं, ततो न्यूनत्वे छुरिका स्यात्। चकृततुः=“कृती छेदने” इति धातोर्लिटि तसोऽतुसादेशः। छिन्नबाहुः=छिन्नौ बाहू यस्य सः(बहु०)। ह्वलयन्=ह्वलयतीति, “ह्वल चलने” इति चौरादिकाद्धातोर्लटः शत्रादेशः। घटादित्वेन मित्त्वात् ह्रस्वः।

** भावाऽर्थः—**रामलक्ष्मणौ कबन्धस्य बाहू खड्गाभ्यां छिन्नवन्तौ। सोऽपिकृत्तबाहुः सन् विह्वलो भूत्वा पृथिवीं कम्पयन् पतितः।

** भाषाऽर्थः—**राम और लक्ष्मणने कबन्धके बाहुओंको खड्गसे काट डाला।वह भी छिन्नबाहु होनेसे विह्वल हो कर पृथ्वीको कम्पित करता हुआ गिर पड़ा॥४६॥

अथ कृत्याऽधिकारः।

प्रष्टव्यं पृच्छतस्तस्य कथनीयमवीवचत्।
आत्मानं वनवासं च जेयं चाऽरिं रघूत्तमः॥४७॥

** अन्वयः—**रघूत्तमः प्रष्टव्यं पृच्छतः तस्य कथनीयम् आत्मानं वनवासंजेयम् अरिं च अवीवचत्।

** प्रयोगप०—**रघूत्तमेन कथनीय आत्मा वनवासो जेयोऽरिश्च अवाचि।

** व्याख्या—**रघूत्तमः=रामः, प्रष्टव्यं=प्रश्नाऽर्हं (कस्त्वं, किं वृत्तं, किं कार्यंचेत्याकारकम्), पृच्छतः=अनुयुञ्जानस्य, तस्य= देवभूयं गतस्य कबन्धस्य,कथनीयं=वक्तव्यम्, आत्मानं=स्वं (रामं, दाशरथिमित्यर्थः), वनवासम्=अरण्यवासं (पित्रादेशादिति भावः), जेयं=जेतव्यम्, अरिं च=शत्रुं च,अवीवचत्=अवोचत्।

** व्युत्पत्तिः—**अथ कृत्याऽधिकारः। कृत्याश्च प्राङ्ण्वुलीयास्तव्यादयः।प्रष्टव्यं=प्रष्टुं योग्यं प्रष्टव्यं तत् “तव्यत्तव्याऽनीयरः” इति तव्यत् तव्यो वा।स्वरे भेदः। “व्रश्चे”त्यादिना षत्वे ष्टुत्वम्। कथनीयं=कथयितुं योग्यं कथनीयं,तत् (पूर्वसूत्रेणैव अनीयर्)। जेयं=जेतुं योग्यो जेयस्तम्, “अचो यत्” इतियत्प्रत्ययः। अवीवचत्=“वच परिभाषणे” इति चौरादिकाद्धातोः स्वार्थण्यन्ताणीचङथुपधाह्रस्वः।

** भावाऽर्थः—**रामचन्द्रः परिचयादिकं पृच्छतो देवत्वं गतस्य तस्य कबन्धस्यस्वस्य नाम, पितुरादेशाद्वनवासं, जेतव्यं रावणं च सर्वं कथनीयमकथयत्।भाषाऽर्थः—रामचन्द्रजीने परिचय आदि पूछनेवाले और देवभावको पानेवाले उस कबन्धसे अपना नाम, पिताकी आज्ञासे वनवास और जेतव्य शत्रुकावृत्तान्त आदि बहुत कुछ कहा॥४७॥

“लभ्या कथं नु वैदेही, शक्यो द्रष्टुं कथं रिपुः।
सह्यः कथं वियोगश्च, गद्यमेतत्त्वया मम”॥४८॥

** अन्वयः—**“वैदेही कथं नु लभ्या? रिपुः कथं द्रष्टुं शक्यः। वियोगश्चकथं सह्यः, एतत् त्वया मम गद्यम्”।प्रयोगप०— “वैदेहीं लभेय, रिपुं द्रष्टुं शक्नुयाम्। वियोगं सहेय, एतत्त्वं मम गदेः “।व्याख्या—वैदेही=सीता, कथं नु=केन प्रकारेण नु, लभ्या=प्राप्या, रिपुः=शत्रुः (हरिरिति मल्लिनाथसंमतः पाठस्तत्र सुग्रीव इत्यर्थः), कथं केन प्रकारेण,द्रष्टुं=विलोकयितुं, शक्यः=शकनीयः, वियोगश्च=सीताविरहश्च, कथं=केन प्रकारेण, सह्यः=सोढव्यः, एतत्=सर्वं, त्वया=भवता, मम=रामस्य, गद्यं=वाच्यम्(कस्त्वं ? किमर्थं च ते राक्षसत्वं ? कथं च तद्विमोक्ष इत्यादि प्रश्नान्तरमप्युत्तरानुसारादूह्यम्)।

** व्युत्पत्तिः—**लभ्या=लब्धुं योग्या, “डुलभष् प्राप्तौ” इति धातोः “पोरदुपधात्” इति यत्प्रत्ययः। शक्यः, सह्यः=“शकिसहोश्च” इति यत्प्रत्ययः। गद्यं=“गदमदचरयमश्चाऽनुपसर्गे” इति यत्।

** भावाऽर्थः—**“सीता मया कथं प्राप्तव्या? रावणं कथं द्रष्टुं शक्नुयाम्?सीताविरहश्च कथं सोढव्यः, एतत् सर्वं त्वं कथये”ति रामस्तं पप्रच्छ।

** भाषाऽर्थः—**“मुझे सीता कैसे मिलेगी ? शत्रु रावणको कैसे देखूंगा ? सीताका विरह कैसे सहूंगा ? यह सब आप मुझे बताइये” रामने उससे ऐसा कहा॥४८॥

“अहं राम ! श्रियः पुत्रो मद्यपीत इव भ्रमन्।
पापचर्यो मुनेः शापाज्जात” इत्यवदत्स तम्॥४९॥

** अन्वयः—**“हे राम ! अहं श्रियः पुत्रः, मद्यपीत इव भ्रमन् मुनेः शापात् पापचर्यः जातः” इति स तम् अवदत्।

** प्रयोगप०—**“मया पुत्रेण मद्यपीतेन इव भ्रमता पापचर्येण जातम्” तेन स औद्यत।

** व्याख्या—**हे राम=हे राघव, अहं, श्रियः=श्रीनाम्नो दानवस्य, पुत्रः=आत्मजः, मद्यपीत इव=पीतमदिर इव, भ्रमन्=पर्यटन्(ऐश्वर्यमदाद्भ्रान्तःसन्नित्यर्थः), मुनेः=ऋषेः (स्थूलशिरोनामकस्येत्यर्थः), शापात्=दुरेषणायाः,पापचर्यः=क्रूर-कर्मा, जातः=संवृत्तः, इति=इत्थं, सः=कबन्धः, तं=रामम्, अवदत्=अकथयत्।

** व्युत्पत्तिः—**मद्यपीतः=माद्यन्ति अनेनेति मद्यं, “कृत्यल्युटो बहुलम्” इतिकरणाऽर्थे यत्प्रत्ययः। पीतं मद्यं येन सः (बहु०), “वाहिताग्न्यादिषु” इतिनिष्ठान्तस्य परनिपातः। शापात्=“शापाक्रोशौ दुरेषणा” इत्यमरः। पापचर्यः=चरितुं योग्यं चर्यं “गदमदे” त्यादिना यत्। पापं चर्यं यस्य सः (बहु०)।

** भावाऽर्थः—**“हे राम !अहं श्रीनामकस्य दानवस्य पुत्र ऐश्वर्यमदादन्यायवर्ती सन् स्थूलशिरोनामकस्य मुनेः शापात् क्रूरकर्मा जात” इति स कबन्धोरामं प्रत्यब्रवीत्।

** भाषाऽर्थः—**“हे राम ! मैं श्रीनामक दानवका पुत्र, ऐश्वर्यके मदसे मद्यपानकिये हुए पुरुषकी तरह घूमता हुआ स्थूलशिरा नामके मुनिके शापसे क्रूरकर्मकरनेवाला हो गया” कबन्धने रामको ऐसा कहा॥४९॥

तव प्रयातो यम्यत्वं शस्त्रपूतो ब्रवीमि ते।
रावणेन हृता सीता लङ्कां नीता सुराऽरिणा॥५०॥

** अन्वयः—**(सम्प्रति) तव यम्यत्वं प्रयातः शस्त्रपूतः ते ब्रवीमि—सुराऽरिणा रावणेन सीता हृता लङ्कां नीता (च)।

** प्रयोगप०—**प्रयातेन शस्त्रपूतेन उच्यते, सुरारी रावणः सीतां हृतवान् लङ्कांनीतवान् (च)।

** व्याख्या—**(सम्प्रति=अधुना) तव=भवतः, यम्यत्वं=दण्डनीयत्वं, प्रयातः=प्राप्तः, शस्त्रपूतः=त्वदस्त्रप्रयतः (सन्), ते=तुभ्यं, ब्रवीमि=कथयामि (सर्वंस्पष्टं कथयामीत्यर्थः), सुराऽरिणा=देवशत्रुणा, रावणेन=दशकण्ठेन, सीता=मैथिली,हृता=अपहृता, लङ्कां=स्वनगरीं, नीता=प्रापिता (च)।

** व्युत्पत्तिः—**यम्यत्वं=यन्तुं योग्यो यम्यः, “गदमदे"त्यादिना यत्। यम्यस्य भावो यम्यत्वं, तत् (त्वप्रत्ययः)। शस्त्रपूतः=शस्त्रेण पूतः (तृ० त०.),निष्पापः सन्नित्यर्थः “राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः। निर्मलाःस्वर्गमायान्ति सन्तः सुकृतिनो यथा।” इति मनुस्मरणादिति भावः। ते=युष्मच्छब्दस्य चतुर्थ्येकवचनस्य “तेमयावेकवचनस्य” इति तयादेशः। क्रियायोगे चतुर्थी। नीता=‘प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्।” इति तत्रैव क्तः।

** भावाऽर्थः—**अधुना तव दण्डनीयत्वेन शस्त्रप्रयतो भूत्वा सर्वं स्पष्टं कथयामि, रावणः सीतां हृत्वा लङ्कां नीतवान् ।

** भाषाऽर्थः—**अभी आपके दण्डनीय होनेसे शस्त्रप्रहारसे पापशून्य होकर सब कुछ स्पष्ट कहता हूं—देवताओं का शत्रु रावण सीताको अपहरण करलङ्कामें ले गया॥५०॥

ऋष्यमूकेऽनवद्योऽस्ति पण्यभ्रातृवधः कपिः।
सुग्रीवो नाम वर्योऽसौ भवता चारुविक्रमः॥५१॥

** अन्वयः—**ऋष्यमूके अनवद्यः पण्यभ्रातृवधः सुग्रीवः नाम कपिः अस्ति।चारुविक्रमः असौ भवता वर्यः।

** प्रयोगप०—**अनवद्येन पण्यभ्रातृवधेन सुग्रीवेण कपिना भूयते। चारुविक्रमम् अमुम् भवान् वृणुयात्।

** व्याख्या—**ऋष्यमूके=ऋष्यमूकपर्वते, अनवद्यः=अगर्त्यः (निष्पाप इत्यर्थः),पण्यभ्रातृवधः=विनिमेतव्यबालिवधः, सुग्रीवो नाम=सुग्रीवनाम्ना प्रसिद्धः, कपिः=वानरः, अस्ति=वर्तते, चारुविक्रमः=श्लाध्यपराक्रमः (प्रत्युपकारसमर्थ इति भावः),असौ=सुग्रीवः, भवता=त्वया, वर्यः=मित्रत्वेनाऽप्रतिबन्धं वरणीयः।

** व्युत्पत्तिः—**सीतावृत्तान्तमुक्त्वा सुग्रीवसमागमोपायं ब्रुवन् “अवद्यपण्ये”त्यादिनिपातत्रयं क्रमेणोदाहरति। अनवद्यं= वदितुमनर्हमवद्यम् (पापम्), वदेर्नञ्पूर्वात् “वदः सुपि क्यप् च” इति यत्क्यपोः प्राप्तयोर्यदेव, सोऽपि गर्हायामेवेति

उभयाऽर्थम् “अवद्यपण्यवर्या गर्ह्यपणितव्याऽनिरोधेषु” इति सूत्रेण निपातनम्।अविद्यमानमवद्यं यस्य सः (नञ्बहु०)। पण्यभातृवधः=‘पण्य’ इत्यत्र “पण व्यवहारे” इति धातोः पूर्वसूत्रेण पणितव्याऽर्थे यत्प्रत्ययान्तो निपातः। भ्रातुः (स्वदारहरस्याऽऽततायिनः) वधो भ्रातृवधः (ष० त०), पण्यः (त्वया प्रत्युपकारेण विनिमेतव्यः) भ्रातृवधो यस्य सः (बहु०), “नाऽऽततायवधे दोषो हन्तुर्भवति कश्चन।” इति स्मरणादिति भावः। चारुविक्रमः=चारुर्विक्रमो यस्य सः (बहु० )। वर्यः=“वृङ् संभक्तौ” इति धातोः पूर्वसूत्रेणैव अनिरोधेऽर्थे ण्यदपवादी यत्प्रत्ययाऽन्तो निपातः। किन्तु स्त्रियामस्य निपातनात्पुंसि प्रयोगः कवेः स्वातन्त्र्यात् इति मल्लिनाथः।

** भावार्थः—**ऋष्यमूकपर्वते निष्पापः व्यवहार्यवालिवधः सुग्रीवाऽऽख्यो वानरोऽस्ति। अमुना सह भवता मैत्री कार्या।

** भाषाऽर्थः—**ऋष्यमूक पर्वतमें निष्पाप, सीताके अन्वेषणके लिए वालिवधसेव्यवहारके योग्य, सुग्रीव नामके वानर हैं। आपको प्रशंसनीय पराक्रमवाले उनकेसाथ मैत्री करनी चाहिए॥५१॥

तेन वह्येन हन्तासि त्वमर्यं पुरुषाशिनाम्।
राक्षसं क्रूरकर्माणं शक्राऽरिं दूरवासिनम्॥५२॥

** अन्वयः—**(हे राम !) त्वं वह्येन तेन पुरुषाऽशिनाम् अर्यं क्रूरकर्माणंशक्रारिं दूरवासिनं राक्षसं हन्तासि।

** प्रयोगप०—**त्वया अर्यःक्रूरकर्मा शक्रारिर्दूरवासी राक्षसो हन्ता।

** व्याख्या—**(हे राम !) त्वं=भवान्, वह्येन=सहायभूतेन, तेन=सुग्रीवेण,पुरुषाऽशिनां=मनुष्यभक्षकाणाम् (राक्षसानामित्यर्थः), अर्यं=स्वामिनं (बलाऽधिकमित्यर्थः), क्रूरकर्माणं=भयङ्करक्रियं (निष्करुणमित्यर्थः), शक्राऽरिम्= इन्द्रशत्रुं (अप्रतिद्वन्द्विनमित्यर्थः), दूरवासिनं=विप्रकृष्टप्रदेशवासिनं (समुद्रवर्तितयादुरासदमित्यर्थः), राक्षसं=रक्षः, हन्तासि हनिष्यसि (दुर्द्धर्षमपि राक्षसराजंसुग्रीवसाहाय्येन हनिष्यसीत्यर्थः)।

** व्युत्पत्तिः—**वह्येन=वहन्त्यनेनेति वह्यं, “वह्यं करणम्” इति ण्यदपवादेनयत्प्रत्ययान्तो निपातः। पुरुषाऽशिनां= पुरुषानश्नन्तीति तच्छीलाः पुरुषाऽशिनस्तेषां ताच्छील्ये णिनिरुपपदसमासश्च। अर्यम्=“ऋ गतौ” इत्यस्माद्धातोः “अर्य

स्वामिवैश्ययोः” इति यत्प्रत्ययाऽन्तो निपातः। क्रूरकर्माणं=क्रूरं कर्म यस्य स क्रूरकर्मा, तम् (बहु०)। हन्तासि=हन्तेर्लुटि सिपि “स्यतासी लृलुटोः” इति तास्प्रत्ययः।

**भावाऽर्थः—**हे राम ! भवान् सुग्रीवसाहाय्येन नरभक्षकाऽधिपं दारुणाऽऽचारं देवेन्द्रशत्रुं दूरवासिनं रावणं हनिष्यति।

** भाषाऽर्थः—**हे राम ! आप सुग्रीवकी सहायतासे मनुष्यभक्षकोंका स्वामी,भयङ्कर कर्म करनेवाला, इन्द्रका शत्रु तथा दूर देशवासी रावणको मारेंगे॥५२॥

आस्ते स्मरन्स कान्ताया हृताया वालिना कपिः।
वृषो यथोपसर्याया गोष्ठेगोर्दण्डताडितः॥५३॥

** अन्वयः—**स कपिः गोष्ठे दण्डताडितः वृषः उपसर्याया गोः यथा वालिनाहृतायाः कान्तायाः स्मरन् आस्ते।

** प्रयोगप०—**तेन कपिना दण्डताडितेन वृषेण यथा स्मरता आस्यते।

** व्याख्या—**सः=पूर्वोक्तः, कपिः=वानरः, गोष्ठे=व्रजे, दण्डताडितः=लगुडप्रहृतः, वृषः=वृषभः, उपसर्यायाः= उपसंक्रमणीयायाः (गर्भग्रहणे प्राप्तकालायाइत्यर्थः), गोः=सुरभेः, यथा=इव, वालिना=स्वभ्रात्रा, हृतायाः=गृहीतायाः, कान्तायाः=भार्यायाः (भार्यामित्यर्थः), स्मरन्=स्मरणं कुर्वन्, आस्ते=तिष्ठति।

** व्युत्पत्तिः—**दण्डताडितः=दण्डैन ताडितः (तृ० त०)। “उपसर्या काल्याप्रजने’” इति उपपूर्वात्सर्तेर्यत्प्रत्ययाऽन्तो निपातः। “काल्योपसर्या प्रजने” इत्यमरः। कान्तायाः=“अधीगर्थदयेशां कर्मणि” इति कर्मणि शेषे षष्ठी।

** भावाऽर्थः—**गोष्ठे दण्डताडितो वृषभो यथा प्राप्तगर्भग्रहणकालाया गोः स्मरणंकरोति, सुग्रीवोऽपि तथा वालिना बलादप-हृतायाः स्वभार्यायाः स्मरणं कुर्वंस्तिष्ठति।

** भाषाऽर्थः—**गोष्ठमें दण्डसे ताडित साँड़, जैसे गर्भग्रहणके योग्य गायकास्मरण करता है सुग्रीव भी उसी तरह बालीसे अपहृत अपनी पत्नीका स्मरणकरते हुए रहते हैं॥५३॥

तेन सङ्गतमार्येण रामाऽजर्यं कुरु द्रुतम्।
लङ्कां प्राप्य ततः पापं दशग्रीवं हनिष्यसि॥५४॥

** अन्वयः—**हे राम ! आर्येण तेन अजर्यंसङ्गतं द्रुतं कुरु, ततः लङ्कां प्राप्यपापं दशग्रीवं हनिष्यसि।

** प्रयोगप०—**(त्वया) अजर्यं सङ्गतं क्रियताम्, पापो दशग्रीवो हनिष्यते।

** व्याख्या—**हे राम=हे रामचन्द्र ! आर्येण=सङ्गतियोग्येन, तेन=सुग्रीवेण,अजर्यम्=अनपायं (नाशरहितमित्यर्थः), सङ्गतं=सङ्गतिं (सख्यमित्यर्थः),द्रुतं=शीघ्रम्, कुरु=विधेहि, ततः=सुग्रीवसङ्गत्या, लङ्कां=रावणनगरीं, प्राप्य=आसाद्य, पापं=कूरं, दशग्रीवं=रावणं, हनिष्यसि=मारयिष्यसि।

** व्युत्पत्तिः—**आर्येण=अर्तुंयोग्य आर्यस्तेन “ऋ गतौ” इति धातोः “ऋहलोर्ण्यत्” इति ण्यत्। अर्यस्येदं प्रत्युदाहरणम्। अजर्यं न जीर्यतीति अजर्यं, तत्“अजर्यं सङ्गतम्” इति सङ्गतविषये जीर्यतेर्नञ्पूर्वात्कर्तरि यत्प्रत्ययाऽन्तो निपातः।सङ्गतं=भावे क्तः। “अजर्यं नोऽस्तु सङ्गतम्”। “अजरिता कम्बलः” इति वृत्तौउदाहरणप्रत्युदाहरणयोर्विशेषणविशेष्यभावाऽवगमात् अजर्यं सङ्गतमिति तथैव प्रत्युक्तम्। कालिदासेन तु पर्यायत्वदृष्ट्या “मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध” इति वैकल्प्येन प्रयुक्तम्। अथवा तत्राऽपि सङ्गतमिति विशेष्यमध्याहार्यम्। पापं=“नृशंसो घातुकः क्रूरः पाप” इत्यमरः। दशग्रीवं=दश ग्रीवा यस्यस दशग्रीवस्तम् (बहु०)। हनिष्यसि=“ऋद्धनोः स्ये” इति इट्।

** भावाऽर्थः—**हे राम ! सङ्गत्यर्हेण सुग्रीवेण स्थिरतरं सख्यं कुरु, तत्सङ्गत्यालङ्कामासाद्य क्रूरं रावणं व्यापादयिष्यसि।

** भाषाऽर्थः—**सङ्गति करनेके लायक सुग्रीवके साथ स्थिरतर मैत्री कीजिए,उसीसे आप लङ्कामें पहुँच कर क्रूर रावणको मारेंगे॥५४॥

अनृतोद्यं न तत्राऽस्ति, सत्यवद्यं ब्रवीम्यहम्।
मित्रभूयं गतस्तस्य रिपुहत्यां करिष्यसि॥५५॥

** अन्वयः—**तत्र अनृतोद्यं न अस्ति, अहं सत्यवद्यं ब्रवीमि तस्य मित्रभूयंगतः (सन्) रिपुहत्यां करिष्यसि।

** प्रयोगप०—**अनृतोद्येन न भूयते, मया सत्यवद्यमुच्यते; गतेन (त्वया)रिपुहत्या करिष्यते।

** व्याख्या—**तत्र=सुग्रीवे, अनृतोद्यम्=अनृतवचनं, न अस्ति=न वर्तते, अहंसत्यवद्यं=सत्यवचनं, ब्रवीमि=कथयामि, तस्य= सुग्रीवस्य, मित्रभूयं=मित्रत्वं, गतः=प्राप्तः (सन्), रिपुहत्यां=शत्रुवधं (रावणवधमित्यर्थः), करिष्यसि=विधास्यसि।

** व्युत्पत्तिः—**अनृतोद्यम्=अनृतवचनम्, “वदः सुपि क्यप् च” इतिभावे क्यपि यजादित्वात्सम्प्रसारणम्। सत्यवद्यं=सत्यस्य वदनं, पूर्वसूत्रेणैव चका-

राद्यत्। मित्रभूयं=मित्रस्य भावो मित्रभूयं, तत् “भुवो भावे” इति क्यप्। रिपुहत्यां=रिपोर्हननं रिपुहत्या, तां “हनस्त च” इति हन्तेर्भावे क्यप् तकारश्चाऽन्ताऽऽदेशः। स्त्रीत्वं लोकात्।

** भावाऽर्थः—**सुग्रीवे मिथ्यावचनं न विद्यते, अहं सत्यवचनं वदामि। तस्यमैत्र्या भवान् शत्रुं हनिष्यति।

** भाषाऽर्थः—**सुग्रीवमें मिथ्यावचन नहीं है, मैं सत्यवचन कहता हूं। आपउनके मित्र हो कर शत्रुको मारेंगे॥५५॥

आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण सङ्गतः।
इत्यः शिष्येण गुरुवद् गृध्यमर्थमवाप्स्यसि॥५६॥

** अन्वयः—**वृत्येन जुष्येण तेन सङ्गतः (त्वम्) आदृत्यः स्तुत्यः शिष्येणगुरुवत् इत्यः (सन्) गृध्यम् अर्थम् अवाप्स्यसि।

** प्रयोगप०—**सङ्गतेन (त्वया) आदृत्येन स्तुत्येन इत्येन (सता) गृध्यःअर्थः अवाप्स्यते।

** व्याख्या—**नृत्येन वरणीयेन (त्वया मित्रत्वेनेति शेषः), जुष्येण=सेव्येन(हनूमदादिनेत्यर्थः, परिवारवतेति भावः), तेन= सुग्रीवेण, सङ्गतः=मिलितः(मित्रभावं गत इत्यर्थः), (त्वं=भवान्) आदृत्यः=आदरणीयः (सुग्रीवादीनामिति भावः), स्तुत्यः= स्तोतव्यः, शिष्येण=शासनीयेन (अन्तेवासिनेत्यर्थः),गुरुवत्=गुरुरिव, इत्यः=एतव्यः (अनुगम्यश्च सन्), गृध्यम्=अभि-काङ्क्ष्यम्,अर्थम्=ईप्सितार्थम् (रावणवधसीताप्राप्तिरूपमित्यर्थः), अवाप्स्यसि=प्राप्स्यसि।

** व्युत्पत्तिः—**नृत्येन=“वृञ् वरणे” इति धातोः “एतिस्तुशास्वृदृजुषः क्यप्”इति क्यप् “ह्रस्वस्य पिति कृति तुक्” इति तुगागमश्च। जुष्येण=“जुषी प्रीतिसेवनयोः” इति धातोः पूर्वसूत्रेण क्यप्। आदृत्यः=पूर्ववत् क्यप्। स्तुत्यः=स्तोतुमर्हः(क्यप्)। शिष्येण=पूर्ववत्क्यप् “शास इदङ्हलोः” इतीकारः “शासिवसिघसीनां च” इति षत्वम्। इत्यः=क्यप्, तुगागमः। सर्वत्र कित्त्वाद् गुणप्रतिषेधश्च।गृध्यः=“ऋदुपधाच्चाऽक्लुपिचृतेः” इति क्यप्।

** भावाऽर्थः—**मित्रत्वेन वरणयोग्येन, हनूमदादिना सेव्येन, सुग्रीवेण सङ्गतोभवान् आदरपूर्वकमीप्सितार्थं प्राप्स्यति।

** भाषाऽर्थः—**मित्रतासे स्वीकार करनेके योग्य, हनूमान् आदिसे सेवनीय

सुग्रीवसे मिल कर आप आदरणीय और स्तुत्य बन कर, शिष्यसे गुरुकी तरहअनुगमन करनेके योग्य हो अभीष्ट विषय पा लेंगे॥५६॥

नाऽखेयः सागरोऽप्यन्यस्तस्य सद्भृत्यशालिनः।
मन्युस्तस्य त्वया मार्ग्योमृज्यः शोकश्च तेन ते॥५७॥

** अन्वयः—**सद्भृत्यशालिनः तस्य अन्यः सागरः अपि अखेयो न, तस्यमन्युः त्वया मार्ग्यः ; तेन च ते शोकः मृज्यः।

** प्रयोगप०—**अन्येन सागरेण अखेयेन न (भूयते)। मन्युं त्वं मृज्याः,स च शोकं मृज्यात्।

** व्याख्या—**सद्भृत्यशालिनः=समर्थाऽनुचरशोभमानस्य, तस्य=सुग्रीवस्य,अन्यः=अपरः (द्वितीय इत्यर्थः), सागरोऽपि= समुद्रोऽपि, अखेयो न=खनितुमशक्यो न (अयं तु कियानस्येति भावः), तस्य=सुग्रीवस्य, मन्युः=शोकः, त्वया=भवता, मार्ग्यः=मार्जनीयः, तेन च=सुग्रीवेण च, ते=तव, शोकः=मन्युः, मृज्यः=मार्ष्टव्यः (परस्परोपकारादुभाभ्यामपि कृतार्थाभ्यां भवितव्यमिति भावः)

** व्युत्पत्तिः—**सद्भृत्यशालिनः=सन्तश्च ते भृत्याः सद्भृत्याः (क० धा०),तैः शाडते (डलयोरभेदात् शालते) सद्भृत्यशाली, तस्य “कृत्यानां कर्तरि वा"इति षष्ठी। अपि=सम्भावनाऽर्थकोऽयं शब्दः। अखेयः=खनितुं शक्यः खेयः,“खनु अवदारणे” इति धातोः “ई च खनः” इति क्यपि ईकारश्चाऽन्तादेशः। प्रश्लिष्टदीर्घनिर्देशात् “ये विभाषा” इत्यात्वाऽभावः। न खेयः (नञ्०)। मार्ग्यः=“मृजू शुद्धौ” इति धातोः “ऋहलोर्ण्यत्” इति ण्यत् “चजोः कुधिण्ण्यतोः”इति कुत्वं “मृजेर्वृद्धिः” इति वृद्धिः। मृज्यः=“मृजेर्विभाषा” इति विकल्पेन क्यप्।

** भावाऽर्थः—**हनूमदादिभिः कार्यक्षमैर्भृत्यैः शोभमानस्य सुग्रीवस्य द्वितीयःसमुद्रोऽपि खनितुं शक्यः, किन्तु प्राक् तस्य शोकस्त्वयाऽपनेयोऽनन्तरं स भवदीयं सीताविरहरूपं दुःखमपनेष्यति।

** भाषाऽर्थः—**कार्यक्षम अनुचरोंसे शोभित सुग्रीवके लिए दूसरा समुद्र भीखुदवाना असम्भव नहीं, परन्तु पहले आपको उनका शोक हटाना चाहिए; अनन्तर वे सीताविरहसे उत्पन्न आपके शोकको हटाएंगे॥५७॥

स राजसूययाजीव तेजसा सूर्यसन्निभः।
अमृषोद्यं वदन्रूच्यो जगाहे द्यां निशाचरः॥५८॥

** अन्वयः—**स निशाचरः राजसूययाजी इव तेजसा सूर्यसन्निभः अमृषोद्यंचदन् रुच्यः (सन्) द्यां जगाहे।

** प्रयोगप०—**तेन निशाचरेण राजसूययाजिना इव सूर्यसन्निभेन वदता रुच्येन (सता) द्यौर्जगाहे।

** व्याख्या—**सः=पूर्वोक्तः, निशाचरः=राक्षसः (कबन्धाख्य इत्यर्थः), राजसूययाजी इव=कृतराजसूय इव, तेजसा=दीप्त्या, सूर्यसन्निभः=भास्करसदृशः,अमृषोद्यं=सत्यवादं, वदन्=कथयन्, रुच्यः=रोचमानः (सन्), द्याम्=आकाशंस्वर्गं वा, जगाहे= जगाम।

** व्युत्पत्तिः—**राजसूययाजी=राज्ञा सोतव्यः (अभिषवद्वारा निष्पादयितव्यः) इति, यद्वा लतात्मकः सोमो राजा, स सूयते (कण्डयते) अत्र इति राजसूयः राजसूयं वा। अर्धंर्चादिः। राजसूयो नाम क्षत्रियाऽधिकारः क्रतुविशेषः।“राजसूयसूर्य-मृषोद्यरुच्यकुप्यकृष्टपच्याऽव्यय्याः” इति क्यप् निपातनाद्दीर्घश्च।राजसूयेन इष्टवान् इति राजसूययाजी, “करणे यजः” इति भूताऽर्थे णिनिः।सूर्यसन्निभः=सरति आकाशे इति सूर्यः, “राजसूये"त्यादिना कर्तरि क्यप्, निपातनादुत्वं च। यद्वा “षूप्रेरणे” इति तौदादिकाद्धातोः सुवति=कर्मणि लोकं प्रेरयतीति विग्रहे क्यपोरुट्। सूर्येण सदृशः सूर्यसन्निभः (तृ० त०)। अमृषोद्यं= मृषा वदनं न भवतीति अमृषोद्यं, तद्यथा तथा, “वदः सुपि क्यप् च” इति पक्षेयति प्राप्ते पूर्वसूत्रेण मृषोपपदाद्वदेः कर्मणि नित्यं क्यप्। रुच्यः=रोचते इतिरुच्यः, पूर्वसूत्रेणैव कर्तरि क्यवन्तो निपातः।

भा**वाऽर्थः—**स कबन्धोऽनुष्ठितराजसूय इव दीप्त्या सूर्य सदृशः सत्यवादीरोचमानश्च सन् स्वर्गं जगाम।

**भाषाऽर्थः—**वह राक्षस (कबन्ध) राजसूय यज्ञ किये हुए पुरुषकी तरहतेजसे सूर्यके तुल्य हो सत्यभाषण कर शोभित होता हुआ स्वर्गमें चला॥५८॥

अकृष्टपच्याः पश्यन्तौ ततो दाशरथी लताः।
रत्नाऽन्नपानकुप्यानामाटतुर्नष्टसंस्मृती॥५९॥

** अन्वयः—**ततः दाशरथी अकृष्टपच्याः लताः पश्यन्तौ रत्नाऽन्नपानकुप्यानां नष्टसंस्मृती (सन्तौ) आटतुः।

** प्रयोगप०—**दाशरथिभ्यां पश्यद्भयां नष्टसंस्मृतिभ्याम् (सद्भयाम्) आटे।

** व्याख्या—**ततः=कबन्धगमनाऽनन्तरं, दाशरथी=रामलक्ष्मणौ, अकृष्टपच्याः=अकृष्टप्रदेशोत्पन्नाः, लताः=वल्लीः, पश्यन्तौ= अवलोकयन्तौ, रत्नाऽन्नपानकुप्यानां=मण्यन्नपानताम्रादीनां, नष्टसंस्मृती=अपगतसंस्मरणौ (नष्टरत्नादिसंस्मरणौ, विस्मृतराज-भोगौ सन्तावित्यर्थः), आटतुः=चेरतुः।

** व्युत्पत्तिः—**अकृष्टपच्याः=कृष्टे (प्रदेशे) स्वयमेव पच्यन्ते इति कृष्टपच्याः, “राजसूये”त्यादिना कर्मकर्तरि निपातनात्क्यप्। न कृष्टपच्याः (नञ्०)।रत्नाऽन्नपानकुप्यानां=गुप्यते इति कुप्यं (सुवर्णरजतभिन्नं धनम्), “गुपूरक्षणे” इति धातोः पूर्वसूत्रेणैव क्यपि गुपेरादेः कत्वं च सञ्ज्ञायाम्। रत्नानि चअन्नानि च पानानि च कुप्यानि च रत्नाऽन्नपानकुप्यानि तेषाम् (द्वन्द्वः)।नष्टसंस्मृती=नष्टा संस्मृतिर्ययोस्तौ (बहु०)। साऽपेक्षत्वेऽपि गमकत्वात्समासः,वृत्तिविग्रहयोः समानप्रकारोपस्थितिजनकत्वं गमकत्वम्।

** भावाऽर्थः—**कबन्धप्रयाणाऽनन्तरं रामलक्ष्मणौ अकृष्टप्रदेशोत्पन्ना लताविलोकयन्तौ विस्मृतराजभोगौ (सन्तौ) चेरतुः।

** भाषाऽर्थः—**कबन्धके जानेके बाद राम और लक्ष्मण अकृष्ट प्रदेशमें स्वयम् फल लगनेवाली लताओंको देखते हुए और रत्न, अन्न आदि राजभोग्यपदार्थोंको भूलते हुए विचरण करने लगे॥५९॥

समुत्तरन्तांवव्यथ्यौ नदान्भिद्योद्धयसन्निभान्।
सिध्यतारामिव ख्यातां शबरीमापतुर्वने॥६०॥

** अन्वयः—**अव्यथ्यौभिद्योद्धयसन्निभान् नदान् समुत्तरन्तौ सिध्यताराम् इवख्यातां शबरीं वने आपतुः।
** प्रयोगप०—**अव्यथ्याभ्यां समुत्तरद्भयां सिध्यतारा इव ख्याता शबरी आपे।

** व्याख्या—**अव्यथ्यौ=अव्यथमानौ (अश्रान्तावित्यर्थः), भिद्योद्धयसन्निभान्=भिद्योद्धयसदृशान्, नदान्=पुंप्रवाहान्, समुत्तरन्तौ=समुत्तरणं कुर्वन्तौ, सिध्यताराम् इव=पुष्यतारकाम् इव, ख्यातां=प्रसिद्धां, शबरीं=शबरीनामिकां काञ्चित्तापसीम्, वने=अरण्ये (क्वचिदाश्रमे इत्यर्थः), आपतुः=प्राप्तौ।

** व्युत्पत्तिः—**अव्यथ्यौ=न व्यथेते इति, “राजसूये”त्यादिना निपातनात्कर्तरि क्यप्। भिद्योद्ध्यसन्निभान्=भिनत्ति कूलं भिद्यः, उज्झति उदकमुद्धयः“भिद्येोद्धयौ नदे” इति सूत्रेण भिदेरुज्झेश्च क्यप्, उज्झेर्धत्वं चेति विशेषः।

भिद्यश्च उद्धयश्च भिद्योद्धयौ नदविशेषौ (द्वन्द्वः), ताभ्यां सदृशा भिद्योद्धयसन्निभास्तान् (तृ० त०)। सिध्यतारां=सिद्धयन्ति अर्था अस्मिन्निति सिध्यः,“पुष्यसिध्यौ नक्षत्रे” इति अधिकरणे निपातनात्क्यप्, “पुष्ये तु सिध्यतिष्यौ”इत्यमरः। सिध्य एव तारा सिध्यतारा, ताम् (रूपक०)।

** भावाऽर्थः—**अश्रान्तौ रामलक्ष्मणौ भिद्याद्वयसदृशेषु नदेषु समुत्तरणं कुर्वन्तौसिध्यनक्षत्रसदृशीं विख्यातां शबरीनाम्नीं काञ्चन तापसीं कुत्रचिदाश्रमे प्रापतुः।

**भाषाऽर्थः—**अश्रान्त राम और लक्ष्मण भिद्य और उद्धयके सदृश कई नदोंमें सन्तरण करते हुए किसी आश्रममें सिध्यनक्षत्रकी तुल्य विख्यात शबरीनामकी किसी तपस्विनीके पास आये॥६०॥

** **अथ श्लोकत्रयेण तामेव विंशिंषन्नाह—

वसानां वल्कले शुद्धे विषूयः कृतमेखलाम्।
क्षामामञ्जनखण्डाभां दण्डिनीमजिनास्तराम्॥६१॥

प्रगृह्यपदवत्साध्वीं स्पष्टरूपामविक्रियाम्।
अगृह्यां वीतकामत्वाद्देवगृह्यामनिन्दिताम्॥६२॥

धर्मकृत्यरतां नित्यमवृष्यफलभोजनाम्।
दृष्ट्वाताममुचद्रामो युग्यायात इव श्रमम्॥६३॥

** अन्वयः—**शुद्धेवल्कले वसानां, विपूयैः कृतमेखलां, क्षामाम् अञ्जनखण्डाभां, दण्डिनीम्, अजिनास्तराम्। प्रगृह्यपदवत् साध्वीं स्पष्टरूपाम् अविक्रियाम्,वीतकामत्वात् अगृह्यां, देवगृह्याम्, अनिन्दिताम्। नित्यं धर्मकृत्यरताम्, अवृष्यफलभोजनां तां दृष्ट्वा रामः युग्यायातः इव श्रमम् अमुचत्।

** प्रयोगप०—**रामेण युग्यायातेन इव श्रमोऽमोचि।

** व्याख्या—**शुद्धे=पवित्रे, वल्कले=तरुत्वचौ, वसानाम्=आच्छादयन्तीं, विपूयैः=मुञ्जैः, कृतमेखलां=कृतमौञ्जीकां, क्षामां= तपः कृशाम् अञ्जनखण्डाऽऽभां=कृष्णवर्णां, दण्डिनीं=धृतदण्डाम्, अजिनास्तराम्=चर्मतल्पां, प्रगृह्यपदवत्=प्रगृह्यसंज्ञक-शब्दवत्, साध्वीं=सच्चरित्रां (प्रगृह्यपदपक्षे सौशब्द्यात् प्रयोगार्हम्),स्पष्टरूपां=स्वच्छमूर्त्तिम् (प्रगृह्यपदपक्षे संहितायां प्रकृतिभावात् पदान्तराऽसङ्कीर्णरूपम्), अविक्रियां=विरुद्धचेष्टारहितां (प्रगृह्यपदपक्षे सन्धिप्रयुक्तवर्णविकाररविहितम्), वीतकामत्वात्=निःस्पृहत्वात्, अगृह्यां=स्वतन्त्रां, देवगृह्यां=देव-

पक्ष्याम्, अनिन्दिताम्=अगर्हितां (प्रत्युत प्रशंसनीयामित्यर्थः), नित्यम्=अजस्रं,धर्मकृत्यरतां=धर्मकार्याऽऽसक्त्ताम्, अवृष्य-फलभोजनाम्=अनिन्द्रियवर्धनफलाहारां,तां=शबरीं, दृष्ट्वा=विलोक्य, रामः=रामचन्द्रः, युग्यायात इव=वाहनाऽऽगत इव,
श्रमं=परिश्रमम्, अमुचत्=मुक्तवान्) (तद्दर्शनादाह्लादं गत इत्यर्थः)।

** व्युत्पत्तिः—**विपूयैः=विपूयन्ते इति विपूयाः मुञ्जाः (रज्ज्वादिकरणाय शोधयितव्या इत्यर्थः), “विपूयविनीयजित्या मुञ्जकल्कहलिषु” इति विपूर्वात्पवतेर्मुञ्जाऽर्थे कर्मणि क्यबन्तो निपातः। कृतमेखलां=कृता मेखला यया सा कृतमेखलाताम् (बहु०)। अञ्जनखण्डाभाम्=अञ्जनस्य खण्डमञ्जनखण्डं (ष० त०),तस्य इव आभा यस्याः सा अञ्जनखण्डाभा, ताम् (व्यधि० बहु०)। अजिनास्तराम्=अजिनमास्तरो यस्याः सा अजिनास्तरा, ताम् (बहु०)। प्रगृह्यपदवत्=प्रगृह्यमित्यत्र “पदाऽस्वैरी"त्यादिना पदाऽर्थे क्यप्। प्रगृह्यसंज्ञं पदं प्रगृह्यपदम्(मध्यमपदलोपी समासः), “ईदूदेद्द्विद्वचनं प्रगृह्यम्” इत्यादिसूत्रैः कृतसंज्ञमित्यर्थः। प्रगृह्यपदेन तुल्यं प्रगृह्यपदवत् (वतिप्रत्ययः)। स्पष्टरूपां=स्पष्टं रूपंयस्याः सा स्पष्टरूपा ताम् (बहु०)। अविक्रियाम्=अविद्यमाना विक्रिया यस्याःसा अविक्रिया, ताम् (नञ्बहु०)। वीतकामत्वात्=वीतः कामो यस्याः सा वीतकामा(बहु०), तस्या भावो वीतकामत्वं, तस्मात् (त्वप्रत्ययः)। अगृह्याम्=गृह्यतेइति गृह्या (परतन्त्रा), “पदाऽस्वैरिबाह्यापक्ष्येषु च” इति अस्वैर्यर्थे क्यप्। नगृह्या अगृह्या, ताम् (नञ्०)। देवगृह्यां=देवैर्गृह्यते इति देवगृह्या, तां (देवपक्षाऽऽश्रितामित्यर्थः), पूर्वसूत्रेणैव पक्ष्यार्थे क्यप्। अनिन्दितां=न निन्दिता अनिन्दिता, ताम् (नञ्०)। धर्मकृत्यरतां=कर्तु योग्यं कृत्यं, “विभाषा कृवृषोः"इति क्यप्। धर्मस्य कृत्यं धर्मकृत्यं (ष० त०), तस्मिन् रता धर्मकृत्यरता, ताम्(स० त०)। अवृष्यफलभोजनाम्=वृषधातोः पूर्वसूत्रेणैव क्यपि वृष्यपदसिद्धिः।न वृष्याणि अवृष्याणि (नञ्०), तानि फलानि भोजनम् (आहारः) यस्याः साअवृष्यफलभोजना, ताम् (बहु०)। युग्याऽऽयातः=युज्यते अनेनेति युग्यं, “युजिर् योगे” इति धातोः “युग्यं च पत्रे” इति क्यबन्तो निपातः। “सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम्।” इत्यमरः। युग्येन आयातो युग्यायातः (तृ०त०)। अमुचत्=मुचेर्लुङि लृदित्त्वादङ्। श्लेषाऽलङ्कारः।

** भावार्थ—**पवित्रे उत्तरीयाऽधरीये आच्छादयन्तीं धृतमुञ्जमेखलां तपः-

कृशां कृष्णवर्णा’ गृहीतदण्डां धर्मतल्पां, यथा प्रगृह्यसंज्ञकं पदं प्रयोगाऽर्हम्, प्रकृतिभावात् पदान्तराऽपेक्षया विलक्षणरूपं सन्धिमूलकवर्णविकाररहितं च भवति एसच्चरित्रां स्वच्छमूर्तिं विरुद्धचेष्टारहितां निःस्पृहत्वात् स्वतन्त्रां देवपक्षाश्रितामनिन्दितां नित्यं धर्माऽनुष्ठानपरां, सात्विकफलाहारां शबरीं दृष्ट्वा रामा वाहनाऽऽगत इव श्रान्तिरहितोऽभूत्।

** भाषाऽर्थः—**पवित्र उत्तरीय और अधरीयको धारण करती हुई, मुञ्जमयीमेखलाको पहननेवाली, तपस्यासे कृश, कृष्णवर्णवाली, दण्डधारण करनेवाली,चर्मरूप तल्पवाली, जिस तरह व्याकरणमें प्रगृह्यसंज्ञक पद प्रयोगयोग्य, प्रकृतिभावहोनेके कारण दूसरे पदोंसे स्पष्टरूपवाला, और सन्धिप्रयुक्त वर्णविकारसे रहितहोता है उसी तरह सच्चरित्र, स्वच्छमूर्ति और विरुद्ध चेष्टासे रहित, निःस्पृहहोनेसे स्वच्छन्द, देवताओं की पक्षपातिनी, अनिन्दिता, नित्य धर्मकार्यमें तत्परऔर सात्त्विक फलों का आहार करनेवाली शबरी नामकी तपस्विनीको देख कररामचन्द्रजी सवारीसे आये हुए पुरुषकी तरह परिश्रमरहित हो गये॥६१–६३॥

स तामूचेऽथ कच्चित्त्वममावास्यासमन्वये।
पितॄणां कुरुषे कार्यमपाक्यैः स्वादुभिः फलैः॥६४॥

** अन्वयः—**अथ स ताम् ऊचे—"(हे भद्रे !) त्वम् अमावास्यासमन्वयेअपाक्यैः स्वादुभिः फलैः पितॄणां कार्यं कुरुषे कच्चित् ?

**प्रयोगप०—**तेन सा ऊचे—“त्वया कार्यं क्रियते कच्चित् ?”।

** व्याख्या—**अथ=शबरीदर्शनाऽनन्तरं, सः=रामः, ताम्=शबरीम्, ऊचे=जगाद, (हे भद्रे=हे कल्याणि!) त्वम्=भवती, अमावास्यासमन्वये=दर्शसमागमे,अपाक्यैः=अपचनीयैः (अनग्निपक्वैरित्यर्थः), स्वादुभिः=रुच्यैः, फलैः=सस्यैः, पितृणाम्= अग्निष्वात्तादीनां, कार्यं=कर्म (श्राद्धमित्यर्थः), कुरुषे कच्चित्=करोषि किम् ?

** व्युत्पत्तिः—**अमावास्यासमन्वये=अमा सह वसतोऽस्यां चन्द्राऽकौंइतिअमावास्या अमावस्या वा, “अमावस्यदन्यतस्याम्” इति सूत्रेण अमोपपदाद्वसेरधिकरणे ण्यत्। वृद्धौ सत्यां पक्षिको ह्रस्वश्च निपात्यते। अमावास्यायाः समन्वयःअमावास्या-समन्वयस्तस्मिन् (ष० त०)। अपाक्यैः=पाक्यमित्यत्र “ऋहलोर्ण्यत्” इति ण्यत्। “चजोः कु घिण्ण्यतोः” इति कुत्वम्। न पाक्यानि अपाक्यानि तैः,(नञ्०)। कार्यं=कर्तु योग्यं कार्यं, तत् (पूर्वसूत्रेण ण्यत्)।

** भावाऽर्थः—**अनन्तरं रामः शबरीमुवाच—“हे भद्रे ! अमावास्यायामनग्निपक्वैः स्वादुभिः फलैः श्राद्धं करोषि किम् ?”।

**भाषाऽर्थः—**तब रामने शबरीको कहाः—“हे भद्रे ! अमावास्यामें अग्निमेंनहीं पकाये गये स्वादिष्ठ फलोंसे श्राद्ध करती हो क्या ?"॥६४॥

“अवश्यपाव्यं पवसे कच्चित्त्वं देवभाग्घविः।
आसाव्यमध्वरे सोमं द्विजैः कच्चिन्नमस्यसि”॥६५॥

** अन्वयः—**"(हे पुण्ये !) त्वम् अवश्यपाव्यं देवभाक् हविः हवसे कच्चित् ? अध्वरे द्विजैः आसाव्यं सोमं नमस्यसि कच्चित्” ?

** प्रयोगप०—**त्वया अवश्यपाव्यं देवभाक् हविः पूयते कच्चित् ? आसाव्यःसोमो नमस्यते कच्चित् ?

** व्याख्या—**(हे पुण्ये !) त्वं=शबरी, अवश्यपाव्यम्=अवश्यशोध्यं, देवभाक्=देवताऽर्हं, हविः=आज्यादिकं, पवसे कच्चित्= पुनासि किम् ? अध्वरे=यज्ञे,द्विजैः=ब्राह्मणैः, आसाव्यम्=अभिषोतव्यं, सोमं=लताविशेषं, नमस्यसि कच्चित्=नमस्करोषि कच्चित् ?

** व्युत्पत्तिः—**अवश्यपाव्यम्=“पूञ् पवने” इति भौवादिकाद्धातोः “ओरावश्यके” इति ण्यत्, मयूरव्यंसकादित्वात्समासः “लुम्पेदवश्यमः कृत्ये” इतिमकारलोपः। देवभाक्=देवान्भजते इति “भजो ण्विः” इति ण्विः। पवसे=तस्मादेव धातोर्लटि “थासः से” इति थासः सयादेशः। आसाव्यम्=आङ्पूर्वात्सुनोतेः“आसुयुवपिरपित्रपिचमश्च” इति ण्यत्। नमस्यसि= “नमोवरिवश्चित्रङः क्यच्”इति क्यच्, ततो लटि सिप्।

** भावाऽर्थः—“**हे पुण्ये! त्वं देवताऽर्हं हविः पुनासि किम्? यज्ञे ब्राह्मणैःसह अभिषवाऽर्हां सोमलतां प्रणमसि कच्चित्?”

** भाषाऽर्थः—**“हे पुण्ये ! आप अवश्य शोधनीय देवताके योग्य आज्यआदि हविको पवित्र करती हैं क्या ? और यज्ञमे ब्राह्मणोंके साथ अभिषव करनेकेयोग्य सोमलताको नमस्कार करती हैं ?"॥६५॥

“आचाम्यं सन्ध्ययोः कच्चित्सम्यक्ते न प्रहीयते।
कच्चिदग्निमिवाऽऽनाय्यं काले संमन्यसेऽतिथिम्”॥६६॥

** अन्वयः—**(हे कल्याणि !) सन्ध्ययोः ते सम्यक् आचाम्यं न प्रहीयते

कच्चित्? काले (प्राप्तम्) अतिथिम् आनाय्यम् अग्निम् इव संमन्यसे कच्चित् ?

** प्रयोगप०—**समीचा आचाम्येन न प्रहीयते कच्चित् ? अतिथिरानाय्योऽग्निरिव संमन्यते कच्चित् ?

** व्याख्या—**(हे कल्याणि !) सन्ध्ययोः=सायंप्रातःकालयोः, ते=तव,सम्यक्=विधिप्रयुक्तम्, आचाम्यम्=आचमनकर्म, न प्रहीयते कच्चित्=न लुप्यतिकिं, काले=समये, (प्राप्तम्) अतिथिम्=आगन्तुकम् आनाय्यम् अग्निम् इव=दक्षिणाऽग्निम् इव, संमन्यसे कच्चित्=मानयसि किम् ?

** व्युत्पत्तिः—**आचाम्यम्=“आसुयुवपी” त्यादिना ण्यत्। आनाय्यम्=आनीयत इति आनाय्यस्तम्, आङ्पूर्वान्नयतेः “आनाय्योऽनित्ये” इति ण्यत्, आयादेशश्च निपात्यते। आनाय्यो दक्षिणाऽग्निविशेषः, स हि गार्हपत्यात् (नित्यात्)आनीयते, अनित्यश्च सततमप्रज्वलनात्। “यो गार्हपत्यादानीय दक्षिणाग्निःप्रणीयते। तस्मिन्नानाय्य” इत्यमरः।

** भावाऽर्थः—**हे कल्याणि ! उभयोः सन्ध्ययोस्ते वैधमाचमनकर्म न लुप्यतिकच्चित् ? अवसरप्राप्तमतिथिं दक्षिणाऽग्निमिव संभावयसि किम् ?

** भाषाऽर्थः—**हे कल्याणि ! दोनों सन्ध्याओंमें आपका विधिप्रयुक्त आचमनकर्मलुप्त नहीं होता है क्या ? और आप नियत समय में आये हुए अतिथिकोदक्षिणाग्निकी तरह मानती तो हैं?॥६६॥

न प्रणाय्यो जनः कच्चिन्निकाय्यं तेऽधितिष्ठति।
देवकार्यविघाताय धर्मद्रोही महोदये !॥६७॥

** अन्वयः—**हे महोदये ! धर्मद्रोही प्रणाय्यःजनः देवकार्यविघाताय तेनिकाय्यं न अधितिष्ठति कच्चित् ?

** प्रयोगप०—**धर्मद्रोहिणा प्रणाय्येन जनेन ते निकाय्यो नाऽधिष्ठीयते कच्चित् ?

** व्याख्या—**हे महोदये=हे पुण्याचारे, धर्मद्रोही=धर्मविघातकः, प्रणाय्यः=असम्मतः, जनः=मनुष्यः, देवकार्यविघाताय= सुरकृत्यनाशाय, ते=तव, निकाय्यं=निवासस्थानं, न अधितिष्ठति कच्चित्=न अधिवसति किम् ?

** व्युत्पत्तिः—**महोदये=महानुदयः (भोगाऽपवर्गाऽन्यतरः) यस्याः सा महोदया, तत्सम्बुद्धौ (बहु०)। धर्मद्रोही=धर्माय दुह्यतीति (णिनिः)। प्रणाय्यः=“प्रणाय्योऽसम्मतौ” इति निपातः। देवकार्यविघाताय=देवानां कार्यं देवकार्यं

(ष० त०), तस्य विघातस्तस्मै (ष० त०)। निकाय्यं=निचीयतेऽस्मिन्धान्यादिकं निकाय्यः “पाय्यसान्नाय्यनिकाय्यधाय्यामान-हविर्निवाससामिधेनीषु” इतिनिपूर्वात् चिनोतेरधिकरणे ण्यत्, आय्धात्वादेः कुत्वं च निपात्यते, तम् “अधिशीङ्स्थाऽऽसां कर्म” इति कर्मसंज्ञा। “निकाय्यनिलयाऽऽलयाः।” इत्यमरः।

** भावाऽर्थः—**हे पुण्याचारे ! धर्मनाशकः कश्चिज्जनो यज्ञादिसुरकार्यनाशायतवाऽऽश्रमं नाऽधिवसति कच्चित् ?

** भाषाऽर्थः—**हे महोदये ! धर्मद्रोही और असम्मत कोई पुरुष यज्ञ यागआदि देवकार्यों के नाशके लिए आपके आश्रममें रहता तो नहीं है?॥६७॥

कुण्डपाय्यवतां कच्चिदग्निचित्यावतां तथा।
कथाभी रमसे नित्यमुपचाय्यवतां शुभे॥६८॥

** अन्वयः—**हे शुभे ! कुण्डपाय्यवताम् अग्निचित्यावतां तथा उपचाय्यवतांकथाभिः नित्यं रमसे कच्चित् ?

** प्रयोगप०—**हे शुभे ! (त्वया) रम्यते कच्चित् ?

** व्याख्या—**हे शुभे=हे कल्याणि! कुण्डपाय्यवतां=कुण्डपाय्याऽऽख्यक्रतुयाजिनम्, अग्निचित्यावताम्=अग्निचितां (आहिताऽग्नीनाम्), तथा=तेन प्रकारेण, उपचाय्यवतां=चित्याऽग्निविशेषयुक्तानां, कथाभिः=पुण्यकथाभिः, नित्यम्=अजस्रं, रमसे कच्चित्=सन्तुष्यसि किम् ?

** व्युत्पत्तिः—**कुण्डपाय्यवतां=कुण्डैः पीयते सोमोऽस्मिन्निति कुण्डपाय्यः क्रतुविशेषः, “क्रतौ कुण्डपाय्यसञ्चाय्यौ” इति यत्प्रत्ययाऽन्तो निपातः। कुण्डपाय्योऽस्ति येषां ते कुण्डपाय्यवन्तस्तेषाम् (मतुप्प्रत्ययः)। अग्निचित्यावताम्= अग्नेश्चयनमग्निचित्या, “चित्याऽग्निचित्येच” इति चिनोतेर्भावे यकारस्तुक् च निपातितौ। अग्निचित्याऽस्ति येषां ते अग्निचित्यावन्तस्तेषाम् (मतुप्)। उपचाय्यवताम्=उपचीयते इति उपचाय्यः (चित्याऽग्निविशेषः) “अग्नौ परिचाय्योपचाय्य-समूह्याः” इति उपपूर्वाच्चिनोतेर्ण्यदायादेशनिपातश्च। उपवाय्योऽस्ति येषां तेउपचाय्यवन्तस्तेषाम् (मतुप्)।

** भावाऽर्थः—**हे कल्याणि ! कुण्डपाय्यक्रतुयाजिनाम् आहिताऽग्नीनां तथाउपचाय्याऽग्नियुक्तानां जनानां पुण्यकथाभिर्नित्यं सन्तुष्यसि किम् ?

** भाषाऽर्थः—**हे कल्याणि ! कुण्डपाय्यनामक यज्ञ करनेवाले, आहिताऽग्नि और

उपचाय्य अग्निसे युक्त पुरुषोंको पुण्यकथाओंसे आप नित्य सन्तुष्ट होती हैं क्या?॥६८॥

अथ प्रकीर्णकाः।

वर्द्धते ते तपो भीरु ! व्यजेष्ठा विघ्ननायकान्।
अजैषाः कामसम्मोहौ, संप्राप्थाविनयेन वा॥६९॥

** अन्वयः—**हे भीरु ! ते तपो वर्द्धते ? विघ्ननायकान् व्यजेष्ठाः ? कामसम्मोहौअजैषीः ? वा विनयेन संप्राप्थाः ?

**प्रयोगप०—**तपसा वृद्धयते ? विघ्ननायका व्यजेषत ? कामसम्मौहौअजेषातां वा विनयः (त्वाम्) संप्रापत् ?

** व्याख्या—**हे भीरु=हे भयशीले ! ते=तव, तपः=तपस्या, वर्द्धते=एधते ?(“कच्चिदिति सर्वत्रानुषङ्गः” इति मल्लिनाथ-भरतमल्लिकादीनां मतं हेयं, “भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते।” इति लक्षणलक्षितकाक्वैव लाघवात्तदर्थाऽवगतेः)। विघ्ननायकान्=तपः प्रत्यूहकारिणः (इन्द्रियदोषानित्यर्थः), व्यजेष्ठाः=विजितवत्यसि किम् ?’ कामसंमोहौ=अरिषड्वर्गम् (अत्र कामसंमोहयोररिषड्वर्गस्य उपलक्षणत्वादयमर्थः), अजैषीः=जितवत्यसि किं, वा=तथा, विनयेन=अनुद्धततया, संप्राप्थाः=प्राप्ताऽसि किम् ?

** व्युत्पत्तिः—**भीरु=“संज्ञापूर्वकस्य विधेरनित्यत्वान्न गुण” इति मल्लिनाथः।विघ्ननायकान्=विघ्नानां नायका विघ्ननायकास्तान् (ष० त०)। व्यजेष्ठाः=विपूर्वाज्जेर्लुङि “विपराभ्यां जेः” इत्यात्मनेपदम्। कामसम्मोहौ=कामश्च सम्मोहश्वकामसम्मोहौ, तौ (द्वन्द्वः)। अजैषीः=जेर्लुङि “सिचि वृद्धिः परस्मैपदेषु” इतिवृद्धिः। संप्राप्थाः=आप्नोतेः कर्मणि लुङि थासि “झलो झलि” इति सलोपः।

** भावाऽर्थः—**हे भयशीले ! तव तपो वर्द्धते किम् ? तपोविघ्नकारिणः इन्द्रियदोषांस्तथा कामादिकं शत्रुषड्वर्ग च जितवत्यसि ? तथा विनयस्त्वां सम्प्राप्तः किम् ?

** भाषाऽर्थः—**हे भयशीले ! आपका तप बढ़ रहा है ? तपमें विघ्न करनेवालेइन्द्रियदोषोंको तथा काम, क्रोध आदि छः शत्रुओंको आपने जीत लिया है क्या ?तथा विनयको तो आपने प्राप्त किया है ?॥६९॥

नाऽऽयस्यसि तपस्यन्ती, गुरून्सम्यगतूतुषः।
यमान्नोदविजिष्ठास्त्वं, निजाय तपसेऽतुषः॥७०॥

** अन्वयः—**(हे पुण्ये !) तपस्यन्ती (त्वम्) न आयस्यसि ? गुरून्

सम्यक् अतूतुषः ? त्वं यमात् न उदविजिष्ठाः ? निजाय तपसे अतुषः ?

** प्रयोगप०—**तपस्यन्त्या (त्वया) न आयस्यते ? गुरवः अतोषयिषत ?त्वया यमात् न उदवेजि ? अतोषि ?

** व्याख्या—(**हे पुण्ये !) तपस्यन्ती=तपश्चरन्ती, (त्वं=शबरी) न आयस्यसि=न क्लिश्यसि किम् ? गुरून्=आचार्यादीन्, सम्यक्=समीचीनम्, अतूतुषः=शुश्रूषया तोषितवत्यसि, त्वं=शबरी, यमात्=अन्तकात्, न उदविजिष्ठाः=नउद्विग्नाऽसि (न अभैषीः किमित्यर्थः), निजाय=नित्याय, तपसे=तपश्चरणाय,अतुषः=तुष्टाऽसि (नित्यं तपसि त्वमुत्सुकाऽसि किमित्यर्थः)।

** व्युत्पत्तिः—**तपस्यन्ती=“कर्मणो रोमन्थतपोभ्यां वर्तिचरोः” इति क्यङ्,“तपसः परस्मैपदं च” इति परस्मैपदम्। तस्माल्लटः शतरि ङीप्। आयस्यसि"यसु प्रयत्ने” इति धातोर्लटि सिपि श्यन्। अतूतुषः=तुषेर्ण्यन्तस्य लुङ्, चङयुपधाह्रस्वः, अभ्यासदीर्घश्च। उदविजिष्ठाः=“ओविजी भयचलनयोः” इति धातोर्लुङि तङि थासि इट्। “विज इट्” इति सिचो ङित्वान्न गुणः। निजाय=“निजमात्मीयनित्ययोः” इति विश्वः।अतुषः=पुषादित्वादङ्।

** भावाऽर्थः—**हे पुण्ये! तपसा न क्लिश्यसि किम् ? आचार्यान् शुश्रूषयातोषितवत्यसि ? त्वमन्तकान्न अभैषीः किं ? त्वं नित्यं तपसि उत्सुकाऽसि कच्चित् ?

**भाषाऽर्थः—**हे पुण्याऽऽचरणशीले! आप तपस्यासे पीडित तो नहीं होतीहैं ? आपने गुरुजनोंको शुश्रूषासे अच्छी तरह सन्तुष्ट किया है? आप यमराजसेडरती तो नहीं हैं ? और नित्य तपस्यामें उत्कण्ठित होती हैं क्या॥७०॥

अथाऽर्घ्यं मधुपर्काद्यमुपनीयाऽऽदरादसौ।
अर्चयित्वा फलैरर्च्यौसर्वत्राऽऽख्यदनामयम्॥७१॥

** अन्वयः—**अथ असौ अर्ध्यं मधुपर्काद्यम् उपनीय अर्च्यौ(तौ) आदरात्फलैः अर्चयित्वा सर्वत्र अनामयम् आख्यत्।

** प्रयोगप०—**अमुया सर्वत्र अनामय आख्यायि।

** व्याख्या—**अथ=कुशलप्रश्नाऽनन्तरम्, असौ=शबरी, अर्ध्य=पूजार्थं जलं,मधुपर्काद्यं=दध्यादिकम् (पूजासाधनमित्यर्थः), उपनीय=उपादाय, अर्च्यौ=पूजनीयौ (तौ=रामलक्ष्मणौ), आदरात्=संमानातू, फलैः=सस्यैः, अर्चयित्वा=“पूजयित्वा, सर्वत्र= सर्वेषु पृष्टाऽर्थेषु, अनामयं=क्षेमम्, आख्यत्=अवोचत्।

** व्युत्पत्तिः—**अर्घ्यम्=अर्घाऽर्थं जलमर्ध्यं, तत् “पादाऽर्घाभ्यां च” इतियत्। मधुपर्काद्यं=मधुपर्क आद्यं यस्य तत् मधुपर्काद्यं, तत् (बहु०)। आख्यत्=“अस्यतिवक्तिख्यातिभ्योऽङ्” इत्यङ्।

** भावाऽर्थः—**कुशलप्रश्नानन्तरं शबरी पूजाऽर्थं जलं मधुपर्कादिकं पूजासाधनं च उपनीय रामलक्ष्मणौ संमानपूर्वकं फलैरर्चयित्वा सर्वेषु पृष्टाऽर्थेषु कुशलमकथयत्।

** भाषाऽर्थः—**रामचन्द्रजीके कुशलप्रश्न करने के अनन्तर शबरीने पूजार्थकजल और मधुपर्क आदि पूजासामग्रीको भी समीप रख कर पूजनीय राम औरलक्ष्मणको आदरपूर्वक फलोंसे पूजा कर सभी विषयोंमें अपना कुशल बतलाया॥७१॥

अथ कृदधिकारः।
(तत्रादौ निरुपपदकृदधिकारः)

“सख्यस्य तव सुग्रीवः कारकः कपिनन्दनः।
द्रुतं द्रष्टाऽसि मैथिल्याः सैवमुक्त्वा तिरोऽभवत्॥७२॥

** अन्वयः—**(हे राम !) कपिनन्दनः सुग्रीवः तव सख्यस्य कारकः, द्रुतंमैथिल्याः द्रष्टा असि” इति उक्त्वा सा तिरोऽभवत्।

** प्रयोगप०—**“कपिनन्दनेन सुग्रीवेण कारकेण (भूयते), (त्वया) द्रष्ट्राभूयते” तया तिरोऽभूयत।

** व्याख्या—**"(हे राम !) कपिनन्दनः=वानरनन्दयिता, सुग्रीवः=वानरेश्वरः, तव=भवतः, सख्यस्य=मैत्र्याः, कारकः=कर्ता (सख्यं करिष्यतीत्यर्थः),द्रुतं=शीघ्रं, मैथिल्याः=सीतायाः, द्रष्टा=पश्यन्, असि=भवसि (भविष्यसीत्यर्थः),इति=एवम्, उक्त्वा=कथयित्वा, सा=शबरी, तिरोऽभवत्=तिरोभूता।

** व्युत्पत्तिः—**कृत्सु भावकर्माऽर्थान्कृत्यानुक्त्वा कर्त्रर्थान् ण्वुलादीन्निरुपपदानधिकृत्याह। कपिनन्दनः=नन्दयतीति नन्दनः, “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः” इति नन्द्यादित्वाल्ल्युः। “युवोरनाकौ” इत्यनादेशः। कपीनां नन्दनः(कृद्योगे षष्ठी, ततः समासः)। सख्यस्य=सख्युर्भावः सख्यं, तस्य “सख्युर्यः”इति यः,कर्मणि षष्ठी। कारकः=करोतीति, “ण्वुल्तृचौ” इति ण्वुल्। “युवोरनाकौ” इति तस्य अकादेशः। द्रष्टा=पश्यतीति, पूर्वसूत्रेण तृच्। असि=वर्तमानसामीप्ये लट्।

** भावाऽर्थः—**“हे राम !वानरेश्वरः सुग्रीवस्तव सखा भविष्यति, सत्वरमेवसीतां द्रक्ष्यसि” इति कथयित्वा सा अन्तर्हिता।

** भाषाऽर्थः—**“हे राम! वानरोंको आनन्द देनेवाले सुग्रीव आपके मित्र होंगेऔर आप जल्दी ही सीताको देखेंगे” ऐसा कह कर शबरी अन्तर्हित हुई॥७२॥

नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम्।
वनानि भेजतुर्वीरौ ततः पाम्पानि राघवौ॥७३॥

** अन्वयः—**ततः वीरौ राघवौ मुनीन्द्राणां नन्दनानि वनौकसां रमणानि पाम्पानि वनानि भेजतुः।

** प्रयोगप०—**वीराभ्यां राघवाभ्यां नन्दनानि रमणानि पाम्पानि वनानि भेजिरे।

** व्याख्या—**ततः=शबरीतिरोधानाऽनन्तरं, वीरौ=विक्रान्तौ, राघवौ=रामलक्ष्मणौ, मुनीन्द्राणाम्=ऋषिवरोणां, नन्दनानि=नन्दकानि (प्रमोदकारीणिइत्यर्थः), वनौकसां=काननवासिनां, रमणानि=मनोरमाणि, पाम्पानि=पम्पायाअदूर-भवानि, वनानि=काननानि, भेजतुः=प्रापतुः।

** व्युत्पत्तिः—**मुनीन्द्राणां=कर्मणि षष्ठी। नन्दनानि=ल्युप्रत्ययः। वनौकसां=वनमोको येषां ते वनौकसस्तेषाम् (बहु० कर्मणि षष्ठी)। रमणानि=नन्द्यादित्वाल्ल्युः। पाम्पानि=पम्पाया अदूरभवानि पाम्पानि, तानि “अदूरभवश्च” इत्यण्।भजेर्लिट्, “तॄफलभजत्रपश्च” इत्येत्वाभ्यासलोपौ।

** भावाऽर्थः—**शबरीतिरोधानाऽनन्तरं वीरौ रामलक्ष्मणौ ऋषीणामानन्दजनकानि वनवासिनां मनोरमाणि पम्पाया अदूरवर्तीनि काननानि प्रापतुः।

** भाषाऽर्थः—**शबरीके तिरोहित होनेके अनन्तर, वीर राम और लक्ष्मण,ऋषियोंको आनन्द देनेवाले तथा वनवासियोंको मनोरम प्रतीत होनेवाले पम्पासरके निकटवर्ती वनोंमें पहुंचे॥७३॥

भृङ्गालीकोकिलक्रुङ्भिर्वाशनैः पश्य लक्ष्मण।
रोचनैर्भूषितां पम्पामस्माकं हृदयाविधम्॥७४॥

** अन्वयः—**हे लक्ष्मण ! वाशनैः रोचनैः भृङ्गालीकोकिलक्रुङ्भिः भूषिताम्अस्माकं हृदयाविधं पम्पांपश्य।

** प्रयोगप०—**भूषिता हृदयावित् पम्पा दृश्यताम्।

** व्याख्या—**हे लक्ष्मण=हे भ्रातः, वाशनैः=कूजद्भिः, रोचनैः=रोचमानैः

(शोभनैरित्यर्थः), भृङ्गाऽऽलीकोकिलकुङ्भिः=भ्रमराऽऽलिकोकिलक्रौञ्चैः, भूषिताम्=अलङ्कृताम्, (अत एव) अस्माकम्= मम, हृदयाविधं=चेतःपीडयित्रीं,पम्पां=पम्पासरः, पश्य=विलोकय।

** व्युत्पत्तिः—**वाशनैः=वाश्यन्त इति वाशनास्तैः। रोचनैः=उभयत्राऽपि नन्द्यादित्वाल्ल्युः। भृङ्गाऽऽलीकोकिल-क्रुङ्भिः=भृङ्गाणामाल्यो भृङ्गाल्यः (ष० त०)।क्रुञ्चन्तीति क्रुञ्चः, “क्रुञ्च कौटिल्याऽल्पीभावयोः” इति धातोः “ऋत्विगि”त्यादिनाक्विन्प्रत्ययः, निपातनसामर्थ्यान्नाऽनुनासिकलोपः। “क्विन्प्रत्ययस्य कुः” इतिकुत्वम्। “क्रुङ् क्रौञ्चः” इत्यमरः। भृङ्गाल्यश्च कोकिलाश्च कुञ्चश्च भृङ्गालीकोकिलक्रुञ्चः, तैः (द्वन्द्वः)।हृदयाविधं=हृदयं विध्यतीति हृदयावित् (क्विप्प्रत्ययः)“ग्रहिज्यावयी"त्यादिना सम्प्रसारणं “नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ"इति सूत्रेण पूर्वपदस्य दीर्घः।

** भावाऽर्थः—**हे लक्ष्मण ! कूजद्भिः शोभनैः भृङ्गपिकक्रौञ्चैरलङ्कृतामत एवोद्दीपकत्वान्मम चेतःपीडकं पम्पाऽऽख्यं सरः पश्य।

** भाषाऽर्थः—**हे लक्ष्मण! शब्द करनेवाले और सुन्दर भ्रमर, कोकिल औरक्रौञ्च आदि पक्षियोंसे भूषित, अत एव उद्दीपक होनेसे मेरे हृदयको पीडित करनेवाले पम्पासरको देख लो॥७४॥

परिभावीणि ताराणां, पश्य मन्थीनि चेतसाम्।
उद्भासीनि जलेजानि दुन्वन्त्यदयितं जनम्॥७५॥

** अन्वयः—**ताराणां परिभावीणि चेतसां मन्थीनि उद्भासीनि जलेजानि अदयितं जनं दुन्वन्ति पश्य।

** प्रयोगप०—**परिभाविभिः मन्थिभिः उद्भासिभिः जलेजैरदयितो जनो दूयते,दृश्यताम्।

** व्याख्या—**(हे लक्ष्मण !) ताराणां=नक्षत्राणां, परिभावीणि=तिरस्कारीणि(शोभाऽतिशयादित्यर्थः), चेतसां=विरहिचित्तानां, मन्थीनि=प्रमाथीनि, उद्भासीनि=विकासीनि, जलेजानि=कमलानि, अदयितं=प्रियाविरहिणं, जनं=पुरुषं,दुन्वन्ति=तपन्ति (पीडयन्तीत्यर्थः)। पश्य=विलोकय (वाक्यार्थः कर्भ)।

** व्युत्पत्तिः—**परिभावीणि=परिभवन्तीति, “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः”इति ग्रह्मादित्वाणिनिः, एवमन्यत्राऽपि। “प्रातिपदिकान्तनुम्विभक्तिषु च " इति

विकल्पेन णत्वम्। “अनादरः परिभवः परीभावस्तिरस्क्रिया।” इत्यमरः। मन्थीनि=मन्थन्तीति, “मथि हिंसासंक्लेशयोः” इति धातोः पूर्ववण्णिनिरिदित्त्वान्नुमागमश्च। उद्भासीनि=णिनिः। जलेजानि=जले जातानि, “सप्तम्यां जनेर्डः”इति डः, “तत्पुरुषे कृति बहुलम्” इति विकल्पेन सप्तम्या अलुक्। अदयितम्=अविद्यमाना दयिता यस्य सोऽदयितस्तम् (नञ्बहु०)। दुन्वन्ति= “टुदु उपतापे”इति धातोर्लट्, “स्वादिभ्यः श्नु” इति श्नुः।

** भावाऽर्थः—**हे लक्ष्मण ! नक्षत्रेभ्योऽपि रमणीयानि विरहिमानसानां प्रमाथीनि विकसितानि कमलानि उद्दीपकत्वात् प्रियाविरहिणं जनं पीडयन्ति। पश्य।

** भाषाऽर्थः—**हे लक्ष्मण ! ताराओंको तिरस्कार करनेवाले, वियोगियोंकेचित्तको मथन करनेवाले तथा विकासयुक्त (खिले हुए) कमल, प्रियारहित पुरुषको पीडित करते हैं, देखो॥७५॥

सर्वत्र दयिताऽधीनं सुव्यक्तं रामणीयकम्।
येन जातं प्रियाऽपाये कद्वदं हंसकोकिलम्॥७६॥

** अन्वयः—**सर्वत्र रामणीयकं दयिताऽधीनं सुव्यक्तं, येन प्रियाऽपाये हंसकोकिलं कद्वदं जातम्।

** प्रयोगप०—**रामणीयकेन दयिताऽधीनेन सुव्यक्तेन (भूयते), हंसकोकिलेन कद्वदेन जातम्।

** व्याख्या—**सर्वत्र=सर्वेष्वपि वस्तुषु, रामणीयकं=रमणीयत्वं, दयिताऽधीनं=प्रियाऽऽयत्तं, सुव्यक्तं=संस्पष्टं, येन=कारणेन, प्रियाऽपाये=दयिताविरहे, हंसकोकिलं=चक्राङ्गपिकसमूहः, कद्वदं=कुत्सितवादि, जातं=संवृत्तम् (सीतासन्निधौ यत्पूर्वंमे आनन्दप्रदमभूत्, तत्सर्वमपि साम्प्रतमसह्यं जातमिति तात्पर्यम्)।

** व्युत्पत्तिः—**रामणीयकं=रमणीयस्य भावो रामणीयकं, “योपधाद्गुरूपोत्तमाद् घुञ्” इति वुञ्। दयिताऽधीनं=दयिताया अधीनम् (ष० त०)। प्रियाऽपाये=प्रियाया अपायः प्रियाऽपायस्तस्मिन् (ष० त०)। हंसकोकिलं=हंसाश्चकोकिलाश्च, “विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वाऽपराऽधरोत्तराणाम्” इति शकुनिद्वन्द्वः। कद्वदं=कुत्सितं वदतीति वदेः “नन्दिग्रहिपचादिभ्योल्युणिन्यचः” इति पचादित्वादच्, “रथवदयोश्च” इति कोः कदादेशः।

** भावाऽर्थः—**प्रियासन्निधान एव सर्वमपि वस्तु रमणीयं भवतीति स्फुटं

प्रतीयते, येन श्रुतिमधुरमपि हंसकोकिलवाशितं प्रियाविरहे असह्यं जातम्।

** भाषाऽर्थः—**“सभी वस्तुओंमें रमणीयत्व प्रिया के अधीन है” यह बातसाफ तौरसे मालूम होती है। अत एव प्रियाके विरहमें हंस और कोकिल भीकटुशब्द करनेवाले हो रहे हैं॥७६॥

पक्षिभिर्वितृदैर्यूनां शाखिभिः कुसुमोत्किरैः।
अज्ञो यो यस्य वा नाऽस्ति प्रियः प्रग्लो भवेन्न सः॥७७॥

** अन्वयः—**यः अज्ञः, वा यस्य प्रियः न अस्ति, सः (एव) यूनां वितृदैःपक्षिभिः कुसुमोत्किरैः शाखिभिश्च प्रग्लः न भवेत्।

** प्रयोगप०—**येन अज्ञेन (भूयते), प्रियेण न भूयते, तेन प्रग्लेन न भूयेत।

** व्याख्या—**यः=जनः, अज्ञः=विषयरसाऽनभिज्ञः, वा=अथवा, यस्य=जनस्य,प्रियः=प्रीतिकरः, न अस्ति=न वर्तते, सः=जनः (एव), यूनां=तरुणानां वितृदैः=हिंसकैः, पक्षिभिः=हंस कोकिलादिभिः, कुसुमोत्किरैः=पुष्पवर्षिभिः, शाखिभिश्च=वृक्षैश्च, प्रग्लः=क्षीणहर्षः, न भवेत्=न स्यात्।

** व्युत्पत्तिः—**अज्ञः=जानातीति ज्ञः, ज्ञाधातोः “इगुपधज्ञाप्रीकिरः कः” इतिकप्रत्ययः। प्रियः=प्रीणातीति, पूर्वसूत्रेण “प्रीञ् तर्पणे” इति धातोः कः। यूनां=कर्मणि षष्ठी। वितृदैः=वितृदन्तीति वितृदास्तैः, “उतृदिर हिंसाऽनादरयोः” इतिधातोः पूर्ववत्कः। कुसुमोत्किरैः=उत्किरन्तीति उत्किराः, उत्पूर्वात् “कॄविक्षेपे”इति धातोः कः। कुसुमानामुत्किराः कुसुमोत्किरास्तैः, कर्मणि षष्ठीसमासः। शाखिभिः=शाखाः सन्ति येषां ते शाखिनस्तैः, “व्रीह्यादिभ्यश्च” इतीनिः। प्रग्लः=प्रकर्षेण ग्लायतीति, प्रपूर्वात् “ग्लै हर्षक्षये” इति धातोः “आतश्चोपसर्गे” इतिकप्रत्ययः।

** भावाऽर्थः—**येन विषयरसो नाऽनुभूतः, यस्य वा प्रियो नाऽस्ति स एवप्रियावियुक्तानां तरुणानां हिंसकैः हंसकोकिलाऽऽदिपक्षिभिः पुष्पवर्षिभिर्वृक्षैश्च क्षीणहर्षो न स्यात् (विषयरसास्वादी प्रियजनवांश्च वियोगे एभिर्ग्लायत्येव)।

** भाषाऽर्थः—**जो पुरुष विषयोंके रसमें अनभिज्ञ हैं, अथवा जिसका कोई प्रियनहीं है वही पुरुष, प्रियाविरही तरुणोंकी हिंसा करनेवाले कोकिल आदि पक्षियोंसेऔर पुष्पवर्षी वृक्षोंसे ग्लानियुक्त नहीं होगा॥७७॥

ध्वनीनामुद्धमैरेभिर्मधूनामुद्धयैर्भृशम्।
आजिघ्रैःपुष्पगन्धानां पतङ्गैर्ग्लपिता वयम्॥७८॥

** अन्वयः—**ध्वनीनाम् उद्धमैः मधूनाम् उद्धयैः पुष्पगन्धानाम् आजिघ्रैःएभिः पतङ्गैः वयं भृशं ग्लपिताः।

** प्रयोगप०—**उद्धमा उद्धया आजिघ्रा इमे पतङ्गा अस्मान् भृशं ग्लपितवन्तः।

** व्याख्या—**(हे लक्ष्मण !) ध्वनीनां=शब्दानाम्,उद्धमैः=उत्पादकैः(ध्वनद्भिरित्यर्थः), मधूनां=पुष्परसानाम्, उद्धयैः= पातृभिः, पुष्पगन्धानां=कुसुमगन्धानाम्, आजिघ्रैः=आघ्रातृभिः, एभिः=निकटस्थैः, पतङ्गैः=पक्षिविशेषैः (भृङ्गैरित्यर्थः), वयम्= वियोगिनः, ग्लपिताः=पीडिताः।

** व्युत्पत्तिः—**ध्वनीनां कर्मणि षष्ठी। उद्धमैः=उद्धमन्तीति उद्धमास्तैः,उत्पूर्वात् “ध्मा शब्दाऽग्निसंयोगयोः” इति धातोः “पाघ्राध्माधेङ्दृशः शः” इतिशः “पाघ्राध्मास्थाम्ने”त्यादिना धातोर्धमादेशश्च। मधूनां, पुष्पगन्धानाम्=उभयत्राऽपि कर्मणि षष्ठी। उद्धयैः=उद्धयन्तीति उद्धयास्तैः, उत्पूर्वात् “धेट् पाने”इति धातोः पूर्वसूत्रेण शः। आजिघ्रैः=आजिघ्रन्तीति आजिघ्रास्तैः, आङ्पूर्वकात्“घ्रा गन्धोपादाने” इति धातोः शः, “पाघ्राध्मास्थे”त्यादिना धातोर्जिघ्रादेशश्च।पतङ्गैः=विशेषणैस्तद्धर्माऽभि-धानात्सामान्य (पतङ्ग) शब्देन विशेषे (भ्रमरे)लक्षणा। ग्लपिताः=ग्लायतेर्ण्यन्तात्करणे “अर्तिह्री"त्यादिना पुगागमः “ग्लास्नावनुवमां च” इति मित्त्वाद्ध्रस्वत्वम्।

** भावाऽर्थः—**गुञ्जद्भिः पुष्परसं पिबद्भिः पुष्पगन्धानामाघ्रातृभिरेभिर्भ्रमरैरहमत्यर्थं पीडितः।

**भाषाऽर्थः—**शब्द करनेवाले, पुष्परसोंको पीनेवाले और पुष्पोंको सूँघनेवालेइन भ्रमरोंसे मैं अत्यन्त पीडित हुआ हूँ॥७८॥

धारयैः कुसुमोर्मीणां पारयैर्बाधितुं जनान्।
शाखिभिर्हा ! हता भूयो हृदयानामुदेजयैः॥७९॥

** अन्वयः—**कुसुमोर्मीणां धारयैः जनान् बाधितुं पारयैः हृदयानाम् उदेजयैःशाखिभिः भूयः हताः, हा !

** प्रयोगप०—**धारयाः पारयाः उदेजयाः शाखिनः (अस्मान्) हतवन्तः, हा !

** व्याख्या—**कुसुमोर्मीणां=पुष्पपरम्पराणां, धारयैः=धारकैः, जनान्=विरहि-

जनान्, बाधितुं=पीडयितुं, पारयैः=समर्थैः, हृदयानां=विरहिचेतसाम्, उदेजयैः=उत्कम्पनैः, शाखिभिः=वृक्षैः, भूयः=अत्यर्थं, हताः पीडिताः, हा खेदः!

** व्युत्पत्तिः—**कुसुमोर्मीणां=कुसुमानामूर्मयः कुसुमोर्मयः (ष० त०), तेषाम्(कर्मणि षष्ठी)। धारयैः=धारयन्तीति धारयास्तैः णिजन्तान् “धृञ्धारणे"इति धातोः “अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च” इतिशः। पारयैः= पारयन्तीति पारयास्तैः, णिजन्तात् “पॄपालनपूरणयोः” इतिधातोः पूर्ववत्शः। उदेजयैः=उदेजयन्तीति उदेजयास्तैः, उत्पूर्वकात् णिजन्तात्“एजृ कम्पने” इति धातोः पूर्ववत्प्रत्ययः।

** भावाऽर्थः—**पुष्पपरिपूर्णैः विरहिणः पीडयितुं समर्थैः वियुक्तचेतसामुत्कम्पनैर्वृक्षैरत्यर्थं हता वयम् हा !

** भाषाऽर्थः—**पुष्पसमूहों को धारण करनेवाले, विरहियोंको पीडित करने मेंसमर्थ और वियोगिचित्तोंको उत्कम्पित करनेवाले इन वृक्षोंसे हम अत्यन्त पीड़ितहो गये हैं ! हाय !

ददैर्दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम्।
लिम्पैरिव तनोर्वातैश्चेतयः स्याज्ज्वलो न कः॥९०॥

** अन्वयः—**मादृग्भ्यःदुःखस्य ददैः, उत्तमम् आमोदं धायैः, तनोः लिम्पैःइव वातैः कः चेतयः ज्वलः न स्यात्।

** प्रयोगप०—**केन चेतयेन ज्वलेन न भूयेत।

** व्याख्या—**मादृग्भ्यः=मादृशेभ्यः (वियोगिभ्य इत्यर्थः), दुःखस्य=पीडायाः,ददैः=दायकैः, उत्तमम्=उत्कृष्टम्, आमोदं= सौरभं, धायैः=दधानैः, तनोः=देहस्य,लिम्पैः इव=लिम्पद्भिः इव (स्थितैः), वातैः=वायुभिः, कः, चेतयः=प्राणी, ज्वलः= प्रज्वलनात्मकः, न स्यात्=न भवेत् (सर्वोऽपि स्यादेवेत्यर्थः)।

** व्युत्पत्तिः—**मादृग्भ्यः=अहमिव इमे पश्यन्ति मादृशः, तेभ्यः “त्यदादिषुदृशोऽनालोचने कञ्च” इति सूत्रे चकाराद् दृशेः क्विन् “प्रत्ययोत्तरपदयोश्च” इत्यस्मच्छब्दस्य मदादेशः “आ सर्वनाम्न” इति आकारोऽन्तादेशश्च। ददैः=ददतीतिददास्तैः, “ददातिदधात्योर्विभाषा” इति विकल्पात्कर्तरि शः। आमोदं=“कर्तृकर्मणोः कृति” इति षष्ठ्या अनित्यत्वाद् द्वितीया। धायैः=दधतीति धायास्तैः, पूर्वसूत्रेणशाऽभावपक्षे आकाराऽन्तत्वम् “श्याद्वयधास्रुसंस्वतीणवसावहृलिहश्लिषश्वसश्च”

इति णप्रत्यये युगागमः। लिम्पैः=लिम्पन्तीति लिम्पास्तैः, “अनुपसर्गाल्लिम्पे”त्यादिना शः। चेतयः=चेतयतीति चेतयः, पूर्वसूत्रेणैव चेतयतेः शः।ज्वलः=ज्वलयतीति, “ज्वलितिकसन्तेभ्यो णः” इति णस्य विकल्पत्वात्पचाद्यच्।

** भावाऽर्थः—**मादृशानां वियोगिनां दुःखप्रदैः, उत्कृष्टं सौरभं दधानैः, शरीरंलिम्पद्भिरिव स्थितैः वायुभिः कः प्राणी ज्वलन्नग्निरिव न स्यात्।

**भाषाऽर्थः—**मेरे ऐसे वियोगियोंको दुःख देनेवाले, उत्कृष्ट सौरभ (खुश्बू) को धारण करनेवाले और शरीरको लिप्त करनेवाले जैसे वायुयोंसे कौन प्राणीजलते हुए अग्निके सदृश न होगा॥८०॥

अवश्यायकणास्रावाश्चारुमुक्ताफलत्विषः।
कुर्वन्ति चित्तसंस्रावं चलत्पर्णाऽग्रसम्भृताः॥८१॥

** अन्वयः—**चलत्पर्णाऽग्रसम्भृताः चारुमुक्ताफलत्विषः अवश्यायकणास्रावाःचित्तसंस्रावं कुर्वन्ति।

** प्रयोगप०—**चलत्पर्णाऽग्रसम्भृतैः चारुमुक्ताफलत्विङ्भिः अवश्यायकणाऽऽस्रावैः चित्तसंस्रावः क्रियते।

** व्याख्या—**चलत्पर्णाऽग्रसम्भृताः=चलत्पत्राऽग्रसञ्चिताः, चारुमुक्ताफलत्विषः=सुन्दरमौक्तिकफलकान्तयः, अवश्याय-कणास्रावाः=हिमलेशनिष्यन्दाः (निष्यन्दमानहिमबिन्दवः), चित्तसंस्रावं=चेतोद्रवं, कुर्वन्ति=विदधति (चित्तं द्रावयन्तीत्यर्थः)।

** व्युत्पत्तिः—**चलत्पर्णाऽग्रसम्भृताः=पर्णानामग्राणि पर्णाऽग्राणि (ष० त०),चलन्ति च तानि पर्णाऽग्राणि चलत्पर्णाग्राणि (क० धा०), तेषु सम्भृताः (स०त०)। चारुमुक्ताफलत्विषः=मुक्ताः फलानीव (स्थूलत्वात्) मुक्ताफलानि, “उपमितं व्याघ्रादिभिः सामान्याऽप्रयोगे” इति समासः। चारूणि च तानि मुक्ताफलानि चारुमुक्ताफलानि (क० धा०), तेषामिव त्विषो येषां ते (व्यधिकरणबहु०)।अवश्यायकणाऽऽस्रावाः=अवश्यायते इति अवश्यायः, “श्यैङ् गतौ” इति धातोः“श्याद्वयधास्रुसंरुवतीणवसावहृलिहश्लिषश्वसश्च” इति णः, “अवश्यायस्तु नीहारस्तुषारस्तुहिनंहिमम्।” इत्यमरः। अवश्यायस्य कणा अवश्यायकणाः (ष० त०),आस्रवन्तीति आस्रावाः “स्रु गतौ” इति धातोः पूर्वसूत्रेणैव णः। अवश्यायकणा एवआस्रावाः (रूपक०)। चित्तसंस्रावं=संस्रवतीति संस्रावः, तत एव धातोः ततएव सूत्रेण णः। चित्तस्य संस्रावः चित्तसंस्रावस्तम् (ष० त०)। “चित्तम्” इति

मल्लिनाथसंमतः पाठः।

** भावाऽर्थः—**चलत्पत्राऽग्रेषु सञ्चिताः सुन्दरमौक्तिकसदृशाः क्षरत्तुषारबिन्दवश्चित्तं द्रावयन्ति।

** भाषाऽर्थः—**हिलते हुए पत्तोंके अग्रभागोंमें सञ्चित और सुन्दर मोतियोंकीतरह कान्तिवाले क्षरित होनेवाली ओसकी बूंदें चित्तको पिघला देती हैं॥८१॥

अवसायो भविष्यामि दुःखस्याऽस्य कदान्वहम्।
न जीवस्याऽवहारो मां करोति सुखिनं यमः॥८२॥

** अन्वयः—**अहं कदा नु अस्य दुःखस्य अवसायः भविष्यामि ? यमः (अपि)जीवस्य अवहारः (सन्) मां सुखिनं न करोति।

** प्रयोगप०—**मया अवसायेन भविष्यते। यमेन (अपि) अवहारेण (सता)अहं सुखी न क्रिये।

**व्याख्या—**अहं=रामः, कदा नु=कस्मिन्समये नु, अस्य=अनुभूयमानस्य,दुःखस्य=सीतावियोगस्य, अवसायः=समापकः, भविष्यामि=भवितास्मि, यमः=अन्तकः (अपि), जीवस्य=प्राणस्य, अवहारः=हर्ता (सन्), मां=रामं, सुखिनं=दुःखरहितं, न करोति=न विदधाति (अस्मज्जीवनान्मरणमेव वरमिति भावः)।

** व्युत्पत्तिः—**अवसायः=अवस्यतीति, अवपूर्वात् “षोऽन्तकर्मणि” इति धातोः“श्याद्वयधे”त्यादिना णः। अवहारः= अवहरतीति, पूर्वसूत्रेणैव णः।

** भावाऽर्थः—**सीताविरहरूपस्य दुःखस्य कदा समाप्तिर्भविष्यति ? यमोऽपिप्राणहरणेन मद्दुःखं नाऽपनयति।

** भाषाऽर्थः—**कब मेरे इस दुःखका अवसान होगा? यमराज भी प्राणकाअपहरण करते हुए मुझको सुखी नहीं बनाते हैं॥८२॥

दह्येऽहं मधुनो लेहैर्दावैरुग्रैर्यथा गिरिः।
नायः कोऽत्र स येन स्यां वताऽहं विगतज्वरः॥८३॥

** अन्वयः—**अहं मधुनः लेहैः उग्रैःदावैः गिरिः यथा दह्ये, येन अहं विगतज्वरः स्याम् अत्र स नायः कः नु वत।

** प्रयोगप०—**मां मधुनो लेहा उग्रा दावा गिरिं यथा दहन्ति, मया विगतज्वरेण भूयेत, तेन नायेन केन नु (भूयते)।

** व्याख्या—**अहं=रामः, मधुनः=पुष्परसस्य, लेहैः=आस्वादकैः (मधुलिड्भि-

र्भ्रमरैरित्यर्थः), उग्रैः=क्रूरैः, दावैः=दावाऽनलैः, गिरिर्यथा=पर्वत इव, दह्ये=तप्ये, येन=उपायेन, अहं=रामः, विगतज्वरः= अपगतसन्तापः, स्यां=भवेयम्,अत्र=अवसरे, सः=तादृशः, नायः=उपायः, कः नु=न कोऽपीत्यर्थः। वत=खेदोऽस्ति।

** व्युत्पत्तिः—**लेहैः=लिहन्तीति लेहास्तैः, “लिह आस्वादने” इति धातोः“श्याद्व्यधे”त्यादिना णः। दावैः=दुन्वतीति दावास्तैः, “टुदु उपतापे” इति धातोः“दुन्योरनुपसर्गे” इति णः। दह्ये=“दह भस्मीकरणे” इति धातोः कर्मणि लटिमिप्। विगतज्वरः= विगतोज्वरो यस्य सः (बहु०)। नायः=नयतीति,पूर्वसूत्रेणैव णः।

** भावाऽर्थः—**यथा भयङ्करा दावाऽनला पर्वतं दहन्ति, तथैव उद्दीपकत्वाद्भ्रमरा अपि मां दहन्ति। येन मम सन्तापो नश्येत्स कउपायो नु वत !

** भाषाऽर्थः—**भयङ्कर दावाऽनलोंसे पर्वतकी तरह मैं भी भ्रमरोंसे दग्ध होरहा हूं। जिससे मैं सन्ताप रहित हो जाऊं, वह कौनसा उपाय है हाय!॥८३॥

समाविष्टं ग्रहेणेव ग्राहेणेवात्तमर्णवे।
दृष्ट्वा गृहान्स्मरस्येव वनान्तान्मम मानसम्॥८४॥

**अन्वयः—**मम मानसं वनाऽन्तान् स्मरस्य गृहान् इव दृष्ट्वा ग्रहेण समाविष्टम्इव अर्णवे ग्राहेण आत्तम् इव (भवति)।

**प्रयोगप०—**मानसेन समाविष्टेनेव आत्तेनेव (भूयते)।

**व्याख्या—**मम=रामस्य, मानसं=चित्तं, वनाऽन्तान्=अरण्यप्रदेशान्, स्मरस्य=कामस्य, गृहान् इव=गेहानि इव, दृष्ट्वा= विलोक्य, ग्रहेण=मङ्गलादिना क्रूरखेटेन,समाविष्टम् इव=आक्रान्तम् इव, अर्णवे=समुद्रे, ग्राहेण=नक्रेण, आत्तम् इव-गृहोतम् इव (भवतीति शेषः)।

** व्युत्पत्तिः—**गृहान्=गृह्णन्तीति गृहास्तान्, “गेहे कः” इति “ग्रह उपादाने"इति धातोः कः, “अर्धर्चाः पुंसि च” इति पाठात्पुंलिङ्गत्वं, “गृहाः पुंसि च भूम्न्येव”इत्यमरः। ग्रहेण=गृह्णातीति ग्रहस्तेन, “विभाषा ग्रहः” इति व्यवस्थित-विभाषयाजलचरे कर्तरि णः, ज्योतिषि पचाद्यच्। ग्राहेण=“विभाषा ग्रह” इति णः।

**भावार्थः—**उद्दीपकत्वात् कामाऽऽयतनैरिव वनप्रदेशैर्मम चित्तं मङ्गलादिकेन क्रूरग्रहेण आक्रान्तमिव समुद्रे ग्राहेण गृहीतमिव भवति।

**भाषाऽर्थः—**उद्दीपक होनेसे कामभवनके सदृश वनप्रदेशोंको देख कर

मेरा चित्त, मङ्गल आदि क्रूरग्रहसे आक्रान्तकी तरह और समुद्रमें ग्राहसे ग्रहणकिये हुए के तुल्य होता है॥८४॥

वाताऽऽहतिचलच्छाखा नर्तका इव शाखिनः।
दुःसहा हा ! परिक्षिप्ताः क्वणद्भिरलिगाथकैः॥८५॥

** अन्वयः—**वाताऽऽहतिचलच्छाखाः क्वणद्भिः अलिगाथकैः परिक्षिप्ताः शाखिनः नर्तकाः इव दुःसहाः हा !

** प्रयोगप०—**वाताऽऽहतिचलच्छाखैः परिक्षिप्तैः शाखिभिः नर्तकैरिव दुःसहैः (भूयते)।

**व्याख्या—**वाताऽऽहतिचलच्छाखाः=वाय्वाघातचलद्विटपाः, क्वणद्भिः=गुञ्जद्भिः, अलिगाथकैः=भ्रमरगायकैः, परिक्षिप्ताः= परिवृताः, शाखिनः=वृक्षाः, नर्तका इव=लासका इव, दुःसह्याः=असह्याः(भवन्तीति शेषः)। हा=कष्टम्।

**व्युत्पत्तिः—**वाताऽऽहतिचलच्छाखाः=वातस्य आहतिर्वाताऽऽहतिः (ष०त०)। चलन्त्यः शाखाः (नर्तकपक्षे भुजलताः) येषां ते चलच्छाखाः (बहु०),“शाखा वेदप्रभेदेषु बाहुपार्श्वद्रुमाऽङ्गयोः।” इति यादवः। वाताऽऽहत्या चलच्छाखाः (तृ० त०)। अलिगाथकैः=गायन्तीति गाथकाः, गायतेः शिल्पिनि‘“गस्थकन्’’इति थकन्प्रत्ययः। अलिन एव गाथका अलिगाथकास्तैः (रूपक०)।नर्तकाः=नृत्यन्तीति, “नृती गात्रविक्षेपे” इति धातोः “शिल्पिनि ष्वुन्” इतिष्वुन्। दुःसहाः=दुःखेन सोढुं शक्याः (खत्प्रत्ययः)।

** भावाऽर्थः—**वायुना चलद्भुजलता गुञ्जद्भिरलिगायकैः परिवृता वृक्षाः नर्तका इव प्रतीयन्ते, अत एव उद्दीपकत्वाद्दुःसहा भवन्ति, हा !

** भाषाऽर्थः—**वायुके आघातसे बाहुतुल्य जिनकी शाखायें हिल रही हैं,शब्द करनेवाले भ्रमररूप गवैयोंसे घिरे हुए ऐसे वृक्ष नर्तककी तरह प्रतीत होरहे हैं, अत एव उद्दीपक होनेसे ये दुःसह हैं, हाय॥८५॥

एकहायनसारङ्गगती रघुकुलोत्तमौ।
लवकौ शत्रुशक्तीनामृष्यमूकमगच्छताम्॥८६॥

** अन्वयः—**एकहायनसारङ्गगती शत्रुशक्तीनां लवकौ रघुकुलोत्तमौ ऋष्यमूकम् अगच्छताम्।

** प्रयोगप०—**एकहायनसारङ्गगतिभ्यां लवकाभ्यां रघुकुलोत्तमाभ्यामृष्य-

मूकोऽगम्यत।

** व्याख्या—**एकहायनसारङ्गगती=एकवर्षगजगमनौ, शत्रुशक्तीनां=वैरिबलानां, लवकौ=साधुच्छेदनौ, रघुकुलोत्तमौ= रामलक्ष्मणौ, ऋष्यमूकम्=ऋष्यमूकपर्वतम्, अगच्छतां=प्राप्तौ।

**व्युत्पत्तिः—**एकहायनसारङ्गगती=जहाति भावानिति, जिहीते (प्राप्नोति)भावानिति वा हायनः (वर्षम्), जहातेर्जिहीतेश्च “हश्चव्रीहिकालयोः” इति ण्युट्,“संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः।” इत्यमरः। एको हायनो यस्यस एकहायनः (बहु०), स चाऽसौ सारङ्ग एकहायनसारङ्गः (क० धा०) “सारङ्गश्चातके भृङ्गे कुरङ्गे च मतङ्गजे।” इति विश्वः। एकहायनसारङ्गस्येव गतिर्ययोस्तौ (व्यधि० बहु०)। शत्रुशक्तीनां=शत्रूणां शक्तयः शत्रुशक्तयस्तासाम्(ष० त०)। लवकौ=लुनीत इति “लूञ् छेदने” इति धातोः “प्रसृल्वः समभिहारे वुन्” इति वुन्। समभिहारग्रहणेन साधुकारित्वं लक्ष्यते।

** भावाऽर्थः—**एकवर्षकरिशावकगमनौशत्रुशक्तिसाधुच्छेदकौ रामलक्ष्मणौऋष्यमूकमगच्छताम्।

** भाषाऽर्थः—**तब एकवर्षके हाथीकी तरह गतिवाले, शत्रुशक्तिका अच्छीतरह छेदन करनेवाले राम और लक्ष्मण ऋष्यमूक पर्वतमें गये॥८६॥

तौ बालिप्रणिधी मत्वा सुग्रीवोऽचिन्तयत्कपिः।
बन्धुना विगृहीतोऽहं भूयासं जीवकः कथम्॥८७॥

अन्वयः—(अथ) सुग्रीवः कपिः तौ बालिप्रणिधी मत्वा “बन्धुना विगृहीतःअहं कथं जीवकः भूयासम्” इति अचिन्तयत्।

** प्रयोगप०—**सुग्रीवेण कपिना—“विगृहीतेन मया कथं जीवकेन भाविषीष्ट"इति अचिन्त्यत।

व्याख्या—(अथ=अनन्तरम्) सुग्रीवः=सुग्रीवनामकः, कपिः=वानरः,तौ=रामलक्ष्मणौ, बालिप्रणिधी=बालिचरौ, मत्वा=विचार्य, बन्धुना=भ्रात्रा (बालिनेत्यर्थः), विगृहीतः=विरोधितः, अहं=सुग्रीवः, कथं केन प्रकारेण, जीवकोभूयासं= जीव्यासम्, इति=इत्थम् अचिन्तयत्=चिन्तितवान्।

** व्युत्पत्तिः—**बालिप्रणिधी=प्रकर्षेण निधीयते ज्ञेयमत्र प्रणिधिः “उपसर्गे घोःकिः” इति किः। बालिनः प्रणिधी बालिप्रणिधी तौ, (ष० त०) “यथाऽर्हवर्णः प्रणि-

धिरपसर्पश्चरः स्पशः।” इत्यमरः। जीवकः=जीवतात् इति, “जीव प्राणधारणे"इति धातोः “आशिषि च” इति आशीरर्थे वुन् तदन्तपदसाहचर्यात् “भूयासम्”इत्यस्य “भवेयम्” इति सामान्याऽर्थपरत्वम्।

** भावाऽर्थः—**रामलक्ष्मणौ ऋष्यमूके दृष्ट्वा वानरराजः सुग्रीवस्तौ बालिचरौविचार्य “बलवत्तरेण बन्धुना वालिना विरोधितोऽहं कथं जीव्यासम्” इतिचिन्तितवान्।

** भाषाऽर्थः—**तब वानरराज सुग्रीवने ऋष्यमूक पर्वतमें आये हुए रामऔर लक्ष्मणको बालीका गुप्तचर विचार कर बलवान् भाई वालीसे विरोध करमैं कैसे जीऊंगा” ऐसी चिन्ता की॥८७॥

अथ सोपपदाऽधिकारः।

स शत्रुलावौमन्वानो राघवौ मलयं गिरिम्।
जगाम सपरीवारो व्योममायमिवोत्थितम्॥८॥

** अन्वयः—**स राघवौ शत्रुलावौ मन्वानः सपरीवारः (सन्) व्योममायम्इव उत्थितं मलयं गिरिं जगाम।

** प्रयोगप०—**तेन मन्वानेन सपरीवारेण (सता) व्योममाय इव उत्थितोमलयो गिरिर्जग्मे।

**व्याख्या—**सः=सुग्रीवः, राघवौ=रामलक्ष्मणौ, शत्रुलावौ=वैरिघातिनौ, मन्वान=निश्चिन्वन्, सपरीवारः=हनूमदादिसहितः (सन्), व्योममायम् इव=आकाशपरिमाणं कुर्वाणम् इव, उत्थितम्=उन्नतं, मलयं=मलयनामकं, गिरिं=पर्वतं,जगाम=ययौ (मलयप्रत्यन्तपर्वतमृष्यमूकं विहाय मलयमेवाऽऽरूढ इत्यर्थः)।

** व्युत्पत्तिः—**शत्रुलावौ=शत्रून् लुनीत इति शत्रुलावौ, तौ “तत्रोपपदं सप्तमीस्थम्” इति सूत्रेण शत्रुपदस्य उपपदसंज्ञायां “कर्मण्यण्” इत्यण् “उपपदमतिङ्” इत्युपपदसमासः, एवमन्यत्राऽपि। सपरीवारः=“परीवार” इत्यत्र कपीनाममनुष्यत्वात् “उपसर्गस्य घञ्य मनुष्ये बहुलम्” इति दीर्घत्वम्। परीवारैःसहितः (बहु०)। व्योममायम्=व्योम मिमीते इति व्योममायस्तं, “ह्वावामश्च”इति माङः कर्मण्यणि “आतो युक् चिण्कृतोः” इति युगागमः।

** भावाऽर्थः—**सुग्रीवो रामलक्ष्मणौ वैरिघातकौनिश्चिन्वन् हनूमदादिभिःसह आकाशं परिच्छेत्तुमिवोन्नतं मलयपर्वतं जगाम।

** भाषाऽर्थः—**सुग्रीवने राम और लक्ष्मणको “ये शत्रुके नाश करनेवाले हैं"ऐसा निश्चय कर, जैसे आकाशका परिमाण करने के लिए ऊंचा हुआ हो ऐसे मलयपर्वतपर हनुमान आदि सहचरोंके साथ चढ़े॥८८॥

शर्मदं मारुतिं दूतं विषमस्थः कपिद्विपम्।
शोकापनुदमव्यग्रंप्रायुङ्क्तकपिकुञ्जरः॥८९॥

** अन्वयः—**विषमस्थः कपिकुञ्जरः शर्मदं शोकापनुदम् अव्ययं कपिद्विपंमारुतिं दूतं प्रायुङ्क्त।

**प्रयोगप०—**विषमस्थेन कपिकुञ्जरेण शर्मदः शोकाऽपनुदोऽव्यग्रःकपिद्विपोमारुतिर्दूतः प्रायुज्यत।

** व्याख्या—**विषमस्थः=आपन्नः (प्राप्तापत्तिरित्यर्थः), कपिकुञ्जरः=वानरश्रेष्ठः (सुग्रीव इत्यर्थः), शर्मदं=हितकारिणं (अन्यथा शोकाऽपनुदपदेन पौनरुक्त्यापत्तेः), शोकाऽपनुदं=सुखाऽऽहर्तारम्, अव्यग्रं=कार्यान्तराऽनाकुलमानसं,कपिद्विपं= वानरोत्तमं (गम्भीरस्वभावमित्यर्थः), मारुतिं=वायुपुत्रं (हनूमन्तमित्यर्थः), दूतं=सन्देशहरं, प्रायुङ्क्त=प्रयुक्तवान् (प्रेषितवानित्यर्थः)।

**व्युत्पत्तिः—**विषमस्थः=विषमे तिष्ठतीति, “सुपि स्थ” इति कप्रत्ययः।विषमे=दुर्गपर्वते इति जयमङ्गला। कपिकुञ्जरः कपिः कुञ्जर इव, “वृन्दारकनागकुञ्जरैः पूज्यमानम्” इति उपमितसमासः, “स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः।सिंहशार्दूल-नागाद्याः पुंसि श्रेष्ठाऽर्थगोचराः” इत्यमरः। शर्मदं=शर्म ददातीतिशर्मदस्तम्, “आतोऽनुपसर्गे क” इति कप्रत्ययः। शोकाऽपनुदं=शोकमपनुदतीति शोकाऽपनुदस्तं, “तुन्दशोकयोः परिमृजाऽपनुदोः” इति “आलस्यसुखाऽऽहरणयोरिति वक्तव्यम्” इत्यर्थविशेषे कः। कपिद्विपं द्वाभ्यां (शुण्डामुखाभ्याम्)पिबतीति द्विपः, “सुपि” इति योगविभागात्कः। कपिः द्विप इव कपिद्विपस्तम्,“उपमितं व्याघ्रादिभिः सामान्याऽप्रयोगे” इति उपमितसमासः। मारुतिं=मरुदेवमारुतः (स्वार्थेऽण्), तस्याऽपत्यं पुमान् मारुतिस्तम्, “अत इञ्” इतिइञ्। प्रायुङ्क्त=“प्रोपाभ्यां युजेरयज्ञपात्रेषु” इत्यात्मनेपदम्।

** भावाऽर्थः—**आपद्ग्रस्तः सुग्रीवो हितकारिणं सुखाहर्तारं कार्यान्तरेण अनासक्तचित्तं वानरश्रेष्ठं वायुपुत्रं हनूमन्तं दूतत्वेन राघवसमीपे प्रेषितवान्।

**भाषाऽर्थः—**आपद्ग्रस्त सुग्रीवने हितकारी, सुख करनेवाले, अव्यग्र और

वानरश्रेष्ठ वायुपुत्र हनुमान्को दूत बना कर राम और लक्ष्मणके पास भेजा॥८९॥

विश्वासप्रदवेषोऽसौ पथिप्रज्ञः समाहितः।
चित्तसंख्यो जिगीषूणामुत्पपात नभस्तलम्॥९०॥

** अन्वयः—**विश्वासप्रदवेषः पथिप्रज्ञः समाहितः जिगीषूणां चित्तसंख्यः असौनभस्तलम् उत्पपात।

** प्रयोगप०—**विश्वासप्रदवेषेण पथिप्रज्ञेन समाहितेन चित्तसंख्येन अमुनानभस्तलम् उत्पेते।

** व्याख्या—**विश्वासप्रदवेषः=विस्रम्भोत्पादकवेशः (भिक्षुवेषधारोत्यर्थः,रामायणे तथैवोक्तेः), पथिप्रज्ञः=पथि कुशलः, समाहितः=अप्रमत्तः, जिगीषूणां=जयाऽभिलाषिणां, चित्तसंख्यः=चित्तज्ञः, असौ=हनूमान्, नभस्तलम्=आकाशतलम्, उत्पपात=उत्पतितवान्।

** व्युत्पत्तिः—-**विश्वासप्रदवेषेण=विश्वासं प्रददातीति विश्वासप्रदः “प्रे दाज्ञः"इति ददातेः प्रोपसर्गपूर्वकात्कर्मोपपदात् अणोऽपवादः कः। विश्वासप्रदो वेषोयस्य सः (बहु०)। पथिप्रज्ञः=पन्थानं प्रजानातीति, पूर्वसूत्रेणैव कः। चित्तसंख्यः=चित्तानि सञ्चष्टे संख्यातीति वा, “समि ख्यः” इति सम्पूर्वात् ख्यातेश्वक्षिङादेशाच्च कर्मोपपदात्कः।

**भावाऽर्थः—**भिक्षुवेशधारी पथि कुशलोऽप्रमत्तचित्तो जयाऽभिलाषिणामभिप्रायज्ञो हनूमानाकाशतलमुत्पतितवान्।

**भाषाऽर्थः—**विश्वासोत्पादक वेषवाले, मार्गकुशल, अप्रमत्त और जयाऽभिलाषियोंके अभिप्रायको जाननेवाले हनुमानजीने आकाश में उत्पतन किया॥९०॥

सुरापैरिव घूर्णद्भिः शाखिभिः पवनाहतैः।
ऋष्यमूकमगाद् भृङ्गैः प्रगीतं सामगैरिव॥९१॥

**अन्वयः—**पवनाऽऽहतैः सुरापैः इव घूर्णद्भिः शाखिभिः (उपलक्षितम्)भृङ्गैः सामगैः इव प्रगीतम् ऋष्यमूकम् अगात्।

** प्रयोगप०—**(तेन) प्रगीत ऋष्यमूकोऽगायि।

**व्याख्या—**पवनाऽऽहतैः=वाताऽऽकम्पितैः, सुरापैः इव=मद्यपैः इव, घूर्णद्भिः=भ्रमद्भिः, शाखिभिः=वृक्षैः, (उपलक्षितम् ) भृङ्गैः=भ्रमरैः, सामगैः इव=सामवेदपाठकैः इव, प्रगीतम्=उपगीतम्, ऋष्यमूकम्=ऋष्यमूकपर्वतम्, अगात्=गतः।

**व्युत्पत्तिः—**पवनाऽऽहतैः=पवनेन आहृताः पवनाऽऽहतास्तैः (तृ० त०)।सुरापैः=सुरां पिबन्तीति सुरापास्तैः, “पा पाने” इति धातोः “गापोष्टक्” इति टक्“पिबतेः सुराशीध्वोरिति वाच्यम्” इति धातूपपदनियमश्च। सामगैः=सामगायन्तीति सामगास्तैः, पूर्वसूत्रेणैव टक्। प्रगीतं=प्रगीयतेऽत्रेति अधिकरणे क्तः।

**भावाऽर्थः—**हनूमान् वायुना ईषत्कम्पितैर्मद्यपैरिव भ्रमद्भिर्वृक्षैरुपलक्षितंभ्रमरैः सामपाठकैरिवोपगीतमृष्यमूक-पर्वतमगच्छत्।

**भाषाऽर्थः—**हनूमान्जी वायुसे कुछ कम्पित अतएव मद्यपान करनेवालेकी तरह हिलते हुए वृक्षोंसे युक्त और सामगान करने वालेकी तरह भ्रमरोंसे उपगीत ऋष्यमूक पर्वतमें गये॥९१॥

तं मनोहरमागम्य गिरिं वर्महरौ कपिः।
वीरौ सुखाहरोऽवोचद्भिक्षुर्भिक्षाऽर्हविग्रहः॥९२॥

** अन्वयः—**भिक्षुः भिक्षाऽर्हविग्रहः कपिः मनोहरं तं गिरिम् आगम्य वर्महरौ वीरौ सुखाऽऽहरः (सन्) अवोचत्।

** प्रयोगप०—**भिक्षुणा भिक्षाऽहविग्रहेण कपिना वर्महरौ वीरौ सुखाऽऽहरेण(सता) अवाक्षाताम्।

** व्याख्या—**भिक्षुः=परिव्राड्वेषधारी, भिक्षाऽहविग्रहः=भिक्षायोग्यशरीरः(कृशत्वादित्यर्थः), कपि’=हनूमान्, मनोहरं= सुन्दरं, तं=पूर्वोक्तं, गिरिं=पर्वतम् (ऋष्यमूकमित्यर्थः), आगम्य=प्राप्य, वर्महरौ=कवचधारणवयस्कौ (तरुणावित्यर्थः), वीरौ=पराक्रमिणौ (रामलक्ष्मणावित्यर्थः), सुखाऽऽहरः=आनन्दकरः (सन्), अवोचत्=उक्तवान्।

**व्युत्पत्तिः—**भिक्षुः=भिक्षते इति, “सनाशंसभिक्ष उः” इति उः। “भिक्षुःपरिव्राट् कर्मन्दी” इत्यमरः। भिक्षाऽर्हविग्रहः= भिक्षामर्हतीति भिक्षाऽर्हः, “अर्हः"इत्यर्हतेः कर्मोपपदादच्प्रत्ययः। भिक्षाऽर्हो विग्रहो यस्य सः (बहु०)। मनोहरं=मनो हरतीति मनोहरस्तं, “हरतेरनुद्यमनेऽच्” इत्यच्। वर्महरौ=वर्म हरतइति वर्महरौ, तौ “वयसि च” इत्यच्। सुखाऽऽहरः=सुखमाहरति तच्छीलः,“आङि ताच्छील्ये” इत्यच्।

**भावाऽर्थः—**परिव्राड्वेषधारी भिक्षाकालोचितवेषो हनूमान् रुचिरमृष्यमूकपर्वतमागम्य तरुणौ रामलक्ष्मणौ आनन्दकरः सन्नुक्तवान्।

**भाषाऽर्थः—**हनूमान्जी भिक्षुवेष धारण कर सुन्दर ऋष्यमूक पर्वत में आ करतरुण और वीर राम और लक्ष्मणको आनन्दप्रद होते हुए कहने लगे॥९२॥

बलिनावमुमद्रीन्द्रं युवां स्तम्बेरमाविव।
आचक्षाथामिथः कस्माच्छङ्करेणाऽपि दुर्गमम्॥९३॥

अन्वयः—(हे वीरौ !) स्तम्बेरमौ इव बलिनौ युवां शङ्करेण अपि दुर्गमम्अमुम् अद्रीन्द्रं कस्मात् इथः आचक्षाथाम्।

** प्रयोगप०—**स्तम्बेरमाभ्यामिव बलिभ्यां युवाभ्यां दुर्गमोऽसौ अद्रीन्द्रःकस्मात् ईयते ? आख्यायताम्।

व्याख्या—(हे वीरौ=हे शूरौ) स्तम्बेरमौ इव=हस्तिनौ इव, बलिनौ=बलवन्तौ, युवां, शङ्करेण अपि=ईश्वरेण अपि,दुर्गमं=दुष्प्राप्यम्, अमुम्=एतम्,अद्रीन्द्रं=पर्वतश्रेष्ठं (ऋष्यमूकमित्यर्थः),कस्मात्=कारणात्, इथः= प्राप्नुथः,आचक्षाथां=कथयतम्।

** व्युत्पत्तिः—**स्तम्बेरमौ=स्तम्बे रमेतेइति, “स्तम्बकर्णयो रमिजपोः” इति"हस्तिसूचकयोरिति वक्तव्यम्” इति हस्तिनि अच्प्रत्ययः, “इभः स्तम्बेरमः पद्मी"इत्यमरः। शङ्करेण=शं करोतीति शङ्करस्तेन, “शमिधातोः संज्ञायाम्” इत्यच्।इथः=“इण् गतौ” इति धातोः वर्तमानसामीप्ये भूते लटि थस्। आचक्षाथाम्=आङ्पूर्वात् “चक्षिङ् व्यक्तायां वाचि” इति धातोर्लोट्।

**भावाऽर्थः—**हे वीरौ ! हस्तिसमौ बलवन्तौ युवां शङ्करेणाऽपि दुर्गममेतमृष्यमूकं कस्माद्धेतोः प्राप्नुथः, कथयतम्।

** भाषाऽर्थः—**हे वीरों ! हाथीके समान बलवान् आप दोनों, शङ्करसे भीदुर्गम इस ऋष्यमूक पर्वतमें किस कारण से आये हैं, बतलाइये॥९३॥

व्याप्तं गुहाशयैः क्रूरैः क्रव्याद्भिः सनिशाचरैः।
तुङ्गशृङ्गतरुच्छन्नं मानुषाणामगोचरम्॥९४॥

**अन्वयः—**गुहाशयैः क्रूरैः सनिशाचरैः क्रव्याद्भिः व्याप्तं तुङ्गश्रृङ्गतरुच्छन्नंमानुषाणाम् अगोचरम् (अमुम् अद्रीन्द्रं कस्मात् इथः)।

**प्रयोगप०—**व्याप्तस्तुङ्गशृङ्गतरुच्छन्नोऽगोचरः (असौ अद्रीन्द्रः कस्मादीयते)।

**व्याख्या—**गुहाशयैः=गह्वरस्थैः, क्रूरैः=हिंस्रैः, सनिशाचरैः=राक्षससहितैः,क्रव्याद्भिः=आममांसभक्षकैः (सिंहव्याघ्रादिभिरित्यर्थः), व्याप्तं=ततं, तुङ्गशृङ्ग-

तरुच्छन्नम्=उन्नतशिखरवृक्षव्याप्तं, मानुषाणां=मनुष्याणाम्,अगोचरम्=अगम्यम्(“अमुम् अद्रीन्द्रं कस्मात् इथः” इति पूर्वेण सम्बन्धः)।

** व्युत्पत्तिः—**गुहाशयैः=गुहासु शेरते इति गुहाशयास्तैः, “अधिकरणे शेतेः”इत्यच्प्रत्ययः। सनिशाचरैः=निशासु चरन्तीति निशाचराः “चरेष्ट” इति टः।निशाचरैः सहिताः सनिशाचरास्तैः (बहु०)। क्रव्याद्भिः=क्रव्यम् (आममांसम्) अदन्तीति क्रव्यादः, तैः “क्रव्ये च” इति “अद भक्षणे” इति धातोः अण्बाधेन विट्प्रत्ययः। तुङ्गशृङ्गतरुच्छन्नं=तुङ्गानि शृङ्गाणि यस्य स तुङ्गशृङ्गः (बहु०)।तरुभिश्छन्नस्तरुच्छन्नः (तृ० त०)। तुङ्गशृङ्गश्वाऽसौ तरुच्छन्नस्तुङ्गशृङ्गतरुच्छन्नस्तम् (क० धा०)।” तुङ्गशैलतरुच्छन्नम्” इति “जयमङ्गलभरतमल्लिकसंमतः पाठस्तत्रशिलायां भवा शैलाः (अण्), तुङ्गाश्च ते शैलास्तुङ्गशैलाः (क०धा०), तेच ते तरवस्तैश्छन्नमिति विग्रहः कार्यः।

** भावाऽर्थः—**हे वीरौ ! गह्वरस्थैर्हिंस्रैराक्षससहितैः सिंहव्याघ्रादिभिरुन्नतशिखरैस्तरुभिश्च व्याप्तमत एव मनुष्याणां दुर्गममेतमृष्यमूकाख्यं पर्वतं कस्मात्कारणात् प्राप्नुथः ? कथयतम्।

** भाषाऽर्थः—**हे वीरों ! गुफामें रहनेवाले, हिंस्र, राक्षसोंसे युक्त सिंह, व्याघ्रआदियोंसे तथा ऊँची चोटियों से और वृक्षोंसे व्याप्त अतएव मनुष्योंको दुर्गमइस ऋष्यमूक पर्वतमें आपलोग किस कारणसे आ गये हैं ? बतलाइये॥९४॥

अथ खशादिप्रत्ययाऽधिकारः।

सत्त्वमेजयसिंहाढ्यान्स्तनन्धयसमत्विषौ।
कथं नाडिन्धमान्मार्गानागता विषमोपलान्॥९५॥

** अन्वयः—**सत्त्वमेजयसिंहाऽऽढ्यान् विषमोपलान् नाडिन्धमान् मार्गान् स्तनन्धयसमत्विषौ (युवाम्) कथम् आगतौ ?

** प्रयोगप०—**सत्त्वमेजयसिंहाढ्या विषमोपला नाडिन्धमा मार्गाः स्तनन्धयसमत्विड्भ्यां (युवाभ्याम्) कथमागताः ?

** व्याख्या—**सत्त्वमेजयसिंहाऽऽढयान्=प्राणिकम्पककेसरिव्याप्तान् विषमोपलान्=निम्नोन्नतपाषाणान्, नाडिन्धमान्= सिरोपतापकान्, मार्गान्=पथः,स्तनन्धयसमत्विषौ=बालसदृशकान्ती (बालवत्कोमलाङ्गावित्यर्थः), (युवाम्)कथं=केन प्रकारेण, आगतौ=आयातौ।

** व्युत्पत्तिः—**सत्त्वमेजयसिंहाऽऽढ्यान्=सत्त्वान् एजयन्ति इति सत्त्वमेजयाः,णिजन्तात्“एजृ कम्पने’” इति धातोः “एजेः खश्” इति खश् “अरुर्द्विषदजन्तस्यमुम्”इति मुमागमः। सत्त्वमेजयाश्च ते सिंहाः सत्त्वमेजयसिंहाः (क० धा०), तैराढ्याः सत्त्वमेजयसिंहाऽऽढयास्तान् (तृ० त०)। विषमोपलान्=विषमा उपलायेषु ते विषमोपलास्तान् (बहु०)। नाडिन्धमान्= नाडीः(सिराः) धमन्ति(मुहुर्मुहुर्निश्वासैः उपतापयन्ति) इति नाडिन्धमास्तान्, “नाडीमुष्टयोश्च” इतिखश्प्रत्यये मुगागमः “खित्यनव्ययस्य” इति ह्रस्वत्वम्, “नाडी तु धमनिःसिरा।” इत्यमरः। स्तनन्धयसमत्विषौ=स्तनं धयतीति स्तनन्धयः, “नासिकास्तनयोर्ध्माधेटोः” इति‘“धेट् पाने” इति धातोः खशि अयादेशः। समा त्विट् ययोस्तौ समत्विषौ (बहु०)। स्तनन्धयेन समत्विषौ (तृ० त०)।

** भावाऽर्थः—**सर्वप्राणिभीषणैः सिंहैर्व्याप्तान् निम्नोन्नतपाषाणान् उपलोत्पीडनात् सिरोपतापकान् पथः बालोपमकान्ती युवां कथमागतौ ?

** भाषाऽर्थः—**प्राणियोंको कम्पित करनेवाले सिंहोसे व्याप्त, उन्नत औरअवनत पत्थरोंसे युक्त, अत एव चढाव और उतरावके कारण होनेवाले बारंबारके निःश्वासोंसे नसोंका उत्पीडित करनेवाले मार्गो में बालककी तरह कान्तिवालेआप दोनों कैसे आये हुए हैं?॥९५॥

उत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः।
आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः॥९६॥

** अन्वयः—**(किञ्च) लमुद्वहाः भीमाः सरितः कथम् उत्तीर्णौ ? कुलमुदुजैःगजैः कथं न आसादितौ ? ब्रूतम्।

** प्रयोगप०—**(युवाभ्याम्) कूलमुद्वहा भीमाः सरितः कथम् उत्तीर्णाः ?कूलमुद्रुजाः गजाः (युवाम्) कथं न आसादितवन्तः ? उच्यताम्।

** व्याख्या—**कूलमुद्वहाः=तटोत्क्रमणेन वहन्तीः, भीमाः=भीषणाः, सरितः=नदीः, कथं=केन प्रकारेण, उत्तीणौ=तीर्णवन्तौ (युवामिति शेषः), कूलमुद्रुजैः=तटभञ्जकैः, गजैः=हस्तिभिः, कथं=केन प्रकारेण, न आसादितौ=न प्राप्तौ, ब्रूतं=कथयतम्।

** व्युत्पत्तिः—**कूलमुद्वहाः=कूलानि उद्वहन्ति (उत्क्रम्य वहन्ति) इतिकूलमुद्वहास्ताः, “उदि कूले रुजिवहोः” “इति खशि मुमागमः। उत्तीर्णौ=उत्पू-

र्चात् “तॄ प्लवनसंतरणयोः” इति धातोस्तरणस्याऽपि गतित्वात् “गत्यर्थाऽकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च” इति कर्तरि क्तः। कूलमुद्रुजैः=कूलानिउद्रुजन्तीति कूलमुद्रुजास्तैः, पूर्वसूत्रेणैव खश्। आसादितौ=कर्मणि क्तः।

** भावाऽर्थः—**हे वीरौ ! युवां तटान्युत्क्रम्य वहन्तीर्भीषणा नदीः कथं तीर्णवन्तौ? मत्ता गजाश्च युवां कथं न व्यापादितवन्तः ? कथयतम्।

** भाषाऽर्थः—**हे वीरों ! तटोंको उल्लङ्घन कर बहनेवाली भयङ्कर नदियोंको आपलोगोंने कैसे पार किया? नदीतटोंको भङ्ग करनेवाले मत्त हाथियोंसेआपलोगोंका कैसे सामना नहीं हुआ ? बतलाइये॥९६॥

रामोऽवोचद्धनूमन्तमावामभ्रंलिहं गिरिम्।
ऐव विद्वन् ! पितुः कामात्पान्तावल्पम्पचान्मुनीन्॥९७॥

अन्वयः—(अथ) रामः हनूमन्तम् अवोचत्—हे विद्वन् ! आवां पितुःकामात् अल्पम्पचान् मुनीन् पान्तौ (सन्तौ) अभ्रंलिहं गिरिम् ऐव।

**प्रयोगप०—**रामेण हनूमान् अवाचि, आवाभ्यां पाद्भयाम् (सद्भयाम्)अभ्रंलिहो गिरिरैयत।

** व्याख्या—**रामः=रामचन्द्रः, हनूमन्तं=मारुतिम्, अवोचत्=अवदत्, हेविद्वन्=हे पण्डित, आवां=रामलक्ष्मणौ, पितुः= जनकस्य (दशरथस्येत्यर्थः),कामात्=अभिप्रायमनुसृत्य, अल्पम्पचान्=मितम्पचान् (अल्पसन्तुष्टानित्यर्थः),मुनीन्=ऋषीन्, पान्तौ=रक्षन्तौ (सन्तौ), अभ्रंलिहम्=अत्युन्नतं, गिरिं=पर्वतम्, ऐव=आगतौ।

**व्युत्पत्तिः—**हनूमन्तं=निन्दितौ (भग्नत्वादिति भावः।) हनू स्तो यस्य सहनूमान्, तं निन्दाऽर्थे मतुप्। “शरादीनां च” इति संज्ञायां दीर्घत्वम्, यद्येवंतर्हि “हनूमान् हनुमानपि " इति विश्वकोशस्य प्रायेण ह्रस्वव्यवहारिणो लोकस्याऽपिका गतिरिति चेत् ? तर्हि योगार्थाऽनुसरणेनाऽसंज्ञायां विशेषणरूपेणैव तन्निर्वाहइति अदृष्टचरः साधीयान् पन्थाः। एवं च “अन्येषामपि दृश्यते” इति सूत्रेणदीर्घ इति वदन्तौ जयमङ्गलमल्लिनाथावुपेक्षणीयौ, तत्प्रयुक्तदीर्घस्य उभयत्र (संज्ञायामसंज्ञायां च) प्राप्तेर्नित्यत्वाच्च। “गण्डौ कपोलौ, तत्परो हनुः” इत्यमरः।जातमात्रस्य आदित्यरथं गृह्णतो हनूमतो हनुद्वयं भग्नमिति प्रसिद्धं, तथा च—

“अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने।

फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याऽभ्युत्थितो दिवम्॥

शतानि त्रीणि गत्वाऽथ योजनानां महाकपे !
तेजसा तस्य निर्धूतो न विषादं गतस्ततः॥

त्वामप्युपगतं तूर्णमन्तरिक्षं महाकपे !
क्षिप्तमिन्द्रेण ते वज्रं कोपाऽऽविष्टेन तेजसा॥

तदा शैलाऽग्रशिखरे वामो हनुरभज्यत।
ततोऽभिनामधेयं ते ‘हनुमानिति कीर्तितम्॥”

इति रामायणकिष्किन्धाकाण्डे दृश्यते। कामात्=“ल्यब्लोपे कर्मण्यधिकरणे च” इति ल्यब्लोपे पञ्चमी। अल्पम्पचान्=अल्पं पचन्तीति अल्यम्यचास्तान्, “मितनखे च” इति मितशब्दस्य अर्थपरत्वादनुक्तसमुच्चयाच्चकाराद्वा अल्पशब्दोपपदात्पचेः खशित्याहुः। पान्तौ=पात इति “पा रक्षणे” इति धातोर्लटःशत्रादेशः। अभ्रंलिहम्=अभ्रं लेढीति अभ्रंलिहस्तम्, “वहाऽभ्रे लिहः” इतिखशि मुम्। ऐव=आङ्पूर्वादिणो लङि वसि, “नित्यं ङितः” इति सलोपआड्वृद्धिश्च।

**भावाऽर्थः—**ततो रामो हनूमन्तं प्रत्यब्रवीत्—हे विद्वन् ! आवां पितुरभिप्रायमनुसृत्य अल्पेनाऽपि सन्तुष्टानृषीन् रक्षन्तौ अत्युन्नतमिमं पर्वतमागतौ।

**भाषाऽर्थः—**तब रामने हनूमान् को कहाः—हे विद्वन् ! हम दोनों पिताकीइच्छासे थोड़ेसे भी सन्तुष्ट होनेवाले ऋषियोंकी रक्षा करते हुए इस अत्यन्त उन्नतपर्वतपर आये हुए हैं॥९७॥

अमितम्पचमीशानं सर्वभोगीणमुत्तमम्।
आवयोः पितरं विद्धि ख्यातं दशरथं भुवि॥९८॥

**अन्वयः—**अमितम्पचम् ईशानं सर्वभोगीणम् उत्तमं भुवि ख्यातं दशरथम्आवयोः पितरं विद्धि।

प्रयोगप०—(त्वया) अमितम्पच ईशानः सर्वभोगीण उत्तमः ख्यातो दशरथ आवयोः पिता विद्यताम्।

** व्याख्या—**अमितम्पचं=प्रचुराऽन्नभक्षकम् ईशानम्=ऐश्वर्ययुक्तं, सर्वभोगीणं=महाभोगिनम्, उत्तमम्=श्रेष्ठं, भुवि=पृथिव्यां, ख्यातं=प्रसिद्धं, दशरथं=तदाख्यं पुरुषम्, आवयोः=रामलक्ष्मणयोः, पितरं=जनकं, विद्धि जानीहि।

**व्युत्पत्तिः—**अमितम्पचं=मितं पचतीति मितम्पचः “मितनखे च” इतिखश्। न मितम्पचः अमितम्पचस्तम् (नञ्०)। ईशानम्=ईष्टे तच्छील इतिईशानस्तम्, “ईश ऐश्वर्ये” इति धातोः “ताच्छील्यवयोवचनशक्तिषु चानश्” इतिचानश्। सर्वभोगीणं=सर्वभोगाय हितः सर्वभोगीणस्तम्, “आत्मन्विश्वजनभोगोत्तरपदात्खः” इति खप्रत्ययः। विद्धि=“विद ज्ञाने” इति धातोर्लोटि “हुझल्भ्योहेर्धिः” इति धिः।

**भावाऽर्थः—**बहुविधाऽन्नभक्षकमैश्वर्ययुक्तं महाभोगिनं श्रेष्ठं लोकविश्रुतंदशरथमावयोः पितरं जानीहि।

** भाषाऽर्थः—**अनेक प्रकारके अन्नोंको खानेवाले, ऐश्वर्ययुक्त, सब तरह केसुखोंका उपभोग करनेवाले, श्रेष्ठ और पृथ्वीमें सुप्रसिद्ध महाराज दशरथ हमारेपिता हैं, यह बात आप जानिए॥९८॥

छलेन दयिताऽरण्याद्रक्षसाऽरुन्तुदेन नः।
असूर्यम्पश्यया मूर्त्या हृता, तां मृगयावहे॥९९॥

**अन्वयः—**अरुन्तुदेन रक्षसा असूर्यम्पश्यया मूर्त्या (उपलक्षिता) नःदयिता छलेन अरण्यात् हृता, तां मृगयावहे।

** प्रयोगप०—**अरुन्तुदं रक्षः नः दयितां हृतवान्, सा मृग्यते।

** व्याख्या—**अरुन्तुदेन=मर्मभेदिना, रक्षसा=राक्षसेन (रावणेनेत्यर्थः),असूर्यंम्पश्यया=अतिगोप्यया, मूर्त्या=शरीरेण (उपलक्षिता), नः=मम, दयिता=प्रिया (सीतेत्यर्थः), छलेन=छद्मना (मृगच्छद्द्मनेत्यर्थः), अरण्यात्=वनात्, हृता=अपहृता, तां सीतां, मृगयावहे=अन्विष्याव हे।

**व्युत्पत्तिः—**अरुन्तुदेन=अरुस्तुदतीति अरुन्तुदस्तेन, “विध्वरुषोस्तुदः”इति खश् “अरुर्द्विषदजन्तस्य मुम्” इति मुमागमे संयोगाऽन्तलोपः। “अरुन्तुदंतु मर्मस्पृक्” इत्यमरः। असूर्यम्पश्यया=सूर्यं न पश्यतीति असूर्यम्पश्या, तया—“असूर्य-ललाटयोर्दृशितपोः” इति खश्मुमागमश्च। असूर्यमिति असमर्थसमासः,दृशिनानञः सम्बन्धात्। “पाघ्राध्मे"त्यादिना दृशेः पश्यादेशः। मृगयावहे=“मृगअन्वेषणे” इति स्वार्थिकण्यन्ताद्धातोर्लट्।

**भावाऽर्थः—**मर्मवेधी रावणोऽतिगोपनीयां मम भार्यां सीतां मृगच्छद्मनाअरण्याज्जहार, आवां तामन्विष्यावहे।

** भाषाऽर्थः—**मर्मभेदी राक्षस रावण, अतिगोपनीय मेरी पत्नी सीताको मृगकेछलसे जङ्गलसे ले गया, हम दोनों उन्हींको ढूँढते हैं॥९९॥

प्रत्यूचे मारुती राममस्ति वालीति वानरः।
शमयेदपि संग्रामे यो ललाटन्तपं रविम्॥१००॥

** अन्वयः—**मारुतिः रामं प्रत्यूचे—“वाली इति वानरः अस्ति, यः संग्रामेललाटन्तपं रविम् अपि शमयेत्”।

** प्रयोगप०—**मारुतिना रामः प्रत्यूचे—“वालिना वानरेण भूयते, येन ललाटन्तपो रविरपि शम्येत”।

** व्याख्या—**मारुतिः=हनूमान्, रामं=रामचन्द्रं, प्रत्यूचे=प्रत्युवाच, वालीइति=वालीति नाम्ना प्रसिद्धः, वानरः=कपिः, अस्ति=वर्तते, यः=वाली, संग्रामे=युद्धे, ललाटन्तपं=प्रचण्डं (मध्याह्नकालवर्तित्वादिति भावः), रविम् अपि=सूर्यम्अपि, शमयेत्=अवसादयेत् (शमयितुं शक्नोतीत्यर्थः)।

** व्युत्पत्तिः—**वाली=वालिशब्दो नाऽन्त इदन्तश्च, तथा च “वाली वालिश्चकथ्यते।” इति शब्दभेदः। ललाटन्तपं=ललाटं तपतीति ललाटन्तपस्तम्,“असूर्यललाटयोर्दृशितपोः” इति खशि मुम्। शमयेत्=“शकि लिङ् च” इति शक्त्यर्थे लिङ्।

**भावाऽर्थः—**अथ हनूमान् रामं प्रत्युवाच—“वालीति नाम्ना प्रसिद्धो वानरोऽस्ति, यः संग्रामे प्रखरकिरणं सूर्यमपि शमयितुं शक्नोति”।

** भाषाऽर्थः—**तब हनूमान्ने रामसे कहा—“वाली” इस नामसे प्रसिद्धवानर है, जो कि संग्राममें तीक्ष्ण किरणवाले सूर्यको भी परास्त कर सकता है॥१००॥

उग्रम्पश्येन सुग्रीवस्तेन भ्रात्रा निराकृतः।
तस्य मित्रीयतो दूतः सम्प्राप्तोऽस्मि वशंवदः॥१०१॥

** अन्वयः—**उग्रम्पश्येन भ्रात्रा तेन सुग्रीवः निराकृतः। मित्रीयतः तस्य वशंवदः दूतः सम्प्राप्तः अस्मि।
प्रयोगप०—उग्रम्पश्यो भ्राता स सुग्रीवं निराकृतवान्। (मया) वशंवदेनदूतेन सम्प्राप्तेन (भूयते)।

**व्याख्या—**उग्रम्पश्येन=पापदर्शिना, भ्रात्रा=अग्रजेन, तेन=पूर्वोक्तेन (वालिनेत्यर्थः), सुग्रीवः=सुग्रीवाख्यः मत्स्वामी, निराकृतः=निःसारितः (दाराऽपहरण-

पूर्वकं निरस्त इत्यर्थः), मित्रीयतः=त्वया मैत्रीमिच्छतः, तस्य=सुग्रीवस्य, वशंवदः=अनुकूलचारी, दूतः=सन्देशहरः, सम्प्राप्तः=समायातः, अस्मि=भवामि।

** व्युत्पत्तिः—**उग्रम्पश्येन=उग्रं पश्यतीति उग्रम्पश्यस्तेन “उग्रम्पश्येरम्मदपाणिन्धमाश्च” इति निपातनादण्बाधेन खशि मुम् पश्याऽऽदेशश्च। मित्रीयतः=मित्रमात्मन इच्छन् मित्रीयन्, तस्य “सुप आत्मनः क्यच्” इति क्यच्, ततोलटः शत्रादेशः। वशंवदः=वशं वदतीति, “प्रियवशे वदः खच्” इति खच्।

** भावार्थः—**पापदर्शिना भ्रात्रा तेन वालिना पत्नीहरणपूर्वकं देशान्निःसारितस्य अतः साहाय्याऽर्थं मैत्री मिच्छतः सुग्रीवस्य अहमनुकूलचारी दूतःसमायातोऽस्मि।

** भाषाऽर्थः—**पापदर्शीं भाई उस वालीसे सुग्रीवजी पत्नीहरणपूर्वक देशसेनिकाले गये हैं। अतः वे सहायताके लिए मैत्री करना चाहते हैं, मैं उन्हींकाअनुकूलचारी दूत हो कर आया हूं॥१०१॥

प्रियंवदोऽपि नैवाऽहं ब्रुवे मिथ्या परन्तप !
सख्या तेन दशग्रीवं निहन्तासि द्विषन्तपम्॥१०२॥

** अन्वयः—**हे परन्तप ! अहं प्रियंवदः अपि मिथ्या नैव ब्रुवे, सख्या तेनद्विषन्तपं दशग्रीवं निहन्तासि।

** प्रयोग प०—**मया प्रियंवदेन अपि मिथ्या नैव उच्यते। (त्वया) द्विषन्तपोदशग्रीवो निहन्ता।

**व्याख्या—**हे परन्तप=हे शत्रूणामुपतापद ! अहं=हनूमान्, प्रियंवदः अपि=प्रियभाषी अपि, मिथ्या=मृषा, नैव ब्रुवे=निश्चयं न कथयामि, सख्या=मित्रभूतेन,तेन=सुग्रीवेण, द्विषन्तपं=शत्रुतापकं (महावीरमपीत्यर्थः), दशग्रीवं=रावणं,निहन्तासि= हनिष्यसि।

** व्युत्पत्तिः—**परन्तप=परांस्तापयतीति परन्तपस्तत्सम्बुद्धौ, परोपपदपूर्वकात् णिजन्तात् “तप सन्तापे” इति धातोः “द्विषत्परयोस्तापेः” इति खच्, “खचि ह्रस्वः” इति उपधाया हस्वत्वं मुमागमश्च। प्रियंवदः=प्रियं वदतीति, “प्रियवशे वदः खच्” इति खच्। द्विषन्तपं=द्विषतः तापयतीति द्विषन्तपस्तं, “द्विषत्परयोस्तापेः” इति खच्। दशग्रीवं=दश ग्रीवा यस्य स दशग्रीवस्तम् (बहु०)“जासिनिग्रहणनाटकाथपिषां हिंसायाम् “इति सूत्रे सङ्घातविगृहीतविपर्यस्तग्रहणेन

“निहन्तासि” इति पदेन योगेऽपि शेषत्वविवक्षायामेव षष्ठीविधानादिह तदविवक्षायां कर्मणि द्वितीयैवेति मल्लिनाथः। निहन्तासि=निपूर्वाद्धन्तेर्लुटि सिप्।

**भावार्थः—**हे परन्तप !अहं प्रियंवदोऽपि “प्रियं च नाऽनृतं ब्रूयात्”इति न्यायेन असत्यभाषणं न करोमि, भवान् सुग्रीवस्य सख्येन महावीरमपिरावणं हनिष्यति।

**भाषाऽर्थः—**हे परन्तप! मैं प्रियभाषण करनेवाला हो कर भी झूठ नहींबोलता हूं।आप सुग्रीवके साथ मित्रता करके महावीर रावणको मारेंगे॥१०२॥

वाचंयमोऽहमनृते सत्यमेतद्ब्रवीमि ते।
एहि, सर्वंसहं मित्रं सुग्रीवं कुरु वानरम्॥१०३॥

**अन्वयः—**अहम् अनृते वाचंयमः (सन्) ते एतत् सत्यं ब्रवीमि, एहि,सर्वंसहं सुग्रीवं वानरं मित्रं कुरु।

**प्रयोगप०—**मया वाचंयमेन (सता) एतत् सत्यमुच्यते, ईयताम्। सर्वंसहः सुग्रीवो वानरो मित्रं क्रियताम्।

** व्याख्या—**अहं=हनूमान्, अनृते=असत्ये (विषये), वाचंयमः=मौनव्रती(सन्), ते=तुभ्यम्, एतत्=इदं, सत्यं=तथ्यं ब्रवीमि=कथयामि, एहि=आगच्छ, सर्वंसहं=सकलकार्यसमर्थं, सुग्रीवम्=सुग्रीवनामकं, वानरं=कपिं (अस्मत्स्वामिनमित्यर्थः), मित्रं=सखायं, कुरु=बिधेहि (यतस्ते तद्धस्तस्था कार्यसिद्धिरिति भावः)।

** व्युत्पत्तिः—**अनृते=न ऋतमनृतं तस्मिन् (नञ्०)। वाचंयमः=वाचंयच्छतीति, “वाचि यमो व्रते” इति खच् “वाचंयमपुरन्दरौ च” इति निपातनान्मुमागमः। सर्वंसहं=सर्वंसहते इति सर्वंसहस्तं, “पूः सर्वयोर्दारिसहोः” इति खचिमुम्।

**भावाऽर्थः—**अहमनृतं परित्यज्य त्वामेतत्सत्यं ब्रवीमि, आगच्छ। सर्वप्रयोजनसाधकेन सुग्रीवेण सह मैत्रीं कुरु।

**भाषाऽर्थः—**मैं मिथ्याभाषणके विषयमें मौनव्रती हो कर आपको सत्य कहरहा हूं, आइये। सम्पूर्ण कार्यों में समर्थ वानरराज सुग्रीवके साथ मैत्री कीजिये॥१०३॥

सर्वङ्कषयशःशाखं रामकल्पतरुं कपिः।
आदायाऽभ्रङ्कषंप्रायान्मलयं फलशालिनम्॥१०४॥

** अन्वयः—**(ततः) कपिः सर्वङ्कषयशःशाखं रामकल्पतरुम् आदाय अभ्रङ्कषं फलशालिनं मलयं प्रायात्।

**प्रयोगप०—**कपिनाऽभ्रङ्कषः फलशाली मलयः प्रायायत।

व्याख्या—(ततः=अनन्तरम्) कपिः=हनूमान्, सर्वङ्कषयशःशाखं=सर्वव्यापिकीर्तिविटपं, रामकल्पतरुं=रामकल्पवृक्षम्, आदाय गृहीत्वा (पृष्ठमारोप्येत्यर्थः), अभ्रङ्कषम्=अत्युन्नतं, फलशालिनम्=आम्राऽऽदिशोभिनं, मलयं=मलयपर्वतं, प्रायात्= प्रयातः (अत्र यशःशाखं रामकल्पतरुमिति साऽवयवरूपकम्)।

**व्युत्पत्तिः—**सर्वङ्कषयशःशाखं सर्वं कषन्तीति सर्वङ्कषाणि, “सर्वकूलाऽभ्रकरीषेषु कषः” इति खचि मुम्। सर्वङ्कषाणि यशांसि एव शाखा यस्य स सर्वङ्कषयशःशाखस्तम् (बहु०)। रामकल्पतरुं=राम एव कल्पतरुः रामकल्पतरुस्तम् (रूपक०)। अभ्रङ्कषम्=अभ्रं कषतीति अभ्रङ्कषस्तं, पूर्वसूत्रेणैव खच्।फलशालिनं=फलेन (आम्राऽऽदिना कार्यसिद्धया च) शालत इति फलशाली,तम् (णिनिः)।

**भावाऽर्थः—**ततो हनूमान् लोकव्यापकयशःशोभितं कल्पवृक्षवदीप्सिताऽर्थप्रदं रामं पृष्ठमारोप्य अत्युन्नतमाम्रादिफलेन कार्यसिद्धया च शोभितंमलयपर्वतमगच्छत्।

** भाषाऽर्थः—**तब हनूमान्जी लोकव्यापक शाखा के सदृश कीर्तिसे युक्तकल्पवृक्षतुल्य रामचन्द्रजीको पीठपर चढ़ा कर अत्यन्त उन्नत और फलोंसे शोभितमलयपर्वतमें गये॥१०४॥

मेघङ्करमिवाऽऽयान्तमृतुं रामं क्लमाऽन्वितः।
दृष्ट्वा मेने न सुग्रीवो बालिभानुं भयङ्करम्॥१०५॥

** अन्वयः—**क्लमाऽन्वितः सुग्रीवः मेघङ्करम् ऋतुम् इव आयान्तं रामं दृष्ट्वाबालिभानुं भयङ्करं न मेने।

** प्रयोगप०—**क्लमाऽन्वितेन सुग्रीवेण बालिभानुर्भयङ्करो न मेने।

** व्याख्या—**क्लमाऽन्वितः=क्लान्तः (बालिभानुसन्तापादित्यर्थः), सुग्रीवः=वानरराजः, मेघङ्करम् ऋतुम् इव=बलाहकप्रसारकम् ऋतुम् इव (वर्षर्तुमिवेत्यर्थः), आयान्तम्=आगच्छन्तं रामं रामचन्द्रं, दृष्ट्वा=विलोक्य, बालिभानुं= बालिसूर्यं, भयङ्करं=भीतिप्रदं, न मेने=न अमन्यत (बालिभयरहितोऽभूदित्यर्थः)।

** व्युत्पत्तिः—**क्लमाऽन्वितः=क्लमेनाऽन्वितः (तृ० त०)। मेघङ्करं=मेघान्करोतीति मेघङ्करस्तं, “मेघर्तुभयेषु कृञः” इति खचि मुम्। बालिभानुं=बालीभानुरिवेति बालिभानुस्तम् (उपमितसमासः)। भयङ्करं=भयं करोतीति भयकरस्तं, पूर्वसूत्रेणैव खचि मुम्।

**भावाऽर्थः—**बालिसूर्यसन्तापात्क्लान्तः सुग्रीवो वर्षर्तुमिव तापहारकं राममायान्तं दृष्ट्वा बालिसूर्यं भयङ्करं नाऽमन्यत।

** भाषाऽर्थः—**सूर्यतुल्य बालीके प्रतापसे क्लान्त सुग्रीव, वर्षा ऋतुकी तरहतापहारक रामको आते हुए देख कर बालीके भयसे रहित हुए॥१०५॥

उपाग्न्यकुरुतां सख्यमन्योन्यस्य प्रियङ्करौ।
क्षेमङ्कराणि कार्याणि पर्यालोचयतां ततः॥१०६॥

अन्वयः—(तौ) अन्योन्यस्य प्रियङ्करौ (सन्तौ) उपाग्नि सख्यम् अकुरुतां, ततः क्षेमङ्कराणि कार्याणि पर्यालोचयताम्।

** प्रयोगप०—**(ताभ्याम्) प्रियङ्कराभ्याम् (सद्भयाम्) सख्यमक्रियतततः क्षेमङ्कराणि कार्याणि पर्यांलोच्यन्त।

व्याख्या—(तौ=रामसुग्रीवौ) अन्योन्यस्य=परस्परस्य, प्रियङ्करौ=अभीष्टसम्पादकौ (परस्परोपकारको सन्तावित्यर्थः), उपाग्नि=अग्नेः समीपे,सख्यं=मैत्रीम्, अकुरुतां=कृतवन्तौ (अग्निसाक्षिकां मैत्रीं चक्रतुरित्यर्थः),ततः=सख्याऽनन्तरं, क्षेमङ्कराणि=कल्याण जनकानि कार्याणि=अनन्तरकर्तव्यानि,पर्यालोचयतां=पर्यालोचितवन्तौ।

**व्युत्पत्तिः—**प्रियङ्करौ=प्रियं कुरुत इति, “क्षेमप्रियमद्रेऽण् च” इति चकारात् खचि मुम्, अणि तु “प्रियकार” इति स्यात्। उपाऽग्नि=अग्नेः समीपे, सामीप्येऽव्ययीभावः। सख्यं=सख्युर्भावः सख्यं, तत् “सख्युर्य” इति यः। क्षेमङ्कराणि=क्षेमं कुर्वन्तीति “क्षेमे"त्यादिना पूर्ववत् खचि मुम्। पर्यालोचयतां=परिपूर्वात् “लोचृभाषाऽर्थे” इति चौरादिकाद्धातोः कर्तरि लङि तसस्तामादेशः।

**भावाऽर्थः—**रामसुग्रीवौ अग्निं साक्षीकृत्य मैत्रीं कृतवन्तौ, अनन्तरं परस्परस्याऽभीष्टसम्पादकानि कल्याणोत्पादकानि कर्तव्यानि पर्यालोचितवन्तौ।

** भाषाऽर्थः—–**परस्पर अभीष्टसम्पादक होते हुए राम और सुग्रीवने अग्निको साक्षी बना कर मैत्री की, अनन्तर कल्याणकारक कर्तव्योंका विचार किया॥१०६॥

आशितम्भवमुत्क्रुष्टं वल्गितं शयितं स्थितम्।
वह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम्॥१०७॥

**अन्वयः—**काकुत्स्थः कपीनां स्वेच्छया कृतम् आशितम्भवम् उत्क्रुष्टं बल्गितं शयितं स्थितं बहु अमन्यत।

**प्रयोगप०—**काकुत्स्थेन कृतम् आशितम्भवम् उत्कुष्टं वल्गितं शयितंस्थितं बहु अमन्यत।

व्याख्या— काकुत्स्थः=रामः, कपीनां=वानराणां, स्वेच्छया=आत्मवाञ्छया,कृतं=विहितम्, आशितम्भवम्=अशनम् (भोजनम्), उत्कुष्टम्=उच्चैःक्रोशनं(क्ष्वेडितमित्यर्थः), वल्गितं=वल्गनं, शयितं=शयनं, स्थितं=स्थितिं, बहु अमन्यत= श्लाघितवान् (प्रसादपूर्णं स्वाभाविकं च तेषां चेष्टितं दृष्ट्वा सन्तुष्ट इत्यर्थः)।

**व्युत्पत्तिः—**कपीनां=“कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः।” इत्यमरः।आशितम्भवम्=“आशित” इत्यत्र आङ्पूर्वात् “अश भोजने” इति धातोरविवक्षिते कर्मणि कर्तरि क्तः। आशितस्य भवनमाशितम्भवस्तम्, “आशिते भुवःकरणभावयोः” इति खचि मुम्। उत्कुष्टं वल्गितं, शयितं, स्थितं=सर्वत्र भावे क्तः।

**भावाऽर्थः—**रामो वानराणां भोजनं, किलकिलायितं, धावनं, शयनं स्थितिंच श्लाघितवान्।

**भाषाऽर्थः—**अपनी इच्छासे किये गये वानरोंका खाना, किलकारी मारना,दौड़ना, सोना और बैठना देख कर रामचन्द्रजी सन्तुष्ट हुए॥१०७॥

ततो बलिन्दमप्रख्यं कपिर्विश्वम्भराऽधिपम्।
सुग्रीवः प्राब्रवीद्रामं वालिनो युधि विक्रमम्॥१०८॥

**अन्वयः—**ततः कपिः सुग्रीवः बलिन्दमप्रख्यं विश्वम्भराऽधिपं रामं युधि वालिनः विक्रमं प्राब्रवीत्।

**प्रयोगप०—**कपिना सुप्रीवेण बलिन्दमप्रख्यो विश्वम्भराऽधिपो रामो विक्रमं प्रौच्यत।

**व्याख्या—**ततः=रामस्य कपिचेष्टादर्शनाऽनन्तरं, कपिः=वानरः, सुग्रीवः=वानराऽधिपः, बलिन्दमप्रख्यं=विष्णुसदृशं, विश्वम्भराऽधिपं=पृथ्वीश्वरं रामं=रामचन्द्रं, युधि=संग्रामे, वालिनः=स्वज्येष्ठभ्रातुः, विक्रमं=पराक्रमं, प्राब्रवीत्=अकथयत्।

** व्युत्पत्तिः—**बलिन्दमप्रख्यं=बलिं दमयतीति बलिन्दमः, “सञ्ज्ञायां भृतॄवृजिधारिसहितपिदमः” इति खच्। बलिन्दम इव प्रख्याति (प्रकाशते) इति बलिन्दमप्रख्यस्तम् “आतश्चोपसर्गे” इति कः। विश्वम्भराऽधिपं=विश्वं विभर्तीतिविश्वम्भरा, पूर्वसूत्रेण खच्, “भूर्भूमिरचलाऽनन्ता रसा विश्वम्भरा स्थिरा।” इत्यमरः। अधिकं पातीति अधिपः, पूर्ववत्कः। “प्रभुः परिवृढोऽधिपः” इत्यमरः।विश्वम्भराया अधिपो विश्वम्भराऽधिपस्तम् (ष० त०)। रामम्=“अकथि च “इति कर्मसंज्ञा। प्राब्रवीत्=ब्रूञ्धातोर्लङि “ब्रुव ईट्” इति ईट्।

** भावाऽर्थः—**ततः सुग्रीवो विष्णुतुल्यविक्रमं रामं सङ्ग्रामे बालिपराक्रमंकथितवान्।

** भाषाऽर्थः—**तब वानराऽधीश्वर सुग्रीवने विष्णुतुल्य, पृथिवीके स्वामीरामचन्द्रको सङ्ग्राममें बालीका पराक्रम बतलाया॥१०८॥

वसुन्धरायां कृत्स्नायां नाऽस्ति वालिसमो बली।
हृदयङ्गममेतत्त्वां ब्रवीमि न पराभवम्॥१०९॥

**अन्वयः—**कृत्स्नायां वसुन्धरायां वालिसमः बली न अस्ति, हृदयङ्गमम्एतत् त्वां ब्रवीमि, पराभवं न ब्रवीमि।

** प्रयोगप०—**वालिसमेन बलिना न भूयते। हृदयङ्गमम् एतत् त्वम् उच्यसे, (त्वम्) पराभवं न उच्यसे।

**व्याख्या—**कृत्स्नायां=संपूर्णायां, वसुन्धरायां=पृथिव्यां, वालिसमः=वालितुल्यः, बली=बलसम्पन्नः, न अस्ति=न वर्तते, हृदयङ्गमं=हृद्गतम्, एतत्=बालिबलं, त्वां=भवन्तं (भवते इत्यर्थः), ब्रवीमि=कथयामि, पराभवम्=अभिभवं,न ब्रवीमि=न कथयामि (भवतोऽपकर्षं न प्रतिपादयामि, भवतो लोकोत्तरत्वात्किन्तुहृद्गतं वाच्यमित्युच्यत इत्यर्थः)।

**व्युत्पत्तिः—**वसुन्धरायां=वसूनि धारयतीति वसुन्धरा, तां “संज्ञाया”मित्यादिना खच् “खचि ह्रस्व” इति हस्वत्वं च। वालिसमः=वालिना समः,“पूर्वसदृशसमोनाऽर्थकलहनिपुणमिश्रश्लक्ष्णैः” इति समासः। हृदयङ्गमं=हृदयंगच्छतीति हृदयङ्गमं, तत् “गमश्च” इति संज्ञायां खच्। हृद्गतस्येयं संज्ञेति मन्यते।एतत्=मुख्यकर्म। त्वाम्=“अकथितं च” इति कर्मत्वाद्रौणकर्म।

** भावाऽर्थः—**पृथिव्यां वालिसमो बलसम्पन्नो नाऽस्ति। स्वानुभूतमेतद्बालि-

बलं त्वां कथयामि भवत्पराभवं न प्रतिपादयामि।

**भाषाऽर्थः—**पृथिवी भरमें कोई भी बालीके समान बलवान् नहीं है, मैंस्वाऽनुभूत बालीका बलकह रहा हूं, आपकी न्यूनताका प्रकाशन करना मेराअभिप्राय नहीं है॥१०९॥

अथ डाऽधिकारः।

दूरगैरन्तगैर्बाणैर्भवानत्यन्तगः श्रियः।
अपि सङ्क्रन्दनस्य स्यात्क्रुद्धः किमुत वालिनः॥११०॥

अन्वयः—(हे राम !) क्रुद्धः भवान् दूरगैः अन्तगैः बाणैः सङ्क्रन्दनस्यअपि श्रियः अत्यन्तगः स्यात्, वालिनः (श्रियः अत्यन्तगः स्यात्) इति, किमुत।

**प्रयोगप०—**क्रुद्धेन भवता अत्यन्तगेन भूयेत, वालिनः (अत्यन्तगेनभूयेत इति), किमुत।

व्याख्या—(हे राम !) क्रुद्धः=कुपितः, भवान्=त्वं, दूरगैः=दूरगामिभिः,अन्तगैः=लक्ष्यपातिभिः (अमोघैरित्यर्थः), बाणैः= शरैः (साधनैः), सङ्कन्दनस्य अपि=इन्द्रस्य अपि, श्रियः=लक्ष्म्याः, अत्यन्तगः=विनाशयिता, स्यात्=भवितुं शक्नुयात्, वालिनः=मद्भ्रातुः, (श्रियः अत्यन्तगः स्यात्) इति एतत्,किमुत=किं पुनः (वालिन इन्द्रजत्वादिति भावः)।

**व्युत्पत्तिः—**दूरगैः=दूरं गच्छन्तीति दूरगास्तैः, “अन्ताऽत्यन्ताऽध्वदूरपारसर्वानन्तेषु डः” इति गमेर्डः। अन्तगैः=अन्तं गच्छन्तीति अन्तगास्तैः, पूर्वसूत्रेण डः। संक्रन्दनस्य=संक्रन्दयतीति संक्रन्दनस्तस्य, सम्पूर्वकात् “क्रदि आह्वानेरोदने च” इति धातोर्नन्द्यादित्वाल्ल्युः। “सङ्क्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः।” इत्यमरः। “अत्यन्तगश्रिय” इति मल्लिनाथसंमतः पाठस्तत्र अतिभूमिगतलक्ष्मीकस्येत्यर्थः। तादृशस्य इन्द्रस्य, स्यात्=प्रत्यर्थीभवितुं शक्नुयादित्यर्थः।अत्यन्तगः=अत्यन्तं गच्छतीति, पूर्ववत् डः। स्यात्=“शकि लिड् च” इतिशक्त्यर्थे लिङ्। भवच्छब्दस्य शेषत्वात् “शेषे प्रथम” इति प्रथमपुरुषः।

**भावाऽर्थः—**हे राम ! भवान् कुपितो भूत्वा दूरगैरमोधैर्बाणैरिन्द्रस्य लक्ष्मीमपि नाशयितुं समर्थः, इन्द्रपुत्रस्य वालिनः किं पुनः।

** भाषाऽर्थः—**हे राम ! आप कुपित हो कर दूरतक जानेवाले अमोघ बाणोंसे इन्द्रकी लक्ष्मीको भी नाश कर सकते हैं, बालीकी लक्ष्मीको तो कहना ही क्या ?

तथाऽपि वालिबलाच्छङ्कते मे हृदयमित्याह श्लोकद्वयेनः-

वरेण तु मुनेर्वाली सञ्जातो दस्युहो रणे।
अवार्यप्रसरः प्रातरुद्यन्निव तमोपहः॥१११॥

अन्वयः०—“वाली रणे दस्युहः” (इति) मुनेः वरेण सः प्रातः उद्यन्तमोपहः इव अवार्यप्रसरः सञ्जातः।

प्रयोगप०—“वालिना रणे दस्युहेन (भाविषीष्ट)” (तेन) उद्यता तमोपहेन इव अवार्यप्रसरेण सञ्जातम्।

**व्याख्या—**वाली=सुग्रीवाऽग्रजः,रणे=युद्धे,दस्युहः=शत्रून् बध्यात्,(इति=एतादृशेन) मुनेः=ब्रह्मणः, वरेण=अनुग्रहेण, (सः=वाली) प्रातः=प्रभाते,उद्यन्=उदयमानः, तमोपह इव=सूर्य इव, अवार्यप्रसरः=दुर्वारगतिः, सञ्जातः=सम्भूतः।

**व्युत्पत्तिः—**दस्युहः=दस्यून् वध्यादिति, “आशिषि हनः” इत्याशीरर्थे डः।“दस्युशात्रवशत्रवः।” इत्यमरः। उद्यन्= उत्पूर्वादिणो लटः शत्रादेशः। तमोपहः=तमांसि अपहन्तीति, “अपे क्लेशतमसोः” इति हन्तेरपपूर्वात् ड प्रत्ययः।अवार्यप्रसरः=अवार्यः प्रसरो यस्य (बहु०)।

भावाऽर्थः—“त्वं युद्धे शत्रुघातको भूयाः” इति ब्रह्मवरेण स वाली दिनादावुदयमानः सूर्य इव दुर्वारगतिः सञ्जातः।

** भाषाऽर्थः—**“तुम संग्राममें शत्रुघातक हो जाओ” मुनिसे ऐसा वर पा कर वाली, प्रातःकालमें उगते हुए सूर्यकी तरह अनिवार्यगति हुए हैं॥१११॥

अतिप्रियत्वान्नहि मे कातरं प्रतिपद्यते।
चेतो वालिवधं राम ! क्लेशापहमुपस्थितम्॥११२॥

**अन्वयः—**हे राम ! कातरं मे चेतः क्लेशाऽपहम् उपस्थितं बालिवधम्अतिप्रियत्वात् न प्रतिपद्यते।

**प्रयोगप०—**कातरेण चेतसा क्लेशाऽपह उपस्थितो बालिवधो न प्रतिपद्यते।

**व्याख्या—**हे राम=हे रामचन्द्र, कातरम्=अधीरं, मे=मम, चेतः=चित्तं,क्लेशाऽपहं=सर्वदुःखोच्छेदकम्, उपस्थितं= त्वत्सामर्थ्यादासन्नं, वालिवधं=वालिहननम्, अतिप्रियत्वात्=ईप्सिततमत्वात्, न प्रतिपद्यते=न प्रत्येति (वालिबलाऽनुभवेन विश्वासं न करोतीत्यर्थः)।

**व्युत्पत्तिः—**क्लेशाऽपहं=क्लेशानपहन्तीति क्लेशाऽपहस्तं पूर्ववत् डः।

**भावाऽर्थः—**हे राम ! अधीरं मे चित्तं भवत्सामर्थ्यांन्निकटवर्तिनमपि वालिवधमत्यभीष्टत्वान्न विश्वसिति।

**भाषाऽर्थः—**हे राम ! कातर मेरा चित्त, सम्पूर्ण दुःखों का नाश करनेवालाऔर आपके सामर्थ्यसे निकटवर्ती वालिवधका अत्यन्त अभीष्ट होनेसे विश्वासनहीं करता है॥११२॥

अथोपपदाऽधिकारः।

शीर्षघातिनमायान्तमरीणां त्वां विलोकयन्।
पतिघ्नीलक्षणोपेतां मन्येऽहं वालिनः श्रियम्॥११३॥

** अन्वयः—**(हे राम !) अहम् अरीणां शीर्षघातिनम् आयान्तं त्वां विलोकयन् वालिनः श्रियं पतिघ्नीलक्षणोपेतां मन्ये।

** प्रयोगप०—**मया विलोकयता (सता) वालिनः श्रीः पतिघ्नीलक्षणोपेता मन्यते।

व्याख्या—(हे राम !) अहं=सुग्रीवः, अरीणां=शत्रूणां, शीर्षघातिनं=शिरश्छेदकम्, आयान्तम्=आगच्छन्तं, त्वां=भवन्तं, विलोकयन्=पश्यन् (सन्), वालिनः=स्वभ्रातुः, श्रियं=लक्ष्मीं (उपभोग्यत्वात् पत्नीसदृशीमित्यर्थः), पतिघ्नीलक्षणोपेतां= स्वामिघातकचिह्नयुक्तां मन्ये=उत्प्रेक्षे (वालिनं हतं मन्य इत्यर्थः)।

**व्युत्पत्तिः—**शीर्षघातिनं=शीर्षाणि हन्तीति शीर्षघाती, तं, “कुमारशीर्षयोर्णिनिः” इति हन्तेर्णिनिप्रत्ययः। पतिघ्नी-लक्षणोपेतां=पतिं हन्तीति पतिघ्नी “लक्षणे जायापत्योष्टक्” इति हन्तेष्टक् “गमहने"त्यादिना उपधालोपः, “होहन्तेर्ञ्णिन्नेषु” इति कुत्बम्। पतिघ्न्या लक्षणं (पाणिरेखादि) पतिघ्नीलक्षणं (ष० त०),तेन उपेता पतिघ्नीलक्षणोपेता, ताम् (तृ० त०)।

**भावाऽर्थः—**हे राम ! अहं शत्रुघातकं भवन्तं विलोक्य वालिनं हतं मन्ये।

**भाषाऽर्थः—**हे राम ! मैं शत्रुओंके शिरको छेदन करनेवाले आये हुएआपको देखकर वालीकी लक्ष्मीको पतिकी नाशसूचना करनेवाली पाणिरेखासेयुक्त मानता हूं॥११३॥

पुनः श्लोकत्रयेण वालिवधमेव प्रकटयन्नाह—

शत्रुघ्नान्युधि हस्तिघ्नोगिरीन्क्षिप्यन्नकृत्रिमान्।
शिल्पिभिः पाणिघः क्रुद्धत्स्वया जय्योऽभ्युपायवान्॥११४॥

**अन्वयः—**युधि हस्तिघ्नः शत्रुघ्नान् अकृत्रिमान् गिरीन् पाणिघैः शिल्पिभिः (सह) क्षिप्यन् अभ्युपायवान् क्रुद्धः वाली त्वया जय्यः।

**प्रयोगप०—**हस्तिघ्नं क्षिप्यन्तम् अभ्युपायवन्तं क्रुद्धं (वालिनम्) त्वंजेतुं शक्नुयाः।

व्याख्या—(हे राम !) युधि=युद्धे, हस्तिघ्नः=हस्तिवधसमर्थः, शत्रुघ्नान्=वैरिनाशकान्, अकृत्रिमान्=स्वाभाविकान् (अमानुषनिर्मितानित्यर्थः), गिरीन्=पर्वतान्, पाणिघैः=पाणिवादकैः, शिल्पिभिः=शिल्पविदैः (युद्धकुशलैः सह), क्षिप्यन्= क्षिपन्, अभ्युपायवान्=बहूपायसम्पन्नः, क्रुद्धः=कुपितः, वाली=मद्भ्राता, त्वया=भवता, जय्यः=जेतुं शक्यः ?

**व्युत्पत्तिः—**हस्तिनः=हस्तिनो हन्तुं समर्थः, “शक्तौ हस्तिकपाटयोः"इति हस्तेष्टक्, कुत्वोपधालोपौ। शत्रुघ्नान्=शत्रून् ध्वन्तीति शत्रुघ्नास्तान्, “अमनुष्यकर्तृके च” इति टकि शेषं पूर्ववत्। पाणिघैः=पाणीन् घ्नन्तीति पाणिघास्तैः,“पाणिघताडघौ शिल्पिनि” इति हस्तेष्टक्टिलोपो घत्वं च निपात्यते। “वृद्धो यूना"इतिवत् सहाऽर्थे तृतीया। क्षिप्यन् क्षिप्यतीति, क्षिपेर्दैवादिकात् लटः शत्रादेशः।अभ्युपायवान्=बहवोऽभ्युपायाः सन्ति यस्य सः (भूम्नि=बहुत्वे मतुप्)। जय्यः=“क्षय्यजय्यौ शक्याऽर्थे” इति याऽन्तादेशनिपातः।

**भावाऽर्थः—**हे राम ! युद्धे गजवधसमर्थः शत्रुध्नान् अमानुषनिर्मितान्पर्वतान् उत्साहाऽर्थं पाणिवाद्यं कुर्वद्भिः युद्धकुशलैः सह क्षिप्यन् बहुसाधनसम्पन्नःकुपितो वाली भवता किं जेतुं शक्यः ?

**भाषाऽर्थः—**हे राम ! युद्ध में हाथीको भी मारनेमें समर्थ, उत्साहके लिएहाथ बजानेवाले, युद्धकुशल वानरोंके साथ शत्रुओंको मारनेवाले अकृत्रिम पर्वतों कोफेंकतेहुए अनेक उपायोंसे सम्पन्न क्रुद्ध वालीको क्या आप जीत सकेंगे ?॥११४॥

आढ्यङ्करणविक्रान्तो महिषस्य सुरद्विषः।
प्रियङ्करणमिन्द्रस्य दुष्करं कृतवान्वधम्॥११५॥

**अन्वयः—**आढ्यङ्करणविक्रान्तः (वाली) इन्द्रस्य प्रियङ्करणं दुष्करं महिषस्य सुरद्विषः वधं कृतवान्।

**प्रयोगप०—**आढ्यङ्करणविक्रान्तेन (वालिना) प्रियङ्करणो दुष्करो महिषस्यवधः कृतः।

**व्याख्या—**आढ्यङ्करणविक्रान्तः=आख्यातिकरपराक्रमः (वाली), इन्द्रस्य=मघवतः, प्रियङ्करणं=प्रीतिजनकं, दुष्करम्= अशक्यं, महिषस्य=महिषरूपस्य, सुरद्विषः=असुरस्य (दुन्दुभिनामकस्येत्यर्थः), वधं=विनाशं, कृतवान्=अकरोत्।

**व्युत्पत्तिः—**आढ्यङ्करणविक्रान्तः=अनाढ्यमाढ्यं कुर्वन्त्यनेनेति आढ्यङ्करणम्, “आढ्यसुभगस्थूलपलितनग्नाऽन्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्"इति करणे ख्युन्। आढ्यङ्करणं विक्रान्तं यस्य सः (बहु०)। प्रियङ्करणं=अप्रियंप्रियं कुर्वन्त्यनेनेति प्रियङ्करणस्तम् (पूर्वसूत्रेण ख्युन्)।

**भावाऽर्थः—**पराक्रमप्रसिद्धो बाली इन्द्रस्य प्रीतिसम्पादकं दुष्करं महिषरूपस्य दुन्दुभिनामकस्य असुरस्य वधमकरोत्।

**भाषाऽर्थः—**पराक्रमसे प्रसिद्ध बालीने इन्द्रकी प्रीतिके लिए महिषरूपीदुन्दुभिनामक असुरका दुष्कर संहार किया॥११५॥

प्रियम्भावुकतां यातस्तं क्षिपन्योजनं मृतम्।
स्वर्गे प्रियम्भविष्णुश्च कृत्स्नं शक्तोऽप्यबाधयन्॥११६॥

अन्वयः—(किञ्च) मृतं तं योजनं क्षिपन् (स) प्रियम्भावुकतां यातः।शक्तः अपि कृत्स्नम् अबाधयन् स्वर्गे प्रियम्भविष्णुश्च (जातः)।

**प्रयोगप०—**क्षिपता (तेन) प्रियम्भावुकता याता। शक्तेन अपि अबाधयता प्रियम्भविष्णुना च (जातम्)।

**व्याख्या—**मृतम्=उपरतं, तं=दुन्दुभिं, योजनं=क्रोशचतुष्टयदूरं, क्षिपन्=किरन् (सः=वाली), प्रियम्भावुकतां=प्रियभावं, यातः=प्राप्तः (दुष्टनिग्रहात्सर्वेषामपि प्रियोऽभूदित्यर्थः), शक्तः अपि=समर्थः अपि, कृत्स्नम् अवाधयन्=किञ्चिदपि अपीडयन्, स्वर्गे=सुरलोके, प्रियम्भविष्णुश्च=प्रियश्च, (संवृत्त इति शेषः)।

**व्युत्पत्तिः—**प्रियम्भावुकतां=अप्रियः प्रियो भवतीति प्रियम्भावुकः, “आढ्यसुभगे”त्यादिसूत्रस्य अनुवृत्तौ “कर्तरि भुवः खिष्णुच्खुकञौ” इति भवतेः कर्त्रर्थे खुकञ्। प्रियम्भावुकस्य भावः प्रियम्भावुकता, ताम् (तत्प्रत्ययः)। अबाधयन्=बाधयतीति बाधयन्, “बध संयमे” इति चौरादिकाद्धातोर्लटः शत्रादेशः। न बाधयन् (नञ्०)। प्रियम्भविष्णुः=अप्रियः प्रियो भवतीति, पूर्वसूत्रेणैव खिष्णुच्प्रत्ययः।

**भावाऽर्थः—**किञ्चस मृतं तं दुन्दुभिं क्रोशचतुष्टयदूरं क्षिपन् एवं समर्थो

भूत्वापि किञ्चिदपि लोकपीडनमकुर्वंश्च सर्वस्य प्रियो जातः।

**भाषाऽर्थः—**मरे हुए उस दुन्दुभिको एक योजनकी दूरीपर फेंकते हुएबाली सबके प्यारे हो गये और सामर्थ्यके रहनेपर भी लोकपीडा न करनेसेस्वर्गमें भी देवताओंके प्यारे बन गये॥११६॥

जिज्ञासोः शक्तिमस्त्राणां रामो न्यूनधियः कपेः।
अभिनत्प्रतिपत्यर्थं सप्त व्योमस्पृशस्तरून्॥११७॥

अन्वयः—(अथ) रामः अस्त्राणां शक्तिं जिज्ञासोः न्यूनधियः कपेः प्रतिपत्यर्थं व्योमस्पृशः सप्त तरून् अभिनत्।

** प्रयोगप०—**रामेण व्योमस्पृशः सप्त तरवः अभिद्यन्त।

व्याख्या—(अथ=सुग्रीवभाषणाऽनन्तरम्) रामः=रामचन्द्रः, अस्त्राणां=शराणां, शक्तिं=सामर्थ्यं, जिज्ञासोः=ज्ञातुमिच्छोः, (अत एव) न्यूनधियः=अल्पबुद्धेः,कपेः=सुग्रीवस्य, प्रतिपत्यर्थं=विश्वासाऽर्थं, व्योमस्पृशः=आकाशस्पर्शिनः, सप्त=सप्त-संख्यकान्, तरून्=वृक्षान्, अभिनत्=व्यदारयत्।

**व्युत्पत्तिः—**जिज्ञासोः=उप्रत्ययः। न्यूनधियः=न्यूना धीर्यस्य स न्यूनधीस्तस्य (बहु०)। प्रतिपत्यर्थं=प्रतिपत्तये इदम् यथा तथा (च० त०,क्रि०वि०)। व्योमस्पृशः=व्योम स्पृशन्तीति व्योम स्पृशस्तान्, “स्पृशोऽनुदके क्विन्"इति क्विन्। अभिनत्= भिदेर्लङ्।

**भावाऽर्थः—**सुग्रीवभाषणाऽनन्तरं रामः स्वायुधबलज्ञानेच्छोरत एव न्यूनबुद्धेः सुग्रीवस्य विश्वासोत्पादनार्थं व्योमस्पर्शिनः सप्तवृक्षान् व्यदारयत्।

**भाषाऽर्थः—**तव रामचन्द्रजीने अपने अस्त्रोंकी शक्तिको जाननेके इच्छुकअत एव अल्पबुद्धि सुग्रीवके विश्वासके लिए एक बाणसे अत्यन्त ऊंचे सात वृक्षोंका विदारण किया॥११७॥

ततो वालिपशौ वध्ये रामर्त्विग्जितसाध्वसः।
अभ्ययान्निलयं भ्रातुः सुग्रीवो निनन्दधृक्॥११८॥

**अन्वयः—**ततः वालिपशौ वध्ये रामर्त्विक् जितसाध्वसः दधृक् सुग्रीवः निनदन् भ्रातुः निलयम् अभ्ययात्।

**प्रयोगप०—**रामर्त्विजा जितसाध्वसेन दधृषा सुग्रीवेण निनदता (सता)निलयोऽभ्ययायत।

**व्याख्या—**ततः=तरुभेदनाऽनन्तरं, वालिपशौ=वालिनि एव पशौ, वध्ये=आलभ्ये (सति), रामर्त्विक्=रामयाजकः, (अत एव) जितसाध्वसः=निभांकः,दधृक्=धृष्टः, सुग्रीवः=वानरराजः (यजमान इति भावः), निनदन्=शब्दं (सिंहनादम्) कुर्वन्, भ्रातुः=वालिनः, निलयम्=आलयम्, अभ्ययात्=अभियातः(पशुमानेतुमित्यर्थः, “अभ्यभूत्” इति पाठे अभिभूतवानित्यर्थः)।

**व्युत्पत्तिः—**वालिपशौ=बाली एव पशुर्वालिपशुस्तस्मिन् (रूपक०)। रामर्त्विक्=ऋतुमृतावृतुप्रयुक्तो वा यजतीति ऋत्विक् याजकः, “ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिकुञ्चां च” इति क्विन्प्रत्ययाऽन्तो निपातः “क्विन्प्रत्ययस्य कुः” इतिकुत्वम्। राम एव ऋत्विक् यस्य सः (बहु०)। जितसाध्वसः=जितं साध्वसंयेन सः (बहु०)। दधृक्=धृष्णोतीति, “ञिधृषा प्रागल्भ्ये” इति धातोः “ऋत्विगि”त्यादिना क्विन्, निपातनादृविर्वचनं कुत्वं च।

**भावाऽर्थः—**वृक्षभेदनाऽनन्तरं यज्ञियपशुतुल्ये वालिनि आलभ्ये सति रामरूपेण याजकेन युक्तोऽतो निर्भीको धृष्टश्च यजमानरूपः सुग्रीवो भ्रात्रालयमभियातः।

**भाषाऽर्थः—**वृक्षभेदनके बाद यज्ञियपशुतुल्य वालीके आलम्भनयोग्य होनेपर रामरूपयाजकसे युक्त, अत एव निर्भीक और धृष्ट यजमानरूप सुग्रीव सिंहनाद करते हुए भाईके भवनके संमुख गये॥११८॥

गुहाया निरगाद्बाली सिंहोमृगमिव द्युवन्।
भ्रातरं युङ्भियः संख्ये घोषेणाऽऽपूरयन्दिशः॥११६॥

**अन्वयः—**संख्ये भियः युरङ् वाली सिंहः मृगम् इव भ्रातरं द्युवन् घोषेण दिशः आपूरयन् गुहाया निरगात्।

**प्रयोगप०—**युजा वालिना द्युवता आपूरयता निरगायि।

**व्याख्या—**संख्ये=युद्धे, भियः=भयस्य, युङ्=योक्ता, वाली=सुग्रीवभ्राता,सिंहः=मृगेन्द्रः, मृगम् इव=हरिणम् इव, भ्रातरं= सुग्रीवं, द्युवन्=अभिगमिष्यन्,घोषेण=सिंहनादेन, दिशः=आशाः, आपूरयन्=संपूरयन्, गुहायाः=गह्वरात्, निरगात्= निर्गतः।

**व्युत्पत्तिः—**भियः=कर्मणि षष्ठी। युङ्=युनक्तीति, “युजिर् योगे” इति धातोः“ऋत्विगि”त्यादिना क्विन् “युजेरसमासे” इति नुमि संयोगान्तलोपः। नस्यकुत्वेनाऽनुनासिको ङकारः। युवन्=द्यौतीति, “द्यु अभिगमने” इति धातोर्वर्तमान-

सामीप्ये लटि शपो लुक्। लटेः शतर्युवङादेशः। दिशाः=दिशन्तीति दिशस्ताः,पूर्ववत्क्विनि सर्वाऽपहारी लोपः।

**भावाऽर्थः—**युद्धे भीतिप्रदो वाली सिंहो मृगमिव सुग्रीवमभिगमन् सिंहनादं कृत्वा गुहाया निर्जगाम।

**भाषाऽर्थः—**युद्धमें भय पैदा करनेवाला वाली, जिस तरह सिंह मृगकेसम्मुख जाता है उसी तरह सुग्रीवके सम्मुख जाता हुआ सिंहनादसे दिशाओंकोपूर्ण कर गुफासे निकला॥११९॥

व्यायच्छमानयोर्मूढो भेदे सदृशयोस्तयोः।
बाणमुद्यतमायंसीदिक्ष्वाकुकुलनन्दनः॥१२०॥

**अन्वयः—**इक्ष्वाकुकुलनन्दनः व्यायच्छमानयोः सदृशयोः तयोः भेदे मूढः(सन्) उद्यतं बाणम् आयंसीत्।

**प्रयोगप०—**इक्ष्वाकुकुलनन्दनेन मूढेन (सता) उद्यतो बाण आयासि।

**व्याख्या—**इक्ष्वाकुकुलनन्दनः=रामः, व्यायच्छमानयोः=व्याप्रियमाणयोः(युध्यमानयोरित्यर्थः), सदृशयोः=समानयोः (तुल्यरूपयोरित्यर्थः), भेदे=पृथक्त्वे, मूढः=मोहयुक्तः (“अयं वाली”ति विवेचनेऽसमर्थः सन्नित्यर्थः),उद्यतं=तूणादुद्धृतं, बाणं=शरम्, आयंसीत्=उपसंहृतवान्।

**व्युत्पत्तिः—**व्यायच्छमानयोः=“आङो यमहन” इति यमेराङ्पूर्वादकर्मकत्वादात्मनेपदम्। सदृशयोः=समानोपपदात् दृशेः “समानाऽन्ययोश्च” इतिकञ् “दृदृग्दृशवतुषु” इति समानस्य सभावः। आयंसीत्=यमेराङ्पूर्वांम्ल्ङिसगिडागमौ। “नेटि” इति प्रतिषेधान्न हलन्तलक्षणा वृद्धिः। अकर्त्रमिप्रायत्वात्“समुदाङभ्यो यमोऽग्रन्थे” इति नाऽऽत्मनेपदम्। सकर्मकत्वात् “आङो यमहनः”इति न तङ्।

**भावाऽर्थः—**रामो युध्यमानयोर्बालिसुग्रीवयोः सदृशत्वात् “अयं वाली”ति विवेक्तुमसमर्थः सन् तूणादुद्धृतमपि शरमुपसंहृतवान्।

** भाषाऽर्थः—**रामचन्द्रजी लड़ते हुए वाली और सुग्रीवके तुल्यरूप होने से वालीको पहचाननेमें असमर्थ हो कर तरकशसे निकाले गये बाणको न छोड़ सके॥१२०॥

ऋष्यमूकमगात्वलान्तः कपिर्मृगसदूग्द्रुतम्।
किष्किन्धाऽद्रिसदाऽत्यर्थं निष्पिष्टः कोष्णमुच्छ्वसन्॥१२१॥

**अन्वयः—**कपिः किष्किन्धाऽद्रिसदा अत्यर्थं निष्पिष्टः कोष्णम् उच्छ्वसन्मृगसदृक् द्रुतम् ऋष्यमूकम् अगात्।

**प्रयोगप०—**कपिना निष्पिष्टेन क्लान्तेन उच्छ्वसता मृगसदृशा ऋष्यमूकोऽगायि।

** व्याख्या—**कपिः=सुग्रीवः, किष्किन्धाऽद्रिसदा=किष्किन्धापर्वतवासिना (वालिनेत्यर्थः), अत्यर्थम्=अत्यन्तं, निष्पिष्टः= निष्पीडितः, क्लान्तः=श्रान्तः, (अतएव) कोष्णं=मन्दोष्णम्, उच्छ्वसन्=उच्छ्वासं कुर्वन्, मृगसदृक्=हरिणसदृशं,द्रुतं=शीघ्रम्, ऋष्यमूकम्=ऋष्यमूकपर्वतम्, अगात्=जगाम।

**व्युत्पत्तिः—**किष्किन्धाऽद्रिसदा=किं किं दधातीति किष्किन्धा (गुहा),“आतोऽनुपसर्गे क” इति कः, स्त्रीत्वाट्टाप् “पारस्करप्रभृतीनि च” इति सुडादिनिपातः। द्वित्वं तु वीप्सया। किष्किन्धाया अद्रिः किष्किन्धाऽद्रिः (ष० त०),तत्र सीदतीति किष्किन्धाऽद्रिसत् तेन “सत्सूद्विषे"त्यादिना क्विप्। कोष्णम्=ईषदुष्णं कोष्णम् “कुगतिप्रादयः” इति समासः, “कवं चोष्णे” इति कोः कादेशः।तद् यथा तथा (क्रि० वि०)। मृगसदृक्=“सदृक्” इत्यत्र “समानाऽन्ययोश्च”इति क्विन्, शेषं सर्वं पूर्ववत्।

**भावाऽर्थः—**सुग्रीवः किष्किन्धावासिना वालिना भृशं निष्पीडितोऽतः कदुष्णमुच्छ्वसन् मृगवत् द्रुतगत्या ऋष्यमूकमगच्छत्।

**भाषाऽर्थः—**सुग्रीव, किष्किन्धावासी वालीसे अत्यन्त निष्पीडित होने सेक्लान्त हो कर उसासें लेते हुए मृगकी तरह वेगपूर्वक ऋष्यमूक गये॥१२१॥

कृत्वा वालिद्रुहं रामा मालया सविशेषणम्।
अङ्गदस्वं पुनर्हन्तुं कपिनाऽऽह्वाययद्रणे॥१२२॥

अन्वयः—(अथ) रामः वालिद्रुहं मालया सविशेषणं कृत्वा अङ्गदस्वं रणेहन्तुं कपिना पुनः आह्वाययत्।

**प्रयोगप०—**रामेण अङ्गदसूःकपिना पुनः आह्वाय्यत।

**व्याख्या—**रामः=रामचन्द्रः, वालिद्रुहं=सुग्रीवं, मालया=स्रजा, सविशेषणं=सचिह्नं, कृत्वा=विधाय, अङ्गदस्वम्=अङ्गद-जनकं (वालिनमित्यर्थः), रणे=युद्धे,हन्तुं=व्यापादयितुं,कपिना=सुग्रीवेण, पुनः=भूयः, आह्वाययत्=सस्पर्द्धमाह्वाययामास।

**व्युत्पत्तिः—**वालिद्रुहं=वालिने दुह्यतीति वालिध्रुक्, तं, “सत्सूद्विषे”त्या-

दिना क्विप्। अङ्गदस्वम्=अङ्गदं सूते इति अङ्गदसूस्तं, तेनैव क्विप्। “ओः सुपि”इति यणादेशः। यद्वा अङ्गदस्य स्वः =ज्ञातिरात्मीयो वा (पितुः ज्ञातिपरमत्वादात्मीयाऽतिशयत्वाद्वा) अथवा अङ्गद एव स्वः यस्य सोऽङ्गदस्वस्तम् (षष्ठीतत्पुरुषो बहुव्रीहिर्वा)। आह्वाययत्=ह्वयतेराङ्पूर्वाण्यन्ताल्लङि “शाच्छाशाह्वाव्यावेपांयुक्” इति युक्। अकर्त्रभिप्रायात् “णिचश्च” इति नाऽऽत्मनेपदम्।

**भावार्थः—**ततो रामः सुग्रीवं वालिव्यावृत्यर्थं मालयाऽलङ्कृत्य तेन पुनःसस्पर्धमाह्वाययामास।

** भाषाऽर्थः—**तब रामचन्द्रजीने वालीको मारनेके लिए सुग्रीवको मालासेचिह्नित करके ललकारनेका आदेश दिया॥१२२॥

तयोर्वानरसेनान्योः संप्रहारे तनुच्छिदम्।
वालिनो दूरभाग्रामोबाणं प्राणादमत्यजत्॥१२३॥

**अन्वयः—**वानरसेनान्योः तयोः संप्रहारे (सति) रामः दूरभाक् (सन्) वालिनः तनुच्छिदं प्राणादं बाणम् अत्यजत्।

**प्रयोगप०—**रामेण दूरभाजा (सता) तनुच्छित् प्राणादो बाणोऽत्यज्यत।

**व्याख्या—**वानरसेनान्योः=कपीश्वरयोः, तयोः=वालिसुग्रीवयोः, संप्रहारे=युद्धे (सति), रामः=रामचन्द्रः, दूरभाक्=दूरगतः (सन्), वालिनः=सुग्रीवभ्रातुः,तनुच्छिदं=शरीरच्छेदिनं प्राणाऽदं=प्राणहारिणं, बाणं=शरम्, अत्यजत्=मुमोच।

**व्युत्पत्तिः—**वानरसेनान्योः=सेना नयत इति सेनान्यौ, “सत्सूद्विषे"त्यादिना क्विप्, “एरनेकाचोऽसंयोगपूर्वस्य” इति यणादेशः। वानराणां सेनान्यौ वानरसेनान्यौ, तयोः (ष० त०)। संप्रहारे=“संप्रहाराऽभिसंपातकलिसंस्फोटसंयुगाः”। इत्यमरः। दूरभाक् =दूरं भजत इति, “भजो ण्विः” इति ण्विः। तनुच्छिदं=तनुं छिनत्तीति तनुच्छित् तं पूर्ववत् क्विप्। “छे च” इति तुक्। प्राणादं=
प्राणानत्तीति प्राणादस्तम्, “अदोऽनन्ने” इति विट्।

**भावाऽर्थः—**वालिसुग्रीवयोर्युद्धे रामो दूरदेशाऽवस्थितो भूत्वा वालिघातकं बाणं मुमोच।

**भाषाऽर्थः—**वानरोंके अधीश्वर वाली और सुग्रीवके युद्धमें रामचन्द्रजीनेदूरदेश में रह कर वालीको नाश करनेवाला बाण छोड़ा॥१२३॥

अथ युग्मेन वालिपातमाह—

अथ बाणेन जविना तेन विद्धो महाकपिः।
क्रव्यान्त्रासकरं नादं कुर्वन्कामदुघोऽर्थिनाम्॥१२४॥

अग्रेगावा च शूराणामभिभूः सर्वविद्विषाम्।
शंस्थरूपः स्थिरप्रज्ञः पपात सहसा भुवि॥१२५॥

**अन्वयः—**अथ अर्थिनां कामदुघः शूराणाम् अग्रेगावा सर्वविद्विषाम् अभिभूःशंस्थरूपः स्थिरप्रज्ञः महाकपिः जविना तेन बाणेन विद्धः क्रव्यान्त्रासकरं नादंकुर्वन् सहसा भुवि पपात।

**प्रयोगप०—**कामदुघेन अग्रेगाव्ना अभिभुवा शंस्थरूपेण स्थिरप्रज्ञेन महाकपिना विद्धेन कुर्वता ते।

**व्याख्या—**अथ=बाणमोक्षाऽनन्तरम्, अर्थिनां=याचकानां, कामदुघः=इच्छापूरकः, शूराणां=वीराणाम्, अग्रेगावा=अग्रगामी, सर्वविद्विषां=सकलशत्रूणाम्,अभिभूः=अभिभविता, शंस्थरूपः=सुखैकवृत्तिस्वरूपः (सुख परायण इत्यर्थः),स्थिरप्रज्ञः= स्थिरबुद्धिः, महाकपिः=वाली, जविना=वेगवता, तेन=राममुक्तेन, बाणेन=शरेण, विद्धः=ताडितः, क्रव्यात्त्रासकरं= गृध्राऽऽदिभयङ्करं, नादं=शब्दं, कुर्वन्=विदधत्, सहसा=अतर्कित एव, भुवि=पृथिव्यां, पपात=अपतत्।

**व्युत्पत्तिः—**कामदुघः=कामान्दोग्धीति, “दुहः कब्घश्च” इति कपि घकारश्वाऽन्ताऽऽदेशः। अग्रेगावा=अग्रे गच्छतीति, “अन्येभ्योऽपि दृश्यन्ते” इति गमेर्वनिप्। “विड्वनोरनुनासिकस्याऽऽत्” इत्यात्वम्। सर्वविद्विषां=सर्वे च तेविद्विषः सर्वविद्विषस्तेषाम् (क० धा०, कर्मणि षष्ठी), अभिभूः=अभिभवतीति,“क्विप् च” इति भवतेः क्विप्। शंस्थरूपः=शमिति सुखवाचकमव्ययम्। शं(सुखे) तिष्ठतीति शंस्थं, “स्थः क च” इति तिष्ठतेः कप्रत्ययः। शंस्थं रूपं यस्य सः(बहु०)। स्थिरप्रज्ञः=स्थिरा प्रज्ञा यस्य सः (बहु०)। क्रव्यान्त्रासकरं=क्रव्यमदन्तीति क्रव्यादः (मांसभक्षका गृध्रशृगालादयः), “क्रव्ये च” इति विट्प्रत्ययः। त्रासंकरोतीति त्रासकरः, हेतौ टः। क्रव्यादां त्रासकरः क्रव्यान्त्रासकरस्तम् (ष० त०)।

**भावाऽर्थः—**ततोऽर्थिकामपूरकः शूराऽग्रसरः सकलशत्रूणामभिभविता सुखपरायणोः स्थिरबुद्धिर्बाली रामबाणताडितः सन् गृध्राऽऽदिभीत्युत्पादकं शब्दं कुर्वन्सहसा पृथिव्यां पतितः।

**भाषाऽर्थः—**तब याचकोंकी इच्छाको पूर्ण करनेवाला, शूरोंमें अग्रसर, सबशत्रुओं को परास्त करनेवाला, सुखपरायण, स्थिरबुद्धि बाली रामके वेगवान् बाणसे विद्ध होकर गृध्र आदि मांसभक्षकोंको त्रास पैदा करनेवाला शब्द करताहुआ सहसा जमीनपर गिर पड़ा॥१२४—१२५॥

वालिनं पतितं दृष्ट्वा वानरा रिपुघातिनम्।
बान्धवक्रोशिनो भेजुरनाथाः ककुभो दश॥१२६॥

**अन्वयः—**रिपुघातिनं पतितं वालिनं दृष्ट्वा वानराः बान्धवक्रोशिनः अनाथाः(सन्तः) दश ककुभः भेजुः।

**प्रयोगप०—**वानरैः बान्धवक्रोशिभिः अनाथैः (सद्भिः) दश ककुभो भेजिरे।

** व्याख्या—**रिपुघातिनं=शत्रुघातकं, पतितं=भूनिपतितं वालिनं=सुग्रीवभ्रातरं, दृष्ट्वा=विलोक्य, वानराः=कपयः, बान्धव-क्रोशिनः=बन्धुवत् विलपन्तः, अनाथाः=स्वामिरहिताः (सन्तः), दश=दशसंख्यकाः, ककुभः=दिशाः, भेजुःसेवितवन्तः (अपलायन्तेत्यर्थः)।

**व्युत्पत्तिः—**रिपुघातिनं=रिपून्हन्तीति तच्छीलो रिपुघाती, तं, “सुप्यजातौणिनिस्ताच्छील्ये” इति ताच्छील्ये णिनिः। बान्धव-क्रोशिनः=बन्धव एव बान्धवाःपुत्रकलत्रादयः (स्वाऽर्थे अण्), ते इव क्रोशन्तीति, “कर्तर्युपमाने” इति णिनिः।

**भावाऽर्थः—**शत्रुघातकं वालिनं भूनिपतितं दृष्ट्वा वानरा विलपन्तः स्वामिनाशादपलायन्त।

** भाषाऽर्थः—**शत्रुघातक वालीको जमीनपर गिरते हुए देख कर वानर लोगबान्धवोंकी तरह विलाप करते हुए अनाथ होनेसे दशो दिशाओं में भाग गये॥२६॥

“धिग्दाशरथि”मित्यूचुर्मुनयो वनवर्तिनः।
उपेयुर्मधुपायिन्यः क्राशन्त्यस्तं कपिस्त्रियः॥१२७॥

**अन्वयः—**वनवर्तिनः मुनयः “दाशरथिं धिक्” इति ऊचुः। मधुपायिन्यःकपिस्त्रियः क्रोशन्त्यः तम् उपेयुः।

**प्रयोगप०—**वनवर्तिभिर्मुनिभिः “दाशरथिं धिक्” इत्यूचे। मधुपायिनीभिःकपिस्त्रीभिः क्रोशन्तीभिः स उपेये।

**व्याख्या—**वनवर्तिनः=शास्त्रतो नियमाद्वनवासिनः, मुनयः=ऋषयः, दाशरथिं धिक्=रामं धिक्, इति=इत्थम्, ऊचुः= उक्तवन्तः, मधुपायिन्यः=आभी-

क्ष्ण्येन मधुपानकारिण्यः, कपिस्त्रियः=वाल्यन्तःपुराऽङ्गनाः, क्रोशन्त्यः=विलपन्त्यः,तं=वालिनम्, उपेयुः=उपसेदुः।

** व्युत्पत्तिः—**वनवर्तिनः=वने वर्तन्ते इति, “व्रते” इति णिनिप्रत्ययः। मधुपायिन्यः=आभीक्ष्ण्येन मधु पिबन्तीति, “बहुलमाभीक्ष्ण्ये” इति आभीक्ष्ण्ये णिनिः।

** भावाऽर्थः—**वनवासिनो मुनयो निरपराधस्य वालिनो वधात् “रामं धिक्"इति उक्तवन्तः। आभीक्ष्ण्येन मधुपायिन्यो वाल्यन्तःपुराऽङ्गना विलपन्त्यो वाल्यभिमुखमाजग्मुः।

** भाषाऽर्थः—**वनमें रहनेवाले मुनियोंने निरपराध वालीका वध करनेसे रामचन्द्रको धिक्कारा। निरन्तर मधुपान करनेवाली वालीके अन्तःपुरकी स्त्रियां विलापकरती हुईं वालीके समीप आ गईं॥१२७॥

राममुच्चैरुपालब्ध शूरमानी कपिप्रभुः।
व्रणवेदनया ग्लायन्साधुम्मन्यमसाधुवत्॥१२८॥

** अन्वयः—**शूरमानी कपिप्रभुः व्रणवेदनया ग्लायन् साधुम्मन्यं रामम् असाधुवत् उच्चैः उपालब्ध।

** प्रयोगप०—**शूरमानिना कपिप्रभुणा ग्लायता साधुम्मन्यो रामोऽसाधुवत्उच्चैरुपालम्भि।

** व्याख्या—**शूरमानी=शूरम्मन्यः, कपिप्रभुः=वाली, व्रणवेदनया=प्रहारव्यथया, ग्लायन्=क्षीणः सन्, साधुम्मन्यं= साधुमानिनं, रामं=रामचन्द्रम्, असाधुवत्=असाधुतुल्यम्, उच्चैः=तारस्वरम्, उपालब्ध=उपालब्धवान्।

** व्युत्पत्तिः—**शूरमानी=शूरमात्मानं मन्यत इति, “आत्ममाने खश्च” इतिचकारान्मन्यतेर्णिनिः, “सौ च” इति सौ दीर्घत्वम्।साधुम्मन्यं=साधुमात्मानं मन्यत इति साधुम्मन्यस्तं, पूर्वसूत्रेणैव खशि दिवादित्वाच्छयन्। “महाकुलकुलीनाऽऽर्यसभ्यसज्जन-साधवः।” इत्यमरः। असाधुवत्=असाधुना तुल्यं,“तेन तुल्यं क्रिया चेद्वतिः” इति वतिः। उपालब्ध=लभेरनिटो लुङि “झलो झलि”इति सलोपे धत्वजश्त्वे।

** भावाऽर्थः—**शूरम्मन्यो वाली शरप्रहारव्यथया म्लायन् आत्मानं साधुंमन्यमानं राममसाधुवत् उच्चैरुपालब्धवान्।

** भाषाऽर्थः—**शूरमानी वालीने शरप्रहारकी वेदनासे म्लान हो कर अपनेको

साधु माननेवाले रामको असाधुकी तरह ऊँचे स्वरसे उपालम्भ (उलहना) किया॥१२८॥

अथ श्लोकाष्टकेन वाल्युपालम्भमाचष्टे—

मृषाऽसि त्वं हविर्याजी राघव ! छद्मतापसः।
अन्यव्यासक्तघातित्वाद्ब्रह्मघ्नांपापसम्मितः॥१२९॥

** अन्वयः—**हे राघव ! त्वं छद्मतापसः, मृषा एव हविर्याजी, अन्यव्यासक्तघातित्वात् ब्रह्मघ्नां पापसम्मितः।

** प्रयोगप०—**हे राघव ! त्वया छद्मतापसेन मृषा एव हविर्याजिना पापसम्मितेन (भूयते)।

** व्याख्या—**हे राघव=हे राम, त्वं, छद्मतापसः=कपटतपस्वी, मृषा एव=मिथ्या एव, हविर्याजी=हविषा इष्टवान् (दाम्भिक इत्यर्थः), अन्यव्यासक्तघातित्वात्=अपरव्यग्रघातकत्वात्, ब्रह्मघ्नां=ब्राह्मणं हतवतां, पापसम्मितः=कलुषसङ्गतः (त्वं ब्रह्महत्यापापभागसीत्यर्थः)।

** व्युत्पत्तिः—**छद्मतापसः=छद्मना तापसः (तृ० त०)। हविर्याजी=हविषाइष्टवानिति, “करणे यज” इति भूते णिनिः। अन्यव्यासक्तघातित्वात्=अन्यस्मिन्व्यासक्तोऽन्यव्यासक्तः (स० त०), तं हतवानिति अन्यव्यासक्तघाती “कर्मणिहनः” इति भूते णिनिः। अन्यव्यासक्तघातिनो भावः अन्यव्यासक्तघातित्वं, तस्मात् (त्वप्रत्ययः)। ब्रह्मघ्नां=ब्रह्माणं हतवन्त इति ब्रह्महणस्तेषां"ब्रह्मभ्रूणवृत्रेषु क्विप्” इति क्विप्। “क्विप् च” इत्येन सिद्धेनियमार्थमिदं—“ब्रह्मादिष्वेव, हन्तेरेव, भूत एव क्विबेवेति चतुर्विधोऽत्र नियम” इति काशिका।“ब्रह्मादिष्वेव, क्विवेबेवेति द्विविधो नियमः” इति भाष्यम्।

**भावाऽर्थः—**हे राम ! त्वं दम्भाऽर्थमेव तपश्चरसि न धर्मार्थम्, एवं मिथ्यैव हविषा इष्टवानसि ; सुग्रीवेण सह युध्यतो मम हननात् ब्रह्महत्यापापभागसि।

**भाषाऽर्थः—**हे राघव ! तुम दम्भसे ही तपस्या करते हो। मिथ्या ही तुमहविसे यज्ञ करनेवाले हो गये हो; एवं सुग्रीवसे लड़ते हुए मुझे मारसे ब्रह्महत्याके पापभागी वन गये हो॥१२९॥

पापकृत्सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः।
मामपापं दुराचार ! कि निहत्याऽभिधास्यसि॥१३०॥

** अन्वयः—**हे दुराचार ! पुण्यकृतः राज्ञः सुतः पापकृत् (त्वम्) अपापं मां

निहत्य सुकृतां मध्ये किम् अभिधास्यसि ?

**प्रयोगप०—**हे दुराचार ! सुतेन पापकृता (त्वया) किमभिधास्यते।

**व्याख्या—**हे दुराचार=हे दुष्टकर्मन्, पुण्यकृतः=पुण्यं कृतवतः, राज्ञः=दशरथस्य, सुतः=पुत्रः, (तथाऽपि) पापकृत्= कृतपापः, (त्वं=रामः) अपापं=निरपराधं, मां=वालिनं, निहत्य=व्यापाद्य, सुकृतां=साधुकारिणां, मध्ये=अन्तरे,किम् अभिधास्यसि=किं कथयिष्यसि ?

**व्युत्पत्तिः—**दुराचार=दुष्ट आचारो यस्य स दुराचारस्तत्सम्बुद्धौ (बहु०)।पुण्यकृतः=पुण्यं कृतवानिति पुण्यकृत्, तस्य, “सुकर्मपापमन्त्रपुण्येषु कृञः"इति भूते क्विप्। पापकृत्=पापं कृतवानिति, पूर्वसूत्रेण भूते क्विप्। सुकृतां=शोभनं कृतवन्त इति सुकृतस्तेषां, पूर्ववत्क्विप्।

**भावाऽर्थः—**हे दुराचार ! कृतपुण्यस्य राज्ञो दशरथस्य पुत्रो भूत्वाऽपिपापकृत् त्वं निरपराधं मां हत्वा पुण्यवतां मध्ये किं कथयिष्यसि?

**भाषाऽर्थः—**हे दुराचार ! पुण्यात्मा महाराज दशरथके पुत्र हो कर भीपापचारी तुम, निरपराध (बेकसूर) मुझको मार कर धर्मात्माओं के बीचमें क्याकहोगे ?॥१३०॥

अग्निचित्सोमसुद्राजा रथचक्रचिदादिषु।
अनलेष्विष्टवान्कस्मान्न त्वयाऽपेक्षितः पिता॥१३१॥

अन्वयः—(हे राम !) अग्निचित् सोमसुत् रथचक्रचिदादिषु अनलेषु इष्टवान् ते पिता राजा कस्मात् न अपेक्षितः ?

प्रयोगप०—(हे राम ! त्वम्) अग्निचितंसोमसुतम् इष्टवन्तं ते पितरंराजानं कस्मात् न अपेक्षितवान्।

व्याख्या—(हे राम ! त्वम्) अग्निचित्=अग्निं चितवान्, सोमसुत=सोमयाजी, रथचक्रचिदादिषु अनलेषु=अग्निविशेषेषु, इष्टवान्=कृतयागः, ते=तव,पिताः=जनकः, राजा=दशरथः, कस्मात्=हेतोः, न अपेक्षितः=न विचारितः ?(पितुरयशोभीत्याऽपि त्वयैतादृशं जघन्यं कर्म नाऽऽचरणीयमिति भावः)।

**व्युत्पत्तिः—**अग्निचित्=अग्न्यर्थमिष्टकाचयनं कृतवानित्यर्थः, “अग्नौ चे”इति क्विप्। सोमसुत्=सोमं सुतवानिति, “सोमे सुञः” इति क्विप्। रथचक्रचिदादिषु=रथस्य चक्रं रथचक्रं (ष० त०), तदिव चीयत इति रथचक्रचित् (रथ-

चक्रसदृशोऽग्न्यर्थ इष्टकाचय इत्यर्थो लक्षणयाऽग्निरपि), “कर्मण्यग्न्याख्यायाम्”इति चिनोतेः क्विप्। स आदिर्येषां ते रथचक्रचिदादयस्तेषु (बहु०)। इष्टवान्=यजेः क्तवतुप्रत्ययः।

**भावाऽर्थः—**हे राम ! अग्निचित् सोमयाजी रथचक्रचिदादिषु अग्निषु अनुष्ठितयागः पिता कस्माद्धेतोस्त्वया न स्मृतः।

**भाषाऽर्थः—**हे राम ! अग्निके लिए इष्टकाचयन करनेवाले, सोमयाजी औररथचक्रचित् आदि अग्नियोंमें यज्ञ करनेवाले पिताजीकी आपने क्यों अपेक्षानहीं की॥१३१॥

मांसविक्रयिणः कर्म व्याधस्याऽपि विगर्हितम्।
मां घ्नताभवताऽकारि निःशङ्कं पापदृश्वना॥१३२॥

**अन्वयः—**पापदृश्वना मां निःशङ्कं घ्नता भवता मांसविक्रयिणः व्याधस्यअपि विगर्हितं कर्म अकारि।

**प्रयोगप०—**पापदृश्वा घ्नन् भवान् कर्म अकार्षीत्।

** व्याख्या—**पापदृश्वना=दृष्टपापेन (निरन्तरपापचिन्तकेनेत्यर्थः), मां=बालिनं (अनपराधमित्यर्थः), निःशङ्कं=सन्देहवर्जं, घ्नता=मारयता, भवता=त्वया,मांसविक्रयिणः=विक्रीतमांसस्य, व्याघ्रस्य अपि=लुब्धकस्य अपि, विगर्हितं=जुगुप्सितं, कर्म= क्रिया, अकारि=कृतम् (जीविकाऽर्थं पशुवधमाचरता व्याधेनाऽपिपरिहृतं वानरवधात्मकं कर्म कुर्वन्भवान्विगर्हित इत्यर्थः)।

**व्युत्पत्तिः—**पापदृश्वना=पापं दृष्टवानिति पापदृश्वा ,तेन “दृशेः क्वनिप्”इति क्वनिप्। घ्नता=हन्तीति घ्नन्, तेन, हन्तेः शतरि “गमहने"त्यादिनोपधालोपः। “हो हन्ते”रित्यादिना कुत्वम्। मांसविक्रयिणः=मांसं विक्रीतवानिति मांसविक्रयी, तस्य, “कर्मणीनिविक्रियः” इति क्रीणातेः “कुत्सितग्रहणं कर्तव्यम्” इतिकुत्सायामिनिः। अकारि=करोतेः कर्मणि लुङि चिणि वृद्धिः।

**भावाऽर्थः—**निरन्तरपापचिन्तकेनाऽतो मां शङ्कां त्यक्त्वा घ्नन् त्वं मांसविक्रयजीविनो व्याधस्याऽपि विगर्हितं कर्म अकार्षीः।

** भाषाऽर्थः—**निरन्तर पापचिन्तक, अत एव मुझको पापसन्देहके बिना हीमारनेवाले तुमने मांसविक्रय करनेवाले व्याधसे भी विगर्हित कर्म किया है॥१३२॥

बुद्धिपूर्वं द्रुवन्न त्वा राजकृत्वा पिता खलम्।
सहयुध्वानमन्येन योऽहिनो मामनागसम्॥१३३॥

अन्वयः—(हे राम !) पिता त्वा खलं द्रुवन् बुद्धिपूर्वं राजकृत्वा न(अभूत्), यः (त्वम्) अन्येन सहयुध्वानम् अनागसं माम् अहिनः।

** प्रयोगप०—**पित्रा द्रुवता राजकृत्वना न (अभावि), येन (त्वया) सहयुध्वा अनागा अहम् अहिंष्ये।

व्याख्या—(हे राम !) पिता=दशरथः, त्वा=त्वां, खलं=दुर्जनं, द्रुवन्=जानन्, बुद्धिपूर्वं=मतिपूर्वं, राजकृत्वा=राजानं कृतवान्, न=न अभूत्। यः=त्वम्,अन्येन=योधाऽन्तरेण (सुग्रीवेण इत्यर्थः), सहयुध्वानं=सहयुद्धवन्तम्,अनागसं=निरपराधं, मां=तटस्थम् (अशत्रुमित्यर्थः), अहिनः=हिंसितवान्।

**व्युत्पत्तिः—**द्रुवन्=द्रुवतीति, “द्रुगतौ” इति धातोस्तौदादिकाच्छतर्युवङादेशः। गत्यर्थत्वात् “ये गत्यर्थास्ते ज्ञानार्था” इति न्यायेन ज्ञानाऽर्थत्वम्। “ध्रुवन्” इति जयमङ्गलासंमतः पाठस्तत्र ध्रुवतीति विग्रहे तौदादिकादेव “ध्रु गतिस्थैर्ययोः” इति धातोः पूर्ववत् प्रक्रियादिकम्। “ध्रुवम्” इति पाठे तु “त्वांराजकृत्वे”ति योजनायां कृद्योगषष्ठ्यां “त्वा"मिति द्वितीया न स्यात्। राजकृत्वा=राजानं कृतवानिति, “राजनि युधि कृञः” इति कृञः क्वनिप्, “ह्रस्वस्यपिति कृति तुक्” इति तुगागमश्च। सहयुध्वानं=“सहे च” इति युधेः क्वनिप्।अहिनः=हिनस्तेः (“हिसि हिंसायाम्” इति धातोः) लङि सिपि श्ननमि नलोपः।हल्ङचादिलोपे “सिपि धातोरुर्वा” इति धातुसकारस्य रुत्वविसगौं।

** भावाऽर्थः—**हे राम ! पिता दशरथस्त्वां दुर्जनं ज्ञात्वा मतिपूर्वकमेव राज्येनाऽभिषिक्तवान्, यस्त्वं सुग्रीवेण सह युद्धयन्तमनपराधं मां हिंसितवान्।

**भाषाऽर्थः—**हे राम ! पिता दशरथने तुमको दुर्जन जान कर जानबूझकर राजा नहीं बनाया, जो कि तुमने दूसरे (सुग्रीव) से लड़ते हुए और निरपराधमुझको मार डाला॥१३३॥

अथ मांसलोभान्मामवधीस्तदपि न योग्यमित्याह—

पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृतजैर्द्विजैः।
कौशल्याज ! शशादीनां तेषां नैकोऽप्यहं कपिः॥१३४॥

** अन्वयः—**कृतजैः द्विजैः ये पञ्च पञ्चनखाः भक्ष्याः प्रोक्ताः, हे कौशल्याज !

तेषां शशादीनां कपिः अहम् एकः अपि न।

**प्रयोगप०—**कृतजा द्विजा यान् पञ्च पञ्चनखान् भक्ष्यान् प्रोक्तवन्तः, तेषांकपिना मया एकेनाऽपि न (भूयते)।

**व्याख्या—**कृतजैः=सत्ययुगोत्पन्नैः, द्विजैः=ब्राह्मणैः (स्मृतिविधायकैर्महर्षिभिरित्यर्थः), ये=परिगणिताः, पञ्ज=पञ्चसंख्यकाः, पञ्चनखाः=पञ्चनखराः (शशकूर्मखड्गिगोधाशल्लकिन इत्यर्थः), भक्ष्याः=भक्षणीयाः, प्रोक्ताः=कथिताः, हे कौशल्याज=हे कौशल्याजात ! (छद्मघातकत्वेन पितृपराक्रमाऽननुसरणात् “कौशल्याज” इति सम्बोधनम्), तेषां=परिगणितानां, शशादीनां =पञ्चानां, कपिः=वानरः, अहं=वाली, एकः अपि=अन्यतमः अपि, न=न अस्मि (प्रत्युत निषिद्धएवेत्यर्थः)।

**व्युत्पत्तिः—**कृतजैः=कृते जाताः कृतजास्तैः, “सप्तम्यां जनेर्डः” इतिडः। द्विजैः=द्विः (जन्मना विशिष्टसंस्कारेण च) जाता द्विजास्तैः, “अन्येष्वपिदृश्यते” इति डः। पञ्चनखाः=पञ्च नखा येषां ते (बहु०), “शशकःशल्लकीगोधा खड्गी कूर्मश्च पञ्चमः।” इति स्मृतिः। हे कौशल्याज=कौशल्याया जातःकौशल्याजस्तत्सम्बुद्धौ, “पञ्चम्यामजातौ” इति डः।

**भावाऽर्थः—**सत्ययुगोत्पन्नैर्महर्षिभिः ये पञ्च पञ्चनखाः भक्ष्याः प्रोक्ताः। हेकौशल्यासुत ! वानरोऽहं तेषां शशादीनामन्य-तमोऽपि न, प्रत्युत निषिद्ध एव।

**भाषाऽर्थः—**सत्ययुगमें उत्पन्न महर्षियोंने खरगोश आदि जिन पञ्चनखों (पांच नाखूनवाले पशुओं) को भक्षणीय बतलाया है, हे कौशल्यापुत्र! मैंवानर, उन पांचोंमें एक भी नहीं हूं॥१३४॥

कथं दुःस्थः स्वयं धर्मे प्रजास्त्वं पालयिष्यसि।
आत्माऽनुजस्य जिह्नेषि सौमित्रेस्त्वं कथं न वा॥१३५॥

**अन्वयः—**स्वयं धर्मे दुःस्थः त्वं प्रजाः कथं पालयिष्यसि ? वा त्वम् आत्माऽनुजस्य सौमित्रेः कथं न जिह्रेषि ?

**प्रयोगप०—**दुःस्थेन त्वया प्रजाः कथं पालयिष्यन्ते। त्वया सौमित्रेर्वाकथं न ह्रीयते।

**व्याख्या—**स्वयम्=आत्मना, धर्मे=पुण्ये विषये, दुःस्थः=अप्रतिष्ठितः, त्वं=भवान्, प्रजाः=जनान्, कथं=केन प्रकारेण, पालयिष्यसि=रक्षिष्यसि (पापचारिणा

भूपालेन प्रजानामधर्माचरणं कथं नियम्यमिति भावः), वा=अथवा, त्वं=रामः,आत्माऽनुजस्य=स्वकनीयसः, सौमित्रेः= लक्ष्मणस्य, कथं=केन प्रकारेण, न जिह्नेषि=न लज्जसे।

**व्युत्पत्तिः—**दुःस्थः=दुष्ठु तिष्ठतीति, “आतश्चोपसर्गे” इति कर्तरि कप्रत्ययः।दुष्ठुरिति जयमङ्गलाऽङ्गीकृतः पाठस्तत्राऽपि स एवाऽर्थः। औणादिकः कुप्रत्ययः।प्रजाः=प्रजायन्ते इति प्रजास्ताः, “उपसर्गे च संज्ञायाम्” इति जनेर्डः। “प्रजास्यात्सन्ततौ जने” इत्यमरः। आत्माऽनुजस्य=आत्मानमनुजात आत्माऽनुजस्तस्य,“अनौ कर्मणि” इति डः। सौमित्रेः=सम्बन्धसामान्ये षष्ठी।

**भावाऽर्थः—**स्वयमधार्मिकस्त्वं कथं प्रजापालनं करिष्यसि ? स्वस्य कनीयसो लक्ष्मणाद्वा कथं न लज्जसे?

** भाषाऽर्थः—**स्वयम् अधार्मिक हो कर तुम कैसे प्रजापालन करोगे ? अथवातुम अपने छोटे भाई लक्ष्मणसे भी क्यों लज्जित नहीं होते हो?॥१३५॥

मन्ये किञ्जमहं घ्नन्तं त्वामक्षत्रियजे रणे।
लक्ष्मणाऽधिज ! दुर्वृत्तं प्रयुक्तमनुजेन नः॥१३६॥

**अन्वयः—**हे लक्ष्मणाऽधिज ! नः अनुजेन प्रयुक्तं दुर्वृत्तम् अक्षत्रियजे रणेघ्नान्तं त्वाम् अहं किञ्जं मन्ये।

**प्रयोगप०—**हे लक्ष्मणाऽधिज ! प्रयुक्तो दुर्वृत्तो घ्नन् त्वं मया किलो मन्यसे।

** व्याख्या—**हे लक्ष्मणाऽधिज=हेलक्ष्मणाग्रज, नः=अस्माकम् (ममेत्यर्थः),अनुजेन=कनीयसा (सुग्रीवेणेत्यर्थः), प्रयुक्तं= प्रेरितं, दुर्वृत्तं=दुश्चरित्रम्, अक्षत्रियजे=क्षत्रियादसंभूते, रणे=युद्धे, घ्नन्तं व्यापादयन्तं, त्वां=रामम्, अहं=वाली,किञ्जं=कुतोऽपि जातं (न दशरथजमित्यर्थः), मन्ये=उत्प्रेक्षे।

व्युत्पत्तिः—“अन्येष्वपि दृश्यते” इत्यस्योदाहरणान्याह—मन्य इति। तत्राऽपिशब्दस्य सर्वोपाधिव्यभिचाराऽर्थत्वात्तथैव प्रदर्शयति। हे लक्ष्मणाऽधिज=अधिजातोऽधिजः, “उपसर्गे च संज्ञायाम्” इत्यस्य व्यभिचारः, प्रजेतिवदसंज्ञत्वात्।लक्ष्मणस्याऽधिजो लक्ष्मणाऽधिजस्तत्सम्बुद्धौ (ष० त०)। अनुजेन=अनुजातोऽनुजस्तेन “अनौ कर्मणि” इत्यस्य व्यभिचारः, कर्मणोऽनुपपदत्वात्। दुर्वृत्तं=दुष्टंवृत्तं यस्य स दुर्वृत्तस्तं (बहु०), “वृत्तं पद्ये चरित्रे च” इत्यमरः। अक्षत्रियजे=क्षत्रियाज्जातं क्षत्रियजं “पञ्चम्यामजातौ” इत्यस्य व्यभिचारः, क्षत्रियशब्दस्य

जातिवाचित्वात्। न क्षत्रियजमक्षत्रियजं, तस्मिन् (नञ्०)। किञ्जं=कुतोऽपिजातः किञ्जस्तं, “सप्तम्यां जनेर्ड” इत्युक्तस्य सप्तमीव्यभिचारः।सर्वत्रापि“अन्येष्वपि दृश्यते” इति डः इति प्रागुक्तम्।

**भावाऽर्थः—**हे राम ! ममाऽनुजेन सुग्रीवेण प्रेरितं दुराचारमत एव क्षत्रियादसम्भूते रणे छद्मना निरपराधं मां मारयन्तं त्वामहं दशरथजं न मन्ये।

**भाषाऽर्थः—**हे राम ! मेरे भाई सुग्रीवकी प्रेरणासे क्षत्रियसे असंभूतरणमें निरपराध मुझको मारनेवाले दुश्चरित्र तुमको, दशरथका पुत्र भी नहींमानता हूं॥१३६॥

अथाऽनुपपदाऽधिकारः।

प्रत्यूचे वालिनं रामो नाऽकृतं कृतवानहम्।
यज्वभिः सुत्वभिः पूर्वैर्जरद्भिश्च कपीश्वर !॥१३७॥

**अन्वयः—**रामः वालिनं प्रत्यूचे—“हे कपीश्वर ! अहं पूर्वैः यज्वभिः सुत्वभिः जरद्भिश्च अकृतम् न कृतवान्”।

**प्रयोगप०—**रामेण वाली प्रत्यूचे—“हे कपीश्वर ! मया अकृतं न कृतम्”।

**व्याख्या—**रामः=रामचन्द्रः, वालिनं=सुग्रीवभ्रातरं, प्रत्यूचे=प्रत्युवाच, हेकपीश्वर=हे वानरपते, अहं=रामः, पूर्वैः=पुरातनैः, यज्वभिः=विधिवदिष्टवद्भिः,सुत्वभिः=सोमयाजिभिः, जरद्भिश्च=वृद्धैश्च, अकृतम्=अनाचरितं कर्म, न कृतवान्=न अनुष्ठितवान् (अपितु तत्कृतमेवाऽकार्षमित्यर्थः)।

**व्युत्पत्तिः—**यज्वभिः=इष्टवन्त इति यज्वानस्तैः। सुत्वभिः=सुतवन्त इतिसुत्वानस्तैः, उभयत्र “सुयजोड्वनिप्” इति ड्वनिप्। जरद्भिः=जीर्यन्ति स्मेतिजरन्तस्तैः, “जॄष वयोहानौ” इति धातोः“जीर्यतेरतृन्” इति अतृन्। “प्रवयाःस्थविरो वृद्धो जीनो जीर्णो जरन्नपि।” इत्यमरः। अकृतम्=न कृतम् (नञ्०)।‘कृतमि’त्यत्र “निष्ठा” इति क्तप्रत्ययः। कृतवान्=पूर्वसूत्रेणैव क्त्वतुप्रत्ययः।

**भावाऽर्थः—**रामो वालिनं प्रत्यब्रवीत्—“हे कपीश्वर ! अहं पुरातनैर्विधिनेष्टवद्भिः सोमयाजिभिर्वृद्धैश्च अनुष्ठितमेव कर्म अनुष्ठितवान्”।

**भाषाऽर्थः—**रामने वालीको उत्तर दिया—“हे वानरराज !मैंनेपुरातन,विधिपूर्वक यज्ञ करनेवाले, सोमयाजी और वृद्धजनोंसे अनुष्ठित कर्मका ही अनुष्ठानकिया है॥१३७॥

किं तैः कृतं तदाह—

ते हि जालैर्गले पाशैस्तिरश्चामुपसेदुषाम्।
ऊषुषां परदारैश्च सार्धं निधनमैषिषुः॥१३८॥

**अन्वयः—**ते उपसेदुषां तिरश्चां परदारैः सार्धम् ऊषुषां च जालैः गले पाशैश्च निधनमैषिषुः हि।

**प्रयोगप०—**तैः निधनम् ऐषि।

**व्याख्या—**ते=वृद्धाः मन्वादयः, उपसेदुषाम्=उपसन्नानाम् (उपसद्योपद्रवकारिणामित्यर्थः), तिरश्चां=पशुपक्ष्यादीनां (भवादृशामित्यर्थः), परदारैः=परस्त्रीभिः, सार्धं=सह, ऊषुषां च=उषितवतां च, जालैः=वागुराभिः, गले=कण्ठे,पाशैश्च=बन्ध-विशेषैश्च, निधनं=वधम्, ऐषिषुः=अमंसतेत्यर्थः। वृद्धानामपि परोपद्रवकारिणस्तिर्यञ्चोऽपि दण्ड्याएवेत्यर्थः), हि=निश्चयेन।

**व्युत्पत्तिः—**उपसेदुषाम्=उपासीदन् इति उपसेदिवांसस्तेषाम् “भाषायांसदवसश्रुवः” इति क्वसुः। तिरश्चां=तिरोऽञ्चन्तीति निर्यञ्चस्तेषाम्, “ऋत्विगि”त्यादिना क्विन्, आमि “अचः” इत्यल्लोपः। परदारैः=परेषां दाराः परदारास्तैः(ष० त०), “भार्या जायाऽथ पुम्भूम्नि दाराः” इत्यमरः। “सहयुक्तेऽप्रधाने”इति तृतीया। ऊषुषाम्=“भाषाया”मित्यादिना क्वसुः। यजादित्वाद्वसेः सम्प्रसारणम्। ऐषिषुः=इषेर्लुङि झेरुसादेशः।

**भावाऽर्थः—**वृद्धा मन्वादयः स्मृतिशास्त्रकर्तार उपसद्योपद्रवकारिणां पशुपक्ष्यादीनां परस्त्रीसङ्गतानां च वागुराभिः कण्ठे पाशैश्च वधमादिष्टवन्तः।

**भाषाऽर्थः—**वृद्ध मनु आदि स्मृतिशास्त्रके रचयिताओंने समीपमें उपद्रवकरनेवाले पशु पक्षी आदियोंका और परस्त्रीके साथ समागम करनेवालोंका जालसे पकड़ कर और गलेपर पाश डाल कर मारनेका निर्देश किया है॥१३८॥

अस्तु मया किमपराद्धमत आह—

अहं तु शुश्रुवान्भ्रात्रा स्त्रियं भुक्तां कनीयसा।
उपेयिवाननूचानैर्निन्दितस्त्वं लतामृग !॥१३९॥

** अन्वयः—**हे लतामृग ! अहं तु “कनीयसा भ्रात्रा भुक्तां स्त्रियम् उपेयिवान्त्वम् अनूचानैः निन्दितः” इति शुश्रुवान्।

**प्रयोगप०—**हे लतामृग ! मया तु “उपेयिवांसं त्वाम् अनूचाना निन्दित-

वन्तः।” इति श्रुतम्।

**व्याख्या—**हे लतामृग=हे वानर, अहं तु=रामस्तु, कनीयसाभ्रात्रा=अनुजेन (सुग्रीवेण इत्यर्थः), भुक्तां=कृतभोगां, स्त्रियं= नारीम् (भ्रातृपत्नीमित्यर्थः),उपेयिवान्=सञ्जग्मिवान् त्वं ज्यायान् भ्राता (वालीत्यर्थः), अनूचानैः=साऽङ्गवेदाऽध्यायिभिः, निन्दितः=गर्हितः (असीति शेषः), इति इत्थं, शुश्रुवान्=अश्रौषम् (तस्मात्पारदारिकस्त्वमाततायित्वाद्वध्य एवेत्यर्थः)।

** व्युत्पत्तिः—**हे लतामृग=लताचारी मृगो लतामृगस्तत्सम्बुद्धौ, मध्यमपदलोपी समासः। कनीयसा=अतिशयेन युवाऽल्पो वा कनीयान्, तेन “द्विवचनविभज्योपपदे तरबीयसुनौ” इतीयसुनि “युवाऽल्पयोः कनन्यतरस्याम्” इति कनादेशः। उपेयिवान्= उपपूर्वादिणः “उपेयिवाननाश्वाननूचानश्च” इति क्वसुप्रत्ययाऽन्तो निपातः। अनूचानैः=अन्ववोचन्निति अनूचानास्तैः, पूर्वसूत्रेणैव वचेःकानच्प्रत्ययाऽन्तो निपातः। “अनूचानः प्रवचने साऽङ्गेऽधीती” इत्यमरः।

**भावार्थः—**हे मर्कट ! “अनुजपत्नीं बलादाहृत्य त्वमुपभुक्तवानतो वेदवृद्ध्यैर्निन्दित” इति मयाऽऽकर्णितम्।

**भाषाऽर्थैः—**हे बालिन् ! “छोटे भाईकी पत्नीको रखनेके कारण तुम वेदवृद्धजनोंसे निन्दित हो गये हो” यह बात हमने सुनी है॥१३९॥

अन्वनैषीत्ततो वाली त्रपावानिव राघवम्।
न्यक्षिपच्चाऽङ्गदं यत्नात्काकुत्स्थे तनयं प्रियम्॥१४०॥

**अन्वयः—**ततः वाली त्रपावान् इव राघवम् अन्वनैषीत्, प्रिथं तनयमङ्गदं चत्वात् काकुत्स्थे न्यक्षिपत्।

**प्रयोगप०—**वालिना त्रपावता इव राघवोऽन्वनायि, प्रियस्तनयोऽङ्गदश्च का’कुत्स्थे न्यक्षेपि च।

**व्याख्या—**ततः=रामवाक्याऽनन्तरं, वाली=सुग्रीवभ्राता, त्रपावान् इव=किञ्चिल्लज्जितः सन्, राघवं=रामम्, अन्वनैषीत्= अनुनीतवान् (“अज्ञोऽयंजनः क्षम्यतामित्यनुनीतवानित्यर्थः), प्रियम्=अभीप्सितं, तनयं=पुत्रम्, अङ्गदंच=अङ्गदनामकं च, यत्नात्=अभिनिवेशात्, काकुत्स्थे=रामे, न्यक्षिपत्=निक्षिप्तवान् (रक्ष्योऽयमिति हस्ते न्यस्तवानित्यर्थः)।

**व्युत्पत्तिः—**भूताऽर्थे कृदन्तानुदाहृत्य सूत्रक्रमेण तिङन्तानुदाहरति।

अन्वनैषीत्=अनुपूर्वात् नयतेः“लुङ्” इति भूते लुङि च्लेः सिचीट्। न्यक्षिपत्=क्षिपेरनद्यतनभूते लङ्।

**भावाऽर्थः—**ततो वाली किञ्चिल्लज्जितः सन् राघवमनुनीय प्रियपुत्रमङ्गदंच रक्ष्यत्वेन रामहस्ते न्यस्तवानित्यर्थः।

**भाषाऽर्थः—**तब कुछ लज्जित हो कर रामचन्द्रको मनाकर वालीने रक्षाकेलिए अपने प्रिय पुत्र अङ्गदको यत्नपूर्वक रामचन्द्रको सौंपा॥१४०॥

म्रियमाणः स सुग्रीवं प्रोचे सद्भावमागतः।
सम्भविष्याव एकस्यामभिजानासि मातरि॥१४१॥

**अन्वयः—**स म्रियमाणः सद्भावम् आगतः सुग्रीवं प्रोचे (हे वत्स !) एकस्यां मातरि सम्भविष्यावः (इति) अभिजानासि।

** प्रयोगप०—**तेन म्रियमाणेन आगतेन (सता) सुग्रीवः प्रोचे, सम्भविष्यते(इति) अभिज्ञायते।

**ब्याख्या—**सः=वाली, म्रियमाणः=प्राणांस्त्यजन्, सद्भावं=साधुभावम् (सौजन्यमित्यर्थः), आगतः=प्राप्तः (सन्), सुग्रीवं= स्वभ्रातरं, प्रोचे=प्रोवाच,(हे वत्स !) एकस्याम्=एकसंख्यायाम् एव, मातरि=जनन्यां, सम्भविष्यावः=संभृतावित्यर्थः, (इति=इमां वार्ताम्) अभिजानासि=स्मरसि।

** व्युत्पत्तिः—**संभविष्यावः=“अभिज्ञावचने लृट्” इत्यभिज्ञावचन उपपदेभूताऽनद्यतने लृट्। अभिजानासीत्येतदभिज्ञा-वचनम्। अभिज्ञा स्मृतिः।

**भावार्थः—**वाली प्राणांस्त्यजन् सुजनो भूत्वा सुग्रीवमुवाच—हे वत्स ! आवामेकस्यामेव मातरि संभूतौ, एतत् स्मरसि ?

** भाषाऽर्थः—**वाली प्राणत्याग करता हुआ सद्भावपूर्वक सुग्रीवसे कहने लगा–“हे वत्स ! हम दोनों एक ही मातासे उत्पन्न हुए हैं, स्मरण है॥१४१॥

अवसाव नगेन्द्रेषु यत्पास्यावो मधूनि च।
अभिजानीहि तत्सर्वं बन्धूनां समयो ह्ययम्॥१४२॥

अन्वयः—(हे वत्स !) यत् नगेन्द्रेषु अवसाव, मधूनि च पास्यावः, तत्सर्वम् अभिजानीहि, बन्धूनाम् अयं समयः हि।

**प्रयोगप०—**नगेन्द्रेषु औष्यत, मधूनि पास्यन्ते, तत् सर्वम् अभिज्ञायताम्।अनेन समयेन (भूयते) हि।

व्याख्या—(हे वत्स=हे भ्रातः !) यत्, नगेन्द्रेषु=पर्वतश्रेष्ठेषु, अवसाव=उषितवन्तौ, मधूनि च=पुष्परसान् वा क्षौद्राणि च, पास्यावः=पीतवन्तौ, तत्=पूर्वोक्तं, सर्वं=सकलम्, अभिजानीहि=स्मर, बन्धूनां=बान्धावानाम्, अयम्=एषः, समयः=कालः, हि=निश्चयेन।

**व्युत्पत्तिः—**अवसाव=अत्र वासमात्रप्रत्यभिज्ञावचनमुपपदम्। तस्य यच्छब्दयोगात् “न यदि” इति लृण्निषेधाल्लङेव। पास्यावः=“विभाषा साकाङ्क्षे"इति पक्षे यच्छब्दसहिते साकाङ्क्षे प्रत्यभिज्ञावचने उपपदे विकल्पाद्भूते लृट्।साकाङ्क्षता च प्रयोक्तुर्लक्ष्यलक्षणयोः सम्बन्धे। तत्र वासो लक्षणं पानं च लक्ष्यमिति।

**भावाऽर्थः—**हे वत्स ! आवां यत् पर्वतेषु उषितवन्तौ, मधु पीतवन्तौ चतत्सर्वं स्मर। बन्धूनामयं कालः।

**भाषाऽर्थः—**हे वत्स ! हम दोनों जो पर्वतमें रहते थे और मधुपान करतेथे, उन सब बातोंकी याद करो। बन्धुओंका यही समय है॥१४२॥

दैवं न विदधे नूनं युगपत्सुखमावयोः।
शश्वद्बभूव तद्दुःस्थं यतो नाविति हाऽकरोत्॥१४३॥

**अन्वयः—**नूनं दैवम् आवयोः युगपत् सुखं न विदधे, (तथा हि) तत्शश्वत् दुःस्थं बभूव; यतः नौ इति ह अकरोत्।

**प्रयोगप०—**दैवेन सुखं न विदधे, तेन दुःस्थेन बभूवे; (तेन) आवाम्इति ह अक्रियावहे।

**व्याख्या—**नूनम्=अवश्यं, दैवं=भाग्यम्, आवयोः=भ्रात्रोः, युगपत्=समं(एककालमित्यर्थः), सुखम्=आनन्दं (सहोपभोगसुखमित्यर्थः), न विदधे=नचकार। (तथा हि) तत्=दैवं, शश्वत्=सदा, दुःस्थं=प्रतिकूलं, बभूव=अभवत्, यतः=यस्मात्, नौ=आवाम्, इति ह=एतादृशौ (परस्परविरोधिनावित्यर्थः),अकरोत्=कृतवान्।

**व्युत्पत्ति—**विदधे=“परोक्षे लिट्” इति भूतानद्यतनपरोक्षार्थे लिट्। बभूव=“हशश्वतोर्लङ् च” इति चकाराच्छश्वच्छन्द उपपदे लिट्। “नौ” इत्यत्र ‘न’इति जयमङ्गलभरतमल्लिकसम्मतः पाठः। अकरोत्=पूर्वसूत्रेणैव हशब्द उपपदे तस्मिन्नेवाऽर्थे लङ्।

**भावाऽर्थः—**अवश्यं प्रतिकूलं भाग्यमेवाऽऽवयोर्भ्रात्रोः सहोपभोगसुखस्य

बाधकमभूदत एव आवां परस्परविरोधिनावकरोत्।

**भाषाऽर्थः—**अवश्य भाग्यहीने निरन्तर प्रतिकूल हो कर हम दोनोंको एक हीसाथ सुख नहीं भोगने दिया, जिससे कि हम दोनोंको परस्पर विरोधी बनाया॥१४३॥

ददौ स दयितां भ्रात्रे मालां चाऽग्न्यांहिरण्मयीम्।
राज्यं सन्दिश्य भोगांश्च ममार व्रणपीडितः॥१४४॥

**अन्वयः—**स भ्रात्रे दयिताम् अग्न्यांहिरण्मयीं मालां च ददौ, राज्यं भोगांश्च सन्दिश्य व्रणपीडितः (सन्) ममार।

**प्रयोगप०—**तेन भ्रात्रे दयिता अग्न्याहिरण्मयी माला च ददे, व्रणपीडितेन(सता) मम्रे।

**व्याख्या—**सः=वाली, भ्रात्रे=अनुजाय (सुग्रीवाय), दयितां=प्रियां(तत्पत्नीम्), अग्न्यां=श्रेष्ठां, हिरण्मयीं=सुवर्णमयीं, मालां च=माल्यं (हेमाऽब्जमालाम्) च, ददौ=दत्तवान्, राज्यं=किष्किन्धाराज्यं, भोगांश्च=राज्याऽङ्गानि च (“भृत्यांश्च” इति मल्लिनाथसंमतः पाठः)। सन्दिश्य दत्वा, (“साधु पालये”त्युपदिश्येति मल्लिनाथसंमतोऽर्थः) व्रणपीडितः=प्रहारव्यथितः (सन्),ममार=मृतः।

**व्युत्पत्तिः—**ममार=“परोक्षे लिट्” इति लिट्।

**भावाऽर्थः—**वाली सुग्रीवाय तत्पत्नीं (ताराम्) सुवर्णमयीं मालां च अदात् एवं राज्यं राज्याङ्गानि च दत्वा शरीरमत्याक्षीत्।

**भाषाऽर्थः—**वालीने सुग्रीवको उनकी पत्नी और उत्तम सुवर्णमयी माला दे दी एवं राज्य और राज्याऽङ्गोंको दे कर प्रहारसे पीडित हो प्राणत्याग किया॥१४४॥

तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाऽऽज्ञया।
किष्किन्धाऽद्रिगुहां गन्तुं मनः प्रणिदधे द्रुतम्॥१४५॥

**अन्वयः—**सुग्रीवः तस्य कर्तव्यं निर्वर्त्य राघवाऽऽज्ञया द्रुतं किष्किन्धाऽद्रिगुहां गन्तुं मनः प्रणिदधे।

**प्रयोगप०—**सुग्रीवेण मनः प्रणिदधे।

**व्याख्या—–**सुग्रीवः=वाल्यनुजः, तस्य=वालिनः,कर्तव्यम्=और्ध्वदेहिकंकृत्यं, निर्वर्त्य=कृत्वा, राघवाऽऽज्ञया= रामाऽऽदेशेन, द्रुतं=शीघ्रं, किष्किन्धाऽद्रिगुहां=किष्किन्धाख्यं पर्वतकन्दरं, गन्तुं=यातुं ,मनः=चित्तं, प्रणिदधे=चकार(किष्किन्धां गन्तुमैच्छदित्यर्थः)।

**व्युत्पत्तिः—**किष्किन्धाऽद्रिगुहाम्=अद्रेर्गुहा अद्रिगुहा (ष० त०), किष्किन्धाचाऽसौ अद्रिगुहा किष्किन्धाऽद्रिगुहा, ताम् (क० धा०)। प्रणिदघे=परोक्षे लिट्।

**भावाऽर्थः—**सुग्रीवो वालिन और्ध्वदेहिकं कृत्यं कृत्वा रामाज्ञया सत्वरंकिष्किन्धां गन्तुमैच्छत्।

**भाषार्थः—**सुग्रीवने वालीका और्ध्वदेहिक आदि कार्य करके रामचन्द्रकीआज्ञासे किष्किन्धामें जानेकी इच्छा की॥१४५॥

नामग्राहं कपिभिरशनैः स्तूयमानः समन्ता-
दन्वग्भावं रघुवृषभयोर्वानरेन्द्रो विराजन्।
अभ्यर्णेऽम्भःपतनसमये पर्णलीभूतसानुं
किष्किन्धाऽद्रिं न्यविशत मधुक्षीबगुञ्जद्विरेफम्॥१४६॥

**अन्वयः—**वानरेन्द्रः समन्तात् कपिभिः नामग्राहम् अशनैः स्तूयमानः रघुवृषभयोः अन्वग्भावं विराजन् अम्भःपतनसमये अभ्यर्णे (सति) पर्णलीभूतसानुंमधुक्षीबगुञ्जद्द्विरेफं किष्किन्धाऽद्रिन्यविशत।

**प्रयोगप०—**वानरेन्द्रेण स्तूयमानेन विराजता पर्णलीभूतसानुर्मधुक्षीबगुञ्जद्द्विरेफः किष्किन्धाऽद्रिर्न्यविश्यत।

**व्याख्या—**वानरेन्द्रः=सुग्रीवः, समन्तात्=सर्वतः, कपिभिः=वानरैः (हनूमदादिभिः), नामग्राहं=नाम गृहीत्वा, अशनैः= अमन्दं, स्तूयमानः=प्रशस्यमानः,रघुवृषभयोः=रामलक्ष्मणयोः, अन्वग्भावम्=अन्वग् भूत्वा (अनुकूलीभूयेत्यर्थः),विराजन्=दीप्यमानः, अम्भःपतनसमये=वर्षाकाले, अभ्यर्णे=आसन्ने (सति),पर्णलीभूतसानुं= पर्णवद्भूतप्रस्थं, मधुक्षीबगुञ्जद्द्विरेफं=मकरन्दमत्तकूजद्भ्रमरं, किष्किन्घाऽद्रिं=किष्किन्धापर्वतं, न्यविशत्=प्राविशत्।

**व्युत्पत्तिः—**नामग्राहं=“नाम्न्यादिशिग्रहोः” इति णमुल्। स्तूयमानः=स्तूयते इतिस्तौतेः कर्मणि लटि “लक्षणहेत्वोः क्रियायाः” इति शानच्। अन्वग्भावम्=“अन्वच्यानुलोम्ये” इति भवतेर्णमुल्प्रत्ययः। विराजन् लक्षणे लटः शत्रादेशः। पर्णलीभूतसानुं=पर्णानि सन्ति येषां ते पर्णलाः, “सिध्मादिभ्यश्च” इति मत्वर्थेलच्।अपर्णलाः पर्णला यथा सम्पद्यन्ते तथा भूताः पर्णलीभूताः, “कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः” इति च्विः “च्वौ च” इति दीर्घः। पर्णलीभूताः सानवो यस्य सपर्णलीभूत-सानुस्तम् (बहु०)। “पर्णलीभूतसानुम्” इति मल्लिनाथसम्मतः

पाठस्तत्र पर्णाः सन्ति येषामित्यादिप्रक्रिया पूर्ववत् ज्ञेया। मधुक्षीबगुञ्जद्द्विरेफं=मधुक्षीबागुञ्जन्तो द्विरेफा यस्य स मधुक्षीबगुञ्जद्द्विरेफस्तम् (बहु०)। न्यविशत=निपूर्वात् “विश प्रवेशने” इति धातोर्लङि “नेर्विश” इति तङ्। मन्दाक्रान्तावृत्तं,“मन्दाक्रान्ता जलधिषडगैम्भौ नतौ ताद्गुरू चेत्।” इति तल्लक्षणम्।

**भावार्थः—**सुग्रीवः सर्वतो वानरैः प्रशस्यमानः रामलक्ष्मणयोरानुकूल्येनदीप्यमानः सन् वर्षर्तौनिकटे पुष्परसपातृभिः कूजद्भिर्भ्रमरैर्युक्तां किष्किन्धां प्रविष्टः।

**भाषाऽर्थः—**चारों तरफ वानरलोग नामग्रहणपूर्वक ऊंचे स्वरसे सुग्रीवकीस्तुति करने लगे, और राम तथा लक्ष्मणकी अनुकूलतासे शोभित होते हुए उन्होंनेवर्षाकालके निकटवर्ती होनेपर पर्णवाले प्रस्थोंसे युक्त और पुष्परसके पानसे मत्ततथा झङ्कार करनेवाले भ्रमरोंसे शोभित किष्किन्धामें प्रवेश किया॥१४६॥

इति श्रीभट्टिकाव्ये व्याख्याद्वयोपेते अधिकारकाण्डे
वालिवधो नाम षष्ठः सर्गः।

<MISSING_FIG href=”../books_images/U-IMG-1723217670आआ.png”/>

सिद्धिनन्दनिधिचन्द्रमितेऽब्देवैक्रमे हरिदिने सितचैत्रे।
रामपादयुगसंस्मृतिपूर्वं पूरिता कृतिरियं तनुरूपम्॥

माता हेमकुमारिका सुकृतिनी सौभाग्यभव्याऽन्विता
सत्कीर्तिर्द्विजचन्द्रको बुधवरः श्रीदेवचन्द्रः पिता।

नामं नाममहं तदीयचरणद्वन्द्वं करोम्यादरात्
व्याख्यां चन्द्रकलाऽभिधां सुविशदां छात्रप्रमोदाऽर्थकाम्॥

विद्यायां, विनये, नये, सुहृदये, लोकोपकारे महान्
सद्धर्मप्रवणो विचक्षणगणाऽग्रीयो गुणाऽलङ्कृतः।
साहित्यप्रथितो मृदुः कृतमुखः सङ्गीतविद्यासुधी-
स्तातः स्वर्गतदेवचन्द्रसुकृती कृत्याऽनया प्रीयताम्॥

भारद्वाजकुलाऽब्धिनिर्मलविधौ विद्यादयाभूषिते
श्रीगङ्गाधरशास्त्रिपूज्यचरणेऽकालं दिवं प्रस्थिते।
तच्छोकेन विमूढधीरपि हि तत्कीर्त्या प्रबोधाऽन्वितः
स्मारं स्मारमहं तदीयसुकृतं, व्याख्यानमेतद्व्यधाम्॥

इति शुभम्।

<MISSING_FIG href=”../books_images/U-IMG-1723217929आआआ.png”/>

प्रथमसर्गान्तर्गतानां धातूनां समासतो रूपाणि।

** भू—**सत्तायाम्। लट्–भवति। लिट्–बभूव। लुट्–भविता। लृट्–भविष्यति।लोट्–भवतु, भवतात्। लङ्–अभवत्। विधिलिङ्–भवेत्। आशीर्लिङ्–भूयात्।लुङ्–अभूत्। ऌङ्–अभविष्यत्।

** गम्लृ—**गतौ। गच्छति। जगाम। गन्ता। गमिष्यति। गच्छतु, तात्।अगच्छत्। गच्छेत्। गम्यात्। अगमत्। अगमिष्यत्।

**इङ्—**अध्ययने (नित्योऽयमधिपूर्वः)। अधीते। अधिजगे। अध्येता।अध्येष्यते। अधीताम्। अध्यैत। अधीयीत। अध्येषीष्ट। अध्यगीष्ट–अध्यैष्ट।अध्यगीष्यत–अध्यैष्यत। (कर्मणि लटि–अधीयते। लुङि–अध्यगायि–अध्यायि)।

**यज—**देवपूजादौ। यजति–ते। इयाज–ईजे। यष्टा। यक्ष्यति–ते। यजतु–ताम्।अयजत्–त। यजेत्–त। इज्यात्–यक्षीष्ट। अयाक्षीत्–अयष्ट। अयक्ष्यत्–अयक्ष्यत।

**पॄ—**पालनपूरणयोः। पिपर्ति। पपार। परीता–परिता। परीष्यति–परिष्यति।पिपर्तु। अपिपः। पिपूर्यात्। पूर्यात्। अपारीत्। अपरीष्यत्–अपरिष्यत्।

**मन—**ज्ञाने।मन्यते। मेने। मन्ता। मंस्यते। मन्यताम्। अमन्यत।मन्येत। मंसीष्ट। अमंस्त। अमंस्यत।

**जि—**जये। जयति। जिगाय। जेता। जेष्यति। जयतु। अजयत्। जयेत्।जीयात्। अजैषीत्। अजेष्यत्। कर्मणि लटि–जीयते। लिटि–जिग्ये। लुङि–अजायि। (‘विपराभ्यां जेः’ इति विपूर्वाज्जेरात्मनेपदम्। विजयते। विजिग्ये। विजेता।विजेष्यते। विजयताम्। व्यजयत। विजयेत। विजेषीष्ट। व्यजेष्ट। व्यजेष्यत।

**रमु—**क्रीडायाम्। रमते। रेमे। रन्ता। रंस्यते। रमताम्। अरमत।रमेत। रंसीष्ट। अरंस्त। अरंस्यत।

**हन—**हिंसागत्योः। हन्ति। जघान। हन्ता। हनिष्यति। हन्तु–हतात्।अहन्। हन्यात्। वध्यात्। अवधीत्। अहनिष्यत्। कर्मणि लटि–हन्यते।लिटि–जघ्ने। लुटि, हनिष्यते–घानिष्यते। लुङि, अवधि–अघानि।

**कॄ—**विक्षेपे। किरति। चकार। करीता–करिता। करीष्यति–करिष्यति।किरतु। अकिरत्। किरेत्। कीर्यात्। अकारीत्। अकरीष्यत्–अकरिष्यत्।

**वस—**निवासे। वसति। उवास। वस्ता। वत्स्यति। वसतु। अवसत्।

वसेत्। उष्यात्। अवात्सीत्। अवत्स्यत्।

** ष्ठा—**गतिनिवृत्तौ। तिष्ठति। तस्थौ। स्थाता। स्थास्यति। तिष्ठतु। अतिष्ठत्। तिष्ठेत्। स्थेयात्। अस्थात्। अस्थास्यत्। भावे लटि–स्थीयते। लृटि–स्थायिष्यते–स्थास्यते। (उप+ष्ठा)–उपतिष्ठते।उपतस्थे। उपस्थाता।उपस्थास्यते। उपतिष्ठताम्। उपातिष्ठत। उपतिष्ठेत। उपस्थासीष्ट। उपास्थित।उपास्थास्यत।

**असु—**क्षेपणे। अस्यति। आस। असिता। असिष्यति। अस्यतु। आस्यत्।अस्येत्। अस्यात्। आस्थत्। आसिष्यत्।

** ज्वल—**दीप्तौ। ज्वलति। जज्वाल। ज्वलिता। ज्वलिष्यति। ज्वलतु।अज्वलत्। ज्वलेत्। ज्वल्यात्। अज्वालीत्। अज्वलिष्यत्।

** आस—**उपवेशने। आस्ते। आसाञ्चक्रे–बभूव–आसामास। आसिता। आसिष्यते। आस्ताम्। आस्त। आसीत। आसिषीष्ट। आसिष्ट। आसिष्यत।

** भा—**दीप्तौ। भाति। बभौ। भाता। भास्यति। भातु। अभात्। भायात्।भायात्। अभासीत्। अभास्यत्।

** णीङ—**प्रापणे। नयति। निनाय, निन्ये। नेता। नेष्यति–ते। नयतु, ताम्।अनयत्–त। नयेत् नयेत। नीयात् नेषीष्ट। अनैषीत्, अनेष्ट। अनेष्यत्,त। कर्मणि लटि–नीयते। लुङि–अनायि।

**ईह—**चेष्टायाम्। ईहते। ईहाञ्चक्रे। ईहिता। ईहिष्यते। ईहताम्। ऐहत।ईहेत। ईहिषीष्ट। ऐहिष्ट। ऐहिष्यत।

** तनु—**विस्तारे। तनोति, तनुते। ततान, तेने। तनिता। तनिष्यति, ते।तनोतु, तनुताम्। अतनोत् अतनुत। तनुयात्, तन्वीत। तन्यात्, तनिषीष्ट।अतानीत्–अतनीत्, अतत–अतनिष्ट। अतनिष्यत्, त।

** हु–**दानादनयोः। जुहोति। जुहाव–जुहवाञ्चकार। होता। होष्यति। जुहोतु।अजुहोत्। जुहुयात्। हूयात्। अहौषीत्। अहोष्यत्।

** मार्ग—**अन्वेषणे प्रार्थने च। मार्गति। ममार्ग। मार्गिष्यति। मार्गतु। अमार्गत्।मार्गेत्। मार्ग्यात्। अमार्गीत्। अमार्गिष्यत्। (पक्षान्तरे–मार्गयति इत्यादि वा)।

**अश—**भोजने। अश्नाति। आश। अशिता। अशिष्यति। अश्नातु आश्नात्।अश्नीयात्। अश्यात्। आशीत्। आशिष्यत्।

** षूङ—**प्राणिगर्भविमोचने। सूते। सुषुवे। सोता–सविता। सोष्यते–

सविष्यते। सूताम्। असूत। सुवीत। सविषीष्ट–सोषीष्ट। असविष्ट असोष्ट।असोष्यत–असविष्यत। (कर्मणि लटि–सूयते। लुङि–असावि)।

**अर्च—**पूजायाम्। अर्चति। आनर्च। अर्चिता। अर्चिष्यति। अर्चतु।आर्चत्। अर्चेत्। अर्ध्यात्। आर्चीत्। आर्चिष्यत्।

**षिध—**गत्याम्। सेधति। सिषेध।सेधिता। सेधिष्यति। सेधतु। असेधत्।सेधेत्। सिध्यात्। असेधीत्। असेधिष्यत्।

** यम—**उपरमे। यच्छति। ययाम। यन्ता। यंस्यति। यच्छतु। अयच्छत्। यच्छेत्। यम्यात्। अयंसीत्। अयंस्यत्। (कर्मणि लटि–यम्यते।लुङि––अयमि–अयामि।)

** इणू—**गतौ। एति। इयाय। एता। एष्यति। एतु। ऐत्। इयात्। ईयात्।अगात्। ऐष्यत। (कर्मणि लटि–ईयते। लुङि–अगायि)।

** अर्ह—**पूजायाम्। अर्हयति। अर्हयांबभूव–अर्हयामास–अयाञ्चकार। अर्हयिता। अर्हयिष्यति। अर्हयतु। आर्हयत्। अर्हयेत्। अर्ह्यात्। आर्जिहत्।आर्हयिष्यत् (कर्मणि–अर्ह्यते। आर्हि)।

** इष—**गतौ। इष्यति। इयेष। एषिता। एषिष्यति। इष्यतु। ऐष्यत्।इष्येत्। इष्यात्। ऐषीत्। ऐषिष्यत्।

** वृतु—**वर्तने। वर्तते। ववृते। वर्तिता। वर्तिष्यते–वर्त्स्यति। वर्तताम्। अवर्तत। वर्तेत। वर्तिषीष्ट। अवृतत्–अवर्तिष्ट। अवर्तिष्यत–अवर्त्स्यत्। भावे–वृत्यते।

** बुध—**अवगमने \। बुध्यते। बुबुधे। बोद्धा। भोत्स्यते। बुध्यताम्। अबुध्यत। बुध्येत। भुत्सीष्ट। अबोधि–अबुद्ध। अभोत्स्यत।

** वद—**व्यक्तायां वाचि। वदति। उवाद। वदिता। वदिष्यति। वदतु।अवदत्। वदेत्। उद्यात्। अवादीत्। अवदिष्यत्।

** ख्या—**प्रकथने। ख्याति। चख्यौ। ख्याता। ख्यास्यति। ख्यातु। अख्यात्।ख्यायात्। ख्यायात्–ख्येयात्। अख्यत्। अख्यास्यत्।

** तृह—**हिंसायाम्। तृणेढि। ततर्ह। तर्हिता। तर्हिष्यति। तृणेढु। अतृणेट्,ड्। तृ॑ह्यात्। तृह्यात्। अतर्हीत्। अतर्हिष्यत्।

** मुह—**वैचित्ये। मुह्यति। मुमोह।मोहिता–मोग्धा–मोढा। मोहिष्यति–मोक्ष्यति। मुह्यतु। अमुह्यत्। मुह्येत्। मुह्यात्। अमुहत्। अमोहिष्यत्–अमोक्ष्यत्।

** ब्रूञ्—**व्यक्तायां वाचि। ब्रवीति। आह–ब्रूते। उवाच–ऊचे। वक्ता। वक्ष्यति–ते। ब्रवीतु–ब्रूताम्। अब्रवीत्–अब्रूत। ब्रूयात्= ब्रुवीत। उच्यात्–वक्षीष्ट। अवोचत्–अवोचत। अवक्ष्यत्–त। कर्मणि लटि–उच्यते। लिटि–ऊचे। लुङि–अवाचि।

**आप्लृ—**व्याप्तौ। आप्नोति\।आप। आप्ता। आप्स्यति\।आप्नोतु। आप्नोत्।आप्नुयात्। आप्यात्। अपात्। आप्स्यत्। कर्मणि लटि–आप्यते। लिटि–आपे। लुङि–आपि।

**डुकृञ्—**करणे। करोति–कुरुते। चकार–चक्रे। कर्ता। करिष्यति–ते। करोतु–कुरुताम्। अकरोत्–अकुरुत। कुर्यात्–कुर्वीत। क्रियात्–कृषीष्ट। अकार्षीत्–अकृत \। अकरिष्यत्–त।

** हि—**गतौ वृद्धौ च। हिनोति। जिघाय। हेता। हेष्यति। हिनोतु। अहिनोत्। हिनुयात्। हीयात्। अहैषीत्। अहेष्यत्।

** दह—**भस्मीकरणे। दहति। ददाह। दग्धा। धक्ष्यति। दहतु। अदहत्।दहेत्। दह्यात्। अधाक्षीत्। अधक्ष्यत्।

** तप—**सन्तापे। तपति। तताप। तप्ता। तप्स्यति। तपतु। अतपत्।तपेत्। तप्यात्। अताप्सीत्। अतप्स्यत्।

** लोचृ—**दर्शने। लोचते। लुलोचे। लोचिता। लोचिष्यते। लोचताम्। अलोचत। लोचेत। लोचिषीष्ट। अलोचिष्ट \। अलोचिष्यत।

** ज्ञा—**अवबोधने। जानाति। जज्ञौ। ज्ञाता। ज्ञास्यति। जानातु। अजानात्।जानीयात्। ज्ञायात्। ज्ञेयात्। अज्ञासीत्। अज्ञास्यत्। कर्मणि लटि–ज्ञायते।लिटि–जज्ञे। लुङि–अज्ञायि।

**रुदिर्—**अश्रुविमोचने। रोदिति। रुरोद।रोदिता। रोदिष्यति। रोदितु।अरोदीत्–अरोदत्। रुद्यात्। अरुदत्–अरोदीत्। अरोदिष्यत्।

** गद—**व्यक्तायां बाचि। गदति। जगाद। गदिता। गदिष्यति। गदतु। अगदत्। गदेत्। गद्यात्। अगादीत्—अगदीत्। अगदिष्यत्।

** स्कुर—**संचलने। स्फुरति। पुस्फोर। स्फुरिता। स्फुरिष्यति। स्फुरतु। अस्फुरत्। स्फुरेत्। स्फूर्यात्। अस्फुरीत्। अस्फुरिष्यत्।

** कु—**शब्दे।कौति।चुकाब। कोता। कोष्यति। कौतु। अकौत्। कुयात्।कूयात्। अकौषीत्। अकोष्यत्।

इति प्रथमः सर्गः।
ग्रन्थविस्तरभीतेर्धातुरूपाणां दिग्दर्शनमात्रमाचरितम्।

<MISSING_FIG href=”../books_images/U-IMG-1723265520आआआ.png”/>

षष्ठसर्गपर्यन्तस्य भट्टिकाव्यस्य अकारादिवर्णक्रमेण
श्लोकसूची।

[TABLE]

श्लोकानुक्रमणिका।

[TABLE]

श्लोकानुक्रमणिका।

[TABLE]

श्लोकानुक्रमणिका।

[TABLE]

श्लोकानुक्रमणिका।

[TABLE]

श्लोकानुक्रमणिका।

[TABLE]

श्लोकानुक्रमणिका।

[TABLE]

श्लोकानुक्रमणिका।

[TABLE]

वेणीसंहारनाटकम्—

‘प्रबोधिनी’—‘प्रकाश’ संस्कृत–हिन्दी टीकाद्वयोपेतम् ।

गवर्नमेन्ट संस्कृत कालेज बनारस, के शास्त्री प्रथम खण्ड में तथा कलकत्ते केसाहित्य उपाधिपरीक्षा द्वितीय पत्र में निर्धारित यह “वेणीसंहार” का नूतनसंस्करण परीक्षार्थियों के लिए बहुत ही उपयोगी हुआ है ।

अब तक इस नाटक के ऊपर परीक्षार्थियों के उपयुक्त इस तरह को विस्तृतऔर सरलकोई व्याख्या नहीं हुई थी। परीक्षा में आये हुए प्रश्नों का समीचीनउत्तर देने में कोमलमति वाले परीक्षार्थियों की अत्यन्त कठिनाइयों को देखकर हीहमारे इस प्रन्थके टीकाकारों ने सभी नवीन व प्राचीन प्रकाशित टीकाओं का गुणदोष विवेचन करके नाटकीय व्याख्या के ढङ्ग पर श्लोकान्वय, विग्रह, पर्याय,सुन्दर अर्थ, भावार्थ, अलङ्कार तथा कोषादि प्रमाण से शब्दान्तर देकर समन्वयकरते हुए प्रबोधिनी और प्रकाश (संस्कृत-हिन्दी) टीकाओं से, श्लोक, प्राकृततथा गद्य को इस तरह समझाया है कि, शास्त्री क्या मध्यमा के सुकोमल विद्यार्थीभी स्वयं इससे ज्ञान प्राप्त कर सके हैं। इसमें प्रत्येक पात्र का लक्षण तथा नाटक,चम्पू, काव्य और महाकाव्य आदि का लक्षण भी जगह २ पर दे दिया गया हैजो कि आजतक किसी भी अन्य संस्करणों में नहीं पाया जाता। इतनाही नहींविस्तृत ‘भूमिका’ में सम्पूर्ण ग्रन्थ की समालोचना कर के सभी अङ्क का संक्षिप्त’कथासार’ भी अलग लिख दिया गया है, जिससे संक्षेप में इस ग्रन्थ काकथानक समझने में बड़ी सुगमता हो गई है। किं बहुना, जिन स्थलों पर अन्यटीकाकारों ने ग्रन्थाशय न समझ कर मन गढन्त पाठ और टीका कर दी है उनस्थलों को भलि भांति सप्रमाण विस्तृत रूपसे ‘कविवर–भट्टनारायण’ के यथार्थआशय का वर्णन कर के समन्वय किया गया है ।

‘हाथ कंगन को आरसी क्या’ हमारा नम्र निवेदन है कि वेणीसंहार खरीदनेके पूर्व इन प्रबोधिनी और प्रकाश टीकाओं को देख कर ही आप पुस्तकखरीदने का कष्ट करे अन्यथा बाद पश्चाताप से क्या लाभ होगा ?

**
**मूल्य भी बहुत अल्प ११)मात्र
________________________________________________________________
प्राप्तिस्थानम्—
चौखम्बा—संस्कृत—पुस्तकालय, बनारस सिटी।

साहित्यदर्पणः
सटिप्पण—‘लक्ष्मी’ नामक टीका विभूषितः।
आजतक की प्रकाशित सभी टीकायें इसमें गतार्थ हो चुकी हैं। काशी केसुप्रसिद्ध साहित्य के प्रकाण्ड विद्वान् साहित्यरत्नाकर श्रीमान् ताराचरणभट्टाचार्य जी के तत्त्वावधानमें इस सुविस्तृत टीकाकी रचना की गयी हैम० म० हरिहरकृपालु जी द्विवेदी, म० म० गोपीनाथ जी कविराजम० म० नारायण शास्त्री जी खिस्ते, साहित्यरत्नाकर पं० महादेव शास्त्रीजीप्रभृति भारत के बड़े २ विद्वानों ने प्रशंसापत्रों में मुक्तकंठ से इस टीका की प्रशंसकी है जो कि पुस्तक में प्रकाशित है। आज तक इतनी सरल सुविस्तृत टीकाप्रकाशित नहीं हुई थी।

उत्तररामचरितम्

चन्द्रकला-विद्योतिनी-संस्कृत-हिन्दीटीका, संस्कृत-हिन्दीकथासार,
सविशेष टिप्पणी (नोट्स) आदि बृहत् परिशिष्ट सहित।

सभी प्रान्त के शिक्षा–संस्थाओं के पाठ्य–प्रन्थों में निर्धारित इस ग्रन्थ की ऐससारविवेचिनी सुविस्तृत व सरल संस्कृत–हिन्दी टीका आजतक प्रकाशित नहीं हुइथी जिससे विद्यार्थियों का विशेष लाभ हो। इस महान् त्रुटि की पूर्ति करने केलिये हमने अनेक ग्रन्थ के सम्पादक पं० शेषराज शास्त्री जी द्वारा इस ग्रन्थ कीव्याख्या नाटकीय ढंग पर करायी है। इसकी विस्तृत व्याख्या में पूर्व प्रकाशित्सभी टीकायें गतार्थ हो चुकी हैं। इस संस्करण के परिशिष्ट में प्रत्येक अंकहिन्दी नोट्स भी परीक्षार्थियों के लिये दिया गया है। प्रत्येक विषय का इतनसुन्दर और सरल रीति से स्पष्ट प्रतिपादन अन्य संस्करण में मिलना दुर्लभ है॥४॥

दशकुमारचरित–सम्पूर्णम्
बालविबोधिनी–बालक्रीडा संस्कृत हिन्दी टीका द्वयोपेतम्।

साहित्यरत्नाकर पं० ताराचरणभट्टाचार्य कृत बालविबोधिनी संस्कृत टीका तथाबालक्रीडा हिन्दी टीका से युक्त परीक्षोपयोगी यह संस्करण सब संस्करणों से श्रेष्ठहै। विशेष क्या आप स्वयं परीक्षा कर निर्णय कर सकते हैं।

पूर्वपीठिका १।) पूर्वपीठिका तथा प्रथम और अष्टम उच्छूवासअम्हारवर्मचरित पर्यन्त अभिनव भूमिका संयोजित संस्करणसंपूर्ण प्रन्थ
_____________________________________________________________
प्राप्तिस्थानम्—चौखम्बा-संस्कृत-पुस्तकालय, बनारस सिटी।

]