रावणार्जुनीयम्

[[रावणार्जुनीयम् Source: EB]]

[

[TABLE]

[TABLE]

भूमिका।

<MISSING_FIG href="../books_images/U-IMG-1725295039Ravanarjuniyam6.JPG"/>

अस्य हि रावणार्जुनीयस्य, अर्जुनरावणीयस्य वा महाकाव्यस्य कर्ता भट्टभौमः, भट्टभीमो वा कस्मिन्काले कस्मिन्देशे कं भूमिमण्डलमलंचकारेति सम्यक्तया निश्चेतुं न शक्यते। तथापि १०२८ मितात्ख्रिस्तसंवत्सरादारभ्य १०८० मितख्रिस्तसंवत्सरपर्यन्तं वर्तमानेऽनन्तराजराज्यसमये कश्मीरेषु समुद्भूतस्य व्यासदासापरनाम्नः क्षेमेन्द्रस्य ‘सुवृत्ततिलक’नाम्नि ग्रन्थे तृतीयविन्यासारम्भे—

‘शास्त्रं काव्यं शास्त्रकाव्यं काव्यशास्त्रं च भेदतः।
चतुष्प्रकारः प्रसरः सतां सारस्वतो मतः॥२॥

शास्त्रं काव्यविदः प्राहुः सर्वकाव्याङ्गलक्षणम्।
काव्यं विशिष्टशब्दार्थसाहित्यसदलंकृति॥३॥

शास्त्रकाव्यं चतुर्वर्गप्रायं सर्वोपदेशकृत्।
भट्टि-भौमककाव्यादि काव्यशास्त्रं प्रचक्षते॥४॥’

इत्यत्र भौमकस्य नाम्न उपलम्भात्ततः प्राक्तनत्वं प्रतीयते। अस्य काव्यस्य कार्तवीर्यार्जुनरावणयुद्धवर्णनव्याजेन वैदिकसूत्राण्यपहाय सर्वेषामष्टाध्यायीस्थविधिसूत्राणामष्टाध्यायीपाठक्रमेणैवोदाहरणानि प्रदर्शितवतः काव्यशास्त्रत्वं1 क्षेमेन्द्रवर्णितं व्यक्तमेव। तथा च ‘अनुवादे चरणानाम्’ (२।४।३) इति पाणिनिसूत्रोदाहरणकथनावसरे उदाहृतस्य ‘उदगात्कठकालापं प्रत्यष्ठात्कठकौथुमम्’ इति सप्तमसर्गीयश्लोकार्धस्य महाभाष्य-काशिकयोरुपलम्भेन महाभाष्य-काशिकाभ्यामपि प्राचीनमिदं काव्यमिति त्वसारदृशः। वस्तुतस्तु ‘अद्यतन्यां च’ इति वार्तिकोपन्यासार्थम् ‘तिष्ठन्तु कठकालापाः’ इत्युदाहरणस्य ‘स्थेणोः’इति वार्तिकोपन्यासार्थम् ‘नन्दन्तु कठकालापा वर्धन्तां कठकौथुमाः’ इत्युदाहरणस्यापि तत्र दानेन महाभाष्यकृतो नैतत्काव्यस्थश्लोकानुवादकत्वम्, किंतु ‘उदगात्कौमोदपैप्पलादम्’ इति गद्यवत् ‘उदगात्कठकालापं प्रत्यष्ठात्कठकौथुमम्’ इत्यस्यापि पद्यगन्धिगद्यत्वमेव। महाभाष्योक्तस्य ‘उदगात्कठकालापम्’,‘प्रत्यष्ठात्कठकौथुमम्’ ‘उदगात्कौमोदपैप्पलादम्’ इत्युदाहरणत्रयस्य मध्ये उदाहरणद्वयस्य पद्यगन्धित्वात्काव्यकृता तदनुकरणमाश्रित्य समस्यापूर्तिरेव कृता भवेत्। अस्य काव्यस्य काश्मीरिकग्रन्थेष्वेव नामोपलम्भात्कश्मीरेष्वपि पुस्तकवैपुल्यादर्शनात्काश्मीरिक एवायं कविर्भवेदिति संभाव्यते।

अस्य च पुस्तकमेकमेव कश्मीरेषु वर्तते। तस्यैवाधारेण प्रतिकृतिभूतं पुस्तकं पुण्यपत्तनस्थपुस्तकालये वर्तते। तदाधारेणास्माभिरवतारितम्।अपरं च पुस्तकं भूतपूर्वलवपुरीयप्राच्यविश्वविद्यालयाध्यक्ष एम्. ए. स्टैन्-महाशयाश्रितस्वर्गवासिपण्डितगोविन्दकोलैः कश्मीरादवतार्यास्मभ्यं दत्तमासीत्। पुस्तकद्वयमपि एकपुस्तकाधारकमेवासीत्‚ परं च पण्डितगोविन्दकोलदत्तपुस्तके बहुत्र शारदालिपिभ्रमनिवारकत्वमासीत्। त्रुटिस्तु द्वयोरपि पुस्तकयोः समानैव वर्तते। एवं शुद्धपुस्तकान्तरालाभेन यथादर्शं त्रुटिः स्थापिता। एवं यत्र बहुत्रार्थे छन्दःसु च स्फुटता नास्ति, तत्र न जाने कियन्त्यक्षराणि त्रुटितानि, किं वा विषमच्छन्दः एव स्थापितम्। तत्र कतिपयेषु वृत्तेषु विषमच्छन्द उदाहरणतया प्रदर्शयिष्यते। आदर्शपुस्तकयोः पाणिनीयसूत्राणां प्रतीकस्य कुत्र कुत्र दर्शनेनास्माभिः सर्वत्रैव सूत्राणि लिखितानि, तत्रादृष्टोदाहरणानां सूत्राणां कुत्रचिल्लेखनेन कुत्रचिदलेखनेन प्रतीयमानोऽस्माकं प्रमादजदोषः सहृदयैः क्षन्तव्य एव।

गच्छतः स्खलनं वापि भवत्येव प्रमादजः।
हसन्ति दुर्जनास्तत्र समादधति सज्जनाः॥

इति प्रार्थयतः

पण्डितशिवदत्त-काशीनाथौ।

______________

रावणार्जुनीयापरनामधेयार्जुनरावणीयग्रन्थान्तर्गत-
संदिग्धच्छन्दसां श्लोकानामुदाहरणतया
छन्दोनिदर्शनपत्रम्।

चरण छन्दोनाम तद्भेदसामान्यसंख्या तद्विशेषसंख्या चरण छन्दोनाम तद्भेदसामान्यसंख्या तद्विशेषसंख्या
श्लो. ३५ पङ्क्ति १०२४ ९३१ श्लो. ७ त्रिष्टुप् २०४८ ८५६ <MISSING_FIG href="../books_images/U-IMG-1725361266Ravanarjuniyam8.2.JPG"/>
̏ ̏ ३३२ बृहती ५१२ १६५
उष्णिक् १२८ ७५ पङ्क्ति १०२४ २१६
पङ्क्ति १०२४ ९३१ अनुष्टुप् २५६ ८३
श्लो. ७० बृहती ५१२ ४३ श्लो. ८ बृहती ५१२ २९९
̏ ̏ १६५ ̏ ̏ १६५
उष्णिक् १२८ ४३ पङ्क्ति १०२४ ६१९
बृहती ५१२ १६५ बृहती ५१२ १६५
श्लो. २६ ̏ ̏ २३२ श्लो. ९ पङ्क्ति १०२४ ४१९
जगती ४०९६ १३२० बृहती ५१२ १६५
बृहती ५१२ २९९ ̏ ̏ ३५
अनुष्टुप् २५६ ८५ ̏ ̏ २१३
श्लो. ३९ जगती ४०९६ १७८४ श्लो. ३७ अनुष्टुप् २५६ १७
बृहती ५१२ १६५ बृहती ५१२ १६५
पङ्क्ति १०२४ ६०० ̏ ̏ ८२
बृहती ५१२ १६५ पङ्क्ति १०२४ ३३२
श्लो. ६१ ̏ ̏ १६३ श्लो. ४४ ̏ ̏ ५८४
̏ ̏ १६५ ̏ ̏ ६७७
̏ ̏ ८८ ̏ ̏ ४७२
पङ्क्ति १०२४ ३२९ ̏ ̏ ३२९
श्लो. २३ ̏ ̏ ६०० श्लो. ६० बृहती ५१२ ४३
बृहती ५१२ ४२१ ̏ ̏ १६५
पङ्क्ति १०२४ ८८ पङ्क्ति १०२४ ४३
बृहती ५१२ १९७ बृहती ५१२ १६५
श्लो. २६ पङ्क्ति १०२४ ५८४ श्लो. ३१ त्रिष्टुप् २०४८ ८५६
̏ ̏ ८४४ बृहती ५१२ १६५
बृहती ५१२ १९५ ̏ ̏ १३६
̏ ̏ १३३ त्रिष्टुप् २०४८ ६५८
श्लो. ५ ̏ ̏ ४३ श्लो. ५ ̏ ̏ ८९१
̏ ̏ १६५ बृहती ५१२ १६५
अनुष्टुप् २५६ २१ त्रिष्टुप् २०४८ ८५६
बृहती ५१२ १६५ ̏ ̏ ६५२
चरण छन्दोनाम तद्भेदसामान्यसंख्या तद्विशेषसंख्या चरण छन्दोनाम तद्भेदसामान्यसंख्या तद्विशेषसंख्या
श्लो. १८ अनुष्टुप् २५६ १३४ श्लो. ४४ बृहती ५१२ ४३ अर्धसममेतद्वृत्तम्
त्रिष्टुप् २०४८ ६५८ ̏ ̏ १६५
पङ्क्ति १०२४ ८३१ ̏ ̏ ४३
बृहती ५१२ १६५ ̏ ̏ १६५
श्लो. ४३ पङ्क्ति १०२४ ४१९ श्लो. ४९ ̏ ̏ ४३
बृहती ५१२ १७३ ̏ ̏ १६५
पङ्क्ति १०२४ ७२ पङ्क्ति १०२४ ९३
त्रिष्टुप् २०४८ ६८८ ̏ ̏ ८४४

इमानि त्रीण्यपि विषमच्छन्दोनिबद्धान्येवेति ज्ञेयम्।

—————————————

काव्यमाला।

<MISSING_FIG href="../books_images/U-IMG-1723531545Screenshot2024-08-13121516.png"/>

काश्मीरिकश्रीभट्टभीमविरचितं

रावणार्जुनीयम्

अर्जुनरावणीयं वा महाकाव्यम्।

<MISSING_FIG href="../books_images/U-IMG-1725387182Ravanarjuniyam10.1.JPG"/>

गाङ्कुटादिपादे2 (प्रथमाध्यायद्वितीयपादे) प्रथमः सर्गः।

श्रीमानभूद्भूपतिरर्जुनाख्यः कृती कृतज्ञः कृतवीर्यसूनुः।
आलोक्य यं सिंहमिवाजिभाजं ननाश शत्रुर्गजनाशमाशु॥१॥

** गाङ्कुटा3दिभ्योऽञ्णिन्ङित्॥१॥**

यस्याध्यगीष्टाध्ययनेन तुल्यं लोकोऽयमुच्चैश्चरितं पुनानम्।
युद्धेषु पीनायतबाहुदर्शं शत्रुव्रजः संकुटितुं प्रनष्टः॥२॥

** विज इट्॥२॥ विभाषोर्णोः॥३॥**

वोढुः4 स्मृतेरुद्विजितुः कुदृष्टेर्द्विषः सदा यस्य निराकरिष्णोः।
सितैर्गुणैः प्रोर्णुवितुस्त्रिलोक्या नैवापरं प्रोर्णवितव्यमासीत्॥३॥

** सार्वधातुकमपित्॥४॥**

प्रजानुरागं कुरुतः स्म यस्य त्यागः क्षमा च क्षतकल्मषस्य।
भुजाश्च कुर्वन्ति पुरा सहस्रं पारेसमुद्रं वसतिं रिपूणाम्॥४॥

** असंयोगाल्लिट्कित्॥५॥**

कुतूहलं चिच्छिदतुर्जनानां नालोकितं वा(चा)लपनं च यस्य।
महाह्रदस्येव पयांसि तृष्णां निचिच्छिदुश्चित्रमहो धनानि॥५॥

** मृडमृदगुधकुषक्लिशवदवसः क्त्वा॥७॥**

सलीलमाजावहितान्मृदित्वा सत्यामुदित्वा गिरमक्लिशित्वा
सतामुषित्वा हृदयेषु नित्यं बभूव यो गुण्यतमो नृपाणाम्॥६॥

** रुदविदमुषग्रहिस्वपिप्रच्छःसंश्च॥८॥**

यत्र पाति पुरि नास्ति रुदित्वा या स्थिता रुरुदिषुर्जनता वा।
यद्गुणांश्च बहुशोऽपि विदित्वा कौतुकाद्विविदिषा जहाति॥७॥

संकटेन जनतास्मृतमात्रो यः प्रसह्य किल चौरजनस्य।
जीवितं मुमुषितं5मुषित्वा दृश्यतामुपययावुरुचापः॥८॥

जिघृक्षुमेवाशु रिपुं गृहीत्वा पिपृच्छिषुं मन्त्रिजनेन पृष्ट्वा
सुषुप्सुरप्यात्महितेषु जाग्रद्यो भीतिभाजं कृपया मुमोच॥९॥

** इको झल्॥९॥ हलन्ताच्च॥१०॥**

चिचीषतो यज्ञशतेषु वेदी[स्] तुष्टूषुरिन्द्रोऽपि बभूव यस्य।
बिभित्सतः शत्रुबलं न शक्तिं बुभुत्सुरासीत्समरेषु कश्चित्॥१०॥

** लिङ्सिचावात्मनेपदेषु॥११॥ उश्च॥१२॥**

भित्सीष्ट युद्धेषु भवानरातीनितीव योऽभित्त गुरूदिताशीः।
शक्रोऽपि ते वीर हितं कृषीष्ट यस्याकृतेर्वीरसविप्रवाक्यम्6’ इति पाठो भवेत्।")॥११॥

** वा गमः॥१३॥**

लक्ष्म्या हरिवद्भवानजस्रं संगंसीष्ट नु मन्त्रितेरिताशीः।
पित्रापि समभ्यधायि यश्च त्वं युद्धे विजयेन संगसीष्ठाः॥१२॥

त्रासनम्रशिरसाशु शत्रुणा यत्पुमान्समगतार्द्रमानसः।
त्यक्तशत्रुजनया जयश्रिया संयुगेषु समगंस्त चास्तभीः॥१३॥

** हनः सिच्॥१४॥ यमो गन्धने॥१५॥ विभाषोपयमने॥१६॥ स्थाघ्वोरिच्च॥१७॥**

स्वमाहतोरः समपास्तमोहः कृत्वा विरोधं सह येन शत्रुः।
उदायत स्वाद्विहितोपदेशात्प्रज्ञां सदोपायत निर्मलां सः॥१४॥

पृथ्वीमुपायंस्त ससागरां यः सर्वंसदोपास्थित राजकं यत्।
तस्मै धनं सोदित भक्तिभाजे महात्मनां श्रीर्नतिमात्रभोज्या॥१५॥

** न क्त्वा सेट्॥१८॥**

वर्तित्वा नरपतयो वशे यदीये सेवित्वा7 विनययुता यमेकसेव्यम्।
संजाता जगति जनस्य तेऽपि सेव्याः संपर्कः सह गुणिना महत्त्वहेतुः॥१६॥

** निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः॥१९॥**

प्रस्वेदितं शयितयेव विमूढमा(या)शु
प्रक्ष्वेदितं यमतिसंभ्रमनष्टगत्या।
दृष्ट्वा प्रमो(मे)दितधिया गुरुकामभाजा
संक्षोभितं (संधर्षितं)8 प्रमदयेव परध्वजिन्या॥१७॥

** मृषस्तितिक्षायाम्॥२०॥**

जनोपपीडं बहुशोऽपराधान्कृत्वापि शत्रोः प्रणतिं गतस्य।
महात्मना मर्षितमेव येन सतां हि क्रोधो9 नतिमात्रसाध्यः॥१८॥

** उदुपधाद्भावादिकर्मणोरन्यतरस्याम्॥२१॥**

यो द्योतितं शत्रुबलेन संख्ये निनाय नाशं द्युतितेन सद्यः।
प्रद्योतितं तावदुडुप्रतानं प्रभाकरः प्रद्युतितो न यावत्॥१९॥

** पूङः क्त्वा च॥२२॥**

शिरः पवित्वा स्वकुलं च पूत्वा यस्य प्रणत्या नृपतेर्मनुष्याः।
जाताः प्रणम्या जनताशतानां महत्सु भक्तिर्महते फलाय॥२०॥

सद्वृत्तपूताः पवितान्ववायं द्रष्टुं तमायन्मुनयोऽपि मान्याः।
आकर्षमन्त्रैरिव सत्प्रयोगैराकृष्यते साधुगुणैर्न को वा॥२१॥

** नोपधात्थफान्ताद्वा॥२३॥**

ग्रन्थित्वा स्तुतिमुपगम्य यं ग्रथित्वा मालां वा कुसुममयीं नुनाव लोकः।
गुम्फित्वा रिपुवनिताजनस्य वेणीं यस्तस्थौ गुणकुसुमैर्दिशो गुफित्वा॥२२॥

** वञ्चिलुञ्च्यृतश्च॥२४॥**

वञ्चित्वा कीर्तिरम्बुधौ श्रीरवचित्वेव गृहेषु यस्य तस्थौ।
लुञ्चित्वा यो यशांसि राज्ञामलुचित्वा चयनान्यभूत्कृतार्थः॥२३॥

अर्तित्वाजिं भुजद्वितीयः पर्यन्तं द्विषतां महानृतित्वा
कीर्त्या सितया बभौ परीतश्चन्द्रश्चन्द्रिकयेव यः समन्तात्॥२४॥

** तृषिमृषिकृशेः काश्यपस्य॥२५॥**

तर्षित्वा याचकवर्गमभ्युपेतं यो वर्षन्मेघ इवाकृतास्ततृष्णम्।
यस्येन्द्रः सोमपिपासया तृषित्वा यज्ञेषु प्रत्यहमापतत्सदैव॥२५॥

मर्षित्वा सागसां10 प्रणत्या यश्चक्रे द्विषतां परां विभूतिम्।
युद्धाय11 पुरः समागतानाममृषित्वा विशिखैर्निनाय नाशम्॥२६॥

नेशुः सभुवः सबन्धुभृत्याः कर्षि(र्शि)त्वा भयचिन्तया द्विषन्तः।
सुहृदः पुनरस्य भीमशक्तेरकृषि(शि)त्वा समुदः पुरेषु तस्थुः॥२७॥

** रलो व्युपधाद्धलादेः संश्च॥२६॥**

द्योतित्वा शत्रवोऽपरस्मिन्दृष्ट्वा यं युधि नेशुरद्युतित्वा
दिद्योतिषयात्मनः सुदीना दिद्युतिषां समवलोक्य यस्य काये॥२८॥

(अष्टाविंशत्या कुलकम्।)

** अपृक्त12 इत्यादिसूत्रेषु चतुर्दशसु केषांचित्संज्ञासूत्रत्वेन केषांचित्केवलवैदिकत्वेन लौकिकविशेषलक्ष्यासाधकत्वमवगत्य नोदाहरणं प्रदर्शितम्। एवमग्रेऽपि।") एकाल्प्रत्ययः॥४१॥**

यस्यां नभःस्पृग्वलयाब्धि(ब्द)माला विशुद्धिभाग्विम्बमनुष्णरश्मेः।
उपाययौ सा शरदूढसस्या तत्र क्षमां रक्षति भूमिनाथे॥२९॥

** तत्पुरुषः समानाधिकरणः कर्मधारयः॥४२॥**

प्रकाशिताशेषमनोहराशं वितामसं व्योम निशाकरेण।
घनापदापातविवर्जितेन क्षमाभृतेवोत्तमराज्यमापे॥३०॥

** प्रथमानिर्दिष्टं समास उपसर्जनम्॥४३॥ एकविभक्ति चापूर्वनिपाते॥४४॥ कृत्तद्धितसमासाश्च॥४६॥**

प्रसत्तिभाजाब्जमनोज्ञदृष्ट्या तटोपरोधं सरिता समेतः।
हंसव्रजः प्रीतिमवाप गुर्वीं विलासिवृन्दासिकयेव कामी॥३१॥

कष्टश्रिता वीतमदा मयूरा मही च निष्कर्दमराशिरासीत्।
कर्ता मुदा संप्रति हंसनादः पपौ च पाद्मं मधु षट्पदाली॥३२॥

** ह्रस्वो नपुंसके प्रातिपदिकस्य॥४७॥ गोस्त्रियोरुपसर्जनस्य॥४८॥**

तोयं नदीनामतिनु व्यतीतं बभूव नावा सुतरं जनेन।
भेजे व्रजं पुष्टगुमात्तशोभं गोपी मथाकर्षणसान्द्रघोषम्॥३३॥

** लुक्तद्धितलुकि॥४९॥**

प्रावृषिक13न्यकोपवासा निवृत्ताः14 सम(मा)मलकादिवन्यभूषाः।
चन्द्रांशुव्रातविधूतान्धकाराः प्रारब्धाः संप्रति कौमुदीप्रचाराः॥३४॥

** इद्गोण्या॥५०॥**

क्षेत्रभूमिः पञ्चगोणिरपि शतगोणिरासीन्महाफला।
तत्र पाति पार्थिवे कृतवीर्यसूनौ कृतात्मनि॥३५॥

** लुपि युक्तवद्व्यक्तिवचने॥५१॥ विशेषणानां चाजातेः॥५२॥**

अङ्गाः कलिङ्गाः कुरवोऽथ मत्स्या देशास्तथान्ये नवसस्यभूत्या।
प्रहृष्टसंपुष्टसमग्रलोका नृपाज्ञया वा शरदा क्रियन्ते॥३६॥

** जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्॥५८॥**

आनीयमानेऽन्तिकमेव वेगाच्छूत्कारमन्त्रध्वनिना शुकौघे।
विमुच्य शालीन्भयलोलनेत्रा स्वत्राणमूढाजनि शालि15गोपी॥३७॥

मा मां न पासिष्ट शुकावलिभ्यः केदारपद्मालिकृ(रु)तच्छलेन।
फलोरुभारान्नमितोत्तमाङ्गः कृषीवलानर्थयति स्म शालिः॥३८॥

** अस्मदो द्वयोश्च॥५९॥**

ब्रवीम्यहं स्वागतमेव हंस ब्रूमो वयं त्वं कुशली मयूर।
कलारवैस्ताविति बर्हिहंसौ परस्परालापमिव व्यधत्ताम्॥३९॥

** फल्गुनीप्रोष्ठपदानां च नक्षत्रे॥६०॥ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वेबहुवचनस्य द्विवचनं नित्यम्॥६३॥**

नक्षत्रैः सार्धमपेतमेघरोधैराकाशे शीतमयूखकान्तिकान्ते।
अन्योन्यप्रेक्षणतोषमन्वभूवन्फल्गुन्यस्तिष्यपुनर्वसू च मन्ये॥४०॥

(अथैकशेषः।)

** सरूपाणामेकशेष एकविभक्तौ॥६४॥**

प्रियं किमस्याः शरदो विधेयं व्याघूर्णिकाया विहगप्रलापैः।
अक्षा[श्च] वृक्षाश्च तथान्तिकस्थाः परस्परालापमितीव चक्रुः॥४१॥

** वृद्धो यूना तल्लक्षणश्चेदेव विशेषः॥६५॥ स्त्री पुंवच्च॥६६॥**

द्विजाः शुभं प्राप्य वनान्तवासं संश्रूयमाणश्रुतिमन्द्रघोषम्।
विशुद्धपक्षाः प्रसवैरुपेता गर्गाश्च वत्साश्च तदा विरेजुः॥४२॥

** पुमान्स्त्रिया॥६७॥**

चकार कान्तारहितं समेत्य या प्रीतिभाजं शरदाशु हंसम्।
नाविप्रयुक्तावपि सा मयूरौ सर्वत्र हेतोर्न सभा हि वृत्तिः॥४३॥

** भ्रातृपुत्रौ स्वसृदुहितृभ्याम्॥६८॥**

हंससंहतिरपारस्तमानसा सारसीयनिवहः कलारवः।
दीर्घिकामजह(हि)तां पयःप्रदां भ्रातराविव चिराय मातरम्॥४४॥

कायोद्भवां सस्यविभूतिमेकां वृक्षव्रजं कोमलपत्त्रमन्यम्।
उभाविमौ विश्वजनीनवृत्ती पुत्राविवासाद्य मही विरेजे॥४५॥

** नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्॥६९॥**

नभोऽस्तमेघं विमलः शशाङ्क एतद्विलोक्यात्मजिगीषयेव।
नदी सपद्मा पुलिनं सहंसमेते परां तेप(पेत)तुरात्मशोभाम्॥४६॥

** पिता मात्रा॥७०॥**

शरीरलाभैकनिमित्तभूतौ क्रमेण संवर्धनमादधानौ।
विरेजतुः सस्यतनूद्भवस्य क्षमापयोदौ पितराविव स्वौ॥४७॥

** श्वशुरः श्वश्र्वा॥७१॥**

विपङ्कमिन्दुं शरदं सहंसां विजृम्भमाणौ शिखिनी समेतौ।
अधोमुखी वीतमदा सलज्जा ह्रियेव दृष्ट्वा श्वशुरौ बभूव॥४८॥

** त्यदादीनि सर्वैर्नित्यम्॥७२॥ ग्राम्यपशुसंघेष्वतरुणेषु स्त्री॥७३॥**

ये ते महोक्षा गुरुभारवाहा या ता(स्ता)श्च गावो बहुदुग्धदोहाः।
कृषीवला गोष्ठमहीनिषण्णास्तास्ताः समुद्दिश्य दधुर्विरोधान्॥४९॥

अलंकरिष्णुर्निजसंपदा भुवं निराकरिष्णुर्जलवाहसंहतिम्।
प्रसादरोचिष्णुशशाङ्कमण्डला शरज्जजृम्भे विचरिष्णुसारसा॥५०॥

शशिविमलमुखां तां बाणबद्धावतंसां
शरदमिव मनोज्ञां कामिनीं वा विदित्वा।
व्यधित गमनबुद्धिं द्रष्टुमिच्छन्दिगन्ता-
न्नृपतिरधिकृताय प्रज्ञवेयच्छदाज्ञाम्॥५१॥

इति महाकविश्रीभट्टभीमकृते रावणार्जुनीये महाकाव्ये गाङ्कुटादिपादे
प्रथमः सर्गः।

________________

भूवादिपादे (प्रथमाध्यायतृतीयपादे) द्वितीयः सर्गः।

अथावरेणाब्दवदावृताम्बरो बहिर्गृहादुन्मदबर्हिणश्रुतः।
नृपस्य वन्दारुशतेरितस्तुतेः प्रयाणशंसी पटहः समाहतः॥१॥

** अनुदात्तङित आत्मनेपदम्॥१२॥**

गृहोरुभित्तिप्रतिशब्दमूर्च्छितं शयालुनिद्रालुविबोधकारणम्।
तमाशु यात्रामभिलाषुको जनः स्वनं निशम्यास्त न कश्चिदक्रियः॥२॥

** भावकर्मणोः॥१३॥ कर्तरि कर्मव्यतिहारे॥१४॥**

समङ्गलेनास्यत भूपतेः पुरः सभूषणेनाक्रियतास्य मण्डनम्।
विपर्ययेणाशु नियोगकारिणस्तदा जना व्यत्यभवन्त संभ्रमात्॥३॥

** न गतिहिंसार्थेभ्यः॥१५॥**

पुरा16 रुषा ये व्यतिजघ्नुरुद्धताः प्रयाणकाले नृपवाक्यसान्त्विताः।
प्रकाशमेकैकगृहाणि मत्सरं व्यपोहितुं ते **व्यतिजघ्नु(ग्मु)**रादृताः॥४॥

** इतरेतरान्योन्योपपदाच्च॥१६॥ परस्परोपपदाच्चेति वक्तव्यम्॥वा०॥**

गङ्गावासं नृपतिभटजनः संस्थाप्याश्वानजिरभुवि ततः।
कान्तोपेतः सपदि च मदिरामन्योन्यस्य व्यतिपिबति पुरा॥५॥

यथैव रत्नानि नृपस्य भूषणं तथैव तेषामपि भूषणं नृपः।
परस्परस्य व्यतिचक्रुरायताममूनि लक्ष्मीं जननेत्रकौमुदीम्॥६॥

** नेर्विशः॥१७॥ परिव्यवेभ्यः क्रियः॥१८॥**

मनःप्रविष्टोऽपि विभूषितः प्रभुर्मनांसि लोकस्य पुनर्न्यविक्षत
स युद्धवीथ्यां परिचिक्रिये शरैर्द्विषां यशांसीन्दुविनिर्मलानि यः॥७॥

स कल्पितं वाजिकरेणुकुञ्जरं न्यवेद्यतागत्य नृपाय सैनिकः।
विचिक्रिये वैरिजनैर्वरूथिनी नरेन्द्रहस्ते स्वपराजयेन यत्॥८॥

** विपराभ्यां जेः॥१९॥**

न धारयः शेष इवावनेर्नृपः स्मरं विजिग्ये कृतदेहमण्डनः।
अयोज्य(ध्य)मेकं गुरुविग्रहस्थितं वशी पराजेष्ट यथारिमण्डलम्॥९॥

** आङो दोऽनास्यविहरणे॥२०॥**

सरत्नपर्याणखलीनभूषितं विवल्गनाभुग्नखुरक्षतक्षितिम्।
स सान्त्वनास्फालनमुक्तचापलं तुरङ्गमं रोढुमुपाददे नृपः॥१०॥

** क्रीडोऽनुसंपरिभ्यश्च॥२१॥**

ध्वनन्मृदङ्गं प्लुतिलम्बितासनं नृपेऽधिरूढे विधृतोष्णवारणे।
क्षमोपपीडं चलचारुचामरो हरिः समक्रीडत वल्गुवल्गितैः॥११॥

दृष्ट्वा क्रीडन्तं वल्गुवल्गा नृपाणामन्वक्रीडन्त क्रान्तपृथ्वीविभागाः।
चित्रं मन्येऽहं भावनीया यदश्वाः पर्यक्रीडन्त व्योम17 तेनावतीर्य॥१२॥

** समवप्रविभ्यः स्थः॥२२॥ प्रकाशनस्थेयाख्ययोश्च॥२३॥ उदोऽनूर्ध्वकर्मणि॥२४॥ उपान्मन्त्रकरणे॥२५॥ अकर्मकाच्च॥२६॥**

प्रतिष्ठमाने नृपतौ कुतूहलाद्गृहे न काचित्समतिष्ठताङ्गना।
नचावतस्थे गुरुतोऽपि शङ्कया व्यतिष्ठतागत्य नरेन्द्रवर्त्मनि॥१३॥

नृपेक्षणव्याजकृतातिमण्डनाः पतिष्वतिष्ठन्त वराय कन्यकाः।
कुतूहलाक्षिप्तधियोऽपरा नृपं दिदृक्षया देवमिवोपतस्थिरे॥१४॥

उपास्थितैकाभरणेषु गत्वरी यथासुखं धाम्न्युदतिष्ठतापरा।

** उद्विभ्यां तपः॥२७॥**

श्रिया वितेपे नृपधामनि प्रभुर्यथा वियत्युत्तपते पुना रविः॥१५॥

** आङो यमहनः॥२८॥**

नितम्बभारस्खलितत्वरागतिः स्वचेतसायच्छत काचिदङ्गना।
उरः समभ्याहत पाणिनात्मनो मया न दृष्टः पतिरित्थमाकुला॥१६॥

** समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः॥२९॥**

नितम्बभाराकुलितापि कौतुकाद्यियासयान्या समगच्छताङ्गना।
स्तनोरुभारश्रमसङ्ग18गामिनी प्रयास्यती संविविदे न कामिनी॥१७॥

संपपृ(प्र)च्छे19 गमनाय सत्वरा विलासिनी संददृशे न चापरा।
नराधिपालोकनसक्तमानसा सकौतुका संशृणुते स्म नाध्वनि॥१८॥

** आङि नुप्रच्छ्योः॥वा०॥**

पुनर्नुवाना20 (?)मिव दक्षिणां शिवामचिन्तयित्वा जननीमभूषिता।
नृपेक्षणाक्षिप्तमना विलासिनी यियासुरापृच्छत नापि वल्लभम्॥१९॥

** निसमुपविभ्यो ह्वः॥३०॥ स्पर्धायामाङः॥३१॥**

(?)निरीक्ष्य नेत्रोत्सवमद्य पार्थिवं चिराय गोयोनिगतोऽपि शोच्यताम्।
त्वयायमात्मेति सहासमङ्गना तदा सखीं संह्वयते स्म यास्यती॥२०॥

नरेन्द्रमार्गं त्वरया समागतौ परस्परोत्सारणबद्धमत्सरौ।
पुमान्पुमांसं समराय निर्गतः समाह्वतापास्य नरेन्द्रदर्शनम्॥२१॥

** गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः॥३२॥ अधेः प्रसहने॥३३॥ वेः शब्दकर्मणः॥३४॥ अकर्मकाच्च॥३५॥**

सभाप्रभा21हर्म्यगवाक्षसंश्रयाः कुतूहलोत्तानविलोचनोत्पलाः।
क्षितीशसंदर्शनजातपाटवाः प्रकुर्वते स्म प्रमदाः कथामिति॥२२॥

स एष राजा गुणिनां पुरःसरः समागतान्नोत्कुरुतेऽत्र यो जनान्।
न तस्करोऽपाकुरुतेऽस्य देहिनः स्थितान्पथि श्येन इव प्रवर्तकान्॥२३॥

यमेकमध्यं(?) क्षितिपाः प्रकुर्वते वरस्त्रियोऽन्तश्च भयान्न मानवम्।
जनो गुणानां गुणिनि क्षमापतौ न सोऽस्ति नोपस्कुरुतेऽत्र यः सदा॥२४॥

न यस्य तेजांस्यधिकुर्वते द्विषः प्रभाकरस्येव शुचौ शरीरिणः।
अवाप्तवित्ताहितरक्षणक्रिया विकुर्वतेऽमुष्य च(न) भूपतेः प्रजाः॥२५॥

प्रकाशनामा नमिताखिलाहितः स एष राजा गुणरञ्जितप्रजः।
इतो22 विनादान्ककुभो विकुर्वते मृदङ्गमन्द्रप्रतिनादपूरिताः॥२६॥

** उपसर्गादस्यत्यूह्योर्वा ॥वा०॥**

निरस्यते23 इति श्लोकात्प्राग्व्याख्यातुं योग्यः।") योऽत्र दृशौ नृपे जनो निरस्यति प्रागखिलं स तामसम्।
अमुं स्मरश्चारुतया समूहते समूहतीन्दुं न तथोत्सवं दृशाम्॥२७॥

** संमाननोत्संजनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः॥३६॥ कर्तृस्थे चाशरीरे कर्मणि॥३७॥**

अयं महात्मा नयते नतानरीन्सुतानिवोपानयते परार्भकान्।
अमुष्य बुद्धिर्नयते नयानयौ व्यनेष्ट नायं वसु दत्तमर्थिने॥२८॥

आचार्यता तस्य परं कृतार्था योऽमुं परोपानयतावनीशम्।
यः शत्रुलोकेऽपि नतिं प्रयाते क्रोधं मुदेवाशु वशी व्यनेष्ट॥२९॥

** वृत्तिसर्गतायनेषु क्रमः॥३८॥ उपपराभ्याम्॥३९॥ आङ उद्गमने॥४०॥ वेः पादविहरणे॥४१॥ प्रोपाभ्यां समर्थाभ्याम्॥४२॥ अनुपसर्गाद्वा॥४३॥**

द्विषि क्रमन्तेऽस्य न तत्र(?) मार्गणा हिताय योऽस्मै क्रमते समागतः।
न वाच्यमत्र क्रमते च भूपतावमुं स चोपक्रमते मुदा जनः॥३०॥

रविर्यथैवाक्रमते तमोपहस्तथायमाक्रामति वैरिमण्डलम्।
परो यथा विक्रमतेऽस्य लीलया तथायम(द)श्वः समरेऽपि वृत्तयः(?)॥३१॥

यथा निजः24 प्रक्रमते विभूतये तथैव यो(चो)पक्रमते परेऽप्ययम्।
यथास्य कीर्तिः क्रमते पयोनिधींस्तथास्य ह्रीः क्रामति नोपकण्ठतः॥३२॥

** अपह्नवे ज्ञः॥४४॥ अकर्मकाच्च॥४५॥ संप्रतिभ्यामनाध्याने॥४६॥**

यथाविभागं वपुषि क्षमापतेर्विभूषणायोपहितानि सर्वतः।
स्वतेजसाक्रम्य नरैरुपेयुषीं स्फुरन्ति रत्नान्यपजानते द्युतिम्॥३३॥

केचिन्नरेन्द्रं परितः समेताः प्रीत्या जनौघाः प्रतिजानतेऽमी।
अन्ये तु कान्तं प्रतिजानतेऽमुं साक्षात्क्षमामागतमिन्दुमेव॥३४॥

गताः पुरः के जवनैस्तुरङ्गैः पश्चात्स्थिताः के गजताधिरूढाः।
इति ब्रुवाणाः परितः क्षितीशं संजानते भृत्यजना नियुक्ताः॥३५॥

** भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः॥४७॥ व्यक्तवाचां समुच्चारणे॥४८॥ अनोरकर्मकात्॥४९॥ विभाषा विप्रलापे॥५०॥**

रविरिव वदते तु पार्थिवोऽसावुपवदते च समागतान्दिदृक्षून्।
मतिरपवदतेऽस्य शास्त्रमार्गे तदपि परं वदते श्रुतार्थमेषः॥३६॥

जगति विवदते न पात्यमुष्मिन्नुपवदते न कुलाङ्गनां च कश्चित्।
समितिषु वदते गुणाञ्जनोऽसावनुवदते प्रमदाजनोऽप्यमुष्य॥३७॥

** अवाद्ग्रः॥५१॥ समः प्रतिज्ञाने॥५२॥**

सितमि(म)वगिरते यशोऽस्य बाहुर्भुजबलबाधितशात्रवोपलब्धम्।
अमुमवनिभुजं विमुच्य पुंसां कृतमिह संगिरते न कश्चिदन्यः॥३८॥

** उदश्चरः सकर्मकात्॥५३॥ समस्तृतीयायुक्तात्॥५४॥**

भुवि नोच्चरतेऽस्य को गुणौघं योऽयं संचरते तुरङ्गमेण।

** दाणश्च सा चेच्चतुर्थ्यर्थे॥५५॥**

तस्मिन्परिपाति कामिलोको दास्या नैव हि संप्रयच्छतेऽर्थान्॥३९॥

** उपाद्यमः स्वकरणे॥५६॥**

स एष वश्योनृपनीतिवर्तिनां वपुःश्रिया यः परिभूतमन्मथः।
न चक्षुरेकं पतितं कुतूहलाज्जनस्य चेतोऽप्य(प्यु)पयच्छते प्रभुः॥४०॥

** ज्ञाश्रुस्मृदृशां सनः॥५७॥**

जिज्ञाससेऽमुं यदि तत्त्वतस्तं लक्ष्मीप्रियं विद्धि ततो मुरारिम्।
शुश्रूषसे यत्पुनरस्य वृत्तं श्रोत्रं कृतार्थं कुरुषेऽधुना तु॥४१॥

दिदृक्षमाणः कुरुते जनोऽमुं पुरःस्थितः सर्वजनैकदृश्यम्।
तत्कोऽपि नित्यं निजबन्धुतायाः सुस्मूर्षते नापि वियोगदुःखम्॥४२॥

** नानोर्ज्ञः॥५८॥**

लक्ष्मीसमालिङ्गितपीनवक्षाः सलीलमालम्बितभूरिभारः।
क्षतारिचक्रश्चरितं विधातुं राजानुजिज्ञासति चक्रपाणेः॥४३॥

** प्रत्याङ्भ्यांश्रुवः॥५९॥**

अभिमानमपास्य गौरवेण स्वयमेवैष नृपो विवेकदृश्वा।
करणीयविधिं निवेद्य शश्वत्प्रतिशुश्रूषति मित्रबान्धवेभ्यः॥४४॥

** शदेः25 शितः॥६०॥ म्रियतेर्लुङ्लिङोश्च॥६१॥**

सुमनोरमविग्रहं नरेन्द्रं दुरवापं मनसापि चिन्तयन्तीम्26
अमृत म्रियते विशीर्णवार्ता27 रिपुसेना विरहातुरेव नारी॥४५॥

स्मृत्वापि रिपुर्म्रियेत मन्ये युद्धे बाहुसहस्रभाजमेकम्।
दृष्ट्वा किमु भीतिसन्नचित्ताः करणीयो हि महान्सुहृन्न शत्रुः॥४६॥

** पूर्ववत्सनः॥६२॥**

नासिसिषत कानने पुरे वा जनतैतद्भुजरक्षिता सुखेन।
शरदिन्दुमयूखजालकान्ता भुवनेषु **न्यविवक्षि(विक्ष)ता28**स्य28 कीर्तिः॥४७॥

** आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य॥६३॥**

ईक्षांचक्रे कश्चिदासाद्य मार्गानीहांचक्रे चादृतो देवलोकः।
शक्रे यदुद्गच्छति द्रष्टुमाशास्तद्वल्लोकःसंविधत्तेऽत्र भूपे॥४८॥

** प्रोपाभ्यां युजेरयज्ञपात्रेषु॥६४॥**

पात्यत्र भूपे जनवञ्चनाय च्छद्म प्रयुङ्क्ते यदि नाम कश्चित्।
सदैष दोषाहितचित्तमोहो विषं विनाशाय ननूपयुङ्क्ते॥४९॥

** समः क्ष्णुवः॥६५॥ भुजोऽनवने॥६६॥**

अमुं नृपं संक्ष्णुवते मदेन ये मतङ्गजाः सिंहमिवात्मतेजसा।
प्रसह्य ते खण्डितसंपदुत्सवा वनानि संप्राप्य फलानि भुञ्जते॥५०॥

** णेरणौयत्कर्म णौ चेत्स कर्तानाध्याने॥६७॥**

आरोहयन्तेऽस्य गजान्नरेन्द्राः29 शिक्षागुणेनानमितोत्तमाङ्गाः।
पश्यन्ति येऽमुं विनयेन भृत्यास्तैः श्रीयुतैर्दर्शयते च राजा॥५१॥

** भीस्म्योर्हेतुभये॥६८॥**

पुरोऽस्य यो भीषयते समाश्रितः प्रसादवानित्यभिमानमोहितः।
तमेष विस्मापयते यथा जनं पुनर्यथान्यो विकरोति नेदृशम्॥५२॥

** गृधिवञ्च्योःप्रलम्भने॥६९॥**

कृतार्थनादे(ने)षन कालयापनैः समाश्रितान्वञ्चयते सतां मतः।
न नर्मगोष्ठ्यां च रहस्युपागतं सुहृज्जनं गर्धयते सुहृत्प्रियः॥५३॥

** लियः संमाननशालीनीकरणयोश्च॥७०॥**

आलापयते नृपान्समेतान्धनदानेन समानतोत्तमाङ्गान्।
अपलापयते विपश्चितश्च प्रतिभाष्य प्रसभं प्रजल्पितेन॥५४॥

** मिथ्योपपदात्कृञोऽभ्यासे॥७१॥**

तेन पीन(?)सङ्गमेषु(?)वाचं मिथ्या कारयतेऽस्य यः पुरस्तात्।

** स्वरितञितः कर्त्रभिप्राये क्रियाफले॥७२॥**

नित्यं यजते च सत्यवादी लोकं दर्शनतो हृतः पुनीते॥५५॥

** अपाद्वदः॥७३॥ णिचश्च॥७४॥**

यः कारयते हितं तमेनं को नामापवदेत लोकनाथम्।
अविचारितशत्रुमित्त्रभावा गुणवत्ता हि वशीकरोति लोकम्॥५६॥

** समुदाङ्भ्यो यमोऽग्रन्थे॥७५॥**

उद्यच्छते कर्तुमवद्यमत्र संयच्छते नेन्द्रियवर्गमात्मनः।
आयच्छते तस्य पितेव सादरं स्वामी विधातुं विनयं प्रपन्नराट्॥५७॥

** अनुपसर्गाज्ज्ञः॥७६॥ विभाषोपपदेन प्रतीयमाने॥७७॥**

यः स्वयं यजति नान्यचोदितो यः स्वयं च यजते धृतादरः।
जानते तमिह भूपतेश्चरा भूपतिश्च जानाति30 यं(तं) स्वयम्॥५८॥

(अतः परस्मैपदानि।)

** अनुपराभ्यां कृञः॥७९॥**

श्रिया यदेषानुकरोति पूर्दिवं पराकरोत्यद्य(न्य)महीभृतां पुरीः।
तदेतदाक्षेप्तुररातिसंपदो विजृम्भितं बाहुबलस्य भूपतेः॥५९॥

** अभिप्रत्यतिभ्यः क्षिपः॥८०॥ प्राद्वहः॥८१॥ परेर्मृषः॥८२॥**

साक्षादभिक्षिपति योऽप्यमुमेव मूढं(ढस्)
तं न प्रतिक्षिपति भूपतिरस्तगर्वः।
युक्तं किमत्र परिमृष्यति दीर्घकालं
चित्ते न हि प्रवहति प्रभुरेव कोपम्॥६०॥

** व्याङ्परिभ्यो रमः॥८३॥ उपाच्च॥८४॥ विभाषाकर्मकात्॥८५॥**

तस्य क्षणादुपरमन्ति पुरे भयानि
भृत्याः प्रजाः परिरमन्ति विभूतिभाजः।

यत्रादरानमितभूतलसङ्गिमौला-
वालोकिते विरमतीशितुरस्य कोपः॥६१॥

आरमति गृहेषु तस्य लक्ष्मीरुपरमते च यशो दिशां मुखेषु।
न नमति युधि यो जनोऽस्य गर्वाच्चरणयुगं नतिमात्रलब्धतोषम्॥६२॥

** बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः॥८६॥**

यो यो(बो)धयेदरिममुं युधि योधयन्तं
बन्धुर्विनाशयति तस्य विपत्तिमाशु।
अध्यापयेद्यदि पुनः प्रतिकूलमस्य
तस्यापदं जनयति स्वयमेव धाता॥६३॥

स्रावयेदपि पयोदमकाले द्रावयेदपि युधा सुरनाथम्।
प्रावयेदपि गिरीन्भुजनुन्नान्पार्थिवेषु गणनास्य न काचित्॥६४॥

** निगरणचलनार्थेभ्यश्च॥८७॥**

एष भोजयति गेहमुपेतान्व्यासनारदसमानपि विप्रान्।
भीमसैन्यगुरुभारविभिन्नान्(न्नां) कम्पयेदपि धरां किमु शैलान्॥६५॥

** अणावकर्मकाच्चित्तवत्कर्तृकात्॥८८॥**

युधि नाशयति प्रभिन्नगण्डां गजतामेकशरेण लीलया यन्।
प्रतियोधमवाप्य तुल्यशक्तिं क्षितिपो नाशयते31 स्वयं युयुत्सुः॥६६॥

** न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः॥८९॥**

ऐरावतं दमयते मदसिक्तगण्डं
व्योमापगापयसि पाययते बलानि।
दैत्यव्रजस्य परिमोहयते पतिं यः
सोऽप्यस्य राज्यमभिनन्दति देवराजः॥६७॥

आयासयन्ते विधुरान्विजेतुं लोकान्सुगुप्तानपि32 वासयन्ते
जनं गुणान्संसदि वादयन्ते सहस्रसंख्या युधि बाहवोऽस्य॥६८॥

आयामयन्ते सु(स्व)तनुं तुरङ्गाः कुन्ता दि(इ)वोस्रादिवि रोचयन्ते
वाताः पताकाः परिनर्तयन्ते यस्यामियं सा क्षितिपस्य सेना॥६९॥

** वा क्यषः॥९०॥**

लोहितायमानसर्वाङ्गैः सिन्दूरसङ्गान्मतङ्गजैः।
लोहितायतीशितुः संध्येव पृथ्वी विचारिणी॥७०॥

** द्युद्भ्यो लुङि॥९१॥**

स्वर्गे यद्वद्व्यद्युतद्देवराजो व्यद्योतिष्ट द्रव्यराजौ यथाद्रौ।
गच्छन्नेष प्रध्वनन्भूरितूर्यस्तद्वद्राजा राजते राजमार्गे॥७१॥

इति मुदितजनोक्ताः श्रोत्ररम्या गिरस्ता
नरपतिरुपशृण्वन्दत्तचित्तप्रमोदाः।
गुरुविरहभियेव व्यर्थमन्वीयमानाः
सकलजनमनोभिर्निर्जगामाशु पुर्याः॥७२॥

इति श्रीकाश्मीरिकभट्टभीमविरचिते रावणार्जुनीये महाकाव्ये भूवादिपादे द्वितीयः सर्गः।

________________

आकडारादिपादे (प्रथमाध्यायचतुर्थपादे) तृतीयः सर्गः।

ततः पुरीतः पुरुहूतविक्रमः क्रमेण राजा कृतसर्वकौतुकाम्।
मदान्धमातङ्गविलासगामिनीं वधूमिवादाय चमूं विनिर्ययौ॥१॥

(अतः परं नदीसंज्ञा।)

** यू स्त्र्याख्यौनदी॥३॥नेयङुवङ्स्थानावस्त्री॥४॥**

श्रियः प्रियो विष्णुरिवायतभ्रुवः परस्त्रिया विभ्रमहारिपौरुषः।
प्रियं भविष्णुर्यशसा शरीरिणां रराज राजा नगराद्विनिर्गतः॥२॥

** वामि॥५॥**

श्रीणां ददः शश्वदुपश्रुतेभ्यो हन्ता श्रियां यो युधि विद्विषां च।
खुराग्रलूनानि ययुर्यदश्वास्तृणानि पिष्ट्वायुधि शुष्कपेषम्॥३॥

** ङिति ह्रस्वश्च॥६॥**

यस्य श्रियै श्लाघितवान्महेन्द्रः शत्रुश्रिये यः कृतवानसूयाम्।
अश्वीयमस्याध्वनि चूर्णपेषं पिपेष पाषाणमयत्खुराग्रैः॥४॥

भूम्याः समीरेण विकीर्यमाणं दृष्टेर्विघाताय विजृम्भमाणम्।
तिरोहितार्कं सहसा जनानां रजस्तदन्धंकरणं बभूव॥५॥

(अतः परं घिसंज्ञा।)

** शेषो घ्यसखि॥७॥**

भानोर्दिवि प्रस्फुरितांशुराशेर्दृष्टेः पटौघप्रविघातदक्षम्।
सख्युर्निशायाः किमु कौशिकस्य प्रीत्यै रजः संविदधेऽन्धकारम्॥६॥

** पतिः समास एव॥८॥**

अहर्पतेर्व्योमवि(नि) रश्मिजालं छिदां गतं संप्रतितिक्षितव्यम्।
ऊहांचकाराकुलभावमाप्तः पथां जनः पांसुनिरुद्धदृष्टिः॥७॥

(अतः परं भपदसंज्ञे।)

** सुप्तिङन्तं पदम्॥१४॥नः क्ये॥१५॥ सिति च॥१६॥**

राजीयते तत्र नरः स कश्चिद्भवदीया समवेति चोपरिज्ञा।
पृतनारजसाकुलेऽभिजज्ञे कुरुते मोहमहो रजोविवृद्धिः॥८॥

** स्वादिष्वसर्वनामस्थाने॥१७॥ यचि भम्॥१८॥ तसौ मत्वर्थे॥१९॥**

तं बलस्य महिमानमग्रतो राजभिः समवलोक्य निश्चितम्।
अत्र राज्ञि सफला सुराजता या मरुत्वति निबद्धसंस्थितिः॥९॥

** बहुषु बहुवचनम्॥२१॥ द्व्येकयोर्द्विवचनैकवचने॥२२॥**

न तरवो न तरू न तरुस्तथा ददृशिरे न दवीयसि नान्तिके।
इति निराकृतदृष्टि शरीरिणां क्षितिरजःपटलं स्म तमीयते॥१०॥

(अतः कारकाधिकारः।)

** कारके॥२३॥ ध्रुवमपायेऽपादानम्॥२४॥ भीत्रार्थानां भयहेतुः॥२५॥**

भूम्या दिवं रेणुचयः प्रयातस्ततो भयेनाविचलास्त सेना।
त्रायेत तस्मादचिराद्यदि स्यादाकालिकी वारिदजालवृष्टिः॥११॥

** पराजेरसोढः॥२६॥ वारणार्थानामीप्सितः॥२७॥ अन्तर्धौयेनादर्शनमिच्छति॥२८॥ जनिकर्तुः प्रकृतिः॥३०॥**

रेणूच्चयात्पथि पराजयते स्म कश्चि-
दन्तर्दधे करिवरादपरोऽश्वसादी।
जातं कपोलफलकान्मदवारि, तस्मा-
द्भृङ्गान्न्यवारयदिभश्चलकर्णतालः॥१२॥

** भुवः प्रभवः॥३१॥ आख्यातोपयोगे॥२९॥**

दिवाकराद्यत्प्रबभूव तेजस्तत्रावरुद्धे रजसा सकोपम्।
रुजं स चेतीकुरुते स्म सादी गुरोरधीती न स कौशलेन॥१३॥

** कर्मणा यमभिप्रैति स संप्रदानम्॥३२॥ रुच्यर्थानां प्रीयमाणः॥३३॥**

घनैरिवाम्भो मदवारि दन्तिभिर्ददद्भिरुर्व्यै शमितं शनै रजः।
तथाश्ववत्क्रच्युतफेनबिन्दुभी रुचिं नृपायेव तदानुवर्तिभिः33॥१४॥

** श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः॥३४॥**

स(श)श्लाघे धुतरजसे पथो(थे) जनौघः संप्रीत्या न पथि गुणाय निह्नुते स्म।
सर्वस्मै प्रतिमुखमागताय तस्थे ध्वस्ताय क्षितिरजसे तथाप्यशप्त॥१५॥

** धारेरुत्तमर्णः॥३५॥ स्पृहेरीप्सितः॥३६॥**

न स तत्र विभूतिभाजि सैन्ये पुरुषो धारयते स्म यः परस्मै
अत एव ययौ विवृद्धतोषः स्पृहयंस्त्यागगुणाय पार्थिवस्य॥१६॥

** क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः॥३७॥**

मुखच्छदाभे रजसि प्रशान्ते चुक्रोध दन्ती प्रतिदन्तिने यः।
आधोरणेनाशु विवर्तितोऽसावद्रुह्यताभूपतये प्रसह्य॥१७॥

श्रीमन्तमालोक्य परं तदानीं नैवैर्ष्यदस्मै नृपभृत्यवर्गः।
स्वभर्तृभावाहितसाधुचेता नैवाभ्यसूयामकृत द्विषेऽपि॥१८॥

** क्रुधद्रुहोरुपसृष्टयोः कर्म॥३८॥**

भङ्क्त्वा स्थितं वर्म गजं विलोक्य तत्राभिचुक्रोध नरस्तदिभ्यम्
धिक्त्वामभिद्रुह्यसि पाप यस्त्वमात्मानमित्थं निजगाद चैनम्॥१९॥

** राधीक्ष्योर्यस्य विप्रश्नः॥३९॥**

सुहृदे समुपागताय मार्गे कुशलं राधयते स्म संभ्रमेण।
ऐक्षिष्ट तदिष्टबान्धवेभ्यो हृदयं बिभ्रदसुस्थमार्द्रचेताः॥२०॥

** प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता॥४०॥**

सुहृदा पथि कश्चिदर्थितोऽन्यः प्रतिशुश्राव तदाशु सर्वमस्मै
भर्तारमयाचतापरोऽश्वं तस्मै सादरमाशृणोत्तदुक्तम्॥२१॥

** अनुप्रतिगृणश्च॥४१॥**

ध्वनितं पटहेन यन्नृपस्य प्रतिशब्देन तदाशु कुञ्जभाजा।
पटहाय गिरिः समीपवर्ती सपदि प्रत्यगृणादिवाब्धिधीरम्॥२२॥

** साधकतमं करणम्॥४२॥ दिवः कर्म च॥४३॥**

निर्जगाम तुरगेण सैन्यतः स्वल्पसैनिकपरिच्छदो नृपः।
देवितुं मृगकुले शनैः(रैः) शरान्दीव्यतश्च नृपतीन्निरीक्षितुम्॥२३॥

** परिक्रयणे संप्रदानमन्यतरस्याम्॥४४॥**

एकेन पादाङ्कशतेन कश्चिदश्वंपरिक्रीतमुपारुरोह।
अश्वोऽपि पादाङ्कशताय तस्माद्वरं परिक्रीतमवाप वाहम्॥२४॥

** आधारोऽधिकरणम्॥४५॥**

आस्थितस्य तुरगे महीपतेरूर्ध्वपूरमभिपूरितौ शरैः।
आहितावुभयतस्तुरङ्गमं भानवीं रुचिमवापतुः पराम्॥२५॥

** अधिशीङ्स्थासां कर्म॥४६॥**

मधिशिश्ये मृगकुलं विभयमध्यास्त यं भूपतिः स्वयम्।
नाध्यतिष्ठत्तं वनोद्देशमन्यो नृपाप्रतीक्षया34॥२६॥

** अभिनिविशश्च॥४७॥**

धृतसशरशरासनेऽपि लोके मृगवधकौतुककौतुकानुरागे।
किमभिनिविशते पुरा न हिंसां प्रभुरवशे महतां कुतोऽथ वास्था॥२७॥

** उपान्वध्याङ्वसः॥४८॥**

उपवसति सदा यं सिंहसंघो वनान्तं
यमधिवसति वीर्यं सिंहसंघं च नित्यम्।

अनुवसति पुरा तन्नूनमीशस्य कोप-
स्त्वरितगतिरतस्तामावसद्गां ससैन्यः॥२८॥

** कर्तुरीप्सिततमं कर्म॥४९॥ तथायुक्तं चानीप्सितम्॥५०॥ अकथितं च॥५१॥ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ॥५२॥ हृक्रोरन्यतरस्याम्॥५३॥**

ररक्ष सत्त्वानि ममर्द कण्टकान्यथैव राजा नगरे नरप्रियः।
उद्वेजयञ्छात्रवलोकमोजसा वनेऽपि तद्वद्वनजायतेक्षणः॥२९॥

निर्जितानि यदि लोचनानि नस्त्वद्वधूभिरवलोक्यतामितः।
उत्पपात हरिणीकदम्बकं वक्तुमित्थमिव भूपतिं ततः॥३०॥

दुदोह यामात्मसुतः पयो मृगीमयाचतान्यो नृपमाशु तद्द्वयम्।
रुरोध तां तां भुवमेव हुंकृतं पुरःसरं मार्गमपृच्छतादृतः॥३१॥

अभिक्षतेशो धनुरग्रयायिनं फलानि चेतुं स तरून्क्षणं स्थितः।
उवाच भूपानिति गां प्रपश्यतः प्रशास्मि **सिंहान्वि35**नयन्नृपानिव36॥३२॥

नृपाः पुरः स्वान्पुरुषानजीगमन्मृगांश्च हन्तुं श्वगणानबोधयन्।
श्ववायसं मांसमबूभुजन्क्षणादगापयन्स्वान्मृगघातिगीतकान्॥३३॥

अशाययन्यानिषुभिर्महामृगानहारयंस्तान्पुरुषैः पुरःसरैः।
निजालयान्केचिदजीहरन्नरानकारयन्सर्वमिमं नृपाः परान्॥३४॥

** स्वतन्त्रः कर्ता॥५४॥ तत्प्रयोजको हेतुश्च॥५५॥**

भयाकुलाश्वीयविवर्जितान्तिकस्ततो वराहः कुपितः समीयिवान्।
अघानि(ति) राज्ञा स्वयमेव पत्त्रिणा न कारयामास37 परेण विग्रहम्॥३५॥

इतः (‘अधिरीश्वरे(९७)’इति यावत्) निपाताधिकारः।

** प्राग्रीश्वरान्निपाताः॥५६॥ चादयोऽसत्त्वे॥५७॥ प्रादयः॥५८॥ उपसर्गाः क्रियायोगे॥५९॥ गतिश्च॥६०॥ ऊर्यादिच्विडाचश्च॥६१॥ अनुकरणं चानिति-**

** परम्॥६२॥ आदरानादरयोः सदसती॥६३॥ भूषणेऽलम्॥६४॥ अन्तरपरिग्रहे॥६५॥ कणेमनसी श्रद्धाप्रतीघाते॥६६॥ पुरोऽव्ययम्॥६७॥ अस्तं च॥६८॥ अच्छ गत्यर्थवदेषु॥६९॥ अदोऽनुपदेशे॥७०॥ तिरोऽन्तर्धौ॥७१॥ विभाषा कृञि॥७२॥ उपाजेऽन्वाजे॥७३॥ साक्षात्प्रभृतीनि च॥७४॥ अनत्याधान उरसिमनसी॥७५॥ मध्येपदेनिवचने च॥७६॥ नित्यं हस्तेपाणावुपयमने॥७७॥ प्राध्वं बन्धने॥७८॥ जीविकोपनिषदावौपम्ये॥७९॥**

चमूमसत्कृत्य पराक्रमोर्जया महीमलंकृत्य महेभमौक्तिकैः।
स्थितः पुरः कीर्णकरालकेसरः प्रभुं प्रति प्रस्तुतविक्रमो हरिः॥३६॥

ऊरीकृत्य क्ष्माभृता तस्य पातं हस्तेकृत्य व्याततज्यं च चापम्।
विद्धः सिंहो वक्षसि क्षिप्रमारादस्तंगत्य प्राणवृत्त्या विमुक्तः॥३७॥

साक्षात्कृत्य क्ष्मापतिः संहृतेषुः श्यामीकृत्य व्योम दृष्टिप्रसादैः।
एणीव्रातः प्राद्रवत्प्राप्तरंहा मिथ्याकृत्य क्षत्त्रियेषुप्रपातान्॥३८॥

मनसिकृत्य मृगगणोऽनुसृतिं पूत्कृत्य सैन्या ययुस्ततः।
श्वगणिनो नरान्पुरस्कृत्य वेगात्तिरोभूय गत्वराः॥३९॥

रोषान्महिषं महीपतिस्त्यक्त्वा यूथमदूरवर्तिनम्।
शातेन महेषुणा द्विषामग्रे38कृत्य सलीलमैक्षत॥४०॥

घ्नन्तः पुरुषास्तुरङ्गिणः पाणौकृत्य कषां(शां) मृगव्रजम्।
तं वागुरया परे पुनः प्राध्वंकृत्य कृतार्थमाययुः॥४१॥

(इतः) कर्मप्रवचनीयाः॥८३॥

** अनुर्लक्षणे॥८४॥ तृतीयार्थे॥८५॥ हीने॥८६॥ उपोऽधिके च॥८७॥ अपपरी वर्जने॥८८॥ आङ् मर्यादावचने॥८९॥ लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः॥९०॥ अभिरभागे॥९१॥ प्रतिः प्रतिनिधिप्र-**

** तिदानयोः॥९२॥ अधिपरी अनर्थकौ॥९३॥ सुः पूजायाम्॥९४॥ अतिरतिक्रमणे च॥९५॥ अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु॥९६॥ अधिरीश्वरे॥९७॥ विभाषा कृञि॥९८॥**

भर्तुर्मृगानुगस(म)मन्वगमञ्जना ये
तैः सिन्धुरन्ववसितो वनराजिमाप्तः।
उष्णक्लमः परिजहे च चिराय तस्या-
मन्वर्जुनं जगति धन्विनमीक्षमाणैः॥४२॥

उप सुराधिपतिं च्युतवानसावुप नृपं तमिहान्यनृपा गुणैः।
स जलपल्वलपङ्कविनिर्गतं नृपतिरैक्षत सूकरमग्रतः॥४३॥

नृपमवददिदं पुमानदूरादमुमवलोकय दंष्ट्रिणं नरेन्द्र
भय39मप40 हृदयाद्भयादिवास्ते परि परदारशिशुव्रजाश्च41 यस्य॥४४॥

दंष्ट्राग्रभिन्नाद्रिशिलावितानप्रोद्धूतधूलीधवलीकृताङ्गः।
मुक्तनिःशेषविपक्षशङ्कमा काननं तान्परिहिण्डतेऽसौ॥४५॥

पोत्रं प्रतीमे शुभदे(?)ऽस्य दंष्ट्रे सिंहोऽपि चामुं प्रति शङ्कमानः**।**
स्यादत्र नैनं प्रति किं वनस्य स्थिताङ्गमङ्गं प्रति यस्य शक्तिः॥४६॥

न वीक्षतेऽमुं प्रति संयतः पुमानयं महाजौ यमतः प्रति ध्रुवम्।
उपागतायैष जनाय शक्तिमान्भयं परेभ्यः **प्रति गच्छती42**च्छया॥४७॥

सुसिक्तया यः सरसः पयोभिस्तन्वातिसिक्तः43 कुरुते धरित्रीम्।
अतिस्तुतिर्या विहिता मयास्य पापस्य देवात्र तथाभ्यनुज्ञा॥४८॥

द्विरदानपि केसरोद्धतैरपि सिञ्चेत्सलिलैः सकर्दमैः।
विचरन्नुरुवारिणि प्रियामपि सिञ्चेदपि सेवनं वनम्॥४९॥

समरं परितः परिभ्रमन्नपि सिञ्चेदसृजा मृगाधिपान्।
अपि सिञ्च वपुर्महात्मनो दयितामित्थमिवानुमन्यते॥५०॥

यथासुखं भ्राम्यति यूथमेतद्विमुच्य शङ्कामपि सूकरेऽत्र।
भिन्द्ध्येनमारादवलोकयन्तं त्वं यावदेषोऽधिकरोति लक्ष्यम्॥५१॥

निशितशरविभदेत्रोटितं पन्नगं वा
त्वरितमतितुरङ्गं संभ्रमादीयिवांसम्।
नरपतिरकृतास्थं भल्लमादाय दोर्भ्यां
द्रुतमुपरि विभिन्नं कीलयामास भूम्याम्॥५२॥

विहितवनविहारः पार्थिवैरभ्युपेतः
पवनजवतुरङ्गक्रान्तपृथ्वीविभागः।
रुचिरभवनकक्ष्यासंनिवेशाभिरम्यं
शिबिरमभिनिविष्टं नर्मदाकच्छमाप॥५३॥

इति श्रीकाश्मीरिकभट्टभीमविरचिते रावणार्जुनीये महाकाव्ये आकडारादिपादे तृतीयः सर्गः।

___________________

द्वितीयाध्यायस्य प्रथमपादे चतुर्थः सर्गः।

** अव्ययं विभक्तिसमीपसमृद्धिवृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु॥६॥**

अधिस्त्रि राज्ञां पटुना प्रजल्पता गुणानुपान्तःपुरमाययौ ततः।
सुनारि बिभ्रद्भृतभूरिभूषणं न यत्र दुर्भृत्यमपेत44 मण्डलम्॥१॥

सुगन्धि मूर्च्छद्घनधूपधूमे निर्मक्षिकं निर्मष(श)कं च यत्र।
सुसिक्तसंमृष्ट45महीविभागे नीरेणु रेजे नितृणं च नित्यम्॥२॥

अन्वीश्वरं तत्र विवेचितासावनुप्रधानं जनता विनेशा।
सरक्ष्यनुप्रीतिवधूजनं च सदिव्यचारि प्रभुरीक्षते तम्॥३॥

सलक्ष्मि मूर्त्या समुपादधानः सविभ्रमं यो ददृशे वधूभिः।
महात्मना येन च नीतिभाजा दुरापमित्यर्जुन46 इत्यवापे॥४॥

** यथा सादृश्ये॥७॥ यावदवधारणे॥८॥ सुप्प्रतिना मात्रार्थे॥९॥अक्षशलाकासंख्याः47 परिणा॥१०॥**

यथाप्रधानं प्रभुरीक्षमाणो जगाद यावत्प्रणयं प्रियास्ताः।
जगाम दुःखं सममाशु तासां भर्तृप्रसादो हि मुदेऽबलानाम्॥५॥

** विभाषा॥११॥ अपपरिबहिरञ्चवः पञ्चम्या॥१२॥**

अपामरावासमुपागताज्ञं**पु(प)रीन्द्रभुक्त्रा48**ण49विधानशौण्डम्।
बहिःसमुद्रं शमिताखिलारिं प्रीतिं स्त्रियस्तं समवाप्य जग्मुः॥६॥

** आङ् मर्यादाभिविध्योः॥१३॥ लक्षणेनाभिप्रती आभिमुख्ये॥१४॥ अनुर्यत्समया॥१५॥**

आदेवतं रूपजिताङ्गनास्ताः प्रत्यङ्गमाबद्धविचित्रभूषाः।
अन्वीश्वरं कल्पितदृष्टिपाता राजापि पश्यन्समवाप तोषम्॥७॥

** यस्य चायामः॥१६॥ तिष्ठद्गुप्रभृतीनि च॥१७॥**

दधुर्दृशोऽनुश्रवणान्तमाप्ता भ्रुवोऽनुनेत्रं च समागतास्ताः।
तिष्ठद्गुताराइव कान्तिभाजो वहद्गुपद्मिन्य इवाब्जनेत्राः॥८॥

** पारेमध्ये षष्ठ्या वा॥१८॥**

कर्णार्पितेन्दीवरखण्डमेकं मध्येकपोलं प्रतिबिम्बमुक्तम्50
पुरंध्रिमध्यं समुपागताया व्यराजताखण्डमिवाबलायाः॥९॥

विस्तारिकाञ्चीपदभारखिन्ना पारेवधूरूपसमाश्रितान्या।
अदृश्यतेशेन विशेषदृश्या वियोगपारं समुपागतात्मा॥१०॥

** संख्या वंश्येन॥१९॥**

ललाटिकोद्भासिमुखारविन्दामध्यं तथान्या वलिभं दधाना।
वपुर्विशेषेण निवेदयन्ती पञ्चात्मभूवाणमिवात्मवेशम्॥११॥

** नदीभिश्च॥२०॥ अन्यपदार्थे51 च संज्ञायाम्॥२१॥**

वयं पुरैक्षामहि सप्तसिन्धु प्रभो यथा पञ्चनदं तथाद्य।
न यत्र पापप्रति नर्मदां तां पश्येम राजेति कयाचिदूचे॥१२॥

तथेति तस्या वचनं नरेन्द्रो भ्रुवैव लीलानतयानुमत्य52
स कीर्तिनादं शमिताखिलारिश्चचाल नारीसहितः सलीलम्॥१३॥

** तत्पुरुषः॥२२॥ द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः॥२४॥ स्वयं53 क्तेन॥२५॥**

शोभाश्रितास्ताः परितः प्रजेशं रत्नाकरातीतयशःप्रवाहम्।
कृताखिलापत्पतितारिलोकं विपद्गतानामनुकम्पितारम्॥१४॥

वधूमुखन्यस्त54मनोज्ञदृष्टिं सदा सुखप्राप्तजनानुयाताः।
रेजुर्मुदापन्नमनुव्रजन्त्यः करेणवः कान्तमिवामरेभम्॥१५॥

** खट्वाक्षेपे॥२६॥ सामि॥२७॥**

खट्वाधिरूढानपि पावयन्तीं पुण्यां नदीमि(मी)क्षितुमाहितेच्छाः।
महीभृतः सामिविलोकितैस्ता मनो हरन्त्यः सविलासमीयुः॥१६॥

** कालाः॥२८॥ अत्यन्तसंयोगे च॥२९॥**

क्षपाधिरूढाः पुरमिन्दुभासो जनस्य दृष्टा रमयन्ति दृष्टिम्।
अत्यन्तरम्या नृपतेर्मनुष्याः स्वयंवृता रात्रिदिवं पुरस्तात्॥१७॥

** तृतीया तत्कृतार्थेन गुणवचनेन॥३०॥**

ततोऽतिपुरागमखण्डतीरा रेवा क्रमेणाप्यत पार्थिवेन।
पुण्यार्थमिच्छद्भिरुपास्यमाना मुमुक्षुभिश्चार्थपराङ्मुखेहैः॥१८॥

** पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः॥३१॥**

त्रिकल्पपूर्वा सरितां वरा या राज्ञा तमोभित्सदृशेन युक्ता।
कालुष्यहीना जननीसमा या झषोरु55मालाकलहं वहन्ती॥१९॥

वेदाङ्गविद्यानिपुणैरुपेता सरोजमिश्राम्बुरनेकभृङ्गी।
गजाहतिश्लक्ष्णपतत्तटान्ता तमालमालाञ्चिततीरभागा॥२०॥

** कर्तृकरणे कृता बहुलम्॥३२॥ कृत्यैरधिकार्थवचने॥३३॥**

करीन्द्रहस्ताग्रविलूनपद्मा मत्स्याहताम्बुर्दधती विलोलाः।
ओष्ठावलोप्याः शफरीस्तिमीनां नभःपतद्वायसपेयपूरा॥२१॥

** अन्नेन व्यञ्जनम्॥३४॥ भक्ष्येण मिश्रीकरणम्॥३५॥**

दधार दध्योदनशङ्कया56 तं सैन्याध्वभिः फेनचयं तटेन।
सितासिता राजति वालुका च यस्यां समन्तात्तिलतण्डुलाभा॥२२॥

** चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः॥३६॥**

सयूपदारूणि दधौ तटाभ्यां वनानि या तापसरक्षितानि।
पुष्पाणि तोयेन तटद्रुमाणां ययाविवाम्भोधिवलं(लिं) गृहीत्वा॥२३॥

कल्कांशुका दृष्टिसुखावलोका फलैरतिथ्यर्थमुपाचरन्तः।
समुन्नतिं सत्त्वहितां दधाना यस्यां मुनीन्द्रास्तटपादपाश्च॥२४॥

** पञ्चमी भयेन॥३७॥ अपेतापोढमुक्तपतितापत्रस्तैरल्पशः॥३८॥**

तोयेभसंपातभयप्रणश्यन्मत्स्यव्रजा धूतविकासिपद्मा।
पद्माकरापेतसरोजरेणू रेणूच्चयामोद57रणद्द्विरेफा ॥२५॥

पुष्पाणि शाखापतितानि यस्यामावर्तमुक्तान्यु58पयान्ति भृङ्गाः।
**मृगाधिपत्रस्त59**पलायमानवनेभसंन्यस्तपयश्चयाय॥२६॥

** स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन॥३९॥**

उदग्रवंशाद्गिरितः प्रवृत्ते जनं पुनन्त्यावुदधिं प्रयाते।
पूर्वेण गङ्गा भुवि या परेण स्तोकाद्गते साम्यमिमे नु मन्ये॥२७॥

दूरादुपेतं पयसां ददा या तया(था)न्तिकादागतमस्ततापम्60
कृच्छ्रादवाप्तंजननीव पुत्रं करोत्यलं दर्शनतोऽपि लोकम्॥२८॥

** सप्तमी शौण्डैः॥४०॥ सिद्धशुष्कपक्वबन्धैश्च॥४१॥**

या स्नानशौण्डान्परलोकसिद्धान्संसारबन्धच्छिदुरान्द्विजातीन्।
अतीरशुष्कांश्च दधार वृक्षाञ्छाखाग्रपक्वं दधतः फलौघम्॥२९॥

** ध्वाङ्क्षेण क्षेपे॥४२॥ कृत्यैर्ऋणे॥४३॥ संज्ञायाम्॥४४॥**

तीर्थकाकैःसमुपास्यते या स्नानं हि यत्तत्रकृतं कृतं यत्।
ऋणं मनुष्या दधते पितृभ्यो यदम्बुदानादिह लोकदेयम्॥३०॥

** क्तेनाहोरात्रावयवाः॥४५॥ तत्र॥४६॥क्षेपे॥४७॥**

पूर्वाह्णयुक्ता रवितेजसा या पुनाति पापानमरापगेव।
यां वर्जयित्वा तपसे प्रयाणमन्यत्र पुंसामुदकेविशीर्णम्॥३१॥

अलब्धगाधेऽम्भसि संचरन्तः प्रकृष्टदेहायतयः प्रभूताः।
वदन्ति यस्यास्तिमयः प्रमाणं न कूपमण्डूकगणाः कदाचित्॥३२॥

** पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन॥४९॥**

यस्या ह्रदं ग्राहविमुक्ततोयं नष्टागता61म्भोजवनाभिरामम्।
एकप्रभुः सर्ववधूसमेतः स्नातुं करीवावततार राजा॥३३॥

यथायथं भूपतयोऽवतीर्य जगाहिरेऽम्भांसि वधूसमेताः।
सत्यः प्रवादो जगति प्रसिद्धो यथैव [राजा] हि तथा प्रजापि॥३४॥

निरस्तनिःशेषजरत्तृणान्तं पुराणभृत्याहिततीव्रकक्ष्यम्।
नवाब्जरम्यं जलमाप राजा परिभ्रमत्केवलकामिनीकम्॥३५॥

** दिक्संख्ये संज्ञायाम्॥५०॥ तद्धितार्थोत्तरपदसमाहारे च॥५१॥**

पूर्वावतीर्णा प्रमदैत्य काचित्सप्तर्षिमध्यस्थमरुन्धतीव।
पूर्वपञ्चालपतिं पतिं तं सिषेच घर्माम्बुकणार्द्रदेहम्॥३६॥

दक्षिणक्ष्माप्रियलोकगुप्तस्तथोत्तराशैः क्षितिपैरुपेतः।
तत्राभिरेमे रमयन्प्रियास्ताः करीव शाक्रःकरिणीर्नरेन्द्रः॥३७॥

खे सहस्रगवमण्डलमार्कं तेजसायतसहस्रभुजीं62 सः।
भूपतिर्दधदुवाह वधूनां सौम्यतां च रतये बहुचन्द्रम्॥३८॥

** कुत्सितानि कुत्सनैः॥५३॥**

दाक्षिण्ययुतोऽम्बुमज्जनेहो राजा तामपि रञ्जयांबभूव।
अत्रापि कृता न रूपसिद्धिर्वैयाकरण[ख]स्चिनेव धात्रा॥३९॥

** पापाणके कुत्सितैः॥५४॥**

पापचेष्टं स विलासिनं जनं सरिज्जलं चान(ण)कसत्त्ववर्जितम्।
अवाप्य रेमे सुतरां नराधिपो न तोषयेत्कं गुणवत्समागमः॥४०॥

** उपमानानि सामान्यवचनैः॥५५॥**

सरिज्जलक्षालितचन्दनेषु प्रियङ्गुगौरेषु वधूस्तनेषु।
सक्तोऽपि जज्ञे न सरोजरेणु को वात्मलाभं लभते समाने॥४१॥

** उपमितं व्याघ्रादिभिः सामान्याप्रयोगे॥५६॥**

उच्चान्तपुष्पश्चलपुष्कराग्रःकरीव तेनाहृतसान्द्रपङ्कः।
क्षोभं समानीयत वारिराशिः क्षिप्रं वरव्याघ्र63समागमेन॥४२॥

** विशेषणं विशेष्येण बहुलम्॥५७॥**

कान्त्या समानत्वमपि श्रितानां सृष्टानि राज्ञः सुवधूजनस्य।
सविभ्रमानीति विलोचनानि नीलोत्पलानामुपरि स्थितानि॥४३॥

** पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च॥५८॥**

प्रियेण पूर्वालपनेन काचित्संमानितां वीक्ष्य तदापरस्त्रीम्
चुकोप पत्ये प्रथमव्यलीकं सुदुःसहं नो चरमापराधः॥४४॥

जघन्यमेकं64 सलिलेन लम्बिता समाननारीभिरुदीक्षितापरा।
वधूर्न मध्यानुनयैर्न चोत्तमै रुषं जहौ वीरवरेण रोषिता॥४५॥

** श्रेण्यादयः कृतादिभिः॥५९॥**

श्रेणी65कृता स्नानविधौ वधूनां सुगन्धिनिश्वासहता द्विरेफाः।
निपेतुरास्येषु विमुच्य पद्मान्गुणार्थिनो गुण्यतमान्भजन्ते॥४६॥

** क्तेन नञ्विशिष्टेनानञ्॥६०॥**

कृताकृतं सर्वमचिन्तयित्वा पराभ्रमन्त्यः परितः स्त्रियस्ताः।
मुखेन्दुशोभापरिभूतपद्मा गतागतं वारिणि तत्र चक्रुः॥४७॥

** सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः॥६१॥**

सदास्यभाजः सुमहापयोधराः श्रिता नदीं तां परमाब्जमालिनीम्।
युता नृपेणोत्तमनायकेन ताः श्रियं तदोत्कृष्टगुणां दधुः स्त्रियः॥४८॥

** वृन्दारकनागकुञ्जरैः पूज्यमानम्॥६२॥ किं क्षेपे॥६४॥**

नरेन्द्रवृन्दारकम्बुमध्येतं **भृत्यरागा66**हितरक्षमेकम्।
विलोक्य लोकः परकुञ्जरारिं67 मेने सुरेशं दिवि किंसखायम्॥४९॥

** पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः॥६५॥**

जलाभिषेकाहितशीतकम्पा स्त्रीस्तोकभाजं सहमेत्य68 पो….
उपेक्षमाणं नरधूर्त69मन्या समालिलिङ्गाशु विमुच्य मानम्॥५०॥

कतिपयतिमि70संयुते समन्तादलियुवतिव्रजसेविताब्जराशौ।
पयसि करिवशेव काचिदेका भ्रमति पुरा नु सखीजनं विशङ्का॥५१॥

मूकत्वमासाद्य जलप्रसङ्गान्नारीजनस्योत्तरतस्तटानि।
हंसप्रबद्धस्तनितं71 न बद्धा शिञ्चांदधुः प्रागिव नूपुराणि॥५२॥

शिलीमुखाध्यापकतो गृहीतैः प्राप्येव पद्माकरमङ्गनानाम्।
विनिर्यतीनां रचना72 निनादैर्विपूरयामासुरलं दिगन्तान्॥५३॥

तस्मै जनायान्तिकमागताय स्वादूनि देहक्लमनाशकानि।
सुखोपभोग्यानि चिराय रेवा पयांसि गोधेनुरिवादितैका॥५४॥

** प्रशंसावचनैश्च॥६६॥**

पद्माकराभ्याशमुपागतानां विलोक्य राज्ञा निजसुन्दरीणाम्।
चिराय दूरं विजितं विजज्ञे हंसप्रकाण्डस्य गतं गतेन॥५५॥

** युवा खलतिपलितवलिनजरतीभिः॥६७॥**

युवतिभिरुपगम्य मध्यभागं
विघटितपत्त्रसरोरुहाम्बुशेषा।
युवखलतिरिवाब्जिनी विरेजे
प्रतिदिशमक्षतचारुपत्त्रशोभा॥५६॥

त्वरितपदमुपेत्य मूर्ध्नि सख्या विनिहितचन्दनचूर्णमुष्टिरन्या।
पुनरवतरणाय वारिराशौ युवपलितेव कृताङ्गना चिराय॥५७॥

स्खलितगतिरुपेतदेहकम्पा परमपरिस्फुटभाषिणी विनम्रा।
अभिसलिलनिमज्जनात्तशीता युवजरतीव समुत्ततार नारी॥५८॥

** कृत्यतुल्याख्या अजात्या॥६८॥ वर्णो वर्णेन॥६९॥**

पानीयशीतं परितः प्रवाहं महीपतिस्तुल्यमहान्तमाप्य।
रेमे स हंसालिवितानसेव्यं सितासितं पद्मवनं दधानम्॥५९॥

** कुमारः श्रमणादिभिः॥७०॥ चतुष्पादो गर्भिण्या॥७१॥**

या भीत्यभीता(?)करिणीव शीघ्रं गोगर्भिणीव क्वचिदेत्य मन्दम्।
कुमारतामप्युपसेव्यमाना73 स्नातो मुदेऽभून्नृपतेर्नदी सा॥६०॥

** मयूरव्यंसकादयश्च॥७२॥**

या मयूरव्यंसकैर्युता वर्षायमाना पतज्जला।
सकमला शरद्यमाना वाहंसव्रजैरैक्षि भूभुजा॥६१॥

74चिरमिति विहृत्य प्रीतये प्राणभाजां
सरसिरुहपरागव्रातपिङ्गाङ्गकान्तिः।
सरितमवनिनाथस्त्यक्तुमिच्छुः प्रतस्थे
दिनमपि दिनभर्ता गन्तुमस्ताचलेन्द्रम्॥६२॥

इति श्रीरावणार्जुनीये महाकाव्ये समर्थपादे चतुर्थः सर्गः॥४॥

_________________

द्वितीयाध्यायस्य द्वितीयपादे पञ्चमः सर्गः।

** पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे॥१॥**

अवनेरवमुच्य पूर्वकायंकिरणौघोऽपरकायमाप भानोः।
तमनुप्रययुस्तमांसि दूरे करिवृन्दानि शनैर्भियेव सिंहम्॥१॥

तमसाधरकायमावृतं तं किरणैरुत्तरकायमात्तकान्तिः75
गिरयो दधुरानते पतङ्गे धृतरात्रिंदिनविभ्रमाः समन्तात्॥२॥

** अर्धं नपुंसकम्॥२॥**

मृदुतेजसि लोहितायमाने शनकैर्याति रवावुपास्तशैलम्।
गगनेषु विमूर्छनावनानां तिमिरेण कृतार्धशर्वरीव॥३॥

** द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्॥३॥**

द्वितीयवापीं दयिता वनान्ते वापीद्वितीयं च रथाङ्गनामा।
दीनावयातां करुणौ रुवन्तौ76 कस्याथ वा प्रेम न दुःखहेतुः॥४॥

आशातृतीयं परिहातुकामः पश्चात्पतङ्गः परिहीनशक्तिः।
प्राग्ध्वान्तसंतापवशादिवौष्ण्यं तृतीयपृथ्व्याः प्रतिसंजहार॥५॥

आशाचतुर्थं सवितर्युपेते चतुर्थशैले परिदृश्यकान्तौ।
विमूर्छिता दिक्तिमिरेण पूर्वा कृष्णेन वाच्छाद्यत कम्बलेन॥६॥

वियत्तुरीयं77 सविता प्रमुच्य स्थितस्तुरीयास्तमहीध्रशृङ्गे
विलोक्य लोकं तमसाभिभूतं क्रोधादिवारक्ततरो बभूव॥७॥

** प्राप्तापन्ने च द्वितीयया॥४॥**

प्राप्तध्वान्तां पद्मिनीं म्लानपद्मां ध्वान्तप्राप्तां दीर्घिकां चावलोक्य।
जग्मुः78 क्षिप्रं पक्षिणः क्वापि दूरादापत्प्राप्तं सेवते कश्चिदेव॥८॥

संसुप्तमब्जोदरवासधाम्नि स्वकान्तमापन्नसुखं विलोक्य।
भृङ्गी सुखापन्नतराशु जाता न कस्य रत्यै रहसि प्रियाप्तिः॥९॥

** कालाः परिमाणिना॥५॥**

स्फुरदल्पकरः शनैः प्रसर्पन्नपरक्ष्माधरमूर्ध्नि रक्तमूर्तिः।
कलभस्य दिवाकरः समग्रां व्द्यहजातस्य समग्रतामुवाह॥१०॥

** नञ्॥६॥ ईषदकृता॥७॥ षष्ठी॥८॥**

अतिग्मधामानमपि प्रयान्तं तमीषदालोहितमंशुमन्तम्।
एष्यद्वियोगानि समाकुलानि द्रष्टुं न चक्राह्वयुगानि शेकुः॥११॥

** याजकादिभिश्च॥९॥ न निर्धारणे॥१०॥**

अम्भःपरिचारका द्विरेफा विज्ञायाहितसंभ्रमा भ्रमन्तः।
याः सत्कुसुमाः कुमुद्वतीनां संपन्नाधिकसौरभा ययुस्ताः॥१२॥

** पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन॥११॥**

भानोर्द्वितीये महसि प्रलीने सांध्ये प्रसुप्तासु मृणालिनीषु।
व्यक्तिं ययौ मूर्छति तामसौघे भृङ्गस्य कार्ष्ण्यंकुमुदाकरेषु॥१३॥

विसस्य तृप्ता विहगाः प्रयाता वासायनैकः खलु चक्रवाकः।
कान्तारवाकर्णनसंवृतास्रस्तुल्ये खगत्वेऽपि विधुर्न79 तुल्यः॥१४॥

दिनस्य कृत्वा महिमानमुस्रैर्लोकस्य कर्तव्यशतं च शश्वत्।
ध्वान्तागमस्य द्विषतो गतस्य हितस्य मित्रस्य न संस्मरेत्कः॥१५॥

** क्तेन च पूजायाम्॥१२॥**

जगतां महिता ततोऽनुसंध्या पतिता चासितमालयं दधाना।
रविवाजिखुराग्रपातजन्मा विबभौ धूलिरिवारुणाम्बरस्य॥१६॥

** अधिकरणवाचिना च॥१३॥ कर्मणि च॥१४॥**

तिमिरेण निरन्तरं भृतेषु भ्रमतां भूमिनभोदिगन्तरेषु।
आश्चर्यमिदं शिलीमुखानामुपलम्भः सदृशापि यज्जनेन॥१७॥

** तृजकाभ्यां कर्तरि॥१५॥**

नारीर्निमीलन्नयना इवारात्सरोरुहां शायिकयाब्जमालाः।
त्यक्त्वाशु भृङ्गैरपरत्र यातं कृतं न कृष्णात्मनि पोषितेऽपि॥१८॥

** कर्तरि च॥१६॥**

तिमिरस्य विभेत्तरि प्रणष्टे परिबोधस्य विधायके पतङ्गे।
सहसैव गुराविवातिकष्टं जनतामोहमिवागता80विचारे॥१९॥

** नित्यं क्रीडाजीविकयोः॥१७॥**

लोकं भुवि सालभञ्जिकां वा कृत्वार्केतमसां ततौ प्रयाते।
भ्रेमुर्मधुपायका द्विरेफा ध्वान्तौघश्च दिशो विनीलयन्तः॥२०॥

** कुगतिप्रादयः॥१८॥**

सुमतात्कुमतिं निरस्य मन्त्रानूरीकृत्य समाधिमामनन्तः।
अलघावतिचेष्टिता गतेऽर्के मुनिलोकाः समुपासते स्म संध्याम्॥२१॥

** उपपदमतिङ्॥१९॥ अमैवाव्ययेन॥२०॥ तृतीयाप्रभृतीन्यन्यतरस्याम्॥२१॥**

स्वादुंकारं मत्स्यमांसादि भुक्त्वा हंसव्रातैरह्नि पद्मोपदंशम्
सायं यातं क्वापि संत्यज्य वापीर्यावत्कार्यं कार्यिणां तावदास्था॥२२॥

कलिकयोपदंशमास्वाद्यपौष्पं द्विरेफा लतामधु।
उपययुः कुमुद्वतीं रात्रौ पानप्रसङ्गो हि क्व वरः॥२३॥

** क्त्वा च॥२२॥**

उच्चैः कृत्य क्रौञ्चसंघाः प्रणादैस्त्रासं मर्त्यानप्रियं श्रावयन्त्यः।
नीचैः कृत्वा षट्पदाश्च प्रियं वा सायं याता वासतेयं81 वनान्तात्॥२४॥

** शेषो बहुव्रीहिः॥२३॥ अनेकमन्यपदार्थे॥२४॥**

अथ सांध्यमरन्ध्रमाशु तेजो विरराजास्तमहीधरस्य मूर्ध्नि।
गलदुल्बणरक्तबद्धरागं गजचर्मेव विसारितं हरेण॥२५॥

** संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये॥२५॥ दिङ्नामान्यन्तराले॥२६॥**

उपदशान्यासन्नविंशानि परितोऽधिकाष्टादशान्यपि।
भूषयांचक्रुर्भान्ति दिवं ज्योतींषि पुष्पाणीव क्षितिम्॥२६॥

द्वित्राः किमेते किमु पञ्चषाः पुरः पूर्वोत्तरा दिक्किमु दक्षिणा परा।
व्यक्तिर्निरुद्धे जगतीति तामसैर्न प्रावृषीवाम्बुकणावृतेऽभवत्॥२७॥

** तत्र तेनेदमिति सरूपे॥२७॥**

परितस्तिमिरं विजृम्भमाणं दिवि सांध्यं च सहः कृतात्मलाभम्।
घटनां समुपागते विरुद्धे विदधाते स्म कचाकचीव युद्धम्॥२८॥

** तेन सहेति तुल्ययोगे॥२८॥चार्थे द्वन्द्वः॥२९॥**

अजस्रमाबद्धविकारशोभं सांध्यं महः साम्बुरुहं क्रमेण।
संकोचमानीतमशेषमेव ध्वान्तेन मेघद्विरदासितेन॥२९॥

** उपसर्जनं पूर्वम्॥३०॥**

कष्टश्रिताः प्राप्य तमोविहंगास्तत्खण्डिताः संकुचिता नलिन्यः।
आलोकितं लोकहितं प्रणष्टं कृत्वात्मना संपदि कस्य नापत्॥३०॥

** राजदन्तादिषु परम्॥३१॥**

तमःप्रतानावृतदृष्टयोऽपि गन्धेन पुष्पप्रभवेन कृष्टाः।
विमुच्य संमीलितमब्जराशिमग्रेवणं82 भृङ्गगणा विलीनाः॥३१॥

** द्वन्द्वे घि॥३२॥ अजाद्यदन्तम्॥३३॥ अल्पाच्तरम्॥३४॥**

रविदिनरहिते जगत्यमुष्मिन्नगनगदेहविरोधमादधानम्।
प्रलय इव जलं तमः प्रवृद्धं भवभवनादिविवेकमा(?)स्यदाशु॥३२॥

** सप्तमीविशेषणे बहुव्रीहौ॥३५॥ निष्ठा॥३६॥**

तिमिरप्रतानविनिरुद्धदिङ्मुखं
गगनं परिस्फुरिततारकाशतम्
विलसद्भुजंगतनुमेचकं बभा-
वुदरे मणिं जलनिधिं व्यडम्बयत्॥३३॥

** वाहिताग्न्यादिषु॥३७॥**

अग्न्याहितं मन्दिरमाहिताग्नयः संप्राप्य हुत्वानलमुज्झितस्रुवः।
आमृष्टधूमाविललोचनद्वयाः संध्याविरामे प्रतिनिर्गता द्विजाः॥३४॥

** कडाराः कर्मधारये॥३८॥**

इति जगति विलोक्य प्रस्फुरच्चारुतारा83
खलमिव तिमिरौघं नश्वरं जृम्भमाणम्।
उदयपिहितमूर्तेस्तेजसा शीतकान्तेः
सुखमवहदिवाशा सस्मितं वासवीया॥३५॥

इति श्रीरावणार्जुनीये महाकाव्ये पूर्वापरपादे पञ्चमः सर्गः॥५॥

_________________

द्वितीयाध्यायस्य तृतीयपादे षष्ठः सर्गः।

** अनभिहिते॥१॥ कर्मणि द्वितीया॥२॥ अन्तरान्तरेणयुक्ते॥४॥**

अथान्तरेणोद्यदनेकतारां धर्माधिपाशां दिशमुत्तरां
उवाह शीतांशुकरान्विदिश्यान्पूर्वोदयाद्रिः पलितायमानान्॥१॥

प्राचीं प्रतीचींदिशं हिमांशोस्तथोत्तरा84 भानुमदुष्णमुक्तेः।
खे85 चन्द्रिकादृश्यत निःसरन्ती शनैः शनैर्देहभयादिवोष्णे॥२॥

** कालाध्वनोरत्यन्तसंयोगे॥५॥**

चुक्रोश चक्राह्वयुगं त्रियामां शशाङ्कपादैरिव दह्यमानाम्।
कुमुद्वतीसौरभकृष्टचित्ता भृङ्गा ययुः क्रोशमपि क्वणन्तः॥३॥

** अपवर्गे तृतीया॥६॥**

दिनेन या कान्तियुता परीता विमुच्य तामम्बुजिनीं प्रदोषे।
कुमुद्वतीं भृङ्गगणाः प्रयाताः कार्याद्विना चाटु करो न कश्चित्॥४॥

** सप्तमीपञ्चम्यौ कारकमध्ये॥७॥**

प्राच्यां स्थितः शीतकरः कराग्रैर्व्यद्योतयत्क्रोशशते दिगन्तान्।
चन्द्रोदये लोकमनांसि कामः क्वापि स्थितः क्रोशशतादविध्यत्॥५॥

रथाङ्गनामा दयितां दिनान्ते दृष्ट्वा पुनर्द्रक्ष्यति तां प्रभाते।
चन्द्रावदाता दयितासहायैर्न मन्दभाग्यैः सुलभाः प्रदोषाः॥६॥

ज्योत्स्नाद्यलब्ध्वा शशिनं निशायां लब्ध्वा पुनः श्वोदिवसावसानात्
एवं लभेयाहमपि स्वकान्तमुत्केति काचिन्निजगाद दूतीम्॥७॥

** कर्मप्रवचनीययुक्ते द्वितीया॥८॥**

तमांसि भिन्दन्मृदुभिः कराग्रैरालोहितां बिम्बरुचिं दधानः।
शीतांशुरुद्यन्नुदयाद्रिशृङ्गमारुह्य सूर्याकृतिमन्वतिष्ठत्॥८॥

** यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी॥९॥**

सविभ्रमा नर्तितलोचनाब्जापुनः पुनः कामिजनैर्विलोक्य।
शङ्केति मेने ववृतात्मगर्वैरुपेन्दुबिम्बे दयिताननश्रीः॥९॥

आविर्भवन्मण्डलबद्धशोभे विसारितेजःपरिपूरिताशे।
तारा बभूवुर्दिवमीयुषीन्दौ प्रजाः पृथिव्यामधिराजनीव॥१०॥

** पञ्चम्यपाङ्परिभिः॥१०॥**

अपाभ्रमध्यात्प्रसृतेन्दुकान्तिः कान्तिः सुमेरोः परिपर्युपान्तात्
आरोधसंक्षोभमुवाह सिन्धुः समुल्लसच्छीक86रमुक्तमुक्तः॥११॥

** प्रतिनिधिप्रतिदाने च यस्मात्॥११॥**

सरोजिनीतः प्रतिवीक्ष्य भृङ्गः कुमुद्वतीमाप विकासभाजम्।
विना कृतस्य प्रियया हि मन्ये87 विनोद्यते तत्सदृशेन चेतः॥१२॥

दूत्या प्रियायाः समुपेत्य कश्चिन्निवेदिते मूर्छति चन्द्रधाम्नि।
एमीति संदेशकमेव तस्यै संदेशकात्संप्रति यच्छति स्म॥१३॥

उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु।
द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते॥ (वा०)

अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि। (वा०)

उपर्युपर्यम्बरमिन्दुरायन्नयत्यधोधो नु तमांसि पृथ्वीम्।
ज्योस्ना विकीर्णान्परितो दिगन्तान्कान्ताजनं काप्यभितो बभूव॥१४॥

धिक्त्वां न यातासि सखि प्रियार्थं हा मां कथं यास्यति मेत्रियामा।
धृतेषुरास्ते समयात्मभूर्मांकाचिज्जगादेति समाकुला स्त्री॥१५॥

** गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौचेष्टायामनध्वनि॥१२॥**

त्यक्त्वोदयाद्रिं गगनाय चन्द्रो दत्वानुरागं न ययौ जनाय
जनोऽपि शीघ्रं प्रतिपन्नभूषः प्रियालयं स त्वरितं जगाम॥१६॥

** चतुर्थी संप्रदाने॥१३॥**

आलोकमिन्दुः प्रददौ जनाय जनोऽपि गन्तुं रतये स्वचेतः।
मानाय नारीजनताप्यदत्त तोयं शशाङ्कद्युतिदर्शिताध्वा॥१७॥

** क्रियार्थोपपदस्य च कर्मणि स्थानिनः॥१४॥ तुमर्थाच्च भाववचनात्॥१५॥**

कान्ताय यामीति जगाद दूती काचिद्विलोक्येन्दुमपेतपङ्कम्।
विमुच्य मानं रतये प्रतस्थे विलासिनी दूतिकया महत्या88॥१८॥

** नमःस्वस्तिस्वाहास्वधालंवषट्योगाच्च॥१६॥**

नमोऽस्तु चन्द्राय चिराय तस्मै खं कुर्वता येन हतान्धकारम्।
प्रियोपभोगप्रमदेन चक्रे स्वस्ति प्रकामं प्रमदाजनाय॥१९॥

स्वाहाग्नये येन कृतं चिराय स्वधा पितृभ्यश्च जनेन मन्ये।
वषट् च रुद्राय सुखं लभन्ते चन्द्रोदयं ते दयितासहायाः॥२०॥

अलं प्रदोषः प्रियसंगमाय मानक्षयायावहितश्च चन्द्रः।
एतद्द्वयं प्रेक्ष्य सखि प्रियाय प्रयाहि मे काचिदुवाच दूतीम्॥२१॥

** मन्यकर्मण्यनादरे विभाषाप्राणिषु॥१७॥**

ध्वान्तं तृणं व्योमनि मन्यमानं चन्द्रं समासाद्य जनं प्रियं च।
शङ्केऽभ्यमन्यन्त विवृद्धतोषा वियोगदुःखानि तृणानि89 नार्यः॥२२॥

** क्लृपिसंपद्यमाने च॥ (वा०) प्रकृत्यादिभ्य उपसंख्यानम्॥ (वा०)**

पानं मदाय प्रमदाजनानां प्राकल्पतापीतमपि प्रसह्य।
आस्वाद्य दत्तं प्रतिपक्षदृष्टं तत्र प्रकृत्या चतुरेण पत्या॥२३॥

** कर्तृकरणयोस्तृतीया॥१८॥ सहयुक्तेऽप्रधाने॥१९॥**

मृगाधिपेनेव शशाङ्कभाजा मुक्त्वोदयाद्रिं तिमिरे भचक्रम्।
करैर्नखाग्रैरिव भिद्यमानं संकोचमागात्सह पुष्करेण॥२४॥

** येनाङ्गविकारः॥२०॥ इत्थंभूतलक्षणे॥२१॥**

पादेन वा पङ्गुरचेष्टवृत्तिश्चन्द्रोदयेऽप्यास्त विहंगसंघः।
कुमुद्वती संददृशेद्विरेफैर्विकासवद्भिः कुमुदैः सरःस्था॥२५॥

** संज्ञोऽन्यतरस्यां कर्मणि॥२२॥**

अम्भोजिन्या सौरभामोदभाजा संजानीते भृङ्गमाला स्म दूरात्।
ध्वान्तानीलां तां पुरा खे पतन्तीं संजानीते मन्द्रलापेन लोकः॥२६॥

** हेतौ॥२३॥**

हंसा विभिन्नेन समा वसन्तः पद्माकरं फेनचयावदाताः।
विशुद्धचन्द्रांशुसमावृताङ्गा जाता रजन्या परिमार्गणीयाः॥२७॥

** अकर्तर्यृणे पञ्चमी॥२४॥**

भृङ्गः शशाङ्कागमबद्धबोधं गन्धेन बुद्ध्वाकुमुदं पिपासुः।
निःस्वः शताद्बद्ध इवाभ्यरोदीत्सरोजसंकोचनिरुद्धमार्गः॥२८॥

** विभाषा गुणेऽस्त्रियाम्॥२५॥**

गृहीतमानाप्युपकान्तमन्या स्वयं प्रयान्ती परिमुक्तधैर्या।
निषेधवाग्वागुरयैत्य सख्या जाड्येन रुद्धा हरिणीव काचित्॥२९॥

वियोगमाराचिततानवाङ्गी शल्यायमानान्दधती निजासून्।
जाड्याद्विमुक्ता दयितेन काचिच्चन्द्रावभासं दहनीयति स्म॥३०॥

** षष्ठी हेतुप्रयोगे॥२६॥**

कान्तस्य हेतोर्गृहदेहभूषांमुहुर्मुहुश्चक्ररुदीक्षमाणाः।
जनप्रियाराधनबद्धयत्नेदुःखे हि खेदो लभतेऽवकाशम्॥३१॥

** सर्वनाम्नस्तृतीया च॥२७॥**

स कस्य हेतोः सखि नागतोऽद्य त्वं हेतुना केन चिरादुपेता।
काचिज्जगादेति धृताभ्यसूयं क्व नाम न प्रेम करोति शङ्काम्॥३२॥

** अपादाने पञ्चमी॥२८॥**

मयूखजालेन हिमांशुबिम्बादुपेयुषा वर्धितमन्मथेच्छः।
रतोपभोगप्रवणैकचेता गृहे गृहेऽजायत कामिलोकः॥३३॥

** अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते॥२९॥**

नान्यो रिपोर्यस्तपति प्रकाममारादिवागत्य दिवः शशी ताम्।
ऋते गमात्ते गमितेतरेण मृत्योर्व्यथां मा90 मदनेन विद्धि॥३४॥

तन्मृत्युतः प्राक्कथितं मयास्याः स दक्षिणस्थे91 न तु दक्षिणाहि
सह्यं मया न प्रियमुक्तमत्र सख्यागता मे ननु साक्षिणीयम्॥३५॥

मृषा मयोक्तं यदि मन्यसे त्वं पश्याशु मे दक्षिणतस्ततोऽसून्
तामङ्गलीनामुपदर्शयन्ती सख्याः पतिं कांचिदवोचदित्थम्॥३६॥

** षष्ठ्यतसर्थप्रत्ययेन॥३०॥**

ज्योत्स्नोपरिष्ठाद्भवनस्य कान्ता तथापि नष्टस्तमसीव मेऽसौ।
उक्तेति सख्याशु मुमोह काचिज्जनो विदाही परिहास एव॥३७॥

** एनपा द्वितीया॥३१॥**

उपर्यनल्पा भवनस्य कीर्णा चन्द्रद्युतिः केतकरेणुशुभ्रा।
लोकस्य रेजे रतये गृहाणि सा दक्षिणेनाशु तथोत्तरेण॥३८॥

** पृथग्विनानानाभिस्तृतीयान्यतरस्याम्॥३२॥**

विनापि चन्द्रेण विनापि धैर्यान्नार्यो ययुर्या वसतिं प्रियाणाम्।
ताः प्राप्य चन्द्रं स्मरदत्तधैर्या यातीर्निरोद्धुं विधिरप्यनीशः॥३९॥

दुनोति चन्द्रात्पृथगप्यनङ्गस्तां चन्द्रयुक्तः किमु संहितेषुः।
पृथक्त्वया जीवति साद्य दुःखं सखेति कश्चिज्जगदे प्रियायाः॥४०॥

नानापि वह्नेर्दहतीति चन्द्रश्चन्द्रेण नानापि पुनः स कान्तः।
प्रह्लादहेतुः सखि याहि तेन प्रोवाच काचित्प्रमदेति दूतीम्॥४१॥

** करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य॥३३॥**

कृच्छ्रादवाप्तं दिवसावसाने कृच्छ्रेण मुक्ता विरहव्यथाभिः।
ननन्द नारी पतिमीक्षमाणा सुखं जनस्य प्रियलाभमात्रम्॥४२॥

स्तोकेन रुष्टा दयिताय नारी स्तोकादुपेता पुनरेव तोषम्।
करोति चेष्टा जनतोपहास्याः प्रेम्णा ग्रहेणेव जनो गृहीतः॥४३॥

** दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्॥३४॥**

दूरं गृहस्य प्रियमीक्षमाणा ननन्द नारी प्रमदेन काचित्।
दूरं तथासौ भवनाच्च कान्तां तुल्योऽनुरागो हि पदं स्मरस्य॥४४॥

अन्तिकं परिजनात्सखीजनं संदिदेश दयिताय कामिनी।
सद्मनः स्वयमुपेतमन्तिकं वीक्ष्य तं प्रमदमाप सा ह्रियम्॥

** दूरान्तिकार्थेभ्यो द्वितीया च॥३५॥**

दूरात्प्रियेण प्रमदोपगूढा स्तनोपपीडं परितोषमाप।
एतावदेवेच्छति कामिलोकश्चित्तप्रिया यत्कुरुते प्रियाणि॥४५॥

कलङ्कमिन्दाववलोक्य कश्चित्प्रियामुखं चाच्छकपोलकान्ति।
दूरं स मेनेऽभ्यधिकं ततस्तद्गुणान्तरज्ञे न हि पक्षपातः॥४६॥

** सप्तम्यधिकरणे च॥३६॥**

आस्ते प्रियावर्त्मनि संमुखीनां मृत्युं भवन्तं च निरीक्षमाणा।
दूरे भवानन्तिक एव सोऽस्या यत्तेऽक्षमं तत्कुरु काचिदूचे॥४७॥

** यस्य च भावेन भावलक्षणम्॥३७॥**

संध्यागमे या दयितस्य याता सैकाकिनी तद्विरतावुपैति।
नीतोऽन्यया नेच्छति किं92 न दृष्टश्चक्रे वितर्कानिति वीक्ष्य काचित्॥४८॥

** षष्ठी चानादरे॥३८॥**

नार्या रुदत्याः प्रययौ रुषान्यः सख्यां नतायामपि नैव तस्थौ।
कृतः प्रियेण प्रणयस्य भङ्गः स्वल्पोऽपि कोपं कुरुतेऽतिमात्रम्॥४९॥

** स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च॥३९॥**

स्वामीकायस्य न केवलं मे स्वामी स एको न तु जीवितेऽपि।
कार्ये गतः कोपमथाप्यकार्येगच्छानयैनं सखि किं विचारैः॥५०॥

किं नेश्वरं पश्यसि शीतभासं93 मां निर्दहन्तं नलिनीमिवेन्दुम्।
विध्यन्तमेनं मृगयुं मृगीं वा सखीश्वरं पुष्पशरेषु कामम्॥५१॥

तमानयेऽहाधिपतिं मयि त्वं यन्नात्मनश्चाधिपतिर्न कुर्यात्।
रूपेण दायादमिव स्मरस्य श्रियापि दायादमिवोडुनाथे॥५२॥

प्रभुर्यथासौ मयि तद्वदैनं त्वमानयन्तीह भव प्रभुर्मे।
स एव साक्षी मयि वल्लभत्वे साक्षी च मे विद्ध्ययमन्तरात्मा॥५३॥

भूयः करिष्यामि न तस्य मानं नन्वत्र कार्ये प्रतिभूर्मयि त्वम्।
तथापि किं चिन्तयसि प्रयाहि त्वया समानः प्रतिभूः कुतो मे॥५४॥

चित्ते प्रसूतेन मनोभुवाहं नये व्यथां कामपि दुर्निवाराम्।
इन्दोः प्रसूतैश्च मयूखपातैस्त्रायस्व मामानयनेन तस्य॥५५॥

शक्तासि नैका यदि तत्र यातुं प्रयाम्यहं तेऽद्य ततो द्वितीया।
क्रांचिद्ब्रुवाणां सहसैत्य कामी तिष्ठत्व(त्वि)यं याम्यहमित्युवाच॥५६॥

** आयुक्तकुशलाभ्यां चासेवायाम्॥४०॥**

(?) आयुक्तमेनामधुना94 स्वकान्तमायुक्तमन्यासु रतोपभोगे।
तदिच्छया धीरमतां वरौ ते काम्याशयज्ञा हि हरन्ति नार्यः॥५७॥

मानापनोदे कुशलेन पत्या नारी सचेतीक्रियमाणदेहा।
कान्ता स्ववृत्तेः कुशला बभूव कोपः कुतश्चाटु विचक्षणेषु॥५८॥

** यतश्च निर्धारणम्॥४१॥**

लब्ध्वा युवानो विहतान्धकारां निशां निशानां परमां सचन्द्राम्।
सुहृत्समेता रमयांबभूवुः सयौवनाः स्त्रीः सुमनोरमायाः॥५९॥

** पञ्चमी विभक्ते॥४२॥**

आस्वाद्य दत्तां दयिताः स्वकान्तैः सुरां मधुभ्योऽपि विशेषहृत्याम्
जहुः प्रियाणां हृदयानि पीत्वा मदोऽपि दोषानपि संवृणोति॥६०॥

** साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः॥४३॥**

यथारतौ95 साधुरलं नरेषु तथारतान्ते95 निपुणा बभूव।
अकृत्रिमस्नेहरता हि नार्यस्तुल्योपचाराः सततं भवन्ति॥६१॥

** प्रसितोत्सुकाभ्यां तृतीया च॥४४॥**

पानेषु कांश्चित्प्रसृ(सि)तान्सकान्तान्गोष्ठीभिरन्यान्गुणवत्कथाभिः
चित्तानुवर्तीव सुहृत्समेतांश्चकार लोकानिति शीतरश्मिः॥६२॥

प्रियागतावुत्सुकया कयाचिद्वि(द्व्य)लोक्यता चञ्चलचक्षुषाध्वा।
प्रसादनैरुत्सुकयान्ययेन्दुं दृष्ट्वा स्थितं मानयुजातिदुःखम्॥६३॥

** नक्षत्रे च लुपि॥४५॥**

शीघ्रं गृहीत्वा बहुवल्लभं मे निर्विघ्नमेवं यदुपागतासि।
पुष्येण किं पाथसमत्सियाता96 सहासमुक्तेति सखी कयाचित्॥६४॥

** षष्ठी शेषे॥५०॥ ज्ञोऽविदर्थस्य97 करणे॥५१॥**

पादा हिमांशोर्ललितं वधूनां गन्धः स्रजां सत्सुहृदां च गोष्ठ्यः
एकैकमप्येषु स(म)हं वितेने कः संहतानां पुनरस्ति मल्लः॥६५॥

** अधीगर्थदयेशां कर्मणि॥५२॥**

मध्ये निशान्तस्य परा पुरंध्री वियोगिनी वीक्ष्य शशाङ्कबिम्बम्।
कदाचिदैष्ट द्रवतामसूनां दुनोति रम्यं हि विना प्रियेण॥६६॥

त्वं यद्यसूनां दयसे ततो मे प्रयाहि तं कान्तमिहानयाशु।
चन्द्रातपो धक्ष्यति मां न यावत्काचिज्जगादेति सखीं सखेदम्॥६७॥

** कृञः प्रतियत्ने॥५३॥**

उपागते प्रेयसि धाम सायं स्रजां मधूनांविलेपनानाम्
समाधिनोपस्कुरुते स्म लोकः किं तेन यन्नोपहितं प्रियस्य॥६८॥

** रुजार्थानां भाववचनानामज्वरेः॥५४॥ आशिषि नाथः॥५५॥ जासिनिप्रहणनाटक्राथपिषां हिंसायाम्॥५६॥**

रुजत्यदंशुर्मम शीतरश्मिः किं नाथसे मेऽद्य शिवस्य न त्वम्।
परं ममोज्जासयति स्मरोऽपि मन्मानसस्य प्रणिहन्ति98 सद्यः॥६९॥

मद्वीरतायाः प्रपिनष्टि पापात् स्मरो मम क्राथयतीद्धबाणः।
कुरु प्रियं तं प्रियमानयन्ती काचिद्वयस्यामिति योषिदूचे॥७०॥

** व्यवहृपणोः समर्थयोः॥५७॥**

पणते हि वणिग्ययाधनानां व्यवहरते मदनस्तथा शराणाम्
हृदयानि वियोगिनां ग्रहीतुं नायातः सखि किं प्रियो ममाद्य॥७१॥

** दिवस्तदर्थस्य॥५८॥ विभाषोपसर्गे99॥५९॥**

मनांसि रत्नप्रतिमानि मानिनां वियोगिनां चाशु जिघृक्षुरादृतः।
मयूखवित्तस्य हिमांशुवाणिजश्चिराय दीव्यत्ययमुल्लसत्करः॥७२॥

** कृत्वोर्थप्रयोगे कालेऽधिकरणे॥६४॥**

सखि तं प्रियमानयाद्य रात्रेः शतकृत्वः प्रणिपत्यमानयासीः(?)।
इति चन्द्रकरोपनीततापा प्रमदोचे वचनं चिराय दूतीम्॥७३॥

** कर्तृकर्मणोः कृति॥६५॥**

सुखस्य दाता विपदामपासकः स यत्र कान्तः सखि तत्र याम्यहम्।
ममेनैवासिकयास्तिकारणं कयाचिदूचेऽबलया सखीजनः॥७४॥

** उभयप्राप्तौ कर्मणि॥६६॥**

आश्चर्यमेवाद्य गतस्य रोषो दूत्यापि तस्यानयनं प्रियस्य
इति ब्रुवाणां प्रथमागतोऽन्यः श्रुत्वाङ्गनामाशु समालिलिङ्ग॥७५॥

** अकाकारयोः प्रयोगे प्रतिषेधो नेति वक्तव्यम्, शेषे विभाषा॥ (वा०)**

विभेदिकेन्दोस्तमसां प्रकामं यथा यथाजायत दिङ्मुखेषु।
तथा तथाभूज्जनमानसानां मनोभवस्यास्खलिता बिभित्सा॥७६॥

** क्तस्यच वर्तमाने॥६७॥ अधिकरणवाचिनश्च॥६८॥**

त्रार्चितं मानमभूज्जनानांथासितं व्योमनि100 शीतभासः
तथैव निन्द्यं विरहाकुलानां रम्यं न सर्वस्य रतिं विधत्ते॥७७॥

** न लोकाव्ययनिष्ठाखलर्थतृनाम्॥६९॥**

परिभ्रमन्नम्बरमध्यमिन्दुः कृत्वा जगदृूरमपान्धकारम्।
आगामुकं कान्तिचयं(?) मुमोच यियासुरस्ताद्रिशिरः क्रमेण॥७८॥

या दुष्करान्येन जगद्विभूतिस्तामिन्दुरुद्यन्कृतवानशेषम्।
कान्ताप्रियाणीति तथास्तमागाद्विधेर्विचेष्टा ह्यगुणान्तरज्ञा॥७९॥

** अकेनोर्भविष्यदाधमर्ण्ययोः॥७०॥**

प्रभातकाले स्वगृहाणि यायिकाः समुत्थितास्तूर्यरवेण योषितः।
पुरोधसे भूमिपतिद्विजन्मने धनानि दायी हुतहव्यवाहनः॥८०॥

** कृत्यानां कर्तरि वा॥७१॥**

गन्तव्यं तव सखि मत्प्रियस्य गेहं
यातव्यं किमुत मयापि चिन्तयेदम्।
इत्यूचे युवतिरचिन्तितक्षपान्ता
नाकालः प्रियजनसंगमस्य कश्चित्॥८१॥

** तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्॥७२॥**

सुप्तोत्थिताः प्रविकसन्नयनारविन्दाः
काश्चित्समा युवतयो नलिनीभिरासन्।
निद्रानिमीलदुरुनेत्रसरोजशोभाः
काश्चित्प्रभातसमये च कुमुद्वतीनाम्॥८२॥

** चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः॥७३॥**

आयुष्यमस्तु नृपतेः स्वजनाय चास्य
भृत्यव्रजस्य कुशलं सुहृदेभूयात्।
अन्तःपुरस्य सुखमेव चिराय चास्तां
प्रातर्द्विजा जगदुरित्थमुपेत्य भूपम्॥८३॥

हितमविरतमुच्चैः कुर्वतः कीर्णकीर्तेः
परमहितजनानामागतिं चागतानाम्।
सुरतचतुरनारीहारिसंभोगभाजः
परिणतिमिति रात्रिस्तस्य भूपस्य भेजे॥८४॥

इति श्रीरावणार्जुनीये महाकाव्ये अनभिहित(द्वितीयाध्यायतृतीय)पादे षष्ठः सर्गः॥६॥

______________

द्वितीयाध्यायचतुर्थपादोदाहरणभूतः सप्तमः सर्गः।

** द्विगुरेकवचनम्॥१॥**

प्रातः पुनरसौ राजा शतराजीवराजितः
विजेता शतराज्यस्य पुण्यापां नर्मदामगात्॥१॥

** द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्॥२॥**

अत्रान्तरे दशग्रीवस्त्रिलोकीजयगर्वितः।
विकरालं शिरोग्रीवं वहद्भिः परिवारितः॥२॥

मार्दङ्गिकपाणविकं गदापरिघपट्टिशम्।
दधानं राक्षससभं विवेश सचिवैः सह॥३॥

** अनुवादे चरणानाम्॥३॥**

उदगात्कठकालापं प्रत्यष्ठात्कठकौथुमम्।
येषां यज्ञे द्विजातीनां तद्विघातिभिरन्वितम्॥४॥

** अध्वर्युक्रतुरनपुंसकम्॥४॥ अध्ययनतोऽविप्रकृष्टाख्यानाम्॥५॥**

पौण्डरीकातिरात्रस्य विचारपटुभिर्वृतम्।
पदकक्रमकेणापि मानुषामिषभोजिना॥५॥

ततो वीरोपलम्भैकव्यापारावृतमानसम्।
प्रविष्टे प्रविवेशास्य तत्सदश्चारमण्डलम्॥६॥

** जातिरप्राणिनाम्॥६॥ विशिष्टलिङ्गो नदीदेशोऽग्रामाः॥७॥**

नुद्ध्यैरावतमुत्तीर्य101 गत्वा दार्वभिसारकम्
धानाशष्कुलि संत्यज्य प्राणिमांसकृताशनम्॥७॥

[अत्र102 पत्रमेकं पतितम्।]

** द्वितीयाटौस्स्वेनः॥३४॥**

पश्यैतमीश्वरं गत्वा मानैनं सुहृदं कृथाः।
सुहृदैतेन को दुःखी सुखी वैनेन कोऽरिणा॥८॥

बाहू करिकराकारौ तस्य यौ तौ क्षमापतेः।
सहस्रता रणो क्षिप्रमेनयोरेव जायते॥९॥

** आर्धधातुके॥३५॥ अदो जग्धिर्ल्यप्तिकिति॥३६॥**

प्राजग्ध्यैव जगत्कृत्स्नं स्थातुकामो दशाननः।
जग्धवानधरं दन्तैः श्रुत्वा तं चारतो नृपम्॥१०॥

** लुङ्सनोर्घस्लृ॥३७॥ घञपोश्च॥३८॥**

जिघत्सावानपि क्रोधान्नाघसत्किंचिदाहृताम्।
अरातितृणघासेषु समाश्वस्य स्थिता मतिः॥११॥

** लिट्यन्यतरस्याम्॥४०॥**

जघासेव दृशा पश्यन्निति श्रुत्वा रिपुं प्रभुः।
नादुः कथंचिदास्यानि बाहूंस्तस्य युगायतान्॥१२॥

** वेञोवयिः॥४१॥**

नीतितन्त्रं ततः प्राप्य बुद्धिसूत्रेण वाक्पटम्।
उवाय सारणस्तस्य ववौ नम्रस्तथा शुकः॥१३॥

** हनो वध लिङि॥४२॥ लुङि च॥४३॥**

यं भृत्योऽपि रिपुं वध्यान् मावधीस्तं स्वयं विभो।
अन्धकारं करव्रातः किं रवेर्न निरस्यति॥१४॥

** आत्मनेपदेष्वन्यतरस्याम्॥४४॥**

मावधिष्ठ भवान्पाणीमाहतोरुं रुषात्मनः।
कियन्तं यत्नमाधत्ते जिघांसुः शशकं हरिः॥१५॥

** इणो गा लुङि॥४५॥ णौ गमिरबोधने॥४६॥ सनि च॥४७॥**

मागास्तत्र स्वयं वीर गमयान्यं निशाचरम्।
का वा जिगमिषा स्थाने तव तत्र महात्मनः॥१६॥

** इङश्च॥४८॥ गाङ् लिटि॥४९॥**

रावणस्य जना यातुराशिषो विजिगांसतः
स्तुतिं चरित्रसंबन्धात्तथाधिजगिरे पुरे॥१७॥

** विभाषा लुङ्लृङोः॥५०॥**

योऽध्यगीष्ट द्विजो वेदान् विद्वानध्यैष्ट चागमान्।
न तावार्चीद्युधे गच्छन् साधुद्वेषी दशाननः॥१८॥

द्यध्यैष्यत नाम्नायं नाध्यगीष्यत वा श्रुतिम्।
राक्षसस्य ततो वृत्तमभविष्यन्न कीदृशम्॥१९॥

** णौ च संश्चङोः॥५१॥**

तत्प्रयाणपटहप्रतिशब्दैरध्यजीगमदिवाशु दिगन्तान्।
प्राध्वनश्च पुरि विप्रगजानामाक्षिपन्नधिजिगापयिषां सः॥२०॥

** अस्तेर्भूः॥५२॥ ब्रुवो वचिः॥५३॥ चक्षिङः ख्याञ्॥५४॥**

भवितव्यमनालोक्य वक्तृभिः सह रावणः।
आख्यातॄणां प्रियं कृत्वा गन्तुं सस्मार पुष्पकम्॥२१॥

** गातिस्थाघुपाभूभ्यः103 सिचः परस्मैपदेषु॥७७॥**

तमर्जुनमहं हन्मि मत्तोऽसौ न बिभेति यः।
इति निश्चित्य चित्तेन त्वरयागाद्दशाननः॥२२॥

सैन्यमास्थात्परो मार्गमदादस्मै घनव्रजः।
घर्माम्भोऽपान्मरुत्तस्य शुभश्चाभूद्दिवाकरः॥२३॥

** विभाषा घ्राधेट्शाच्छासः॥७८॥**

आघ्रादसौ शुभं गन्धं चाटुकारानिलाहृतम्।
माघ्रासीदलिव्रातः पुष्पकामोदवाहनः॥२४॥

यदीयपुष्पकालम्बिपुष्पमालालयं मधु।
अधासीन्मधुहृत्पङ्क्तिरच्छासीदात्मनस्तृषम्॥२५॥

सैन्यवेगमरुद्भिन्नपयोधिजलशीकरान्।
अधाद्यो जलदव्रातः सोऽच्छाद्वर्षं जगत्तृषम्॥२६॥

यानुवेगानिलः सर्पन्नथासाद्यो द्रुमावलीम्।
सा पतन्ती निजच्छायामवासासीत्पतत्फला॥२७॥

** तनादिभ्यस्तथासोः॥७९॥**

अतताम्भोदगम्भीरं यं सेनापटहध्वनिम्।
सोऽब्रवीदिति वातेन मा तथा समरं हसन्॥२८॥

अतनिष्ट मदस्रावं गजता यत्र तामिव(?)।
मातिमात्रं तनिष्ठास्त्वं भृङ्गालीति न तैर्जगौ(?)॥२९॥

** आमः॥८१॥ अव्ययादाप्सुपः॥८२॥ नाव्ययीभावादतोऽम्त्वपञ्चम्याः॥८३॥**

ईक्षांचक्रे प्रभुः सेनां यत्र नागा मदोत्कटाः।
उपमेघपथं याताः संत्यज्योपवनक्षितिम्॥३०॥

** तृतीयासप्तम्योर्बहुलम्॥८४॥**

उपमेघपथेनासौ गच्छन्ती रुद्धभास्करा।
अकालदुर्दिनाटोपमुपलोकं समादधे॥३१॥

** लुटः प्रथमस्य डारौरसः॥८५॥**

गन्तासाविति मदमन्थरं कदेभो नेतारौ कथमरमश्वकौ रथं ते।
गन्तारः कथमिह वल्गणे(ने) रता ये सेनानीरिति निजगौ जनं त्वरावान्॥३२॥

पटुपवननिपातप्रस्तुतानेकभङ्गा
गगनजलधिवीचीवैजयन्तीर्दधाना।
दिवमिव हिमभासा वर्जितामर्जुनेन
द्रुतमथ पुरमापत्सा चमू रावणीया॥३३॥

इति104 रावणार्जुनीये महाकाव्ये द्विगुरेकवचन(द्वितीयाध्यायचतुर्थ)पादे सप्तमः सर्गः॥७॥

____________________

तृतीयाध्यायप्रथमपादोदाहरणभूतोऽष्टमः सर्गः।

ततः पुरी पूर्णमनोरथेन क्षणं दशास्येन दिवि स्थितेन।
व्यलोक्यता चञ्चललोचनेन त्रैलोक्यसंपत्समवाप रम्या॥१॥

** प्रत्ययः॥१॥ परश्च॥२॥ गुप्तिज्किद्भ्यः सन्॥५॥**

जुगुप्सितो यत्र न कश्चिदासीत्सर्वस्तितिक्षासमवेतचेताः।
चिकित्सकः पापमहागदानां नित्यं जनः स्वामिमतानुवर्ती॥२॥

** मान्वधदान्शान्भ्यो दीर्घश्चाभ्यासस्य॥६॥**

मीमांसितो यत्र जनेन नार्थो दीदांसता तत्र धनेन तृष्णाम्।
बीभत्सचित्तैर्न जनैर्युता या शीशांसता स्त्रैणजनेन गुप्ता॥३॥

** धातोः कर्मणः समानकर्तृकादिच्छायां वा॥७॥ सुप आत्मनः क्यच्॥८॥ काम्यच्च॥९॥ उपमानादाचारे॥१०॥**

यियक्षता विप्रजनेन नित्यं स्वर्गीयता सेव्यतयातिरम्या।
गुप्तार्जुनेनाहवकाम्यतामित्रीयतारिं नतमभ्युपेतम्॥४॥

** कर्तुः क्यङ् सलोपश्च॥११॥**

अप्सरायमाणनारीका शक्रायमाणेशरक्षिता।
पापस्य105 मानलावण्यां वेच्या नदीसंहतिं दधौ॥५॥

सिताब्जशुभ्राणि जलानि यस्यां पयायमानान्यवहन्त वाप्यः।
भूभृत्सदाचारनिरस्यमानं कालेयमौजायत नो बलं च॥६॥

** भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः॥१२॥ लोहितादिडाज्भ्यः क्यष्॥१३॥**

पटपटायमानकेतुपटैः शीघ्रायमाणानिलेरितैः।
तपनतापितेव पुरा द्यौर्वीज्यते सर्वदाथ या॥७॥

लोहितायति स्म यद्वारि स्नाताङ्गनादेहकुङ्कुमैः।
लोहितायतेऽरुणपद्मैश्च कस्योन्मनायां न संदधे॥८॥

** कष्टाय क्रमणे॥१४॥ कर्मणो रोमन्थतपोभ्यां वर्तिचरोः॥१५॥ बाष्पोष्मभ्यामुद्वमने॥१६॥**

रक्षता सिंहादिहिंस्रगणान्कष्टायमानान्महीभुजा।
यत्र रोमन्थायमानाभिर्गोभिः सहासते स्म मृगाः॥९॥

तपस्यतां रक्षणमादधानैस्तेजोभिरीशस्य परिस्फुरद्भिः।
ऊष्मायमाणा इव यत्प्रतोली शक्तो न कश्चिद्द्विषतां प्रवेष्टुम्॥१०॥

अङ्गारपूर्णा इव लोहिताब्जैर्धूमैरिवोपर्यलिभिर्भ्रमद्भिः।
बाष्पायमाणा इव वैरिवर्गैर्न लक्षिता यत्परिखा कदाचित्॥११॥

** शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे॥१७॥**

मेघायमानैः सुरधूपधूमैः शब्दायमानैः पटहैश्च मन्द्रैः।
विडम्बयन्तीव बभौ सगर्जंया प्रावृषं नर्तितबर्हिवृन्दाम्॥१२॥

वातायनोत्थागुरुधूमचक्रैरभ्रायमाणैः सुरभीकृताशा।
वैरायमाणैर्बलिनां भटैर्या युक्ता तथाजौ कलहायमाना॥१३॥

** सुखादिभ्यः कर्तृवेदनायाम्॥१८॥ नमोवरिवश्चित्रङःक्यच्॥१९॥ पुच्छभाण्डचीवराण्णिङ्॥२०॥**

सुखायमानेन जनेन युक्ता दुःखायमानस्य न यत्र ढौकः।
चित्रीयते या स्म गुणैरुदारैरुपागता गाममरावतीव॥१४॥

पुरा नमस्यत्यमरानजस्रं गुरुद्विजातीन्वरिवस्यति स्म।
भिक्षुं च संचीवरयानुषक्तं106 प्रार्चीज्जनो यत्र समाधियुक्तः॥१५॥

वेलां पयोधेरिव कीटमुक्ता107 प्रवालशङ्खामलहेमपुञ्जान्।
प्रविश्य वेथी108 वणिजां समूहाः संभाण्डयन्ते स्म चिराय तस्याम्॥१६॥

उद्भूतबालव्यजनाग्रभाजा प्रातर्ध्वजिन्यैव महीपतीनाम्।
गवां समित्या परिनिष्पतन्त्या रेजे सदोत्पुच्छयमानया या॥१७॥

तं109 वीक्ष्य संजातरुषा बभाषे दशाननेनानुतदृष्टिनेति।
शिरांसि निक्षिप्य पुरोऽहमस्याः सालं किमेतं बत खण्डयानि॥१८॥

** मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्॥२१॥**

उत्स्तम्भयानि रजसास्य दिशां मुखानि
क्षिप्त्वाम्बुधौ लवणयानि पुरं नु सर्वम्।

……………………………………………………………………..

……………………………………………………………………….॥१९॥

अन्नानि येऽपि व्रतयन्ति शान्तास्तानप्यतोऽहं गमयानि नासम्।
तथा करोम्येष जनं समग्रं संवस्त्रयत्यत्र यथा न कश्चित्॥२०॥

** धातोरेकाचो हलादेः क्रियासमभिहारे यङ्॥२२॥ नित्यं कौटिल्ये गतौ॥२३॥**

नानन्द्यते योऽत्रभटाभिमानी चङ्क्रम्यते यो विपदे जनानाम्।
प्रब्रूहि तं मद्वचनेन गत्वा शुकार्जुनं गर्जितमात्रसारम्॥२१॥

** लुपसदचरजपजभदहदशगृृभ्यो भावगर्हायाम्॥२४॥**

लोलुप्यसे लोक….नान्यपाता सासद्यसे यत्पुरि110 मय्युपेते।
आटोपमात्राहितलोकभीतिर्दन्दश्यसे सर्प इवावदंष्ट्रः॥२२॥

चञ्चूर्यसे भीरुररे त्वमादौ111 दंदह्यसे त्रासभयेन लोकम्।
बिभेषि चेत्तिष्ठ ततोऽस्तराज्यो जञ्जप्यमानो मुनिवेषधारी॥२३॥

** सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्॥२५॥ हेतुमति च॥२६॥**

सत्पापयामीह शुक प्रयाहि विपाशयाशागुरुपादतो माम्।
निरूपयैनं पुरि यत्र भूपं नार्यः सदोच्चैरुपवीणयन्ति॥२४॥

अनुकूलय जल्पितं समादस्तमुपश्लोकय संयुगाय गत्वा।
अभिषेणयति क्रुधा यथा मां स विदित्वा प्रतियन्तमन्तमाशु॥२५॥

मयि वर्मयति प्रयाहि शीघ्रं बहुशो वर्णय मां द्विषे युयुत्सुम्।
सहसैव ससैनिकं रजोभिस्तमिलाजैरवचूर्णयामि तावत्॥२६॥

** कण्ड्वादिभ्यो यक्॥२७॥**

मम चोरयतीह यः प्रभावं रिपुमानायथ112तं कथंचिदाजिम्।
विदधामि तथा शरौघभिन्नं युधि कण्डूयति येन मेदिनीं सः॥२७॥

प्रहितः प्रभुना(णा) शुकोऽवतीर्य त्वरयाकाशतलात्पुरं प्रविश्य।
अवगम्य तदाश्रयां च वार्तामिति सम्यङ्निजगाद राक्षसेन्द्रम्॥२८॥

** गुपूधूपविच्छिपणिपनिभ्य आयः॥२८॥**

धूपायति तेजसा विपक्षं गोपायति चाशयानशेषान्।
यातः प्रमदासखः स राजा शून्यीकृत्य पुरं विहन्तमेनाम्॥२९॥

विच्छायति को न शून्यमेतत्सिंहेनैव113 वनं पुरं नृपेण।
गोपायितसाररत्नभाण्डं विपणायन्ति वणिग्जनाश्च यत्र॥३०॥

** ऋतेरीयङ्॥२९॥ कमेर्णिङ्॥३०॥**

किं त्वेतमृतीयसे प्रदेशं यत्रासौ नृपतिर्गतो रणाय।
शिशुवृद्धजनावृतामनाथां किमिमां कामयसे पुरीं विहन्तुम्॥३१॥

** आयादय आर्धधातुके वा॥३१॥ सनाद्यन्ता धातवः॥३२॥ स्यतासी लृलुटोः॥३३॥**

गोपायितास्यामपि114 योजितोऽसौ गोप्ताथ वाहं तमरिं विधूय।
किमेनया याहि स यत्र राजा शुकेऽपि115 भर्त्त्रेऽतिवचो बभाषे॥३२॥

जित्वार्जुनं कामयिताहमुर्व्या वध्वा इवैकः कमिता यथासौ।
निर्जित्य मां संयति तुल्यकालं दिवाकरौ द्वौ न दिवं भजेते॥३३॥

ऋतीयितुं तन्निधनं क्षमोऽहं सर्वार्तितुं116 मां समरे नृवीरः।
युधं करिष्यामि तमद्य दृष्ट्वा कर्ता स वाश्वोबहुभिः किमुक्तैः॥३४॥

(आंप्रकरणमितः।)

** कास्प्रत्ययादाममन्त्रे लिटि॥३५॥**

दुष्प्रेक्षाकारः सत्प्रभो भानुमान्वा कासांचक्रेऽसौ प्रस्थितो राक्षसेन्द्रः।
नोनुद्यांचक्रे चण्डवेगेव वात्या सेना गच्छन्ती सर्वतस्तस्य मेघान्॥३५॥

** इजादेश्च गुरुमतोऽनृच्छः॥३६॥**

ईक्षांचक्रे हस्तिदेहप्रमाणा रक्षःसेना दूरतः काश्चिदद्रीन्।
ऊहांचक्रे चापरत्रेति याती दृष्ट्वा पृथ्व्यां स्पन्धदी(?)किं समुद्रः॥३६॥

** दयायासश्च॥३७॥ उषविदजागृभ्योऽन्यतरस्याम्॥३८॥**

दायांचक्रे न सर्पन्ती शैलद्रु117माणां पताकिनी।
पालायांचक्रिरे विहङ्गा द्रु117मभङ्गसंजातभीतयः॥३७॥

आसांचक्रे चन्द्रशीतः पतङ्गो नोषांचक्रुस्तत्करा रावणीयम्।
अत्यासन्नं सैन्यलोकं व्रजन्तं ये दूरस्थानूषुरन्यान्नरेन्द्रान्॥३८॥

चित्तं यदीयं समराय यातुर्विवेद नात्मीयजनोऽपि कश्चित्।
दूरस्थितस्तस्य दुरीहितस्य विदांबभूवुस्त्रिदशाः कथं तु॥३९॥

व्रजतः पथि जागरांचकार स्वयमेवात्मबलस्य नैर्ऋतेन्द्रः।
विनिपातभयात्ततः सशङ्का प्रजजागार दिवानिशं त्रिलोकी॥४०॥

** भीह्रीभृहुवां श्लुवच्च॥३९॥ कुञ्चानुप्रयुज्यते लिटि॥४०॥**

जनता विभयांबभूव यस्या न विभायापरतश्च वाहिनी या।
प्रययौ नभसा तमालनीलावनराजीवविमुक्तसिंहनादा॥४१॥

जुहुवुर्न जना भयेन यस्या नभसा बद्धरुषः समापतन्त्याः।
शतशो जुहवांचकार यैका रणयज्ञे जनतापशूनजस्रम्॥४२॥

परितो बिभरांबभूव हंसाञ्जलवेगं च बभार यातिसत्त्वा।
पृतना गगने समुल्लसन्ती जनितावर्तशतासुरापगेव॥४३॥

** विदांकुर्वन्त्वित्यन्यतरस्याम्॥४१॥**

पथि विदांकुर्वन्तु गत्वाशु क्वायं दशास्यो गमिष्यतीति।
व्यवसितं विदन्तु बत किं वा देवाञ्जगादेति वासवः॥४४॥

(सिजधिकारः।)

** च्लि लुङि॥४३॥ च्लेःसिच्॥४४॥ शल इगुपधादनिटः क्सः॥४५॥**

पताकिनी प्रावृडिवावृतार्का गच्छन्त्योऽकार्षीज्जगदन्धकारम्।
समापतन्त्या मदवारिवृष्ट्या धरामसिक्षद्ग118जवृन्दलीला॥४५॥

** श्लिष आलिङ्गने॥४६॥**

अभ्यर्णसेना भटसिंहनादात्त्रासाकुला सिद्धवधूर्विधूय।
भूभृल्लता पुष्पफलाप्रचायं पतिं समाश्लिक्षदुपान्तिकस्थम्॥४६॥

** न दृशः॥४७॥ णिश्रिद्रुस्रुभ्यः कर्तरि चङ्॥४८॥**

यः सैन्यं सततमनीनयन्महाजिं यं लक्ष्मीर्विभयमशिश्रियत्सुराणाम्।
यस्माच्च त्वरितमदुद्रुवद्विपक्षः सोऽद्राक्षीद्दशवदनः क्रमेण विन्ध्यम्॥४७॥

** विभाषा धेट्श्व्योः॥४९॥**

असुस्रुवद्वारियतोमहाद्रेस्तच्चादधद्यस्य कुलं गजानाम्।
अधादुदन्यं निवहो जनानामधासिषुर्यत्र मृगाः सतृष्णाः॥४८॥

स्वादून119दत्पादपपल्लवाग्रानशिश्वियद्यत्र मतंगजौघः।
दूर्वोपयोगेन सदैव यूथं यत्राश्वयीद्वातमजं मृगाणाम्॥४९॥

(अङधिकारः।)

** अस्यतिवक्तिख्यातिभ्योऽङ्॥५२॥**

यो दृष्टमात्रो दुरितं निरास्थज्जनाय चाख्यन्नपरं परस्मै।
पुष्पाभिलीनैस्तरवः समेता यस्मिन्नवोचन्निव भृङ्गनादैः॥५०॥

** लिपिसिचिह्वश्च॥५३॥**

दिशोऽलिपत्कुञ्जरदानगन्धैर्यश्चासिचन्निर्झरशीकरौघैः।
विश्रान्तिहेतोर्विहगप्रणादैरधन्यमाह्वन्निव यत्र वृक्षाः॥५१॥

** आत्मनेपदेष्वन्यतरस्याम्॥५४॥**

मदेन तुङ्गान्यलिपन्त नागाः कपोलकाषेण तटानि यानि।
तैरेव योऽलिप्त समाश्रितानि द्विरेफवृन्दानि करीव मत्तः॥५२॥

गम्भीरनादाः शिखराग्रलीना यमम्बुपातैरसिचन्त मेघाः।
वाताहतैर्निर्झरशीकरैर्यो मेघायमानो जनतामसिक्त॥५३॥

आह्वास्त वा दुन्दुभिभीमनादैः सेनागजौघो द्विरदान्यदीयान्।
तदप्यसौ ज्ञातनिजाभशक्तिः प्रतिस्वनेनाशु समाह्वतेव॥५४॥

** पुषाद्युताद्य्लृदितः परस्मैपदेषु॥५५॥ सर्तिशास्त्यर्तिभ्यश्च॥५६॥**

उपागमन्यं द्विरदाः सयूथाः सुतानिवैतानपुषत्सदा यः।
आलम्बिता येन सपुष्पभूषा वनाबली व्यद्युतदङ्गनेव॥५५॥

यदाश्रमक्ष्मामसरन्मुनीन्द्रास्तत्राशिषञ्छिष्यगणान्समेतान्।
व्याघ्रादयोऽपि च्युतदुष्टभावा यथा समीपं न कदाचिदारन्॥५६॥

** इरितो वा॥५७॥**

श्रमार्तविद्याधरयुग्मसेव्यैर्यो मेघमार्गं शिखरैररौत्सीत्
सत्त्वोपकाराय पतङ्गपातं वनेन यश्चारुधदुन्नतेन॥५७॥

** जृृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च॥५८॥**

कालेन यातेन महीयसापि स्थिताकृतिर्यो न महानजारीत्
नित्यस्रवद्वारिलवार्द्रभूमौ यत्राजरन्न द्रुमगुल्मवल्ल्यः॥५८॥

रुन्धानः शिखरशतैर्नभोवसित्वादस्ताम्भीन्मुनिवचनेन यः स्वकायम्।
यं पुण्यं सपदि समेत्य सिद्धिलाभान्निःशेषं भवरयमस्तभन्मनुष्यः॥५९॥

अम्लुचन्मदं दशग्रीवो यं रम्यसानुं विलोकयन्।
कुञ्जरव्रजस्तथा न्यम्लोचीद्यत्काननान्यानुपाहतः॥६०॥

वराहदंष्ट्रोल्लिखितं समन्ताद्यत्राश्वदङ्गं महिषव्रजस्य।
मृगेन्द्रदंष्ट्रानखराहतानि सदा शिरांस्यश्वयिषुर्द्विपानाम्॥६१॥

** चिण्तेपदः॥६०॥ दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्॥६१॥**

तपस्यतां यत्र समाधिभाजां ज्ञानं मुनीनामुदपादि सद्यः।
अदीपि दोषापगमेऽपि कायो भास्वानदीपिष्ट यथोदयाद्रौ॥६२॥

संफुल्लनानाद्रुमरम्यसानुर्लोकस्य रम्योऽजनि यो हिताय।
निर्वाणहेतोस्तपसे मुनीनां कान्तासखानां च स भाजनिष्ट॥६३॥

ब्रह्माप्यबोधिष्ट न यस्य सारं सैन्ये जनोऽबोधि कुतस्तमन्यः।
अपूरि यः शृङ्गशतैर्दिगन्ताञ्छृङ्गाण्यपूरिष्ट वनं यदीयम्॥६४॥

सत्त्वानि यो विष्णुरिवैकवन्द्यः श्रीमानतायिष्ट तनुस्थितानि।
अतायि यः स्वं च पुरात्मनोच्चैराप्यायि लोकं च निरीक्ष्यमाणः॥६५॥

** अचः कर्मकर्तरि॥६२॥ दुहश्च॥६३॥**

अकारि यत्रातिथिपूजनं धनं मनोरमश्च स्वयमालयोऽकृतः
अदुग्ध धेनुः स्वयमानताङ्गनं मृगी यथाऽदोहि निरीक्ष्य शावकम्**॥**६६॥

** न रुधः॥६४॥**

अरुद्ध धेनुः स्वयमस्तबन्धनात्तपस्विनां यत्र गृहाङ्गनास्थिता।
तपोऽनुभावोपनतामहात्मनां न कस्य संपन्न करोति विस्मयम्॥६७॥

** तपोऽनुतापे च॥६५॥**

पूर्वं तपोभिः कृततीव्रवेदनः पश्चात्क्रमेणास्तशरीरपाटवः।
न्यस्तोधबाहुः प्रतिसूर्यमुत्सुको यस्मिंस्तपोऽतप्तमुखेन तापसः॥६८॥

** चिण्भावकर्मणोः॥६६॥**

यत्रासि नर्तितविकीर्णकपोलभाजा
कान्तायुतेन पटुनेक्षित तोयदेन।
हंसव्रजेन नलिनीवननन्दितेन
यस्मिन्ननर्ति मधुरं भृशरञ्जितेन॥६९॥

नलकरुचिरदन्तामुल्लसत्सत्तरङ्गां
पुलिनपृथुनितम्बां हंसचारुः प्रयाताम्।
युवतिमिव मनोज्ञां तस्य वंशप्रसूता-
मथ सरितमपश्यन्नर्मदां नैर्ऋतेशः॥७०॥

इति रावणार्जुनीये महाकाव्ये प्रत्यय(तृतीयाध्यायप्रथम)पादेऽष्टमः सर्गः॥ ८॥

________________

नवम सर्गः।

(सार्वधातुकाधिकारः।)

** सार्वधातुके यक्॥६७॥**

अवलोकयता यदास्यतारादशवक्त्रेण नदीं तदा शुकेन।
समभास्यत वाक्यमित्थमीशः प्रियतामेति हि चित्तविन्न कस्य॥१॥

** कर्तरि शप्॥६८॥ दिवादिभ्यः श्यन्॥६९॥**

इयमद्रिपतेः सुरापगेव प्रभवत्यम्बुविधूतलोकपापा।
पवनोच्छलितैर्जलैः स्पृशन्ती तटजातैः सह दीव्यतीव वृक्षैः॥२॥

** वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः॥७०॥**

भ्रमतीव करी पयः पिपासुस्तमनुभ्राम्यति कर्णतालुनुन्नः।
भ्रमरो मदवाञ्छयास्तपद्म क्रियते केन न दुर्लभे विलासः॥३॥

आक्रामति मत्स्यमुग्रनक्रोमकरः क्राम्यति नक्रमत्तुकामः।
बलवान्बलवत्तरस्य गम्यः पयसीह च्युतभूभृतीव राष्ट्रे॥४॥

त्रुटति प्रसृतिर्न वारिणो120ऽस्या न त्रुट्यत्युदके तु पद्मषण्डः**।**
न च पद्मवने विनात्र हंसान्न च हंसः स्मरतीह मानसस्य॥५॥

कुरुते(?)स्तमति121प्रसद्य नैनां दुरितं त्रस्यति स(म)ज्जतोऽत्र पुंसः।
मनुषोऽभिलष122त्कृती सदैनामभिलष्यन्ति तमीक्षतेऽपि योऽमुम्॥६॥

** यसोऽनुपसर्गात्॥७१॥ संयसश्च॥७२॥**

संयसति पलायितुं द्विपेन्द्रस्तं संयस्यति हन्तुमेष सिंहः।
वपुषातिमहान्तमल्पकायो न हि शौर्यं गणयत्यरेर्महत्त्वम्॥७॥

** स्वादिभ्यः श्नुः॥७३॥ श्रुवः शृच॥७४॥**

चिनोति शुभानि यः शृणोति प्रवरायाः सरितो गुणानमुष्याः।
परिपश्यति यः पुनः सदैनां पुरुषार्थः123 कृत एव तेन मन्ये॥८॥

** अक्षोऽन्यतरस्याम्॥७५॥ तनूकरणे तक्षः॥७६॥**

अक्ष्णोति वपुः शुभेन दृष्ट्याचित्तान्यक्षति देहिनां मुदा च।
निस्तक्षति नांशुमान्पयोऽस्या न च तक्ष्णोति पुरः सरोरुहाणि॥९॥

** तुदादिभ्यः शः॥७७॥ रुधादिभ्यः श्नम्॥७८॥ तनादिकृञ्भ्य उः॥७९॥**

नलिनीं वनकुञ्जरं तुदन्तं रुन्धन्वारिकरी समेत्य रुष्टः।
वितनोति रणं परैरलङ्घ्यंकथयन्देशबलं तवेश नद्याम्॥१०॥

** धिन्विकृण्व्योर च॥८०॥ क्र्यादिभ्यः श्ना॥८१॥**

प्रीणाति पितॄन्पयोभिरस्याः फलमूलैश्च धिनोति तीरलुब्धैः।
शत्रूंश्च कृणोति नासिपाणीन्कुर्वाणोऽत्र तपांसि सिद्धलोकः॥११॥

** स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च॥८२॥**

स्नातुं करिणः स्कुनोति तप्तान्निर्वाणाय मुनीन्स्कुनाति नित्यम्।
मातेव हितैककारिणीयं सत्त्वानां पयसा विराजमाना॥१२॥

** हलः श्नः शानज्झौ॥८३॥**

पद्मानि गृहाण निर्विशङ्कं संपन्नानि बिसान्यमून्यशान
स्नानाय124 मुनिव्रजानुपेतान्यातीवाह125 विहङ्गमन्द्रनादैः॥१३॥

** कर्मवत्कर्मणा तुल्यक्रियः॥८७॥ तपस्तपःकर्मकस्यैव॥८८॥**

मन्ये रविणा विनाप्यमुष्या भिद्यन्ते स्वयमेव पद्मषण्डाः।
पुण्येयमिदं गृहाण यस्यां तप्यन्ते मुनयस्तपांसि नित्यम्॥१४॥

** न दुहस्नुनमां यक्चिणौ॥८९॥**

एषोभयतस्तटीः स्रवन्ती दुग्धे धेनुरिव स्वयं सदास्याः।
एनामिह वीक्ष्य तीरभाजो गावः प्रस्नुवते स्वयं चरन्त्यः॥१५॥

शोभामलकावली126व नार्या विदधाना सजलाम्बुवाहलीला।
नमते फलभारमन्तरेण स्वयमस्यास्तु तटद्रुमावलीयम्॥१६॥

** कुषिरजोः प्राचां श्यन्परस्मैपदं च॥९०॥**

विविधद्रुमरम्यरोधसीह ध्वनतो रज्यति बर्हिणस्य कण्ठः।
स्वयमेव समुत्सुकं नराणां हृदयं कुष्यति वा वियोगभाजाम्॥१७॥

(कृत्याधिकारः।)

** तव्यत्तव्यानीयरः॥९६॥ अचो यत्॥९७॥ पोरदुपधात्॥९८॥**

कर्तव्यमशेषमत्र नद्यां करणीयं तव मज्जनादि युक्तम्।
**जेय127**श्च127 परिश्रमोऽमुना ते लभ्यः पुण्यचयः सुखेन चाशु॥१८॥

** शकिसहोश्च॥९९॥ गदमदचरयमश्चानुपसर्गे॥१००॥ अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु॥१०१॥ वह्यं करणम्॥१०२॥**

स्नातुं भवतैव शक्यमस्यां सह्यं यस्य परेण नैव वीर्यम्।
गद्यं गदितं त्वया न मिथ्या मिथ्या जल्पति योऽत्र पीतमद्यः॥१९॥

चर्यां तव वेत्ति को रिपूणां नायम्यो जगतीह यस्य कश्चित्।
अनवद्यविचेष्टितोऽसि गृह्या न हि वर्याः सह ये त्वया निरुद्धाः॥२०॥

वह्यं समवाप्य पुष्पकं या संग्रामात्समवाह्यत प्रसह्य।
लक्ष्मीः कृतिना कृता त्वया सा पण्यस्त्रीव समग्रलोकभोग्या॥२१॥

** अर्यः स्वामिवैश्ययोः॥१०३॥ उपसर्या काल्या प्रजने॥१०४॥**

अर्येण सुरक्षिता त्वया या सिस्नासुः पृतनाद्य विन्ध्यनद्याम्।
अनिवर्तितुमि128च्छतीश नासावुपसर्या वडवेव कालमाप्तम्॥२२॥

** अजर्यंसंगतम्॥१०५॥ वदः सुपि क्यप् च॥१०६॥ भुवो भावे॥१०७॥**

पयोधिना सार्धमजर्यमाप्तं ययेश सेयं प्रवरापगा स्यात्।
मिथ्योद्यमे तन्नहि सत्यवद्यं स्नात्वा नरो गच्छति देवभूयम्॥२३॥

** हनस्त च॥१०८॥ एतिस्तुशास्वृदृजुषः क्यप्॥१०९॥ ऋदुपधाच्चाक्लृपिचृतेः॥११०॥ ई च खनः ॥१११॥**

स्नानादियं पुण्यतमा जनानां न ब्रह्महत्यामपि नोच्छिनत्ति।
स्नुत्या सदेत्या च ततः प्रयत्नाज्जुष्या गुरोर्मूर्तिरिवेह शिष्यैः॥२४॥

आदृत्यमेतद्भवता वचो मे प्रावृत्यमस्यास्तटमाशु सैन्यैः।
गृध्यं च ते मज्जनमत्र पुण्यं खेयं च कूलं करिभिस्तवास्याः॥२५॥

** भृञोऽसंज्ञायाम्॥११२॥ मृजेर्विभाषा॥११३॥**

वाञ्छत्ययं संप्रति भृत्यलोको नादेयदम्भः129 परिमृज्यमंहः
गजाङ्गधूलीपरिमार्ग130दक्षं युष्मन्मतिः स्नातुमुपादधातु॥२६॥

** राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः॥११४॥ भिद्योद्ध्यौ नदे॥११५॥ पुष्यसिध्यौ नक्षत्रे॥११६॥**

राजसूयक्रतुयाजिघाती निजप्रभावाहतसूर्यतेजाः।
अकृष्टपच्यक्षितिमस्य131भोजी तस्यामृषोद्यं वचनं नुनाव॥२७॥

अव्यथ्यशक्तिर्बहुकुप्यधामा रुच्यां नदीं सस्पृहमीक्षते यः।
भिद्योद्ध्यतो132 येऽधित मत्प्रवाहं भीतानुकूलस्थितिपुष्यसिध्यात्(?)॥२८॥

** विपूयविनीयजित्या मुञ्जकल्कहलिषु॥११७॥**

स्फुरद्विपूयायतमेखलाङ्गा विमुक्तजित्यादिकृषिप्रपञ्चाः।
रक्षोश्वयुग्यद्विपरुद्धतीरां विप्रा नदीं प्रोज्झ्य ययुर्भयेन॥२९॥

** पदास्वैरिबाह्यापक्ष्येषु च॥११९॥ विभाषा कृवृषोः॥१२०॥ युग्यं च पत्त्रे॥१२१॥**

मन्त्रान्सगृह्यैकपदान्पठन्तस्ते ग्रामगृह्याः सहसाप्यमुञ्चन्।
देवैकगृह्यां मुनयो नदीनामकृत्यकार्यप्रवणैरुपेताम्॥३०॥

** अमावस्यदन्यतरस्याम्॥१२२॥**

मकरयुक्तमीनराशियुता रात्रिंचरव्याप्तदिङ्मुखा।
द्रुतममावास्येवातटा मुदं चक्रे नदी तामसं तदा॥३१॥

** ऋहलोर्ण्यत्॥१२४॥ ओरावश्यके॥१२५॥ आसुयुवपिरपिलपित्रपिचमश्च॥१२६॥ आनाय्योऽनित्ये॥१२७॥ प्रणाय्योऽसंमतौ॥१२८॥**

निशाचरौघस्तटमेत्य नद्याः कुर्वन्न कार्याणि पचन्न पाक्यम्।
लुनन्न लाव्यानि वनानि चक्रे पूर्वप्रणाय्यः कदनं मुनीनाम्॥३२॥

आनाय्यविध्वंसकृदीति वाच्यो निस्त्राप्यचेताः खललोकलाप्यः।
आचाम्यहीनः कृतभीतिराप्यश्चचार तत्र क्षणदाचरौघः॥३३॥

** पाय्यसांनाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु॥१२९॥**

अपाय्यदोषा जनतानिकाय्याः प्रविश्य रक्षाः परिधूय धाय्याः
सान्नाय्यविध्वंसकृतो विचेरू रक्षोगणास्तत्र निरस्तशङ्कम्॥३४॥

** क्रतौ कुण्डपाय्यसंचाय्यौ॥१३०॥ अग्नौ परिचाय्योपचाय्यसमूह्याः॥१३१॥ चित्याग्निचित्ये च॥१३२॥**

अयत्नविध्वंसितकुण्डपाय्यः संचाय्यनाशी स निशाचरेशः।
निवेशयामास नदीसमीपे कृताग्निचित्यां पृतनां तदानीम्॥३५॥

कृत्वा द्विजा मासि हुतान्समूह्यानन्ये निशाटोपहतोपचय्याः
अन्येऽपि केचित्परिचाय्यहीना रक्षोभयेन त्वरया प्रणेशुः॥३६॥

** ण्वुल्तृचौ॥१३३॥ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः॥१३४॥ इगुपधज्ञाप्रीकिरः कः॥१३५॥ आतश्चोपसर्गे॥१३६॥**

ओङ्कारकं शात्रवसैन्यभीतेर्भेत्तारमद्रीन्द्रशिलातटानाम्।
आनन्दनं भृङ्गगणस्य दानै रक्षांस्यबध्नंस्तरुषु द्विपौघम्॥३७॥

उत्साहिनोऽन्ये प्रविबध्यमानान्पचा बभूवुः पिशितस्य योधाः।
मतङ्गजं विक्षिपमित्यकानां विज्ञो नयस्याशु शमं निनाय॥३८॥

कृत्वा गजेन्द्रं विलिखं तटानां भूधूलिराशेर्विकिरं करेण।
प्रियं प्रभोः पीतजलं ततोऽन्यः सुस्थं बबन्धाग्रतरौ क्रमेण॥३९॥

** पाघ्राध्माधेट्दृशः शः॥१३७॥**

उज्जिघ्रमुर्व्याः प्रविवेष्टुकामं प्रवेष्टितं धूतसटाकलापम्।
अश्वं जनस्यो133त्पिबमाशु निन्ये नदीजलानां स्वयमुद्वहो134ऽन्यः॥४०॥

शीघ्रं प्रण(न)ष्टस्य निशाविहारी चिराय बभ्राम हरेर्द्विपस्य।
संज्ञार्थमात्मीयजनस्य नान्यः शङ्खस्य गेहे चिरमुद्यमो135ऽभूत्॥४१॥

** अनुसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च॥१३८॥**

केचिद्बभूवुर्भवनस्य लिम्पा विन्दाः पथां चाशु जनस्य जग्मुः।
उदेजयो भृत्यजनस्य यश्च कृताकृतानां स हि चेतयोऽभूत्॥४२॥

ये धारयाः शातमहायुधानां ये पारया दारुणसाहसानाम्।
ये वेदयास्तत्र च सेवकानां ते रक्षिणः सर्वत एव तस्थुः॥४३॥

यः सातयः शात्रवविक्रमाणां यः साहयः सर्वजनेऽनुभू136तः।
दशाननो वीक्ष्य चमूं निविष्टां स पुष्पकाद्भूमिमवाततार॥४४॥

** ददातिदधात्योर्विभाषा॥१३९॥**

ददो भयानामरिमानसस्य दायः सुखानां सततं सुहृद्भ्यः।
धायश्च शौर्यस्य ततो137 विभूतेर्विवेश राजा सगृहं दशास्यः॥४५॥

** ज्वलितिकसन्तेभ्यो णः॥१४०॥ श्याद्व्यधास्रुसंस्व्रतीणवसावहृलिहश्लिषश्वसश्च॥१४१॥ दुन्योरनुपसर्गे॥१४२॥ विभाषा ग्रहः॥१४३॥**

ज्वालं बलं तद्रिपुमानसानां ज्वलं न तत्राभवदस्य किंचित्।
द्व्याधचक्रोपममुग्रभीतिं चकार दैवेन कमण्डलस्य॥४६॥

कृत्वा वसायं करिणो लतानां श्वासानिलं कोमलपल्लवानाम्।
पश्चादसिञ्चन्करशीकरौघैः शीतैरवश्यायकणैरिवार्ताः॥४७॥

दवाविनाशाय वनद्रुमाणां निशाचरा नाथविमुक्तवित्ताः।
ग्राहा जले मत्स्यविघातदक्षा दिवि ग्रहा राहुसमानचाराः॥४८॥

दावहारं रजसां भवन्तः शेषं द्रुमाणां वपुषा प्रपन्नाः।
संस्रावभाविर्दधतो गजेन्द्रा दानाम्भसां शैलरुचिं प्रतेनुः॥४९॥

** गेहे कः॥१४४॥ शिल्पिनि ष्वुन्॥१४५॥ गस्थ-**

** कन्॥१४६॥ ण्युट् च॥१४७॥ हश्च व्रीहिकालयोः॥१४८॥ प्रुसृल्वःसमभिहारे वुन्॥१४९॥ आशिषि च॥१५०॥**

गृहानि(णि) ते नर्तकनायकाढ्याः स्त्रीभिर्वृताः षोडशहायनीभिः
संसेव्यमानः सुरगायनौघैःनन्दकस्तत्र दशाननोऽभूत्॥५०॥

प्रवकलवकलोकसेव्यमानः सरकजनाहृतसर्वलोकवार्तः।
विविधपिशितहायनान्नयोजीद्रजनिचरो रजनीर्निनाय तत्र॥५१॥

सजलजलदजालश्यामलं बिभ्रदङ्गं
सरलविहितबाहू राजमानः शिरोभिः।
उषसि विहितकृत्यः सोऽञ्जनाद्रीयमाणः
सरितमुपजगाम स्नातुकामो दशास्यः॥५२॥

इत्यर्जुनरावणीये महाकाव्ये महाकविभट्टभीमकृते प्रत्ययपादे पाश्चार्धेनवमः सर्गः।

________________

दशमः सर्गः।

** कर्मण्यण्॥१॥ ह्वावामश्च॥२॥**

मांसशीलः परकाण्डलावो महाभटाह्वायकतन्त्रवायः
पुलस्त्यपौत्रः परशक्तिमायः प्रातर्नदीं स्नातुमपाजगाम॥१॥

** आतोऽनुपसर्गे कः॥३॥ सुपि स्थः॥४॥ तुन्दशोकयोः परिमृजापनुदोः॥५॥ प्रे दाज्ञः॥६॥**

परप्रमाथी भयदः सुरेभ्यः सुखप्रदः संश्रितबान्धवेभ्यः।
प्रियस्य शोकापनुदः समस्थः प्रायात्पथिप्रज्ञपुरःसरोऽसौ॥२॥

** समि ख्यः॥७॥ गापोष्टक्॥८॥ हरतेरनुद्यमनेऽच्॥९॥ वयसि च॥१०॥ आङि ताच्छील्ये॥११॥ अर्हः॥१२॥ स्तम्बकर्णयो रमिजपोः॥१३॥ शमि धातोः संज्ञायाम्॥१४॥**

अमुत्रगैः संयुगवीरसंख्यैः समाश्रितः शीधुपराक्षसैश्च।
विभूतिमानंशहरैर्विहीनः समन्ततः शक्तिहरैरुपेतः॥३॥

सुखाहरात्मा सरितं प्रपेदे स्तम्बेरमापेतमदाविलापाम्।
भवस्य पूजार्थतनोः138 स्तवार्थं कर्णेजपोपाहितदेववैरः॥४॥

यस्य तुन्दपरिमृजा न जना नित्यं रणोत्साहशालिनः।
पयसि मज्जनाश्रिताः परितो द्विपकच्छपाः पातालसंकुले॥५॥

** अधिकरणे शेतेः॥१५॥ चरेष्टः॥१६॥ भिक्षासेनादायेषु च॥१७॥ पुरोऽग्रतोऽग्रेषु सर्तेः॥१८॥**

आक्रान्तविश्वो गिरिशानुभावाद्भिक्षाचरान्वैरिजनान्दधानः।
सेनाचरध्वंसनतीव्रशक्तिरग्रेसरः साहसिकव्रजस्य॥६॥

** पूर्वे कर्तरि॥१९॥ कृञो हेतुताच्छील्यानुलोम्येषु॥२०॥**

विभीतिरादायचरो महासिर्यः संयुगे पूर्वचर139स्तपस्वी।
लङ्काजनप्रीतिकरोरुशक्तिर्भेजे पयः प्रेष्यकरानुयातः॥७॥

** दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु॥२१॥ कर्मणि भृतौ॥२२॥**

करप्रतानेन दिवाकरो वा दिवं स राजा सरितं जगाहे।
प्रभाकरेणास्य शरीरधाम्ना विभाकरोऽकारि निशाकरो वा॥८॥

देवापदामादिकरो य एष नान्दीकरश्चक्षणदाचराणाम्।
महाभुजक्षोभितवारिभाजां स यादसामन्तकरो बभूव॥९॥

धनुष्करा ये समरेष्ववीराः सेवार्थमिन्द्रेण पुरा नियुक्ताः।
ते किंकराः क्षेत्रकरा इवैत्य स्नातुं तमावृत्य चिराय तस्थुः॥१०॥

तस्यानुकूलं मृदवःप्रवान्तः समीरणाः कर्मकरा इवासन्।
ईषत्करो यस्य नवाह्वशक्तेर्मतेपरश्चित्तकरो न यस्मात्॥११॥

** न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु॥२३॥**

वैरकारो भवदानतारेर्न मन्त्रकारः स्वधिया विधातुः।
श्लोककारैरभिनूयमानो ममज्ज तत्राम्भसि चाटुकारैः॥१२॥

संक्षोभितं तेन बभूव नद्याः स्स्वलज्जलं रोधसि शब्दकारम्
उत्साहितेनामरसूत्रकारैर्दृप्तेन रात्रिंचरसाधुकारैः॥१३॥

** स्तम्बशकृतोरिन्॥२४॥**

वेगेन तेनातिविमन्थ्यमानं दिग्वारणेनेव यथेच्छमम्भः।
आसीत्कृतच्छायमपेतपद्मं क्षेत्रं च्युतस्तम्बकरीव नद्याः॥१४॥

** हरतेर्दृतिनाथयोः पशौ॥२५॥ फलेग्रहिरात्मंभरिश्च॥२६॥ एजेः खश्॥२८॥ नासिकास्तनयोर्ध्माधेटोः॥२९॥ नाडीमुष्ट्योश्च॥३०॥ उदि कूले रुजिवहोः॥३१॥ वहाभ्रे लिहः॥३२॥**

मज्जन्तमेकं जनमेजयं तं स्तनंधयानामपि नाशकारी।
वहंलिहानां निवहो गवां वा निशाचराणां परिवार्य तस्थौ॥१५॥

संत्रासिताशेषफलेग्रहिर्द्विजः संमानितात्मंभरिराक्षसव्रजः।
कुर्वन्सरिद्वारिसकूलमुद्रुजं सस्नौप्रवेशेन च कूलमुद्वहः॥१६॥

** परिमाणे पचः॥३३॥ मितनखे च॥३४॥ विध्वरुषोस्तुदः॥३५॥**

द्रोणंपचास्तत्र मितंपचा वा येऽरुंतुदा देहभृतां निशाभ्यः।
विधुंतुदाश्चापि गृहीतचापाः स्नातुं प्रभुं ते परिवार्य तस्थुः॥१७॥

** असूर्यललाटयोर्दृशितपोः॥३६॥**

भयादसूर्यंपश्योऽपि दधौ पातालवासी जनो यतः।
यस्य यातः संमुखीनमपि नासील्ललाटंतपो रविः॥१८॥

** उग्रंपश्येरंमदपाणिंधमाश्च॥३७॥ प्रियवशे वदः खश्॥३८॥ द्विषत्परयोस्तापेः॥३९॥ वाचि यमो व्रते॥४०॥**

निद्राभाजो जाग्रतो वाग्र्यशक्तेरासीना त्वामज्जतो वाप्सु नद्याः।
के वा नाम …….. त्रासमागादुग्रंपश्याश्चक्रिरे यत्तपांसि॥१९॥

इरंमदाभोगगतः स वीरस्ततः सरित्तस्तरसोत्ततार।
प्रियंवदाग्रेसरकथ्यमाननाडिंधमः सैकतमाससाद॥२०॥

वशंवदोपाहितधौतवामा द्विषंतपस्तत्र पुरोऽभिवीक्ष्य।
परंतपः पार्थिवमीशलिङ्गं वाचंयमस्तं परिवार्य तस्थौ॥२१॥

** पूःसर्वयोर्दारिसहोः॥४१॥**

सर्वंतुदं तैः कुसुमैस्तमीशं पुरंदरस्यार्चितमर्चयित्वा।
प्रज्ञुः पुनः प्रीतिकरोरुचेता दशाननः साञ्जलिरित्युवाच॥२२॥

ब्रह्मादिभिः संस्तुतमप्यजस्रं संस्तोतुमीशेति यदुद्यतोऽहम्।
सर्वंसहोऽसीति तदेकमान्यस्त्वं भक्तिहार्यो न गुणैर्न वक्तुः॥२३॥

** सर्वकूलाभ्रकरीषेषु कषः॥४२॥**

सर्वंकषा ते तनुरेष वायुरभ्रंकषश्चास्ततमाः पतङ्गः।
कूलंकषंवारि च वारिधीनां विश्वंभरेयं च सवह्निचन्द्रा॥२४॥

** मेघर्तिभयेषु कृञः॥४३॥ क्षेमप्रियमद्रेऽण्च॥४४॥**

मेघंकरस्त्वं जनजीविकार्थमृतिंकरो मुक्तिमुपेयुषां च।
भयंकरं दक्षिणमाननं ते क्षेमंकरं प्राणभृतां तथापि॥२५॥

प्रियंकरा ये तव भक्तिमात्रा त्वं क्षेमकारो विधुरेष तेषाम्।
अर्चन्ति ये त्वां प्रियकारमीशं यथार्थितांस्ते विषयांल्लभन्ते॥२६॥

मद्रंकरा ये कमलासनाद्यास्तेषामपि त्वं भव मद्रकारः।
अर्चन्ति येऽनन्यजनाः सुराणां तेषामपि त्वं वरदार्चनीयः॥२७॥

** आशिते भुवः करणभावयोः॥४५॥**

जनो नमस्यन्निह लिङ्गमीशितुः फलानि कृत्वा चिरमाशितंभवम्
तपोभिराधूतसमस्तकल्मषं प्रयाति धामेश तवैव शाश्वतम्॥२८॥

** संज्ञायां भृतृृवृजिधारिसहितपिदमः॥४६॥**

द्विजातिलोकैरुपगीयसे त्वं शुभेन साम्नेश रथन्तरेण।
पतिंवरा त्वां समवाप गौरी किं नाम यत्तत्तपसां दुरापम्॥२९॥

शत्रुंतपःस्यो यदि ते परः स्यादरिंदमो वापि भवेदरिश्चेत्।
त्वं देव सर्वस्य तवापि सर्वंभेदोऽत्र यः संवृतिमात्रमेतत्॥३०॥

विनिर्जितात्मेन्द्रियशत्रुवर्गंशत्रुंसहं त्वां न वदन्ति लोकाः।
धुरंधरोऽसीति जनेन गीतस्तथेश संहारकरो युगानाम्॥३१॥

** गमश्च॥४७॥ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः॥४८॥**

त्वमन्तगः सच्चरितो गुणानां त्वं पारगो ज्ञानमहार्णवस्य।
सन्मार्गदेशी त्वमिहाध्वगानां सर्वत्रगा ते भ्रमतीह कीर्तिः॥३२॥

** आशिषि हनः॥४९॥ अपे क्लेशतमसोः॥५०॥ कुमारशीर्षयोर्णिनिः॥५१॥**

त्वां प्राप्य भूयासमरातिहोऽहं क्लेशापहः सर्वतमोपहश्च।
……………..यदि शीर्षघाती कुमारघाती च सुरप्रियस्य॥३३॥

** लक्षणे जायापत्योष्टक्॥५२॥ अमनुष्यकर्तृके च॥५३॥ शक्तौ हस्तिकपाटयोः॥५४॥ पाणिघताडघौ शिल्पिनि॥५५॥**

स्यान्मे पतिघ्नीरिपुमन्त्रिसेना जायाघ्नमीक्षेय विपक्षलोकम्।
हस्तिघ्नवीर्या मम सन्तु भृत्यास्तथा कवाटघ्नबलोपपन्नाः॥३४॥

श्लेष्मघ्नपित्तघ्नगदादिहीनं सदास्तु मे देव शरीरमेतत्।
संसेवितः पाणिघताडघैश्च सुखं वसेयं भवतः प्रसादात्॥३५॥

** आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्॥५६॥**

पूष्णो यदन्धंकरणं चिराय क्षिप्रं च नग्नंकरणं रिपूणाम्।
कान्तं यदाढ्यंकरणं जनानां वन्दे तदेकं तव देव रूपम्॥३६॥

** कर्तरि भुवः खिष्णुच्खुकञौ॥५७॥**

आढ्यंभविष्णुर्निधनो यदस्मिन्नग्नंभविष्णुश्च धनान्वितोऽपि।
प्रियंभविष्णुश्च यदप्रियोऽपि प्रभुर्भवान्कारणमत्र नान्यत्॥३७॥

आराध्यते वन140पादयुग्मं सुभगंभावुकतां चिराय नैकाम्।
पुरुषा वनिताशतोपभोग्यामाढ्यंभावुकतामपि प्रयान्ति॥३८॥

** स्पृशोऽनुदके क्विन्॥५८॥ ऋत्विग्दधृक्स्रग्दिगुष्णि-**

** गञ्चुयुजिक्रुञ्चां च॥५९॥ त्यदादिषु दृशोऽनालोचने कञ्च॥६०॥**

ऋत्विक्तनोस्ते गगनस्पृशोऽहं गुणस्रजः किं वचसा सृजामि।
अस्मादृशां मन्दधियां न नुत्या भक्त्यैव तुष्यन्ति भवादृशा हि॥३९॥

** सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्॥६१॥ भजो ण्विः॥६२॥ अदोऽनन्ने॥६८॥ क्रव्ये च॥६९॥ दुहः कब्घश्च॥७०॥ अन्येभ्योऽपि दृश्यन्ते॥७५॥ क्विप् च॥७६॥ स्थः क च॥७७॥**

धर्मच्छिदां दुर्गतिमात्रभाजां लोकद्विषामात्महितद्रुहां
सन्मार्गदस्त्वं भवसीह नित्यं पितेव चित्तेन कृपायुजेश॥४०॥

महीजितां स्वर्गसहां स चेयं भक्त्युन्मुखानां फलभोजिनां च।
संपूजिता शास्त्रसुवस्तनुस्ते संजायते कामदुघेश्वरस्य॥४१॥

** सुप्यजातौ णिनिस्ताच्छील्ये॥७८॥ कर्तर्युपमाने॥७९॥ व्रते॥८०॥ बहुलमाभीक्ष्ण्ये॥८१॥ मनः॥८२॥ आत्ममाने खश्च॥८३॥**

उपास्यते किंनरगायनीभिः स्त्रीभिः सहादर्शनमानिनीभिः
तपस्विभिः स्थण्डिलशायिभिश्च यथार्थिताशेषफलप्रदायी॥४२॥

शोभनंमन्यौ पुराजहरी यावद्भवन्तं न पश्यतः।
विगतगर्वावीक्षते जातौ त्वयि लिङ्गरुद्धोर्ध्वभूमीतले॥४३॥

** भूते॥८४॥ करणे यजः॥८५॥ कर्मणि हनः॥८६॥**

अश्वमेधयाजिनोऽभूवंस्त्वय्यप्रसन्ने कुतो जनाः।
मातृघातिनोऽपि चाशुद्धिं नैवानतास्त्वामुपागताः॥४४॥

** ब्रह्मभ्रूणवृत्रेषु क्विप्॥८७॥**

त्वां ब्रह्महभ्रूणहनावुपेतौ मध्ये भवेतां प्रणिपत्य पूतौ।
तथाश्वमेधेन विशुद्धदेहः स वृत्रहाभूद्दिवि देवराजः॥४५॥

** सुकर्मपापमन्त्रपुण्येषु कृञः॥८९॥ सोमे सुञः॥९०॥ अग्नौ चेः॥९१॥ कर्मण्यग्न्याख्यायाम्॥९२॥**

ततः स्तुतिं पुण्यकृतः प्रकुर्वतः प्रतीपमागत्य महानदीभुवः।
व्यकीर्यतार्चा सुकृतः पिनाकिनः क्षणेन सा पापकृतेव वारिणा॥४६॥

कृताग्निचित्सोमसुदापगापगः समाधिमुत्सृज्य पिनाकिकर्मकृत्
स्वमन्त्रिणः श्येनकृदग्निनाशनः किमेतदित्याह पुरा स विस्मयः॥४७॥

** कर्मणीनिविक्रियः॥९३॥ दृशेः क्वनिप्॥९४॥**

कृतान्तहस्ते करुणाविहीनो मुधैव को बान्धवविक्रयीह।
कर्मेदृशं येन कृतं विरुद्धं यन्नेह कुर्यात्परलोकदृश्वा॥४८॥

** राजनि युधिकृञः॥९५॥**

राजयुध्वना मया साकं को राजकृत्वाद्य युध्यते।
वारिसिन्धोर्यः प्रतीपयति मयि सैकतोत्सङ्गवर्तिनि॥४९॥

** सहे च॥९६॥**

प्रतिलोमगमास्वयं नु रेवा ध्रुवमेतत्कृतमद्य सागरेण।
स कथं पयसां भविष्यतीशः सहकृत्वाद्य मया विधेर्विरोधम्॥५०॥

सुचिरमिति वितर्क्य क्रोधरक्तान्तनेत्र-
स्त्रिदशभयविधायी निश्वसन्नैर्ऋतेशः।
त्वरितगतिरुपेहि ज्ञातुमेतन्निमित्तं
शुकमिति गिरमूचे संभ्रमान्नम्रमूर्तिम्॥५१॥

इत्यर्जुनरावणीये महाकाव्ये वैयाकरणवरभट्टभीमकृते कर्मण्यण्पूर्वपादे दशमः सर्गः।

_______________

एकादशः सर्गः।

** सप्तम्यां जनेर्डः॥९७॥ पञ्चम्यामजातौ॥९८॥ उपसर्गे च संज्ञायाम्॥९९॥ अनौ कर्मणि॥१००॥ अन्येष्वपि दृश्यते॥१०१॥ निष्ठा॥१०२॥ सुयजोर्ङ्वनिप्॥१०३॥ जीर्यतेरतृन्॥१०४॥**

सरितां राजमार्गेण दग्धजो लयशालिना।
प्रतस्थे द्विजमुक्तेन स नम्रः सानुजः शुकः॥१॥

संत्यक्तं दृष्टवान्भीतैः सुत्वभिर्यज्वभिर्द्विजैः।
तत्क्वापि जरदावासं क्वचिच्चारुनवोटजम्॥२॥

** भाषायां सदवसश्रुवः॥१०८॥ उपेयिवाननाश्वाननूचानश्च॥१०९॥**

अनूषिवाननूचानमुनिलोको यमाश्रमम्।
तं पश्यन्गतवांश्चाप्तं यमसावनुशुश्रुवान्॥३॥

उपेयुषाश्रमानन्यास्तेनानाश्वान्कृताकृतिः।
मुनिसंघः शुकेनैक्षि स चानश्यद्भयात्ततः॥४॥

** लुङ्॥११०॥ अनद्यतने लङ्॥१११॥ अभिज्ञावचने लुट्॥११२॥**

अभाषत शुको वाक्यं नदीं वीक्ष्येति सारणम्।
अभिजानासि भद्र त्वं स्नास्यामोऽत्र सरिज्जले॥५॥

** न यदि॥११३॥ विभाषा साकाङ्क्षे॥११४॥**

स्मरस्यसि सरित्यस्यां विसानि यदभुञ्ज्महि।
यद्वत्स्यामोऽत्र तद्वेत्सि भूयोऽगच्छाम मन्दिरम्॥६॥

यदभुञ्ज्महि तद्वेत्सि भुक्त्वाशेमहि तत्पुनः।
पावनीयं नदी रम्या शृणु यत्कृतमेनया॥७॥

** परोक्षे लिट्॥११५॥ हशश्वतोर्लङ् च॥११६॥**

पुनरुक्तमियं वव्रे स्त्रीभूता भुवनाधिपम्।
तं शश्वदभजत्प्रीता शश्वच्चक्रे मुखे141क्षणम्॥८॥

तेनेह142 सह संरेमे वनेष्वायतलोचना।
तस्मादभीप्सितं भूपात्सुतं चालभतेति हि143॥९॥

** प्रश्ने चासन्नकाले॥११७॥ लट् स्मे॥११८॥ अपरोक्षे च॥११९॥ ननौ पृष्टप्रतिवचने॥१२०॥ नन्वोर्विभाषा॥१२१॥**

ईक्षांचक्रे भवान्गङ्गां न पश्यामि सरस्वतीम्।
नाद्राक्षं यमुनामित्थं पृष्टः प्रोवाच सारणः॥१०॥

** पुरि लुङ् चास्मे॥१२२॥**

वसन्तीह पुरा विप्रास्तथावात्सुः पुरा144 सुराः।
नागाः पुरावसन्नस्यां रम्येयं सरितां वरा॥११॥

** वर्तमाने लट्॥१२३॥ लटः शतृशानचावप्रथमासमानाधिकरणे॥१२४॥ संबोधने च॥१२५॥ लक्षणहेत्वोः क्रियायाः॥१२६॥ तौ सत्॥१२७॥ पूङ्यजोः शानन्॥१२८॥**

याति हंसं सिताम्भोधिः कीर्तिश्चैषा क्षमाभृतः।
राजमानाममूं पश्य वहन्तीं कमलाकरम्॥१२॥

विचरन्ति तिमिव्राताः खादन्ति शफरीरिह।
अधीयानास्त पश्यन्ति तटेऽस्याः फलभोजिनः॥१३॥

यजमानस्य वा मूर्तिरीक्षणीया मयापगा।
पवमाना जनं याति सागरं करिसेविता॥१४॥

** ताच्छील्यवयोवचनशक्तिषु चानश्॥१२९॥ इङ्धार्योः शत्रकृच्छ्रिणि॥१३०॥**

स्नातकाश्च वसन्त्यस्यास्तटेषु फलभोजिनः।
अटमानाश्चतीर्थानि शक्तिभाजस्तपस्विनः॥१५॥

एतस्यां बटवः स्नान्ति विभ्राणा मुञ्जमेखलाः।
अधीयन्तः सदा वेदान्धारयन्तः कमण्डलून्॥१६॥

** द्विषोऽमित्त्रे॥१३१॥ सुञोयज्ञसंयोगे॥१३२॥**

द्विषत्पापस्य धत्तेऽम्बु स्नात्वाथ सहितं145 सताम्।
तटं च सुन्वतां यूपैः परितः समलंकृताम्॥१७॥

** अर्हः प्रशंसायाम्॥१३३॥ आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॥१३४॥ तृन्॥१३५॥**

ततो बाहुसहस्रेण स रुद्धा146 नर्मदाजलम्।
ऐक्षतारान्महापक्षः शुकेनात्रिरिवार्जुनः॥१८॥

** अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्॥१३६॥**

अलंकरिष्णुरात्मानं गुणैर्जनमनोहरैः।
निराकरिष्णुरुष्णांशुं दुर्निरीक्षतया मृधे॥१९॥

प्रजनिष्णुर्जगत्प्रीतिमुन्मदिष्णुर्द्विषन्मनः।
विचरिष्णुर्वनाभोगं मज्जन्वारिणि सर्वतः॥२०॥

कुर्वन्भुजसमारुद्धं सेतुबन्धुरिवोदकम्।
प्रतीपगामि वर्धिष्णुः सहिष्णुः सरितो रयम्॥२१॥

** ग्लाजिस्थश्च ग्स्नुः॥१३९॥ त्रसिगृधिधृषिक्षिपेः क्नुः॥१४०॥**

तं जिष्णुं त्रस्नुरालोक्य गृध्नुराशु पलायितुम्।
शुकः सममिह भ्रात्रा क्षिप्रमन्तर्दधे दिवि॥२२॥

अग्लास्नुभिर्यतः स्त्रीभिः क्षिप्नुभिः परितो दिशः।
रेजे राजावृतः स्थास्नुर्लताभिरिव भूधरः॥२३॥

** शमित्यष्टाभ्यो घिनुण्॥१४१॥ संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च॥१४२॥ वौ कषलसकत्थस्रम्भः॥१४३॥ अपे च लषः॥१४४॥ प्रे लपसृद्रुमथवदवसः॥१४५॥**

संपर्किणी नदी राज्ञा संपर्की सरिता नृपः।
अन्योन्यपावनावेतावित्यूचे सारणः शुकम्॥२४॥

अनुरोधी नृपः स्त्रीभिराक्रीडी भजते जलम्।
आयासी मे वृथैवैष परिमोहेन देहिनाम्॥२५॥

आयामि बाहुपरिघं प्रमाथिनममुं नृपम्।
विकत्थिनो रिपुं कृत्वा द्रोहिणः शेरते कथम्॥२६॥

भविष्यति चिरं तस्य परिदेवी सुहृज्जनः।
परिदाही चयो मन्ये शत्रुसेनं करिष्यति॥२७॥

** निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषाः सूयो वुञ्॥१४६॥ देविक्रुशोश्चोपसर्गे॥१४७॥ चलनशब्दार्थादकर्मकाद्युच्॥१४८॥ अनुदात्तेतश्चहलादेः॥१४९॥**

गुणस्य निन्दको नास्य हिंसको न प्रतापिनः।
क्लेशकस्त्वेष शत्रूणां संपदां च विनाशकः॥२८॥

आक्रोशकः प्रभुर्नायं लक्ष्यते नाभ्यसूयकः।
आत्मनोऽस्याश्रितो मन्ये न कश्चित्परिदेवकः॥२९॥

वीक्ष्यामुं संयुगे क्रुद्धं वेपनःको न जायते।
शब्दनो वा भिया प्राणी द्योतनो नात्र कश्चन॥३०॥

** जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः॥१५०॥ क्रुधमण्डार्थेभ्यश्च॥१५१॥ न यः॥१५२॥ सूददीपदीक्षश्च॥१५३॥ लषपतपदस्थाभूवृषहनकमगमशृृभ्य उकञ्॥१५४॥ जल्पभिक्षकुट्टलुण्टवृङः षाकन्॥१५५॥**

कल्लोलाञ्जवनान्पश्य मत्स्यैश्चङ्क्रमणैर्युतान्।
निरुद्धे सलिले राज्ञा पतनं कूलमाश्रितान्॥३१॥

क्रोधना घस्मरा मत्स्याः पश्य मांसस्य वर्धनाः।
आधातुकाञ्जलक्षोभात्तटमागामुकाः कृताः॥३२॥

लुण्ठाकाः फुल्लपद्मानां मण्डना नृपवेश्मनाम्।
रमन्ते सलिले पश्यजल्पाक्योऽमूर्नृपाङ्गनाः॥३३॥

उद्धतेषु सरोजेषु स्त्रीभिर्भ्राम्यन्ति तृष्णया।
वराका शोचनाभृङ्गा भिक्षाका इव सर्वतः॥३४॥

** प्रजोरिनिः॥१५६॥ जिदृक्षिविश्रीण्वमाव्यथा-**

** भ्यमपरिभूप्रसूभ्यश्च॥१५७॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्॥१५८॥ दाधेट्सिशदसदो रुः॥१५९॥ सृघस्यदः क्मरच्॥१६०॥ भञ्जभासमिदो घुरच्॥१६१॥**

अभितो जलसंघातस्पृहयालुरिवादरी।
वीचिहस्तैः स्पृशत्येष प्रजवी स्त्रीपयोधरान्॥३५॥

अत्ययी मदनेनेव वीचिबाहुर्जलाशयः।
आलिङ्गत्यव्यथी नारी राज्ञः परिभवी यथा॥३६॥

श्रद्धालुर्मधु पातव्यं स्त्रीमुखं पङ्कशङ्कया।
भृङ्गव्रजोऽयमभ्येति भ्रान्तैः को वा न गोचरः॥३७॥

निद्रालवोऽपि संत्यज्य जलक्षोभेन भङ्गुरम्।
पद्माकरं नभोभृङ्गा भानुना भासुरं श्रिताः॥३८॥

** विदिभिदिच्छिदेः कुरच्॥१६२॥इण्नशजिसर्तिभ्यः क्वरप्॥१६३॥ गत्वरश्च॥१६४॥**

भिदुरं कूलमुत्सृज्य प्रवृद्धे सरिदम्भसि।
जित्वराः ककुभो जाता विधुरा इव पक्षिणः॥३९॥

अद्मरा मेदुरा मीनाश्छिदुराः सर्वदेहिनाम्।
नश्वराः सहजा जाता जलसंक्षोभपीडिताः॥४०॥

भियेव गत्वरं तोयं रुद्धं याति सरित्तटम्।
तटतोऽपि दिवं वृन्दं पततां मरुदित्वरम्॥४१॥

** जागरूकः॥१६५॥ यजजपदशां यङः॥१६६॥ नमिकम्पिस्म्यजसकमहिंसदीपो रः॥१६७॥ सनाशंसभिक्ष उः॥१६८॥ बिन्दुरिच्छुः॥१६९॥ आदृगमहनजनः किकिनौ लिट् च॥१७१॥ स्वपितृषोर्नजिङ्॥१७२॥ शृृवन्द्योरारुः॥१७३॥ भियः क्रुक्लुकनौ॥१७४॥ स्थेशभासपिसकसो वरच्॥१७५॥ यश्च यङः॥१७६॥**

जागरूककृतारक्षा क्रीडत्येष नृपो जले।
जञ्जपूकद्विजाकीर्णे दन्दशूकविवर्जिते॥४२॥

गुरुस्तनभरोन्नम्रकं147प्रमध्या नृपाङ्गना।
कंप्रायां कुरुते नित्यं148 स्नानं स्मेराननां नदीम्॥४३॥

दीप्रास्मक्षतहिंस्रस्य भर्तुः प्रीतिं विधित्सवः।
आशंसवो विनोदं च मज्जन्ते ताः स्त्रियो जले॥४४॥

वृन्दारुस्ततवृत्तस्य चित्तभूपस्य बिन्दवः
भीरवोऽपि जलात्पश्य दधते धीरचेष्टितम्॥४५॥

**भासुरेणा149**स्य देहेन पातुः स्थावरजङ्गमम्।
यायावरानुयातस्य स्थीयते केन संयुगे॥४६॥

** भ्राजभासधुर्विद्युतोर्जिपृृजुग्रावस्तुवः क्विप्॥१७७॥ अन्येभ्योऽपि दृश्यते॥१७८॥ भुवः संज्ञान्तरयोः॥१७९॥ विप्रसंभ्यो ड्वसंज्ञायाम्॥१८०॥**

दोष्णां सहस्रेण पतङ्गभासां गुर्वीं दधानस्य धुरं मृधेषु।
आस्तां धरित्र्या हरणं सुदूरे परोऽपि शक्तारिचयो150 न मन्ये॥४७॥

विलोक्य विभ्राजममुं प्रभुं च भियं मतं मानसमेतदाशु।
विद्युद्युतीनामिव राशिमेनं विलोकितुं नास्मि पुरः समर्थः॥४८॥

** धः कर्मणि ष्ट्रन्॥१८१॥ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहःकरणे॥१८२॥**

शस्त्रेण येन जयिनाप्युत भूतधात्री
स्तोत्रं पवित्रमिति यस्य पठन्ति लोकाः।
पत्त्राणि यस्य विविधानि वहन्ति योधाः
कृत्वा तमेनमरिमस्यति को न गात्रम्॥४९॥

** हलसूकरयोः पुवः॥१८३॥ अर्तिलूधूसूखनसहचर इत्रः॥१८४॥ पुवः संज्ञायाम्॥१८५॥ कर्तरि**

** चर्षिदेवतयोः॥१८६॥ ञीतः क्तः॥१८७॥ मतिबुद्धिपूजार्थेभ्यश्च॥१८८॥**

पोत्रेण दंष्ट्रा द्वितयं लवित्रं महीभृतां भूमिभृतां खनित्रम्।
बभार यो भूधरणे वराहो मन्येऽस्य राज्ञा सबलेन तुल्यः॥५०॥

मर्चितं भूमिपतिं प्रजानां द्विजन्मनां संयतमे151कवीरम्।
बुद्धं सुराणामपि राक्षसौ तावपश्यतां वारि परित्यजन्तम्॥५१॥

दृष्ट्वा विहृत्य सरितस्तटमुत्तरं तं
तं राजहंसमभितः स्थितचारुकान्तम्।
तूर्णं समेत्य शिबिरं निजमादरेण
भर्त्रे शुकस्तदखिलं कथयांबभूव॥५२॥

इत्यर्जुनरावणीये महाकाव्ये कर्मण्यण्पादे एकादशः सर्गः॥

_______________

द्वादशः सर्गः॥

** उणादयो बहुलम्॥१॥ भूतेऽपि दृश्यन्ते॥२॥ भविष्यति गम्यादयः॥३॥ यावत्पुरानिपातयोर्लट्॥४॥ विभाषा कदाकर्ह्योः॥५॥**

ततः शुकादाशु निशम्य वृत्तं तद्भूपतेः साधु निशाचरेशः।
आगामिनं दोषमचिन्तयित्वा तमुक्तवान्वायुरिवोरुशक्तिः॥१॥

यावन्न नश्यत्यवनीश्वरोऽसौ पुरा मधु स्वादुनोपयुङ्क्ते।
प्रयाहि युद्धाय नयास्य पार्श्वं कदा प्रयासीति ममात्र चिन्ता॥२॥

कदा गमिष्यस्यतिदुःखितस्त्वं कदा च युद्धाय रिपुं ब्रवीषि।
कर्हि त्वदुक्तं प्रविधास्यतेऽसौ कर्हि प्रसह्याहवमातनोति॥३॥

** किंवृत्ते लिप्सायाम्॥६॥ लिप्स्यमानसिद्धौ च॥७॥**

को मे रणं दास्यति को ददाति को वा प्रदाता पुरुषोऽरिसैन्ये।
यः स्वर्गमेष्यत्युपयाति वारी याता मया बाणनिकृत्तकायः॥४॥

** लोडर्थलक्षणे च ॥८॥**

स चेदिहैष्यत्युपयाति वेशस्तथोपयाता बलबद्धगर्वः।
एते वयं संभृतशातशस्त्रा वर्धामहे किं बहुनोदितेन॥५॥

** लिङ् चोर्ध्वमौहूर्तिके॥९॥**

ऊर्ध्वं मुहूर्तादथ चेत्स धीमानेष्यत्युपेयादुपयाति राजा।
ततो वयं तेन महासहाया युध्याम152 हा वीरतमेन राज्ञा॥६॥

** तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्॥१०॥ भाववचनाच्च॥११॥ अण् कर्मणि च॥१२॥**

कर्तुं प्रयाहि प्रणतो रणं मे न कारकोऽस्यास्ति समर्थयेद्यः।
लाभाय गत्वाशु महाहवस्य प्रमोददायो भव मेचिराय॥७॥

** लृट् शेषे च॥१३॥ लृटः सद्वा॥१४॥ अनद्यतने लुट्॥१५॥**

राज्यं हरिष्यामि तदीयमद्य श्वो वा स हन्ता मम भूमिपालः।
कुतूहलं तेन समेष्यते मे श्लाघ्यो विवादोऽपि समं समेन॥८॥

** पदरुजविशस्पृशो घञ्॥१६॥ सृ स्थिरे॥१७॥**

पादेन तं हन्मि निहत्य युद्धे तं मे शिरोरोगमवेहि भूपम्।
सारं विनेष्यामि महाबलस्य त्यागं विधास्यामि ततो विभूतेः॥९॥

** भावे॥१८॥ अकर्तरि च कारके संज्ञायाम्॥१९॥**

पुमानहं संयति वायसानामाहारमेनं तरसानयामि।
करोम्युपायान्तमुपाश्रितानां पलायनैकाध्ययनस्य वश्यम्॥१०॥

** परिमाणाख्यायां सर्वेभ्यः॥२०॥ इङश्च॥२१॥**

भीमयुद्धविध्वस्तपौरुषं विनिर्जिताशेषभूधरम्।
एकशूर्पनिश्चय153याचिनं द्राक्करोमि नीत्वा निजां पुरम्॥११॥

** उपसर्गे रुवः॥२२॥ समि युद्रुदुवः॥२३॥**

सांराव154मुच्चैरहमादधानः संद्रावसंदावकरं परेषाम्।
155 यावदङ्गेषु करोति(?) भीत्या तोषस्य विद्रावपदं महाजौ॥१२॥

** श्रिणीभुवोऽनुपसर्गे॥२४॥ वौ क्षुश्रुवः॥२५॥ अवोदोर्नियः॥२६॥ प्रे द्रुस्तुस्रुवः॥२७॥ निरभ्योः पूल्वोः॥२८॥**

प्रस्तावमाप्य त्वमरेः सभायामुन्नायमस्मद्विभवस्य कुर्वन्।
बलाभिलाषं बहुधा वितन्वन्प्रद्रावमाधत्स्व भिया परेषाम्॥१३॥

** उन्न्योर्ग्रः॥२९॥ कृृ धान्ये॥३०॥ यज्ञे समि स्तुवः॥३१॥ प्रे स्त्रोऽयज्ञे॥३२॥ प्रथने वावशब्दे॥३३॥ छन्दोनाम्नि च॥३४॥ उदि ग्रहः॥३५॥ समि मुष्टौ॥३६॥**

उद्गारयन्तः156 पिशितस्य तृप्ताः सहेतयो माषनिकारतृष्णाः।
ववल्गुरीशे वदतीति हृष्टा विस्तारभाजः परितो निशाटाः॥१४॥

** परिन्योर्नीणोर्द्यूताभ्रेषयोः॥३७॥ परावनुपात्यय इणः॥३८॥ व्युपयोः शेतेः पर्याये॥३९॥**

स्योपशायोऽहनि तस्य रात्रौ पर्यायतः कश्च शरीररक्षः।
ज्ञेयं द्विषद्भृत्यजनस्य सर्वं विज्ञातचेष्टः सुखवञ्चनीयः॥१५॥

** हस्तादाने चेरस्तेये॥४०॥ निवासचितिशरीरोपसमाधानेष्वादेश्चकः॥४१॥ संघे चानौत्तराधर्ये ॥४२॥**

फलप्रचाये पथि नावसंज्ञं(?) द्विषन्निकायंव्रजता त्वयाद्य।
कायस्य पीडा च न चिन्तनीया रक्षोनिकायंपरिमुच्य याहि॥१६॥

** कर्मव्यतिहारे णच् स्त्रियाम्॥४३॥ अभिविधौ भाव इनुण्॥४४॥ आक्रोशेऽवन्योर्ग्रहः॥४५॥ प्रे लिप्सायाम्॥४६॥ परौ यज्ञे॥४७॥**

व्यावहारी सह तेन कार्या सांराविणं चक्रवता निवार्यम्।
निग्राह्यमेनं157 विनिरास्य लक्ष्मीं प्रग्राह्यचेता गृहमस्य याहि॥१७॥

** नौ वृ धान्ये॥४८॥ उदि श्रयतियौतिपूद्रुवः**

॥४९॥ विभाषाङि रुप्लुवोः॥५०॥ अवे ग्रहो वर्षप्रतिबन्धे॥५१॥ प्रे वणिजाम्॥५२॥ रश्मौ च॥५३॥ वृणोतेराच्छादने॥५४॥ परौ भुवोऽवज्ञाने॥५५॥ एरच्॥५६॥ ऋदोरप्॥५७॥ ग्रहवृदृनिश्चिगमश्च॥५८॥ उपसर्गेऽदः॥५९॥ नौ ण च॥६०॥ व्यधजपोरनुपसर्गे॥६१॥

श्यामाकनीवारभुजां मुनीनां संरावमुद्द्रावमुपागतानाम्।
तथा कुरु त्वं समरेऽर्जुनस्य यथा तमुच्छ्रायमहं छिनद्मि॥१८॥

अवग्रहः सस्यमिवास्य सैन्यं जातारवं चाशु नयामि शेषम्।
प्रग्राहहीनाश्वमुरुप्रतापं प्रावारशून्यं परिभावमाप्तम्॥१९॥

लवाय शत्रोः स्थिरनिश्चयेन त्वया शरो वाद्य विसर्जितोऽयम्।
कर्तुं जयं यामि धृतादरोऽहं स्वामी शुकेनापि वचोऽभ्यधायि॥२०॥

विसर्जितः सादरमाशु भर्त्त्रा सिद्ध्यैमदघ्नःप्रसभं विधाय।
द्युत(?)व्यधात्मा ग्रहयुक्तमार्गमारुह्य वेगं परमाललम्बे॥२१॥

** स्वनहसोर्वा॥६२॥ यमः समुपनिविषु च॥६३॥**

हासमीशं सहसः परीत्य जयस्वनं स्वानवतो विधाय।
असंयमः संयमिनां मुनीनां भर्तुः सकाशाद्दिवमारुरोह॥२२॥

** नौ गदनदपठस्वनः॥६४॥**

शृण्वन्निनादं निनदेन हीनः पतत्त्रिणां सोऽध्वनि काननेऽगात्।
निगादभाजो निगदेन हीनः पश्यन्सशिष्यान्मुनिसंहतेश्च॥२३॥

** क्वणो वीणायां च॥६५॥ नित्यं पणः परिमाणे॥६६॥**

आकर्णयन्विन्ध्यलतागृहेषु विद्याधरीणां रमणेन साकम्।
अप्रक्वणः संप्रति सार्यमाणाः प्रक्वाणभाजः स जगाम वीणाः॥२४॥

** मदोऽनुपसर्गे॥६७॥ प्रमदसंमदौ हर्षे॥६८॥ समुदोरजः पशुषु॥६९॥ अक्षेषु ग्लहः॥७०॥ प्रजने सर्तेः॥७१॥ ह्वः संप्रसारणं च न्यभ्युपविषु॥७२॥**

आङि युद्धे॥७३॥ निपानमाहावः॥७४॥ भावेऽनुपसर्गस्य॥७५॥ हनश्च वधः॥७६॥ मूर्तौघनः॥७७॥ अन्तर्घनो देशे॥७८॥ अगारैकदेशे प्रघणः प्रघाणश्च॥७९॥ उद्घनोऽत्याधानम्॥८०॥ अपघनोऽङ्गम्॥८१॥ करणेऽयोविद्रुषु॥८२॥ स्तम्बे क च॥८३॥ परौ घः॥८४॥ उपघ्न आश्रये॥८५॥ संघोद्घौ गणप्रशंसयोः॥८६॥ निघो निमितम्॥८७॥ ड्वितः क्त्रिः॥८८॥ ट्वितोऽथुच्॥८९॥ यजयाचयतविच्छप्रच्छरक्षो नङ्॥९०॥ स्वपो नन्॥९१॥ उपसर्गे घोः किः॥९२॥ कर्मण्यधिकरणे च॥९३॥

तेनाहवायस्तहरिर्मदान्धस्तटाभिघाताद्विदधन्महाद्रौ।
समं समाभिः सरितो वशाभिर्गजाधिपः स प्रमदेन दृष्टः॥२५॥

सुप्तोत्थितस्याद्रिपतेर्निकुञ्जादपश्यदारात्स मृगाधिपस्य।
विभिद्यमानं ध्वनितस्वनेन त्रासाभिभूतं समजं पशूनाम्॥२६॥

मृगाधिपः सापसरां158 वराहं प्रियां पयः पाययमानमैक्ष्य।
आहायमस्यापि वधाभिशङ्की प्रतीक्षमाणः क्षणमैक्षि तेन॥२७॥

उरुं सखीसङ्गमपास्य काचिन्निघद्रुमं भूभृदुपघ्नमेत्य।
अकृत्रिमं वेपथुमुद्वहन्ती श्लिष्टा प्रियेणैक्षि कलिन्द159कन्या॥२८॥

यज्ञान्विधातुः परिघोरुजानोन्महाहवप्रश्नरतेरनाधेः
पयोधिभीमस्य नृपस्य सैन्यं शुकः सरित्कूलनिविष्टमाप॥२९॥

** स्त्रियां क्तिन्॥९४॥ स्थागापापचो भावे॥९५॥ ऊतियूतिजूतिसातिहेतिकीर्तयश्च॥९७॥**

ततिं भुवः कुर्वदुदारयोधं युधि श्रितानेकगवादिवाहम्।
प्रभूतहेत्याहतशुद्धकीर्तिस्थितिप्रणीतिं प्रभुनाद160धानम्॥३०॥

** व्रजयजोर्भावे क्यप्॥९८॥ संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः॥९९॥**

इत्यावता राजजनेन गुप्तं विद्यावता साधुजनेन सेव्यम्।
शय्यासनालंकृतवीरगेहं परोपकारप्रतिबद्धशक्ति॥३१॥

** कृञः श च॥१००॥ इच्छा॥१०१॥ अ प्रत्ययात्॥१०२॥ गुरोश्च हलः॥१०३॥ षिद्भिदादिभ्योऽङ्॥१०४॥ चिन्तिपूजिकथिकुम्बिचर्चश्च॥१०५॥**

यत्पूरयामास विपूरिताशं भर्तुर्विशालां परिचर्ययेच्छाम्161
जेतुं162 चिकीर्षा युधि यस्य शत्रुं स्वभर्तृभृत्यास्थितमानसस्य॥३२॥

शिक्षावता येन रणक्रियायां समर्पिता वैरिजनस्य भिक्षा।
त्रपायुतः सप्रमदो वनानि नीतो जरावानिव यौवनेऽपि॥३३॥

यस्मिन्भिदां चक्रुरिभा रिपूणां भिदां163 च खड्ग्या भटपाणिभाजः।
आस्तां कथा यत्परिजेतुमाजौवार्तापि नासीद्द्विषतां मनःसु॥३४॥

** आतश्चोपसर्गे॥१०६॥ ण्यासश्रन्थो युच्॥१०७॥**

प्रविश्य तत्सैन्यवनं करीव श्रद्धां नृसिंहेक्षणजां दधानः।
उपासनां द्वारमुपेत्य चक्रे पराभिभूतेर्गणनामकृत्वा॥३५॥

** रोगाख्यायां ण्वुल्बहुलम्॥१०८॥ संज्ञायाम्॥१०९॥ विभाषाख्यानपरिप्रश्नयोरिञ् च॥११०॥ पर्यायार्हणोत्पत्तिषु ण्वुच्॥१११॥**

प्रच्छर्दिकाहीनमहीनकायंदौवारिकाहूतमिदं तमूचुः।
कां कारिकां कर्तुमिहागतस्त्वं कां वावदिं वक्तुमिदं वद त्वम्॥३६॥

** आक्रोशे नञ्यनिः॥११२॥**

नरस्य तस्यास्त्वविवेदनिर्योन वेदयत्यागणनं न तेऽदः।
दौवारिकेणेति शुकोऽभ्यधायि प्रावेशि भूपालसमं त्वरावान्॥३७॥

** कृत्यल्युटो बहुलम्॥११३॥ नपुंसके भावे क्तः॥११४॥ ल्युट् च॥११५॥ कर्मणि च येन संस्पर्शात्कर्तुः शरी-**

रसुखम्॥११६॥ करणाधिकरणयोश्च॥११७॥ पुंसि संज्ञायां घः प्रायेण॥११८॥ गोचरसंचरवहव्रजव्यजापणनिगमाश्च॥११९॥ अवे तृृस्त्रोर्घञ्॥१२०॥

दानीयविप्राहितसंनिधानं यत्रार्थिनामर्थितमर्थ164दायि।
सेवागतानेकनरेन्द्रपूर्णं दधार यः शासनमीश्वरस्य॥३८॥

यस्या165ङ्गनालिङ्गनजां सुखाप्तिं छाया सुशीता विदधे जनानाम्।
स्फुरन्मयूखप्रकराण्युवाह रत्नानि च ध्वान्तविनाशनानि॥३९॥

गुणैकधानीह यदेकमूर्तिर्योगोचरः पुण्यवतां जनानाम्।
दरिद्रतां यत्र166संचरोऽभून्न चावतारः कलिचेष्टितस्य॥४०॥

** हलश्च॥१२१॥ अध्यायन्यायोद्यावसंहाराधारावायाश्च॥१२२॥ उदङ्कोऽनुदके॥१२३॥ जालमानायः॥१२४॥ खनो घ च॥१२५॥**

आधारमेकं यदुपाश्रिता श्रीर्यन्न्याययरत्नस्य पयोधिमध्यम्।
संहारमानाय इवैणकानां यस्येशिता विद्विषतामधत्ताम्॥४१॥

सदः प्रविष्टः स कृतप्रणामस्तदासनावाप्तिविवृद्धतोषः।
कुतो भवान्कारणमत्र किं ते राज्ञेति पृष्टो निजगाद दूतः॥४२॥

** ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्॥१२६॥ कर्तृकर्मणोश्च भूकृञोः॥१२७॥ आतो युच्॥१२८॥ भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः॥ (वा०)**

यो दुर्जयो वैरिजनेन संख्ये कृत्वात्मसैन्यैः स्वजयं167 महेन्द्रम्।
त्रासावसीदत्तनुराजिमध्य ईशन्नशो येन कृतः सुरौघः॥४३॥

स्वाढ्यंभवं येन चिराय जित्वा धनेशमाक्षिप्तसमग्रवित्तम्।
भ्रात्रा दुराढ्यंभवमेव यस्य दुर्यानभाजा हृतपुष्पकेण॥४४॥

स्वाढ्यंकरो यः क्षतदेववर्गः शत्रुं दुराढ्यंकरमस्य विद्धि।
दुष्पानमस्रुप्रवहं पिबद्भिः सुग्लानमस्यारिवधूमुखाब्जैः॥४५॥

दुर्दर्शनः168 शत्रुजनेन राजा दुःशासनो येन न कश्चिदस्ति।
दुर्योधनोऽनेकभटानुयातो दशास्यनामास्ति पुलस्त्यपौत्रः॥४६॥

** वर्तमानसामीप्ये वर्तमानवद्वा॥१३१॥**

मां दूतमायान्तमवेहि तस्य त्वमागतं वा क्षितिपालसिंह।
यास्यामि कार्यं भवते निवेद्य बुध्यस्वमां यान्तमितो गतं वा॥४७॥

** आशंसायां भूतवच्च॥१३२॥**

करोति चेत्तस्य करिष्यसे वा भर्तुर्मदीयस्य यदि त्वमिष्टम्।
ततः स दास्यत्यथ वा ददाति दत्तानि वा पश्य सुखानि तेन॥४८॥

** क्षिप्रवचने लृट्॥१३३॥**

चेदिहायास्यति यात्यतस्ते क्षिप्रं करिष्यत्यभिवाञ्छितानि।
शक्त्या तया शक्तिमतां न कृत्यं करोति या नैव सुहृत्प्रियाणि॥४९॥

** आशंसावचने लिङ्॥१३४॥**

सुहृत्प्रियत्वात्तव भूप चेह समापतेच्चेत्स निशाचरेशः।
संभावयेऽहं तरसैव कुर्यात्त्वदेकयोग्यां सकलां धरित्रीम्॥५०॥

** नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः॥१३५॥**

यतः प्रभृत्येष विमुक्तशैशवस्ततः समारभ्य रणेष्वयुध्यत
इतोऽपि जीविष्यति यावदूर्जितं विधास्यते तावदरातिसंक्षयम्॥५१॥

येयं गता पञ्चदशी दशास्यस्तस्यां व्यजेष्टाशु समं स युद्धे।
आगामिनी यापि च पौर्णमासी तत्रापि जेष्यत्यखिलानरातीन्॥५२॥

** भविष्यति मर्यादावचनेऽवरस्मिन्॥१३६॥**

आमेरुतो यो विषयो महीयांस्तस्यावरं यत्तुहिनाचलस्य।
प्रभोर्विजेष्ये तमिति प्रतिज्ञा त्वं चास्य पातेति समाकुलोऽस्मि॥५३॥

** कालविभागे चानहोरात्राणाम्॥१३७॥**

यदवरमाग्रहायण्या योऽयं नृपायाति वत्सरः।
उत्सवं करिष्यते तत्र स्वामी त्वयेक्ष्यताम्॥५४॥

** परस्मिन्विभाषा॥१३८॥**

यत्परं पुनराग्रहायण्याः संवत्सरस्यास्य तत्र सः।
यास्यतीश्वरो वनमानन्तुं याता जनोऽप्यस्य पश्यताम्॥५५॥

** लिङ्निमित्ते लृङ् क्रियातिपत्तौ॥१३९॥**

नाज्ञास्यदीशः सरिदम्भसि त्वां संक्रीडमानं दयितासहायम्।
तोयं भवद्बाहुबलापरुद्धं नापाहरिष्यद्यदि देवपूजाम्॥५६॥

** भूते च॥१४०॥**

भवानयास्यत्त्वरितं नदीतो नोऽभर्त्स्यत त्वां रजनीचरेशः।
सख्यं रणं वा त्वरितं विधेयं पलायनं नाचरितं महद्भिः॥५७॥

** वोताप्योः॥१४१॥**

अपि तत्र भवान्भनक्ति पूजां शशिमौलेः सरिदम्भसा किमेतत्।
लज्जां च तथापि नागमिष्यस्तेन त्वमतिगर्हते दशास्यः॥५८॥

** गर्हायां लडपिजात्वोः॥१४२॥**

जातु कोपयति यस्तमीश्वरं निन्द्यतांसमुपैति देहिनाम्।
किं पुनर्जगति जातु दुर्मतिर्योऽमुना सहकरोति शात्रवम्॥५९॥

** विभाषा कथमि लिङ् च॥१४३॥**

भवान्कथं नाम करोति पापं तथाविधं सर्वजनावगीतम्।
कथं च रक्षेः स्वजनापवादं मोहं विधत्ते विषयप्रसङ्गः॥६०॥

** किंवृत्ते लिङ्लृटौ॥१४४॥ अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि॥१४५॥**

का नाम जले विहारचेष्टा येदृक्त्वामपि कारयेदकार्यम्।
का वा सरितोऽतिरस्यता169 सा या पापेऽत्र नियोजयिष्यति त्वाम्॥ ६१॥

** किंकिलास्त्यर्थेषु लृट्॥१४६॥**

अस्ति नाम त्वद्विरोधो राजा यत्तरिष्यति त्वं सरिज्जले।
किंकिलेदं पीडितं क्रीडां न करिष्यते वारिजन्मनाम्॥६२॥

** जातुयदोर्लिङ्॥१४७॥**

जातु तत्र पीडयेन्मन्त्रा170न्विद्यात्कथं त्वद्विरोधो नृपः।
त्वां यदा जनाश्च पश्येयुस्त्राणं171 पितृभ्यां समङ्गुलेः172॥६३॥

** यच्चयत्रयोः॥१४८॥**

च्चाभ्युपेयाद्गहनं वनान्तं नायास्यदत्रेति भवानभीतिः।
नैतत्क्षमं तत्कुरु मित्त्रमीशं यत्रापतेयुर्न कृते भयानि॥६४॥

** गर्हायां च॥१४९॥**

च्चागच्छेः प्रोज्झ्य शून्यां पुरीं त्वं यच्चास्नास्यः प्रीतये कामिनीनाम्।
नैतन्न्यायं173 ज्ञानिनश्चेष्टितं ते श्रुत्वाप्येतद्यत्रगर्हेन्न कस्त्वाम्॥६५॥

** चित्रीकरणे च॥१५०॥**

यच्चापगां दोष्यरिधैर्निरुन्ध्या यच्च प्रतीपं नृप तामनेष्यः
किमद्भुतेनाप्यमुनेहितेन स्याद्यत्र पीडा जलकूलभाजाम्॥६६॥

** शेषे लृडयदौ॥१५१॥ उताप्योः समर्थयोर्लिङ्॥१५२॥**

आरोक्ष्यति पर्वतं यथान्धस्तिग्मांशुश्च विधास्यतेऽन्धकारम्।
वक्ष्यत्यतिहितं शुकस्तदा त्वां तुल्यानि प्रतिभान्त्यमूनि राजन्॥६७॥

** कामप्रवेदनेऽकच्चिति॥१५३॥**

जिघांसितुं लोकमुपागतोऽसौ रिरक्षिषुस्तं प्रयतस्त्वमेकः।
कामो ममायं न भवेदमुष्मिन्कार्ये विरुद्धे यदि वा विरोधः॥६८॥

** संभावनेऽलमिति चेत्सिद्धाप्रयोगे॥१५४॥**

वेगेन छिन्द्यादपि यो महाद्रीन्महारथस्य व्रजतोऽभ्यमित्रम्।
संभावयाम्याशु जयेत्स विश्वं विजेष्यते कः समरे तमीशम्॥६९॥

** विभाषा धातौ संभावनवचनेऽयदि॥१५५॥**

ज्योत्स्नां न चेदस्य पुरे शशाङ्कः कुर्वीत कृष्णोऽपि महान्धकारम्।
संभावयामि ग्रहणातिरिक्तां स प्राप्स्यति प्रत्यहमेव पीडाम्॥७०॥

** हेतुहेतुमतोर्लिङ्॥१५६॥**

समुद्रभीतेव यदि प्रतीपं यायान्न रेवा भुजसेतुरुद्धा।
ततोऽवगच्छेन्न दशाननस्त्वां जलेन वामेऽद्य कृता प्रतिज्ञा॥७१॥

** इच्छार्थेषु लिङ्लोटौ॥१५७॥**

इच्छाम्यहं त्वं यदि तत्र गच्छेरिच्छा तवाप्यस्तु गमायराजन्।
इच्छत्वसावप्युपगन्तुमत्र परस्परप्रीतिविधायि सख्यम्॥७२॥

** समानकर्तृकेषु तुमुन्॥१५८॥ लिङ् च॥१५९॥ इच्छार्थेभ्यो विभाषा वर्तमाने॥१६०॥**

कामो ममायं नृपते व्रजेयं नो वार्यसे ब्रूहि यदेकमिष्टम्।
नेच्छेद्भवानिच्छति नापि गन्तुं न द्वैधचिन्ताः174 सुधियो भवन्ति॥७३॥

** विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्॥१६१॥**

कुर्याद्दशास्येन भवान्सहैक्यं गृहेऽस्य भुञ्जीत निमन्त्रयेऽहम्।
यथेच्छमासीत कृतासनश्च कुर्यात्किमन्यश्च निबन्धनं ते॥७४॥

गच्छेद्दशास्या175न्तिकमर्थये त्वां गतस्य भद्रं तव तत्र भूप।
मित्त्रं प्रियं तं प्रविधाय मित्त्रं यथेच्छमासीत भवान्व्रजेद्वा॥७५॥

** लोट् च॥१६२॥**

विधेहि तद्गेहगमाय यत्नमभ्यर्थयेऽहं कुरु तत्प्रियाणि।
किमेतु ते ब्रूहि स धामराजन्नन्योन्यविश्वासमुखं हि सख्यम्॥७६॥

** प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च॥१६३॥**

त्वं प्रेषितो वाहि नयेन176 राजन्मान्यो विमृश्यो मनसा जनेन।
कालस्तवायं ननु किं न गच्छेद्भोगे कृतं प्रीतिकरं हि सर्वम्॥७७॥

दृश्यः स गत्वा भवता दशास्यः कर्तव्यमस्मात्कुरुते किमन्यत्।
संचिन्त्यमेतत्सह मन्त्रिणा ते करोति संचिन्त्य कृतं न तापम्॥७८॥

** लिङ् चोर्ध्वमौहूर्तिके॥१६४॥ स्मे लोट्॥१६५॥ अधीष्टे च॥१६६॥**

ऊर्ध्वं मुहूर्तात्स्वयमेव कार्यं कुर्यात्स राजा समवेतकालम्।
परं मुहूर्तात्स177 कुरुष्व न त्वं गच्छाम्यहं प्रेषय मां नरेन्द्र॥७९॥

** कालसमयवेलासु तुमुन्॥१६७॥ लिङ् यदि॥१६८॥**

वेला यातुं वर्तते मे स्वगेहं कालो युक्तं वक्तुमस्मास्तवापि।
वेला चेयं यत्स युध्येत राजा युध्येथास्त्वं यश्च सोऽप्येष कालः॥८०॥

** अर्हे कृत्यतृचश्च॥१६९॥**

अर्होऽस्ति योद्धा स च तेऽनुरूपः श्लाघ्यो विवादस्तव तेन साकम्।
कुर्या रणं तेन महा178नवद्यं भङ्गो जयो वा सदृशेन धन्यः॥८१॥

** आवश्यकाधमर्ण्ययोर्णिनिः॥१७०॥ कृत्याश्च॥१७१॥**

सोऽवश्यंकारी त्वां विलोक्येप्सितं ते द्रव्यंदायी वा वश्यतामभ्युपेतः।
एवं ज्ञात्वा त्वं कार्यमाधत्स्व यत्त्वं प्रायोमिथ्योक्तिं कुर्वते नेश्वरा हि॥८२॥

** शकि लिङ् च॥१७२॥**

जयेदयत्नेन स विश्वमेकः शक्यः179 प्रभूतैरपि नो विजेतुम्180
उपायनव्यग्रकराः सुरा वा शक्तिं वदन्त्यस्य गृहाङ्गनस्थाः॥८३॥

** आशिषि लिङ्लोटौ॥१७३॥ क्तिच्क्तौ च संज्ञायाम्॥१७४॥**

निरन्तरं तेन सहास्तु सख्यं क्रियाच्च तेऽसावभिवाञ्छितानि।
संत्राससंक्षिप्तकठोररश्मिश्चन्द्रायते यस्य पुरे पतङ्गः॥८४॥

** माङि लुङ्॥१७५॥ स्मोत्तरे लङ् च॥१७६॥**

त्वं मा कृथा मानद मय्यनास्थां मा स्मग्रहीर्दोषमुपाकृते तु।
हितं च मां मा स्म न बुध्यथास्त्वं बुद्ध्वा च ते वृत्तमहं प्रयामि॥८५॥

इति सपदि गदित्वा प्रस्थितं दूतमारा-
न्नरपतिरिदमूचे तिष्ठ तावन्मुहूर्तम्।
प्रतिवचनमिदानीं याहि नस्त्वं गृहीत्वा
न गत इति भवन्तं मा स्म वोचद्दशास्यः॥८६॥

इत्यर्जुनरावणीये महाकाव्ये उणादिपादे द्वादशः सर्गः॥
___________________

त्रयोदशः सर्गः।

** धातुसंबन्धे प्रत्ययाः॥१॥ क्रियासमभिहारे लोट् लोटो हिस्वौवा च तध्वमोः॥२॥ समुच्चयेऽन्यतरस्याम्॥३॥ यथाविध्यनुप्रयोगः पूर्वस्मिन्॥४॥ समुच्चये सामान्यवचनस्य॥५॥ अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा॥१८॥**

विज्ञातस्वाम्यभिप्रायो मन्त्री भूक्षेपचोदितः।
गमनं खलु कृत्वास्य तं दूतं निजगाविति॥१॥

भाषमाणे यथा न्याय्यमुक्तिकौशलशालिनि।
अलमुक्त्वा परस्येह त्वयि संसदि जल्पति॥२॥

त्रिलोकी श्वोजिता तेन ज्ञायतामिति गर्वितम्।
माहात्म्यं ब्रुवता भर्तुः प्रत्यक्षमिव दर्शितम्॥३॥

** उदीचां माङो व्यतीहारे॥१९॥ परावरयोगे च॥२०॥**

पौर्वापर्यमविज्ञाय ब्रूते वाच्यस्य यः पुमान्।
तं हसन्ति जना मूढं181पापमित्येव याचकम्॥४॥

** समानकर्तृकयोः पूर्वकाले॥२१॥**

खनतीर्मरुमप्यारात्तास्तीर्त्वा दुस्तरा गिरः।
तदुत्तरणसामर्थ्यं स्वामिनः कथितं त्वया॥५॥

उक्त्वा स्थितेऽपि यद्वाक्यमाख्यायैकात्मविक्रमम्।
युष्मादृशाशयं मुक्त्वा स्वदानं तस्य नोत्तरम्॥६॥

** आभीक्ष्ण्ये णमुल्च॥२२॥ न यद्यनाकाङ्क्ष्ये॥२३॥**

स्तुत्वा स्तुत्वा गुणान्भर्तुर्भवता निन्दता परान्।
नाशं नाशमहो नीतं सौजन्य पक्षपातिना॥७॥

** विभाषाग्रेप्रथमपूर्वेषु॥२४॥**

अग्रे स्थित्वा विजीयेत किं दशास्येन वृत्रहा।
अग्रे स्थायं न वार्येत यद्यसौ ब्रह्मणा स्वयम्॥८॥

प्रथमं वारयित्वेन्द्रं रणादरि(?)पितामहः।
ततोऽनुप्रथमं वारमगच्छत्त्रिदशान्प्रति॥९॥

** कर्मण्याक्रोशे कृञः खमुञ्॥२५॥**

त्वं भीरुं कारमाक्रोशन्किं निन्दसि दिवौकसः।
तपसाराधितप्रीतपितामहनिवारितान्॥१०॥

** स्वादुमि णमुल्॥२६॥**

भुञ्जते मुनिमांसानि स्वादुंकारं निशाचराः।
तिष्ठेयुर्वारिता मन्ये दशास्येनापि दुष्करम्॥११॥

** अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्॥२७॥ यथातथयोरसूयाप्रतिवचने॥२८॥**

अन्यथाकारमाह त्वां रावणः स स्थितोऽन्यथा।
स नाके शक्तिमान्नोर्व्यामेवं कारमहं ब्रुवे॥१२॥

** कर्मणि दृशिविदोः साकल्ये॥२९॥**

स्त्रीदर्शं स हरत्याशु विप्रवेशं182 हिनस्ति सः।
एतदप्यस्य सामर्थ्यं किं त्वया न प्रकाशितम्॥१३॥

** यावति विन्दजीवोः॥३०॥**

यावज्जीवमसौ सख्यं कुरुते बलिना सह।
यावद्वेदं पुनर्हीनान्प्रसभं हन्ति निर्घृणः॥१४॥

** चर्मोदरयोः पूरेः॥३१॥**

कुर्वन्त्युदरपूरं ये मुनिमांसानि राक्षसाः।
चर्मपूरं दधत्यङ्गैस्ते बलं तस्य वल्लभाः॥१५॥

** वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्॥३२॥ चेले क्नोपेः॥३३॥**

गोष्पदप्रां183कथं देवश्चेलक्नोपमथापि वा।
तत्र वर्षति यस्यासौ रक्षिता रक्षसां पतिः॥१६॥

** निमूलसमूलयोः कषः॥३४॥**

निमूलकाषंकषति सरित्पूर इव द्रुमम्।
रिपुं समूलकाषंच तममुं विद्धि भूपतिम्॥१७॥

** शुष्कचूर्णरूक्षेषु पिषः॥३५॥**

शुष्कपेषं तृणं मार्गे रूक्षपेषं महोपलान्।
यातः184 पिनष्टि यत्सैन्यं वेद तदपरः कथम्॥१८॥

** समूलाकृतजीवेषु हन्कृञ्ग्रहः॥३६॥ करणे हनः॥३७॥ स्नेहने पिषः॥३८॥**

निहतो185 मूलघातं186 वा जीवग्राहं विगृह्य वा।
कारिता कृतकारं स प्रतिकूलोऽस्य कः पुमान्॥१९॥

** हस्ते वर्तिग्रहोः॥३९॥ स्वेपुषः॥४०॥ अधिकरणे बन्धः॥४१॥ संज्ञायाम्॥४२॥**

**ग्रहग्राहं187**गृहीत्वा188 ये क्षीणास्त्राः समरेऽमुना।
चक्रबन्धं स्थिता बद्धाः स्वपोषं पोषिताश्चिरम्॥२०॥

** कर्त्रोर्जीवपुरुषयोर्नशिवहोः॥४३॥**

वहन्पुरुषवाहं यो जीवनाशं प्रणश्यति।
स जीवति परं वीरो यो वास्य प्रणतिं गतः॥२१॥

** ऊर्ध्वे शुषिपुरोः॥४४॥**

ऊर्ध्वपूरं निषङ्गा वा(?) ते शरैर्युधि पूरिताः।
योऽमुना189 कुरुते190 सार्धं विरोधं धन्विनां रणे॥२२॥

ऊर्ध्वशोषं विशुष्का ये191दावलीढा इव द्रुमाः।
अस्य प्रतापसंतप्ता बाहुच्छायां न ये श्रिताः॥२३॥

** उपमाने कर्मणि च॥४५॥ कषादिषु यथाविध्यनुप्रयोगः॥४६॥**

मृगनाशं न नष्टा ये वीक्ष्यामुं कुपितं युधि।
नृपाघातविलायं ते विलीनाः शरतापिताः॥२४॥

** उपदंशस्तृतीयायाम्॥४७॥**

येऽमुं नमन्ति भूनाथं मौलौ चन्द्रावभासिते।
कान्ताधरोपदंशं ते पिबन्ति मधु माधवाः॥२५॥

** हिंसार्थानां च समानकर्मकाणाम्॥४८॥**

शस्त्रघातमरीन्घ्नन्ति न भीतान्न नतिं गतान्।
अस्य भृत्या रणे राज्ञः स्वामिचित्तानुवर्तिनः॥२६॥

** सप्तम्यां चोपपीडरुधकर्षः॥४९॥**

भुजोपरोधमेकं यं बिभ्राणं मन्दराचलम्।
स्तनोपपीडमाश्लिष्टा लक्ष्मीः सोम्य समो हरिः॥२७॥

** समासत्तौ॥५०॥**

ये हस्तग्राहमेतेन युध्यन्ते सह ते पुनः।
गताः स्वगृहं ज्ञात्वा कुर्याद्वैरं महात्मभिः॥२८॥

** प्रमाणे च॥५१॥ अपादाने परीप्सायाम्॥५२॥**

नास्य भृत्याः परैः शक्या द्रष्टुमप्यसिपाणयः।
द्व्यङ्गुलोत्कर्षमङ्गानि च्छिन्दाना द्विषतां रणे॥२९॥

** द्वितीयायां च॥५३॥**

सैन्यनिष्क्राममाधावन्यष्टिग्राहं रणाजिरे।
युध्यते यस्य लोकोऽयं किं वीरेण सहामुना॥३०॥

** स्वाङ्गेऽध्रुवे॥५४॥ परिक्लिश्यमाने च॥५५॥**

भ्रूक्षेपमादधान्येष192ष’ स्यात्।") सेवकाय वसुंधराम्।
तस्य कृत्यस्य युध्यन्ते नोरःपेयं कथं भटाः॥३१॥

** विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः॥५६॥**

गृहप्रवेशमात्मीयं संमानयति यो जनम्।
परावस्कन्दमाक्रम्य स कथं न विधास्यते॥३२॥

भीतानुपातमेषोऽरीन्वीक्षते विनशिष्यतः।
संमुखानुप्रपातं193 ये कुर्वते तान्निकृन्तति॥३३॥

** अस्यतितृषोः क्रियान्तरे कालेषु॥५७॥**

प्रतिकूला नृपा येऽस्य व्द्यहात्यासं निहन्ति तान्।
त्र्यहात्यासं194 तथा नम्रान्मधु पाययते शुभम्॥३४॥

** नाम्न्यादिशिग्रहोः॥५८॥**

नामग्राहं समाख्याता येऽस्मै सपदि पार्थिवाः।
नामादेशं मुदे तेषां संमानादि दिशत्यसौ॥३५॥

** अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ॥५९॥**

उचैःकारं त्वयाख्येयं यद्यस्य हृदयं प्रियम्।
नीच्चैःकृत्य तथा गर्ह्यमेष न्यायः सनातनः॥३६॥

** तिर्यच्यपवर्गे॥६०॥**

श्लाघनीयानहं मन्ये तिर्यक्कारं गतान्नरान्।
तिर्यक्कृत्वा गता ये तु न ते पश्यन्ति तं प्रभुम्॥३७॥

** स्वाङ्गे तस्प्रत्यये कृभ्वोः॥६१॥**

मुखतःकारमाख्यासि देवानसिजितान्रणे।
मुखतः कृत्य नाख्यासि राक्षसान्पक्षपातवान्॥३८॥

** नाधार्थप्रत्यये च्व्यर्थे॥६२॥**

नानाकारं मुखं बिभ्रन्नानाकृत्यावलोकयन्।
नानाकृत्वा गिरं दूतः कोपादित्यवदत्पुनः॥३९॥

स्वामिनं मे समुद्दिश्य बहुधाकारमप्रियम्।
भाषितं न द्विधाकृत्वात्रिधाकृत्य वा त्वया॥४०॥

एकमप्यप्रियं वाक्यं त्वयोक्तं किमुताक्षयम्।
नानाभूयाद्य मे चित्ते दिग्धं शल्यमिवार्पितम्॥४१॥

** तूष्णीमि भुवः॥६३॥**

तूष्णींभूय स्थितोऽस्म्येष सहमानस्तवाप्रियम्।
तूष्णींभूत्वा त्वयाप्येवं सोढव्यं यद्ब्रवीम्यहम्॥४२॥

** अन्वच्यानुलोम्ये॥६४॥**

अन्वग्भूय मया सर्वं भाषितं ते प्रभुं प्रति।
नान्वग्भूत्वा त्वया किंचिदस्मान्प्रत्युदितं वचः॥४३॥

** शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्॥६५॥**

शक्तस्त्वं परमाक्रोष्टुंयोद्धुं धृष्टता तव।
जानासि स्तोतुमात्मानं गन्तुं न घटसे युधम्॥४४॥

** पर्याप्तिवचनेष्वलमर्थेषु॥६६॥ कर्तरि कृत्॥६७॥**

गन्तुमेकः स पर्याप्तस्तावकं195 रावणो बलम्।
पाता मरणभीतानां हारको रिपुसंपदाम्॥४५॥

** भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा॥६८॥**

भव्योऽसौ रक्षसां नाथो भव्यमस्य बलेन च।
गेयः स देहिनां भक्त्या गेयस्तेन न विद्यते॥४६॥

उपस्थानीयमेकं तं प्राहुः सर्वे दिवौकसः।
नोपस्थानीयमेतेन पश्यामो भुवनत्रये॥४७॥

** लः कर्मणि च भावे चाकर्मकेभ्यः॥६९॥**

यः शेते वीतभीरेको यः करोति भयं द्विषाम्।
येनास्यते विजित्येन्द्रं क्रियते स कथं रिपुः॥४८॥

** तयोरेव कृत्यक्तखलर्थाः॥७०॥**

आसितव्यं त्वया नेह द्रष्टव्यो वा दशाननः।
आसितं कीदृशं तेन यस्मैक्रुद्धः स दुर्जयः॥४९॥

सुदुस्तरमिदं वैरं मूढेन भवता कृतम्।
किं न स्वाढ्यंभवं तेन यस्य वैरी दशाननः॥५०॥

** आदिकर्मणि क्तः कर्तरि च॥७१॥**

जल्पतीति ततो दूते सभायां स भटव्रजः।
प्रकृतः कोपसंरम्भं प्रकृतः सर्वभूभुजा॥५१॥

प्रमितः कोपरक्ताङ्गः कश्चिदुद्यन्निवांशुमान्।
प्रमितं हसतान्येन सावज्ञं पश्यतारिषु॥५२॥

** गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च॥७२॥**

दुष्प्रेक्ष्यतां गतः कश्चिन्मध्ये दिवमिवांशुमान्।
स्वालोगभा(?)गतान्येन निर्विकारेण तिष्ठता॥५३॥

वाञ्छिताहवतानेन प्रीतिमान्कश्चिदासितः
आसितं दुःखमन्येन कोपकम्पितमूर्तिना॥५४॥

भुजेनस्ता196माश्लिष्टः संग्रामाप्तिमुदा सुहृत्।
सदोपशमितां यः स्त्रीं येनोपशमिता च सा॥५५॥

……………………………………………….।
तत्समानः परं राजा गाम्भीर्यानुगतः क्रुधाम्॥५६॥

उपस्थिता नृपाः शक्रं शत्रुणोपस्थिता नृपाः।
आकार्यमिति भूषेण197 भ्रूक्षेपेण निवारितः॥५७॥

ये त्वामनूषिताः प्रभुं भूपास्ते यैश्च भृत्यैरनूषिताः
तेऽखिला निबद्धसंरम्भा दधुराजिसंप्राप्तिसंमदम्॥५८॥

योऽनुजातो भ्रातरे198….नुवीरो भ्रा199ता199नुजातश्च
येन सह तावुभौ प्रक्रातु200र्गन्तुं प्रथमं ये रणं युधे॥५९॥

आरूढः पार्थिवः कोपं स चारूढो युयुत्सया।
युयुत्सा मुदमारूढा गमनत्वरया सह॥६०॥

** दाशगोघ्नौसंप्रदाने॥७३॥ भीमादयोऽपादाने॥७४॥ ताभ्यामन्यत्रोणादयः॥७५॥**

भीमा गोघ्नातिथेस्तस्य कुर्युर्मूर्तस्य निग्रहम्
ना201वाकरिष्यदीशश्चेदेकैकं संज्ञया पुनः॥६१॥

** क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः॥७६॥**

उवा202सितं नेदमिहातिधन्यं त्वया न भुक्तं शयितं च धन्यम्।
यातं तवैकं गुणकारि मन्ये मन्त्री जगादेति दशास्यदूतम्॥६२॥

** लस्य॥७७॥ तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्॥७८॥ टित आत्मनेपदानां टेरे॥७९॥ थासः से॥८०॥ लिटस्तझयोरेशिरेच्॥८१॥ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः॥८२॥ विदो लटो वा॥८३॥ ब्रुवः पञ्चानामादित आहो ब्रुवः॥८४॥ लोटो लङ्वत्॥८५॥ एरुः॥८६॥ सेर्ह्यपिच्च॥८७॥ मेर्निः॥८९॥ आमेतः॥९०॥ सवाभ्यां वामौ॥९१॥ आडुत्तमस्य पिच्च॥९२॥ एत ऐ॥९३॥ नित्यं ङितः॥९९॥ इतश्च॥१००॥ तस्थस्थमिपां ताम्तम्तामः॥१०१॥ लिङः सीयुट्॥१०२॥ यासुट् परस्मैपदेषूदात्तो ङिच्च॥१०३॥ किदाशिषि॥१०४॥ झस्य रन्॥१०५॥ इटोऽत्॥१०६॥ सुट् तिथोः॥१०७॥ झेर्जुस्॥१०८॥ सिजभ्यस्तविदिभ्यश्च॥१०९॥ आतः॥११०॥ लङः शाकटायनस्यैव॥१११॥ द्विषश्च॥११२॥ तिङ्शित्सार्वधातुकम्॥११३॥ आर्धधातुकं शेषः॥११४॥ लिट् च॥११५॥ लिङाशिषि॥११६॥**

देवान्व्यजेष्टाशु जहार लक्ष्मीं यश्चालुनान्नन्दनशाखिशाखाः।
ब्रवीम्यहंत्वां वद तं दशास्यमेष्यामि युद्धं भवितावयोः श्वः॥६३॥

किं नाम कुर्यान्मम तेन साध्यं सार्धं दशास्येन महर्धिभाजा।
सर्वं तिरस्कृत्य सगर्वमेव शून्यं यथा त्वं यदि नावदिष्यः॥६४॥

जिगमिषुरिदमूचे तं ततः पार्थिवेशो
वद मम वचनेन त्वं दशग्रीवमेवम्।
यदि रणमथ सख्यं यद्द्वयं वाञ्छितं ते
मनसि तदहमेकं प्राप्य शीघ्रं करोमि॥६५॥

इत्यर्जुनरावणीये महाकाव्ये वैयाकरणभट्टभीमकृते धातुसंबन्ध(तृतीयाध्याये चतुर्थे) पादे त्रयोदशः सर्गः॥

_______________

चतुर्दशः (चतुर्थाध्याये प्रथमद्वितीयपादरूपः) सर्गः।

** ङ्याप्प्रातिपदिकात्॥१॥ स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्॥२॥ स्त्रियाम्॥३॥ अजाद्यतष्टाप्॥४॥ ऋन्नेभ्यो ङीप्॥५॥ उगितश्च॥६॥ वनो र च॥७॥**

अजैडकामानुषमांसभक्ष्ये203 दूते गते भर्तृहितानि कर्त्री
तेजस्विनी शक्तिमती बभाषे सभार्जुनेनाहवदृश्वरीत्थम्॥१॥

** पादोऽन्यतरस्याम्॥८॥**

हन्ता द्विपद्याःचतुष्पदोऽत्र यः प्राणिजातेः स दशाननोमाम्।
सख्यं रणं वार्थयते स गर्वंश्रुतं नरेन्द्राः किमभाषि तेन॥२॥

** टावृचि॥९॥**

ऋचः पठन्तः पुरि यस्य विप्राश्चतुष्पदाः पञ्चपदाः समासाः।
खादन्ति मांसानि जनस्य नित्यं पापो मया पापगुरुः स बध्यः॥३॥

** न षट्स्वस्रादिभ्यः॥१०॥ मनः॥११॥ अनो बहुव्रीहेः॥१२॥ डावुभाभ्यामन्यतरस्याम्॥१३॥**

स्वसापि यं द्वेष्टि भवप्रसादाद्ग्रीवां दधानं दश लूनलग्नाम्।
मया ध्वजिन्या बहु राजयासौ नेयो वशं संयतसांपराज्ञा॥४॥

** अनुपसर्जनात्॥१४॥ टिड्ढाणञ्द्वयसज्दघ्नञ्मात्र-**
______________________________________________________________

२.‘दिच्छा’ इति भवेत्। ३. ‘अनश्वरी’ इति भवेत्।

च्तयप्ठक्ठञ्कञ्क्वरपः॥१५॥ नञ्स्नञीकक्ख्युंस्तरुणतलुनानामिति वाच्यम् (वा०)॥

अनर्वरी रात्रिचरेशलावी ममेदृशी चेतसि तावदिच्छाम्।
या वैनतेयीव विहङ्गमूर्तिर्विपक्षनागाङ्गविनाशकर्त्री॥५॥

एषोऽहमाढ्यंकरणीं रिपूणां जित्वा204कीमाशु चमूं सनागाम्।
कृत्वोरुदघ्नीं रिपुरक्तकुल्यां दिक्चक्रमात्रीं वितनोमि कीर्तिम्॥६॥

** यञश्च॥१६॥ प्राचां ष्फस्तद्धितः॥१७॥ सर्वत्र लोहितादिकतन्तेभ्यः॥१८॥ कौरव्यमाण्डूकाभ्यां च॥१९॥**

गार्ग्यायणी यस्य त….स्म वात्सी विभीषयन्ते तपसापि युक्ताः।
त्रस्यन्ति शापान्न तु पापपाताद्बलं हि मूलेषु परोपघाति॥७॥

** वयसि प्रथमे॥२०॥ द्विगोः॥२१॥**

वरं कुमारी वरमेति कीर्तिर्यः पञ्चराजीमपि हन्त्युपेताम्।
किमुच्यतां लक्षरथीसमेतं तं राक्षसेशं पुनरभ्युपेतम्॥८॥

** अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकि॥२२॥ काण्डान्तात्क्षेत्रे॥२३॥**

मन्ये गजस्थानपि यस्य योधा205करेणुमारुह्य नरो दशाश्वान्206
क्षेत्रस्थितिं प्राप्य सहस्रकाण्डां पलायमानानपि को न हन्यात्॥९॥

** पुरुषात्प्रमाणेऽन्यतरस्याम्॥२४॥**

संमुखीनमाप्य यः शत्रुं…….यस्याशु भीत्या पराङ्मुखः।
त्रिपुरुषां चतुष्पुरुषीं वास्य परिखां यशोऽवैत्य मज्जति॥१०॥

** बहुव्रीहेरूधसो ङीष्॥२५॥ संख्याव्ययादेर्ङीप्॥२६॥ दामहायनान्ताच्च॥२७॥ अन उपधालोपिनोऽन्यतरस्याम्॥२८॥ नित्यं207 संज्ञाच्छन्दसोः॥२९॥**

श्रुत्वाभ्यमित्रीयमरातिलोकं पराङ्मुखं यो न पदं दधाति।
दुग्धे घटोध्नीव पयांसि धेनुस्त्रिहायणी तस्य यशांसि मूर्तिः॥११॥

सामाद्युपायत्रितयावसाने यो दण्डमाविष्कुरुते विवेकी।
आस्ते चिरं कामदुघेव धेनुर्बद्धा द्विदाम्नीभवनेऽस्य कीर्तिः॥१२॥

** केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च॥३०॥ रात्रेश्चाजसौ॥३१॥ अन्तर्वत्पतिवतोर्नुक्॥३२॥ पत्युर्नो यज्ञसंयोगे॥३३॥ विभाषा सपूर्वस्य॥३४॥ नित्यं सपत्न्यादिषु॥३५॥**

यः कीर्त्यमानं सहते परेषां न शक्तिमान्भूपतिशब्दमात्रम्।
अनन्यसाधारणभोगवृत्तिस्तेनाङ्गना वा पतिवत्न्यसौ भूः॥१३॥

** पूत क्रतोरै च॥३६॥ वृषाकप्यग्निकुसितकुसिदानामुदात्तः॥३७॥**

पूतक्रतायीमपि दीक्षितस्य हरेदसौ यः किमुतान्यपत्नीः।
गत्वापि वध्यः स महीपतीनां विचारणा का स्वयमागते तु॥१४॥

** मनोरौ वा॥३८॥ वर्णादनुदात्तात्तोपधात्तो नः॥३९॥ अन्यतो ङीष्॥४०॥**

पश्येन्मनावीमपि पापचेता यद्येष मन्येऽपहरेद्दशास्यः।
पत्या यदीयेन दिशो गुणौघैः श्येनीकृतास्तत्परिपालनेन॥१५॥

** षिद्गारादिभ्यश्च॥४१॥ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराट्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु॥४२॥ शोणात्प्राचाम्॥४३॥**

गौरीपतेः प्राप्यवरं वराकीः संत्रासयन्देववधूः सदेवाः।
निरस्यते जानपदीं च वृत्तिं वध्यो न वा ब्रूत मया स पापः॥१६॥

हरन्ति ये धान्यभृतां जनानां कुण्डीश्च गोणीश्च कुशीश्च पापाः।
पुरःसरास्तस्य भटा न मिथ्या समानशीला हि भवन्त्यभीष्टाः॥१७॥

तां विक्रमोक्तिं नृपतेर्निशम्य भटा यथालिङ्गितकामुकीकाः।
नारी208र्दधानाः पुलकेन मूर्तीर्वनस्थलीषु द्विरदा इवासन्॥१८॥

** वोतो गुणवचनात्॥४४॥ बह्वादिभ्यश्च॥४५॥ पुंयोगादाख्यायाम्॥४८॥**

वनाय पट्वींचरतां विदित्वा पदानिना209 गीतविशुद्धकीर्तिः।
अजीघनन्मे210घनिनादधीरं सांनाहिकं दुन्दुभिमाशु राजा॥१९॥

** इन्द्रवरुणभवशर्वरुद्रभृडहिमारण्ययवयवनमातुलाचार्याणामानुक्॥४९॥**

दशास्यभङ्गध्वनितच्छलेन तेनानकेनाब्रुवता स धीरम्।
यथा कृतेन्द्राण्यपि संप्रहृष्टा मन्ये भवानी वरुणान्यपीति॥२०॥

ततो भविष्यद्विरहाकुलानां ध्वानश्रुतिं सा पटुरानकस्य।
म्लानिं हिमानीव सरोजिनीनां चक्रे चिरं वीरविलासिनीनाम्॥२१॥

निशम्य तं दुन्दुभिनादमन्या विजृम्भमाणं पुरि राजपत्नी।
वैधव्यभीता धृताञ्जनास्त्रां कपोलभित्तिं शबलीमुवाह॥२२॥

शर्वाण्यभीष्टं परिपूज्य देवं पत्युर्महामात्र्युपकण्ठमाप।
प्रष्ठी तथा साक्षतपात्रहस्ता यातास्तथा मङ्गलपाणयोऽन्याः॥२३॥

** क्रीतात्करणपूर्वात्॥५०॥ क्तादल्पाख्यायाम् ५१**

ततः कृतस्नानविधिं प्रसादक्रीतिं भटानां समितिं यियासुम्।
स्रक्चन्दनोशीररजोविलिप्तीं विलोक्य नारी सहसा विषण्णा॥२४॥

** बहुव्रीहेश्चान्तोदात्तात्॥५२॥**

अचिन्तयन्ती नृपकार्यमेका प्रसार्य बाहू दयितस्य यातुः।
जानुभग्नीव चचाल मार्गात्प्रायेण लोकः स्वहितानुवर्ती॥२५॥

** अस्वाङ्गपूर्वपदाद्वा॥५३॥**

स्थिता सुनाथेत्यवरुध्य मार्गं संख्या प्रयुक्ता मधुपीतयान्या
कान्तस्य नाचिन्तयदाजिविघ्नंं मदो विवेकस्य विनाशहेतुः॥२६॥

** स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्॥५४॥**

दृष्टां प्रसीदन्मुखया सपत्न्या कान्तां गलद्बाष्पमुखीं विलोक्य।
रणप्रियोऽप्यास्त चिराय कश्चित्प्रियस्य दुःखेन तु को न दुःखी॥२७॥

नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च॥५५॥ न क्रोडादिवह्वचः॥५६॥ सहनञ्विद्यमानपूर्वाच्च॥५७॥ नखमुखात्संज्ञायाम्॥५८॥ दिक्पूर्वपदान्ङीप्॥६०॥ वाहः॥६९॥

तलोदरीं211 कश्चिदनिन्दितोष्ठीं सुचारुकर्णी समशुद्धदन्तीम्।
तुल्यां प्रियामप्सरसैक्ष्य मेने युद्धाद्गतिं स्वर्गृहयोः समानाम्॥२८॥

तलोदरान्या212 रुचिराधरौष्ठी213 रणाय यातुं214 प्रियमित्युवाच।
सव्यासमेतन्निजजीवितं त्वं रक्षेर्मदर्थं प्रियजीविताहम्॥२९॥

विपादसीदद्धृदयां स्वकान्तां पराङ्मुखीं वीक्ष्य निमीलिताक्षीम्।
मृतेयमित्याहितभूरिकम्पः संनाहमन्यस्त्वरया मुमोच॥३०॥

नारीं सकेशां यदि वाप्यकेशां स्वर्गे लभेयाहमिति त्वरावान्।
प्रयासि युद्धाय न भृत्यकृत्ये कयाचिदूचे सरुषेति कान्तः॥३१॥

वध्या प्रयुक्ता गुरुसंनिधाने सलज्जया मङ्गलपात्रहस्ता।
दशाननं शूर्पनखेव215 काचित्सहोदरा भूपतिमाससाद॥२२॥

सख्यशिश्वीति भाषायाम्॥६२॥ जातेरस्त्रीविषयादयोपधात्॥६३॥ पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च॥६४॥ इतो मनुष्यजातेः॥६५॥ ऊङुतः॥६६॥ बाह्वन्तात्संज्ञायाम्॥६७॥ पङ्गोश्च॥६८॥ ऊरूत्तरपदादौपम्ये॥६९॥ संहितशफलक्षणवामादेश्च॥७०॥ कद्रुकमण्डल्वोश्छन्दसि॥७१॥ संज्ञायाम्॥७२॥ शार्ङ्गरवाद्यञो ङीन्॥७३॥ यङश्चाप्॥७४॥ आवट्याच्च॥

संख्यां नलिन्यामिव संनिषण्णां रणप्रदोषागमनेन वीरः।
विमोचितः प्राणसमां कथंचित्स्वांचक्रवाकीमिव चक्रवाकः॥३३॥

रणोत्सवायाहितयानयत्नं पयोधराभोगभरं दधाना।
वधूरशिश्वी नयनाम्बुवृष्ट्या समारुधत्प्रावृडिवात्मकान्तम्॥३४॥

गृहेऽप्यरण्यान्यवनास्थिता मे चित्तानुवर्तिन्यबला न येषाम्।
किं मे न दैन्यव्यजनेन वाक्यं करोषि कान्तामिति216 कश्चिदूचे॥३५॥

** तद्धिताः217॥७६॥ यूनस्तिः॥७७॥ अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे॥७८॥ गोत्रावयवात्॥७९॥ क्रौड्यादिभ्यश्च॥८०॥ दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्॥८१॥ समर्थानां प्रथमाद्वा॥८२॥ प्राग्दीव्यतोऽण्॥८३॥ अश्वपत्यादिभ्यश्च॥८४॥ दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॥८५॥ उत्सादिभ्योऽञ्॥८६॥ स्त्रीपुंसाभ्यां नञ्-स्नञौ भवनात्॥८७॥ द्विगोर्लुगनपत्ये॥८८॥ गोत्रेऽलुगचि॥८९॥ यूनि लुक्॥९०॥ फक्फिञोरन्यतरस्याम्॥९१॥ तस्यापत्यम्॥९२॥ एको गोत्रे॥९३॥ गोत्राद्यून्यस्त्रियाम्॥९४॥ अत इञ्॥९५॥ बाह्वादिभ्यश्च॥९६॥ सुधातुरकङ् च॥९७॥ गोत्रे कुञ्जादिभ्यश्च्फञ्॥९८॥ नडादिभ्यः फक्॥९९॥ हरितादिभ्योऽञः॥१००॥ यञिञोश्च॥१०१॥ शरदच्छुनकर्भाद्भृगुवत्साग्रायणेषु॥१०२॥ द्रोणपर्वतजीवन्तादन्यतरस्याम्॥१०३॥ अनृष्यानन्तर्ये विदादिभ्योऽञ्॥१०४॥ गर्गादिभ्यो यञ्॥१०५॥ मधुबभ्रवोर्ब्राह्मणकौशिकयोः॥१०६॥ कपिबोधादाङ्गिरसे॥१०७॥ वतण्डाच्च॥१०८॥ लुक्त्रियाम्॥१०९॥ अश्वादिभ्यः फञ्॥११०॥ भर्गात्रैगर्ते॥१११॥ शिवादिभ्योऽण्॥११२॥ अवृद्धाश्योनदी मानुषीभ्यस्तन्नामिकाभ्यः॥ ११३॥ ऋष्यन्ध-**

कवृष्णिकुरुभ्यश्च॥११४॥ मातुरुत्संख्यासंभद्रपूर्वीयाः॥११५॥ कन्यायाः कनीन च॥११६॥ विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु॥११७॥ पीलाया वा॥११८॥ ढक्च मण्डूकात्॥११९॥ स्त्रीभ्यो ढक्॥१२०॥ द्व्यचः॥१२१॥ इतश्चानिञः॥१२२॥ शुभ्रादिभ्यश्च॥१२३॥ विकर्णकुषीतकात्काश्यपे॥१२४॥ भ्रुवो वुक्च॥१२५॥ कल्याण्यादीनामिनङ्॥१२६॥ कुलटाया वा॥१२७॥ चटकाया ऐरक्॥१२८॥ गोधाया ढक्॥१२९॥आरगुदीचाम्॥१३०॥ क्षुद्राभ्यो वा॥१३१॥ पितृष्वसुश्छण्॥१३२॥ ढकि लोपः॥१३३॥ मातृष्वसुश्च॥१३४॥ चतुष्पाद्भ्योढञ्॥१३५॥ गृष्ट्यादिभ्यश्च॥१३६॥ राजश्वशुराद्यत्॥१३७॥ क्षत्राद्धः॥१३८॥ कुलात्खः॥१३९॥ अपूर्वपदादन्यतरस्यां यड्ढकञौ॥१४०॥ महाकुलादञ्खञौ॥१४१॥ दुष्कुलाड्ढक्॥१४२॥ स्वसुश्छः॥१४३॥ भ्रातुर्व्यच्च॥१४४॥ व्यन्सपत्ने॥१४५॥ रेवत्यादिभ्यष्ठक्॥१४६॥ गोत्रस्त्रियाः कुत्सनेण च॥१४७॥ वृद्धाट्ठक् सौवीरेषु बहुलम्॥१४८॥ फेश्छ च॥१४९॥ फाण्टाहृतिमिमताभ्यां णफिञौ॥१५०॥ कुर्वादिभ्यो ण्यः॥१५१॥ सेनान्तलक्षणकारिभ्यश्च॥१५२॥ उदीचामिञ्॥१५३॥ तिकादिभ्यः फिञ्॥१५४॥ कौशल्यकार्मार्याभ्यां च॥१५५॥ अणो द्व्यचः॥१५६॥ उदीचां वृद्धादगोत्रात्॥१५७॥ वाकिनादीनां कुक्च॥१५८॥ पुत्रान्तादन्यतरस्याम्॥१५९॥ प्राचामवृद्धात्फिन्बहुलम्॥१६०॥ मनोर्जातावञ्यतौ पुक्च॥१६९॥ अपत्यं पौत्रप्रभृति गोत्रम्॥१६२॥ जीवति तु वंश्ये युवा॥१६३॥ भ्रातरि च ज्यायसि॥१६४॥ वान्यस्मिन्सपिण्डे

स्थविरतरे जीवति॥१६५॥ वृद्धस्य च पूजायाम्ः॥१६६॥ यूनश्च कुत्सायाम्॥१६७॥ जनपदशब्दात्क्षत्रियादञ्॥१६८॥ साल्वेयगान्धारिभ्यां च॥१६९॥ यञ्मगधकलिङ्गसूरमसादण्॥१७०॥ वृद्धेत्कोसलाजादाञ्ञ्यङ्॥१७१॥ कुरुनादिभ्यो ण्यः॥१७२॥ साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्॥१७३॥ ते तद्राजाः॥१७४॥ कम्बोजाल्लुक्॥१७५॥ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च॥१७६॥ अतश्च॥१७७॥ न प्रांच्यभर्गादियौधेयादिभ्यः॥१७८॥

नारीः218 समाश्वास्य विषादचित्ताः पौस्नंबलं **साश्वपत….**मेण219
सभोपसैन्यं220 स्वगृहाणि मुक्त्वा **भोपत्य221**धामाजिनमेव तस्थौ॥३६॥

दौष्कुलेयोऽभवदत्र कश्चिन्महाकुलीनो222 नरदेवलोकः।
आदित्यवत्साम्बुदयोधगुप्तसंनाहवल्लोकदृशामगम्यः॥३७॥

द्वैमातुराणामपि तत्र भेदो न क्षत्त्रियाणामभवन्मनःसु।
विकारहेतावपि निर्विकारं महाकुलत्वं223 महनीयवृत्तिः224॥३८॥

सौभागिनेयाः सपितृष्वसेया मातृष्वसेयाश्च सदासमित्त्राः।
परस्परस्यालयमभ्युपेताश्चक्रुर्गदाश्वायुधदानमानम्॥३९॥

सदाक्षिनाडायनवैदगार्ग्या वासिष्ठसांख्या225यनभागवित्ताः226 इति सूत्रप्रवर्तने भागवित्तिकाः’ इति भवेत्, तथा च छन्दसि विचार्यम्.")।
ते कृतस्नानविधेर्नृपस्य सौनातिकास्तत्र यमुर्मुनीन्द्राः॥४०॥

इति ङ्यप्प्रातिपदिकपादोऽपत्याधिकारश्च॥

** तेन रक्तं रागात्॥१॥ लाक्षारोचनाशकलकर्दमाट्ठक्॥२॥ नक्षत्रेण युक्तः कालः॥३॥ लुबविशेषे**

॥४॥ संज्ञायां श्रवणाश्वत्थाभ्याम्॥५॥ द्वन्द्वाच्छः॥६॥ दृष्टं साम॥७॥ कलेर्ढक्॥८॥ वामदेवाड्ड्यड्ड्यौ॥९॥ परिवृतो रथः॥१०॥ पाण्डुकम्बलादिनिः॥११॥ द्वैपवैयाघ्रादञ्॥१२॥ कौमारापूर्ववचने॥१३॥ तत्रोद्धृममत्रेभ्यः॥१४॥ स्थण्डिलाच्छयितार व्रते॥१५॥ संस्कृतं भक्षाः॥ १६॥ शूलोखाद्यत्॥१७॥ दध्नष्टक्॥१८॥ उदश्वितोऽन्यतरस्याम्॥१९॥ क्षीराड्ढञ्॥२०॥सास्मिन्पौर्णमासीति संज्ञायाम्॥२१॥ आग्रहायण्यश्वत्थाट्ठक्॥२२॥ विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः॥२३॥

समुल्लसल्लाक्षिककेतुमालान्वास्त्रान्रथान्भूपतयः प्रपन्नाः।
विरेजिरे रौचनिकास्ते….देवा (?) इव….विशालशृङ्गाः॥४१॥

कूर्पासिकान्कार्दमिकान्दधानास्तत्रापरे शाकलिका227 विरेजुः।
पदातयो भूमिभृता228 पुरस्ताद्विवल्गनाः कम्पितमेदिनीकाः॥४२॥

वैयाघ्रमीशस्य सदश्वयुक्तं कौसुम्भकेतुं रथमाहितास्त्रम्।
द्वैप्यांस्तथा शेषमहीपतीनां सज्जान्दधुर्द्वारि गृहस्य सूताः॥४३॥

कौमारमागम्य मपामरस्त्री सामुं ग्रही229दस्य करोमि चिह्नम्।
कौमार्युपश्लिप्य वधूरितीव सकुङ्कुमाङ्कं वपुरस्य चक्रे॥४४॥

उख्यानि शूल्यानि च ये पुरस्तान्मांसानि खादन्ति गताः क्व तेऽद्य।
न चाधिकेनापि मयाशितं ते कश्चिज्जगादेति नृपं सहासम॥

पुरंदरस्येव पुरा प्रगीता विप्रा नरेन्द्रस्य जयाय साम।
सवामदेव्यं शुचि तैत्तिरीयं पौषेऽहनि प्रीतियुता यियासौ॥४६॥

** सास्य देवता॥२४॥ कस्येत्॥२५॥ शुक्राद्धन्॥२६॥ अपोनप्त्रपांनप्तृभ्यां घः॥२७॥ छ च॥२८॥ महेन्द्राद्धाणौ च॥२९॥ सोमाट्टयण्॥३०॥ वाय्वृ-**

तुपित्रुषसो यत्॥३१॥ द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च॥३२॥ अग्नेर्ढक्॥३३॥ कालेभ्यो भववत्॥३४॥ महाराजप्रोष्ठपदाट्ठञ्॥३५॥ पितृव्यमातुलमातामहपितामहाः॥३६॥

माहेन्द्रियं230 तस्य चरुं पुरोधा जयाय यावज्जुहवांचकार।
पितृव्यमातामहमातुलाद्यान्संभावयामास नृपोऽपि तावत्॥४७॥

** तस्य समूहः॥३७॥ भिक्षादिभ्योऽण्॥३८॥ गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्॥३९॥ केदाराद्यञ्च॥४०॥ ठञ्कवचिनश्च॥४१॥ ब्राह्मणमाणववाडवाद्यत्॥४२॥ ग्रामजनबन्धुसहायेभ्यस्तल्॥४३॥ अनुदात्तादेरञ्॥४४॥ खण्डिकादिभ्यश्च॥४५॥ चरणेभ्यो धर्मवत्॥४६॥ अचित्तहस्तिधेनोष्ठक्॥४७॥ केशाश्वाभ्यां यञ्छावन्यतरस्याम्॥४८॥ पाशादिभ्यो यः॥४९॥ खलगोरथात्॥५०॥ इनित्रकट्यचश्च॥५१॥**

राजन्यकं राजकमङ्गनस्थं मानुष्यकं कावचिकं च लोकः।
स क्षुद्रविद्रावणमस्य मेने दोष्णां सहस्रेण सहायमाजौ॥४८॥

स्नातः सितोष्णीषनिबद्धकेश्यः क्षौमे वसानः प्रणिपत्य देवान्।
उपागतो **बन्धुतया231**जने यो ब्राह्मण्यमभ्यर्चदभीष्टकामैः॥४९॥

प्रसादनेनोपगतः सुदूरान्निरीक्ष्यमाणः क्षितिपेन लोकः।
शिरोभिरस्याप्तफलोरुसंपत्कैदारिके232 शालिरिवाननाम॥५०॥

रथं भटाढ्यं रथकट्ययेशः समावृतं हास्तिकबद्धकक्ष्यम्।
विवल्गदश्वीयशतानुयातं समारुरोहाहतभूरि तूर्यम्॥५१॥

या गच्छता भूमिभृता रयेण तृण्या सदश्वीयखुराग्रपिष्टा।
वात्याहता सा दिवि धूलिमिश्रा धूल्येव भानुं स्थगयांबभूव॥५२॥

निरुद्धभास्वत्किरणप्रतापं रात्रीयमाणं गगनं रजोभिः।
काकं सशोकं समुदीक्ष्य मन्ये निवासवृक्षाभिमुखं बभूव॥५३॥

ग्रामतां ग्रामविशालरथ्यां सधेनुकां गर्जदुदारगोत्राम्।
विलङ्घयन्भूपतिराससाद विलूनकेदार233तलां धरित्रीम्॥५४॥

तदस्यां प्रहरणमिति क्रीडायां णः॥५७॥ तद्धीते तद्वेद॥५९॥ ऋतुकथादिसूत्रान्ताट्ठक्॥६०॥ क्रमादिभ्यो वुन्॥६१॥ अनुब्राह्मणादिनिः॥६२॥ वसन्तादिभ्यष्ठक्॥६३॥ प्रोक्ताल्लुक्॥६४॥ सूत्राच्च कोपधात्॥६५॥ छन्दोब्राह्मणानि च तद्विषयाणि॥६६॥

ते राक्षसं युद्धमनूनमन्त्राः क्रीडामिवायान्ति नृपाः स्म चण्डाम्234
मौहूर्तसंपादितयानकालास्तं नार्मदं कूलमरेर्निवासम्॥१५॥

तदस्मिन्नस्तीति देशे तन्नाम्नि॥६७॥ तेन निर्वृत्तम्॥६८॥ तस्य निवासः॥६९॥ अदूरभवश्च॥७०॥ ओरञ्॥७१॥ मतोश्च बह्वजङ्गात्॥७२॥ बह्वचः कूपेषु॥७३॥उदक्च विपाशः॥७४॥ संकलादिभ्यश्च॥ ७५॥ स्त्रीषु सौवीरसात्वप्राक्षु॥७६॥ सुवास्त्वादिभ्योऽण्॥७७॥ रोणी॥७८॥ कोपधाच्च॥७९॥ वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाश्मसखिसंकाशवलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः॥८०॥ जनपदे लुप्॥८१॥ वरणादिभ्यश्च॥८२॥ शर्कराया वा॥८३॥ ठक्छौ च॥८४॥ नद्यां मतुप्॥८५॥ मध्वादिभ्यश्च॥८६॥ कुमुदनडवेतसेभ्यो ङ्मतुप्॥८७॥ नडशादाड्ड्वलच्॥८८॥ शिखाया वलच्॥८९॥ उत्करादिभ्यश्छः॥९०॥ नडादीनां कुक्च॥९९॥

कुमुद्वतीं वारिततिं दधाना वेतस्वतीमुज्झितयानखेदाः।
रवां नरेन्द्रा ययुरीक्षमाणास्तस्यास्तटेनायतशाद्वलेन॥९६॥

अग्रेसरैर्यं परिहृत्य यातं मार्गेषु विस्तीर्णमगाधतोयम्।
तं नड्वलौघं क्षितिपाः क्षणेन धूलीचकारातिजवेन गच्छन्॥१७॥

इति चातुरर्थिकाः॥

** शेषे॥९२॥ राष्ट्रावारपाराद्धखौ॥९३॥ ग्रामाद्यखञौ॥९४॥ कत्त्र्यादिभ्यो ढकञ्॥९५॥ कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु॥९६॥ नद्यादिभ्यो ढक्॥९७॥ दक्षिणापश्चात्पुरसस्त्यक्॥९८॥ कापिंश्याःष्फक्॥९९॥**

ग्रैवेयकोरुध्वनि235पूरिताशान्गृहीतकौक्षेयकलोकयुक्तान्।
ग्राम्याः सुदूरादवलोक्य नागान्ग्रामीणनारीसहिताः प्रणेशुः॥५८॥

स वाजिनागेन्द्ररथाधिरूढैः पाश्चात्त्यपौरस्त्यसदाक्षिणात्यैः।
राजानुयातो नृवरैरगच्छन्नादेयशीतानिलवीजिताङ्गः॥९९॥

रङ्कोरमनुष्येऽण्च॥१००॥ द्युप्रागपागुदक्प्रतीचो यत्॥१०१॥ कन्यायाष्टक्॥१०२॥ वर्णौ वुक्॥१०३॥ अव्ययात्त्यप्॥१०४॥

प्राच्यैरुदीच्यैरथ सप्रतीच्यैर्दिव्यानुभावैः क्षितिंपैरुपेतः।
आगाद्यसात्येन236 ततस्ततस्त्याः कुर्वन्कथाः शत्रुवधाय राजा॥६०॥

** ऐषमोह्यःश्वसोऽन्यतरस्याम्॥१०॥ तीररूप्योत्तरपदादञ्ञौ॥१०६॥ दिक्पूर्वपदादसंज्ञायां ञः॥२०७॥ मद्रेभ्योऽञ्॥१०८॥ उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्॥१०९॥ प्रस्थोत्तरपदपलद्यादिकोपधादणू॥११०॥ कण्वादिभ्यो गोत्रे॥१११॥ नाद्व्यचः प्राच्यभरतेषु॥११३॥ वृद्धाच्छः॥११४॥ भवतष्ठक्छसौ॥११५॥ काश्यादिभ्यष्ठञ्ञिठौ॥११६॥ बाहीकग्रामेभ्यश्च १९७**

विभाषोशीनरेषु॥११८॥ ओर्देशे ठञ्॥११९॥ वृद्धात्प्राचाम्॥१२०॥ धन्वयोपधाद्वुञ्॥१२१॥ प्रस्थपुरवहान्ताच्च॥१२२॥ रोपधेतोः प्राचाम्॥१२३॥ जनपदतदवध्योश्च॥१२४॥ अवृद्धादपि बहुवचनविषयात्॥१२५॥ कच्छाग्निवक्रवर्तोत्तरपदात्॥१२६॥ धूमादिभ्यश्च॥१२७॥ नगरात्कुत्सनप्रावीण्ययोः॥१२८॥ अरण्यान्मनुष्ये॥१२९॥ विभाषा कुरुयुगंधराभ्याम्॥१३०॥ मद्रवृज्योः कन्॥१३१॥ कोपधादण्॥१३२॥ कच्छादिभ्यश्च॥१३३॥ मनुष्यतत्स्थयोर्वुञ्॥१३४॥ अपदातौ साल्वात्॥१३५॥ गोयवाग्वोश्च॥१३६॥ गर्तोत्तरपदाच्छः॥१३७॥ गहादिभ्यश्च॥१३८॥ प्राचां कटादेः॥१३९॥ राज्ञः क च॥१४०॥ वृद्धादकेकान्तखोपधात्॥१४१॥ कन्थापलदनगरग्रामहूदोत्तरपदात्॥१४२॥ पर्वताच्च॥१४३॥ विभाषामनुष्ये॥१४४॥ कृकणपर्णाद्भारद्वाजे॥१४५॥

तत्रैषमस्त्यं प्रविचारयन्तः कार्यंययुः केचिददूरवाहाः।
ह्यस्त्यं तथा श्वस्तनमात्मवृत्तमन्ये चिरं संकथयांबभूवुः॥६१॥

द्राजकीयाः सह पर्वतीयैर्ग्रामेयको नागरकश्च लोकः।
आरण्यकेन ……. बहुत्वं कृत्योऽयमित्यायतनावबोधम्॥६२॥

कात्रेयसस्रौघ्नसमाथुरौत्साः सौराष्ट्रियाः पाक्तविकोदपानाः।237 इति सूत्रकाशिकायां तथादर्शनात्")
पादातयः शाकलिकादयस्ते जग्मुः पुरो वेगितमीश्वरस्य॥६३॥

अथ दशवदनीयं तत्र संनाह तूर्यं
सजलजलदधीरध्वानमास्फाल्यमानम्।

अवनिपतिचमूः सारान्निशम्यातिदुःखं
समरभुवि मुहूर्तं संयुगे नोत्सुकास्त॥६४॥

इत्यर्जुनरावणीये रक्त (चतुर्थाध्यायस्य द्वितीये) पादे चतुर्दशः सर्गः॥

——————————

पञ्चदशः(चतुर्थाध्यायस्य तृतीयपादरूपः) सर्गः।

ततो गम्भीरघोषेण दशास्येनैव चोदिताः।
पटहेन युधे योधाः संलापानिति चक्रिरे॥१॥

युष्मदस्मदोरन्यतरस्यां खञ्च॥१॥ तस्मिन्नणि च युष्माकास्माकौ॥२॥ तवकममकावेकवचने॥३॥

यौष्माकीनं238 धनुर्धन्यमास्मकीनमतोऽधिकम्।
अस्मदीयं गृहाण त्वं युष्मदीयं ममास्त्विदम्॥२॥

यौष्माकं यादृशं यानं नास्माकं भद्र तादृशम्।
मामकं त्वं गृहाणेदमहं गृह्णामि तावकम्॥३॥

तावकीनो रथः कान्तो मामकीनोऽतिशोभनः।
इत्योलापाञ्जनस्तत्र कुर्वाणः समनह्यत॥४॥

अर्धाद्यत्॥४॥ परावराधमोत्तमपूर्वाच्च॥५॥ दिक्पूर्वपदाट्ठञ्च॥६॥ ग्रामजनपदैकदेशादञ्ठञौ॥७॥ मध्यान्मः॥८॥ अ सांप्रतिके॥९॥ द्वीपादनुसमुद्रं यञ्॥१०॥

मन्दोदर्या मुखच्छाया श्रुत्वार्जुन239लोन्नतेः।
मासस्य तनुतामायादपरार्धेव240 चन्द्रिका॥५॥

अधमार्ध्यंशुभं वस्त्रमुत्तमार्ध्यं च बिभ्रती।
पत्युरर्ध्येव कायस्य परार्ध्यमिदमब्रवीत्॥६॥

पश्चार्धिकं241 जलं नद्याः पूर्वार्ध्येन विमिश्रितम्।
येन दोष्णां सहस्रेण का तुला सह तेन ते॥७॥

पौर्वार्धा ये जनाः पृथ्व्या ये वास्याः पश्चिमार्धिकाः।
सद्वैप्या विजिता येन तेनापि सह युध्यसे॥८॥

कालाट्ठञ्॥११॥ श्राद्धे शरदः॥१२॥ विभाषा रोगातपयोः॥१३॥ निशाप्रदोषाभ्यां च॥१४॥ श्वसस्तुट् च॥१५॥ संधिवेलाद्यृतुनक्षत्रेभ्योऽण्॥१६॥ प्रावृष एण्यः॥१७॥ वर्षाभ्यष्ठक्॥१८॥ छन्दसि ठञ्॥१९॥ वसन्ताच्च॥२०॥ हेमन्ताच्च॥२१॥ सर्वत्राण्च तलोपश्च॥२२॥ सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च॥२३॥ विभाषा पूर्वाह्णापराह्णाभ्याम्॥२४॥

मासिकस्येव मूढस्य शुष्यामि चरितेन ते।
आतपेन पतङ्गस्य पृथ्वी शारदकेन242 वा॥९॥

नैशं प्रदोषिकं243 सांध्यं त्वं कालेऽनुभवन्सुखम्।
सेवस्वभवनं युद्धं मा कृथा बलिना सह॥१०॥

प्रावृषेण्यं पयोवाहं नैशिकध्वान्तरोचिषम्।
सगर्जं लङ्घयन्सिंहो हास्यः कस्य न जायते॥११॥

हेमन्तो हैमनैः पुष्पैर्वर्षा भीताश्च वार्षिकैः
सेवन्ते विजितेन्द्रं त्वां लप्स्यसे किं जितेऽर्जुने॥१२॥

चिरंतनानि गूढानि सायंतनमहं तव।
सपूर्वाह्णेतनं244 वृत्तं चिन्तयन्ती क्लमं गता॥१३॥

पौषं मासं तथा चैत्रं त्वं मुहूर्तमचिन्तयन्।
विद्वानपि मदात्कृत्ये मूर्खो वाद्य प्रवर्तसे॥१४॥

तत्र जातः॥२५॥ प्रावृषष्टप्॥२६॥ संज्ञायां शरदो वुञ्॥२७॥ पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वून्॥२८॥ पथःपन्थ च॥२९॥ अमावास्याया

वा॥३०॥ अ च॥३१॥ सिन्ध्वपकराभ्यां कन्॥३२॥ अणञौ च॥३३॥ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्॥३४॥स्थानान्तगोशालखरशालाच्च॥३५॥ वत्सशालाभिजिदश्वयुक्छतभिषजो वा॥३६॥ नक्षत्रेभ्यो बहुलम्॥३७॥ कृतलब्धक्रीतकुशलाः॥३८॥ प्रायभवः॥३९॥ उपजानूपकर्णोपनीवेष्टक्॥४०॥ संभूते॥४१॥ कोशाड्ढञ्॥४२॥ कालात्साधुपुष्प्यत्पच्यमानेषु॥४३॥ उप्तेच॥४४॥ आश्वयुज्या वुञ्॥४५॥ ग्रीष्मवसन्तादन्यतरस्याम्॥४६॥ देयमृणे॥४७॥ कलाप्यश्वत्थयववुसाद्वुन्॥४८॥ ग्रीष्मावरसमाद्वुञ्॥४९॥ संवत्सराग्रहायणीभ्यां ठञ्च॥५०॥ व्याहरति मृगः॥५१॥ तदस्यसोढम्॥५२॥तत्र भवः॥५३॥ दिगादिभ्योयत्॥५४॥ शरीरावयवाच्च॥५५॥ दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्॥५६॥ ग्रीवाभ्योऽण्च॥५७॥ गम्भीराञ्ञ्यः॥५८॥

वेद्मि नाद्यतनं तावत्कुतः सौवस्तिकं पुनः।
यत्ते भावि रणस्यान्ते तेन दूये समाकुला॥१५॥

हितोपदेशं येन त्वं न शृणोषि हितादपि।
ददेऽहं तेन वातेन शैशिरेणेव पद्मिनी॥१६॥

प्रगेतनानि भक्ष्याणि तथा सायंतनानि च।
भुञ्जानस्तिष्ठ लङ्कायां शुष्कवैराणि मा कृथाः॥१७॥

रावणः प्रत्युवाचेति नौपकर्णिकमुच्चकैः।
हसन्मन्दोदरीं वाक्य**मौपनीवियमे245**खलाम्॥१८॥

पूर्वाह्णकान्करान्भानोर्ध्वान्तमिन्दोः प्रदोषकम्।
विपक्षं सर्वदास्माका246 भिन्दानांस्त्वं न वेत्सि किम्॥१९॥

सबन्धून्न तथा हन्मि यथास्य कुरुते जनः।
न सांवत्सरिकं कश्चिद्दत्त्वा सारविकोदकम् (?)॥२०॥

अमावस्यैस्तपोभिर्वा मत्कृतै रेणुभिर्दिशः247
पूरयन्सेनया248 यामि तं हन्तुं संयति प्रिये॥२१॥

सैन्धवापकरैः सार्धं सकौशेयवासिभिः।
हत्वा करोम्यहं रक्तं सोपजा249नुकमाहवे॥२२॥

मथितं कालशेयं च दान्तेयानि250 जलानि वा।
पावयिष्ये रणे रक्तं रक्षांसि द्विषतामहम्॥२३॥

पातयेयं क्रुधाप्यन्यं नक्षत्रगणमप्यमुम्।
गृह्णीयां मणिमाहेयं गाम्भीर्यं किं न वेत्सि मे॥२४॥

अव्ययीभावाच्च॥५९॥ अन्तः पूर्वपदाट्ठञ्॥६०॥ ग्रामात्पर्यनुपूर्वात्॥६१॥ जिह्वामूलाङ्गलेश्छः॥६२॥ वर्गान्ताच्च॥६३॥ अशब्दे यत्खावन्यतरस्याम्॥६४॥ कर्णललादात्कनलंकारे॥६५॥

द्विषामरि251हणव्यानि पार्योष्ट्यानि च सुन्दरि।
हतानामत्तु मांसानि पारिमुख्यानि भज्जनः॥२५॥

तस्यान्तर्वेद्मिकं252 वित्तं पारग्रामकमेव253 च।
ग्रैवेयं चाप्यलंकारमद्य गृह्णन्तु मामकाः॥२६॥

जनमर्जुनवर्गीयं किरीटाङ्गदवर्जितम्।
वराङ्गुलीयशून्याङ्गंकरोमि स वधूजनम्॥२७॥

कर्णावकर्णिकौ स्त्रीणां ललाटमललाटिकम्
न कुर्यांयदि शत्रूणां मा लापी254न्मामुपागतम्॥२८॥

तत आगतः॥७४॥ ठगायस्थानेभ्यः॥७५॥ शुण्डिकादिभ्योऽण् ॥७६॥ विद्यायोनिसंबन्धेभ्यो

वुञ्॥ ७७॥ ऋतष्ठञ्॥७८॥ पितुर्यच्च॥७९॥ हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः॥८१॥ मयट् च॥८२॥ प्रभवति॥८३॥ विदूराञ्ञ्यः॥८४॥ भक्तिः॥९५॥ अचित्ताददेशकालाट्ठञ्॥९६॥ महाराजाट्ठञ्॥९७॥ वासुदेवार्जुनाभ्यां वुन्॥९८॥ तेनैकदिक्॥११२॥ कृते ग्रन्थे॥११६॥ संज्ञायाम्॥११७॥ कुलालादिभ्यो वुञ्॥११८॥ क्षुद्राभ्रमरवटरपादपादञ्॥११९॥ तस्येदम्॥१२०॥ रथाद्यत्॥१२१॥ पत्रपूर्वादञ्॥१२२॥ तस्य विकारः॥१३४॥ अवयवे च प्राण्यौषधिवृक्षेभ्यः॥१३५॥ बिल्वादिभ्योऽण्॥१३६॥ कोपधाच्च॥१३७॥ त्रपुजतुनोः षुक्॥१३८॥ ओरञ्॥१३९॥अनुदात्तादेश्च॥१४०॥ पलाशादिभ्यो वा॥१४१॥ शम्याः ष्लञ्॥१४२॥ मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः॥१४३॥ नित्यं वृद्धशरादिभ्यः॥१४४॥

वित्तमातुरिकं255 तस्य पौण्डिकादि256 च सुन्दरि।
राज्यं पित्र्यं च विस्तारि ग्रहीष्यामि गतायुषः॥२९॥

व्यक्तीकरोमि तस्याहमौपाध्यायकमागमम्
पैतृकं च यशः शुभ्रं वञ्चयित्वाद्य मायया॥३०॥

व्रजेनोष्ट्ररथेनाहं257 रथ्यमावृतनिर्गमम्।
नाशं करोमि तस्याद्य सुखरूपेण कर्मणाम्॥३१॥

जनमर्जुनकं जित्वा नियुक्त258पुरपालने।
आपूपिकानि रक्षांसि भोजयिष्यामि कामतः॥३२॥

पाययिष्ये पुरं259 प्राज्यमार्द्वीकं मधुराक्षसान्।
शाष्कुलीकानपि260 क्षौद्रं वैदूर्यकृतभूषणम्261॥३३॥

पापं मदमयीमीहां तस्याख्यातुं पुलस्तये।
सौदामनीव सा व्योम्नाभान्ती मन्दोदरी ययौ॥३४॥

युष्मदस्मत्पादः (४ अ० ३ पादः)॥

—————————

(अथ चतुर्थाध्यायस्य चतुर्थपादः)

प्राग्वहतेष्ठक्॥१॥ तेन दीव्यति खनति जयति जितम्॥२॥संस्कृतम्॥३॥ कुलत्थकोपधादण्॥४॥ तरति॥५॥ गोपुच्छाट्ठञ्॥६॥ नौद्व्यचष्ठन्॥७॥ चरति॥८॥ आकर्षात्ष्टल्॥९॥ पर्पादिभ्यः ष्ठन्॥१०॥ श्वगणाट्ठञ् च॥११॥ वेतनादिभ्यो जीवति॥१२॥ वस्नक्रयविक्रयाट्ठन्॥१३॥ आयुधाच्छ च॥१४॥ हरत्युत्सङ्गादिभ्यः॥१५॥ भस्त्रादिभ्यः ष्टन् ॥१६॥ विभाषा विवधवीवधात्॥१७॥ अण्कुटिलिकायाः॥१८॥ निर्वृत्तेऽक्षद्यूतादिभ्यः॥१९॥ त्रेर्मम्नित्यम्॥२०॥ अपमित्ययाचिताभ्यां कक्कनौ॥२१॥ संसृष्टे॥२२॥ चूर्णादिनिः॥२३॥ लवणाल्लुक्॥२४॥मुद्गादण्॥२५॥ व्यञ्जनैरुपसिक्ते॥२६॥ ओजःसहोऽम्भसा वर्तते॥२७॥ तत्प्रत्यनुपूर्वमीपलोमकूलम्॥२८॥ परिमुखं च॥२९॥ प्रयच्छति गर्ह्यम्॥३०॥ कुसीददशैकादशात्ष्टन्ष्ठचौ॥३१॥ उञ्छति॥३२॥ रक्षति ॥३३॥ शब्ददर्दुरं करोति॥३४॥ पक्षिमत्स्यमृगान्हन्ति॥३५॥ परिपन्थं च तिष्ठति॥३६॥ माथोत्तरपदपदव्यनुपदं धावति॥३७॥ आक्रन्दाट्ठञ् च॥३८॥ पदोत्तरपदं गृह्णाति॥३९॥ प्रतिकण्ठार्थललामं च॥४०॥ धर्मं चरति॥४१॥ अधर्माच्चेति वक्तव्यम् (वा०)। प्रतिपथमेति ठंश्च॥४२॥ समवायान्समवैति॥४३॥ परिषदो ण्यः॥४४॥ सेनाया

वा॥४५॥ संज्ञायां ललाटकुक्कुट्यौ पश्यति॥४६॥ तस्य धर्म्यम्॥४७॥ अण् महिष्यादिभ्यः॥४८॥ ऋतोऽञ्॥४९॥ अवक्रयः॥५०॥ तदस्य पण्यम्॥५१॥ लवणाट्ठञ्॥५२॥ किसरादिभ्यः ष्टन्॥५३॥ शलालुनोऽन्यतरस्याम्॥५४॥ शिल्पम्॥५५॥ मड्डुकझर्झरादणन्यतरस्याम्॥५६॥ प्रहरणम्॥५७॥ परश्वधाट्ठञ् च॥५८॥ शक्तियष्ट्योरीकक्॥५९॥ अस्तिनास्तिदिष्टं मतिः॥६०॥ शीलम्॥६१॥ छत्रादिभ्यो णः॥६२॥ हितं भक्षाः॥६५॥ तदस्मै दीयते नियुक्तम्॥६६॥ श्राणामांसौदनाट्टिठन्॥६७॥ भक्तादणन्यतरस्याम्॥६८॥ तत्र नियुक्तः॥६९॥ अगारान्ताट्ठन्॥७०॥ अध्यायिन्यदेशकालात्॥७१॥ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति॥७२॥ निकटे वसति॥७३॥

सभायां262 रावणस्तस्यां सरुषि श्वशुरा263श्रमम्।
रथमाश्विकधानुष्कपारश्वधिकरक्षितम्॥३५॥

शक्तीका264नेकयाष्ट्रीकशास्त्रिकव्रजसंकुलम्।
सगार्दभरथानीकं चतुः पौरेयसंयुतम्265॥३६॥

उपाध्यायमिव च्छान्त्रैर्याष्ट्रीकैः समुपासितम्।
आरुरोह ततः कान्तं प्रवल्गत्तुङ्गकेतनम्॥३७॥

ययुरायुधिकास्तस्य विवल्गन्तः पुरःसराः।
खनन्तः साधुचेतांसि ये266 त्वा कौद्दालिका इव॥३८॥

केचिद्गम्भीरनिर्घोषं भीमम… यियासवः।
तरितुं संपदम्भोधिं घटितोडुपिका इव॥३९॥

पावापाणिभिस्तस्य267 पुरः पाणविकां268 जनः।
अवीवद269न्मृदङ्गांश्च मुहुर्मार्दङ्गिकास्तथा॥४०॥

आयुधीया युधं यातुस्तस्य साहसिकस्य ते।
जवनोजसिकाः प्रीताः प्राटन्नैकटिकैः सह॥४१॥

न प्रातिकूलिकः कश्चित्सर्वमेवानुकूलिकः
ययौ भटजनस्तस्य भक्तिं विभ्रदकृत्रिमाम्॥४२॥

आनुलोमिकलोकेन स पारिमुपिकः270 प्रभुः।
सेव्यमानः पथि प्राटत्पारिपन्थिकवर्जितः॥४३॥

आधर्मिकेन271 लोकेन नास्तिकेन272चोदितः।
आस्तिकं धार्मिकं योद्धुमगाद्भूपं दशाननः॥४४॥

मदान्ध इव मातङ्गः सिंहं विक्रमशालिनम्।
अजीगणद्दशग्रीवो न प्रातिपथिकं नृपम्॥४५॥

शाब्दिकाः सैनिकास्तत्र जग्मुर्मौद्गलिकाः पुनः।
लालाटिका विवल्गन्तस्तेषां सौन्दनिकैः समम्॥४६॥

** प्राग्धिताद्यत्॥७५॥ तद्वहति रथयुगप्रासङ्गम्॥७६॥ धुरो यड्ढकौ॥७७॥ खः सर्वधुरात्॥७८॥ एकधुराल्लुक् च॥७९॥ शकटादण्॥८०॥ हलसीराट्ठक्॥८१॥ संज्ञायां जन्या॥८२॥ विध्यत्यधनुषा॥८३॥ घनगणं लब्धा॥८४॥ अन्नाण्णः॥८५॥ वशं गतः॥८६॥ पदमस्मिन्दृश्यम्॥८७॥ मूलमस्यावर्हि॥८८॥ संज्ञायां धेनुष्या॥८९॥ गृहपतिना संयुक्ते ञ्यः॥९०॥ नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु॥९१॥धर्मपथ्यर्थन्यायादनपेते॥९२॥ उरसोऽण् च॥९४॥**

हृदयस्य प्रियः॥९५॥ मतजनहलात्करणजल्पकर्षेषु॥९७॥ तत्र साधुः॥९८॥ प्रतिजनादिभ्यः खञ्॥९९॥ भक्ताण्णः॥१००॥ परिषदो ण्यः॥१०१॥ कथादिभ्यष्ठक्॥१०२॥ गुडादिभ्यष्ठञ्॥१०३॥ पथ्यतिथिवसतिस्वपतेर्ढञ्॥१०४॥ सभाया यः॥१०५॥ समानतीर्थे वासी॥१०७॥ समानोदरे शयित ओचोदात्तः॥१०८॥ सोदराद्यः॥१०९॥

मध्यं273 पीत्वेव कुन्दन्तो274 जन्या वा रजनीचराः।
नावेदयन्त ते पद्या रणरागेण शर्कराः॥४७॥

ते धुर्या इव गर्जन्तो महोक्षा राक्षसा अपि।
मृगान्संत्रासयामासासर्वे275 श्वागणिका इव॥४८॥

औरसैस्तनयैर्वश्यैरनु रम्यैश्च संयुताः।
द्रष्टुं प्रतिजनीनं276 ते शरण्यं ययुरर्जुनम्॥४९॥

न्याय्यं च धर्म्यं चार्थ्यं च विलङ्घ्य दयितावचः।
तथाप्यगाद्दशास्यो यत्तद्दैवं बलवत्तरम्॥५०॥

गिरितुल्यैरिभैर्नाव्यं पङ्कं277 यत्सरितां पयः।
खेदं यु…..तमवितो धन्यं278 विष्यो ययौ नृपम्॥११॥

कायिकस्य वयस्यस्य पथ्यं वाक्यमशृण्वता।
जग्मे युधे दशास्येन न तुल्यं पश्यता रिपुम्॥५२॥

व्रजतां स्वामिसत्येन धूतधूलिर्वसुंधरा।
रक्षसां पदपातेन हलेने279वाविदारिता॥५३॥

संयत्कथैकपाथेयस्वापतेयपुरःसरम्।
गृहवद्युधि कुर्वाणमातिथेयमुपेयुषाम्॥५४॥

अपार्षद्यजनोपेतः प्रेक्षितुं रिपुरर्जुनम्।
हृद्यान्प्रायाद्द्रुमान्भञ्जन्वासतेयान्पतन्त्रिणाम्॥१९॥

समानोदर्यवान्धीमानसोदर्यैश्च सेवितः।
स प्रापाकटकाटोपः शृण्वञ्जन्यं मनःप्रियम्॥५६॥

सामान्यैः स्तुतमसभ्यमेकगण्यं क्ष्मानाथं धरधारणैकधुर्यम्।
तं दृष्ट्वा रजनिचरेशवाहिनी सा वन्येन स्खलितगतिर्गिरा बभूव॥५७॥

इत्यर्जुनरावणीये महाकाव्ये प्राग्वहतेष्ठक्पादे पञ्चदशः सर्गः॥
चतुर्थोध्यायश्च समाप्तः॥

———————

षोडशःसर्गः(तत्र पञ्चमाध्यायप्रथमपादः)।

** प्राक् क्रीताच्छः॥१॥ उगवादिभ्यो यत्॥२॥ कम्बलाच्च संज्ञायाम्॥३॥ विभाषा हविरपूपादिभ्यः॥४॥ तस्मै हितम्॥५॥ शरीरावयवाद्यत्॥६॥ खलयवमाषतिलवृषब्रह्मणश्च॥७॥ अजाविभ्यांथ्यन्॥८॥ आत्मन्विश्वजनभोगोत्तरपदात्खः॥९॥ सर्वपुरुषाभ्यां णढञौ॥१०॥ माणवचरकाभ्यां खञ्॥११॥ तदर्थं विकृतेः प्रकृतौ॥ १२ ॥ छदिरुपधिबलेर्ढञ्॥१३॥ ऋषभोपानहोर्ञ्यः॥१४॥ चर्मणोऽञ्॥१५ ॥ तदस्य तस्मिन्स्यादिति॥१६॥ परिखाया ढञ्॥१७॥**

अथाहवीयामुपगम्य भूमिं गव्येन हीनां तृणसंचयेन।
कायं कवन्धीयमुपादधानश्चक्रुर्युधं योधगणाः समेत्य॥१॥

लौहानि खङ्गैः कवचानि योधास्ततः शिरस्यानि विदारयन्तः।
वाणैरुरस्यानसिविस्फुलिङ्गान्खद्योतकल्पाञ्जनयांबभूवुः॥२॥

मान(ण)वीनानि समाचरन्तस्तदात्मनीनानि च रावणीयाः।
स्वभर्तृपिण्डा280 प्रतिनिष्क्रयाय प्राणांस्तृणीयन्ति रणे स्म योधाः॥३॥

जयं स्वभोगीनमपेक्षमाणो रणं दशास्योऽकृत लुब्धबुद्धिः।
तमर्जुनो विश्वजनीनमेकः परोपकारैकपरा हि सन्तः॥४॥

मध्यस्थचित्तोऽपि जनः समेतो दिदृक्षया तस्य महाहवस्य।
इयेष सर्वो जयमर्जुनस्य सार्वेऽथ वा कस्य न पक्षपातः॥५॥

भिन्नाः शरैः संप्रति पौरुषेयै रक्तोक्षिता नीलशरीरभासः।
निशाचरा भान्ति पुरातपेन सांध्येन पृक्ता इव वारिवाहाः॥६॥

तोयैर्गिरीणामिव कुञ्जराणां रक्तैः स्मरद्भिः शरदारितानाम्।
`निरुद्धपद्मातिगतिर्विरेजे सपारिस्वयीव महाजिभूमिः॥७॥

परस्परस्याहिततीव्रकोपाः समेत्य शातासिपरिक्षतानि।
क्षितौ वितीर्णावयवानि योधा विहङ्गमीयानि वपूंषि चक्रुः॥८॥

हस्तोरुपादं करवालकृत्तं संग्रामभूमिं परितो विकीर्णम्।
कर्मान्तकूल्यायुरुदारकूटं धातुर्मनष्ठीकमिवाभिरेजे (?)॥९॥

केनापि दूरादतिनीचदृष्ट्या दृष्टेन नित्यं सहवासिमध्ये।
आरोहतेभं हतपौरुषेयमात्मोन्नतिं तत्र चिराय नीतः॥१०॥

प्राग्वतेष्टञ्॥१८॥ आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्॥१९॥ असमासे निष्कादिभ्यः॥२०॥ शताच्च ठन्यतावशते॥२१॥ संख्याया अतिशदन्तायाः कन्॥२२॥ वतोरिड् वा॥२३॥ विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्॥२४॥ शतमानविंशतिकसहस्रवसदण्॥२७॥

प्रतिक्षणं तत्र निशाचराणां खड्गाग्रलूनास्तकण्ठोरकण्ठम्।
साहस्रमालीनविहङ्गमुक्तं कबन्धमाबद्धलयं ननर्त॥११॥

ते शत्यसाहस्रतुरङ्गभाजः स्वं स्वं तनुत्रं शतिकं दधानाः।
क्रेतुं यदोजैवतिकं (?) नरेन्द्राश्चेलुश्चलच्चामरवीजिताङ्गाः॥१२॥

तस्य निमित्तं संयोगोत्पातौ॥३८॥ गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत्॥३९॥ पुत्राच्छ च॥४०॥ सर्वभूमिपृथिवीभ्यामणञौ॥४१॥ तस्येश्वरः॥४२॥ तत्र विदित इति च॥४३॥ लोकसर्वलोकाट्ठञ्

॥४४॥ तदर्हति॥६३॥ छेदादिभ्यो नित्यम्॥६४॥ शीर्षच्छेदाद्यच्च॥६५॥ दण्डादिभ्यो यः॥६६॥ पात्राद् घंश्च॥६८॥ कडंकरदक्षिणाच्छ च॥६९॥ स्थालीविलात्॥७०॥ यज्ञर्त्विग्भ्यां घखत्रौ॥७१॥

स रक्षसा281 संयति संप्रयोगस्तेजस्विभिर्भूपतिभिः सहाभूत्।
धन्यो यशस्यश्च भुवि प्रजानां प्रातर्मयूखैस्तमसामिवार्कैः॥१३॥

तं सार्वभौमं जननाथमाप्य ते पार्थिवा विद्युदुदारभासः।
रक्षांसि दूरात्क्षयमाशु निन्युर्मेघारजांसीव शरप्रपातैः282॥१४॥

ते छैदिकांश्चिच्छिदुराशु खङ्गैः शरैरभिन्दन्नथ भैदिकांश्च
निशाचरानापततो नरेन्द्रो न संभ्रमेऽप्यात्मवतां विमोहः॥१५॥

अवास्त्रिकानप्यभिरामवस्त्रा**नच्छत्रिका283**नप्युचितातपत्रम्284
नरा285 नरादानवलोक्य चक्रुर्यथानुरूपाकृतिवेषभाजः॥१६॥

पुरार्त्विजीनानि कुलानि विप्रान्ये दक्षिणीयांश्च निधावयन्ति।
अताडयंस्तान्पुरुषा नरादान्दण्डेन दण्ड्यान्मुसलैर्मुसल्यान्॥१७॥

पुत्रीयमापात286मरेर्विदित्वा स्थित्वान्तरायुध्यत कश्चिदीशः।
पुत्र्यं तथा चेतसि दुर्निमित्तं संचिन्त्य चान्यः परितापमाप॥१८॥

कश्चित्कडंकर्यतुरङ्गमेण कडंकरीयाश्वमरेर्निरस्य।
जघान तं यो द्विजलोकमेत्य दाक्षिण्यमेवाशु निनाय नाशम्॥१९॥

निशाचरान्खण्डविलूनकायान्कृतान्तवक्रंविशतो विशालम्।
तानैक्षत क्ष्मापतिभिः प्रहृष्टः स्थालीविलीयानिव तण्डुलान्सः॥२०॥

** संशयमापन्नः॥७३॥ योजनं गच्छति॥७४॥ पथः ष्कन्॥७५॥ पन्थो ण नित्यम्॥७६॥ कालात्॥७८॥ तेन निर्वृत्तम्॥७९॥ तमधीष्टो भृतो भूतो भावी॥८०॥ मासाद्वयसि यत्खञौ॥८१॥ द्विगोर्यप्॥८२॥ षण्मासाण्ण्यच्च॥८३॥ अवयसि ठंञ्च॥८४॥ स-**

मायाः खः॥८५॥ द्विगोर्वा॥८६॥ रात्र्यहःसंवत्सराच्च॥८७॥ वर्षाल्लुक् च॥८८॥ तस्य च दक्षिणा यज्ञाख्येभ्यः॥९५॥ तत्र च दीयते कार्यं भववत्॥९६॥ व्युष्टादिभ्योऽण्॥९७॥ तेन यथाकथाचहस्ताभ्यां णयतौ॥९८॥ संपादिनि॥९९॥ कर्मवेषाद्यत्॥१००॥ तस्मै प्रभवति संतापादिभ्यः॥१०१॥ योगाद्यच्च॥१०२॥ कर्मण उकञ्॥१०३॥ अनुप्रवचनादिभ्यश्छः॥१११॥ समापनात्सपूर्वपदात्॥११२॥ आकालिकडाद्यन्तवचने॥११४॥

निरीक्ष्य कश्चित्पथिकः क्षितीशः कर्णान्तकृष्टायतचारुचापः।
निशाचरं सादु287 खमापतन्तं बाणाहतं यौजनिकं चकार॥२१॥

येऽवज्ञया संशयिकं288 सुरेशं चक्रुर्भटाः संयति बद्धगर्वाः।
**यथाकथा289**मान्विशिखान्दधानाः सान्नादमानिन्यु290रुपेत्यरूपाः॥२२॥

विद्धः पुरा येन शरेण योधस्तमेत्य **सामीन291**मिवास्तशङ्कः।
जघान खड्गेन शिरस्यमूढः सुखी भवत्याशु रिपुं निहत्य॥२३॥

समीनमन्यः कलमस्तु नागं निशङ्कचेता युधि मन्यमानः।
क्षिप्तोऽस्य कर्षन्रदनं करेण शौर्यं हि नो लोचयति स्वशक्तिम्॥२४॥

संप्राप्य षाण्मास्यमिव द्विपेन्द्रं निशङ्कमेकश्चरणं विधाय।
दन्तेऽस्य कुम्भं तरसाधिरूढो नक्षत्रमालाढ्यमिवान्तरिक्षम्॥२५॥

केचिन्त्रिसांवत्सरिकैस्तुरङ्गैर्महासियष्ठीर्दधतः स्फुरन्तीः।
अकालिकीर्वा तडितो नरेन्द्राश्चक्रुः क्रियाः शत्रुसमापनीयाः॥२६॥

ते दक्षिणां वर्त्मनि वाजपेयिकीं संचिन्त्य तं स्वामिहितं रणक्रियाम्।
चक्रुस्तथा चात्मनि केषु (?) पार्थिवा नात्मीयकायेषु दया मनागपि॥२७॥

तदैकरात्रीणामपि प्रियायाःस्मृत्वोपभोगं सहसा युवानः।
सुराङ्गनालिङ्गनवीततृष्णा जयं न मृत्युं समरेऽभिलेषुः॥२८॥

कर्मण्यकाया गुरुकार्मुकस्तैः292 संतापितै293र्बाणशतैस्तुदन्तः।
नैसर्गिकात्मानुशयप्रयुक्तान्नरान्नरादाः शरणं वितेनुः॥२९॥

ते दृश्यमानाः स्वयमेव भर्त्न्रायोग्यो294 जनास्तं भुवि देहनाशम्।
अमंसतावन्धसुम(?)स्तदानीं महोत्सवं वा मरणं न मृत्युम्॥३०॥

तेन तुल्यं क्रिया चेद्वतिः॥११५॥ तत्र तस्येव॥११६॥ तदर्हम्॥११७॥

सञ्छाश्मिताः(?) स्वामिभिराभिमुख्यं पेतुर्द्विषा मेषवदेव तत्र।
भ्रेमुश्च योधाः पुरवद्विशङ्काः पराक्रमान्सिंहवदुद्वहन्तः॥३१॥

** तस्य भावस्त्वतलौ॥११९॥**

द्विपा हता यान्ति सुरत्वमाजौ प्रकाशतां निर्जितशात्रवाश्च।
इतीव युद्धं बहु मन्यमाना वितेविरे295 [दा] नवमानवाणः296॥३२॥

** न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः॥१२१॥ पृथ्वादिभ्य इमनिज्वा॥१२२॥ वर्णदृढादिभ्यः ष्यञ्च॥१२३॥ गुणवचनब्राह्मणादिभ्यः कर्मणि च॥१२४॥ स्तेनाद्यव्रलोपश्च॥१२५॥ सख्युर्यः॥१२६॥ कपिज्ञात्योर्ढक्॥१२७॥ पत्यन्तपुरोहितादिभ्यो यक्॥१२८॥ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्॥१२९॥ हायनान्तयुवादिभ्योऽण्॥१३०॥ इगन्ताच्च लघुपूर्वात्॥१३१॥ योपधाद्गुरूपोत्तमाद्वूञ्॥१३२॥ द्वन्द्वमनोज्ञादिभ्यश्च॥१३३॥**

नालस्यमासीद्युधि नाचतुर्यं व्यायच्छतां येन महीपतीनाम्।
तेषामतः श्रीर्महिमानमाप्ता शौक्ल्यं च चन्द्रस्य दधुर्यशांसि॥३३॥

शौक्ल्यात्पतङ्गैरिव वह्निकूटं यै राजकं रात्रिचरैर्डुढौके।
ते सख्यमीयुस्त्रिदशैः सहाशु न संगतं स्वल्पफलं महद्भिः॥३४॥

स्तेयं विधाय प्रसभं भटस्य द्विषञ्जने प्राणधनेषु वाणैः।
क्षत्त्रक्षतस्य क्षितिमागतस्य ज्ञातेयमन्ये सहसैव चक्रुः॥३५॥

उत्खातखड्गद्युतिरञ्जितांसा297 निनीषवः पार्थिवमात्मकीर्तिम्।
केचिद्विचेरुः कृतवल्गनेहान्सयौवना298 वा299 युधि वार्धिकेऽपि॥३६॥

भटस्य दृष्ट्वा वपुषः सुराङ्गना स्थिता चिरं व्योमनि रामणीयकम्
लभेय जीवन्तममुं कथं न्वहं मनोरथानित्युपचिन्तयच्चिरम्॥३७॥

प्राक्क्रीताच्छ (५ अ० १ ) पादः।

———————

(अथ पञ्चमाध्यायस्य द्वितीयः पादः।)

धान्यानां भवने क्षेत्रे खञ्॥१॥ व्रीहिशाल्योर्ढञ्॥२॥ यवयवकषष्टिकाद्यत्॥३॥ विभाषा तिलमाषोमाभङ्गाणुभ्यः॥४॥ सर्वचर्मणः कृतः खखञौ॥५॥ यथामुखसंमुखस्य दर्शनः खः॥६॥ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति॥७॥ आप्रपदं प्राप्नोति॥८॥ अनुपदसर्वान्नायानयं बद्ध्वाभक्षयतिनयेषु॥९॥ परोवरपरंपरपुत्रपौत्रमनुभवति॥१०॥ अवारपारात्यन्तानुकामं गामी॥११॥ समांसमां विजायते॥१२॥ अद्यश्वीनावष्टब्धे॥१३॥ अभ्यमित्राच्छ च॥१७॥ गोष्टात्खञ्भूतपूर्वे॥१८॥ शालीनकौपीने अधृष्टाकार्ययोः॥२०॥ व्रातेन जीवति॥२१॥ साप्तपदीनं सख्यम्॥२२॥ तेन वित्तश्चुञ्चुप् चणपौ॥२६॥ संप्रोदश्च कटच्॥२९॥ उपाधिभ्यां त्यकन्नासन्नारूढयोः॥३४॥ कर्मणि घटोऽठच्॥३५॥ तदस्य संजातं तारकादिभ्य इतच्॥३६॥

तै…..न शालेययव300 …..भूमेरश्वीयपादातनिपातजन्मा।
रंजश्चयः सन्तुसमीयमानो (?) बभूव भास्वत्करचक्ररोधी॥३८॥

न संमुखीनं न यथामुखीनं संदृश्यते साश्वमहोभयोधम्।
रेणौ दिशः सर्वपथीनवृद्धौ पटायमाने स्थगयन्त्यशेषाः॥३९॥

न सर्वकर्मीणजना न भूपा न स्पन्दना निश्चलधुर्यदेहाः।
युधि व्यभाव्यन्त विवृद्धिभाजा धूमेन धूल्या पिहितासु दिक्षु॥४०॥

स क्ष्मारेणुः **सर्वपात्रीय301**दानं पृथ्वीनाथं प्राप्य संप्राप्तजन्मा।
दृष्टिक्लेशं विभ्रदास्यं सदाभः302 सर्वाङ्गीनः303 सर्वमावृत्य तस्थौ॥४१॥

भटोऽभ्यमित्रीयमवाप्य वाहमाकर्णजाह(?)प्रविकृष्टधन्वा।
तनुत्रमस्याप्रपदे304माशु च्छित्त्वा शरैः सादिनमाजघान॥४२॥

अन्यो गजस्याप्रपदीनमङ्गे द्रा**क्सर्वधमीण305**मसिप्रहारैः।
लुलाव लूत्वा प्रथमं तनुत्रं स्तम्भं कदल्या इव गात्रमेवम्॥४३॥

परस्परीणं दशवक्त्रलोकं रजोन्धकारे श्रुतिमात्रगम्यम्।
क्षत्रव्रजः शस्त्रनिकृत्तकायमपुत्रपौत्रेणमुपेत्य306 चक्रे॥४४॥

वीरव्रजो विक्षतदन्तिजन्म क्ष्माधूलिपारीणमसृग्विधाय।
सुराङ्गनौघं विदधे हतारिस्तत्रानुकामीनमवाप्तकामम्॥४५॥

आयातस्य स्पन्दनेनाभ्यमित्रं लोकं सर्वं क्षिप्रमस्मान्निरस्य।
प्राणापातध्वंसिताङ्गस्य शत्रोरद्यश्वीनं मृत्युमन्यश्चकार॥४६॥

ग्रामीणशालीनजनानशित्वा गोष्ठीनमापादि महीतलं यः।
रक्षोगणान्भूमिपतिः शरास्तान्गन्तुं दिवं तानकृताध्वनीनान्॥४७॥

कौपीनवासोऽपि शरीरभाजामाक्षेपि यैः साप्तपदीनहीनैः।
व्रातीनसङ्गाः प्रकटं नरेन्द्रैस्ते राक्षसाः संकटमाशु नीताः॥४८॥

ये कर्मठान्भूभृदुपत्यकायां तपस्विनो घ्नन्ति पुरा नरेन्द्रान्।
तान्वाणचञ्चुःक्षितिपाललोकः क्षिप्रं क्षिपाटान्क्षयमानिनाय॥४९॥

समाहताद्बाणधरैर्नरेशैर्लौहात्तनुत्रादसिभिर्निशातैः।
द्यौरुत्कटा वह्निकणैः पतद्भिः सा सांयुगी तारकितेव रेजे॥५०॥

** प्रमाणे द्वयसज्दघ्नञ्मात्रचः॥३७॥ पुरुषहस्तिभ्यामण्च॥३८॥ यत्तदेतेभ्यः परिमाणे वतुप्॥३९॥ किमिदभ्यां वो घः॥४०॥ किमः संख्यापरिमाणे डति च॥ ४१॥ संख्याया अवयवे तयप्॥४२॥ द्वित्रिभ्यां तयस्यायज्वा॥४३॥ उभादुदात्तो नित्यम्॥४४॥ तदस्मिन्नधिकमिति दशान्ताड्डः॥४५॥ शदन्तविंशतेश्च॥४६॥ तस्य पूरणे डट्॥ ४८॥ नान्तादसंख्यादेर्मट्॥४९॥ षट्कतिकतिपयचतुरां थुक्॥५१॥ बहुपूगगणसंघस्य तिथुक्॥५२॥ वतोरिथुक्॥५३॥ द्वेस्तीयः॥५४॥ त्रेः संप्रसारणं च॥५५॥**

तत्रोरुदघ्नक्षितिरेणुराजौ ततो नितम्वद्वयसश्च भूत्वा।
क्रमेण मूर्छे307करिकुम्भमात्रः समेत्य रक्ताभिहतः शशाम॥५१॥

यावद्रजो हन्ति308 न माजिमध्ये यावन्न309 कश्चिद्विचचाल सैन्ये।
त्पौरुषेयं310 प्रशमं गतं च प्रपुस्फुर311न्भानुकरा भटाश्च॥५२॥

द्वया विगृह्याशु312 शरान्धनुश्च विकृष्य बाह्वोरुभयेन कश्चित्।
विंशं शतं विद्विषतामुपेतमयोधयद्द्राघियदस्य (?) सत्त्वम्॥५३॥

ततस्ततः संघटितैर्मनुष्यैः शिलीमुखैः पूगतिथैर्निरस्तैः।
समाचिते व्योमनि लब्ध (?) भानावनातपं भूमितलं बभूव॥५४॥

कराः सगात्राः पतिता निकृत्ता महीतले तावतिथे गजानाम्।
तत्रापि शत्रुव्रजता (?) रथानां स संचरो यावतिथे बभूव॥५५॥

** उदराट्ठगाद्युने॥६७॥ सस्येन परिजातः॥६८॥ शीतोष्णाभ्यां कारिणि॥७२॥ अनुकाभिकाभीकःकमिता॥७४॥ पूर्वादिनिः॥८६॥ सपूर्वाच्च॥८७॥ अनुपद्यन्वेष्टा॥९०॥**

एकं द्वितीयं च ततस्तृतीयं पुनश्चतुर्थंसह पञ्चमेन
नापुः परासून्मनुजानदन्ति रक्षांसि तत्रौदरिकाणि तृप्तिम्॥५६॥

अत्युष्णकास्तत्र न के313 विचेरुर्न शीतकोऽदृश्यत कश्चिदेषाम्।
तर्कः परं विद्विषतां विपत्तौ मदोत्कटाः सस्यकपानतो वा॥५७॥

प्रहारमूर्छाविगमे भटेन विरुध्यतः शीघ्रतरं निहन्तुः।
तिष्ठाधुनेति ब्रुवता सकोपं चक्रे निजोऽस्यानुपमी314 तुरङ्गः॥५८॥

द्विपद्गजं वीक्ष्य समापतन्तं द्रुतं विगाह्याङ्कुशमात्मनैव।
बन्धुर्गजस्कन्धगतः परासुरदृष्टपूर्वीव भटेन नुन्नः॥५९॥

विभिन्नकुम्भं प्रतिभिद्यमानं नागेन दन्तेन भटं जिघृक्षुः।
चक्रेऽनुका सार्धमभीकयान्या देवाङ्गना व्योम्निचिरं विवादम्॥६०॥

** साक्षाद्द्रष्टरि संज्ञायाम्॥९१॥ इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा॥९३॥ तदस्यास्त्यस्मिन्निति मतुप्॥९४॥ प्राणिस्थादातो लजन्यतरस्याम्॥९६॥ सिध्मादिभ्यश्च॥९७॥ वत्सांसाभ्यां कामवले॥९८॥ फेनादिलच्च॥९९॥ लोमादिपामादिपिच्छादिभ्यः शनेलचः॥१००॥ प्रज्ञाश्रद्धार्चाभ्यो णः॥१०१॥ तपः सहस्राभ्यां विनीनी॥१०२॥ अण् च॥१०३॥ सिकताशर्कराभ्यां च॥१०४॥ देशे लुबिलचौ च॥१०५॥ दन्त उन्नत उरच्॥१०६॥ ऊषमुषिमुष्कमधो रः॥१०७॥ गाण्ड्यजगात्संज्ञायाम्॥११०॥ काण्डाण्डादीरन्नीरचौ॥१११॥ रजःकृष्यास्रुतिपरिषदो वलच्॥११२॥ दन्तशिखात्संज्ञायाम्॥११३॥ ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः॥११४॥ अत इनिठनौ॥११५॥ तुदादिभ्य इलच्च॥११७॥**

अस्मायामेधास्रजो विनिः॥१२१॥ वाचो ग्मिनिः॥१२४॥ आलजाटचौ बहुभाषिणि॥१२५॥ स्वामिन्नैश्वर्ये॥१२६॥ अर्शआदिभ्योऽच्॥१२७॥ द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः॥१२८॥ धर्मशीलवर्णान्ताच्च॥१३२॥ कशंभ्यां बभयुस्तितुतयसः॥१३८॥ अहंशुभमोर्युस्॥१४०॥

त….ःकरं रोम315दमस्तशोभं क्षो…वपुवीक्ष्य316 कृपायुजो वा।
गाण्डीवकाण्डीरकरा नरेन्द्रा क्षतेन्द्रियं……यामाशु चक्रुः॥६१॥

तात्क317र्णिकालांसलचारुकायानारान्निरीक्ष्योरसिलान्क्षितीशान्।
सा तुर्दिलं318 सिध्मलमात्मकार्यं ह्रियेव रक्षोजनता मुमोच॥६२॥

वीरक्षताङ्ग……..कुम्भात्प्र……स्रवत्तोयमिवाद्रिशृङ्गम्।
रजस्वलक्ष्मासु शिरावशेषं शिवा पपौ फेनिलमेत्य रक्तम्॥६३॥

मायाविना ते विधिनेव भर्त्त्राप्रचोदिता रात्रिचरा विमूढाः।
तेजस्विनीं दीपशिखां स्फुरन्तीं पेतुः पतङ्गा इव भूपसेनाम्॥६४॥

प्राज्ञात्मनां यां परिषद्बलानां चक्रुर्व्यथां रात्रिचरा मुनीनाम्।
तां तत्कृते भूपतयोऽपि येषां319 कृतस्य नाशोऽस्ति कुतो महत्सु॥६५॥

तेजस्विनोत्प्लुत्य विधाय पादं नम्रेभकुम्भेतरमाघ्नतोऽरिम्।
लेभे तमिस्त्राभिदुरेन्दुनेव ज्योत्स्नामला तत्र भटेन कीर्तिः॥६६॥

तपस्विशत्रोर्जननादशीलिन320स्तदा भटे मेघमलीमसच्छवेः।
जनेऽनुरागं व्यथिता321त्मनो यथा तथा भुवोऽप्यस्य हतस्य शोणितैः॥६७॥

वाचाटवाचं परुषां रिपूक्तां श्रुत्वाप्यसूयाविषयां नृपाणाम्।
न वाग्ग्मिनामप्यभवद्विवक्षा सतामनास्यैव खलोदितेषु॥६८॥

पाटितस्य रिपुणा प्रतिलग्ना मानिनी कटकनपुरिणी स्त्री।
वत्सला सरभसं दिवि कण्ठे कस्यचिद्भुवि शिवा गृहिणीव॥६९॥

दन्तावलैर्वा भुवि दारितानां322 कृषीवलैर्वेगितमापतद्भिः।
रणेषु नागैः प्रविभिन्नकुम्भैर्मुक्ता बभ्रुर्वीजमिव प्रकीर्णाः॥७०॥

स्तवकवलयिनी सुरेशनारी नरपतिरूपमुपेयुषी जिघृक्षुः।
नमृतमयमतः (?) क्वयासि मूढे युवतिभिरित्युदिता जगाम लज्जाम्॥७१॥
वाताय323मिष्वा मृगयुं रुषाय महंयुगोमायुमयुप्रयायी।
नरः समालिङ्गितकातुमेकः324 सुहृत्तमो वा विदधे शुभंयुम्॥७२॥

यद्द्विषां प्रथममागतं बलं तद्विपक्षपरिवृद्धिखण्डितम्।
तानवं परमदृश्यतां गतं पक्षताविव325 इति सूत्रोदाहरणभूतोऽयं श्लोको मत्वर्थीयप्रकरणे कथमागतः") शशाङ्कमण्डलम्॥७३॥

लोहवर्मभृति मायिनि मुक्तं वाणजालमपरेण विपक्षे।
बीजमुप्तमिव सोषरदेशे जातमाशु विफलं हतशक्ति॥७४॥

साक्षीव तत्र दिवस नरराक्षसानां
दृष्ट्वा महाहवमिति प्रतिबद्धखेदः।
आलोकसंहृतिमुपादधदंशुमाली
विश्रान्तयेऽस्तगिरिकाननमाजगाम॥७५॥

इत्यर्जुनरावणीये महाकाव्ये धान्यानां भवने (पञ्चमाध्यायद्वितीय) पादे षोडशः सर्गः॥

———————

सप्तदशः (पञ्चमाध्यायस्य तृतीयचतुर्थपादयोः) सर्गः।

प्राग्दिशो विभक्तिः॥१॥ किंसर्वनामबहुभ्योद्व्यादिभ्यः॥२॥ इदम इश्॥३॥ एतेतौ रथोः॥४॥ एतदोऽन्॥५॥ सर्वस्य सोऽन्यतरस्यां दि॥६॥ पञ्चम्यास्तसिल्॥७॥ तसेश्च॥८॥ पर्यभिभ्यां च॥९॥

ततः शमं याति पतङ्गपावके शनैर्दिगन्तान्परितोऽभितो दिशम्।
तमश्चयो धूलिरिवालिमेचकः प्रपूरयामास ततोऽप्युपागतः॥१॥

सप्तम्यास्त्रल्॥१०॥ इदमो हः॥११॥ किमोऽत्॥१२॥

प्रयासि मुक्त्वेह निशागमेषु नः प्रेतो326 नयास्मानपि यत्र गच्छसि।
इतीययान्तं327 रविर्मूमुरु328च्चकैः सरोरुहिण्यः कलशं329 सनिःस्वनैः॥२॥

** सर्वैकान्यकिंयत्तदः काले दा॥१६॥ इदमोर्हिल्॥१६॥**

सदास्तमर्के यति सर्वदा तमः कदानवृद्धं न तदेकदा परम्
तथापि तस्मै कुपिता धृताजयो जना विवेकस्य पदे न….धः॥३॥

यथान्यदास्ताचलमाययौ रविस्तदा प्रियाप्त्याकृत कामिनां मुदम्।
तथैव नैतर्हि रणोत्सुकात्मनाममर्षिणः सन्ति सुखैकनिःस्पृहाः॥४॥

** अधुना॥१७॥ दानीं च॥१८॥ तदो दा च॥१९॥ अनद्यतने र्हिलन्यतरस्याम्॥२१॥**

कृतो330ऽधुनासौ सवितानुरागवान्दिनश्रिया सार्धमहं पुनः प्रियाम्।
इममिदानीमिति वा विचिन्तयन्समालिलिङ्ग क्षणदां तमश्चयः॥५॥

सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः॥२२॥

गतेऽपि सद्यः सवितर्युपास्तमं331 परुत्परारीव तमोभिरुद्धतैः।
युगान्तसंक्षोभितसिन्धुवारिभिः समावृता वा न धरा व्यराजत॥६॥

पुरा भवेनामरभङ्गकारिणा रणेन नीताः परमेण ये मुदम्।
अवाप्य तं संयुगदैषमस्तनं332 समाकुला रात्रिचरा ययुर्गृहम्॥७॥

परेद्यु…..द्य333 गते तदा रवौ रुराव चक्राह्वयुगं समाकुलम्।
क्षणेन पूर्वेद्युरिवाम्बुजागराः क्षणेन मम्लुर्हतमित्रवर्जिताः॥८॥

अन्येद्युरेकेऽन्यतरेद्युरन्ये शुचेतरेद्युश्च मुदापरेद्युः।
कृतानि कार्याणि ययुस्तदानीं योधा ब्रुवाणाः स्वगृहं गतेऽर्के॥९॥

प्रकारवचने थाल्॥२३॥ इदमस्थमुः॥२४॥ किमश्च॥२५॥

तथानुरक्ते विधिना दिवाकरे कथंचिदित्थं गमिते समाकुलाः।
तमोभिरासीज्जनता न कस्य वा करोति पीडामुपकारिणां च्युतिः॥१०॥

दिक्छब्देभ्यः सप्तमीपश्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः॥२७॥

शनैः पुरस्तादपसृत्य भास्करे पतत्यधस्तात्ककुभि प्रचेतसः।
अनायि मोहं जनताशु तामसैर्महात्मनां को विपदा न दूयते॥११॥

दक्षिणोत्तराभ्यामतसुच्॥२८॥ विभाषा परावराभ्याम्॥२९॥

गते वरात्तात्सवितर्यदृश्यतां दिने तथा चाधरतः334 सहामुना।
रणक्षितेर्दक्षिणतो निशाचरा ययुस्तथा चोत्तरतो महीभुजः॥१२॥

उपर्युपरिष्टात्॥३१॥ पश्चात्॥३२॥

न वासरेणोपरि भास्वतः स्थितं न चोपरिष्टाद्दिवसस्य संध्यया।
प्रसह्य पश्चात्स्थितमेतयोस्तमश्च्युतेषु तेजस्विषु कस्य नोन्नतिः॥१३॥

उत्तराधरदक्षिणादातिः॥३४॥ एनबन्यतरस्यामदूरेऽपञ्चम्या॥३५॥

अथोत्तराद्दक्षमियाय पार्थिवो निशाचरेशः सरितश्च दक्षिणाम्335
शुभाशुभास्तामनुजग्मुराश्रिता गुणागुणौ वा गुणदोषराशयः॥१४॥

अथोत्तरेणैक्षत336 दक्षिणेन च क्षमाभृता सैन्यनिवेशमेदिनीम्।
प्रदीपमाला हतसान्द्रता337 च सा निशाकृता द्यामिव तारकावलिः॥१५॥

दक्षिणादाच्॥३६॥ आहि च दूरे॥३७॥

नार्मदस्य338 पयसः स दक्षिणा राक्षसास्त्वरित339मात्ममरिंदमम्।
यस्य तिष्ठति पुरा नियोगिनी दक्षिणाहि भवनात्मनः340 प्रिया॥१६॥

उत्तराच्च॥३८॥

उत्तराहि सरिदम्बुसंचयादाससाद शिबिरं महीपतिः।
उत्तरा हि वसति स्म मन्दिराद्यस्य दीपकशिखाहतं तमः॥१७॥

पूर्वाधरावराणामसि पुरधवश्चैषाम्॥३९॥ अस्ताति च॥४०॥ विभाषावरस्य॥४१॥

पुरःसरा भूमिपतेर्महाचमूरधोनयन्तीव भरेण मेदिनीम्।
अधोगतेऽर्के शिबिरं समागता सुमूर्तमास्तीश्वरमन्दिराजिरे॥१८॥

संख्याया विधार्थे धा॥४२॥ अधिकरणविचाले च॥४३॥

द्विधा त्रिधा च प्रविदूय विद्विषां शरैः शरीराणि तदागता भटाः।
गृहेष्वपश्यन्दयिताः ससंमहावियोगदुःखं क्षिपतीः सहस्रधा॥१९॥

अनेकधा दीपहतान्धकारं गृहं नभो वा शशिना सदारम्।
अनेकधाम्नाविशता समन्तादेकाकिनाराजत पार्थिवेन॥२०॥

एकाद्धो ध्यमुञन्यतरस्याम्॥४४॥ द्वित्र्योश्च धमुञ्॥४५॥ धमुञः स्वार्थे डः॥ (वा०)॥ एधाच्च॥४६॥

ततो मुदैकध्यमुपेत्य योषितः परस्परद्वैधविमुक्तमानसाः।
समं सपत्नीभिरुपाचरन्प्रभुं प्रमार्ष्टि वैरं हि महोत्सवागमः॥२१॥

याप्ये पाशप्॥४७॥ एकादाकिनिच्चासहाये॥५२॥

भटव्रजानस्त्रपरिक्षता कृतीर्न वैद्यपाशाः समुपाचरन्गृहे।
उपानयद्वेश्म कराव….म्बितांस्तथैककात्कल्पकरान्सुहृज्जनः॥२२॥

** भूतपूर्वे चरट्॥५३॥ षष्ठ्या रूप्य च॥५४॥ अतिशायने तमविष्ठनौ॥५५॥ तिङश्च॥५६॥ द्विवचनविभज्योपपदे तरबीयसुनौ॥५७॥ अजादी गुणवचनादेव॥५८॥**

नराशिनामिन्द्रचरान्समाहृतान्खदन्तिनश्चारुतरान्नराजान्।
उपानयन्भूपतये स तान्मुदा पुरा पुरस्थां चिरमीक्षतेतराम्॥२३॥

निवेद्यमानेषु हतेन संयुगे दशास्ययोधेषु सहस्रशः पुरः।
निशाचरेभ्यः क्षितिपः स्वसैनिकांस्ततश्चिराद्योग्यतरानमन्यत॥२४॥

** प्रशस्यस्य श्रः॥६०॥ ज्य च॥६१॥ वृद्धस्य च॥६२॥ अन्तिकबाढयोर्नेदसाधौ॥६३॥ युवाल्पयोः कनन्यतरस्याम्॥६४॥ विन्मतोर्लुक्॥६५॥**

गरीयसीं श्रेष्ठतमां महीभुजां विधाय पूजां स्वयमेव भूपतिः।
समुत्सुकस्त्रीजनतेक्षितागमाद्वि341सर्जयामास गृहान्स्वसैनिकान्॥२५॥

ततस्तदान्तः पुरमेत्य भूपतिः दविष्टनेदिष्ठगृहाणि योषिताम्।
स्रजिष्ठदेही विदेधेऽस्य342 जीयसी क्रमेण…. दर्शनबद्धसंमदाः॥२६॥

विधाय नेदीयसि मानवे करं यविष्ठनारीपरिवारशोभितः।
पटिष्टशक्तिः क्षपिताहितस्ततो जगाम सादिष्टमनाः343 प्रियागृहम्॥२७॥

जनोऽपि साधीयसि भूषिते गृहे वरिष्ठशय्यातलसंस्थितस्तदा।
मधूनि हृद्यानि सुराः पटीयसीः पिवन्प्रियाः पाययते स्म सादरम्॥२८॥

कनीयसी काप्यकनिष्ठमानसा प्रिये सपत्नीभवनादुपेयुषी344
न भाविसंग्रामभिया गता रुपं भवत्यपायोऽपि गुणाय कस्यचित्॥२९॥

रणागतं काचिदवेक्ष्य वल्लभं मुदा समालिङ्गितुमैच्छताङ्गना।
स्थिताग्रतो ज्येष्ठजनावलम्बिनी क्व नाम लज्जा क्व च रागिमानसम्॥३०॥

** प्रशंसायां रूपप्॥६६॥ ईषदसमाप्तौकल्पव्देश्यदेशीयरः॥६७॥ विभाषा सुपो बहुच्पुरस्तात्तु॥६८॥**

विलोक्य शक्यं (?) वहुवज्रमागतं दधानमिष्ठं मृतकल्पमङ्गना।
मुमोह दूरान्मृदुरूपमानसा क्व नाम नारीजनता क्वधीरता॥३१॥

प्रकारवचने जातीयर्॥६९॥

उपेयिवांसं समतात्क345लानिधिं हिमांशुजातीयमवेक्ष्य वल्लभम्।
विलासिनी चञ्चलनेत्रषट्पदा कुमुद्वतीवाशु विकासमागमत्॥३२॥

प्रागिवात्कः॥७०॥ अव्ययसर्वनाम्नामकच् प्राक् टेः॥७१॥ कस्य च दः॥७२॥ अज्ञाते॥७३॥ कु-

त्सिते॥७४॥ संज्ञायां कन्॥७५॥ अनुकम्पायाम्॥७६॥ नीतौ च तद्युक्तात्॥७७॥ कुशाग्राच्छः॥१०५॥

अथोच्चकैरुल्लसदंशुमण्डलः सुमेरुशृङ्गाग्रमुपागतः शशी।
क्रमेण भिन्दन्नुदितेन मोहनं नरः कुशाग्रीयमतिर्यथा तमः॥३३॥

प्राग्दिशोविभक्ति (अ० ५। ३) पादः।

————————

(अथ पञ्चमाध्यायस्य चतुर्थः पादः।)

** पादशतस्य संख्यादेर्वीप्सायां वुनलोपश्च॥१॥ दण्डव्यवसर्गयोश्च॥२॥ स्थूलादिभ्यः प्रकारवचने कन्॥३॥ अनत्यन्तगतौ क्तात्॥४॥ न सामिवचने॥५॥ बृहत्या आच्छादने॥६॥ अषडक्षाशितंग्वलंकर्मालंपुरुषाध्युत्तरपदात् खः॥७॥ विभाषाश्चेरदिक्स्त्रियाम्॥८॥ जात्यन्ताच्छ बन्धुनि॥९॥ स्थानान्ताद्विभाषा सस्थानेनेति चेत्॥१०॥ किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे॥११॥ अणिनुणः॥१५॥ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्॥१७॥ द्वित्रिचतुर्भ्यः सुच्॥१८॥ एकस्य सकृच्च॥१९॥ विभाषा बहोर्धाविप्रकृष्टकाले॥२०॥ तत्प्रकृतवचने मयट्॥२१॥ समूहवच्च बहुषु॥२२॥ देवतान्तात्तादर्थ्येयत्॥२४॥ पादार्घाभ्यां च ॥२५॥ अतिथेर्ञ्यः॥२६॥ देवात्तल् ॥२७॥ लोहितान्मणौ॥३०॥ वर्णे चानित्ये॥३१॥ रक्ते॥३२॥ विनयादिभ्यष्ठक्॥३४॥ वाचो व्याहृतार्थायाम्॥३५॥ बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्॥४२॥ संख्यैकवचनाच्च वीप्सायाम्॥४३॥ प्रतियोगे पञ्चम्यास्तसिः॥४४॥**

द्विपदिकादुदयाचल346मूर्धनि त्रिपदिकां निदधच्च निशाकरः।
करचतुःशतिकां च दिवि क्षिपन्नुपययौ जनलोचनगोचरम्॥३४॥

मूर्च्छितः प्रतिमुहूर्तमनल्पां छादनाय शनकैर्ज्वलितस्य।
स्थूलिकांबृहतिकामिव चन्द्रश्चन्द्रिकामुपदधे तिमिरस्य॥३५॥

प्राचीनमिन्दौ गगनादुदंशापायाति347 भृङ्गस्तरसोपगम्य।
कुमुद्वतीमम्भसि सामिभिन्नां सांराविणं चारु चिराय चक्रे॥३६॥

चन्द्रेऽभ्युपेते सखि दूत्यधीना यतः प्रियप्राप्तिरतः प्रियाहि348
स्वमाशु नार्यः सुचिराय मन्त्रं तदाषडक्षीणमिति प्रचक्रुः॥३७॥

पिवन्विनीलानि तमांसि शुभ्रः करीव शाक्रो यमुनाजलानि।
तद्योत349यौमास शशी(?)व कृत्यै(?)क्ष्मां ज्योत्स्नयालंपुरुषीणमाशु॥३८॥

प्रमदारिपु(?)खण्डिता शशाङ्कं रिपुजातीयममन्यतावलोक्य।
सुतरां रमणीयमेव दुःखं कुरुते चेतसि कामिनां वियोगे॥३९॥

नाद्यागच्छामि त्वत्प्रणत्येति नार्यः श्रुत्वा संदेशं वाचिकं दूतिकानाम्।
वह्निस्थानीयं मेनिरे शीतरश्मिं किं वा प्रीत्यै माद्वि350प्रियेऽपि []350 प्रियाणाम्॥४०॥

उच्चैस्तमामाप्य दिवीद्धभासा निराकृतं तामसमिन्दुनाशु।
वियोगिनामेतितरां स्म चित्तमैक्यं भजन्ते हि समानदुःखाः॥४१॥

ददाति पाद्यं नयनाम्भसा ते चन्द्राय शीघ्रं व्रज यावदेषा।
नातिथ्यमस्याशु पुरा ददाति दूत्येति कश्चिज्जगदे सवाष्पम्॥४२॥

न द्विर्न वा त्रिर्वहुधा मयोक्तं प्रयाहि धामाद्य विलोक्य सेन्दुम्।
करिष्यते कीर्तिमयं शरीरं साध्येति351 कश्चिज्जगदे प्रियायाः॥४३॥

रवितः प्रति चन्द्रमाः स्म मुद्यन्सहसा लोहितकं वपुः प्रकाश्य।
च्युतगैरिकधातुरागमूहे खनदीमेत्य पुरः करीवशाक्रः॥४४॥

शशिना परिखण्डिता तमिस्रा शतकृत्वः स्फुरता करव्रजेन।
सकृदप्यवलोकितेन दूरान्मुखशोभा पुनराशु मानिनीनाम्॥४५॥

अथ तत्र महाहवागतानां यमदैवत्यमरिव्रजं विधाय।
दयिताविहितौपचारिकाणां सहसैवापगतः श्रमो भटानाम्॥४६॥

बहुशः कृतदेवतोपचाय्या वनिताप्यापि रणागतं युवानम्।
रमते स्म न भाविदुःखभीता सततं भीतिपरा हि वीरभार्या॥४७॥

** अभूततद्भावेकृभ्वस्तियोगे संपद्यकर्तरि च्विः॥५०॥ अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च॥५१॥ विभाषा साति कार्त्स्न्ये॥५२॥ अभिविधौ संपदा च॥५३॥ तदधीनवचने॥५४॥ देये त्रा च॥५५॥ देवमनुष्यपुरुषपुरुमर्त्यभ्यो द्वितीयासप्तम्योर्बहुलम्॥५६॥**

रम्यीकृते चन्द्रमसा प्रदोषे वितामसीभूत.… तुराले352
आशूर्मनी353भूतवियोगिवर्गे रन्तुं समारभ्यत कापि354 लोकैः॥४८॥

भटा विचेतीकृतशात्रवव्रजाः प्रविश्य गेहं विरजीकृताजिरम्।
अरीरमन्द्वा355मदविह्वलाः प्रिया प्रिया…..मुत्राकृ356निश्चलेक्षणाः॥४९॥

** अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्॥५७॥ कृञो द्वितीयतृतीयशम्बबीजात्कृषौ॥५८॥ सुखप्रियादानुलोम्ये॥६३॥ सत्यादशपथे॥६६॥**

भस्मसात्कृतविपक्षमुपेतं वीक्ष्य कान्तमनिरूपितकार्यम्।
तस्य चेतसि सुखाकृतचेष्टा प्रीतिमाधित परां जिनकान्ता॥५०॥

वक्त्रेण वक्त्रमवलम्ब्य करद्वयेन कस्यैचिदादरवता मधुपानवत्यै।
दातुं बलात्प्रियतमेन विपक्षदृष्टं नृत्यद्भुवे प्रमदसात्समपद्यताशु॥९१॥

सत्यां357 कृतां प्रीतिरसेन पूर्वं पश्चात्तनुं कामयुतां दधाना।
प्रियस्य काचित्समरागतस्य प्रियाकरोति स्म विचेष्टितानि॥५२॥

संयुगे कणकणाकृतघण्टान्स निपत्य तरसा रिपुनागान्।
प्राप्य वेश्मनि भटा वनितानां बिभ्रति स्म कृतकादपि कोपात्॥५३॥

** समासान्ताः॥६८॥ न पूजनात्॥६९॥ किमः क्षेपे॥७०॥ नञस्तत्पुरुषात्॥७१॥ पथो विभाषा॥७२॥ बहुव्रीहौ संख्येये डजबहुगणात्॥७३॥ ऋक्पूरव्धूःपथामानक्षे॥७४॥ अच् प्रत्यन्ववपूर्वात्सामलोम्नः॥७५॥ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्कूसामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः॥७७॥ ब्रह्महस्तिभ्यां वर्चसः॥७८॥ अवसमन्धेभ्यस्तमसः॥७९॥ अन्ववतप्ताद्रहसः॥८१॥ प्रतेरुरसः सप्तमीस्थात्॥८२॥ उपसर्गादध्वनः॥८५॥ तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः॥८६॥ अहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः॥८७॥ अह्नोऽह्न एतेभ्यः॥८८॥ न संख्यादेः समाहारे॥८९॥ राजाहः सखिभ्यष्टच्॥९९॥ अग्राख्यायामुरसः॥९३॥ द्वित्रिभ्यामञ्जलेः ॥१०२॥ द्वन्द्वाच्चुदषहान्तात्समाहारे॥१०६॥ अव्ययीभावे शरत्प्रभृतिभ्यः॥१०७॥ अनश्च॥१०८॥ नपुंसकादन्यतरस्याम् ॥१०९॥ नदीपौर्णमास्याग्रहायणीभ्यः॥११०॥ झयः॥१११॥ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्॥११३॥ अङ्गुलेर्दारुणि॥११४॥ द्वित्रिभ्यां प मूर्ध्नः॥११५॥ नित्यमसिच्प्रजामेधयोः॥१२२॥ धर्मादनिच्केवलात्॥१२४॥ दक्षिणेर्मा लुब्धयोगे॥१२६॥ प्रसंभ्यां जानुनोर्ज्ञुः॥१२९॥ ऊर्ध्वाद्विभाषा॥१३०॥ ऊधसोऽनङ्॥१३१॥ धनुषश्च॥१३२॥ वा संज्ञायाम्॥१३३॥ जायाया निङ्॥१३४॥ गन्धस्येदुत्पूतिसुसुरभिभ्यः॥१३५॥ अल्पाख्यायाम्॥१३६॥**

** उपमानाच्च॥१३७॥ पादस्य लोपोऽहस्त्यादिभ्यः॥१३८॥ संख्यासुपूर्वस्य॥१४०॥ वयसि दन्तस्य दतृ॥१४१॥ स्त्रियां संज्ञायाम्॥१४३॥ विभाषा श्यावारोकाभ्याम्॥१४४॥ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च॥१४५॥ सुहृद्दुर्हृदौ मित्रामित्रयोः॥१५०॥ उरःप्रभृतिभ्यः कप्॥१५१॥ इनः स्त्रियाम्॥१५२॥ नद्यृतञ्च॥१५३॥ शेषाद्विभाषा॥१५४॥ न संज्ञायाम्॥१५५॥ ईयसश्च ॥१५६॥ वन्दिते भ्रातुः॥१५७॥**

विलोक्य शत्रूनपथेन यातः स्थितं निजं नापथि भृत्यलोकम्।
चिरं सुराजा सुसखा स रेजे तदार्जुनो वीरजनैरुपेतः॥५४॥

स्वं भर्तारं नासखायं विदित्वा नाराजानं शक्तिसंपन्नदेहम्।
किंराजानं किंसखायं च शक्रं मेने लोकस्तत्र कान्तासमेतः॥५५॥

उपदशैः सहिताः सुहृदुत्तमैः सुचतुरप्रमदाजनसेविताः।
स्वपुरवद्विपिनेऽपि वने स्थिता मुमुदिरे शुभवाङ्मनसा नृपाः॥५६॥

नववधूरपि तत्र रते वरं व्यधित विस्मितमानसदुर्मदा।
अचतुरामपि शिक्षयतः स्त्रियं स्मरमदौ सविलासविचेष्टितम्॥५७॥

प्रतिलोमकृताकृता सकोपा प्रमदा हंसपथेन यन्तमिन्दुम्।
प्रविलोक्य रुषं मुमोच चित्तं कुरुते रम्यमहो प्रियानुकूलम्॥५८॥

सरजस इव पङ्कजे नलिन्या युवतिमुखे प्रतिकर्मचूर्णरूक्षे।
मधु मधुकरवत्पिबन्न कामी विरतिमवाप विवर्धमानतृष्णः॥५९॥

कृत्वा युधा भर्तृहितं मनुष्या गृहे प्रियाणां श्रियमाचरन्तः।
नक्तंदिवं नन्दितबन्धुवर्गाश्चक्रुस्तदात्मानमवाक्छितं ते॥६०॥

शीतांशुनान्धतमसे तु तदा परीते
स्त्रीपुंसमीक्षणपथं सहसाभ्युपेतम्।

अद्यासिता358नुरहसं रभसेन काचः(?)
कर्णान्तकृष्ट कुसुमेषुरविध्यदाशु॥६१॥

विशिखक्षतहस्तिवर्चसानां स्वबलेनैव न राजवर्चसेन।
अवलोक्यबलाजनो भटानां न्यपतत्प्रत्युरसं तदाहवेषु॥६२॥

अश्वोरसं हस्त्यरसं359 च सैन्यं विविन्दतो360 यः समभूद्भटस्य।
परिश्रमस्तं श्रममाशु निन्ये स्तनोपपीडं परिरम्य कान्ता॥६३॥

संकथ्यमानैरतिलालसाभिः सर्वंदिनं देववधूभिराजौ।
स्त्रीभिः पुनर्वेश्मनि सर्वरात्रं वीरैरहोरात्रमपीति निन्ये॥६४॥

रणागतं वेश्मनि मानवत्या निरीक्ष्य कान्तं प्रमदोद्भवस्य।
चिराय मानग्रहणाय मेने नेत्राम्भसो द्व्यञ्जलमाशु दत्तम्॥६५॥

नारीमुखालोकनवद्ध361दृष्टिर्वभूव तस्मिन्सुचिराय लोकः।
करोति दृष्टं शमिनोऽपि गूढान्विवर्तिताक्षिभ्रुवमङ्गनास्यम्॥६६॥

सुरस्त्रिया युद्धभुवि प्रियो मे व्यक्तं वृतोऽसावुपयामि तत्र।
उपाध्वमेत्येभिधृता362 प्रयान्ती सख्याङ्गना द्व्यङ्गुलमात्रवुद्धिः॥६७॥

यो द्व्यहेन जितवान्स्वयमेकः स्वर्गताजमथ363 शर्वसखं च।
स प्रियाविरहितो दशवक्त्रस्तां निशामनयदाहितखेदम्॥६८॥

वाक्त्वचेन रुचिरेण सा प्रिया द्यौरिवोपशरदं विनिर्मला।
तस्य चेतसि कृतास्पदा सती तुद्यते स्म मुहुराह364वेच्छया॥६९॥

पुरःस्थिता द्व्यङ्गुलचारुनासा365 (?)कविप्रुषेण क्षतलोकचिन्ताः।
नाहो366 **द्विमूव्यो367**ऽथ तथा त्रिमूच्यो367 मन्दोदरीचेष्टितमेव सख्युः॥७०॥

तवास्ति राजन्रणशङ्कया यथा तथैव तस्यास्तह(?)कौशलं प्रति।
तवोषव368त्साङ्गमिदं यथा स्थितं त्वदङ्गमस्याः369 सततं तथा मनः॥७१॥

उपनदमपि निश्चलं भवन्तं सततमुपागमशङ्कयायताक्षी
प्रतिककुभमसौ विलोकयन्ती कथमपि दर्शनवाञ्छयातवाशु॥७२॥

यदजयमुपपौर्णमासमिन्दुं तव दयितामुखमाभया स्फुरन्त्या।
जयति तदधुना स एव तस्याः पतिरहितं370 परिभूयते हि नारी॥७३॥

उपपौर्णमासि समये शशिनं क्षणमेत्य राहुरपकान्तयति।
दयितामुखं तव पुनर्विरहे यदहर्निशं परिभवः स तथा॥७४॥

सुमेधसामप्यवमन्य वाक्यं दुर्मेधसः सा मनसानुशम्य।
त्वद्दर्शनं यत्र भविष्यतीष्टं तच्चिन्तयन्ती सुदिनं निषण्णा॥७५॥

तां सुप्रजां371 दुष्प्रजसं372 विपक्षं कृत्वा समानन्दयतु त्वरावान्।
एतत्त्वया नः परिमुच्य धैर्यं धार्यं वचो राक्षसधर्मणापि॥७६॥

प्रिया सुपादग्र्यदती सुरूपा सुगन्धिनीलोत्पलगन्धिवक्त्रा
व्याधस्य जाता हरिणीव मुग्धा सा दक्षिणेर्मा विरहेऽद्य मृत्योः॥७७॥

भूयो भवानप्यति किं न युद्धं करिष्यते प्रज्ञुरहं ब्रवीमि।
प्रियां हितां जीवय जीवितेशां यतोर्धपू (?) जानिरिहोच्यसेऽसि॥७८॥

या बिभेति न पिनाकधन्वनः शंकरादपि च ते भुजाश्रिता।
साद्य पुष्पधनुषापि ते प्रिया प्रापिता परिभवास्पदं द्विषा॥७९॥

असुहृदपि सुहृत्त्वमेति सद्यस्तव दयितामवगम्य दीनचित्ताम्।
उपदृषदमिदं त्वदीयचित्तं कठिनतया न मृदूयतीति मन्ये॥८०॥

उद्गन्धिपुष्पाणि वनानि तस्याः प्रकाशितश्रीस्तिलकश्च चन्द्रः।
दृष्टानि चित्ते जनयन्ति बाधामभर्तृका स्त्री परिभूयते स्याम्॥८१॥

आयतस्फुरदुरस्कमुत्सुका शुभ्रदद्दशमुखावभाषितम्।
निर्जितोद्धतविपक्षदण्डिकं द्रष्टुमिच्छति भवन्तमद्य सा॥८२॥

त्वं सुभ्राता नित्यमेवाशु भूयाः प्रध्वस्तारिः स्या बहुश्रेयसीश्च
यावत्प्राचीं भानुरायाति नाशां तामाश्वास्य क्षिप्रमायाहि तावत्॥८३॥

मुक्त्वा मानं मानिनी त्वत्समीपं किं सा नेया केवलं तां गुरुस्ते।
कुण्डोध्नी गौरग्निहोत्रस्य वासोः शुश्रूषायै त्वां विगर्हत्ययुक्तम्॥८४॥

इत्यर्जुनरावणीये महाकाव्ये पादशत (पञ्चमाध्यायचतुर्थ) पादे सप्तदशः सर्गः॥१७॥

(षष्ठाध्यायस्य प्रथमे पादे) अष्टादशः सर्गः।

** एकाचो द्वे प्रथमत्य॥१॥ अजादेर्द्वितीयस्य॥२॥ नन्द्राः संयोगादयः॥३॥ पूर्वोऽभ्यासः॥४॥ उभेअभ्यस्तम्॥५॥ जक्षित्यादयः षट्॥६॥**

उदयं चारुरोहार्कः सौपर्णेय इवाचलम्।
भुजङ्गानामिवानीकमियायलयंस्तमः॥१॥

जिजारयिषता रात्रिं चक्राह्वेण वियोगिना।
धृतमित्त्रस्थितिः प्रातः प्राची दूतीव वीक्षिता॥२॥

व्योमासिसिषु तिग्मांशोरालोकादव373तामसम्।
सिंहस्येव वनं नाशं नागानां कुलमागतम्॥३॥

नक्तो374न्दिदि375तार्केण तदिदिदिषु376 तामसम्।
विक्षिप्तं करपुष्पौधैः क्ष्मामचिचिशताभितः॥४॥

चकासति पुरा शैलाः सरितः सागरा दिशः।
जगत्याविष्कृतेऽर्केण युगादाविव वेधसा॥५॥

** लिटि धातोरनभ्यासस्य॥८॥**

जहार सविताक्रम्य स्फुरतां ज्योतिषां द्युतिम्।
सहते परतेजांसि तेजस्तेजस्विनां कुतः॥६॥

** सन्यङोः॥९॥**

चेचीयमानमत्यर्थं तेजश्चान्द्रमसं सितम्।
समारुरुक्षुराकाशं हंसः क्षीरमिवापिवत्॥७॥

** श्लौ॥१०॥**

क्रियमाणा377 श्रियं वीक्ष्य रविणा शर378लक्ष्मणः
विरुष्यो379 वाब्जनेत्राणि कुमुद्वत्यो न्यमीलयन्॥८॥

** चङि॥११॥**

व्योमेभस्य तमश्चर्म कुम्भलग्नं विदारयन्।
केसरीव रविस्तारामुक्ताचयमपीपतत्॥९॥

संप्रसारणम्—

** वचिस्वपियजादीनां किति॥१५॥ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च॥१६॥**

सुप्त्वा मुखं विबुद्धाः स्थ पद्मिन्यः पद्मलोचनाः।
इतीवौश्यन्त380 भृङ्गात्या प्रत्यूषे कलशिञ्जया॥१०॥

इष्ट्वा सम्यङ्नृपा देवान् गृहीतायुधसंपदः।
आपृच्छन्त प्रियाः पश्चात्पूर्वं पृष्ट्वा युधे गुरून्॥११॥

ततः381 पटमिवाच्छिन्नं वर्म मायात्मनो भटाः।
स्त्रियाः382 प्रच्छादनं भीते **तूयु383**र्वाक्यपटं ततः॥१२॥

तटस्य384 वर्मितं विद्धं रिपुणा यत्न सायकैः।
सास्रुनेत्रेषुणा कान्ताहृदयं तदविध्यत॥१३॥

उशन्ति स्म स्त्रियः पुंसां विजायं मरणं पुनः।
उषितं385 सुरनागीभिः सर्वः स्वार्थपरो जनः॥१४॥

अपृच्छत386 धृतिः स्त्रीणां शुचा यति युधं प्रिये।
वृश्चति स्म पुनस्तस्य युयुत्सां गृहसंस्थितिः॥१५॥

** लिट्यभ्यासस्योभयेषाम्॥१७॥**

सुष्वाप387... शुचा रात्रावुवाच मुहुराशिषम्।
इयाज देवतावाने388ः को बन्धुर्गृहिणीसमः॥१६॥

** स्वापेश्चङि॥१८॥**

पापान्नं389 मूषवन्नार्यः पुत्रान्धात्रीभिरादरात्।
मा गास्तातेति नावोचन्मापि390…..न मङ्गलम्॥१७॥

शत्रुबाणावली391 प्राप्ता नं विद्याध392यमुत्तमम्।
तन्मित्त्रमिव निश्छिद्रमुवास393 कवचं भटः॥१८॥

** स्वपिस्यमिव्येञां यङि॥१९॥**

नासौ394 स्वप्यन्त निद्रान्ता…..नपि भटाङ्गनाः।
भाविसंग्रामसंत्रस्ता मुहुः स्वानजिरे प्रियान्॥१९॥

** न वशः॥२०॥ चायः की॥२१॥**

संसिच्यमानमासन्नं **निचिकीय्या395**नकस्वनम्।
वावश्यते स्म ते गन्तुं जयलक्ष्म्येव शब्दिताः॥२०॥

विश्वायेति396 भटस्याङ्कं वर्मजातं यथाधनम्।
शुश्रावेति397 मुदान्यस्य प्रबभूव न तद्यथा॥२१॥

** स्फायः स्फी निष्ठायाम्॥२२॥ स्त्यः प्रपूर्वस्य॥२३॥ द्रवमूर्तिस्पर्शयोः श्यः॥२४॥ शृतं पाके॥२७॥ प्यायः पी॥२८॥**

आ…. सितजयः398 कश्चिद्भटो गर्वितमानसः।
शुभं399 ययौ यशः पातुं श्रित400क्षीरमिवाहवम्॥२२॥

भटं शीतानिलापीतमा401सीनस्फीतचन्दनम्
आबद्धकवचं कान्ता जयश्रीरिवं सस्वजे॥२३॥

** लिड्यङोश्च॥२९॥ विभाषा श्वेः॥३०॥**

शोभायमान402’ इति श्लोको योज्यः. ‘शोशूपमान’ स्यात्.")मप्यङ्कं ह्यस्तनव्रज403पीडया।
अनपक्ष्ये404 भटं यान्तं रुरोध प्रभुरात्मना॥२४॥

** ह्वःसंप्रसारणम्॥३२॥**

अजुहावयिषद्भूपः सेनान्यं सत्त्वरं भटान्।
आजूह405वानराश्चासौ सादिनः स्यदने स्थितान्॥२५॥

** अभ्यस्तस्य च॥३३॥**

**जुहूयमान406**संप्राप्तसंबद्धानेकमानवम्।
सविस्फारधनुर्ध्वानरुद्धाशेषदिगन्तरम्॥२६॥

जुहूवदिव407 वादिन्रस्वनेनारिपताकिनीम्।
निर्जगाम युधं सैन्यं कल्पितेभरथाश्वकम्॥२७॥

लिटि वयो यः॥३८॥ ल्यपि च॥४१॥ व्यश्च॥४३॥ विभाषा परेः॥४४॥

यमूयुर्वेगपातेन तुरङ्गा भूरजःपटम्।
स तस्थौ स्थगयद्भानुं परिवीय दिगङ्गनाः॥२८॥

आदेच उपदेशेऽशिति॥४५॥ न व्यो लिटि॥४६॥ स्फुरतिस्फुलत्योर्घञि॥४७॥

वायुना कृतविस्फारः स रेणुस्तपनप्रभाम्।
म्लानिमाशु समानीय स विव्याय विहायसम्॥२९॥

** क्रीङ्जीनां णौ॥४८॥ सिद्ध्यतेरपारलौकिके॥४९॥**

जापयिष्यन्नरीन्सैन्यैर्दंसितः पार्थिवो ययौ।
अध्यापयन्निजगुणान्वन्दारुमभितो408 रथम्॥३०॥

क्रामयिष्यन्प409ताकिन्या क्रमेण द्विषतां श्रियम्।
साधयिष्यन्नरिव्रातं प्राप राजा रणावनिम्॥३१॥

** मीनातिमिनोतिदीङां ल्यपि च॥५०॥ विभाषा लीयतेः॥५१॥ अपगुरो णमुलि॥५३॥ चिस्फुरोर्णौ॥५४॥ प्रजने वीयतेः॥५५॥ बिभेतेर्हेतुभये॥५६॥ नित्यं स्मयतेः॥५७॥**

खड्गापगोरसामर्थे410 पादाते त्वरया पुनः।
दण्डापगोरमाजौ च विलेतरि411 पुरायुषाम्॥३२॥

सेनापतिः प्रहस्तश्च वेगारक्त (?) महारथौ।
अयुध्येतां विमुक्तेषूप्रमायान्योन्यपौरुषम्॥३३॥

चन्द्रावदातयशसौ प्रमातारौ परौजसाम्।
विलेतॄनरिसंख्यानां शातांश्चिक्षिपतुः शरान्॥३४॥

अविलायाशु412 सेनाग्नीर्धनु413र्विस्मापयन्मुहुः।
चिच्छेदास्यायतां मौर्वीजयाशामिव रक्षसः॥३५॥

दिशश्चापयते वाणैः प्रविस्फारयते धनुः।
शक्तिर्भापयमानेन सेनान्ये मुमुचेऽरिणा॥३६॥

सा विस्मापयमानेन देवान्दक्ष(?)मुपेयुषी।
शत्रुं भीषयमानेन414 विकृत्तार्धपथे………॥३७॥

** सृजिदृशोर्झल्यमकिति॥५८॥ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्॥५९॥ धात्वादेः षः सः॥६४॥ णो नः॥६५॥**

स्रष्टा शरसहस्राणां सेनानीनैर्ऋतांस्ततः।
अकरोन्निहताश्वीयान्स्पन्दनादवनिं गतान्॥३८॥

…..वैरिलोकानां415 द….रं416 बन्धुचेतसाम्।
अरा………..लोक्य बद्धकोपेन निर्भया॥३९॥

** लोपो व्योर्वलि ॥६६॥ वेरपृक्तस्य॥६७॥ हल्ङ्याव्भ्योदीर्घात्सुतिस्यपृक्तं हल्॥६८॥**

आकृष्टक्ष्मा.417………………………….रक्षसा।
शात्रवी सकला सेना प्रापिता तेन विस्मयम्॥४०॥

कोपभाक्तस्य सेना…………………………।
अर्जय्यस्येषुणा418 खड्गंदक्षः शत्रुजिदच्छिनत्॥४१॥

** एङ्ह्रस्वात्संबुद्धेः॥६९॥**

हे सखे मुखतोरी419………………………।
सेनानीर्जगदे राज्ञा शब्देन गगनस्पृशा॥४२॥

अत्रान्तरे रयोपेतानु…………………..।
……त्पेततुरिमौ निकु…….स्वर्मणौ(?)॥४३॥

** एचोऽयवायावः॥७८॥**

दन्ताग्रघट्टनोद्भूतः पावकः पवनाहतः
……………………………………..॥४४॥

……………………………………….।
………………………………………॥४५॥

** वान्तो यि प्रत्यये॥७९॥**

विलूय गव्यमागच्छद्वाणजालमरैः शरैः।
……कुम्भमभिनद्भीमस्तस्याशु दन्तिनः॥४६॥

** धातोस्तन्निमित्तस्यैव॥८०॥ क्षय्यजय्यौ शक्यार्थे॥८१॥ आद्गुणः॥८७॥ वृद्धिरेचि॥८८॥ एत्येधत्यूठ्सु॥८९॥ आटश्च॥९०॥ औतोम्शसोः॥९३॥ एङि पररूपम्॥९४॥ अतो गुणे॥९७॥ अकः सवर्णे दीर्घः॥१०१॥ प्रथमयोः पूर्वसवर्णः॥१०२॥ नादिचि॥१०४॥ अभि पूर्वः॥१०७॥ एङः पदान्तादति॥१०९॥ ख्यत्यात्परस्य॥११२॥ अतो रोरप्लुतादप्लुते॥११३॥**

आशाछेदमनुसृत्य हरिवर्मा शरव्रजम्।
अवश्यलाव्यमलुनाल्लीलया शात्रवं धनुः॥४७॥

क्षत्रियक्षिप्तया शक्त्या भिन्नकुम्भतटः करी।
उपैति स्म क्षितौ क्षिप्रंतत्रागोऽपि क्षतोऽरिणा॥४८॥

अजय्यावैक्षत जनः पादाती420 हतकुञ्जरौ।
अक्षय्यशक्ती संपन्नौ तावुभावसिधारिणौ॥४९॥

द्यां गच्छतोः समुत्प्लुत्य पुनर्गां च समीयुषोः।
उपे….त पुरा शक्तिस्तयोः पथि विवल्गतोः॥५०॥

युध्यमानौ महाशक्ती मुहुर्जयपराजयैः।
पत्युः सख्युश्च चक्राते तोषं भीतिं च तावुभौ॥५१॥

** सुट् कात्पूर्वः॥१३५॥ संपरिभ्यां करोतौ भूषणे॥१३७॥**

खड्गपातेन तद्गात्रे लोप421वर्मपरिष्कृते।
कटकच्छेदसंभूतः शुभ्रो422 वक्रेशितध्वनिः॥५२॥

** उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु॥१३९॥ अपरस्पराः क्रियासातत्ये॥९४४॥ गोष्पदं सेवितासेवितप्रमाणेषु॥१४५॥ आस्पदं प्रतिष्ठायाम्॥१४६॥ आश्चर्यमनित्ये॥१४७॥ अपस्करो रथाङ्गम्॥१४९॥ पारस्करप्रभृतीनि च संज्ञायाम्॥१५७॥ तद्वृहतोःकरपत्योश्चौरदेवतयोः सुट्तलोपश्च॥वा०॥**

विजयस्य यथा रक्षः पुरोपस्कुरुते युधि।
तथैव मानवो मानी मानस्याहितसंभ्रमः॥५३॥

उपस्कृते तयोर्युद्धे महासी पततु423र्दिवि।
महोल्कादण्डसंकाशौ प्रविकीर्णाग्निविप्रुषौ॥५४॥

तस्कराविव रा….तौ वीक्ष्यमाणौ परस्परम्।
आश्चर्यं चक्रतुर्युद्धं सितकीर्तिकृतास्पदम्॥५५॥

वृद्धापरस्परक्रोधौ भक्तापस्करसंकुले।
अगोष्पदसमे देशे तौ जयाय विचेरतुः॥५६॥

बृहस्पतिसमो धिया सुरपतेर्बलेनाधिकः।
कृताहवविनिश्चयः समुपहार्य तावग्रतः।
क्षमापतिरचूचुदन्निजमिति क्रुधा सारथिं
दशाननरथान्तिकं समनय(?)द्दुतंस्यन्दनम्॥१७॥

इत्यर्जुनरावणीये एकाचोद्वे पादे (षष्ठाध्यायस्य प्रथमपादे) अष्टादशः सर्गः॥१८॥

———————

(षष्ठाध्यायस्य तृतीये पादे) एकोनविंशःसर्गः।

** अलुगुत्तरपदे॥१॥ पञ्चम्याः स्तोकादिभ्यः॥२॥ ओजःसहोऽम्भस्तमसस्तृतीयायाः॥३॥ आत्मनश्च पूरणे॥६॥ मध्याद्गुरौ॥११॥ बन्धे च विभाषा॥१३॥ तत्पुरुषे कृति बहुलम्॥१४॥ प्रावृट्शरत्कालदिवां जे॥ १५॥ घकालतनेषु कालनाम्नः॥१७॥ शयवासवासिष्वकालात्॥१८॥ स्थे च भाषायाम्॥२०॥ षष्ठ्या आक्रोशे॥२१॥ पुत्रेऽन्यतरस्याम्॥२२॥ ऋतो विद्यायोनिसंबन्धेभ्यः॥२३॥**

स्तोकाद्गतं वैरमनार्यचित्तं दूरादपेतं धृतयुद्धबुद्धिम्।
ततोऽन्तिकाद्धृष्ट……देष्टं दशाननं दंसितभीमकायम्॥१॥

तमोजसानिर्जितदेवराजं दृष्ट्या………………द्धिम्।
जग्राह राजा सहसात्तकोपश्चापानि चारूणि ससायकानि॥२॥

………………………..रिक्षं महाघनो वा घनबाणजालैः।
पिधाय तेजांसि चिराय……………विमोहम्॥३॥

मध्येगुरुं स्यन्दन…………………………….।
दोष्णां सहस्रेण…..शात्क्षिपन्तस्तथात्मनेलक्षतमं424 दशास्यः॥४॥

कर्णेजपो………………….स्तम्वेरमानीककृताभिरक्षम्।
प्रसह्य राजा ततचारुचापश्चक्रचकायो(?)रसि बाणमाशु॥५॥

दशाननोऽप्यञ्जनशैलकान्तिर्मुमोच धारा इव वाणमालाः।
नराधिपस्योपरि वीतरन्ध्रा विडम्बयन्प्रावृषिजाम्बुवाहम्॥६॥

पतद्भिराराद्दशवक्त्रवाणैर्लक्ष्मीर्वितेने क्षितिपाधिपेन।
प्रागेत425नादित्यमयूखभाजा पद्माकरेणाम्भसि वासिना वा॥७॥

अभिमुखं दशवक्रविसर्जितैर्दिविजमारुतवेगविलङ्घिभिः।
क्षितिपतिर्विरराज शिलीमुखैः शरदिजाम्बुरुहांकरवच्चिरम्॥८॥

तयोश्च रेणुप्रकरप्रवाहाः पर्यन्तभोगेषु निरुद्धपाताः।
वेगेन कृत्वा दिवि चक्रवन्धं भ्रेमुर्गणाः संयति स्वेशयानाम्॥९॥

रथस्थदेहः स्फुरतां सहस्रं दधत्कराणाममलद्युतीनाम्।
इयेष पापस्य वपुर्विहन्तुं दशाननस्यार्क इवान्धकारम्॥१०॥

धीमानसत्पुत्रमिवाविनीतं पापस्य पुत्रस्थितिमाचरन्तम्।
तीक्ष्णैर्दशास्यं कृतचित्तपीडैस्तुतोद वाक्यैरिव बाणजालैः॥११॥

** आनङृतो द्वन्द्वे॥२५॥ देवताद्वन्द्वे च॥२६॥ ईदग्नेः सोमवरुणयोः॥२७॥ दिवो द्यावा॥२९॥**

मातुःमुतस्त्वं गुरुदुःखहेतुं रथस्थमिन्द्रावरुणादिवृत्तम्।
दुःखानि मातापितरौ नयन्तं जघान राजा सविशेषकोपः॥१२॥

द्यावाक्षमे भीमरवैर्निरुद्धस्तत्राशु यस्यां दिशि भूमिपालः।
विषादयन्मन्त्रिगणं दशास्यः प्रामुञ्चदशीवरुणौ स देवौ॥१२॥

पुंवद्भावः—

** स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु॥३४॥ तसिलादिष्वा कृत्वसुचः॥३५॥ क्यङ्मानिनोश्च॥३६॥ न कोपधायाः॥३७॥ संज्ञापूरण्योश्च॥३८॥ स्वाङ्गाच्चेतोऽमानिनि॥४०॥ पुंवत्कर्मधारयजातीयदेशीयेषु॥४२॥**

विदृश्यचेष्टाभिरुपायतीभिः सकान्तधूरुः(?)कनकोज्ज्वलाभिः।
यथा दशास्यो भवनेऽङ्गनाभिर्युधीषुभिस्तत्र तथा परीतः॥१४॥

जातायते426 स्मारिचमूर्निरीक्ष्य माया युयु427र्निर्भरमानिनी यम्(?)।
तं कारिका428सक्तिमपि क्षितीशो मन्दोदरीकार्य429मतीत्य रेजे॥१५॥

श्रीमन्मुखीमूर्तिरहार्यवीर्यश्चिराय देवीपरिचारको430 यः।
महीभृताभीमशराभिभूतो दशां दशास्योपमितः431 स काष्ठाम्॥१६॥

** घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः॥४३॥ नद्याः शेषस्यान्यतरस्याम्॥४४॥ उगितश्च॥४५॥**

आकृष्यमाणक्षतलोकधैर्या वाणेन चापस्य परिस्फुरन्ती।
नरेन्द्रमुक्तेन भुजंगकल्पा432 विशिच्छिमे433 मौर्वितरां तदाशु॥१७॥

विलोक्य चाचोष्य(?)तरा विषण्णां चिराय सेनां गृहिणीब्रुव434 ..।
उपादधे भातितरां ततोऽन्या435 ज्यां ज्यायसी436 जातमतिर्दशास्यः॥१८॥

महद्रतः(?)श्रीतनयोपगूढं437 न सेवनीयं श्रितरा चकार।
शक्तिं ददानं महतीतरां तं विलोक्य दध्यांविति राक्षसेशः॥१९॥

एष भूयसितरां धनेश्वराज्ज्यायसीतरां पादपाणितः।
शक्तिमुद्वहति यः क्षमापतिर्नापैयत्तु(?)सख्यमाहवे॥२०॥

** आन्महतः समानाधिकरणजातीययोः॥४६॥**

इत्थं विचिन्त्य श्रितमाश्रितेन तं श्रीतमालिङ्गितमीशमाप्य।
समादधे वाणविघातदक्षं महाश्मनां वर्षणमस्त्रमाशु॥२१॥

** द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥४७॥ त्रेस्त्रयः॥४८॥ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्॥४९॥**

अष्टादशद्वादशलक्षयुक्तास्त्रयोदशाग्राश्च सहस्रकोट्यः।
कल्पान्तवाताभिहतादिवाद्रेर्वाणा निपेतुः शतधा धरित्र्याम्॥२२॥

** हृदयस्य हृल्लेखयदण्लासेषु॥५०॥ वा शोकष्यञ्रोगेषु॥५१॥**

अन्योन्यसंघट्टनबद्धनादाद्विरुद्धभास्वत्किरणप्रतानाः।
निरुद्धहृद्रोगनिवद्धकम्पा विमुच्य मित्त्राणि निरस्तहार्दाः॥२३॥

आहृद्य438नादाः परितः प्राणेशु439र्जना गुरु……वनिपातभीताः।
…………………………………………………………..॥२४॥

हृदयरोगमताय440 शरीरिणामुपलवर्म(?)मरातिशरेरितम्।
प्रवलघट्टनसंभवपावकस्फुरदनल्पकणाचितदिङ्मुखम्॥२५॥

** पादस्य पदाज्यातिगोपहतेषु॥५२॥ पद्यत्यतदर्थे॥५३॥ हिमकाषिहतिषु च॥५४॥ वा घोषमिश्रशब्देषु॥५६॥**

स्वपद्धतिं दूरमपास्य वेगात्पतत्सु पृथ्व्यामुपलब्धजेषु।
पत्काषिणः सादिगणा हताश्वाः पदातिभिस्तत्र समं विचेरुः॥२६॥

पद्धोषभाजस्तुरगाः स्खलन्तः पद्येषु पाषाणचयेषु चेरुः।
पद्गा441घटा भग्नरथाश्च तत्र शनैः कथंचित्कृतपादघोषाः॥२७॥

उपलनिवहपातपीडितात्माग्लपिततनुस्तरसा बभूव लोकः।
उपरजनि विपन्नपत्रशोभः पदुपहतः442 शशिनेव443 पद्मषण्डः॥२८॥

** उदकस्योदः संज्ञायाम्॥५७॥ पेषंवासवाहनधिषु च॥५८॥ एकहलादौ पूरयितव्येऽन्यतरस्याम्॥५९॥ मन्थोदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च॥६०॥**

धृतोदधिध्वानमरुद्धवेगा नभस्तलात्संवलिता पतन्ती।
पिपेष पाषाणततिर्जनौघं सा नोदपेषं किमु शुष्कपेषम्॥२९॥

उदवाहनजालसंनिकाशा जनतां रुद्धविवस्वदंशुचक्रा।
उदवासमपि प्रवृद्धभीतिं त्वरयोपानयदुद्धतोल्लसन्ती॥३०॥

क्षिप्तोदबिन्दूनि सरांसि दूरं धृतोसमन्थानि444 च पल्वलानि।
रुद्धोदपाना…..रोवहन्ती पाषाणमाला विदधे पतन्ती॥३१॥

परितः पतिता रयेण पृथ्वीमुदवज्रा इव मेघजालमुक्ताः।
उपला विभिदुर्भटव्रजानां तरसा संयति मस्तकानदृष्टाः॥३२॥

** इको ह्रस्वोऽङ्योगालवस्य॥६१॥**

भिन्नोदकुम्भान्पथिकान्मरौर्या(?)विषादभाजः क्षितिपः स्वयोधान् ।
विलोक्य सेनानिवबलं च दीनं समीरणास्रं जगृहे विघाति॥३३॥

** इष्टकेषीकामालानां चिततूलभारिषु॥६५॥**

निर्गतेन मरुता महास्त्रतः कूटमम्बरतले महाश्मनाम्।
संनिपात्य करिणेव लीलया क्षिप्तमिष्टकचितं गृहं यथा॥३४॥

अरुर्द्विषदन्तस्य मुम्॥६७॥ वाचंयमपुरंदरौ च॥६९॥ कारे सत्यागदस्य॥७०॥ श्येनतिलस्य पाते ञे॥७१॥ रात्रेः कृति विभाषा॥७२॥

गां प्रतीत्य वनमालभारिणीं विक्षतान्समुपवीज्य मानवान्।
नीतवांस्तनुभृतामरुंतुदान्ना445शमाशु दृषदः समीरणः॥३५॥

वाचंयमानां स पुरंदराणां प्रीतिं मुनीनां विदधत्समीरः।
आश्वासयन्प्राणभृतः सुशीतश्चिक्षेप दिक्षु द्रुतमद्रिराशिम्॥३६॥

कुर्वाणा वा वायवः पत्त्रिजाताः सत्यंकारं विद्विषां ध्वंसनाय।
व्योम क्षिप्रं प्राप्य पाषाणराशौ श्यैनंपाताश्चक्रिरे चित्रचेष्टाः॥३७॥

प्रतीपनीतैर्मरुताश्मजालैर्गाढप्रहाराहिततीव्रमोहाः।
प्राप्ता द्रुतं शोच्यतरामवस्थां रात्रिंचरा रात्रिचरीजनस्य॥३८॥

नलोपो नञः॥७३॥ तस्मान्नुडचि॥७४॥ नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या॥७५॥ नगोऽप्राणिष्वन्यतरस्याम्॥७७॥

नक्रा इव मत्स्यकार्पयोधौ446 नागा447 वा नकुलाः….स्वाग्रभिन्नान्।
उपला निदधुः प्रतीपनीता मरुता रात्रिचरान्विभिन्नकायान्॥३९॥

नक्षत्रमार्गे भ्रमितं समीरैरन्योन्यसंपातविभिद्यमानम्।
तदद्रिकूटं भवदग्निलेशं चूर्णीकृतं भूतलमाससाद॥४०॥

क्षणादपाषाणमनन्धकारं न… तङ्गां गगनं समीरैः।
कृत्वा कृतं राक्षससैन्यमध्यं पतन्महाकेतुनगप्रतानम्॥४१॥

** सहस्य सः संज्ञायाम्॥७८॥ ग्रन्थान्ताधिके च॥७९॥ अव्ययीभावे चाकाले॥८१॥ वोपसर्जनस्य॥८२॥**

रथं सपत्रं मधुरं448 निरस्तं दृष्ट्वा सकोपेन दशाननेन।
महाभिमानाहितकार्मुकेण द्विजिह्वसंपादि समादधेऽस्त्रम्॥४२॥** **

** ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनवन्धुषु॥८५॥ विभाषोदरे॥८८॥ दृग्दृश्वतुषु॥८९॥**

सज्योतिरब्दैरथ भोगिवृन्दं सनाभिवर्गं समयः449समेतम्।
समुत्पतत्खं तमसा सरूपं दिशोऽपि चक्रे तमसा सरूपाः॥४३॥

सगोत्रसोदर्यसमान450भाजा विजृम्भमाणेन फणिव्रजेन।
ततो निरुद्धांशुमहं…..चन्द्रं **सस्थार451**मासादि………………..॥४४॥

सामालसन्तः(?) सदृशास्त452पोभिः संरुद्धतिग्मांशुमयूखजालाः।
युवेन(?)लोकान्सदृशान्दधानाश्चक्रुर्दिनं रात्रिसमं फणीन्द्राः॥४५॥

** इदंकिमोरीश्की॥९०॥ आ सर्वनाम्नः॥९१॥**

यादृक्तरङ्गैर्विततैरुदन्वानीदृङ्नभोभोगिगणैर्विरेजे।
क्ष्मा यादृशी वेत्रकरैर्विलीनैर्द्यौरीदृशी तैः परितः स्फुरद्भिः॥४६॥

कीदृक्प्रमाणं दिवि कीदृशं वा वाणाद्बलं तत्फणिनां प्रसूतम्।
येनाशु चक्रे भ्रमतोपरिष्टात्तादृग्बलं भूमिपतेर्विषादि॥४७॥

** विष्वग्देवयोश्च टेरद्य्रञ्चतावप्रत्यये॥९२॥ समः समि॥९३॥ सहस्य सध्रिः॥९५॥**

विष्वद्रिचा भोगिगणेन सम्यक् परिक्षयं नीतमिवान्तरिक्षम्।
व्यात्ताननेनापिहिताभिमात्रं नभस्वता दिक्षु विजृम्भितं च॥४८॥

** व्द्यन्तरुपसर्गेभ्योऽप ईत्॥९७॥ ऊदनोर्देशे॥९८॥**

द्वीपानि सर्वाणि सहान्तरीपैः स्वच्छायया क्रान्ततलानि कृत्वा।
सध्य्रङ् फणावन्निवहोऽम्बरेऽसौ स्फुरत्स्फुलिङ्गेन विषानलेन॥४९॥

** अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोऽतिकारकरागच्छेषु॥९९॥ अर्थे विभाषा॥१००॥**

अन्यदीयमनपेक्ष्य पौरुषं पन्नगा द्रुतमनन्यदास्थपम्453
…….माययुरनन्यमु454**त्सुकान्दान455**वान्गतवतः क्षमातलम् ॥५०॥

** कोः कत्तत्पुरुषेऽचि॥१०१॥ रथवदयोश्च॥१०२॥ तृणे च जातौ॥१०३॥ का पथ्यक्षयोः॥१०४॥ ईषदर्थे॥१०५॥ विभाषा पुरुषे॥१०६॥ कवं चोष्णे॥१०७॥**

भङ्क्त्वा रथान्कद्रथवत्पतन्तस्ते कद्वदेन प्रहिताः परेण।
आरेभिरे…..मतजा भुजङ्गांस्त्यक्त्वा कदन्नं पवनादिशेषम्॥५१॥

दशवदनयुता निशाचरा जननिधनाय विचेरुरादृताः।
कुपुरुषमधिगम्य निन्दितं विदधति कापुरुषा हि नेतरे॥५२॥

अनन्यदर्थं जयमिच्छता ते विसर्जिता कापथगामिनाशु।
दशाननेनाहिगणाः प्रकामं ययुः कदुष्णं रुधिरं जनानाम्॥५३॥

कदोष्णमस्रं456 पिबतः सखेदं विलोक्य लोकानथ लोकनाथः।
अन्यार्थमिच्छन्सततं सुखानि गरुत्मदस्त्रं समधत्त चापे॥५४॥

** पृषोदरादीनि यथोपदिष्टम्॥१०९॥**

मुहुर्मयूरा मधुरं रुवन्तस्ततोऽस्त्रमस्यामितभोगिवृन्दाः।
दिवं समीयुर्महिषाङ्गनीलाः स्वच्छायया भूषितभूतलान्ताः॥५५॥

प्रभूतदण्डीनि सवृत्रहाणि प्रलीनपूषाणि वलानि भीत्या।
सुखं विजिग्ये दिवि योऽमराणां स कार्तवीर्ये स्खलितो दशास्यः॥

सौ च॥१३॥ अत्वसन्तस्य चाधातोः॥१४॥

छत्री दिविवृत्रहा सपूषा वल्गन्तं दशवक्रमीक्षमाणः।
स्मृत्वा समरं जगाम भीतिं प्रायः पश्यति भीतिमान्भयानि॥७॥

धनवानपि वीतपुष्पकः457गदावानपि वीक्ष्य रावणम्।
विमनाः समजायत द्रुतं कृतभीतेर्न विभेति कोऽथवा॥८॥

** अनुनासिकस्य क्विब्झलो क्ङिति॥१५॥ अज्झनगमां सनि॥१६॥**

तमशान्तमतिं प्रशानधीशः प्रमिमीषुं रुषमात्मचेष्टितेन।
नामाधिजिगांसमानमुच्चैः प्रजिघांसन्तमवारयत्सलीलम्॥९॥

** तनोतेर्विभाषा॥१७॥**

आधुन्वन्नुरुकरचक्रचक्रवालं भीमासिं सपदि तितंसुरात्मकोपम् ।
स्वां शक्तिं रणभुवि संतितांसितारिः संनद्धः क्षितिपतिना पुरःसरेण॥१०॥

** क्रमश्च क्त्वि॥१८॥**

क्रान्त्वाशु…..(?) यथा मरुद्धरित्रीं कृत्वा458 तद्वदसौ नराधिपेन।
रुरुधे रणशालिना दशास्यो नागेनेव महावलेन नागः॥११॥

** च्छ्वोःशुडनुनासिके च॥१९॥**

प्रश्नं स्वजनं चिराय पृष्ट्वा दशवक्त्रोऽनुमतोऽथ तैः प्रहृष्टैः।
आधिं विदधे समेत्य धीमानक्षद्यूरिव वञ्चनैकचेताः॥१२॥

वक्षस्युरुलोमवर्मगुप्ते सावज्ञं समुपेत्य खङ्गयष्ट्याम्।
च्युत्वा459 क्षितिपेन पातितायां रक्तष्ठ्यूरभवन्निशाचरेषु460॥१३॥

** ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च॥२०॥**

अभितः समरद्रुवं461 प्रयुक्ता रुषिता बासिलता दशाननेन।
गुरुविग्रहखण्डिता न रेजे प्रमदेवाकृतकारिणा निवृत्ता॥१४॥

संप्रापितयोः समेत्य तूर्णं ताभ्यां व्योमतले महासियष्ट्योः।
शक्तिं तडितोरिवेक्षमाणस्त्रासाज्ज्यनि462मुपाजगाम लोकः॥१५॥

** राल्लोपः॥२१॥ श्नान्नलोपः॥२३॥ अनिदितां हल उपधायाः क्ङिति॥२४॥ दंशसञ्जस्वञ्जां शपि॥२५॥ रञ्जेश्च॥२६॥ घञि च भावकरणयोः॥२७॥**

अध्वस्तचर्माभरणे463 दशास्यः पुरासिवेगं प्रभनक्ति राज्ञः।
भनक्ति464 मूर्तिंस्म निजं तदीयं समीपमायात्परिरक्षणाय ॥ १६ ॥

अदशद्दशनच्छदं दशास्यः शिरसा क्ष्मापतिना क्षतः प्रविश्य।
चर्मा…..सजतोऽसिपाणिर्मथितात्मा प्रतिहन्तुमाहितेच्छः॥१७॥

पर्यस्वजत प्रसह्य कोपस्तमथो पाणिहतं भुजङ्गमं वा।
अरजत्स मनांसि बान्धवानां रणरागेण रणाजिरें विवल्गन्॥१८॥

** स्यदोजवे॥२८॥ अवोदेधौद्मप्रश्रथहिमश्रथाः॥२९॥ नाञ्चेः पूजायाम्॥३०॥**

बद्धस्पदमञ्चितं दशास्यं श्लथवेगं तमथो भ्रमन्तमाजौ।
खेदाहितधर्मवारिबिन्दुं भीतं वीजद465थोहिद्रथस्थम्466॥१९॥

** क्त्वि स्कन्दिस्यन्दोः॥३१॥**

स्कन्त्वा युधि ताडितस्य राज्ञा खङ्गेनक्षणदाचरस्य देहात् ।
स्यन्त्वा रुधिरं निबद्धरागं चित्तं वाकृत भस्य467 भूमिपृष्ठम्॥२०॥

** जान्तनशां विभाषा॥३२॥**

भङ्क्त्वेति दशाननं स भक्त्वा यत्नेनापि तदार्जुनं दशास्यः।
नंष्ट्वा करणैर्नृपस्य दूरं नष्ट्वाप्येति पुनः पुरा सवेगम्॥२१॥

** भञ्जेश्च चिणि॥३३॥**

स्खलितप्रसरेण यत्नभाजा पवनेनेव महाबले नरेन्द्रे।
भ्रूपङिक्तिरभाजि तेन रोषाद्येनाभञ्जि सुरेश्वरस्य सेना॥२२॥

** शास इदङ्हलोः॥३४॥ शा हौ॥३५॥ हन्तेर्जः॥३६॥**

अशिपन्न पितापि यं प्रयत्नैः शिष्टा येन महाबलेन लोकाः।
जहि मामनुशाधि वास्ति शक्तिर्यदि ते प्राहुरथो समेत्य भूपम्॥२३॥

** अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति॥३७॥ वा ल्यपि॥३८॥ न क्तिचि दीर्घश्च॥३९॥ गमः क्वौ॥४०॥ विड्वनोरनुनासिकः स्यात्॥४१ ॥ जनसनखनां सञ्झलोः॥४२॥ ये विभाषा॥४३॥ तनोतेर्यकि॥४४॥ सनः क्तिचि लोपश्चास्यान्यतरस्याम्॥४५॥**

नत्वा नतिमेत्य रावणश्चर्मोद्यम्य468 महासिसंयुतः।
उद्यम्य च खड्गमर्जुनः समराय द्विरदाविवेयतुः॥२४॥

उपरक्तिमथाति469…र्कितः प…..घस्य रूभोगते470….दे।
चिच्छेद दशाननोद्यतं रणजासिंतरसा निजासिता॥२५॥

… वीतासिभुजस्य471 भूयो जिजास समराय चेष्टाम्।
उदैक्षतारेर्नृपतिर्विधत्ते द्विषोऽपि साधुर्विधुरेऽनुकम्पाम्॥२६॥

उत्खाततोपस्य ननाश भर्तुः समुच्छिखासोः472 प्रतिपक्षवृक्षम्॥
अजायतेच्छाशु473 गदां ग्रहीतुं तथैव सा जन्यत भूभृतापि474॥ २७॥

अजन्यतेशेन475 यथाजिचेष्टा गदां धुनानेन यथागृहीताम्।
तथैव सातायत रावणेन प्रेक्ष्येव शिष्येण गुरोः सकाशात्॥ २८॥

** आर्धधातुके॥४६॥ भ्रस्जो रोपधयो रमन्यतरस्याम् ॥४७॥**

……………………. दुरापं476 महीभृतं द्रष्टुमुपा477जगाम
निवारयामास सलीलमेनं राजाप्युपेतं गदया दशास्यम्॥२९॥

** अतो लोपः॥४८॥ यस्य हलः॥४९॥ क्यस्य वि-**

भाषा॥५०॥ णेरनिटि॥५१॥ निष्ठायां सेटि॥१२॥ अयामन्ताल्वाय्येत्न्विष्णुषु॥ ५५॥

यशःप्रतानं प्रजिहीर्षुराजौ जिहीर्षुकः शात्रवलोकभीतेः।
महौजसां वेभिदिता नरेन्द्रं गदां सलीलं भ्रमयांबभूव॥३०॥

स योधितारं478 रजनीचरेशं समेतशस्त्रो युधिता नरेन्द्रः।
ततस्तरुं वा पवनोपनीतं व्यदारयल्लोलविशालशाखम्॥३१॥

चिराय ताभ्यां क्षितिकम्पकारणं रणश्रिताभ्यां भ्रमितोल्लसद्गदम्।
स साधुकारिध्वनि चक्षुरीक्षितुं न दापितः कः स्पृहयालुरात्मने॥३२

** ल्यपि479 इति सूत्रावधिकोदाहरणपद्यानि नैव आदर्शपुस्तके दृश्यन्ते सूत्राणि तु यथावुद्धि लिखितानि, तन्मध्ये कियत्सु पद्येषु तेषां सूत्राणामुदाहरणानीति न ज्ञायते.") लघुपूर्वात्॥५६॥ विभाषापः॥५७॥**

………………………………………………………………………..।
………………………………………………………………………॥३३॥

** क्षियः॥५९॥ निष्ठायामण्यदर्थे॥६०॥ वाक्रोशदैन्ययोः॥६१॥**

…………………………………………………………………………।

……………………………………………………………………..॥३४॥

** स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेज्झनग्रहदृशां वा चिण्वदिट् च॥६२॥**

………………………………………………………………………………।
………………………………………………………………………….॥३५॥

** दीङो युडचि क्ङिति॥६३॥**

…………………………………………………………………………………।
…………………………………………………………………………..॥ ३६ ॥

** आतो लोप इटिच॥६४॥ ईद्यति॥६५॥ घुमास्थागापाजहातिसां हलि॥६६॥ एर्लिङि॥६७॥ वान्यस्य संयोगादेः॥६८॥ न ल्यपि॥६९॥ मयतेरिदन्यतरस्याम्॥७०॥**

……………………………………………………..।
……………………………………………………..॥३७॥

** लुङ्लङ्लृङ्क्ष्वडुदात्तः॥७१॥ आडजादीनाम्॥७२॥ न माङ्योगे॥७४॥**

……………………………………………………..।
……………………………………………………..॥ ३८ ॥

** अचि श्नुधातुभ्रुवां य्वोरियङुवङौ॥७७॥ अभ्यासस्यासवर्णे॥७८॥ स्त्रियाः॥७९॥ वाम्शसोः॥८०॥ इणो यण्॥८१॥ एरनेकाचोऽसंयोगपूर्वस्य॥८२॥ ओः सुपि॥८३॥ वर्षाभ्वश्च॥८४॥ न भूसुधियोः॥८५॥ हुश्नुवोः सार्वधातुके॥८७॥**

……………………………………………………..
……………………………………………………..॥३९॥

** भुवो वुग् लुङ्लिटोः॥८८॥ ऊदुपधाया गोहः॥८९॥ दोषो णौ॥९०॥ वा चित्तविरागे॥९१॥**

……………………………………………………..
……………………………………………………..॥४०॥

** मितां ह्रस्वः॥९२॥ चिण्णमुलोर्दीर्घोऽन्यतरस्याम्॥९३॥ खचि ह्रखः॥९४॥ ह्लादो निष्ठायाम्॥९५॥ छादेर्घेऽद्य्वुपसर्गस्य॥९६॥ इस्मन्त्रन्क्विषु च॥९७॥**

……………………………………………………..
……………………………………………………..॥ ४१ ॥

गमहनजनखनघसां लोपः क्ङित्यनङि॥९८॥ हुझल्भ्यो हेर्धिः॥१०१॥ चिणो लुक्॥१०४॥ अतो हैः॥१०५॥ उतश्च प्रत्ययादसंयोगपूर्वात्॥१०६॥ लोपश्चास्यान्यतरस्यां म्वोः॥१०७॥ नित्यं करोतेः॥१०८॥ ये च॥१०९॥ अत उत्सार्वधातुके॥११०॥ श्नसोरल्लोपः॥१११॥

……………………………………………………..।

……………………………………………………..॥४२॥

श्नाभ्यस्तयोरातः॥११२॥ ई हल्यघोः॥११३॥ इद्दरिद्रस्य॥११४॥ भियोऽन्यतरस्याम्॥११५॥ जहातेश्च॥११६॥ ओ च हौ॥११७॥ लोपो यि॥११८॥

……………………………………………………..।

……………………………………………………..॥४३॥

घ्वसोरेद्धावभ्यासलोपश्च॥११९॥ अत एकहल्मध्येऽनादेशादेर्लिटि॥१२०॥ थलि च सेटि॥१२१॥ तृृफलभजत्रपश्च॥१२२॥ राधो हिंसायाम्॥१२३॥ वा जृृभ्रमुत्रसाम्॥१२४॥ फणां च सप्तानाम्॥१२५॥ न शसददवादिगुणानाम्॥१२६॥

……………………………………………………..।

……………………………………………………..॥४४॥

** अर्वणस्त्रसावनञः॥१२७॥ मघवा बहुलम्॥१२८॥ भस्य॥१२९॥ पादः पत्॥१३०॥ वसोः संप्रसारणम्॥१३१॥ वाह ऊट्॥१३२॥ श्वयुवमघोनामतद्धिते॥ १३३॥ अल्लोपोऽनः॥१३४॥ षपूर्वहन्धृतराज्ञामणि॥१३५॥ विभाषा ङिश्योः॥ १३६॥ न संयोगाद्वमन्तात्॥१३७॥ अचः॥१३८॥ उद ईत्॥१३९॥**

……………………………………………………..।

……………………………………………………..॥४५॥

आतो धातोः॥१४०॥ति विंशतेर्डिति॥१४२॥टेः॥१४३॥ नस्तद्धिते॥१४४॥ अह्नष्टखोरेव॥१४५॥ ओर्गुणः॥१४६॥ ढे लोपोऽडकद्वा॥१४७॥

……………………………………………………..।

……………………………………………………..॥४६॥

यस्येति च॥१४८॥ सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः॥१४९॥ हलस्तद्धितस्य॥१५०॥ आपत्यस्य च तद्धितेनाति॥१५१॥ क्यच्च्योश्च॥१५२॥

……………………………………………………..।

……………………………………………………..॥४७॥

बिल्वकादिभ्यश्छस्य लुक्॥१५३॥तुरिष्ठेमेयःसु॥१५४॥ टेः॥१५५॥स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादि परं पूर्वस्य च गुणः॥१५६॥ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्षंहिगर्वर्षित्रब्द्राधिवृन्दाः॥१५७॥ बहोर्लोपो भू च बहोः॥१५८॥ इष्टस्य यिट् च॥१५९॥ ज्यादादीयसः॥१६०॥ र ऋतो हलादेर्लघोः॥१६१॥ प्रकृत्यैकाच्॥१६३॥

……………………………………………………..।

……………………………………………………..॥४८॥

इनण्यनपत्ये॥१६४॥ गाथिविदथिकेशिगणिपणिनश्च॥१६५॥ संयोगादिश्च॥१६६॥ अन्॥१६७॥ ये चाभावकर्मणोः॥१६८॥ आत्माध्वानौ खे॥१६९॥ न मपूर्वोऽपत्येऽवर्मणः॥१७०॥

……………………………………………………..।

……………………………………………………..॥ ४९॥

** ब्राह्मोऽजातौ॥१७१॥ कार्मस्ताच्छील्ये॥१७२॥ औ-**

क्षमनपत्ये॥१७३॥दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि॥१७४॥

[इत्यर्जुनरावणीये महाकाव्ये अङ्ग (षष्ठाध्यायस्य चतुर्थे) पादे विंशः सर्गः॥] .

————————

(सप्तमाध्यायस्य प्रथमपादे) एकविंश सर्गः।

** युवोरनाकौ॥१॥ आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्॥२॥ झोऽन्तः॥३॥ अदभ्यस्तात्॥४॥ आत्मनेपदेष्वनतः॥५॥ शीङो रुट्॥६॥ वेत्तेर्विभाषा॥७॥**

…………………………………………………………….।
…………………………………………………………॥१॥

** अतो भिस ऐसू॥९॥ नेदमदसोरकोः॥१९॥ टाङसिङसामिनात्स्याः॥१२॥ ङेर्यः॥१३॥ सर्वनाम्नः स्मै॥१४॥ ङसिङयोः स्मात्स्मिनौ॥१५॥ पूर्वादिभ्यो नवभ्यो वा॥१६॥ जसः शी॥१७॥ औङ आपः॥१८॥ नपुंसकाच्च॥१९॥**

……………………………………………………………..।
………………………………………………………..॥२॥

** जश्शसोः शि॥२०॥ अष्टाभ्य औश्॥२१॥ षड्भ्यो लुक्॥२२॥ खमोर्नपुंसकात्॥२३॥ अतोऽम् ॥२४॥ अदूड्डुतरादिभ्यः पञ्चभ्यः॥२५॥**

…………………………………………………..।
…………………………………………………॥३॥

** युष्मदस्मद्भ्यां ङसोऽश्॥२७॥ ङेप्रथमयोरम्॥२८॥ शसो न॥२९॥ भ्यसो भ्यम्॥३०॥ पञ्चम्या अत् ॥३१॥ एकवचनस्य च॥३२॥ साम आकम्॥३३॥**

………………………………………………………………..।
………………………………………………………….॥४॥

** आत औ णलः॥३४॥ तुह्योस्तातङ्काशिष्यन्यतरस्याम्॥३५॥विदेः शतुर्वसुः॥३६॥ समासेऽनञ्पूर्वे क्त्वो ल्यप्॥३७॥ अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ॥५१॥**

………………………………………………………………..।
………………………………………………………….॥५॥

आमि सर्वनाम्नः सुट्॥५२॥ त्रेस्त्रयः॥५३॥ ह्रस्वनद्यापो नुट्॥५४॥ षट्चतुर्भ्यश्च॥५५॥

…..क्तिमानिन्द्रियाणां यः पञ्चानामपि विग्रहे।
ऋतूनामपि षण्णां ते पतिरेको दशाननः॥६॥

पितॄणामर्चिता …………..सा ………….यः।
श्वशुरो राक्षसीनां च तममुं न480 स किं शुचा॥७॥

प्रमदानां करं धर्म्यं त्वं पुलस्त्य प्रसादय।
प्रसन्नेऽहनि तिग्मांशौ तामसस्य…………॥८॥

** इदितो नुम्धातोः॥५८॥ शे मुचादीनाम्॥५९॥**

यत्प्रणीयस्य कोपाग्नेः कुण्डितुं भुवनत्रयम्।
प्रसन्नेऽत्र मुनौ भद्रे न विन्दति शुचौ जनाः॥९॥

** मस्जिनशोर्झलि॥६०॥**

नष्टव्यं481 वा मनुष्येण सङ्क्तव्यं वा महोदधिः482
प्रसादं वोपनेयोऽयं कार्यसिद्धिमभीप्सता॥१०॥

** रधिजभोरचि॥६१॥ नेट्यलिटि रधेः॥६२॥**

सर्वान्नानां स्त्रियस्तेषां रन्धिकार्थमुपागताः।
रयितुं483 न क्षमास्तेषां येषामेष पराङ्मुखः॥११॥

** रभेरशब्लिटोः॥६३॥**

आरम्भयन्ति ते शत्रुं नयन्ति च परिक्षयम्।
आरम्भकाश्च भूतीनां यैरयं समुपासितः॥१२॥

** लभेश्च॥६४॥ आङो यि॥६५॥ उपात्प्रशंसायाम्॥६६॥ उपसर्गात्खल्यञौः॥ ६७॥ न सुदुर्भ्याकेवलाभ्याम्॥६८॥ विभाषा चिण्णमुलोः॥६९॥**

आलम्भ्यारिचमूस्तेषामुपलम्भ्याश्च संपदः।
सुप्रलम्भजनश्रीश्च येऽमुमर्चन्ति देहिनः॥१३॥

दुष्प्रलम्भात्र तेन श्रीर्येनास्य न नतिः कृता।
सुलभा दुर्लभाप्येषां भक्तिभाजा पुनः सदा॥१४॥

अलम्भि बन्धनं पत्या बलिना तेन यद्द्विषा।
जयो लाभि द्विषा चाशु बलिना नयशालिना॥१५॥

** उगिदचां सर्वनामस्थानेऽधातोः॥७०॥ युजेरसमासे॥७१॥ नपुंसकस्य झलचः॥ ७२॥ इकोऽचि विभक्तौ॥७३॥**

श्रेयांसि यान्ति विद्वांसं न प्राच्यं484 कथमर्जुनम्।
यशांसि येन यांच्यन्ते न धनानि महात्मना॥१६॥

** तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य॥७४॥ अस्थिदधिसक्थ्यक्ष्णामनङुदान्तः ॥७५॥**

अस्थ्नांसक्थ्नांरज्जुबन्धं कृत्वाक्ष्णामश्रुपातनम्।
कृतं तं485 (?) शत्रुणा पत्युर्दधुः486 शुक्लतरं यशः॥१७॥

** नाभ्यस्ताच्छतुः॥७८॥**

दशास्यं दधतं तेजः संरम्भं दधदर्जुनः।
विस्फुरन्तं रजो487 व्योम्नि राहू रविमिवाग्रहीत्॥१८॥

** वा नपुंसकस्य॥७९॥**

भीतिं विभ्रति488 रक्षांसि शुचं विभ्रति कानिचित्।
संयतं स्वामिनं वीक्ष्य क्वापि नष्टानि संयतः॥१९॥

** आच्छीनद्योर्नुम्॥८०॥**

भान्ती संपश्यतो नेत्रे सुरलोकस्य रावणम्।
भाती राक्षसौघस्य शोकाश्रुजलनिर्भरे॥२०॥

मोहं यान्तीं शुचं यातीं दृष्ट्वा मन्दोदरीं पुरः।
पुलस्तिः कृपया युक्तश्चिरं ध्यात्वेदमब्रवीत्॥२१॥

** शप्श्यनोर्नित्यम्॥८१॥ सावनडुहः॥८२॥ दिव औत्॥८४॥**

संतापेनाभिगच्छन्तीं तानवं भर्तृजन्मना।
वापीमिव पतङ्गस्य ब्रवीमि त्वामहं शुभे॥२२॥

साध्वी गुणब्रजेन त्वं दीव्यन्ती द्यौरिवामुना।
अनड्वानिव पौत्रो मे न योग्यस्तव मूढधीः॥२३॥

** पथिमथ्यृभुक्षामात्॥८५॥ इतोऽत्सर्वनामस्थाने॥८६॥ थो न्थः॥८७॥ भस्य टेर्लोपः॥८८॥**

सतां पन्थाः परित्यक्तः पत्या ते मूढचेतसा।
आश्रितौ श्रितगर्वेण पन्थानौ नीचमूढयोः489॥२४॥

** पुंसोऽसुङ्॥८९॥**

पुमान्बलवान्नीत्या यः परान्विजिगीयते।490
पुमांसं पुमांसौ वा मन्यते कत्तृणैः समम्॥२९॥

** गोतो णित्॥९०॥ णलुत्तमो वा॥९१॥**

अजो गौरिव सत्पौत्रः491 परं …………… ।
दोषवानात्मदेहोऽपि त्याज्यः किमुत तादृशः॥२६॥

सख्युरसंबुद्धौ॥९२॥ अनङ् सौ॥९३॥ ऋदुशनस्पुरुदंसोऽनेहसां च॥९४॥

पुंसा सखा सखायौ वा सखायश्च बलोदिताः।
सदा युद्धागमे कार्याः सर्वदा मतिशालिनः॥२७॥

यद्यप्यस्योशना मन्त्री योद्धा यद्यपि शक्तिमान्।
तच्चाप्यनेन बोद्धव्यं देशकालबलाबलम्॥२८॥

** तृज्वत्क्रोष्ठुः॥९५॥ स्त्रियां च॥९६॥ विभाषा तृतीयादिष्वचि॥९७॥ चतुरनडुहोरामुदान्तः॥९८॥ अम् संबुद्धौ॥९९॥**

उपाया राज्यशकटे चत्वारोऽपि नियोजिताः।
अनड्वाहइवैकेन नीयन्ते नाविवेकिना॥२९॥** **

** ऋत इद्धातोः॥१००॥ उपधायाश्च॥१०१॥ उदोष्ट्यपूर्वस्य॥१०२॥**

दिक्षु चन्द्र इव ज्योत्स्नां स कीर्ति किरतीश्वरः
शत्रुमारभते काले यः शक्तित्रयसंयुतः॥३०॥

कीर्तयन्ति गुणांस्तेषां प्रपूर्तास्तन्मनोरथाः।
तेऽभिगम्या मनुष्याणामनिन्द्ये ये पथि स्थिताः॥३१॥

सूनुस्नुषां विरहदुःखभरावसन्ना-
मूचे वचः पुनरपीति मुनिः सकोपम्।
तां बिभ्रतीमसितनीरजपत्रनेत्रां
शोकाद्रिनिर्झरमिवाक्षिजलप्रवाहम्॥३२॥

इत्यर्जुनरावणीये महाकाव्ये युवोरनाकपादे एकविंशः सर्गः।

———————

(सप्तमाध्यायस्य द्वितीयः पादः) द्वाविंशः सर्गः।

** सिचि वृद्धिः परस्मैपदेषु॥१॥**

चिन्ताहुतिं हुतभुजीव समप्य492हौषी-
त्पापस्तथा मम मतिं कलुषामकार्षीत्।

संभावनां विलयमाशुतरामनैषी-
द्दुष्पुत्रतां च धिगकालजरां पितॄणाम्॥१॥

** अतो ल्रान्तस्य॥२॥**

श्रुत्वा तव भर्तुरद्य पीडामक्षारीन्मम किं तवेव नास्रम्।
संचिन्त्य पुनस्त्वदीयचेष्टामज्वालीन्न रुषेह कस्य चित्तम्॥२॥

** वदव्रजहलन्तस्याचः॥३॥**

तन्नैव…..हितं……….वादीन्नाव्राजीद्यदसौ युधेन्वना …।
किं वा तस्य मनो न भीरभैत्सीत्सर्वस्यात्ममदो हि नाशहेतुः॥३॥

** नेटि॥४॥ ह्यन्तक्षणश्वसजागृणिश्व्येदिताम्॥५॥**

प्रज्ञामवेपीदिह493 कोऽस्य पापां प्राणानकोषीत्सततं सतां यः।
न चोपदेशान्समरेऽपि सोऽग्रहीद्वृथाभ्रमील्लोकविनाशकारी॥४॥

अ………..दसौभ्रमन्नाकं तत्राक्षणीदिन्द्रमाहवे।
नाश्वसज्जनोऽद्यापि तं धिगहो बलं पापचेतसाम्॥५॥

अजागरीद्यन्न हि तेषु मन्दो यच्चाश्वयीन्नास्य जनानुरागः।
पापेऽलगीद्यच्च सदास्य चित्तं तेनास्य मन्ये बलमाशुहीनम्॥६॥

** ऊर्णोतेर्विभाषा॥६॥ अतो हलादेर्लघोः॥७॥**

आपदौर्णवीद्वलं तस्य चित्तं तथैवौर्णावीदधम्।
दोषमेवास्य लोकोऽराणीन्न गुणानरणीत्कदाचन॥७॥

इट्प्रतिषेधः—

** नेड्वशि कृति॥८॥ तितुत्रथसिसुसरकसेषु च॥९॥ एकाच उपदेशेऽनुदात्तात्॥१०॥ श्र्युकः किति ॥११॥ सनि ग्रहगुहोश्च॥१२॥**भस्म

भस्मभूषणमसौ महेश्वरं काष्ठदीप494मधिगम्य पावकम्।
लोभमात्मशिरसां समाचरञ्जुह्वदाशु परितोषमानयत्॥८॥

सक्तुशालि …….भोजिनोऽत्र जनाः कुक्षिं फलैर्येऽपि विभ्रति।
दिननिशीथंत …..नादसौ तान्हन्ति याच्ञापरानपि॥९॥

श्रितः खलैः पापयुतैः प्रयाता युधां सुवृत्ते च जुघुक्षते यः।
जिघृक्षते नैव मयोदितानि श्रेयो युधूषत्यथ495 तं कथं वा॥१०॥

** कृसृभृवृस्तुदुस्रुश्रुवो लिटि॥१३॥ श्वीदितो निष्ठायाम्॥१४॥ यस्य विभाषा॥१५॥ आदितश्च॥१६॥ विभाषा भावादिकर्मणोः॥१७॥**

स्वप्ने वयं ससृमहे भुवनं ततस्त्वं
तुष्टोथ नो वतृमहे किल….. प्रमोदम्।
शुश्रोथ नो यदुदितं चकृद्वादरं496 त्वं
दुद्रोथ नो वभृमहे तव यावदिष्टम्॥११॥

स्वप्नेऽपि ….ष्टं विदधासि मोक्षं भर्ता वोद्विग्नमतिं दिवापि।
किं ते न दोषाय धिया वृथा यौ497 बिभर्ति देहं ननु हीनपीनम्॥१२॥

**
क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिव्धफाण्टबाढानिमन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु॥१८॥ धृषिशसी वैयात्ये॥१९॥ दृढः स्थूलबलयोः॥२०॥ प्रभौ परिवृढः॥२१॥ कृच्छ्रगहनयोः कषः॥२२॥ घुषिरविशव्दने॥२३॥ अर्देः संनिविभ्यः॥२४॥ अभेश्चाविदूर्ये॥२५॥ णेरध्ययने वृत्तम्॥२६॥**

ध्वान्तदृष्टि498मोहितस्वान्ता जनरक्तमस्यानुगामिनः।
आपिबन्ति मन्थवल्लग्नां जिह्वासु ता … दिवानिशम्॥१३॥

अप्यनागसं दृढक्रोधः फणेन499 लोकं निहन्ति सः।
म्लिष्टविप्रियवाक्संयुतः कष्टं दृढं मूर्खमानसम्॥१४॥

किं न वेद्मि रज्जुबन्धनेन दुष्टानहं500 तस्य तान्भुजान्।
यस्यान्तः परिवृढस्पर्णं501 फलमस्य स तावत्सेवताम्॥१९॥

** वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः॥२७॥ रुष्यमत्वरसंघुषास्वनाम्॥२८॥**

दमितोऽहमसौ मया न दान्तः शमितश्चास्मि न तज्जनः प्रशान्तः।
अनयैः परिपूरितः स नित्यं परिपूर्त502न कदाचिदस्य चित्तम्॥१६॥

दस्तः स्वयं दासित एव चान्यः पापेन लोको भ्रमतेह तेन।
छन्नं वपुर्दोषगुणेन तस्य संछादितं मे हृदयं शुचेदम्॥१७॥

संज्ञप्ता यैः पशवो मखेषु विप्रैस्ते सर्वे संज्ञापिताः503 सत्यमेव।
ये प्रस्पष्टाः प्रस्फुरितासिना च विश्वं निःशेषं स्याशितमुग्रचेतसेदम्॥१८॥

कामयास्था504 तस्य रुष्टेन रुषितोऽपि तस्मै नृपोऽर्जुनः।
(?)त्वरितमेत्य तूर्णतरं येनायं साधु संयतः॥१९॥

साधुभिर्यदस्य संघुषितं संघुष्टमस्मादृशापि वा।
तद्धृष्टस्येवाशु कुम्भस्य पार्श्वे न यात्यस्य दुर्मतेः॥२०॥

**स्वनितशङ्खात्स्वा505**न्ततूर्यगणाद्गीता भवन्नार्जुनात्।
ततो भ्रमति मृगपतेर्ध्वनतः शरभो भवत्युन्मदोऽधिकम्॥२१॥

** हृषेर्लोमसु॥२९॥**

सपदि संहृष्टानि रोमाणि भिया श्रुत्वाथ तद्विचेष्टितम्।
प्रमदतो हृषितानि चक्रस्य बद्धं विलोक्यादृतं युधि॥२२॥

** अपचितश्च॥३०॥**

अपचिताः शश्वन्न तेन सुरा भक्त्यापि तैर्न चापेचितः506

** **इड्विधानम्—

** आर्धधातुकस्येड्वलादेः॥३५॥**

रहितमङ्गलोपचारेण हि पुंसा विपक्केन507 हि दुर्लभा॥२३॥

** स्नुक्रमोरनात्मनेपदनिमित्ते॥३६॥**

आक्रमितव्या राजसभा मोक्षनिमित्तं राक्षसभर्तुः।
प्रस्नवितुं प्रारब्धमिदं मेशोकमजस्रं लोचनयुग्मम्॥२४॥

** ग्रहोऽलिटि दीर्घः॥३७॥**

गृहीत्वाथ मित्रमाशु मुनेः स्नेहेन पौत्रस्य विक्लवम्।
विनययुक्तमित्थमारेभे भूयोऽपि वक्तुं वचः शुकः॥२५॥

** वृृतो वा॥३८॥ न लिङि॥३९॥**

विवरितव्यं तत्र शौर्यमादौ गत्वा नृपस्यान्तिकम्।
त्वया वरीतुं प्रस्तुतं वैरं पौत्रेण ते मन्दचेतसा॥२६॥

आस्तरीष्टाभूति चित्तं कोपेन यत्ते पुरा सुतः।
तोषमाशु तत्र विस्तरितुं साम्ना मुने साधु यच्छताम्॥२७॥

वैरमाशु समवरीष्ट भवान्यदि नाद्य गत्वा स्वयं मुने।
मृत्युरस्य विवरिषीष्ट तन्मन्ये कथं नैव भूपतेः॥२८॥

** सिचि च परस्मैपदेषु॥४०॥**

क्लेशशोकौ मानसं तस्य मा सं वरिष्टां508 सुतस्य ते।
साभरिष्टां509 (?) तातास्माकं तस्माद्गमे धीयतां मनः॥२९॥

** इट् सनि वा॥४१॥**

स नृपो बुबूर्षतेऽत्यन्तं संदर्शनं ते मनोरथैः।
त्वमपि किं विवरिषसे नास्य भक्तं हि भजन्ते साधवः॥३०॥

स ध्रुवं वीक्ष्य विवरिषते त्वामात्मनः क्षममीश्वरः।
तस्य संतितरिषता भवता चित्ते मुदाशीः प्रदीयताम्॥३१॥

सपदि संतितीर्षति क्ष्माभृत्यादौ सपुष्पः स्तवावपि।
**निस्तरीषु510**रिन्दुमच्छायैः स्वयशोभिराशाः समन्ततः॥३२॥

** लिङ्सिचोरात्मनेपदेषु॥४२॥**

संवृषीष्ट यद्यदसौ भक्तिं त्वयि कार्यगे गते।
ततः कोपं स्वं निवरिषीष्ठाः परिभूतये511 केन शक्तिमान्॥३३॥

सैवं512 संवृथाः कोपं त्वं तात दृष्ट्वापि तमीश्वरम्।
मा न संवरिष्ठाः संत्रासं न त्विष्टं513 कार्यप्रसाधनम्॥३४॥

मा भवानवरीष्ट514 तं नतं मोक्षं सुतस्याशु बन्धनात्।
पादयोस्तीर्षीष्ट विनमन्निजमौक्तिकमाल्यानि ते नृपः॥३५॥

सपदि विस्तरिषीष्टास्य भवान्प्रणयं प्रणामानसत्तनोः515
मानना हि मानिनां विहिता प्रीतिं तनोत्याशु मानसे॥३६॥

सपदि यौ चित्तमास्तरिषातां क्लेशावमानौ सुतस्य ते।
त्वयि गते तावप्येष्यतो नाशं ह्यानन्दनं बन्धुदर्शनम्॥३७॥

** ऋतश्च संयोगादेः॥४३॥**

संस्मृषीष्ट516 तात पौत्रस्त्वां मन्येऽद्य बन्धनबाधितः।
केन वेह **नास्मरिषीष्ठा517**स्त्वमापद्विनाशैककारणम्॥३८॥

मा स्मृषतास्य मान्य दोषांश्च518 स्मार्याः परं केवलं गुणाः।
पौत्रस्य भवताद्य मा स्मरिषत स्मार्याः परं केवलं गुणाः॥३९॥

** स्वरतिसूतिसूयतिधूञदितो वा॥४४॥**

तात शीघ्रं गत्वा तत्र धौता519 वनस्येव मारुतः।
विधवितास्य भव विपक्षस्य पौत्रस्य मोक्षेण शुष्यतः॥४०॥

राक्षसेशस्य प्रसवितासि सोता युधस्येव520 चन्द्रमाः।
भव दोषाणां निगूहितास्य यद्वन्निगूढा521 हरेर्गुरुः॥४१॥

** रधादिभ्यश्च॥४५॥**

उपगमेन ते प्रणष्टव्यं522 विपदादशास्यहेतुना।
विनशितव्यमेव चन्द्रमसौ ननु दर्शनेन ध्वान्तसंपदा॥४२॥

** निरः कुषः॥४६॥**

शोकशल्यस्यास्य निष्कोष्टा त्वं पौत्रस्य तस्य परः कुतः।
शरुन्मानवे523 निष्कुशिंता पाताललीनस्य भोगिनः॥४३॥

** इण्निष्ठायाम्॥४७॥ तीषसहलुभरुषरिषः॥४८॥**

विधेहि तैर्निष्कुषितातिशल्यमेष्टव्यमेवास्य मखं त्वयाशु।
तथैषितव्या पुनरेव लक्ष्मीः सोढा स्म नाधेः…….सुखानाम्524॥४४॥

विलोभितुं त्वं व्रज नप्तृमुक्त्यै भवान्विलोब्धागमनेन मन्ये।
न कार्यसिद्धे रुषितव्यमस्मै रोष्टव्यसाध्याः प्रभवो न सन्ति॥ ४५॥

** सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णभरज्ञपिसनाम्॥४९॥**

अस्त…….. तेऽर्जुनः पौत्रं दुद्युपुरत्यायतान्भुजान्।
तेजसा दिद्युति525षुराश्लिष्य वेगादधावीद्526गमंयथा॥४६॥

अदिधिपति527 संपदस्य राज्ञः संप्राप्ते त्वयि मन्दिरं महात्मन्।
किं वत्स्यति528 निर्मला न कीर्तिः कुर्यात्कं न गुणं महात्ममैत्री॥४७॥

चक्षुषा विभ्रक्षतावनितं529 वीक्षमाणं महीपतिः।
आवद्धतस्य530 बिभ्रज्जिषन्क्रोधाग्निना कीर्तिवल्लरीम्॥४८॥

तं दिदम्भिषन्तमाधातिमायाप्रयोगेण रावणम्।
भूपतिं धिप्सया रहितः शक्त्याग्रहीन्मग्नचेतसम् ॥ ४९ ॥

संयुयूषुरर्जुनः कीर्तिं रिपुभङ्गलुब्धान्निशाचरान्।
क्षिप्रं दुःखैः संयियविषुर्गाढं दशास्यं न्यपीडयत्॥५०॥

पोर्णुनूषतार्जुनेन दिशो यशसा शरच्चन्द्रहासिना।
चित्तमूर्णुनविषितं द्विषतां शोकेन संतापकारिणा॥५१॥

एष युष्मान्ससर्वभृत्यो विज्ञीप्सते मा वृथा न गाः।
किं विजीज्ञपयिषया चित्तं जनानन्दितं वः करिष्यते॥५२॥

किं बुभूर्षति बत नास्माकं मोक्षेण भर्तुर्मनोरथान्।
मानसं विभरिषतीदं नः शोकानलो दग्धुमायतः॥५३॥

** क्लिशः क्त्वानिष्टयोः॥५०॥**

क्लिष्ट्वापि न कश्चिदक्लिशित्वा प्राप्नोत्यर्थमभीप्सितं मनुष्यः।
क्लिष्टाक्लिशितं हि नैव मन्ये दैवं कारणमेकमर्थसिद्धेः॥१४॥

** पूङश्च॥५१॥**

पूत्वा स शिवस्तव प्रणत्या सकलं वात्मगुणं नृपः पवित्वा
पूत्वापि531 च तैर्जनैः परीतः532 क्षिप्रं ते प्रविधास्यते यथेष्टम्॥५९॥

** वसतिक्षुधोरिट्॥५२॥**

उषितेन भयेन चित्तभूमावनुषित्वार्धपथेऽपि राक्षसौधः।
क्षुधितोऽपि न भुक्तवान्क्षुधित्वा कुरुतां किं द्रुतमेयमन्तिकं533 ते॥५६॥

** अञ्चेः पूजायाम्॥५३॥**

त्वामञ्चितमार्य देहभाजां नाञ्चित्वा स गतो युधे दशास्यः।
मन्ये विपदस्य तेन जाता न श्रेयो गुरुभक्तिवर्जितानाम्॥५७॥

** लुभो विमोहने॥५४॥**

विलुभिताः कचग्रहैः केशा येनाभिया देवयोषिताम्।
मौलिमाहवेन लोभित्वा तस्य क्षणाद्ध्वंसनं कृतम्॥९८॥

** जृृव्रश्च्योः क्त्वि॥५५॥ उदितो वा॥५६॥ सेऽसिचि कृतचृतच्छ्रदतृदनृतः॥५७॥ गमेरिट् परस्मैपदेषु॥५८॥ न वृद्ध्यश्चतुर्भ्यः॥५९॥ तासि च क्लृपः॥६०॥ अचस्तास्वत्थल्यनिटो नित्यम्॥६१॥ उपदेशेऽत्वत्तः॥६२॥ ऋतो भारद्वाजस्य॥६३॥ विभाषा सृजिदृशोः॥६५॥ इडत्त्यर्तिव्ययतीनाम्॥६६॥ वस्वेकाजाद्धसाम्॥६७॥ विभाषा गमहनविविशाम्॥६८॥ ऋद्धनोः स्ये॥७०॥**

व्रश्चित्वावनमिव शात्रवं सदस्त्रैः शल्यौधं वपुषि परेरितं …..तित्वा।
क्षान्त्वा534 च प्रणतिपरस्य च क्षमित्वा तद्भृत्याः प्रमुदितचेतसः प्रयाताः॥१९॥

स्वचित्तमल्पं यदि नाम तात तस्मिन्गमिष्यन्निहनिष्यसि त्वम्।
विलोक्य स त्वां ध्रुवमेव राजा **करिष्यति प्रीतिमनन्यतुल्याम्॥**६०॥

** अञ्जेः सिचि॥७१॥ स्तुसुधूञ्भ्यः परस्मैपदेषु॥७२॥ यमरमनमातां सक् च॥७३॥**

अस्ताविषुर्यं जयिनं मुनीन्द्रा नाञ्जीत्पुरं यावदसौ विदूरे।
तावत्क्षमं तस्य समीपमेतं535 मनांस्यधावीत्स पुराभिमानः॥६१॥

मानोदयं536 …………वीरो रोषादनंसीत्कृपयेव बुद्ध्वा।
मा नोपयासी537 त्वमपास्य शङ्कां मा किं न नंसीदवलोक्य स त्वाम्॥१२॥

स्मिपूङ्रञ्ज्वशां सनि॥७४॥

किं विसिस्मयिषते स दृष्ट्वा त्वां समीपभुवमाञ्जिजिषन्तम्
स्वं कुलं पिपविषुः स सपर्यांसंविधास्यति न संशयमीशः॥६३॥

अरिरिषति स संमुखो भवन्तं सपदि विलोक्य गृहोपकण्ठभाजम् ।
अशिशिषति मुदस्य तात चित्तं भवति समागतिरुत्सवो महद्भिः॥६४॥

किरश्च पञ्चभ्यः॥७५॥

**निजगरिषतुरी538**श्वरानवाणो मतिविषदा गतिबद्धतीव्रदुःखाः539
विचकंरिषति540 नेत्रवारिविन्दूंस्तव गमनोत्सुकमानसा स्नुषापि॥६५॥

दर्शितादिदर्शयिषता541 या प्रणतो जनस्त्वां ब्रवीत्यदः।
मामसौ पिष्टच्छषत्या542र्तस्तातो यथा किं विलम्बते॥६६॥

रुदादिभ्यः सार्वधातुके॥७६॥

रोदिति स्वपिति नैव दुःखिता प्राणिति श्वसिति यावता परम्।
सक्षिति543 क्षततनुः……शुचा विप्रयोगपरिमोहिता वधूः॥६७॥

ईशः से॥७७॥ ईडजनोर्ध्वे च॥७८॥

**रोदिषे544**त्वमात्मना चित्तस्य जनिषे न चेष्टं जनाय किम्।
नेतिषे545 गमितोऽपि भूपालं पूज्योऽसि संभावयाम्यदः॥६८॥

लिङः सलोपोऽनन्त्यस्य॥७९॥ अतो येयः॥८०॥ आतो ङितः॥८१॥

कुर्या गमं त्वं न विचार एव यदि त्यजेः संशयवुद्धिमेताम्।
पादौ भजेतां भवतश्च खेदं कुरु प्रसादं सुतमोचनाय॥६९॥

आने मुक्॥८२॥ ईदासः॥८३॥ अष्टन आविभक्तौ॥८४॥ रायो हलि॥८५॥

वीक्षमाणः को न याति त्वामासीनतामनागते त्वयि ।
दिक्षु पश्य सर्वशिष्यगणमिमप्रष्टास्वपि प्रस्थितं निजम्॥७०॥

** युष्मदस्मदोरनादेशे॥८६॥ द्वितीयायां च॥८७॥ प्रथमायाश्च द्विवचने भाषायाम् ॥८८॥ योऽचि ॥८९॥ शेषे लोपः॥९०॥ मपर्यन्तस्य॥९१॥ युवावौ द्विवचने॥९२॥ यूयवयौ जसि॥९३॥ त्वाहौ सौ॥९४॥ तुभ्यमह्यौङयि॥९५॥ तवममौ ङसि॥९६॥ त्वमावेकवचने॥९७॥ प्रत्ययोत्तरपदयोश्च॥९८॥**

युष्माभिरस्माभिरिवाद्य गच्छन्मुनिर्न शोच्यः क्षितिपालधाम।
युष्मासु चास्मासु च तुल्यरूपा यतोप्रवृत्तिवृतिमा546दधाति॥७१॥

आवाभ्यां वा मुने युवाभ्यां संरक्ष्याश्रमभूरियं गतस्य।
अस्मानिवासावधिमुच्य युष्मान्विश्वासं समुपैति नास्मिन्॥७२॥

त्वमहं च मुने पुरः प्रयावस्त्वां मां च वास्य विमुच्य नापरस्मिन्
कार्यानुमतिस्त्वया मया वा तुभ्यं मह्यमयं हितः सदैव॥७३॥

तव वा मम वास्ति नैव भेदो मदधीतो भवता मयापि च त्वम्547
मयि कृत्यमसौ त्वयीव नित्यं गुरुराराधय548 (?) याति चित्तखेदम्॥७४॥

यूयं वयं चास्य मुनेः सुता वा युष्माकमस्माकमयं पिता वा।
युष्यभ्यमस्मभ्यमहो दधाति यत्प्रार्थितं तत्सुखमेव नित्यम्॥७५॥

युवां चावां चानुयावो न कथं मतिमादरात्।
यदाचार्योऽध्यापकश्च युवयोरावयोरपि॥७६॥

युष्मदस्मद्विना गच्छेन्न नूनं नृपतेर्गृहम्।
युष्मादृशोऽस्मादृशस्तन्मनस्विन्नान्वयुः कथम्॥७७॥

अस्मदीयवचनेन यदि त्वं न ब्रवीषिगमनाय मुनीन्द्रम्।
युष्मदीयवचसा तु वदेऽहं प्रार्थनां हि महतीमपरार्थाम्॥७८॥

त्वत्पुत्रो यातु शक्तिमान्मत्पुत्रेण समं मुनेः पुरः \।
त्वत्पुत्रो द्रक्ष्यते मया मत्कल्पश्च न ते मदात्मजः॥७९॥

त्वं मदीयमालयं रक्षेः संरक्षितस्त्वदीयो मया।
इत्थमुच्चलति सुमुनौ तथा शिष्या मिथश्चक्रिरे कथाः॥८०॥

** त्रिचतुरोः स्त्रियां तिसृचतसृ॥९९॥ अचि र ऋतः॥१००॥ जराया जरसन्यतरस्याम्॥१०१॥**

चतसृष्वपि दिक्षु वाहिनीं तिसृभिः शक्तिभिरन्वितो मुनिः।
विनिवेश्य तपोवनाद्बहिर्गमनायादरमाददे ततः॥८१॥

तिस्रः कदाचित्क्षणदाश्चतस्त्रो मार्गे भवेयुर्मनसीति कृत्वा।
पप्रच्छ तस्मिञ्जरसावृताङ्गान्संसेव्यमानो जरया विहीनैः॥८२॥

त्यदादीनामः॥१०२॥ किसः कः॥१०३॥ कु तिहोः॥१०४॥ काति॥१०५॥ तदोः सः सावनन्त्वयोः॥१०६॥ अदस औ सुलोपश्च॥१०७॥

सिंहीसुतोऽसाविह यस्य माता सा549 क्वापि नष्टेव कुतोऽपि भीता।
तं रक्षतामुं पयसा मृगीणां शिष्यानुवाचेति मुनिर्यियासुः॥८३॥

** इदमो मः॥१०८॥ दश्च॥१०९॥ यः सौ॥११०॥ इदोऽय् पुंसि॥१११॥ अनाप्यकः॥११२॥ हलिलोपः॥११३॥**

अयं शिखीयं शिखिनी द्रुमाविमौममैभिरेषाश्रमभूर्विभूषिता।
इमाननेनावत कारणेन जगाद चान्यानिति सादरं मुनिः॥८४॥

** मृजेर्वृद्धिः॥११४॥ अचो ञ्णिति॥११५॥ अत उपधायाः॥११६॥ तद्धितेष्वचामादेः॥११७॥ किति च॥११८॥**

संमार्जनीया नृपभूमिरेषा कार्योऽनुरागश्च सदाश्रितानाम्।
चारायणाद्याश्च ममाभिपूज्याः कोऽप्येवमुक्तो मुनिनाभिपूज्यः॥८५॥

इति कृतकरणीयः शिष्यवर्गानुयातः
सुरगुरुरिव शक्रं विक्रमाक्रान्तशत्रुम्।
नृपतिमथ पुलस्तिः प्रेक्षितुं संप्रतस्थे
नृपतिरपि मुनींस्तान्मुक्तरेवानिवासः॥८६॥

इत्यर्जुनरावणीये महाकाव्ये सिचिवृद्धिपादे द्वाविंशः सर्गः॥

——————————

सप्तमाध्यायतृतीयपादे त्रयोविंशः सर्गः।

** देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्॥१॥**

अथार्जुनः सज्जरथो जितारिः पुरं पुरा गन्तुमना मनस्वी।
विसर्जयामास नृपान्स्वदेशान्स श्रायसेन प्रमदेन युक्तान्॥१॥

स दाविकाकूलकृताधिवासं संपूजयामास धियासुमन्यम्550
तं दार्ध्य551सत्राहितपुण्यपाशि552र्भटैर्वृतं शांशपदण्डहस्तैः॥२॥

** केकयमित्रयुप्रलयानां यादेरियः॥२॥**

ततो नु संमाननमानतस्य चकार कैकेयनृपस्य भूपः।
मैत्रेयकाश्लाचिज553नेरिताशीः प्रालेयवातः परपादपानाम्॥३॥

** न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्॥३॥ द्वारादीनां च॥४॥**

वेदज्ञवैयाकरणानुयातं गृहीतसौवस्तिकभूमिभोज्यम्।
दौवारिकाख्यातनमन्नरेशं मृदङ्गवत्सौवरिकोरुघोषम्॥४॥

** न्यग्रोधस्य च केवलस्य॥५॥ न कर्मव्यतिहारे॥६॥**

ह्लादं कुर्वाणं छायया संश्रितानां मद्रव्या554लापी बिभ्रतं च द्विजानाम्।
नैयग्रोधीं वा वृत्तिमाविर्दधानं जग्मुर्भूपालास्तं प्रणम्यादरेण॥५॥

** स्वागतादीनां च॥७॥ श्वादेरिञि॥८॥ पदान्तस्यान्यतरस्याम्॥९॥ उत्तरपदस्य॥१०॥ अवयवादृतोः॥११॥**

तेऽभवन्नस्य स्वागतिकाः शौवापदत्रासवर्जिताः।
पूर्ववार्षिकधने येषां कुम्भ्यं न (न) धान्यं द्विजन्मनाम्॥६॥

** सुसर्वार्धाज्जनपदस्य॥१२॥**

भूपतिः **सपाञ्चाल555**कान्वितः सर्वमागधिकलोकतोषितः।
**आर्यमागधिक556**वाजिरक्षितं राक्षसेश्वरमनीनयत्पुरः॥७॥

** दिशोऽमद्राणाम्॥१३॥ प्राचां ग्रामनगराणाम्॥१४॥**

नृपतिः पूर्वेषुका557शमद्विपदानाम्बुभिः क्षितौ।
पूर्वकान्यकुब्जाश्वीयखुरपादपांसूनशीशमत॥८॥

** संख्यायाः संवत्सरसंख्यस्य च॥१५॥ वर्षस्याभविष्यति॥१६॥**

केचिन्निसांवत्सरिकैस्तुरङ्गैर्योधाश्चतुर्नावतिकासिहस्ताः।
अन्ये चतुर्वार्षिककैः सदश्वैर्विचेरुरध्वन्यभितः क्षितीशम्॥९॥

** परिमाणान्तस्यासंज्ञाशाणयोः॥१७॥ जे प्रोष्ठपदानाम्॥१८॥**

स्फुरत्रिसौवर्णिककर्णिकात्विषस्ते प्रोष्ठपादा इव विद्युदौज्ज्वलाः।
कृत्वा कदम्बापिहितां वसुंधरां नीराम्बुवाहा विबभुर्महीभुजः॥१०॥

** हृद्भगसिन्धवन्ते पूर्वपदस्य च॥१९॥ अनुशतिकादीनां च॥२०॥ देवताद्वन्द्वे च॥२१॥ नेन्द्रस्य परस्य॥२२॥ दीर्घाच्च वरुणस्य॥२३॥ प्राचां नगरान्ते॥२४॥ जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम्॥२५॥ अर्धा-**

त्परिमाणस्य पूर्वस्य तु वा ॥२६॥ नातः परस्य॥२७॥ प्रवाहणस्य ढे॥२८॥ तत्प्रत्ययस्य च॥२९॥

निवध्य दौहार्दयुतं विपक्षं सौहार्दभाजानुगतो जनेन।
सौभाग्यरम्यप्रमदानुयातः ससारसैन्योऽवनिपः ससार॥११॥

** नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्॥३०॥**

आनैपुणेन द्रुतमागतानामनैपुणेनादधतां महाजिम्।
आशौचभाजां युधि सायुधानामशौचमीशेऽजनि राक्षसानाम्॥१२॥

आकौशलभाग्भिरन्वितानां युक्तानां स्वयमप्यकौशलेन
आनैश्वर्यं व्यतायि राज्ञां किमनैश्वर्यमकुर्वतां हि तेषाम्॥१३॥

** यथातथयथापुरयोः पर्यायेण॥३१॥ हनस्तोऽचिण्णलोः॥३२॥**

आयथातथ्यप्रलापिनं तं घातिताभीष्टवान्धवम्।
रिपुमय558थातथ्यकार्यकृतं कृत्वा कृतार्थोऽभवन्नृपः॥१४॥

** आतो युक्चिण्कृतोः॥३३॥**

प्रदायकिने559 द्विषते भयानामाप्यायकेनामरपितृकाणाम्।
संप्राप्यमानेन नृपेण गेहमग्लायि दीनेन दशाननेन॥१५॥

** नोदात्तोपदेशस्य भान्तस्यानाचमेः॥३४॥ जनिवध्योश्च॥३५॥**

सदुर्दमानां दमको धरेशः प्रवृद्धदर्पं बधकं जनानाम्।
निनाय शक्रं जनको गुणानां दशाननं संभृतवीररक्षम्॥१६॥

** अर्तिह्रीव्लीरीक्रूयीक्ष्माय्यातां पुग्णौ॥३६॥**

समर्पितो रक्षिजनस्य राज्ञा दशाननो ह्रेपितमानसोऽभूत्।
संधापितस्त्रासमदृष्टपूर्वं भि… पितं वन्धुजनस्य दीनम्॥१७॥

** शाच्छासाह्वव्यावेषां युक्॥३७॥**

**निशामिता560**यामिकरालधाम्नां (?) सहास्य..561 छायितकुञ्जराणाम्।
रणे रिपूणामवसायको यः सोऽप्यापदं प्राप निशाचरेशः॥१८॥

आह्वायितानेकसशस्त्रयोधं तत्पायितस्नापितवाजिनागम्।
महाभृदादेशनिबद्धयत्नं ययौ दशास्यं परिवार्य सैन्यम्॥१९॥

** वो विधूनने जुक्॥३८॥ लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने॥३९॥ भियो हेतुभये षुक्॥४०॥ स्फायोवः ॥४१॥ शदेरगतौ तः॥४२॥ रुहः पोऽन्यतरस्याम् ॥४३॥**

वाहवेगमारुतेन सैन्यमुदवारय562त्काननं व्रजत्।
तत्प्रतापावहित……यशोनवनीतमा
शुव्यली563 …यत्
॥२०॥

तं राक्षसेशं ध्वजिनी नयन्ती लीलाविभूषां परिशातयन्ती।
चिराय चेतोनवनीतमाशु विलापयामास तदाङ्गनानाम्॥२१॥

… कायितामप्यमरव्रजेन क्षपाचरान्दूरविसारिणोऽपि।
**विस्फारिता564**नेकमृदङ्गभीमा पताकिनी भीषयते स्म यान्ती॥२२॥

रजो दुरारोहमलं यदश्वैरारोपितं खं शमितं तदाशु।
मदाम्बुभिर्वर्त्मनि हास्तिकेन महात्मनां लोकहिताय चेष्टा॥२३॥

प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः॥४४॥ न यासयोः॥४५॥ उदीचामातः स्थाने यकपूर्वायाः॥४६॥ भस्त्रैषाजाज्ञाद्वास्वानञ्पूर्वाणामपि॥४७॥ अभाषितपुंस्काच्च॥४८॥ आदाचार्याणाम्॥४९॥

उच्छ्रायमानीयत येन याता565 जनेन धूली वसुधावलस्य (?)।
तस्यैव दृष्टेरपकारिकासीन्नीत्वोन्नतिं नैव हिताय नीचाः॥२४॥

यका विजिग्ये सुरलोकसेना सका जितागादथ भूपतिं तम्।
अनायका (?) राक्षसलोकसेना तदा प्रभूतायकये (?) श्वरस्य॥२५॥

ठस्येकः॥५०॥ इसुसुत्क्तान्तात्कः॥५१॥ चजोः कु

** घिण्यतोः॥५२॥ न्यङ्क्वादीनां च॥५३॥ हो हन्तेर्ञ्णिन्नेषु॥५४॥**

धानुष्कयोधैर्वृतयुद्धरागैः566स्वाङ्गिकैः सा ध्वजिनी समेता।
अघातयन्ती पथि वन्यसत्त्वान्वाक्येन राज्ञो विभृता स्म याति॥२६॥

** अभ्यासाच्च॥५५॥ हेरचङि॥५६॥ सन्लिटोर्जेः॥५७॥ विभाषा चेः॥५८॥**

विनापि भर्तुः प्रजिगीषया567 यो जघान मत्वारिंगणं जिघांसुम्
दावेन वायुं विजिगीषमाणा जिगाय सेनाध्वपरिश्रमं सा॥२७॥

**चिकीर्षमाणा568**रिमनोविषादं चिचाय याश्वैरवनिं समन्तात्।.
कूलश्चिकायाशु दिशः समग्रा जवेन या……..जनता कृतोऽस्याः॥२८॥

** न क्वादेः॥५९॥ अजिव्रज्योश्च॥६०॥ भुजन्युब्जौ पाण्युपतापयोः॥६१॥ वञ्चेर्गतौ ॥६३॥ ओक उचः के॥६४॥ ण्य आवश्यके॥६५॥ यजयाचरुचप्रवचर्चश्च॥६६॥ वचोऽशब्दसंज्ञायाम्॥६७॥ प्रयोज्यनियोज्यौ शक्यार्थे॥६८॥ भोज्यं भक्ष्ये॥६९॥**

भुजैर्भुजङ्गाङ्गसमानसारै रणे समाजं द्विषतां निरस्य।
सा पालिता भूपतिना विरेजे रोच्यां वहन्तीं जनतां दधाना॥२९॥

कृत्वा दशास्यं विजितं प्रयोज्यं नियोज्यराजन्यजनं क्षितीशः।
वाच्यानि शृण्वन्मधुराणि चादन्भोज्यानि भृत्योपहितान्ययासीत्॥

** ओतः श्यनि॥७१॥ क्सस्याचि॥७२॥ लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये॥ ७३॥ शमामष्टानां दीर्घः श्यनि॥७४॥**

काष्ठान्यवाद्यज्जनता वसन्ती गाश्चाधुक्षन्नपरे मनुष्याः।
अदुग्ध चारक्षत चोदितन्योः569 प्रादुक्षतान्यो बलवान्प्रविश्य॥३१॥

अलीढ कश्चित्स्वयमेव दुग्धाना570लिक्षतान्यो नृपकारणाय।
…..दुग्धगूढ571….भयेन कश्चिन्न्य572घुक्षतान्योऽप्यतिसंभ्रमेण॥३२॥

ताम्यन्ति केचित्क्षुधिता स्म तत्र भ्राम्यन्ति चान्ये स्म निवासहेतोः।
माद्यन्ति चान्ये स्म सुरां पिबन्तो ग्रामे प्रविश्येति जना नृपस्य॥३३॥

विश्रान्तये573 शीधुमलीढ कश्चित्सुरां मुदालिक्षत सैनिकोऽन्यः।
कश्चिनिगूढात्मम574दं तदानीमन्तस्तदाघुक्षत कोपमन्यः॥३४॥

** ष्ठिवुक्लमुचमां शिति॥७५॥ क्रमः परस्मैपदेषु॥७६॥ इषुगमियमां छः॥७७॥ पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः॥७८॥ ज्ञाजनोर्जा॥७९॥ प्वादीनां ह्रस्वः॥८०॥ मिदेर्गुणः॥८२॥ जुसि च॥८३॥**

निष्ठीवति स्मातिमदेन कश्चिद575……..न्यः सुचिराय पीत्वा।
अक्लामदन्यः सुरयातिदीनः पुरा पिबन्तीति जनाः समेताः॥३९॥

धमत्सु शङ्खान्पुरुषेषु सेना प्रातिष्ठतोत्थाय ततः प्रभाते।
अक्रामदश्वीयमनल्पवेगं पुरःसरं गच्छति भूमिपाले॥३६॥

तदेच्छते दर्शनमागताय प्रायच्छदीशो दृशमादरेण।
संदृश्यमानः क्षितिपेन चान्यः पुमान्नियच्छन्निभमाननाम॥३७॥

जिघ्रन्मदामोदमिभोऽपरस्य …….धावन्नभिजातकोपः।
कथंचिदूर्ध्वाङ्कुशभिन्नकुम्भः संसूचतारुध्यत दुर्गतेन576॥३८॥

अपश्यदारात्प्रणता नरेन्द्रं तमापतन्ती सुरराजमेव।
जानाति चान्यः स्म मनोज्ञरूपं संजायमानप्रमदोऽथ कामम्॥३९॥

स्तृणानमालोक्य बलेन पृथ्वीं तदा जना नाविभयुः परेभ्यः।
विद्वान्भ577जेदूर्जितशत्रुयुक्तो न मन्दभाग्यस्य जनस्य भर्ता॥४०॥

** सार्वधातुकार्धधातुकयोः॥८४॥ जाग्रोऽविचिण्ण्ल्ङित्सु॥८५॥ पुगन्तलघूपधस्य च॥८६॥**

बोद्धापि नीतेरनयप्रवर्ती विचेष्टितह्रेपितबन्धुवर्गः।
दशाननं जागरिकैः578 परीतः पुरो बलस्यात्ममुखेन निन्ये॥४१॥

नाभ्यस्तस्याचि पिति सार्वधातुके॥८७॥ भूसवोस्तिङि॥८८॥ उतो वृद्धिर्लुकि हलि॥८९॥ ऊर्णोतेर्विभाषा॥९०॥ गुणोऽपृक्ते॥९१॥ तृणह इम् ॥९२॥ ब्रुव ईट् ॥९३॥ अस्तिसिचोऽपृक्ते॥९६॥ रुदश्च पञ्चभ्यः॥९८॥ अङ्गार्ग्यगालवयोः॥१९॥अदः सर्वेषाम्॥१००॥

नेनिजाम्यहममुं जलैर्जनं मा स्म भूत्क्षणमिहासितुं मतिः।
अब्रवीद्वनमितीव पार्थिवं पुष्पसङ्गिकलषट्पदारवैः॥४२॥

सत्त्वं तृणेढि स्म वने न कश्चिन्न वाव्रवीदप्रियमध्वनीनम्।
आसीज्जनः प्रीतियुतस्तदानीं कार्षीन्न मा पुष्पफलोपचायम्॥४३॥

समाश्वसीत्तत्र जनः श्रमार्तस्तथास्वपीत्कश्चिदजागरीच्च।
विमुच्यमानं पुनरेव तेन खगैरचो579दीदिव जातदुःखम्॥४४॥

उच्चैररोदन्नलिनी शुचेव त्रासाद्गते हंसगणे निनादैः।
अज्ञातदुःखास्वपदेव तस्मिन्कुमुद्वती जागरिता रजन्याम्॥४५॥

वने फलानि न्यपतन्द्रुमेभ्यः सुखं समादाय यथेच्छमादत्।
एवं सुखोपार्जनवर्तनोऽपि क्लेशाय सेवां कुरुते हि लोकः॥४६॥ .

** अतो दीर्घोयञि॥१०१॥ सुपि च॥१०२॥ बहुवचने झल्येत्॥१०३॥ ओसि च॥१०४॥ आङि चापः॥ १०५॥ संवुद्धौ च॥१०६॥ अम्बार्थनद्योर्ह्रस्वः॥१०७॥ ह्रस्वस्य गुणः॥१०८॥ जसि च॥१०९॥ ऋतो ङिसर्वनामस्थानयोः॥११०॥ घेर्ङिति॥१११॥ आण्नद्याः॥११२॥ याडापः॥११३॥ सर्वनाम्नः स्याड्ढ्रस्वश्च॥११४॥**

विभाषा द्वितीयातृतीयाभ्याम्॥११५॥ ङेराम्नद्याम्नीभ्यः॥११६॥ इदुद्भ्याम्॥११७॥ औत्॥११८॥ अच्च घेः॥११९॥ आङो नास्त्रियाम्॥१२०॥

च्युतं कटाभ्यां मदवारि भृङ्गाः पीत्वापि हृद्यं नृपकुञ्जराणाम्।
वृक्षेषु लीनाः कटयोर्न शस्ताः सुदुस्त्यजा केन निवासभूमिः॥४७॥

हाहाम्ब हा मातरिति ब्रुवाणाः श्रान्ता ययुः केचिदपेतवाहाः।
आहेति नारीमपरोऽतिदूरात्किमेष भद्रे वद भामिनि त्वम्॥४८॥

दधतः580 सुमनोरजश्चयं धवितारः पटवृक्षमारुहन्।
अहरत्पवनो जनाश्रमं (?) जनता भर्तरि च स्थितं क्रमम्581॥४९॥

पथि चूततरोः समीपतः करिणो582पेतवते583 सगन्धये।
कुपितं प्रति रागशङ्कया निजया भारमतीत्य वायवे॥५०॥

कटयोरलिमालयेभदानं प्रपिबत्या584 न कृता स्पृहा वनाय ।
स्पृहयेन च माधवीलतायै न हि कृष्णात्मनि (?) संस्थितिः कृतस्य॥५१॥

चिरं सक्तः पीत्वा द्विरदमदलेखां मधुकरो
द्वितीयायै चित्तं पुनरदित पातुं दृढमतिः।
तृतीयस्यै पश्चादपरमिभमासाद्य मुदितो
न तृप्तिं जानन्ति ध्रुवमतिमदाक्षिप्तमतयः॥५२॥

ततस्तरौ585 गुञ्जति षट्पदौघे शङ्कां मतौ कुर्वति बल्लवीषु।
उद्गीयमानेव महीपतेः सा सेना व्यतीयाय वनान्तभूमिम्॥५३॥

माहिष्मतीमथ पुरीं पुरुहूतभूति-
र्भूपः प्रभूतपवनाग्रचलत्पताकम्।
प्रापत्प्रतापपरितापितशत्रुपक्षः
क्षेपीकृता मधुपुरी586 क्षितिपाललोकः॥५४॥

** **इत्यर्जुनरावणीये महाकाव्ये देविका (सप्तमाध्यायतृतीय) पादे त्रयोविंशः सर्गः॥

——————

(सप्तमाध्यायचतुर्थपादे) चतुर्विंशः सर्गः।

णौ चङयुपधाया ह्रस्वः॥१॥ नाग्लोपिशास्वृदिताम्॥२॥ भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्॥३॥ लोपः पिबतेरीच्चाभ्यासस्य ॥४॥ तिष्ठतेरित् ॥५॥ जिघ्रतेर्वा॥६॥ उर्ऋत्॥७॥

ततः प्रावीविशद्भूपः पुरीं सेनां नराधिपः।
विलोक्यात्यरराज... पटुवाक्यः…..जनः॥१॥

प्रसह्यान्वशशासद्यः शात्रवं समरागतम्।
आडुढौक587 स तां सेनां प्रतोलीं लोककेतनाम्॥२॥

क्षितीशं श्रीरबभ्राजन्नारायणमिवाश्रिता।
विभ्रजदसौ तां च तत्समानपराक्रमः॥३॥

स नेत्राब्जानिलोकस्य सवितेवोदमीमिलत्
न्यमीमिलदरातीनां कुमुदानीव तेजसाम्588॥४॥

अदिदीपद्यथा वह्निः काननं पवनेरितः।
अदीदिपत्तथा चेतः पश्यतां द्विषतामसौ॥१॥

अवभासन्मुखाब्जानि स मुदामरयोषिताम्।
पश्यन्तीनां विशालानि तानि नेत्राण्यवीभसत्॥६॥

अवभाषद्गुणान्भूपः स पश्यन्तं जनं निजम्।
अबीभषच्च लोकोऽपि भूपं क्षेमाधिका गिरः॥७॥

अजीजिवज्जनं राजा न परं पालने रतः।
अजिजीवन्मनोज्ञेन दर्शनेनाप्युपागतम्॥८॥

(?) अपीप्यत589 तदीयेभा भृङ्गान्दानं कटच्युतम्।
अतिष्ठिपंश्च तत्रैव सुचिरं पानलोलुपान्॥९॥

गजताजिघ्रिपत्तस्य मंदवारि शिलीमुखान्।
पुरा पुरुद्रुमाली या निजपुष्पाण्यजिघ्रपत्॥१०॥

अचकर्त590 तरुं कश्चित्तदालानाय591 दन्तिनः।
अचीकृत592 तथान्योऽपि शाखां मार्गशिरोधिनीम्॥११॥

** दयतेर्दिगि लिटि॥९॥ ऋतश्च संयोगादेर्गुणः॥१०॥ ऋच्छत्यृृताम्॥११॥ गृृदृृप्रां ह्रस्वोवा॥१२॥**

अवदिग्ये तथा राज्ञस्तूर्यनादो नभस्तलम्।
प्रावृट्कालपयोदानां शिखिनः सस्मरुर्यथा॥१२॥

आरुरग्रे नरास्तस्य केचित्प्रध्वनितानकाः।
शङ्खा निजगरुः स्वानानन्यैरापूरिता मुहुः॥१३॥

द्विषो विशशरुः593 पूरानपरं वीक्ष्य यं रणे।
विसस्रुर्यस्य594 नाम्नापि स प्राप विजयी पुरम्॥१४॥

चेतांसि यं विचिन्त्यापि युद्धे विददरुर्द्विषाम्।
विदद्रुर्यदि तं दृष्ट्वा संमुखीनं न विस्मयः॥१५॥

भिया निपपरुश्चित्तं तद्बाणा येन विद्विषाम्।
निपप्रुककुभस्तेन यशसा तस्य बाहवः॥१६॥

** केऽणः॥१३॥ न कपि॥१४॥ आपोऽन्यतरस्याम्॥१५॥ ऋदृशोऽङि गुणः१६॥**

वर्षुकाः कौतुकं काश्चिदाजग्मुश्च कुमारिकाः।
विशत्पताकिनीकं तं पृथ्वीनाथं दिदृक्षवः॥१७॥

गलन्मेखलिका काचित्त्वरया योषिदायती।
आबद्धमेखला595 चान्या प्राप्य भूपमपश्यताम्१८॥

** अस्यतेस्थुक्॥१७॥ श्वयतेरः॥१८॥ पतः पुम्॥१९॥ वच उम्॥२०॥**

आस्थन्नृपे दृशौ काचिदङ्गना दर्शनोत्सुका।
रूपेण कुर्वती राज्ञः प्रतिद्रष्टव्यकौतुकम्॥१९॥

संरुद्धायाः स्वयं मात्रा यान्त्याः कस्याश्चिदीक्षितुम्।
अश्वन्नेत्रद्वयं नार्या रोदनास्रुविपाटलम्॥२०॥

(?) अपप्तदस्रुसानन्दं वीक्ष्य कस्याश्चिदीश्वरम्।
इत्यवोचत्सखी चान्या मन्मथोऽयं न पार्थिवः॥२१॥

** शीडः सार्वधातुके गुणः॥२१॥ अयङ् यि क्ङिति॥२२॥**

शेरते यत्प्रभावेन विश्वस्ता भुवि मानवाः।
न शय्यतेऽरिनारीभिः सोऽयमीशो न्ययोदितम्॥२२॥

** उपसर्गाद्ध्रस्वऊहतेः॥२३॥ एतेर्लिङि॥ २४॥**

अभ्युह्यते भुजैर्यस्य शक्तिः शत्रुविघातिनी।
समियात्तमरिः कोऽमुं प्राणार्थीत्यन्ययावदि596॥२३॥

अकृत्सार्वधातुकयोर्दीर्घः॥२५॥ च्वौ च॥२६॥ रीङ् ऋतः॥२७॥ रिङ् शयग्लिङ्क्षु॥२८॥ गुणोऽर्तिसंयोगाद्योः॥२९॥ यङि च॥३०॥ ई घ्राध्मोः॥३१॥ अस्य च्वौ॥३२॥ क्यचि च॥३३॥ अशनायोदन्यधनाया वुभुक्षापिपासागर्धेषु॥३४॥

अश्वीषन्ति597 भटा यस्य निहत्यापरसैनिकान्।
चीयमानो यशःपुञ्जैर्यः शुक्लीकुरुते दिशः॥२४॥

भ्रात्रीयति नतं शत्रुं मात्रीयति परस्त्रियम्।
यः सदा सोऽयमुर्वीशः काचिदूचे सखीमिति॥२५॥

यो बन्धूनि संप्राप्तान्नित्यमाद्रियतेऽर्थिनः।
व्याप्रियन्ते रणे येन शत्रवो भुजशालिना॥२६॥

क्रियान्नः सर्वदा श्रेय इति यः स्मर्यतेऽरिभिः।
स्मर्यते विधुरे यश्च सोऽयमन्या (?) जगाविति॥२७॥

अरार्यते दिशो यस्य कीर्तिरिन्दुकला परा।
सास्मर्यते रिपुर्यं च वेपमानो रणच्युतः॥२८॥

जेघ्रीयन्तेऽलयो यस्य दानाम्बु कटसङ्गिनः।
देध्मीयमानशङ्खेयं गजता तस्य गच्छति॥२९॥

दत्तान्युदन्पतेऽम्भांसि येनान्नान्यशनायते
सोऽयं दातार्थिनं प्राप्य न धनं यो धनायति॥३०॥

** द्यतिस्यतिमास्थामित्ति किति॥४०॥ शाच्छोरन्यतरस्याम्॥४१॥ दधातेर्हिः॥४२॥ जहातेश्च क्त्वि॥४३॥**

येनामिता दिताः संख्ये द्विषोऽवसितपौरुषाः।
हित्वा मानं स्थिताः प्राप्य हितं मुनिवदाश्रमे॥३१॥

शितं शातासिना, छित्वा येनास्त्रं द्विषता युधि।
अवच्छातानि गात्राणि यो यं योद्धा नराधिपः॥३२॥

** दो दद्धोः॥४६॥ अच उपसर्गात्तः॥४७॥ अपो भि॥४८॥ सः स्यार्धधातुके॥ ४९॥ तासस्त्योर्लोपः॥५०॥ रि च॥५१॥ ह एति॥५२॥**

वारणैर्वारिदा यस्य कालेऽद्भिः शारदागताः।
अशरद्भ्यो..……….शालयः सुकुशेशयाः॥३३॥

अस्य वत्स्यन्ति संप्राप्य प्रियामद्य सुखं जनाः।
(?) श्वो त्र…..मि598 पुनस्तांस्त्वामपदोत्फुल्ललोचनान्॥३४॥

मन्ये प्रत्तप्रियाश्लेषाः श्वस्ते समुदिता नृपम्।
प्रेक्षितारः पुनर्वीराः प्रेक्षिताहे च तानहम्॥३५॥

** सनि मीमाघुरभलभशकपतपदामच इस्॥५४॥ आप्ज्ञप्यृृधामीत्॥५५॥ दम्भ इच्च॥५६॥ मुचोऽकर्मकस्य गुणो वा॥५७॥ अत्र लोपोऽभ्यासस्य॥५८॥**

को मित्सते गुणानस्य यो दित्सति सदार्थिने।
न्यायेन लिप्सते भागं धिप्सत्यज इव श्रियम्॥३६॥

नालिप्सते कलेराजौ प्रपित्सुरपि शात्रवम्।
गुणैः पित्सन्सतां वीथीं विजेतुं कं नु शिक्षति॥३७॥

कीर्तिरुत्पित्समानस्यवीप्सति कथं जगत्।
विवीप्सति599 न यः कश्चित्स्व600बलानमिताहितः॥३८॥

नास्य श्रुत्वा कथं वृत्तं जनस्येर्त्सति विस्मयः।
न यो मित्रमुखं शत्रुं धिप्सन्तमपि धीप्सति॥३९॥

वद्धो रागादिदोषेण सम्य……..त्यत्र भूपतौ।
स्वयमेवजनो मन्ये मोक्ष्यते601 न तु रावणः॥४०॥

** ह्रस्वः॥५९॥ हलादिः शेषः॥६०॥ शर्पूर्वाः खयः॥६१॥ कुहोश्चुः॥६२॥ न कवतेर्यङि॥६३॥ उरत्॥६६॥ द्युतिस्वाप्योः संप्रसारणम्॥६७॥**

डुढौकिषुरसौ राजा तिष्ठासति न किं पुनः।
जिगीषुरप्यसौ चित्तं चिकीर्षति जनप्रियम्॥४१॥

कोकूयित खरोष्ट्रोऽयं सुष्वापयिषतामपि।
सेना निरस्यते निद्रां विविद्युतिपदश्विका॥४२॥

यावदेवंविधा वाचः शृण्वतः पुरयोषिताम्।
ववृधे प्रीतिरीशस्य तावदालापमाप सः॥४३॥

** व्यथो लिटि॥६८॥ दीर्घ इणः किति॥६९॥ अत आदेः॥७०॥ तस्मान्नुड्द्विहलः॥७१॥ अश्नोतेश्च॥७२॥ भवतेरः॥७३॥**

विशतः कार्तवीर्यस्य विलोक्य पुरसंपदम्।
विव्यथे रावणोऽत्यर्थमीयुश्चिन्ताः प्रसह्य तम्॥४४॥

आदन्नान्नानि दत्तानि नापिबत्तृषितोऽप्यपः।
आनशे तं विषादश्च बभूव विमनाश्चिरम्॥४५॥

** निजां त्रयाणां गुणः श्लौ॥७५॥ भृञामित्॥७६॥ अर्तिपिपर्त्योश्च॥७७॥**

नेनेक्ति स्म स नात्मानं पुरा वेवेक्ति तं व्यथा।
वेवेष्टि स्म न कार्याणि मानसं नाकुलीकृतः॥४६॥

बिभर्ति स्म परं शोकं नामिमीताप्ययं सतः।
व्यजिहीताहितं मूलादाधिना परितापितः॥४७॥

इयर्ति परमं मोहं पिपर्त्यपरसंपदम्।
गृहीतोऽप्यपचारेण भूभृदाभवदाकुलः॥४८॥

** सन्यतः॥७९॥ ओः पुयण्ज्यपरे॥८०॥स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा॥८१॥**

प्रविष्ठे भवनं भूपे जनेनापि प्रियाजनम्।
दिदृक्षुणा गृहे प्रापे विभावयिषता मुदम्॥४९॥

पिपावषिषुरात्मानं प्रविश्य भवनं भटः।
ववन्दे पितरौ पूर्वं ततो न कुलदेवताः॥५०॥

लिलावयिषतान्येन कान्ताया विरहव्यथाम्।
स्तनोपपीडमासाद्य सस्वजे दयिता वपुः॥५१॥

सिस्रावयिषुरन्योऽपि संमदास्रं प्रियादृशौ।
प्रविवेश गृहं दूरात्प्रेष्यैः संभ्रमदर्शिभिः॥५२॥

आनन्दाश्रुच्छलेनान्यः कान्तायाः सहसागतः।
मानवत्या भटो धैर्यं सुस्रावयिषति स्म सः॥१३॥

प्रेष्यया प्राप्तमात्मानं शिश्रावयिषति प्रिये।
उत्तस्थौ कामिनी चान्या शुश्रावयिषया विना॥५४॥

दुद्रावयिषता दूरं दुर्जनस्य मनोरथान्।
विपक्षसंनिधौ प्राप्य केनचित्सस्वजे प्रिया॥५५॥

दिद्रावयिषुरात्मस्थामुत्कटः कश्चिदागतः।
नालिलिङ्ग कथंचित्स्वां गुरोरेव पुरः प्रियाम्॥५६॥

गुणो यङ्लुकोः॥८२॥ दीर्घोऽकितः॥८३॥ नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपद्स्कन्दाम्॥८४॥ नुगतोऽनुनासिकान्तस्य॥८५॥ जपजभदहदशभञ्जपशां च॥८६॥ चरफलोश्च॥८७॥ उत्परस्यातः॥८८॥ ति च ॥८९॥

नेनीयन्ते स्म वेश्मानि सुहृदः केचिदादरात्।
अपापच्य..….. नि नार्याः प्राघूर्णकारणम्॥१७॥

सहसैव गृहद्वारं प्रियस्य समुपेयुषः।
संमुखीना मुदा काचिदवनीव तावला॥५८॥

अदनीध्वस्यतायाति कस्याश्चिद्दयिते व्यथा।
असनीस्रस्यतान्यस्या रभसेन स्तनांशुकम्॥५९॥

लज्जया वधूः प्रियं दृष्ट्वा काचिद्वनीभ्रश्यमानया।602
अप्युपागम्य जनसमक्षं गाढं समाश्लिक्षदुन्मनाः॥६०॥

प्रियमवेक्ष्य गृहागतं वधूरचनीकस्यत वासमन्दिरम्।
प्रहितो गुरुभिर्वरोऽप्यसावपनीपत्यत तत्र सादरम्॥६१॥

तं तत्र पूर्णेन्दुमयूखकान्तां लोकः समासाद्य विभावरीं ताम्।
रंरम्यते स्म प्रमदासमेतो दंदह्यमानप्रतिपक्षचेताः॥६२॥

दंदश्यमानाधरपल्लवास्ताः प्रियाः पिवद्भिर्दयिता मधूनि।
पंपद्यमानाः603 प्रतिदेष्टुमेनां चक्रुः क्रिया नर्तितलोचनाब्जाः॥६३॥

पंफुल्यमानाभरणैः प्रियैस्ताश्चंचूर्यमाणाः कृतमानवन्धाः।
वंभज्यमाना वनिता विलासैर्जंजप्यमानैर्गदिताः प्रसादम्॥६४॥

सन्वल्लघुनि चङ्परेऽनग्लोपे॥९३॥ अत्स्मृदृृत्वरप्रथम्रदस्तृृस्पशाम्॥९५॥ विभाषा वेष्टिचेष्टयोः॥९६॥ ई च गणः॥९७॥

अचीकरत्कामवशानुवर्तिनीश्चिराय नारीर्विततेषुरात्मभूः।
व्यसस्मरत्ता मदिरामदः पुनः प्रियापराधात्स604रसानपि क्षणम्॥६९॥

विवर्धितः शीधुमदो वधूनामपप्रथद्विभ्रमचेष्टितानि।
अत्युत्सवारम्भरतिर्नराणामतत्त्वरच्चेतसि जृम्भमाणे॥६६॥

अमम्रदत्कामिजनो वधूभिः शय्यातलं विभ्रमशालिनीभिः।
अतस्तरंस्ताः पुनराशु पुंसां प्रीत्या मनांसि प्रतिबद्धरागाः॥६७॥

मदनः कुसुमेषुताडितानविवे605ष्टद्वनिता भुजैर्जनान्।
परुषध्वनिताभिरादरादविवेष्टः606 प्रसभं ततोऽधिकम्॥६८॥

अचिचेष्ट607वेत्य कामिनी निजतन्वा विविधा रतिक्रियाः ।
अचिचेष्टदनङ्गदीपनं निजनेत्रद्वितयं च विभ्रमैः॥६९॥

सुरोपमामजगणदात्मसंपदं
तदा जनः प्रियजनलाभनन्दितः।
अजीगणत्क्षणसदृशीं च तां निशां
निशाकरद्युतिविनिकीर्णतामसाम्॥७०॥

इत्यर्जुनरावणीये महाकाव्ये णौचङ्पादे (सप्तमाध्यायचतुर्थपादे) चतुर्विंशः सर्गः॥

(अष्टमाध्याये द्वितीयपादे) पञ्चविंशः सर्गः।

————————

** पूर्वत्रासिद्धम्॥१॥ नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति॥२॥ न मु ने॥३॥ नलोपः प्रातिपदिकान्तस्य॥७॥ न ङिसंबुद्ध्योः॥८॥ मादुपधायाश्च मतोर्वोऽयवादिभ्यः॥९॥ झयः॥१०॥ संज्ञायाम्॥११॥ आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती॥१२॥ उदन्वानुदधौ च॥१३॥ राजन्वान्सौराज्ये॥१४॥ कृपो रो लः॥१८॥ उपसर्गस्यायतौ॥१९॥ ग्रो यङि॥२०॥ अचि विभाषा॥२१॥ परेश्च घाङ्कयोः॥२२॥**

संयोगान्तस्य लोपः॥२३॥ रात्सस्य॥२४॥ धि च॥२५॥ झलो झलि॥२६॥ ह्रस्वादङ्गात्॥२७॥ इट ईटि॥२८॥ स्कोः संयोगाद्योरन्ते च॥२९॥ चोः कुः॥३०॥ हो ढः॥३१॥ दादेर्धातोर्घः॥३२॥ वा द्रुहमुहष्णुहष्णिहाम्॥३३॥ नहो धः॥३४॥ आहस्थः॥३५॥व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः॥३६॥ एकाचो बशो भष् झषन्तस्य स्ध्वोः॥३७॥ दधस्तथोश्च॥३८॥ झलां जशोऽन्ते॥३९॥ झषस्तथोर्धोऽधः॥४०॥ षढोः कः सि॥४१॥ रदाभ्यां निष्ठातो नः पूर्वस्य च दः॥४२॥ संयोगादेरातो धातोर्यण्वतः॥४३॥ ल्वादिभ्यः॥४४॥ ओदितश्च॥४५॥ क्षियो दीर्घात्॥४६॥ श्योऽस्पर्शे॥४७॥ अञ्चोऽनपादाने॥४८॥ दिवोऽविजिगीषायाम्॥४९॥ निर्वाणोऽवाते॥५०॥ शुषः कः॥५१॥ पचो वः॥५२॥ क्षायो मः॥५३॥ प्रस्त्योऽन्यतरस्याम्॥५४॥ अनुपसर्गात्फुल्लक्षीबकुशोल्लाघाः॥५५॥ नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्॥५६॥ न ध्याख्यापृृमूर्च्छिमदाम्॥५७॥ वित्तो भोगप्रत्यययोः॥५८॥ भित्तं शकलम्॥५९॥ ऋणमाधमर्ण्ये॥६०॥

विन्नो608 व्रतैर्वित्तमतिर्नरेन्द्रोस्त्रातप्रजस्त्राणवनं समेत्य।
ख्यातं जनैः ख्यान …….मपूजयन्मूर्तमिवाशु धर्मम्॥१॥

कृतार्चमर्च्यं परितोषपूर्तंपुरः सरा609 वित्तपतिः पुलस्तिम्।
अवीविशद्विष्टवद्धभूषां सभां सभित्तीकृतवैरिदेहः॥२॥

ह्रीणचित्ते परिचर्ययास्मिन्सुखोपविष्टो मुनिभिर्नरेन्द्रे।
अहीतचेता विहिताभ्यनुज्ञस्तदोपविश्येदमुवाच वाक्यम्॥३॥

** क्विन्प्रत्ययस्य कुः॥६२॥ नशेर्वा ॥६३॥ मो नो धातोः॥६४॥ म्वोश्च॥६५॥ ससजुषो रुः॥६६॥ अहन् ॥६८॥ रोऽसुपि ॥ ६९॥ वसुस्त्रंसुध्वंस्वनडुहां द्ः॥ ७२॥**

विशुश्रुवे तस्य रवो नभःस्पृक्प्रशान्मनःप्रीतिकरो जनानाम् ।
गर्जत्ययोभृत्यदुरीश्वरस्य स्तोकैरहोभिः परिशुद्धबुद्धेः॥४॥

योऽहं610 ददात्येष भवान्स मन्ये विद्वद्भिरासेवितपादपद्मः।
केनानडुद्भिः सदृशा जनास्ते राज्ञेति वाक्यं जगदे मुनीन्द्रः॥५॥

जनैरघस्य611द्भिरुपासितात्मा त्वं दृष्टमात्रोऽपि पुनासि लोकम्।
देवः पुनर्मोहपरीतचित्तैः श्रीमद्भिरत्यन्तमदृष्टमूर्तिः॥६॥

** तिप्यनस्तेः॥७३॥ सिपि धातो रुर्वा॥७४॥**

अचकाद्भवान्किल यथैव भवः परमन्वशाद्भवभयात्स इव ।
शुश्रुवानहं परमिदं द्वितयं त्वयि दृष्टमद्य- सविशेषमहो ॥ ७ ॥

सर्वथान्वशास्त्वं यथाश्रितान्मान्वशात्पिता612 माता वा तथा ।
दृश्यते हि महितं महात्मनां वैभवं परहिताय केवलम् ॥ ८ ॥

** दश्च॥७५॥**

यथाभिनस्त्वं वचसा जनानामन्तस्तमांसि प्रसभं विचारैः।
तथैव बाह्यान्यभिनस्ततानि ध्यायंस्तदूत्थेन महश्चयेन॥९॥

** र्वोरुपधाया दीर्घ इकः॥७६॥**

अतो धृतायु613र्भवितापि धातुः करोति व ……लोकबोधम्।
प्राप्ताखिलाशीः सकलाद्यतन्मे विलोकनेनाक्रमणेन चेयम्॥१०॥

** हलि च॥७७॥ उपधायां च॥७८॥**

आस्तीर्यमेतद्यशसा समग्रं जगन्मया युष्मदुपासनेन।
संकीर्तयिष्यन्ति सतो………….मध्ये जनाः संश्रितपक्षपाताः॥११॥

न भकुर्छुराम्॥७९॥ अदसोऽसेर्दादु दो मः॥८०॥

कुर्यां न जानामि किमत्र तोषं त्वय्यागते धुर्यतमे मुनीनाम्।
अद्यामुमात्मानममूंश्च लोकान्सत्यं पुनाम्यागमनेन पूतान्॥१२॥

** एत ईद्वहुवचने॥८१॥**

सहस्रसंख्या मम सन्ति विद्वन्नमी भुजाः किं क्रियताममीभिः।
अमीषु नास्था विभवेषु काचिद्गृहाण राजेति मुनिर्जगाद614॥१३॥

आनम्रमौलिविहिताञ्जलिपद्ममारा-
दालोक्य भूपमिति भक्तिविधेयचित्तम्।
आशंसिताखिलमनोरथसिद्धिमेनं
प्रीतिप्रसन्नवदनं मुनिरित्युवाच॥१४॥

इत्यर्जुनरावणीये महाकाव्ये (अष्टमाध्याये द्वितीयपादे) पञ्चविंशः सर्गः॥

—————————

(अष्टमाध्याये तृतीयपादे) षड्विंशः सर्गः।

** अत्रानुनासिकः पूर्वस्य तु वा॥२॥ अनुनासिकात्परोऽनुस्वारः॥४॥ समः सुटि॥५॥ पुमः स्वय्यम्परे॥६॥ नश्छ्व्यप्रशान्॥७॥ नृृन्पे ॥१०॥ कानाम्रेडिते॥१२॥**

संसारवा615….त पिता तब त्वं पुस्युत्र616कृत्यानि करो …….।
…………यति617 त्रिलोकी कोस्कान्न618….पासि यतो भयार्तान्॥१॥

ढो ढे लोपः॥१३॥ रो रि॥१४॥ खरवसानयोर्विसर्जनीयः॥१५॥ रोः सुपि॥१६॥ भोभगोअघोअपूर्वस्य योऽशि॥१७॥ व्योर्लघुप्रयत्नत्तरः शाकटायनस्य॥१८॥ लोपः शाकल्यस्य॥१९॥ ओतो गार्ग्यस्य॥२०॥ उञि च पदे॥२१॥ हलि सर्वेषाम् ॥२२॥ मोऽनुस्वारः॥२३॥ नश्चापदान्तस्य झलि॥२४॥

मूढचेता …………………………………….
……..मज्जन्ति न दीपकानां रात्रौ पतङ्गास्तव मूढचित्ताः ॥२॥

चित्तं हरन्त्याशु गुणास्त्वदीयाः शरा यशांसि द्विषतां यथाजौ।
आक्रंस्यते केन तव भ्रमन्ती कीर्त्या शरच्चन्द्रनिभेव कीर्तिः॥३॥

मो राजि समः क्वौ॥२५॥ हे मपरे वा॥२६॥ नपरे नः॥२७॥ ङ्णोः कुक्टुक्शरि॥२८॥ डःसि धुट्॥२९॥ नश्च॥३०॥ शि तुक्॥३१॥ ङमो ह्रस्वादचि ङमुण् नित्यम्॥३२॥ मय उञो वो वा॥३३॥ विसर्जणीयस्य सः॥३४॥ शर्परे विसर्जनीयः॥३५॥

सम्राड् भवान् सर्वजनैकसेव्यः शुभन्ह्नुतेकश्चरितं त्वदीयम् ।
दोषं ह्नुते च प्रणतिं गतानामपूर्वमेतत्तव राजवृत्तम्॥४॥

भवाञ्छुभाचारपरः पृथिव्यां जयन्नभीष्टश्च सुरेश्वरस्य।
भवन्महश्छादयति क्षितीशान्दिशो यशः क्षौममिवेन्दुगौरम्॥५॥

** वा शरि॥३६॥ कुप्वोः≍ क≍ पौ च॥३७॥**

एकः सभां पूरयितासि यस्माज्जनः शिरोभिः619 प्रणतस्ततस्त्वाम्।
यशःपुरः620कः स्तवनेन राजन्सदा गुणान्यश्चिनुषे गुणज्ञ॥६॥

** सोऽपदादौ॥३८॥ इणः षः॥३९॥**

चित्तं नभःकल्प621मिदं महिम्नायुद्धे यशस्काम्यति तेन वित्तम्।
त्वं हंसि नानम्र622शिरस्कमेकस्त्वत्तो महन्त्याश623भृतोऽन्यभूपाः॥७॥

त्रिदृग्धनुष्कल्पमिदं धनुस्ते शेषा धनुष्पाशभृतो नरेन्द्राः।
मन्ये धनुष्काम्यति को द्विषस्ते धानुष्कमालोक्य भवन्तमाजौं॥८॥

** नमस्पुरसोर्गत्योः॥४०॥ इदुदुपधस्य चाप्रत्ययस्य॥४१॥ तिरसोऽन्यतरस्याम्॥४२॥**

यस्त्वां नमस्कृत्य करोति सेवां लक्ष्मीं पुरस्कृत्य स याति गेहम्।
द्विषन्पुनर्दुष्कृतकर्मकारी वहिष्कृतः श्लाघ्यति राजसौख्यात्॥९॥

आविष्कृतं तेन पयस्त्रि624लोक्यां यो निष्क्रयं ते गतवान्कृतस्य।
तिरस्कृताश्चाशु गुणाः परेषां **तिरस्कृत625**श्चात्मनि वाच्यदोषः॥१०॥

** द्विस्त्रिश्चतुरिति कृत्वोऽर्थे॥४३॥ इसुसोः सामर्थ्ये॥४४॥ नित्यं समासेऽनुत्तरपदस्थस्य॥४५॥**

यो द्विष्करोति त्वयि कंचिदाधिं तस्याहवे त्रिष्करणं विधाय।
चतुष्करोषि प्रसभं समन्युः पात्रे कृतं भूरि फलं हि सर्वम्॥११॥

द्विष्कुर्व626तीश त्वयि मुञ्चतीषून्यस्त्रिः करोति प्रविमूढचेताः।
विचेष्टितं तस्य भवन्तमेतत्सर्पिष्करोत्यग्निमिव प्रदीप्तम्॥१२॥

हुताशनेन627 प्रशमं प्रयाते सर्पिः करोत्यन्यविमूढचेताः।
स सेवतेऽन्यं परिमुच्य यस्त्वां धनुष्कठोरं सशरं दधानम्॥१३॥

** अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य॥४६॥ अधःशिरसी पदे॥४७॥ कस्कादिषु च॥४८॥**

तमस्कृतः शेषनृपाः प्रजायास्तस्या मनस्कामकरस्त्वमेकः।
हेलाचलो628वासितवाग्रतस्ते न भान्त्यगस्कंसमहीधरा वा॥१४॥

विद्यायशस्यात्रमनन्यतुल्यं तेजस्कुशाग्रीयमतिं दधानम्।
त्वां हस्त्युरस्कुम्भविभेददक्षं कुर्वीत कः शत्रुमनल्पबुद्धिः॥१५॥

शिरस्पदं येन च पादपीठं कृतं त्वदीयं नमतादरेण।
अधस्पदं तस्य निरस्तभूतः करोति राजन्वसुधाधिपस्य॥१६॥

** अपदान्तस्य मूर्धन्यः॥५५॥ सहेः साडः सः॥५६॥ इण्कोः॥५७॥ नुम्विसर्जनीयशर्व्यवायेऽपि॥५८॥ आदेशप्रत्यययोः॥५९॥**

सुष्वाप येनाभिहतो बलानि रि……………………..।
गात्रेषु संहृत्य दृशां सहस्रं प्राप्तस्तुराषाडिह से॥१७॥

** शासिवसिघसीनां च॥६०॥**

………………………………………………….।
….. तिपालमन्ये तदेव **चक्षु629**र्विपिनेषु हिंस्रा॥१८॥

स्तौतिण्योरेव षण्यभ्यासात्॥६१॥

तुष्टूषति यो न साधु लोकं न सिपति630 वा सुखैस्त्वयीशे।
तं बाणहतं महाजिमध्ये सुष्वापयिषति दीर्घकालमेत्य॥१९॥

सः स्विदिस्वदिसहीनां च॥६२॥

सिस्वेदयिषुः प्रवृद्धकम्पान्सिस्वादयिषसीति द्विषो भयात्त्वम्।
युधि यत्प्रसभं किमत्र चित्रं न सिसाहयिषति वापरं किमेतत्॥२०॥

प्राक्सितादड्व्यवायेऽपि॥६३॥ स्थादिष्वभ्यासेनचाभ्यासस्य॥६४॥ उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्॥६५॥ सदिरप्रतेः॥६६॥ स्तन्भेः॥६७॥ अवाच्चालम्बनाविदूर्ययोः॥६८॥ वेश्चस्वनो भोजने॥६९॥ परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्॥७०॥ सिवादीनां वाड्व्यवायेऽपि॥७१॥

नादेयतोयेऽभिषवं दधानं छित्वा दशास्योऽभ्यषुवद्रणाय।
प्रोत्साहितोऽभिष्टुवता जनेन प्रायो न जानाति जडः खशक्तिम्॥२१॥

यद्वारितेनाप्यभिषेचितस्त्वमधिष्ठितः स्पन्दनमाहवाय।
तस्यापचारस्य फलं विबुद्धमन्धेन वात्र स्खलितेन तेन॥२२॥

निषेधति त्वत्प्रसरे रणे यः स्थितः परिष्टभ्य जडः सगर्वम्।
नार्योऽभ्यषिञ्चन्निह तस्य तस्य कपोलभित्तीर्नयनाम्बुपातैः॥२३॥

मदीयपौत्रं परिमूढचित्तं कथं न पर्यष्वजदापदाशु।
विवेकिना शक्तिसमन्वितेन त्वया विरोधं सह यो व्यधत्त॥२४॥

विद्वान्भवानेव गुरुन्विलोक्य दूरान्निषीदत्यतिसंभ्रमेण।
……………………….विष्टभ्यगात्रं मम सूनुरास्ते॥२५॥

करोत्यवष्टभ्यरुषं जनस्य यः कारणेनापि विना भयानि।
तस्यातिमानैकपरस्य पुंसः पश्याम्यवष्टब्धमहं विनाशम्॥२६॥

ये631 ’’’’ ष्वजद्भीषणमारसन्ते नरामिषानात्मपुषो निशाटाः।
ते संयति त्वामवलोक्य नूनं न **व्यस्वन632**न्नुज्झितजीविताशाः॥२७॥

न कस्यचित्पर्यव633हन्तपूर्वमेकान्न्य (?)षेवन्त परं दशास्यम्।
ते तस्य भृत्या भवता रणस्था भ्राम्यन्ति संप्रत्यपरिष्कृताङ्गाः॥२८॥

त्वं प्रत्यषीव्यः कवचानि येषां शरैः शरीरे रजनीचराणाम्।
प्रत्यसीव्यन्भवतश्च ये त्वां यथास्थितास्तेऽद्य मया तथैक्षि॥२९॥

नेन्द्रस्य ये पर्यषहन्त संख्ये प्रचेतसः प्रत्यहन्त नापि।
पर्यस्करोद्यांस्तनयो मदीयः पर्यष्कृता634स्तान्विशिखक्षतास्थान्॥३०॥

यानाशु पर्यष्वजताहवश्रीस्तानेव पर्यस्वजताशु भीतिः।
व्यष्टौद्भयाद्यं जनता ….स्ते व्यस्तुवंस्त्वां विजिता भयेन॥३१॥

** अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु॥७२॥ वेः स्कन्देरनिष्ठायाम्॥७३॥ परेश्च॥७४॥ परिस्कन्दः प्राच्यभरतेषु॥७५॥ स्फुरतिस्फुलत्योर्निर्निविभ्यः॥७६॥ वेः स्कभ्नातेर्नित्यम्॥७७॥**

विष्यन्दमानेन इवारिनार्या नेत्राम्बुना कस्य कृतो न तापः।
विस्पन्दमानेन च हर्षजेन त्वदङ्गनानां जनितो द्विषां सः॥३२॥

विष्कर्तुरी635 त्वय्यरिमानसानां दृष्टे मनः कस्य न याति तोषम्।
वि636…………………………..न माधातुमनन्तबुद्धिः॥३३॥

एकः सहस्रेण रणे कराणां …………………………….।
एको भुवो भारमिवाहिराजो विष्कम्भतुं त्वं परसैन्यमीशः॥३४॥

** इणः षीध्वंलुङ्लिटांधोऽङ्गात्॥७८॥ विभाषेटः॥७९॥**

यद्योपीढ्वं637 संमुखान्वीरलोकान्नप्लोषीढ्वंयच्च भीतान्विलोक्य।
नैतच्चित्रं त्वादृशामुन्नतानां क्षुद्रा घ्नन्ति त्रासभाजो विमूढाः॥३५॥

…..रु…..ने संस्मृता देहभाजा यूयं चौरान्सत्यमेवालविढ्वम्
भीत्या नम्रान्नालविध्वं च लोकानाकारोऽयं गूढमाख्याति सत्त्वम् ३६

** समासेऽङ्गुलेः सङ्गः॥८०॥ भीरोः स्थानम्॥८१॥ अग्नेः स्तुत्स्तोमसोमाः॥८२॥ ज्योतिरायुषः स्तोमः॥८३॥ मातृपितृभ्यां स्वसा॥८४॥ मातुःपितुर्भ्यामन्यतरस्याम्॥८५॥ अभिनिसः स्तनः शब्दसंज्ञायाम्॥८६॥ उपसर्गप्रादुर्भ्यामस्तिर्यच्परः॥८७॥ सुविनिर्दुर्भ्यः सुपिसूतिसमाः॥८८॥ निनदीभ्यां स्नातेः कौशले ॥८९॥ सूत्रं प्रतिष्णातम् ॥९०॥ कपिष्ठलो गोत्रे ॥९१॥ प्रष्ठोऽग्रगामिनि ॥९२॥ वृक्षासनयोर्विष्टरः ॥९३॥ गवियुधिभ्यां स्थिरः॥९५॥ विकुशमिपरिभ्यः स्थलम्॥९६॥ अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यःस्थः॥९७॥ सुषामादिषु च॥९८॥ ह्रस्वात्तादौ तद्धिते ॥१०१॥ निसस्तपतावनासेवने॥१०२॥ न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्॥११०॥ सात्पदाद्योः॥१११॥ सिचो यङि॥११२॥**

अग्नीषोमच्छायया त्वं परीतस्तापह्लादौ शत्रुमित्रेषु कुर्वन्।
अग्निष्टोमद्वेषिणां रावणेन प्रेष्टुं (?) चित्रं यद्रणे पारितोऽसि॥३७॥

जातेन मन्ये न मुदं प्रयाता मातृष्वसा यस्य पितृष्वसा च।
मातुष्वसा वा गुणसंकथायां संपुन्निशायां638 न पुमान्प्रजातः॥३८॥

यदि मे तनयो नमेद्भवन्तं युधि निष्णातमतिर्विधूय दूरात्।
रचिताङ्गुलिषङ्गमञ्जलिं स्वं किमभिष्यात्कुशलं ततो न तस्य॥३९॥

अ.639…सिद्ध….वीक्ष्य शिखाकलापं भूमिष्वमर्कमिव दीप्रकरं दविष्टम्।
गोष्ठी गतं मुनिवरं शुभविष्टरस्थं सव्येष्ठमित्यभिदधे वचनं नरेन्द्रः॥४०॥

सुषुप्तमुत्थाप्य निशाचरेशं स्नातांनुलिप्तं धृतशुक्लवस्त्रम्
समानय त्वं मुनिपादमूलं प्रष्टोऽस्य भूत्वास्य युधिष्ठिरस्यः॥४१॥

द्विष्टं न मे चित्तममुष्यं पक्षे दृष्ट्वा पुलस्तिं परमेष्टितुल्यम्।
सविष्टरो640 वेदचतुष्टयीं यो वपुष्टमेनोद्वहता पुनानम्॥४२॥

पुञ्जिष्टदर्पेवतनुर्यदीया चित्तेन गत्वा सुषमेण शीघ्रम्।
त्वं रावणं प्रापय तं वहिष्ठं दुष्पन्धिमप्याशु मुनेः समीपम्॥४३॥

यथावदादापितराज्य641सत्क्रियो गुरोः समीपं विदधद्वपुष्टम्
उपासितो नम्रशिरास्तदस्रुभिः स पर्यसेसिच्यत संमदोद्भवैः॥४४॥

** सेधतेर्गतौ॥११३॥ प्रतिस्तब्धनिस्तब्धौ च॥११४॥ सोढ़ः॥११५॥ स्तम्भुसिवुसहां चङि॥११६॥ सुनोतेः स्यसनोः॥ ११७॥ सदिस्वञ्जोःपरस्य लिटि॥११८॥**

प्रत्यसेच642न्मघवापि यस्य स्वेच्छागतेनापि जनोऽत्र643 तस्य।
मन्युं समुद्भूतमपि प्रयोक्ता पिताभित644स्तम्भमुपागतस्य॥४५॥

युद्धे प्रतिस्तम्भ645तनूनरिव्रजान्यो बाणपातैः सहसा न्यसीषिवत्
शुक्रस्य राज्ञो द्रुतमभ्य646षीषहत्प्रीत्या दशास्यं स नृपो व्यलोकयत्॥४६॥

मन्ये गमिष्यन्नमुदं मुनीन्द्रो मानाद्दशास्यं यदि नाभ्यसोष्यत्।
स्नातानुलिप्तं तमुदीक्ष्य लोकश्चित्ते समग्रो…………………….॥४७॥

तस्यां सभायां नृपलोकदृष्टव्यापि………………………………..।
……………दद्विजलोकमध्ये647………………………………………॥४८॥

——————

** रषाभ्यां नो णः समानपदे॥१॥ अट्कुप्वाङ्नुम्व्यवायेऽपि॥२॥ पूर्वपदात्संज्ञायामगः॥३॥**

.… मुष्णन्नथ पूर्णचन्द्रशोभा648 करणेन क्षितिपः क्षपाटपश्च।
गुरुणा वचसा कृताभ्यनुज्ञो महदेकासनमेव भेजतुस्तौ॥४९॥

रत्नद्युतिसमर्पणेन दूरादर्केणेव विभासिताखिलासनः।
स्वस्त्वा परिबृंहणीयशोभं कुर्वाणं चिरमासनं स्थितौ तौ॥५०॥

** वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः॥४॥ प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि॥५॥विभाषौषधिवनस्पतिभ्यः॥६॥**

शुका यथारादपि कोटरावणं सपुष्पमग्रेवणमाशु षट्पदाः।
जनास्तथैक्षन्त नृपं न रावणं श्रयन्ति शिष्टं कृतिनामुपागमे॥५१॥

पपात तोषप्रवणा शरीरिणां चिराय दृष्टिर्नृपतौ न रावणे।
सितच्छदालीकुररान्वितं वनं यथोचितं याति न शारिकावणम्॥५२॥

छाययान्तर्वणमिवालीढ़ौ संतापविच्छेदसंयुजा।
शरवणोन्नताब्जसंकाशौ कनकाब्जवनमद्रिरिवाश्रितौ॥५३॥

प्लक्षवणमिवास्तलोकतापौ तौ मध्येसममागतावुद्ग्रौ।
फलिनाभ्रवणोपसेव्यदेहौ शुशुभाते घटितावुभौ महर्षी649॥५४॥

दशवदनवपुः समीपभाजां द्रुतपरदुःखविधायिकण्टकौघम्।
खदिरवणनिभं जनोऽनुमेने नृपवपुरिक्षुवणाभमीक्षमाणः॥१५॥

दुर्वावणवन्निबद्धबुद्धिर्नृपशोभा ददृशे जनेन तत्र।
न क650………….. नापसाम्यं तामासाद्य निशाचरेशकान्ति॥५६॥

दूर्वावननीलवर्णसङ्कं विभ्राणः क्षणदाटपः संभायाम्।
करीरवनस्य नाप…………छायतया निरीक्ष्य भूपम्॥५७॥

** अह्नोऽदन्तात्॥७॥ वाहनमाहितात्॥८॥**

शरवाहन651सद्रथोचितः शुशुभे भूमिपतिर्जिताहृतम्।
पूर्वाह्णमिवांशुमान्द्विषं कुर्वन्माननयावि………..॥५८॥

** पानं देशे॥९॥ वा भावकरणयोः॥१०॥ प्रातिपदिकान्तनुम्विभक्तिषु च॥११॥ एकाजुत्तरपदे णः॥१२॥ कुमति च॥१३॥ उपसर्गादसमासेऽपि णोपदेशस्य॥१४॥ हिनु मिना॥१५॥ आनि लोट्॥१६॥ नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च॥१७॥ शेषे विभाषाऽकखादावषान्त उपदेशे॥१८॥ अनितेः॥१९॥ अन्तः॥२०॥ उभौ साभ्यासस्य॥२१॥ हन्तेरत्पूर्वस्य॥२२॥ वमोर्वा॥२३॥ अन्तरदेशे॥२४॥ अयनं च॥२५॥**

प्राच्या मैरेयपायिणो गान्धराश्च652 कषायपायिनः
सेवार्थमुपागताः सभां ददृशुस्तावुचितासनाश्रयौ॥५९॥

रुधिरपण653..………नाथनाथः **सुरापण654**चेतसाम्।
….. मानयन्दशाननं राजा तेन दृष्टः पुलस्तिना॥६०॥

वारिणा653भाजनैः केचित्केचित्सुरापणभाजनैः।
………………………………655……………………….॥६१॥

परितोषवाहेण चेतसा जनताशतानि दृष्टवान्भूपः।
………………………परितोषवाहिणि सर्वतः॥६२॥

परितोषभवा (?) निरीक्ष्य लोके नयनाम्बुनि मुने……।
महंते गुणाय सख्यं तुषवापेण समं खलेन सार्धम्॥६३॥

सुरापिणस्तत्र जनाः पुरस्ते राजेति मूर्ध्ना प्रणिपत्य वाक्यम्।
मुनीश्वरं …….तु मुक्तिप्रतिस्वनैः पुण्यनदत्समेन॥६४॥

प्रणिधानपरोऽस्मि तात……. ….स्मि भवामि कस्य कस्य।

तव देहवतां यथा गुणानां प्रणिमाता ……. मे धनानाम्॥६५॥

प’‘‘‘सयतकः शिवानि तुभ्यं दाता त्वं जगति ……लाय तेषाम्।
परिणमयति वा वपुःषु मांसं दुरितं दर्शनतोऽपि ते महात्मन्॥६६॥

प्रणिहंसि जनस्य दुष्कृतानां प्रणियासीश्वर यस्य मन्दिरं त्वम्।
प्रणियाति शुभश्च तत्र वातः प्रणयं त्वय्युपयाति नु…….॥६७॥

…..स्यति656 तस्य सर्ववैरं परिणिद्राति विपच्च तत्क्षणेन।
प्रणिव…657**…**वा कया न बीजं प्रणिचिनुते तव यः समेत्य पूजाम्॥६८॥

प्रणि…….. स शत्रुघाति प्रणिवोढा सततं स एव लक्ष्यः।
तव यः समुपैति पादमूलं किमु तत्त्वं समुपैषि यस्य गेहम्॥६९॥

….गच्छतु658 रावणोऽद्य लङ्कां प्रणिगच्छाम्यहमप्यनुज्ञया ते।
मुनिमित्यवदन्मुनिं (?) महात्मन्स सुखी प्राणिति यः स्थितोऽन्तिके ते॥
प्राणिणिर्वदा659 दशास्यः कृतवान्येन660 सह त्वयाद्य सौख्यम्।
तज्जीवितमुच्यते नराणां सन्मित्रैः सह यन्नयन्ति कालम्॥७१॥

पौत्रेण सहाधुना661 भवन्तं ……यं समवाप्य शक्तिभाजम्।
तरसा भुवि न प्रहण्यते कः सन्मित्रा गतिः पदं विभूतेः॥७२॥

भवतानुमताः पुरा प्रहण्मस्तस्याप्याश्र………..दुःखम्।
लङ्कापुरवासिनश्च शोकं यावत्पौरजनस्य संप्रहण्मः662॥७३॥

भवन्तमा…..663…….ननोऽयं प्रयातु लङ्कां पुनरागमाय।
………ते यावदभर्तृकाणां **दुरन्तर्हणनम्॥**७४॥

** कृत्यचः॥२९॥ णेर्विभाषा॥३०॥ हलश्चेजुपधात्॥३१॥ इजादेः सनुमः॥३२॥ वा निंसनिक्षनिन्दाम्॥३३॥**

प्रयाणमापादय रावणस्य प्रयायमानं परिसान्त्वयैनम्।
माया………..स्याप्रयाणिस्तव यो विरोधी॥७५॥

प्रयापणस्यास्य कथापि मेऽद्य शुचा विषण्ण……मङ्गम्।
प्रयापणेऽस्याशुं च रावणस्य समं वि… किंदु……….॥

प्रयाप्यमाणं स्वजनेन मा त्वं प्रयाप्यमानं च तथा दशास्यम्।
शुचं कृथा मा क्षितिमीक्षमाणो वियोगभीरूणि सतां मनांसि॥७७॥

प्रापणीयं विरहे त्वदीये कालक्र….ही विरहं करोति।
प्र…………664…..न प्रेङ्गणं तेषु करोति लक्ष्मीः॥७८॥

सुहृदं………………………………..न नरेन्द्रलोकाः ।
उपागमं प्रत्युत कुर्वते ते प्रतिक्षणं665 सर्वमुखागमानाम्॥७९॥

** न भाभूपूकमिगमिप्यायीवेपाम्॥३४॥षात्पदान्तात्॥३५॥ नशेः षान्तस्य॥३६॥ पदान्तस्य॥३७॥ पदव्यवायेऽपि॥३८॥ क्षुभ्नादिषु च॥३९॥**

यद्द्विषां प्रकसनं666 महापदां श्रेयसां प्रभवनं यदात्मनः।
पाप्मनां प्रपवनं च भूयसां तत्पिनाकिन इवास्ति ते वपुः॥८०॥

त्वत्प्रभावमहिमांशुसन्निभं संयु………..भव रिपुप्रवेपनम्।
आपदां…………‘सेवनं667 तेन विष्णुरिव वन्द्यसे जनैः॥८१॥

सर्पिष्पात्रं668 ये च कृत्वा बलानामायाद्धित्वा (?) वीक्षमाणा रणाय।
वाणज्वालालीढकाया… …..यो669 वा वैरिपक्षं विधत्से॥८२॥

बान्धव670प्रपर्दिनी सेना तुरङ्गयोगेन671.…………………….. वरा।
तव समुद्रा भामिवत्येव वृक्षान्निवारी….672………………….॥८३॥

** स्तोः श्चुना श्चुः॥४०॥ ष्टुना ष्टुः॥४१॥**

ततः शुभां भूपतितश्चुताघः क्ष्मामा……. श्छाचित673पूर्वमन्युः।
मुनिर्ययासुस्तनयेन सार्धं पूजामवापाहितचित्ततोषाम्॥८४॥

‘………………ताप’……………….मण्डल…………….।
…………………………………नं दशास्यान्तिकम्॥ ८५ ॥

पुष्पकं दृश्यते स्मागतं विस्मितैः…………………..।
………………………………………………………॥८६॥

** न पदान्ताट्टोरनाम्॥४२॥ तोः षि॥४३॥ शात्॥४४॥**

गगनलिट् स’ ……….लिहाभ्यन्तरमम्बरम्।
कुतूहलप्रश्नपरावलो……………………….॥ ८७ ॥

** यरोऽनुनासिकेऽनुनासिको वा॥४५॥**

‘………………………….तामुष्य वाङ्नेत्रविलङ्घिगोचरम्।
सरोजलिङ्गाद674महो हर (?) स्वरंसदा सवाङ्नेत्र675वधूजनालयम्॥ ८८ ॥

** अचो रहाभ्यां द्वे॥४६॥ अनचि च॥४७॥ नादिन्याक्रोशे पुत्रस्य॥४८॥ शरोऽचि ॥४९॥ त्रिप्रभृतिषु शाकटायनस्य॥५०॥ सर्वत्र शाकल्यस्य॥५१॥ दीर्घादाचार्याणाम्॥५२॥ झलां जश् झशि॥५३॥**

भयं यतश्चक्रतुर676र्कचन्द्रौ स………….ता रजनीचरेशः ।
वोद्धापि युद्धस्य धनाधिपो यं नालब्ध लब्धाखिलवित्तराशिः॥८९॥

** अभ्यासे चर्च॥५४॥ खरि च॥५५॥ वाऽवसाने॥५६॥**

जिघत्सुभिर्लोकमुपासितं …..बुभुत्सुभिर्देवगणैर्विवर्जितम्।
दशाननस्यान्तिकमारुरुक्षतस्तदा डुढौके गगनेन पुष्पकम्॥९०॥

पिफलिषुरिव पादपः…………………………………।
……. दशास्यं जिजनिषुरस्य ………………………..॥ ९१ ॥

** अनुस्वारस्य ययि परसवर्णः॥५८॥ वा पदान्तस्य॥५९॥ तोर्लि॥६०॥ उदः स्थास्तम्भोः पूर्वस्य॥६१॥ झयो होऽन्यतरस्याम्॥६२॥**

परेषां यस्य विभुर्न शङ्कि…………………..।
………….सद्धरिणा यत्नलब्धं विलसद्धंसमितोल्लसत्पताकम्॥

** शश्छोऽटि॥६३॥ हलो यमां यमि लोपः॥६१॥ झरो झरि सवर्णे॥६५॥**

…..ञ्छोधिता युधभुजे नराधिपे नम्रदो …. तभुजः परिरब्धमुक्तः
तत्पुष्पकं प्रहततूर्यगभीरघोषमारोहदाशु गुरुणा सह राक्षसेन्द्रः॥९॥

सम्राट्च्छ्रियं समुपेयु……जवेन मालावलीनमधुलिटूछ्रुतिनिर्भरेण
आदित्यमार्गपतितेन स पुष्पकेण शय्याप्ररूढगुरुणा प्रययौ दशास्

इत्यर्जुनरावणीये महाकाव्ये सप्तविंशः सर्गः॥२७॥

समाप्तं चेदं रावणार्जुनीयं महाकाव्यम्।

कृतिस्तत्रभवतो महाप्रभावश्रीशारदादेशान्तर्वर्तिवल्लभीस्थाननिवा भूमभट्टस्येति शुभम्। वल्लभीस्थानं उडू इति ग्रामो वराहमूलोपक स्थितः॥

]


  1. “युद्धकथावर्णनात्मकत्वेन काव्यत्वम्, क्रमेण सूत्रोदाहरणात्मकतया काशिकादिवच्छास्त्रत्वमपि।” ↩︎

  2. " अष्टाध्याय्यन्तर्गतसकलसूत्राणां लौकिकप्रयोगसाधारणानामुदाहरणतया चिकीर्षितेऽस्मिन्महाकाव्ये ‘गाङ्कुटादिभ्यः’ इत्यत आरभ्यैव सर्गारम्भः प्रथमपादेऽप्रत्याख्यातसूत्राणां साक्षाल्लक्ष्यसंस्कारकत्वाभावेनानावश्यकत्वात्।" ↩︎

  3. “कुटादिश्च तुदाद्यन्तर्गणः।” ↩︎

  4. " ‘बोद्धु’ ख।" ↩︎

  5. “‘मुमुषिषां च’ इत्येव पाठः प्रतीयते, ‘मुष’ धातोः परस्य सनोऽप्युदाह्रियमाणत्वात्।” ↩︎

  6. “‘अकृत’ इति सिच्युदाहरणम्। एवं च ‘अकृतोर्वी रसवित्तवाक्यम्(? ↩︎

  7. “‘सेधित्वा’ इति पाठो भवेत्, कित्त्वनिषेधफलस्योदाह्रियमाणत्वात्।” ↩︎

  8. " पुस्तकद्वयेऽपि ‘संक्षोभितं’ इति पाठसत्वेऽपि सूत्रोदाहरणतया ‘संधर्षितं’ इति पाठः कल्पितः।” ↩︎

  9. " ‘कोपो’ इति भवेत्।" ↩︎

  10. “‘शतमागसां’ इति पाठो भवेत्।” ↩︎

  11. “‘यो युद्धाय’ इति भवेत्।” ↩︎

  12. “अत्र‘ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१।२।२७ ↩︎

  13. “‘प्रावृषिक–’ इति पूर्वार्धे छन्दश्चिन्त्यम्। अर्थोऽप्यस्फुटः। केवलम् ‘आमलक’ इति पदं तु ‘लुक्तद्धितलुकि’ इति सूत्रोदाहरणतया भवेत्।” ↩︎

  14. “‘निर्वृत्ता’ क।” ↩︎

  15. " ‘शाली’ ख।” ↩︎

  16. “पूर्वार्धोत्तरार्धव्यत्यासेन पाठः सुगमः।” ↩︎

  17. “‘व्योमनीवाव’ इति पाठो भवेत्।” ↩︎

  18. " ‘मन्द’ इति भवेत्।" ↩︎

  19. “‘संपपृच्छे’ इत्यत्र पकारोत्तराकारस्य गुरुत्ववारणाय शास्त्राप्राप्तमपि संप्रसारणं ‘पृ’ इत्यत्र कृतम् इति पुस्तकद्वयेऽप्युपलब्धम्। तथापि प्रशब्दे परतः ‘गृहीतप्रत्युद्गमनीयवस्त्रा’ इत्यादौ लघुतायाः स्वीकारेण शास्त्रसिद्धं संप्रसारणरहितमेव रूपं कविना प्रयुक्तमिति प्रतीयते।” ↩︎

  20. “‘पुरानुवानामिव’ इति भवेत्।” ↩︎

  21. “‘प्रपा’ इति भवेत्।” ↩︎

  22. “‘इतीव नादाः’ इति भवेत्।” ↩︎

  23. “अयं श्लोकः ‘निरीक्ष्य नेत्रोत्सव’ (२।२० ↩︎

  24. “‘निजे’ इति सप्तम्यन्तपाठो भवेत्।” ↩︎

  25. “अस्योदाहरणपद्यं नोपलभ्यते।” ↩︎

  26. “मकारोऽधिकः प्रक्षिप्तः।” ↩︎

  27. “‘विशीयमाना’ इति भवेत्। ‘शदेः शितः’इत्यस्योदाहरणसंभवात्।” ↩︎

  28. “‘न्यविविक्षतास्य’इति तूचितम्।” ↩︎ ↩︎

  29. “‘गजा नरेन्द्रैः’इति भवेत्।” ↩︎

  30. “अत्रापि छन्दश्चिन्त्यम्। पाठस्तु पुस्तकद्वयेऽपि समान एव।” ↩︎

  31. “‘नासयति’इति पाठो भवेत्, ‘नोपवेशयति’इत्यर्थसंभवात्।” ↩︎

  32. “‘नति’ख।” ↩︎

  33. “‘अनुकर्तृभिः’इति पाठो भवेत्।” ↩︎

  34. “‘नृपप्रतीक्षया’इति भवेत्।” ↩︎

  35. “‘विनयं नृपानिव’इति विभागः.” ↩︎

  36. “‘विनयं नृपानिव’इति विभागः।” ↩︎

  37. “‘राज्ञा’इत्यस्यैवार्थवशाद्विभक्तिविपरिणामेन प्रथमान्तत्वं विधाय कर्तृत्वेनान्वयो बोध्यः।” ↩︎

  38. “काशिकायांसाक्षात्प्रभृतिषु ‘अग्नौ’इत्युपलभ्यते।” ↩︎

  39. “‘अयम्’इति पाठो भवेत्।” ↩︎

  40. “‘अयम्’इति पाठो भवेत्, " ↩︎

  41. “‘व्रजाच्च यः स्यात्’ इति भवेत्।” ↩︎

  42. “‘यच्छति’ इति स्यात्।” ↩︎

  43. “‘सिक्तां’ इति स्यात्।” ↩︎

  44. “‘मपेतमण्डलम्’ख।” ↩︎

  45. “‘संसृष्ट’ख।” ↩︎

  46. “‘दुराप इत्यर्जुनमित्यवापे’ख।” ↩︎

  47. “एतदुदाहरणपद्यं नोपलब्धम्। कदाचित्त्रुटितं भवेत्।” ↩︎

  48. “‘अपपरि–’इति सूत्रोदाहरणतया ‘परीन्द्रभूत्राण–’इति पाठः प्रतिभाति।” ↩︎

  49. " ‘अपपरि-’इति सूत्रोदाहरणतया ‘परीन्द्रभूत्राण-’इति पाठः प्रतिभाति.” ↩︎

  50. “‘सक्तम्’ख।” ↩︎

  51. “एतदुदाहरणपद्यमपि नोपलभ्यते।” ↩︎

  52. “‘नुमन्य’ख।” ↩︎

  53. “एतदुदाहरणं १७ संख्याके श्लोके।” ↩︎

  54. “अत्यस्तोदाहरणतया ‘वधूमुखात्यस्त’इति पाठः साधीयान्।” ↩︎

  55. “‘ऊनार्थस्योदाह्रीयमाणत्वाज्झषोन’इति भवेत्।” ↩︎

  56. “‘शङ्कयेतं’ख।” ↩︎

  57. “‘रेणूच्चयापोढ’इति प्रतीयते।” ↩︎

  58. “‘युक्तानि’ख।” ↩︎

  59. “सूत्रे ‘अपत्रस्त’इत्यत्रोपसर्गोऽविवक्षितः। यद्वा ‘मृगादपत्रस्त’ इति भवेत्।” ↩︎

  60. “‘पापं’क।” ↩︎

  61. “‘नष्टानता’ख।” ↩︎

  62. “‘सहस्रभुजीकः’इति भवेत्।” ↩︎

  63. “‘नरव्याघ्र’इति पाठः प्रतीयते।” ↩︎

  64. “‘जघन्यसेकं सलिलेन लम्भिता’इति पठनीयम्।” ↩︎

  65. “श्रेणीशब्दो दीर्घान्तोऽपि।” ↩︎

  66. “‘भृत्यनागा’इति पठनीयम्।” ↩︎

  67. “‘नरकुञ्जरा’इति भवेत्।” ↩︎

  68. “‘सहसेभपोटा’ इति भवेत्।” ↩︎

  69. “‘धूर्तशब्दोऽकुत्सार्थः’इति काशिका।” ↩︎

  70. “‘तिमिकतिपय’इति पठनीयम्।” ↩︎

  71. “‘हंसप्रवक्तृस्तनितं नु बद्ध्वा’इति पठनीयम्।” ↩︎

  72. “‘रशना’इति पठनीयम्।” ↩︎

  73. “‘कुमारतापस्युपसेव्यमाना’इति पाठः प्रतीयते।” ↩︎

  74. “‘सुचिर’ख।” ↩︎

  75. “‘कान्तिम्’इति भवेत्।” ↩︎

  76. “‘रुदन्तौ’ख।” ↩︎

  77. “‘सूत्रस्थतुर्यशब्दस्तुरीयशब्दस्याप्युपलक्षणम्’इति काशिका।” ↩︎

  78. “‘जगदुः’ख।” ↩︎

  79. “‘विधिर्न’इति पाठः प्रतीयते।” ↩︎

  80. “‘मता’ख।” ↩︎

  81. “‘वासनेयं’ख।” ↩︎

  82. “‘ग्रे गणं’ख।” ↩︎

  83. “कडारादिगणे तु गौरशब्द उपलभ्यते। चारुशब्दो नष्टो भवेत्।” ↩︎

  84. “‘तथान्तरा’ इति पाठः प्रतीयते।” ↩︎

  85. “‘विच’ख।” ↩︎

  86. “‘समुच्छलच्छीक’क।” ↩︎

  87. “‘मध्ये’क।” ↩︎

  88. “‘सहान्या’ख।” ↩︎

  89. “‘तृणाय’इति भवेत्।” ↩︎

  90. “‘सा’ इति पाठः प्रतीयते।” ↩︎

  91. “‘स्ते’ इति भवेत्।” ↩︎

  92. “‘खिन्न’ क।” ↩︎

  93. “‘शीतभासाम्’ इति भवेत्।” ↩︎

  94. “‘आयुक्तमेतं मधुन–’ इति भवेत्।” ↩︎

  95. “‘ग’ ख।” ↩︎ ↩︎

  96. “‘पायसमत्सि यात्री’ इति भवेत्, ‘पुष्येण पायसमश्नीयात्’ इति काशिकायायामुदाहृतत्वात्।” ↩︎

  97. “एतत्सूत्रोदाहरणपद्यं नोपलभ्यते।” ↩︎

  98. “‘निप्रहण इति संघातविगृहीतविपर्यस्तग्रहणम्’ इति काशिका।” ↩︎

  99. “एतत्सूत्रोदाहरणं स्वयमूहनीयम्।” ↩︎

  100. “‘निशीथभासः’ इति पाठो भवेत्, ‘निशीथस्तु रात्रिमात्रार्धरात्रयोः’ इति हैमे ‘निशीथ’शब्दस्य रात्रिमात्रवाचकत्वस्य दृष्टत्वात्।” ↩︎

  101. “‘उद्ध्यैरावतीषूत्तीर्य’ इति भवेत्।” ↩︎

  102. “द्वितीयपुस्तकेऽप्येवमेव। न ज्ञायते कति श्लोकाअत्र त्रुटिता इति।” ↩︎

  103. “इतः प्राक् लौकिकोदाहरणानि सूत्राण्यपि नोदाहृतानि, अतो न ज्ञायते ग्रन्थकर्त्रैव न निर्मितानि पश्चात्त्रुटितानि वा।” ↩︎

  104. “‘इत्यर्जुनरावणीये’ ख।” ↩︎

  105. “‘पयस्यमानलावण्यां वीच्या’ इति भवेत्।” ↩︎

  106. “‘संचीवरणानुषक्तम्’ इति पाठो भवेत्, णिङन्ताद्युचो नित्यत्वात्।” ↩︎

  107. “‘मुक्तप्रवा’ इति भवेत्।” ↩︎

  108. “‘वीथीर्वणि’ इति भवेत्।” ↩︎

  109. “‘ताम्’ इति भवेत्।” ↩︎

  110. “‘द्युधि’ क।” ↩︎

  111. “‘माजौ’ ख।” ↩︎

  112. “‘ततं’ इति भवेत्।” ↩︎

  113. “‘नेव’ इति भवेत्।” ↩︎

  114. “‘मयि’ ख।” ↩︎

  115. “‘शुकोऽपि’ इति भवेत्।” ↩︎

  116. “‘स वार्तितुं’ इति भवेत्।” ↩︎

  117. “‘क्र’ क।” ↩︎ ↩︎

  118. “‘ममिक्षद्ग’ इति भवेत्।” ↩︎

  119. “‘स्वादून्नदन्या’ इति भवेत्।” ↩︎

  120. “‘वारणः’ ख।” ↩︎

  121. “‘त्रसति’ इति भवेत्।” ↩︎

  122. “‘मनुजोऽन्यलष’ इति भवेत्।” ↩︎

  123. “‘सदृशा’ ख।” ↩︎

  124. “किंचिदत्र त्रुटितं भवेत्। पुस्तकद्वयेऽपि त्रुटिचिह्नं नास्ति।” ↩︎

  125. “‘यातीवानु’ इति भवेत्।” ↩︎

  126. “‘नी’ ख।” ↩︎

  127. “‘जेतुश्च’ इति पुस्तकद्वयेऽपि पाठः।” ↩︎ ↩︎

  128. “‘अतिवर्तितुम्’ इति भवेत्।” ↩︎

  129. “‘नादेयमम्भः’ इति पाठे‘नादेयमम्भ उपस्पृश्यांहः परिमृज्यं संप्रति वाञ्छति’ इति व्याख्या भवेत्।” ↩︎

  130. “‘मार्ग्य’ इति पाठे बाहुलकाद्भावे ण्यत्कल्प्यः।” ↩︎

  131. “‘सस्य’ इति भवेत्।” ↩︎

  132. “‘तोयैधितसत्प्रवाहाम्’ इति भवेत्।” ↩︎

  133. “‘जलस्यो’ इति स्यात्।” ↩︎

  134. “‘मुद्धयो’ स्यात्।” ↩︎

  135. “‘मुद्धमो’ स्यात्।” ↩︎

  136. “‘षु भू’ ख।” ↩︎

  137. “‘दधो’ इति भवेत्।” ↩︎

  138. “‘पूजार्हत–’ इति भवेत्।” ↩︎

  139. “‘सर’ इति भवेत्।” ↩︎

  140. “‘तव’ इति भवेत्।” ↩︎

  141. “‘सुखे’ ख।” ↩︎

  142. “‘तेनेहेयं ह’ इति भवेत्।” ↩︎

  143. “‘ह’ इति भवेत्।” ↩︎

  144. “‘पुरामराः’ ख।” ↩︎

  145. “‘महितं’ इति भवेत्।” ↩︎

  146. “‘रोद्धा’ इति भवेत्।” ↩︎

  147. “‘कम्र’ इति भवेत्।” ↩︎

  148. “‘त्यर्थं’ ख।” ↩︎

  149. “‘भास्वरेण’ इति भवेत्।” ↩︎

  150. “‘रिपवो’ ख।” ↩︎

  151. “‘संमतम्’ इति भवेत्।” ↩︎

  152. “‘युध्यामहे’ इति भवेत्।” ↩︎

  153. “‘निचाय’ इति भवेत्।” ↩︎

  154. “‘संराव’ इति भवेत्।” ↩︎

  155. “‘संयावमङ्गे’ स्यात्।” ↩︎

  156. “‘वन्तः’ स्यात्।” ↩︎

  157. “‘निग्राहमेनं विनिरास्य लक्ष्मीप्रग्राहचेता’ इति पठनीयम्।” ↩︎

  158. “‘सोपसरां’ स्यात्।” ↩︎

  159. “‘पुलिन्द’ स्यात्।” ↩︎

  160. “‘प्रभुमाद’ स्यात्।” ↩︎

  161. “‘परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्’ इति वार्तिकमपि स्मर्तव्यम्।” ↩︎

  162. “अत्र श्लोके पुस्तकद्वयेऽपि समान एव पाठः समुपलभ्यते।” ↩︎

  163. “‘छिंदां’ स्यात्।” ↩︎

  164. “‘सर्व’ स्यात्।” ↩︎

  165. “‘यत्रा’ स्यात्।” ↩︎

  166. “‘दरिद्रतायाश्च’ स्यात्।” ↩︎

  167. “‘सुजयं’ स्यात्।” ↩︎

  168. “श्लोकोऽयमादर्शपुस्तकयोः ‘यो दुर्जयो–’ इत्यतः प्रागुपलम्भेन ४३ संख्याकवेनोपलब्धोऽपि सूत्रवार्तिकक्रमेण पश्चाद्रक्षितः।” ↩︎

  169. “‘रम्यता’ स्यात्।” ↩︎

  170. “‘मन्त्वा’ ख।” ↩︎

  171. “‘स्त्राणे पितृ’ ख।” ↩︎

  172. “श्लोकस्यैवार्थश्चिन्त्यः।” ↩︎

  173. “‘न्न्याय्यम्’ स्यात्।” ↩︎

  174. “‘चित्ताः’ स्यात्।” ↩︎

  175. “‘र्दशास्य’ स्यात्।” ↩︎

  176. “‘नयेर्न’ स्यात्।” ↩︎

  177. “‘त्स्म’ स्यात्।” ↩︎

  178. “‘सहा’ स्यात्।” ↩︎

  179. “‘शक्तः’ स्यात्।” ↩︎

  180. “‘विजेयः’ स्यात्।” ↩︎

  181. “‘ढमपमित्येव’ स्यात्।” ↩︎

  182. “‘विप्रवेदं’ स्यात्।” ↩︎

  183. “‘गोष्पदप्रं’ स्यात्।” ↩︎

  184. “‘यातम्’ स्यात्।” ↩︎

  185. “‘हन्ता’ इति, ‘हत्वा’ इति वा स्यात्।” ↩︎

  186. “‘समूलघातं’ स्यात्।” ↩︎

  187. “‘हस्त–’ स्यात्।” ↩︎

  188. “‘गृहीता’ स्यात्।” ↩︎

  189. “‘येऽमुना कुर्वते’ स्यात्।” ↩︎

  190. “‘क्रियते’ ख।” ↩︎

  191. “‘ते’ स्यात्।” ↩︎

  192. “‘माददावे(त्ये ↩︎

  193. “‘प्रपादं’ स्यात्।” ↩︎

  194. “‘त्र्यहतर्षं’ स्यात्।” ↩︎

  195. “‘स्तारकं’ ख।” ↩︎

  196. “‘तार’ इति स्यात्।” ↩︎

  197. “‘भूपेण’ ख। ‘भूपेन’ स्यात्।” ↩︎

  198. “‘भ्रातरं स्यात्।” ↩︎

  199. “‘भ्रात्रा’ स्यात्।” ↩︎ ↩︎

  200. “‘चक्रमु’ स्यात्।” ↩︎

  201. “‘ता’ स्यात्।” ↩︎

  202. “‘उपा’ स्यात्।” ↩︎

  203. “‘भक्षे’ इति भवेत्।” ↩︎

  204. “‘त्वाक्षिकीं’ इति भवेत्.” ↩︎

  205. “‘योद्धा’ इति भवेत्।” ↩︎

  206. “‘दशाश्वाम्’ इति भवेत्।” ↩︎

  207. “सूत्रत्रयी नोदाहृता छन्दोविषयत्वात्।” ↩︎

  208. “‘नागी’ इति भवेत्।” ↩︎

  209. “‘षट्वानिना’ ख; ‘पदातिना’ इति भवेत्.” ↩︎

  210. " ‘अजीघत’ इति स्यात्.” ↩︎

  211. " ’ तिलोदरीम्’ इति भवेत्.” ↩︎

  212. " तिलोद’ इति भवेत" ↩︎

  213. " ‘धरौष्ठा’ इति भवेत्." ↩︎

  214. “‘यान्तं’ इति भवेत्.” ↩︎

  215. " ‘णखेव’ इति भवेत्," ↩︎

  216. “‘नारी’ इति भवेत्.” ↩︎

  217. " अत्र बहूनि सूत्राणि नोदाहृतानि, तत्र न ज्ञायते ग्रन्थकृतैव नोदाहृतानि; उदाहरणश्लोका वा त्रुटिता इति," ↩︎

  218. " ‘कान्ताः’ इति भवेत्. " ↩︎

  219. " ‘पतक्रमेण’ इति भवेत्. " ↩︎

  220. " ‘तद्भूपसैन्यं’ इति भवेत्." ↩︎

  221. “‘भौपत्य’ इति भवेत्. " ↩︎

  222. " ‘माहाकुलीनो’ इति भवेत् " ↩︎

  223. " ‘माहाकुल’ इति भवेत्” ↩︎

  224. “‘वृत्ति’ इति भवेत्” ↩︎

  225. " ’ शाङ्खयायन’ इति भवेत्. गर्गादिगणे शङ्खस्य तालव्यादेरेव दर्शनात् " ↩︎

  226. " ‘वृद्धाठ्ठक् सौवीरेषु-( ४।१।१४८ ↩︎

  227. “‘शाकलिकान्’ इति भवेत्” ↩︎

  228. “‘भृतः’ इति भवेत्” ↩︎

  229. “‘ममामरस्त्री मामुं ग्रही’ इति भवेत्.” ↩︎

  230. " ‘महेन्द्रियं’ इति भवेत्. " ↩︎

  231. “‘यानुनेयो’ इति भवेत्” ↩︎

  232. " ‘केदारके’ इति भवेत्." ↩︎

  233. " ‘कैदार्य’ इति भवेत्. " ↩︎

  234. “‘दण्डाम्’ इति भवेत् .” ↩︎

  235. “ग्रैवेयकायाभरणविशेषाय पारितोषिकतया राजदत्तस्य ग्रहणायेति यावत् उरुर्महान्यो ध्वनिस्तेन पूरिता आशा यैस्तानित्यर्थो वोध्यः” ↩︎

  236. " ‘दमात्येन’ इति भवेत् " ↩︎

  237. “‘पान्थविको’ ख. ‘मान्थविको’ इति भवेत् ‘वाहीकमामेभ्यश्च’ (४/२/११७ ↩︎

  238. “‘यौष्माकीणम्’ इति भवेत्” ↩︎

  239. " स्मृत्वा’ इति भवेत् " ↩︎

  240. " ‘अवरार्ध्येव’ इति भवेत्” ↩︎

  241. " ‘पाश्वार्धिकं’ इति भवेत्." ↩︎

  242. " ‘शारदिकेन’ इति भवेत्" ↩︎

  243. “‘प्रादोषिकं’ इति भवेत्.” ↩︎

  244. “‘पूर्वाह्ने’स्यात्.” ↩︎

  245. " ‘मौपनीविकमे’ इति भवेत् " ↩︎

  246. “‘स्माकान्’ इति भवेत्” ↩︎

  247. " ‘रणुभिः’ ख." ↩︎

  248. " ‘पूरयेत्’ ख; ‘पूरयेन्मनसा’ क" ↩︎

  249. " ‘रक्तमौप’ भवेत्." ↩︎

  250. " ‘दार्तेयानि’ भवेत्. " ↩︎

  251. " ‘द्विपां पारिहण’ स्यात्." ↩︎

  252. “‘तस्यान्तर्वेश्मिकं’ स्यात्.” ↩︎

  253. " ‘पारिग्रामिक’ स्यात्" ↩︎

  254. “लापीर्मा’ स्यात्.” ↩︎

  255. “‘माकरिक’ स्यात्” ↩︎

  256. “‘शौण्डिकादि’ स्यात्” ↩︎

  257. " ‘नौष्ट्ररथे’ स्यात्" ↩︎

  258. “‘नियुक्त’ स्यात्.” ↩︎

  259. “‘पुरा’ स्यात्.” ↩︎

  260. “‘शाष्कुलिका’ इति प्राप्नोति” ↩︎

  261. “‘भूषणान्’ स्यात्” ↩︎

  262. “‘गतायां’ स्यात्.” ↩︎

  263. " ‘स्वसु’ स्यात्." ↩︎

  264. " ‘शाक्तीका’ स्यात्" ↩︎

  265. “पारेय’ खः ‘पदिक’ स्यात्. " ↩︎

  266. “‘भृत्या’ ‘पृथ्वी’ वा स्यात् :” ↩︎

  267. “‘पणवान्पाणि’ स्यात्.” ↩︎

  268. " ‘पाणविका जनाः’ स्यात्.” ↩︎

  269. “‘जवेनौज’ स्यात्.” ↩︎

  270. " ‘मुखिकः’ स्यात्" ↩︎

  271. “‘आधर्मिकेण’ स्यात्” ↩︎

  272. " ‘नु’ स्यात्." ↩︎

  273. " ‘मद्यं’ स्यात्. " ↩︎

  274. " ‘कूर्दन्तो’ स्यात्. " ↩︎

  275. “‘मासुः सर्वे’ स्यात्” ↩︎

  276. " ‘प्रातिजनीनं’ ‘स्यात्." ↩︎

  277. “‘कम्पयत्’ स्यात्” ↩︎

  278. " ‘धर्म्यं’ स्यात्" ↩︎

  279. “‘हलेनेव वि’ स्यात्” ↩︎

  280. “‘पिण्ड’ स्यात्.” ↩︎

  281. " ‘रक्षसां’ स्यात्." ↩︎

  282. " शरं जलम्, शरा वाणाश्च. " ↩︎

  283. “‘च्छात्रिका’ स्यात्.” ↩︎

  284. " ‘पत्रान्’ त्यात्." ↩︎

  285. " ‘नरान्’ स्यात्" ↩︎

  286. " ‘मुत्पात’ स्यात्." ↩︎

  287. “‘साधु’ स्यात्. " ↩︎

  288. “सांशयिकं’ स्यात्. " ↩︎

  289. “‘याथाकथा चा’ स्यात्.” ↩︎

  290. “‘सांग्राममानिन्युरुपेत्य रूपम’ स्यात्” ↩︎

  291. “मासीन’ स्यात्” ↩︎

  292. “‘कार्मुकास्ते’ स्यात्,” ↩︎

  293. " ‘सांतापिकै’ स्यात्” ↩︎

  294. “‘योग्या’ स्यात्” ↩︎

  295. “वितेनिरे’ स्यात्.” ↩︎

  296. " ‘वाणाः ’ स्यात्” ↩︎

  297. “रञ्जितांसाः ’ स्यात्” ↩︎

  298. “‘नेहाः सयौं’ स्यात्.” ↩︎

  299. “इवार्थेयं वाशब्दः.” ↩︎

  300. " ‘यवक्यभूमे’ स्यात्." ↩︎

  301. “‘पात्रीण’ स्यात्” ↩︎

  302. “‘छदाभः’ स्यात्.” ↩︎

  303. “‘ङ्गीणः’ स्यात्” ↩︎

  304. “पदीन’ स्यात्.” ↩︎

  305. “‘चमण’ स्यात्.” ↩︎

  306. “‘पौत्रीण’ स्यात्.” ↩︎

  307. “मूर्च्छां’ स्यात्.” ↩︎

  308. “‘हास्तिन’ स्यात्” ↩︎

  309. “ताव’ स्यात्” ↩︎

  310. “‘तत्पौरुष’ सत्’ स्यात्.” ↩︎

  311. “‘प्रापुस्फु’ स्यात्.” ↩︎

  312. “‘व्यगृहन्त’ स्यात्.” ↩︎

  313. “‘केऽपि चेरु’ सात्.” ↩︎

  314. “‘नुपदी’ यात्.” ↩︎

  315. “‘रोमश’ स्यात्” ↩︎

  316. " ‘वपुर्वीक्ष्य’ स्यात्" ↩︎

  317. “‘तान्’ स्यात्.” ↩︎

  318. " तुन्दिलं ’ स्यात्." ↩︎

  319. " तेषां’ स्यात्" ↩︎

  320. “‘जनताद’ स्यात्” ↩︎

  321. " ‘व्यधिता’ स्यात्" ↩︎

  322. “‘तायां’ स्यात्. " ↩︎

  323. " ‘वातायु’ स्यात्” ↩︎

  324. " ‘कन्तु’ स्यात्. " ↩︎

  325. “पक्षात्तिः’ (५।२।२५ ↩︎

  326. “‘प्रीतो’ स्यात्.” ↩︎

  327. “इतीव यान्तं’ स्यात्” ↩︎

  328. " ‘मूचु’ स्यात्.” ↩︎

  329. “‘कलहंस’ स्यात्.” ↩︎

  330. “गतो’ स्यात्.” ↩︎

  331. “स्तदं, स्तंगं’ वा स्यात्.” ↩︎

  332. “‘गमैषम’ स्यात्.” ↩︎

  333. “‘परेद्यवींवाद्य’ स्यात्.” ↩︎

  334. “‘चावरतः’ स्यात्.” ↩︎

  335. “‘दक्षिणात्’ स्यात्.” ↩︎

  336. " ‘णैक्ष्यत’ स्यात्" ↩︎

  337. “अन्धकारनैविड्यं विवक्षितम्” ↩︎

  338. “‘नामेदाच्च’ स्यात्.” ↩︎

  339. “‘राक्षसस्वरितमाप मन्दिरम्’ स्यात्” ↩︎

  340. " ‘भवनान्मनः’ स्यात्." ↩︎

  341. “‘गमान्’ स्यात्” ↩︎

  342. “‘विदधे सजीयसीः क्रमेण ता दर्शनवद्धसंमदाः’ स्यात्” ↩︎

  343. “‘साथिष्ट’ स्यात्” ↩︎

  344. “‘पेयुपि’ स्यात्.” ↩︎

  345. " ‘समरात्’ स्यात्." ↩︎

  346. “द्विपदिकामुदया’ स्यात्.” ↩︎

  347. “‘वायाति’ त्यात्. " ↩︎

  348. " ‘प्रयाहि’ स्यात्” ↩︎

  349. “‘उद्योतयामास’ स्यात्.” ↩︎

  350. " ‘स्याद’ स्यात् " ↩︎ ↩︎

  351. “‘साद्येति’ स्यात्.” ↩︎

  352. " ‘वितामसीभूतधरान्तराले’ स्यात्. " ↩︎

  353. " ‘आशून्मनीभूत्’ स्यात्." ↩︎

  354. “‘क्वापि’ स्यात्.” ↩︎

  355. “न्स्वा’ ख- पुस्तके शोधितम् .” ↩︎

  356. " ‘प्रियोऽपुरुत्राकृत’ स्यात्" ↩︎

  357. “‘सत्या’ स्यात्.” ↩︎

  358. “अव्यासिता’ स्यात्.” ↩︎

  359. “‘हस्त्युरसं’ स्यात्.” ↩︎

  360. “‘विभिन्दतो’ स्यात्.” ↩︎

  361. “लोकनिबद्ध’ स्यात्.” ↩︎

  362. " ‘मेत्याभिधृता’ स्यात्." ↩︎

  363. " ‘स्वर्गराज’ स्यात्. " ↩︎

  364. “वहु’ क.” ↩︎

  365. “‘दारू’ स्यात्.” ↩︎

  366. “‘नाहुः’ स्यात्.” ↩︎

  367. “मूर्धो’ स्यात्.” ↩︎ ↩︎

  368. " ‘पचर्मा’ स्यात्." ↩︎

  369. “‘तदङ्ग’ स्यात्.” ↩︎

  370. " ‘रहिता’ स्यात्." ↩︎

  371. “सुप्रजा’ स्यात्” ↩︎

  372. “‘जसे’ ख.” ↩︎

  373. " ‘देव’ स्यात्. " ↩︎

  374. " अस्फुटोऽयं श्लोकार्धः प्रथमे पादे नकारस्य द्वितीये दकारस्य,चतुर्थे रेफस्य द्वित्वनिषेध इत्येव प्रतीयते." ↩︎

  375. “‘न क्को’ स्यात्” ↩︎

  376. " ‘तदड्डिडिपु’ स्यात्." ↩︎

  377. “‘द्वियमाणां’ स्यात्.” ↩︎

  378. “‘शश’ स्यात्” ↩︎

  379. “‘विभ्यत्यो’ स्यात्, ‘श्लौ’ इत्यस्योदाहरणलातू” ↩︎

  380. “इतीवौच्यन्त’ स्यात्. " ↩︎

  381. “उतं’ स्यात्.” ↩︎

  382. “‘स्त्रियः’ स्यात्.” ↩︎

  383. " ‘रूयु’ स्यात्.” ↩︎

  384. " ‘तदस्य’ स्यात्. " ↩︎

  385. " ‘उशितं’ स्यात्." ↩︎

  386. “अवृश्च्यत’ स्यात्.” ↩︎

  387. “‘सुष्वाप न’स्यात्” ↩︎

  388. “‘याने’ स्यात्.” ↩︎

  389. “नसुषुप’ स्यात्. " ↩︎

  390. " ‘न्नापि विघ्नं स्यात्.” ↩︎

  391. “अयं श्लोकः ‘लिट्यभ्यासस्योभयेषाम्’ इत्यस्योदाहरणभूतः ‘पापा’ इति पूर्वश्लोकतः पूर्वंयोग्यः” ↩︎

  392. “‘विव्याध’ स्यात्” ↩︎

  393. “‘मुवाश’ स्यात्” ↩︎

  394. “नासोपुप्यन्त’ स्यात्. " ↩︎

  395. “‘निचेकीय्या’ स्यात्” ↩︎

  396. “‘शिश्वायेति’ स्यात्” ↩︎

  397. “शुशावेति’ स्यात्.” ↩︎

  398. “‘आशासित’ स्यात् " ↩︎

  399. “‘शुभ्रं’ स्यात्” ↩︎

  400. “‘शृतं’ स्यात्” ↩︎

  401. “‘पीनप्रस्तीत’ स्यात्” ↩︎

  402. " इतः प्रागेव ‘विश्वायेति (२१ ↩︎

  403. " ‘व्रण’ स्यात्.” ↩︎

  404. “‘अनपेक्ष्य’ स्यात्” ↩︎

  405. " ‘आजूहवन्नरांश्चासौ’ स्यात्.” ↩︎

  406. " ‘जोहूयमानं संप्राप्तं ’ स्यात्" ↩︎

  407. “‘जुहूपदिव’ स्यात्.” ↩︎

  408. “‘वन्दारुन’ स्यात्. " ↩︎

  409. " ‘कापयिष्य’ स्यात्.” ↩︎

  410. " ‘गारमायाते’ स्यात्." ↩︎

  411. “‘विदातरि’ स्यात्.” ↩︎

  412. “‘प्रविलाया’ स्यात्,” ↩︎

  413. " ‘सेनानीर्धनुर्विस्फारयन्मु’ स्यात्." ↩︎

  414. “‘माणेन’ स्यात्” ↩︎

  415. “‘द्रप्तारं ’ स्यात्” ↩︎

  416. “‘दप्तरिं’ स्यात्” ↩︎

  417. “‘क्ष्मापित’ स्यात्.” ↩︎

  418. “‘अजय्यस्ये’ स्यात्” ↩︎

  419. “‘सुमतो’ ख.” ↩︎

  420. " ‘पदाती’ स्यात्." ↩︎

  421. “‘लोह’ स्यात्.” ↩︎

  422. “‘शुभवक्रे चित’ स्यात्.” ↩︎

  423. “पेततु’ स्यात्.” ↩︎

  424. “‘त्मनालक्षत’ स्यात्.” ↩︎

  425. “‘प्रगेतना’ स्यात्.” ↩︎

  426. “‘एतायते’ स्यात्. " ↩︎

  427. “‘ययौ’ स्यात्” ↩︎

  428. " ‘कारिकामुक्ति’ ख. " ↩︎

  429. “‘भार्य’ स्यात्.” ↩︎

  430. " ‘परिचारिको’ स्यात्.” ↩︎

  431. “यमितः’ स्यात्” ↩︎

  432. “‘भुजंगिकल्पा’ स्यात्.” ↩︎

  433. " ‘विचिच्छिदे’ स्यात्" ↩︎

  434. " गृहिणिव्रु’ स्यात्." ↩︎

  435. “‘न्यां’ स्यात्” ↩︎

  436. “ज्यायसीं’ स्यात्” ↩︎

  437. “श्रीतरयो’ स्यात्. तत्र श्रीशव्दस्य ड्यन्तत्वं बोध्यम्.” ↩︎

  438. " ‘अहृद्य’ स्यात्." ↩︎

  439. “‘प्रणेशु स्यात्.” ↩︎

  440. “‘मतायि’ स्यात्” ↩︎

  441. “इदमादेशस्य हलन्तत्वभ्रान्तिसूचकम्.” ↩︎

  442. " इदमप्यादेशस्य हलन्तत्वभ्रान्तिसूचकम् " ↩︎

  443. “शिनो स्यात” ↩︎

  444. “‘धृतोदमन्था’ स्यात्.” ↩︎

  445. “इदं दृषदः पुंस्त्वभ्रान्त्या, तथा च ‘तुदाना’ स्यात्” ↩︎

  446. “‘कान्पयो’ स्यात्.” ↩︎

  447. " ‘नागान्वा नकुला नखाग्रभिन्नान्’ स्यात्." ↩︎

  448. “सधुरं’स्यात्.” ↩︎

  449. “‘सवयः’ त्यात्.” ↩︎

  450. " ‘सनाम’ स्यात्." ↩︎

  451. “‘सस्थान’ स्यात्.” ↩︎

  452. “‘सदृश’ स्यात्.” ↩︎

  453. " ‘स्थितम्’ ‘स्थया’ वा स्यात्" ↩︎

  454. " ‘न्यदुत्सु’ स्यात्." ↩︎

  455. “‘कान्मान’ ख-शो-धितम्. " ↩︎

  456. “‘कवोष्ण’ स्यात्” ↩︎

  457. “पुष्पकं विमानं रत्नकङ्कणं च” ↩︎

  458. " ‘क्रन्त्वा’ स्यात्.” ↩︎

  459. “‘. ‘द्यूत्वा’ स्यात्.” ↩︎

  460. “चरेशः’ स्यात्” ↩︎

  461. “‘समरस्रुवं’ स्यात्.” ↩︎

  462. " ‘ज्जूर्ति’ स्यात्. " ↩︎

  463. " ‘भरणो’ स्यात्." ↩︎

  464. " उत्तरार्धस्यास्फुटत्वम्." ↩︎

  465. “‘व्यैजदथो हिमश्रथ’ स्यात्.” ↩︎

  466. “‘स्तम्’ शोधितपाठः” ↩︎

  467. “. ‘तस्य’ स्यात्.” ↩︎

  468. " ‘द्यत्य’ स्यात्," ↩︎

  469. “‘उपरन्ति’ स्यात्.” ↩︎

  470. " ‘नभोगते’ स्यात्" ↩︎

  471. " पूर्वश्लोकेन सहायमप्यतीवास्फुटपदत्रुटिताक्षरत्वात्." ↩︎

  472. " ‘च्चिखासोः’ स्यात्." ↩︎

  473. “जायते स्वयमेव’ इति भाष्यप्रामाण्यात्कर्मकर्तरि प्रत्ययः” ↩︎

  474. " ‘भूभृतोऽपि’ स्यात्. " ↩︎

  475. " ‘अतन्यत’ स्यात्." ↩︎

  476. “‘भ्रष्टुं’ स्यात्.” ↩︎

  477. " ‘भर्ष्टु’ स्यात्." ↩︎

  478. “‘युध्यिता’ स्यात्. " ↩︎

  479. " इत आरभ्य षष्टाध्यायसमाप्तिपर्यन्तसूत्राणामुदाहरणपद्यानि त्रुटितान्यादर्शपुस्तके, अतो नैव ज्ञायते कियन्ति पद्यानि नष्टानि इति. आदर्शपुस्तके तु रिक्तमेव पत्रं रक्षितं वर्तते एवमेव, सप्तमाध्यायप्रारम्भतोऽपि ‘त्रेस्त्रयः’ (७/१/५३ ↩︎

  480. “‘नम’ इति स्यात्” ↩︎

  481. “नंष्टव्यं’ स्यात्” ↩︎

  482. “‘महोदधौ’ स्यात्. " ↩︎

  483. “‘रधितुं’ स्यात्.” ↩︎

  484. “‘प्राञ्चं’ स्यात्.” ↩︎

  485. " ‘ते’ स्यात्.” ↩︎

  486. “‘दध्नः’ स्यात्.” ↩︎

  487. “‘रण’ ख.” ↩︎

  488. " ‘विभ्रन्ति’ स्यात्.” ↩︎

  489. " ‘मूर्खयोः’ ख." ↩︎

  490. " ‘विजिगीषते’ स्यात्." ↩︎

  491. “मत्पौत्रः’ स्यात्..” ↩︎

  492. “प्य, भ्य, ध्य,’ त्यात.” ↩︎

  493. " ‘विषु सेचने’ धातुर्भवेत्. " ↩︎

  494. “‘दीन’ स्यात्.” ↩︎

  495. “‘युयूषत्य’ स्यात्.” ↩︎

  496. " ‘चकृमा’ स्यात् ; ‘चकृथा’ इति शोधितः पाठोऽपि न संम्यक्; ‘चकर्था’ इति वा स्यात्" ↩︎

  497. “‘यो’ स्यात्.” ↩︎

  498. “’ वृष्टि’ स्यात्.” ↩︎

  499. " ‘फाण्टेन’ स्यात्" ↩︎

  500. " ‘धुष्टा’ स्यात्." ↩︎

  501. “‘न्यर्ण’ स्यात्.” ↩︎

  502. “‘पूर्णं’ स्यात्.” ↩︎

  503. “संज्ञपिताः’ स्यात्.” ↩︎

  504. “‘काममभ्यान्तस्य’ स्यात्.” ↩︎

  505. “‘आखनितशङ्खादाखान्ततूर्य’ इति योग्यः पाठ आङ्पूर्वस्यैव खनतेरिड्विकल्पविधानात्.” ↩︎

  506. “‘पचासितः’ स्यात्” ↩︎

  507. " ‘विपत्केन’ स्यात्." ↩︎

  508. " ‘वारिष्टां’ स्यात्." ↩︎

  509. " ‘भा वारिष्टां’ स्यात्" ↩︎

  510. “‘तिस्तरीषु’ स्यात्.” ↩︎

  511. “‘भूयते’ स्यात्.” ↩︎

  512. " ‘मैवं’ स्यात्." ↩︎

  513. “‘द्विष्टं’ ख.” ↩︎

  514. “‘न माङ्योगे’ इति निषेधादडागमश्चिन्त्यः.” ↩︎

  515. “‘नमतनोः’ स्यात्. " ↩︎

  516. “’ संस्मृषीष्टास्तात पौत्रस्त्वं’ स्यात्.” ↩︎

  517. “. ‘नो’ स्यात्.” ↩︎

  518. " ‘दोषाश्च’ स्यात्. " ↩︎

  519. “‘धातौ’ खः ‘धोता’ स्यात् " ↩︎

  520. " ‘वुधस्येव’ स्यात्.” ↩︎

  521. " ‘निगोढा’ स्यात्. " ↩︎

  522. “प्रनंष्टव्यं’ स्यात्.” ↩︎

  523. “‘गरुत्मानिव निष्कोषिता’ स्यात्. " ↩︎

  524. " ‘सहिता’ स्यात्. " ↩︎

  525. “दिदेविषु’ `स्यात्.” ↩︎

  526. " ‘द्द्रुमं’ शोधितः पाठः” ↩︎

  527. “‘अर्दिधिषति’ स्यात्. " ↩︎

  528. “‘वेर्त्सति’ स्यात्.” ↩︎

  529. " ‘वनतं’ स्यात्” ↩︎

  530. “‘आपद्धतस्य’ स्यात्.” ↩︎

  531. “‘पुतो’ स्यात्. " ↩︎

  532. " ‘पवित’ स्यात्.” ↩︎

  533. “. ‘मेव’ स्यात्.” ↩︎

  534. " दैवादिकमषितं क्षमूं वोदितं मत्वात्रोदाहृतम्.” ↩︎

  535. “‘मेतुं’ स्यात्.” ↩︎

  536. " ‘मानादयंसीत्’ स्यात्." ↩︎

  537. " ‘यासीस्त्व’ स्यात्." ↩︎

  538. “‘निजिगरिषितुमीश्वरा न वाणीमतिविशदा’ स्यात्.” ↩︎

  539. " निर्विसर्ग एव पाठः स्यात्." ↩︎

  540. “. ‘विचिकरिषति’ स्यात्.” ↩︎

  541. “‘दर्शिता हि दिदरिपया या’ स्यात्.” ↩︎

  542. " पिंप्रच्छिष’ स्यात् " ↩︎

  543. “‘जक्षिति’ स्यात्.” ↩︎

  544. “‘ईशिपे’ स्यात्.” ↩︎

  545. “‘नेडिपे’ स्यात्” ↩︎

  546. “‘धृति’ स्यात्” ↩︎

  547. " ‘त्वत’ ‘स्यात्." ↩︎

  548. " ‘राराध्य प्रयाति’ स्यात्." ↩︎

  549. " ‘का’ स्यात्." ↩︎

  550. “‘यियासु’ स्यात्.” ↩︎

  551. “दार्घसत्रा’ स्यात्.” ↩︎

  552. “. ‘राशिः’ ख” ↩︎

  553. " ‘श्लाघि’ ख." ↩︎

  554. " ‘मन्द्रव्यालापी’ स्यात्." ↩︎

  555. “‘सुपाञ्चाल’ स्यात्.” ↩︎

  556. “‘अर्धमा’ स्यात्.” ↩︎

  557. " पूर्वेषुकाम’ स्यात्." ↩︎

  558. “‘याथा’ स्यात्, " ↩︎

  559. “प्रदायकेन’ स्यात्.” ↩︎

  560. " ‘निशायिता धार्मिकराज ’ स्यात्.” ↩︎

  561. “महास्यवच्छायित’ स्यात्.” ↩︎

  562. “‘वाजय’ स्यात्.” ↩︎

  563. “‘लीनय’ स्यात्. " ↩︎

  564. " विस्फाविता’ स्यात्.” ↩︎

  565. “‘यात्रा’ स्यात्.” ↩︎

  566. “‘धृत’ शोधितपाठः " ↩︎

  567. " प्रजिघीषया’ स्यात्” ↩︎

  568. “‘चिकीषमाणा’ स्यात्.” ↩︎

  569. “‘चोदितोऽन्यः’ स्यात्.” ↩︎

  570. “दुधान्यलि’ स्यात्. " ↩︎

  571. “अदिग्ध’ स्यात्” ↩︎

  572. “‘न्न्यधिक्षता’ स्यात्.” ↩︎

  573. “शमादित्वेऽपि श्यन्परत्वाभावान्नेदं दीर्घोदाहरणम् " ↩︎

  574. " ‘न्न्यगूढा’ स्यात्.” ↩︎

  575. " ‘दाचामदन्यः’ स्यात्. " ↩︎

  576. “‘धूर्गतेन’ शोधितपाठः” ↩︎

  577. " ‘मेद्यन्भवे’ स्यात्.” ↩︎

  578. “‘जागरकैः’, ‘जागरितैः’ वा स्यात्.” ↩︎

  579. " ‘ररोदीत्’ स्यात्." ↩︎

  580. " ‘दयितः’ ख. " ↩︎

  581. " ‘क्लमं’ ‘श्रमं’, वा स्यात्. " ↩︎

  582. " ‘आङो नास्त्रियाम्’ इत्यस्योदाहरणत्वेन विचारणीयम्." ↩︎

  583. " ‘पीतवते सुगन्धये’ शोधितपाठः" ↩︎

  584. " ‘पिवन्त्या’ स्यात्." ↩︎

  585. “एष श्लोकः ख-पुस्तके नोपलभ्यते” ↩︎

  586. " ‘मरपुरी’ शोधितपाठः." ↩︎

  587. “‘आडुढौकत्स तां’ स्यात्. " ↩︎

  588. " ‘तेजसा ’ स्यात्.” ↩︎

  589. “. ‘अपीष्यन्त’ स्यात्.” ↩︎

  590. “‘अचकर्ततरुं’ स्यात्.” ↩︎

  591. " ‘दानालाय’ ख. " ↩︎

  592. " ‘अचीकृतत्तथा’ स्यात्." ↩︎

  593. “‘विशशरुर्दूरान्नं परं ’ ख.” ↩︎

  594. " ‘विशश्रुर्यदि’ स्यात्." ↩︎

  595. “‘आबद्धमेखलाकान्या’ स्यात्.” ↩︎

  596. " ‘अवादि’ इत्युक्तौ छन्दोभङ्गापत्या ‘न्ययोद्यत’ भवेत्." ↩︎

  597. “च्वौ’शुक्लीकुरुते’ इत्युदाहृतत्वात्क्यचि ‘अश्वीयन्ति’ इति स्यात्.” ↩︎

  598. “‘द्रष्टासि पुनस्तांस्त्व’ स्यात्” ↩︎

  599. “‘विज्ञीप्सति’ स्यात्.” ↩︎

  600. " ‘कांश्चि’ स्यात्. " ↩︎

  601. “मोक्षते’ स्यात्” ↩︎

  602. " भ्रस्यमानया’ स्यात्." ↩︎

  603. “‘पंपश्यमानाः’ स्यात्.” ↩︎

  604. “‘राधात्सरसा’ स्यात्.” ↩︎

  605. “‘नववेष्ट’ स्यात्” ↩︎

  606. " ‘विवेष्टत्प्र’ स्यात्." ↩︎

  607. “‘अचचेष्ट’ स्यात्.” ↩︎

  608. " इतः पूर्वं वहवः श्लोकास्त्रुटिताः प्रतीयन्ते, वहूनां सूत्राणामुदाहरणस्यानुपलभ्यमानत्वात्. श्लोकाङ्कास्तु लेखकलिखितादर्शपुस्तकद्वयानुसारेणैव रक्षिताः." ↩︎

  609. " ‘सरो’ स्यात्." ↩︎

  610. “‘योहर्ददा’ स्यात्. " ↩︎

  611. “‘रघध्वद्भि’ स्यात्.” ↩︎

  612. “सिप्युदाहरणे कर्तृकर्मणी चिन्त्ये.” ↩︎

  613. “‘धृता धूर्भवता’ स्यात्.” ↩︎

  614. “‘मुनिं जगाद’ ख-शोधितः पाठः " ↩︎

  615. “‘संस्कार’ स्यात्. " ↩︎

  616. " ‘पुंस्पुत्र’ स्यात्..” ↩︎

  617. “शरैर्भवांश्छादयति त्रिलोकीम् स्यात्” ↩︎

  618. “‘काँस्कान्न नृँः पासि’ स्यात्.” ↩︎

  619. “‘भि स्यात्” ↩︎

  620. " ‘‘पुर≍’ स्यात्.” ↩︎

  621. " ‘नभस्कल्प’ स्यात्.” ↩︎

  622. “‘नो’ स्यात्.” ↩︎

  623. “महस्पाश स्यात्” ↩︎

  624. " ‘यश’ स्यात्" ↩︎

  625. " ‘तिरःकृ’ स्यात्." ↩︎

  626. “‘द्विःकुर्व’ स्यात्.” ↩︎

  627. “‘शने नु’ स्यात्.” ↩︎

  628. " ‘हेमाचलो’ स्यात्." ↩︎

  629. " ‘जक्षु’ स्यात्." ↩︎

  630. “‘सिषञ्जिषति’ ख- शोधितः पाठः, परंतु ‘सिसञ्जिषति’ स्यात्.” ↩︎

  631. " येऽवाष्पणन्भीषणमारसन्तोस्यात्." ↩︎

  632. “‘व्यष्वण’ स्यात्. " ↩︎

  633. “‘पर्यषहन्त’ स्यात्. " ↩︎

  634. “‘पर्यष्कृथा’ स्यात्.” ↩︎

  635. “‘विष्कन्तरि’ स्यात्.” ↩︎

  636. “‘खेस्क’स्यात्.” ↩︎

  637. " ‘यत्प्रोषीढ्वं’ स्यात्.” ↩︎

  638. “’ संपन्निशायां’ ख-शोधितः पाठः. ‘स पुंनिशायां’ स्यात्.” ↩︎

  639. “‘अम्बष्ठ………..वीक्ष्य’ स्यात्, " ↩︎

  640. " ‘सविष्टरां वेदचतुष्टयीं’ स्यात्. " ↩︎

  641. “‘राज’ ख. ‘राजिसात्क्रियो’ स्यात्.” ↩︎

  642. " ‘प्रत्यसेध’ स्यात् " ↩︎

  643. “‘नाभिजनोन्नतस्य’ स्यात्.” ↩︎

  644. “‘पिताभ्यतस्तम्भदुपागतस्यं’ स्यात्.” ↩︎

  645. “‘प्रतिस्तब्धतनू’ स्यात्.” ↩︎

  646. “‘मभ्यसीषहत्’ स्यात्. " ↩︎

  647. “अत्र न जाने किंयान्पाठस्त्रुटितः तत्रैव षड्विंशसर्गसमाप्तिलेस्त्रुटितः भवेत्. तदज्ञात्वैव लेखकेनन जाने केन स्वप्रतिभाभारसूचकाः- श्लोकाङ्काः षड्विंशसर्गप्रारब्धा एव रक्षिताः” ↩︎

  648. " ‘शोभां स्यात्.” ↩︎

  649. “‘महर्द्धी’ ख.” ↩︎

  650. “‘करीरवणेन’ स्यात्.” ↩︎

  651. ““शरवाहणं’ स्यात्. " ↩︎

  652. " ‘गन्धारा’ स्यात्.” ↩︎

  653. " ‘पाण’ स्यात्.” ↩︎ ↩︎

  654. “‘वारिपाण’ स्यात्.” ↩︎

  655. " अत्र त्रुटिचिह्नादर्शनेऽपि त्रुटिर्दर्शिता.” ↩︎

  656. “‘प्रणिशास्यति’ स्यात्.” ↩︎

  657. “‘वपति’ स्यात्.” ↩︎

  658. " ‘प्रनिगच्छतु’ स्यात्." ↩︎

  659. “‘प्राणिणिषत्सदा’ स्यात्” ↩︎

  660. “‘कृत्वान्येन’ स्यात्” ↩︎

  661. “‘ममा’ ख.” ↩︎

  662. “‘प्रहन्मः’स्यात्॰” ↩︎

  663. “‘भवन्तमापृच्छ्य दशाननोऽयं’ स्यात्.” ↩︎

  664. " ‘अप्रयापणि’शब्दस्य ‘अप्रयापनि’ शब्दस्य वा प्रयोगः स्यात्. " ↩︎

  665. “‘प्रनिक्षणं’ स्यात्.” ↩︎

  666. “‘प्रकमनं’ स्यात्” ↩︎

  667. " ‘मेवनं’ ख- शोधितम्." ↩︎

  668. " ‘सर्पिष्पानं’स्यात्," ↩︎

  669. " ‘धो वा’ ख." ↩︎

  670. “न जाने क्रियन्ति पदानि त्रुटितानि” ↩︎

  671. “चतुरङ्गयोगेन’ स्यात्.” ↩︎

  672. " ‘निवारीन्’ स्यात्" ↩︎

  673. “…..च्छायित’ ख-शोधितम्.” ↩︎

  674. " ‘ड्नाद’ स्यात्" ↩︎

  675. " ‘सुवाग्नेत्र’ स्यात्." ↩︎

  676. " ‘चक्कतुरर्क’ इति वा स्यात्." ↩︎