रावणवधम् ०१-२२

[[रावणवधम्-भट्टिकाव्यम्-२२अध्यायपर्यन्तम् Source: EB]]

[

भट्टि : रावणवध

१.११ अभून्नृपो विबुधसखः परंतपः श्रुताऽन्वितो दशरथ इत्युदाहृतः,

१.१२ गुणैर्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत्स्वयम्.

१.२१ सोऽध्यैष्ट वेदांस्, त्रिदशानयष्ट, पित्न्पारीत्, सममंस्त बन्धून्,

१.२२ व्यजेष्ट षड्वर्गमरंस्त नीतौ, समूलघातं न्यवधीदरींश्च.

१.३१ वसूनि तोयं घनवद्व्यकारीत्, सहाऽऽसनं गोत्रभिदाऽध्यवात्सीत्,

१.३२ न त्र्यम्बकादन्यमुपास्थिता??ऽसौ, यशांसि सर्वेषुभृतां निरास्तत्.

१.४१ पुण्यो महाब्रह्मसमूहजुष्टः संतर्पणो नाकसदां वरेण्यः

१.४२ जज्वाल लोकस्थितये स राजा यथाऽध्वरे वह्निरभिप्रणीतः.

१.५१ स पुण्यकीर्तिः शतमन्युकल्पो महेन्द्रलोकप्रतिमां समृद्ध्या

१.५२ अध्यास्त सर्वर्तुसुखामयोध्या मध्यासितां ब्रह्मभिरिद्धबोधैः.

१.६१ निर्माणदक्षस्य समीहितेषु सीमेव पद्माऽऽसनकौशलस्य

१.६२ ऊर्ध्वस्फुरद्रत्नगभस्तिभिर्या स्थिताऽवहस्येव पुरं मघोनः.

१.७१ सद्रत्नमुक्ताफलवज्रभाञ्जि विचित्रधातूनि सकाननानि

१.७२ स्त्रीभिर्युतान्यप्सरसामिवौघैर्मेरोः शिरांसीव गृहाणि यस्याम्.

१.८१ अन्तर्निविष्टोज्ज्वलरत्नभासो गवाक्षजालैरभिनिष्पतन्त्यः

१.८२ हिमाऽद्रिटङ्कादिव भान्ति यस्यां गङ्गाऽम्बुपातप्रतिमा गृहेभ्यः

१.९१ धर्म्यासु कामाऽर्थयशस्करीषु मतासु लोकेऽधिगतासु काले

१.९२ विद्यासु विद्वानिव सोऽभिरेमे पत्नीषु राजा तिसृषूत्तमासु.

१.१०१ पुत्रीयता तेन वराऽङ्गनाभि रानायि विद्वान्क्रतुषु क्रियावान्

१.१०२ विपक्त्रिमज्ञानगतिर्मनस्वी मान्यो मुनिः स्वां पुरमृष्य शृङ्गः

१.१११ ऐहिष्ट तं कारयितुं कृताऽऽत्मा क्रतुं नृपः पुत्रफलं मुनीन्द्रम्,

१.११२ ज्ञानाऽऽशयस्तस्य ततो व्यतानीत्स कर्मठः कर्म सुताऽनुबन्धम्.

१.१२१ रक्षांसि वेदीं परितो निरास्थ दङ्गान्ययाक्षीद्भितः प्रधानम्,

१.१२२ शेषाण्यहौषीत्सुतसंपदे च, वरं वरेण्यो नृपतेरमार्गीत्.

१.१३१ निष्टां गते दक्त्रिमसभयतोषे विहित्रिमे कर्मणि राजपत्न्यः

१.१३२ प्राशुर्हुतोच्छिष्टमुदारवंश्यास्तिस्रः प्रसोतुं चतुरः सुपुत्रान्.

१.१४१ कौसल्ययाऽसावि सुखेन रामः प्राक्, केकयीतो भरतस्ततोऽभूत्,

१.१४२ प्रासोष्ट शत्रुघ्नमुदारचेष्ट मेका सुमित्रा सह लक्ष्मणेन.

१.१५१ आर्चीद्द्विजातीन्परमाऽर्थविन्दा नुदेजयान्भूतगणान्न्यषेधीत्,

१.१५२ विद्वानुपानेष्ट च तान्स्वकाले यतिर्वशिष्टो यमिनां वरिष्ठः.

१.१६१ वेदोऽङ्गवांस्तौरखिलोऽध्यगायि शस्त्राण्युपायंसत जित्वराणि,

१.१६२ ते भिन्नवृत्तीन्यपि मानसानि समं जनानां गुणिनोऽध्यवात्सुः,

१.१७१ ततोभ्यगाद्गाधिसुतः क्षितीन्द्रं रक्षोभिरभ्याहतकर्मवृत्तिः

१.१७२ रामं वरीतुं परिरक्षणार्थं, राजाऽऽजिहत्तं मधुपर्कपाणिः.

१.१८१ ऐषीः पुनर्जन्मजयाय यत्त्वं, रूपाऽऽदिबोधान्न्यवृतच्च यत्ते,

१.१८२ तत्त्वान्यबुद्धाः प्रतिनूनि येन, ध्यानं नृपस्तच्छिवमित्यवादीत्.

१.१९१ आख्यन्मुनिस्तस्य शिवं समाधेर्, विघ्नन्ति रक्षांसि वने क्रतूंश्च,

१.१९२ तानि द्विषद्वीर्यनिराकरिष्णुस्तृणेढु रामः सह लक्ष्मणेन.

१.२०१ स शुश्रुवांस्तद्वचनं मुमोह राजाऽसहिष्णुः सुतविप्रयोगम्,

१.२०२ अहंयुनाऽथ क्षितिपः शुभंयु रूचे वचस्तापसकुञ्जरेण.

१.२११ मया त्वमाप्थाः शरणं भयेषु, वयं त्वयाऽप्याप्स्महि धर्मवृद्ध्यै,

१.२१२ क्षत्रं द्विजत्वं च परस्पराऽर्थं, शङ्कां कृथा मा, प्रहिणुस्वसूनुम्.

१.२२१ घानिष्यते तेन महान्विपक्षः, स्थायिष्यते येन रणे पुरस्तात्,

१.२२२ मा मां महाऽऽत्मन्परिभूर्योग्ये न मद्विधो न्यस्यति भारमग्र्यम्.

१.२३१ क्रुध्यन्कुलं धक्ष्यति विप्रवह्निर्, यास्यन्सुतस्तप्स्यति मां समन्युम्,

१.२३२ इत्थं नृपः पूर्वमवालुलोचे, ततोऽनुजज्ञे गमनं सुतस्य.

१.२४१ आशीर्भिरभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे पुनराश्रमाय,

१.२४२ तं पृष्ठतः प्रष्ठमियाय नम्रो हिंस्रेषुदीप्ताऽऽप्तधनुः कुमारः.

१.२५१ प्रयास्यतः पुण्यवनाय जिष्णो रामस्य रोचिष्णुमुखस्य घृष्णुः

१.२५२ त्रैमातुरः कृत्स्नजिताऽस्त्रशस्त्रः सध्र्यङ्रतः श्रेयसि लक्ष्मणोऽभूत्.

१.२६१ इषुमति रघुसिंहे दन्दशूकाञ्जिघांसौ धनुररिभिरसह्यं मुष्टिपीडं दधाने

१.२६२ व्रजति, पुरतरुण्यो बद्धचित्राऽङ्गुलित्रे कथमपि गुरुशोकान्मा रुदन्माङ्गलिक्यः

१.२७१ अथ जगदुरनीचैराशिषस्तस्य विप्रास्, तुमुलकलनिनादं तूर्यमाजघ्नुरन्ये,

१.२७२ अभिमतफलशंसी चारु पुस्फोर बाहुस्, तरुषु चुकुवुरुच्चैः पक्षिणश्चाऽनुकूलाः.

२.११ वनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशां च

२.१२ निर्याय तस्याः स पुरः समन्ता च्छ्रियं दधानां शरदं ददर्श.

२.२१ तरङ्गसङ्गाच्चपलैः पलाशैर्ज्वालाश्रियं साऽतिशयां दधन्ति

२.२२ सधूमदीप्ताऽग्निरुचीनि रेजुस्ताम्रोत्पलान्याकुलषट्पदानि.

२.३१ बिम्बाऽऽगतैस्तीरवनैः समृद्धिं निजां विलोक्याऽपहृतां पयोभिः

२.३२ कूलानि साऽऽमर्षतयेव तेनुः सरोजलक्ष्मीं स्थलपद्महासैः.

२.४१ निशातुषारैर्नयनाऽम्बुकल्पैः पत्राऽन्तपर्यागलदच्छबिन्दुः

२.४२ उपारुरोदेव नदत्पतङ्गः कुमुद्वतीं तीरतरुर्दिनाऽऽदौ.

२.५१ वनानि तोयानि च नेत्रकल्पैः पुष्पैः सरोजैश्च निलीनभृङ्गैः

२.५२ परस्परां विस्मयवन्ति लक्ष्मी मालोकयाञ्चक्रुरिवाऽऽदरेण.

२.६१ प्रभातवाताहऽऽतिकम्पिताऽऽकृतिः कुमुद्वतीरेणुपिशङ्गविग्रहम्

२.६२ निरास भृङ्गं कुपितेव पद्मिनी, न मानिनी संसहतेऽन्यसङ्गमम्.

२.७१ दत्ताऽवधानं मधुलेहिगीतौ प्रशान्तचेष्टं हरिणं जिघांसुः

२.७२ आकर्णयन्नुत्सुकहंसनादान्लक्ष्ये समाधिं न दधे मृगावित्.

२.८१ गिरेर्नितम्बे मरुता विभिन्नं तोयाऽवशेषेण हिमाऽऽभमभ्रम्

२.८२ सरिन्मुखाऽभ्युच्चयमादधानं शैलाऽधिपस्याऽनुचकार लक्ष्मीम्.

२.९१ गर्जन्हरिः साऽम्भसि शैलकुञ्जे प्रतिध्वनीनात्मकृतान्निशम्य

२.९२ क्रमं बबन्ध क्रमितुं सकोपः प्रतर्कयन्नन्यमृगेन्द्रनादान्.

२.१०१ अदृक्षताऽम्भांसि नवोत्पलानि, रुतानि चाऽश्रोषत षट्पदानाम्,

२.१०२ आघ्रायि वान्गन्धवहः सुगन्धस्तेनाऽरविन्दव्यतिषङ्गवांश्च.

२.१११ लताऽनुपातं कुसुमान्यगृह्णात्स, नद्यवस्कन्दमुपास्पृशच्च,

२.११२ कुतूहलाच्, चारुशिलोपवेशं काकुत्स्थ ईषत्स्मयमान आस्त.

२.१२१ तिग्मांशुरश्मिच्छुरितान्यदूरात्प्राञ्चि प्रभाते सलिलान्यपश्यत्

२.१२२ गभस्तिधाराभिरिव द्रुतानि तेजांसि भानोर्भुवि संभृतानि.

२.१३१ दिग्व्यापिनीर्लोचनलोभनीया मृजाऽन्वयाः स्नेहमिव स्रवन्तीः

२.१३२ ऋज्वाऽऽयताः शस्यविशेषपङ्क्तीस्तुतोष पश्यन्वितृणाऽन्तरालाः.

२.१४१ वियोगदुःखाऽनुभवाऽनभिज्ञैः काले नृपांऽशं विहितं ददद्भिः

२.१४२ आहार्यशोभारहितैरमायै रैक्षिष्ट पुम्भिः प्रचितान्स गोष्ठान्

२.१५१ स्त्रीभूषणं चेष्टितमप्रगल्भं चारूण्यवक्राण्यपि वीक्षितानि

२.१५२ ऋजूंश्च विश्वासकृतः स्वभावान्गोपाऽङ्गनानां मुमुदे विलोक्य.

२.१६१ विवृत्तपार्श्वं रुचिराऽङ्गहारं समुद्वहच्चारुनितम्बरम्यम्

२.१६२ आमन्द्रमन्थध्वनिदत्ततालं गोपाऽङ्गनानृत्यमनन्दयत्तम्.

२.१७१ विचित्रमुच्चैः प्लवमानमारात्कुतूहलं त्रस्नु ततान तस्य

२.१७२ मेघाऽत्ययोपात्तवनोपशोभं कदम्बकं वातमजं मृगाणाम्.

२.१८१ सिताऽरविन्दप्रचयेषु च लीनाः संसक्तपेणेषु च सैकतेषु

२.१८२ कुन्दाऽवदाताः कलहंसमालाः प्रतीयीरे श्रोत्रसुखैर्निनादैः.

२.१९१ न तज्जलं, यन्न सुचारुपङ्कजं, न पङ्कजं तद्, यदलीनषट्पदम्,

२.१९२ न षट्पदोऽसौ, न जुगुञ्ज यः कलं; न गुञ्जितं तन्, न जहार यन्मनः.

२.२०१ तं यायजूकाः सह भिक्षुमुख्यैस्तपःकृशाः शान्त्युदकुम्भहस्ताः,

२.२०२ यायावराः पुष्पफलेन चाऽन्ये प्राणर्चुरर्च्या जगदर्चनीयम्.

२.२११ विद्यामथैनं विजयां जयां च रक्षोगणं क्षिप्नुमविक्षताऽऽत्मा

२.२१२ अध्यापिपद्गाधिसुतो यथावन्निघातयिष्यन्युधि यातुधानान्.

२.२२१ आयोधने स्थायुकमस्त्रजात ममोघमभ्यर्णमहाऽऽहवाय

२.२२२ ददौ वधाय क्षणदाÄचराणां तस्मै मुनिः श्रेयसि जागरूकः

२.२३१ तं विप्रदर्शं कृतघातयत्ना यान्तं वने रात्रिÄचरी डुढौके,

२.२३२ जिघांसुवेदं धृतभासुराऽस्त्रं तां ताडकाऽऽख्यां निजघान रामः.

२.२४१ अथाऽऽलुलोके हुतधूमकेतु शिखाऽञ्जनस्निग्धसमृद्धशाखम्

२.२४२ तपोÄवनं प्राध्ययनाऽभिभूत समुच्चरच्चारुपतक्त्रिशिञ्जम्.

२.२५१ क्षुद्रान्न जक्षुर्हरिणान्मृगेन्द्रा, विशश्वसे पक्षिगणैः समन्तात्,

२.२५२ नन्नम्यमानाः फलदित्सयेव चकाशिरे तत्र लता विलोलाः.

२.२६१ अपूपुजन्विष्टरपाद्यमाल्यै रातिथ्यनिष्णा वनवासिमुख्याः,

२.२६२ प्रत्यग्रहीष्टां मधुपर्कमिश्रं तावासनाऽऽदि क्षितिपालÄपुत्रौ.

२.२७१ दैत्याऽभिभूतस्य युवामवोढं मग्नस्य दोर्भिर्भुवनस्य भारम्,

२.२७२ हवींषि संप्रत्यपि रक्षतं, तौ तपोÄधनैरित्थमभाषिषाताम्.

२.२८१ तान्प्रत्यवादीदथ राघ्वोऽपि, यथेप्सितं प्रस्तुत कर्म धर्म्यम्,

२.२८२ तपोमरुद्धिर्भवतां शराऽग्निः संधुक्ष्यतां नोऽरिसमिन्धनेषु.

२.२९१ प्रतुष्टुवुः कर्म ततः प्रक्wxल्क़्क़्प्तैस्ते यज्ञियैर्द्रव्यगणैर्यथावत्,

२.२९२ दक्षिण्यदिष्टं कृतमार्त्विजीनैस्तद्यातुधानैश्चिचिते प्रसर्पत्.

२.३०१ आपिङ्गरूक्षोर्ध्वशिरस्यबालैः शिरालजङ्घैर्गिरिकूटदघ्नैः

२.३०२ ततः क्षपाऽटैः पृथुपिङ्गलाऽक्षैः खं प्रावृषेण्यैरिव चाऽऽनशेऽब्दैः.

२.३११ अधिÄज्यचापः स्थिरबाहुमुष्टि रुदञ्चिताऽक्षोऽञ्चितदक्षिणोरुः

२.३१२ तान्लक्ष्मणः सन्नतवामजङ्घो जघान शुद्धेषुरमन्दकर्षी.

२.३२१ गाधेयदिष्टं विÄरसं रसन्तं रामोऽपि मायाÄचणमस्त्रÄचुञ्चुः

२.३२२ स्थास्नुं रणे स्मेरमुखो जगाद मारीचमुच्चैर्वचनं महाऽर्थम्.

२.३३१ आत्मंÄभरिस्त्वंपिशितैर्नराणां फलेÄग्रहीन्हंसि वनस्Äपतीनाम्,

२.३३२ शौवस्तिकÄत्वं विभवा न येषां व्रजन्ति, तेषां दयसे न कस्मात्.

२.३४१ अद्मो द्विजान्, देवयजीन्निहन्मः, कुर्मः पुरं प्रेतनराऽधिवासम्,

२.३४२ धर्मो ह्ययं दाशरथे ! निजो नो, नैवाऽध्यकारिष्महि वेदवृत्ते.

२.३५१ धर्मोऽस्ति सत्यं तव राक्षसाऽय मन्यो व्यतिस्ते तु ममाऽपि धर्मः,

२.३५२ ब्रह्मद्विषस्ते प्रणिहन्मि येन, राजन्यवृत्तिर्धृतकार्मुकेषुः.

२.३६१ इत्थंप्रवादं युधि संप्रहारं प्रचक्रतू रामनिशाविहारौ,

२.३६२ तृणाय मत्वा रघुनन्दनोऽथ बाणेन रक्षः प्रधनान्निरास्थत्.

२.३७१ जग्मुः प्रसादं द्विजमानसानि, द्यौर्वर्षुका पुष्पचयं बभूव,

२.३७२ निर्व्याजमिज्या ववृते. वचश्च भूयो बभाषे मुनिना कुमारःÄ

२.३८१ महीय्यमाना भवताऽतिमात्रं सुराऽध्वरे घस्मरजित्वरेण

२.३८२ दिवोऽपि वज्राऽऽयुधभूषणाया ह्रिणीयते वीरवती न भूमिः.

२.३९१ बलिर्बबन्धे, जलधिर्ममन्थे, जह्रेऽमृतं, दैत्यकुलं विजिग्यो,

२.३९२ कल्पाऽन्तदुःस्था वसुधा तथोहे येनैष भारोऽतिगुरुर्न तस्य.

२.४०१ इति ब्रुवाणो मधुरं हितं च तमाञ्जिहन्मैथिलयज्ञभूमिम्

२.४०२ रामं मुनिः प्रीतमना मखाऽन्ते यशांसि राज्ञां निजिघृक्षयिष्यन्.

२.४११ एतौ स्म मित्रावरुणौ किमेतौ, किमश्विनौ स्ॐअरसं पिपासू,

२.४१२ जनं समस्तं जनकाऽऽश्रमस्थं रूपेण तावौजिहतां नृसिंहौ.

२.४२१ अजिग्रहत्तं जनको धनुस्तद्"येनाऽर्दिदद्दैत्यपुरं पिनाकी",

२.४२२ जिज्ञासमानो बलमस्य बाह्वोर्. हसन्नभाङ्क्ष्वीद्रघुनन्दनस्तत्.

२.४३१ ततो नदीष्णान्पथिकान्गिरिज्ञा नाह्वायकान्भूमिपतेरयोध्याम्

२.४३२ दित्सुः सुतां योधहरैस्तुरङ्गैर्व्यसर्जयन्मैथिलमर्त्यमुख्यः.

२.४४१ क्षिप्रं ततोऽध्वन्यतुरङ्गयायी यविष्ठवद्वृद्धतमोऽपि राजा

२.४४२ आख्यायकेभ्यः श्रुतसूनुवृत्ति रग्लानयानो मिथिलामगच्छत्.

२.४५१ वृन्दिष्ठमार्चीद्वसुधाधिपानां तं प्रेष्ठमेतं गुरुवद्गरिष्ठम्

२.४५२ सदृङ्महान्तं सुकृताऽधिवासं बंहिष्ठकीर्तिं यशसा वरिष्ठम्.

२.४६१ त्रिवर्गपारीणमसौ भवन्त मध्यासयन्नासनमेकमिन्द्रः

२.४६२ विवेकदृश्वत्वमगात्सुराणां, तं मैथिलो वाक्यमिदं बभाषे.

२.४७१ हिरण्मयी साललतेव जङ्गमा च्युता दिवः स्थास्नुरिवाऽचिरप्रभा

२.४७२ शशाङ्कंकान्तेरधिदेवताऽऽकृतिः सुता ददे तस्य सुताय मैथिली.

२.४८१ लब्धा ततो विश्वजनीनवृत्तिस् तामात्मनीनामुदवोढ रामः

२.४८२ सद्रत्नमुक्ताफलभर्मशोभां संबंहयन्तीं रघुवर्ग्यलक्ष्मीम्.

२.४९१ सुप्रातमासादितसंमदं तद्वन्दारुभिः संस्तुतमभ्ययोध्यम्

२.४९२ अश्वीयराजन्यकहास्तिकाऽऽढ्य मगात्सराजं बलमध्वनीनम्.

२.५०१ विशङ्कटो वक्षसि बाणपाणिः संपन्नतालद्वयसः पुरस्तात्

२.५०२ भीष्मो धनुष्मानुपजान्वरत्नि रैति स्म रामः पथि जामदग्न्यः.

२.५११ उच्चैरसौ राघवमाह्वतेदं धनुः सबाणं कुरु, साऽतियासीः.

२.५१२ पराक्रमज्ञः प्रियसन्ततिस्तं नम्रः क्षितीन्द्रोऽनुनिनीषुरूचे.

२.५२१ अनेकशो निर्जितराजकस्त्वं, पित्नतार्प्सीर्नृपरक्ततोयैः,

२.५२२ संक्षिप्य संरम्भमसदूविपक्षं, काऽऽस्थाऽर्भकेऽस्मिंस्तव राम ! रामे.

२.५३१ अजीगणद्दशरथं न वाक्यं यदा स दर्पेण, तदा कुमारः

२.५३२ धनुर्व्यकार्क्षीद्गुरुबाणगर्भं, लोकानलावीद्विजितांश्च तस्य.

२.५४१ जिते नृपाऽरौ, सुमनीभवन्ति शब्दायमानान्यशनैर्शङ्कम्

२.५४२ वृद्धस्य राज्ञोऽनुमते बलानि जगाहिरेऽनेकमुखानि मार्गान्.

२.५५१ अथ पुरुजवयोगान्नेदयद्दूरसंस्थं दवयदतिरयेण प्राप्तमुर्वीविभागम्

२.५५२ क्लमरहितमचेतन्नीरजीकारितक्ष्मां, बलमुपहितशोभां तूर्णमायादयोध्याम्.

३.११ वधेन संख्ये पिशिताऽशनानां क्षत्राऽन्तकस्याऽभिभवेन चैव

३.१२ आढ्यंभविष्णुर्यशसा कुमारः प्रियंभविष्णुर्न स यस्य नाऽऽसीत्.

३.२१ ततः सुचेतीकृतपौरभृत्यो “राज्येऽभिषेक्ष्ये सुतमित्यनीचैः

३.२२ आघोषयन्भूमिपतिः समस्तं भूयोऽपि लोकं सुमनीचकार.

३.३१ आदिक्षदादीप्तकृशानुकल्पं सिंहासनं तस्य सपादपीठम्

३.३२ सन्तप्तचामीकरवल्गुवज्रं विभागविन्यस्तमहार्घरत्नम्.

३.४१ प्रास्थापयत्पूगकृतान्स्वपोषं पृष्टान्प्रयत्नाद्दृढगात्रबन्धान्

३.४२ सभर्मकुम्भान्पुरुषान्समन्तात्पत्काषिणस्तीर्थजलाऽर्थमाशु.

३.५१ उक्षान्प्रचक्रुर्नगरस्य मार्गान्, ध्वजान्बबन्धुर्, मुमुचुः खधूपान्,

३.५२ दिशश्च पुष्पैश्चकरुर्विचित्रै रर्थेषु राज्ञा निपुणा नियुक्ताः

३.६१ मातामहाऽऽवासमुपेयिवांसं मोहादपृष्ट्वा भरतं तदानीम्

३.६२ तत्केकयी सोढुमशक्नुवाना ववार रामस्य वनप्रयाणम्.

३.७१ कर्णेजपैराहितराज्यलोभा स्त्रैणेन नीता विकृतिं लघिम्ना

३.७२ रामप्रवासे व्यमृशन्न दोषं जनाऽपवादं सनरेन्द्रमृत्युम्

३.८१ वसूनि देशांश्च निवर्तयिष्यन्रामं नृपः संगिरमाण एव

३.८२ तयाऽवजज्ञे, भरताऽभिशेको विषादशङ्कुश्च मतौ निचख्ने.

३.९१ ततः प्रविव्राजयिषुः कुमार मादिक्षदस्याऽभिगमं वनाय

३.९२ स्ॐइत्रिसीताऽनुचरस्य राजा सुमन्त्रनेत्रेण रथेन शोचन्.

३.१०१ केचिन्निनिन्दुर्नृपमप्रशान्तं, विचुक्रुशुः केचन साऽस्रमुच्चैः,

३.१०२ ऊचुस्तथाऽन्ये भरतस्य मायां, धिक्केकयीमित्यपरो जगाद.

३.१११ “गतो वनं श्वो भवितेति रामः,” शोकेन देहे जनताऽतिमात्रम्,

३.११२ धीरास्तु तत्र च्युतमन्यवोऽन्ये दधुः कुमाराऽनुगमे मनांसि.

३.१२१ प्रस्थास्यमानावुपसेदुषस्तौ शोशुच्यमानानिदमूचतुस्तान्,

३.१२२ “किं शोचतेहाऽभ्युदये बताऽस्मान्नियोगलाभेन पितुः कृताऽर्थान्,

३.१३१ असृष्ट यो, यश्च भयेष्वरक्षीद्, यः सर्वदाऽस्मानपुषत्स्वपोषम्,

३.१३२ महोपकारस्य किमस्ति तस्य तुच्छेन यानेन वनस्य मोक्षः,

३.१४१ विद्युत्प्रणाशं स वरं प्रनष्टो, यद्वोर्ध्वशोषं तृणवद्विशुष्कः,

३.१४२ अर्थे दुरापे किमुत प्रवासे न शासनेऽवास्थित यो गुरूणाम्.

३.१५१ पौरा ! निवर्तध्वमिति न्यगादीत्, “तातस्य शोकाऽपनुदा भवेत,

३.१५२ मा दर्शताऽन्यं भरतं च मत्तो,” निवर्तयेत्याह रथं स्म सूतम्

३.१६१ ज्ञात्वेङ्गितैर्गत्वरतां जनाना मेकां शयित्वा रजनीं सपौरः

३.१६२ रक्षन्वनेवासकृताद्भयात्तान्प्रातश्छलेनाऽपजगाम रामः

३.१७१ अस्राक्षुरस्रं करुणं रुवन्तो, मुहुर्मुहुर्न्यश्वसिषुः कपोष्णम्,

३.१७२ हा राम ! हा कष्टमिति ब्रुन्वतः पराङ्मुखैस्ते न्यवृतन्मनोभिः

३.१८१ सूतोऽपि गङ्गासलिलैः पवित्वा सहाऽऽश्वमात्मानमनल्पमन्युः

३.१८२ ससीतयो राघवयोरधीयन्श्वसन्कदुष्णं पुरमाविवेश.

३.१९१ प्रतीय सा पूर्ददृशे जनेन द्यौर्भानुशीतांशुविनाकृतेव

३.१९२ राजन्यनक्षत्रसमन्विताऽपि शोकाऽन्धकारक्षतसर्वचेष्टा.

३.२०१ विलोक्य रामेण विना सुमन्त्र मच्योष्ट सत्वान्नृपतिश्च्युताऽऽशः

३.२०२ मधूनि नैषीद्व्यलिपन्न गन्धैर्, मनोरमे न व्यवसिष्ट वस्त्रे.

३.२११ आसिष्ट नैकत्र शुचा, व्यरंसीत्कृताऽकृतेभ्यः क्षितिपालभाग्भ्यः,

३.२१२ स चन्दनोशीरमृणालदिग्धः शोकाग्निनाऽगाद्द्युनिवासभूयम्.

३.२२१ विचुक्रुशुर्भूमिपतेर्महिष्यः, केशांल्लुलुञ्चुः, स्ववपूंषि जघ्नुः,

३.२२२ विभूषणान्युन्मुमुचुः, क्षमाया पेतुर्, बभञ्जुर्वलयानि चैव.

३.२३१ ताः सान्त्वयन्ती भरतप्रतीक्षा तं बन्धुता न्यक्षिपदाशु तैले,

३.२३२ दूतांश्च राजाऽऽत्मजमानिनीषून्प्रास्थापयन्मन्त्रिमतेन यूनः.

३.२४१ “सुप्तो नभस्तः पतितं निरीक्षां चक्रे विवस्वन्तमधः स्फुरन्तम्,”

३.२४२ आख्यद्वसन्मातृकुले सखिभ्यः पश्यन्प्रमादं भरतोऽपि राज्ञः.

३.२५१ अशिश्रवन्नात्ययिकं तमेत्य दूता यदाऽर्थं प्रयियासयन्तः,

३.२५२ आंहिष्ट जाताऽञ्जिहिषस्तदाऽसा वुत्कण्ठमानो भरतो गुरूणाम्.

३.२६१ बन्धूनशाङ्किष्ट समाकुलुत्वा दासेदुषः स्नेहवशादपायम्,

३.२६२ ग्ॐआयुसारङ्गगणाश्च सम्यङ्नाऽयासिषुर्, भीममरासिषुश्च.

३.२७१ स प्रोषिवानेत्य पुरं प्रवेक्ष्यन्शुश्राव घोषं न जनौघजन्यम्,

३.२७२ आकर्णयामास न वेदनादान्, न चोपलेभे वणिजां पणाऽयान्.

३.२८१ चक्रन्दुरुच्चैर्नृपतिं समेत्य तं मातरोऽभ्यर्णमुपागताऽस्राः,

३.२८२ पुरोहिताऽमात्यमुखाश्च योधा विवृद्धमन्युप्रतिपूर्णमन्या.

३.२९१ दिदृक्षमाणः परितः ससीतं रामं यदा नैक्षत लक्ष्मणं च,

३.२९२ रोरुद्यमानः स तदाऽभ्यपृच्छद्, यथावदाख्यन्नथ वृत्तमस्मै.

३.३०१ आबद्धभीमभ्रुकुटीविभङ्गः शेश्वीयमानाऽरुणरौद्रनेत्रः

३.३०२ उच्चैरुपालब्ध स केकयीं च, शोके मुहुश्चाविरतं न्यमाङ्क्षीत्.

३.३११ नृपाऽऽत्मजौ चिक्लिशतुः ससीतौ, ममार राजा, विधवा भवत्यः,

३.३१२ शोच्या वयं, भूरनृपा, लघुत्वं केकय्युपज्ञं बत बह्वनर्थम्.

३.३२१ नैतन्मतं मत्कमिति ब्रुवाणः सहस्रशोऽसौ शपथानशप्यत्

३.३२२ उद्वाश्यमानः पितरं सरामं लुठ्यन्सशोको भुवि रोरुदावान्.

३.३३१ तं सुस्थयन्तः सचिवा नरेन्द्रं दिधक्षयन्तः समुदूहुरारात्

३.३३२ अन्त्याऽऽहुतिं हावयितुं सविप्राश्चिचीषयन्तोऽध्वरपात्रजातम्.

३.३४१ उदक्षिपन्पट्टदुकूलकेतू नवादयन्वेणुमृदङ्गकांस्यम्,

३.३४२ कम्बूंश्च तारानधमन्समन्तात्, तथाऽऽनयन्कुङ्कुमचन्दनानि.

३.३५१ श्रोत्राऽक्षिनासावदनं सरुक्मं कृत्वाऽजिने प्राक्शिरसं निधाय

३.३५२ सञ्चित्य पात्राणि यथाविधान मृत्विग्जुहाव ज्वलितं चिताऽग्निम्

३.३६१ कृतेषु पिण्डोदकसञ्चयेषु, हित्वाऽभिषेकं प्रकृतं प्रजाभिः

३.३६२ प्रत्यानिनीषुर्विनयेन रामं प्रायादरण्यं भरतः सपौरः.

३.३७१ शीघ्रायमाणैः ककुभोऽश्नुवानैर्जनैरपन्थानमुपेत्य सृप्तैः

३.३७२ शोकादभूषैरपि भूश्चकासा ञ्चकार नागेन्द्ररथाऽश्वमिश्रैः.

३.३८१ उच्चिक्यिरे पुष्पफलं वनानि, सस्नुः पित्न्पिप्रियुरापगासु,

३.३८२ आरेटुरित्वा पुलिनान्यशङ्कं, छायां समाश्रित्य विशश्रमुश्च.

३.३९१ संप्राप्य तीरं तमसाऽऽपगाया गङ्गाऽम्बुसम्पर्कविशुद्धिभाजः

३.३९२ विगाहितुं यामुनमब्मु पुण्यं ययुर्निरुद्धश्रमवृत्तयस्ते.

३.४०१ ईयुर्भरद्वाजमुनेर्निकेतं, यस्मिन्विशश्राम समेत्य रामः

३.४०२ च्युताऽशनायः फलवद्विभूत्या व्य्स्यन्नुदन्यां शिशिरैः पयोभिः.

३.४११ वाचंयमान्स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्

३.४१२ अध्यापयन्तं विनयात्प्रणेमुः पद्गा भरद्वाजमुनिः सशिष्यं.

३.४२१ आतिथ्यमेभ्यः परिनिर्विवप्सोः कल्पद्रुमा योगबलेन फेलुः,

३.४२२ धामप्रथिम्नो म्रदिमाऽन्वितानि वासांसि च द्राघिमवन्त्युदूहुः

३.४३१ आज्ञां प्रतीषुर्, विनयादुपास्थुर्, जगुः सरागं, ननृतुः सहावम्,

३.४३२ सविभ्रमं नेमुरुदारमुचुस्तिलोत्तमाऽऽद्या वनिताश्च तस्मिन्.

३.४४१ वस्त्राऽन्नपानं शयनं च नाना कृत्वाऽवकाशे रुचिसंप्रक्wxल्क़्क़्प्तम्

३.४४२ तान्प्रीतिमानाह मुनिस्ततः स्म “निवध्वमाध्वं, पिबताऽत्त शेध्वम्.

३.४५१ ते भुक्तवन्तः सुसुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते

३.४५२ द्रुतं समध्वा रथवाजिनागैर्मन्दाकिनीं रम्यवनां समीयुः.

३.४६१ वैखानसेभ्यः श्रुतरामवार्तास्ततो विशिञ्जानपतक्त्रिसङ्घम्

३.४६२ अभ्रंलिहाऽग्रं रविमार्गभङ्गं आनंहिरेऽद्रिं प्रति चित्रकूटम्.

३.४७१ दृष्ट्वोर्णुवानान्ककुभो बलौघान्वितत्य शार्ङ्गं कवचं पिनह्य

३.४७२ तस्थौ सिसंग्रामयिषुः शितेषुः स्ॐइत्रिरक्षिभ्रुवमुज्जिहानः

३.४८१ शुक्लोत्तरासङ्गभृतो विशस्त्रान्पादैः शनैरापततः प्रमन्यून्

३.४८२ औहिष्ट तान्वीतविरुद्धबुद्धीन्विवन्दिषून्दाशरथिः स्ववर्ग्यान्

३.४९१ समूलकाषं चकषू रुदन्तो रामाऽन्तिकं बृंहितमन्युवेगाः

३.४९२ आवेदयन्तः क्षितिपालमुच्चैः कारं मृतं रामवियोगशोकात्

३.५०१ चिरं रुदित्वा करुणं सशब्दं गोत्राऽभिधायं सरितं समेत्य

३.५०२ मध्येजलाद्राघवलक्ष्मणाभ्यां प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम्.

३.५११ “अरण्ययाने सुकरे पिता मा प्रायुङ्क्त, राज्ये बत दुष्करे त्वाम्,

३.५१२ मा गाः शुचं वीर !, भरं वहाऽमुम्,” आभाषि रामेण वचः कनीयान्.

३.५२१ “कृती श्रुती वृद्धमतेषु धीमांस्त्वं पैतृकं चेद्वचनं न कुर्याः,

३.५२२ विच्छिद्यमानेऽपि कुले परस्य पुंसः कथं स्यादिह पुत्रकाम्या.

३.५३१ अस्माकमुक्तं बहु मन्यसे चेद्, यदीशिषे त्वं न मयि स्थिते च,

३.५३२ जिह्रेष्यतिष्ठन्यदि तातवाक्ये, जहीहि शङ्कां, व्रज, शाधि पृथ्वीम्.”

३.५४१ “वृद्धौरसां राज्यधुरां प्रवोढुं कथं कनीयानहमुत्सहेय,

३.५४२ मा मां प्रयुक्थाः कुलकीर्तिलोपे,” प्राह स्म रामं भरतोऽपि धर्य्मम्.

३.५५१ “ऊर्जस्वलं हस्तितुरङ्गमेतद्, अमूनि रत्नानि च राजभाञ्जि,

३.५५२ राजन्यकं चैतदहं क्षितीन्द्रस्त्वयि स्थिते स्यामिति शान्तमैतत्.”

३.५६१ इति निगदितवन्तं राघवस्तं जगादÄ “व्रज भरत ! गृहीत्वा पादुके त्वं मदीये,

३.५६२ च्युतनिखिलविशङ्कः पूज्यमानो जनौघैः सकलभुवनराज्यं कारयाऽस्मन्मतेन”

४.११ निवृत्ते भरते धीमानत्रे रामस्तपोवनम्

४.१२ प्रपेदे, पूजितस्तस्मिन्दण्डकारण्यमीयिवान्.

४.२१ अटाट्यमानोऽरण्यानीं ससीतः सहलक्ष्मणः

४.२२ बलाद्बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा.

४.३१ अवाक्शिरसमुत्पादं कृतान्तेनाऽपि दुर्दमम्

४.३२ भङ्क्त्वा भुजौ विराधाऽऽख्यं तं तौ भुवि निचख्नतुः.

४.४१ आंहिषातां रघुव्याघ्रौ शरभङ्गाऽऽश्रमं ततः

४.४२ अध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम्.

४.५१ पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः

४.५२ शरभङ्गः प्रदिश्याऽऽरात्सुतीक्ष्णमुनिःकेतनम्

४.६१ “यूयं समैष्यथेत्यस्मिÄ न्नासिष्महि वयं वने,

४.६२ दृष्टाः स्थ, स्वस्ति वो, यामः स्वपुण्यविजितां गतिम्”

४.७१ तस्मिन्कृशानुसाद्भूते सुतीक्ष्णमुनिसन्निधौ

४.७२ उवास पर्णशालायां भ्रमन्ननिशमाऽऽश्रमान्,

४.८१ वनेषु वासतेयेषु निवसन्पर्णसंस्तरः

४.८२ शय्योत्थायं मृगान्विध्यन्नातिथेयो विचक्रमे

४.९१ ऋग्यजुषमधीयानान्सामान्यांश्च समर्चयन्

४.९२ बुभुजे देवसात्कृत्वा शूल्यमुख्यं च हेमवान्.

४.१०१ वसानस्तन्त्रकनिभे सर्वाङ्गीणे तरुत्वचौ

४.१०२ काण्डीरः खाड्गकः शार्ङ्गी रक्षन्विप्रांस्तनुत्रवान्

४.१११ हित्वाऽऽशितङ्गवीनानि फलैर्येष्वाशितम्भवम्,

४.११२ तेष्वसौ दन्दशूकाऽरिर्वनेश्वानभ्र निर्भयः.

४.१२१ व्रातीनव्यालदीप्राऽस्त्रः सुत्वनः परिपूजयन्

४.१२२ पर्षद्वलान्महाब्रह्मैराट नैकटिकाऽऽश्रमान्.

४.१३१ परेद्यव्यद्य पूर्वेद्युरन्येद्युश्चाऽपि चिन्तयन्

४.१३२ वृद्धिक्षयौ मुनीन्द्राणां प्रियंभावुकतामगात्.

४.१४१ आतिष्ठद्गु जपन्सन्ध्या प्रक्रान्तामायतीगवम्

४.१४२ प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन्रविम्.

४.१५१ ददृशे पर्णशालायां राक्षस्याऽभीकयाऽथ सः,

४.१५२ भार्योढं तमवज्ञाय तस्थे स्ॐइत्रयेऽसकौ.

४.१६१ दधाना वलिभं मध्यं कर्णजाहविलोचना

४.१६२ वाकत्वचेनाऽतिसर्वेण चन्द्रलेखेव पक्षतौ

४.१७१ सुपाद्द्विरद्नासोरूर्मृदुपाणितलाऽङ्गुलिः

४.१७२ प्रथिमानं दधानेन जघनेन घनेन सा

४.१८१ उन्नसं दधती वक्त्रं शुद्धदल्लोलकुण्डलम्

४.१८२ कुर्वाणा पश्यतः शंयून्स्रग्विणी सुहसाऽऽनना

४.१९१ प्राप्य चञ्चूर्यमाणा पतीयन्ती रघूत्तमम्

४.१९२ अनुका प्रार्थयाञ्चक्रे प्रियाकर्तुं प्रियंवदा.

४.२०१ “स्ॐइत्रे ! मामुपायंस्थाः कम्रामिच्छुर्वशंवदाम्

४.२०२ त्वद्भोगीनां सहचरीमशङ्कः पुरुषाऽऽयुषम्.”

४.२११ तामुवाच स"गौष्ठीने वने स्त्रीपुंसभीषणे

४.२१२ असूर्यंपश्यरूपा त्वं किमभीरुररार्यसे.

४.२२१ मानुषानभिलष्यन्ती रोचिष्णुर्दिव्यधर्मिणी

४.२२२ त्वमप्सरायमाणेह स्वतन्त्रा कथमञ्चसि.

४.२३१ उग्रंपश्याऽऽकुलोऽरण्ये शालीनत्वविवर्जिता

४.२३२ कामुकप्रार्थनापट्वी पतिवत्नी कथं न वा.

४.२४१ राघवं पर्णशालायामिच्छाऽनुरहसं पतिम्,

४.२४२ यः स्वामी मम कान्तावानौपकर्णिकलोचनः

४.२५१ वपुश्चान्दनिकं यस्य, कार्णवेष्टकिकं मुखम्,

४.२५२ संग्रामे सर्वकर्मीणौ पाणी यस्यौपजानुकौ.

४.२६१ बद्धो दुर्बलरक्षाऽर्थमसिर्येनोपनीविकः,

४.२६२ यश्चापमाश्मनप्रख्यं सेषुं धत्तेऽन्यदुर्वहम्.

४.२७१ जेता यज्ञद्रुहां संख्ये धर्मसन्तानसूर्वने

४.२७२ प्राप्य दारगवानां यः मुनीनामभयं सदा”

४.२८१ ततो वावृत्यमानाऽसौ रामशालां न्यविक्षत,

४.२८२ “मामुपायंस्त रामे"ति वदन्ती साऽऽदरं वचः

४.२९१ “अस्त्रीकोऽसावहं स्त्रीमान्, स पुष्यतितरां तव

४.२९२ पतिर्"इत्यब्रवीद्रामस्Ä"तमेव व्रज, मा मुचः.”

४.३०१ लक्ष्मणंऽसा वृषस्यन्ती महोक्षं गौरिवाऽगमत्

४.३०२ मन्मथाऽऽयुधसम्पातव्यथ्यमानमतिः पुनः.

४.३११ तस्याः सासद्यमानाया लोलूयावान्रघूत्तमः

४.३१२ असिं कौक्षेयमुद्यम्य चकाराऽपनसं मुखम्.

४.३२१ “अहं शूर्पणखा नाम्ना नूनं नाऽज्ञायिषि त्वया,

४.३२२ दण्डोऽयं क्षेत्रियो येन मय्यपाती"ति साऽब्रवीत्.

४.३३१ पर्यशाप्सीद्दिविष्ठाऽसौ संदर्श्य भयदं वपुः

४.३३२ अपिस्फवच्च बन्धूनां निनङ्क्षुर्विक्रमं मुहुः

४.३४१ खरदूषणयोर्भ्रात्रोः पर्यदेविष्ट सा पुरः,

४.३४२ विजिग्राहयिषू रामं दण्डकारण्यवासिनोः

४.३५१ “कृते सौभागिनेयस्य भरतस्य विवासितौ

४.३५२ पित्रा दौर्भागिनेयौ यौ, पश्यतं चेष्टितं तयोः.

४.३६१ मम रावणनाथाया भगिन्या युवयोः पुनः

४.३६२ अयं तापसकाद्ध्वंसः, क्षमध्वं, यदि वः क्षमम्.

४.३७१ असंस्कृत्रिमसंव्यानावनुप्त्रिमफलाशिनौ

४.३७२ अभृत्रिमपरीवारौ पर्यभूतां तथापि माम्.”

४.३८१ “श्वःश्रेयसमवाप्तासि” भ्रातृभ्यां प्रत्यभाणि साÄ

४.३८२ प्राणिवस्तव मानाऽर्थं, व्रजाऽऽश्वसिहि, मा रुदः.

४.३९१ जक्षिमोऽनपराधेऽपि नरान्नक्तंदिवं वयम्,

४.३९२ कुतस्त्यं भीरु ! यत्तेभ्यो द्रुह्यद्भ्योऽपि क्षमामहे.”

४.४०१ तौ चतुर्दशसाहस्रबलौ निर्ययतुस्ततः

४.४०२ पारश्वधिकधानुष्कशाक्तिकप्रासिकाऽन्वितौ.

४.४११ अथ सम्पततो भीमान्विशिखै रामलक्ष्मणौ

४.४१२ बहुमूर्ध्नो द्विमूर्धांश्च त्रिमूर्धाश्चाऽहतां मृधे.

४.४२१ तैर्वृक्णरुग्णसम्भुग्नक्षुण्णभिन्नविपन्नकैः.

४.४२२ निमग्नोद्विग्नसंह्रीणैः पप्रे दीनैश्च मेदिनी.

४.४३१ केचिद्वेपथुमासेदुरन्ये दवथुमुत्तमम्,

४.४३२ सरक्तं वमथुं केचिद्, भ्राजथुं न च केचन.

४.४४१ मृगयुमिव मृगोऽथ दक्षिणेर्मा, दिशमिव दाहवतीं मरावुदन्यन्,

४.४४२ रघुतनयमुपाययौ त्रिमूर्धो, विशभृदिवोग्रमुखं पतत्रिराजम्,

४.४५१ शितविशिखनिकृत्तकृत्स्नवक्त्रः क्षितिभृदिव क्षितिकम्पकीर्णशृङ्गः

४.४५२ भयमुपनिदधे स राक्षसानां अखिलकुलक्षयपूर्वलिङ्गतुल्यः.

५.११ निराकरिष्णू वर्तिष्णू वर्धिष्णू परतो रणम्

५.१२ उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ.

५.२१ तौ खड्गमुसलप्रासचक्रबाणगदाकरौ

५.२२ अकार्ष्टामायुधच्छायं रजःसन्तमसे रणे.

५.३१ अथ तीक्ष्णाऽऽयसैर्बानैरधिमर्म रघूत्तमौ

५.३२ व्याधं व्याधममूढौ तौ यमसाच्चक्रतुर्द्विषौ.

५.४१ हतबन्धुर्जगामाऽसौ ततः शूर्पणखा वनात्

५.४२ पारेसमुद्रं लङ्कायां वसन्तं रावणां पतिम्.

५.५१ संप्राप्य राक्षससभं चक्रन्द क्रोधविह्वला,

५.५२ नामग्राममरोदीत्सा भ्रातरौ रावणाऽन्तिके.

५.६१ “दण्डकानध्यवात्तां यौ वीर ! रक्षःप्रकाण्डकौ,

५.६२ नृभ्यां संख्येऽकृशातां तौ सभृत्यौ भूमिवर्ध्नौ.

५.७१ विग्रहस्तव शक्रेण बृहस्पतिपुरोधसा

५.७२ सार्धं कुमारसेनान्या, शून्यश्चाऽसीति को नयः

५.८१ यद्यहं नाथ ! नाऽयास्यं विनासा हतबान्धवा,

५.८२ नाऽज्ञास्यस्त्वमिदं सर्वं प्रमाद्यंश्चारदुर्बलः.

५.९१ करिष्यमाणं विज्ञेयं कार्यं, किं नु कृतं परैः,

५.९२ अपकारे कृतेऽप्यज्ञो विजिगीषुर्न वा भवान्.

५.१०१ वृतस्त्वं पात्रेसमितैः खट्वाऽऽरूढः प्रमादवान्

५.१०२ पानशौण्डः श्रियं नेता नाऽत्यन्तीनत्वमुन्मनाः

५.१११ अध्वरेष्वग्निचित्वत्सु स्ॐअसुत्वत आश्रमान्

५.११२ अत्तुं महेन्द्रियं भागमेति दुश्च्यवनोऽधुना,

५.१२१ आमिक्षीयं दधिक्षीरं पुरोडाश्यं तथौषधम्

५.१२२ हविर्हैयङ्गवीनं च नाऽप्युपघ्नन्ति राक्षसाः

५.१३१ युवजानिर्धनुश्पाणिर्भूमिष्ठः खविचारिणः

५.१३२ रामो यज्ञद्रुहो हन्ति कालकल्पशिलीमुखः

५.१४१ मांसान्योष्ठाऽवलोप्यानि साधनीयानि देवताः

५.१४२ अश्नन्ति, रामाद्रक्षांसि बिभ्यश्रुवते दिशः

५.१५१ कुरु बुद्धिं कुशाऽग्रियामनुकामीनतां त्यज,

५.१५२ लक्ष्मीं परम्परीणां त्वं पुत्रपौत्रीणतां नय.

५.१६१ सहायवन्त उद्युक्ता बहवो निपुणाश्च याम्

५.१६२ श्रियमाशासते, लोलां तां हस्तेकृत्य मा श्वसीः

५.१७१ लक्ष्मीः पुंयोगमाशंसुः कुलटेव कुतूहलात्

५.१७२ अन्तिकेऽपि स्थिता पत्युश्छलेनाऽन्यं निरीक्षते.

५.१८१ योषिद्वृन्दारिका तस्य दयिता हंसगामिनी

५.१८२ दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला.

५.१९१ नाऽऽस्यं पश्यति यस्तस्या, निंस्ते दन्तच्छदं न वा,

५.१९२ संशृणोति न चोक्तानि, मिथ्याऽऽसौ निहितेन्द्रियः.

५.२०१ सारोऽसाविन्द्रियाऽर्थानां, यस्याऽसौ तस्य नन्दथुः,

५.२०२ तल्पे कान्ताऽन्तरैः सार्धं मन्येऽहं धिङ्निमज्जथुम्.

५.२११ न तं पश्यामि, यस्याऽसौ भवेन्नोदेजया मतेः

५.२१२ त्रैलोक्येनाऽपि विन्दस्त्वं तां क्रीत्वा सुकृती भव.

५.२२१ नैवेन्द्राणी, न रुद्राणी, न मानवी न रोहिणी,

५.२२२ वरुणानी न, नाऽग्नायी तस्याः सीमन्तिनी समा.”

५.२३१ प्रत्यूचे राक्षसेन्द्रस्ताम्Ä “आश्वसिहि, बिभेषि किम्,

५.२३२ त्यज नक्तञ्चरि ! क्षोभं, वाचाटे ! रावणो ह्यहम्.

५.२४१ मामुपास्त दिदृक्षावान्याष्टीकव्याहतो हरिः

५.२४२ आज्ञालाभोन्मुखो दूरात्काक्षेणाऽनादरेक्षितः

५.२५१ विरुग्णोदग्रघाराऽग्नः कुलिशो मम वक्षसि

५.२५२ अभिन्नं शतधाऽऽत्मानं मन्यते बलिनं बली.

५.२६१ कृत्वा लङ्काद्रुमाऽऽलानमहमैरावतं गजम्

५.२६२ बन्धनेऽनुपयोगित्वान्नतं तृणवदत्यजम्.

५.२७१ आहोपुरुषिकां पश्य मम, सद्रत्नकान्तिभिः

५.२७२ ध्वस्ताऽन्धकारेऽपि पुरे पूर्णेन्दोः सन्निधिः सदा.

५.२८१ हृतरत्नश्च्युतोद्योगो रक्षोभ्यः करदो दिवि

५.२८२ पूतक्रतायीमभ्येति सत्रपः किं न गोत्रभित्.

५.२९१ अतुल्यमहसा सार्धं रामेण मम विग्रहः

५.२९२ त्रपाकरस्, तथाप्येष यतिष्ये तद्विनिग्रहे.”

५.३०१ उत्पत्य खं दशग्रीवो मनोयायी शिताऽस्त्रभृत्

५.३०२ समुद्रसविधाऽऽवासं मारीचं प्रति चक्रमे.

५.३११ सम्पत्य तत्सनीडेसौ तं वृत्तान्तमषिष्रवत्,

५.३१२ त्रस्नुनाऽथ श्रुताऽर्थेन तेनाऽगादि दशाऽऽननः.

५.३२१ “अन्तर्धत्स्व रघुव्याघ्रात्तस्मात्त्वं राक्षसेश्वर !,

५.३२२ यो रण्ने दुरुपस्थानो हस्तरोधं दधद्धनुः,

५.३३१ भवन्तं कार्तवीर्यो यो हीनसन्धिमचीकरत्,

५.३३२ जिगाय तस्य हन्तारं स रामः सार्वलौकिकम्.

५.३४१ यमाऽऽस्यदृश्वरी तस्य ताडका वेत्ति विक्रमम्.

५.३४२ शूरंमन्यो रणाच्चाऽहं निरस्तः सिंहनर्दिना.

५.३५१ न त्वं तेनाऽन्वभाविष्ठा, नाऽन्वभावि त्वयाऽप्यसौ,

५.३५२ अनुभूतो मया चाऽसौ, तेन चाऽन्वभविष्यहम्,

५.३६१ अध्यङ्शस्त्रभृतां रामो, न्यञ्चस्तं प्राप्य मद्विधाः,

५.३६२ स कन्याशुल्कमभनङ्मिथिलायां मखे धनुः

५.३७१ संवित्तः सहयुध्वानौ तच्छक्तिं खरदूषणौ,

५.३७२ यज्वानश्च ससुत्वानो, यानगोपीन्मखेषु सः.

५.३८१ सुखजातः सुरापीतो नृजग्धो माल्यधारयः

५.३८२ अधिलङ्कं स्त्रियो दीव्य, माऽऽरब्धा बलिविग्रहम्.”

५.३९१ तंभीतंकारमाक्रुश्य रावणः प्रत्यभाषतÄ

५.३९२ “यातयामं विजितवान्स रामं यदि, किं ततः

५.४०१ अघानि ताडका तेन लज्जाभयविभूषणा,

५.४०२ स्त्रीजने यदि तच्छ्लाघ्यं, धिग्लोकं क्षुद्रमानसम्.

५.४११ यद्गेहेनर्दिनमसौ शरैर्भीरुमभाययत्

५.४१२ कुब्रह्मयज्ञके रामो भवन्तं, पौरुषं न तत्.

५.४२१ चिरकालोषितं जीर्णं कीटनिष्कुषितं धनुः

५.४२२ किं चित्रं यदि रामेण भग्नं क्षत्रियकाऽन्तिके.

५.४३१ वनतापसके वीरौ विपक्षे गलिताऽऽदरौ

५.४३२ किं चित्रं यदि साऽवज्ञौ मम्रतुः खरदूषणौ.

५.४४१ त्वं च भीरुः सुदुर्बुद्धे ! नित्यं शरणकाम्यसि,

५.४४२ गुणांश्चाऽपह्नुषेऽस्माकं, स्तौषि शत्रूंश्च नः सदा.

५.४५१ शीर्षच्छेद्यमतोऽहं त्वा कर्ॐइ क्षितिवर्धनम्,

५.४५२ कारयिष्यामि वा कृत्यं विजिघृक्षुर्वनौकसौ.

५.४६१ तमुद्यतनिषाताऽसिं प्रत्युवाच जिजीविषुः

५.४६२ मारीचोऽनुनयंस्त्रासाद्"अभ्यमित्र्यो भवामि ते.

५.४७१ हरामि रामस्ॐइत्री मृगो भूत्वा मृगद्युवौ,

५.४७२ उद्योगमभ्यमित्रीणो यथेष्टं त्वं च संतनु.”

५.४८१ ततश्चित्रीयमाणोऽसौ हेमरत्नमयो मृगः

५.४८२ यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन्.

५.४९१ तेनाऽदुद्यूषयद्रामं मृगेण मृगलोचना

५.४९२ मैथिली विपुलोरस्कं प्रावुवूर्षुर्मृगाऽजिनम्.

५.५०१ योगक्षेमकरं कृत्वा सीताया लक्ष्मणं ततः

५.५०२ मृगस्याऽनुपदी रामो जगाम गजविक्रमः

५.५११ स्थायं स्थायं क्वचिद्यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित्

५.५१२ वीक्षमाणो मृगं रामश्चित्रवृत्तिं विसिष्मिये.

५.५२१ चिरं क्लिशित्वा मर्माविद्रामो विलुभितप्लवम्

५.५२२ शब्दायमानमव्यात्सीत्भयदं क्षणदाचरम्.

५.५३१ श्रुत्वा विस्फूर्जथुप्रख्यं निनादं परिदेविनी

५.५३२ मत्वा कष्टश्रितं रामं स्ॐइत्रिं गन्तुमैजिहत्.

५.५४१ “एष प्रावृषिजाऽम्भोद नादी भ्राता विरौति ते,

५.५४२ ज्ञातेयं कुरु स्ॐइत्रे ! भयात्त्रायस्व राघवम्.”

५.५५१ “रामसंघुषितं नैतन्, मृगस्यैव विवञ्चिषोः

५.५५२ रामस्वनितसङ्काशः स्वान्”, इत्यवदत्स ताम्.

५.५६१ “आप्यानस्कन्धकण्ठांऽसं रुषितं सहितुं रणे

५.५६२ प्रोर्णुवन्तं दिशो बाणैः काकुत्स्थं भीरु ! कः क्षमः

५.५७१ देहं बिभ्नक्षुरस्त्राऽग्नौ मृगः प्राणैर्दिदेविषन्

५.५७२ ज्याघृष्टकठिनाऽङ्गुष्ठं राममायान्मुमूर्षया.

५.५८१ शत्रून्भीषयमाणं तं रामं विस्मापयेत कः,

५.५८२ मा स्म भैषीस्, त्वयाऽद्यैव कृताऽर्थो द्रक्ष्यते पतिः”

५.५९१ “यायास्त्वमिति कामो मे, गन्तुमुत्सहसे न च,

५.५९२ इच्छुः कामयितुं त्वं माम्”, इत्यसौ जगदे तया.

५.६०१ मृषोद्यं प्रवदन्तीं तां सत्यवद्यो रघूत्तमः

५.६०२ निरगात्"शत्रुहस्तं त्वं यास्यसी"ति शपन्वशी.

५.६११ गते तस्मिन्, जलशुचिः शुद्धदन्रावणः शिखी

५.६१२ जञ्जपूकोऽक्षमालावान्धारयो मृदलाबुनः

५.६२१ कमण्डलुकपालेन शिरसा च मृजावता

५.६२२ संवस्त्र्य लाक्षिके वस्त्रे मात्राः संभाण्ड्य दण्डवान्

५.६३१ अधीयन्नात्मविद्विद्यां धारयन्मस्करिव्रतम्

५.६३२ वदन्बह्वङ्गुलिस्फोटं भ्रूक्षेपं च विलोकयन्

५.६४१ संदिदर्शयिषुः साम निजुह्नूषुः क्षपाटताम्

५.६४२ चंक्रमावान्समागत्य सीतामूचेÄ"सुखाभव.”

५.६५१ सायंतनीं तिथिप्रण्यः पङ्कजानां दिवातनीम्

५.६५२ कान्तिं कान्त्या सदातन्या ह्रेपयन्ती शुचिस्मिता.

५.६६१ का त्वमेकाकिनी भीरु ! निरन्वयजने वने,

५.६६२ क्षुध्यन्तोऽप्यघसन्व्यालास्त्वामपालां कथं न वा.

५.६७१ हृदयंगममूर्तिस्त्वं सुभगंभावुकं वनम्

५.६७२ कुर्वाणा भीममप्येतद्वदाऽभ्यैः केन हेतुना.

५.६८१ सुकृतं प्रियकारी त्वं कं हरस्युपतिष्ठसे,

५.६८२ पुण्यकृच्चाटुकारस्ते किङ्करः सुरतेषु कः.

५.६९१ परिपर्युदधे रूपमाद्युलोकाच्च दुर्लभम्.

५.६९२ भावत्कं दृष्टवत्स्वेतदस्मास्वधि सुजीवितम्.

५.७०१ आपीतमधुका भृङ्गैः सुदिवेवाऽरविन्दिनी

५.७०२ सत्परिमललक्ष्मीका नाऽपुंस्काऽसीति मे मतिः.

५.७११ मिथ्यैव श्रीः श्रियंमन्या, श्रीमन्मन्यो मृषा हरिः,

५.७१२ साक्षात्कृत्याऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः

५.७२१ नोदकण्ठिष्यताऽत्यर्थं, त्वामैक्षिष्यत चेत्स्मरः,

५.७२२ खेलायन्ननिशं नापि सजूःकृत्य रतिं वसेत्,

५.७३१ वल्गूयन्तीं विलोक्य त्वां स्त्री न मन्तूयतीह का,

५.७३२ कान्तिं नाऽभिमनायेत को वा स्थाणुसमोऽपि ते.

५.७४१ दुःखायते जनः सर्वाह्, स एवैकः सुखायते,

५.७४२ यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके.

५.७५१ कः. पण्डितायमानस्त्वा मादायाऽऽमिषसन्निभाम्

५.७५२ त्रस्यन्वैरायमाणेभ्यः शून्यमन्ववसद्वनम्.”

५.७६१ ओजायमाना तस्याऽर्ध्यं प्रणीय जनकाऽऽत्मजा

५.७६२ उवाच दशमूर्धानं साऽऽदरा गद्गदं वचः

५.७७१ “महाकुलीन ऐक्ष्वाके वंशे दाशरथिर्मम

५.७७२ पितुः प्रियंकरो भर्ता क्षेमंकारस्तपस्विनाम्.

५.७८१ निहन्ता वैरकाराणां सतां बहुकरः सदा

५.७८२ पारश्वधिकरामस्य शक्तेरन्तकरो रणे

५.७९१ अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदा

५.७९२ पितुर्नियोगाद्राजत्वं हित्वा योऽभ्यागमद्वनम्

५.८०१ पितत्रिक्रोष्टुजुष्टानि रक्षांसि भयदे वने

५.८०२ यस्य बाणनिकृत्तानि श्रेणीभूतानि शेरते.

५.८११ दीव्यमानं शितान्बाणानस्यमानं महागदाः

५.८१२ निघ्नानं शात्रवान्रामं कथं त्वं नाऽवगच्छसि.

५.८२१ भ्रातरि न्यस्य यातो मां मृगाविन्मृगयामसौ,

५.८२२ एषितुं प्रेषितो यातो मया तस्याऽनुजो वनम्

५.८३१ अथाऽऽयस्यन्कषायाऽक्षः स्यन्नस्वेदकणोल्बणः

५.८३२ संदर्षिताऽऽन्तराकूतस्तामवादीद्दशाननः,

५.८४१ “कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम्

५.८४२ को नग्नमुषितप्रख्यं बहु मन्येत राघवम्.

५.८५१ राक्षसान्बटुयज्ञेषु पिण्डीशूरान्निरस्तवान्

५.८५२ यद्यसौ कूपमाण्डूकि ! तवैतावति कः स्मयः

५.८६१ मत्पराक्रमसंक्षिप्तराज्यभोगपरिच्छदः

५.८६२ युक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः

५.८७१ निर्लङ्को विमदः स्वामी धनानां हृतपुष्पकः

५.८७२ अध्यास्तेऽन्तर्गिरं यस्मात्, कस्तन्नाऽवैति कारणम्.

५.८८१ भिन्ननौक इव ध्यायन्मत्तो बिभ्यद्यमः स्वयम्

५.८८२ कृष्णिमानं दधानेन मुखेनाऽऽस्ते निरुद्यतिः

५.८९१ समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरी

५.८९२ रत्नपारायणं नाम्ना लङ्केति मम मैथिलि !

५.९०१ आवासे सिक्तसंमृष्टे गन्धैस्त्वं लिप्तवासिता

५.९०२ आर्पितोरुसुगन्धिस्रक्तस्यां वस मया सह.

५.९११ संगच्छ प्ॐस्नि ! स्त्रैणं मां युवानं तरुणी शुभे !

५.९१२ राघवः प्रोष्यपापीयान्, जहीहि तमकिंचनम्.

५.९२१ अश्नीतपिबतीयन्ती प्रसिता स्मरकर्मणि

५.९२२ वशेकृत्य दशग्रीवं मोदस्व वरमन्दिरे.

५.९३१ मा स्म भूर्ग्राहिणी भीरु ! गन्तुमुत्साहिनी भव,

५.९३२ उद्भासिनी च भूत्वा मे वक्षःसंमार्दिनी भव.”

५.९४१ तां प्रातिकूलिकीं मत्वा जिहीर्षुर्भीमविग्रहः

५.९४२ बाहूपपीडमाश्लिष्य जगाहे द्यां निशाचरः

५.९५१ त्रस्यन्तीं तां समादाय यतो रात्रिंचराऽऽलयम्

५.९५२ तूष्णींभूय भयादासांचक्रिरे मृगपक्षिणः

५.९६१ उच्चै रारस्यमानां तां कृपणां रामलक्ष्मणौ

५.९६२ जटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन्.

इति प्रकीर्णकाण्डः प्रथमः समाप्तः

अतः परमधिकारकाण्डम्

५.९७१ “द्विषन्! वनेचराऽग्र्याणां त्वमादायचरो वने

५.९७२ अग्रेसरो जघन्यानां मा भूः पूर्वसरो मम.

५.९८१ यशस्करसमाचारं ख्यातं भूवि दयाकरम्

५.९८२ पितुर्वाक्यकरं रामं धिक्त्वां दुन्वन्तमत्रपम्

५.९९१ अहमन्तकरो नूनं ध्वान्तस्येव दिवाकरः

५.९९२ तव राक्षस ! रामस्य नेयः कर्मकरोपमः

५.१००१ सतामरुष्करं पक्षी वैरकारं नराऽशिनम्

५.१००२ हन्तुं कलहकारोऽसौ शब्दकारः पपात खम्.

अतः परं प्रकीर्णकाः

५.१०११ धुन्वन्सर्वपथीनं खे वितानं पक्षयोरसौ

५.१०१२ मांसशोणितसंदर्शं तुण्डघातमयुध्यत.

५.१०२१ न बिभाय, न जिह्राय, न चक्लाम, न विव्यथे

५.१०२२ आघ्नानो विध्यमानो वा रणान्निववृते न च.

५.१०३१ पिशाचमुखधौरेयं सच्छत्रकवचं रथम्

५.१०३२ युधि कद्रथवद्भीमंबभञ्ज ध्वजशालिनम्

अतः परं आमधिकारः

५.१०४१ संत्रासयांचकाराऽरिं, सुरान्पिप्राय पश्यतः,

५.१०४२ स त्याजयांचकाराऽरिं सीतां विंशतिबाहुना.

५.१०५१ असीतो रावणः कासांचक्रे शस्त्रैर्निराकुलः,

५.१०५२ भूयस्तं भेदिकांचक्रे नखतुण्डाऽऽयुधः खगः.

५.१०६१ हन्तुं क्रोधवशादीहांचक्राते तौ परस्पसम्,

५.१०६२ न वा पलायांचक्रे विर्दयांचक्रे न राक्षसः.

५.१०७१ उपासांचक्रिरे द्रष्टुं देवगन्धर्वकिन्नराः,

५.१०७२ छलेन पक्षौ लोलूयांचक्रे क्रव्यात्पतत्रिणः

५.१०८१ प्रलुठितमवनौ विलोक्य कृत्तं दशवदनः खचरोत्तमं प्रहृष्यन्

५.१०८२ रथवरमधिरुह्य भीमधुर्यं स्वपुरमगात्परिगृह्य रामकान्ताम्.

६.११ ओषांचकार कामाऽग्निर्दशावक्त्रमहर्निशम्.

६.१२ विदांचकार वैदेहीं रामादन्यनिरुत्सुकाम्.

६.२१ प्रजागरांचकारारेरीहास्वनिशमादरात्,

६.२२ प्रबिभयांचकाराऽसौ काकुत्स्थादभिशङ्कितः.

६.३१ न जिह्रयांचकाराऽथ सीतामभ्यर्थ तर्जितः.

६.३२ नाप्यूर्जां बिभरामास वैदेह्यां प्रसितो भृशम्.

६.४१ विदांकुर्वन्तु रामस्य वृत्तमित्यवदत्स्वकान्,

६.४२ रक्षांसि रक्षितुं सीतामाशिषच्च प्रयत्नवान्.

अथ प्रकीर्णकाःÄ

६.५१ रामोऽपि हतमारीचो निवर्त्स्यन्खरनादिनः

६.५२ क्रोष्टून्समशृणोत्क्रूरान्रसतोऽशुभशंसिनः

६.६१ आशङ्कमानो वैदेहीं खादितां निहतां मृताम्

६.६२ स शत्रुघ्नस्य सोदर्यं दूरादायान्तमैक्षत.

६.७१ सीतां स्ॐइत्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकां

६.७२ विज्ञायाऽमंस्त काकुत्स्थःÄ"क्षये क्षेमं सÄदुर्लभम्.”

अतः परं दुहादिःÄ

६.८१ सोऽपृच्छल्लक्ष्मणं सीतां याचमानः शिवं सुरान्,

६.८२ रामं यथास्थितं सर्वं ब्राता ब्रूते स्म विह्वलः

६.९१ संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम्

६.९२ प्राणान्दुहन्निवाऽऽत्मानं शोकं चित्तमवारुधत्.

६.१०१ “गता स्यादवचिन्वाना कुसुमान्याश्रमद्रुमान्.

६.१०२ आ यत्र तापसान्धर्मं सुतीक्ष्णः शास्ति, तत्र सा.

अतः परं प्रकीर्णकाःÄ

६.१११ आः, कष्टं, बत, हीचित्रं, हूं, मातर्, दैवतानि धिक्,

६.११२ हा पितः !, क्वाऽसि हे सुभ्रु !,” बह्वेवं विललाप सः,

६.१२१ इहाऽऽसिष्ठाऽशयिष्टेह सा, सखेलमितोऽगमत्,

६.१२२ अग्लासीत्संस्मरन्नित्थं मैथिल्या भरताऽग्रजः.

६.१३१ “इदं नक्तंतनं दाम पौष्पमेतद्दिवातनम्,

६.१३२ शुचेवोद्बध्य शाखायां प्रग्लायति तया विना,

६.१४१ ऐक्षिष्महि मुहुः सुप्तां यां मृताऽऽशङ्कया वयम्,

६.१४२ अकाले दुर्मरमहो, यज्जीवामस्तया विना,

६.१५१ अक्षेमः परिहासोऽयं. परीक्षां मा कृथा मम,

६.१५२ मत्तो माऽन्तिर्धथाः सीते ! मा रंस्था जीवितेन नः,

अतः परं सिजधिकारःÄ

६.१६१ अहं न्यवधिषं भीमं राक्षसं क्रूर विक्रमम्,

६.१६२ मा घुक्षः पत्युरात्मानं, मा न श्लिक्षः प्रियं प्रिये.

६.१७१ मा स्म द्राक्षीर्मृषा दोषं, भक्तं मा मातिचिक्लिशः,

६.१७२ शैलं न्यशिश्रियद्वामा, नदीं, नु प्रत्यदुद्रुवत्.

६.१८१ ऐ वाचं देहि. धैर्यं नस्तव हेतोरसुस्रुवत्.

६.१८२ त्वं नो मतिमिवाऽघासीर्नष्टा, प्राणानिवाऽदधः.

६.१९१ रुदतोऽशिश्वयच्चक्षुÄ रास्यं हेतोस्तवाऽश्वयीत्,

६.१९२ म्रियेऽहं, मां निरास्थश्चेन्, मा न वोचश्चिकीर्षितम्.

६.२०१ लक्ष्मणाऽऽचक्ष्व, यद्याख्यत्सा किञ्चित्कोपकारणम्,

६.२०२ दोषे प्रतिसमाधानÄ मज्ञाते क्रियतां कथम्.

६.२११ इह सा व्यलिपद्गन्धैः, स्नान्तीहाऽभ्यषिचज्जलैः,

६.२१२ इहाऽहं द्रष्टुमाह्वं तां,” स्मरन्नेवं मुमोह सः

६.२२१ तस्याऽलिपत शोकाऽग्निः स्वान्तं काष्ठमिव ज्वलन्,

६.२२२ अलिप्तेवाऽनिलः शीतो वने तं, न त्वजिह्लदत्.

६.२३१ स्नानभ्यषिचताऽम्भोऽसौ रुदन्दयितया विना

६.२३२ तथाऽभ्यषिक्त वारीणि पितृभ्यः शोकमूर्च्छितः

६.२४१ तथाऽऽ र्तोऽपि क्रियां धर्म्यां स काले नाऽमुचत्क्वचित्,

६.२४२ महतां हि क्रिया नित्या छिद्रे नैवाऽवसीदति.

६.२५१ आह्वास्त स मुहुः शूरान्, मुहुराह्वत राक्षसान्,

६.२५२ “एत सीताद्रुहः संख्ये, प्रत्यर्तयत राघवम्,

६.२६१ स्वपोषमपुषद्युष्मान्या पक्षिमृगशावकाः !

६.२६२ अद्युतच्चेन्दुना सार्धं, तां प्रब्रूत, गता यतः.”

६.२७१ गिरिमन्वसृपद्रामो लिप्सुर्जनकसंभवाम्,

६.२७२ तस्मिन्नायोधनं वृत्तं लक्ष्मणायाऽशिषन्महत्Ä

६.२८१ “सीतां जिघांसू स्ॐइत्रे ! राक्षसावारतां ध्रुवम्,

६.२८२ इदं शोणितमभ्यग्रं सप्रहारेऽच्युतत्तयोः.

६.२९१ इदं कवचमच्योतीत्, साऽश्वोऽयं चूर्णीतो रथः,

६.२९२ एह्यमुं गिरिमन्वेष्टुमवगाहावहे द्रुतम्

६.३०१ मन्युर्मन्ये ममाऽस्तम्भीद्, विषादोऽस्तभदुद्यतिम्,

६.३०२ अजारीदिव च प्रज्ञा, बलं शोकात्तथाजरत्.

६.३११ गृध्रस्येहाश्वतां पक्षौ कृतौ, वीक्षस्व लक्ष्मण !

६.३१२ जिघत्सोर्नूनमापादि ध्वंसोऽयं तां निशाचरात्.”

६.३२१ क्रुद्धोऽदीपि रघुव्याघ्रो, रक्तनेत्रोऽजनि क्षणात्,

६.३२२ उबोधि दुःस्थं त्रैलोक्यं, दीप्तैरापूरि भानुवत्.

६.३३१ अताय्यस्योत्तमं सत्वमप्यायि कृतकृत्यवत्,

६.३३२ उपाचायिष्ट सामर्थ्यं तस्य संरम्भिणो महत्.

६.३४१ अदोहीव विषादोऽस्य, समरुद्धेव विक्रमः,

६.३४२ समभावि च कोपेन, न्यश्वसीच्चाऽऽयतं मुहुः.

६.३५१ अथाऽऽलम्ब्य धनू रामो जगर्ज गजविक्रमः,

६.३५२ “रुणध्मि सवितुर्मार्गं, भिनद्मि कुलपर्वतान्.

६.३६१ रिणच्मि जलधेस्तोयं, विविनच्मि दिवः सुरान्,

६.३६२ क्षुणद्मि सर्पान्पाताले, छिनद्मि क्षणदाचरान्.

६.३७१ यमं युनज्मि कालेन समिन्धानोऽस्त्रकौशलम्,

६.३७२ शुष्कपेषं पिनष्म्युर्वीमखिन्दानः स्वतेजसा

६.३८१ भूतिं तृणद्मि यक्षाणां, हिनस्मीन्द्रस्य विक्रमम्,

६.३८२ भनज्मि सर्वमर्यादास्, तनच्मि व्य्ॐअ विस्तृतम्

६.३९१ न तृणेह्मीति लोकोऽयं मां विन्ते निष्पराक्रम्,”

६.३९२ एवं वदन्दाशरथिरपृणग्धनुशा शरं.

६.४०१ न्यवर्तयत्सुमित्राभूस्तं चिकीर्षुं जगत्क्षयम्,

६.४०२ ऐक्षेतामाश्रमादाराद्गिरिकल्पं पतत्रिणम्

६.४११ तं सीताघातिनं मत्वा हन्तुं रामोऽभ्यधावत,

६.४१२ “मा वधिष्ठा जटायुं मां सीतां रामाऽहमैक्षिषि.”

६.४२१ उपास्थितैवमुक्ते तं सखायं राघवः पितुः,

६.४२२ पप्रच्छ जानकीवार्तां संग्रामं च पतत्रिणम्.

ततो रावणमाख्याय द्विषन्तं पततां वरः

६.४३१ व्रणवेदनया ग्लायन्ममार गिरिकन्दरे,

६.४३२ तस्याग्न्यम्बुक्रियां कृत्वा प्रतस्थाते पुनर्वनम्.

६.४४१ सत्वानजस्रं घोरेण बलाऽपकर्षमश्नता

६.४४२ क्षुध्यता जगृहाते तौ रक्षसा दीर्घबाहुना.

६.४५१ भुजौ चकृततुस्तस्य निस्त्रिंशाभ्यां रघूत्त्मौ,

६.४५२ स छिन्नबाहुरपतद्विह्वलो ह्वलयन्भुवम्.

इति प्रकीर्णकाः

अथ कृत्याऽधिकारःÄ

६.४६१ प्रष्टव्यं पृच्छतस्तस्य कथनीयमवीवचत्

६.४६२ आत्मानं वनवासं च जेयं चाऽरिं रघूत्तमः

६.४७१ “लभ्या कथं नु वैदेही, शक्यो द्रष्टुं कथं रिपुः,

६.४७२ सह्यः कथं वियोगश्च, गद्यमेतत्त्वया मम.”

६.४८१ “अहं राम ! श्रियः पुत्रो मद्यपीत इव भ्रमन्,

६.४८२ पापचर्यो मुनेः शापाज्जात” इत्यवदत्स तम्.

६.४९१ “प्रयातस्तव यम्यत्वं शस्त्रपूतो ब्रवीमि ते,

६.४९२ रावणेन हृता सीता लङ्कां नीता सुरारिणा.

६.५०१ ऋष्यमूकेऽनवद्योऽस्ति पण्यभ्रातृवधः कपिः

६.५०२ सुग्रीवो नाम, वर्योऽसौ भवता चारुविक्रमः.

६.५११ तेन वह्येन हन्तासि त्वमर्यं पुरुषाऽशिनाम्

६.५१२ राक्षसं क्रूरकर्माणं शक्राऽरिं दूरवासिनम्.

६.५२१ आस्ते स्मरन्स कान्ताया हृताया वालिना कपिः

६.५२२ वृषो यथोपसर्याया गोष्ठे गोर्दण्डताडितः.

६.५३१ तेन सङ्गतमार्येण रामाऽजर्यं कुरु द्रुतम्.

६.५३२ लङ्कां प्राप्य ततः पापं दशग्रीवं हनिष्यसि.

६.५४१ अनृतोद्यं न तत्रास्ति, सत्यवद्यं ब्रवीम्यहम्.

६.५४२ मित्रभूयं गतस्तस्य रिपुहत्यां करिष्यसि.

६.५५१ आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण संगतः

६.५५२ इत्यः शिष्येण गुरुवद्गृध्यमर्थमवाप्स्यसि.

६.५६१ नाऽखेयः सागरोऽप्यन्यस्तस्य सद्भृत्यशालिनः,

६.५६२ मन्युस्तस्य त्वया मार्ग्यो, मृज्यः शोकश्च तेन ते.”

६.५७१ स राजसूयÄयाजीव तेजसा सूर्यसन्निभः

६.५७२ अमृषोद्यं वदन्रुच्यो जगाहे द्यां निशाचरः

६.५८१ अकृष्टपच्याः पश्यन्तौ ततो दाशरथी लताः

६.५८२ रत्नाऽन्नपानकुप्यानामाटतुर्नष्टसंस्मृती.

६.५९१ समुत्तरन्तावव्यथ्यौ नदान्भिद्योद्ध्यसन्निभान्

६.५९२ सिध्यतारामिव ख्यातां शबरीमापतुर्वने.

६.६०१ वसानां वल्कले शूद्धे विपूयैः कृतमेखलाम्

६.६०२ क्षामामञ्जनपिण्डाऽऽभा दण्दिनीमजिनाऽऽस्तराम्

६.६११ प्रगृह्यपदवत्साध्वीं स्पष्टरूपामविक्रियाम्

६.६१२ अगृह्यां वीतकामत्वाद्देवगृह्यामनिन्दिताम्

६.६२१ धर्मकृत्यरतां नित्यमकृष्यफलभोजनाम्

६.६२२ दृष्ट्वा ताममुचद्रामो युग्याऽऽयात इव श्रमम्.

६.६३१ स तामूचेऽथ"कच्चित्त्वममावास्यासमन्वये

६.६३२ पित्णां कुरुषे कार्यमपाक्यैः स्वादुभिः फलैः

६.६४१ अवश्यपाव्यं पवसे कच्चित्त्वं देवभाग्घ्विः,

६.६४२ आसाव्यमध्वरे स्ॐअं द्विजैः कच्चिन्नमस्यसि.

६.६५१ आचाम्यं संध्ययोः कच्चित्सत्यक्ते न प्रहीयते,

६.६५२ कच्चिदग्निमिवाऽऽनाय्यं काले संमन्यसेऽतिथिम्.

६.६६१ न प्रणाय्यो जनः कच्चिन्निकाय्यं तेऽधितिष्ठति

६.६६२ देवकार्यविघाताय धर्मद्रोही महोदये !

६.६७१ कुण्डपाय्यवतां कच्चिदग्निचित्यावतां तथा

६.६७२ कथाभी रमसे नित्यमुपचाय्यवतां शुभे !

अथ प्रकीर्णकाःÄ

६.६८१ वर्धते ते तपो भीरु ! व्यजेष्ठा विघ्ननायकान्,

६.६८२ अजैषीः कामÄसंमोहौ, संप्राप्था विनयेन वा.

६.६९१ नाऽऽयस्यसि तपस्यन्ती, गुरून्सम्यगतूतुषः

६.६९२ यमान्नोदविजिष्ठास्त्वं, निजाय तपसेऽतुषः”

६.७०१ अथाऽर्ध्यं मधुपर्काऽऽद्यमुपनीयाऽऽदरादसौ

६.७०२ अर्चयित्वा फलैरर्च्यौ सर्वत्राऽऽख्यदनामयम्.

अतः परं कृदधिकारःÄ

६.७११ “सख्यस्य तव सुग्रीवः कारकः कपिनन्दनः,

६.७१२ द्रुतं द्रष्टासि मैथिल्पाः,” सैवमुक्त्वा तिरोऽभवत्.

६.७२१ नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम्

६.७२२ वनानि भेजतुर्वीरौ ततः पाम्पानि राघवौ.

६.७३१ “भृङ्गाऽऽलीकोकिलक्रुङ्भिर्वाशनैः पश्य लक्ष्मण !

६.७३२ रोचनैर्भूषितां पम्पा मस्माकं हृदयाविधम्

६.७४१ परिभावीणि ताराणां पश्य मन्थीनि चेतसाम्

६.७४२ उद्भासीनि जलेजानि दुन्वन्त्य्अदयितं जनम्

६.७५१ सर्वत्र दयिताऽधीनं सुव्यक्तं रामणीयकम्

६.७५२ येन जातं प्रियाऽपाये कद्वदं हंसकोकिलम्.

६.७६१ पक्षिभिर्वितृदैर्यूना शाखिभिः कुसुमोत्किरैः

६.७६२ अज्ञो यो, यस्य वा नाऽस्ति प्रियः, प्रग्लो भवेन्न सः.

६.७७१ ध्वनीनामुद्धमैरेभिर्मधूनामुद्धयैर्भृशम्

६.७७२ आजिघ्रैः पुष्पगन्धानां पतगैर्ग्लपिता वयम्.

६.७८१ धारयैः कुसुमोर्मीणां पारयैर्बाधितुं जनान्

६.७८२ शाखिभिर्हा हता भूयो हृदयानामुदेजयैः

६.७९१ ददैर्दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम्

६.७९२ लिम्पैरिव तनोर्वातैश्चेतयः स्याज्ज्वलो न कः.

६.८०१ अवश्यायकणाऽऽस्रावाश्चारुमुक्ताफलत्विषः

६.८०२ कुर्वन्ति चित्तसंस्रावं चलत्पर्णाऽग्रसंभृताः

६.८११ अवसायो भविष्यामि दुःखस्याऽस्य कदा न्वहम्,

६.८१२ न जीवस्याऽवहारो मां करोति सुखिनं यमः

६.८२१ दह्येऽहं मधुनो लेहैर्दावैरुग्रैर्यथा गिरिः,

६.८२२ नायः कोऽत्र स, येन स्यां बताऽहं विगतज्वरः

६.८३१ समाविष्टं ग्रहेणेव ग्राहेणेवाऽऽत्तमर्णवे

६.८३२ दृष्ट्वा गृहान्स्मरस्येव वनाऽन्तान्मम मानसम्

६.८४१ वाताऽऽहतिचलच्छाखा नर्तका इव शाखिनः

६.८४२ दुःसहा ही परिक्षिप्ताः क्वणद्भिरलिगाथकैः.

६.८५१ एकहायनसारङ्गगती रघुकुलोत्तमौ

६.८५२ लवकौ शत्रुशक्तीनामृष्यमूकमगच्छताम्.

६.८६१ तौ वालिप्रणिधी मत्वा सुग्रीवोऽचिन्तयत्कपिः,

६.८६२ “बन्धुना विगृहीतोऽहं भूयासं जीवकः कथम्.”

६.८७१ स शत्रुलावौ मन्वानो राघवौ मलयं गिरिम्

६.८७२ जगाम सपरीवारो व्य्ॐअमायमिवोत्थितम्.

६.८८१ शर्मदं मारुतिं दूतं विषमस्थः कपिद्विपम्

६.८८२ शोकाऽपनुदमव्यग्रं प्रायुङ्क्त कपिकुञ्जरः.

६.८९१ विश्वासप्रदवेषोऽसौ पथिप्रज्ञः समाहितः

६.८९२ चित्तसंख्यो जिगीषूणामुत्पपात नभस्तलम्

६.९०१ सुरापैरिव घूर्णद्भिः शाखिभिः पवनाऽऽहतैः

६.९०२ ऋष्यमूकमगाद्भृङ्गैः प्रगीतं सामगैरिव.

६.९११ तं मनोहरमागत्य गिरिं वर्महरौ कपिः

६.९१२ वीरौ सुखाऽऽहरोऽवोचद्भिक्षुर्भिक्षार्हविग्रहः.

६.९२१ “बलिनावमूमद्रीन्द्रं युवां स्तम्बेरमाविव

६.९२२ आचक्षाथां मिथः कस्माच्छङ्करेणाऽपि दुर्गमम्

६.९३१ व्याप्तं गुहाशयैः क्रूरैः क्रव्याद्भिः सनिशाचरैः

६.९३२ तुङ्गशैलतरुछन्नं मानुषाणामगोचरम्.

६.९४१ सत्वमेजयसिंहाऽऽढ्यान्स्तनंधायसमत्विषौ

६.९४२ कथं नाडिंधमान्मार्गानागतौ विषमोपलान्.

६.९५१ अत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः,,

६.९५२ आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः.

६.९६१ रामोऽवोचद्धनूमन्तं “आवामभ्रंलिहं गिरिम्

६.९६२ ऐव विद्वन्! पितुः कामात्पान्तावल्पंपचान्मुनीन्.

६.९७१ अमितंपचमीशानं सर्वभोगीणमुत्तमम्

६.९७२ आवयोः पितरं विद्धि ख्यातं दशर्थं भुवि.

६.९८१ छलेन दयिताऽरण्याद्रक्षसाऽरुंतुदेन नः

६.९८२ असूर्यंपश्यया मूर्त्या हृता, तां मृगयावहे.”

६.९९१ प्रत्यूचे मारुति रामं Ä “अस्ति वालीति वानरः”

६.९९२ शमयेदपि संग्रामे यो ललाटंतपं रविम्.

६.१००१ उग्रंपश्येन सुग्रीवस्तेन भ्राता निराकृतः,

६.१००२ तस्य मित्रीयतो दूतः संप्राप्तोऽस्मि वशंवदः

६.१०११ प्रियंवदोऽपि नैवाऽहं ब्रुवे मिथ्या परंतप !,

६.१०१२ सख्या तेन दशग्रीवं निहन्तासि द्विषंतपम्.

६.१०२१ वाचंयमोऽहमनृते सत्यमेतद्ब्रवीमि ते,

६.१०२२ एहि, सर्वंसहं मित्रं सुग्रीवं कुरु वानरम्.”

६.१०३१ सर्वंकषयशःशाखं रामकल्पतरुं कपिः

६.१०३२ आदायाऽ भ्रंकषं प्रायान्मलयं फलशालिनम्.

६.१०४१ मेघंकरमिवायान्तमृतुं रामं क्लमान्विताः

६.१०४२ दृष्ट्वा मेने नसुग्रीवो वालिभानुं भयंकरम्.

६.१०५१ उपाÄग्न्यकुरुतां सख्यमन्योन्यस्य प्रियंकरौ,

६.१०५२ क्षेमंकराणि कार्याणि पर्यालोचयतां ततः.

६.१०६१ आशितंभवमुत्क्रुष्टं वल्गितं शयितं स्थितम्

६.१०६२ बह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम्

६.१०७१ ततो बलिंदमप्रख्यं कपिविश्वंभराऽधिपम्

६.१०७२ सुग्रीवः प्राब्रवीद्रामं वालिनो युधि विक्रमम्

६.१०८१ “वसुंधरायां कृत्स्नायां नाऽस्ति वालिसमो बली,

६.१०८२ हृदयंगममेतत्त्वां ब्रवीमि, न पराभवम्.

६.१०९१ दूरगैरन्तगैर्बाणैर्भवानत्यन्तगः श्रियः

६.१०९२ अपि संक्रन्दनस्य स्यात्क्रुद्धः, किमुत वालिनः

६.११०१ वरेण तु मुनेर्वाली संजातो दस्युहो रणे

६.११०२ अवार्यप्रसरः प्रातरुद्यन्निव तमोऽपहः

६.११११ अतिप्रियत्वान्न हि मे कातरं प्रतिपद्यते

६.१११२ चेतो वालिवधं राम ! क्लेशापहमुपस्थितम्.

६.११२१ शीर्षघातिनमायातमरीणां त्वां विलोकयन्

६.११२२ पतिघ्नीलक्ष्मणोपतां मन्येऽहं वालिनः श्रियम्.

६.११३१ शत्रुघ्नान्युधि हस्तिघ्नो गिरीन्क्षिप्यन्नकृत्रिमान्

६.११३२ शिल्पिभिः पाणिघैः क्रुद्धस्त्वया जय्योऽभ्युपायवान्.

६.११४१ आढ्यंकरणविक्रान्तो महिषस्य सुरद्विषः

६.११४२ प्रियंकरणमिन्द्रस्य दुष्करं कृतवान्वधम्.

६.११५१ प्रियंÄभावुकतां यातस्तं क्षिपन्योजनं मृतम्

६.११५२ स्वर्गे प्रियंभविष्णुश्च क्र्त्स्नं शक्तोऽप्यबाधयन्”,

६.११६१ जिज्ञासोः शक्तिमस्त्राणां रामो न्यूनधियः कपेः

६.११६२ अभीनत्प्रतिपत्त्यर्थं सप्त व्य्ॐअ स्पृशस्तरून्.

६.११७१ ततो वालिपशौ वध्ये रामर्त्विग्जितसाध्वसः

६.११७२ अभ्यभून्निलयं भ्रातुः सुग्रीवो निनदन्दधृक्.

६.११८१ गुहाया निरगाद्वाली सिंहो मृगमिव द्युवन्

६.११८२ भ्रातरं युङ्भियः संख्ये घोषेणाऽऽपूरयन्दिशः

६.११९१ व्यायच्छमानयोर्मूढो भेदे सदृशयोस्तयोः

६.११९२ बाणमुद्यतमायंसीदिक्ष्वाकुकुलनन्दनः.

६.१२०१ ऋष्यमूकमगात्क्लन्तः कपिर्मृगसदृग्द्रुतम्

६.१२०२ किष्किन्धाऽद्रिसदाऽऽत्यर्थं निष्पिष्टः कोष्णमुच्छ्वसन्.

६.१२११ कृत्वा वालिद्रुहं रामो मालया सविशेषणम्.

६.१२१२ अङ्गदस्वं पुनर्हन्तुं कपिघ्नाऽऽह्वाययद्रणे.

६.१२२१ तयोर्वानरसेनान्योः संप्रहारे तनुच्छिदम्

६.१२२२ वालिनो दूरभाग्रामो बाणं प्राणाऽदमत्यजत्

६.१२३१ वालिनं पतितं दृष्ट्वा वानरा रिपुघातिनम्

६.१२३२ बान्धवाऽऽक्रोशिनो भेजुरनाथाः ककुभो दश

६.१२४१ धिग्दाशरथिमित्यूचुर्मुनयो वनवर्तिनः.

६.१२४२ उपेयुर्मधुपायिन्यः क्रोशन्त्यस्तं कपिस्त्रियः.

६.१२५१ राममुच्चैरुपालब्ध शूरमानी कपिप्रभुः

६.१२५२ व्रणवेदनया ग्लायन्साधुंमन्यमसाधुवत्.

६.१२६१ “मृषाऽसि त्वं हविर्याजी राघव ! छद्मतापसः

६.१२६२ अन्यव्यासक्तघातित्वाद्ब्रह्मघ्नां पापसंमितः.

६.१२७१ पापकृत्सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः

६.१२७२ मामपापं दुराचार ! किं निहत्याऽभिधास्यसि.

६.१२८१ अग्निचित्स्ॐअसुद्राजा रथचक्रचिदाऽऽदिषु

६.१२८२ अनलेष्विष्टवान्कस्मान्न त्वयाऽपेक्षितः पिता.

६.१२९१ मांसविक्रयिणः कर्म व्याधस्याऽपि विगर्हितम्

६.१२९२ मां घ्नता भवताऽकारि निःषङ्कं पापदृष्वना.

६.१३०१ बुद्धिपूर्वं ध्रुवन्न त्वा राजकृत्वा पिता खलम्

६.१३०२ सहयुध्वानमन्येन योऽहिनो मामनागसम्

६.१३११ पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृतजैर्द्विजैः,

६.१३१२ कौशल्याज ! शशाऽऽदीनां तेषां नैकोऽप्यहं कपिः.

६.१३२१ कथं दुष्ठुः स्वयं धर्मे प्रजास्त्वं पालयिष्यसि,

६.१३२२ आत्माऽनुजस्य जिह्रेषि स्ॐइत्रेस्त्वं कथं न वा.

६.१३३१ मन्ये किंजमहं घ्नन्तं त्वामक्षत्त्रियजे रणे

६.१३३२ लक्ष्मणाऽधिज ! दुर्वृत्त ! प्रयुक्तमनुजेन नः”.

६.१३४१ प्रत्यूचे वालिनं रामोÄ"नाऽकृतं कृतवानहम्

६.१३४२ यज्वभिः सुत्वभिः पूवैर्जरद्भिश्च कपीष्वर !

६.१३५१ ते हि जालैर्गले पाशैस्तिरश्चामुपसेदुषाम्

६.१३५२ ऊषुषां परदारैश्च सार्धं निधनमैषिषुः.

६.१३६१ अहं तु षुष्रुवान्Äभ्रात्रा स्त्रियं भुक्तां कनीयसा

६.१३६२ उपेयिवाननूचानैर्निन्दितस्त्वं लतामृग !

६.१३७१ अन्वनैषीत्ततो वाली त्रपावानिव राघवम्.

६.१३७२ न्यक्षिपच्चाऽङ्गदं यत्नात्काकुत्स्थे तनयं प्रियं

६.१३८१ म्रियमाणः स सुग्रीवं प्रोचे सद्भावमागतःÄ

६.१३८२ “संभाविष्याव एकस्यामभिजानासि मातरि.

६.१३९१ अवसाव नगेन्द्रेषु, यत्पास्यावो मधूनि च,

६.१३९२ अभिजानीहि तत्सर्वं, बन्धूनां समयो ह्ययम्.

६.१४०१ दैवं न विदधे नूनं युगपत्सुखमावयोः,

६.१४०२ शश्वद्बहूव तद्दुःस्थं यतो न” इतिहाऽकरोत्.

६.१४११ ददौ स दयितां भ्रात्रे मालां चाऽग्र्यां हिरण्मयीम्,

६.१४१२ राज्यं संदिश्य भोगाम्श्च ममार व्रणपीडितः

६.१४२१ तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाऽऽज्ञया

६.१४२२ किष्किन्धाऽद्रिगुहां गन्तुं मनः प्रणिदधे द्रुतम्

६.१४३१ नामग्राहं कपिभिरशनैः स्तूयमानः समन्ता दन्वग्भावं रघुवृषभयोर्वानरेन्द्रो विराजन्

६.१४३२ अभ्यर्णेऽम्भःपतनसमये पर्णलीभूतसानुं किष्किन्धाद्रिं न्यविशत मधुक्षीबगुञ्जद्द्विरेफम्.

७.११ ततः कर्ता वनाऽऽकम्पं ववौ वर्षाप्रभञ्जनः,

७.१२ नभः पूरयितारश्च समुन्नेमुः पयोधराः.

७.२१ तर्पणं प्रजनिष्णूनां षस्यानाममलं पयः

७.२२ रोचिष्णवः सविस्फूर्जा मुमुचुर्भिन्नवद्घनाः

७.३१ निराकरिष्णवो भानुं दिवं वर्तिष्णवोऽभितः

७.३२ अलंकरिष्णवो भान्तस्तडित्वन्तश्चरिष्णवः

७.४१ तान्विलोक्याऽसहिष्णुः सन्विललान्पोन्मदिष्णुवत्

७.४२ वसन्माल्यवति ग्लास्नू रामो जिष्णुरधृष्णुवत्

७.५१ “भ्रमी कदम्बसंभिन्नः पवनः शमिनामपि

७.५२ क्लमित्वं कुरुतेऽत्यर्थं मेघशीकरशीतलः.

७.६१ संज्वारिणेव मनसा ध्वान्तमायासिना मया

७.६२ द्रोहि खद्योतसंपर्कि नयनाऽमोषि दुःसहम्.

७.७१ कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम्

७.७२ अभ्याघातिभिरामिश्राश्चातकैः परिराटिभिः.

७.८१ संसर्गी परिदाहीव शीतोऽप्याभाति शीकरः,

७.८२ सोढुमाक्रीडिनोऽशक्याः शिखिनः परिवादिनः.

७.९१ एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम्

७.९२ पीडयन्ति जनं धाराः पतन्त्योऽनपकारिणम्.

७.१०१ कूर्याद्योगिनमप्येष स्फूर्जावान्परिमोहिनम्

७.१०२ त्यागिनं सुखदुःखस्य परिक्षेप्यम्भसामृतुः.

७.१११ विकत्थी याचते प्रत्तमविश्रम्भी मुहुर्जलम्

७.११२ पर्जन्यं चातकः पक्षी निकृन्तन्निव मानसम्.

७.१२१ प्रलापिनो भविष्यन्ति कदा न्वेतेऽपलाषिणः.”

७.१२२ प्रमाथिनो वियुक्तानां हिंसकाः पापदर्दुराः.

७.१३१ निन्दको रजनिंमन्यं दिवसं क्लेशको निशाम्

७.१३२ प्रावृष्यनैषीत्काकुत्स्थः कथंचित्परिदेवकः

७.१४१ अथोपशरदेऽपश्यत्क्रौञ्चानां चेष्टनैः कुलैः

७.१४२ उत्कण्ठावर्धनैः शुभ्रं रवणैरम्बरं ततम्.

७.१५१ विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनोऽवदत्Ä

७.१५२ “पश्य दन्द्रमणान्हंसानरविन्दÄसमुत्सुकान्.

७.१६१ कपिश्चङ्क्रमणोऽद्यापि नाऽसौ भवति गर्धनः,

७.१६२ कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम्.

७.१७१ नाऽवैत्याप्यायितारं किं कमलानि रविं कपिः

७.१७२ दीपितारं दिनाऽऽरम्भे निरस्तध्वान्तसंचयम्.

७.१८१ अतीते वर्षुके काले, प्रमत्तः स्थायुको गृहे

७.१८२ गामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम्.

७.१९१ जल्पाकीभिः सहाऽऽसीनः स्त्रीभिः प्रजविना त्वया

७.१९२ गत्वा लक्ष्मण ! वक्तव्यो जयिना निष्ठुरं वचः

७.२०१ शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमी

७.२०२ न्यायं परिभवी ब्रूहि पापमव्यथिनं कपिम्.

७.२११ स्पृहयालुं कपिं स्त्रीभ्यो निद्रालुमदयालुवत्

७.२१२ श्रद्धालुं भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम्.”

७.२२१ सृमरो भङ्गुरप्रज्ञो गृहीत्वा भासुरं धनुः

७.२२२ विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान्कपीन्.

७.२३१ तं जागरूकः कार्येषु दन्दशूकरिपुं कपिः

७.२३२ अकम्प्रं मारुतिर्दीप्रं नम्रः प्रावेशयद्गुहाम्

७.२४१ कम्राभिरावृतः स्त्रीभिराशंसुः क्षेममात्मनः

७.२४२ इच्छुः प्रसादं प्रणयन्सुग्रीवः प्रावदन्नृपम्.

७.२५१ “अहं स्वप्नक्प्रसादेन तव वन्दारुभिः सह

७.२५२ अभीरुरवसं स्त्रीभिर्भासुराभिरीहेश्वरः.

७.२६१ विद्यन्नाशं रवेर्भासं विभ्राजं शशलाञ्छनम्

७.२६२ रामप्रत्तेषु भोगेषु नाहमज्ञासिषं रतः

७.२७१ एष शोकच्छिदो वीरान्प्रभो ! सम्प्रति वानरान्

७.२७२ धराशैलसमुद्राणामन्तगान्प्रहिण्ॐयहम्.

अथ निरधिकारकृत्Ä

७.२८१ राघवस्य ततः कार्यं कारुर्वानरपुङ्गवः

७.२८२ सर्ववानरसेनानामाश्वागमनमादिशत्.

७.२९१ “वयमद्यैव गच्छामो रामं द्रष्टुं त्वराऽन्विताः

७.२९२ कारका मित्रकार्याणि सीतालाभाय”, सोऽब्रवीत्.”

७.३०१ ततः कपीनां संघाता हर्षाद्राघवभूतये

७.३०२ पूरयन्तः समाजग्मुर्भयदाया दिशो दश.

७.३११ सुग्रीवाऽन्तिकमासेदुः सादयिष्याम इत्यरिम्

७.३१२ करिष्यन्त इवाऽकस्माद्भुवनं निर्दशाननम्.

७.३२१ कर्ताऽस्मि कार्यमायातैरेभिरित्यवगम्य सः

७.३२२ काकुत्स्थपादपच्छायां सीतस्पर्शामुपागमत्.

७.३३१ कार्यं सारनिभं दृष्ट्वा वानराणां समागमम्

७.३३२ अवैन्नाशं दशाऽऽस्यस्य निर्वृत्तमिव राघवः.

७.३४१ ततः कपिसमाहारमेऽकनिश्चायमागतम्

७.३४२ उपाध्यायऽइवाऽऽयामं सुग्रीवोऽध्यापिपद्दिशाम्

७.३५१ सजलाऽम्भोदसंरावं हनुमन्तं सहाऽङ्गदम्

७.३५२ जाम्बवं नीलसहितं चारुसन्द्रावमब्रवीत्Ä

७.३६१ “यात यूयं यमश्रायं दिशं नायेन दिक्षणाम्

७.३६२ विक्षावस्तोयविश्रावं तर्जयन्तो महोदधेः

७.३७१ उन्नायानधिगच्छन्तः प्रद्रावैर्वसुधाभृताम्

७.३७२ वनाऽभिलावान्कुर्वन्तः स्वेच्छया चारुविक्रमाः

७.३८१ सदोद्गारसुगन्धीनां फलानामलमाशिताः

७.३८२ उत्कारेषु च धान्यानामनभीष्टपरिग्रहाः

७.३९१ संस्तावमिव शृण्वन्तश्छन्दोगानां महाध्वरे

७.३९२ शिञ्जितं मधुलेहानां पुष्पप्रस्तारशायिनाम्

७.४०१ आलोचयन्तो विस्तारमम्भसां दक्षिणोदधेः

७.४०२ स्वादयन्तः फलरसं मुष्टिसंग्राहपीडितम्.

७.४११ न्याय्यं यद्यत्र, तत्कार्यं पर्यायेणाऽविरोधिभिः,

७.४१२ निशोपशायः कर्तव्यः फलोच्चायश्च संहतैः

७.४२१ सीता रक्षोनिकायेषु स्तोककायैश्छलेन च

७.४२२ मृग्या शत्रुनिकायानां व्यावहासीमनाश्रितैः

७.४३१ सांराविणं न कर्तव्यं, यावन्नाऽऽयाति दर्शनम्,

७.४३२ संदृष्टायां तु वैदेह्यां निग्राहो वोऽर्थवानरेः.

७.४४१ प्रग्राहैरिव पात्राणामन्वेष्या मैथिली कृतैः

७.४४२ ज्ञातव्या चेङ्गितैर्ध्यायन्ती राघवाऽऽगमम्.

७.४५१ वेदिवत्सपरिग्राहा यज्ञयैः संस्कृता द्विजैः

७.४५२ दृश्या मासतमागह्नः प्रागनिन्दितवेशभृत्

७.४६१ नीवारफलमूलाऽशानृषीनप्यतिशेरते

७.४६२ यस्य गुणा निरुद्द्रावास्तां द्रुतं यात, पश्यत.

७.४७१ उच्छ्रायवान्घनाऽऽरावो वानरं जलदाऽरवम्

७.४७२ दूराऽऽप्लावं हनूमन्तं रामः प्रोचे गजाऽऽप्लवः

७.४८१ “अवग्राहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः,

७.४८२ प्रर्थयध्वं तथा सीतां, यात सुग्रीवशासनम्

७.४९१ वणिक्प्रग्राहवान्यद्वत्काले चरति सिद्धये,

७.४९२ देशाऽपेक्षास्तथा यूयं याताऽऽदायाऽङ्गुलीयकम्.”

७.५०१ अभिज्ञानं गृहीत्वा ते समुत्पेतुर्नभस्तलम्

७.५०२ वाजिनः स्यन्दने भानोर्विमुक्तप्रग्रहा इव.

७.५११ उदक्शतवलिं कोट्या, सुषेणं पक्षिमां तथा

७.५१२ दिशं प्रास्थापयद्राजा वानराणां कृतत्वरः

७.५२१ प्राचीं तावद्भिरव्यग्रः कपिभिर्विनतो ययौ

७.५२२ अप्रग्राहैरिवाऽऽदित्यो वाजिभिर्दूरपातिभिः.

७.५३१ ययुर्विन्ध्यं शरन्मेघैः प्रावारैः प्रवरैरिव

७.५३२ प्रच्छन्नं मारुतिप्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः

७.५४१ परिभावं मृगेन्द्राणां कुर्वन्तो नगमूर्धसु

७.५४२ विन्ध्ये तिग्मांशुमार्गस्य चेरुः परिभवोपमे.

७.५५१ भ्रेमुः शिलोच्चयांस्तुङ्गानुत्तेरुरतरान्नदान्

७.५५२ आशंसवो लवं शत्रोः सीतायाश्च विनिश्चयम्

७.५६१ आदरेण गमं चक्रुर्विषमेस्वप्यसङ्घसाः

७.५६२ व्याप्नुवन्तो दिशोऽन्यादान्कुर्वन्तः सव्यधान्हरीन्.

७.५७१ संचेरुः सहसाः केचिद,स्वनाः केचिदाटिषुः

७.५७२ संयामवन्तो यतिवन्, निगदानपरेऽमुचन्.

७.५८१ अथ क्लमादनिःक्वाणा नराः क्षीणपणा इव

७.५८२ अमदाः सेदुरेकस्मिन्नितम्बे निखिला गिरेः.

७.५९१ ततः ससंमदास्तत्र निरैक्षन्त पतत्रिणः

७.५९२ गुहाद्वारेण निर्यातः समजेन पशूनिव.

७.६०१ वीनामुपसरं दृष्ट्वा तेऽन्योन्यापहवा गुहाम्

७.६०२ प्राविशन्नाहवप्रज्ञा आहावमुपलिप्सवः.

७.६११ कुर्वन्तो हवमाप्तानां पिपासावधकाङ्क्षिणः

७.६१२ द्वारं तमोघनप्रख्यं गुहायाः प्राविशन्द्रुतम्.

७.६२१ तस्मिन्नन्तर्घणेऽपश्यन्प्रघाणे सौधसद्मनः.

७.६२२ लौहोद्घनघनस्कन्धा ललिताऽपघनां स्त्रियम्

७.६३१ सा स्तम्बघ्नपदन्यासान्विघनेन्दुसमद्युतिः

७.६३२ परिघोरुभुजानाह हसन्ती स्वागतं कपीन्.

७.६४१ पिप्रायाऽद्रिगुहोपघ्नानुद्घान्संघसमागतान्

७.६४२ फलैर्नानारसैश्चित्रैः स्वादुशीतैश्च वारिभिः

७.६५१ निघाऽनिघतरुच्छन्ने तस्मिंस्ते लब्ध्रिमैः फलैः

७.६५२ तृप्तास्तां भ्राजथुमतीं पप्रच्छुः"कस्य पूरियम्.”

७.६६१ “रक्ष्णं करोषि कस्मात्त्वं, यत्नेनाऽऽख्यायतां शुभे !

७.६६२ स्वप्ने निधिवदाभाति तव संदर्शनं हि नः.

७.६७१ ततो जलधिगम्भीरान्वानरान्प्रत्यवाच साÄ

७.६७२ “इयं दानवराजस्य पूः सृष्टिर्विश्वकर्मणः

७.६८१ जिहतश्च स्थितिं भिन्दन्दानवोऽसौ जलद्विषा,

७.६८२ दुहिता मेरुसावर्णेरहं नाम्ना स्वयंप्रभा.

७.६९१ जूतिमिच्छथ चेत्तूर्णं, कीर्तिं वा पातुमात्मनः

७.६९२ कर्ॐइ वा बहिर्यूतीन्, पिधध्वं पाणिभिर्दृशः”

७.७०१ प्रज्यायती निरुद्धाऽक्षान्विद्येवाऽनुष्ठितक्रियान्

७.७०२ निरचिक्रमदिच्छातो वानरांश्चङ्क्रमावतः.

७.७११ निष्क्रम्य शिक्षया तस्यास्त्रपावन्तो रसातलात्

७.७१२ ज्ञात्वा मासुमतिक्रान्तं व्यथामवललम्बिरे.

७.७२१ चिन्तावन्तः कथां चक्रुरुपधाभेदभीरवः

७.७२२ “अकृत्वा नृपतेः कार्यं पूजां लप्स्यामहे कथम्.

७.७३१ प्रायोपासनया शान्तिं मन्वानो वालिसंभवः

७.७३२ युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्तवेदनाम्

७.७४१ प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान्

७.७४२ “धिक्शालभञ्जिकाप्रख्यान्विशयान्कल्पनारुचीन्,

७.७५१ यां कारिं राजपुत्रो,ऽयमनुतिष्ठति, तां क्रियाम्

७.७५२ अहमप्यनुतिष्ठामि” सोऽप्युक्त्वैवमुपाविशत्.

७.७६१ उवाच मारुतिर्वृद्धे संन्यासिन्यत्र वानरात्

७.७६२ “अहं पर्यायÄसंप्राप्तां कुर्वे प्रायोपवेशिकाम्

७.७७१ अभावे भवतां योऽस्मिन्जीवेत्, तस्याऽस्त्वजीवनिः,”

७.७७२ इत्युक्त्वा सर्व एवाऽस्थुर्बद्ध्वा योगाऽऽसनानि ते.

७.७८१ अक्लेश्यमसिनाऽग्न्यन्तं कबन्धवधमभ्यधुः,

७.७८२ धिङ्नः प्रपतनं घोरं क्लेदाऽन्तत्वमनाथवत्.

७.७९१ ततो मन्दगतः पक्षी तेषां प्रायोपवेशनम्

७.७९२ अशनीयमिवाशंसुर्महानायादशोभनः

७.८०१ देहव्रश्चनतुण्डाऽग्रं तं विलोक्याऽशुभाऽऽकरम्

७.८०२ पापगोचरमात्मानमशोचन्वानरा मुहुः

७.८११ “जटायुः पुण्यकृत्पक्षी दण्डकारण्यसञ्चरः

७.८१२ कृत्वा राघवकार्यं यः स्वराऽऽरूढोऽग्निसंस्कृतः

७.८२१ नरकस्याऽवतारोऽयं प्रत्यक्षोऽस्माकमागतः,

७.८२२ अचेष्टा यदिहाऽन्यायादनेनाऽत्स्यामहे वयं

७.८३१ हृदयोदङ्कसंस्थानं कृतान्ताऽऽनायसन्निभम्

७.८३२ शरीराऽऽखनतुण्डाऽग्रं प्राप्याऽमुं शर्म दुर्लभम्.

७.८४१ ईषदाढ्यङ्करोऽप्येष न परत्राऽशुभक्रिया,

७.८४२ अस्मानत्तुमितोऽभ्येति परिग्लानो बुभुक्षया.”

७.८५१ संप्राप्य वानरान्पक्षी जगाद मधुरं वचःÄ

७.८५२ “के यूयं दुरुपस्थाने मनसाऽप्यद्रिमूर्धनि.

अथ प्रकीर्णकाः

७.८६१ आत्मनः परिदेवध्वे कुर्वन्तो रामसंकथाम्,

७.८६२ समानोदर्यमस्माकं जटायुं च स्थुथाऽऽदरात्.

७.८७१ शङ्काधवित्रवचनं प्रत्यूचुर्वानराः खगम्Ä

७.८७२ “वयं शत्रुलवित्रेषोर्दूता रामस्य भूपतेः.

७.८८१ केनाऽपि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम्

७.८८२ हृतां माहाकुलीनस्य तस्य लिप्सामहे वयम्.

७.८९१ त्रिंशत्तममहर्यातं मत्वा प्रत्यागमाऽवधिम्

७.८९२ अकृताऽर्था विशीदन्तः परलोकमुपास्महे.

७.९०१ म्रियामहे, न गच्छामः कौशल्यायनिवल्लभाम्

७.९०२ उपलम्भ्यामपश्यन्तः क्ॐआरीं पततां वर !”

७.९११ जगाद वानरान्पक्षी"नाध्यगीढ्वं ध्रुवं स्मृतिम्

७.९१२ यूयं संकुटियुं यस्मात्कालेऽस्मिन्नध्यवस्यथ.

७.९२१ नाऽयमुद्विजितुं कालः स्वामिकार्याद्भवादृशाम्

७.९२२ हृतभार्ये च्युते राज्याद्रामो पर्युत्सुके भृशम्.

७.९३१ यत्नं प्रोर्णवितुं तूर्णं दिशं कुरुत दक्षिणाम्,

७.९३२ प्रोर्णुवित्रीं दिवस्तत्र पुरीं द्रक्ष्यथ काञ्चनीम्.

७.९४१ लङ्कां नाम्ना गिरेर्मूर्ध्नि राक्षसेन्द्रेण पालिताम्

७.९४२ निर्जित्य शक्रमानीता ददृशुर्यां सुरस्त्रियः

७.९५१ बभूव याऽधिशैलेन्द्रं मृदित्वेवेन्द्रगोचरम्

७.९५२ कुषित्वा जगतां सारं सैका शङ्के कृता भुवि.

७.९६१ अमृडित्वा सहस्राऽक्षं क्लिशित्वा कौशलैर्निजैः

७.९६२ उदित्वाऽलं चिरं यत्नात्सैका धात्रा विनिर्मिता.

७.९७१ मुषित्वा धनदं पापो यां गृहीत्वाऽऽवसद्द्विषन्,

७.९७२ तां रुदित्वेव शक्रेण यात लङ्कामुपेक्षिताम्.

७.९८१ विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः

७.९८२ उक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः.

७.९९१ नाऽविविदिषुम्भ्येति सम्पद्रुरुदिषुं नरम्,

७.९९२ किं मुमुषिषुवद्यात द्विषो नाऽपचिकीर्षया.

७.१००१ बुभुत्सवो द्रुतं सीतां भुत्सीध्वं, प्रब्रवीमि वः,

७.१००२ मा च भुद्ध्वं मृषोक्तं नः, कृषीढ्वं स्वामिने हितं

७.१०११ समगध्वं पुरः शत्रोर्, मोदयध्वं रघूत्तमम्,

७.१०१२ नोपायध्वं भयं, सीतां नोपायंस्त दशाननः.

७.१०२१ ततः प्रास्थिषताऽद्रीन्द्रं महेन्द्रं वानरा द्रुतम्

७.१०२२ सर्वे किलकिलायन्तो, धैर्यं चाऽऽधिषताऽधिकम्.

७.१०३१ निकुञ्जे तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम्

७.१०३२ मणिरत्नाऽधिशयितं प्रत्युदैक्षन्त तोयधिम्

७.१०४१ अमर्षितमिव घ्नन्तं तटाऽद्रीन्मलिलोर्मिभिः

७.१०४२ श्रिया समग्रं द्युतितं मदेनेव प्रलोठितम्

७.१०५१ पूतं शीतैर्नभस्वद्भिर्ग्रन्थित्वेव स्थितं रुचः

७.१०५२ गुम्फित्वेव निरस्यन्तं तरङ्गान्सर्वतो मुहुः

७.१०६१ वञ्चित्वाऽप्यम्बरं दूरं स्वस्मिंस्तिष्ठन्तमात्मनि

७.१०६२ तृषित्वेवाऽनिशं स्वादु पिबन्तं सरितां पयः

७.१०७१ द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्धितम्

७.१०७२ मेरोर्जेतुमिवाऽऽभोगमुच्चैर्दिद्योतिषुं मुहुः.

७.१०८१ विलोक्य सलिलोच्चयानधिसमुद्रमभ्रंलिहान्भ्रमन्मकर भीषणं समधिगम्य चाऽधः पयः

७.१०८२ गमाऽऽगमसहं द्रुतं कपिवृषाः परिप्रैषयन्गजेन्द्रगुरुविक्रमं तरुमृगोत्तमं मारुतिम्.

८.११ आगाधत ततो व्य्ॐअ हनूमानुरुविग्रहः,

८.१२ अत्यशेरत तद्वेगं न सुपर्णाऽर्कमारुताः

८.२१ अभायत यथाऽर्केण सुप्रातेन शरन्मुखे,

८.२२ गम्यमानं न तेनाऽऽसीदगतं क्रामता पुरः.

८.३१ वियति व्यत्यतन्वातां मूर्ती हरिपयोनिधी,

८.३२ व्यत्यैतां चोत्तमं मार्गमर्केन्द्रेन्दुनिषेवितम्.

८.४१ व्यतिजिग्ये समुद्रोऽपि न धैर्यं तस्य गच्छतः

८.४२ व्यत्यगच्छन्न च गतं प्रचण्डोऽपि प्रभञ्जनः.

८.५१ व्यतिघ्नन्तीं व्यतिघ्नन्तां राक्षसीं पवनाऽऽत्मजः

८.५२ जघानाऽऽविश्य वदनं निर्यात्भित्त्वोदरं द्रुतम्

८.६१ अन्योन्यं स्म व्यतियुतः शब्दान्शब्दैस्तु भीषणान्

८.६२ उदन्वांश्चानिलोद्धूतो म्रियमाणा च राक्षसी.

८.७१ न्यविक्षत महाग्राहसंकुलं मकराऽऽलयम्

८.७२ सैका बहूनां कुर्वाणा नक्राणां स्वाऽऽशितम्भवम्

८.८१ कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्

८.८२ पित्रा संरक्षितं शक्रात्स मैनाकाऽद्रिमैक्षत.

८.९१ खं पराजयमानोऽसावुन्नत्य पवनाऽत्मजम्

८.९२ जगादाऽद्रिर्"विजेषीष्ठा मयि विश्रम्य वैरिणम्.

८.१०१ फलान्यादत्स्व चित्राणि, परिक्रीडस्व सानुषु,

८.१०२ साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम्.

८.१११ क्षणं भद्राऽवतिष्ठस्व, ततः प्रस्थास्यसे पुनः

८.११२ न तत्संस्थास्यते कार्यं दक्षेणोरीकृतं त्वया.

८.१२१ त्वयि नस्तिष्ठते प्रीतिस्तुभ्यं तिष्ठामहे वयम्,

८.१२२ उत्तिष्ठमानं मित्राऽर्थे कस्त्वां न बहु मन्यते.

८.१३१ ये सूर्यमुपतिष्ठन्ते मन्त्रैः संध्यात्रयं द्विजाः,

८.१३२ रक्षोभिस्तापितास्तेऽपि सिद्धिं द्यायन्ति तेऽधुना.

८.१४१ अव्यग्रमुपतिष्ठस्व वीर ! वायोरहं सुहृत्,

८.१४२ रविर्वितपतेऽत्यर्थमाश्वस्य मयि गम्यताम्.

८.१५१ तीव्रमुत्तपमानोऽयमशक्यः सोढुमातपः,

८.१५२ आघ्नान इव संदीप्तैरलातैः सर्वतो मुहुः.

८.१६१ संशृणुष्व कपे ! मत्कैः संगच्छस्व वनैः शुभैः,

८.१६२ समारन्त ममाऽभीष्टाः संकल्पास्त्वय्युपागते.

८.१७१ के न संविद्रते, वायोर्मैनाकाऽद्रिर्यथा सखा,

८.१७२ यत्नादुपाह्वये प्रतीतः, संह्वयस्व विवक्षितम्.

८.१८१ द्यामिवावयमानं तमवोचद्भूधरं कपिः

८.१८२ उपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीविवत्.

८.१९१ “कुलभार्यां प्रकुर्वाणमहं द्रष्टुं दशाननम्

८.१९२ यामि त्वरावान्शैलेन्द्र !, मा कस्यचिदुपस्कृथाः.

८.२०१ योऽपचक्रे वनात्सीतामधिचक्रे न यं हरिः,

८.२०२ विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम्.

८.२११ विकुर्वे नगरे तस्य पापस्याऽद्य रघुद्विषः,

८.२१२ विनेष्ये वा प्रियान्प्राणानुदानेष्येऽथवा यशः.

८.२२१ विनेष्ये क्रोधमथवा क्रममाणोऽरिसंसदि”

८.२२२ इत्युक्त्वा खे पराक्रंस्त तूर्णं सूनुर्नभस्वतः.

८.२३१ परीक्षितुमुपाक्रंस्त राक्षसी तस्य विक्रमम्

८.२३२ दिवमाक्रममाणेव केतुतारा भयप्रदा.

८.२४१ जले विक्रममाणाया हनूमान्शतयोजनम्

८.२४२ आस्यं प्रविश्य निरयादणूभूयाऽप्रचेतितः.

८.२५१ द्रष्टुं प्रक्रममाणोऽसौ सीतामम्भोनिधेस्तटम्,

८.२५२ उपाक्रंस्ताऽऽकुलं घोरैः क्रममाणैर्निशाचरैः

८.२६१ आत्मानमपजानानः शशमात्रोऽनयद्दिनम्,

८.२६२ ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रियापटुः.

८.२७१ संजानानान्परिधरन्रावणाऽनुचरान्बहून्

८.२७२ लङ्कां समाविशद्रात्रौ वदमानोऽरिदुर्गमाम्.

८.२८१ किंचिन्नोपावदिष्टाऽसौ, केनचिद्व्यवदिष्ट न,

८.२८२ शृण्वन्संप्रवदमानाद्रावणस्य गुणान्जनात्.

८.२९१ जल्पितोत्क्रुष्टसंगीतप्रनृत्तस्मितवल्गितैः

८.२९२ घोषस्यान्ववदिष्टेव लङ्का पुताक्रतोः पुरः

८.३०१ ऐद्विप्रवदमानैस्तां संयुक्तां ब्रह्मराक्षसैः

८.३०२ तथाऽवगिरमाणैश्च पिशाचैर्माम्सशोणितम्.

८.३११ यथास्वं संगिरन्ते स्म गोष्ठीषु स्वामिनो गुणान्,

८.३१२ पानशौण्डाः पथः क्षीबा वृन्दैरुदचरन्त च.

८.३२१ यानैः समचरन्ताऽन्ये कुञ्जराऽश्वरथाऽऽदिभिः,

८.३२२ संप्रायच्छन्त बन्दीभिरन्ये पुष्पफलं शुभम्.

८.३३१ कोपात्काश्चित्प्रियैः प्रत्तमुपायंसत नाऽऽसवम्,

८.३३२ प्रेम जिज्ञासमानाभ्यस्ताभ्योऽऽशप्सत कामिनः

८.३४१ प्रादिदृक्षत नो नृत्यं, नाऽशुश्रूषत गायनान्

८.३४२ रामं सुस्मूर्षमाणोऽसौ कपिर्विरहदुःखितम्.

८.३५१ अनुजिज्ञासतेवाऽथ लङ्कादर्षनमिन्दुना

८.३५२ तमोऽपहविमुक्तांऽशु पूर्वस्यां दिश्युदैयत.

८.३६१ आशुश्रूषन्स मैथिल्या वार्तां हर्म्येषु रक्षसाम्

८.३६२ शीयमानऽन्धकारेषु समचारीदशङ्कितः.

८.३७१ शतसाहस्रमारक्षं मध्यगं रक्षसां कपिः

८.३७२ ददर्श, यं कृतान्तोऽपि म्रियेताऽऽसाद्य भीषणम्,

८.३८१ अध्यासिसिषमाणेऽथ वियन्मध्यं निशाकरे

८.३८२ कासांचक्रे पुरी सौघैरतीवोद्भासिभिः सितैः

८.३९१ इन्दुं चषकसंक्रान्तमुपायुङ्क्त यथाऽमृतम्,

८.३९२ पयुञ्जानः प्रिया वाचः समाजाऽनुरतो जनः

८.४०१ संक्ष्णुवान इवोत्कण्ठामुपाभुङ्क्त सुरामलम्

८.४०२ ज्योत्स्नायां विगलन्मानस्तरुणो रक्षसां गणः

८.४११ मध्वपाययत स्वच्छं सोत्पलं दयिताऽन्तिके

८.४१२ आत्मानं सुरताऽऽभोगविश्रम्भोत्पादनं मुहुः

८.४२१ अभीषयन्त ये शक्रं राक्षसा रणपण्डिताः

८.४२२ अविस्मापयमानस्तान्कपिरोटीद्गृहाद्गृहम्,

८.४३१ सीतां दिदृक्षुः प्रच्छन्नः सोऽगर्धयत राक्षसान्,

८.४३२ अवञ्चयत मायाश्च स्वमायाभिर्नरद्विषाम्,

८.४४१ अपलापयमानस्य शत्रूंस्तस्याऽभवन्मतिः

८.४४२ “मिथ्या कारयते चारैर्घोषणां राक्षसाऽधिपः”

८.४५१ गूहमानः स्वमाहात्म्यमटित्वा मन्त्रिसंसदः

८.४५२ नृभ्योऽपवदमानस्य रावणस्य गृहं ययौ,

८.४६१ दिशो द्योतयमानाभिर्दिव्यनारीभिराकुलम्

८.४६२ श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम्

८.४७१ नित्यमुद्यच्छमानाभिः स्मरसंभोगकर्मसु

८.४७२ जानानाभिरलं लीलाकिल किंचितविभ्रमान्

८.४८१ स्वं कर्म कारयन्नास्ते निश्चिन्तो या झषध्वजः,

८.४८२ स्वार्थं कारयमाणाभिर्यूनो मदविमोहितान्

८.४९१ कान्तिं स्वां वहमानाभिर्यजन्तीभिः स्वविग्रहान्

८.४९२ नेत्रैरिव पिबन्तीभिः पश्यतां चित्तसंहतीः

८.५०१ ता हनूमान्पराकुर्वन्नगमत्पुष्पकं प्रति

८.५०२ विमानं मन्दरस्याद्रेरनुकुर्वदिव श्रियम्.

८.५११ तस्मिन्कैलाससंकाशां शिरःशृङ्गं भजद्रुमम्

८.५१२ अभिक्षिपन्तमैक्षिष्ट रावणं पर्वतश्रियम्

८.५२१ प्रवहन्तं सदामोदं सुप्तं परिजनाऽन्वितम्

८.५२२ मघोने परिमृष्यन्तमारभन्तं परं स्मरे

८.५३१ व्यरमत्प्रधनाद्यस्मात्परित्रस्तः सहस्रदृक्,

८.५३२ क्षणं पर्यरमत्तस्य दर्शनान्मारुताऽऽत्मजः.

८.५४१ उपारंसीच्च संपश्यन्वानरस्तं चिकीर्षितात्

८.५४२ रम्यं मेरुमिवाऽऽधूतकाननं श्वसनोर्मिभिः

८.५५१ दृष्ट्वा दयितया साकं रहीभूतं दशाननम्

८.५५२ नाऽत्र सीतेत्युपारंस्त दुर्मना वायुसंभवः.

८.५६१ ततः प्राकारमारोहत्क्षपाटानविबोधयन्,

८.५६२ नाऽयोधयत्समर्थोऽपि सीतादर्शनलालसः.

८.५७१ अध्यासीद्, “राघवस्याऽहं नाशयेयं कथं शुचम्,

८.५७२ वैदेह्या जनयेयं वा कथमानन्दमुत्तमम्.

८.५८१ दृष्ट्वा राघवकान्तां तां द्रावयिष्यामि राक्षसान्,

८.५८२ तस्या हि दर्शनात्पूर्वं विक्रमः कार्यनाशकृत्.

८.५९१ चिन्तयन्नित्थमुत्तुङ्गैः प्रावयन्तीं दिवं वनैः

८.५९२ अशोकवनिकामारादपश्यत्स्तबकाऽऽचिताम्.

८.६०१ तां प्राविशत्कपिव्याघ्रस्तरूनचलयन्शनैः

८.६०२ अत्रासयन्वनशयान्सुप्तान्शाखासु पक्षिणः.

८.६११ अवाद्वायुः शनैर्यस्यां लतां नर्तयमानवत्

८.६१२ नाऽऽयासयन्त संत्रस्ता ऋतवोऽन्योन्यसंपदः.

८.६२१ ज्योत्स्नाऽमृतं शशी वस्यां वापीर्विकसितोत्पलाः

८.६२२ अपाययत संपूर्णः सदा दशमुखाऽऽज्ञया.

८.६३१ प्रादमयन्त पुष्पेषुं यस्यां बन्द्यः समाहृताः

८.६३२ परिमोहयमाणाभी राक्षसीभिः समावृताः.

८.६४१ यस्यां वासयते सीतां केवलं स्म रिपुः स्मरात्

८.६४२ न त्वरोचयताऽऽत्मानं चतुरो वृद्धिमानपि

८.६५१ मन्दायमानगमनो हरितायत्तरुं कपिः,

८.६५२ द्रुमैः शकशकायद्भिर्मारुतेनाऽऽट सर्वतः.

८.६६१ अस्यन्दन्निन्दुमणयतो, व्यरुचन्कुमुदाऽऽकराः,

८.६६२ अलोठिषत वातेन प्रकीर्णः स्तबकोच्चयाः.

८.६७१ सीताऽन्तिके विवृत्सन्तं वर्त्स्यत्सिद्धिं प्लवङ्गमम्

८.६७२ पतत्रिणः शुभा मन्द्रमानुवानास्त्वजिह्लदन्.

८.६८१ वर्तिष्यमाणमात्मानं सीता पत्युरिवाऽन्तिके

८.६८२ उदपश्यत्तदा तथ्यैर्निमित्तैरिष्टदर्शनैः.

८.६९१ “निरवर्त्स्यन्न चेद्वार्ता सीताया, वितथैव नः

८.६९२ अकल्प्स्यदुद्यतिः सर्वा”, हनूमानित्यचिन्तयत्.

इत्यात्मनेपदाधिकारः

८.७०१ वृक्षाद्वृक्षं परिक्रामन्रावणाद्बिभ्यतीं भृशम्

८.७०२ शत्रोस्त्राणमपश्यन्तीमदृश्यो जनकाऽऽत्मजाम्

८.७११ तां पराजयमानां स प्रीते रक्ष्यां दशाऽऽननात्

८.७१२ अन्तर्दधानां रक्षोभ्यो मलिनां म्लानमूर्धजाम्

८.७२१ रामादधीतसंदेशो वायोर्जातश्च्युतस्मिताम्

८.७२२ प्रभवन्तीमिवादित्यादपश्यत्कपिकुञ्जरः.

८.७३१ रोचमानः कुदृष्टिभ्यो रक्षोभ्यः प्रत्तवान्श्रियम्

८.७३२ श्लाघमानः परस्त्रीभ्यस्तत्रऽऽगाद्राक्षसाऽधिपः.

८.७४१ अशप्त निह्नुवानोऽसौ सीतायौ स्मरमोहितः,

८.७४२ धारयान्निव चैतस्यै वसूनि प्रत्यपद्यत.

८.७५१ तस्यै स्पृहयमाणोऽसौ बहु प्रियमभाषत,

८.७५२ सानुनीतिश्च सीतायै नऽक्रुध्यन्, नाप्यसूयत.

८.७६१ “संक्रुध्यसि मृशा किं त्वं दिदृक्षुं मां मृगेक्षणे !,

८.७६२ ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम्.

८.७७१ शृण्वद्भ्यः प्रतिशृण्वन्ति मध्यमा भीरु ! नोत्तमाः,

८.७७२ गृणद्भ्योऽनुगृणन्त्यन्येऽकृताऽर्था, नैव मद्विधाः.

८.७८१ इच्छ स्नेहेन दीव्यन्ती विषयान्भुवनेश्वरम्,

८.७८२ संभोगाय परिक्रीतः कर्तास्मि तव नाऽप्रियम्.

८.७९१ आस्स्व साकं मया सौधे, माऽधिष्ठा निर्जनं वनम्

८.७९२ माऽधिवात्सीर्भुवं, शय्यामधिशेष्व स्मरोत्सुका.

८.८०१ अभिन्यविक्षथास्त्वं मे यथैवाऽव्याहता मनः,

८.८०२ तवाऽप्यध्यावसन्तं मां मा रौत्सीर्हृदयं तथा.

८.८११ माऽवमंस्था नामस्यन्तम्कार्यज्ञे ! जगत्पतिम्,

८.८१२ संदृष्टे मयि काकुत्स्थमधन्यं कामयेत ? का.

८.८२१ यः पयो दोग्धि पाषाणं, स रामाद्भूतिमाप्नुयात्,

८.८२२ रावणं गमय प्रीतिं बोधयन्तं हिताऽहितं.

८.८३१ प्रीतोऽहं भोजयिष्यामि भवतीं भुवनत्रयम्,

८.८३२ किं विलापयसेऽत्यर्थं, पार्श्वे शायय रावणम्.

८.८४१ आज्ञां कारय रक्षोभिर्, मा प्रियाण्युपहारय,

८.८४२ कः शक्रेण कृतं नेच्छेदधिमुर्धानमञ्जलिम्.

इति कारकाधिकारः

८.८५१ वचनं रक्षसां पत्युरनु क्रुद्धा पतिप्रिया

८.८५२ पापाऽनुवासितं सीता रावणं प्राब्रवीद्वचः

८.८६१ “न भवाननु रामं चेदुप शूरेषु वा, ततः

८.८६२ अपवाह्य च्छलाद्वीरौ किमर्थं मामिहाऽहरः,

८.८७१ “उपशूरं न ते वृत्तं कथं रात्रिंचराऽधम !

८.८७२ यत्संप्रत्यपलोकेभ्यो लङ्कायां वसतिर्भयात्

८.८८१ आ रामदर्शनात्पाप ! विद्योतस्व स्त्रियः प्रति

८.८८२ सद्वृत्ताननु दुर्वृत्तः परस्त्रीं जातमन्मथः

८.८९१ अभि द्योतिष्यते रामो भवन्तमचिरादिह,

८.८९२ उद्गूर्णबाणः संग्रामे यो नारायणतः प्रति.

८.९०१ कुतोऽधियास्यसि क्रूर ! निहतस्तेन पत्रिभिः

८.९०२ न सूक्तं भवताऽत्युग्रमतिरामं मदोद्धत !

८.९११ परिशेषं न नामाऽपि स्थापयिष्यति ते विभुः,

८.९१२ अपि स्थाणुं जयेद्रामो, भवतो ग्रहणं कियत्.

८.९२१ अपि स्तूह्यपिसेधाऽस्मांस्तथ्यमुक्तं नराऽशन्!,

८.९२२ अपि सिञ्चेः कृशानौ त्वं दर्पं, मय्यपि योऽभिकः.

८.९३१ अधिरामे पराक्रान्तमधिकर्ता स ते क्षयम्,”

८.९३२ इत्युक्त्वा मैथिली तूष्णीमासांचक्रे दशाननम्.

८.९४१ ततः खड्गं समुद्यम्य रावणः क्रूरविग्रहः

८.९४२ वैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन्.

८.९५१ “चिरेणाऽनुगुणं प्रोक्ता प्रतिपत्तिपराङ्मुखी

८.९५२ न मासे प्रतिपत्तासे मां चेन्, मर्तासि मैथिलि !”

८.९६१ प्रायुङ्क्त राक्षसीर्भीमा मन्दिराय प्रतिव्रजन्

८.९६२ “भयानि दत्त सीतायै सर्वा यूयं कृते मम.”

८.९७१ गते तस्मिन्समाजग्मुर्भयाय प्रति मैथिलीम्

८.९७२ राक्षस्यो, रावणप्रीत्यै क्रूरं चोचुरलं मुहुः

८.९८१ “रावणाय नमस्कुयाः, स्यात्सीते ! स्वस्ति ते ध्रुवम्

८.९८२ अन्यथा प्रातराशाय कुर्याम त्वामलं वयम्.

८.९९१ तृणाय मत्वा ताः सर्वा वदन्तीस्त्रिजटाऽवदत्

८.९९२ “आत्मानं हत दुर्वृत्ताः ! स्वमांसैः कुरुताऽशनम्.

८.१००१ अद्य सीता मया दृष्टा सूर्यं चन्द्रमसा सह

८.१००२ स्वप्ने स्पृशन्ती मध्येन तनुः श्यामा सुलोचना.

८.१०११ तास्तया तर्जिताः सर्वा मुखैर्भीमा यथाऽऽगतम्

८.१०१२ ययुः सुषुप्सवस्तल्पं भीमैर्वचनकर्मभिः

८.१०२१ गतासु तासु मैथिल्या संजानानोऽनिलाऽऽत्मजः

८.१०२२ आयातेन दशाऽऽस्यस्य संस्थितोऽन्तर्हितश्चिरम्

८.१०३१ ऋणाद्बद्ध इवान्मुक्तो वियोगेन क्रतुद्विषः

८.१०३२ हेतोर्बोधस्य मैथिल्याः प्रास्तावीद्रामसंकथाम्.

८.१०४१ तं दृष्ट्वाऽचिन्तयत्सीता"हेतोः कस्यैष रावणः

८.१०४२ अवरुह्य तरोरारादैति वानरविग्रहः

८.१०५१ पूर्वस्मादन्यवद्भाति भावाद्दाशरथिं स्तूवन्,

८.१०५२ ऋते क्रौर्यात्समायातो मां विश्वासयितुं नु किं ?

८.१०६१ इतरो रावणादेष राघवाऽनुचरो यदि,

८.१०६२ सफलानि निमित्तानि प्राक्प्रभातात्ततो मम.

८.१०७१ उत्तराहि वसन्रामः समुद्राद्रक्षसां पुरम्

८.१०७२ अवैल्लवणतोयस्य स्थितां दक्षिणतः कथम्.

८.१०८१ दण्डकान्दक्षिणेनाऽहं सरितोऽद्रीन्वनानि च

८.१०८२ अतिक्रम्याऽम्बुधिं चैव पुंसामगममाहृता.

८.१०९१ पृथङ्नभस्वतश्चण्डाद्वैनतेयेन वा विना

८.१०९२ गन्तुमुत्सहते नेह कश्चित्किमुत वानरः.

८.११०१ इति चिन्तावतीं कृच्छ्रात्समासाद्य कपिद्विपः

८.११०२ मुक्तां स्तोकेन रक्षोभिः प्रोचेÄ"ऽहं रामकिङ्करः

८.११११ विप्रकृष्टं महेन्द्रस्य न दूरं विन्ध्यपर्वतात्

८.१११२ नाऽनभ्याशे समुद्रस्य तव माल्यवति प्रियः.

८.११२१ असंप्राप्ते दशग्रीवे प्रविष्टोऽहमिदं वनम्

८.११२२ तस्मिन्प्रतिगते द्रष्टुं त्वामुपाक्रंस्यचेतितः

८.११३१ तस्मिन्वदति रुष्टोऽपि नाऽकार्षं देवि ! विक्रमम्

८.११३२ अविनाशाय कार्यस्य विचिन्वानः परापरम्.

८.११४१ वानरेषु कपिः स्वामी नरेष्वधिपतेः सखा

८.११४२ जातो रामस्य सुग्रीवस्ततो दूतोऽहमागतः

८.११५१ ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम्

८.११५२ कुशलोऽन्वेषणस्याऽहमायुक्तो दूतकर्मणि

८.११६१ दर्शनीयतमाः पश्यन्स्त्रीषु दिव्यास्वपि स्त्रियः

८.११६२ प्राप्तो व्यालतमान्व्यस्यन्भूजङ्गेभ्योऽपि राक्षसान्

८.११७१ भवत्यामुत्सुको रामः प्रसितः संगमेन ते

८.११७२ मघासु कृतनिर्वापः पितृभ्यो मां व्यसर्जयत्.

८.११८१ अयं मैथिल्यभिज्ञानं काकुत्स्थस्याऽङ्गुलीयकः

८.११८२ भवत्या स्मरताऽत्यर्थमर्पितः सादरं मम.

८.११९१ रामस्य दयमानोऽसावध्येति तव लक्ष्मणः,

८.११९२ उपास्कृषातां राजेन्द्रावागमस्येह, मा त्रसीः.

८.१२०१ रावणस्येह रोक्ष्यन्ति कपयो भीमविक्रमाः,

८.१२०२ धृत्या नाथस्व वैदेहि !, मन्योरुज्जासयाऽऽत्मनः.

८.१२११ राक्षसानां मयि गते रामः प्रणिहनिष्यति

८.१२१२ प्राणानामपणिष्टाऽयं रावणस्त्वामिहानयन्.

८.१२२१ अदेवीद्बन्धुभोगानां, प्रादेवीदात्मसंपदम्,

८.१२२२ शतकृत्वस्तवैकस्याः स्मरत्यह्नो रघूत्तमः.

८.१२३१ तवोपशायिका यावद्राक्षस्यश्चेतयन्ति न,

८.१२३२ प्रतिसंदिश्यतां तावद्भर्तुः शार्ङ्गस्य मैथिलि !

८.१२४१ पुरः प्रवेशमाश्चर्यं बुद्ध्वा शाखामृगेण सा

८.१२४२ चूडामाणिमभिज्ञानं ददौ रामस्य संमतम्.

८.१२५१ रामस्य शयितं भुक्तं जल्पितं हसितं स्थितम्

८.१२५२ प्रक्रान्तं च मुहुः पृष्ट्वा हनूमन्तं व्यसर्जयत्.

८.१२६१ असौ दधदभिज्ञानं चिकीर्षुः कर्म दारुणम्

८.१२६२ गामुकोऽप्यन्तिकं भर्तुर्मनसाऽचिन्तयत्क्षणम्.

८.१२७१ “कृत्वा कर्म यथाऽऽदिष्टं पूर्वकार्याऽविरोधि यः

८.१२७२ करोत्यभ्यधिकं कृत्यं, तमाहुर्दूतमुत्तमम्.

८.१२८१ वैदेहीं दृष्टवान्कर्म कृत्वाऽन्यैरपि दुष्करम्

८.१२८२ यशो यास्याम्युपादाता वार्तामाख्यायकः प्रभोः.

८.१२९१ राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम्,”

८.१२९२ इति संचित्य सदृशं नन्दनस्याऽभवक्कपिः.

८.१३०१ राघवाभ्यां शिवं, दूतस्तयोरहमिति ब्रुवन्

८.१३०२ हितो भनज्मि रामस्य, कः किं ब्रूतेऽत्र राक्षसः,

८.१३११ विलुलितपुष्परेणुकपिशं प्रशान्तकलिकापलाशकुसुमं कुसुमनिपातविचित्रवसुधं सशब्दनिपतद्द्रुमोत्कशकुनम्

८.१३१२ शकुननिनादनादिककुब्विलोलविपलायमानहरिणं हरिणविलोचनाऽधिवसतिं बभञ्ज पवनाऽऽत्मजो रिपुवनम्.

९.११ द्रुभङ्गध्वनिसंविग्नाः कुवद्पक्षिकुलाऽऽकुलाः

९.१२ अकार्षुः क्षणदाचर्यो रावणस्य निवेदनम्.

९.२१ “यदताप्सीच्छनैर्भानुर्, यत्राऽवासीन्मितं मरुत्

९.२२ यदाप्यानं हिमोस्रेण, भनक्त्युपवनं कपिः.”

९.३१ ततोऽशीतिसहस्राणि किङ्कराणां समादिशत्

९.३२ इन्द्रजित्सूर्विनाशाय मारुतेः क्रोधमूर्च्छितः.

९.४१ शक्त्यृष्टिपरिघप्रासगदामुद्गरपाणयः

९.४२ व्यश्नुवाना दिशः प्रापुर्वनं दृष्टिविषोपमाः

९.५१ दध्वान मेघवद्भीममादाय परिघं कपिः

९.५२ नेदुर्दीप्तायुधास्तेऽपि तडित्वन्त इवाऽम्बुदाः.

९.६१ कपिनाऽम्भोधिधीरेण समगंसत राक्षसाः

९.६२ वर्षासूद्धततोयौघाः समुद्रेणेव सिन्धवः.

९.७१ लाङ्गूलमुद्धतं धुन्वन्नुद्वहन्परिघं गुरुम्

९.७२ तस्थौ तोरणमारुह्य, पूर्वं न प्रजहार सः.

९.८१ अक्षारिषुः शराम्भांसि तस्मिन्रक्षःपयोधराः,

९.८२ न चाऽह्वालीन्, न चाऽव्राजीत्त्रासं कपिमहीधरः

९.९१ अवादीत्तिष्ठतेत्युच्चैः, प्रादेवीत्परिघं कपिः

९.९२ तथा, यथा रणे प्राणान्बहूनामग्रहीद्द्विषाम्.

९.१०१ व्रणैरवमिषू रक्तं, देहैः प्राऋनाविषुर्भुवम्,

९.१०२ दिशः प्रौर्णाविषुश्चाऽन्ये यातुधाना भवद्भियः

९.१११ अरासिषुश्च्युतोत्साहा भिन्नदेहाः प्रियाऽसवः

९.११२ कपेरत्रासिषुर्नादान्मृगाः सिंहध्वनेरिव

इति सिचिवृद्ध्यधिकारः

९.१२१ मायानामीश्वरास्तेऽपि शस्त्रहस्ता रथैः कपिम्

९.१२२ प्रत्याववृतिरे हन्तुं हन्तव्या मारुतेः पुनः

९.१३१ तांश्चेतव्यान्क्षितौ श्रित्वा वानरस्तोरणं युतान्

९.१३२ जघानाऽऽधूय परिघं विजिघृक्षून्समागतान्.

९.१४१ संजुघुक्षव आयूंषि ततः प्रतिरुरूषवः

९.१४२ रावणाऽन्तिकमाजग्मुर्हतशेषा निशाचराः

९.१५१ “एकेन बहवः शूराः साऽऽविष्काराः प्रमत्तवत्

९.१५२ वैमुख्यं चकृमे” त्युच्चैरूचुर्दशमुखाऽन्तिके.

९.१६१ मांसोपभोगसंशूनानुद्विग्नांस्तानवेत्य सः

९.१६२ उद्वृत्तानयनो मित्रान्मन्त्रिणः स्वान्व्यसर्जयत्

९.१७१ प्रमेदिताः सपुत्रास्ते सुस्वान्ता बाढविक्रमाः

९.१७२ अम्लिष्टनादा निरगुः फाण्टचित्राऽस्त्रपाणयः

९.१८१ तान्दृष्ट्वाऽतिदृढान्धृष्टान्प्राप्तान्परिवृढाऽऽज्ञया

९.१८२ कष्टं विनर्दतः क्रूरान्शस्त्रघुष्टकरान्कपिः

९.१९१ अव्यर्णो गिरिकूटाभानभ्यर्णानार्दिदद्द्रुतम्

९.१९२ वृत्तशस्त्रान्महाऽरम्भ्यान्दान्तांस्त्रिदशैरपि

९.२०१ दमिताऽरिः प्रशान्तौजा नादाऽऽपूरितदिङ्मुखः

९.२०२ जघान रुषितो रुष्टांस्त्वरितस्तूर्णमागतान्.

९.२११ तेषां निहन्यमानानां संघुष्टैः कर्णभेदिभिः

९.२१२ अभूदभ्यमितत्रासमास्वान्ताऽशेषदिग्जगत्.

९.२२१ भयसंहृष्टर्ॐआणस्ततस्तेऽपचितद्विषः

९.२२२ क्षणेन क्षीणविक्रान्ताः कपिनाऽनेषत क्षयम्

९.२३१ हत्वा रक्षांसि लवितुमक्रमीन्मारुतिः पुनः

९.२३२ अशोकवनिकामेव निगृहीताऽरिशासनः.

९.२४१ आवरीतुमिवाऽऽकाशं वरितुं वीनिवोत्थितम्

९.२४२ वनं प्रभञ्जनसुतो नाऽदयिष्ट विनाशयन्.

९.२५१ वरिषीष्ट शिवं क्षिप्यन्मैथिल्याः कल्पशाखिनः,

९.२५२ प्रावारिषुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः.

९.२६१ संवुवूर्षुः स्वमाकूतमाज्ञां विवरिषुर्द्रुतम्

९.२६२ अवरिष्टाक्षमक्षम्यं कपिं हन्तुं दषाननः

९.२७१ ऊचे"संवरिषीष्ठास्त्वं गच्छ शत्रोः पराक्रमम्,

९.२७२ ध्वृषीष्ठा युधि मायाभिः स्वरिता शत्रुसम्मुखम्

९.२८१ द्रुतं संस्वरिषीष्ठास्त्वं निर्भयः प्रधनोत्तमे”

९.२८२ स मायानामगात्सोता कपेर्विधवितुं द्युतिम्

९.२९१ विगाढाऽरं वनस्याऽसौ शत्रूणां गाहिता कपिः

९.२९२ अक्षं रधितुमारेभे रद्धा लङ्काऽनिवासिनाम्.

९.३०१ निष्कोषितव्यान्निष्कोष्टुं प्राणान्दशमुखाऽऽत्मजात्

९.३०२ आदाय परिघं तस्थौ वनान्निष्कुषितद्रुमः

९.३११ एष्टारमेषिता संख्ये सोढारं सहिता भृशम्

९.३१२ रेष्टारं रेषितं व्यास्यद्रोष्टाऽक्षः शस्त्रसंहतीः

९.३२१ शस्त्रैर्दिदेविषुं संख्ये दुद्यूषुः परिघं कपिः

९.३२२ अर्दिधिषुर्यशः कीर्तिमीर्त्सुं वृक्षैरताडयत्.

९.३३१ भूयस्तं धिप्सुमाहूय राजपुत्रं दिदम्भिषुः

९.३३२ अहंस्ततः स मूर्च्छावान्संशिश्रीषुरभूद्ध्वजम्

९.३४१ आश्वस्याऽक्षः क्षणाल्लोकान्बिभ्रक्षुरिव तेजसा

९.३४२ रुषा बिभ्रज्जिषुप्रख्यं कपिं बाणैरवाकिरत्.

९.३५१ संयुयूषुं दिशो बाणैरक्षं यियविषुर्द्रुमैः

९.३५२ कपिर्मायामिवाऽकार्षीद्दर्शयन्विक्रमं रणे.

९.३६१ वानरं प्रोर्णुनविषुः शस्त्रैरक्षो विदिद्युते,

९.३६२ तं प्रोर्णुनूषुरुपलैः सवृक्षैराबभौ कपिः,

९.३७१ स्वां जिज्ञापयिषू शक्तिं बुभूर्षू नु जगन्ति किम्

९.३७२ शस्त्रैरित्यकृषातां तौ पश्यतां बुद्धिमाहवे.

९.३८१ मायाभिः सुचिरं क्लिष्ट्वा राक्षसोऽक्लिशितक्रियम्

९.३८२ संप्राप्य वानरं भूमौ पपात परिघाऽऽहतः.

९.३९१ पवितोऽनुगुणैर्वातैः शीतैः पूत्वा पयोनिधौ

९.३९२ बभञ्जाऽध्युषितं भुयः क्षुधित्वा पत्रिभिर्वनम्

९.४०१ उच्चैरञ्चितलाङ्गूलः शिरोऽञ्चित्वेव संवहन्

९.४०२ दधद्विलुभितं वातैः केशरं वह्निपिङ्गलम्

९.४११ जरित्वेव जवेनाऽन्ये निपेतुस्तस्य शाखिनः,

९.४१२ व्रश्चित्वा विवशानन्यान्बलेनाऽपातयत्तरून्.

९.४२१ दमित्वाऽप्यरिसंघातानश्रान्त्वा कपिकेशरी

९.४२२ वनं चचार कर्तिष्यन्नर्त्स्यन्निव निरङ्कुशः.

९.४३१ पारं जिगमिषन्सोऽथ पुनरावर्त्स्यतां द्विषाम्

९.४३२ मत्तद्विरदवद्रेमे वने लङ्कानिवासिनाम्.

९.४४१ “यद्यकल्प्स्यदभिप्रायो योद्धुं रक्षःपतेः स्वयम्,

९.४४२ तमप्यकर्त्स्यमद्याऽहं” वदन्नित्यचरत्कपिः.

९.४५१ “हते तस्मिन्प्रियं श्रुत्वा कल्प्ता प्रीतिं परां प्रभुः,

९.४५२ तोषोऽद्यैव च सीतायाः परश्चेतसि कल्प्स्यति.”

९.४६१ आहूय रावणोऽवोचदथेन्द्रजितमन्तिकात्

९.४६२ “वने मत्त इव क्रुद्धो गजेन्द्रः प्रधनेष्वटन्

९.४७१ ययाथ त्वं द्विषामन्तं, भूयो यातासि चाऽसकृत्

९.४७२ शशक्थ जेतुं त्वं देवान्, मायाः सस्मर्थ संयति.

९.४८१ त्वं ससर्जिथ शस्त्राणि, दद्रष्ठाऽरींश्च दुःसहान्,

९.४८२ शस्त्रैरादिथ शस्त्राणि त्वमेव महतामपि.

९.४९१ स त्वं हनिष्यन्दुर्बुद्धिं कपिं व्रज ममाऽऽज्ञया,

९.४९२ मा नाऽञ्जी राक्षसीर्मायाः, प्रस्तावीर्मा न विक्रमम्.

९.५०१ मा न सावीर्महाऽस्त्राणि, मा न धावीररिं रणे,

९.५०२ वानरं मा न संयंसीर्, व्रज तूर्णमशङ्कितः.”

९.५११ अनंसीच्चरणौ तस्य मन्दिरादिन्द्रजिद्व्रजन्,

९.५१२ अवाप्य चाऽऽशिषस्तस्मादायासीत्प्रीतिमुत्तमाम्

९.५२१ गते तस्मिन्नुपारंसीत्संरम्भाद्रक्षसां पतिः

९.५२२ इन्द्रजिद्विक्रमाऽभिज्ञो मन्वानो वानरं जितम्.

९.५३१ संसिस्मयिषमाणोऽगान्मायां व्यञ्जिजिषुर्द्विषः

९.५३२ जगत्पिपविषुर्वायुः कल्पान्त इव दुर्धरः

९.५४१ लोकानाशिशिषोस्तुल्यः कृतान्तस्य विपर्यये

९.५४२ वने चिकरिषोर्वृक्षान्बलं जिगरिषुः कपेः

९.५५१ रोदिति स्मेव चाऽऽयाति तस्मिन्पक्षिगणः शुचा

९.५५२ मुक्तकण्ठं हतान्वृक्षान्बन्धून्बन्धोरिवाऽऽगमे

९.५६१ आश्वसीदिव चाऽऽयाति तद्वेगपवनाऽऽहतम्

९.५६२ विचित्रस्तबकोद्भासि वनं लुलितपल्लवम्

९.५७१ “न प्राणिषि दुराचार !, मायानामीशिषे न च.

९.५७२ नेडिषे यदि काकुत्स्थं” तमूचे वानरो वचः

इतीडधिकारः

९.५८१ ससैन्यश्छादयन्संख्ये प्रावर्तिष्ट तमिन्द्रिजित्

९.५८२ शरैः क्षुरप्रैर्मायाभिः शतशः सर्वतो मुहुः

९.५९१ वानरः कुलशैलाऽऽभः प्रसह्याऽऽयुधशीकरम्

९.५९२ रक्षस्पाशान्यशस्काम्यंस्तमस्कल्पानदुद्रुवत्.

९.६०१ धनुष्पाशÄभृतः संख्ये ज्योतिष्कल्पोरुकेशरः

९.६०२ दुधाव निर्नमस्कारान्राक्षसेन्द्रपुरस्कृतान्.

९.६११ स्वामिनो निष्क्रयं गन्तुमाविष्कृतबलः कपिः

९.६१२ रराज समरे शत्रून्घ्नन्दुष्कृतबहिष्कृतः.

९.६२१ चतुष्काष्ठं क्षिपन्वृक्षान्तिरस्कुर्वन्नरीन्रणे

९.६२२ तिरस्कृतदिगाभोगो ददृशो बहुधा भ्रमन्.

९.६३१ द्विष्कुर्वतां चतुष्कुर्वन्नभिघातं नरैर्द्विषाम्

९.६३२ बहिष्करिष्यन्संग्रामाद्रिपून्ज्वलनपिङ्गलः

९.६४१ ज्योतिष्कुर्वन्निवैकोऽसावाटीत्संख्ये परार्ध्यवत्,

९.६४२ तमरायुष्करं प्राप शक्रशत्रुर्धनुष्करः.

९.६५१ अस्यन्नरुष्करान्बाणान्ज्योतिष्करसमद्युतिः

९.६५२ यशस्करोयशस्कामं कपिं बाणैर्ताडयत्.

९.६६१ चकाराऽधस्पदं नाऽसौ चरन्वियति मारुतिः

९.६६२ मर्माविद्भिस्तमस्काण्डैर्विध्यमानोऽप्यनेकधा

इति सत्वाधिकारः

९.६७१ पुरुहूतद्विषो धूर्षु युक्तान्यानस्य वाजिनः

९.६७२ आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्.

९.६८१ सुषुपुस्ते यदा भूमौ, रावणिः सारथिं तदा

९.६८२ आहर्तुमन्यानशिषत्प्रोषितत्रासकर्कशः.

९.६९१ प्रतुष्टूषुः पुनर्युद्धमासिषञ्जयिषुर्भयम्

९.६९२ आतस्थौ रथमात्मीयानुत्सिसाहयिषन्निव.

९.७०१ बलान्यभिषिषिक्षन्तं तरुभिः कपिवारिदम्

९.७०२ विजिगीषुः पुनश्चक्रे व्यूहं दुर्जयमिन्द्रजित्.

९.७११ अभिष्यन्तः कपिं क्रोधादभ्यषिञ्चन्निवाऽऽत्मनः

९.७१२ संप्रहारसमुद्भूतै रक्तैः कोष्णैररुश्च्युतैः.

९.७२१ संग्रामे तानधिष्ठास्यन्निषद्य पुरतोरणम्

९.७२२ अविषीदन्नवष्टब्धान्व्यष्टभ्नान्नरविष्वणान्

९.७३१ विषह्य राक्षसाः क्रुद्धाः शस्त्रजालमवाकिरन्,

९.७३२ यन्न व्यषहतेन्द्रोऽपि; कपिः पर्यषहिष्ट तत्.

९.७४१ विष्यन्दमानरुधिरो रक्तविस्यन्दपाटलान्

९.७४२ विष्कन्त्न्परिघेणाऽहन्नविस्कन्ता कपिर्द्विषः.

९.७५१ मेघनादः परिस्कन्दन्परिष्कन्दन्तमाश्वरिम्

९.७५२ अबध्नादपरिस्कन्दं ब्रह्मपाशेन विस्फुरन्.

९.७६१ विस्फुलद्भिर्गृहीतोऽसौ निष्फुलः पुरुषाऽशनैः

९.७६२ विष्कम्भितुं समर्थोऽपि नाऽचलद्ब्रह्मगौरवात्.

९.७७१ कृषीढ्वं भर्तुरानन्दं, मा न प्रोढ्वं द्रुतं वियत्

९.७७२ वानरं नेतुमित्युच्चैरिन्द्रजित्प्रावदत्स्वकान्.

९.७८१ “गतमङ्गुलिषङ्गं त्वां भीरुष्ठानादिहाऽऽगतम्

९.७८२ खादिष्याम” इति प्रोचुर्नयन्तो मारुतिं द्विषः.

९.७९१ “अग्निष्ट्ॐआदिसंस्थेषु ज्योतिष्ट्ॐआऽऽदिषु द्विजान्

९.७९२ योऽरक्षीत्, तस्य दूतोऽयं मानुषस्येति चाऽवदन्.

९.८०१ “नासां मातृष्वसेय्याश्च रावणस्य लुलाव यः,

९.८०२ मातुः स्वसुश्च तनयान्खराऽऽदीन्विजघान यः

९.८११ प्रादुःषन्ति न संत्रासा यस्य रक्षःसमागमे,

९.८१२ तस्य क्षत्रियदुःषूतेरयं प्रणिधिरागतः.

९.८२१ दृष्ट्वा सुषुप्तं राजेन्द्रं पापोऽयं विषमाऽशयः

९.८२२ चारकर्मणि निष्णातः प्रविष्टः प्रमदावनम्.

९.८३१ सुप्रतिष्णातसूत्राणा कपिष्ठलसमत्विषाम्

९.८३२ स्थितां वृत्ते द्विजातीनां रात्रावैक्षत मैथिलीम्

९.८४१ सर्वनारीगुणैः प्रष्ठां विष्टरस्थां गविष्ठिराम्

९.८४२ शयानां कुष्ठले तारां दिविष्ठामिव निर्मलाम्

९.८५१ सुषाम्नीं सर्वतेजस्सु तन्वीं ज्योतिष्टमां शुभाम्

९.८५२ निष्टपन्तीमिवाऽऽत्मानं ज्योतिःसात्कुर्वतीं वनम्

९.८६१ मधुसाद्भूतकिञ्जल्कपिञ्जरभ्रमराऽऽकुलाम्

९.८६२ उल्लसत्कुसुमां पुण्यां हेमरत्नलतामिव

९.८७१ विलोचनाऽम्बु मुञ्चन्तींकुर्वाणां परिसेसिचाम्

९.८७२ हृदयस्येव शोकाऽग्निसंतप्तस्योत्तमव्रताम्

९.८८१ दृष्ट्वा तामभनग्वृक्षान्द्विषो घ्नन्परिसेधतः

९.८८२ परितस्तान्विचिक्षेप क्रुद्धः स्वयमिवाऽनिलः

९.८९१ अप्रतिस्तब्धविक्रान्तमनिस्तब्धो महाऽऽहवे,

९.८९२ विसोढवन्तमस्त्राणि व्यतस्तम्भद्घनध्वनिः”

९.९०१ ते विज्ञायाऽभिसोष्यनतं रक्तै रक्षांसि सव्यथाः

९.९०२ अन्यैरप्यायतं नेहुर्वरत्राशृङ्खलाऽऽदिभिः

९.९११ विषसादेन्द्रजिद्बुद्ध्वा बन्धे बन्धाऽन्तरक्रियाम्

९.९१२ दिव्यबन्धो विषहते नाऽपरं बन्धनं यतः

इति षत्वाधिकारः

९.९२१ मुष्णन्तमिव तेजांसि विस्तीर्णोरस्स्थलं पुरः

९.९२२ उपसेदुर्दशग्रीवं गृहीत्वा राक्षसाः कपिम्.

९.९३१ बहुधा भिन्नमर्माणो भीमाः खरणसाऽऽदयः

९.९३२ अग्रेवणं वर्तमाने प्रतीच्यां चन्द्रमण्डले

९.९४१ “निर्वणं कृतमुद्यानमनेनाऽऽम्रवणाऽऽदिभिः

९.९४२ देवदारुवनामिश्रै” रित्यूचुर्वानरद्विषः.

९.९५१ उपास्थिषत संप्रीताः पूर्वाह्णे रोषवाहणम्

९.९५२ राक्षसाः कपिमादाय पतिं रुधिरपायिणाम्.

९.९६१ सुरापाणपरिक्षीबं रिपुदर्पहरोदयम्

९.९६२ परस्त्रीवाहिनं प्रायुः साऽऽविष्कारं सुरापिणः.

९.९७१ संघर्षयोगिणः पदौ प्रणेमुस्त्रिदशद्विषः

९.९७२ प्रहिण्वन्तो हनूमन्तं प्रमीणन्तं द्विषन्मतीः.

९.९८१ “प्रवपाणि शिरो भूमौ वानरस्य वनच्छिदः”

९.९८२ आमन्त्रयत संक्रुद्धः समितिं रक्षसां पतिः

९.९९१ प्रण्यगादीत्प्रणिघ्नन्तं घनः प्रणिनदन्निव

९.९९२ ततः प्रणिहितः स्वाऽर्थे राक्षसेन्द्रं विभीषणः.

९.१००१ “प्रणिशाम्य दशाग्रीव !, प्रणियातुमलं रुषम्,

९.१००२ प्रणिजानीहि, हन्यन्ते दूता दोषे न सत्यपि.”

९.१०११ प्राणयन्तमरिं प्रोचे राक्षसेन्द्रो विभीषणम्

९.१०१२ “प्राणिणिषुर्न पापोऽयं, योऽभाङ्क्षीत्प्रमदावनम्.

९.१०२१ प्राघानिषत रक्षांसि येनाऽऽप्तानि वने मम,

९.१०२२ न प्रहण्मः कथं पापं वद पूर्वाऽपकारिणम्.

९.१०३१ वेश्माऽन्तर्हणनं कोपान्मम शत्रोः करिष्यतः

९.१०३२ मा कार्षीरऽन्तरयणं, प्रयाणाऽर्हमवेह्यमुम्.

९.१०४१ प्रहीणजीवितं कुर्युर्ये न शत्रुमुपस्थितम्

९.१०४२ न्याय्याया अपि ते लक्ष्म्याः कुर्वन्त्याशु प्रहापणम्

९.१०५१ कः कृत्वा रावणाऽऽमर्षप्रकोपणमवद्यधीः

९.१०५२ शक्तो जगति शाक्रोऽपि कर्तुमायुःप्रगोपणम्.

९.१०६१ वनाऽन्तप्रेङ्खणः पापः फलानां परिणिंसकः

९.१०६२ प्रणिक्षिष्यति नो भूयः प्रणिन्द्याऽस्मान्मधून्ययम्

९.१०७१ हरेः प्रगमनं नाऽस्ति, न प्रभानं हिमद्रुहः,

९.१०७२ नाऽतिप्रवेपनं वायोर्मया गोपायिते वने.

९.१०८१ दुष्पानः पुनरेतेन कपिना भृङ्गसंभृतः

९.१०८२ प्रनष्टविनयेनाऽग्र्यः स्वादुः पुष्पाऽऽसवो वने”

९.१०९१ रोषभीममुखेनैवं क्षुभ्नतोक्ते, प्लवङ्गमः

९.१०९२ प्रोचे साऽऽनुनयं वाक्यं रावणं स्वाऽर्थसिद्धये

इति णत्वाऽधिकारः

९.११०१ “दूतमेकं कपिं बद्धमानीतं वेश्म पश्यतः

९.११०२ लोकत्रयपतेः क्रोधः कथं तृणलघुस्तव.

९.११११ अग्न्याहितजनप्रह्वे विजिगीषापराङ्मुखे.

९.१११२ कस्माद्वा नीतिनिष्णस्य संरम्भस्तव तापसे.

९.११२१ न सर्वरात्रकल्यान्यः स्त्रियो वा रत्नभूमयः

९.११२२ यं विनिर्जित्य लभ्यन्ते, कः कुर्यात्तेन विग्रहम्.

९.११३१ संगच्छ रामसुग्रीवौ भुवनस्य समृद्धये

९.११३२ रत्नपूर्णाविवाऽम्भोधी हिमवान्पूर्वपश्चिमौ.

९.११४१ सुहृदौ रामसुग्रीवौ, किंकराः कपियूथपाः,

९.११४२ परदाराऽर्पणेनैवलभ्यन्ते, मुञ्च मैथिलीम्.

९.११५१ धर्मं प्रत्यर्पयन्सीतामर्थं रामेण मित्रताम्

९.११५२ कामं विश्वासवासेन सीतां दत्त्वाऽऽप्नुहि त्रयम्.

९.११६१ विराधताडकावालिकबन्धखरदूषणैः

९.११६२ न च न ज्ञापितो यादृड्मारीचेनाऽपि ते रिपुः

९.११७१ खराऽऽदिनिधनं चाऽपि मा मंस्था वैरकारणम्,

९.११७२ आत्मानं रक्षितुं यस्मात्कृतं तन्न जिगीषया”.

९.११८१ ततः क्रोधाऽनिलाऽऽपात कम्प्राऽऽस्याऽम्भोजसंहतिः

९.११८२ महाह्रद इव क्षुभ्यन्कपिमाह स्म रावणः.

९.११९१ “हतराक्षसयोधस्य विरुग्णोद्यानशाखिनः

९.११९२ दूतोऽस्मीति ब्रुवाणस्य किं ? दूतसदृशं तव.

९.१२०१ पङ्गुबालस्त्रियो निघ्नन्कबन्ध खरताडकाः

९.१२०२ तपस्वी यदि काकुत्स्थः, कीदृक्? कथय पातकी.

९.१२११ अभिमानफलं जानन्महत्त्वं कथमुक्तवान्

९.१२१२ रत्नाऽऽदिलाभशून्यत्वान्निष्फलं रामविग्रहम्

९.१२२१ परस्त्रीभोगहरणं धर्म एव नराऽशिनाम्,

९.१२२२ मुखमस्तीत्यभाषिष्ठाः, का ? मेसाऽऽशङ्कता त्वयि.

९.१२३१ ब्रूहि दूरविभिन्नानामृद्धिशीलक्रियाऽन्वयैः.

९.१२३२ हनूमन्! कीदृशं ? सख्यं नरवानररक्षसाम्.

९.१२४१ एको द्वाभ्यां विराधस्तु जिताभ्यामविवक्षितः

९.१२४२ हतश्छलेन मूढोऽयं, तेनाऽपि तव कः ? स्मयः

९.१२५१ मन्नियोगाच्च मारीचः पलायनपरायणः

९.१२५२ युयुत्सारहितो रामं ममाराऽपहरन्वने.

९.१२६१ निजघानाऽन्यसंसक्तं सत्यं रामो लतामृगम्

९.१२६२ त्वमेव ब्रूहि संचिन्त्य, युक्तं तन्महतां यदि.

९.१२७१ पुंसा भक्ष्येण बन्धूनामात्मानं रक्षितुं वधः

९.१२७२ क्षमिष्यते दशाऽऽस्येन, क्वत्येयं तव दुर्मतिः.”

९.१२८१ कपिर्जगाद"दूतोऽहमुपायं तव दर्शने

९.१२८२ द्रुमराक्षसविध्वंसमकार्षं बुद्धिपूर्वकम्.

९.१२९१ आत्रिकूटमकार्षुर्ये त्वत्का निर्जङ्गमं जगत्,

९.१२९२ दशग्रीव ! कथं ब्रूषे ? तानवध्यां महीपतेः.

९.१३०१ अभिमानफलं प्रोक्तं यत्त्वया रामविग्रहे,

९.१३०२ विनेशुस्तेन शतशः कुलान्यसुररक्षसाम्.

९.१३११ यत्स्वधर्ममधर्मं त्वं दुर्बलं प्रत्यपद्यथाः

९.१३१२ रिपौ रामे च निःशङ्को, नैतत्क्षेमंकरं चिरम्

९.१३२१ अन्वयाऽऽदिविभिन्नानां यथा सख्यमनीप्सितम्

९.१३२२ नैषीर्, विरोधमप्येवं सार्धं पुरुषवानरैः.

९.१३३१ विराधं तपसां विघ्नं जघान विजितो यदि

९.१३३२ वरो धनुर्भृतां रामः, स कथं न विवक्षितः ?

९.१३४१ प्रणश्यन्नपि नाऽशक्नोदत्येतुं बाणगोचरम्

९.१३४२ त्वयैवोक्तं महामायो मारीचो रामहस्तिनः.

९.१३५१ अन्याऽऽसक्तस्य यद्वीर्यं न त्वं स्मरसि वालिनः

९.१३५२ मूर्च्छावान्नमतः संध्यां ध्रुवं तद्बाहुपीडितः.

९.१३६१ असद्बन्धुविधोपज्ञं विमुञ्च बलिविग्रहम्,

९.१३६२ सीतामर्पय नन्तव्ये कोशदण्डाऽऽत्मभूमिभिः.”

९.१३७१ स्फुटपरुषमसह्यमित्थमुच्चैः सदसि मरुत्तनयेन भाष्यमाणः

९.१३७२ परिजनमभितो विलोक्य दाहं दशवदनः प्रदिदेश वानरस्य.

१०

१०.११ अथ स वल्कदुकूलकुथाऽऽदिभिः परिगतो ज्वलदुद्धतवालधिः

१०.१२ उदपतद्दिवमाकुललोचनैर्नृरिपुभिः सभ्यैरभिवीक्षितः.

१०.२१ रणपण्डितोऽग्र्यविबुधाऽरिपुरे कलहं स राममहितः कृतवान्,

१०.२२ ज्वलदग्नि रावणगृहं च बलात्बलहंस्राममहितः कृतवान्.

पादाऽन्तयमकम्Ä

१०.३१ निखिलाऽभवन्न सहसा सहसा ज्वलनेन पूः प्रभवता भवता

१०.३२ वनिताजनेन वियता वियता त्रिपुराऽपदं नगमिता गमिता.

पदाऽऽदियमकम्Ä

१०.४१ सरसां सरसां परिमुच्य तनुं पततां पततां ककुभो बहुशः

१०.४२ सकलैः सकलैः परितः करुणै रुदितै रुदितैरिव खं निचितम्.

पादमध्ययमकम्Ä

१०.५१ न च कांचन काञ्चनसद्मचितिं न कपिः शिखिना शिखिना समयौत्,

१०.५२ न च न द्रवता द्रवता परितो हिमहानकृता न कृता क्व च न.

चक्रवालयमकम्Ä

१०.६१ अवसितं हसितं प्रसितं, मुदा विलसितं ह्रसितं स्मरभासितम्,

१०.६२ न समदाः प्रमदा हतसंमदाः, पुरहितं विहितं न समीहितम्.

समुद्रयमकम्Ä

१०.७१ समिद्धशरणा दीप्ता देहे लङ्का मतेश्वरा

१०.७२ समिद्धशरणाऽऽदीप्ता देहेऽलंकामतेश्वरा

काञ्चीयमकम्Ä

१०.८१ पिशिताऽशिनामनुदशं स्फुटतां स्फुटतां जगाम परिविह्वलता,

१०.८२ हलता जनेन बहुधा चरितं चरितं महत्त्वरहितं महता.

१०.९१ न गजा नगजा दयिता दयिता, विगतं विगतं, ललितं ललितम्,

१०.९२ प्रमदा प्रमदाऽऽमहता, महता मरणं मरणं समयात्समयात्.

१०.१०१ न वानरैः पराक्रान्तां महद्भिर्भीमविक्रमैः

१०.१०२ न वा नरैः पराक्रान्तां ददहा नगरीं कपिः.

१०.१११ द्रुतं द्रुतं वह्निसमागतं गतं महीमहीनद्युतिरोचितं चितम्

१०.११२ समं समन्तादपगोपुरं पुरं परैः परैरप्यनिराकृतं कृतम्

१०.१२१ नश्यन्ति ददर्श वृन्दानि कपीन्द्रः

१०.१२२ हारीण्याबलानां हारीण्याबलानाम्.

१०.१३१ नारीणामपनुनुदुर्न देहखेदान्नाऽऽरीणाऽमलसलिला हिरण्यवाप्यः,

१०.१३२ नाऽऽरीणामनलपरीतपत्रपुष्पान्नाऽरीणामभवदुपेत्य शर्म वृक्षान्.

१०.१४१ अथ लुलितपतत्रिमालं रुग्णाऽसनबाणकेशरतमालम्

१०.१४२ स वनं विविक्तमालं सीतां द्रष्टुं जगामाऽलम्.

१०.१५१ घनगिरीन्द्रविलङ्घनशालिना वनगता वनजद्युतिलोचना

१०.१५२ जनमता ददृशे जनकाऽऽत्मजा तरुमृगेण तरुस्थलशायिनी

विपथयमकम्Ä

१०.१६१ कान्ता महमाना दुःखं च्युतभूषा

१०.१६२ रामस्य वियुक्ता कान्ता सहमाना.

मध्याऽन्तयमकम्Ä

१०.१७१ मितमवददुदारं तां हनूमान्मुदाऽरं रघुवृषभसकाशं यामि देवि ! प्रकाशम्

१०.१७२ तव विदितविषादो दृष्टकृत्स्नाऽऽमिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम्.

गर्भयमकम्Ä

१०.१८१ उदपतद्वियदप्रगमः परैÄ रुचितमुन्नतिमत्पृथुसत्त्ववत्

१०.१८२ रुचितमुन्नतिमत्पृथुसत्त्ववत्प्रतिविधाय वणुर्भयदं द्विषाम्.

सर्वयमकम्Ä

१०.१९१ बभौ मरुत्वान्विकृतः समुद्रो, बभौ मरुत्वान्विकृतः समुद्रः,

१०.१९२ बभौ मरुत्वान्विकृतः समुद्रो, बभौ मरुत्वान्विकृतः स मुद्रः.

महायमकम्Ä

१०.२०१ अभियाता वरं तुङ्गं भूभृतं रुचिरं पुरः कर्कशं प्रथितं धाम ससत्वं पुष्करेक्षणम्.

१०.२०२ अभियाऽताऽऽवरं तुङ्गं भूभृतं रुचिरं पुरः कर्कशं प्रस्थितं धाम ससत्वं पुष्करे क्षणम्.

आद्यन्तयमकम्Ä

१०.२११ चित्रं चित्रमिवाऽऽयातो विचित्रं तस्य भूभृतम्

१०.२१२ हरयो वेगमासाद्य संत्रस्ता मुमुहुर्मुहुः.

आदिदीपकम्Ä

१०.२२१ गच्छन्स वारीण्यकिरत्पायोधेः, कूलस्थितांस्तानितरूनधुन्वन्,

१०.२२२ पुष्पाऽऽस्तरांस्तेऽङ्गसूखानतन्वन्, तान्किन्नरा मन्मथिनोऽध्यतिष्ठन्.

अन्तदीपकम्Ä

१०.२३१ स गिरिं तरुखण्डमण्डितं समवाप्य त्वरया लतामृगः

१०.२३२ स्मितदर्शितकार्यनिश्चयः कपिसैन्यैर्मुदितैरमण्डयत्.

मध्यदीपकम्Ä

१०.२४१ गरुडाऽनिलतिग्मरश्मयः पततां यधपि संमता जवे,

१०.२४२ अचिरेण कृताऽर्थमागतं तममन्यन्त तथाप्यतीव ते.

रूपकम्Ä

१०.२५१ व्रणकन्दरलीनशस्त्रसर्पः पृथुवक्षःस्थलकर्कशोरुभित्तिः

१०.२५२ च्युतशोणितबद्धधातुरागः शुशुभे वानरभूधरस्तदाऽसौ.

अस्यैव भेदा अपरे चत्वारः एतद्विशिष्टोपमायुक्तं रूपकम्Ä

१०.२६१ चलपिङ्गकेशरहिरण्यलताः स्थुटनेत्रपङ्क्तिमणिसंहतयः

१०.२६२ कलधैतसानव इवाऽथ गिरेः कपयो बहूः पवनजाऽऽगमने.

एतच्छेषाऽर्थाऽन्ववसितमवतंसकम्Ä

१०.२७१ कपितोयनिधीन्प्लवङ्गमेन्दुर्मदयित्वा मधुरेण दर्शनेन

१०.२७२ वचनाऽमृतदीधितीर्वितन्व न्नकृताऽऽनन्दपरीतनेत्रवारीन्.

अर्धरूपकम्Ä

१०.२८१ परिखेदितविन्ध्यवीरुधः परिपीताऽमलनिर्झराऽम्भसः

१०.२८२ दुधुवुर्मधुकाननं ततः कपिनागा मुदिताऽङ्गदाऽऽज्ञया.

एतदन्वर्थोपमायुक्तं ललामकम्Ä

१०.२९१ विटपिमृगविषादध्वान्तनुद्वानराऽर्कः प्रियवचनमयुखैर्बोधिताऽर्थाऽरविन्दः,

१०.२९२ उदयगिरिमिवाऽद्रिं संप्रमुच्याऽभ्यगात्खं नृपहृदयगुहाखं घ्नन्प्रमोहाऽन्धकारम्.

इवोपमाÄ

१०.३०१ रघुतनयमगात्तपोवनखं विधृतजटाऽजिनवल्कलं हनूमान्

१०.३०२ परमिव पुरुषं नरेण युक्तं समशमवेशसमाधिनाऽनुजेन,

यथोपमाÄ

१०.३११ करपुटनिहितं दधत्स रत्नं परिविरलाऽङ्गुलि निर्गताऽल्पदीप्ति

१०.३१२ तनुकपिलघनस्थितं यथेन्दुं नृपमनमत्परिभुग्नजानुमूर्धा.

सहोपमाÄ

१०.३२१ रुचिरोन्नतरत्नगौरवः परिपूर्णाऽमृतरश्मिमण्डलः

१०.३२२ समदृश्यत जीविताऽऽशया सह रामेण वधूशिरोमणिः.

तद्धितोपमाÄ

१०.३३१ अवसन्नरुचिं वनाऽऽगतं तमनाऽऽमृष्टरजोविधूसरम्

१०.३३२ समपश्यदपेतमैथिलिं दधतं गौरवमात्रमात्मवत्.

लुप्तोपमाÄ

१०.३४१ सामर्थ्यसंपादितवाञ्छिताऽर्थश्चिन्तामणिः स्यान्न कथं हनूमान्,

१०.३४२ सलक्ष्मणो भूमिपतिस्तदानीं शाखामृगाऽनीकपतिश्च मेने.

समोपमाÄ

१०.३५१ “युश्मानचेतन्क्षयवायुकल्पान्सीतास्फुलिङ्गं परिगृह्य जाल्मः

१०.३५२ लङ्कावनं सिंहसमोऽधिशेते मर्तुं द्विषन्नित्यवदद्धनूमान्

अर्थाऽन्तरन्यासःÄ

१०.३६१ “अहृत धनेश्वरस्य युधि यः समेतमायो धनं, तमहमितो विलोक्य विबुधैः कृतोत्तमाऽऽयोधनम्

१०.३६२ विभवमदेन निह्नुतह्रियाऽतिमात्रसंपन्नकं, व्यथयति सत्पथादधिगताऽथवेह संपन्न कम्.

आक्षेपःÄ

१०.३७१ ऋद्धिमान्राक्षसो मूढश्, चित्रं नाऽसौ यद्दुधतः,

१०.३७२ को वा हेतुरनार्याणां धर्म्ये वर्त्मनि वर्तितुम्.

आक्षेप एवÄ

१०.३८१ तस्याऽधिवासे तनुरुत्सुकाऽसौ दृष्टा मया रामपतिः प्रमन्युः,

१०.३८२ कार्यस्य सारोऽयमुदीरितो वः, प्रोक्तेन शेषेण किमुद्धतेन.

व्यतिरेकःÄ

१०.३९१ समतां शशिलेखयोपयाया दवदाता प्रतनुः क्षयेण सीता,

१०.३९२ यदि नाम कलङ्क इन्दुलेखा मतिवृत्तो लघयेन्न चाऽपि भावी.

विभावनाÄ

१०.४०१ अपरीक्षितकारिणा गृहीतां त्वमनासेवितवृद्धपण्डितेन

१०.४०२ अविरोधितनिष्ठुरेण साध्वीं दयितां त्रातुमलं घटस्व राजन्!”

समासोक्तिःÄ

१०.४११ स च विह्वलसत्त्वसंकुलः परिशुष्यन्नभवन्महाह्रदः

१०.४१२ परितः परितापमूर्च्छितः, पतितं चाऽम्बु निरभ्रमीप्सितम्.

अतिशयोक्तिःÄ

१०.४२१ अथ लक्ष्मणतुल्यरूपवेशं गमनाऽऽदेशविनिर्गताऽग्रहस्तम्

१०.४२२ कपयोऽनुययुः समेत्य रामं नतसुग्रीवगृहीतसाऽऽदराज्ञम्.

यथासंख्यम्Ä

१०.४३१ कपिपृष्ठगतौ ततो नरेन्द्रौ. कपयश्च ज्वलिताऽग्निपिङ्गलाऽक्षाः

१०.४३२ मुमुचुः, प्रययुर्, द्रुतं समीयुर्, वसुधां, व्य्ॐअ, महीधरं महेन्द्रं

उत्प्रेक्षाÄ

१०.४४१ स्थितमिव परिरक्षितुं समन्ता दुदधिजलौघपरिप्लवाद्धरित्रीम्

१०.४४२ गगनतलवसुन्ध्राऽन्तराले जलनिधिवेगसहं प्रसार्य देहं

वार्ताÄ

१०.४५१ विषधरनिलये निविष्टमूलं शिखरशतैः परिमृष्टदेवलोकम्

१०.४५२ घनविपुलनितम्बपूरिताशं फलकुसुमाऽऽचितवृक्षरम्यकुञ्जं

प्रेयःÄ

१०.४६१ मधुकरविरुतैः प्रियाध्वनीनां सरसिरुहैर्दयिताऽऽस्यहास्यलक्ष्म्याः

१०.४६२ स्फुटमनुहरमाणमादधानं पुरुषपतेः सहसा परंप्रमोदं

रसवत्Ä

१०.४७१ ग्रहमणिरसनं दिवो नितम्बं विपुलमनुत्तमलब्धकान्तियोगम्

१०.४७२ च्युतघनवसनं मनोऽभिरामं शिखरकरैर्मदनादिव स्पृशन्तं

ऊर्जस्वी

१०.४८१ प्रचपलमगुरुं भराऽसहिष्णुं जनमसमानमनूर्जितं विवर्ज्य

१०.४८२ कृतवसतिमिवाऽर्णवोपकण्ठे स्थिरमतुलोन्नतिमूढतुङ्गमेघम्.

पर्यायोक्तिःÄ

१०.४९१ स्फठिकमणिगृहैः सरत्नदीपैः प्रतरुणकिन्नरगीतनिस्वनैश्च

१०.४९२ अमरपुरमतिं सुराऽङ्गनानां दधतमदुःखमनल्पकल्पवृक्षम्.

समाहितम्Ä

१०.५०१ अथ ददृशुरुदीर्णधूमधूम्रां दिशमुदधिव्यवधिं समेतसीताम्

१०.५०२ सहरघुतनयाः प्लवङ्गसेनाः पवनसुताऽङ्गुलिदर्शितामुदक्षाः.

उदारम्Ä

१०.५११ जलनिधिमगमन्महेन्द्रकुञ्जात्प्रचयतिरोहिततिग्मरश्मिभासः

१०.५१२ सलिलसमुदयैर्महातरङ्गैर्भुवनभरक्षममप्यभिन्नवेलं

उदारमेवÄ

१०.५२१ पृथुगुरुमणिशुक्तिगर्भभासा ग्लपितरसातलसंभृताऽन्धकारम्

१०.५२२ उपहतरविरश्मिवृत्तिमुच्चैः प्रलघुपरिप्लवमानवज्रजालैः

उदारमेवÄ

१०.५३१ समुपचितजलं विवर्धमानै रमलसरित्सलिलैर्विभावरीषु

१०.५३२ स्फुटमवगमयन्तमूढवारीन्शशधररत्नमयान्महेन्द्रसानून्

श्लिष्टम्Ä

१०.५४१ भुवनभरसहानलङ्घ्यधाम्नः पुरुरुचिरत्नभृतो गुरूरुदेहान्

१०.५४२ श्रमविधुरविलीनकूर्मनक्रान्दधतमुदूढभुवो गिरीनहींश्च

श्लिष्टमेवÄ

१०.५५१ प्रददृशुरुरुमुक्तशीकरौघान्विमलमणिद्युतिसंभृतेन्द्रचापान्

१०.५५२ जलमुच इव धीरमन्द्रघोषान्क्षितिपरितापहृतो महातरङ्गान्

हेतुश्लिष्टम्Ä

१०.५६१ विद्रुममणिकृतभूषा मुक्ताफलनिकररञ्जिताऽऽत्मानः

१०.५६२ बभुरुदकनागभग्ना वेलातटशिखरिणो यत्र,

अपह्नुतिःÄ

१०.५७१ भृतनिखिलरसातलः सरत्नः शिखरिसमोर्मितिरोहिताऽन्तरीक्षः

१०.५७२ कुत इह परमाऽर्थतो जलौघो जलनिधिमीयुरतः समेत्य मायां

विशेषोक्तिःÄ

१०.५८१ शशिरहितमपि प्रभूतकान्तिं विबुधहृतश्रियमप्यनष्टशोभम्

१०.५८२ मथितमपि सुरैर्दिवं जलौघैः समभिभवन्तमविक्षतप्रभावं

व्याजस्तुतिःÄ

१०.५९१ क्षितिकुलगिरिशेषदिग्गजेन्द्रान्सलिलगतामिव नावमुद्वहन्तम्

१०.५९२ धृतविधुरधरं महावराहं गिरिगुरुपोत्रमपीहितैर्जयन्तं

उपमारूपकम्Ä

१०.६०१ गिरिपरिगतचञ्चलाऽऽपगाऽन्तं जलनिवहं दधतं मनोऽभिरामम्

१०.६०२ गलितमिव भुवो विलोक्य रामं धरणिधरस्तनशुक्लचीनपट्टम्.

तुल्ययोगिताÄ

१०.६११ अपरिमितमहाऽद्भुतैर्विचित्रश्च्युतमलिनः शुचिभिर्महानलङ्घ्यैः

१०.६१२ तरुमृगपतिलक्ष्मणक्षितीन्द्रैः समधिगतो जलधिः परं बभासे.

निदर्शनम्Ä

१०.६२१ न भवति महिमा विना विपत्ते रवगमयन्निव पश्यतः पयोधिः

१०.६२२ अविरतमभवत्क्षणे क्षणेऽसौ शिखरिपृथुप्रथितप्रशान्तवीचिः.

विरोधःÄ

१०.६३१ मृदुभिरपि बिभेद पुष्पबाणैश्चलशिशिरैरपि मारुतैर्ददाह

१०.६३२ रघुतनयमनर्थपण्डितोऽसौ, न च मदनः क्षतमाततान्, नाऽर्चिः

उपमेयोपमा

१०.६४१ अथ मृदुमलिनप्रभौ दिनाऽन्ते जलधिसमीपगतावतीतलोकौ

१०.६४२ अनुकृतिमितरेतरस्य मूर्त्योर्दिनकरराघवनन्दनावकार्ष्टाम्.

सहोक्तिःÄ

१०.६५१ अपहरदिव सर्वतो विनोदान्दयितगतं दधदेकधा समाधिम्

१०.६५२ घनरुचि ववृधे ततोऽन्धकारं सह रघुनन्दनमन्मथोदयेन.

परिवृत्तिःÄ

१०.६६१ अधिजलधि तमः क्षिपन्हिमांशुः परिददृशेऽथ दृशां कृताऽवकाशः

१०.६६२ विदधदिव जगत्पुनः प्रलीनम्. भवति महान्हि पराऽर्थ एव सर्वः.

ससन्देहःÄ

१०.६७१ अशनिरयमसौ, कुतो निरभ्रे. शितशरवर्षमसत्तदप्यशार्ङ्गम्.

१०.६७२ इति मदनवशो मुहुः शशाऽङ्के रघुतनयो, न च निश्चिकाय चन्द्रम्.

अनन्वयःÄ

१०.६८१ कुमुदवनचयेषु कीर्णरश्मिः क्षततिमिरेशु च दिग्वधूमुखेषु

१०.६८२ वियति च विललास तद्वदिन्दुर्, विलसति चन्द्रमसो न यद्वदन्यः.

उत्प्रेक्षाऽऽवयवःÄ

१०.६९१ शरणमिव गतं तमो निकुञ्जे विटपिनिराकृतचन्द्ररश्म्यरातौ

१०.६९२ पृथुविषमशिलाऽन्तरालसंस्थं सजलघनद्युति भीतवत्ससाद.

संसृष्टिःÄ

१०.७०१ अथ नयनमनोहरोऽभिरामः स्मर इव चित्तभवोऽप्यवामशीलः

१०.७०२ रघुसुतमनुजो जगाद वाचं सजलघनस्तनयित्नुतुल्यघोषःÄ

आशीःÄ

१०.७११ “पतिवधपरिलुप्तलोलकेशीर्नयनजलाऽपहृताऽञ्जनौष्ठरागाः

१०.७१२ कुरु रिपुवनिता, जहीहि शोकं, क्व च शरणं जगतां भवान्, क्व मोहः

हेतुःÄ

१०.७२१ अधिगतमहिमा मनुश्यलोके वत सुतरामवसीदति प्रमादी,

१०.७२२ गजपतिरुरुशैलशृङ्गवर्ष्मा गुरुरवमज्जति पङ्कभाङ्, न दारु.

निपुणम्Ä

१०.७३१ बोद्धव्यं किमिव हि, यत्त्वया न बुद्धं, किं वा ते निमिषितमप्यबुद्धिपूर्वम्,

१०.७३२ लब्धाऽऽत्मा तव सुकृतैरनिष्टशङ्की स्नेहौघो घटयति मां तथापि वक्तुम्.”

१०.७४१ स्ॐइत्रेरिति वचनं निशम्य रामो जृम्भावान्भुजयुगलं विभज्य निद्रान्

१०.७४२ अध्यष्ठाच्छिशयिषया प्रवालतल्पं रक्षायै प्रतिदिशमादिशन्प्लवङ्गान्.

११

११.११ अथाऽस्तमासेदुषि मन्दकान्तौ पुण्यक्षयेणेव निधौ कलानाम्

११.१२ समाललम्बे रिपुमित्रकल्पैः पद्मैः प्रहासः कुमुदैर्विषादः

११.२१ दूरं समारुह्य दिवः पतन्तं भृगोरिवेन्दुं विहितोपकारम्

११.२२ बद्धाऽनुरागोऽनुपपात तूर्णं तारागणः संभृतशुभ्रकीर्तिः.

११.३१ क्व ते कटाक्षाः, क्व विलासवन्ति प्रोक्तानि वा तानि ममेति मत्वा

११.३२ लङ्काऽङ्गनानामवबोधकाले लुलामनारुह्य गतोऽस्तमिन्दुः.

११.४१ मानेन तल्पेष्वयथामुखीना मिथ्याप्रसुप्तैर्गमितत्रियामाः

११.४२ स्त्रीभिर्निशाऽतिक्रमविह्वलाभिर्दृष्टेऽपि दोषे पतयोऽनुनीताः.

११.५१ ईर्श्याविरुग्णाः स्थिरबद्धमूला निरस्तनिःशेषशुभप्रतानाः

११.५२ आप्यायिता नेत्रजलप्रसेकैः प्रेमद्रुमाः संरुरुहुः प्रियाणाम्.

११.६१ ततः समाशङ्कितविप्रयोगः पुनर्नवीभूतरसोऽवितृष्णः

११.६२ स्मरस्य सन्तं पुनरुक्तभावं नाऽऽवर्तमानस्य विवेद लोकः.

११.७१ वृत्तौ प्रकाशं हृदये कृतायां सुखेन सर्वेन्द्रियसंभवेन

११.७२ संकोचमेवाऽसहमानमस्था दशक्तवद्वञ्चितमानि चक्षुः

११.८१ पीने भटस्योरसि वीक्ष्य भुग्नांस्तनुत्वचः पाणिरुहान्सुमध्या

११.८२ इच्छाविभङ्गाऽऽकुलमानसत्वाद्भर्त्रे नखेभ्यश्च चिरं जुजूरे.

११.९१ स्रस्ताऽङ्गचेष्टो विनिमीलिताऽक्षः स्वेदाऽम्बुर्ॐओद्गमगम्यजीवः

११.९२ अशेषनष्टप्रतिभापटुत्वो गाढोपगूढो दयितैर्जनोऽभूत्.

११.१०१ तमः, प्रसुप्तं मरणं, सुखं नु, मूर्च्छा नु, माया नु मनोभवस्य,

११.१०२ किं तत्कथं वेत्युपलब्धसंज्ञा विकल्पयन्तोऽपि न संप्रतीयुः.

११.१११ वक्षः स्तनाभ्यां, सुखमाननेन गात्राणि गात्रैर्घटयन्नमन्दम्

११.११२ स्मराऽतुरो नैव तुतोष लोकः, पर्याप्तता प्रेम्णि कुतो विरुद्धा.

११.१२१ स्रस्ताऽङ्गयष्टिः परिरभ्यमाणा संदृश्यमानाऽप्युपसंहृताऽक्षी

११.१२२ अनूढमाना शयने नवोढा परोपकारैकरसैव तस्थौ.

११.१३१ आलिङ्गितायाः सहसा त्रपावांस्त्रासाऽभिलाषाऽनुगतो रताऽऽदौ

११.१३२ विश्वासिताया रमणेन वध्वा विमर्दरम्योमदनो बभूव.

११.१४१ सामोन्मुखेनाऽऽच्छुरिता प्रियेण दत्तेऽथ काचित्पुलकेन भेदे

११.१४२ अन्तःप्रकोपाऽपगमाद्विलोला वशीकृता केवलविक्रमेण.

११.१५१ गुरुर्दधाना परुषत्वमन्या कान्ताऽपि कान्तेन्दुकराऽभिमृष्टा

११.१५२ प्रह्लादिता चन्द्रशिलेव तूर्णं क्षोभात्स्रवत्स्वेदजला बभूव.

११.१६१ शशाङ्कनाथाऽपगमेन धूम्रां मूर्च्छापरीतामिव निर्विवेकाम्

११.१६२ ततः सखीव प्रथिताऽनुरागा प्राबोधयत्द्यां मधुराऽरुणश्रीः

११.१७१ अवीततृष्णोऽथ परस्परेण क्षणादिवाऽऽयातनिशाऽवसानः

११.१७२ दुःखेन लोकः परवानिवाऽगात्समुत्सुकः स्वप्ननिकेतनेभ्यः

११.१८१ अर्धोत्थिताऽऽलिङ्गितसन्निमग्नो रुद्धः पुनर्यान्गमनेऽनभीप्सुः

११.१८२ व्याजेन निर्याय पुनर्निवृत्तस्त्यक्ताऽन्यकार्यः स्थित एव कश्चित्.

११.१९१ तालेन संपादितसाम्यशोभं शुभाऽवधानं स्वरबद्धरागम्

११.१९२ पदैर्गताऽर्थं नृपमन्दिरेषु प्रातर्जगुर्मङ्गलवत्तरुण्यः.

११.२०१ दुरुत्तरे पङ्क इवाऽन्धकारे मग्नं जगत्सन्ततरश्मिरज्जुः

११.२०२ प्रनष्टमूर्तिप्रविभागमुद्यन्प्रत्युज्जहारेव ततो विवस्वान्.

११.२११ पीतौष्ठरागाणि हृताऽञ्जनानि भास्वन्ति लोलैरलकैर्मुखानि

११.२१२ प्रातः कृताऽर्थानि यथा विरेजुस्तथा न पूर्वेद्युरलंकृतानि.

११.२२१ प्रजागराऽऽताम्रविलोचनाऽन्ता निरञ्जनाऽलक्तकपत्रलेखाः

११.२२२ तुल्या इवाऽऽसन्परिखेदतन्व्यो वासच्युताः सेवितमन्मथाभिः

११.२३१ आबद्धनेत्राऽञ्जनपङ्कलेशस्ताम्बूलरागं बहुलं दधानः

११.२३२ चकार कान्तोऽप्यधरोऽङ्गनानां सहोषितानां पतिभिर्लघुत्वम्.

११.२४१ चक्षूंषि कान्तान्यपि साऽञ्जनानि ताम्बूलरक्तं च सरागमोष्ठम्

११.२४२ कुर्वन्सवासं च सुगन्धि वक्त्रं चक्रे जनः केवलपक्षपातम्.

११.२५१ क्षतैरसंचेतितदन्तलब्धैः संभोगकालेऽवगतैः प्रभाते

११.२५२ अशङ्कताऽन्योन्यकृतं व्यलीकं वियोगबाह्योऽपि जनोऽतिरागात्

११.२६१ नेत्रेषुभिः संयुतपक्ष्मपत्रैः कर्णाऽन्तकृष्टैरुरुकेशशूलाः

११.२६२ स्तनोरुचक्रास्ततकर्णपाशाः स्त्रीयोद्धमुख्या जयिनो विचेरुः

११.२७१ पयोधरांश्चन्दनपङ्कदिग्धान्वासांसि चाऽमृष्टमृजानि दृष्ट्वा

११.२७२ स्त्रीणां सपत्न्यो जहृषुः प्रभाते मन्दायमानाऽनुशयैर्मनोभिः

११.२८१ स्मराऽऽतुरे चेतसि लब्धजन्मा रराज लोलोऽपि गुणाऽपहार्यः

११.२८२ कुतूहलान्नेत्रगवाक्षसंस्थः पश्यन्निवाऽन्योन्यमुखानि रागः

११.२९१ गतेऽतिभूमिं प्रणये प्रयुक्ता नबुद्धिपूर्वं परिलुप्तसंज्ञः

११.२९२ आत्माऽनुभूतानपि नोपचारान्स्मराऽऽतुरः संस्मरति स्म लोकः

११.३०१ वस्त्रैरनत्युल्बणरम्यवर्णैर्विलेपनैः सौरभलक्ष्मणीयैः

११.३०२ आस्यैश्च लोकः परितोषकान्तै रसूचयल्लब्धपदं रहस्यम्.

११.३११ प्रातस्तरां चन्दनलिप्तगात्राः प्रच्छाद्य हस्तैरधरान्वदन्तः

११.३१२ शाम्यन्निमेषाः सुतरां युवानः प्रकाशयन्ति स्म निगूहनीयम्.

११.३२१ साम्नैव लोके विजितेऽपि वामे ! किमुद्यतं भ्रूधनुर्प्रसह्यम्,

११.३२२ हन्तुं क्षमो वा वद लोचनेषुर्दिग्धो विषेणेव किमञ्जनेन.

११.३३१ दन्तच्छदे प्रज्वलिताऽग्निकल्पे ताम्बूलरागस्तृणभारतुल्यः

११.३३२ न्यस्तः किमित्यूचुरुपेतभावा गोष्ठीषु नारीस्तरुणीर्युवानः.

११.३४१ सुखाऽवगाहानि युतानि लक्ष्म्या शुचीनि संतापहराण्युरूणि

११.३४२ प्रबुद्धनारीमुखपङ्कजानि प्रातः सरांसीव गृहाणि रेजुः.

११.३५१ संमृष्टसिक्ताऽर्चितचारुपुष्पै रामोदवद्द्रव्यसुगन्धभागैः

११.३५२ लक्ष्मीर्विजिग्ये भवनैः सभृङ्गैः सेव्यस्य देवैरपि नन्दनस्य.

११.३६१ अक्ष्णोः पतन्नीलसरोजलोभाद्भृङ्गः करेणाऽल्पधिया निरस्तः

११.३६२ ददंश ताम्राऽम्बुरुहाऽभिसन्धिस्त्र्णाऽऽतुरः पाणितलेऽपि धृष्णुः.

११.३७१ विलोलतां चक्षुषि हस्तवेपथुं भ्रुवोर्विभङ्गं स्तनयुग्मवल्गितम्

११.३७२ विभूषणानां क्वणितं च षट्पदो गुरुर्यथा नृत्यविधौ समादधे.

११.३८१ अथाऽनुकूलान्कुलधर्मसंपदो विधाय वेशान्सुदिवः पुरीजनः.

११.३८२ प्रबोधकाले शातमन्युविद्विषः प्रचक्रमे राजनिकेतनं प्रति.

११.३९१ शैलेन्द्रशृङ्गेभ्य इव प्रवृत्ता वेगाज्जलौघाः पुरमन्दिरेभ्यः

११.३९२ आपूर्य रथ्याः सरितो जनौघा राजाऽङ्गनाऽम्भोधिमपूरयन्त.

११.४०१ प्रबोधकालात्त्रिदशेन्द्रशत्रोः प्रागूर्ध्वशोषं परिशुष्यमाणाः

११.४०२ हीना महान्तश्च समत्वमीयुर्द्वासस्थैरवज्ञापुरुषाऽक्षिदृष्ताः.

११.४११ गुरूरुचञ्चत्करकर्णजिह्वै रवज्ञयाऽग्राऽङ्गुलिसंगृहीतैः

११.४१२ रक्षाम्स्यनायासहृतैरुपास्थुः कपोललीनाऽलिकुलैर्गजेन्द्रैः.

११.४२१ निकृत्तमत्तद्विपकुम्भमांसैः संपृक्तमुक्तैर्हरयोऽग्रपादैः

११.४२२ आनिन्यिरे श्रेणिकृतास्तथाऽन्यैः परस्परं वालधिसन्निबद्धाः

११.४३१ उपेक्षिता देवगणैस्त्रसद्भिर्निषाचरैर्वीतभयैर्निकृत्ताः

११.४३२ तस्मिन्नदृश्यन्त सुरद्रुमाणां सजालपुष्पस्तबकाः प्रकीर्णाः.

११.४४१ निराकरिष्णुर्द्विजकुञ्जराणां तृणीकृताऽशेषगुणोऽतिमोहात्

११.४४२ पापाऽशयानभ्युदयाऽर्थमार्चीत्प्राग्ब्रह्मरक्षःप्रवरान्दशाऽऽस्यः

११.४५१ मायाविभिस्त्रासकरैर्जनाना माप्तैरुपादानपरैरुपेतः

११.४५२ सतां विघातैकरसैरविक्षत्सदः परिक्षोभितभूमिभागम्.

११.४६१ विघृतनिशितशस्त्रैस्तद्युतं यातुधानै रुरुजठरमुखीभिः संकुलं राक्षसीभिः

११.४६२ श्वगणिशतविकीर्णं वागुरावन्मृगीभिर्वनमिव सभयाभिर्देवबन्दीभिरासीत्.

११.४७१ जलद इव तडित्वान्प्राज्यरत्नप्रभाभिः प्रतिककुभमुदस्यन्निस्वनं धीरमन्द्रम्

११.४७२ शिखरमिव सुमेरोरासनं हैममुच्चैर्विविधमणिविचित्रं प्रोन्नतं सोऽध्यतिष्थत्

१२

१२.११ ततो विनिद्रं कृतदेवताऽर्चं दृष्ट्यैव चित्तप्रशमं किरन्तम्

१२.१२ आविष्कृताऽङ्गप्रतिकर्मरम्यं विभीषणं वाचमुवाच माता

१२.२१ “प्रबाधमानस्य जगन्ति धीमंस्! त्वं सोदरस्याऽतिमदोद्धतस्य

१२.२२ आनन्दनो नाकसदां प्रशान्तिं तूर्णं विषस्याऽमृतवत्कुरुष्व.

१२.३१ कुर्यास्तथा, येन जहाति सीतां विषादनीहारपरीतमूर्तिम्

१२.३२ स्थितां क्षितौ शान्तशिखाप्रतानां तारामिव त्रासकरीं जनस्य.

१२.४१ यावन्न संत्रासितदेवसंघः पिण्डो विषस्येव हरेण भीष्मः

१२.४२ संग्रस्यतेऽसौ पुरुषाऽधिपेन, द्रुतं कुलाऽऽनन्द ! यतस्व तावत्.

१२.५१ हता जनस्थान सदो निकायाः, कृता जितोत्खातभटद्रुमा पूः,

१२.५२ सदांसि दग्धानि, विधेयमस्मिन्यद्बन्धुना, तद्घटयस्व तस्मिन्.”

१२.६१ चिकीर्षिते पूर्वतरं स तस्मिन्, क्षेमंकरेऽर्थे मुहुरीर्यमाणः

१२.६२ मात्राऽतिमात्रं शुभयैव बुद्ध्या चिरं सुधीरभ्यधिकं समाधात्.

१२.७१ दौवारिकाऽभ्याहतशक्रदूतं सोपायनोपस्थितलोकपालम्

१२.७२ साऽऽशङ्कभीष्माऽऽप्तविशन्निशाटं द्वारं ययौ रावणमन्द्रिरस्य.

१२.८१ दूरात्प्रतीहारनतः स वार्तां पृच्छन्ननावेदितसंप्रविष्टः

१२.८२ सगौरवं दत्तपथो निशाटै रैक्षिष्ट शैलाऽग्रमिवेन्द्रशत्रुम्

१२.९१ कृशानुवर्ष्मण्यधिरूढमुच्चैः सिंहासने संक्षयमेघभीमम्

१२.९२ निसर्गतीक्ष्णं नयनस्फुलिङ्गं युगान्तवह्नेरिव धूमराशिम्

१२.१०१ प्रीत्याऽपि दत्तेक्षणसन्निपातं भयं भूजङ्गाऽधिपवद्दधानम्

१२.१०२ तमःसमूहाऽऽकृतिमप्यशेषा नूर्जा जयन्तं प्रथितप्रकाशान्.

१२.१११ तं रत्नदायं जितमृत्युलोका रात्रिंचराः कान्तिभृतोऽन्वसर्पन्

१२.११२ प्रमुक्तमुक्ताफलमम्बुवाहं संजाततृष्णा इव देवमुख्याः.

१२.१२१ स किङ्करैः कल्पितमिङ्गितज्ञैः संबाधकं पूर्वसमागतानाम्

१२.१२२ सिंहासनोपाश्रितचारुबाहु रध्यास्त पीठं विहितप्रणामः.

१२.१३१ ततो दशाऽऽस्यः क्षुभिताऽहिकल्पं दीप्राऽङ्गुलीयोपलमूढरत्नम्

१२.१३२ अनेकचञ्चन्नखकान्तिजिह्वं प्रसार्य पाणिं समितिं बभाषे

१२.१४१ “शक्तैः सुहृद्भिः परिदृष्टकार्यै राम्नातिभिर्नीतिषु बुद्धिमद्भिः

१२.१४२ युष्मद्विधैः सार्धमुपायविद्भिः सध्यन्ति कार्याणि सुमन्त्रितानि.

१२.१५१ उपेक्षिते वालिखराऽऽदिनाशे, दग्धे पुरे,ऽक्षे निहते सभृत्ये,

१२.१५२ सैन्ये द्विषां सागरमुत्तितीर्षा वनन्तरं ब्रूत, यदत्र युक्तम्.”

१२.१६१ भुजांऽसवक्षःस्थलकार्मुकाऽसीन्गदाश्च शूलानि च यातुधानाः

१२.१६२ परामृशन्तः प्रथिताऽभिमानाः प्रोचुः प्रहस्तप्रमुखा दशाऽऽस्यम्.

१२.१७१ “अखण्ड्यमानं परिखण्ड्य शक्रं त्वं पण्डितंमन्यमुदीर्णदण्डः

१२.१७२ नराऽऽभियोगं नृभुजां प्रधान ! मन्त्रोन्मुखः किं नयसे गुरुत्वम्.

१२.१८१ निर्यत्स्फुलिङ्गाऽऽकुलधूमराशिं किं ब्रूहि भूमौ पिनषाम भानुम्,

१२.१८२ आ दन्तनिष्पीडितपीतमिन्दुं ष्ठीवाम शुष्केक्षुलताऽस्थिकल्पम्.

१२.१९१ सराघवैः किं बत वानरैस्तैर्यैः प्रातराशोऽपि न कस्यचिन्नः

१२.१९२ सस्थाणुकैलासधारऽभिधत्स्व, किं द्यौरधोऽस्तु, क्षितिरन्तरीक्षे.

१२.२०१ चापल्ययुक्तस्य हरेः कृशानुः समेधितो वालधिभाक्त्वदीयैः

१२.२०२ शस्त्रेण वध्यस्य गलन्नधाक्षीद्राजन्! प्रमादेन निजेन लङ्काम्.”

१२.२११ अथाऽञ्चितोरस्कमुदीर्णदृष्टिः कृत्वा विवक्षाप्रवणं शरीरम्

१२.२१२ विवृत्तपाणिर्विहितोत्तराऽर्थं विभीषणोऽभाषत यातुधानान्.

१२.२२१ “युद्धाय राज्णा सुभृतैर्भवद्भिः संभावनायाः सदृशं यदुक्तम्,

१२.२२२ तत्प्राणपण्यैर्वचनीयमेव, प्रज्ञा तु मन्त्रेऽधिकृता, न शौर्यम्.

१२.२३१ यच्चापि यत्नाऽऽदृतमन्त्रवृत्तिर्गुरुत्वमायाति नराऽभियोगः

१२.२३२ वशीकृतेन्द्रस्य, कृतोत्तरोऽस्मिन्विध्वंसिताऽशेषपुरो हनूमान्.

१२.२४१ अग्निः प्रमादेन ददाह लङ्कां वध्यस्य देहे स्वयमेधितश्चेत्,

१२.२४२ विमृश्य तद्देवधियाऽभिधत्त ब्रह्माऽस्त्रबन्धोऽपि यदि प्रमादः

१२.२५१ जगन्त्यमेयाऽद्भुतभावभाञ्जि, जिताऽभिमानाश्च जना विचित्राः,

१२.२५२ कार्ये तु यत्नं कुरुत प्रकृष्टं, मा नीतिगर्भान्सुधियोऽवमन्ध्वम्.

१२.२६१ वृद्धिक्षयस्थानगतामजस्रं वृत्तिं जिगीषुः प्रसमीक्षमाणः

१२.२६२ घटेत सन्ध्याऽऽदिषु यो गुणेषु, लक्ष्मीर्न तं मुञ्चति चञ्चलाऽपि.

१२.२७१ उपेक्षणीयैव परस्य वृद्धिः प्रनष्टनीतेरजितेन्द्रयस्य

१२.२७२ मदाऽऽदियुक्तस्य विरागहेतुः, समूलघातं विनिहन्ति याऽन्ते.

१२.२८१ जनाऽनुरागेण युतोऽवसादः फलाऽनुबन्धः सुधियाऽऽत्मनोऽपि

१२.२८२ उपेक्षणीयोऽभ्युपगम्य संधिं कामाऽऽदिषड्वर्गजिताऽधिपेन.

१२.२९१ यदा विगृह्णन्न च संदधानो वृद्धिं क्षयं चाऽनुगुणं प्रपश्येत्,

१२.२९२ आसीत राजाऽवसरप्रतीक्षस्तदा प्रयासं वितथं न कुर्यात्.

१२.३०१ संधौ स्थितो वा जनयेत्स्ववृद्धिं हन्यात्परं वोपनिषत्प्रयोगैः

१२.३०२ आश्रावयेदस्य जनं परैर्वा विग्राह्य कुर्यादवहीनसंधिम्.

१२.३११ संदर्शितस्नेहगुणः स्वशत्रून्विद्वेषयन्मण्डलमस्य भिन्द्यात्

१२.३१२ इत्येवमादि प्रविधाय संधिर्वृद्धेर्विधेयोऽधिगमाभ्युपायः.

१२.३२१ मत्वा सहिष्णूनपरोपजप्यान्स्वकानधिष्ठाय जलाऽन्तदुर्गान्

१२.३२२ द्रुमाऽद्रिदुर्लङ्घ्यजलाप्रधृष्यान्वर्धेत राजा रिपुविग्रहेण.

१२.३३१ शक्नोति यो न द्विषतो निहन्तुं, विहन्यते नाऽप्यबलैर्द्विषद्भिः,

१२.३३२ स श्वावराहं कलहं विदध्या दासीत दुर्गाऽऽदि विवर्धयंश्च.

१२.३४१ प्रयाणमात्रेण परे प्रसाद्ये वर्तेत यानेन कृताऽभिरक्षः,

१२.३४२ अशक्नुवन्कर्तुमरेर्विघातं स्वकर्मरक्षां च परं ष्रयेत.

१२.३५१ एकेन संधिः, कलहोऽपरेण कार्योऽभितो वा प्रसमीक्ष्य वृद्धिम्,

१२.३५२ एवं प्रयुञ्जीत जिगीषुरेता नीतीर्विजानन्नहिताऽऽत्मसारम्.

१२.३६१ त्वया तु लोके जनितो विरागः, प्रकोपितं मण्डलमिन्द्रमुख्यम्,

१२.३६२ रामे तु राजन्, विपरीतमेतत्पश्यामि, तेनाऽभ्यधिकं विपक्षम्.

१२.३७१ एकेन वाली निहतः शरेण सुहृत्तमस्ते, रचितश्च राजा

१२.३७२ यदैव सुग्रीवकपिः परेण, तदैव कार्यं भवतो विनष्टम्.

१२.३८१ प्राकारमात्राऽऽवरणः प्रभावः खराऽऽदिभिर्यो निहतैस्तवाऽभूत्,

१२.३८२ लङ्काप्रदाहाऽक्षवधद्रुभङ्गैः क्लाम्यत्यसावप्यधुनाऽतिमात्रम्.

१२.३९१ षड्वर्गवश्यः परिमूढबन्धु रुच्छिन्नमित्रो विगुणैरुपेतः

१२.३९२ मा पादयुद्धं द्विरदेन कार्षीर्नम क्षितीन्द्रं प्रणतोपभोग्यम्.

१२.४०१ रामोऽपि दाराऽऽहरणेन तप्तो, वयं हतैर्बन्धुभिरात्मतुल्यैः,

१२.४०२ तप्तस्य तप्तेन यथाऽऽयसो नः संधिः परेणाऽस्तु, विमुञ्च सीताम्.

१२.४११ संधुक्षितं मण्डलचण्डवातै रमर्षतीक्ष्णं क्षितिपालतेजः

१२.४१२ सामाऽम्भसा शान्तिमुपैतु राजन्! प्रसीद, जीवाम सबन्धुभृत्याः.

१२.४२१ अपक्वकुम्भाविव भङ्गभाजौ राजन्नियातां मरणं समानौ,

१२.४२२ वीर्ये स्थितः किंतु कृताऽनुरागो रामो भवंश्चोत्तमभूरिवैरी.

१२.४३१ दण्डेन कोशेन च मन्यसे चेत्प्रकृष्टमात्मानमरेस्तथापि

१२.४३२ रिक्तस्य पूर्णेन वृथा विनाशः पूर्णस्य भङ्गे बहु हीयते तु.

१२.४४१ क्लिष्टाऽऽत्मभृत्यः परिमृग्यसम्पन्मानी यतेताऽपि ससंशयेऽर्थे,

१२.४४२ संदेहमारोहति यः कृताऽर्थो, नूनं रतिं तस्य करोति न श्रीः.

१२.४५१ शक्यान्यदोषाणि महाफलानि समारभेतोपनयन्समाप्तिम्

१२.४५२ कर्माणि राजा विहिताऽनुरागो, विपर्यये स्याद्वितथः प्रयासः.

१२.४६१ जेतुं न शक्यो नृपतिः सुनीतिर्दोषः क्षयाऽऽदिः कलहे ध्रुवश्, च

१२.४६२ फलं न किंचिन्न शुभा समाप्तिः, कृताऽनुरागं भूवि संत्यजाऽरिम्.

१२.४७१ त्वन्मित्रनाशो, निजमित्रलाभः, समेतसैन्यः स च मित्रकृच्छ्रे

१२.४७२ भोग्यो वशः पश्य शरेण शत्रोः प्रसाधितो वालिवधे न कोऽर्थः

१२.४८१ लोभाद्भयाद्वाऽभिगतः कपीन्द्रो न राघवं, येन भवेद्विभेद्यः,

१२.४८२ स्थितः सतां वर्त्मनि लब्धराज्यः प्रतिप्रियं सोऽभ्यगमच्चिकीर्षुः.

१२.४९१ फलाशिनो निर्झरकुञ्जभाजो दिव्याऽङ्गनाऽनङ्गरसाऽनभिज्ञाः

१२.४९२ न्यग्जातयो रत्नवरैरलभ्या मुख्याः कपीनामपि नोपजप्याः.

१२.५०१ कृताऽभिषेको युवराजराज्ये सुग्रीवराजेन सुताऽविशेषम्

१२.५०२ ताराविधेयेन कथं विकारं तारासुतो यास्यति राक्षसाऽर्थम्.

१२.५११ पश्यामि रामादधिकं समं वा नाऽन्यं, विरोधे यमुपाश्रयेम,

१२.५१२ दत्त्वा वरं साऽनुशयः स्वयम्भू रिन्द्राऽऽदयः पूर्वतरं विरुद्धाः.

१२.५२१ दुर्गाऽऽश्रितानां बहुनाऽपि राजन्! कालेन पार्ष्णिग्रहणाऽऽदिहेतुः

१२.५२२ दुर्गोपरोधं न च कुर्वतोऽस्ति शत्रोश्चिरेणाऽपि दशाऽऽस्य ! हानिः

१२.५३१ शस्त्रं तरूर्वीधरमम्बु पानं वृत्तिः फलैर्, नो गजवाजिनार्यः

१२.५३२ राष्ट्रं न पश्चान्, न जनोऽभिरक्ष्यः, किं दुःस्थमाचक्ष्व भवेत्परेषाम्.

१२.५४१ संधानमेवाऽस्तु परेण तस्मान्, नाऽन्योऽभ्युपायोऽस्ति निरूप्यमाणः,

१२.५४२ नूनं विसंधौ त्वयि सर्वमेतन्नेष्यन्ति नाशं कपयोऽचिरेण.”

१२.५५१ विभीषणोक्तं बहु मन्यमानः प्रोन्नम्य देहं परिणामनम्रम्

१२.५५२ स्खलद्वलिर्वार्धककम्प्रमूर्धा मातामहो रावणमित्युवाच.

१२.५६१ “एकः पदातिः पुरुषो धनुष्मान्योऽनेकमायानि वियद्गतानि

१२.५६२ रक्षःसहस्राणि चतुर्दशाऽऽर्दीत्, का तत्र वो मानुषमात्रशङ्का.

१२.५७१ ब्रह्मर्षिभिर्नूनमयं सदेवैः संतापितौ रात्रिचरक्षयाय

१२.५७२ नराऽऽकृतिर्वानरसैन्यशाली जगत्यजय्यो विहितोऽभ्युपायः.

१२.५८१ वज्राऽभिघातैरविरुग्णमूर्तेः फेणैर्जलानामसुरस्य मूर्ध्नः

१२.५८२ चकार भेदं मृदुभिर्महेन्द्रो यथा, तथैतत्किमपीति बोध्यम्.

१२.५९१ क्व स्त्रीविषह्याः करजाः, क्व वक्षो दैत्यस्य शैलेन्द्रशिलाविशालम्,

१२.५९२ संपश्यतैतद्द्युसदां सुनीतं, बिभेद तैस्तन्नरसिंहमूर्तिः.

१२.६०१ प्रमादवांस्त्वं क्षतधर्मवर्त्मा गतो मुनीनामपि शत्रुभावम्,

१२.६०२ कुलस्य शान्तिं बहु मन्यसे चेत्कुरुष्व राजेन्द्र ! विभीषणोक्तम्.”

१२.६११ घोषेण तेन प्रतिलब्धसंज्ञो निद्राऽऽविलाऽक्षः ष्रुतकार्यसारः

१२.६१२ स्फुरद्घनः साऽम्बुरिवाऽन्तरीक्षे वाक्यं ततोऽभाषत कुम्भकर्णः

१२.६२१ “क्रियासमारम्भगतोऽभ्युपायो, नृद्रव्यसम्पत्सहदेशकला,

१२.६२२ विपत्प्रतीकारयुताऽर्थसिद्धिर्मन्त्राऽङ्गमेतानि वदन्ति पञ्च.

१२.६३१ न निश्चिताऽर्थं समयं च देशं क्रियाऽभ्युपायाऽऽदिषु योऽतियायात्,

१२.६३२ स प्राप्नुयान्मन्त्रफलं न मानी काले विपन्ने क्षणदाचरेन्द्र !

१२.६४१ औष्ण्यं त्यजेन्मध्यगतोऽपि भानुः, शैत्यं निशायामथवा हिमांशुः

१२.६४२ अनर्थमूलं भुवनाऽवमानी मन्ये न मानं पिशिताशिनाथ !

१२.६५१ तथाऽपि वक्तुं प्रसभं यतन्ते यन्मद्विधाः सिद्धिमभीप्सवस्त्वाम्

१२.६५२ विल्ॐअचेष्टं विहिताऽवहासाः परैर्हि तत्स्नेहमयैस्तमोभिः

१२.६६१ क्रूराः क्रियाः, ग्राम्यसुखेषु सङ्गः, पुण्यस्य यः संक्षयहेतुरुक्तः,

१२.६६२ निषेवितोऽसौ भवताऽतिमात्रं फलत्यवल्गु ध्रुवमेव राजन्!

१२.६७१ दत्तं न किं, के विषया न भुक्ताः, स्थितोऽस्मि वा कं परिभूय नोच्चैः,

१२.६७२ इत्थं कृताऽर्थस्य मम ध्रुवं स्यान्मुत्युस्त्वदर्थे यदि, किं न लब्धम्.

१२.६८१ किं दुर्नयैस्त्वय्युदितैर्मृषाऽर्थैर्वीर्येण वक्ताऽस्मि रणे समाधिम्.”

१२.६८२ तस्मिन्प्रसुप्ते पुनरित्थमुक्त्वा विभीषणोऽभाषत राक्षसेन्द्रम्.

१२.६९१ “निमित्तशून्यैः स्थगिता रजोभिर्दिशो, मरुद्भिर्विकृतैर्विलोलैः

१२.६९२ स्वभावहीनैर्मृगपक्षिघोषैः क्रन्दन्ति भर्तारमिवाऽभिपन्नम्

१२.७०१ उत्पातजं छिद्रमसौ विवस्वान्व्यादाय वक्त्राऽऽकृति लोकभीष्मम्

१२.७०२ अत्तुं जनान्धूसररश्मिराशिः सिंहो यथा कीर्णसटोऽभ्युदेति.

१२.७११ मार्गं गतो गोत्रगुरुर्भृगूणा मगस्तिनाऽध्यासितविन्ध्यशृङ्गम्,

१२.७१२ संदृश्यते शक्रपुरोहितोऽह्नि, क्ष्मां कम्पयन्त्यो निपतन्ति चोल्काः

१२.७२१ मांसं हतानामिव राक्षसाना माशंसवः क्रूरगिरो रुवन्तः

१२.७२२ क्रव्याऽशिनो दीप्तकृशानुवक्त्रा भ्राम्यन्त्यभीताः परितः पुरं नः

१२.७३१ पयो घटोध्नीरपि गा दुहन्ति मन्दं विवर्णं विरसं च गोपाः,

१२.७३२ हव्येषु कीटोपजनः सकेशो न दीप्यतेऽग्निः सुसमिन्धनोऽपि.

१२.७४१ तस्मात्कुरु त्वं प्रतिकारमस्मिन्स्नेहान्मया रावण ! भाष्यमाणः,

१२.७४२ वदन्ति दुःखं ह्यनुजीविवृत्ते स्थिताः पदस्थं परिणामपथ्यम्.

१२.७५१ विरुग्णसंकीर्णविपन्नभिन्नैः पक्षुण्णसंह्रीणशिताऽस्त्रवृक्णैः

१२.७५२ यावन्नराऽशैर्न रिपुः शवऽशान्संतर्पयत्यानम तावदस्मै.”

१२.७६१ भ्रूभङ्गमाधाय विहाय धैर्यं विभीषणं भीषणरूक्षचक्षुः

१२.७६२ गिरं जगादोग्रपदामुदग्रः स्वं स्फावयन्शक्ररिपुः प्रभावम्.

१२.७७१ “शिला तरिष्यत्युदके न पर्णं, ध्वान्तं रवेः स्यन्त्स्यति, वह्निरिन्दोः,

१२.७७२ जेता परोऽहं युधि जेष्यमाणस्तुल्यानि मन्यस्व पुलस्त्यनप्तः !

१२.७८१ अनिर्वृतं भूतिषु गूढवैरं सत्कारकालेऽपि कृताऽभ्यसूयम्

१२.७८२ विभिन्नकर्माऽऽशयवाक्कुले नो मा ज्ञातिचेलं, भुवि कस्यचिद्भूत्

१२.७९१ इच्छन्त्यभीक्ष्णं क्षयमात्मनोऽपि न ज्ञातयस्तुल्यकुलस्य लक्ष्मीम्

१२.७९२ नमन्ति शत्रून्, न च बन्धुवृद्धिं संतप्यमानैर्हृदयैः सहन्ते.

१२.८०१ त्वयाऽद्य लङ्काऽभिभवेऽतिहर्षाद्दुष्टोऽतिमात्रं विवृतोऽन्तरात्मा,

१२.८०२ धिक्त्वां, मृषा ते मयि दुस्थबुद्धिर्” वदन्निदं तस्य ददौ स पार्ष्णिम्.

१२.८११ ततः स कोपं क्षमया निग्र्ह्णन्, धैर्येण मन्युं, विनयेन गर्वम्,

१२.८१२ मोहं धियोत्साहवशादशक्तिं, समं चतुर्भिः सचिवैरुदस्थात्.

१२.८२१ उवाच चैनं क्षणदाचरेन्द्रंÄ “सुखं महाराज ! विना मयाऽऽस्स्व.

१२.८२२ मूर्खाऽऽतुरः पथ्यकटूननश्नन्यत्साऽऽमयोऽऽसौ, भिषजां न दोषः

१२.८३१ करोति वैरं स्फुटमुच्यमानः, प्रतुष्यति श्रोत्रसुखैरपथ्यैः

१२.८३२ विवेकशून्यः प्रभुरात्ममानी, महाननर्थः सुहृदां बताऽयम्.

१२.८४१ क्रीडन्भुजङ्गेन गृहाऽनुपातं कश्चिद्यथा जीवति संशयस्थः,

१२.८४२ संसेवमानो नृपतिं प्रमूढं तथैव यज्जीवति, सोऽस्य लाभः.

१२.८५१ दत्तः स्वदोषैर्भवता प्रहारः पादेन धर्म्ये पथि मे स्थितस्य,

१२.८५२ स चिन्तनीयः सह मन्त्रिमुख्यैः कस्याऽऽवयोर्लाघवमादधातु.

१२.८६१ इति वचनमसौ रजनिचरपतिं बहुगुणमसकृत्प्रसभमभिदधत्

१२.८६२ निरगमदभयः पुरुषरिपुपुरान्नरपतिचरणौ नवितुमरिनुतौ.

१२.८७१ अथ तमुपगतं विदितसुचरितं पवनसुतगिरा गिरिगुरुहृदयः

१२.८७२ नृपतिरमदयन्मुदितपरिजनं स्वपुरपतिकरैः सलिलसमुदयैः.

१३

१३.११ चारुसमीरणरमणे हरिणकलङ्ककिरणाऽऽवलीसविलासा

१३.१२ आबद्धराममोहा वेलामूले विभावरी परिहीणा.

१३.२१ बद्धो वासरसङ्गे भीमो रामेण लवणसलिलाऽऽवासे

१३.२२ सहसा संरम्भरसो दूराऽऽरूढरविमण्डलसमो लोले.

१३.३१ गाढगुरुपुङ्खपीडा सधूमसलिलाऽरिसंभवमहाबाणे

१३.३२ आरुढा संदेहं रामे समहीधार मही सफणिसभा.

१३.४१ घोरजलदन्तिसंकुल मट्टमहापङ्ककाहलजलाऽऽवासम्

१३.४२ आरीणं लवणजलं समिद्धफलबाणविद्धिघोरफणिवरम्

१३.५१ सभयं परिहरमाणो महाऽहिसंचारभासुरं सलिलगणम्

१३.५२ आरूढो लवणजलो जलतीरं हरिबलाऽऽगमविलोलगुहम्

१३.६१ चञ्चलतरुहरिणगणं बहुकुसुमाऽऽबन्धबद्धरामाऽऽवासम्

१३.६२ हरिपल्लवतरुजालं तुङ्गोरुसमिद्धतरुवरहिमच्छायम्

१३.७१ वरवारनं सलिलभरेण गिरिमहीमण्डलसंवरवारणम्

१३.७२ वसुधार्यं तुङ्गतरङ्गसङ्गपरिहीणलोलवसुधारयम्

कुलकं एतानि सप्त संकीर्णानि

१३.८१ प्रणिपत्य ततो वचनं जगाद हितमायतो पतिर्वारीणाम्

१३.८२ गङ्गाऽवलम्बिबाहू रामं बहलोरुहरितमालच्छायम्.

पूर्वाऽर्धं निरवद्यम्

१३.९१ “तुङ्गा गिरिवरदेहा, अगमं सलिलं, समीरणो रसहारी,

१३.९२ अहिमो रविकिरणगणो, माया संसारकारणं ते परमा.

१३.१०१ आयाससंभवारुण ! संहर संहारहिमहरसमच्छायम्

१३.१०२ बाणं, वारिसमूहं संगच्छ पुराणचारुदेहाऽऽवासम्.

१३.१११ असुलभहरिसंचारं जलमूलं बहलपङ्करुद्धाऽऽयामम्

१३.११२ भण किं जलपरिहीणं सुगमं तिमिकम्बुवारिवारणभीमम्.

१३.१२१ गन्तुं लङ्कातीरं बद्धमहासलिलसंचरेण सहेलम्

१३.१२२ तरुहरिणा गिरिजालं वहन्तु गिरिभारसंसहा गुरुदेहम्.

१३.१३१ हरहासरुद्धविगमं परकण्ठगणं महाऽऽहवसमारम्भे

१३.१३२ छिन्दन्तु रामबाणा गम्भीरे मे जले महागिरिबद्धे.

१३.१४१ गच्छन्तु चारुहासा वीररसाऽऽबन्धरुद्धभयसंबन्धम्

१३.१४२ हन्तुं बहुबाहुबलं हरिकरिणो गिरिवरोरुदेहं सहसा.

एतानि षट्संकीर्णानि

१३.१५१ जिगमिषया संयुक्ता बहूव कपिवाहिनी मते दाशरथेः

१३.१५२ बुद्धजलाऽऽलयचित्ता गिरिहरणाऽऽरम्भसंभवसमालोला.

पूर्वाऽर्धं निरवद्यम्

१३.१६१ गुरुगिरिवरहरणसहं संहारहिमारिपिङ्गलं रामबलम्

१३.१६२ आरूढं सहसा खं वरुणाऽऽलयविमलसलिलगणगम्भीरम्

१३.१७१ अवगाढं गिरिजालं तुङ्गमहाभित्तिरुद्धसुरसंचारम्

१३.१७२ अभयहरिरासभीमं करिपरिमलचारुबहलकन्दरसलिलम्.

१३.१८१ अलिगणविलोलकुसुमं सकमलजलमत्तकुररकारण्डवगणम्

१३.१८२ फणिसंकुलभीमगुहं करिदन्तसमूढसरसवसुधाखण्डम्

१३.१९१ अरविन्दरेणुपिञ्जर सारसरवहारिविमलबहुचारुजलम्

१३.१९२ रविमणिसंभवहिमहर समागमाऽऽबद्धबहुलसुरतरुधूपम्

१३.२०१ हरिरवविलोलवारण गम्भीराऽऽबद्धसरसपुरुसंरावम्

१३.२०२ घोणासंगमपङ्काऽऽ विलसुबलभरमहोरुवराहम्.

एतानि पञ्च संकीर्नानि

१३.२११ उच्चख्नुः परिरब्धान्कपिसङ्घा बाहुभिस्ततो भूमिभृतः

१३.२१२ निष्पष्टशेषमूर्ध्नः शृङ्गविकीर्णोष्णरश्मिनक्षत्रगणान्.

सर्वं निरवद्यं

१३.२२१ तुङ्गमहागिरिसुभरा बाहुसमारुद्धभिदुरटङ्का बहुधा

१३.२२२ लवणजलबन्धकामा आरूढा अम्बरं महापरिणाहम्

१३.२३१ बहुधवलवारिवाहं विमलाऽऽयसमहाऽसिदेहच्छायम्

१३.२३२ बद्धविहङ्गममालं हिमगिरिमिव मत्तकुरररवसंबद्धम्

१३.२४१ चारुकलहंस्संकुल सचण्डसंचारसारसाऽऽबद्धरवम्

१३.२४२ सकुसुमकणगन्धवहं समयाऽऽगमवारिसङ्गविमलाऽऽयामम्.

१३.२५१ सहसा ते तरुहरिणा गिरिसुभरा लवणसलिलबन्धाऽऽरम्भे

१३.२५२ तीरगिरिमारूढा रामाऽऽगमरुद्धसभयरिपुसंचारम्.

एतानि चत्वारि संकीर्णानि

१३.२६१ ततः प्राणीताः कपियूथमुख्यैर्न्यस्ताः कृशानोस्तनयेन सम्यक्

१३.२६२ अकम्प्रब्राध्नाऽग्रनितम्बभागा महाऽर्णवं भूमिभृतोऽवगाढाः

निराख्यातं निरवद्यं च

१३.२७१ तेनेऽद्रिबन्ध्यो, ववृधे पयोधिस्, तुतोष रामो, मुमुदे कपीन्द्रः,

१३.२७२ तत्रास शत्रुर्, ददृशे सुवेलः, प्रापे जलान्तो, जुहृषुः प्लवङ्गाः.

एकान्तराख्यातं निरवद्यं च

१३.२८१ भ्रेमुर्, ववल्गुर्, ननृतुर्, जजक्षुर्, जुगुः, समुत्पुप्लुविरे, निषेदुः,

१३.२८२ आस्फोटयांचक्रुरभिप्रणेदू, रेजुर्, ननन्दुर्, विययुः, समीयुः.

आख्यातमाला

१३.२९१ गिरिपङ्कचारुदेहं कक्कोललवङ्गबधसुरभिपरिमलम्

१३.२९२ बहुबहलोरुतरङ्गं परिसरसारूढमुद्धरं लवणजलम्.

१३.३०१ लोलं कूलाऽभिगमे खे तुङ्गामलनिबद्धपुरुपरिणाहम्

१३.३०२ सुरगङ्गाभरणसहं गिरिबन्धवरेण लवणसलिलं रुद्धम्.

१३.३११ आरूढं च सुवेलं तरुमालाऽऽबन्धहारिगिरिवरजालम्

१३.३१२ रावणचित्तभयङ्कर मापिङ्गललोलकेसरं रामबलम्

१३.३२१ लङ्काऽऽलयतुमुलाऽऽरव सुभरगभीरोरुकुञ्जकन्दरविवरम्

१३.३२२ वीणारवरससङ्गम सुरगणसंकुलमहातमालच्छायम्

१३.३३१ सरसबहुपल्लवाऽऽविल केसरहिन्तालबद्धबहलच्छायम्

१३.३३२ ऐरावणमदपरिमल गन्धवहाऽऽबद्धदन्तिसंरम्भरसम्

१३.३४१ तुङ्गतरुच्छायारुह क्ॐअलहरिहारिलोलपल्लवजालम्

१३.३४२ हरिणभयंकरसकुसुम दावसमच्छविविलोलदाडिमकुञ्जम्

१३.३५१ कलहरिकण्ठविरावं सलिलमहाबन्धसंकुलमहासालम्

१३.३५२ चलकिसलयसंबद्धं मणिजालं सलिलकणमयंविवहन्तम्

१३.३६१ तुङ्गमणिकिरणजालं गिरिजलसंघट्टबद्धगम्भीररवम्

१३.३६२ चारुगुहाविवरसभं सुरपुरसमममरचारणसुसंरावम्

१३.३७१ विमलमहामणिटङ्कं सिन्दूरकलङ्कपिञ्जरसहाभित्तिम्

१३.३७२ वीरहरिदन्तिसङ्गम भयरुद्धविभावरीविहारसमीहम्

१३.३८१ समहाफणिभीमबिलं भूरिविहङ्गमतुमुलोरुघोरविरावम्

१३.३८२ वारणवराहहरिवर गोगणसारङ्गसंकुलमहासालम्

१३.३९१ चलकिसलयसविलासं चारुमहीकमलरेणुपिञ्जरवसुधम्

१३.३९२ सकुसुमकेसरबाणं लवङ्गतरुतरुणवल्लरीवरहासम्

१३.४०१ अमलमणिहेमटङ्कं तुङ्गमहाभित्तिरुद्धरुरुपङ्कगमम्

१३.४०२ अमराऽऽरूढपरिसर मेरुमिवाऽऽविलसरसमन्दारतरुम्

१३.४११ फलभरमन्थरतरुवर मविदूरविरूढहारिकुसुमाऽऽपीडम्

१३.४१२ हरिणकलङ्कमणिसंभव बहुवारिभरसुगम्भीरगुहम्.

१३.४२१ जलकामदन्तिसंकुल सहेमरसचारुधवलकन्दरदेहम्

१३.४२२ अङ्कुरतोहसमच्छवि रुरुगणसंलीढतरलहरिमणिकिरणम्

१३.४३१ गाढसमीरणसुसहं भीमरवोत्तुङ्गवारिधरसंघट्टम्

१३.४३२ धवलजलवाहमाला संबन्धाऽऽबद्धहिमधराधरलीलम्.

१३.४४१ लवणजलबन्धसरसं तरुफलसंपत्तिरुद्धदेहाऽऽयासम्

१३.४४२ लङ्कातोरणवारण मारूढं समरलालसंरामबलम्.

१३.४५१ गुरुपणववेणुगुञ्जा भेरीपेलोरुझल्लरीभीमरवम्

१३.४५२ ढक्काघण्टातुमुलं सन्नद्धं परबलं रणाऽऽयाससहम्

१३.४६१ आरूढबाणघोरं विमलाऽऽयसजालगूढपीवरदेहम्

१३.४६२ चञ्चलतुरङ्गवारण संघट्टाऽऽबद्धचारुपरिणाहगुणम्

१३.४७१ असित्ॐअरकुन्तमहा पट्टिशभल्लवरबाणगुरुपुरुमुसलम्

१३.४७२ वीररसाऽलङ्कारं गुरुसंचारहयदन्तिसमहीकम्पम्

१३.४८१ ते रामेण सरभसं परितरला हरिगणा रणसमारम्भे

१३.४८२ रुद्धा लङ्कापरिसर भूधरपरिभङ्गलालसा धीररवम्.

१३.४९१ युग्मकम्Ä जलतीरतुङ्गतरुवर कन्गरगिरिभित्तिकुञ्जविवराऽऽवासम्

१३.४९२ भीमं तरुहरिणबलं सुसमिद्धहिमारिकिरणमालालोलम्.

१३.५०१ रावणबलमवगन्तुं जलभरगुरुसलिलवाहगणसमच्छायम्

१३.५०२ अट्टतरुमञ्चमन्द्रिर तोरणमालासभासु समारूढम्.

१४

१४.११ ततो दशाऽऽस्यः स्मरविह्वलाऽऽत्मा चारप्रकाशीकृतशत्रुशक्तिः

१४.१२ विमोह्य मायामयराममूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम्.

१४.२१ कम्बूनथ समादध्मुः, कोणैर्भेर्यो निजघ्निरे,

१४.२२ वेणून्पुपूरिरे, गुञ्जा जुगुञ्जुः करघट्टिताः

१४.३१ वादयांचक्रिरे ढक्काः, पणवा दध्वनुर्हताः,

१४.३२ काहलाः पूरयांचक्रुः, पूर्णाः पेरश्च सस्वनुः

१४.४१ मृदङ्गा धीरमास्वेनुर्, हतैर्स्वेने च ग्ॐउखैः

१४.४२ घण्टाः शिशिञ्जिरे दीर्घं, जह्रादे पटहैर्भृशम्.

१४.५१ हया जिहेषिरे हर्षाद्, गम्भीरं जगजुर्गजाः,

१४.५२ संत्रस्ताः करभा रेटुश्, चुकुवुः पत्तिपङ्क्तयः

१४.६१ तुरङ्गापुस्फुटुर्भीताः, पुस्फुरुर्वृषभाः परम्

१४.६२ नार्यश्चुक्षुभिरे मम्लुर्मुमुहुः शुशुचुः पतीन्.

१४.७१ जगर्जुर्, जहृषुः, शुरा रेजुस्तुष्टुविरे परैः,

१४.७२ बबन्धुरङ्गुलित्राणि, सन्नेहुः परिनिर्ययुः.

१४.८१ धनूष्यारोपयांचक्रुरारुरुहू रथाऽऽदिषु,

१४.८२ असीनुद्ववृहुर्दीप्तान्, गुर्वीरुच्चिक्षिपुर्गदाः

१४.९१ शूलानि भ्रमयांचक्रुर्, बाणानाददिरे शुभान्,

१४.९२ भ्रेमुश्, चुकुर्दिरे, रेसुर्ववल्गुश्च पदातयः

१४.१०१ अमुत्पेतुः कशाघातै, रश्म्याकर्षैर्ममङ्गिरे

१४.१०२ अश्वाः, प्रदुद्रुवुर्मोक्षे रक्तं निजगरुः श्रमे.

१४.१११ गजानां प्रददुः शारीन्, कम्बलान्परितस्तरुः,

१४.११२ तेनुः कक्षां, ध्वजांश्चैव समुच्छिश्रियुरुच्छिखान्.

१४.१२१ विशिश्वासयिषांचक्रुरालिलिङ्गुश्च योषितः,

१४.१२२ आजघ्नुर्मूर्ध्नि बालांश्च चुचुम्बुश्च सुतप्रियाः.

१४.१३१ गम्भीरवेदिनः संज्ञा गजा जगृहुरक्षताः,

१४.१३२ ववृधे शुशुभे चैषां मदो, हृष्टैश्च पुप्लुवे.

१४.१४१ मृगाः प्रदक्षिणं सस्रुः, शिवाः सम्यग्ववाशिरे,

१४.१४२ अवामैः पुस्फुरे देहैः, प्रसेदे चित्तवृत्तिभिः.

१४.१५१ प्राज्यमाञ्जिहिषांचक्रे प्रहस्तो रावणाऽऽज्ञया

१४.१५२ द्वारं ररङ्घतुर्याम्यं महापार्श्वमहोदरौ.

१४.१६१ प्रययाविन्द्रजित्प्रत्यगियाय स्वयमुत्तरम्.

१४.१६२ सहध्यासिसिषांचक्रे विरूपाऽक्षः पुरोदरम्.

१४.१७१ शुश्राव रामस्तत्सर्वं, प्रतस्थे च ससैनिकः

१४.१७२ विस्फारयांचकाराऽस्त्रं बबन्धाऽथ च बाणधी.

१४.१८१ ईक्षांचक्रेऽथ स्ॐइत्रिमनुजज्ञे बलानि च,

१४.१८२ नमश्चकार देवेभ्यः पर्णतल्पं मुमोच च.

१४.१९१ चकासांचक्रुरुत्तस्थुर्, नेदुरानशिरे दिशः

१४.१९२ वानरा, भूधरान्, रेधुर्, बभञ्जुश्, च ततस्तरून्.

१४.२०१ ददाल भूर्, नभो रक्तं गोष्पदप्रं ववर्ष च,

१४.२०२ मृगाः प्रससृपुर्वामं, खगाश्चुकुविरेऽशुभम्.

१४.२११ उल्का ददृशिरे दीप्ता, रुरुवुश्चाऽशिवं शिवाः,

१४.२१२ चक्ष्माये च मही, रामः शशङ्के चाऽशुभाऽगमम्.

१४.२२१ रावणः शुश्रुवान्शत्रून्राक्षसानभ्युपेयुषः,

१४.२२२ स्वयं युयुत्सयांचक्रे प्राकाराऽग्रे निषेदिवान्.

१४.२३१ निरासू राक्षसा बाणान्, प्रजहुः शूलपट्टिशान्

१४.२३२ असींश्च वाहयांचक्रुः पाशैश्चाऽऽचकृषुस्ततैः

१४.२४१ भल्लैश्च बिभिदुस्तीक्ष्णैर्विविधुस्त्ॐअरैस्तथा.

१४.२४२ गदाभिश्चूर्णयांचक्रुः, शितैश्चक्रैश्च चिच्छिदुः.

१४.२५१ वानरा मुष्टिभिर्जघ्नुर्ददंशुर्दशनैस्तथा,

१४.२५२ निरासुश्च गिरींस्तुङ्गान्, द्रुमान्विचकरुस्तथा.

१४.२६१ लाङ्गूलैर्लोठयांचक्रुस्, तलैर्, निन्युश्च संक्षयम्,

१४.२६२ नखैश्चकृततुः, क्रुद्धाः पिपिषुश्च क्षितौ बलात्.

१४.२७१ संबभूवुः कबन्धानि, प्रोहुः शोणिततोयगाः,

१४.२७२ तेरुर्भटाऽऽस्यपद्मानि, ध्वजैः फेणैरिवाऽऽबभे,

१४.२८१ रक्तपङ्के गजाः सेदुर्, न प्रचक्रमिरे रथाः,

१४.२८२ निममज्जुस्तुरङ्गाश्च, गन्तुं नोत्सेहिरे भटाः.

१४.२९१ कोट्या कोट्या पुरद्वारमेकैकं रुरुघे द्विषाम्,

१४.२९२ षट्त्रिंशद्धरिकोट्यश्च निवव्रुर्वानराऽऽधिपम्,

१४.३०१ तस्तनुर्, जह्वलुर्, मम्लुर्, जग्लुर्, लुलुठिरे क्षताः,

१४.३०२ मुमूर्च्छुर्, ववमू रक्तं, ततृषुश्चोभये भटाः

१४.३११ सम्पातिना प्रजङ्घस्तु युयुधे,ऽसौ द्रुमाहतः

१४.३१२ चकम्पे, तीव चुक्रोश, जीवनाशं ननाश च.

१४.३२१ उच्चख्नाते नलेनाऽऽजौ स्फुरत्प्रतपनाऽक्षिणी,

१४.३२२ जम्बुमाली जहौ प्राणान्ग्राव्णा मारुतिना हतः.

१४.३३१ मित्रिघ्नस्य प्रचुक्षोद गदयाऽङ्गं विभीषणः.

१४.३३२ सुग्रीवः प्रघसं नेभे, बहून्रामस्ततर्द च.

१४.३४१ वज्रमुष्टेर्विशिश्लेष मैन्देनाऽभिहतं शिरः,

१४.३४२ नीलश्चकर्त चक्रेण निकुम्भस्य शिरः स्फुरत्.

१४.३५१ विरूपाक्षो जहे प्राणैस्तृढः स्ॐइत्रिपत्रिभिः,

१४.३५२ प्रमोचयांचकाराऽसून्द्विविदस्त्वशनिप्रभम्.

१४.३६१ गदा शत्रुजिता जिघ्ये, तां प्रतीयेष वालिजः

१४.३६२ रथं ममन्थ सहयं शाखिनाऽस्य ततोऽङ्गदः.

१४.३७१ तत्कर्म वालिपुत्रस्य दृष्ट्वा विश्वं विसिष्मिये,

१४.३७२ संत्रेसू राक्षसाः सर्वे, बहु मेने च राघवः.

१४.३८१ सुग्रीवो मुमुदे, देवाः साध्वित्यूचुः सÄविस्मयाः,

१४.३८२ विभीषणोऽभितुष्टाव, प्रशशंसुः प्लवङ्गमाः.

१४.३९१ ही चित्रं लक्ष्मणेनोदे, रावणिश्च तिरोदधे

१४.३९२ विचकार ततो रामः शरान्, संतत्रसुर्द्विषः

१४.४०१ विभिन्ना जुघुरुर्घोरं, जक्षुः क्रव्याऽशिनो हतान्,

१४.४०२ चुष्च्योत व्रणिनां रक्तं, छिन्नाश्चेलुः क्षणं भुजाः

१४.४११ कृत्तैरपि दृढक्रोधो वीरवक्त्रैर्न तत्यजे,

१४.४१२ पलायांचक्रिरे शेषा, जिह्रियुः शूरमानिनः.

१४.४२१ राघवो न दयांचक्रे, दधुर्धैर्यं न केचन,

१४.४२२ मम्रे पतङ्गवद्वीरैर्हाहेति च विचुक्रुशे.

१४.४३१ तिरोबभूवे सूर्येण, प्रापे च निशयाऽऽस्पदम्,

१४.४३२ जग्रसे कालरात्रीव वानरान्राक्षसाम्श्च सा.

१४.४४१ चुकोपेन्द्रजिदत्युग्रं सर्पाऽस्त्रं चाऽऽजुहाव, सः

१४.४४२ आजुहुवे तिरोभूतः परानीकं, जहास च.

१४.४५१ बबाधे च बलं कृत्स्नं, निजग्राह च सायकैः

१४.४५२ उत्ससर्ज शरांस्, तेऽस्य सर्पसाच्च प्रपेदिरे.

१४.४६१ आचिचाय स तैः सेनामाचिकाय च राघवौ,

१४.४६२ बभाण च, “न मे मायां जिगायेन्द्रोऽपि, किं नृभिः”.

१४.४७१ आचिक्याते च भूयोऽपि राघवौ तेन पन्नगैः

१४.४७२ तौ मुमुहतुरुद्विग्नौ, वसुधायां च पेततुः

१४.४८१ ततो रामेति चक्रन्दुस्, त्रेसुः परिदिदेविरे

१४.४८२ निशश्वसुश्च सेनान्यः, प्रोचुर्धिगिति चाऽऽत्मनः.

१४.४९१ मन्युं शेकुर्न ते रोद्धुं, नाऽस्रं संरुरुधुः पतत्,

१४.४९२ विविदुर्नेन्द्रजिन्मार्गं, परीयुश्च प्लवङ्गमाः.

१४.५०१ दधावाऽद्भिस्ततश्चक्षुः सुग्रीवस्य विभीषणः

१४.५०२ विदांचकार धौताऽक्षः स रिपुं खे, ननर्द च.

१४.५११ उज्जुगूरे ततः शैलं हन्तुमिन्द्रजितं कपिः

१४.५१२ विहाय रावणिस्तस्मादानंहे चाऽन्तिकं पितुः.

१४.५२१ आचचक्षे च वृत्तान्तं, प्रजहर्ष च रावनः

१४.५२२ गाढं चोपजुगूहैनं, शिरस्युपशिशिङ्घ च.

१४.५३१ ध्वजानुद्दुधुवुस्तुङ्गान्, मांसं चेमुर्, जगुः, पपुः,

१४.५३२ कामयांचक्रिरे कान्तास्, ततस्तुष्टा निशाचराः.

१४.५४१ दर्शयांचक्रिरे रामं सीतां राज्ञश्च शासनात्,

१४.५४२ तस्या मिमीलतुर्नेत्रे, लुलुठे पुष्पकोदरे.

१४.५५१ प्राणा दध्वंसिरे, गात्रं तस्तम्भे च प्रिये हते,

१४.५५२ उच्छश्वास चिराद्दीना, रुरोदाऽसौ ररास च.

१४.५६१ “लौहबन्धैर्बबन्धे नु, वज्रेण किं विनिर्ममे

१४.५६२ मनो मे, न विना रामाद्यत्पुस्फोट सहस्रधा.

१४.५७१ उत्तेरिथ समुद्रं त्वं मदर्थे,ऽरीन्जिहिंसिथ,

१४.५७२ ममर्थ चाऽतिघोरां मां धिग्जीवितलघूकृताम्.

१४.५८१ न जिजीवाऽसुखी तातः प्राणता रहितस्त्वया,

१४.५८२ मृतेऽपि त्वयि जीवन्त्या किं मयाऽणकभार्यया.”

१४.५९१ सा जुगुप्सान्प्रचक्रेऽसून्, जगर्हे लक्षणानि च

१४.५९२ देहभाञ्जि, ततः केशान्लुलुञ्च, लुलुठे मुहुः.

१४.६०१ जग्लौ, दध्यौ, वितस्तान, क्षणं प्राण न, विव्यथे,

१४.६०२ दैवं निनिन्द, चक्रन्द, देहे चाऽतीव मन्युना.

१४.६११ आश्वासयांचकाराऽथ त्रिजटा तां, निनाय च.

१४.६१२ ततः प्रजागरांचक्रुर्वानराः सविभीषणाः

१४.६२१ चिचेत रागस्तत्कृच्छ्रमोषांचक्रे शुचाऽथ सः,

१४.६२२ मन्युश्चाऽस्य समापिप्ये, विरुराव च लक्ष्मणम्.

१४.६३१ समीहे मर्तुमानर्चे तेन वाचाऽखिलं बलम्,

१४.६३२ आपपृच्छे च सुग्रीवं स्वं देशं विससर्ज च.

१४.६४१ आदिदेश स किष्किन्धां राघवौ नेतुमङ्गदम्,

१४.६४२ प्रतिजज्ञे स्वयं चैव सुग्रीवो रक्षसा वधम्.

१४.६५१ “नागाऽस्त्रमिदमेतस्य विपक्षस्तार्क्ष्यसंस्मृतिः”

१४.६५२ विभीषणादिति श्रुत्वा तं निदध्यौ रघूत्तमः.

१४.६६१ ततो विजघटे शैलैरुद्वेलं पुप्लुवेऽम्बुधिः

१४.६६२ वृक्षेभ्यश्चुच्युते पुष्पैर्, विरेजुर्भासुरा दिशः

१४.६७१ जगाहिरेऽम्बुधिं नागा, ववौ वायुर्मनोरमः

१४.६७२ तेजांसि शंशमांचक्रुः, शरबन्धा विशिश्लिषुः.

१४.६८१ भ्रेजिरेऽक्षतवद्योधा, लेभे संज्ञां च लक्ष्मणः,

१४.६८२ विभीषणोऽपि बभ्राजे, गरुत्मान्प्राप चाऽन्तिकम्

१४.६९१ संपस्पर्शाऽथ काकुत्स्थौ, जज्ञाते तौ गतव्यथौ

१४.६९२ तयोरात्मानमाचख्यौ, ययौ चाऽथ यथागतम्.

१४.७०१ स्वेनुस्, तित्विषुरुद्येमुरच्चख्नुः पर्वतांस्तरून्,

१४.७०२ वानरा दद्रमुश्चाऽथ संग्रामं चाऽऽशशाशिरे.

१४.७११ डुढौकिरे पुनर्लङ्कां, बुबुधे तान्दशाननः

१४.७१२ जीवतश्च विवेदाऽरीन्, बभ्रंशेऽसौ धृतेस्ततः.

१४.७२१ सस्रंसे शरबन्धेन दिव्येनेति बुबुन्द सः,

१४.७२२ बभाजाऽथ परं मोहमूहांचक्रे जयं न च.

१४.७३१ घूम्राक्षोऽथ प्रतिष्ठासांचक्रे रावणसंमतः

१४.७३२ सिंहाऽऽस्यैर्युयुजे तस्य वृकाऽऽस्यैश्च रथः खगैः.

१४.७४१ त्वक्त्रैः संविव्ययुर्देहान्, वाहनान्यधिशिश्यिरे,

१४.७४२ आनर्जुर्नृभुजोऽस्त्राणि, ववञ्चुश्चाऽऽहवक्षितिम्.

१४.७५१ अध्युवास रथं, तेये पुराच्, चुक्षाव चाऽशुभम्,

१४.७५२ संश्रावयांचकाराऽऽख्यां धूम्राक्षस्तत्वरे तथा.

१४.७६१ निलिल्ये मूर्ध्नि गृध्रोऽस्य, क्रूरा ध्वाङ्क्षा विवाशिरे,

१४.७६२ शिशीके शोणितं व्य्ॐअ, चचाल क्ष्मातलं तथा.

१४.७७१ ततः प्रजघटे युद्धं, शस्त्राण्यासुः परस्परम्,

१४.७७२ वव्रश्चुराजुघूर्णुश्, च स्येमुश्, चुकूर्दिरे तथा.

१४.७८१ रुरुजुर्, भ्रेजिरे, फेणुर्, बहुधा हरिराक्षसाः,

१४.७८२ वीरा न बिभयांचक्रुर्, भीषयांचक्रिरे परान्.

१४.७९१ रत्तं प्रचुश्चुतुः क्षण्णाः, शिश्वियुर्बाणविक्षताः,

१४.७९२ अस्यतां शुशुवुर्बाणान्भुजाः साऽङ्गुष्ठमुष्टयः.

१४.८०१ रणे चिक्रीड धूम्राक्षस्, तं ततर्जाऽनिलाऽऽत्मजः,

१४.८०२ आददे च शिलां, साऽश्वं पिपेषाऽस्य रथं तया.

१४.८११ पपात राक्षसो भूमौ, रराट च भयंकरम्,

१४.८१२ तुतोद गदया चाऽरिं, तं दुध्रावाऽद्रिणा कपिः.

१४.८२१ अकम्पनस्ततो योद्धुं चकमे रावणाऽज्ञया,

१४.८२२ स रथेनाऽभिदुद्राव, जुघुरे चाऽतिभैरवम्.

१४.८३१ पस्पन्दे तस्य वामाऽक्षि, सस्यमुश्चाऽशिवाः खगाः,

१४.८३२ तान्वव्राजाऽवमत्याऽसौ, बभासे च रणे शरैः.

१४.८४१ खमूयुर्, वसुधामूवुः सायका रज्जुवत्तताः

१४.८४२ तस्माद्बलैरपत्रेपे, पुप्रोथाऽस्मै न कश्चन.

१४.८५१ स भस्मसाच्चकाराऽरीन्, दुदाव च कृतान्तवत्,

१४.८५२ चुक्रोध मारुतिस्, ताल मुच्चख्ने च महाशिखम्.

१४.८६१ यमायाऽकम्पनं तेन निरुवाप महापशुम्,

१४.८६२ बभ्रज्ज निहते तस्मिन्शोको रावणमग्निवत्.

१४.८७१ स बिभ्रेष, प्रचुक्षोद, दन्तैरोष्ठं चखाद च,

१४.८७२ प्रगोपायांचकाराऽऽशु यत्नेन परितः पुरम्.

१४.८८१ प्रहस्तमर्थयांचक्रे योद्धुमद्भुतविक्रमम्.

१४.८८२ “किं विचारेण, रजेन्द्र ! युद्धाऽर्था वयमित्य्सौ”

१४.८९१ चक्वाणाऽशङ्कितो योद्धुमुत्सेहे च महारथः,

१४.८९२ निर्येमिरेऽस्य योद्धारश्, चक्wxल्क़्क़्पे चाऽश्वकुञ्जरम्.

१४.९०१ युयुजुः स्यन्दनानश्वैरीजुर्देवान्पुरोहिताः

१४.९०२ आनर्चुर्ब्राह्मणान्सम्यगाशिषश्चाऽऽशशंसिरे.

१४.९११ ऊहिरे मूर्ध्नि सिद्धार्था, गावश्चाऽऽलेभिरे भटैः,

१४.९१२ प्रचुक्ष्णुवुर्महाऽस्त्राणि, जिज्ञासांचक्रिरे हयान्.

१४.९२१ ललुः खड्गान्, ममार्जुश्च, ममृजुश्च परश्वधान्

१४.९२२ “अलंचक्रे, समालेभे ववसे, बुभुजे, पपे,

१४.९३१ जहसे च क्षणं, यानैर्निर्जग्मे योद्धृभिस्ततः

१४.९३२ विप्रान्प्रहस्त आनर्च, जुहाव च विभावसुम्.

१४.९४१ संवर्गयांचकाराऽऽप्तान्, चन्दनेन लिलेप च,

१४.९४२ चचाम मधु मार्द्वीकं, त्वक्त्रं चाऽऽचकचे वरम्.

१४.९५१ उष्णीषं मुमुचे चारु, रथं, च जुजुषे शुभम्,

१४.९५२ आललम्बे महाऽस्त्राणि, गन्तुं प्रववृते ततः.

१४.९६१ आजघ्नुस्तूर्यजातानि, तुष्टुवुश्चाऽनुजीविनः,

१४.९६२ रजः प्रववृधे घोरं, घोषश्च व्यानशे दिशः.

१४.९७१ तं यान्तं दुद्रुवुर्गृध्राः, क्रव्यादश्च सिषेविरे

१४.९७२ आववुर्वायवो घोराः, खादुल्काश्च प्रचक्षरुः.

१४.९८१ सस्यन्दे शोणितं व्य्ॐअ, रणाऽङ्गानि प्रजज्वलुः,

१४.९८२ रथाः प्रचस्खलुः साऽश्वा, न, ररंहाऽश्वकुञ्जरम्.

१४.९९१ प्रतोदा जगलुर्, वाममानञ्चुर्यज्ञिया मृगाः

१४.९९२ ददाल भूः, पुपूरे द्यौः, कपीनामपि निःस्वनैः

१४.१००१ मिमेह रक्तं हस्त्यश्वं, राक्षसाश्च नितिष्ठिवुः,

१४.१००२ ततः शुशुभतुः सेने, निर्दयं च प्रजह्रतुः

१४.१०११ दिद्विशुर्, दुद्युवुश्, चच्छुश्, चक्लमुः, सुषुपुर्, हताः

१४.१०१२ चखादिरे चखादुश्च, विलेपुश्च रणे भटाः

१४.१०२१ प्रहस्तस्य पुरोमात्यान्जिहिंसुर्, दधृषुस्तथा

१४.१०२२ वानराः, कर्म सेनानी रक्षसां चक्षमे ने तत्.

१४.१०३१ ऊर्णुनाव स शस्त्रौघैर्वानराणामनीकिनीम्,

१४.१०३२ शशास च बहून्, योधान्, जीवितेन विवेच च,

१४.१०४१ आससञ्ज भयं तेषां, दिद्युते च यथा रविः,

१४.१०४२ नाऽऽययास, द्विषद्देहैर्जगाहे च दिशो दश.

१४.१०५१ केचित्संचुकुटुर्भीता, लेजिरेऽन्ये पराजिताः,

१४.१०५२ संग्रामाद्बभ्रशुः केचिद्ययाचुश्चाऽपरेऽभयम्.

१४.१०६१ एवं विजिग्ये तां सेनां प्रहस्तो,ऽतिददर्प च,

१४.१०६२ शशाम न च संक्रुद्धो, निर्जुगोप निशाचरान्.

१४.१०७१ चुक्रुधे तत्र नीलेन, तरुश्चोच्चिक्षिपे महान्,

१४.१०७२ प्रहस्तोऽभिहतस्तेन बाणान्विससृजे बहून्,

१४.१०८१ सेहे कपी, रथाऽश्वांश्च रिपोस्ततर्ह शाखिना,

१४.१०८२ धरित्रीं मुसली तेये प्रहस्तश्, चिखिदे न च,

१४.१०९१ संदुधुक्षे तयोः कोपः, पस्फाये शस्त्रलाघवम्,

१४.१०९२ नुनोद शाखिनं नील, आवव्रे मुसली तरुम्,

१४.११०१ वियत्यानभ्रतुर्, भूमौ मण्डलानि विचेरतुः,

१४.११०२ प्रदुद्रुवतुरन्योन्यं वीरौ, शश्रमतुर्न च ,

१४.११११ समीरयांचकाराऽथ राक्षसस्य कपिः शिलाम्,

१४.१११२ क्षतस्तया ममाराऽसावाशिश्राय च भूतलम्.

१४.११२१ तुतुषुर्वानराः सर्वे, नेशुश्चित्रा निशाचराः,

१४.११२२ जेरुराशा दशास्यस्य, सैन्यं नीलं नुनाव च,

१४.११३१ यदा न फेलुः क्षणदाचराणां मनोरथा रामबलाऽभियोगे,

१४.११३२ लङ्कां तदा भेजुरुदीर्णदैन्या, व्याचख्युरुच्चैश्च हतं प्रहस्तम्,

१५

१५.११ राक्षसेन्द्रस्ततोऽभैषीदैक्षिष्ट परितः पुरम्,

१५.१२ प्रातिष्ठिपच्च बोधाऽर्थं कुम्भकर्णस्य राक्षसान्,

१५.२१ तेऽभ्यगुर्भवनं तस्य, सुप्तं चैक्षिषताऽथ तम्,

१५.२२ व्याहार्षुस्तुमुलान्शब्दान्, दण्डैश्चाऽवधिषुर्द्रुतम्

१५.३१ केशानलुञ्चिषुस्, तस्य गजान्गात्रेष्वचिक्रमन्,

१५.३२ शीतैरभ्यषिचंस्तोयैरलातैश्चाऽप्यदम्भिषुः.

१५.४१ नखैरकर्तिषुस्तीक्ष्णैरदाङ्क्षुर्दशनैस्तथा,

१५.४२ शितैरतौत्सुः शूलैश्च, भेरीश्चाऽवीवदन्शुभाः.

१५.५१ स तान्नाऽजीगणत्सर्वा निच्छयाऽबुद्ध च स्वयम्,

१५.५२ अबूबुधत कस्मान्मा मप्राक्षीच्च निशाचरान्.

१५.६१ तेऽभाषिषत “राजा त्वां दिदृक्षुः क्षणदाचर !”

१५.६२ सोऽस्नासीद्, व्यलिपन्, मांसमप्सासीद्, वारुणीमपात्

१५.७१ न्यवसिष्ट ततो द्रष्टुं रावणं, प्रावृतत्गृहात्.

१५.७२ राजा यान्तं तमद्राक्षीदुदस्थाच्चेषदासनात्.

१५.८१ अतुषत्, पीठमासन्ने निरदिक्षच्च काञ्चनम्.

१५.८२ अस्मेष्ट कुम्भकर्णोऽल्पमुपाविक्षदथाऽन्तिके.

१५.९१ अवादीन्"मां किमित्याह्वो” राज्ञा च प्रत्यवादि सः

१५.९२ “माज्ञासीस्त्वं सुखी, रामो यदकार्षीत्स रक्षसाम्.

१५.१०१ उदतारीदुदन्वन्तं, पुरं नः परितोऽरुधत्,

१५.१०२ व्यद्योतिष्ट रणे शस्त्रैरनैषीद्राक्षसान्क्षयम्.

१५.१११ न प्रावोचमहं किंचित्प्रियं, यावदजीविषम्,

१५.११२ बन्धुस्त्वमर्चितः स्नेहान्माद्विषो न वधीर्मम

१५.१२१ वीर्यं मा न ददर्शस्त्वं, मा न त्रास्थाः क्षतां पुरम्,

१५.१२२ तवाऽद्राक्ष्म वयं वीर्यं, त्वमजैषीः पुरा सुरान्”

१५.१३१ अवोचत्कुम्भकर्णस्तं, “वयं मन्त्रेऽभ्यधाम यत्

१५.१३२ न त्वं सर्वं तदश्रौषीः, फलं तस्येदमागमत्.

१५.१४१ प्राज्ञवाक्यान्यवामंस्था, मूर्खवाक्येष्ववाऽस्थिथाः

१५.१४२ अध्यगीष्ठाश्च शास्त्राणि, प्रत्यपत्था हितं न च

१५.१५१ मूर्खास्त्वामववञ्चन्त, ये विग्रहमचीकरन्,

१५.१५२ अभाणीन्माल्यवान्युक्तमक्षंस्थास्त्वं न तन्मदात्

१५.१६१ राघवस्याऽमुषः कान्तामाप्तैरुक्तो न चाऽर्पिपः,

१५.१६२ मा नाऽनुभूः स्वकान्दोषान्, मा मुहो मा रुषोऽधुना.

१५.१७१ तस्याऽप्यत्यक्रमीत्कालो, यत्तदाऽहमवादिषम्

१५.१७२ अघानिषत रक्षासि परैः, कोशांस्त्वमव्ययीः

१५.१८१ सन्धानकारणं तेजो न्यगभूत्ते, कृथास्तथा,

१५.१८२ यत्त्वं वैराणि कोशं च सहदण्डमजिग्लपः.”

१५.१९१ अक्रुधच्चाऽभ्यधाद्वाक्यं कुम्भकर्णं दशाननः

१५.१९२ “किं त्वं मामजुगुप्सिष्ठा, नैदिधः स्वपराक्रमम्.

१५.२०१ मोज्जिग्रहः सुनीतानि, मा स्म क्रंस्था न संयुगे,

१५.२०२ मोपालब्धाह्कृतैर्दोषैर्मा न वाक्षीर्हितं परम्.”

१५.२११ कुम्भकर्णस्ततोऽगर्जीद्, भटांश्चाऽन्यान्न्यवीवृतत्.

१५.२१२ उपायंस्त महाऽस्त्राणि, निरगाच्च द्रुतं पुरः.

१५.२२१ मूर्ध्ना दिवमिवाऽलेखीत्, खं व्यापद्वपुषोरुणा,

१५.२२२ पादाभ्यां क्ष्मामिवाऽभैस्तीत्, दृष्ट्याऽधाक्षीदिव द्विशः

१५.२३१ दग्धशैल इवाऽभासीत्, प्राक्रंस्त क्षयमेघवत्,

१५.२३२ प्राचकम्पदुदन्वन्तं, राक्षसानप्यतित्रसत्.

१५.२४१ सपक्षोऽद्रिरिवाऽचालीन्, न्यश्वसीत्कल्पवायुवत्,

१५.२४२ अभार्षीद्ध्वनिना लोका नभ्राजिष्ट क्षयाऽग्निवत्.

१५.२५१ अनंसीद्भूर्भरेणाऽस्य, रंहसा शाखिनोऽलुठन्,

१५.२५२ सिंहाः प्रादुद्रुवन्भीताः, प्राक्षुभन्कुलपर्वताः

१५.२६१ उत्पाताः प्रावृतंस्तस्य, द्यौरशीकिष्ट शोणितम्,

१५.२६२ वायवोऽवासिषुर्भीमाः, क्रूराश्चाऽकुषत द्विजाः.

१५.२७१ अस्पन्दिष्टाऽक्षि वामं च, घोराश्चाऽराटिषुः शिवाः,

१५.२७२ न्यपप्तन्मुसले गृध्रा, दीप्तयाऽपाति चोल्कया.

१५.२८१ आंहिष्ट तानसंमान्य दर्पात्स प्रधनक्षितिम्,

१५.२८२ ततोऽनर्दीदनन्दीच्च, शत्रूनाह्वास्त चाऽऽहवे.

१५.२९१ प्राशीन्, न चाऽतृपत्क्रूरः, क्षुच्चाऽस्याऽवृधदश्नतः,

१५.२९२ अधाद्वसामधासीच्च रुधिरं वनवासिनाम्.

१५.३०१ माम्सेनाऽस्याऽश्वतां कुक्षी, जठरं चाऽप्यशिश्वियत्,

१५.३०२ बहूनामग्लुचत्प्राणा नग्लोचीच्च रणे यशः.

१५.३११ सामर्थ्यं चाऽपि सोऽस्तम्भीद्विक्रमं चाऽस्य नाऽस्तभन्,

१५.३१२ शाखिनः केचिदध्यष्ठुर्न्यमाङ्क्षुरपरेऽम्बुधौ.

१५.३२१ अन्ये त्वलङ्घिषुः, शैलान्, गुहास्वन्ये न्यलेषत,

१५.३२२ केचिदासिषत स्तब्धा, भयात्केचिदघूर्णिषुः.

१५.३३१ उदतारिषुरम्भोधिं वानराः सेतुनाऽपरे,

१५.३३२ अलज्जिष्टाऽङ्गदस्तत्र, प्रत्यवास्थित चोर्जितम्.

१५.३४१ सत्त्वं समदुधुक्षच्च वानराणामयुद्ध च,

१५.३४२ ततः शैलानुदक्षैप्सुरुदगूरिषत द्रुमान्.

१५.३५१ अनर्दिषुः कपिव्याघ्राः, सम्यक्चाऽयुत्सताऽऽहवे,

१५.३५२ तानमर्दीदखादीच्च, निरास्थच्च तलाऽऽहतान्,

१५.३६१ प्राचुचूर्णच्च पादाभ्यामबिभीषत च द्रुतम्,

१५.३६२ अतर्हीच्चैव शूलेन कुम्भकर्णः प्लवङ्गमान्.

१५.३७१ अतौत्सीद्गदया गाढमपिषच्चोपगूहनैः,

१५.३७२ जनुभ्यामदमीच्चाऽन्यान्, हस्तवर्तमवीवृतत्,

१५.३८१ अदालिषुः शिला देहे, चूर्ण्यभूवन्महाद्रुमाः,

१५.३८२ क्षिप्तास्तस्य न चाऽचेतीत्तानसौ, नाऽपि चाऽक्षुभत्.

१५.३९१ अद्राष्टां तं रघुव्याघ्रौ आख्यच्चैनं विभीषणः

१५.३९२ “एष व्यजेष्ट देवेन्द्रं, नाऽशङ्किष्ट विवस्वतः.

१५.४०१ यक्षेन्द्रशक्तिमच्छासीन्, नाऽप्रोथीदस्य कश्चन,

१५.४०२ कुम्भकर्णान्न भैष्टं मा युवामस्मान्नृपाऽऽत्मजौ.

१५.४११ घ्नन्तं मोपेक्षिषाथां च, मा न कार्ष्टमिहाऽऽदरम्.,

१५.४१२ “अमुं मा न वधिष्टे"ति रामोऽवादीत्ततः कपीन्.

१५.४२१ ते व्यरासिषुराह्वन्त राक्षसं चाऽप्यपिप्लवन्,

१५.४२२ अबभासन्स्वकाः शक्तीर्, द्रुमशैलं व्यकारिषुः

१५.४३१ ते तं व्याशिषताऽक्षौत्सुः पादैर्, दन्तैस्तथाऽच्छिदन्.

१५.४३२ आर्जिजत्शरभो वृक्षं, नीलस्त्वाऽऽदित पर्वतम्.

१५.४४१ ऋषभोऽद्रीनुदक्षैप्सीत्, ते तैररिमतर्दिषुः.

१५.४४२ अस्फूर्जीद्, गिरिशृङ्गं च व्यस्राक्षीद्गन्धमादनः,

१५.४५१ अकूर्दिष्ट, व्यकारीच्च गवाक्षो भूधरान्बहून्.

१५.४५२ स तान्नाऽजीगणद्वीरः कुम्भकर्णोऽव्यथिष्ट न.

१५.४६१ अमन्थीच्च पराऽनीकमप्लोष्ट च निरङ्कुशः,

१५.४६२ निहन्तुं चाऽत्वरिष्टाऽरीनजक्षीच्चाऽङ्कमागतान्.

१५.४७१ व्यक्रुक्षद्वानराऽनीकं, संपलायिष्ट चाऽऽयति,

१५.४७२ हस्ताभ्यां नश्यदक्राक्षीद्, भीमे चोपाधिताऽऽनने.

१५.४८१ रक्तेनाऽचिक्लिदद्भूमिं, सैन्यैश्चाऽतस्तरद्धतैः,

१५.४८२ नाऽतार्प्सीद्भक्षयन्क्रूरो, नाऽश्रमद्घ्नन्प्लवङ्गमान्,

१५.४९१ न योद्धुमशकन्केचिन्, नाऽढौकिषत केचन,

१५.४९२ प्राणशन्नासिकाभ्यां च, वक्त्रेण च वनौकसः.

१५.५०१ उदरे चाऽजरन्नन्ये तस्य पातालसन्निभे,

१५.५०२ आक्रन्दिषुः, सखीनाह्वन्, प्रपलायिषताऽस्विदन्.

१५.५११ रक्तमश्च्योतिषुः क्षुण्णाः, क्षताश्च कपयोऽतृषन्,

१५.५१२ उपास्थायि नृपो भग्नैरसौ सुग्रीवमैजिहत्.

१५.५२१ योद्धुं सो प्यरुषच्छत्रोरैरिरच्च महाद्रुमम्.

१५.५२२ तं प्राप्तं प्रासहिष्टाऽरिः, शक्तिं चोग्रामुदग्रहीत्.

१५.५३१ स तामबिभ्रमद्भीमां, वानरेन्द्रस्य चाऽमुचत्.

१५.५३२ प्रापप्तन्मारुतिस्तत्र तां चाऽलासीद्वियद्गताम्.

१५.५४१ अशोभिष्टाऽचखण्डच्च शक्तिं वीरो, न चाऽयसत्.

१५.५४२ लौहभारसहस्रेण निर्मिता निरकारि मे

१५.५५१ शक्तिरत्यकुपद्रक्षो, गिरिं चोदखनीद्गुरुम्,

१५.५५२ व्यसृष्ट तं कपीन्द्रस्य, तेनाऽमूर्च्छीदसौ क्षतः.

१५.५६१ अलोठिष्ट च भूपृष्ठे, शोणितं चाऽप्यसुस्रुवत्,

१५.५६२ तमादायाऽपलायिष्ट, व्यरोचिष्ट च राक्षसः.

१५.५७१ अभैषुः कपयो,ऽन्वारत्कुम्भुकर्णं मरुत्सुतः,

१५.५७२ शनैरबोधि सुग्रीवः, सोऽलुञ्चीत्कर्णनासिकम्

१५.५८१ राक्षसस्य, न चाऽत्रासीत्, प्रनष्टुमयतिष्ट च.

१५.५८२ अक्रोधि कुम्भकर्णेन, पेष्टुमारम्भि च क्षितौ.

१५.५९१ सुग्रीवोऽस्याऽभ्रशद्धस्तात्, समगाहिष्ट चाऽम्बरम्,

१५.५९२ तूर्णमन्वसृपद्राम माननन्दच्च वानरान्.

१५.६०१ अतत्वरच्च तान्योद्धुमचिचेष्टच्च राघवौ.

१५.६०२ कुम्भकर्णो न्यवर्तिष्ट, रणेऽयुत्सन्त वानराः.

१५.६११ अविवेष्टन्नृपाऽऽदेशादारुक्षंश्चाऽऽशु राक्षसम्

१५.६१२ तानधावीत्समारूढांस्तेऽप्युस्रंसिषताऽऽकुलाः.

१५.६२१ अग्रसिष्ट, व्यधाविष्ट, समाश्लिक्षच्च निर्दयम्.

१५.६२२ ते चाऽप्यघोरिषुर्घोरं, रक्तं चाऽवमिषुर्मुखैः.

१५.६३१ स चाऽपि रुधिरैर्मत्तः स्वेषामप्यदयिष्ट न,

१५.६३२ अग्रहीच्चाऽऽयुरन्येषामरुद्ध च पराक्रमम्.

१५.६४१ संत्रस्तानांअपाहारि सत्त्वं च वनवासिनाम्,

१५.६४२ अच्छेदि लक्ष्मणेनाऽस्य किरीटं कवचं तथा.

१५.६५१ अभेदि च शरैर्देहः प्राशंसीत्तं निशाचरः.

१५.६५२ अस्पर्धिष्ट च रामेण तेनाऽस्याऽक्षिप्सतेषवः,

१५.६६१ यैरघानि खरो, वाली, मारीचो, दूषणस्तथा.

१५.६६२ अवामंस्त स तान्दर्पात्, प्रोदयंसीच्च मुद्गरम्.

१५.६७१ वायव्याऽस्त्रेण तं पाणिं रामोऽच्छैत्सीत्सहाऽऽयुधम्,

१५.६७२ आदीपि तरुहस्तोऽसा वधावीच्चाऽरिसंमुखम्.

१५.६८१ सवृक्षमच्छिदत्तस्य शक्राऽस्त्रेण करं नृपः,

१५.६८२ जङ्घे चाऽशीशतद्बाणैरप्रासीदिषुभिर्मुखम्.

१५.६९१ ऐन्द्रेण हृदयेऽव्यात्सीत्, सोऽध्यवात्सीच्च गां हतः.

१५.६९२ अपिक्षातां सहस्रे द्वे तद्देहेन वनौकसाम्.

१५.७०१ अस्ताविषुः सुरा रामं, दिशः प्रापन्निशाचराः,

१५.७०२ भूरकम्पिष्ट साऽद्रीन्द्रा, व्यचालीदम्भसां पतिः.

१५.७११ हतं रक्षांसि राजानं कुम्भकर्णमशिश्रवन्,

१५.७१२ अरोदीद्रावणोऽशोचीन्, मोहं चाऽशिश्रियत्परम्.

१५.७२१ अपप्रथद्गुणान्भ्रातुरचिकीर्तच्च विक्रमम्,

१५.७२२ “क्रुद्धेन कुम्भकर्णेन येऽदिर्षिशत शत्रवः

१५.७३१ कथं न्वजीविषुस्ते च, स चाऽमृत महाबलः.”

१५.७३२ अयुयुत्सिषताऽऽश्वास्य कुमारा रावणं ततः

१५.७४१ देवान्तकोऽतिकायश्च त्रिशिराः स नरान्तकः

१५.७४२ ते चांऽऽहिषत संग्रामं बलिनो रावणाऽऽत्मजाः.

१५.७५१ युद्धोन्मत्तं च मत्तं च राजा रक्षार्थमाञ्जिहत्

१५.७५२ सुतानां, निरगातां तौ राक्षसौ रणपण्डितौ.

१५.७६१ तैरजेषत सैन्यानि, द्विषोऽकारिषताऽऽकुलाः

१५.७६२ पर्वतानिव ते भूमावचैषुर्वानरोत्तमान्.

१५.७७१ अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः,

१५.७७२ प्रैषिषद्राक्षसः प्रासं, सोऽस्फोटीदङ्गदोरसि.

१५.७८१ अश्वान्वालिसुतोऽहिंसीदतताडच्च मुष्टिना.

१५.७८२ रावणिश्चाऽव्यथो योद्धुमारब्ध च महीं गतः.

१५.७९१ तस्याऽहारिषत प्राणा मुष्टिना वालिसूनुना.

१५.७९२ प्रादुद्रुवंस्ततः क्रुद्धाः सर्वे रावणयोऽङ्गदम्.

१५.८०१ ततो नीलहनूमन्तौ रावणीनववेष्टताम्,

१५.८०२ अकारिष्टां गिरींस्तुङ्गानरौत्सीत्त्रिशिराः शरैः

१५.८११ परिघेणाऽवधिष्टाऽथ रणे देवान्तको बली,

१५.८१२ मुष्टिनाऽददरत्तस्य मूर्धानं मारुताऽऽत्मजः.

१५.८२१ अदीदिपत्ततो वीर्यं, नीलं चाऽपीपिडच्छरैः

१५.८२२ युद्धोन्मत्तस्, तु नीलेन गिरिणाऽनायि संक्षयम्.

१५.८३१ अबभ्राजत्ततः शक्तिं त्रिशिराः पवनाऽऽत्मजे,

१५.८३२ हनूमता क्षतास्तस्य रणेऽमृषत वाजिनः.

१५.८४१ अस्रसच्चाऽऽहतो मूर्ध्नि, खड्गं चाऽजीहरद्द्विषा,

१५.८४२ प्राणानौज्झीच्च खड्गेन छिन्नैस्तेनैव मूर्धभिः.

१५.८५१ मत्तेनाऽमारि संप्राप्य शरभाऽस्तां महागदाम्,

१५.८५२ सहस्रहरिणाऽक्रीडीदतिकायस्ततो रणे.

१५.८६१ रथेनाऽविव्यथच्चाऽरीन्, व्यचारीच्च निरङ्कुशः,

१५.८६२ विभीषणेन सोऽख्यायि राघवस्य महारथः.

१५.८७१ “अतस्तम्भदयं वज्रं, स्वयम्भुवमतूतुषत्,

१५.८७२ अशिक्षिष्ट महाऽस्त्राणि, रणेऽरक्षीच्च राक्षसान्.

१५.८८१ अद्यगीष्टाऽर्थशास्त्राणि, यमस्याऽह्नोष्ट विक्रमम्,

१५.८८२ देवाऽऽहवेष्वदीपिष्ट, नाऽजनिष्टाऽस्य साध्वसम्.

१५.८९१ एष रावणिरापादि वानराणां भयङ्करः”

१५.८९२ आह्वताऽथ स काकुत्स्थं धनुश्चाऽपुस्फुरद्गुरु.

१५.९०१ स्ॐइत्रिः सर्पवत्सिंहमार्दिदत्तं महाऽऽहवे.

१५.९०२ तौ प्रावीवृततां जेतुं शरजालान्यनेकशः.

१५.९११ अच्छैत्तां च महाऽऽत्मानौ, चिरमश्रमतां न च,

१५.९१२ तथा तावास्थतां बाणानतानिष्टां तमो यथा.

१५.९२१ सौर्याऽऽग्नेये व्यकारिष्टामस्त्रे राक्षसलक्ष्मणौ,

१५.९२२ ते चोपागमता नाशं समासाद्य परस्परम्

१५.९३१ अबिभ्रजत्ततः शस्त्रमैषीकं राक्षसो रणे,

१५.९३२ तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम्.

१५.९४१ ततः स्ॐइत्रिरस्मार्षीददेविष्ट च दुर्जयम्

१५.९४२ ब्रह्माऽस्त्रं, तेन मूर्धानमदध्वंसन्नरद्विषः.

१५.९५१ ततोऽक्रन्दीद्दशग्रीवस्तमाशिश्वसदिन्द्रजित्,

१५.९५२ निरयासीच्च संक्रुद्धः, प्रार्चिचच्च स्वयम्भुवम्.

१५.९६१ अहौषीत्कृष्णवर्त्मानं, समयष्टाऽस्त्रमण्डलम्,

१५.९६२ सोऽलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयाऽऽवहम्.

१५.९७१ तमध्यासिष्ट दीप्राऽग्रममोदिष्ट च रावणिः

१५.९७२ छन्नरूपस्ततोऽकर्तीद्देहान्रावणविद्विषाम्.

१५.९८१ सप्तषष्टिं प्लवङ्गानां कोटीर्बाणैरसूषुपत्.

१५.९८२ निशाऽन्ते रावणिः क्रुद्धो राघवौ च व्यमूमुहत्.

१५.९९१ अपिस्फवत्स्वसामर्थ्यमगूहीत्सायकैर्दिशः,

१५.९९२ अघोरीच्च महाघोरं, गत्वा, प्रैषीच्च रावणम्.

१५.१००१ विभीषणस्ततोऽबोधि सस्फुरौ रामलक्ष्मणौ,

१५.१००२ अपारीत्स गृहीतोल्को हतशेषान्प्लवङ्गमान्.

१५.१०११ “मा शोचिष्ट, रघुव्याघ्रौ नाऽमृषातामिति ब्रुवन्

१५.१०१२ अवाबुद्ध स नीलाऽऽदीन्निहतान्कपियूथपान्.

१५.१०२१ तत्रैषज्जाम्बवान्प्राणीदुदमीलीच्च लोचने,

१५.१०२२ पौलस्त्यं चाऽगदीत्"कच्चिदजीवीन्मारुताऽऽत्मजः.”

१५.१०३१ तस्य क्षेमे महाराज ! नाऽमृष्मह्यखिला वयम्.

१५.१०३२ पौलस्त्योऽशिश्रवत्तं च जीवन्तं पवनाऽऽत्मजम्.

१५.१०४१ आयिष्ट मारुतिस्तत्र, तौ चाऽप्यहृषतां ततः,

१५.१०४२ प्राहैष्टां हिमवत्पृष्ठे सर्वौषधिगिरिं ततः

१५.१०५१ तौ हनूमन्तमानेतुमोषधीं मृतजीविनीम्

१५.१०५२ सन्धानकरणीं चाऽन्यां विशल्यकरणीं तथा.

१५.१०६१ प्रोदपाति नभस्तेन, स च प्रापि महागिरिः,

१५.१०६२ यस्मिन्नज्वलिषू रात्रौ महौषध्यः सहस्रशः

१५.१०७१ निरचायि यदा भेदो नौषधीनां हनूमता,

१५.१०७२ सर्व एव समाहारि तदा शैलः महौषधिः.

१५.१०८१ प्राणिषुर्निहताः केचित्, केचित्तु प्रोदमीलिषुः

१५.१०८२ तमोऽन्येऽहासिषुर्योधा, व्यजृम्भिषत चाऽपरे.

१५.१०९१ अजिघ्रपंस्तथैवाऽन्यानोषधीरालिपंस्तथा,

१५.१०९२ एवं तेऽचेतिषुः सर्वे, वीर्यं चाऽधिषताऽधिकम्.

१५.११०१ अजिह्लदत्स काकुत्स्थौ, शेषांश्चाऽजीजिवत्कपीन्

१५.११०२ हनूमानथ ते लङ्का मग्निनाऽदीदिपन्द्रुतम्.

१५.११११ समनात्सीत्ततः सैन्यममार्जीद्भल्लत्ॐअरम्,

१५.१११२ अमार्क्षीच्चाऽसिपत्राऽऽदीनबभासत्परश्वधान्.

१५.११२१ कुम्भकर्णसुतौ तत्र समनद्धां महाबलौ

१५.११२२ निकुम्भश्चैव कुम्भश्च, प्रापतां तौ प्लवङ्गमान्.

१५.११३१ अगोपिष्टां पुरीं लङ्कामगौप्तां रक्षसां बलम्,

१५.११३२ अत्याक्तामायुधाऽनीकमनैष्टां च क्षयं द्विषः.

१५.११४१ अकोकूयिष्ट तत्सैन्यं, प्रपलायिष्ट चाऽऽकुलम्,

१५.११४२ अच्युतच्च क्षतं रक्तं, हतं चाऽध्यशयिष्ट गाम्.

१५.११५१ अङ्गदेनाऽहसातां तौ युध्यकम्पनकम्पनौ,

१५.११५२ अभ्यार्दीद्वालिनः पुत्रं प्रजङ्घोऽपि समत्सरः.

१५.११६१ तस्याऽप्यबेभिदिष्टाऽसौ मूर्धानं मुष्टिनाऽङ्गदः,

१५.११६२ अहार्षीच्च शिरः क्षिप्रं यूपाक्षस्य निराकुलः.

१५.११७१ शरीरं लोहिताक्षस्य न्यभाङ्क्षीद्द्विविदस्तदा,

१५.११७२ क्रुद्धः कुम्भस्ततोऽभैत्सीन्मैन्दं सद्विविदं शरैः

१५.११८१ आघूर्णिष्टां क्षतौ, क्ष्मां च तावाशिश्रियतामुभौ.

१५.११८२ मातुलौ विह्वलौ दृष्ट्वा कुम्भं वालिसुतो नगैः

१५.११९१ प्रौर्णावीच्, छरवर्षेण तानप्रौहीन्निशाचरः.

१५.११९२ वानरानैजिहद्रामस्य तूर्णं रक्षितुमङ्गदम्.

१५.१२०१ द्रुतमत्रास्त सुग्रीवो भ्रातृव्यं षत्रुसंकटात्,

१५.१२०२ मुष्टिना क्ॐभकर्णिं च क्रुद्धः प्राणैरतित्यजत्.

१५.१२११ निकुम्भो वानरेन्द्रस्य प्राहैषीत्परिघं ततः,

१५.१२१२ हनूमांश्चाऽऽपतन्तं तमभाङ्क्षीद्भोगिभीषणम्.

१५.१२२१ प्रौर्णुवीत्तेजसाऽरातिमरासीच्च भयंकरम्,

१५.१२२२ ग्रीवां चाऽस्य तथाक्राक्षीदजिजीवद्यथा न तम्.

१५.१२३१ समगतकपिसैन्यं सम्मदेनाऽतिमात्रं, विटपहरिणनाथः सिद्धिमौहिष्ट नित्याम्,

१५.१२३२ नृपतिमतिररंस्त प्राप्तकामेव हर्षात्, रजनिचरपतीनां सन्ततोऽतायि शोकः.

१६

१६.११ ततः प्ररुदितो राजा रक्षसां हतबान्धवः

१६.१२ “किं करिष्यामि राज्येन, सीतया किं करिष्यते

१६.२१ अतिकाये हते वीरे प्रोत्सहिष्ये न जीवितुम्.

१६.२२ ह्रेपयिष्यति कः शत्रून्, केन जायिष्यते यमः.

१६.३१ अतिकायाद्विना पाश्यं को वा छेत्स्यति वारुणम्,

१६.३२ रावणं मंस्यते को वा, स्वयम्भूः कस्य तोक्ष्यति.

१६.४१ श्लाघिष्ये केन, को बन्धून्नेष्यत्युन्नतिमुन्नतः,

१६.४२ कः प्रेष्यति पित्न्काले, कृत्वा कित्थष्यते न कः.

१६.५१ उद्यंस्यति हरिर्वज्रं, विचरिष्यति निर्भयः,

१६.५२ भोक्ष्यते यज्ञभागांश्च शूरमानं च वक्ष्यति.

१६.६१ रविस्तप्स्यति निःशङ्कं, वास्यत्यनियतं मरुत्,

१६.६२ निर्वर्त्स्यत्यृतुसंघातः, स्वेच्छयेन्दुरुदेष्यति.

१६.७१ तीव्रं स्यन्दिष्यते मेघैरुग्रं वर्तिष्यते यमः,

१६.७२ अतिकायस्य मरणे किं करिष्यन्ति नाऽन्यथा.

१६.८१ अन्मीलिष्यति चक्षुर्मे वृथा, यद्विनयाऽऽगतम्

१६.८२ आज्ञालाभोन्मुखं नम्रं न द्रक्ष्यति नरान्तकम्.

१६.९१ धिङ्मां, त्रिशिरसा नाऽहं सन्दर्शिष्येऽद्य यत्पुनः,

१६.९२ घानिष्यन्ते द्विषः केन तस्मिन्पञ्चत्वमागते.

१६.१०१ शत्रुभिर्निहते मत्ते द्रक्ष्येऽहं संयुगे सुखम्,

१६.१०२ युद्धोन्मत्ताद्विना शत्रून्समास्कन्त्स्यति को रणे.

१६.१११ आह्वास्यते विशङ्को मां योत्स्यमानः शतक्रतुः,

१६.११२ प्रकल्प्स्यति च तस्याऽर्थो निकुम्बे दुर्हणे हते

१६.१२१ कल्पिष्यते हरेः प्रीतिर्, लङ्का चोपहनिष्यते,

१६.१२२ देवान्तक ! त्वया त्यक्तो रिपोर्यास्यामि वश्यताम्.

१६.१३१ मरिष्यामि, विजेष्ये वा, हताश्चेत्तनया मम,

१६.१३२ हनिष्यामि रिपूंस्तूर्णं, न जीविष्यामि दुःखितः

१६.१४१ स्मेष्यन्ते मुनयो, देवाः कथयिष्यन्ति चाऽनिशम्

१६.१४२ “दशग्रीवस्य दुर्नीतेर्विनष्टं रक्षसां कुलम्.”

१६.१५१ केन सम्भावितं तातÄकुम्भकर्णस्य राघवः

१६.१५२ रणे कर्त्स्यति गात्राणि मर्माणि च वितर्त्स्यति.

१६.१६१ पतिष्यति क्षितौ भानुः, पृथिवी तोलयिष्यते.

१६.१६२ नभस्वान्भङ्क्ष्यते व्य्ॐअ मुष्टिभिस्ताडयिष्यते.

१६.१७१ इन्द्रोः स्यन्दिष्यते वह्निः, समुच्चोक्ष्यति सागरः,

१६.१७२ जलं धक्ष्यति, तिग्मांशोः स्यन्त्यन्ति तमसां चयाः.

१६.१८१ कुम्भकर्णो रणे पुंसा क्रुद्धः परिभविष्यते

१६.१८२ संभावितानि नैतानि कदाचित्केनचिज्जने.

१६.१९१ कुम्भकर्णे हते लङ्का मारोक्ष्यन्ति प्लवङ्गमाः,

१६.१९२ दङ्क्ष्यन्ति राक्षसान्, दृप्ता भङ्क्ष्यन्ति च ममाऽऽश्रमान्.

१६.२०१ चर्त्स्यन्ति बालवृद्धांश्च, नर्त्स्यन्ति च मुदा युताः

१६.२०२ तेन राक्षसमुख्येन विना तान्को निरोत्स्यति.

१६.२११ अमर्षो मे परः, सीतां राघवः कामयिष्यते,

१६.२१२ च्युतराज्यात्सुखं तस्मात्किं किलाऽसाववाप्स्यति.

१६.२२१ मारयिष्यामि वैदेहीं, खादयिश्यामि राक्षसैः,

१६.२२२ भूमौ वा निखनिष्यामि विध्वंसस्याऽस्य कारणम्

१६.२३१ नाऽनुरोत्स्ये जगल्लक्ष्मीं, घटिष्ये जीवितुं न वा

१६.२३२ न रंस्ये विषयैः शून्ये भवने बान्धवैरहम्.

१६.२४१ मोदिष्ये कस्य सौख्येऽहं, को मे मोदिष्यते सुखे,

१६.२४२ आदेयाः किंकृते भोगाः कुम्भकऋण ! त्वया विना.

१६.२५१ याः सुहृत्सु विपन्नेषु मामुपैष्यन्ति संपदः,

१६.२५२ ताः किं मन्युक्षताऽऽभोगा न विपत्सु विपत्तयः.

१६.२६१ “विनङ्क्ष्यति पुरी क्षिप्रं, तूर्णमेष्यन्ति वानराः,

१६.२६२ असन्धित्सोस्तवे"त्येतद्विभीषणसुभाषितम्.

१६.२७१ “अर्थेन संभृता राज्ञा न भाषिष्यामहे वयम्,

१६.२७२ संयोत्स्यामह,” इत्येतत्प्रहस्तेन च भाषितम्.

१६.२८१ मानुषो नाम पत्काषी राजानं पुरुषाऽशिनाम्

१६.२८२ योधयिष्यति संग्रामे दिव्याऽस्त्ररथदुर्जयम्.

१६.२९१ सन्नत्स्याम्यथवा योद्धुं, न कोष्ये सत्त्वहीनवत्,

१६.२९२ अद्य तप्र्स्यन्ति मांसाऽदा, भूः पास्यत्यरिशोणितम्.

१६.३०१ आकर्क्ष्यामि यशः, शत्रूनपनेष्यामि कर्मणा,

१६.३०२ अनुभाविष्यते शोको मैथिल्याऽद्य पतिक्षयात्.

१६.३११ मन्तूयिष्यति यक्षेन्द्रो, वल्गूयिष्यति नो यमः,

१६.३१२ ग्लास्यन्त्यपतिपुत्राश्च वने वानरयोषितः.

१६.३२१ सुखं स्वप्स्यन्ति रक्षांसि, भ्रमिष्यन्ति च निर्भयम्,

१६.३२२ न विक्रोक्ष्यन्ति राक्षस्यो, नरांश्चाऽत्स्यन्ति हर्षिताः.

१६.३३१ प्राङ्मुहूर्तात्प्रभातेऽहं भविष्यामि ध्रुवं सुखी

१६.३३२ आगामिनि, ततः काले यो द्वितीयः क्षणोऽपरः

१६.३४१ तत्र जेतुं गमिष्यामि त्रिदशेन्द्रं सहाऽमरम्,

१६.३४२ ततः परेण भूयोऽपि लङ्कामेष्याम्यमत्सरः”

१६.३५१ तमेववादिनं मूढमिन्द्र्जित्समुपागतः

१६.३५२ “युयुत्सिष्येऽहमित्येवं वदन्रिपुभयंकरः.

१६.३६१ नाऽभिज्ञा ते महाराज !, जेष्यावः शक्रपालितम्

१६.३६२ दृप्तदेवगुणाऽऽकीर्ण मावां सह सुराऽऽलयम्,

१६.३७१ नाऽभिज्ञा ते, सयक्षेन्द्रं भङ्क्ष्यावो यद्यमं बलात्,

१६.३७२ रत्नानि चाऽऽहरिष्यावः, प्राप्स्यावश्च पुरीमिमाम्.

१६.३८१ एष पेक्ष्याम्यरीन्भूयो, न शोचिष्यसि रावण !

१६.३८२ जगद्द्रक्ष्यसि नीराममवगाहिष्यसे दिशः.

१६.३९१ सहभृत्यः सुराऽऽवासे भयं भूयो विधास्यसि

१६.३९२ प्रणंस्यत्यद्य देवेन्द्रस्त्वां, वक्ष्यति स सन्नतिम्.

१६.४०१ भेष्यते मुनिभिस्त्वत्तस्त्वमधिष्ठास्यसि द्विषः,

१६.४०२ ज्ञास्येऽहमद्य संग्रामे समस्तैः शूरमानिभिः.

१६.४११ ज्ञायिष्यन्ते मया चाऽद्य वीरंमन्या द्विषद्गणाः,

१६.४१२ गूहिष्यामि क्षितिं कृत्तै रद्य गात्रैर्वनाकसाम्.

१६.४२१ आरोक्ष्यामि युगान्तवारिदघटा संघट्टधीरध्वनिं निर्यास्यन्रथमच्छ्रितध्वजधनुः खड्गप्रभाभासुरम्.

१६.४२२ श्रोष्यस्यद्य विकीर्णवृक्णविमुख व्यापन्नशत्रौ रणे तृप्तांश्छोणितशोणभीषणमुखान्क्रव्याऽशिनः क्रोशतः.”

१७

१७.११ आशासत ततः शान्तिमस्नुरग्नीनहावयन्,

१७.१२ विप्रानवाचयन्योधाः, प्राक्कुर्वन्मङ्गलानि च.

१७.२१ अपूजयन्कुलज्येष्ठानुपागूहन्त बालकान्.

१७.२२ स्त्रीः समावर्धयन्साऽस्राः, कार्याणि प्रादिशंस्तथा.

१७.३१ आच्छादयन्, व्यलिम्पंश्च, प्राश्नन्नथ सुराऽऽमिषम्,

१७.३२ प्रापिबन्मधुमाध्वीकं भक्ष्यांश्चाऽऽदन्यथेप्सितान्

१७.४१ न्यश्यन्शस्त्राण्यभीष्टानि, समनह्यंश्च वर्मभिः,

१७.४२ अध्यासत सुयागानि, द्विषद्भ्यश्चाऽशपंस्तथा.

१७.५१ अपूजयंश्चतुर्वक्त्रं, विप्रानार्चंस्तथाऽस्तुवन्,

१७.५२ समालिपत शक्राऽरिर्यानं चाऽभ्यलषद्वरम्.

१७.६१ आमुञ्चद्वर्म रत्नाऽऽढ्यमबध्नात्खड्गमुज्ज्ल्वलम्,

१७.६२ अध्यास्त स्यन्दनं घोरं, प्रावर्तत ततः पुरः

१७.७१ आघ्नन्भेरीर्महास्वानाः, कम्बूंश्चाऽप्यधमन्शुभान्,

१७.७२ अताडयन्मृदङ्गांश्च, पेराश्चाऽपूरयन्कलाः.

१७.८१ अस्तुवन्बन्दिनः, शब्दानन्योन्यं चोदभावयन्,

१७.८२ अनदन्सिंहनादांश्च, प्राद्रेकत हयद्विपम्.

१७.९१ अनिमित्तान्यथाऽपश्यन्नस्फुटद्रविमण्डलम्,

१७.९२ औक्षन्शोणितमम्भोदा, वायवोऽवान्सुदुःसहाः.

१७.१०१ आर्च्छन्वामं मृगाः कृष्णाः, शस्त्राणां व्यस्मरन्भटाः,

१७.१०२ रक्तं न्यष्ठीवदक्लाम्य दखिद्यद्वाजिकुञ्जरम्.

१७.१११ न तानगणयन्सर्वानास्कन्दंश्च रिपून्, द्विषः

१७.११२ अच्छिन्दन्नसिभिस्तीक्ष्णैरभिन्दंस्त्ॐअरैस्तथा

१७.१२१ न्यकृन्तंश्चक्रधाराभिरतुदन्शक्तिभिर्दृढम्,

१७.१२२ भल्लैरविध्यन्नुग्राऽग्रैरतृंहंस्त्ॐअरैरलम्.

१७.१३१ आस्यन्प्लवङ्गमा वृक्षानधुन्वन्भूधरैर्भृशम्,

१७.१३२ अहिंसन्मुष्टिभिः क्रोघाददशन्दशनैरपि.

१७.१४१ प्रादुन्वन्जानुभिस्तूर्णमतुदंस्तलकूर्परैः,

१७.१४२ प्राहिण्वन्नरिमुक्तानि शस्त्राणि विविधानि च.

१७.१५१ अतृणेट्शक्रजिच्छत्रूनभ्राम्यच्च समन्ततः,

१७.१५२ अध्वनच्च महाघोरं, न च कंचन नाऽदुनोत्.

१७.१६१ नाऽजानन्सन्दधानं तं, धनुर्नैक्षन्त बिभ्रतम्

१७.१६२ नेषूनचेतन्नस्यन्तं, हतास्तेनाऽविदुर्द्विषः.

१७.१७१ अशृण्वन्नन्यतः शब्दं, प्रपलायन्त चाऽन्यतः,

१७.१७२ आक्रन्दमन्यतोऽकुर्वंस्तेनाऽहन्यन्त चाऽन्यतः.

१७.१८१ प्रालोठन्त, व्यभिद्यन्त, परितो रक्तमस्रवन्,

१७.१८२ पर्यश्राम्यन्नतृप्यंश्च क्षतास्तेनाऽम्रियन्त च.

१७.१९१ स्ॐइत्रिराकुलस्तस्मिन्ब्रह्माऽस्त्रं सर्वरक्षसाम्

१७.१९२ निधनायाऽऽजुहूषत्तं व्य्ष्टभ्नाद्रघुनन्दनः.

१७.२०१ ततो मायामयीं सीतां घ्नन्खड्गेन वियद्गतः

१७.२०२ अदृश्यतेन्द्रजिद्, वाक्यमवदत्तं मरुत्सुतः.

१७.२११ “माऽपराध्नोदियं किंचिदभ्रश्यत्पत्युरन्तिकात्

१७.२१२ सीतां राक्षस ! मा स्मैनां निगृह्णाः पाप ! दुःखिताम्”

१७.२२१ “पीडाकरममित्राणां कर्तव्यमिति शक्रजित्

१७.२२२ अब्रवीत्, खड्गकृष्टश्च तस्या मूर्धानमच्छिनत्.

१७.२३१ “यत्कृतेऽरीन्व्यगृह्णीम, समुद्रमतराम च,

१७.२३२ सा हते"ति वदन्राममुपातिष्ठन्मरुत्सुतः.

१७.२४१ ततः प्रामुह्यतां वीरौ राघवावरुतां तथा,

१७.२४२ उष्णं च प्राणतां दीर्घमुच्चैर्व्याक्रोशतां तथा.

१७.२५१ तावभाषत पौलस्त्यो “मा स्म प्ररुदितं युवाम्,

१७.२५२ ध्रुवं स मोहयित्वाऽस्मान्पापोऽगच्छन्निकुम्भिलाम्.

१७.२६१ मा स्म तिष्ठत, तत्रस्थो वध्योऽस्मावहुताऽनलः,

१७.२६२ अस्त्रे ब्रह्मशिरस्युग्रे स्यन्दने चाऽनुपार्जिते.

१७.२७१ ब्रह्माऽदधाद्वधं तस्य तस्मिन्कर्मण्यसंस्थिते”

१७.२७२ प्रायच्छदाज्ञां स्ॐइत्रेर्युथपानां च राघवः.

१७.२८१ तां प्रत्यैच्छन्सुसंप्रितास्ततस्ते सविभीषणाः,

१७.२८२ निकुम्भिलां समभ्यायन्, न्यरुध्यन्त च राक्षसैः

१७.२९१ दिक्पालैः कदनं तत्र सेने प्राकुरुतां महत्,

१७.२९२ ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्यलक्ष्मणौ,

१७.३०१ तत्रेन्द्रजितमैक्षेतां कृतधिष्ण्यं समाहितम्.

१७.३०२ सोऽजुहोत्कृष्णवर्त्मानमामनन्मन्त्रमुत्तमम्.

१७.३११ अध्यायच्छक्रजिद्ब्रह्म, समाधेरचलन्न च.

१७.३१२ तमाह्वयत स्ॐइत्रिरगर्जच्च भयंकरम्.

१७.३२१ अकुप्यदिन्द्रजित्तत्र, पितृव्यं चाऽगदद्वचः

१७.३२२ “त्वमत्राऽजायथा, देह इहाऽपुष्यत्सुराऽमिषैः,

१७.३३१ इहाऽजीव, इहैव त्वं क्रूरमारभथाः कथम्,

१७.३३२ नाऽपश्यः पाणिमार्द्रं त्वं, बन्धुत्वं नाऽप्यपैक्षथाः.

१७.३४१ अधर्मान्नाऽत्रसः पाप ! लोकवादान्न चाऽबिभेः,

१७.३४२ धर्मदुषण ! नूनं त्वं नाऽजाना, नाऽशृणोरिदम्.

१७.३५१ निराकृत्य यथा बन्धून्लघुत्वं यात्यसंशयम्.”

१७.३५२ पितृव्येण ततो वाक्यमभ्यधीयत शक्रजित्

१७.३६१ “मिथ्या मा स्म व्यतिक्रामो, मच्छीलं मा न बध्यथाह्

१७.३६२ सत्यं समभवं वंशे पापानां रक्षसामहम्.

१७.३७१ न त्वजायत मे शीलं तादृक्, यादृक्पितुस्तव.

१७.३७२ क्षयाऽऽवहेषु दोषेषु वार्यमाणो मयाऽरमत्

१७.३८१ दशग्रीवंऽहमेतस्मादत्यजं, न तु विद्विषन्.

१७.३८२ परस्वान्यार्जयन्, नारीरन्यदीयाः परामृशत्.

१७.३९१ व्यजिघृक्षत्सुरान्नित्यं, प्रामाद्यद्गुणिनां हिते,

१७.३९२ आशङ्कत सुहृद्बन्धूनवृद्धान्बह्वमन्यत.

१७.४०१ दोषैररमतैभिस्ते पिताऽत्यज्यत यैर्मया.

१७.४०२ ततोरुष्यदनर्दच्च, द्विविंशतिभिरेव च

१७.४११ शरैरताडयद्बन्धुं, पञ्चविंशतिभिर्नृपम्

१७.४१२ रावणिस्तस्य स्ॐइत्रिरमथ्नाच्चतुरो हयान्.

१७.४२१ सागरथिं चाऽलुनाद्बाणैरभनक्स्यन्दनं तथा,

१७.४२२ स्ॐइत्रिमकिरद्बाणैः परितो रावणिस्ततः.

१७.४३१ तावस्फावयतां शाक्तिं, बाणांश्चाऽकिरतां मुहुः.

१७.४३२ वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद्रौद्रमिन्द्रजित्.

१७.४४१ ते परस्परमासाद्य शस्त्रे नाशमगच्छताम्,

१७.४४२ आसुरं राक्षसः शस्त्रं ततो घोरं व्यसर्जयत्,

१७.४५१ तस्मान्निरपतद्भूरि शिलाशूलेष्टिमुद्गरम्.

१७.४५२ माहेश्वरेण स्ॐइत्रिरस्तभ्नात्तत्सुदुर्जयम्.

१७.४६१ ततो रौद्रसमायुक्तं माहेन्द्रं लक्ष्मणोऽस्मरत्,

१७.४६२ तेनाऽऽगम्यत घोरेण, शिरश्चाऽह्रियत द्विषः

१७.४७१ अतुष्यन्नमराः सर्वे, प्राहृष्यन्कपियूथपाः,

१७.४७२ पर्यष्वजत स्ॐइत्रिं, मूर्ध्न्यजिघ्रच्च राघवः.

१७.४८१ अरोदीद्राक्षसाऽनीकमरोदन्नृभुजां पतिः,

१७.४८२ मैथिल्यै चाऽशपद्धन्तुं तां प्राक्रमत चाऽऽतुरः.

१७.४९१ “अयुक्तमिदम्” त्यन्ये तमाप्ताः प्रत्यवारयन्,

१७.४९२ न्यरुन्धंश्चाऽस्य पन्थानं बन्धुता शुचमारुणत्.

१७.५०१ आस्फायताऽस्य वीरत्वममर्षश्चाऽप्यतायत

१७.५०२ रावणस्य ततः सैन्यं समस्तमयुयुत्सयत्.

१७.५११ अग्नीनवरिवस्यंश्च ते,ऽनमस्यंश्च शङ्करम्,

१७.५१२ द्विजानप्रीणयन्शान्त्यै यातुधाना भवद्भियः.

१७.५२१ परितः पर्यवाद्वायुराज्यगन्धिर्मनोरमः,

१७.५२२ अश्रूयत स पुण्याहः स्वस्तिघोषः समुच्चरन्.

१७.५३१ योद्धारोऽबिभरुः शान्त्यै साऽक्षतं वारि मूर्धभिः,

१७.५३२ रत्नानि चाऽददुर्गाश्च, समवाञ्छन्नथाऽऽशिषः.

१७.५४१ अदिहंश्चन्दनैः शुभ्रैर्, विचित्रं समवस्त्रयन्,

१७.५४२ अधारयन्स्रजः कान्ता, वर्म चाऽन्येऽदधुर्द्रुतम्.

१७.५५१ समक्ष्णुवत शस्त्राणि, प्रामृजन्खड्गसंहतीः,

१७.५५२ गजाऽऽदीनि समारोहन्, प्रातिष्ठन्ताऽऽथ सत्वराः

१७.५६१ अपूरयन्नभः शब्दो बलसंवर्तसंभवः

१७.५६२ अपूर्यन्त च दिग्भागास्तुमुलैस्तूर्यनिस्वनैः.

१७.५७१ आसीद्द्वारेषु संघट्टो रथाऽश्वद्विपरक्षसाम्

१७.५७२ समहाननिमित्तैश्च समभूयत भीषणैः

१७.५८१ कपयोऽबिभयुस्तस्मिन्नभञ्जंश्च महाद्रुमान्

१७.५८२ प्रोदखायन्गिरींस्तूर्णमगृह्णंश्च महाशिलाः.

१७.५९१ ततः समभवद्युद्धं प्राहरन्कपिराक्षसाः,

१७.५९२ अन्योन्येनाऽभ्यभूयन्त, विमर्दमसहन्त च.

१७.६०१ प्रावर्धत रजो भ्ॐअं, तद्व्याश्नुत दिशो दश,

१७.६०२ पराऽऽत्मीयविवेकं च प्रामुष्णात्कपिरक्षसाम्.

१७.६११ ततोऽद्विषुर्निरालोके स्वेभ्योऽन्येभ्यश्च राक्षसाः.

१७.६१२ अद्विषन्वानराश्चैव वानरेभ्योऽपि निर्दयाः

१७.६२१ अघुरंस्ते महाघोरमश्च्योतन्नथ शोणितम्,

१७.६२२ समपद्यत रक्तेन समन्तात्तेन कर्दमः.

१७.६३१ गम्भीराः प्रावहन्नद्यः, समजायन्त च ह्रदाः,

१७.६३२ वृद्धं च तद्रजोऽशाम्यत्, समवेद्यन्त च द्विषः.

१७.६४१ ततोऽचित्रीयताऽस्त्रौघैर्धनुश्चाऽधूनयन्महत्

१७.६४२ रामः, समीहितं तस्य नाऽचेतन्स्वे न चाऽपरे.

१७.६५१ छिन्नानैक्षन्त भिन्नांश्च समन्ताद्रामसायुकैः.

१७.६५२ क्रुष्टं हाहेति चाऽशृण्वन्न च रामं न्यरूपयन्.

१७.६६१ अभिनच्छत्रुसंघातानक्षुणद्वाजिकुञ्जरम्,

१७.६६२ अपिनट्च रथाऽनीकं, न चाऽज्ञायत संचरन्.

१७.६७१ दश दन्तिसहस्राणि रथिनां च महाऽऽत्मनाम्

१७.६७२ चतुर्दश सहस्राणि साऽऽरोहाणां च वाजिनाम्

१७.६८१ लक्षे च द्वे पदातीनां राघवेण धनुर्भृता

१७.६८२ अनीयन्ताष्टमे भागे दिवसस्य परिक्षयम्.

१७.६९१ यमलोकमिवाऽग्रथ्नाद्, रुद्राऽऽक्रीडमिवाऽकरोत्,

१७.६९२ शैलैरिवाऽचिनोद्भूमिं बृहद्भी राक्षसैर्हतैः.

१७.७०१ अस्तुवन्देवगन्धर्वा, व्यस्मयन्त प्लवङ्गमाः

१७.७०२ कपीन्द्रेऽतन्यत प्रीतिः, पौलस्त्योऽमन्यताऽद्भुतम्.

१७.७११ राक्षस्यः प्रारुदन्नुच्चैः, प्राजुगुप्सन्त रावणम्.

१७.७१२ अमुह्यद्बालवृद्धं च, समरौदितरो जनः.

१७.७२१ सर्वतश्चाऽभयं प्राप्नोन्नैच्छन्नृभ्यस्तु रावणः,

१७.७२२ फलं तस्येदमभ्यायाद्दुरुक्तस्येति चाऽब्रुवन्.

१७.७३१ ततोऽधावन्महाघोरं रथमास्थाय रावणः,

१७.७३२ अक्ष्मायत मही, गृध्राः समारार्यन्त भीषणाः.

१७.७४१ मेघाः सविद्युतोऽवर्षंश्चेलक्नोपं च शोणितम्,

१७.७४२ अवान्भीमा नभस्वन्तः, प्रारुवन्नशिवाः शिवाः

१७.७५१ आटाट्यताऽवमत्याऽसौ दुर्निमित्तानि, संयुगे

१७.७५२ अधुनोद्धनुरस्त्रौघैः प्रौर्णोनूयत विद्विषः

१७.७६१ व्यनाशयंस्ततः शत्रून्सुग्रीवाऽस्ता महीभृतः,

१७.७६२ ततो व्यरसदग्लायदध्य्शेत महीतलम्.

१७.७७१ आश्च्योतद्रुधिरं, तोयमलसच्चाऽति विह्वलम्,

१७.७७२ अशीयत नृमांसाऽदां बलं सुग्रीवबाधितम्.

१७.७८१ विरूपाक्षस्ततो क्रीडत्संग्रामे मत्तहस्तिना,

१७.७८२ मुष्टिनाऽदालयत्तस्य मूर्धानं वानराऽधिपः.

१७.७९१ अचूर्णयच्च यूपाक्षं शिलया तदनन्तरम्.

१७.७९२ संक्रुद्धो मुष्टिनाऽतुभ्नादङ्गदोऽलं महोदरम्.

१७.८०१ ततोऽकुष्णाद्दशग्रीवः क्रुद्धः प्राणान्वनौकसाम्,

१७.८०२ अगोपायच्च रक्षांसि दिशश्चाऽरीनभाजयत्.

१७.८११ आलोकयत्स काकुत्स्थमधृष्णोद्, घोरमध्वनत्,

१७.८१२ धनुरभ्रमयद्भीममभीषयत विद्विषः.

१७.८२१ आस्कन्दल्लक्ष्मणं बानैरत्यक्रामच्च तं द्रुतम्,

१७.८२२ राममभ्यद्रवज्जिष्णुरस्कुनाच्चेषुवृष्टिभिः.

१७.८३१ अपौहद्बाणवर्षं तद्भल्लै रामो निराकुलः,

१७.८३२ प्रत्यस्कुनोद्दषग्रीवं शरैराशीविषोपमैः.

१७.८४१ मण्डलान्याटतां चित्रमच्छित्तां शस्त्रसंहतीः,

१७.८४२ जगद्विस्मापयेतां तौ, न च वीरावसीदताम्.

१७.८५१ व्य्ॐअ प्राचिनुतां बाणैः, क्ष्मामक्ष्मापयतां गतैः,

१७.८५२ अभित्तां तूर्णमन्योन्यं शिक्षाश्चाऽतनुतां मुहुः.

१७.८६१ समाधत्ताऽऽसुरं शस्त्रं राक्षसः क्रूरविक्रमः,

१७.८६२ तदक्षरन्महासर्पान्व्याघ्रसिंहांश्च भीषणान्.

१७.८७१ न्यषेधत्पावकाऽस्त्रेण रामस्तद्राक्षसस्ततः

१७.८७२ अदीव्यद्रौद्रमत्युग्रं, मुसलाऽऽद्यगलत्ततः

१७.८८१ गान्धर्वेण न्यविद्यत्तत्क्षितीन्द्रो,ऽथ नराऽशनः

१७.८८२ सर्वमर्मसु काकुत्स्थ म्ॐभत्तीक्ष्णैः शिलीमुखैः

१७.८९१ ततस्त्रिशिरसं तस्य प्रावृश्चल्लक्ष्मणो ध्वजम्,

१७.८९२ अमथ्नात्सारथिं चाऽऽशु, भूरिभिश्चाऽतुदच्छरैः.

१७.९०१ अश्वान्विभीषनोऽतुभ्नात्स्यन्दनं चाऽक्षिणोद्द्रुतम्,

१७.९०२ नाऽक्षुभ्नाद्राक्षसो, भ्रातुः शक्तिं चोदवृहद्गुरुम्.

१७.९११ तामापतन्तीं स्ॐइत्रिस्त्रिधाऽकृन्तच्छिलीमुखैः,

१७.९१२ अशब्दायन्त पश्यन्तस्ततः क्रुद्धो निशाचरः

१७.९२१ अष्टघण्टां महाशक्तिमुदयच्छन्महत्तराम्,

१७.९२२ रामाऽनुजं तयाऽविध्यत्, स महीं व्यसुराश्रयत्.

१७.९३१ राघवस्याऽभृशायन्त सायकास्, तैरुपद्रुतः

१७.९३२ ततस्तूर्णं दशग्रीवो रणक्ष्मा पर्यशेषयत्.

१७.९४१ सस्फुरस्योदकर्षच्च स्ॐइत्रेः शक्तिमग्रजः,

१७.९४२ असिञ्चदोषधीस्ता याः समानीता हनूमता.

१७.९५१ उदजीवत्सुमित्राभूर्भ्राताऽऽश्लिष्यत तमायतम्,

१७.९५२ सन्यङ्मूर्धन्युपाशिङ्घ दपृच्छच्च निरामयम्

१७.९६१ ततः प्रोदसहन्सर्वे योद्धुमभ्यद्रवत्परान्,

१७.९६२ अकृच्छ्रायत च प्राप्तो रथेनाऽन्येनऽरावणः.

१७.९७१ “भूमिष्ठस्याऽसमं युद्धं रथस्थेने"ति मातलिः

१७.९७२ आहरद्रथमत्युग्रं सशस्त्रं मघवाऽऽज्ञया.

१७.९८१ सोऽध्यष्ठीयत रामेण, शस्त्रं पाशुपतं ततः

१७.९८२ निरास्यत दशाऽऽस्यस्, तच्छक्राऽस्त्रेणाजयन्नृपः.

१७.९९१ ततः शतमहस्रेण रामः प्रौर्णोन्निशाचरम्

१७.९९२ बाणानामक्षिणोद्धुर्यान्, सारथिं चाऽदुनोद्द्रुतम्.

१७.१००१ अदृश्यन्ताऽनिमित्तानि, प्राह्वलत्क्षितिमण्डलम्,

१७.१००२ रावणः प्राहिणोच्छूलं, शक्तिं चैन्दीं महीपतिः.

१७.१०११ ताभ्यामन्योन्यमासाद्य समवाप्यत संशमः,

१७.१०१२ लक्षेण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः

१७.१०२१ अस्तृणादधिकं रामस्ततोऽदेवत सायकैः,

१७.१०२२ अक्लाम्यद्रावणस्, तस्य सूतो रथमनाशयत्.

१७.१०३१ राक्षसोऽतर्जयत्सूतं पुनश्चाऽढौकयद्रथम्,

१७.१०३२ निरास्येतामुभौबाणानुभौ धुर्यानविध्यताम्

१७.१०४१ उभावकृन्ततां केतूनाव्यथेतामुभौ न तौ

१७.१०४२ अदीप्येतामुभौ धृष्णू, प्रायुञ्जातां च नैपुणम्

१७.१०५१ उभौ मायां व्यतायेतां, वीरौ नाऽश्राम्यतामुभौ

१७.१०५२ मण्डलानि विचित्राणि क्षिप्रमाक्रामतामुभौ

१७.१०६१ न चोभावप्यलक्ष्येतां, यन्तारावाहतामुभौ

१७.१०६२ स्यन्दनौ समपृच्येतामुभयोर्दीप्तवाजिनौ.

१७.१०७१ ततो मायामयान्मूर्ध्नो राक्षसोऽप्रथयद्रणे,

१७.१०७२ रामेणैकशतं तेषां प्रावृश्च्यत शिलीमुखैः.

१७.१०८१ समक्षुभ्नन्नुदन्वन्तः, प्राकम्पन्त महीभृतः,

१७.१०८२ सन्त्रासमबिभः शक्रुः, प्रैंखच्च, क्षुभिता क्षितिः.

१७.१०९१ ततो मातलिना शस्त्रमस्मर्यत महीपतेः

१७.१०९२ वधाय रावणस्योग्रं स्वयम्भूर्यदकल्पयत्.

१७.११०१ नभस्वान्यस्य वाजेषु, फले तिग्मांशुपावकौ

१७.११०२ गुरुत्वं मेरुसङ्काशं, देहः सूक्ष्मो वियन्मयः.

१७.११११ राजितं गारुडैः पक्षैर्विश्वेषां घाम तेजसाम्

१७.१११२ स्मृतं तद्रावणं भित्त्वा सुघोरं भुव्यशाययत्.

१७.११२१ आबध्नन्कपिवदनानि संप्रसादं, प्राशंसत्सुरसमितिर्नृपं जिताऽरिम्,

१७.११२२ अन्येषां विगतपरिप्लवा दिगन्ताः, पौलस्त्योऽजुषत शुचं विपन्नबन्धुः

१८

१८.११ व्यश्नुते स्म ततः शोको नाभिसम्बन्धसम्भवः

१८.१२ विभीषणमसावुच्चै रोदिति स्म दशाऽऽननम्.

१८.२१ “भूमौ शेते दशग्रीवो महार्हशयनोचितः,

१८.२२ नेक्षते विह्वलं मां च, न मे वाचं प्रयच्छति.

१८.३१ विपाकोऽयं दशग्रीव ! संदृष्टोऽनागतो मया.

१८.३२ त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि.

१८.४१ भजन्ति विपदस्तूर्णमतिक्रामन्ति सम्पदः

१८.४२ तान्, मदान्नाऽवतिष्ठन्ते ये मते न्यायवादिनाम्.

१८.५१ अपथ्यमायतौ लोभादामनन्त्यनुजीविनः

१८.५२ प्रियं, शृणोति यस्तेभ्यस्, तमृच्छन्ति न सम्पदः.

१८.६१ प्राज्ञास्तेजस्विनः सम्यक्पश्यन्ति च, वदन्ति च,

१८.६२ तेऽवज्ञाता महाराज ! क्लाम्यन्ति, विरमन्ति, च.

१८.७१ लेढि भेषजवन्नित्यं यः पथ्यानि कटून्यपि,

१८.७२ तदर्थं सेवते चाऽऽप्तान्, कदाचिन्न स सीदति.

१८.८१ सर्वस्य जायते मानः, स्वहिताच्च प्रमाद्यति,

१८.८२ वृद्धौ भजति चाऽपथ्यं नरो येन विनश्यति.

१८.९१ द्वेष्टि प्रायो गुणेभ्यो यन्, न च स्निह्यति कस्यचित्,

१८.९२ वैरायते महद्भिश्च शीयते वृद्धिमानपि.

१८.१०१ समाश्वसिमि केनाऽहं, कथं प्राणिमि दुर्गतः

१८.१०२ लोकत्रयपतिर्भ्राता यस्य मे स्वपिति क्षितौ

१८.१११ अहो जागर्ति कृच्छ्रेषु दैवं, यद्बलभिज्जितः

१८.११२ लुठ्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च.

१८.१२१ शिवाः कुष्णन्ति मांसानि, भूमिः पिबति शोणितम्,

१८.१२२ दशग्रीवसनाभीनां समदन्त्यामिषं खगाः,

१८.१३१ येन पूतक्रतोर्मूर्ध्नि स्थीयते स्म महाऽऽहवे,

१८.१३२ तस्याऽपीन्द्रजितो दैवाद्ध्वांक्षैः शिरसि लीयते.

१८.१४१ स्वर्भानुर्भास्करं ग्रस्तं निष्टीवति कृताऽह्निकः,

१८.१४२ अभ्युपैति पुनर्भूतिं रामग्रस्तो न कश्चन.

१८.१५१ त्वमजानन्निदं राजन्नीडिषे स्म स्वविक्रमम्,

१८.१५२ दातुं नेच्छसि सीतां स्म, विषयाणां च नेशिषे.

१८.१६१ मन्त्रे जातु वदन्त्यज्ञास्, त्वं तानप्यनुमन्यसे,

१८.१६२ कथं नाम भवांस्तत्र नाऽवैति हितमात्मनः

१८.१७१ अपृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम्,

१८.१७२ “न कर्ॐईतिपौलस्त्य ! तदा मोहात्त्वमुक्तवान्

१८.१८१ त्वं स्म वेत्थ महाराज ! यत्स्माऽऽह न विभीषनः.

१८.१८२ पुरा त्यजति यत्क्रुद्दो मां निराकृत्य संसदि.

१८.१९१ हविर्जक्षिति निःशङ्को मखेषु मधवानसौ,

१८.१९२ प्रवाति स्वेच्छया वायुरुद्गच्छति च भास्करः.

१८.२०१ धनानामीशते यक्षा, यमो दाम्यति राक्षसान्,

१८.२०२ तनोति वरुणः पाशमिन्दुनोदीयतेऽधुना.

१८.२११ शाम्यत्यृतुसमाहारस्, तपस्यन्ति वनौकसः,

१८.२१२ नो नमस्यन्ति ते बन्धून्, वरिवस्यन्ति नाऽमराः

१८.२२१ श्रीर्निष्कुष्यति लङ्कायां, विरज्यन्ति समृद्धयः,

१८.२२२ न वेद तन्, न यस्याऽस्ति मृते त्वयि विपर्ययः.

१८.२३१ शक्तिं संस्वजते शक्रो, गोपायति हरिः श्रियम्,

१८.२३२ देववन्द्यः प्रमोदन्ते, चित्रीयन्ते, घनोदयाः.

१८.२४१ बिभ्रत्यस्त्राणि साऽमर्षा रणकाम्यन्ति चाऽमराः,

१८.२४२ चकासति च, मांसाऽदां तथारन्ध्रेषु जाग्रति.

१८.२५१ चञ्चूर्यतेऽभितो लङ्कामस्मांश्चाऽप्यतिशेरते,

१८.२५२ भूमयन्ति स्वसामर्थ्यं, कीर्तिं नः कनयन्ति च.

१८.२६१ दिशो व्यष्नुवते दृप्तास्त्वत्कृतां जहति स्थितिम्,

१८.२६२ क्षोदयन्ति च नः क्षुद्रा, हसन्ति त्वां विपद्गतम्.

१८.२७१ शमं शमं नभस्वन्तः पुनन्ति परितो जगत्,

१८.२७२ उज्जिहीषे महाराज ! त्वं प्रशान्तो न किं पुनः

१८.२८१ प्रोर्णोति शोकस्चित्तं मे, सत्वं संशाम्यतीव मे

१८.२८२ प्रमार्ष्टि दुःखमालोकं, मुञ्चाम्यूर्जं त्वया विना.

१८.२९१ केन संविद्रतेनाऽन्यस्त्वत्तो बान्धववत्सलः,

१८.२९२ विर्ॐइ शून्ये, प्रोर्ण्ॐइ कथं मन्युसमुद्भवम्.

१८.३०१ रोदिम्यनाथमात्मानं बन्धुना रहितस्त्वया,

१८.३०२ प्रमाणं नोपकाराणामवगच्छामि यस्य ते

१८.३११ नेदानीं शक्रयक्षेन्द्रौ बिभीतो, न दरिद्रितः,

१८.३१२ न गर्वं जहितो दृप्तौ, न क्लिश्नीतो दशाऽऽनन !

१८.३२१ त्वयाऽपि नाम रहिताः कार्याणि तनुमो वयम्,

१८.३२२ कुर्मश्च जीविते बुद्धिं, धिक्तृष्णां कृतनाशिनीम्.

१८.३३१ तृणेह्मि देहमात्मीयं. त्वं वाचं न ददासि चेत्,

१८.३३२ द्राघयन्ति हि मे शोकं स्मर्यमाणा गुणास्तव.

१८.३४१ उन्मुच्य स्रजमात्मीयां मां स्रजयति को हसन्,

१८.३४२ नेदयत्यासनं को मे, को हि मे वदति प्रियम्.

१८.३५१ न गच्छामि पुरा लङ्का मायुर्यावद्दधाम्यहम्,

१८.३५२ कदा भवति मे प्रीतिस्, त्वां पश्यामि न चेदहम्.

१८.३६१ ऊर्ध्वं म्रिये मुहूर्ताद्धि विह्वलः क्षतबान्धवः,

१८.३६२ मन्त्रे स्म हितमाख्यामि, न कर्ॐइ तवाऽप्रियम्.

१८.३७१ अन्तःपुराणि पौलस्त्यं पौराश्च भृशदुःखिताः

१८.३७२ संश्रुत्य स्माऽभिधावन्ति हतं रामेण संयुगे.

१८.३८१ मूर्धजान्स्म विलुञ्चन्ति, क्रोशन्ति स्माऽतिविह्वलम्,

१८.३८२ अधीयन्त्युपकाराणां मुहुर्भर्तुः प्रमन्यु च.

१८.३९१ रावणस्य नमन्ति स्म पौराः सास्रा रुदन्ति च.”

१८.३९२ भाषते स्म ततो रामो वचः पौलस्त्यमाकुलम्Ä

१८.४०१ “दातुः स्थातुर्द्विषां मूर्ध्नि यष्टुस्तर्पयितुः पित्न्

१८.४०२ युद्धाऽभग्नाऽऽविपन्नस्य किं दशाऽऽस्यस्य शोचसि

१८.४११ बोभवीति न सम्मोहो व्यसने स्म भवादृशाम्,

१८.४१२ किं न पश्यसि, सर्वोऽयं जनस्त्वामवलम्बते.

१८.४२१ त्वमर्हसि भ्रातुरनन्तराणि कर्तुं, जनस्याऽस्य च शोकभङ्गम्,

१८.४२२ धुर्ये विपन्ने त्वयि राज्यभारो मज्जत्यनूढः क्षणदाचरेन्द्र !”

१९

१९.११ अपमन्युस्ततो वाक्यं पौलस्त्यो राममुक्तवान्Ä

१९.१२ “अशोच्योऽपि व्रजन्नस्तं सनाभिर्दुनुयान्न किम्.

१९.२१ तं नो देवा विधेयासुर्येन रावणवद्वयम्

१९.२२ सपत्नांश्चऽधिजीयास्म, संग्रामे च मृषीमहि.

१९.३१ क्रियेरंश्च दशाऽऽस्येन यथाऽन्येनाऽपि नः कुले

१९.३२ देवद्यञ्चो नराऽहारा न्यञ्चश्च द्विषतां गणाः.

१९.४१ स एव घारयेत्प्राणानीदृशे बन्धुविप्लवे,

१९.४२ भवेदाश्वासको यस्य सुहृच्छक्तो भवादृशः.

१९.५१ म्रियेयोर्ध्वं मुहूर्ताद्धि, न स्यास्त्वं यदि मे गतिः,

१९.५२ आशंसा च हि नः, प्रेते जीवेमदशमूर्धनि.

१९.६१ प्रकुर्याम वयं देशे गर्ह्यां तत्र कथं रतिम्,

१९.६२ यत्र विंशतिहस्तस्य न सोदर्यस्य सम्भवः.”

१९.७१ आमन्त्रयेत तान्प्रह्वान्मन्त्रिणोऽथ विभीषणःÄ

१९.७२ “गच्छेत त्वरितं लङ्कां, राजवेश्म विशेत च.

१९.८१ आददीध्वं महाऽर्हाणि तत्र वासांसि सत्वराः

१९.८२ उद्धुनीयात सत्केतून्, निर्हरेताऽग्र्यचन्दनम्.

१९.९१ मुञ्चेताऽऽकाशधूपांश्च, ग्रथ्नीयात स्रजः शुभाः,

१९.९२ आनयेताऽमितं दारु कर्पूराऽगुरुकुङ्कुमम्.

१९.१०१ उह्येरन्यज्ञ पात्राणि, ह्रियेत च विभावसुः,

१९.१०२ भ्रियेत चाऽऽज्यमृत्विग्भिः, कल्प्येत च समित्कुशम्.

१९.१११ स्नानीयैः स्नापयेताऽऽशु, रम्यैर्लिम्पेत वर्णकैः,

१९.११२ अलङ्कुर्यात रत्नैश्च रावणाऽर्हैर्दशाऽऽननम्.

१९.१२१ वासयेत सुवासोभ्यां मेध्याभ्यां राक्षसाऽऽधिपम्,

१९.१२२ ऋत्विक्स्रग्विणमादध्यात्प्राङ्मूर्धानं मृगाऽजिने.

१९.१३१ यज्ञपात्राणि गोत्रेषु चिनुयाच्च यथाविधि,

१९.१३२ जुहुयाच्च हविर्वह्नौ, गायेयुः साम सामगाः.”

१९.१४१ गत्वाऽथ ते पुरीं लङ्कां कृत्वा सर्वं यथोदितम्

१९.१४२ समीपेऽन्त्याऽऽहुतेः साऽस्राः प्रोक्तवन्तो विभीषणम्Ä

१९.१५१ “कृतं सर्वं यथोद्दिष्टं, कर्तुं वह्निजलक्रियाम्

१९.१५२ प्रयतेथा महाराज ! सह सर्वैः स्वबन्धुभिः.

१९.१६१ अज्ञावन्नोत्सहेथास्त्वं, धेया धीरत्वमच्युतम्,

१९.१६२ स्थेयाः कार्येषु बन्धूनां, हेयाः शोकोद्भवं तमः.

१९.१७१ नाऽवकल्प्यमिदं, ग्लायेद्यत्कृच्छ्रेषु भवानपि

१९.१७२ न पृथग्जनवज्जातु प्रमुह्येत्पण्डितो जनः.

१९.१८१ यच्च यत्र भवांस्तिष्ठेत्, तत्राऽन्यो रावणस्य न,

१९.१८२ यच्च यत्र भवान्सीदेन्महद्भिस्तद्विगर्हितम्.

१९.१९१ आश्चर्यं, यच्च यत्र त्वां प्रब्रूयाम वयं हितम्,

१९.१९२ अपि साक्षात्प्रशिष्यास्त्वं कृच्छ्रेष्विन्द्रपुरोहितम्.

१९.२०१ कामो जनस्यÄ"जह्यास्त्वं प्रमादं नैरृताऽधिप !”

१९.२०२ उत द्विषोऽनुशोचेयुर्विप्लवे, किमु बान्धवाः.

१९.२११ स भवान्भ्रातृवद्रक्षेद्यथावदखिलं जनम्,

१९.२१२ न भवान्संप्रमुह्येच्चेदाश्वस्युश्च निशाचराः,

१९.२२१ ततः स गतवान्कर्तुं भ्रातुरग्निजलक्रियाम्.

१९.२२२ प्रोक्तवान्कृतकर्तव्यं वचो रामोऽथ राक्षसम्.

१९.२३१ अम्भांसि रुक्मकुम्भेन सिञ्चन्मूर्धि समाधिमान्Ä

१९.२३२ “त्वं राजा रक्षसां लङ्का मवेक्षेथा विभीषन ?

१९.२४१ क्रुद्धाननुनयेः सम्यक्, धनैर्लुब्धानुपार्जयेः,

१९.२४२ मानिनो मानयेः काले, त्रस्तान्पौलस्त्य ! सान्त्वयेः.

१९.२५१ इच्छा मे परमा, नन्देः कथं त्वं वृत्रशत्रुवत्,

१९.२५२ इच्छेद्धि सुहृदं सर्वो वृद्धिसंस्थं यतः सुहृत्.

१९.२६१ वर्धिषीष्टाः स्वजातेषु, वध्यास्त्वं रिपुसंहतीः,

१९.२६२ भूयास्त्वं गुणिनां मान्यस्, तेषां स्थेया व्यवस्थितौ.

१९.२७१ धेयास्त्वं सुहृदां प्रीतिं, वन्दिषीष्ठा दिवौकसः,

१९.२७२ स्ॐअं पेयाश्च, हेयाश्च हिंस्रा हानिकरीः क्रियाः

१९.२८१ अवसेयाश्च कार्याणि धर्मेण पुरवासिनाम्,

१९.२८२ अनुरागं क्रिया राजन्! सदा सर्वगतं जने.

१९.२९१ घानिषीष्ट त्वया मन्युर्, ग्राहिषीष्ट समुन्नतिः,

१९.२९२ रक्षोभिर्दर्शिषीष्ठास्त्वं, द्रक्षीरन्भवता च ते.

१९.३०१ मन्युं वध्या भटवधकृतं बालवृद्धस्य राजन्!, शास्त्राऽभिज्ञाः सदसि सुधियः सन्निधिं ते क्रियासुः,

१९.३०२ संरंसीष्ठाः सुरमुनिगते वर्त्मनि प्राज्यधर्मे, संभुत्सीष्ठाः सुनयनयनैर्विद्विषामीहितानि.”

२०

२०.११ समुपेत्य ततः सीतामुक्तवान्पवनाऽऽत्मजःÄ

२०.१२ दिष्ट्या वर्धस्व वैदेहि ! हतस्त्रैलोक्यकण्टकः

२०.२१ अनुजानीहि हन्यन्तां मयैताः क्षुद्रमानसाः

२०.२२ रक्षिकास्तव राक्षस्यो, गृहाणैतासु मत्सरम्.

२०.३१ तृण्हानि दुराऽऽचारघोररूपाऽऽशयक्रियाः,

२०.३२ हिंस्रा भवतु ते बुद्धिरेतास्, कुरु निष्ठुरम्.

२०.४१ पश्चिमं करवामैतत्प्रियं देवि ! वयं तव,”

२०.४२ ततः प्रोक्तवती सीता वानरं करुणाऽऽशया.

२०.५१ “उपशाम्यतु, ते बुद्धिः पिण्डनिर्वेशकारिषु

२०.५२ लघुसत्वेषु, दोषोऽयं यत्कृतोनिहतोऽसकौ.

२०.६१ न हि प्रेष्यवधं घोरं करवान्यस्तु ते मतिः,

२०.६२ एधि कार्यकरस्त्वं मे गत्वा प्रवद राघवम्.

२०.७१ “दिदृक्षुर्मैथिली राम ! पश्यतु त्वाऽविलम्बितम्”.

२०.७२ तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान्.

२०.८१ “उत्सुकाऽऽनीयतां देवी काकुत्स्थकुलनन्दन !”

२०.८२ क्ष्मां लिखित्वा विनिश्वस्य स्वराऽऽलोक्य विभीषणम्

२०.९१ उक्तवान्राघवः"सीतामानयाऽलंकृतामिति.”

२०.९२ गत्वा प्रणम्य तेनोक्ता मैथिली मधुरं वचः.

२०.१०१ “जहीहि शोकां वैदेहि ! प्रीतये धेहि मानसम्,

२०.१०२ रावणे जहिहि द्वेषां, जहाहि प्रमदावनम्.

२०.१११ स्नाह्यनुलिम्प धूपाय, निवस्स्वाऽऽविध्य च स्रजम्,

२०.११२ रत्नान्याऽऽमुञ्च, संदीप्ते हविर्जुहुधि पावके,

२०.१२१ अद्धि त्वं पञ्चगव्यं च, छिन्धि संरोधजं तमः,

२०.१२२ आरोह शिबिकां हैमीं, द्विषां जहि मनोरथान्.

२०.१३१ तृणेढु त्वद्वियोगोत्थां राजन्यानां पतिः शुचम्,

२०.१३२ भवतादधियुक्ता त्वमत ऊर्ध्वं स्ववेश्मनि.

२०.१४१ दीक्षस्व सह रामेण त्वरितं तुरगाऽध्वरे,

२०.१४२ दृश्यस्व पत्या प्रीतेन प्रीत्या प्रेक्षस्व राघवम्.

२०.१५१ अयं नियोगः पत्युस्ते, कार्या नाऽत्र विचारणा,

२०.१५२ भूषयाऽङ्गं, प्रमाणं चेद्, रामं गन्तुं यतस्व च

२०.१६१ मुदा संयुहि काकुत्स्थं, स्वयं चाऽऽप्नूहि सम्पदम्,

२०.१६२ उपेह्यूर्ध्वं मुहूर्तात्त्वं देवि ! राघवसन्निधिम्.

२०.१७१ ऊर्ध्वं मुहूर्तादह्नोऽङ्ग ! स्वामिनी स्म भव क्षितेः

२०.१७२ राजपत्नीनियोगस्थमनुशाधि पुरीजनम्.

२०.१८१ उत्तिष्ठस्व मते पत्युर्, यतस्वाऽलङ्कृतौ तथा,

२०.१८२ प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं महीपतिम्.”

२०.१९१ अनुष्ठाय यथाऽऽदिष्टं नियोगं जनकाऽऽत्मजा

२०.१९२ ममारूढवती यानं पट्टांऽशुकवृताऽऽनना.

२०.२०१ लज्जाऽनता विसंयोगदुःखस्मरणविह्वला

२०.२०२ साऽस्रा गत्वाऽन्तिकं पत्युर्दीना रुदितवत्यसौ.

२०.२११ प्राप्तचारित्र्यसन्देहस्ततस्तामुक्तवान्नृपः

२०.२१२ इच्छामे"नाऽऽददे सीते ! त्वामहं गम्यतामतः”.

२०.२२१ रावणाऽङ्कपरिश्लिष्टा त्वं हृल्लेखकरी मम

२०.२२२ मतिं बधान सुग्रीवे , राक्षसेन्द्रं गृहाण वा.

२०.२३१ अशान भरताद्भोगान्, लक्ष्मणं प्रवृणीष्व वा,

२०.२३२ कामाद्वा याहि, मुच्यन्तामाशा रामनिबन्धनाः.

२०.२४१ क्व च ख्यातो रघोर्वंशः, क्व तं परगृहोषिता,

२०.२४२ अन्यस्मै हृदयं देहि, नाऽनभीष्टे घटामहे.

२०.२५१ यथेष्टं चर वैदेहि !, पन्थानः सन्तु ते शिवाः,

२०.२५२ कामास्तेऽन्यत्र तायन्तां विशङ्कां त्यज मद्गताम्.

२०.२६१ ततः प्रगदिता वाक्यं मैथिलाऽभिजना नृपम्Ä

२०.२६२ “स्त्रीसामान्येन सम्भूता शङ्का मयि विमुच्यताम्.

२०.२७१ दैवाद्बिभीहि काकुत्स्थ ! जिह्रीहि त्वं तथा जनात्,

२०.२७२ मिथ्या मामभिसंक्रुध्य न्नवशां शत्रुणा हृताम्.

२०.२८१ चेतसस्त्वयि वृत्तिर्मे, शरीरं रक्षसा हृतम्,

२०.२८२ विदांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः

२०.२९१ त्वं पुनीहि पुनीहीति पुनन्वायो ! जगत्Äत्रयम्

२०.२९२ चरन्देहेषु भूतानां विद्धि मे बुद्धिविप्लवम्.

२०.३०१ खमट, द्यामटाऽटोर्वीमित्यटन्त्योऽतिपावनाः

२०.३०२ यूयमापो ! विजानीत मनोवृत्तिं शुभां मम.

२०.३११ जगन्ति धत्स्व धत्स्वेति दधती त्वं वसुन्धरे !

२०.३१२ अवेहि मम चारित्रं नक्तंदिवमविच्युतम्.

२०.३२१ रसान्संहर, दीप्यस्व, ध्वान्तं जहि, नभो भ्रम,

२०.३२२ इतीहमानस्तिग्मांऽशो ! वृत्तं ज्ञातुं घटस्व मे.

२०.३३१ स्वर्गे विद्यस्व, भुव्याऽऽस्व, भुजङ्गनिलये भव,

२०.३३२ एवं वसन्ममाऽऽकाश ! संबुध्यस्व कृताऽकृतम्.

२०.३४१ चितां कुरु च स्ॐइत्रे ! व्यसनस्याऽस्य भेषजम्,

२०.३४२ रामस्तुष्यतु मे वाऽद्य, पापां प्लुष्णातु वाऽनलः

२०.३५१ राघवस्य मतेनाऽथ लक्ष्मणेनाऽऽचितां चिताम्

२०.३५२ दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः

२०.३६१ प्रवपाणि वपुर्वह्नौ रासाऽहं शाङ्किता त्वया,

२०.३६२ सर्वे विदन्तु शृण्वन्तु भवन्तः स प्लवङ्गमाः.

२०.३७१ मां दुष्टां ज्वलितवपुः प्लुषाण वह्ने ! संरक्ष क्षतमलिनां सुहृद्यथा वा,

२०.३७२ एषाऽहं क्रतुषु वसोर्यथाऽऽज्यधारा त्वां प्राप्ता विधिवदुदीर्णदीप्तिमालम्.

२१

२१.११ समुत्क्षिप्य ततो वह्निर्मैथिलीं राममुक्तवान्

२१.१२ “काकुत्स्थ ! दयितां साध्वीं त्वमाशङ्किष्यथाः कथम्

२१.२१ ना भविष्यदियं शुद्धा यद्यपास्यमहं ततः

२१.२२ न चैनां, पक्षपातो मे धर्मादन्यत्र राघव !

२१.३१ अपि तत्ररिपुः सीतां नाऽर्थयिष्यत दुर्मतिः,

२१.३२ क्रूरं जात्ववदिष्यच्च जात्वस्तोष्यच्छ्रियं स्वकाम्.

२१.४१ सङ्कल्पं नाऽकरिष्यच्च तत्रेयं शुद्धमानसा,

२१.४२ सत्याऽमर्षमवाप्स्यस्त्वं रामः सीतानिबन्धनम्.

२१.५१ त्वयाऽद्रक्ष्यत किं नाऽस्याः शीलं संवसता चिरम्,

२१.५२ अदर्शिष्यन्त वा चेष्टाः कालेन बधुना न किम्.

२१.६१ यावज्जिवमशोचिष्यो, नाऽहास्यश्चेदिदं तमः,

२१.६२ भानुरप्यपतिष्यत्क्ष्मामक्षोभिष्यत चेदियम्.

२१.७१ समपत्स्यत राजेन्द्र ! स्त्रैणं यद्यत्र चापलम्,

२१.७२ लोकपाला इहाऽऽयास्यंस्ततो नाऽमी कलिद्रुहः.

२१.८१ आश्चर्यं यच्च यत्र स्त्री कृच्छ्रेऽवर्त्स्यन्मते तव,

२१.८२ त्रासादस्यां विनष्टायां किं किमालप्स्यथाः फलम्.

२१.९१ यत्र यच्चाऽमरिष्यत्स्त्री साध्वसाद्दोषवर्जिता

२१.९२ तदसूयारतौ लोके तस्या वाच्याऽऽस्पदं मृषा.

२१.१०१ अमंत्स्य भवान्यद्वद्तथैव च पिता तव

२१.१०२ नाऽऽगमिष्यद्विमानस्थः साक्षाद्दशरथो नृपः.

२१.१११ नाऽकल्प्स्यत्सन्निधिं स्थानुः शूली वृषभवाहनः

२१.११२ अन्वभाविष्यताऽन्येन मैथिली चेत्पतिव्रता.

२१.१२१ आनन्दयिष्यदागम्य कथं त्वामरविन्दसत्

२१.१२२ राजेन्द्र ! विश्वसूर्धाता चारित्र्ये सीतया क्षते.

२१.१३१ प्रणमन्ब्रह्मणा प्रोक्तो राजकाऽधिपतिस्ततः

२१.१३२ “ना, शोत्स्यन्मैथिली लोके, नाऽऽचरिष्यदिदं यदि.

२१.१४१ नाऽमोक्ष्याम वयं शङ्का मिहाधास्यन्न चेद्भवान्,

२१.१४२ किं वा चित्रमिदं युक्तं, भवान्यदकरिष्यत.

२१.१५१ प्रावर्तिष्यन्त चेष्टाश्चेद्याथातथ्यवत्तव,

२१.१५२ अनुशास्ये त्वया लोके रामाऽवर्त्स्यंस्तरां ततः

२१.१६१ प्राणमन्तं ततो राममुक्तवानिति शङ्करः

२१.१६२ “किं नारायणमात्मानं नाऽभोत्स्यत भवानजम्.

२१.१७१ को न्योऽकर्त्स्यदिह प्राणान्दृप्तानां च सुरद्विषाम्,

२१.१७२ को वा विश्वजनीनेषु कर्मसु प्राघटिष्यत

२१.१८१ दैत्यक्षये महाराज ! यच्च यत्राऽघटिष्यथाः

२१.१८२ समाप्तिं जातु तत्रापि किं नाऽनेष्यस्त्वमीहितम्.

२१.१९१ तातं प्रसाद्य कैयेय्या भरताय प्रपीडितम्

२१.१९२ सहस्रचक्षुषं रामो निनंसुः परिदृष्टवान्.

२१.२०१ प्रेता वरेण शक्रस्य प्राणन्तः कपयस्ततः

२१.२०२ संजाताः फलिनाऽऽनम्ररोचिष्णुद्रुमसद्रवः.

२१.२११ भ्रमर कुलाऽऽकुलोल्बणसुगन्धिपुष्पतरुस्तरुणमधूकसम्भवपिशङ्गिततुङ्गशिखः

२१.२१२ शिखरशिलाऽन्तरालपरिक्wxल्क़्क़्प्तजलाऽवसरः सरसफलश्रियं स विततान सुवेलगिरिः.

२१.२२१ संवाद्भिः सकुसुमरेणुभिः समीरै रानम्रैर्बहुफलधारिभिर्वनाऽन्तैः

२१.२२२ श्च्योतद्भिर्मधुपटलैश्च वानराणां आप्यानो रिपुवधसम्भवः प्रमोदः

२१.२३१ आयान्त्यः स्वफलभरेण भङ्गुरत्वं भृङ्गाऽऽलीनिचयचिता लतास्तरूणाम्

२१.२३२ साऽऽमोदाः क्षितितलसंस्थिताऽवलोप्या भोक्त्णां ष्रममदयं न नीतवत्यः.

२२

२२.११ ततो रामो हनूमन्तमुक्तवान्हृष्टमानसम्

२२.१२ “अयोध्यां श्वः प्रयातासि कपे ! भरतपालिताम्.

२२.२१ गाधितासे नभो भूयः स्फुटन्मेघघटाऽऽवलि,

२२.२२ ईक्षितासेऽम्भसां पत्युः पयः शिशिरशीकरम्.

२२.३१ सेवितासे प्लवङ्ग ! त्वं महेन्द्राऽद्रेरधित्यकाः

२२.३२ व्युत्क्रान्तवर्त्मनो भानोः सहज्योत्स्नाकुमुद्वतीः.

२२.४१ चन्दनद्रुमसंच्छन्ना निराकृतहिमश्रथाः

२२.४२ दर्शितारस्त्वया ताश्च मलयोपत्यकाः शुभाः.

२२.५१ प्रतन्व्यः क्ॐअला विन्ध्ये सहितारः स्यदं न ते

२२.५२ लताः स्तबकशालिन्यो मधुलेहिकुलाऽऽकुलाः.

२२.६१ द्रष्टासि प्रीतिमानारात्सखिभिः सह सेविताम्

२२.६२ सपक्षपातं किष्किन्धां पूर्वक्रीडां स्मरन्मुहुः.

२२.७१ त्वया सन्दर्शितारौ ते माल्यवद्दण्डकावने,

२२.७२ उपद्रुतश्चिरं द्वन्द्वैर्ययोः क्लिशितवानहम्.

२२.८१ आप्तारौ भवता रम्यावाश्रमौ हरिणाऽऽकुलौ

२२.८२ पुण्योदकद्विजाऽऽकीर्णौ सुतीक्ष्णशरभङ्गयोः

२२.९१ अतिक्रान्ता त्वया रम्यं दुःखमत्रेस्तपोवनम्,

२२.९२ पवित्रचित्रकूटेऽद्रौ त्वं स्थातासि कुतूहलात्.

२२.१०१ ततः परं भरद्वाजो भवता दर्शिता मुनिः,

२२.१०२ द्रष्टारश्च जनाः पुन्या यामुनाऽम्बुक्षतांऽहसः.

२२.१११ स्यन्त्वा स्यन्त्वा दिवः शम्भोर् मूर्ध्नि स्कन्त्वा भुवं गताम्

२२.११२ गाहितासेऽथ पुण्यस्य गङ्गां मूर्तिमिव द्रुताम्.

२२.१२१ तमसाया महानीलपाषाणसदृशत्विषः

२२.१२२ वनाऽन्तात्बहु मन्तासे नागराऽऽक्रीडशाखिनः.

२२.१३१ नगरस्त्रीस्तनन्यस्तधौतकुङ्कुमपिञ्जराम्

२२.१३२ विलोक्य सरयूं रम्यां गन्ताऽयोध्या त्वया पुरी.

२२.१४१ आनन्दितारस्त्वां दृष्ट्वा प्रष्टारश्चावयोः शिवम्

२२.१४२ मातरः सह मैथिल्या, तोष्टा च भरतः परम्.

२२.१५१ आख्यातासि हतं शत्रुमभिषिक्तं विभीषणम्,

२२.१५२ सुग्रीवं चाऽर्जितं मित्रं, सर्वांश्चाऽऽगामुकान्द्रुतम्

२२.१६१ गन्तारः परमां प्रीतिं पौराः ष्रुत्वा वचस्तव,

२२.१६२ ज्ञात्वैतत्सम्मुखीनश्च समेता भरतो ध्रुवम्.

२२.१७१ गते त्वयि पथाऽनेन वयमप्यंहितास्महे,

२२.१७२ लब्धाहेऽहं धृतिं प्राप्ते भूयो भवति सम्मुखे.

२२.१८१ गते तस्मिन्गृहीताऽर्थे रामः सुग्रीवराक्षसौ

२२.१८२ उक्तवान्श्वोऽभिगन्तास्थो युवां सह मया पुरम्.

२२.१९१ द्रष्टास्थस्तत्र तिस्रो मे मात्स्तुष्टऽन्तराऽऽत्मनः

२२.१९२ आन्त्यन्तीनं सखित्वं च प्राप्तास्थो भरताऽऽश्रयम्.

२२.२०१ नैवं विरहदुःखेन वयं व्याघानितास्महे,

२२.२०२ श्रमो नुभविता नैवं भवद्भ्यां च वियोगजः,

२२.२११ एवं युवां मम प्रीत्यै कल्प्तास्थः कपिराक्षसौ !

२२.२१२ गन्तुं प्रयतितासाथे प्रातः सह मया यदि.

२२.२२१ उत्कवन्तौ ततो रामं वचः पौलस्त्यवानरौ

२२.२२२ अनुग्रहोऽयं काकुत्स्थ ! गन्तास्वो यत्त्वया सह.

२२.२३१ अनुमन्तास्वहे नाऽऽवां भवन्तं विरहं त्वया

२२.२३२ अपि प्राप्य सुरेन्द्रत्वं, किं नु प्रत्तं, त्वयाऽऽस्पदम्.

२२.२४१ ततः कथाभिः समतीत्य दोषा मारुह्य सैन्यैः सह पुष्पकं ते

२२.२४२ सम्प्रस्थिता वेगवशादगाधं प्रक्षोभयन्तः सलिलं पयोधेः.

२२.२५१ सेतुं, महेन्द्रं, मलयं सविन्ध्यं, समाल्यवन्तं गिरिमृष्यमूकम्,

२२.२५२ सदण्डकाऽरण्यवातीं च पम्पां रामः प्रियायाः कथयन्जगाम.

२२.२६१ एते ते मुनिजनमण्डिता दिगन्ताः, शैलोऽयं लुलितवनः स चित्रकूटः,

२२.२६२ गङ्गेयं सुतनु! विशालतीररम्या, मैथिल्या रघुतनयो दिशन्ननन्द.

२२.२७१ शिञ्जानभ्रमरकुलाऽऽकुलाऽग्रपुष्पाः शीताऽम्भःप्रविलयसंप्लवाऽभिलीनाः

२२.२७२ एते ते सुतनु ! पुरीजनोपभोग्या दृश्यन्ते नयनमनोरमा वनाऽन्ताः.

२२.२८१ स्थानं नः पूर्वजानामियमधिकमसौ प्रेयसी पूरयोध्या, दूरादालोक्यते या हुतविविधहविः प्रीणिताऽशेषदेवा,

२२.२८२ सोऽयं देशो, रुदन्तं पुरजनमखिलं यत्र हित्वा प्रयातौ आवां सीते ! वनाऽन्तं सह धृतधृतिना लक्ष्मणेन क्षपाऽन्ते.

२२.२९१ तूर्याणामथ निःस्वनेन सकलं लोकं समापूरयन्विक्रान्तैः करिणां गिरीन्द्रसदृशां क्ष्मां कम्पयन्सर्वतः

२२.२९२ साऽऽनन्दाऽश्रुविलोचनः प्रकृतिभिः सार्धं सहाऽन्तः पुरः सम्प्राप्तो भरतः समारुतिरलं नम्रः समं मातृभिः

२२.३०१ अथ ससम्भ्रमपौरजनाऽऽवृतो भरतपाणिधृतोज्ज्वलचामरः

२२.३०२ गुरुजनद्विजबन्द्यभिनन्दितः प्रविशति स्म पुरं रघुनन्दनः.

२२.३११ प्रविधाय धृतिं परां जनानां युवराजं भरतं ततोऽभिषिच्य

२२.३१२ जघटे तुरगाऽध्वरेण यष्टुं कृतसम्भारविधिः पतिः प्रजानाम्.

२२.३२१ इदमधिगतमुक्तिमार्गचित्रं विवदिषतां वदतां च सन्निबन्धात्

२२.३२२ जनयति विजयं सदा जनानां युधि सुसमाहितमैश्वरं यथाऽस्त्रम्.

२२.३३१ दीपतुल्यः प्रबन्धोऽयं शब्दलक्षणचक्षुषाम्

२२.३३२ हस्ताऽमर्ष इवाऽन्धानां भवेद्व्याकरणादृते.

२२.३४१ व्याख्यागम्यमिदं काव्य मुत्सवः सुधियामलम्,

२२.३४२ हता दुर्मेघसश्चाऽस्मिन्विद्वत्प्रियतया मया.

२२.३५१ काव्यमिदं विहितं मया वलभ्यां श्रीधरसेननेरन्द्रपालितायाम्,

२२.३५२ कीर्तिरतो भवतान्नृपस्य, तस्य प्रेमकरः क्षितिपो यतः प्रजानाम्.

]